शब्दकल्पद्रुमः/शुकनामा

विकिस्रोतः तः
पृष्ठ ५/११४

शुकनामा, स्त्री, (शुकस्य नाम नाम यस्याः ।)

शुकजिह्वा । इति रत्नमाला ॥ शुकसंज्ञके, त्नि ॥

शुकनाशनः, पुं, (शुकं नाशयतीति । नश + णिच्

+ ल्युः ।) दद्रुघ्नः । इति राजनिर्घण्टः ॥ शुक-
नाशके, त्रि ॥

शुकनासः, पुं, (शुकस्य नासेव फलं यस्य ।)

श्योणाकवृक्षः । इत्यमरः ॥ शुकवन्नासायुक्ते, त्रि ॥

शुकपिण्डिः, स्त्री, शूकशिम्बी । इति शब्दरत्ना-

वली ॥

शुकपुच्छः, पुं, (शुकस्य पुच्छ इव ।) गन्धकः ।

इति हेमचन्द्रः ॥ शुकस्य लाङ्गुलञ्च ॥

शुकपुच्छकं, क्ली, (शुकस्य पुच्छ इव । कन् ।)

स्थौणेयम् । इति राजनिर्घ ण्टः ॥ शुकवत्पुच्छ-
युक्ते, त्रि ॥

शुकपुष्पं, क्ली, (शुकप्रियं पुष्पमस्य ।) स्थौणेयम्

इति भावप्रकाशः ॥

शुकपुष्पः, पुं, (शुकप्रियं पुष्पमस्य ।) शिरीष-

वृक्षः । इति राजनिर्घ ण्टः ॥

शुकप्रियः, पुं, (शुकस्य प्रियः ।) शिरीषवृक्षः ।

इति भावप्रकाशः ॥ शुकवल्लभे, त्रि ॥

शुकप्रिया, स्त्री, (शुकस्य प्रिया ।) जम्बूः । इति

राजनिर्घ ण्टः ॥

शुकफलः, पुं, (शुक इव फलमस्य । तद्वर्णफल-

वत्त्वात् तथात्वम् ।) अर्कवृक्षः । इति राज-
निर्घण्टः ॥

शुकवर्हं, क्ली, (शुकस्य वर्हमिव ।) गन्धद्रव्य-

विशेषः । इति शब्दरत्नावली ॥ गाँठियाला
इति भाषा ॥

शुकम्, व्य, शीघ्रम् । इति केचित् ॥

शुकवल्लभः, पुं, (शुकस्य वल्लभः प्रियः ।) दाडिमः ।

इति राजनिर्घण्टः । शुकप्रिये, त्रि ॥

शुकवाहः, पुं, (शुको वाहो वाहनं यस्य ।)

कामदेवः । इति केचित् ॥ शुकपक्षिवाहके, त्रि ॥

शुकशिम्बा, स्त्री, कपिकच्छुः । इति शब्दरत्नावली ॥

शुकशिम्बिः, स्त्री, कपिकच्छुः । इति शब्दरत्ना-

वली ॥

शुकाख्या, स्त्री, (शुकस्य आख्या आख्या यस्याः ।)

वृक्षविशेषः । शुयाठोँटी इति भाषा । तत्-
पर्य्यायः । शुकनामा २ शुकजिह्वा ३ शुका-
नना ४ । इति रत्नमाला ॥

शुकादनः, पुं, (शुकेन अद्यतेऽसौ इति । अद् +

कर्म्मणि ल्युट् ।) दाडिमः । इति शब्द-
चन्द्रिका ॥ शुकस्यादनीयद्रव्यमात्रे, त्रि ॥

शुकानना, स्त्री, (शुकस्याननमिव फलं यस्याः ।

शुकाख्यावृक्षः । इति रत्नमाला ॥ शुकतुल्य-
मुखे, त्रि ॥

शुकी, स्त्री, (शुक + ङीष् ।) कश्यपपत्नी । यथा,

“शुकी श्येनी च भाषा च सुग्रीवा शुचि-
गृध्रिका ॥”
अत्र शुचिभाषिका इत्यपि पाठः ।
“शुकी शुकानजनयदुलूकी प्रत्युलूककान् ॥”
इति गारुडे ६ अध्यायः ॥
शुकपक्षिणी च ॥

शुकोदरं, क्ली, (शुकस्योदरमिव ।) तालीश-

पत्रम् । इति राजनिर्घ ण्टः ॥ कीरजठरञ्च ॥

शुक्तं, क्ली, (शुच क्लेदे + क्तः ।) मांसम् । इति

शब्दचन्द्रिका ॥ काञ्जिकम् । इति हारावली ॥
द्रवद्रव्यविशेषः । यथा, --
“कन्दमूलफलादीनि सस्नेहलवणानि च ।
यत्तद्द्रव्येऽभिसूयन्ते तच्छुक्तमभिधीयते ॥”
अस्य गुणाः ।
“शुक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लघु ।
रूक्षं कृम्युदरानाहशोथार्शोविषकुष्ठनुत् ॥”
इति राजनिर्घण्टः ॥ * ॥
शुक्तं यन्मधुरं कालवशादम्लतां गतम् । इति
प्रायश्चित्तविवेकः ॥ तस्य भक्षणनिषेधो यथा ।
यमः ।
“अपूपाश्च करम्भाश्च धाना वटकशक्तवः ।
शाकं मांसमपूपञ्च सूपं कृशरमेव च ॥
यवागुं पायसञ्चैव यच्चान्यत् स्नेहसम्भवम् ।
सर्व्वं पर्य्युषितं भक्ष्यं शुक्तञ्च परिवर्ज्जयेत् ॥”
तत्प्रतिप्रसवो यथा । मनुः ।
“दधिभक्ष्यञ्च शुक्तेषु सर्व्वञ्च दधिसम्भवम् ॥”
इति तिथ्यादितत्त्वम् ॥
(यथा च मनुः । २ । १७७
“वर्ज्जयेन्मधुमांसञ्च गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥”
“यानि स्वभावतो मधुरादिरसानि कालवशेन
उदकवासादिना चाम्लवन्ति तानि शुक्तानि ।”
इति तट्टीकायां कुल्लूकभट्टः

शुक्तं, त्रि, (शुच् + क्तः ।) निष्ठुरम् । इति मेदिनी ॥

पूतम् । अम्लम् । इति विश्वः ॥ श्लिष्टम् ।
निर्ज्जनम् । इति शब्दरत्नावली ॥

शुक्ता, स्त्री, (शुक्त + स्त्रियां टाप् ।) चुक्रिका ।

इति शब्दरत्नावली ॥

शुक्तिः, स्त्री, (शुच् + क्तिन् ।) जलजन्तुविशेषः ।

झिनुक् इति भाषा । तत्पर्य्यायः । मुक्ता-
स्फोटः २ । इत्यमरः ॥ शुक्तिका ३ । इति
जटाधरः ॥ मुक्तिप्रसूः ४ महाशुक्तिः ५
तौतिकः ६ मौक्तिकप्रसवा ७ मौक्तिकशुक्तिः ८
मुक्तामाता ९ । अस्या गुणाः । कटुत्वम् ।
स्निग्धत्वम् । श्वासहृद्ग्रहनाशित्वम् । शूल-
प्रशमनत्वम् । रुच्यत्वम् । मधुरत्वम् । दीप-
नत्वञ्च । इति राजनिर्घ ण्टः ॥ कपालखण्डम् ।
शङ्खः । शङ्खनखः । नखी । अश्वावर्त्तः ।
अर्शोरोगः । इति मेदिनी ॥ चक्षूरोगविशेषः ।
इति हेमचन्द्रः ॥ तद्विवरणं यथा, --
“प्रस्तारिशुक्लक्षतजोऽधिमांस-
स्राग्वर्म्मसंज्ञाः खलु पञ्च रोगाः ।
स्याच्छक्तिका सार्ज्जुनपिष्टकाख्या
जालं शिराणां पिडिकाश्च तासाम् ॥
रोगा वलासग्रथितेन सार्द्ध-
मेकादशोक्ताः खलु शुक्रभागे ॥”
शुक्तिमाह ।
“श्यावाः स्युः पिशितनिभाश्च बिन्दवोऽयं
शुक्लाभाः शितनिचिताः स शुक्तिसंज्ञः ।”
श्यावा इत्यादि वर्णत्रयविकल्पो बोद्धव्यः ॥ * ॥
अथास्याश्चिकित्सा ।
“सेक आश्चोतनं पिण्डीविडालस्तपंणं तथा ।
पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् ॥”
इति कल्पविधिः ॥
तत्र सेकविधिर्यथा, --
“सेकस्तु दिवसे कार्य्यो रात्रौ चात्यन्तिके गदे ।
सेकस्तु सूक्ष्मधाराभिः सर्व्वस्मिन्नयने हितः ॥
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलम्
एरण्डदलमूलत्वक्शृतमाजं पयो हितम् ।
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १ ॥
यष्टीगैरिकसिन्धूत्थदार्व्वीतार्क्षैः समांसकैः ।
जलपिष्टैर्वहिर्लेपः सर्व्वनेत्रामयापहः ॥” २ ॥
इति भावप्रकाशः ॥ * ॥
कर्षद्वयपरिमाणम् । इति शब्दमाला ॥ चतु-
स्तोलकपरिमाणम् । तत्पर्य्यायः । अष्टमिका
२ । इति वैद्यकपरिभाषा ॥

शुक्तिका, स्त्री, (शुक्तिरेव । स्वार्थे कन् ।) मुक्ता-

स्फोटः । इति जटाधरः ॥ चुक्रिका । इति
शब्दरत्नावली ॥

शुक्तिजं, क्ली, (शुक्तेर्जायते यदिति । शुक्ति +

जन् + डः ।) मुक्ता । इति हेमचन्द्रः ॥ (यथा,
बृहत्संहितायाम् । १२ । ४ ।
“प्रचलत्तिमिशुक्तिजशङ्खचितः
सलिलेऽपहृतेऽपि पतिः सरिताम् ॥”)

शुक्तिबीजं, क्ली, (शुक्तेर्बीजमिव ।) मुक्ता । इति

त्रिकाण्डशेषः ॥

शुक्तिमान्, [त्] पुं, पर्व्वतविशेषः । यथा, --

“महेन्द्रो मलयः सह्यः शुक्तिमान् गन्धमादनः ।
बिन्ध्यश्च पारिपात्रश्च सप्तैते च कुलाचलाः ॥”
इति त्रिकाण्डशेषः ॥

शुक्रं, क्ली, (शुच क्लेदे + “ऋज्रे न्द्राग्रवज्रेति ।”

उणा० २ । २८ । इति रन्प्रत्ययेन साधु ।)
मज्जजातधातुः । तत्पर्य्यायः । पुंस्त्वम् २ रेतः ३
बीजम् ४ वीर्य्यम् ५ पौरुषम् ६ तेजः ७ इन्द्रि-
यम् ८ अन्नविकारः ९ मज्जारसः १० रोह-
णम् ११ बलम् १२ । इति राजनिर्घ ण्टः ॥
तस्योत्पत्तिर्यथा, --
“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते ।
मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भवः ॥
तस्य स्वरूपं यथा, --
“शुक्रं शोष्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् ।
गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः ॥”
जीवस्याश्रय उत्तम इति । यत आह ।
“जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः ।
वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं
क्षणात् ॥” * ॥
गर्भसंजननशुक्रस्य लक्षणं यथा, --
“स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च ।
शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभञ्च तत् ॥”
तस्य स्थानमाह ।
पृष्ठ ५/११५
“यथा पयमि सर्पिस्तु गूढश्चेक्षौ रमो यथा ।
एवं हि मकले काये शुक्रं तिष्ठति देहिनाम् ॥”
अत्र सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिः-
शुक्रयोर्लाभात् । इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रे
पु सि अतिपीडनेनेक्षुरसशुक्रयोर्लाभात् ॥ * ॥
तस्य क्षरणमार्गो यथा, --
“द्व्यङ्गले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्पधः ।
मूत्रस्रोतःपथे शुक्रं पुरुषस्य प्रवर्त्तते ॥” * ॥
अथ शुक्रस्य क्षरणकारणमाह ।
“कृत्स्रदेहस्थितं शक्रं प्रसन्नमनसस्तथा ।
स्त्रीषु व्याययुतश्चापि हर्षात्तत् संप्रवत्तते ॥”
स्त्रीषु व्याययुतः सुरतरूपं व्यायामं कुर्व्वतः ।
अन्यच्च ।
“शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि ।
शब्दसंश्रवणात् ध्यानात् संभोगाच्च प्रवर्त्तते ॥”
इति भावप्रकाशः ॥ * ॥
शुक्रक्षयकरद्रव्याणि यथा । सार्षपतैलम् १ राज-
माषः २ तिलः ३ पटोलवास्तूककाकमाचीपुन-
र्नवाशाकभिन्नसर्व्वशाकम् ४ तावदम्लद्रव्यम् ५
कारवेल्लकफलम् ६ कर्कोटकफलम् ७ वादा-
मम् ८ लिकुचम् ९ शुष्कमरिचम् १० गुड-
त्वक् ११ पिप्पलीशण्ठीभिन्नकटुरसः १२ । इति
राजवल्लभात् संगृहीतम् ॥ * ॥ अपि च ।
“वोजक्षयकरं नित्यं भक्ष्यं भोज्यञ्च पानकम् ।
वर्जयेत् क्षारशाकाद्यानत्यम्बु बहुतिक्तकम् ॥
कांस्यराजतरङ्गस्थं तोयं पानेऽप्यवर्द्धनम् ।
मूत्रान्ते मूत्रवद्बीजक्षयकारि विवर्ज्जयेत् ॥”
शुक्रवृद्धिकरजल यथा, --
“ताम्रायःस्वर्णसीसानां पात्रस्थं फलचर्म्मणोः ।
शुक्रवृद्धिकरं तोयं तत्तु पेयं प्रयत्नतः ॥”
इति कालिकापुराणे ८९ अध्यायः ॥ * ॥
शुक्रवर्द्धकद्रव्याणि यथा । पानीयम् १ विशेषतः
हैमन्तिकजलम् २ तालाम्बु ३ चन्दनादिद्रव्यानु-
लेपनम् ४ रक्तशालिधान्यम् ५ हैमन्तिकषष्टि-
कधान्यम् ६ गोधूमः ७ माषः ८ सामान्यशुष्क-
नारीचपत्रशाकम् ९ सामान्यक्लिन्नशुष्कनारीच
पत्रशाकजलम् १० कलम्बीशाकम् ११ काक-
माचीशाकम् १२ गोक्षुरशाकम् १३ मुञ्जा-
तकः १४ वार्त्ताकुः १५ विदारी १६ हस्त्या-
लुकम् १७ मध्वालुकम् १८ पक्वाम्रम् १९
दुग्धाम्रम् २० नागरङ्गम् २१ बहुवारफलम् २२
पक्वकण्टाफलम् २३ कण्टाफलास्थि २४ पक्व-
तालम् २५ पक्वकदलम् २६ चम्पककदलम् २७
द्राक्षा २८ खर्ज्जूरम् २९ धात्री ३० कुष्माण्ड-
मज्जा ३१ तावन्मत्स्याः ३२ वृहन्मत्स्यः ३३
समुद्रमत्स्यः ३४ रोहितमत्स्यः ३५ भाकूट-
मत्स्यः ३६ पाठीनमत्स्यः ३७ भेगलिमत्स्यः ३८
चित्रफलमत्स्यः २९ वाउशमत्स्यः ४० मद्गुर-
मत्स्यः ४१ वर्म्मिमत्स्यः ४२ फलीमत्स्यः ४३
चिङ्गटमत्स्यः ४४ पर्व्वतमत्स्यः ४५ एलङ्गमत्स्यः
४६ शकलीमत्स्यः ४७ चम्पकुन्दमत्स्यः ४८ प्रोष्ठी-
मत्स्यः ४९ दग्धमत्स्यः ५० सामान्यमांसम् ५१
प्रसहामांसम् ५२ भूशयामांसम् ५३ अनूप-
मांसम् ५४ जलजमांसम् ५५ जलेचरमांसम् ५६
छागमांसम् ५७ वाराहमांसम् ५८ कूर्म्म-
मांसम् ५९ तित्तिरि-६० कुलिङ्ग-६१ चट-
कानां मांसम् ६२ हंसमांसम् ६३ हंसबीजम् ६४
शुकपक्षिमांसम् ६५ मयूर-६६ शरारि-६७
मद्गु-६८ कादम्ब-६९ वलाका-७० वक-
मांसम् ७१ जीर्णमद्यम् ७२ समस्तक्षीरम् ७३
गोदुग्धम् ७४ हस्तिनीदुग्धम् ७५ तावत्क्षीर-
सन्तालिका ७६ माहिषदधि ७७ दधिसरः ७८
दधिमस्तु ७९ नवनीतम् ८० तावद्घृतम् ८१
तावदिक्षुः ८२ विशेषतः पौण्डकेक्षुः ८३ दन्त-
निष्पीडितेक्षुरसः ८४ यन्त्रनिष्पीडितेक्षुरसः ८५
अग्निपक्वे क्षुरसः ८६ इक्षुफाणितम् ८७ इक्षु-
गुडः ८८ इक्षुखण्डम् ८९ मधुरी ९० शुष्क-
पिप्पली ९१ शुण्ठी ९२ आर्द्रकम् ९३ लशु-
नम् ९४ पलाण्डुः ९५ सैन्धवम् ९६ अन्नम् ९७
सतैललवणान्वितदग्धमत्स्यः ९८ तैललवणयुक्त-
पलालवेष्टितकर्द्दमलेपिताङ्गारदग्धलवणवेशवा
रपुरस्कृतसार्द्रककटुतैलसन्तालितमत्स्यः ९९
शाकमत्स्याख्यव्यञ्जनम् १०० मांसरसः १०१
परिशुष्काख्यमांसम् १०२ घृतपूरः १०३ मधु-
मस्तकम् १०४ दुग्धफेनकः १०५ भूशय्या १०६
एरण्डमूलम् १०७ गोक्षुरः १०८ सामान्य-
वला १०९ विशेषतः पीतवला ११० अश्वगन्धा
१११ प्रसारणी ११२ माषपर्णी ११३ रुदन्ती
वृक्षः ११४ राजवृक्षफलम् ११५ शिलाजतुः
११६ । इति राजवल्लभात् सगृहीतम् ॥ * ॥
नेत्ररोगविशेषः । इति मेदिनी ॥ अस्य विवरणं
शुक्लशब्दे द्रष्टव्यम् ॥

शुक्रः, पुं, (शुच + रन् ।) ग्रहविशेषः । तत्पर्य्यायः

दैत्यगुरुः २ काव्यः ३ उशनाः ४ भार्गवः ५
कविः ६ । इत्यमरः ॥ सितः ७ आस्फुजित् ८
शतपर्व्वेशः ९ भृगुसुतः १० भृगुः ११ षोड-
शार्च्चिः १२ मघाभूः १३ श्वेतः १४ श्वेतरथः १५
इति शब्दरत्नावली ॥ षोडशांशुः १६ । इति
जटाधरः ॥ * ॥ तस्य शुक्रेति नामकारणं
यथा, --
“निकुम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ ।
युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥
महादेव वचोऽसह्यं शृणु त्वं परमाद्भूतम् ।
अविचिन्त्यमसह्यञ्च मृतानां जीवनं पुनः ॥
ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे ।
ते सर्व्वे जीविता भूयो भार्गवेणाथ विद्यया ॥
तदिदं वै महादेव महत् कर्म्म कृतं रणे ।
संजातमफलं देव शुक्रविद्याबलाश्रयात् ॥
इत्येवमुक्ते वचने नन्दिना कुलनन्दिना ।
प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् ।
गच्छ शुक्रं गणपते ममान्तिकमुपानय ॥
अहं तं संयतिष्यामि यथायोगं समेत्यति ॥
इत्येवमुक्ते रुद्रेण नन्दी गणपतिस्ततः ॥
तमनन्तमुपागम्य नन्दी संपूज्य वेगवान् ॥
रथाद्भार्गवमानिन्ये सिंहः क्षुद्रमृगं यथा ।
तमादाय हराभ्यासमाजगाम विनायकः ॥
निपात्य रक्षिणः सर्व्वानथ शुक्रं न्यवेदयत् ।
तमानीतं कविं शर्व्वः प्राक्षिपद्वदने प्रभुः ॥
स शम्भुना कविश्रेष्ठो ग्रस्तो जठरमास्थितः ।
तुष्टाव भगवन्तं तं वाग्मी वाग्भिरथादरात् ॥
शुक्र उवाच ।
नमोऽस्तु ते शङ्कर शर्व्व शम्भो
सहस्रनेत्राङ्घिशिरो नमस्ते ।
दृष्ट्वैव सर्व्वं भुवनं तवोदरे
श्रान्तो भवन्तं शरणं प्रपन्नः ॥
इत्येवमुक्ते वचने महात्मा
शम्भुर्व्वचः प्राह ततो विहस्य ।
निर्गच्छ पुत्त्रोऽसि ममाधुना त्वं
शिश्नेन भो भार्गशवंशचन्द्रः ॥
नाम्ना तु शुक्रेति चराचरास्त्वां
स्तोष्यन्ति नैवात्र विचारणास्ति ।
इत्येवमुक्त्वा भगवान् मुमोच
शिश्नेन शुक्रः स च निर्जगाम ॥
विनिर्गतो भार्गववंशचन्द्रः
शुक्रत्वमापद्य महानुभावः ॥”
इति वामने ६६ अध्यायः ॥ * ॥
अयं श्यामवर्णाग्निकोणस्त्रीब्राह्मणजातियजु-
र्व्वेदरजोगुणाम्लरसवृषराशिहीरकरत्नभोजकट-
देशानामधिपतिः । भृगुमुनिसन्तानः । नवा-
ङ्गुलशरीरः । पद्मस्थः । सूर्य्यमुखः । श्वेतवर्णः ।
चतुर्भुजः । सदाजपमालावरकमण्डलुदण्ड-
धारी । शुक्लवस्त्रः । इन्द्रादिदेवताकः । शची-
प्रत्यधिदेवताकः । शुभग्रहः । अपराह्णकाले
प्रबलः । जलचारी । कफप्रकृतिः । रूप्यद्रव्य-
धान्यादिस्वामी । मध्यवयः । रतीश्वरः । जल-
भूमिचारी । स्निग्धरुचिः । द्विपदमनुष्याणां
स्वामी च । इति बृहज्जातकग्रहयागतत्त्वा-
दयः ॥ * ॥ तस्य भोग्यं दिनं शुक्रवारः । तत्र
जातफलम् ।
“प्रसन्नचित्तो मतिमान् गुणज्ञः
सुकेशवेशः सितवस्त्रमाल्यः ।
बन्धुप्रियो भार्गववारजातः
शीघ्रप्रसादः कुशलो नरः स्यात् ॥”
तस्य क्षेत्रजातफलम् ।
“शुक्रालये काव्यकलाविदग्धो
दातातिथेयः श्रुतशास्त्रदक्षः ।
कलिप्रियो वातकफान्वितः स्या-
न्मेधान्वितो हास्यपटुर्मदाद्यः ॥”
तस्य द्रीक्काणजातफलम् ।
“द्रेक्काणे भृगुनन्दनस्य सुतनुः पात्रं धरित्रीपतेः
सर्व्वज्ञः स्वजनानुरागकुशलो दाता सतां वल्लभ
संपूणश्च वराङ्गनात्मजधनैः स्फीतः कृपालुः
शुचिः
शान्तः सत्यरतोऽभियुक्तहृदयो धर्म्मानुरक्तो
नरः ॥”
पृष्ठ ५/११६
तस्य नवांशजातफलम् ।
“नारीरक्तो ललितनयनो मञ्जुकेशः कृशाङ्गः
कम्बुग्रीवो भवति कनकश्यामवर्णः सुकेशः ।
क्रू रः स्त्रैणः कविरतिधनो दानशीलो गुणज्ञो
व्यानम्रास्यो विमलयशसा मानवो भार्गवांशे ॥”
तस्य द्वादशांशजातफलम् ।
“शूरो बहुधनो भोगो नृत्यगीतप्रियः सदा ।
शुचिर्द्दाता क्षमी भोक्ता द्वादशांशे भृगोनरः ॥”
तस्य त्रिंशांशजातफलम् ।
“बहुगुणपरिपूर्णः सुन्दरश्चारुदृष्टि-
र्युवतिजनविनोदी लब्धसौख्यार्थभोगः ।
द्विजसुरगुरुभक्तो दानशीलः कृपालु-
रसुरपतिगुरोः स्यान्मानवस्त्रिं शकांशे ॥”
इति कोष्ठीप्रदीपः ॥
विष्कुम्भादि-सप्तविंशति-योगान्तर्गत-चतुर्विंश-
योगः । तत्र जातफलम् ।
“हास्यो विवादे विजयी सभायां
मद्गन्धमाल्याम्बररत्नयुक्तः ।
जितेन्द्रियः स्यान्मनुजो महौजाः
शुक्राभिधाने जननं हि यस्य ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
अग्निः । चित्रकवृक्षः । ज्यैष्ठमासः । इत्यमरः ।

शुक्रकरः, पुं, (करोतीति । कृ + पचाद्यच् । शुक्रस्य

करः ।) मज्जा । इति हेमचन्द्रः ॥ वीर्य्य-
कारके, त्रि ॥

शुक्रभुक्, [ज्] पुं, (शुक्रं भुङ्क्ते इति । भुज +

क्विप् ।) मयूरः । इति शब्दचन्द्रिका ॥ रेतो-
भोजके, त्रि ॥

शुक्रभूः, पुं, (शुक्रात् भूरुत्पत्तिर्यस्य ।) मज्जा ।

इति शब्दचन्द्रिका ॥ बीर्य्यजातमात्रे, त्रि ॥

शुक्रला, स्त्री, (शुक्रं लाति ददातीति । दा + कः

उच्चटा । इति चक्रलाशब्दटीकायां भरतः ॥
वीर्य्यदातरि, त्रि ॥

शुक्रवारः, पुं, (शुक्रस्य वारः ।) शुक्रग्रहभोग्य-

दिनम् । यथा । तीर्थेतरत्र प्रतिप्रसवमाह ।
स्मृतिः ।
“अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च ।
उपाकर्म्मणि चोत्सर्गे युगादौ मृतवासरे ।
सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे ॥”
इति प्रायश्चित्ततत्त्वम् ॥

शुक्रशिष्यः, पुं, (शुक्रस्य शिष्यः ।) असुरः ।

इत्यमरः ॥

शुक्राङ्गः, पुं, मयूरः । इति जटाधरः ॥

शुक्रियः, त्रि, शुक्रसम्बन्धी । शुक्रशब्दात् इयप्रत्यय

निष्पन्नः ॥ (शुक्रो देवता अस्येति । शुक्र +
“शुक्रात् । घन् ।” ४ । २ । २६ । इति घन् ।
शुक्रदेवताको हविरादिः । इति सिद्धान्तकौमुदी
यथा, याज्ञवल्क्ये ! ३ । ३०८ ।
“शुक्रियारण्यकजपा गायत्त्र्याश्च विशेषतः ॥”)

शुक्लं, क्ली, (शुच शौचे + “ऋज्रेन्द्रेति ।” उणा०

२ । २८ । इति रन् प्रत्ययेण माधु ।) रजतम् ।
इति मेदिना ॥ नवनातम् । इति चब्दचन्दिका ।
अक्षिरोगविशेषः । इति जटाधरः ॥ स तु
चक्षुःशुक्लभागजरोगः । तद्विरणं यथा, --
“प्रस्तारिशुक्लक्षतजाधिमांस-
साग्वर्म्मसंज्ञाः खलु पञ्च रोगाः ॥”
तत्र शुक्लमाह ।
“सुश्वे तं मृदुशुक्लार्म्मं शुक्लं तद्वर्द्धते चिरात् ॥”
अस्य चिकित्सा ।
“भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥
स्नानं कृष्णतिलैर्व्वापि चक्षुष्यमनिलापहम् ।
आमलैः सततं स्नानं परदृष्टिबलापहम् ॥
शुण्ठीनिम्बदलैः पिण्डीसुखोष्णास्वल्पसैन्धवा ।
धार्य्या नेत्रेऽनिलश्ले ष्मशोथकण्डूव्यथाहरी ।
त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा ॥”
अन्यदौषधं शुक्तिशुक्रशब्दयोर्द्रष्टव्यम् । काञ्जि-
कादि । यथा, --
“कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु ।
कार्त्तिके वर्ज येत्कांस्यं कार्त्तिके शुक्लसन्धि-
तम् ॥”
इति श्रीगोपालभट्टविलिखिते भगवद्भक्ति-
विलासे १६ विलामः ॥ शुक्लं काञ्जिकादि-
पर्य्युषिताम्लद्रष्यं मन्धितञ्च वर्जयेत् । इति
श्रीजीवगोस्वामिकृततट्टीका दिद्गर्शनी ॥

शुक्लः, पुं, (शुच + रन् । रस्य लः ।) वर्णविशेषः

सादा इति भाषा । तत्पर्य्यायः । शुभ्रः २ शुचिः-
३ श्वेतः ४ विशदः ५ श्येतः ६ पाण्डरः ७ अव-
दातः ८ सितः ९ गौरः १० वलक्षः ११
धवलः १२ अर्ज्जुनः १३ । इत्यमरः ॥ श्वेता १४
श्येता १५ श्येनी १६ विषदः १७ मिता १८
अवलक्षः १९ । इति तट्टीका ॥ शितिः २०
पाण्डुः २१ । इति शब्दरत्नावली ॥ रामः २२
खरुः २३ । इति जटाधरः ॥ शक्रयोगः । इति
मेदिनी ॥ श्वेतेरण्डः । इति राजनिर्घण्टः ॥
शुक्लपक्षः । यथा षट्त्रिंशन्मतम् ।
“तत्र पक्षावभौ मासे शुक्लकृष्णौ क्रमेण हि ।
चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥”
इति तिथ्यादितत्त्वम् ॥
शुक्लगुणयुक्ते, त्रि ॥ * ॥ शुक्लवस्तूनि यथा, --
“सुधांशूच्चैःश्रवाः शम्भुकीर्त्तिज्योत्स्नाशर-
द्घनाः ।
प्रासादसौधतगरमन्दारद्रुहिमाद्रयः ॥
सूर्य्येन्दुकान्तकर्पूरकरम्भा रजतं हली ।
निर्मोकभस्महिण्डीरचन्दनं करका हिमम् ॥
हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् ।
शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम् ॥
मृणालसिकताहसवककैरवचामरम् ।
रम्भागर्भं पुण्डरीककेतकीशङ्खनिर्झराः ॥
लोध्रसिंहध्वजच्छत्रचूर्णशुक्तिकपर्द्दकाः ।
मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः ॥
कैलासकाशकार्पासहासवासवकुञ्जराः ।
नारदः पारदः कुन्दखटिकास्फटिकादयः ॥”
इति श्वेतानि ॥ * ॥
शुक्लकृष्णवाचकानि वस्तूनि यथा, --
“सितकृष्णौ विधुहरी शितिताराभ्रकनाग-
राजघनसाराः ।
रामपयोराश्यर्ज्जुनसिंहीजानन्तचन्द्र-
हामाद्याः ॥”
विधुश्चन्द्रो विष्णुश्च । हरिः कृष्णः मिंहश्च ।
शिती धवलमेचकौ । तारा नक्षत्रं अक्ष्णः
कनीनिका च । अभ्रकं निरिजं मेघश्च
नागराजः शेषो गजश्च । घनमारः कर्पूरं
मेघश्रेष्ठश्च । रामो बलभद्रो दाशरथिश्च ।
पयोरारिर्दुग्धममूहः समद्रश्च । अर्ज्जुनः शुभ्रः
पार्थश्च । मिंहीजः सिंहो राहुश्च । अनन्तो
बलभद्रः कृष्णश्च । चन्द्रहासः चन्द्रहास्यं
खङ्गश्च ।
“शङ्खकरतारकेशसदाकाशव्योमकेशतालाङ्काः ।
नीलांशुकाधिकेशारिष्टसदासिचयकलकण्ठाः ॥
शङ्खकरः कम्बु कान्तिः कृष्णश्च । तारकेशश्चन्द्रः
उज्ज्वलबाकश्च । सदाकाशः सर्व्वदाकाशः सद्
गगनञ्च । व्योमकेशः शिवो नभोबालौ च ।
तालाङ्को बलभद्रस्तालकलङ्कौ च । नीलांशुको
बलभद्रः कृष्णकान्तिश्च । अधिकेशो अधिक-
शिवो अधिकबालश्च । अरिष्टस्तक्रं काकश्च
सदासिचयः सिचयो वस्त्रं असिचयः खङ्ग-
समूहश्च । कलकण्ठो हंसः पिकश्च ।
“कलकण्ठः पिके पारावते हंसे कलध्वनौ ॥
हरिजिष्णुघनाब्धिभ्यो गजाः सिन्धुर्मुरारितः ।
अद्भ्यो वाहोऽब्जानि कृष्णाद्यमुना कुम्भितो
द्विषः ॥”
शुक्लश्यामाभिधायका भवन्तीति सम्बन्ध
हरिगज ऐरावतः । एवं जिष्णुगजः । अब्धि-
गजः । घनगजः । पक्षे हरिर्विष्णुर्गजो हस्ती ।
एवं सर्व्वत्र । गजा इति बहुवचननिर्द्देशात्
गजपर्य्यायो गृह्यते । मुरारिसिन्धुर्गङ्गा कृष्ण-
समुद्रौ च । अम्बुवाहः उच्चैःश्रवाः मेघश्च ।
कृष्णाब्जं नाभीपुण्डरीकं नीलाब्जञ्च । यमुनारि-
र्बलभद्रो यमुनाद्वेषी च ।
“कृष्टार्थाग्रात्तटिनीवाचकशब्दात् परो वरो
योज्यः ।
नीरदघनोपलसितसदाहिमकर-सिन्धुवेणि-
पृथुलाजाभाः ॥”
सितश्यामवाचका इति पूर्व्व वत् । कृष्णार्था-
ग्रात्तटिनीवाचकशब्दाद्वरो यथा । कृष्णनदी-
वरकान्तिः गङ्गाश्रेष्ठकान्तिः । पक्षे कृष्णनदी-
वरस्य समुद्रस्येव कान्तिः । नीरदो निश्चितो
दन्तो मेघश्च । घनोपलसितः घनोपलः करका
तद्वत् सितः घनो मेघः तद्वदुपलसितः कान्तः ।
सदाहिमकरः चन्द्रः सर्पमकरौ च । सिन्धु-
वेणिर्नदीप्रवाहः समुद्रकेशविन्यासौ च । पृथु-
लाजाभः महती भ्रष्टधान्यस्येवाभा यस्य कृष्ण-
स्येव च । तथा च ।
“वहलकलभवच्छायमन्धकारातिदीधितिः ।
सदाधिकेशवच्छायो नेकपीयसमच्छविः ॥
पृष्ठ ५/११७
वपुर्महोदधिच्छायं बिभ्रत् सैन्धवकान्तिमान् ।
स्फाटिकी च लसल्लक्ष्मोः पट्टांशुककटिं वहन् ॥
धौताम्बरश्रियं धत्ते स्फटिकान्तश्रियान्वितः ।
अर्जुनद्युतिविद्योतीत्ये वमादि समुन्नयेत् ॥ *” ॥
रक्तश्वेतवाचकानि वस्तूनि यथा, --
“रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्य-
कान्ताब्जाः ।
नवहसमहापद्मार्ककृशोदराः कमलकीलाले ॥”
हरिश्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः ।
पुष्करं जलपद्मयोः । शतशत्रं हंसपद्मयोः ।
सूर्य्यकान्तः स्फटिके सूर्य्यकान्ते च । अब्जः
शङ्घाम्बुजयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च ।
महापद्मः श्वेतनागे पद्मे च । अर्कः स्फटिक-
सूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं
जलरक्तयोः ।
“सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः ।
जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभि ॥”
भानोः परस्मात् सुहृद्रत्नादिभिः सितरक्तौ
यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्रं
सूर्य्यकान्तो रविपद्मरागौच । अग्निरत्नं सूर्य्य-
कान्तो अग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे
अधरश्च जलशोभा जलजा चासौ शोभा
चेति पक्षे पद्मकान्तिः । एवं सरोजारिशोभा
सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमु-
दारिशोभा कुमुदस्पर्द्धिशोभा । पक्षे कुमुदारि-
रादित्यः ॥ * ॥ पीतश्वेतवाचकानि वस्तूनि
यथा, --
“पीतश्वेतौ गौरद्विजराजकपर्द्दशम्भुहरि-
तार्क्ष्याः ।
हैमस्तोमाष्टापदमहारजतचन्द्रकलधौताः ॥”
गौरः श्वेतपीतयोः । द्विजराजो गुरुचन्द्रयोः ।
कपर्द्दः शम्भुजटाजूटवराटयोः । शम्भुर्ब्रह्म-
त्रिलीचनयोः । हरिः पिङ्गलसिंहयोः । ताक्ष्र्यो
गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः हेम्नोऽयं
हैमः । पक्षे हिमस्यायम् । अष्टापदं सुवर्ण-
सरभयोः । महारजतं सुवर्णरूप्ययोः । चन्द्रः
स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः ।
“सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः ।
दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥”
तारुकूटो रूप्यसमूहः । पक्षे आरकूटो रीतिः ।
सुशोभनमर्णः कनकञ्च ॥ * ॥ अथ श्लोकोत्ती-
र्णानि । गोपतितार्क्ष्यकान्तिः रविगरुडच्छविः ।
पक्षे गोपतिरिन्द्रस्तस्य तार्क्ष्यस्तुरङ्गः । वाम-
देवगिरिर्मनोज्ञमेरुः कैलासश्च । इति कवि-
कल्पलतायाम् २ श्लेषे उद्दिष्टवर्णनं १ कुसुमम् ॥

शुक्लकः, पुं, (शुक्ल + स्वार्थे कन् ।) शुक्लपक्षः ।

यथा, --
“पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदशं
स्सृताः ।
दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥”
इति तिथ्यादितत्त्वन् ॥
श्वेतवर्णश्च ॥

शुक्लकण्ठकः, पुं, (शुक्लः कण्ठो यस्य । कन् ।)

दात्यूहपक्षी । इति शब्दमाला ॥ श्वेतगलयुक्ते
त्रि, ॥

शुक्लकन्दः, पुं, (शुक्लः कन्दो यस्य ।) महिषकन्दः ।

इति राजनिर्घण्टः ॥ श्वेतमूलञ्च ॥

शुक्लकन्दा, स्त्री, (शुक्लः कन्दो यस्याः ।) अति-

विषा ॥ इति राजनिर्घण्टः ॥

शुक्लकर्म्मा, [न्] त्रि, (शुक्लं पूतं कर्म्म यस्य ।)

अकृष्णकर्म्मा । सुकर्म्मशीलः । इति जटाधरः ॥

शुक्लकुष्ठं, क्ली, (शुक्लं कुष्ठम् ।) श्वेतवर्णकुष्ठ-

रोगः ॥ तस्यौषधं यथा, --
“सोमराजस्य बीजानि नवनीतयुतानि च ।
मधुना स्वादितानि स्युः शुक्लकुष्ठहराणि वै ॥”
इति गारुडे १९५ अध्यायः ॥

शुक्लक्षीरा, स्त्री, (शुक्लं क्षीरं यस्याः ।) कालोली ।

इति राजनिर्घ ण्टः ॥ श्वेतदुग्धयुक्ते, त्रि ॥

शुक्लत्वं, क्ली, (शुक्लस्य भावः । शुक्ल + त्व ।)

शुक्लस्य भाव इत्यर्थे त्वप्रत्ययेन निष्पन्नम् ॥

शुक्लदुग्धः, पुं, (शुक्लं दुग्धं निर्य्यासो यस्य ।)

शृङ्गाटकः । इति शब्दचन्द्रिका ॥ श्वेतदुग्ध-
युक्ते, त्रि ॥

शुक्लधातुः, पुं, (शुक्लः शुक्लवर्णो धातुः ।) कठिनी ।

इति हेमचन्द्रः ॥ श्वेतवर्णधातुद्रव्यञ्च ॥

शुक्लपक्षः, पुं, (शुक्लः पक्षः ।) सितपक्षः । चन्द्र-

सम्बन्धि-वृद्ध्यनुकूल-पञ्चदशकलाक्रिया-प्रचयः
तत्पर्य्यायः ।
“सितस्त्वापूर्य्यमाणः स्यात् शुक्लश्च विशदः शुचि
शुक्लपक्षः कृष्णपक्षो बहुलो वदि च स्मृतः ॥”
इति राजनिर्घण्टः ॥
स तु शुक्लप्रतिपदादिर्पौर्णमास्यन्तपञ्चदश-
तिथ्यात्मकः । यथा, --
“तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि ।
चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥”
इति तिथ्यादितत्वम् ॥ * ॥
कर्म्मविशेषे तत्रोदयगामितिथेर्ग्राह्यत्वं यथा, --
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्मा यस्यामस्तमितो रविः ॥”
इति विष्णुधर्म्मोत्तरम् ॥
संस्कारकर्म्मणः शुक्लपक्षकर्त्तव्यता यथा ।
आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षे
कल्याणे नक्षत्रे चौडकर्म्मोपनयनगोदान-
विवाहाः । विवाहः सार्व्वकालिक इत्येके ॥ * ॥
विद्यारम्भस्य शुक्लपक्षकर्त्तव्यता यथा । मदन-
पारिजाते ।
“रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः ।
गुर्व्वर्केन्दूडुशुद्धौ च विद्यारम्भः प्रशस्यते ॥” * ॥
पुष्करिण्यारम्भस्य शुक्लपक्षकर्त्तव्यता यथा ।
मत्स्यपुराणे ।
“प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ॥”
इत्यादि ॥
देवप्रतिष्ठायाः शुक्लपक्षकर्त्तव्यता यथा । व्यव-
हारसमुच्चये ।
“प्रतिष्ठा सर्व्वदेवानां केशवस्य विशेषतः ।
उत्तरायण आपन्ने शुक्लपक्षे शुभे दिने ॥”
गृहारम्भगृहप्रवेशयोः शुक्लपक्षकर्त्तव्यता यथा ।
मत्स्यपुराणे ।
“शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम् ॥”
इति ज्योतिस्तत्त्वम् ॥
नवान्नश्राद्धस्य शुक्लपक्षकर्त्तव्यता यथा ।
आश्विनाधिकारे ।
“शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् ।
गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम् ।
तेन देवान् पितॄंश्चैव तर्पयेदर्च्चयेत्तथा ॥”
अपि च ।
“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः ॥”
इति तिथ्यादितत्त्वम् ॥

शुक्लपुष्पः, पुं, (शुक्लं पुष्पमस्य ।) छत्रकवृक्षः ।

कुन्दपुष्पवृक्षः । मरुवकः । हति रत्नमाला ॥
श्वेतकुसुमयुक्ते, त्रि ॥

शुक्लपुष्पा, स्त्री, (शुक्लं पुष्पमस्याः ।) नागदन्ती ।

शीतकुम्भी । इति रत्नमाला ॥

शुक्लपुष्पी, स्त्री, (शुक्लं पुष्पमस्याः । ङीष् ।)

नागदन्ती । इति राजनिर्घण्टः ॥

शुक्लपृष्ठकः, पुं, (शुक्लं पृष्ठं यस्य । कन् ।) सिन्धुक-

वृक्षः । इति शब्दचन्द्रिका ॥ श्वेतवर्णपृष्ठयुक्ते,
त्रि ॥

शुक्लबलः, पुं, जिनविशेषः । यथा, --

“वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी ।
अचलो विजलो भद्रः सुप्रभश्च सुदर्शनः ।
आनन्दो नन्दनः पद्मो रामो रिष्णुद्विषस्त्वमी ॥”
इति हेमचन्द्रः ॥

शुक्लमण्डलं, क्ली, (शुक्लं मण्डलम् ।) चक्षुःश्वेत-

क्षेत्रम् । इति केचित् ॥ श्वेतवर्णगोलवस्तु च ॥

शुक्लरोहितः, पुं, (शुक्लः श्वेतवर्णो रोहितः ।)

श्वेतरोहितवृक्षः । इति राजनिर्घण्टः ॥ शुभ्र-
रोहितमत्स्यश्च ॥

शुक्लला, स्त्री, (शुक्लं लातीति । ला + कः ।)

उच्चटा । इति रत्नमाला ॥ श्वेतदातरि,
त्रि ॥

शुक्लवर्गः, पुं, (शुक्लानां वर्गः समूहः ।) श्वेतवर्ण-

सजातीयद्रव्यम् । तथा । शङ्खशुक्तिकपर्द्दकादि ।
इति राजनिर्घण्टः ॥

शुक्लवायसः, पुं, (शुक्लो वायस इव ।) वकः ।

इति त्रिकाण्डशेषः ॥ श्वेतकाकश्च ॥

शुक्लशालः, पुं, (शुक्लः शाल इव ।) गिरिनिम्बः ।

इति राजनिर्घण्टः ॥ श्वेतशालवृक्षश्च ॥

शुक्ला, स्त्री, (शुक्लो वर्णोऽस्त्यस्या इति । अच् ।

टाप् ।) सरस्वती । इति त्रिकाण्डशेषः ॥
शर्करा । इति शब्दचन्द्रिका ॥ काकोली ।
विदारी । स्नु ही । इति राजनिर्घण्टः ॥ श्वेत-
वर्णा च ॥

शुक्लाङ्गी, स्त्री, (शुक्लं अङ्गं यस्याः । ङीष् ।)

शेफालिका । इति राजनिर्घण्टः ॥ श्वेतावयव-
युक्ते, त्रि ॥
पृष्ठ ५/११८

शुक्लापाङ्गः, पुं, (शुक्लो अपाङ्गौ यस्य ।) मयूरः ।

इति हेमचन्द्रः ॥ श्वेतवर्णनेत्रान्ते, त्रि ॥ (यथा,
मेघदूते । २३ ।
“शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ”)

शुक्लाम्लं, क्ली, (शुक्लं अम्लम् ।) अम्लशाकः । इति

राजनिर्घण्टः ॥

शुक्लार्म्म, [न्] क्ली, नेत्ररोगभेदः । यथा, । अथ

शुक्लभागजा रोगाः । तेषां नामानि संख्या-
ञ्चाह ।
“प्रस्तारिशुक्लक्षतजाधिमांस-
स्नाय्वर्म्मसंज्ञाः खलु पञ्च रोगाः ।
स्याच्छुक्तिका सार्ज्जुनपिष्टकाख्या
जालं शिराणां पिडिकाश्च तासाम् ॥
रोगा बलासग्रथितेन सार्द्ध-
मेकादशोक्ताः खलु शुक्लभागे ॥”
तेषु प्रस्तार्य्यर्मणो लक्षणमाह ।
“प्रस्तार्य्यर्म्म तनुस्तीर्णं श्यावरक्तनिभं सितम् ।”
तनुः पुत्तली । स्तीर्णं विस्तीर्णम् । श्यावरक्त-
मित्यत्र विकल्पो बोद्धव्यः ॥ * ॥ शुक्लार्म्माह ।
“सुश्वेतं मृदु शुक्लार्म्म शुक्लं तद्वर्द्धते चिरात् ॥”
रक्तार्म्माह ।
“पद्माभं मृदुरक्तार्म्म यन्मांसं चीयते सिते ।”
पद्माभं पर्णेन रक्तमित्यर्थः । चीयते उपचीयते ॥
अधिमांसार्म्माह ।
“पृथ मृद्वधिमांसार्म्म बहुलञ्च यकृन्निभम् ।”
पृय विस्तीर्णम् । बहुलं पुष्टम् । यकृन्निभं ईषत्
कृष्णलोहितम् ॥ * ॥ स्नाय्वर्म्माह ।
“स्थिरं प्रसारि मांसाद्यं शुक्लं स्नाय्वर्म्म पञ्च-
मम् ।”
स्थिरं कठिनम् । शुक्लं स्रावरहितम् ॥ * ॥
शुक्तिमाह ।
“श्यावाः स्युः पिशितनिभाश्च बिन्दवो यं
शुक्लाभाः सितनिचिताः स शुक्तिसंज्ञः ।”
श्यावा इत्यादिवर्णत्रये विकल्पो बोद्धव्यः ॥ * ॥
अर्ज्जुनमाह ।
“एको यः शशरुधिरप्रभस्तु बिन्दुः
शुक्लस्थो भवति तमर्ज्जुनं वदन्ति ॥”
पिष्टकमाह ।
“श्लेष्ममारुतकोपेन शुक्ले मांसं समुन्नतम् ।
पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ॥”
पिष्टवत् श्वेतम् ॥ * ॥ शिराजालमाह ।
“जालाभः कठिनः शिरोऽरुणः शिराणां
मन्तानो भवति शिरादिजालसंज्ञः ॥”
गिरादिजालसंज्ञः शिराजालसंज्ञः ॥ * ॥
शिरापिडिकामाह ।
“गुक्रस्थाः सितपिडिकाः शिरावृता या-
स्ता विद्यादसितसमोपजाः शिराजाः ।”
वलासग्रथितमाह ।
“कांस्याभोऽमृदुरय वारिबिन्दुकल्पो
विज्ञेयो नयनसिते वलाससंज्ञः ।”
कांस्याभः श्रेत इत्यर्थः । अमृदुः कठिनः ।
वारिबिन्दुकल्पः एतेन मनागुन्नतत्वं बोध्यते ।
वलाससंज्ञः वलासग्रथितसंज्ञः । क्वचिदेकदेशे-
नापि समुदयावगमात् । यथा भीमो भीमसेन
इति । अतएव सुश्रुते । नामसंग्रहे वलास-
ग्रथितपदं निर्द्दिष्टम् । इति भावप्रकाशः ॥

शुक्लिमा, [न्] पुं, (शुक्लस्य भावः । शुक्ल + “वर्ण-

दृढादिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इमनिच् ।)
शुक्लता । शुक्लशब्दादिमन्प्रत्ययेन निष्पन्नः ॥

शुक्लोपला, स्त्री, (शुक्ल उपल इव आकृतिर्यस्याः ।)

शर्करा । इति रत्नमाला ॥ श्वेतप्रस्तरे, पुं ॥

शुक्षिः, पुं, (शुष्यत्यनेनेति । शुष + “प्लुषिकुषि-

शुषिभ्यः क्सिः ।” उणा० ३ । १५५ । इति क्सिः ।)
वायुः । तेजः । चित्रम् । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

शुङ्गः, पुं, वटवृक्षः । आम्रातकवृक्षः । इति

मेदिनी ॥ शूकः । शूँया इति भाषा । इति
शूकशब्दार्थे मेदिन्यु णादिकोषौ ॥

शुङ्गा, स्त्री, (शुङ्गोऽस्त्यस्या इति । अच् ।

टाप् ।) पर्कटीवृक्षः । इति मेदिनी ॥ नव-
पल्लवकोशी । इति हेमचन्द्रः ॥ धान्यादिशूकञ्च ।
शुँया यस्य प्रसिद्धिः ॥ (यथा, सुश्रुते । ४ । २६ ।
“अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः ।
पीत्वा सशर्करा क्षौद्रं कुलिङ्ग इव हृष्यति ॥”)

शुङ्गाकर्म्म, [न्] क्ली, पुंसवनसंस्कारविशेषः । यथा

“अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ।
पुंसवने चन्द्रनामा शुङ्गाकर्म्मणि शोभनः ॥”
इति तिथ्यादितत्त्वम् ॥
तत्कर्म्मानुष्ठानं यथा । शोभननामानमग्निं
संस्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्य
वटवृक्षस्य पूर्व्वोत्तरशाखायां फलयुगलशालिनीं
कृमिभिरनुपहतां वटशुङ्गा यवानां माषाणां
वा त्रिभिस्त्रिभिर्गुडकैः सप्तवारान् सप्तभिर्मन्त्रैः
क्रीणीयात् । सप्तानां मन्त्राणामृष्यादयः साधा-
रणाः । प्रजापतिरृषिः सोमवरुणवसुरुद्रा-
दित्यमरुद्विश्वेदेवादेवता न्यग्रोधशुङ्गापरिक्रयणे
विनियोगः । ॐ यद्यसि सौमी सोमाय त्वा
राज्ञे परिक्रीणामि । इति गुडकत्रयेण एकं
परिक्रयणम् ॥ यद्यसि वारुणी वरुणाय त्वा
राज्ञे परिक्रीणामि । इति गुडकत्रयेण द्वितीयं
परिक्रयणम् ॥ यद्यसि वसुभ्यो वसुभ्यस्त्वा राज्ञे
परिक्रीणामि । इति गुडकत्रयेण तृतीयं परि-
क्रयणम् ॥ यद्यसि रुद्रे भ्यो रुद्रेभ्यस्त्वा राज्ञे
परिक्रीणामि । इति गुडकत्रयेण चतुर्थं परि-
क्रयणम् ॥ यद्यसि आदित्येभ्यः आदित्येभ्यस्त्वा
राज्ञे परिक्रीणामि । इति गुडकत्रयेण पञ्चमं
परिक्रयणम् ॥ यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा राज्ञे
परिक्रीणामि । इति गुडकत्रयेण षष्ठं परि-
क्रयणम् ॥ यद्यसि विश्वे भ्यो देवेभ्यो विश्वेभ्यो
देवेभ्यस्त्वा राज्ञे परिक्रीणामि । इति गुडक-
त्रयेण सप्तमं परिक्रयणम् ॥ ततः क्रीतां वट-
शुङ्गां अनेनं मन्त्रेण वृक्षादानयेत् । प्रजापति-
ऋषिरोसध्यो देवतान्यग्रोधशुङ्गाच्छेदने विनि-
योगः । ओषधयः सुमनसो भूत्वा अस्या वीर्य्य
समाधत्त इयं कर्म्म करिष्यति । ततस्तां वट-
शुङ्गां तृणेन वेष्टितामन्तरीक्षेणानीय अन्तरीक्षे
स्थापयेत् । ततः कृतशोभननाम्रो अग्नेरुत्तरतः
प्रक्षालितशिलायां ब्रह्मचारी कुमारी भगवती
वा श्रुतस्वाध्यायशीलो वा ब्राह्मणः आचारतो
नीहारजलेनानावृतलोष्ट्रे ण पुनः पुनः पेषयेत् ।
ततोऽग्नेः पश्चिमतः उत्तराग्रेषु कुशेषु पश्चि-
माभिमुखीं बधूं पूर्व्वदिगानतमस्तकां कृत्वा
पृष्ठदेशे स्थितः पतिर्दक्षिणपाणेरङ्गुष्ठानामि-
काभ्यां वस्त्रबद्धां पेषितवटशुङ्गां गृहीत्वा गर्भ-
वत्या दक्षिणनासाविवरे शुङ्गारसं निक्षिपति
अनेन मन्त्रेण । प्रजापतिरृ षिरनुष्टुप्च्छन्दो-
ऽग्नीन्द्रबृहस्पतयो देवता न्यग्रोधशुङ्गारसस्य
दाने विनियोगः ।
पुमानग्निः पुमानिन्द्रः पुमान् देवो बृहस्पतिः ।
पुमांसं पुत्त्रं विन्दस्ब तं पुमाननुजायताम् ॥
ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां
घृताक्तां समिधं तूणीमग्नौ हुत्वा प्रकृतं कर्म्म
समाप्य उदीच्यं शाव्यायनहोमादिवामदेव्य-
गानान्तं कर्म्म समाप्य कर्म्मकारयितृब्राह्मणाय
दक्षिणां दद्यात् । इति भवदेवः ॥

शुङ्गी, [न्] पुं, (शुङ्गा अस्त्यस्येति । शुङ्गा +

इनिः ।) प्लहवृक्षः । वटवृक्षः । इति जटा-
धरः ॥ शुङ्गाविशिष्टे, त्रि ॥

शुचः, शोके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) तालव्यादिः । शोचति । शोकः
पुत्त्रादेरदर्शनाद्दुःखानुभवः । किं शोचते-
हाभ्युदये वतास्मानिति भट्टिः । प्रियतमा मां
शोचते शोचते । इति महानाटकम् । गण-
कृतानित्यत्वादात्मनेपदम् । इति दुर्गादासः ॥

शुच, इर्, य ञ ई शौचे । विशरणे । क्लेदे । इति

कविकल्पद्रुमः ॥ (दिवा०-उभ० क्लेदे शौचे च
अक०-अन्यत्र सक०-सेट् । निष्ठायां अनिट् ।)
शौचं शुद्धिः । विशरणं विभेदः । क्लेदः आर्द्र-
भावः । इर् अशुचत् अशोचीत् । य ञ, शुच्यते
लोकः स्नानात् । शुच्यति गात्रं बाणः । शुच्यति
वस्त्रमम्भसा । ई, शूक्तः । शुचि र पूतीभावे
इति प्राञ्चः । रमानाथस्तु एतदनुरोधादेता-
नर्थान् व्याख्याति । इति दुर्गादासः ॥

शुचा, स्त्री, (शुच शोके + क्विप् । पक्षे टाप् ।)

शोकः । इति शब्दरत्नावली ॥

शुचिः, पुं, (शुच्यति अनेनेति । शुच + “इगुप-

धात् कित् ।” उणा ० ४ । ११९ । इति इन् । सच
कित् ।) अग्निः । (यथा, भागवते । ४ । २४ । ४ ।
“पावकः पवमानश्चः शुचिरित्यग्नयः पुरा ।
वशिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ॥”)
चित्रकवृक्षः । आषाढमासः । शुक्लवर्णः ।
शृङ्गाररसः । इत्यमरः ॥ ग्रौष्मः । शुद्धमन्त्री ।
ज्यैष्ठमासः । इति मेदिनी ॥ सौराग्निः । यथा
“पावकः पवमानश्च शुचिरग्निश्च ते त्रयः ।
निर्म्मथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः ॥
पृष्ठ ५/११९
यश्चासौ तपते सूर्य्यः शुचिरग्निस्त्वसौ स्मृतः ।
तेषान्तु सन्ततावन्ये चत्वारिंशत्तु पञ्च च ॥
पावकः पवमानश्च शुचिस्तेषां पिता च यः ।
एते चैकोनपञ्चाशद्वह्नयः परिकीर्त्तिताः ॥”
इति कौर्म्मे १२ अध्यायः ॥
सूर्य्यः । यथा, --
“तपनस्तापनश्चैव शुचिः सप्नाश्ववाहनः ॥”
इति शाम्बपुराणम् ॥
चन्द्रः । शुक्रः । ब्राह्मणः । इति केचित् ॥
(अन्धकस्य पुत्त्रविशेषः । यथा, भागवते । ९ ।
२४ । १९ ।
“कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः ॥”
कार्त्तिकेयः । इति महाभारतम् । ३ । २३१ । ४ ॥)

शुचिः, स्त्री, (शुच + इन् ।) कश्यपपत्न्या-

स्ताम्रायाः सुता । यथा, --
“षट सुताश्च महासत्त्वास्ताम्रायाः परि-
कीर्त्तिताः ।
शुकी श्येनी च भाषा च सुग्रीवी शुचि-
गृध्रिका ॥”
इति गारुडे ६ अध्यायः ॥

शुचिः, त्रि, (शुच + इन् ।) शुक्लगुणविशिष्टः ।

इत्यमरः ॥ शुद्धः । (यथा, महाभारते । १ ।
१२८ । ४९ ।
“क्रीडावसाने ते सर्व्वे शुचिवस्त्राः स्वल-
ङ्कृताः ॥”)
अनुपहतः । इति मेदिनी ॥ * ॥ परस्वर्णस्पर्शे
हस्तक्षालनात् शुचिर्यथा, --
“दैवात् परस्त्रियं दृष्ट्वा विरमेद् यो हरिं स्मरन्
स्पृष्ट्वा परसुवर्णञ्च हस्तप्रक्षालनात् शुचिः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥
(निरपराधी । यथा, महाभारते । १ । १४९ । १४ ।
“अहो धिक् धृतराष्ट्रस्य बुद्धिर्नास्ति समञ्जसी
यः शुचीन् पाण्डुदायादान् दाहयामास
शत्रुवत् ॥”
शुद्वान्तःकरणः । यथा, मनुः । ७ । ३८ ।
“वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदो शुचीन्
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥”)

शुचिता, स्त्री, (शुचेर्भावः । शुचि + तल् ।)

शुचित्वम् । यथा, --
“शैत्थं नाम गुणस्तवैव सहजः स्वाभाविकी
स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन
यस्यापरे ।
किञ्चान्यत् कथयाम ते स्तुतिपदं त्वं जीविनां
जीवनं
त्वञ्चेन्नीचपथेन यास्यसि पयः कस्त्वां निषेद्धुं
क्षमः ॥”
इति लक्ष्मणसेनः ॥

शुचिद्रुमः, पुं, (शुचिः पवित्रो द्रुमः ।) अश्वत्थ-

वृक्षः । इति राजनिर्घण्टः ॥ शुद्धवृक्षश्च ॥

शुचिप्रणीः, पुं, (शुचिं प्रणयतीति । प्र + नी +

क्विप् ।) आचमनम् । यथा, --
“आचामः स्यादाचमनमुपस्पर्शः शुचिप्रणीः ।”
इति शब्दरत्नावली ॥

शुचिमल्लिका, स्त्री, (शुचिर्मल्लिका ।) नव-

मालिका । इति राजनिर्घण्टः ॥

शुचिरोचिः, [स्] पुं, (शुचिः शुक्लं रोचिः

किरणो यस्य ।) चन्द्रः । इति केचित् ॥ शुक्ल-
किरणे, त्रि ॥

शुच्य, ई अभिषवे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सक०-च-सेट् । निष्ठायामनिट् ।)
तालव्यादिः । पञ्चमस्वरी । तालष्यवर्गाद्योपधः ।
ई, शुक्तः । यद्वा, यान्तोऽयमित्यके । अभिषवः
स्नानं मन्थनं पीडनं सन्धानञ्च । इति दुर्गा-
दासः ॥

शुटीरता, स्त्री, वीर्य्यम् । इति त्रिकाण्डशेषः ॥

शुटीर्य्यं, क्ली, वीर्य्यम् । इति शब्दरत्नावली ॥

शुट, खोटने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) खोटनमिह गत्याघातः । शोटति
पयः सेतुना । इति दुर्गादासः ॥

शुठ, इ खोटने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) खोटनमिह गत्याघातः ।
इ, शुण्ठ्यते । इति दुर्गादासः ॥

शुठ, इ कि शोषणे । इति कविकल्पद्रुमः ।

(चुरा० पक्षे भ्वा०-अक०-सेट् ।) इ, शुण्ठ्यते ।
कि, शुण्ठयति शुण्ठति पत्रमातपात् । रमा-
नाथस्तु भ्वादिपक्षे शुष्कीभावे । चुरादिपक्षे
शुष्कीकरणेऽयमिति मत्वा भ्वादौ शुण्ठति पत्रं
चुरादौ शुण्ठयति काष्ठमातप इत्युदाहृतवान् ।
वस्तुतस्तु उभयत्र शुष्कीभावः अन्यथा भौवा-
दिकस्यैव प्रेरणवाचित्वाच्चुरादिपाठोऽनर्थकः
स्यात् । इति दुर्गादासः ॥

शुठ, क आलस्ये । इति कविकल्पद्रुमः ॥ चुरा-

पर०-अक०-सेट् ।) क, शोठयति वृद्धः क्रियासु
मन्दः स्यादित्यर्थः । इति दुर्गादासः ॥

शुण्ठिः, स्त्री, शुठि शोषणे + इन् ।) शुण्ठी ।

इत्यमरटीका ॥ (यथा, आर्य्यासप्तशत्याम् । २७१
“तस्मिन् गताद्र भावे वीतरसे शुण्ठिशकल इव
पुरुषे ।
अपि भूतिभाजि मलिने नागरशब्दो बिड-
म्बाय ॥”)

शुण्ठी, स्त्री, (शुण्ठि + वा ङीष् ।) शुष्कार्द्रकम् ।

शुंट् इति भाषा ॥ तत्पर्य्यायः । महौषधम् २
विश्वम् ३ नागरम् ४ विश्वभेषजम् ५ । इत्य-
मरः ॥ शुण्ठिः ६ विश्वा ७ महौषधी ८ । इति
तट्टीका ॥ इन्द्रभेषजम् ९ भेषजम् १० । इति
शब्दरत्नावली ॥ विश्वौषधम् ११ कटुग्रन्थिः १२
कटुभद्रम् १३ कटूष्णम् १४ सौपर्णम् १५
शृङ्गवेरम् १६ कफारि १७ चान्द्रकम् १८
शोषणम् १९ नागराह्वम् २० । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । स्निग्धत्वम् । कफशोफा-
निलशूलबन्धोदराध्मानश्वासश्लीपदनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ अपि च ।
“शुण्ठी रुच्यामवातघ्नी पाचनी कटका लघुः ।
स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥
वृष्या स्वर्य्या च निःश्वासशूलकासहृदामयान् ।
हन्ति श्लीपदशोथार्श-आनाहोदरमारुतान् ॥
आग्नेयगुणभूष्ठिं तोयांशं परिशोषयेत् ।
संगृह्णन्ति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥
विबन्धभेदिनी या तुसा कथं ग्राहिणी भवेत् ।
शक्तिर्व्विबन्धभेदे स्याद्यतो न मलपातने ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“शुण्ठी तु कफवातघ्नी सस्नेहा लघुदीपनी ।
विपाके मधुरा वृष्या हृद्योष्णा कटुरोचनी ॥”
इति राजवल्लभः ॥
शुण्ठ्यं, क्ली, शुण्ठी । इति शब्दचन्द्रिका ॥

शुण्डः, पुं, (शुन गतौ + अमन्तात् डः ।) मद-

निर्झरः । इति हेमचन्द्रः ॥ करिकरश्च ॥ (यथा,
महाभारते । ७ । ३५ । ३५ ।
“घण्टाशुण्डान् विषाणाग्रान् क्षुरमाख्यपदा-
नुगान् ।
शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥”)

शुण्डकः, पुं, शौण्डिकः । इति शब्दरत्नावली ।

युद्धवेणुः । इति शब्दमाला ॥

शुण्डरोहः, पुं, (शुण्डवत् रोहतीति । रुह +

अच् ।) भूतृणम् । इति राजनिर्घण्टः ॥ पुस्त-
कान्तरे शृङ्गरोह इति पाठः ॥

शुण्डा, स्त्री, (शुन् + ड । टाप् ।) मद्यपानगृहम् ।

अम्बुहस्तिनी । वेश्या । सुरा । हस्तिहस्तः ।
इति मेदिनी ॥ शुँड् इति भाषा ॥ नलिनी ॥
इति विश्वः ॥ कुट्टनी । इति शब्दमाला ॥

शुण्डापानं, क्ली, (शुण्डाया आपानम् ।) मद्य-

पानगृहम् । तत्पर्य्यायः । मदस्थानम् । इत्य-
मरः ॥ मदस्थलम् । इति शब्दरत्नावली ॥

शुण्डारः, पुं, (शुण्डां रातीति । रा + कः ।)

शौण्डिकः । इति शब्दरत्नावली ॥ (ह्रस्वा
शुण्डा । “कुटीशमीशु ण्डाभ्यो रः ।” ५ । ३ ।
८८ । इति रः । स्वल्पशु ण्डा । इति सिद्धान्त-
कौमुदी ॥)

शुण्डालः, पुं, (शुण्डेन अलतीति । अल पर्य्याप्तौ

+ अच् ।) हस्ती । इति धनञ्जयः ॥

शुण्डिका, स्त्री, अलिजिह्वा । इति कोचत् ॥

शुण्डाशब्दार्थाप्येषा ॥

शुण्डिमूषिका, स्त्री, (शुण्डिनी शुण्डविशिष्टा

मूषिका ।) छुच्छुन्दरी । इति राजनिर्घण्टः ॥

शुण्डी, [न्] पुं, (श ण्डा अस्त्यस्येति । शु ण्डा +

इनिः ।) शौण्डिकः । इति शब्दरत्नावली ॥
हस्ती च ॥

शुण्डी, स्त्री, हस्तिशु ण्डीवृक्षः । इति राज-

निर्घण्टः ॥

शुतुद्रिः, स्त्री, शतद्रुनदी । इत्यमरटीकायां भरतः ॥

शुतुद्रुः, स्त्री, शतद्रुनदी । इति भरतद्विरूपकोषः ॥

शुद्धं, क्ली, (शुध + क्तः ।) सैन्धवम् । मरिचम् ।

इति राजनिर्घण्टः ॥ मरिचपर्य्याये मृषं यद्भि-
खितं तदशुहम् ॥
पृष्ठ ५/१२०

शुद्धः, त्रि, (शुध + क्तः ।) केवलम् । (यथा,

मनुः । ९ । २७९ ।
“तडागमेदकं हन्यादप्सु शुद्धवधेन वा ।
तद्वापि प्रतिसंकुर्य्यात् दाप्यस्तूत्तमसाहसम् ॥”)
निर्द्दोषः । (यथा, बृहत्संहितायाम् । ४९ । ४ ।
“सर्व्वे च शुद्धकाञ्चनविनिर्म्मिताः श्रेयसो
वृद्ध्यै ॥”)
पवित्रः । इति मेदिनी ॥ (उज्ज्वलः । यथा, रघुः ।
१ । ४६ ।
“काप्यभिख्या तयोरासीत् व्रजतोः शुद्ध-
वेशयोः ॥”)
शुक्लः । इति धरणिः ॥ रागान्तरामिश्रित-
रागः । इति संगीतशास्त्रम् ॥ * ॥ शरीरा-
शुद्धताकारणं यथा, --
नारद उवाच ।
“मानवानां द्विजादीनां शरीरस्यापवित्रता ।
भवेत् केन प्रकारेण कथ्यतां तत् सदाशिव ॥
सर्व्ववेदपुराणादिशास्त्रज्ञानां द्विजन्मनाम् ।
जितेन्द्रियस्मृतिविदां तनोः कथय पूतताम् ॥
सदाशिव उवाच ।
यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् ।
देवर्षे शृणु तत् सर्व्वं नराणामानुपूर्व्विकम् ॥
जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा ।
अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्म्मसु ॥
अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः ।
अस्पृश्यस्पर्शने नैव ब्रह्मयज्ञजपादिषु ॥
रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते ।
विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः ॥
भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने ।
शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि ॥
ज्वरादिभिश्चतुःषष्टिरोगैर्युक्तद्विजन्मनाम् ।
वपुरप्रयतं पूजादानहोमजपादिषु ॥
धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः ।
तथा च रेतःस्खलने मर्त्यदेहापवित्रता ॥
अपवित्रं द्बिजादीनां वपुः स्याद्राहुदर्शने ।
गर्हितदानग्रहणे पतिते पातकादिभिः ॥
अशौचान्तेन शुद्धिः स्यात् जातके मृतकेऽपि च ।
सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु ॥”
इति पाद्मे उत्तरखण्डे १९ अध्यायः ॥

शुद्धजङ्ग्रः, पुं, (शुद्धा जङ्घा यस्य ।) गर्दभः ।

इति त्रिकाण्डशेषः ॥ पवित्रजङ्घायुक्ते, त्रि ॥

शुद्धदत्, त्रि, शुद्धा दन्ता यस्य सः । (“अग्रान्त-

शुद्धशुभ्रवृषवराहेभ्यश्च ।” ५ । ४ । १४५ ।
इति दन्तस्य दत्रादेशः ।) शुक्लदन्तयुक्तः ।
यथा --
“गते तम्मिन् जलशुचिः शुद्धदद्रावणः शिखी ।
जंजपृकोऽक्षमालावान् धारयो मृदलावुनः ॥”
इति भट्टौ । ५ । ६१ ॥

शुद्धमतिः, पुं, (शुद्धा मतिर्यस्य ।) चतुर्विशति-

भृतार्हदन्तर्गतजिनविशेषः । इति हेमचन्द्रः ॥
(शुद्धा मतिः ।) पवित्रबुद्धी, स्त्री । तद्वति, त्रि ॥
(यथा, द्वितोपदेशे । १ । ८० ।
“उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति
पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥”

शुद्धमांसं, क्ली, (शुद्धं मांसं यस्य ।) मांसव्यञ्जन-

विशेषः । यथा, --
“पाकपात्रे घृतं दद्यात्तैलं वा तदभावतः ।
तत्र हिङ्गुहरिद्राञ्च भर्ज्जयेत्तदनन्तरम् ॥
छागादेरस्थिरहितं मांसं तत् खण्डखण्डितम्
धौतनिर्गालितं तस्मिन् घृते तद्भर्ज्जयेच्छनैः ॥
सिद्धयोग्यं जलं दत्त्वा लवणञ्च पचेत् ततः ।
सिद्धे जलेन संपिष्य वेसवारं परिक्षिपेत् ॥
द्रव्याणि वेसवारस्य नागवल्ली दलानि हि ।
तण्डुलाश्च लवङ्गानि मरिचानि समासतः ।
अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् ॥
शुद्धमांसं परं वृष्यं वल्यं रुच्यञ्च बृंहणम् ।
त्रिदोषशमनं श्रेष्ठं दोपणं धातुवर्द्धनम् ॥”
इति भावप्रकाशः ॥

शुद्धवल्लिका, स्त्री, (शुद्धा वल्लिका लता ।) गुडूचौ

इति शब्दचन्द्रिका ॥ पवित्रलता च ॥

शुद्धान्तः, पुं, शुद्धः अन्तो यस्य । शुद्धा रक्षकाः

अन्ते यस्य इति वा ।) अन्तःपुरम् । (यथा,
कुमारे । ६ । ५२ ।
“विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्म्मभिः ॥”)
नृपस्यासर्व्वगोचरकक्षान्तरम् । इत्यमरमेदिन्यौ
राजयोषित् । इत्यजयः ॥ (यथा, नैषधे । ३ । ९३ ।
“शुद्धान्तसंभोगनितान्ततुष्टे
न नैषधे कार्य्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ॥”)
अशौचान्तः । इति धरणिः ।

शुद्धान्तपालकः, पुं, (शुद्धान्तं पालयतीति ।

पालि + ण्वुल् ।) अन्तःपुररक्षकः । तत्पर्य्यायः ।
गृहदौवारिकः २ कक्षारक्षकः ३ रात्रि-
हिण्डकः ४ । इति शब्दमाला ॥ तस्य लक्षणं
यथा, --
“वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः ।
राज्ञामन्तपुराध्यक्षो विनीतश्च तथेष्यते ॥”
इति मात्स्ये १८९ अध्यायः ॥

शुद्धान्ता, स्त्री, (शुद्धान्तः आश्रयत्वेनास्त्यस्या-

इति अच् । टाप् ।) राज्ञो । यथा, --
“शुद्धान्तश्च विशुद्धान्ते शुद्धान्ता राजयोषितः ॥”
इति धरणिः ॥

शुद्धापह्नुतिः, स्त्री, (शुद्धा अपह्नुतिः ।) अल-

ङ्कारविशेषः । यथा, --
“शुद्धापह्नुतिरन्यस्यारोपार्थो धर्म्मनिह्नवः ।
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥”
इति चन्द्रालोकः ॥

शुद्धिः, स्त्री, (शुथ + क्तिन् ।) दुर्गा । यथा, --

“स्मरणाच्चिन्तनाद्वापि शोध्यते स हि पातकात्
तेन शु द्धिः समाख्याता देवी रुद्रतनौ स्थिता ॥”
इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥
मार्ज्जना । इति जटाधरः ॥ वैदिककर्म्मार्हत्व-
प्रयोजकसंस्कारविशेषः । यथा । शुद्ध्यशुद्ध्योः
संस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थितिर्घटते
अशु द्धेर्भावरूपत्वे शुद्धे स्तदभावरूपत्वे नैतत्
विरोधात् । अतएव शङ्खः ।
“ततः श्राद्धमशु द्धौ तु कुर्य्यादेकादशे तथा ।
कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥”
अशुद्धौ चतुर्थाहादौ । कथमशुद्धौ श्राद्धं
कालाशौचस्याधिकारिविशेषणत्वादत आह-
कर्त्तुस्तात्कालिकीति । श्राद्धविधानाक्षेपात्त-
न्मात्रनिष्ठा शुद्धिः कल्प्यते । स पुनरशुद्ध एव
कर्म्मान्तर एव । इति श्राद्धविवेकः ॥ एवं शुद्धे-
र्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः ।
तथात्वे अशौचसङ्करोऽपि न स्यात् । एकस्मिन्
शु द्ध्यभावरूपे अशौचे सत्यपरस्य तद्रूपस्य
तदानीं तत्पुरुषीयशु द्धिरूपप्रतियोग्यन्तरा-
भावादनुत्पत्तेः । तस्मात् शुद्ध्यशु द्ध्योर्भावरूप-
त्वम् । इति शुद्धितत्वम् ॥ * ॥ अथाशौचिशुद्धिः ।
“अघवृद्धिमदाशौचमूर्द्ध्वञ्चेत्तेन शुध्यति ।
अथ चेत् पञ्चमीं रात्रिमतीत्य परतो भवेत् ।
अघवृद्धिमदाशौचं तदा पूर्व्वेण शुध्यति ॥”
अघवृद्धिमत्तन्तु । सपिण्डजननाशौचापेक्षया
स्वपुत्त्रजननाशौचस्य सपिण्डमरणाशौचापेक्षया
पितृमातृमर्तृमरणाशौचस्य । * ।
“जाते पुत्त्रे पितुः स्नानं सचेलन्तु विधीयते ।
माता शुध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः ॥”
शुध्येत् स्पर्शमात्रे उत्तरवाक्ये तथा दर्शनात् । * ।
जननाशौचमध्ये तु यद्यपरं जननं स्यात् तदा
पूर्व्वाशौचव्यपगमे शुद्धिः रात्रिशेषे दिनद्वयेन
प्रभाते दिनत्रयेण मरणाशौचमध्ये ज्ञातिमरणे
ऽप्येवमिति ॥ * ॥
“यस्य यस्य तु वर्णस्य यद्यत् स्यात् पश्चिमं
त्वहः ।
स तत्र वस्त्रशु द्धिञ्च गृहशुद्धिं करोत्यपि ॥
समाप्य दशमं पिण्डं यथाशास्त्रमुदाहृतम् ।
ग्रामाद्बहिस्ततो गत्वा प्रेतस्पृष्टे च वाससी ॥
अन्त्यानामाश्रितानाञ्च त्यक्त्वा स्नानं करोत्यपि ।
श्मश्रुलोमनखानाञ्च यत्त्याज्यं तज्जहात्यपि ॥
गौरसर्षपकल्केन तिलतैलेन संयुतः ।
शिरः स्नानं ततः कृत्वा तोयेनाचम्य वाग्यतः ॥
वासोयुगं नवं शु भ्रमव्रणं शुद्धमेव च ।
गृहीत्वा गां सुवर्णञ्च मङ्गलानि शुभानि च ॥
स्पृष्ट्वा संकीर्त्तयित्वा तु पश्चात् शुद्धो भवेन्नरः ॥”
गृहशुद्धिः प्राक्तनपाकभाण्डपरित्याग उपलेपा-
दिना । त्याज्यं त्यागार्हम् ।
“अघाहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः ।
आशुच्याद्विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च
स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि ।
न तु पूर्व्वेण शुद्धिः स्यात् स्वकालेनैव शुध्यति
ममानं लघु चाशौचं पूर्व्वेणैव विशु ध्यति ।
यदि स्यात् सूतके सूतिर्मृ तके च मृतिर्भवेत् ॥
शेषेणैव भवेच्छुद्धिरहःशेषे द्विरात्रकम् ।
पृष्ठ ५/१२१
मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते ॥ * ॥
अर्व्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भ-
संस्रवः ।
तदा माससमैस्तासां दिवसैः शुद्धिरिष्यिते ॥
गर्भश्रुत्यां यथामासमचिरे तूत्तमे त्र्यहः ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव च ॥
अष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्त्तिता ।
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ॥
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ।
शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः ।
दैवे कर्म्मणि पैत्र्ये च पञ्चमेऽहनि शुध्यति ॥ * ॥
दत्ता नारी पितुर्गेहे सूयते म्रियतेऽथवा ।
स्वमशौचं चरेत् सम्यक् पृथक्स्थानव्यवस्थिता ॥
तद्बन्धुवर्गस्त्वेकेन शुध्येत्तु जनकस्त्रिभिः ।
यस्तैः सहासनं कुर्य्यात् शयनादीनि चैव हि ।
बान्धवो वा परो वापि स दशाहेन शुध्यति ॥
स्त्रीणामसंस्कृतानान्तु त्र्यहात् शुध्यन्ति
बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति हि सनाभयः ॥ * ॥
षण्मासाभ्यन्तरे शूद्रे मृते बाले त्र्यहं विदुः ।
अनतीते द्विवर्षे वै मृते शुध्येत्तु पञ्चभिः ॥
बालस्त्वन्तर्दशाहे तु प्रेतत्वं यदि गच्छति ।
सद्य एव विशुद्धिः स्यान्नाशौचं नैव सूतकम् ॥
नृणामकृतचूडानामशुद्धिर्नैशिकी स्मृता ।
निवृतचूडकानान्तु त्रिरात्राच्छुद्धिरिष्यते ॥ * ॥
दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके ।
त्रिरात्रेण सकुख्यास्तु स्नात्वा शुध्यन्ति
गोत्रजाः ॥
शुध्ये द्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥
दशमेऽहनि शूद्रस्य कार्य्यं संस्पर्शनं बुधैः ।
मासेनैव विशुद्धिः स्यात् सूतके मृतकेऽपि वा ॥
संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्यादिति धर्म्मो व्यवस्थितः ॥
पित्रोरुपरमे स्त्रीणामूढानान्तु कथं भवेत् ।
त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान् शिवः ॥
यदा भोजनकाले तु अशुचिर्भवति द्विजः ।
भूमौ निःक्षिप्य तद्ग्रासं स्नात्वा चैव विशु-
ध्यति ॥ * ॥
चिकित्सकौ यत् कुरुते तदन्येन न शक्यते ।
तस्मात् चिकित्सकस्पर्शे शुद्धो भवति नित्यशः ॥
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ।
यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥ * ॥
प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ।
एकाहात् क्षत्त्रिये शुद्धिर्वैश्ये च स्याद्द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ * ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निस्नेहं गामालभ्यार्कमीक्ष्य वा ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यद्यन्नमत्ति तेषान्तु स दशाहेन शुध्यति ।
अनदन्नन्नमह्नैव न चेत्तस्मिन् गृहे वसेत् ॥ * ॥
अस्थिसञ्चयनादर्व्वाक् यदि विप्रोऽश्रु पातयेत् ।
मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥
अस्थिसञ्चयनादूर्द्धं यावन्मासं द्विजातयः ।
दिवसेनैव शुद्धिः स्याद्वाससां क्षालनेन च ॥ * ॥
स्वजातेर्दिवसेनैव त्र्यहात् क्षत्रियवैश्ययोः ।
स्पर्शं विनानुगमने शूद्रो नक्तेन शुध्यति ॥ * ॥
अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिका ।
दशरात्रेण शुध्यन्ति भूमिष्ठञ्च नवोदकम् ॥ * ॥
उदक्या सूतिका वापि अन्त्यजं संस्पृशेद्यदि ।
त्रिरात्रेणैव शुद्धिः स्यादिति शातातपोऽब्र-
वीत् ॥ *
नवखातजलं गावो महिष्यश्छागयोनयः ।
शु ध्यन्ति दिवसैरेव दशभिर्नात्र संशयः ॥
काले नवोदकं शुद्धं न पातव्यन्तु तत्त्र्यहम् ॥” * ॥
अथ द्रव्यशुद्धिः । ब्राह्मे ।
“सुवर्णरूप्यशङ्खाश्मशु क्तिरत्नमयानि च ।
कांसायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥
निर्लेपानि विशु ध्यन्ति केवलेन जलेन तु ।
शुद्रोच्छिष्टानि शुध्यन्ति त्रिधाक्षाराम्ल-
वारिभिः ॥
सूतिकाशवविण्मूत्ररजस्वलाहतानि च ।
प्रक्षेप्तव्यानि तानग्नौ यच्च यावत् सहेदपि ॥”
रैत्यं पित्तलम् । त्रपु रङ्गम् । यत्पात्रं यावत् ।
कालमग्निं सहेत तत् पात्रं प्रक्षालनान्तरं ।
तावत्तापनीयमित्यर्थः ॥ * ॥ बृहस्पतिः ।
“अम्भसा हेमरत्नायः कांस्यं शुध्येत भस्मना ।
अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥”
राजधर्म्मे ।
“पज्जलोच्छिष्टकांस्यं यत् गवाघ्रातमथापि वा ।
गण्डूषोच्छिष्टममि च विशुध्येद्दशभिस्तु तत् ॥”
दशभिर्दिनैरिति शेषः । तथा च ।
“कांस्ये न धावयेत् पादौ यत्र स्यादपि भोजन-
मिति ।”
यत्र पात्रान्तरे भोजनं तत्र श्रुतस्यैव तस्य
साहचर्य्यात् कांस्यवच्छुद्धिः ॥ * ॥ बौधायनः ।
“भिन्नकांस्ये त योऽश्नीयात् नद्यां स्नात्वा
जपेद्दिजः ।
गायत्त्र्यष्टसहस्रन्तु एकभक्तस्ततः शुचिः ॥”
देवलः । ताम्ररजतसुवर्णाश्मस्फटिकानां भिन्न-
मभिन्नम् । इति भिन्नत्वेऽपि न दोष इत्यर्थः ॥ * ॥
विष्णुः । शारीरैर्मलैः सुराभिर्मद्यैर्व्वा यदुपहतं
तदत्यन्तोपहतं सर्व्वं लौहभाण्डमग्नौ प्रतप्तं
शध्ये त । मणिमयमश्ममयमब्जमयञ्च सप्तरात्रं
महीखननेन शृङ्गदन्तास्थिमयञ्च तक्षणेन दारु
मयं मृण्मयं जह्यादिति । लौहपद सुवर्णाद्य-
ष्टकपरम् ॥ * ॥ मनुः ।
“त्रीणिदेवाः पवित्राणि ब्राह्मणानामकल्पयन्
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥”
अदृष्टमुपघातशङ्कादिभिरज्ञातम् । अज्ञातञ्च
सदा शुचि इति याज्ञवल्क्यैकवाक्यत्वात् ।
वाचेति उपघातशङ्कायां पवित्रं भवत्विति
ब्राह्मणैर्यद्वाचा प्रशस्यते इति शूलपाणिमहा-
महोपाध्यायकुल्लूकभट्टौ ॥ * ॥ शातातपः ।
“गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।
अमीमांस्यानि शौचानि स्त्रीषु वालातुरेषु च ॥”
मनुः ।
“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः ।
रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥”
बौधायनः ।
“अदुष्टाः सन्तताधारा वातोद्धूताश्च रेणवः ।
आकराः शुचयः सर्व्वे वर्जयित्वा सुराकरम् ॥”
शङ्खलिखितौ । आकरद्रव्याणि प्रोक्षितानि
शुचीनि ॥ * ॥ यमः ।
“आममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः ।
म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयः
स्मृताः ॥”
विष्णुधर्म्भोत्तरे ।
“मुखवर्जञ्च गौः शुद्धा मार्ज्जारश्चक्रमे शुचिः ।
पुष्पाणाञ्च फलानाञ्च प्रोक्षणात् शुद्धिरिष्यते ॥”
अत्रिः ।
“मक्षिका सन्तताधारा भूमिस्तोयं हुताशनः ।
मार्ज्जारश्चापि दर्व्वी च मारुतश्च सदा
शुचिः ॥”
बौधायनः । अनेकोद्वाह्ये दारुशिले भूमिसमे
इष्टकाश्च सङ्कीर्णीभूताः इति । सङ्कीर्णीभूताः
परस्परसम्बद्धाः ॥ * ॥ विष्णुः । प्रोक्षणेन पुस्तकं
इति ॥ * ॥ शातातपः ।
“तापनं घृततैलानां प्लावनं गोरसस्य च ।
तन्मात्रमुद्धृतं शुध्येत् कठिनन्तु पयो दधि ।
अविलीनं तथा सर्पिर्व्विलीनं श्रपणेन तु ॥”
अविलीनं कठिनम् ॥ * ॥ मनुः ।
“द्रव्याणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम् ।
प्रोक्षणं संहतानाञ्च द्वारवाणाञ्च तक्षणम् ॥”
इदन्तूच्छिष्टाद्यल्पदोषे । उत्प्लवनं वस्त्रान्तर-
निर्व्वापणेन कीटाद्यपनयनम् ॥ * ॥ शातातपः ।
“क्लीवाभिशप्तपतितैः सूतिकोदक्यनास्तिकैः ।
दृष्टं वा स्यात् यदन्नन्तु तस्य निष्कृ तिरुच्यते ॥
अभ्युक्ष्य किञ्चिदुद्धृत्य भुञ्जीताप्यविशङ्कितः ॥ * ॥
देवलः ।
“चाण्डालेन शुना वापि दृष्टं हविरयज्ञियम् ।
विडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत् ॥”
अन्यत्र हिरण्योदकस्पर्शादिति ॥ * ॥ मनुः ।
“अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥”
शुद्धिरित्यनुवृत्तौ विष्णुः । गुडानामिक्षुविका-
राणां प्रभूतानां वाय्वग्निदानेन सर्व्वलवणाना-
ञ्चेति ॥ * ॥ अङ्गिराः ।
“यथा यतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः
शूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥”
प्रविष्टं स्वत्वापादकप्रतिग्राहादिनेति शेषः ॥
“सकुणपं सकर्द्दमं तेभ्यस्तोयमपास्य तत् ।
प्रक्षिपेत् पञ्चगव्यञ्च समन्त्रं सर्व्वशु द्धिकृत् ॥
अपास्य कुणपं तेभ्यो बहुतोयेभ्य एष वा ।
पृष्ठ ५/१२२
शतं षष्ट्यथवा त्रिंशत् तोयकुम्भान् समुद्धरेत् ॥
पञ्चनव्यं ततस्तेषु प्रक्षिपेन्मन्त्रपूर्व्वकम् ॥”
शतादि अल्पत्वाद्यपेक्षया अत्यल्पस्य सर्व्वो-
द्धारणाभिधानात् ॥ * ॥ बृहन्मनुः ।
“श्वशूद्रपतिताश्चान्त्या मृताश्चे द्विजमन्दिरे ।
शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा ॥
दशरात्राच्छुनि प्रेते मासात् शूद्रे भवेच्छुचिः ।
द्वाभ्यान्तु पतिते गेहे अन्त्ये मासचतुष्टायात् ।
अन्यन्त्ये वर्जयेद्गेहमित्येवं मनुरव्रवीत् ॥”
यमः ।
“द्विजस्व मरणे वेश्म विशुध्यति दिनत्रयात् ।
दिनैकेन बहिर्भुमिरग्निक्षेपणलेपनैः ॥” * ॥
यथोक्तकालानन्तरं कर्त्तव्यमाह सम्बर्त्तः ।
“गृहशुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते ।
प्रोत्सृज्य मृण्मयं पात्रं सिद्धमन्नं तथैव च ॥
गृहादपास्य तत् सर्व्वं गोमयेनानुलेपयेत् ।
गोमयेनानुलिप्याथ छागेनाघ्रापयेद्बुधः ॥
व्राह्मणैर्म्मन्त्रपूतैश्च हिरण्यकुशवारिभिः ।
सर्व्वमभ्यु क्षयेद्वेश्म ततः शुध्यत्यसंशयः ॥”
मन्त्रानादेशे गायत्त्री ॥ * ॥ देवलः ।
“पञ्चधा वा चतुर्धा वा भूरमेध्या विशुध्यति ।
दुष्टा द्विधा त्रिधा वापि शुध्यते मलिनैकधा ॥
दहनं खननं भूमेरुपलेपनवापने ।
पर्जन्यवर्षणञ्चापि शौचं पञ्चविधं स्मृतम् ॥
प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः ।
चाण्डालैरुषितं यत्र यत्र विन्यस्यते शवः ॥
विण्मुत्रोपहतं यच्च कुणपो यत्र दृश्यते ।
एवं कश्मलभूयिष्ठा भूरमेध्यातिकथ्यते ॥
कृमिकीटपदक्षेपर्दूषिता यत्र मेदिनी ।
त्रप्सया कर्षणैः क्षिप्ता वान्तैर्व्वा दुष्टतां व्रजेत् ॥
नखदन्ततनूजत्वक्तुषपांशुरजोमलैः ।
भस्मपङ्कतृणैर्व्वापि प्रच्छन्ना मलिना भवेत् ॥”
वापनं मृदन्तरेण पूरणम् । त्रप्सा घनीभूत-
श्लेष्मादि । इति शुद्धितत्त्वम् ॥ * ॥ अपिच ।
याज्ञवल्क्य उवाच ।
“द्रव्यशुद्धिं प्रवक्ष्यामि तान्निबोधत सत्तमाः ।
सौवर्णराजताब्जानां शाकवज्रादिचर्म्मणाम् ॥
पात्राणां चमसानाञ्च वारिणा शुद्धिरिष्यते ।
उष्णवार्भिः श्रुक्श्रुवयोर्धान्यादेः प्रोक्षणेन च ॥
तक्षणात् दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनात् ।
सोष्णैरुदकगोमूत्रैः शुध्यत्याविककैशिकम् ॥
भैक्षं योषिन्मु खं पुण्यं पुनः पाकान्महीमयम् ।
गोघ्राते च तथा केशमक्षिकाकीटदूषिते ।
भस्मक्षेपाद्विशुद्धिः स्याद्विशुद्धिर्मार्जनादिना ॥
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिर्लोहकांस्यानामज्ञातञ्च सदा शुचि ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात् ।
शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम् ॥
तथा मांसं श्वचाण्डालक्रव्यदादिनिपातितम् ।
रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ॥
अश्वाजविप्र षो मेध्यास्तथा चामलबिन्दवः ।
स्नात्वा पीत्वा क्षुते सुप्ते भुक्ता रथ्योपसर्पणे ॥
आचान्तः पुनराचामेत् वासो व्युत्परिधायच ।
क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने ॥
पञ्चस्वेतेषु नाचामेत् दक्षिणं श्रवणं स्पृशेत् ।
तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥”
इति गारुडे ९७ अध्यायः ॥
अन्यच्च ।
“मणिवस्त्रप्रबालानां तद्वन्मुक्ताफलस्य च ।
शैलदारुमयानाञ्च तृणगुल्मौषधस्य च ॥
शाकधान्याजिनानाञ्च संहतानाञ्च वाससाम् ।
वल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥
सस्नेहानामथोष्णेन तिलकल्केन शोधनम् ।
कार्पासिकानां वस्त्राणां शुद्धिः स्यात् सह
भस्मना ॥
नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ।
पुनःपाकेन भाण्डानां मृण्मयानाञ्च शुद्धता ॥
शुद्धं भक्षं कारुहस्तः पण्यं योषिन्मु कं तथा ।
रथ्यागतमविज्ञातं दासवर्गेण यत् कृतम् ॥
वाक्यशस्तं चिरानीतमनेकान्तरितं लघु ।
चेष्टितं बालवृद्धानां बालस्य तु मुखं शुचि ॥
म्ले च्छानामपि गोशालास्तनन्धयसुताः स्त्रियः
वाग्विप्रुषो द्विजेन्द्राणां पाठे वागम्बुबिन्दवः ॥
भूमिर्विशुध्यते खातदाहगोक्रमसेचनैः ।
लेपादुल्ले खनात् सेकात् वेश्मसम्मार्ज्जनाज्जलात्
केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते ।
मृद्वारिभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥
उडम्बराणाञ्चाम्लेन क्षारेण त्रपुसीसयोः ।
कांस्यानां भस्मना शुद्धिस्तोयाच्छुद्धिर्द्रवस्य च ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।
अन्येषामपि तद्द्रव्यैः शुद्धिर्गन्धावहारतः ॥
मातुः प्रसवने वत्सः शकुनिः फलपातने ।
गर्द्दभो भारहारित्वे श्वा मृगग्रहणे शुचिः ॥
रथ्याकर्द्द मतोयानि नावः पथि तृणानि च ।
मारुतेनैव शुध्यन्ति पक्वेष्टरचितानि च ॥
शृतं द्रोणाढकस्यान्तममेध्याभिप्लु तं भवेत् ।
अग्रमुद्धृत्य सन्त्याज्यं शेषस्य प्रोक्षणं स्मृतम् ॥
उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।
अज्ञाते ज्ञातपूर्व्वे च नैव शुद्धिर्व्विधीयते ॥
उदक्याश्वाननग्नांश्च सूतिकान्त्यावशायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥
सस्ने हमस्थि संस्पृश्य सवासाः स्नानमाचरेत् ।
आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य च ॥”
इति वामनपुराणे १४ अध्यायः ॥
अन्यत् मार्कण्डेयपुराणे सदाचाराध्याये द्रष्ट-
व्यम् ॥ जलशुद्धिर्यथा, --
“गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्म्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥”
भूतशुद्धिस्तु तच्छब्दे द्रष्टव्या ॥ * ॥ आसन-
शुद्धिर्यथा । “एते गन्धपुष्पे आधारशक्तिकमला-
सनाय नमः । आसनमन्त्रस्य मेरुपृष्ठ ऋषिः
सुतलं छन्दः कूर्म्मो देवता आसनपरिग्रहे
विनियोगः ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता
त्वञ्च धारय मां नित्यं पवित्रं कुरु चासनम् ॥”
मण्डपशुद्धिर्यथा, --
“पञ्चगव्येन मूलेन मण्डपं परिशोधयेत् ॥”
गौतमीये ।
“शञ्चगव्येन तद्गेहं मण्डलञ्च विशोधयेत् ॥”
पञ्चगव्यप्रमाणन्तु तत्रैव ।
“पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतञ्च पलमात्रं स्यात् गोमयं तोलकद्वयम् ॥
दधि प्रसृतिमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् ।
अथवा पञ्चगव्यानां समानो भाग इष्यते ॥
मूलमन्त्रेण संमन्त्र्य तेनैव परिशोधयेत् ।
तेन सर्व्वविशुद्धिः स्यात् सर्व्वपापनिकृन्तनम् ॥”
इति तन्त्रसारः ॥ * ॥
ग्रहशुद्धिर्गोचरशब्दे द्रष्टव्या ॥

शुद्ध्वोदनसुतः, पुं, (शुद्धोदनस्य सुतः ।) बुद्धभेदः ।

इति हेमचन्द्रः ॥

शुध, ऌ य औ शौचे । इति कविकल्पद्रुमः । (दिवा०

पर०-अक०-अनिट् ।) ऌ, अशुधत् । य, शुध्यति
लोकः स्नानात् । औ, शोद्धा । रजसा शुध्यते
नारीत्यत्र शुध्यतीति क्विपि शुधं करोतीति
ञौ कर्म्मणि यकि रूपम् । इति दुर्गादासः ॥

शुन, श गत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) श, शुननि । शोनिता ।
इति दुर्गादासः ॥

शुनः, पुं, (शुनति सदा इतस्ततो गच्छतीति ।

शुन + कः ।) कुक्कुरः । यथा, --
“कुक्कु रस्तु शुनिः श्वानः कपिलो मण्डलः
शुनः ॥”
इत्यमरटीकायां भरतधृतवाचस्पतिः ॥
(शुनति क्षिप्रं गच्छतीति । कः । वायुः । इति
निघण्टु टीकायां देवराजयज्वा ॥ ५ । ३ । ३४ ।
क्ली, सुखम् । इति ऋग्वेदभाष्ये सायणः । ४ ।
५७ । ९ ॥)

शुनःशेफः, पुं, मुनिविशेषः । स तु ऋचीकमुनि-

पुत्त्रः । अम्बरीषेण यज्ञार्थं क्रीतः विश्वामित्रेण
रक्षितश्च । इति रामायणे वाल्मीकीये बाल-
काण्डे ६१ सर्गः ॥ (वरुणशापात् जलोदररोग-
पीडितो हरिश्चन्द्रः अजीगर्त्तपुत्त्रं शुनःशेफं पशुं
विधाय वरुणतुष्ट्यर्थं यज्ञमारब्धवान् । करुणा-
र्द्रचित्तो शिश्वामित्रस्तु तमतीवव्याकुलमव-
लोक्य मोचयामास । ततः प्रभृति शुनःशेफोऽयं
विश्वामित्रस्य पुत्त्र इति प्रसिद्ध्वोऽभूत् । एतद्वृ-
त्तान्तस्तु देवीभागवते ७ स्कन्धे १६ अध्याय-
मारभ्य द्रष्टव्यः ॥ कुक्कु रशिश्ने, क्ली ॥

शुनकः, पुं, (शुनति इतस्ततो गच्छतीति ।

शुन गतौ + “क्वुन् शिल्पिसज्ञयोरपूर्व्व स्यापि ।”
उणा० २ । ३२ । इति क्वुन् । कुक्कुरः । इति
राजनिर्घण्टः ॥ (यथा, महाभारते । १३ ।
१२७ । १६ ।
“भिन्नभाण्डञ्च खट्वाञ्च कुक्कुटं शुनकं तथा ।
अप्रशस्तानि सर्व्वाणि यश्च वृक्षो गृहेरुहः ॥”
ऋषिविशेषः । यथा, महाभारते । २ । ४ । १० ।
पृष्ठ ५/१२३
“असितो देवलः सत्यः शर्पमाली महाशिराः ।
अर्कावसुः सुमित्रश्चमैत्रेयः शुनको बलिः ॥”)

शुनकचञ्चुका, स्त्री, (शुनकस्य चञ्चरिव । इवार्थे

कन् ।) क्षुद्रचञ्चुक्षुपः । इति राजनिर्घण्टः ॥

शुनकचिल्ली, स्त्री, (शुनकप्रिया चिल्ली ।) शाक-

विशेषः । तत्पर्य्यायः । श्वचिल्ली २ श्वानचिल्लिका
३ । अस्या गुणाः । कटुत्वम् । तीक्ष्णत्वम् ।
कण्डूव्रणनाशित्वञ्च । इति राजनिर्घण्टः ।

शुनाशीरः, पुं, (शुनाशीरौ वायुसूर्य्ये अस्य स्त

इति । अर्श-आदित्वादच् ।) इन्द्रः । इति
भरतद्विरूपकोषः ॥

शुनासीरः, पुं, (शुनासीरौ वायुसूर्य्ये अस्य स्त

इति । शुन । सीर + अर्शआद्यच् ।) इन्द्रः ।
यथा, --
“शुनाशीरो द्वितालव्यः शुनासीरो द्विदन्त्यकः
तालव्यादिर्दन्त्थमध्यः शुनासीरश्च दृश्यते ॥”
इत्यमरटीकायां भरतः ॥
(यथा, तैत्तिरीयसंहितायाम् । १ । ८ । ७ । १ ।
“इन्द्राय शुनासीराय पुरोडाशमिति ॥” * ॥
वायुसूर्य्यौ । इति निघण्टुः । ५ । ३ ॥ “शु-शब्दार्थ-
विशिष्टात् शुन गतौ इत्यस्मात् इगुपधलक्षणः
कः । क्षिप्रं गच्छत्यन्तरिक्षमिति शुनो वायुः
यद्वा, शु-शब्दोपपदान्नयतेर्गतिकर्मणः अन्ये-
ष्वपि दृश्यते इति डः । भाष्ये तु शु एतदर्थतो
निर्वचनं प्रायेण । सर्त्तेः ‘डिण्डीरवानीरगभीर
गम्भोर-कुम्भीर-शीरकाश्मीरजम्बीरकीरतीरा-
दयः’ इति ईरन्-प्रत्ययष्टिलोपश्च निपात्यते ।
सदा सरणात् सीर आदित्यः । शुनञ्च सीरञ्च
देवताद्वन्द्वे च इत्यङ् ।” इति तट्टीकायां देव-
राजयज्वा ॥ * ॥ इन्द्रवायू । यथा, ऋग्वेदे । ४ ।
५७ । ९ ।
“शुनासीरा शुनमस्मासु धत्तम् ॥”)
“हे शुनासीरा इन्द्रवाय्वादित्यौ वा ।” इति ।
तद्भाष्ये सायणः )

शुनिः, पुं, (शुनति क्षिप्रं गच्छतीति । शुन गतौ

+ “इगुपधात् कित् ।” उणा० ४ । ११९ । इति
इन् । स च कित् ।) कुक्कुरः । इति हेमचन्द्रः

शुनी, स्त्री, (श्वन् + गौरादित्वात् ङीष् ।) कुक्कुरी ।

इत्यमरः ॥ (यथा, भागवते । ९ । १८ । ११ ।
“अहो निरीक्ष्यतामस्या दास्याः कर्म्म
ह्यसाम्प्रतम् ।
अस्मद्धार्य्यं धृतवती शुनीव हविरद्धरे ॥”)
कुष्माण्डी । इति राजनिर्घण्टः ॥

शुनीरः, पुं, कुक्कुरीसमूहः । इति त्रिकाण्डशेषः

शुन्ध, क शुद्धौ । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-अक०-सेट् । क, श्रुन्धयति । अयमात्मने
पदीत्येके । इति दुर्गादासः ॥

शुन्ध, ञ शुद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सक० च-सेट् ।) शुद्धिरिह शुद्धी-
भावः शुद्धीकरणञ्च । ञ, शुन्धति शुन्धते जलेन
लोकः । यो गां शुन्धति सत्येनेति हलायुधः ।
नां वाचम् । इति दुर्गादासः ॥

शुन्ध्युः, पुं, (शुन्ध शुद्ध्वौ + “यजिमनिशुन्धिदसि-

जनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।)
अग्निः । इत्युणादिकोषः ॥ (आदित्यः । पक्षि-
विशेषः । यथा, ऋग्वेदे । १ । १२४ । ४ ।
“उपो अदर्शि शुन्ध्युवो न वक्षः ॥”
“शुन्ध्यु रादित्यः सर्व्वेषां शोधकत्वात् *** यद्वा-
शुन्ध्य रिति जलचरः श्वेतवर्णः पक्षिविशेषः ।”
इति तद्भाष्ये मायणः ॥)

शुन्भ, श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-अक०-हिंसने सक०-सेट् ।) श,
शुभति शुम्भति । शुशोभ शुशुम्भ । इति दुर्गा-
दासः ॥

शुन्यं, क्ली, शुनीसमूहः । इति त्रिकाण्डशेषः ॥

रिक्ते, त्रि । इति जटाधरः ॥ (यथा, साहित्य-
दर्पणे ३ परिच्छेदे ।
“शुन्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चित्
शनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्बर्ण्य पत्यु-
र्मुखम् ॥”
शुने हितम् । श्वन् + “उगवादिभ्यो यत् ।”
५ । १ । २ । इति यत् । “शुनः सम्प्रसारणं वा च
दीर्घत्वम् ।” इत्युक्त्या सम्प्रसारणम् ॥)

शुभ, प श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः ।

(तुदा०-पर०-अक०-हिंसने सक०-सेट् । प
श, शुम्भति शुशोभ । प्राञ्चस्तु ह्वादौ च शुभ
शुन्भ भासनहिंसनयोरिति पठन्ति । इति
दुर्गादासः ॥

शुभ, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऌ, अशुभत् । ङ,
शोभते । न शोभति सभामध्ये इति गणकृता-
नित्यत्वादिति रमानाथः । वस्तुतस्तु शोभते
शोभः पचादित्वादन् । ततः शोभ इवाचरतीति
क्वौ साध्यम् । इति दुर्गादासः ॥

शुभं, क्ली, (शोभते इति । शुभ दीप्तौ + कः ।)

मङ्गलम् । इत्यमरः ॥ (यथा, कथासरित्सागरे ।
१२४ । ११२ ।
“अहो मूर्खोऽयमशुभं शुभमित्यभिनन्दति ॥”
पद्मकाष्ठम् । इति राजनिर्घण्टः ॥ (उदकम् ।
इति निघण्टुः । १ । १२ ॥ शुभपर्य्याये शुम-
मित्यव्ययमप्यस्ति । इति काशिका । ५ । २ ।
१४० ॥)
शुभः, पुं, (शोभते इति । शुभ + कः ।) विष्कु-
म्भादिसप्तविंशतियोगान्तर्गतत्रयोविंशयोगः ।
तत्र जातफलम् । यथा, कोष्ठीप्रदीपे ।
“शुभप्रसूतः शुभकृन्नराणां
शुभोदयेष्टो विदुषां समाजे ।
करोति नित्यं शुभकर्म्म धीमान्
शोभाधिकः शोभनवेशधारी ॥”

शुभः, त्रि, (शुभमस्यास्तीति । अर्शआद्यच् ।)

क्षेमशाली । (यथा, मनुः । ८ । २९७ ।
“पञ्चाशत्तु भवेद्दण्डः शुभेषु मगपक्षिषु ॥”)
खसञ्चारिपुरम् । इति मेदिनी । भे, ८ ॥

शुभंयुः, त्रि, (शुभमस्यास्तीति । शुभम् + “अहं-

शुभमोर्युस् ।” ५ । २ । १४० । इति युस् ।)
मङ्गलान्वितः । इत्यमरः ॥ (यथा, रघुः । ८ । ६ ।
“अधिकं शुशुभे शुभंयुना
द्वितयेन द्वयमेव सङ्गतम् ॥”)

शुभगन्धकं, क्ली, (शुभो गन्धो यस्य ।) वोलम् ।

इति राजनिर्घण्टः ॥ मङ्गलगन्धयुक्ते, त्रि ॥

शुभग्रहः, पुं, (शुभः ग्रहः ।) सौम्यग्रहः । स तु

गुरुः शुक्रः पापायुतबुधः अर्द्धाधिकचन्द्रश्च ।
यथा, --
“अर्द्धो नेन्दुः कुजो राहुः शनिस्तैर्युत इन्दुजः ।
रविः पापा भवन्त्ये ते शुभाश्चान्ये प्रकीर्त्तिताः ॥”
इति सारसंग्रहः ॥
तद्वारे शुभकर्म्मकरणं यथा, --
“शुभग्रहार्कवारे च मृदुक्षिप्रध्रुवेषु च ।
शुभराशिविलग्ने च शुभं शान्तिकपौष्टिकम् ॥”
इति संस्कारतत्त्वम् ॥

शुभङ्करः, त्रि, (शुभं करोतीति । शुभ + कृ +

खच् ।) मङ्गलकारकः । यथा, भूरिप्रयोगे ।
“क्षेमङ्करः क्षेमकारो मद्रङ्करशुभङ्करौ ॥”
स्वनामख्याताङ्कशास्त्रकारके, पुं, ॥
शुभङ्करी, स्त्री, (शुभं करोति या । कृ + खच्
ङीष् ।) पार्व्वती । इति शब्दरत्नावली ॥

शुभदः, पुं, (शुभं ददातीति । दा + कः ।) अश्वत्थ-

वृक्षः । इति राजनिर्घण्टः ॥ शुभदातरि, त्रि ॥
(यथा, वृहत्संहितायाम् । ९ । २२ ।
“अपरस्यां स्वात्याद्यं
ज्येष्ठाद्यं चापि मण्डलं शुभदम् ॥”)

शुभदन्ती, स्त्री, (शुभौ दन्तौ यस्याः । ङीष् ।)

पुष्पदन्तभयोषित् । सुदती । इति मेदिनी ॥

शुभपत्रिका, स्त्री, (शुभानि पत्राणि यस्याः ।

स्वार्थे कन् । टापि अत इत्वम् ।) शालपर्णी ।
इति राजनिर्घण्टः ॥ मङ्गलपत्रिका च ॥

शुभवासनः, पुं, (शुभं शोभनं यथा तथा वासयति

मुखमिति । शुभ + वस + णिच् + ल्युः ।) मुख-
वासकरगन्धः । यथा, --
“मुखवासकरो गन्ध आमोदी मुखवासनः ।
सुखवासन इत्येके शुभवासन इत्यपि ॥”
इति शब्दरत्नावली ॥

शुभसूचनी, स्त्री, (शुभं सूचयतीति । सूच् +

निच् + ल्युः । स्त्रियां ङीष् ।) देवीविशेषः ।
सुवचनीति ख्याता । सा च स्त्रिया पूज्या ।
तस्याः ध्यानं यथा, --
“रक्ता पद्मचतुर्म्मुखी त्रिनयनी चामीकरालङ्कता
पीन्नोत्तुङ्गकुचादुकूलवसना हंसाधिरूढा परा
ब्रह्मानन्दमयी कमण्डलुकराक्षाभीतिहस्ता
शिवा
ध्येया सा शुभसूचनी त्रिजगतामम्बापदुद्धा-
रिणी ॥”
इत्याचारमोर्त्तण्डः ॥

शुभस्थली, स्त्री, (शुभा स्थली ।) यज्ञभूमिः ।

इति केचित् ॥ मङ्गलभूमिश्च ॥
पृष्ठ ५/१२४

शुभा, स्त्री, शोभा । कान्तिः । इच्छा । इति

मेदिनी ॥ वंशरोचना । गोरोचना । शमी ।
प्रियङ्गुः । श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥
देवसभा । इति शब्दरत्नावली ॥ उमासखी-
विशेषः । इति शब्दमाला ॥ मङ्गलजनिका च ॥

शुभाङ्गी, स्त्री, (शुभानि अङ्गानि यस्याः । ङीष् ।)

कुबेरपत्नी । कामदेवपत्नी । इति केचित् ॥
(कुरुराजपत्नी । यथा, महाभारते । १ । ९५ । ३९
“कुरुः खलु दशार्होमुपयेमे शुभाङ्गीं नाम
तस्यामस्य जज्ञे विदूरथः ॥”) मङ्गलावयव-
युक्ते, त्रि ॥

शुभाचारा, स्त्री, (शुभः आचारो यस्याः ।)

उमासखी । इति शब्दमाला ॥ शोभनाचार-
वति, त्रि ॥

शुभाञ्जनः, पुं, शोभाञ्जनवृक्षः । इति शब्दरत्ना-

वली ॥

शुभान्वितः, त्रि, (शुभेन अन्वितः ।) मङ्गलयुक्तः ।

तत्पर्य्यायः । शुभयुः २ । इत्यमरः ॥

शुभ्रं, क्ली, (शोभते इति । शुभ दीप्तौ + “स्फायि

तञ्चिवञ्चीति ।” उणा ० २ । १३ । इति रक् ।)
अभ्रकम् । इति मेदिनी ॥ गडलवणम् । रौप्यम्
कासीसम् । इति राजनिर्घण्टः ॥

शुभ्रः, पुं, (भ दीप्तौ + रक् ।) शुक्लवर्णः । इत्य-

मरः ॥ चन्दनम् । इति शब्दचन्द्रिका ॥

शुभ्रः, त्रि, (शुभ + रक् ।) उद्दीप्तः । शुक्लगुण-

युक्तः । इत्यमरः ॥ (यथा, रघुः । २ । ६९ ।
“पपौ वशिष्ठे न कृताभ्यनुज्ञः
शुभ्रं यशो मूर्त्तमिवातितृष्णः ॥”)

शुभ्रदन्ती, स्त्री, (शुभ्रौ दन्तौ यस्याः । शुभ-

दन्ती । सा तु पुष्पदन्तनामदिग्गजकरिणी ।
इत्यमरटीका ।

शुभ्ररश्मिः, पुं, (शुभ्रा रश्मयो यस्य ।) चन्द्रः ।

इति केचित् ॥ श्वेतकिरणश्च ॥

शुभ्रांशुः, पुं, (शुभ्रा अंशवो यस्य ।) चन्द्रः ।

इत्यमरः ॥ कर्पूरः । इति राजनिर्घण्टः ॥

शुभ्रालुः, पुं, (शुभ्रः शुक्ल आलुः ।) महिष-

कन्दः । इति राजनिर्घण्टः ॥ श्वेतालुश्च ॥

शुभ्रिः, पुं, (शोभते इति । शुभ + “अदिशदिभू-

शुभिभ्यः क्रिन् ।” ४ । ६५ । इति क्रिन् ।)
ब्रह्मा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

शुम्भः, पुं, दानवविशेषः । स तु गवेष्ठीपुत्त्रः

प्रह्णादपौत्त्रः अम्बिकया हतश्च । यथा, --
“विरोचनस्तु प्राह्लादिः पञ्च तस्यानुजाः स्मृताः
गवेष्ठी कालनेमिश्च जम्भो वास्कल एव च ॥
शम्भुः श्रेष्ठोऽनुजस्तेषां पुत्त्रानेषामतः शृणु ।
शुम्भश्चैव निशुम्भश्च विश्वक्सेनो महौजसः ।
गवेष्ठिनः सुता ह्येते जम्भस्य सुतदुन्दुभिः ॥”
इत्याद्ये वह्रिपुराणे कस्यपीयप्रजासर्गाध्यायः ॥
अन्यच्च ।
पुलस्त्य उवाच ।
कश्यपस्य दनुर्न्नाम भार्य्यासीत् द्विजसत्तम ।
तस्यास्तु द्वौ सुतावास्तां सहस्राक्षाद्वलाधिकौ ॥
ज्येष्ठः शुम्भ इति ख्यातो निशुन्भश्चापरोऽसुरः ॥”
इति वामनपुराणे ५२ अध्यायः ॥
अपरञ्च ।
ऋषिरुवाच ।
“निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलञ्चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥
बलावलेपदुष्टे त्वं मा दुर्गे गर्व्वमावह ।”
इत्यादि ॥
“स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः ।
अभ्याधवत दुष्टात्मा चण्डिकानिधनेच्छया ॥
तमायान्तं ततो देवी सर्व्वदैत्यजनेश्वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ।
स गतासुः पपातोर्व्व्यां देवीशूलाग्रविक्षतः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्मे शुम्भवधः
१० अध्यायः ॥

शुम्भघातिनी, स्त्री, (शुम्भं हन्तीति । हन +

णिनिः । ङीप् ।) दुर्गा । इति शब्दरत्नावली ॥

शुम्भपुरं, क्ली, (शुम्भस्य पुरम् ।) शुम्भदैत्यस्य

पुरी तत्पर्य्यायः । एकचक्रम् ३ हरिघम् ३ ।
इति भूरिप्रयोगः ॥ अधुना शुम्भलपुर इति
ख्यातम् ॥

शुम्भपुरी, स्त्री, (शुम्भस्य पुरी ।) शुम्भपुरम् ।

इति त्रिकाण्डशेषः ॥

शुम्भमर्द्दिनी, स्त्री, (शुम्भं मृद्नातीति । मृद् +

णिनिः ।) दुर्गा । इति हेमचन्द्रः ॥

शुल्क, क भाषे । सर्ज्जने । वर्ज्जने । इति कवि-

कल्पद्रुमः ॥ (चरा०-पर०-सक०-सेट् ।) क,
शुल्कयति । शुल्क श्लोक इत्येतयोरेतावर्थौ
कैश्चिन्न मन्यते । भाषः कथनम् । इति दुर्गा-
दासः ॥

शुल्कः, पुं, क्ली, (शुल्क + घञ् ।) घट्टादिदेयम् ।

मासुल इति भाषा । इत्यमरः ॥ घट्टः पन्थाः तत्र
आदिना द्रव्यक्रयविक्रयस्थानादौ च यद्देयंदीयते
स शुल्को जगात् इति घटी इति राज इति
च ख्यातः । शलति प्रतिबन्धोऽनेनेति शुल्कः ।
शल ज गतौ तालव्यादिः नाम्नीतिकः निपा-
तनादत उत्वम् । घट्ट चाले घट्ट्यतेऽत्र इति घञि
घट्टः । घट्टो वर्त्मोति माधवी । घट्टो राजग्राह्य-
ग्रहणस्थानादिरिति मुकुटः । घट्टो घाट इति
ख्याते इति रमानाथः । इति तट्टीकायां
भरतः ॥ (यथा, मनुः । ८ । ३०७ ।
“योऽरक्षन् बलिमादत्ते करं शुल्कञ्च पार्थिवः ।
प्रतिभागञ्च दण्डञ्च स सद्यो नरकं व्रजेत् ॥”)
वरादर्थग्रहणम् इति मेदिनी ॥ (यथा, मनुः ।
३ । ५१ ।
“न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्क-
मण्वपि ।
गृह्णन् शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥”
पणः । यथा, महाभारते । १ । १९१ । ४ ।
“इत्युक्तो धनुरायम्य शुल्कावाप्तं महाबलः ।
भ्राता भीसेन सहितस्तस्थौ गिरिरिवाचलः ॥”)

शुल्लं, क्ली, रज्जुः । ताम्रम् । इत्यमरटीका ॥

शुल्व, क माने । सर्गे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक-सेट् ।) पञ्चमस्वरयुक्त-
स्तालव्यादिरन्तःस्थतृतीयोपधः । सर्गः सृष्टिः ।
क, शुल्वयति वेधाः पृथिवीं परिमाति सृजति
वा इत्यर्थः । इति दुर्गादासः ॥

शुल्वं, क्ली, (शुल्वयत्यनेनेति । शुल्व माने + घञ् ।

यद्वा, शुच शोके + “उल्वादयश्च ।” उणा०
४ । ९५ । इति वन्प्रत्ययेन निपातनात् साधु )
ताम्रम् । रज्जुः । इत्यमरः ॥ (यथा, भागवते ।
२ । ७ । ३० ।
“गृह्णीत यद्यदुपबन्धममुष्य माता
शुल्वं सुतस्य न तु तत्तदमुष्य माति ॥”)
ताम्रपात्रपक्वान्नभोजनदोषो यथा, --
“ताम्रे पक्त्वा चक्षुर्हानिर्मणौ भवति वै क्षयम् ।”
इति मत्स्यसूक्ते ४२ पटलः ॥
यज्ञकर्म्म । आचारः । जलसन्निधिः । इति
मेदिनी ॥

शुल्वारिः, पुं, (शुल्वस्य अरिः ।) गन्धकः । इति

हेमचन्द्रः ॥

शुशुमा, स्त्री, शुक्रपत्नी । इति केचित् ॥

शुश्रुवान्, [स्] त्रि, श्रुतवान् । श्रुधातोः क्वसु-

प्रत्ययेन निष्पन्नः । इति सिद्धान्तकौमुदी ॥
(यथा, भट्टिः । १ । २० ।
“स शुश्रुवान् तद्वचनं मुमोह
राजा सहिष्णुः सुतविप्रयोगम् ॥”)

शश्रूः, स्त्री, माता । यथा । “शिशोः शुश्रूषणात्

शुश्रूः ।” इति महाभारते । १२ । २६५ । ३२ ॥

शुश्रूषणं, क्ली, (श्रु + सन् + ल्यूट् ।) सेवा यथा,

“शुश्रूषणोपासनञ्च सेवोपास्तिरुपासना ।”
इति शब्दरत्नावली ॥
(यथा, भागवते । १० । ७८ । ३९ ।
“तं पापं जहि दासार्ह तन्नःशुश्रूषणं परम् ॥”

शुश्रूषा, स्त्री, (श्रु + सन् “अ प्रत्ययात् ।” ३ । ३ ।

१०२ । इति अः ।) उपासनम् । (यथा,
मनुः । २ । ११२ ।
“धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा
तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)
कथनम् । श्रोतुमिच्छा । इति मेदिनी ॥ (यथा,
कामन्दकीये । ४ । २२ ।
“शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा ।
उहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च
धीगुणाः ॥”)

शुष, य औ ॡ शोषे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-अनिट् ।) शोषः स्नेह-
रहितोभावः । य, शुष्यति धान्यमातपेन । औ,
शोष्टा ॡ । अ, अशुषत् । इति दुर्गादासः ॥
शुषः पुं,) शष + कः ।) ‘शोषणम् । गर्त्तः । इत्य
जयपालः ॥

शुषिः, स्त्री, (शुष + इन् । स च कित् ।) शोषः ।

विलम् । इति मेदिनी ॥

शुषिरं, क्ली, (शुष शोषणे + “इषिमदिमुदिती ।”

उणा० १ । ५२ । इति किस्च् । यद्वा, शुषि-
पृष्ठ ५/१२५
श्छिद्रमस्यास्तीति । शुषि + “ऊषशुषिमुष्क-
मधो रः ।” ५ । २ । १०७ । इति रः ।) विवरम् ।
वंश्यादिवाद्यम् । सरन्धृए, त्रि । इत्यमरः ॥
(आकाशः । इत्युज्ज्वलदत्तः । १ । ५२ ॥)

शुषिरः, पुं, (शुषिर्विलमस्यास्तीति । शुषि + रः ॥।

मूषिकः । इति मेदिनी ॥ अग्निः । इति विश्वः

शुषिरा, स्त्री, (शुषिर + टाप् ।) नदी । इति

धरणिः ॥ नलीनामगन्धद्रव्यम् । इत्यमरः ॥

शुषिलः, पुं, (शुष + “गुपादिभ्यः कित् ।” उणा०

१ । ५७ । इति इलच् । स च कित् ।) वायुः ।
इत्युणादिकोषः ॥

शुष्कः, त्रि, (शुष शोषे + क्तः । यद्वा, “सृवृभूशु-

षिमुषिभ्यः कक् ।” उणा ० ३ । ४१ । इति कक् ।
निस्नेहः । शुक्ना इति भाषा । यथा, --
“शुष्कं पर्य्युषितं वापि नीतं वा दुरदेशतः ।
कुक्कुरस्य मुखाद्भ्रष्टं तदन्नं पापनं महत् ॥”
इति स्कान्दे उत्कलखण्डम् ॥
(निष्प्रयोजनम् । यथा, मनुः । ४ । १३९ ।
“शुष्कवैरं विवादञ्च न कुर्य्यात् केनचित् सह ॥”

शुष्कपत्रं, क्ली, (शुष्कं पत्रम् ।) स्नेहरहितदलम् ।

आतपादिशोषितपट्टशाकम् । नालिता इति
शुक्ता इति च भाषा । तस्य गुणाः ।
“शुष्कपत्रं पयोमिश्रं पित्तश्ले श्मज्वरापहम् ॥)
तत् शुष्कपत्रं जलदोषनाशनं
विशेषतः पित्तकफज्वरापहम् ।
जलञ्च तस्यापि च पित्तहारकं
सुरोचनं व्यञ्जनयोगकारकम् ॥”
इति राजवल्लभः ॥

शुष्कमत्स्यः, पुं, शुष्को मत्स्यः ।) आतपादिना

निस्नेहीकृतमीनः । शुक्टी माछ इति भाषा ॥
तस्य गुणा मत्स्यशब्दे द्रष्टव्याः ॥

शुष्कमांसं, क्ली, (शुष्कं मांसम् ।) आतपादिना

निस्नेहीकृतमांसम् । तत्पर्य्यायः । उत्तप्तम् २
वल्लरम् ३ । इत्यमरः ॥ वल्लूरा ४ शुष्कनी ५ ।
इति तट्टीका ॥ अस्य गुणाः ।
“वृद्धानां दोषलं मांसं बालानां बलदं लघु ।
त्रिदोषकृद्व्यालजुष्टं शुष्कं शूलकरं गुरु ॥”
इति भावप्रकाशः ॥

शुष्करेवती, स्त्री, मातृकाविशेषः । यथा, --

“अस्थिभ्यश्च तथा काली सृष्टा पूर्व्वं महात्मना
तथा तद्रुधिरं पीतमन्धकानां महात्मनाम् ।
या चास्मिन् कथिता लोके नामतः शुष्क-
रेवती ॥”
इति मत्स्यपुराणे १५४ अध्यायः ॥

शुष्कलः, त्रि, आमिषम् । इत्युणादिकोषः ॥

आमिषाशी ॥ इत्यमरटीकायां भरतः ॥

शुष्कली, स्त्री, शुष्कमांसम् । मांसमात्रम् । यथा,

“शुष्कली शुष्कमांसे स्यान्मांसमत्रेऽपि
दृश्यते ।”
इति शौष्कलशब्दटीकायां भरतः ॥

शुष्कवृक्षः, पुं, (शुष्को वृक्षः इव ।) धववृक्षः ।

इति राजनिर्घण्टः ॥

शुष्कव्रणः, पुं, (शुष्को व्रणः ।) किणः । इति

त्रिकाण्डशेषः ॥

शुष्काङ्गः, पुं, (शुष्कं अङ्गं यस्य ।) धववृक्षः ।

इति वैद्यकम् ॥ स्ने हशून्यावयवे, त्रि ॥

शुष्काङ्गी, स्त्री, (शुष्काणीव अङ्गानि यस्याः ।)

गोधिका । इति शब्दचन्द्रिका ॥

शुष्कार्द्रं, क्ली, (शुष्कं आर्द्रम् ।) शुण्ठी । इति

शब्दचन्द्रिका ॥

शुष्णः, पुं, (शुष्यत्यनेनेति । शुष + “तृषिशुषिर-

सिभ्यः कित् ।” उणा ० ३ । १२ । इति नः । स
च कित् ।) सूर्य्यः । इत्युणादिकोषः ॥ अग्निः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥ (बले, क्ली ।
इति निघण्टुः । २ । ९ ॥)

शुष्मं, क्ली, शुष्यत्यनेनेति । शुष शोषे + “अवि-

सिविसिशुषिभ्यः कित् ।” उणा० १ । १४३ ।
इति मन् । स च कित् ।) तेजः । इति मेदिनी ॥
पराक्रमः । इति हेमचन्द्रः ॥

शुष्मः, पुं, (शुष्यत्यनेनेति । शुष + मन् ।) सूर्य्यः ।

इति मेदिनी ॥ अग्निः । इति त्रिकाण्डशेषः ॥
वायुः । पक्षी । इति संक्षिप्तसारोणादिवृत्तिः ॥
अर्च्चिः । यथा । शुष्मोऽर्च्चिषि हुताशने । इति
शुभाङ्कः । इत्यमरटीकायां भरतः ॥

शुष्म, [न्] क्ली, (शुष + मनिन् । संज्ञापूर्व्वकत्वात्

नगुणः ।) तेजः । इति जटाधरः ॥ सौर्य्यम् ।
इति हेमचन्द्रः ॥

शुष्मा, [न्] पुं, (शुष्यत्यनेनेति । शुष शोषे +

मनिन् ।) अग्निः । चित्रकवृक्षः । इत्यमरः ॥
अदन्तोऽपि शुष्मेति सर्व्वस्वम् । इति भरतः ॥

शूकः, पुं, क्ली, (शो तनूकरणे + “उलूकादयश्च ।”

इति ऊकप्रत्ययेन साधुः ।) श्लक्ष्णतीक्ष्णाग्रम् ।
शुँया इति भाषा । तत्पर्य्यायः । किंशारुः २ ।
इत्यमरः ॥ शुङ्गा ३ कोशी ४ । इति हेमचन्द्रः ॥
दया । इति मेदिनी ॥ सविषाल्पडुण्डुभादिजल-
मलोद्भवजन्तुः । शूकप्रधानलिङ्गवृद्धिकरयोगः ।
तद्विवरणं यथा । अथ शूकदोषाधिकारः । तत्र
शूकदोषस्य निदानमाह ।
“अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ॥”
अक्रमात् अनुचितवृद्धिक्रमात् । अनुचिता च
वृद्धिः भूरिविकारजनकस्य शूकस्य योगेन ।
शूकजाः । शूको जलशूकः सविषो जलजन्तु
विशेषः । स तु जलमलोद्भवः । अल्पडुण्डुभ
इत्यादिकः । तथा शूकप्रधानो लिङ्गवृद्धिकरो
वात्स्यायनाद्युक्तो योगः शूक उच्यते । यथा,
“भल्लातकास्थिजलशूकमथाब्जपत्र-
मन्तर्विदह्य मतिमान् सह सैन्धवेन ।
एतद्विरूढबृहतीफलतोयपिष्ट-
मालेपितं महिषविड्विमलीकृतेऽङ्गे ॥
स्थूलं महद्वरतुरङ्गमलिङ्गतुल्यं
शेफः करोत्यभिमतं न हि संशयोऽस्ति ।”
इत्यादि । यत्तु जलशूकरहितमश्वगन्धादितैलं
तदुचितमेव लिङ्गवर्द्धनम् ।
“अश्वगन्धा वरी कुष्ठं मांसी सिंहीफलान्वितम्
चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् ।
तत्तैलं मेढ्रवक्षोजकर्णपाणिविवर्द्धनम् ॥”
ते च शूकदोषा दश चाष्टौ च भवन्ति ॥ * ॥
तेष्वादौ सर्षपिकामाह ।
“गौरसर्षपसंस्थाना शूकदुर्भगहेतुका ।
पिडिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ॥”
शूकदुभगहेतुका शूकनिमित्ता दुष्टयोनि-
निमित्ता च ॥ * ॥ अष्ठीलिकामाह ।
“कठिना विषमेर्भुग्नैर्व्वायुनाष्ठीलिका भवेत् ।”
अष्ठीला लाहकारस्य भाण्डविशेषः । निहाइ
इति लोके । तद्वत् कठिना इत्यष्ठीलिका ।
विषमैर्भुग्नैरिति वक्ष्यमाणशूकविशेषणम् । विष
मैर्ह्र स्वदीर्घैः । भुग्नैः वक्रैः ॥ * ॥ ग्रथितमाह ।
“शूकेर्यत् पूरितं शश्वत् ग्रथितं नाम तत् कफात्
यल्लिङ्गं सदा शूकैः पूरितं तद्ग्रथितत्वाद्ग्रथि
तम् ॥ * ॥ कुम्भिकामाह ॥
“कुम्भिका रक्तपित्तोत्था जम्बुकास्थिनिभा
सिता ॥”
कुम्भिका कुम्भतुल्यफलत्वात् ॥ * ॥ अलजीमाह
“अलजी स्यात्तथा यादृक् प्रमेहपिडिकालजी ।
सा च रक्ता सिता स्फोटदारुणा कथिता च
सा ॥”
एषा रक्तपित्तनिमित्ता ज्ञेया ॥ * ॥ मृदिता-
माह ।
“मृदितं पीडितं यत्तु संरब्धं वातकोपतः ।
पाणिभ्यां भृशसंभूढे संमूढपिडिका भवेत् ॥”
शूकदोषे जाते पाणिभ्यां भृशसंमूढे पिच्चिते
लिङ्गे अत्रापि वातकोपत इत्यनुवर्त्तते ॥ * ॥
अवमन्थमाह ।
“दीर्घा वाह्यश्च पिडिका दीर्य्यते मध्यमस्तु याम्
सोऽवमन्थः कफाशृग्भ्यां वेदना लोमहर्षकृत् ॥”
दीर्घा दीर्घाङ्कुराः ॥ * ॥ पुष्करिकामाह ।
“पिडिका पिडिकाव्याप्ता पित्तशोणितसम्भवा ।
पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिकेति सा ॥”
पिडिकाव्याप्ता क्षुद्रपिडिकाव्याप्ता । अतएव
पद्मकर्णिकसंस्थाना ॥ * ॥ स्पर्शहानिमाह ।
“स्पर्शहानिञ्च जनयेच्छोणितं शूकदूषितम् ।”
अत्र स्पर्शासहत्वमेव लक्षणम् ॥ * ॥ उत्तमा-
माह ।
“मुद्गमासोपमा रक्ता रक्तपित्तोद्भवा च सा ।
एषोत्तमाख्या पिडिका शूके जीर्णसमुद्भवा” * ॥
शतयोनकमाह ।
“च्छिद्रैरनुमुखैर्लिङ्गंचिरं यस्य समन्ततः ।
वातशोणितजो व्याधिर्विज्ञेयः शतयोनकः ॥”
शतयोनकं चालनी तत्तुल्यत्वाच्छतयोनकः ॥ * ॥
त्वक्पाकमाह ।
“वातपित्तकृते ज्ञेयस्त्वक्पाको ज्वरदाहकृत् ।”
एतस्य लिङ्गं त्वक्पाकलक्षणम् ॥ * ॥ शोणिता-
र्व्वुदमाह ।
“कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिः प्रपी-
डितम् ।
पृष्ठ ५/१२६
लिङ्गं वासरुजश्चोग्रा ज्ञेयं तत् शोणितार्व्वुदम् ॥”
वासरुजः स्फोटकाधिस्थाने वेदना ॥ * ॥ मांसा-
र्वुदमाह ।
“मांसदुष्ट्या विजानीयादर्वुदं मांससम्भवम् ।”
मांसपाकमाह ।
“शीर्य्यन्ते यस्य मांसानि यस्य सर्व्वाश्च वेदनाः
विद्यात्तं मांसपाकन्तु सर्व्वदोषकृतं भिषक् ॥”
शीर्य्यन्तेगलन्ति । सर्व्ववेदनाः वातपित्तकफजाः
विद्रधिमाह ।
“विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत् ।
उक्तं सान्निपातिकविद्रधितुल्यं कथयेत् ॥ * ॥
तिलकालकमाह ।
“कृष्णानि चित्राण्यथवा शूकाणि सविषाणि तु
पतितानि पचन्त्याशु मेढ्रं निरवशेषतः ॥
कलानि भूत्वा मांसानि शीर्य्यन्ते यस्य देहिनः ।
सन्निपातसमुत्थांश्च विद्यात्तां तिलकालकान् ॥”
चित्राणि नानावर्णानि । शूकानि शूकव्रणानि ।
मञ्चाः क्रोशन्तीतिवत् । सविषाणि सविष-
शूकाख्यजन्तुविशेषकृतानि । शीर्य्यन्ते गलन्ति
कृष्णतिलतुल्यत्वात् तिलकालकाः ॥ * ॥ असाध्य
माह ।
“तत्र मांसार्वुदं यच्च मांसपाकश्च यः स्मृतः ।
विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः ॥”
अथ शूकदोषस्य चिकित्सा ।
“शूकदोषेषु सर्व्वेषु विषघ्नीं कारयेत् क्रियाम् ।
जलोकाभिर्हरेद्रक्तं रेचयेल्लघु भोजयेत् ॥
गुग्गुलुं पाचयेच्चापि त्रिफलाक्वाथसंयुताम् ।
क्षीरेण लेपसेकाच्च शीतानेव हि कारयेत् ॥
दार्व्वीसुरसयष्ट्याह्वैर्गृहधूमनिशायुतैः ।
सम्पक्वं तैलमभ्यङ्गान्मेद्ररोगं विनाशयेत् ॥”
सुरसं तुलसी । दार्व्वीतैलम् ।
“रसाञ्जनं साह्वयमेकमेव
प्रलेपमात्रेण नयेत् प्रशान्तिम् ।
सपूतिपूयव्रणशोथकण्डू-
शूलान्वितं सर्व्वमनङ्गरोगम् ॥”
साह्वयमित्यनङ्गरोगस्य विशेषणम् । अनङ्ग-
रोगस्य नामापि दूरीकरोति । इति शूक-
दोपाधिकारः । इति भावप्रकाशः ॥

शूककः, पुं, (शूकेन कायतीति । कै + कः ।)

प्रावटः । रसः । इति मेदिनी ॥

शूककोटः, पुं, (शूकविशिष्टः कीटः ।) शूकयुक्त-

कीटविशेषः । शूयापोका इति भाषा । तत्प-
र्य्यायः । वृश्चिकः २ । इत्यमरः ॥ शूककीटकः ३
इति शब्दरत्नावली ॥

शूककीटकः, पुं, (शूककीट + स्वार्थे कन् ।) शूक-

कोटः । इति शब्दरत्नावली ॥

शूकतृणं, क्ली, (शूकप्रधानं तृणम् ।) तृणविशेषः

शूकडी इति हिन्दी भाषा । तत्प्रर्य्यायः । शूकम्

२ शूकाढ्यम् ३ कनिष्ठकम् ४ । अस्य गुणः ।
“दुर्म्मरन्तु पशूनाञ्च शूकाभावे हितञ्च तत् ॥”
इति राजनिर्घण्टः ॥
दुर्म्मरन्तुस्थाने दर्जरनुन् इति पाठः ॥

शूकधान्यं, क्ली, (शूकविशिष्टं धान्यम् ।) शुङ्गा-

युक्तशस्यमात्रम् । स तु धान्ययवादिः । यथा, --
“व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्
तत् शूकधान्यमथ मुद्गमकुष्ठकादि ।
शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बी-
धान्यं तृणोद्भवमथो तृणधान्यमन्यत् ॥”
अस्य गुणाः ।
“तत्र त्रिदोषशमनं लघु शूकधान्यं
तेजोबलातिशयवीर्य्यविवृद्धिदायि ।
देशे देशे शूकधान्येषु संख्या
ज्ञातुं शक्या नैव तैर्दैवतेर्व्वा ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“शूकधान्यं शमीधान्यं समातीतं प्रशस्यते ।
परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु ॥”
इति राजवल्लभः ॥
अन्यच्च ।
“यवस्तुसितशूकः स्यात् निःशूकोऽतियवः स्मृतः
तोक्मस्तद्वत् स हरितस्ततः स्वल्पश्च कीर्त्तितः ॥
यवः कषायो मधुरः शीतलो लेखनो मृदुः ।
व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्द्धनः ॥
कटुपाकोऽनभिष्यन्दी सर्य्यो बलहरो गुरुः ।
बहुवातमलो वर्णस्थैर्य्यकारी च पिच्छिलः ।
कण्ठत्वगामयश्ले ष्मपित्तमेदप्रणाशनः ॥
पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ।
अस्मादतियवो न्यू नस्तोक्मो न्यूनतरस्ततः ॥”
इति भावप्रकाशः ॥

शूकपिण्डिः, स्त्री, (शूकैः पिण्डते इति । पिण्ड

संहतौ + इन् ।) शूकशिम्बिः । इति शब्दमाला-
शब्दरत्नावल्यौ ॥

शूकपिण्डी, स्त्री, (शूकपिण्डि + वा ङीष् ।) शूक

शिम्बिः । इति शब्दमालाशब्दरत्नावल्यौ ॥

शूकरः, पुं, (शूकं तद्वल्लोम रातीति । रा + कः ।)

पशुविशेषः । शुओर इति भाषा । तत्पर्य्यायः ।
वराहः २ स्तब्धरोमा ३ रोमशः ४ किरिः ५
चक्रदंष्ट्रः ६ किटिः ७ दंष्ट्री ८ क्रोडः ९ दन्ता-
युधः १० बली ११ पृथुस्कन्धः १२ पोत्री १३
घोणी १४ भेदनः १५ कोलः १६ पोत्रायुधः १७
शूरः १८ बह्वपत्यः १९ रदायुधः २० । वन्यस्य
तस्य मांसगुणाः । गुरुत्वम् । वातहारित्वम् ।
वृष्यत्वम् । बलस्वेदकरत्वञ्च ॥ ग्राम्यस्य तस्य
मांसगुणाः । वन्यवराहमांसादगुरुत्वम् । मेदो-
बलवीर्य्यवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“लुलापगण्डवाराहचमरीवारणादयः ।
एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी ॥
कूलेचरा मरुत्पित्तहरा वृष्यबलापहाः ।
मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्म-
वर्द्धनाः ॥”
इति भावप्रकाशः ॥

शूकरकन्दः, पुं, (शूकरप्रियः कन्दः ।) वाराही-

कन्दः । इति राजनिर्घण्टः ॥

शूकरदंष्ट्रः, पुं, क्षुद्ररोगविशेषः । तल्लक्षणमाह ।

“सदाहो रक्तपर्य्यन्तस्त्वक्पाकी तीव्रवेदनः ।
कण्डूमान् ज्वरकारी च स स्याच्छूकरदंष्ट्रकः ॥”
स गुदभ्रंशः ॥ * ॥ तच्चिकित्सा यथा, --
“भृङ्गराजकमूलस्य रजन्या सहितस्य च ।
चूर्णन्तु सहसा लेपाद्वाराहद्विजनाशनम् ॥
राजीवमूलकल्कस्तु पीतो गव्येन सर्पिषा प्रातः
शमयति शूकरदंष्ट्रं दंष्ट्रोद्भूतज्वरं घोरम् ॥
रजनीमार्कवमूलं पिष्टं शीतेन वारिणा ।
तल्लेपाद्धन्ति वीसर्पं वाराहदशनाह्वयम् ॥”
इति भावप्रकाशः ॥

शूकरपादिका, स्त्री, (शूकरस्य पादा इव मूला-

न्यस्याः । कन् । टाप् । अत इत्वम् ।) कोल-
शिम्बी । इति राजनिर्घण्टः ॥

शूकराक्रान्ता, स्त्री, (शूकरेणाक्रम्यते स्मेति । आ

+ क्रम + क्तः ।) वराहक्रान्ता । इति शब्द-
चन्द्रिका ॥

शूकरी, स्त्री, (शूकर + ङीष् ।) वराहक्रान्ता ।

इति शब्दरत्नावली ॥ शूकरपत्नी च ॥

शूकरेष्टः, पुं, (शूकराणामिष्टः ।) कसेरुः ।

इति राजनिर्घण्टः ॥ शूकरप्रियद्रव्ये, त्रि ॥

शूकलः, पुं, (शूकवत् क्लेशं लाति ददातीति । ला

+ कः ।) दुर्विनीताश्वः । इति हेमचन्द्रः ॥

शूकवती, स्त्री, (शूकाः सन्त्यस्याः । शूक + मतुप् ।)

कपिकच्छुः । इति शब्दचन्द्रिका ॥ शूकयुक्ते,
त्रि ॥

शूकशिम्बा, स्त्री, (शूकविशिष्टा शिम्बा यस्याः ।)

कपिकच्छुः । इति शब्दचन्द्रिका ।

शूकशिम्बिः, स्त्री, (शूकविशिष्टा शिम्बियस्याः ।)

कपिकच्छुः । इत्यमरः ॥

शूकशिम्बिका, स्त्री, (शूकयुक्ता शिम्बिका यस्याः ।)

कपिकच्छुः । इत्यमरटीका ॥

शूकशिम्बी, स्त्री, (शूकयुक्ता शिम्बी यस्याः ।)

कपिकच्छुः । इत्यमरटीका ॥

शूका, स्त्री, (शूकाः सन्त्थस्याः इति अर्श आदि-

त्वादच् ।) कपिकच्छुः । इति शब्दचन्द्रिका ॥

शूकापूट्टः, पुं, तृणमणिः । इति हारावली ॥

काफुरदाना इति काहरोवा इति च पारस्य-
भाषा ॥

शूक्ष्मं, त्रि, अल्पम् । इत्युणादिकोषः ॥ अस्थलम् ।

सरु इति मिही इति च भाषा । यथा, --
“बहुतन्तुसमायुक्तं पट्टसूत्रादिनिर्म्मितम् ।
वासो देवि सुशूक्ष्मञ्च गृहाण परमेश्वरि ॥”
इति कालिकापुराणम् ॥

शूक्ष्मः, पुं, कृतकः । अध्यात्मा । इत्युणादिकोषः ॥

शूतिपर्णः, पुं, आरग्वधः । इति शब्दरत्नावली ॥

शूद्रः, पुं, (शोचतीति । शुच शोके + “शुचेर्दश्च ।”

उणा० २ । १९ । इति रक् दश्चान्तादेशो धातो-
र्दीर्घश्च ।) चतुर्व्वर्णान्तर्गतचतुर्थवर्णः । तत्-
पर्य्यायः । अवरवर्णः २ वृषलः ३ जघन्यजः ४ ।
इत्यमरः ॥ दासः ५ पादजः ६ अन्त्यजन्मा ७
जघन्यः ८ द्विजसेवकः ९ । इति शब्दरत्नावली ॥
पृष्ठ ५/१२७
पद्यः १० । इति जटाधरः ॥ अन्त्यवर्णः ११
पज्जः १२ । इति हेमचन्द्रः ॥ चतुर्थः १३ द्विज-
दामः १४ उपासकः १५ । इति राजनिर्घण्टः ॥
प्लक्षद्वीपे तस्य संज्ञा मत्याङ्गः । शाल्मलद्वीपे
इषुन्धरः । कुशद्वीपे कुलकः । क्रौञ्चद्वीपे
सेवकः । शाकद्वीपे अनव्रतः । पुष्करद्वोपे सर्व्वे
एकवर्णाः । अस्योत्पत्तिर्ब्रह्मणः पादात् । अस्य
शास्त्रनिरूपितो धर्म्मः जीविका च ब्राह्मण-
क्षत्त्रियवैस्यशुश्रूषा । अस्यैकाश्रमो गार्हस्थ्यः ।
इति श्रीभागवतम् ॥ * ॥ अथ शूद्रधर्म्मादि ।
“विप्राणामर्च्चनं नित्यं शूद्रधर्म्मो विधीयते ।
तद्द्वेषी तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत् ॥
गृध्रः कोटिसहस्राणि शतजन्मानि शूकरः ।
श्वापदः शतजन्मानि शूद्रो विप्रधनापहा ॥
यः शूद्रो ब्राह्मणीगामी मातृगामी स पातकी ।
कुम्भीपाके पच्यते स यावद्वै ब्रह्मणः शतम् ॥
कुम्भीपाके तप्ततैले भुक्तः सर्पैरहर्निशम् ।
शब्दञ्च विकृताकारं कुरुते यमताडनात् ॥
तदा चाण्डालयोनिः स्यात् सप्तजन्मसु पातकी
सप्तजन्मसु सर्पश्च जलौका सप्तजन्मसु ॥
जन्मकोटिसहस्रञ्च विष्ठायां जायते कृमिः ।
योनिक्रिमिः पुंश्चलीनां स भवेत् सप्तजन्मसु ॥
गवां व्रणकृमिः स्याच्च पातकी सप्तजन्मसु ।
योनौ योनौ भ्रमत्येवं न पुनर्जायते नरः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥
अपि च ।
“द्विजानां पादशूश्रूषा शूद्रैः कार्य्या सदा त्विह
पादप्रक्षालनं गन्धैर्भोज्यमुच्छिष्टमात्रकम् ॥
ते तु चक्रु स्तदा चैव तेभ्यो भूयः पितामहः ।
शूश्रूषार्थं मया यूथं तुरीये तु पदे कृताः ॥
द्विजानां क्षत्त्रवर्गाणां वैश्यानाञ्च भवद्द्विधाः ।
त्रिभ्यः शूश्रूषणा कार्य्या इत्यवादीद्वचस्तदा ॥”
इति पाद्मे सृष्टिखण्डे १६ अध्यायः ॥
किञ्च ।
“शूश्रूषैव द्विजातीनां शूद्राणां धर्म्मसाधनम् ।
कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥
इति गारुडे ४९ अध्यायः ॥
शूद्रराज्ये वासनिषेधो यथा, --
“धार्म्मिकैर्नावृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥”
शूद्राय मतिदाननिषेधो यथा, --
“न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।
न चैवास्मै व्रतं ब्रूयात् न च धर्म्मान् वदेद्वुधः ॥
इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥
शूद्राणां वेदाधिकारनिषेधो यथा, --
“त्रयोवर्णा महाभाग यज्ञसामान्यमागिनः ।
शूद्रा वेदपवित्रेभ्यो ब्राह्मणैस्तु बहिष्कृताः ॥”
इति वाराहे संसारचक्रनामाध्यायः ॥ * ॥
कलौ ते धन्याः यथा,
“कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति
योषितः ।
यदाह भगवान् साधुर्ध न्याश्चेति पुनः पुनः ॥”
इति विष्णुपुराणे ६ । २ । १२ ॥
तस्य मद्यपानादौ दोषो यथा, --
“तथा मद्यस्य पानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥”
इति शूद्रकमलाकरधृतपराशरवचनम् ॥
ब्राह्मणस्य तदन्नभोजननिषेधो यथा, --
“शूद्रान्नं ब्राह्मणोऽश्नन् वै मासं मासार्द्धमेव
वा ।
तद्योनावभिजायेत सत्यमेतद्विदुर्बुधाः ॥
अथोदरस्थशूद्रान्नो मृतः श्वानोऽपि जायते ।
द्वादश दश चाष्टौ च गृध्रशूकरपुषकराः ॥
उदरस्थितशूद्रान्नो ह्यधीयानोऽपि नित्यशः ।
जुह्वन् वापि जपन् वापि गतिमूर्द्ध्वं न विन्दति ॥
अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् ।
वैश्यस्य चानमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥
तस्मात् शूद्रं न भिक्षेत यज्ञार्थं सद्द्विजातयः ।
श्मशानमिव सच्छूद्रस्तस्मात्तं परिवर्ज्जयेत् ॥
कणानामथवा भिक्षां कुर्य्याच्चातिविकर्षितः ।
सच्छूद्राणां गृहे कुर्व्वन् तत्पापेन न लिप्यते ॥
विशुद्धान्वयसंजातो निवृत्तो मद्यमांसतः ।
द्विजभक्तो बणिग्वृत्तिः शूद्रः स परिकीत्तितः ॥”
इति बृहत्पराशरसंहितायाम् ४ अध्यायः ॥ * ॥
अपि च । हारीतः ।
“शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः ।
स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥”
शूद्रान्नं शूद्रस्वामिकान्नं तद्दत्तमपि भोजन-
कालेतद्गृहावस्थितं यत्तदपि शूद्रान्नम् ।
तदाहाङ्गिराः ।
“शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।
निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥”
अपिशब्दात् साक्षात्तद्दत्तघृततण्डुलादि । न तु
तद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागते
पुनरङ्गिराः ।
“यथा यतस्ततो ह्यापः शूद्धिं यान्ति नदीं
गताः ।
शूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥
प्रविष्टं स्वत्वापादकप्रतिग्रहादिनेति शेषः ।
अतएव पराशरः ।
“तावद्भवति शूद्रान्नं यावन्न स्पृशति द्विजः ।
द्विजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥”
स्पृशति प्रतिगृह्णातीति कल्पतरुः ॥ तच्च
संप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् ।
‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ॥”
तच्च पात्रान्तरे ग्राह्यमाहाङ्गिराः ।
“स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः
पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥”
एतेन स्वगृहमागतस्यव शुद्धत्वं तद्गृहगतस्य
शूद्रान्नदोषभागित्वं प्रतीयते । ततश्चैतादृगपि
मुमूर्षुणा सर्व्व था शूद्रान्नं न भोक्तव्यम् । इति
शुद्धितत्त्वम् ॥ * ॥ कलौ शूद्रविशेषान्नभोजन-
निषेधो यथा, --
“शूद्रेषु दासगोपालकुलमित्रार्द्धशीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ।
निवर्त्तितानि कर्म्माणि व्यवस्थापूर्व्वकं बुधैः ॥”
इति तिथ्यादितत्त्वम् ॥
अपरञ्च ।
व्यास उवाच ।
“नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्वा यदि
वान्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विग-
र्हितम् ।
जीवन्नैव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥
ब्राह्मणक्षत्त्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥”
कलीतरत्र शूद्रविशेषान्नभोजनविधिर्यथा, --
“आर्त्तिजः कुलमित्रञ्च गोपालो दासनापितौ
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥
कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च ।
एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ।
पायसं स्निग्धपक्वञ्च यावसञ्चैव शक्तवः ।
पिण्याकञ्चैव तैलञ्च शूद्रादग्राह्यं द्विजातिभिः ॥
इति कौर्म्मे उपविभागे १६ अध्यायः ॥
अपि च ।
“कन्दुपक्वानि तैलेन पायसं दधिशक्तवः ।
द्विजैरेतानि भोज्यानि शद्रगेहकृतान्यपि ॥” * ॥
अन्यच्च ।
“शूद्रास्तु ये दानपरा भवन्ति
व्रतान्विता विप्रपरायणास्तु ।
अन्नं हि तेषां सततं सुभोज्यं
भवेद्विजैर्दृष्टमिदं पुरातनैः ॥
तस्माद्दानं प्रकर्त्तव्यं व्रतस्थेन प्रयत्नतः ।
सर्व्वपापविनाशाय महत्सुखविवृद्धये ॥”
इति वह्निपुराणे वृषदानाध्यायः ॥ * ॥
वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः । वेद-
मन्त्रवर्ज्जं शूद्रस्येति छन्दोगाह्रिकाचारचिन्ता
मणिधृतस्मृतौ वेदेति विशेषणात् । एवञ्च
पुराणमधिकृत्य ।
“अध्येतव्यं न चान्ये न ब्राह्मणं क्षत्त्रियं विना ।
श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥”
इति भविष्यपुराणवचनं पुराणमन्त्रेतरपरम् ॥
पञ्चयज्ञस्नानश्राद्धेषु पौराणिकमन्त्रोऽपि
निषिद्धः शुद्रमधिकृत्य ।
“नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥”
इति याज्ञकल्क्येन ॥
“ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते ।
तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥”
इति योगियाज्ञवल्क्येन ॥
श्राद्धमधिकृत्य ।
“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥”
इति वराहपुराणेन च ॥
पृष्ठ ५/१२८
नमस्कारेणेति तूष्णीमिति मन्त्रवर्ज्जितमिति
चाभिधानादेतत्परं वैदिकपेरञ्च शूद्राधिकारे
गोतमवचनम् । अनुमतोऽस्य नमस्कारो मन्त्र
इति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयो-
र्नेच्छन्ति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो
यदि जानीयात् स मृतोऽधो गच्छतीति । इति
तिथ्यादितत्त्वम् ॥ * ॥ * ॥ प्रसङ्गादत्र कायस्थोत्-
पत्तिर्लिख्यते । पाद्मे सृष्टिखण्डे ।
“सृष्ट्यादौ सदसत्कर्म्मज्ञप्तये प्राणिनां विधिः ।
क्षणं ध्याने स्थितस्यास्य सर्व्वकायाद्विनिर्गतः ॥
दिव्यरूपः पुमान् हस्ते मसीपात्रञ्च लेखनीम् ।
चित्रगुप्त इति ख्यातो धर्म्मराजसमीपतः ॥
प्राणिनां सदसत्कर्म्मलेखाय स निरूपितः ।
ब्रह्मणातीन्द्रीयज्ञानी देव्याग्न्योर्यज्ञभुक् स वै ।
भोजनाच्च सदा तस्मादाहुतिर्दोयते द्विजैः ॥
ब्रह्मकायोद्भवो यस्मात् कायस्थो जातिरुच्यते ।
नानागोत्राच्च तद्वंश्याः कायस्था भुवि सन्ति
वै ॥” * ॥
प्रकारान्तरम् यथा, स्कान्द रेणुकामाहात्म्य ।
“एवं हत्वार्ज्जुनं रामः सन्धाय निशितान्
शरान् ।
एक एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान् ॥
केचिद्गहनमाश्रित्य केचित् पातालमाविशन् ।
सगर्भा चन्द्रसेनस्य भार्य्या दालभ्याश्रमं ययौ ॥
ततो रामः समायातो दाल्भ्याश्रममनुत्तमम् ।
पूजितो मुनिना सद्योऽन्वर्थ्यपाद्यासनादिभिः ॥
ददौ मध्याह्नसमये तस्मै भोजनमादरात् ।
रामस्तु भावयामास हृदिस्थं स्वमनोरथम् ।
याचयामास रामाच्च कामं दाल्भ्यो महा-
मुनिः ॥
ततो द्वौ परमप्रीतौ भोजनं चक्रतुर्मदा ।
भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।
यत्त्वया प्रार्थितं देव तत्त्वं शंसितुमर्हसि ॥
राम उवाच ।
तवाश्रमे महाभाग सगर्भा स्त्री समागता ।
चन्द्रसेनस्य राजर्षेः क्षत्त्रियस्य महात्मनः ॥
तन्मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।
ततो दालभ्यः प्रत्युवाच ददामि तव वाञ्छितम्
दाल्भ्य उवाच ।
स्त्रियं गर्भममुं बालं तन्मे त्वं दातुमर्हसि ।
ततो रामोऽब्रवोद्दाल्भ्यं यदर्थमहमागतः ॥
क्षत्त्रियान्तकरश्चाहं तत्त्वं याचितवानसि ।
प्रार्थितश्च त्वया विप्र कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्याख्या भविष्यन्ति शिशोः
शुभाः ॥
पवं रामो महाबाहुर्हित्वान्तर्गर्भमुत्तमम् ॥
निर्जगामाश्रमात्तस्मात् क्षत्त्रियान्तकरः प्रभुः ।
कायस्थ एप उत्पन्नः क्षत्त्रिण्यां क्षत्त्रियात्ततः ॥
रामाज्ञया स दाल्भ्येन क्षत्त्रधर्म्माद्वहिस्कृतः ।
कायस्थधर्म्मोऽस्मै दत्तश्चित्रगुप्तस्य यः स्मृतः ॥
तहोत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन् ।
दाल्भ्योपदेशतस्ते वै धर्म्मिष्ठाः सत्यवादिनः ॥
सदाचारपरा नित्यं रता हरिहरार्च्चने ।
देवविप्रपितॄणाञ्च अतिथीनाञ्च पूजकाः ॥” * ॥
प्रकारान्तरम् ।
“माहिष्यवनितासूनुर्वैदेहात् यः प्रसूयते ।
स कायस्थ इति प्रोक्तस्तस्य धर्म्मो विधीयते ॥
क्षत्त्राद्वैश्यायां माहिष्या वैश्याद्विप्राजो वैदेहः ।
लिपीनां देशजातानां लेखनं स समाचरेत् ॥
गणकत्वं विचित्रञ्च बीजपाटी प्रभेदतः ।
अधमः शूद्रजातिभ्यः पञ्चसंस्कारवानसौ ॥
चातुर्वर्णस्य सेवां हि लिपिलेखनसाधनाम् ।
व्यवसायः शिल्पकर्म्म तज्जीवनमुदाहृतम् ॥
शिखां यज्ञोपवीतञ्च वस्त्रमारक्तमम्भसा ।
स्पर्शनं देवतानाञ्च कायस्थाद्यो विवर्ज्ज येत् ॥”
इति कमलाकरभट्टकृतशूद्रधर्म्मतत्त्वम् ॥

शूद्रकृत्यं, क्ली, (शूद्रस्य कृत्यम् ।) शूद्रकर्त्तव्य-

कर्म्म यथा, --
“प्रणम्य सच्चिदासन्दं शूद्राणां न्यायवर्त्तिनाम् ।
श्राद्धाहःकृत्ययोस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥”
तच्च मत्स्यपुराणम् ।
“एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा ।
नमस्कारेण मन्त्रेण कुर्य्यादामान्नवद्बृधः ॥
दानः प्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः ।
दानेन सर्व्व कामाप्तिरस्य संजायते यतः ॥”
ततो दानमेवापेक्षितंन तु भोजनमपि । सामान्यं
सर्व्वजनकर्त्तव्यत्वेनप्रतिमासकृष्णपक्षादिविहित
श्राद्धं आभ्यु दयिकश्राद्धञ्च एवं द्विजातिवत्
शूद्रोऽपि कुर्य्यादित्यन्वयः । नमस्कारेण मन्त्रेण
नतुस्वयं पठितमन्त्रेण आमान्नवदित्यनेनजलसेक
सिद्धान्नव्यावृत्तिः । स्विन्नमन्नमुदाहृतम् । इति
वशिष्ठे न स्विन्नस्यैवान्नत्वाभिधानात् । कन्दुपक्वस्ये
भृष्टत्वं नतु सिन्नत्वम् । हारीतेन स्वेदनभर्ज्ज-
नयोः पृथक्त्वमुक्तम् । यथा । आदीपनतापन-
स्वेदनभर्ज्जनपचनादिभिः प्रञ्चमीति अस्यार्थः ।
आदीपनं काष्ठानाम् तापनं तोयादेः । स्वेदनं
धान्यादेः । भर्ज्जनं यवादेः । पचनं तण्डुलादेः ।
इति पञ्चमी । सूना इति कल्पतरुः । अतएव
स्विन्नधान्येन व्यवह्रियते ।
“कन्दुपक्वानि तैलेन पायसं दधि शक्तवः ।
द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥”
इति कुर्म्मपुराणवचनेन शूद्रकर्त्तृककन्दुपक्वादे
र्ब्राह्मणस्य भक्ष्यत्वेन श्राद्धे देयत्वं युक्तम् । कन्दु
पक्वं जलोपसेकं विना केवलपात्रेण यद्वह्णिना
पक्वम् । पायसं पाकेन काठिन्यविकारापन्नं
दुग्धम् । परमान्नपरत्वे पुंलिङ्गनिर्द्देशापत्तेः ॥
तथा चामरः । परमान्नस्तु पायस इति ।
“दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्द्विजान् ।
अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्ज्जितः ॥”
इति श्राद्धचिन्तामणिधृतवराहपुराणवचनमपि
कन्दुपक्वपरम् । एवन्तु एतद्वचनं सच्छू द्रपरं
मैथिलोक्तं हेयम् । एवं आममांसस्यापि श्राद्धे
देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयम् । तत्र द्रव्य-
देवताप्रकाशार्थं ब्राह्मणेन मन्त्राः । पाठ्याः ।
“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥”
इति वराहपुराणात् ॥
अयं श्राद्धेतिकर्त्तव्यताको विधिः शूद्रकर्त्तृकमन्त्र-
पाठरहितः । शूद्रस्य मन्त्रपाठानधिकारसिद्धौ
यदमन्त्रस्येति पुनर्वचनं तत् स्त्रिया ग्रहणार्थं
परिभाषार्थञ्च । ततश्च तत्कर्म्मसम्बन्धिमन्त्रेण
विप्रस्तदीयकर्म्मकारयितृब्राह्मणो गृह्यतो तेन
बाह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्य्यम् ।
तत्र यजुर्व्वेदिको मन्त्रः । तथा च स्मृतिः ।
“आर्षक्रमेण सर्व्वत्र शद्रा वाजसनेयिनः ।
तस्माच्छूद्रः स्वयं कर्म्म यजुर्व्वेदीव कारयेत् ॥”
आर्षक्रमेणमुन्यु क्तक्रमेण यजुर्वेदिसम्बन्धिगृह्या-
दिना ।
“चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा ।
धर्म्मशास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥
विशेषतस्तु शूद्राणां पावनानि मनीषिभिः ।
अष्टादश पुराणानि चरितं राघवस्य च ॥
रामस्य कुरुशार्दुल धर्म्मकामार्थसिद्धये ।
तथोक्तं भारतं वीर पाराशर्य्येण धीमता ।
वेदार्थं सकलं योज्यं धर्म्मशास्त्राणि च प्रभो ॥”
इति भविष्यपुराणवचनात्तेषां पौराणिकादि-
विधिर्योज्यो योजयित्रा । अत्र च श्राद्धे वेद-
मन्त्रवर्ज्जं शूद्रस्येतिवचने वेदेत्युपादानात् श्राद्धे
पुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तम्
तन्न वराहपुराणे शूद्राणां मन्त्रवर्ज्जित इत्यनेन
मन्त्रमात्रनिषेधात् मत्स्यपुराणेन नमस्कारेण
मन्त्रेण इत्युपादानाच्च । पौराणिकस्यापि श्राद्धे
निषेधः प्रतीयते । एवं स्नानेऽपि ।
“ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते ।
तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥”
इत्यनेन नमस्कारविधानात् पञ्चयज्ञेऽपि ।
“शूद्रस्य द्बिजशूश्रूषा तथा जीवनवान् भवेत् ।
शिल्पैर्वा विविधैजीवेत् द्विजातिहितमा-
चरन् ॥
भार्य्यारतिः शुचिर्भृत्यभर्त्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्तेण पञ्चयज्ञान्न हापयेत् ॥”
इति नमस्कारमात्रविधानात् श्राद्धादिषु पौरा-
णिकमन्त्रनिषेधः ततश्च स्नानश्राद्धपञ्चयज्ञे तरत्र
शूद्रस्य पौराणिकमन्त्रपाठः प्रतीयते । अत्र ।
“षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥”
इति मनुवचनात् । चूडा कार्य्या यथाकुलं इति
याज्ञवल्क्यवचनाच्च संस्कारमात्रे कुलघर्म्मानु-
रोधेन कालान्तरस्य नामविशेषोच्चारणस्याभि
धानाच्च शूद्रादीनां नामकरणे वसुघोषादिक-
पद्धतियुक्तनामकरणस्यच प्रतीतेर्व्वैदिककर्म्मणि
शूद्रानां पद्धतियुक्तनामाभिधानं क्रियते इति ॥
शूद्रस्त्वाचमने दैवतीर्थेन ओष्ठे जलं सकृत्
क्षिपेत् न पिबेत् । तथा च याज्ञवल्क्यः ।
“हृत्कण्ठतालुगाद्भिस्तु यथासंख्यं द्विजातयः ।
शुद्धेरन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः ॥”
अन्ततो हृदयादिसमीपेन ओष्ठेन उत्तरोत्तर-
पृष्ठ ५/१२९
मपकर्षात् । अतएव स्पृष्टाभिरित्युक्तं न तु
भक्षिताभिरिति ।
“स्त्री शूद्रः शुध्यते नित्यं क्षालनाच्च करोष्ठयोः ॥”
इति ब्रह्मपुराणवचनञ्च । याज्ञवल्क्यः ।
“प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुप-
स्पृशेत् ।”
अत्र द्विजस्यैव आचमने ब्राह्म्यतीर्थोपादानात्
स्त्रीशूद्रयोर्ण तेनाचमनम् । एवमेव मिता-
क्षरायां व्यक्तमुक्तं मरीचिना ।
“स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च ।
सकृदाचमनाच्छुद्विरेतयोरेव चोभयोः ॥” इति ।
एतदनन्तरं इन्द्रियादिस्पर्शनन्तु ब्राह्मणवदेव ।
प्रमाणान्तरन्तु वाजसनेयिसामगश्राद्धाह्निक-
तत्त्वयोरनुसन्धेयम् । इति वन्द्यघटीयश्रीहरिहर
भट्टाचार्य्यात्मज-श्रीरघुनन्दनभदृआचार्य्यविरचितं
शूद्राह्निकाचारतत्त्वं समाप्तम् ॥

शूद्रधर्म्मः, पुं, (शूद्रस्य धर्म्मः ।) शूद्रस्य शास्त्र-

विहिताचारः । तस्य विवरणं शूद्रकृत्यशब्दे
द्रष्टव्यम् ॥

शूद्रप्रियः, पुं, (शूद्राणां प्रियः ।) पलाण्डुः । इति

राजनिर्घण्टः ॥ शूद्रस्य प्रियद्रव्ये, त्रि ॥

शूद्रप्रेष्यः, पुं, (शूद्रस्य प्रेष्यः ।) शूद्रस्यंपरिचारक-

ब्राह्मणादिः । इति केचित् ॥

शूद्रशासनं, क्ली, (शूद्रस्य शासनम् ।) शूद्रस्याधि-

कारो लेख्यपत्रादिर्व्वा । यथा, --
“स्यादभिष्यन्दिरमणं शाखानगरमित्यपि ।
शासनं धर्म्मकीलः स्यान्मकुतिः शूद्रशास-
नम् ॥”
इति पुरवर्गे त्रिकाण्डशेषः ॥

शूद्रा, स्त्री, (शूद्रस्य जातिः । शूद्र + “शूद्रा

चामहत्पूर्व्वा जातिः ।” इति टाप् ।) शूद्र-
जातिस्त्री । इत्यमरः ॥ (यथा, मनुः । ३ । १३
शूद्रैव भार्य्या शूद्रस्य सा च स्वा च विशः
स्मृते ॥”)

शूद्रान्न, क्ली, (शूद्रस्य अन्नम् ।) शूद्रस्वामिकान्नम् ।

यथा, --
“शूदान्ने तु भुक्तेन उदरस्थेन यो मृतः ।
स व खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥”
शूद्रान्नं शूद्रस्वामिकान्नम् । इति शुद्धितत्त्वम् ॥
अन्यत् शूद्रशब्दे द्रष्टव्यम् ॥

शूद्राभार्य्यः, पुं, शूद्रा भार्य्या यस्य सः । शूद्रास्वामी

इति व्याकरणम् ॥

शूद्रार्त्ता, स्त्री, (शूद्रेण आर्त्ता ।) प्रियङ्गुवृक्षः ।

इति शब्दचन्द्रिका ॥

शूद्रावेदी, [न्] पुं, (शूद्रां विन्दतीति । विद् +

णिनिः ।) शूद्रविवाहकर्त्ता । यथा, --
“शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥”
इति दायभागः ॥

शूद्री, स्त्री, (शूद्रस्य स्त्री । “पुंयोगादाख्यायाम् ।”

४ । १ । ४८ । इति ङीष ।) शूद्रस्ये भार्य्या ।
इत्यमरः ॥ (यथा, याज्ञवल्क्य । १ । ९१ ।
“विप्रात् मूर्द्धाभिषिक्तो हि क्षत्त्रियाण्यां विशः
स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि
वा ॥”)

शूनः, त्रि, (टु ओ श्वि गतिवृद्व्योः + क्तः । “ओदि-

तश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।
“वचिस्वपियजादीनां किति । ६ । १ । १५ ।
इति संप्रसारणम् ।) हलः । ६ । ४ । २ । इति
दीर्घः । “श्वीदितो निष्ठायाम् ।” ७ । २ । १४ ।
इति इडागमश्च न ।) वर्द्धितः । इति व्याकर-
णम् ॥ (यथा, सुश्रुते । ५ । २ ।
“दुर्व्वर्णे हरिते शूने जायते चास्य लोचने ॥”
शून्ये, त्रि । यथा ऋग्वेदे । ७ । १ । ११ ।
मा शूने अग्ने निषदाम नृणाम् ॥”
“हे अग्ने ! शूने शून्ये पुत्त्रादिरहिते गृहे मा
निषदाम न निवसाम ।” इति तद्भाष्ये सायणः)

शूनवान्, [त्] त्रि, (टु ओ श्वि गतिवृद्ध्योः +

क्तवतु ।) वर्द्धितः । इति व्याकरणम् ॥

शूना, स्त्री, (श्वयन्ति मृत्युं गच्छन्ति कीटादयो

यत्र । श्वि + क्तः । टाप् ।) प्राणिवधस्थानम् ।
इति हलायुधः ॥ पञ्चविधा शूना यथा, --
“पञ्च शूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च वध्यते याश्च वाहयन् ॥”
पञ्चशूनापापनाशो यथा, मनुः ।
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवी वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥
पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं शूनादोषैर्न लिप्यते ॥”
इति प्रायश्चित्ततत्त्वम् ॥
अधोजिह्विका । इति हारावली ॥

शूनावान्, [न्] पुं, (शूना + मतुप् । मस्य वः ।)

शूना विद्यते यस्य सः । कसाइ इति भाषा ।
इति केचित् ॥

शून्यं, क्ली, आकाशम् । इति शब्दचन्द्रिका ॥

(यथा, भागवते । ६ । १३ । २० ।
“स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप ।
नीतस्तेनैव शून्याय नीहार इव भानुना ॥”)
बिन्दु इति हेमचन्द्रः ॥

शून्यः, त्रि, अतिशयेन ऊनः । अभावविशिष्टः ।

असम्पूर्णः । खालि इति पारस्यभाषा । तत्-
पर्य्यायः । वशिकः २ तुच्छः ३ रिक्तकः ४ ।
इत्यमरः ॥ शुन्यम् ५ । इति तट्टीकायां भरतः ॥
“अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा ।
पुत्त्रहीनं गृहं शून्यं सर्व्वशून्या दरिद्रता ॥”
इति चाणक्यम् ॥
(शून्यायै प्राणिहिंसायै हितः रहस्यस्थानत्वात्
शूना + यत् । यद्वा, शूने हितम् । श्वन् + “शुनः ।
सम्प्रसारणं वा च दीर्घत्वम् । ५ । १ । २ । इत्यस्य
वार्त्तिकोक्त्या यत् सम्प्रसारणं दीर्घत्वञ्च ।)
निर्ज्जनः । इति मेदिनी ॥ (यथा, भट्टिः । १८ । २९
“केन संविद्रते नान्यस्त्वतो वान्धववत्सलः ।
विरौमि शून्यं प्रोर्णौमि कथं मन्युसमुद्भवम् ॥”)

शून्यमध्यः, पुं, (शून्यं मध्यं यस्य ।) नलः ।) इति

राजनिर्घण्टः ॥ शून्यगर्भवस्तुनि, त्रि ॥

शून्यवादी, [न्] पुं, (शून्यं वदतीति । वद् +

णिनिः ।) सौगतः । इति जटाधरः ॥ नास्ति-
कश्च ॥

शून्या, स्त्री, नली । इति विश्वमेदिन्यौ ॥ महा-

कण्टकिनी । इति शब्दचन्द्रिका ॥ फणीमनसा
इति ख्याता । बन्ध्या । इति राजनिर्घण्टः ॥

शून्यालयः, पुं, (शून्य आलयः ।) निर्ज्जनगृहम् ।

अत्र शयननिषेधो यथा । “मार्कण्डेयः ।
‘शून्यालये श्मशाने च एकवृक्षे चतुष्पथे ।
महादेवगृहे चापि शर्करालोष्टपांशुषु ॥
धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि ।
न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥
नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः ।
नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥’
न स्वपेदित्यर्थः ।” इत्याह्निकतत्त्वम् ॥

शूपकारः, पुं, (शूपं करोतीति । कृ + अण् ।)

शूद्राणां पाचकः । यथा, --
“शूद्रपाकोपजीवी यः शूपकारः इति स्मृतः ।”
इति ब्रह्मवेवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
अन्यत् दन्त्यसकारादौ द्रष्टव्यम् ॥

शूर, ङ य ई स्तन्भे । हिंसे । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-स्तम्भे अक०-हिंसे सक०-सेट् ।
निष्ठायामनिट् ।) ङ य, शूर्य्यते । ई, शूर्णः ।
स्तम्भो जडीभावः । इति दुर्गादासः ॥

शूर, त् क ङ विक्रमें । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-आत्म०-अक०-सेट् ।) ङ, अशु-
शूरत् । विक्रमः उद्यमः । इति दुर्गादासः ॥

शूरः, पुं, (शूरयति विक्रामतीति । शूर + अच् ।

यद्वा, शवति वीर्य्यं प्राप्नोतीति । शू + “शूसिचि-
मिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन्
दीर्घश्च ।) वोरः । इत्यमरः ॥ (यथा, महा-
भारते । १ । १०९ । ४
“शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥”)
यादवः । स तु श्रीकृष्णस्व पितामहः । इति
मेदिनी ॥ (यथा, भागवते । ९ । २४ । २६ ।
“शूरो विदूरथादासीत् भजमानस्तु तत्सुतः ॥”
सूर्य्यः । इति त्रिकाण्डशेषः ॥ सिंहः । शूकरः ॥
चित्रकः । सालः । लकुचः । मसूरः । इति
राजनिर्घण्टः

शूरणः, पुं, (शूर्य्यते इति । शूर हिंसे + ल्युः ।)

मूलविशेषः । ओल इति भाषा । तत्पर्य्यायः ।
अर्शोघ्नः २ कन्दः ३ । इत्यमरः ॥ सूरणः ४ ।
इति तट्टीका ॥ ओलः ५ । इति जटाधरः ॥
ओल्लः ६ । इति मेदिनी ॥ कण्डूलः ७ कन्दी ८
सुकन्दी ९ स्थूलकन्दकः १० द्गर्नामारिः ११
सुवृत्तः १२ वातारिः १३ कन्दशूरणः १४
तीव्रकण्ठः १५ कन्दार्ह्यः १६ कन्दवर्द्धनः १७
बहुकन्दः १८ रुच्यकन्दः १९ शूरणकन्दः २० ।
अस्य गुणाः । कटुत्वम् । रुच्यत्वम् । दीपनत्वम् ।
पाचनत्वम् । कृमिकफानिलश्वासकासवमनार्शः
पृष्ठ ५/१३०
शूलगुल्मनाशित्वम् । अस्रदोषकारित्वञ्च । इति
राजनिर्घण्टः ॥ अपि च ।
“शूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः
विष्टम्भी विषदो रुच्यः कफार्शः कृन्तनो लघुः ॥
विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः ।
सर्व्वेषां कन्दशाखानां शूरणः श्रेष्ठः उच्यते ॥
दद्रूणां रक्तपित्तानां कुष्ठानां न हितो हि सः ।
सन्धानयोगसंप्राप्तः शूरणो गुणकृत्तमः ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“शूरणो दीपनो रुच्यः कफघ्नो विशदो लघुः ।
विशेषादर्शसां पथ्यो ग्राम्यकन्दस्तु दोषलः ॥”
इति राजवल्लभः ॥
श्योनाकवृक्षः । इति शब्दमाला ॥

शूरणोद्भुजः, पुं, हरिद्राङ्गपक्षी । इति शब्द-

चन्द्रिका ॥

शूरदेवः, पुं, चतुर्व्विंशतिभाव्यर्हदन्तर्गतार्ह-

द्विशेषः । इति हेमचन्द्रः ॥

शूरसेनः, पुं, (शूराः सेना यस्य ।) राजविशेषः ।

देशविशेषः । यथा, --
“शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् ।
माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा ॥”
इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥

शूर्प, क माने । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) षष्ठस्वरी । क, शूर्पयति
धान्यं गृही । इति दुर्गादासः ॥

शूर्पः, पुं, क्ली, (शूर्पयति धान्यादीनिति । शूर्प +

अच् । यद्वा शॄहिंसायाम् + “षुशॄभ्यां निच्च ।”
उणा० ३ । २६ । इति पः । चकारात् स च
कित् ।) तण्डुलादिस्फोटनार्थं वंशादिनिर्म्मित-
पात्रविशेषः । कुला इति भाषा । तत्पर्य्यायः ।
प्रस्फोटनम् २ । इत्यमरः ॥ सूर्पः ३ कुल्यः ४
प्रस्फोटनी ५ । इति शब्दरत्नावली ॥ (यथा,
“विसृज्य सूर्पवत् दोषान् गुणान् गृह्णन्ति
साधवः ॥”)
द्रोणद्वयपरिमाणम् । इति शब्दमाला ॥

शूर्पकः, पुं, (शूर्प इव प्रतिकृतिरस्य । “इवे प्रति-

कृतौ । इति कन् ।) असुरविशेषः । स च
कामदेवस्य शत्रुः । इति हेमचन्द्रः ॥

शूर्पकर्णः, पुं, (सूर्पाविव कर्णी यस्य ।) हस्ती ।

इति त्रिकाण्डशेषः ॥ कुल्यतुल्यश्रुतियुक्ते, त्रि
(यथा, कथासरित्सागरे । ५५ । १६५ ।
“घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्-
कटः ॥”)

शूर्पकारातिः, पुं, (शूर्पकस्तन्नामासुरः अराति-

र्यस्य ।) कामदेवः । इति हलायुधः ॥

शूर्पकारिः, पुं, (शूर्पकः अरिर्यस्य ।) कामदेवः ।

इति हलायुधः ॥

शूर्पणखा, स्त्री, (शूर्पा इव नखा यस्याः । “पूर्व्व-

पदात् संज्ञायामगः ।” ८ । ४ । ३ । इति
णचम् । “नखमुखात् संज्ञायाम् ।” ४ । १ । ५८ ।
इति न ङीप ।) रावणभगिनी । इति शब्द-
मालाशब्दरत्नावल्यौ ॥ (यथा, रघुः । १२ ।
३८ ।
“रूपं शूर्पणखानाम्नः सदृशं प्रत्यपद्यत ॥”)

शूर्पणखी, स्त्री, (शूर्पाकाराणि नखानि यस्याः ।

केवलयौगिकत्वे ङीष् ।) रावणभगिनी । इति
शब्दमालाशब्दरत्नावल्यौ ॥

शूर्पपर्णी, स्त्री, (शूर्पा इव पर्णानि यस्याः ।

ङीष् ।) शिम्बीविशेषः । इति शब्दचन्द्रिका ॥

शूर्पवातः, पुं, (शूर्पस्य वातः ।) शूर्पस्य वायुः ।

कुलार वातास इति भाषा । तत्पर्य्यायः ।
फुल्लफालः २ । इति त्रिकाण्डशेषः ॥

शूर्पश्रुतिः, पुं, (शूर्पौ इव श्रुती यस्य ।) हस्ती ।

इति हाराबली ॥

शूर्पी, स्त्री, (शूर्प + गौरादित्यात् ङीष्) क्षुद्र-

सूर्पः । इत्युणादिकोषः ॥ शूर्पणखा । इति
शब्दमाला ॥

शूर्म्मः, पुं, लौहप्रतिमा । इत्यमरटीकायां राय-

मुकुटः ॥

शूर्म्मिः, स्त्री, लौहप्रतिमा । इति भरतद्विरूप-

कोषः ॥

शर्म्मिका, स्त्री, लौहप्रतिमा । इति शब्द-

रत्नावली ॥

शूर्म्मी, स्त्री, लौहप्रतिमा । इति शब्द-

रत्नावली ॥

शूल, रुजायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) दीर्घी । शूलति लोकं रोगः ।
इति दुर्गादासः ॥

शूलः, पुं, क्ली, (शूलति लोकानिति । शूल रोगे +

अच् ।) रोगविशेषः । अस्त्रविशेषः । वर्शा
इति भाला इति च भाषा । इत्यमरः ॥ मृत्युः ।
केतनः । विष्कम्भादिसप्तविंशतियोगान्तर्गत-
नवमयोगः । इति मेदिनी ॥ तद्योगजात-
फलम् । यथा, --
“भीतो दरिद्रो दहिताप्रियश्च
शूलोद्भवः शूल इव स्वबन्धोः ।
विद्यामयाभ्यां रहितोऽथ शूली
करोति लोके न हितं कदाचित् ॥”
इति कोष्ठीप्रदीपः ॥
सुतीक्ष्णः । अयःकीलः । इति धरणिः ॥
(यथा, महाभारते । १ । १०७ । १२ ।
“ततस्ते शूल आरोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥”)
व्यथा । इति केचित् ॥ विक्रे तव्यम् । यथा, --
“अट्टशूला जनपदाः शिवशूलाश्चतुष्यथाः ।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥”
इति महाभारते आदिपर्व्व ॥ * ॥
अथ शूलाधिकारः । तत्र शूलस्य सन्निकृष्टं
निदानमाह ।
“दोषैः पृथक् समस्तामद्वन्द्वैःशूलोऽष्टधा भवेत्
सर्व्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ॥”
प्रभुः कर्त्ता ॥ * ॥ वातिकस्य विप्रकृष्टनिदान-
संप्राप्तिलक्षणमाह ।
“व्यायामपानादतिमैथूनाच्च
प्रजागराच्छीतजलादिपानात् ।
कलायमुद्गाढकिकोरदूषात्
अत्यर्थरुक्षाध्यशनाभिघातात् ॥
कषायतिक्तातिविरूढजान्न-
विरुद्धवल्लूरकशूष्कशाकैः ।
विट्छुक्रमूत्रानिलसन्निरोधात्
शोकोपवासादतिहास्यभाषात् ॥
वायुः प्रवृद्धो जनयेद्धि शूलं
हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे ।
जीर्णे प्रदोषे च घनागमे च
शीते च कोपं समुपैति गाढम् ॥
मुहर्मुहुश्चोपशमप्रकोपै-
र्व्विण्मुत्रसंस्तम्भनतोदभेदैः ।
सस्वेदनाभ्यञ्जनमर्द्दनाद्यैः
स्निग्धोष्णभोज्यैश्च समं प्रयाति ॥”
व्यायामो मल्लयुद्धादिः । पानं गुरुगरयादि ।
मैथनं स्त्रीसेवा । प्रजागरं रात्रौ । एषामति-
योगात् । कलायस्त्रिपुटः । आढकी तुवरी ।
कोरदूषकः कोद्रवः । अत्यर्थरूक्षद्रव्यसेवा ।
अध्यशनं भुक्तस्योपरि भोजनम् । अभिघातो
लोष्टादिभिः । कषायतिक्तरससेवा । विरूढजान्नं
विरूढमङ्करितमन्नकलायशाकादि तज्जमन्नं
भक्ष्यम् । वल्लूरं शुष्कमांसम् । तस्य शूलस्य
देशमाह । हृदयादिषु ॥ * ॥ तस्य हृच्छूलस्य
पृथगपि लक्षणं पठति ।
“कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः ।
हृदिस्थः कुरुते शूलमुच्छ्वासस्यावरोधकम् ।
स हृच्छूल इति ख्यातो रसमारुतकोपजः ॥”
पार्श्वशूलस्यापि लक्षणमाह ।
कफं निगृह्य पवनः शूचीभिरिव निस्तुदन् ।
पार्श्वस्थः पार्श्वयोः शूल कुर्य्यादाध्मानसंयु-
तम् ।
तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति ।
निद्राञ्च नाप्नु यादेष पार्श्वशूलः प्रकीर्त्तितः ॥”
वस्तिशूलस्यापि लक्षणमाह ।
“संरोधात् कुपितो वायुरस्थि संश्रित्थ तिष्ठति ।
वस्तिवङ्क्षणनाडीषु ततः शूलस्तु जायते ॥”
विण्मु त्रवातसंरोधी वस्तिशूलः स उच्यते ॥”
प्रकृतमनुसरति । जीर्णे भुक्ते ॥ प्रदोषे रात्र्या-
गमे रात्रिभवशीतेन वातप्रकोपात् । घनागमे
वर्षासु मेघोदये च ॥ * ॥ तथैव पैत्तिकमाह ।
क्षारातितीक्ष्णोष्णविदाहितैल-
निष्पावपिण्याककूलत्थयूषैः ।
कट्वम्लसौवीरसुराविकारैः
क्रोधानलायासरविप्रतापैः ॥
ग्राम्यातियोगादशनैर्विदग्धैः
पित्तं प्रकुप्याशु करोति शूलम् ।
तृण्मोहदाहार्त्तिकरं हि नाभ्यां
सस्वे दमूर्च्छाभ्रमशोषयुक्तम् ॥
मध्यं दिने कुप्यति चार्द्धरात्रे
निदाघकाले जलदात्यये च ।
शीतेऽतिशीतैः समुपैति शान्तिं
सुस्वादुशीतैरपि भोजनैश्च ॥”
पृष्ठ ५/१३१
निष्पावो राजमाषः । सौवीरं सन्धानभेदः ।
सुराविकारैः । परिपक्वान्नसन्धानसमुत्पन्ना सुरा
मता । तस्या विकारैः । रविप्रतापः आतपः ।
ग्राम्यातियोगो मैथुनाधिक्यम् । विदाहीत्यु-
क्त्वापि अशनैर्व्विदग्धैरिति बोधयति । अवि-
दाहिवस्तुनोऽपि पित्तवशाद्विदाहित्वं भवति ।
जलदात्यये शरदि । शीते शीतकाले । शीतै-
र्व्वातादिभिः ॥ * ॥ श्लैष्मिकमाह ।
“आनुपवारिजकिलाटपयोविकारै-
र्म्मांसेक्षुपिष्टकृशरातिलशस्कुलीभिः ।
अन्यै र्व्वलासजनकैरपि हेतुभिश्च
श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ॥
हृल्लासकाससदनारुचिसंप्रसेकै-
रामाशये स्तिमितकोष्ठशिरोगुरुत्वैः ।
भुक्तैः सदैव हि रुजं कुरुतेऽतिमात्रं
सूर्य्योदयेऽथ शिशिरे कुसुमागमे च ॥”
आनूपं बहुजलदेशजं भक्ष्यम । वारिजं शालू-
कादि । किलाटः ।
“पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्च्चिका ।
तक्रेण तक्रकूर्च्चो स्यात्तयोः पिण्डः किला-
टकः ॥”
पयोविकारः पायसादिः । पिष्टं माषादि ।
अन्यैः गुर्व्वादिभिः स्तिमितमार्द्रचर्म्मावगुण्ठित-
मिव यत् कोष्ठं शिरश्च तयोर्गुरुत्वैः सह ।
सूर्य्योदय इति त्रिधाविभक्तदिवसप्रथमभाग-
स्योपलक्षणम् । शिशिरे तत्र कफस्यातिसञ्च-
यात् । कुसुमागमे वसन्ते ॥ * ॥ द्वन्द्वजमाह ।
“द्विदोषलक्षणैरेतैर्व्विद्याच्छूलं द्विदोषजम् ॥”
त्रिदोषजमाह ।
“सर्व्वेषु देशेषु समस्तलिङ्गं
विद्याद्भिषक् सर्व्वभवं हि शूलम् ।
सुकष्टमेनं विषवज्रतुल्यं
विवर्ज्जनीयञ्च वदन्ति तज्ज्ञाः ॥”
सर्व्वेषु देशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाश-
येषु । सर्व्व भवं त्रिदोषजं शूलं विन्द्यात् । सुकष्ट-
साध्यं विषवज्रतुल्यं मारणात्मकत्वात् ॥ * ॥
आमजमाह ।
“आटोपहृल्लासवमीगुरुत्वं
स्तैमित्यमानाहकफप्रसेकैः ।
कफस्य लिङ्गेन समानलिङ्ग-
मामोद्भवं शूलमुदाहरन्ति ॥
कफस्य कफशूलस्य । आमोद्भवं आमादुद्भवो
यस्य तं शूलम् । अत्रामाच्छूले जाते पश्चा-
द्दोषसम्बन्धः । अतएव शूलस्याष्टत्वमुक्तम् । स
च प्रथममामाशये भवतिपश्चात् सम्बन्धिदोषै-
र्वस्तिनाभिहृत्पार्श्वकुक्षिषु भवति यथा दोष-
सम्बन्धः ॥ * ॥ आमशूलस्य दोषविशेषेण देश-
विशेषमाह ।
“वातात्मकं वस्तिगतं वदन्ति
पित्तात्मकं चापि वदन्ति नाभ्याम् ।
हृत्पार्श्वकुक्षौ कफसन्निविष्टं
सर्वेषु देशेषु च सन्निपातात् ॥”
हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ ।
कफसन्निविष्टं कफेनाविष्टम् ॥ * ॥ तन्त्रान्तरोक्त-
मामशूलमाह ।
“अतिमात्रं यदा भुक्तं पावके मृदुतां गते ।
स्थिरीकृतन्तु तत् कोष्ठे वायुनावृत्य तिष्ठति ॥
यदान्नं न गतं पाकं तच्छूलं कुरुते भृशम् ।
मूर्च्छाध्मानविदाहांश्च हृत्क्लेशं सविलम्बिकम्
कम्पवातमतीसारं प्रमोहं जनयेदपि ।
अविपाकोद्भवं शूलमेतमाहुर्म्मनीषिणः ॥”
अविपाकोद्भवं आमोद्भवमित्यर्थः ॥ * ॥ शूल-
स्योपद्रवानाह ।
“वेदनातितृषा मूर्च्छा आनाही गौरवं ज्वरः ।
भ्रमोऽरुचिः कृशत्वञ्च बलहानिस्तथैव च ।
उपद्रवा दशैवैते यस्य शूलस्य नास्ति सः ॥”
शलस्यैव भेदं परिणाममाह ।
“स्वैर्निदानैः प्रकुपितो वायुः सन्निहितो यदा
कफपित्ते समावृत्य शूलकारी भवेद्बली ॥
भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् ॥”
स्वैर्निदानैरित्यादिना निदानपूर्विका संप्राप्ति-
रुक्ता । भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम् ।
समावृत्य व्याप्य ॥ * ॥ अथान्नद्रवनामानं शूल-
विशेषमाह ।
“जीर्णे जीर्य्यत्यजीर्णे वा यच्छूलमुपजायते ।
पथ्यापथ्यप्रयोगेण भोजनाभोजनेन वा ।
न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ॥”
नेदं शूलमसाध्यं चिकित्साभिधानात् ॥ * ॥ अथ
शूलस्य चिकित्सा ।
“वमनं लङ्घनं स्वेदं पाचनं फलवर्त्तयः ।
क्षारचूर्णानि गुटिकाः शस्यन्ते शूलशान्तये ॥
विज्ञाय वातशूलन्तु स्नेहस्वेदैरुपाचरेत् ।
शूलशल्याकुलस्य स्यात् स्वेद एव सुखावहः ॥
मृत्तिकां सजलां पाकाद्धनीभूतां पटे क्षिपेत् ।
कृत्वा तत्पोटलीं शूली तया स्वेदं विधापयेत् ॥
इति मृत्तिकास्वेदः ॥
“कार्पासास्थिकुलत्थिकातिलयवैरेरण्डमूलातसी-
वर्षाभूषणबीजकाञ्जिकयुतैरेकीकृतैर्व्वा पृथक्
स्वेदः स्यादथ कूर्परोदरशिरःस्फिग्जानुपादा-
ङ्गली-
गुल्फस्कन्धकटीरुजो विजयते निःशेषवाता-
र्त्तिहा ॥”
इति कार्पासास्थ्यादिस्वेदः ॥
“तिलैश्च गुटिकां कृत्वा भ्रामयेज्जठरोपरि ।
शूलं सुदुस्तरं तेन शान्तिं गच्छति सत्वरम् ॥
नाभिलेपाज्जयेच्छूलं मदनं काञ्जिकान्वितम् ॥
मदनं मयनफलम् ॥ * ॥
“विश्वमेरण्डमूलन्तु क्वाथं कृत्वा शृतं पिबेत् ।
हिङ्गुसौवर्च्चलोपेतं सद्यः शूलनिवारणम् ॥ * ॥
गुडशालियवाः क्षीरं सर्पिःपानं विरेचनम् ।
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ॥”
मणीरजतताम्राणां भाजनानि गुरूणि च ।
तोयेनपरिपूर्णानि शूलस्योपरि धारयेत् ॥ * ॥
विरेचनं पित्तहरं प्रशस्तं
रमाश्च शस्ताः शशलावकानाम् । * ।
सगुडां घृतसंयुक्तां भक्षयेद्वा हरीतकीम् ।
प्रलिह्याच्छूलशान्त्यर्थं धात्रीचूर्णं समाक्षिकम् ॥
शाल्यन्नं जाङ्गलं मांसमरिष्टं कटुकं रसम् ॥
मधूनि जीर्णगोधूमं कफशूले प्रयोजयेत् ॥”
अरिष्टं भेषजक्वाथसिद्धं मद्यम् ॥ * ॥
“लवणत्रयसंयुक्तं पञ्चकोलं सरामठम् ।
सुखोष्णेनाम्बुना पीतं कफशूलं प्रणाशयेत् । *
आमशूले क्रिया कार्य्या कफशूलप्रणाशिनी ।
सेव्यमामहरं सर्व्वं मद्यमग्निविवर्द्धनम् ॥ * ॥
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् ।
प्रयोज्यं मधुसर्पिभ्यां सर्व्वशूलनिवारणम् ॥”
तीक्ष्णा राजिका ॥ * ॥
“दारुहैमवतीकुष्ठशताहाहिङ्गुसैन्धवैः ।
अम्लपिष्टैः सुखोष्णैश्च लिम्पेच्छूलयुतोदरम् ॥
मूलं वैल्वं तथैरण्डं चित्रकं विश्वभेषजम् ।
हिङ्गु सैन्धवसंयुक्तं सद्यः शूलनिवारणम् ॥”
वातरोगान्तर्गताध्मानचिकित्सायां लिखितो
नाराचनामा रसोऽन्यच्च विरेचनं शूले हितम् ॥
“कुष्माण्ड तनु कृत्वा तु छित्त्वा घर्म्मे विशोषयेत्
स्थाल्यां निक्षिप्य तत् सर्व्वं पिधानेन विधाप्य
च ॥
चुल्ल्यां निवेश्य वह्निञ्च ज्वालयेत् कुशलो जनः ।
यथा तत्र भवेद्भस्म किन्त्वङ्गारो दृढो भवेत् ॥
तदा निर्व्वापयेच्छीतं चूर्णितं चूर्णयेत्तु तम् ।
माषद्वयमितं तावच्छटीचूर्णञ्च मिश्रितम् ॥
जलेन भक्षयेन्नित्यं महाशूलाकुलो नरः ।
असाध्यमपि यच्छूलं तदप्ये तेन शास्यति ॥”
इति कुष्माण्डक्षारः ॥ * ॥
अथ परिणामशूलस्य चिकित्स ।
“लङ्घनं प्रथमं कुर्य्याद्वमनं सविरेचनम् ।
पक्तिशूलोपशान्त्यर्थं तत्र वान्तेर्विधिर्यथा ॥
पीत्वा तु क्षीरमाकण्ठमदनक्वाथसंयुतम् ।
कान्तारकस्य पौण्ड्रस्य कोशकारस्य वा रसम्
कषायं वाथ निम्बस्य कटुतुम्बीरसं वचाम् ।
यथाविधि वमेद्धीमान् पक्तिशूलार्द्दितो जनः ॥
त्रिवृता च तथा दन्त्यास्तैलेनैरण्डजेन वा ।
दत्तं विरेचनं सद्यः पक्तिशूलं निवारयेत् ॥
विडङ्गं तण्डुलं व्योषं त्रिवृद्दन्तिसचिक्रकम् ।
सर्व्वाण्येतानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥
गुडेन मोदकान् कृत्वा खादेदुष्णेन वारिणा ।
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥”
इति विडङ्गादि मोदकः ॥ * ॥
“नागरतिलगुडकल्कं पयसा संपिष्य यः पुमान्
लिह्यात् ।
उग्रं परिणतिशूलं नश्येत्तस्य त्रिरात्रेण ।
पीतं शम्बूकजं भस्म जलेनोष्णेन तत्क्षणात् ।
पक्तिजं नाशयत्येव शूलं विष्णुरिवासुरान् ॥
लोहपथ्याकणाशुण्ठीचूर्णं समधुसर्पिषा ।
विलिहन् विनिहन्त्येक शूलं हि परिणामजम् ॥”
इति पथ्यादिलोहम् ॥ * ॥
पृष्ठ ५/१३२
“नारिकेलं सतोयश्च लवणेन सुपूरितम् ।
मृदाववेष्टितं शुष्कं पक्वं गोमयवह्निना ॥
पिप्पल्या भक्षितं हन्ति शूलं हि परिणा-
मजम् ।
वातिकं पैत्तिकञ्चापि श्लेष्मिकं सान्निपातिकम् ॥”
इति नारिकेलक्षारः ॥ * ॥
अथान्नद्रवस्य चिकित्सा ।
“अन्नद्रावाख्ये शूले तु न तावत् स्वास्थ्यमश्नुते
यावत् कटुकपीताम्लमन्नं न च्छर्दयेद्द्रवम् ॥
जातमात्रे जरत्पित्ते शूलमाशु विनाशयेत् ।
पित्तार्त्तं वमनं कृत्वा कफार्त्तञ्च विरेचनम् ॥
अत्रद्रवे च तत् कार्य्यं जरत्पित्ते यदीरितम् ।
जरत्पित्तेऽपि तत् पथ्यं प्रोक्तमन्नद्रवे तु यत् ॥
आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम् ।
माषेण्डरीं सलवणां सुस्विन्नां तैलपाचिताम् ॥
तादृशों सर्पिषा खादेदन्नद्रवनिपीडितः ।
धात्रीफलभवं चूर्णमयश्चूर्णसमन्वितम् ।
यष्टीचूर्णेन वा युक्तं लिह्यात् क्षौद्रेण तद्गदे ।
श्यामकतण्डुलैः सिद्धं सिद्धं कोद्रवतण्डुलैः ॥
प्रियङ्गुतण्डुलैः सिद्धं पायसं मसितं हितम् ॥”
प्रियङ्गः कङ्गविशेषः ।
“गौडिकं शौरणं कन्दं कुष्माण्डमपि भक्षयेत् ।
कलाययवशक्तून् ता शक्तून् वा लाजसंयुतान् ॥”
गौडिकं गुडेन संस्कृतं पक्वान्नम् ॥ * ॥
“कुलत्थशक्तू नथवा दध्नाद्याद्दधिकं तथा ॥
चणकानामथो शक्तून् कोद्रवस्यौदनं तथा ॥”
दधिकं दध्ना संस्कृतं भक्तम् । महेरि इति
लोके ॥ * ॥
“गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम् ॥
ससितं शीतदुग्धेन मृदितं क्वथितं हितम् ॥
अन्नद्रवो दुश्चिकित्स्यो दुर्व्विज्ञे यो महागदः ।
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ॥
अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः ।
तस्मादत्रान्नपानानि मात्राहीनानि कारयेत् ॥
कलाययवगोधूमाः श्यामाकाः कोरदूषकाः ।
राजमाषाश्च माषाश्च कुलत्थाः कङ्गुशालयः ॥
दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहिषम् ।
वास्तूकं कारवल्ली च कर्कोटकफलानि च ॥
वर्हिणो हरिणा मत्स्या रोहिताद्याः कपि-
ञ्जलाः ।
एतस्मिन्नामये शस्ता मता मुनिचिकित्सकैः ॥”
दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत् ।
क्षोरं दधियुक्तं क्षौरमित्यर्थः ॥ * ॥
“गुडामलकपथ्यानां चूर्णं प्रत्येकशः पलम् ।
त्रिपलं लोहकिट्टस्य तत् सर्व्वं मधुसर्पिषा ॥
समालोड्य समश्नीयादक्षमात्रं प्रमाणतः ।
आदिमध्यावसानेषु भोजनस्य निहन्ति तत् ॥
अन्नद्रवं जरत्पित्तमम्लपित्तं सुदारुणम् ।
परिणामसमुत्थञ्च शूलं संवत्सरोत्थितम् ॥”
इति गुडमण्डूरम् ॥ * ॥
“व्यायामं मैथुनं मद्यं लवणं कटुकं रसम् ।
वेगरोधं शुचं क्रोधं विदलं शूलवान् त्यजेत् ॥”
इति शूलामपरिणामशूलान्नद्रवजरत्पित्ताधि-
कारः । इति भावप्रकाशः ॥ * ॥ अपि च ।
“अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।
निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति ॥ * ॥
साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।
घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम् ॥”
साञ्जनञ्च इत्यत्र ताम्बूलञ्च इति वा पाठः ॥
“चूर्णमामलकस्यैव पीतं शूलहरं परम् ॥”
इति गारुडे १८३ । १९५ । १९४ अध्यायाः ॥
किञ्च ।
“सामद्रं सैन्धवं क्षारो राजिका लवण विडम् ।
कटु लोहरजः किट्टं त्रिवृत् शूरणकं समम् ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
एतच्चाग्निबलं चर्णं पिबेदुष्णेन वारिणा ॥
जीर्णे जीर्णे च भुञ्जीत माषादिघृतभोजनम् ।
नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ॥
सर्वं शूलहरं चूर्णं जठरानलदीपनम् ।
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥”
इति गारुडे १९९ अध्यायः ॥
तस्य उपपापजत्वं यथा, --
“जलोदरयकृत्प्लीहशूलरोगव्रणानि च ।
श्वासाजीर्णज्वरच्छर्द्दिर्भ्रममोहगलग्रहाः ।
रक्तार्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥”
इति शातातपीयकर्म्मविपाकः ॥

शूलकः, पुं, (शूल इव दुर्व्विनीतत्वात् । कन् ।)

दुर्वृत्तघोटकः । इति हलायुधः ॥ अत्र शूकल
इत्यपि पाठो दृश्यते । यथा, --
“विनीतस्तु साधुवाही दुर्विनीतस्तु शूलकः ।”
इति हेमचन्द्रः ॥

शूलग्रन्थिः, स्त्री, मालादूर्व्वा । इति राजनिर्घण्टः

शूलघातनं, क्ली, (शूलं तद्रोगं घातयतीति ।

हन + णिच् + ल्युः ।) मण्डूरम् । इति शब्द-
चन्द्रिका ॥

शूलघ्नः, पुं, (शूलं हन्तीति । हन + टक् । तुम्बुरु-

वृक्षः । इति रत्नमाला ॥ शूलघातके, त्रि, ॥
(यथा, सुश्रुते । १ । ४५ ।
“सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षि-
शिरसां शूलघ्नः इति ॥”)

शूलद्विट्, [ष्] पुं, (शूलस्य द्विट् शत्रुः ।) हिङ्गुः ।

इति रत्नमाला ॥

शूलधन्वा, [न्] पुं, (शूलो धनुर्यस्य ।) शिवः ।

इति शब्दरत्नावली ॥

शूलधरः, पुं, (शूलस्य धरः ।) शिवः । इति शब्द-

रत्नावली ॥

शूलधरा, स्त्री, (शूलस्य धरा ।) दुर्गा । इति

शब्दरत्नावली ॥

शूलधारिणी, स्त्री, (शूलं धरति या । धृ + णिनिः ।)

दुर्गा । यथा, --
“सती साध्वी भवप्रीता भवानी भवमोचनी ।
आर्य्या दुर्गा जया आद्या त्रिनेत्रा शूल-
धारिणी ॥”
इति तन्त्रसारधृततच्छुतनामस्तोत्रम् ॥

शूलधृक्, [ज्] स्त्री, (शूलं धर्ज्जतीति । धृज् +

क्विप् ।) दुर्गा । इति त्रिकाण्डशेषः ॥ महादेवे,
पुं ॥ (शूलधृत्-इत्येव क्वचित पाठः ॥)

शूलनाशनं, क्ली, (शूलं नाशयतीति । नर्श + णिच्

+ ल्युः ।) सौवर्च्चललवणम् । इति हेमचन्द्रः ॥

शूलपत्री, स्त्री, (शूलवत् पत्रमस्याः । ङीष् ।)

शूलीतृणम् । इति राजनिर्घण्टः ॥

शूलशत्रुः, पुं, (शूलस्य शत्रुः । एरण्डबृक्षः । इति

शब्दचन्द्रिका ॥

शूलहन्त्री, स्त्री, (शूलं हन्तीति । हन + तृच् ।

ङीप् ।) यवानी । इति राजनिर्घण्टः ॥

शूलहृत्, पुं, (शूलं हरतीति । हृ + क्विप् ।)

हिङ्गूः । इति त्रिकाण्डशेषः ॥

शूला, स्त्री, दुष्टवधार्थकीलकः । वेश्या । इति

विश्वः ॥

शूलाकृतं, त्रि, (शूलेन कृतम् । “शूलात् पाके ।”

५ । ४ । ६५ । इति डाच् ।) लौहादिशलाकया
विद्धं पक्वमांसम् । कावाव् इति पारस्यभाषा ।
तत्पर्य्यायः । भटित्रन् २ शूल्यम् ३ । इत्यमरः ॥
वासितारम् ४ । इति जटाधरः ॥ शूलिकम् ५
इति शब्दचन्द्रिका ॥ अस्य गुणाः शूल्यशब्दे
द्रष्टव्याः ॥

शूलिकं, क्ली, (शूलः निमित्तत्वे नास्त्यस्येति । शूल

+ ठन् ।) शूलाकृतम् । इति शब्दचन्द्रिका ॥

शूलिकः, पुं, शशकः । इति हेमचन्द्रः ॥ (शूलः

अस्यास्तीति । ठन् ।) शूलयुक्ते, त्रि, ॥

शूलिनः, पुं, भाण्डीरवृक्षः । इति शब्दमाला ॥

शूलिनी, स्त्री, (शूलं अस्या अस्तीति । शूल +

इनि । ङीप् ।) दुर्गा । यथा, --
“खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी
तथा ॥
शङ्खिनी चापिनी बाणभुषुण्डीपरिघायुधा ॥”
इति देवीमाहात्म्यम् ॥

शूली, [न्] पुं, शूलमस्यास्तीति । शूल + इनिः ।

शिवः इत्यमरः ॥ (यथा, महाभारते । ३ ।
८४ । ८४ ।
“ततो गृध्रवटं गच्छेत् स्वानं देवस्य शूलिनः ॥”
शशः । इति भावप्रकाशः ॥ शूलास्त्रधारके
शूलरोगयुक्तेच त्रि । यथा, --
“बर्जयेद्विदलं शूली कुष्ठी मांसं क्षयी स्त्रियम् ।
इति वैद्यकम् ॥
तस्य कारणं प्रायश्चित्तञ्च यथा, --
“शूली परोपतापेन जायते तत्प्रमार्ज्जकः ।
सोऽन्नदानं प्रकुर्व्वीत तथा रुद्रं जपेन्नरः ॥”
इति शातातपीयकर्म्मविपाकः ॥

शूली, स्त्री, तृणभेदः । तत्पर्य्यायः । शूलपत्री २

अशाखा ३ धुम्रमूलिका ४ जलाश्रया ५ मधु-
लता ६ पिच्छिला ७ महिषीप्रिया ८ । अस्या
गुणाः । पिच्छिलत्वम् । कोष्णत्वम् । गुरुत्वम् ।
गौल्यत्वम् । बलप्रदत्वम् । पित्तदाहहरत्वम् ।
रुच्यत्वम् । दुग्धवृद्धिकारित्वञ्च । इति राज-
निर्घण्टः ॥
पृष्ठ ५/१३३

शूलोत्खा, स्त्री, सोमराजी । इति शब्दचन्द्रिका ॥

शूल्यं, त्रि (शूलेन संस्कृतम् । शूल + “शूलोत्खात्

यत् ।” ४ । २ । १७ । इति यत्) शूलाकृतम् ।
इत्यमरः ॥ कावाव् इति पारस्यभाषा । तत्-
पाकप्रकारो यथा, --
“कालखण्डादिमांसानि ग्रथितानि शलाकया ।
घृतं सलवणं दत्त्वा निर्धूमे दहने पचेत् ।
तत्त शूल्यमिति प्रोक्तं पाककर्म्मविचक्षणैः ॥”
अस्य गुणाः ।
“शूल्यं बल्यं सुधातुल्यं रुच्यं वह्निकरं लघु ।
कफवातहरं वृष्यं किञ्चित् पित्तहरं हि तत् ॥”
इति भावप्रकाशः ॥
अस्य पर्य्यायः शूलाकृतशब्दे द्रष्टव्यः ॥

शूल्यपाकः, पुं, (शूल्येन पाको यस्य ।) शूलविद्धा-

ङ्गारपक्वमांसादि । इति पाकराजेश्वरः ॥ कावाव
इति पारस्यभाषा ॥

शूय, प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

मक०-सेट् ।) शूयति । इति दुर्गादासः ॥

शृकालः, पुं, शृगालः । इति शब्दचन्द्रिका ॥

शृगालः, पुं, (सृजति मायामिति । सृज + कालन्

पृषोदरादित्वात् साधुः ।) पशुविशेषः । शेयाल्
इति भाषा । तत्पर्य्यायः । शिवा २ भूरिमायः ३
गोमायुः ४ मृगधूर्त्तकः ५ वञ्चकः ६ क्रोष्टुः ७
फेरुः ८ फेरवः ९ जम्बुकः १० । इत्यमरः ॥
सृगालः ११ जम्बूकः १२ मूत्रमत्तः १३ कुरवः १४
घोरबासनः १५ वनश्वा १६ फेरः १७ श्वधूर्त्तः
१८ । इति शब्दरत्नावली ॥ शालावृकः १९
गोमी २० कटस्वादकः २१ । इति जटाधरः ॥
शिवालुः २२ फेरण्डः २३ व्याघ्रनायकः २४ ।
इति राजनिर्घण्टः ॥ दैत्यभेदः । इति मेदिनी ॥
वासुदेवः । निष्ठुरः । खलः । इति सारस्वता-
भिधानम् ॥ भीरुः । इत्यनेकार्थकोषः ॥ * ॥
शृगालशब्दादीनां शुभाशुभसूचकत्वं यथा, --
“अनर्थहेतुर्गतिशब्दहीनः
सदा शृगालः खलु दृष्टमात्रः ।
शस्ता हि वामा गतिरस्य शस्तो
वामो निनादो निशि यो बहूनाम् ॥
हुवा हुवेति प्रथमं ततस्तु
टटेति दीघः सुतरां रवो यः ।
स्याज्जम्बुकानां स नतः प्रशस्त-
स्तदन्यरूपः कथितः प्रदीप्तः ॥
शृगालशब्दो भवने निशाया-
मुच्चाटनार्थं दिशि पश्चिमायाम् ।
प्राच्यां भयायोत्तरतः शिवाय
भवत्यवाच्यां भयनाशनाय ॥”
इति वसन्तराजशाकुनम् ॥

शृगालकण्टकः, पुं, (शृगालरोधकः कण्टको

यस्व ।) क्षुपविशेषः । इति शब्दचन्द्रिका ॥
शेयालकाटा इति भाषा ॥

शृगालकोलिः, पुं, (शृगालप्रियः कोलिर्यस्य ।)

क्षुद्रकोलिवृक्षः । शेयाकुल् इति भाषा । तत्-
पर्य्यायः । कर्कन्धुः २ । इति रत्नमाला ॥ अपिच ।
“अथ घोण्टा ३ गोपघोण्टा ४ वदरं ५ वादि-
रञ्च ६ तत् ।
वदरीसदृशे सूक्ष्मफले वृक्षे चतुष्टयम् ॥”
इति शब्दरत्नावली ॥

शृगालघण्टी, स्त्री, कोकिलाक्षः । इति राज-

निर्घण्टः ॥

शृगालजम्बुः, स्त्री, (शृगालस्य जम्बुरिव ।)

गोडुम्बः । घोण्टाफलम् । इति मेदिनी ॥

शृगालविन्ना, स्त्री, (शृगालैर्विन्ना ।) पृश्निपर्णी ।

इति राजनिर्घण्टः ॥

शृगालिका, स्त्री, शृगालपत्नी । त्रासात् पला-

यनम् । इति मेदिनी ॥ भूमिकुष्माण्डः इति ।
जटाधरः ॥ क्षुद्रशृगालः । खेँक्शेयाली । इति
भाषा । तत्पर्य्यायः । लोमालिका २ दीप्त-
जिह्वा ३ किखिः ५ उल्कामुखी ५ । इति
त्रिकाण्डशेषः ॥

शृगाली, स्त्री, विद्रवः । पलायनमिति यावत् ।

इति त्रिकाण्डशेषः । कोकिलाक्षः । विदारी ।
इति राजनिर्घण्डः ॥ शृगालिका च ॥

शृङ्खलः, त्रि, पुंसां कट्याभरणम् । गोट् इति

भाषा ॥ हस्त्यादीनां लौहमयपादबन्धोपकरणम्
आँदु इति दाँडुका इति च भाषा । तत्पर्य्यायः ।
उन्दुकः २ निगडः ३ । इत्यमरः ॥ शृङ्खला ४ ।
इति तट्टीकायां भरतः ॥ (यथा, रघुः । ५ । ७२ ।
“शय्यां जहात्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ॥”)
लौहरज्जुः । शिकल वेडि इत्यादि भाषा ॥
बन्धनम् । इति हेमचन्द्रः ॥

शृङ्खलकः, पुं, (शृङ्खलं बन्धनमस्य । “शृङ्खलमस्य

बन्धनं करभे ।” ५ । २ । ७९ । इति कन् ।)
उष्ट्रः । इति राजनिर्घण्टः ॥ (यथा, माघे ।
१२ । ७ ।
तीव्रोत्थितास्तावदसह्यरंहसो
विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥”)
पलायननिषेधाय पादेषु दारुमयपाशलक्षित-
करभः । इत्यमरभरतौ ॥ (स्वार्थे कन् ।) शृङ्ख-
लश्च ॥

शृङ्खला, स्त्री, निगडः । पुंस्कटीवस्त्रबन्धः । इति

मेदिनी ॥ अन्यत् शृङ्खलशब्दे द्रष्टव्यम् ॥

शृङ्खलितः, त्रि, (शृङ्खलो जातोऽस्येति । इतच् ।)

शृङ्खलायुक्तः । निगडितः । इति धनञ्जयः ॥

शृङ्खली, स्त्री, कोकिलाक्षः । इति राजनिर्घण्टः ॥

शृङ्गं, क्ली, (शॄहिंसे + “शृणातेर्ह्रस्वश्च ।” उणा०

१ । १२५ । इति गन् । धातोर्ह्रस्वत्वँ कित्त्वं
नुट् च प्रत्ययस्य ।) पर्व्वतोपरिभागः । तत्प-
र्य्यायः । कूटम् २ कूटः ३ शिखरम् ४ । इत्य-
मरः ॥ दन्तः ५ प्राग्भारः ६ । इति जटाधरः ॥
शैलाग्रम् ७ । इति त्रिकाण्डशेषः ॥ (यथा,
रघुः । १३ । २६ ।
एतद्गिरेर्माल्यवतः पुरस्ता-
दाविर्भवत्यम्बरलेखि शृङ्गम् ॥”)
सानुः । इति नानार्थे अमरः ॥ प्रभुत्वम् ।
चिह्नम् । क्रीडाजलयन्त्रम् । (यथा रघुः १६ । ७० ।
“वर्णोदकैः काञ्चनशृङ्गमुक्तै-
स्तमायताक्ष्यः प्रणयादसिञ्चन् ॥”)
विषाणम् । (यथा, रघुः । १६ । १२ ।
“वन्यैरिदानीं महिषैस्तदम्भः
शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥”)
उत्कर्षः । इति मेदिनी ॥ (यथा, रघुः । ९ । ६२ ।
“शृङ्गं स दृप्तविनयाधिकृतः परेषा
मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥”
ऊर्द्ध्वम् । (यथा, कुमारे । ७ । ४० ।
“विमानशृङ्गाण्यवगाहमानः
शशंस देवावसरं सुरेभ्यः ॥”)
तीक्ष्णम् । पङ्कजम् । इति शब्दरत्नावली ॥
(कोटिः । यथा, कुमारे । २ । ६४ ।
“अथ सललितयोषिद् भ्रूलताचारुशृङ्गं
रतिवलयपदाङ्के चापमासज्य कण्ठे ॥”
स्तनम् । यथा, भागवते । ५ । २ । ११ ।
“किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते
मध्ये कृशो वहसि तत्र दृशिः श्रिता मे ॥”
“स्तनावालक्ष्याह । शृङ्गयोः स्तनयोः किं
सम्भृतं किं पूर्णमस्ति मनोहरं किञ्चिदस्ति इत्ये
तावत् जानामि ।” इति तट्टीकायां स्वामी ॥ * ॥)
महिषादिशृङ्गनिर्म्मितवाद्यविशेषः । शिङ्ग
इति भाषा । यथा, --
“क्वचिद्वनाशाय मनो दधद्व्रजात्
प्रातः समुत्थाय वयस्यवत्सपान् ।
प्रबोधयन् शृङ्गरवेण चारुणा
विनिर्गतो वत्सपुरःसरो हरिः ॥”
इति श्रीभागवते १० स्कन्धे १२ अध्यायः ॥
कामोद्रेकः । यथा, साहित्यदर्पणे । ३ । २१० ।
“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥” * ॥
गोशृङ्गभङ्गप्रायश्चित्तं यथा । भवदेवभट्टधृतं
यमवचनम् ।
“अस्थिभङ्गं गवां कृत्वा लाङ्गुलच्छेदनं तथा ।
पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत् ॥”
अङ्गिराः ।
“शृङ्गभङ्गेऽस्थिभङ्गे च चर्म्मनिर्म्मोचनेऽपि वा ।
दशरात्रं चरेद्वज्रं सुस्था सा यदि गौर्भवेत् ॥”
भवदेवभट्टहरिनाथोपाध्यायधृतं संवर्त्तवचनम् ।
“शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च ।
यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥”
अत्र षण्मासोत्तरमरणे तद्दोषशमनाय प्राय-
श्चित्तं नास्ति तदभ्यन्तरमरणे वधप्रायश्चित्तं
भवति । एवञ्च शृङ्गभङ्गादिनिमित्तकपापे पृथक्
प्रायश्चित्तं न कर्त्तव्यम् । वधप्रायश्चित्तेनैव
गुरुणा प्रसङ्गात्तदपगमसिद्धेः । षण्मासोत्तरन्तु
शृङ्गभङ्गादिनिमित्तकपूर्व्वोक्तमासार्द्धयावकपानं
प्राजापत्यं वा कर्त्तव्यम् । इति प्रायश्चित्ततत्त्वम् ॥

शृङ्गः, पुं, (शॄ + गन् । उणा० १ । १२५ ।) कूर्च्च-

शीर्षकवृक्षः । इति मेदिनी ॥ मुनिभेदः । इति
शब्दरत्नावली ॥
पृष्ठ ५/१३४

शृङ्गकः, पुं, (शृङ्ग इव । कन् ।) जीवकवृक्षः ।

इति जटाधरः ॥

शृङ्गकन्दः, पुं, (शृङ्गवत् कन्दो यस्य ।) शृङ्गा-

टकः । इति राजनिर्घण्टः ॥

शृङ्गजं, क्ली, (शृङ्गात् जायते इति । जन + डः ।)

अगुरुः । इति रत्नमाला ॥ शरे, पुं, । यथा ।
शृङ्गाच्छरो जायते । इति संक्षिप्तसारकारक-
पादः ॥ शृङ्गजाते, त्रि ॥

शृङ्गबेरं, क्ली, (शृङ्गस्येव बेरं शरीरं यस्य ।)

आर्द्रकम् । इत्यमरः ॥ शुण्ठी । इति राज-
निर्घण्टः ॥ (यथा, सुश्रुते । १ । ३८ ।
“पिप्पलीमरीचशृङ्गबेराणि त्रिकटुकम् ॥”)
गुहचण्डालपुरम् । यथा, --
“मारुते गच्छ शीघ्रं त्वमयोध्यां भरतं प्रति ।
जानीहि कुशली कश्चित् जनो नृपतिमन्दिरे ॥
शृङ्गबेरपुरं गत्वा ब्रूहि मित्रं गुहं मम ।
जानकीलक्ष्मणोपेतमागतं मां निवेदय ॥”
इत्यध्यात्मरामायणे लङ्काकाण्डे १४ अध्यायः ॥

शृङ्गबेरकं, क्ली, (शृङ्गबेरमेव । स्वार्थे कन् ।)

आर्दकम् । इति हेमचन्द्रः ॥

शृङ्गबेराभमूलकः, पुं, (शृङ्गबेराभं मूलं यस्य ।

कन् ।) एरका इति भावप्रकाशः ॥

शृङ्गमूलः, पुं, (शृङ्गवत् मूलं यस्य ।) शृङ्गाटकः ।

इति राजनिर्घण्टः ॥

शृङ्गमोही, [न्] पुं, (शृङ्गाय मन्मथोद्भे दाय

मोहयतीति । मुह + णिच् + णिनिः ।) चम्पकः ।
इति राजनिर्घण्टः ॥

शृङ्गला, स्त्री, (शृङ्गवत् लातीति । ला + कः ।)

अजशृङ्गी । इति शब्दचन्द्रिका ॥

शृङ्गवान्, [त्] पुं, (शृङ्गाणि सन्ति अस्येति ।

शृङ्ग + मतुप् । मस्य वः ।) कुरुवर्षीयसीमा-
पर्व्वतः । स तु दीर्घे ८०००० अशीतिसहस्र-
योजनानि । प्रस्थे २००० द्विसहस्रयोजनानि ।
विस्तारे तयैव । यथा, --
“हिमवद्धेमकूटश्च निषधश्चास्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः ॥
लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥”
इति विष्णुपुराणे २ अंशे २ अध्यायः ॥
लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध-
नीलौ । यद्यपि जम्बु द्वीपमण्डलाकारस्य लक्ष-
योजनप्रमाणत्वान्मध्यरेखायामेव मुख्यं लक्ष-
प्रमाणत्वम् । निषधनीलौ तु तन्मध्यरेखातो
दक्षिणतश्चोत्तरतश्च सप्तदशयोजनसहस्रान्तरि-
तत्वादीषन्न्यूनौ । तथापि स्थूलदृष्ट्या लक्ष-
प्रमाणावित्युक्तम् । अपरे तु हेमकूटादयो दश-
हीनादशदशन्यूनाः हेमकूटश्वेतौ नवतियोजन
सहस्रप्रमाणौ हिमवच्छृङ्गिणावशीतियोजन-
प्रमाणौ । तदुक्तं वाराहे ।
“द्वीपस्य मण्डलीभावात् ह्रासवृद्धी प्रकीर्त्तिते ॥”
इति तट्टीकायां श्रीधरस्वामी ॥
भागवतमते दैर्घ्ये १०००० दशमहस्रयोजनानि
प्रस्थे २००० द्विसहस्रयोजनानि । यथा ।
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति
त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा-
गिरयः प्रागायता उभयतः क्षारोदावधयो
द्विसहस्रयोजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्व-
स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव
ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम-
कूटो हिमालय इति प्रागायता यथा नीला-
दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष-
भारतानां यथासंख्यम् ॥ इति श्रीभागवते ५
स्कन्धे १६ अध्यायः ॥

शृङ्गाटं, क्ली, (शृङ्गमुत्कर्षं अटतीति । अट् +

अच् ।) चतुष्पथम् । इति हेमचन्द्रः धरणिश्च ॥

शृङ्गाटः, पुं, (शृङ्गवत् कण्टकं अटतीति ।

अट् + अच् ।) जलकण्टकः । इति भूरि-
प्रयोगत्रिकाण्डशेषौ ॥ स्वादुकण्टकः । इति शब्द
रत्नावली ॥ कामाख्यादेशस्थपर्व्वतः । यथा, --
“दीपवत्याः पूर्व्वतस्तु शृङ्गाटो नाम पर्व्वतः ।
तत्र भर्गस्य देवस्य लिङ्गमेकं प्रतिष्ठितम् ॥
सरित्तु सिद्धा त्रिस्रोता दक्षिणोदधिगामिनी ।
शृङ्गाटकस्य सततं स्वनन्ती ग्राव्लिपादतः ।
दक्षिणं सागरं याति भर्गस्य प्रियकारिणी ॥
सलिले यो नरः स्नाति तिस्रोतायां नरोत्तमः ।
शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम् ॥
स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् ।
अन्ते भर्गगृहं याति ततो मोक्षमवाप्नु यात् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

शृङ्गाटकं, क्ली, (शृङ्गाटमेव । स्वार्थे कन् ।)

चतुष्पथम् । इत्यमरः ॥ (यथा, रामायणे ।
२ । ७१ । ४५ ।
“तां शून्यशृङ्गाटकवेश्मरथ्यां
रजोऽरुणद्वारकपाटयन्त्राम् ॥”)
जलज-लताफलविशेषः । पानिफल इति शिङ्गाडा
इति च भाषा । तत्पर्य्यायः । जलसूचिः २
संघाटिका ३ वारिकण्टकः ४ । इति जटा-
घरः ॥ शृङ्गाटः ५ वारिकुब्जकः ६ । इति
त्रिकाण्डशेषः ॥ क्षीरशुक्लः ७ जलकण्टकः ८
इति शब्दमाला ॥ शृङ्गाटकः ९ शृङ्गरुहः १०
जलवल्ली ११ जलाशयः १२ शृङ्गकन्दः १३
शृङ्गमूलः १४ विषाणी १५ । अस्य गुणाः ।
शोणितपित्तहरत्वम् । लघुत्वम् । सरत्वम् ।
वृष्यतमत्वम् । विशेषात् त्रिदोषवातभ्रमशोफ-
नाशित्वम् । रुचिप्रदत्वम् । मेहनदार्ढ्यहेतुत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च । गुरुत्वम् ।
विष्टम्भित्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥
खाद्यविशेषः । समूसा इति हिन्दी भाषा ॥
यथा, भावप्रकाशे ।
“शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले ।
लवङ्गं हिङ्गुसहितं लवणार्द्रकसंयुतम् ॥
एलाजीरकधन्याकनिम्बूरससमन्वितम् ॥
घृते सगन्धे तद्भृष्टं पूरणं प्रोच्यते बुधैः ॥
शृङ्गाटकं समितया कृतं पूरणपूरितम् ।
पुनः सर्पिषि संभृष्टं मांसं शृङ्गाटकं वदेत् ॥
मांसं शृङ्गाटकं रुच्यं बृहणं बलकृत् गुरु ।
वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम् ॥”

शृङ्गाटकः, पुं, (शृङ्गाट एव । स्वार्थे कन् ।) जल-

कण्टकः । इति राजवल्लभः ॥

शृङ्गारं, क्ली, (शृङ्गं प्राधान्यं ऋच्छतीति । ऋ +

अण् ।) लवङ्गम् । सिन्दूरम् । चूर्णम् । इति
मेदिनी ॥ आर्द्रकम् । इति शब्दचन्द्रिका ॥
कालागुरुः । इति राजनिर्घण्टः ॥

शृङ्गारः, पुं, (शृङ्गं कामोद्रे कमृच्छतीति । ऋ

गतौ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् । यद्वा,
शॄ हिंसायाम् + “भृङ्गारशुङ्गारौ ।” उणा०
३ । १३६ । इति आरन्प्रत्ययेन साधुः ।)
सुरतः । नाट्यरसः । गजभूषणम् । इति
मेदिनी ॥ * ॥ नाट्यरसस्य लक्षणं यथा, --
“पुंसः स्त्रियां स्त्रियाः पुंसि संयोगं प्रति या
स्पृहा ।
स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥”
इत्यमरटीकायां भरतः ॥
अपि च ।
“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥
परोढां वर्जयित्वात्र वेश्याञ्चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥
चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम् ।
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः ॥
त्यक्तोग्र्यमरणालस्यजुगुप्साव्यभिचारिणः ।
स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ॥”
स च द्विधा । विप्रलम्भः संभोगश्च । इति
साहित्यदर्पणम् ॥ अन्यत् मैथुनशब्दे द्रष्ट-
व्यम् ॥ * ॥ शृङ्गारादिभङ्गे नरको यथा, --
“शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ।
स व्रजेत् कालसूत्रञ्च स्वामिनश्च विशेषतः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४२ अध्यायः ॥

शृङ्गारकं, क्ली, (शृङ्गारमेव । स्वार्थे कन् ।)

सिन्दूरम् । इति राजनिर्घ ण्टः ॥ शृङ्गविशिष्टे,
त्रि । शृङ्गशब्दात् “शृङ्गवृन्दाभ्यामारकन्
वक्तव्यः ।” ५ । २ । १२२ । इत्यस्य वार्त्तिकोक्त्या
आरकन्प्रत्ययेन निष्पन्नः । इति सिद्धान्त-
कौमुदी ॥ स्वार्थे के शृङ्गारश्च तत्र पुं ॥

शृङ्गारभूषणं, क्ली, (शृङ्गारस्य भूषणम् ।)

सिन्दूरम् । इति हेमचन्द्रः ॥

शृङ्गारयोनिः, पुं, (शृङ्गारे योनिरुत्पत्तिर्यस्य ।)

कामदेवः । इति हलायुधहेमचन्द्रौ ॥

शृङ्गारी, [न्] पुं, (शृङ्गारोऽस्यास्तीति । इनिः ।)

पूगः । गजः । सशृङ्गारः । सुवेशः । इति
मेदिनी ॥ माणिक्यम् । इति राजनिर्घण्टः ॥

शृङ्गिः, स्त्री, मत्स्यविशेषः । शिङ्गीमाछ इति

भाषा । यथा, --
“मद्गुरस्यप्रिया श ङ्गी शृङ्गिरित्यपि कुत्रचित्
स्यादप्रिया मद्गुरसीति च नामद्वयम् कचित् ॥”
इति शब्दरत्नावली ॥
पृष्ठ ५/१३५

शृङ्गिकं, क्ली, विषभेदः । इति हलायुधः ॥

शृङ्गिका, स्त्री, पतिविषा इति शब्दरत्नावली ॥

शृङ्गिणः, पुं, (शृङ्गेस्तः अस्येति । शृङ्ग + “ज्योस्ना-

तमिस्रेति ।” ५ । २ । ११४ । इति इनच् ।)
मेषः । इति हेमचन्द्रः ॥

शृङ्गिणी, स्त्री, (शृङ्गे स्तः अस्या इति । शृङ्ग +

इनिः । ङीष् ।) गौः । इत्यमरः ॥ श्लेष्मघ्नी-
वृक्षः । मल्लिकावृक्षः । ज्योतिष्मतीवृक्षः । इति
मेदिनी ॥

शृङ्गी, [न्] पुं, (शृङ्ग + इनिः ।) हस्ती । वृक्षः ।

पर्व्वतः । (यथा, रघुः । १२ । ८० ।
“रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥”
ऋषिविशेषः । स तु शमीकपुत्त्रः । अभिमन्यूजः
परिक्षित् अनेनाभिशप्तः ।) शृङ्गयुक्ते, त्रि ।
इति मेदिनी ॥ यथा, रामायणे । २ । २५ । २० ।
“महिषाः शृङ्गिणौरौद्रा नते द्रुह्यन्तु पुत्त्रक ॥”)

शृङ्गी, स्त्री (शृङ्गि + वा ङीष् ।) मत्स्यविशेषः ।

शिङ्गी इति जियल इति च भाषा । तत्पर्य्यायः ।
मद्गुरप्रिया २ । इत्यमरः मधुश्च ॥ मद्गरी ३ ।
इति कलिङ्गः ॥ मद्गुरसी ४ अप्रिया ५
शृङ्गिः ६ । इति केचिदिति भरतः ॥ अस्या
गुणाः । स्वादुरमत्वम् । स्निग्धत्वम् । बृंह-
नत्वम् । कफकोपनत्वम् । शोथपाण्डुमरुत्पित्त-
नाशित्वञ्च । इति राजवल्लभः ॥ अतिविषा ।
ऋषभौषधम् । इत्यमरः ॥ कर्कटशृङ्गी । प्लक्षः ।
वटः । विषम् । इति राजनिर्घण्टः ॥ अलङ्कार-
सुवर्णम् । यथा । स्त्री शृङ्गी मण्डनस्वर्णे । इति
भरतधृतरत्नकोषः ॥

शृङ्गीकनकं, क्ली (शृङ्गी मण्डनस्वर्णम् । तदेव

कनकम् ।) अलङ्कारसुवर्णम् । इत्यमरः ॥
अलङ्कारस्य कुण्डलादेर्यत् सुवर्णं तत् शृङ्गी-
कनकमुच्यते शृङ्गी अलङ्खारः तदर्थं कनकं-
शृङ्गीकनकं अलङ्कारसुवर्णस्य शृङ्गीति च नाम ।
स्त्री शृङ्गी मण्डनस्वर्णे इति रत्नकोषः ॥ शृङ्गी
ह्रस्वान्ता च शृङ्गति कर्णादीन् शृङ्गिः श्रगि
श्लगि व्रजे नाम्नीति इः निपातनात् जिः पाच्छो-
णादीति ईपि शृङ्गी । इति भरतः ॥

शृणिः, स्त्री, अङ्कुशः । इत्यमरः ॥ “शृणाति मर्म्म-

स्थाणं शृणिः । शॄ स्वॄ गि हिंसने कॄगॄज्याग्ला-
हाल्वादेर्निरिति ल्वादित्वात् क्तेर्निः निपा-
तनादिह ह्रस्वः । नाम्नीति डृणिर्व्वा ।
“शृणिरङ्कुशवाची च काशश्च तृणवाचकः ।”
इति शभेदात् तालव्यादिः । सरति मर्म्मस्थानं
गच्छति सृणिर्द्दन्त्यादिरित्यन्ये । स्त्रियामित्यत्र
द्वयोरिति पाठः । इति मेदिनी ॥ आवक्षमग्न-
मवमत्य शृणिं शिताग्रमिति माघः । स्त्रिया-
मिति प्रायिकत्वादुक्तमिति मुकुटः ।” इति
भरतः ॥

शृतं, त्रि, (श्रा पाके + क्तः ।) “शृतं पाके ।”

६ । १ । २७ । इति शृभावः ।) पक्वक्षीराज्य-
पयांसि । इत्यमरः ॥ शृतमन्नं विवर्ज्जयेदिति-
त्वार्षम् । इति भरतः ॥ कथितम् । इति शब्द
चन्द्रिका रत्नमाला च ॥ * ॥ अथ क्वाथविधिः ।
“पानीयं षोडशगुणं क्षुण्ण द्रव्यपले क्षिपेत् ।
मृत्पात्रे क्वाथयेत् ग्राह्यमष्टमांशावशेषितम् ॥
कर्षादौ तु पलं यावत् दद्यात् षोडशिकं जलम् ।
तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् ।
शृतः काथः कषायश्च निर्य्यूहः स निगद्यते ॥”
क्वाथपानमात्रामाह ।
“मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा ।
जघन्या च पलार्ङ्ग्रेन स्नेहक्वाथौषधेन च ॥”
तन्त्रान्तरे ।
“क्वाथद्रव्यपले वारि द्विरष्टगुणमिष्यते ।
चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम् ॥
दीप्तानलं महाकायं पाययेत् द्व्यञ्जलिं जलम् ।
अन्ये त्वर्द्धं परित्यज्य प्रसृतन्तु चिकित्सकाः ॥
क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम् ।
पारम्पर्य्योपदेशेन वृद्धवैद्याः पलद्वयम् ॥”
अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया
गुरुत्वाद्दीप्तानलं महाकायं पलद्वयं पायये-
न्मध्यमाग्निमल्पकायं पलमात्रं पाययेत् ।
मात्रोत्तमा पलेन स्यादित्यादिवचनात् ।
“क्वाथे क्षिपेत् सितामशैश्चतुर्थाष्टमषोडशैः ।
वातपित्तकफातङ्के विपरीतं मधु स्मृतम् ॥
जीरकं गुग्गुलुं क्षारं लवणञ्च शिलाजतु ।
हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत् ॥
क्षीरं घृतं गुडं तैलं मूत्रं चान्यत द्रवं तथा ।
कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम् ॥
तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः ।
औषधं हेम रजतं मृद्भाजनपरिस्थितम् ॥
पिबेत् प्रमन्नहृदयः पीत्वा पात्रमधोमुखम् ।
विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“द्रव्यादापोत्थितात्तोये वह्निना परितापितात् ।
निःशृतो यो रसः पूतः स शृतः समुदाहृतः ॥”
इति वैद्यकम् ॥

शृध, व ऌङ उ पर्दे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् । क्तावेट् ।) व, शर्त्-
स्यति शिशृत्सति । ऌ, अशृधत् । ङ, शर्धते ।
उ, शर्द्धित्वा शृद्ध्वा । पर्दोऽपानोत्सर्गः । शृधु
प्रहसने इति चुरादिपरस्मैपदीधातुरन्यैर्न
मन्यते । प्रहसनं विद्रवः । इति गोविन्दभट्टः ।
शर्द्धयति वृद्धं कुत्सितशब्दैर्बालः । इति रमा-
नाथः । इति दुर्गादासः ॥

शृध, उ ञ क्लेदने । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सेट् । क्त्वाविट् ।) उ, शद्धित्वा
शृद्ध्वा । ञ शर्द्धति शर्द्धते । क्लेदनमाद्रभावः ।
इति दुर्गादासः ॥

शृधुः, पुं, (शृध + बाहुलकात् कुः ।) बुद्धिः ।

गुदम् । इति विश्वः ॥

शृधूः, पुं, (शृध + “नृतिशृध्योः कूः ।” उणा० १ ।

९३ । इति कूः ।) कुत्सितः । अपानम् । इति
संक्षिप्तसारोणादिवृत्तिः ॥

शॄ, गि हिंसने । इति कविकल्पद्रुमः ॥ क्र्या०-

पर०-सक०-सेट् ।) गि, शृणाति । शीर्णः
शीर्णिः । इति दुर्गादासः ॥

शेखरं, क्ली, लवङ्गम् । इति राजनिर्घण्टः ॥ शिग्रु-

मूलम् । इति शब्दचन्द्रिका ॥

शेखरः, पुं, (शिखि गतौ + बाहुलकात् अरप्रत्य-

येन साधुः ।) शिखावस्थितमाल्यम् । इत्य-
मरः ॥ यथा, --
“शिखाविन्यस्तमालायामापीडः शेखरोऽपि च ॥”
इति शब्दरत्नावली ॥
(यथा, माघे । ११ । ४६ ।
“नवकरनिकरेण स्पष्टबन्धूकसून-
स्तवकरचितमेते शेखरं बिभ्रतीव ॥”
शिरोभूषणमात्रम् । यथा, कुमारे । ७ । ३२ ।
“बभूव भस्मैव सिताङ्गरागः
कपालमेवामलशेखरश्रीः ॥”)
गीतस्य ध्रुवविशेषः । तल्लक्षणं यथा, --
“द्वादशाक्षरपादः स्यात् स चाल्पशुभकृत्
प्रभोः ।
हंसके च रसे वीरे गीयते शेखरो ध्रुवः ॥”
इति सङ्गीतदामोदरः ॥
लघुशेखरो यथा, --
“लघुर्गुरुर्भवेद्यत्र स भवेल्लघुशेखरः ॥”
इति तत्रैव ॥
(शृङ्गम् । यथा, कथासरित्सागरे । २८ । १८९ ।
“ततोऽस्तगिरिशेखरं व्रजति वासरेशे शनैः
सखीं पुनरुपागमप्रणयिणीं समापृच्छ्य ताम् ।
क्षणं जनितविस्मया गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसवमेव सोमप्रभा ॥”)

शेखरी, स्त्री, वन्दा । इति शब्दरत्नावली ॥

शेपः, पुं, (शी + बाहुलकात् पः ।) शेफः । इति

शब्दरत्नावली ॥ (यथा, वाजसनेयसंहितायार
१९ । ८८ ।
“वस्तिर्न शेपो हरसा तरस्वी ॥”)

शेपालः, पुं, (शी + वालन् । बाहुलकात् वकारस्य

पकारः । इत्युणादिवृत्तौ उज्ज्वलदत्तः । ४ । ३८ ।
शैवालः । इति शब्दरत्नावली ॥

शेफः, पुं, शिश्नः । इति शब्दरत्नावली ॥ (यथा,

महाभारते । १० । ७ । ३८ ।
“विकटाः काललम्बौष्ठा बृहच्छेफाण्डपिण्डकाः ॥”)

शेफः, [स्] क्ली, (शेते रेतःपातानन्तरमिति ।

शी + “वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।”
उणा० ४ । २०० । इति असुन् । अत्र केचित्
फ चेति पठन्ति इत्यतः फः ।) शिश्नः । इत्य-
मरः ॥ शुकपाते सति शेते पतति इति शेफः ।
शीङ् धातोर्नाम्नीति फस्प्रत्ययः । शेफसशेपसी
शेफशेपौ शैवश्चेति पञ्च रूपाणि भवन्तीत्या
चार्य्याः । इति भरतः ॥ (यथा, बृहत्सहि तायाम् । ६८ । ८ ।
“ऋजुवृत्तशेफसो लगुशिरालशिश्नाश्च धनवन्तः ॥”)