सामग्री पर जाएँ

शब्दकल्पद्रुमः/शिलौकाः

विकिस्रोतः तः
पृष्ठ ५/०७८

शिलौकाः, [स्] पुं, (शिला पर्वतः ओको वास-

स्थानं यस्य ।) गरुडः । इति त्रिकाण्डशेषः ॥

शिल्पं, क्ली, (शील समाधौ + “खष्पशिल्पशष्प-

वाष्परूपपर्पतल्पाः ।” उणा० । २ । २८ । इति
पः ह्रस्वश्च ।) कलादिकं कर्म्म । इत्यमरः ॥
हुनर इति पारसीकभाषा । कारीगरी इति
हिन्दीभाषा ॥ वात्स्यायनोक्तनृत्यगीतवाद्यादि-
श्चतुषष्टिः वाह्यक्रियाः तथा आलिङ्गनचुम्ब-
नादिचतुषष्टिः अभ्यन्तरक्रियाः कलाः ।
आदिना स्वर्णकारादिकारुकर्म्मग्रहः । एतत्
सर्वं शिल्पं कथ्यते । इति तट्टीकायां भरतः ॥
(यथा कथासरित्सागरे । २५ । १७५ ।
“ते तन्निरूप्य जगदुर्नेदृशो देव शक्यते ।
अपरः कर्त्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ॥”)
स्रुवः । इति मेदिनी ॥

शिल्पकारः, पुं, (शिल्पं करोतीति । कृ + अण् ।)

शिल्पी । शिल्पविद्याव्यवसायी । कारिकर
इति भाषा । शिल्पं करोति इत्यर्थे षण्प्रत्ययेन
निष्पन्नः ॥

शिल्पकारी, [न्] त्रि, (शिल्पं कर्त्तुं शीलमस्य ।

णिनिः ।) शिल्पकर्म्मकर्त्ता । तस्योत्पत्त्यादि
यथा, --
“विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः ।
ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥
मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः ।
कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च ।
पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः ॥
स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम ।
बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥
सूत्रधारो द्विजातीनां शापेन पतितो भुवि ।
शीघ्रञ्च यज्ञकाष्ठञ्च न ददौ तेन हेतुना ॥
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ।
पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः ॥
कश्चिद्वणिग्विशेषश्च संसर्गात् स्वर्णकारिणः ।
स्वर्णचीर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

शिल्पशाला, स्त्री, क्ली, (शिल्पानां शाला ।)

स्वर्णकारादीनां कर्म्मगृहम् । कारखाना इति
पारसीकभाषा । तत्पर्य्यायः । आवेशनम् २ ।
इत्यमरः ॥ शिल्पशाला ३ शिल्पशालम् ४
शिल्पिशालम् ५ । इति तट्टीका ॥

शिल्पशास्त्रं, क्ली, (शिल्पस्य शास्त्रम् ।) शिल्प-

कर्म्मग्रन्थः । तच्छास्त्राणि बहूनि सन्ति तन्मध्ये
वास्तुशास्त्रैकं लिख्यते । यथा, --
“स्त्रीपुत्त्रादिकभोगसौख्यजनकं धर्म्मार्थकाम-
प्रदं
जन्तूनां लयनं सुखास्पदमिदं शीताम्बु घर्म्मा-
पहम् ।
वापीदेवगृहादिपुण्यमखिलंगेहात् समुत्पद्यते
गेहं पूव्वमुशन्ति तेन विबुधाः श्रीविश्वकर्म्मा-
दयः ॥
मिद्ध्यै गृहारम्भमुशन्ति वृद्धा
यथोदिते मामि वलक्षपक्षे ।
शशाङ्कवीर्य्ये सुदिने निमित्ते
शुभं रवौ सीम्यगते प्रवेशम् ॥
चैत्रे शोककरं गृहादि रचितं स्यान्माधवेऽर्थ-
प्रदं
ज्यैष्ठे मृत्युकरं शुचौ पशुहरं तद्वृद्धिदं
श्रावणे ।
शून्यं भाद्रपदेऽश्विने कलिकरं भृत्यक्षयं कार्त्तिके
धान्यं मार्गसहस्ययोर्दहनभोर्माघे श्रियः
फाल्गुने ॥
आदित्ये हरिकर्कनक्रघटगे पूर्व्वापरास्यं गृहं
कर्त्तव्यं तुलमेषवृश्चिकवृषे याम्योत्तरास्यं तथा ।
द्वारं भिन्नतथा करोति कुमती रोगार्थनाश-
स्तदा
कन्यामीनधनुर्गते मिथुनगे चास्मिन्न कार्य्यं
गृहम् ॥
कन्यादित्रिषु पूर्वतो यमदिशि त्याज्यञ्च चापादितो
द्वारं पश्चिमतस्त्रिके जलचरात् सीम्येरवौ
युग्मतः ।
यस्माद्वत्समुखं दिशासु भवनं द्वारादिकं
हानिकृत्
सिंहं वापि वृषञ्च वृश्चिकघटं वाते हितं
सर्वतः ॥
प्राची मेषतुलारवावुदयति स्याद्वैष्णवे वह्निभे
चित्रास्वात्रिभमध्यगा निगदिता प्राची बुधैः
पञ्चधा ।
प्रासादो भवनं करोति नगरं दिङ्मूढमर्थक्षयं
हर्म्येदेवगृहे पुरे चनितरामायुर्धनं दिङ्मुखे ॥
तारे मार्कटिके ध्रुवस्य समतां नीते बले वैनते
दीपाग्रेण तदैक्यतश्च कथिता सूत्रेण सौम्या
दिशा ।
शङ्कोर्नेत्रगुणेन ३६ मण्डलवरे छाया तयो-
र्मत्स्ययो-
र्जाता पत्रयुतिस्तु शङ्कुतलतो याम्योत्तरैस्तत्-
त्रुटेः ॥
राशोनामलिमीनसिंहभवनं पूर्व्वामुखं शोभनं
कन्याकर्कटनक्रराशिगृहिणां याम्याननं
मन्दिरम् ।
राशेर्धन्वितुलायुगस्य सदनं शस्तं प्रतीचीमुखं
पुंसां कुम्भवृषाजराशिभजतां सौम्याननं
स्याद्गृहम् ॥” * ॥
अथ भूपरिग्रहः ।
“श्वेता ब्राह्मणभूमिका च घृतवद्गन्धा शुभ-
स्वादिनी
रक्ता शोणितगन्धिनी नृपतिभूः स्वादे कषाया
च सा ।
स्वादेऽम्ला तिलतैलगन्धिरुदिता पीता च वैश्या
मही
कृष्णा मत्स्यसगन्विनी च कटुका शूद्रेति
भूलक्षणम् ॥
स्वादे भवेद्या मधुरा सिताभा
चतुर्षु वर्णेषु मही प्रशस्ता ।
स्नेहान्विता बभ्रु भुजङ्गयोर्या
सौहार्दवत्याखुविडालयोर्व्वा ॥ * ॥
परीक्षितायां भुवि विघ्नराजं
समर्च्चयेत् चण्डिकया समेतम् ।
क्षेत्राधिपं चाष्टदिशाधिनाथान्
सुपुष्पधूपैर्बलिभिः सुखाय ॥
खातं भूमिपरीक्षणे करमितं तत् पूरयेत्तन्मृदा
हीने हीनफलं समे समफलं लाभो रजोवर्द्धिते ।
तत् कृत्वा जलपूर्णमाशतपदं गत्वा परीक्ष्यं पुनः
पादोनेऽर्द्धविहीनकेऽथ निभृते मध्याधमेष्टाम्बुनि
भूमेः प्राक् प्रवणञ्च शङ्करककुप्सौम्याश्रितं
सौख्यदं
वह्नौ वह्निभयं यमे च मरणं चौराद्भयं रक्षसि
वायव्ये प्रवणञ्च धान्यहरणं स्याच्छोकदं वारुणं
विप्रादेरनुवर्णतश्च सुखदं सृष्टिक्रमात् सौम्यतः
अग्नौ राक्षसवायुशङ्करदिशि स्थाप्याः क्रमात्
कीलकाः
अश्वत्थात् खदिरात् शिरीषककुभात् वृक्षात्
क्रमेण द्विजाः ।
वर्णानां कुशमुञ्जकाशशणजं सूत्रं क्रमात् सूत्रणे
निम्ना भू स्फुटितोषरा विलवती शल्यैर्युता
नाशुभा ॥”
ककुभादित्यत्र वकुलादिति च पाठः ॥ * ॥
“प्रश्नत्रयं वापि गृहाधिपेन
देवस्य वृक्षस्य फलस्य वापि ।
वाच्यं हि कोष्ठाक्षरसंयुतेन
सत्यं विलोक्यं भवनेषु सृष्ट्या ॥
वा का चा टा ता ए ह सा पापवर्णाः
प्राच्यादिस्थे कोष्ठके शल्यमुक्तम् ।
केशाङ्गाराः काष्ठलोहास्थिकाट्यं
तस्मात् कार्य्यं शोधनं भूमिकायाः ॥
शल्यं गवां भूपभयं हयानां
रुजं शुनोऽत्वोः कलहप्रणाशौ ।
स्वरोष्ट्रयोर्हानिमपत्यनाशं
स्त्रीणामजस्याग्निभयं तनोति ॥ * ॥
कन्यादौ रवितस्त्रये फणिमुखं पूर्वादिसृष्टिक्रमं
ख्यातं वास्तुवपुर्दिशात्रयगतं लाङ्गुलपृष्ठं शिरः
द्वारं तस्य मुखे गृहादि भयदं कुक्षिद्वये
सौख्यदं
दुःखं प्राक्खनने शिरोऽङ्घ्रिवपुषः कुक्षौ सुखं
दक्षिणे ॥
प्राच्यां नागमुखं बुधैर्निगदितं भाद्राश्विने
कार्त्तिके ।
मार्गात् फालगुनशुक्रतः क्रमतया याम्ये जले
चोत्तरे ।
क्षेत्रे चाष्टविभाजिते दिनकराद्वाराल्लिखेत्
कोष्ठगान्
शन्यङ्गारकयोश्च तत्र फणिनः शारीरकं नो
खनेत् ॥ * ॥
शीर्षे मातृपितृक्षयः प्रथमतः खाते रुजा
पुच्छके
पृष्ठे हानिभये च कुक्षिखनने स्यात् पुत्त्रधान्या-
दिकम् ।
पृष्ठ ५/०७९
पूर्वास्येऽनिलखातनं यममुखे खातं शिवे
कारयेत्
शीर्षे पञ्चिमगे च वह्निखननं सौम्ये खनेन्नैरृते
दक्षिणकोणे पूर्वविभागे पूजनपूर्वं शिला
समर्प्या ।
स्थाप्या शेषशिला दक्षिणतः स्तम्भाः समर्प्या
विधानेन ॥” * ॥
ब्रह्मशम्भुर्यथा ।
“सूत्रं भित्तिशिलान्यासं स्तम्भस्यारोपणं तथा ।
पूर्वदक्षिणोर्मध्ये कुर्य्यादित्याह काश्यपः ॥”
नारदः ।
“नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् ।
पूर्वादिदिक्शिरोवामपार्श्वाशायां प्रद-
क्षिणम् ॥”
वास्तुशास्त्रेऽप्युक्तम् ।
“वास्तोः शिरसि पुच्छे च वामकुक्षौ च पृष्ठतः ।
आयुष्कामः खनेन्नैव दक्षकुक्षौ खनिः शुभा ॥
भित्तेर्मूलं स्थापनीयं जलान्ते
पाषाणे वा हेमरत्नैः सगर्भम् ।
शीर्षे गुर्वो लेपहीनाधिका वा
सन्धिश्रेणिः पादहीनार्थहान्यैः ॥
भवनपुरसुराणां सूत्रणे पूर्वमुक्तः
कथित इह पृथिव्याः शोधनेऽपि द्वितीयः ।
तदनु मुखनिवेशे स्तम्भसंरोपणे स्या-
द्भवनवसनकाले पञ्चधा वास्तुयज्ञः ॥ * ॥
वृक्षा दुग्धसकण्टाश्च फलिनस्त्याज्या गृहाद्
दूरतः
शस्ते चम्भकपाटले च कदली जाती तथा
केतकी ।
यामादूर्द्ध्वमशेषवृक्षसुरजा च्छाया न शस्ता गृहे
पार्श्वे कस्य हरेरवीशपुरतो जैनानुचण्ड्याः
क्वचित् ॥
स दुग्धवृक्षा द्रविणस्य नाशं
कुवन्ति ते कण्टकिनोऽरिभीतिम् ।
प्रजाविनाशं फलिनः समीपे
गृहस्य वर्ज्याः कलधौतपुष्पाः ॥
दुष्टो भूतसमाश्रितोऽपि विटपी नोच्छिद्यते
शक्तितः
तद्विल्वीञ्च शमीमशोकवकुलौ पुन्नाग-
सच्चम्पकौ ।
द्राक्षापुष्पकमण्डपञ्च तिलकान् कृष्णां वपे-
द्दाडिमीं
सौम्यादेः शुभदौ कपीतनवटावौदुम्बराश्व-
त्थकौ ॥
उत्सङ्गनामाभिमुखः प्रवेशः
स्यात् पृष्ठभङ्गो भवनस्य पृष्ठात् ।
विनाशहेतुः कथितोऽपसव्यः
सृष्ट्या प्रशस्तो भवनेऽखिलेऽसौ ॥
प्रावेशः प्रतिकायको वरुणदिग्वक्त्रो भवेत्
सृष्टितो
वामावर्त्त उदाहृतो यममुखेऽसौ हीनबाहु-
र्बुधैः ।
उत्सङ्गो नरवाहनाभिवदनः सृष्ट्या यथा
निर्म्मितः
प्राग्वक्त्रोऽपि च पूर्णबाहुरुदितो गेहे चतुर्द्धा
पुरे ॥ * ॥
हस्तः पर्वाष्टयुक्तो मुनिवररचितः पर्व चैकं
त्रिमात्रं
मात्रा षण्णां यवानामुदरमिलिता निस्त्वचा-
मुत्तमानाम् ।
पुष्पैश्चत्वारि पूर्वं तदनु च विभजेदङ्गुलैः पर्व-
पुष्पै-
र्निग्रन्थी रक्तकाष्ठो मधुमय उदितः खादिरो
वंशधात्वोः ॥
ज्येष्ठोऽष्टाभिर्यवोदरैस्तु मुनिभिर्म्मध्यस्तु षट्
कन्यसो
माप्यं चोत्तमकेन ग्रामनगरंक्रोशादिकं योज-
नम् ।
प्रासादप्रतिमे नृपस्य भवनं मध्येन हर्म्यादिकं
यानं षड्यवसम्भवेन शयनं छत्रासनास्त्रा-
दिकम् ॥ * ॥
रुद्रो वायुर्विश्वकर्म्मा हुताशो
ब्रह्मा कालस्तोयपः सोमविष्णुः ।
पुष्पे देवा मूलतोऽस्मिंश्च मध्यात्
पञ्चाष्टान्त्यं द्व्यग्निवेदैर्विभज्यम् ॥
ईशो मारुतविश्ववह्निविधयः सूर्य्यश्च रुद्रो यमो
वैरूपो वसवोऽष्ट दन्तिवरुणौ षड्वक्त्र इच्छा
क्रिया ।
ज्ञानं वित्तपतिर्निशाकरजयौ श्रीवासुदेवो हली
कामो विष्णुरितिक्रमेण मरुतो हस्ते त्रयो-
विंशतिः ॥ * ॥
उच्चाटनं रोगभयञ्च दुःखं
वह्नेर्भयं पीडनकं प्रजायाः ।
मृत्युर्विनाशोऽपि धनक्षयः स्यान्-
मोहः क्रमाद्दैवतपीडनेन ॥ * ॥
हस्तो यत्नात् पुष्पयोरन्तराले
त्वष्ट्रा धार्य्यो मन्दिरादौ निवेशे ।
हस्ताद्भूमौ यात्यकस्मात्तदासौ
कार्य्ये विघ्नं दुःखमाविष्करोति ॥
तालो द्वादशमात्रिकापरिमितस्तालद्वयं स्यात्
करः
पादोनद्विकरोऽपि किष्कुरुदितश्चापश्चतुर्भिः
करैः ।
क्रोशो दण्डसहस्रयुग्ममुदितो द्वाभ्याश्च गव्यूतिका
ताभ्यां योजनमेव भूमिरखिला कोटीशतं
योजनैः ॥
सूत्राष्टकं दृष्टिनृहस्तमौञ्जं
कार्पासजं स्यादवलम्बसंज्ञम् ।
काष्ठञ्च सृष्टाख्यमतोऽपि लेख्य-
मित्यष्ट सूत्राणि वदन्ति सन्तः ॥
इति वास्तुशास्त्रे राजवल्लभमण्डने मिश्रका
लक्षणवर्णनं नाम १ अध्यायः ॥ * ॥
“संग्रामेऽन्धकरुद्रयोस्तु पतितः स्वेदो महेशात्
क्षितौ
तस्माद्भूतमभूच्च भीतिजननं द्यावापृथिव्यां-
महत् ।
तद्देवै रभसा विगृह्य निहितं भूमावधोवक्त्रकं
देवानां रसनाच्च वास्तुपुरुषस्तेनैव पुज्यो बुधैः ॥
प्रासादे भवने तडागखनने कूपे च वापीवने
जीर्णोद्धारपुरे च यागभवने प्रारम्भनिर्वर्त्तने ।
वास्तोः पूजनकं सुखाय कथितं पूजां विना
हानये
पादौ रक्षसि कं शिवेऽङ्घ्रिकरयोः सन्धी च
कोणद्वये ॥
क्षेत्राकृतिर्वास्तुरिहार्च्चनीय-
स्त्वेकांशतोभागसहस्रयुक्तः ।
साधारणोऽष्टाष्टपदोऽपि तेषु
चैकाधिकाशीतिपदस्तथैव ॥ * ॥
ग्रामे भूपतिमन्दिरे च नगरे पूज्यश्चतुःषष्टिकै-
रेकाशीतिपदैःसमस्तभवने जीर्णे नवाब्ध्यंशकैः ।
प्रासादेऽथ शतांशकैस्तु सकले पूज्यस्तथा मण्ड्ये
कूपे षण्णवचन्द्रभागसहिते १९६ वापीतडागे
वने ॥
ईशो मूर्द्ध्नि समाश्रितः श्रवणयोः पर्जन्यनामा
दिति-
रापस्तस्य गले तदंशयुगले प्रोक्तो जयश्चा-
दितिः ।
उक्तावर्य्यमभूधरौ स्तनयुगे स्यादापवत्सो हृदि
पञ्चेन्द्रादिसुराश्च दक्षिणभुजे वामे च नागा-
दयः ॥
सावित्रः सविता च दक्षिणकरे वामे द्वयं रुद्रतो
मृत्युर्मैत्रगणस्तथोरुविषये स्यान्नाभिपृष्ठे विधिः
मेढ्रे शत्रुजयौ च जानुयुगले तौ वह्निरोगौ
स्मृतौ
पूष्णो नन्दिगणाश्च सप्त विबुधाः कल्प्याः पदोः
पैतृकः ॥ * ॥
ईशस्तु पर्ज्जन्यजयेन्द्रसूर्य्याः
शत्यो भृशाकाशक एव पूर्व्वै ।
वह्निश्च पूषा वितथाभिधानो
गृहक्षतः प्रेतपतिः क्रमेण ॥
गन्धर्वभृङ्गौ मृगपितृसंङ्गौ
द्वारस्थसुग्रीवकपुष्पदन्ताः ।
जलाधिनाथोऽप्यसुरश्च शेषः
स पापयक्ष्मापि च रोगनागौ ॥
मुख्यश्च भल्लाटकुवेरशैला-
स्तथैव बाह्ये दितितोऽदितिश्च ।
द्वात्रिंशदेवं क्रमतोऽर्च्चनीया-
स्त्रयोदशैव त्रिदशाश्च मध्ये ॥
प्रागर्य्यमा दक्षिणतो विवस्वान्
मैत्रोऽपरे सौम्यदिशाविभागे ।
पृथ्वीधरोऽसावथ मध्यतोऽपि
ब्रह्मार्च्चनीयः सकलेषु मध्ये ॥
आपापवत्सौ शिवकोणमध्ये
सावित्रकोऽग्नौ सविता तथैव ।
कोणे महेन्द्रेन्द्रजयौ तृतीये
रुद्रोऽनिलेऽन्योऽपि च रुद्रदासः ॥
पृष्ठ ५/०८०
ईशानबाह्ये चरकी द्वितीये
विदारिका पूतनिका तृतीये ।
पापाभिधा मारुतकोणके तु
पूज्याः सुरा उक्तविधानतस्तु ॥ * ॥
ब्रह्मा वेदपदस्तु तेन समका देवार्य्यमाद्यास्त्वमी
कोणेऽष्टौ द्विपदास्तथाष्टमरुतः कोणेऽर्द्धभागाद्
बहिः ।
शेषा एकपदाः सुरास्तु कथिता वेदर्त्तुके-६४
ऽथो नव
ब्रह्मा षट्पदिनोऽर्य्यमादिविबुधा ईशादयश्चै-
कशः ॥
ब्रह्मा कलांशो वसुतोऽर्य्यमाद्याः
कोणेऽष्ट वाह्येऽपि च सार्द्धभागाः ।
विधातृकोणे द्विपदास्तथाष्टौ
शेषाः सुरा एकपदाः शतांशे ॥ * ॥
ब्रह्माजिनांश २४ उदितः शिवतोऽर्य्यमाद्याः
कोणेषु सार्द्धपदतोऽपि तथैव चाष्टौ ।
शेषा द्विभागसमका रविभागकोऽयं
पूज्यो रथाश्वगजवाहनकेऽम्बुयन्त्रे ॥
यन्त्रे त्रयोदशपदैरपि पूजनीय-
स्तत् पञ्चविंशतिरजो दशतोऽर्य्यमाद्याः ।
कोणेऽब्धयोऽमरगणा वहिके कलांशा
भद्रेऽब्धिकं रविविभागपरे द्धिभागाः ॥ * ॥
द्वात्रिंशत् कमलासनोऽर्य्यममुखाः स्युः सूर्य्य-
भागा क्रमात्
कोणेऽन्त्येऽष्टसुरा द्विभागसहिता बाह्येषु
सार्द्धांशकाः ।
अष्टौ रामपदाः पुनर्द्विपदकाः षड्भागिनोऽष्टौ
सुराः
क्षेत्रे षण्णवचन्द्रभागसहिते १९६ स्याद्देवतानां
क्रमः ॥ * ॥
वेदांशो विधिरर्य्यमप्रभृतयस्त्रंशा नवस्वष्टके
कोणेऽन्त्येऽष्टपदार्द्धगाः परसुराः षड्भागहीने
पदे ।
वास्तोर्नन्दयुगांश ४९ एवमधुनाष्टांशैश्चतुः-
षष्टिके
सन्धेः सूत्रमितान् सुधीः परिहरेद्भित्तीस्तुलाः
स्तम्भकात् ॥ * ॥
रेखाद्वयं कोणगतं विधेय-
मंशान्तरेणैव तु कर्णसूत्रात् ।
यदष्टसूत्रैः कथितं तु पद्मं
तत्पीडनात् स्वामिधनप्रणाशः ॥
प्रोक्तं चतुर्विंशतिलाङ्गुलं यत्
पादार्द्धेगं हानिकरं प्रजायाः ।
पड भिस्तु सूत्रैर्मरणाय वज्रं
कोण त्रिशूलञ्च रिपोर्भयाय ॥
परीक्ष्य भूमीमवसेचयेत्तां
सुपञ्चगव्येन ततो विलेख्या ।
रेखा सुवर्णन मणिप्रबालैः
पिष्टाक्षतैर्वापि पुनस्तदूर्द्धे ॥
द्वात्रि शदंशाः पृथुले च दैर्घ्य
कोणेषु वर्ज्या जिनसंख्य २४ भागाः ।
एतत्पदानां कथितं सहस्रं
क्षेत्रञ्च सर्वोत्तममेव वास्तोः ॥ * ॥
मध्ये ब्रह्मा पूजनीयः शतांशै-
श्चत्वारिंशद्भिः पदैर्बाह्यवीथी ।
प्रोक्ता देवा अर्य्यमाद्या अशीत्या
मध्ये कोणेऽष्टौ शतं चाष्टषष्ट्या ॥
कोणेऽब्धयो नन्दपदैः सुराश्च
शेषाश्च बाह्ये वसुभागिनश्च ।
वीथी च बाह्ये रविभागयुक्तं
शतं पदानां कथितं मुनिन्द्रैः ॥
दुर्गप्रतिष्ठाविषये निवेश
तथा महार्च्चासु च कोटिहोमे ।
मेरौ च राष्ट्रेष्वपि ज्येष्ठलिङ्गे
वास्तुः सहस्रेण पदैः प्रपूज्यः ॥ * ॥
त्रिमेखलं शङ्करदिग्विभागे
कुण्डं प्रकुर्य्यात् करतो युगास्रम् ।
होमं सुराणां शतमष्टयुक्तं
प्रत्येकमष्टाधिकविंशतिं वा ॥
मध्वाज्यदुग्धैर्दधिशर्कराभ्यां
कृष्णैस्तिलैर्व्रीहियवैर्नवान्नैः ।
पलाशदूर्वाङ्कुरदुग्धवृक्षै-
र्होमं तदन्ते सुरपूजनञ्च ॥
ईशे घृतान्नमपरे सघृतोदनञ्च
दद्याज्जयाय हरिताम्बरमेव कूर्म्मम् ।
रत्नानि पिष्टकमयं कुलिशं सुरेन्द्रे
धूम्रं वितानमुदितञ्च दिवाकरस्य ॥
गोधूमयुक्तं घृतमेव सत्ये
मत्स्यान् भृशे शष्कुलिमन्तरीक्षे ।
वह्नौ स्रु चं पूष्णि तथैव लाजा
दद्यादधर्म्मे चणकौदनञ्च ॥
मध्वन्नञ्च गृहक्षताय यमतो मांसौदनं दापयेत्
गन्धर्वे शतपत्रमोदनयुतं भृङ्गेऽजजिह्वां तथा ।
प्रोक्ता नीलजवा मृगाय पितृतो देयाश्च सन्मोदकाः
पैष्टं कृष्णबलिं तथैव विधिवद्दद्याच्च दौवारिके ॥
सुग्रीवाय च पूपका गणवरे श्वेतप्रसूनं पयः
पद्मं वारुणके सुराप्यसुरके तैलं तिलाः शेषके ।
पापाख्येऽपि च पक्वमांसमुदितं रोगाय सर्वौषधीः
गोक्षीरं फणिने च मुख्यविबुधे श्रीखण्डभक्षे
तथा ॥
भल्लाटाय सुवर्णकं धनपतौ मण्डाज्यदुग्धं तथा
शक्तून् पर्वतकेऽदितेस्तु लपिकां दद्याद्दितौ
पूरिकाम् ।
सक्षीरं दधिकं क्रमेणा विहितं त्वापापवत्से तथा-
प्यर्य्यम्णेऽरुणचन्दनञ्च पयसा युक्ता तथा
शर्करा ॥
सावित्रेऽपि च लड्डुकाश्च सवितुः पूपा गुडा
सद्घृता
देयं वाथ विवस्वत घृतयुतं दुग्धं तथा मोदकाः
इन्द्राख्ये कुसुमस्रगिन्द्रजयके देयं तथा चम्पकं
मैत्रे दुग्धघृतञ्च गुग्गुलुयुतो गन्धस्तथा रुद्रके ॥
तत्सिद्धमन्नन्त्वपि रुद्रदासे
सद्रत्नमालां पृथिवीधराय ।
पयस्वलां गाममृतं घटञ्च
दद्याद्विधौ स्वर्णमतोऽखिलेभ्यः ॥
सुरास्थिमांसं विहितं चरक्ये
तथैव पीतौदनको विदार्य्यै ।
रक्तौदनैः पूतनिकार्च्चनीया
मत्स्यासवेनापि तथैव पापाः ॥
मांसं पक्वं पिलिपिञ्जाय तज्जृम्भायै विहितं
सद्यः ।
स्कन्दाय तन्मदिरायुक्तं चार्य्यम्णे दिशि
पूर्व्वादौ ॥
यः पूजयेद्वास्तुमनन्ययुक्ता
न तस्य दुःखं भवतीह किञ्चित् ।
जीवत्यसौ वर्षशतं सुखेन
स्वर्गे नरस्तिष्ठति कल्पमेकम् ॥”
इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे
राजवल्लभे वास्तुलक्षणम् २ अध्यायः ॥ * ॥
“आयर्क्षव्ययतारकांशकविधुं राशिं गृहाद्यं
तथा
धान्यं सौख्ययशोऽभिवृद्धिरधिका यस्मादतः
कथ्यते ।
आयास्तु ध्वजधूमसिंहशुनका गोरासभेभाः
क्रमात्
ध्वाङ्क्षस्त्वष्टम आयभेषु विषमाः श्रेष्ठाः सुराणां
गृहे ॥
मानं देवगृहादिभूपसदने शास्त्रोक्तहस्तेन तत्
गेहे कर्म्मकरस्य नाथकरतः शास्त्रेण देयं गृहे
अयो दण्डकराङ्गुलादिमपि ते हस्ताङ्गुलैरंशतः
क्षेत्रस्याप्यनुमानतोऽपि नगरे दण्डेन मानं पुरे
आयः कल्प्यो हस्तमेयैः करैश्च
क्षेत्रे मात्रानिर्म्मिते मातृकाभिः ।
मध्ये पर्य्यङ्कासने मन्दिरे च
देवागारे मण्डपे भित्तिवाह्ये
छत्रे देवगृहे द्विजस्य भवने स्याद्वेदिकायां जले
विस्तारोच्छ्रयवस्त्रभूषणमठागारेषु शस्तो ध्वजः
धूमो वह्न्युपजीविनामपि गृहे कुण्डे च होमोद्भवे
सिंहद्वारनृपालयेऽस्त्रनिचये सिंहश्च सिंहासने ॥
चण्डाले शुनको विशान्तु वृषभो हर्म्ये हयानां हितो
बानिज्ये धनभोजनस्य भवनेऽथो बाह्यगेहे खरः ।
वादित्रे स्वरजीविनामपि गृहे शौद्रे गजो योजितो
याने स्त्रीगृहवाहने च शयने शस्तो गृहे हस्तिनाम् ॥
ध्वाङ्क्षः शिल्पितपस्विनां हितकरस्तेषां मुखं नामवत्
ध्वाङ्क्षः काकमुखो विडालवदनो धूमो ध्वजो मानुषः ।
पृष्ठ ५/०८१
मव पक्षिपदा हरेरिव गलो हस्तौ नरस्येव तु
प्राच्याः सृष्टिगताः क्रमेण पतयो ह्यष्टौ च ते
सम्मुखाः ॥ * ॥
देयाः सिंहगजध्वजादिवृषभे सिंहध्वजौ कुञ्जरे
सिंहो वै ध्वज इष्यते न वृषभोऽन्यत्रापि देयो बुधैः ।
सिंहो हस्तिवृषालये मृतिकरस्त्वायस्य वक्त्रं गृहं
तस्मिन्नेव च वामदक्षिणदिशाद्वारे स आयः शुभः ॥
व्यासे दैर्घ्यगुणेऽष्टभिर्विभजिते शेषो ध्वजाद्यायको-
ऽष्टघ्ने तद्गुणिते च धिष्ट्यभजिते स्यादृक्षमञ्चा-
दिकम् ।
नक्षत्रे वसुभिर्व्ययोऽपि भजिते हीनस्तु लक्ष्मीप्रद-
स्तुल्यायश्च पिशाचको ध्वजमृते संवर्द्धितो राक्षसः ॥
तन्मूले व्ययहर्म्म्यनामसहिते भक्ते त्रिभिस्त्वं शकः
स्यादिन्द्रोपमभूपतिक्रमवशाद्देवे सुरेन्द्रो हितः ।
वेद्यामेव यमस्तु पुण्यभवने नागे तथा भैरवे
राजांशो गजवाजियाननगरे राजालये मन्दिरे ॥ * ॥
यावद्गृहर्क्षं गणयेत् स्वधिष्ट्या-
त्ताराविभक्ते नवभिश्च शेषाः ।
बुधैस्तृतीया सकले विवर्ज्ज्या
या पञ्चमी सप्तमिका न शस्ता ॥
धिष्ट्यानीह च सप्तशः क्रमतया वह्रेस्तु पूर्व्वादितः
सृष्ट्या तानि भवन्ति यत्र गृहभं तत्रैव चन्द्रो
भवेत् ।
हानिं पृष्ठगतः करोति पुरतस्त्वायुःक्षयं
चन्द्रमाः
पार्श्वे दक्षिणवामके शुभकरोऽग्रे देवभूपालये ॥
प्रीतिः स्यात् समसप्तमी च दशमी चैकादशी
शोभना
दारिद्र्यं युगला करोति मरणं षष्ठी कलिः
पञ्चमी ।
मेषोऽश्वित्रितये हरिस्तु पितृभाच्चापस्त्रये
मूलतः
शेषैः स्युर्नव राशयः परमते नन्दांशकैस्ते
पृथक् ॥
भौमोवृश्चिकमेषयोर्वृषतुले शुक्रस्य राषिद्वयं
कन्या युग्मबुधस्य कर्कसदनं चन्द्रस्य सिंहो रवेः ।
जीवो मीनधनुःपतिर्मृगघटौ मन्दस्य गेहं स्मृतं
मित्राण्यर्ककुजेन्दुदेवगुरवोऽन्ये चारयस्ते मिथः
दैवर्क्षं श्रुतिपुष्यभेऽश्विभमृग मैत्रानिलं पौष्णभं
हस्तादित्यमथोऽनुरन्तकविधी पूर्व्वोत्तरा
रुद्रभम् ।
रक्षोमूलविशाखिकाग्निपितृभं चित्रा धनिष्ठा-
द्वयं
ज्येष्ठाश्लेषमपीह दैत्यमनुजे मृत्युस्तु दैवे कलिः
वैरं चोत्तरफल्गुनीयुगलयोः स्वातीभरण्यो-
र्द्वयो-
रोहिण्युत्तरषाढयोः श्रुतिपुनर्वस्वोर्विरोधं
तथा ।
चित्राहस्तभयोश्च पुष्यफणिनोर्ज्येष्ठाविशाखा-
ख्ययोः
प्रासादे भवनासने च शयने नक्षत्रवैरं त्यजेत् ॥
विप्राः कर्कझषालिनो निगदिताः सिंहाजचापा
नृपा
विट्कन्या मकरो वृषोऽथ वृषला युग्मञ्च
कुम्भस्तुला ।
वर्णेनोत्तमकामिनी च भवनं वर्ज्यं बुधैर्यत्नतः
श्रेष्ठा द्वादश नन्दरागगुणतो विप्र क्रमाद्राशयः ॥
अश्वोऽश्विनीशतभयोर्यमपूषि हस्ती
छागोऽग्निपुष्य उरगोऽपि विधातृसौम्ये ।
मूलार्द्रयोः शुनक ओतुरहावदित्ये
पूर्व्वा मघासु मत उन्दुरुरेव योनिः ॥
गौर्भद्रोत्तरफल्गुनीत उदिता स्वातौ करे
माहिषी
व्याघ्रास्त्वाष्ट्रविशाखयोश्च हरिणो ज्येष्ठानु-
राधाभयोः ।
पूषाढश्रवणे कपिर्निगदितो वैश्वाभिजिन्नाकुलं
पूभायां वसुभे मृगेन्द्र उदितो वैरं त्यजेल्लोकतः
आयर्क्षतारा व्ययमंशकञ्च
ह्येकत्र कृत्वा विभजेत् क्रमेण ।
तिथ्या च वारेण तथैव लग्नैः
शेषैस्तु भान्येव भवेयुरङ्कैः ॥
दैर्घ्यं पृथुत्वेन च ताडनीयं
तयोर्यदैक्यं पुनरुच्छ्रयेण ।
शेषेऽधिनाथो वसुभाजितेऽस्मिन्
समः प्रशस्तो विषमस्तु नैव ॥ * ॥
वर्गाष्टकस्य पतयो गरुडो विडालः
सिंहस्तथैव शुनकोरगमूषकेणाः ।
मेढाककारच-ट-ताः प-य-शाश्च वर्गा
यः पञ्चमः स रिपुरेव बुधैर्विवर्ज्यः ॥
अश्विन्यादिकभत्रयं फणिनिभं चक्रं त्रिनाड्यु-
द्भवं
ह्येकस्यां वरकन्ययोश्च यदि भं तन्मुत्युदं चांशतः
नाडीसेवकमित्रगेहपुरतस्त्वेका शुभा सव्यधा
आयादित्रिकपञ्चसप्तनवभिस्त्वङ्गैर्गृहं सौख्यदम्
गुणगणं लघुदोषसमन्वितं
भवनदेवगृहादिकमिष्यते ।
जललवेन शिखी बहुतापवा-
न्न शममेति गुणैरधिको यतः ॥”
इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे
राजवल्लभे आयादिलक्षणं ३ अध्यायः ॥
“वापीकूपतडागदेवभवनान्यारामयागादिकं
तीर्थानामवगाहनञ्च विधिवत् कन्याप्रदाना-
दिकम् ।
सर्वं पुण्यमिदं नृपः स लभते यः कारयेत्
पवते
दुर्गं सर्वजनाय शर्म्मजननं विश्राममेकं परम् ॥
सिंहो वैरिपराभवं प्रकुरुते तिष्ठन् गिरौ
गह्वरे
दुर्गस्थो नृपतिः प्रभूतकटकं शत्रुं जयेत् सङ्गरे ।
कैलासे नगरं शिवेन रचितं गौर्य्यादिसंरक्षणे
दुर्गं पश्चिमसागरे च हरिणाप्येषां किमत्रो-
च्यते ॥
भूदुर्गं जलदुर्गमद्रिविषये दुर्गं भवेद्गह्वरे
तेषामुत्तममद्रिमूर्द्ध्नि रचितं तद्वैरिणां दुर्गमम्
अम्लाद्यैर्घृततोयतैललवणैः काष्ठैस्तृणाद्यैस्तथा
यन्त्रोपस्करबाणशस्त्रसुभटैः संपूरयेद्भूमिपः ॥
माहेन्द्रं चतुरस्रमायतपुरं तत् सर्वतोभद्रकं
वृत्तं सिंहविलोकनं सुपृतनायत्तं तथा वारुणम्
नन्दाख्यञ्च विमुक्तकोणमथ नन्दावर्त्तिस्वस्त्याकृति
प्रोक्त तद्यववज्जयन्तमपि तद्दिव्यं गिरेर्मस्तके
पुष्पं चाष्टदलोपमञ्च पुरुषाकारं पुरं पौरुषं
स्नेहं कुक्षिषु भूधरस्य कथितं दण्डाभिधं दैर्घ्य-
कम् ।
शात्रं प्राक् सरिता परत्र कमलं याम्ये नदी
धार्म्मिकं
द्वाभ्यां चैव महाजयञ्च धनदाशायां नदी
सौम्यकम् ॥
दुर्गैकेन युतं श्रियाख्यनगरं द्वाभ्यां रिपुघ्नं पुरं
त्वष्टास्रं कथयन्ति स्वस्तिकमिति प्रोक्ता गुणा
विंशतिः ।
भूपानां सुखदा यशोऽर्थफलदाः कीर्त्तिप्रतापो-
द्भवा
लोकानाञ्च निवासतो विरचिताः प्राक्शम्भुनैते
गुणाः ॥”
इति पुराणां विंशतिगुणाः ॥ * ॥
“वह्नेर्भीतिकरं त्रिकोणनगरं षट्कोणकं क्लेशदं
वज्रे वज्रभयञ्च शाकटपुरे रोगस्त्रिशूले कलिः
प्रोक्तं तस्करभीतये द्विशकटं कर्णाधिकेऽर्थक्षयो
दोषाः सप्त भयावहाः प्रकटिता ये विश्वकर्मो
दिताः ॥”
इति पुराणां सप्तदोषाः ॥ * ॥
“वक्ष्येऽथो विविधं पुरं मुनिमतं मध्योत्तमं
कन्यसं
तेषां हस्तसहस्रमन्तिमपुरं मध्यं ततः सार्द्ध-
कम् ।
ज्येष्ठं युग्मसहस्रमेषु चरमं भागाष्टकेनाचितं
मध्यं द्वादशभागतः शशिकलं ज्येष्ठं विदध्यात्
सुधीः ॥
मार्गाः सप्तदशैव चादिमपुरे हीनं चतुर्भिः पुरं
प्रोक्तं कन्यसमेव मार्गनवभिर्दैर्घ्ये तथा विस्तरे
ग्रामश्चैव पुरार्द्धतो हि तदनु ग्रामार्द्धतो खेटकं
खेटार्द्धेन तु कूटमेव विबुधैः प्रोक्तं ततः खर्व-
टम् ॥
हस्तानाञ्च युगाष्टषोडशसहस्रं भूपतीनां पुरं
तन्मध्ये दशधा वदन्ति मुनयो वृद्ध्या सहस्रेण
तत् ।
पृष्ठ ५/०८२
आयामे वसुपादसार्द्धवसुतो भागः प्रशस्तो-
ऽधिक-
स्त्वेकैकञ्च चतुर्विधं निगदितं कार्य्यं समं
कर्णयोः ॥
षट्त्रिंशतः षट् क्रमतो विवृद्ध्या
दैवे पुरे चत्वरके क्रमेण ।
यदृच्छया मानमुशन्ति केचित्
प्राकारकोष्ठस्य च भित्तिकायाः ॥ * ॥
पूर्वापरास्याः पुरसम्मुखाश्च
देवाः शुभा नोत्तरदक्षिणाश्च ।
भङ्गं पुरस्यापि पराङ्मुखास्ते
कुर्व्वन्ति धात्रर्कजनार्द्दनेशाः ॥
ब्रह्मा विष्णुशिवेन्द्रभास्करगुहाः पूर्वापरास्याः
शुभाः
प्रोक्तौ सर्वदिशामुखौ शिवजिनौ विष्णुर्विधाता
तथा ।
चामुण्डा ग्रहमातरो धनपतिर्द्वैमातुरो भैरवो
देवा दक्षिणदिङ्मुखाः कपिवरो नैरृत्यवक्त्रो
भवेत् ॥
मार्गाः सप्तदशाङ्कपञ्चशिखिनो युग्मं पुरात्
खर्वटं
मार्गाः षोडश सूर्य्यविंशतिकराः कार्य्यास्त्रिधा
विस्तरे ।
प्राकारोदयविंशहस्तमभितो द्वाभ्यां विहीनो-
ऽधिको
व्यासार्द्धेन तदूर्द्धतश्च कपिशीर्षाण्यष्टमात्रा-
न्तरम् ॥
प्राकारेऽपि च कोष्ठका दशकराः सूर्य्येन्द्र-
हस्तास्तथा
प्रोक्तास्तेन समैव कोणसहिता विद्याधरी
मध्यमा ।
तस्या वाथ सुवृत्तके च विविधं युद्धासनं कारयेत्
प्राकारोदयतो विधाय परिखाविस्तार उक्तो
बुधैः ॥
विद्याधरीकोष्ठकयोश्च मध्ये
बाहुप्रमाणं शररामहस्तम् ।
पञ्चाधिकं पञ्चकरेण हीन-
मिति त्रिधा वास्तुमतो हितञ्च ॥ * ॥
दुर्गोदयं नन्दकरप्रमाणं
तिथ्या समं सप्तदशैव केचित् ।
एकोनविंशं पुथुलं त्रयाणां
दिक्कालसूर्य्याष्टकरा वदन्ति ॥
ताम्बूलं फलदन्तगन्धकुसुमं मुक्तादिकं यद्भवेत्
राजद्वारसुराग्रतो हि सुधिया कार्य्यं पुरे
सर्व्वतः ।
प्राग्विप्राश्च नृपा हि दक्षिणदिशि स्युः सौम्यतः
शूद्रकाः
कर्त्तव्याः पुरमध्यतोऽपि बणिजो वैश्वा विचित्रै-
र्गृहैः ॥
ईशे रङ्गकराः कुविन्दरजका वह्नौ च तज्जी-
विनः
प्रोक्ता अन्त्यजचर्म्मकारवरटाः स्युः शौण्डिका
राक्षसे ।
पण्यस्त्रीनिरृतौ च मारुतयुते कोणे न्यसेल्-
लुब्धकान्
वापीकूपतडागकुण्डमखिलं तोयं तथा वारुणे
सिंहद्वारचतुष्टयञ्च खटकीद्वाराणि चाष्टौ तथा
कर्त्तव्यानि दृढार्गलानि रुचिरैः कापाटकैः
सुदृढैः ।
कीर्त्तिस्तम्भनृपालयामरगृहैर्हट्टैः सुधानिर्मितै-
र्हर्म्म्यैश्चोपवनैर्जलाश्रययुतैः कार्य्यं पुरं शोभ-
नम् ॥”
इति नगरप्रमाणम् ॥ * ॥
“यन्त्राः पुराणामथ रक्षणाय
संग्रामवह्न्यम्बुसमीरणाख्याः ।
विनिर्म्मितास्ते जयदा नृपाणां
भवन्ति पूज्याः सुरया च मांसैः ॥
हस्ता अष्ट च भैरवो नरकरश्चान्द्रो दशाद्यो
भवे-
द्रुद्रो भीमगजोऽपि भास्करकरैर्युग्मन्तु विश्वैः
शिखी ।
प्रोक्तोऽसौ यमदण्ड एव मुनिभिस्तिथ्या महा-
भैरवो
ह्यष्टौ शङ्करनिर्म्मिताश्च समरे देवासुरे भैरवे ॥
यन्त्रे चाष्टकरेऽष्टहस्तफणिनीसूर्य्याङ्गुला विस्तरे
स्तम्भा मर्कटिका च पञ्जरमतः षट्त्रिंशहस्ता
क्रमात् ।
यष्ट्या पृष्ठविभागतोऽपि रदनैस्तुल्योऽष्टमात्रा-
ङ्गुलैः
प्रोक्ता कुण्डलवल्लवी च वहितो मध्यादशीत्य-
ङ्गुलैः ॥
यष्ट्या दृढां मर्कटिकां विदध्या-
ल्लोहस्य कीलेन च चर्म्मणापि ।
यन्त्रं प्रकुर्य्यादृढकाष्ठकञ्च
तन्मानया ज्योतिकया समेतम् ॥
कराङ्गुलैः पञ्जरकस्य दैर्घं
केषां मते हस्तमिते च यन्त्रे ।
याटी कुली वह्निजलानिलाख्या-
स्ते लक्षणज्ञैः परिकल्पनीयाः ॥”
इति यन्त्राष्टकप्रमाणानि ॥ * ॥
“नीराश्रयं पुण्यवतां विधेयं
मध्ये पुरस्यापि तथैव बाह्ये ।
वाप्यश्चतस्रोऽपि तथैव कूपा-
श्चत्वारि कुण्डानि च षट् तडागाः ॥ * ॥
कूपाः श्रीमुखवैजयौ च तदनु प्रान्तस्तथा
दुन्दुभि-
स्तस्मादेव मनोहरश्च परतः प्रोक्तस्तु चूडा-
मणिः ।
दिग्भद्रोजयनन्दशङ्करमतो वेदादिहस्तैर्मिता
विश्वान्तैः क्रमवर्द्धितैश्च कथिता वेदादधः
कूपिका ॥ * ॥
वापी च नन्दैकमुखा त्रिकूटा
षट्कूटिका युग्ममुखा च भद्रा ।
जया त्रिवक्त्रा नवकूटयुक्ता-
स्त्वर्कैस्तु कूटैर्विजया मता सा ॥ * ॥
सरोऽर्द्धचन्द्रश्च महासरश्च
वृत्तं चतुष्कोणकमेव भद्रम् ।
भद्रैः सुभर्द्रं परिघैकयुग्मं
वकस्थलैकद्वयमेव यस्मिन् ॥
ज्येष्ठं मितं दण्डसहस्रकैस्तु
मध्यं तदर्द्धेन ततः कनिष्ठम् ।
ज्येष्ठं करैः पञ्चशतानि दैर्घै-
स्तदर्द्धमध्यं तु ततः कनिष्ठम् ॥ * ॥
भद्राख्यकुण्डं चतुरस्रकञ्च
सुभद्रकं भद्रयुत द्वितीयम् ।
नन्दाख्यकं स्यात् प्रतिभद्रयुक्तं
मध्ये सुभद्रं परिघं चतुर्थम् ॥
कराष्टतो हस्तशतं प्रमाणं
द्वारैश्चतुर्भिः सहितानि कुर्य्यात् ।
मध्ये गवाक्षश्च दिशो विभागे
कोणे चतुष्कास्त्वपि पट्टशालाः ॥ * ॥
गङ्गद्या रवयो हरेश्च दशकं रुद्रा दशैकाकिका
दुर्गा भैरवमातृका गणपतिर्वह्नेस्त्रिकं चण्डिका
दुर्वासा मुनिनारदस्तु सकला द्वारावती
लीलिका
लोकाः पञ्च पितामहादिविबुधाः स्युर्मध्यभित्तौ
सदा ॥
तस्योर्द्ध्वतः श्रीधरमाडकस्य
संदर्शनात् पूर्व्वफलञ्च काश्याः ।
स्नानाच्च गङ्गाप्लवनस्य पुण्यं
कृतं भवेच्चेद्विधिवद्विधिज्ञैः ॥
विधारितं जीवनमेव येन
तद्गोपदैकेन समं पृथिव्याम् ।
स षष्टिसंख्यं च सहस्रवर्षं
स्वर्लोकसौख्यान्यखिलानि भुङ्क्ते ॥
ग्रामे वाथ पुरे नरेन्द्रभवने तत्षोडशांशं भवेत्
मध्यात् पश्चिमदिक्समाश्रितमिदं दुर्गे भवेद्भूव-
शात् ।
द्वारं दक्षिणवामतश्च पुरतः कार्य्यास्त्रय-
श्चत्वराः
सर्वं वास्तुगृहादिवासरचना भूपेच्छया कार-
येत् ॥”
इति सूत्रधारमण्डनविरचिते वास्तशास्त्रे राज
वल्लभे प्राकारयन्त्रवापीकूपतडागलक्षणम् ४
अध्यायः ॥ * ॥
“अथो नृपाणां भवनानि वक्ष्ये
त्वेकातपत्रावनिपालकस्य ।
शतञ्च हस्ताष्टसमन्वितञ्च
व्यासे गृहं चोत्तममेव तस्य ॥
ये द्वापरे भूमिभुजो बभूवु-
स्तेषां गृहं हस्तशतं द्विहीनम् ।
तत्त्र्यं शभूमीश्वरको नृनाथ-
स्त्वष्टाधिकाशीतिकरं गृहं स्यात् ॥
ग्रामैकलक्षद्वयमस्ति यस्य
प्रोक्तो महामण्डलिको नरेशः ।
पृष्ठ ५/०८३
प्रशीतिहस्तं द्विकरेण हीनं
कुर्य्याद्गृहं शोभनमेव तस्य ॥
पञ्चायुतेशो नृपमण्डलीको
भवेद्गृहं तस्य कराष्टषष्टिः ।
सामन्त्यमुख्यो द्व्ययुताधिपोऽसौ
तद्गेहमष्टेषु करप्रमाणम् ॥
तद्वेश्म पञ्चाशदपि द्विहीनं
सामन्तसंज्ञोऽयुतनाथ एव ।
तथा तृतीयोऽपि ततो द्विहीनं
त्रिंशत्कराष्टाधिकमेव गेहम् ॥
प्रोक्तः प्रवीणैश्चतुराशिकोऽसौ
ग्रामा हि यस्यैव सहस्रमेकम् ।
अष्टाधिकं विंशतिहस्तहर्म्म्यं
सिद्ध्यै समस्तानि यथोदितानि ॥
ग्रामाधिपा ये तु शताधिपाश्च
ते स्वल्पराष्ट्रा अपि सैनिकाश्च ।
तेषां गृहा अष्टदशाधिकैश्च
करैः समाना मुनिभिर्म्मताश्च ॥
भूपालकार्द्धेन च मन्त्रिगेहं
यथाधिकारेण भवन्ति हीनम् ।
व्यासाद्दशांशाधिकमेव दैर्घं
कूर्य्यादथो पञ्चमभागमिष्टम् ॥
गृहं चतुर्हस्तमितं करादि-
वृद्ध्या द्विरामान्तमिति प्रमाणम् ।
ततः परं भूपतिमन्दिराणि
यावच्छतं चाष्टकरादियुक्तम् ॥
स्याद्भूमिरेका वसुहस्तगेहे
दशाभिवृद्ध्या द्वितया पुनश्च ।
प्रासाद एवामरभूपयोश्च
हर्म्म्याणि लोके मुनिनोदितानि
शालाया नवधा च पञ्चकरतो मानञ्च विश्वा-
न्तकं
भित्तेरेव चतुर्द्दशाङ्गुलमितिर्यावत् सपादं करम् ।
आगारस्य तु षोडशांशरहितोऽप्यर्द्धेन हीनोऽथवा
भित्तेर्मानमिदं त्रिधा विरचितं कल्प्यं यथा-
योगतः ॥
दैर्घ्ये चन्द्रकलाङ्गुलोत्तमशिला मध्याङ्गुलो
नान्तिमा
व्यासे दिङ्नवभूभृदुच्छ्रितिरपि त्रिंशेन विस्ता-
रतः ।
हस्तादेस्त्रिकरोदयं नवविधं पीठं गृहे सर्वतो
विप्रादे रसभूतवेदगुणकाः स्युः पीठक मेखलाः ॥
षष्ट्या वाथ शतार्द्धसप्ततियुतर्व्यासस्य हस्ता-
ङ्गुलै-
द्वारस्योदयको भवेच्च भवने मध्यः कनिष्ठोत्तमैः
दैर्घ्यार्द्धेन तु विस्तरः शशिकलाभागोऽधिकः
सप्तते-
र्दैर्घ्यं त्र्यंशविहीनमर्द्धरहितं मध्यं कनिष्ठं
क्रमात् ॥
ज्येष्ठा प्रतोली तिथिहस्तसंख्या
प्रोक्तोदये विश्वकरा च मध्या ।
कनिष्ठिका रुद्रकरा क्रमेण
व्यासेऽष्ट सप्तैव च रागसंख्या ॥
वेश्मव्यासकलांशकैर्युगगुणैर्हस्तैस्त्रिसार्द्धैर्युतै-
र्हर्म्म्यस्य त्रिविधोदयः क्षितितलाद्यावच्च पट्टो-
र्द्ध्वकम् ।
एकैकोऽपि पुनस्त्रिधा निगदितः सर्वेत एकादश
क्षेपाः षण्णवतौ नखाः शशिकला अष्टादशाद्य-
स्त्रिधा ॥
त्रिस्थाने युगपर्वता ८४ स्तिथियुता धिष्ट्यैक-
विंशान्विता
मध्योऽयं त्रिकरैस्तदंशसहितैः प्रोक्तः कनिष्ठ-
स्त्रिधा । * ।
वृक्षं दुग्धविशुष्ककण्टकयुतं नीडैस्तु चैत्यद्रुमं
क्षीरं मारुतपातितञ्च भवने चिञ्चाविभीतं
त्यजेत् ॥
शाकः शालमधूकसर्ज्जखदिरा रक्तासनाः
शोभना
एकोऽसौ सरलीऽर्ज्जुनश्च पनसः श्रीपर्णिनी
शिंशपा ।
हारिद्रः पिचुमर्द्दचन्दनतरुः पद्माख्यकस्तिन्दुकी
नैतेऽन्येन युता भवन्ति फलदाः शाकादयः
शोभनाः ॥ * ॥
गेहोदयन्तु नवधा विभजेत् षडंशं
स्तम्भोर्द्ध्वभागसमकं भरणं शिरश्च ।
कुम्भी ह्युदम्बरसमैकविभागतुल्या
पट्टश्च तत्त्रिकयुतोऽशसमान एव ॥
शालालीन्द उदाहृतो हि विबुधैर्बाणेषु युग्मांशकः
सप्तांशेषु गुणैश्च नन्दपदतो वेदांशतुल्यस्तथा ।
कापाटं गृहदक्षिणे निगदितं वामे भवेदर्गला
सृष्ट्यानिष्क्रमणं कृतं मुनिवरैर्द्वारेषु सर्वेषु यत् ॥
शालाजिनांशैमनुरेव मध्ये
त्रयो हयान्ते द्वयमस्य पार्श्वे ।
द्वारोत्तमाङ्गेन समानकर्णाः
शस्ता न शस्ता भवनाभिवक्त्राः ॥ * ॥
दीपालयो दक्षिणदिग्विभागे
सदा विधेयोऽर्गलया समानः ।
वामे च मध्ये न शुभाय गेहे
सुरालये वामदिशीष्टसिद्ध्यै ॥
द्वाराग्रे खटकीमुखे च तदधो द्वाः षोडशां-
शाधिकं
सर्व्वं वा शुभमिच्छता च सततं कार्य्यन्तु
पट्टादधः ।
तन्न्यूनं न शुभन्तुलातलगतं कुक्षौ तथा पृष्ठगं
काष्ठं पञ्चक एव नीतरहितं यन्मूलपूर्वात्तरम् ॥
द्वारोर्द्धे यद्द्वारमस्य प्रमाणं
संकीर्णं वा शोभनं नाधिक तत् ।
ह्रस्वद्वाराण्येव यानि पृथूनि
तेषां शीर्षाण्येकसूत्राणि कुर्य्यात् ॥
सर्वं द्वारं नीचमानं रुजायै
यद्वा ह्रस्वं तत् करोत्यर्थनाशम् ।
गेहाद्यं यत् पूर्व्ववास्तुस्वरूपं
तेषां भङ्गान्नैव सौख्यं कदाचित् ॥
द्वारव्यासरदांशतोऽधिकमिदं कार्य्यं गृहं दक्षिणे
तुल्यं हस्तिगृहञ्च वाजिभवनं तेनाधिकं
वामतः ।
अष्टांशेऽथ नवांशके च वितथे तोये जयेन्द्रे
हितं
द्वारं सौम्यगृहक्षते च कुसुमे भल्लाटके शस्यते ॥
प्राग्द्वाराष्टकमध्यतोऽपि न शुभं सूर्य्येश-
पर्जन्यतो
याम्यायाञ्च यमाग्निपौष्णमपरे शेषासुरं
पापकम् ।
सौम्यायामथ रोगनागगिरिजं त्याज्यं तथान्य-
च्छुमं
कैश्चिद्दारुणसौम्यकं न हि हितं प्रोक्तञ्च
वातायने ॥
द्वारं विद्धमशोभनञ्च तरुणाकोणभ्रमस्तम्भकैः
कूपेनापि च मार्गदेवभवनैर्विद्धं तथा कीलकैः ।
उच्छ्रायाद्द्विगुणां विहाय पृथिवीं वेधो न
भित्त्यन्तरे
प्राकारान्तरराजमार्गपरतो वेधो न कोणद्वये ॥
दैर्घ्ये सार्द्धशताङ्गुलञ्च दशभिर्हीनम् १४० । १३० ।
१२० । ११० चतुर्द्धा विधिः
प्रोक्तं वाथ शतं त्वगीतिसहितं १८० युग्मं २००
नवत्या शतम् १९० ।
तद्वत् षोडशभिः शतञ्च ११६ नवभिर्युक्तं तथा-
शीतिकम् ८९
द्वारं मत्स्यमतानुसारि दशकं योग्यं विधेयं
बुधैः ॥ * ॥
स्वयमपि च कपाटोद्घाटनं वा पिघानं
भयदमधिकहीनं शाखयोर्वा विचाले ।
पुरुषयुवतिनाशस्तम्भशाखाविहीनं
भयदमखिलकाष्ठाग्रं यदाधःस्थितं स्यात् ॥
देवालयं वा भवनं मठश्च
भानोः करैर्वायुभिरत्र भिन्नम् ।
तन्मूलभूमौ परिवर्जनीया
छाया गता यस्य गृहस्य कल्प ॥
नैको लघुर्वामदिशाविभागे
मध्ये द्विषट् दारुणवर्णगेहे ।
स्तम्भासनं हीनमपि क्षयाय
यदाधिकं रोगकर तदा स्यात् ॥
स्तम्भोऽष्टास्रसुवृत्तभद्रसहितो रूपेण चालङ्घतो
युक्तः पल्लवकस्तथाभरणकं यत् पल्लवेनावृतम् ।
कुम्भी भद्रयुता कुमारसहितं शीर्षं तथा
किन्नराः
पत्रञ्चेति गृहे न शोभनमिदं प्रासादके शस्यते ॥
स्तम्भो द्वयोमध्यगतो न शस्तो
शुभंकरी पट्टयुगांशतो द्वौ ।
गृह प्रशस्ताश्चतुरस्रकास्ते
स्तम्भा न कन्दन विना प्रशस्ताः ॥
हानिस्तुलामध्यगता खनस्य
स्तम्भभदन्तालयभित्तिमूलम् ।
पृष्ठ ५/०८४
संलग्नचत्वार्य्यपि हानये स्युः
स्तम्भासनं स्तम्भशिरश्च शीर्षम् ॥
उत्सेधार्द्धविनिर्गतं शरयुगांशेनाधिकं शस्यते
छाद्यं पट्टसमानकं सुखकरं नाशाय निम्नोन्नतम्
तत् काकस्य च पक्षवच्च कुमुदाभं सूर्य्यकालायकं
प्रालम्बञ्च करालकञ्च विबुधैः प्रोक्तञ्च तत्
षड्विधम् ॥
भूम्यारोहणमूर्द्ध्वतस्तदुपरि प्रादक्षिणं शस्यते
द्वारं तूर्द्ध्वभवञ्च भूमिरपरा ह्रस्वार्कभागैः
क्रमात् ।
प्रासादे च मठे नरेन्द्रभवने शैलः शुभो नो
गृहे
तस्मिन् भित्तिषु वाह्यकास्तु शुभदाः प्राग्भूमि-
कुम्भ्यां तथा ॥ * ॥
पृष्ठे क्षणानन्तरमेव बाह्यात्
गृहप्रवेशो न शुभङ्करोऽसौ ।
गृहस्य पृष्ठे यदि राजमार्ग-
स्तदादिभूमेर्न हि पृष्ठमीक्ष्यम् ॥
जीर्णं गृहं भित्तिमग्नं विशीर्णं
तत् पातव्यं स्वर्णनागस्य दन्तैः ।
गोशृङ्गैर्व्वा शिल्पिना निश्चयेन
पूजां कृत्वा वास्तुदोषो न तस्य ॥
हर्म्म्यस्यापि समन्ततो गृहपतिर्वृद्धिं यदा-
पीहते
सर्व्वाशासु विवर्द्धितञ्च फलदं दुष्टं तदेकत्र च ।
प्राङ्मित्रैरपि वैरमुत्तरदिशाभागे मनस्तापकृत्
पश्चादर्थविनाशदक्षिणदिशि शत्रोर्भयं वर्द्धते ॥
वामाङ्गे धनवस्त्रदेवभवनं धातुः श्रियो वाजिनो
नार्य्यस्त्वौषधिभोजनस्य भवनं स्याद्वाटिका
वामतः ।
वह्नेर्गोजलदन्तिशस्त्रसदनं स्त्रीणां तथा दक्षिणे
स्थानं माहिषमाजमौर्णिकमिदं याम्याग्निमध्ये
शुभम् ॥
सुग्रीवे वरुणेऽसुरे गणवरे स्याद्घोटकानां गृहं
द्वाःस्थे युद्धगृहञ्च नृत्यरमणं गान्धर्व्ववेदाश्रितम्
राज्ञो मातृगृहं गजेन्द्रजयके रुद्रे महिष्या
गृहं
सत्ये धर्म्मगृहं रवौ व्ययगृहं प्रोक्तं जये
श्रीगृहम् ॥
ईशप्राच्योरन्तरे गर्भभाना-
मुष्ट्राणां वा स्थानमेवात्र कार्य्यम् ।
धान्यागारं स्यात्तथा प्राणकोणे
भृङ्गेऽप्येवं शम्भुकोणे शिवार्च्चा ॥
प्राक् पश्चिमे मारुतवह्निकोणे
प्रोक्ता प्रवीणैरपि नृत्यशाला ।
वर्च्चोगृहं रात्रिचरस्य कोणे
स्यात् पश्चिमे भोजनशालिका च ॥ * ॥
प्राक् शोभा नृपमन्दिरे च पुरतः स्थानं तथा
पुत्त्रकं
वामाङ्गे नृपतेस्तथायुधधराः कृष्णातपत्राणि
च ।
छत्रं चामरतापसाः स्वगुरवस्ताम्बूलधृग्दक्षिणे
गेहाधीशयदृच्छया च शयनं सर्व्वासु भूमीषु
च ॥
विवस्वदाख्ये शयनं प्रशस्तं
वादित्रगेहं सवितुर्विधेयम् ।
पूषाश्रितं भोजनमन्दिरञ्च
महानसं वह्निदिशाविभागे ॥
माहेन्द्राख्ये गोपुरं द्वित्रिभूमिं
भानोः संख्या तस्य मध्ये विधेया ।
उक्तानुक्तं मन्दिरादौ निवेशे
त्वष्ट्रा कार्य्यं चाक्षया भूपतीनाम् ॥
दिक्शालान्तं ह्येकशालादिगेहं
ज्येष्ठा मध्या कन्यसा दक्षिणाङ्गात् ।
शाला कार्य्या लोकगेहे युगान्तात्
त्रिद्व्येकाः स्युर्भूमयस्तेषु नूनम् ॥”
इति श्रीसूत्रधारमण्डनविरचिवे वास्तुशास्त्रे
राजवल्लभे राजगृहनिवेशादिलक्षणं ५ अः ॥ * ॥
“अथैकशालं द्विगुणाब्धिशालं
प्रस्तारतो लक्षणमेव तेषाम् ।
यथोदितं वास्तुमते तथैव
ब्रवीमि राज्ञामथ मानवानाम् ॥
चत्वारो गुरवस्तु पूर्व्वगुरुतोऽधो ह्रस्वतोऽन्ये
समाः
भूयः पश्चिमपूरितञ्च गुरुभिर्यावल्लघुत्वं भवेत् ।
उद्दिष्टे द्विगुणाङ्ककैर्लघुभवैः संख्यैकमिश्रीकृते
नष्टे स्तो विषमे समे गुरुलघू रूपे तदर्द्धार्द्धतः
स्थाने लघोः सद्ममुखादलिन्दं
प्रदक्षिणं तं क्रमतो विदध्यात् ।
प्रस्तारतः शोडशकं गृहाणां
प्रोक्तं तथाख्यां कथयामि तेषाम् ॥ * ॥
ध्रुवञ्च धान्यं जयनन्दसंज्ञे
खराख्यकन्दञ्च मनोरमाख्यम् ।
सुवक्त्रमस्मात् किल दुर्मुखाख्यं
क्रूरं विपक्षं धनदं क्षयञ्च ॥
आक्रन्दकं वैपुलवैजयञ्च
फलानि नाम्ना सदृशानि तेषाम् ।
इति ध्रुवादिषोडशगृहाणि ॥ * ॥
धान्यादितोऽष्टौ विजयान्तकं हि
त्वलिन्दयुग्मं मुखतो विदध्यात् ॥
रम्यं श्रीधरमोदिते च परतस्तद्वर्द्धमानं गृहं
कारालञ्च सुनाभमेव तदनु धाङ्क्षं समृद्धं तथा
इति रम्याष्टकम् ॥ * ॥
सर्व्वाणि ध्रुववद्भवन्ति नियतं षड्दारुकैः सुन्दर
प्रोक्तं तद्वरदञ्च भद्रकुमुदेऽथो वैमुखाख्यंशिवम्
तत्सर्व्वलाभञ्च विशालसंज्ञं
तथा विलक्षं त्वशुभं ध्वजञ्च ।
उद्योतमेवं त्वथ भीषणञ्च ॥
सौम्याजिते स्तः कुलनन्दनञ्च ॥”
इति सून्दरादिषोडशगृहाणि ॥ * ॥
“पूर्व्वालिन्दसमस्तकेषु युगलं पट्टस्य शालान्तरे
हंसञ्चैव सुलक्षणञ्च परतः सौम्यं हयं भावुकम्
तस्मादुत्तमरौचिरे च सततं क्षेमं तथा क्षेपकम्
चोद्वृत्तं वृषमुत्थितञ्च व्ययमानन्दं सुनन्दं
क्रमात् ॥”
इति हंसादिषोडषगृहाणि ॥ * ॥
“मध्येऽपवर्गं ध्रुवरूपकाणा-
मलङ्कृताह्वं प्रथमञ्च तत्र ।
तथाप्यलङ्कारमिति क्रमेण
ख्यातं तदन्यं रमणञ्च पूर्व्वम् ॥
तत्रेश्वरं तदनु पुण्यमतः सुगर्भं
प्रोक्तं गृह कलसदुर्गतमेव रिक्तम् ।
स्यादीप्सितं तदनु भद्रकवञ्चिते च
दीनं गृहं विभवकामदमेव सख्या ॥”
इत्यलङ्कृतादिषोडशगृहाणि ॥ * ॥
“षड्दारु सर्व्वेष्वपवर्गकेषु
प्रभावसज्ञं त्वथ भावितञ्च ।
रुक्मं तथान्यत्तिलकञ्च तत्र
सत् क्रीडनं सौख्यमतो यशोदम् ॥
कुमुदमपि च कालं भासुरं भूषणञ्च
वसुधरमथ गेहं धान्यनाशं तदन्यत् ।
कुपितमपि च वित्तं वृद्धिदं प्रोक्तमेत-
त्तदनु कुलसमृद्धं षोडशं प्रोक्तमाद्यैः ॥”
इति प्रभवादिषोडशगृहाणि ॥ * ॥
“सर्व्वे मुखालिन्दसमन्विताश्च
दारुद्विषट्कं ह्यपवर्गमध्ये ।
ततश्च चूडामणिकं प्रभद्रं
क्षेमं तथा शेषसमुच्छ्रितञ्च ॥
विशालसंज्ञं त्वथ भूतिदञ्च
हृष्टं विरोधं कथितं क्रमेण ।
तत्कालपाशं हि निरामयन्तु
सुशालरौद्रे मुनिसम्मताश्च ॥
वेद्यं गृहं चैव मनोरमञ्च
सुभद्रसंज्ञं कथिता च संख्या ।
इत्येकशालानि गृहाणि विद्या-
च्छतञ्च चत्वार्य्यधिकं ध्रुवादि ॥
अपवरकं यत् कथितं तद्वामे धीमता गृहे
कार्य्यम् ।
यत् षड्दारुकमुदितं ज्ञेया सा पट्टजा श्रेणी ॥”
इति चूडामण्यादिषोडशगृहाणि । इति चतु-
रुत्तरं शतमेकशालगृहाणि ॥ * ॥
“अथ द्विशालालयलक्षणानि
पदैस्त्रिभिः कोष्ठकरन्ध्रसंख्या ।
तन्मध्यकोष्ठं परिहृत्य युग्मं
शालाश्चतस्रो हि भवन्ति दिक्षु ॥
याम्याग्निगा च करिणी धनदाभिवक्त्रा
पूर्व्वानना च महिषौ पितृवारुणस्था ।
गावी यमाभिवदनापि च रोगसौम्ये
च्छागी महेन्द्रशिवयोर्वरुणाभिवक्त्रा ॥
हस्तिन्या महिषी द्विशालभवनं सिद्धार्थकं
तच्छुभं
गावी माहिषसंज्ञकं मृतिकरं तद्यामसूर्य्यं
भवेत् ।
दण्डं छागगवान्वितं धनहरं हस्तिन्यजाभ्यां
तथा
पृष्ठ ५/०८५
काचं गोकरिणीयुतं न हि शुभं चुल्ली च पर्व्वा-
परम् ॥
नामान्यतः सन्ततशान्तिदञ्च
स्याद्वर्द्धमानं त्वथ कुक्कुटाख्यम् ।
हस्त्यादितो नाम चतुष्टयञ्च
हर्म्म्यं द्विशालं प्रथमं तथैव ॥
यत् स्वस्तिकं तद्रमदारुमध्ये
ऽलिन्दस्तथाग्रे कथितं द्विशालम् ।
हंमाख्यकं स्यादथ वर्द्धमानं
कीर्त्तेर्विनाशं भवनं चतुर्थम् ॥
अलिन्दयुग्मं पुरतो विदध्यात्
षड्दारु मध्येऽपि च शान्तसंज्ञम् ।
तस्माद्गृहे हर्षणवैपुले च
तथा चतुर्थं कथितं करालम् ॥
तस्मिन् गृहे दक्षिणतो ह्यलिन्दे
वित्तञ्च चित्तं धनकालदण्डे ।
वामे पुनर्बन्धुदपुत्त्रदं स्यात्
सर्व्वन्तु तस्मिन्नपि कालचक्रम् ॥
लघुश्च पश्चात् पुरतोऽपि युम्मं
स्याद्दक्षिणैको रसदारुमध्ये ।
तत्त्रैपुरं सुन्दरमेव नीलं
स्यात् कौटिलञ्चैव यथा क्रमेण ॥
प्रदक्षिणैकः पुरतोऽपि युग्मं
षट्कं गृहान्तः किल शाश्वदाख्यम् ।
ततो द्वितीयं खलु शास्त्रदं स्या-
च्छीलं तथा कोटरमेव संज्ञम् ॥
सौम्यं गृहं मण्डपसंयुतञ्च
तत्तुल्यरूपं विबुधैर्विधेयम् ।
सुभद्रमस्मादपि वर्द्धमानं
क्रूरञ्च सर्व्वेष्वशुभं चतुर्थम् ॥
मुखे त्रयं दक्षिणपश्चिमैकः
षड्दारुकं श्रीधरनामधेयम् ।
प्रोक्ते गृहे कामदपुष्टिदे च
चतुर्थकं कीर्त्तिविनाशमेव ॥
वामे तथा दक्षिणपश्चिमैको
युग्म मुखे मण्डपमग्रतश्च ।
श्रीभूषणं श्रीवसनं ततश्च
श्रीशोभकीर्त्तिक्षयमेव तद्वत् ॥
एकोऽपरे दक्षिणवामतश्च
यन्मध्यगं श्रीधरयुग्मपूर्व्वम् ।
सर्व्वार्थदं स्यान्मुखतस्त्रयञ्चेत्
लक्ष्मीनिवासं कुपितञ्च नाम्ना ॥
युग्मं मुखे मण्डपमेव चाग्रे
युग्मं तथा दक्षिणतोऽन्तभित्तिः ।
पृष्ठे तु उद्योतकबाहुतेजः
सुतेज एवं कलहावहं स्यात् ॥
उद्योतके पश्चिमभागतो द्वौ
कुर्य्यात् द्विशालञ्च वहिर्निवासम् ।
तत् पुष्टिदं कोपसमानमन्त्य-
मनुक्तषट्कं क्रमतो विधेयम् ॥
लघुत्रिकं पूर्व्वदिशाविभागे
एको भवेद्दक्षिणवामपश्चात् ।
महान्तमेतन्महितञ्च दक्षं
कुलक्षयं मण्डपसंयुतं स्यात् ॥
भ्रमद्वयं दिक्त्रितये विभागे
मुखे त्रिकं मण्डपमग्रतश्च ।
प्रतापवर्द्धन्यमिदञ्च दिव्यं
मुखाधिकं सौख्यहरं चतुर्थम् ॥
तस्यैव रूपं रसदारुयुग्मं
पुनस्त्वलिन्दोऽजगजन्ततश्च ।
स्यात् सिंहनादं त्वथ हस्तियानं
ज्ञेयं तथा कण्टकमेतदन्त्यम् ॥
शान्तादिगेहानि च षोडशैव
द्विशालकानीह यथाक्रमेण ।
नामानि चत्वार्य्यपि रूपमेकं
हस्त्यादिभेदेः क्रमतो विधेयम ॥”
इति सूत्रधारमण्डनविरचिते वास्तुशास्त्रेराज-
वल्लभे एकद्विशालगहलक्षणं ६ अध्यायः ॥ * ॥
“द्विशालगेहानि तु षोडशैव
वास्तूदधेः सारतरं पुनश्च ।
वक्ष्याम्यलिन्दोऽपि षणो लघुश्च ।
द्वौ तिन्दुकाख्यौ कथितावलिन्दौ ॥
सूर्य्यं द्विशालं लघुरस्य वामे
मुखे त्रिकं दक्षिणतस्तथैकः ।
मुखे तथा वासवमेव गेहं
वामेऽपसव्ये लघुरेक एव ॥
प्रासादसंज्ञं मुखतस्त्रयञ्चेत्
प्रदक्षिणं तिन्दुकवेष्टितं स्यात् ।
अलिन्दयुक्तं विमलं द्विशालं
तद्वीर्य्यवन्तं सह मण्डपेन ॥
अथ द्विशालेषु समस्तकेषु
मध्ये विदध्याद्रसदारु चैकम् ।
तदा भवेद्भासुरमग्रयुग्म-
मेको लघुर्दक्षिणदिग्विभागे ॥
एको लघुर्दक्षिणपूर्व्वगः स्यात्
तद्दुन्दुभाह्वं मुखमण्डपेन ।
द्वौ पूर्व्वतो दक्षिणतस्तथैको
युग्मं भवेन्मण्डपगं सुतेजः ॥
मुखे गुणा दक्षिणतस्तथैको
द्वौ मण्डपेऽस्मिन् हयजाभिधानम् ।
महान्तगेहं मुखजे त्रिके तु
युग्मान्वितं मण्डपमेतदेव ॥
मुखे तथा मण्डपके च युग्मं
वामेऽपसव्ये युगलं लघोश्च ।
लोकत्रयाडम्बरमस्य नाम
षडक्षरं शम्भुगणेशयोश्च ॥
युग्मं मुखे मण्डपगं द्वयं स्या-
त्तथा द्वयं दक्षिणवामतश्च ।
एको हि पश्चाद्वरदाभिधानं
श्रीविश्वकर्म्मोक्तमताद्द्विशालम् ॥
मालीनसंज्ञं मुखगैश्चतुर्भि-
र्युग्गं भवेद्दक्षिणवामभागे ।
युग्मं तथा पश्चिमदिग् विभागे
तस्याग्रतो मण्डप एक एव ॥
प्राग्रामा लघवो विलासभवने वामे लघुर्दक्षिणे
तच्चेन्मण्डलसंयुतञ्च कमलं स्याद्वृद्धिदं सौख्य-
दम् ।
वेदास्तूदरके मुखे च सततं वामेक्षणे दक्षिणे
तस्याग्ने मुखमण्डपस्य फलदानेवं गृहान्
षोडश ॥”
इति सूर्य्यादिषोडशगृहाणि ॥ * ॥
“अथ त्रिशालं त्रिदशेक्षणैकं
स्यात्त्रैदशावासमरूपसंज्ञम् ।
तथा चतुर्थं कुमुदाभिधानं
हस्त्यादिभेदैः क्रमतो विधेयम् ॥
छत्रं ह्यलिन्दञ्च तथैव पुत्त्रं
हरञ्च कामन्त्वथ ह्रस्वभद्रम् ।
षट्कञ्च मध्ये स्वधनं कुबेरं
पक्षं तथा कामदमेतदेव ॥
अलिन्दयुग्मं त्वथ भद्रयुक्तं
मध्ये कपाटं जलजाभिधानम् ।
स्यान्मेघजं चैव गजं कृपञ्च
षड्दारु मध्ये सकले यथातः ॥
स्याद्वैजयं मण्डपह्रस्वभद्रं
जयं निनादं त्वथ कीर्त्तिजञ्च ।
भद्रोनह्रस्वाधिकसाकलाह्वं
निर्लोभकं वासदकौशले च ॥
त्र्येकं क्रमादीश्वरवारदाख्यं
भीमञ्च कौशल्यमतः क्रमेण ।
तद्वेद बुद्धस्वजनं तृतीयं
स्यात् कौशलं नीलमिदं चतुर्थम् ॥
मुखगुणलघुवामे दचिणे चैक एत-
द्वरदशरदमुक्तं दण्डकं काकपक्षम् ।
इदमिह हि निनादं मण्डपेनाधिकं स्या-
त्तदनु च गजनादं बाहुलं कीर्त्तिजाह्वम् ॥
सृष्ट्यादिरूपमुखमण्डपमेव सिंहं
ज्ञेये गृहे वृषगजे अपि कोशसंज्ञम् ।
वामेऽधिकञ्च लघुना कथितं सुभद्रं
स्यान्माणिभद्रमपि रत्नजकाञ्चनाख्ये ॥
युगमुखमपरैको भैरवं दक्षिणे च
भरत नरजमेतत् स्याच्चतुर्थं कुबेरम् ।
पुनरपि लघु वामे हस्तियानं वियानं
हयजकृपजगेहं तच्चतुर्थं क्रमेण ॥
वर्णानां शुभदञ्च सागरगृहं पञ्चैव ह्नस्वामुखे
प्रोक्तं क्षीरदरत्नदाह्वयमिदं कोलाहलञ्चापरम् ।
षड्दारुद्वयभद्रसप्तलघवस्तिर्य्यक् युतं शालया
गान्धर्व्वं क्षितिभूषणञ्च कथितं सर्व्वज्ञकं दर्प-
कम् ॥
धान्यं वृद्धिकरं त्रिशालमुदितं शालां विना
पावनी
प्राक्शाला रहितं शुभं निगदितं सुक्षेत्रमर्थ-
प्रदम् ।
चुल्लीसंङ्गमिदं करोति मरणं हीनं तथा
याम्यया
पक्षघ्नं महिषीमृते च भवनं तत्पुत्त्रबन्धुक्षयम् ॥”
इति त्रिदशादिषोडशगृहाणि ॥ * ॥
पृष्ठ ५/०८६
“त्रैशालानि च षोडश प्रथमतः सोमञ्च षड्-
दारुकं
तच्चैकेन पुरोऽपि शङ्करमिदं मध्ये क्रमात्
पूर्व्ववत् ।
रुद्रे द्वौ मुखतोऽपि दक्षिणलघुस्त्वेकाधिकं
सागरं
चत्वारो नृपशोभितञ्च पुरतः प्राग्दक्षिणैको
लघुः ॥
पञ्चाग्रे सकलं भ्रमञ्च लघुना सर्वस्य तत्
सौख्यदं
रागाख्यं भ्रमसंयुतञ्च भवनं तत् सर्वशालं
भवेत् ।
प्राग्वाणङ्कुलनन्दनं क्रमतया त्वेकद्वयैकान्वितं
तस्मिन्दक्षिणसंयुते च लघुके कल्याणसंज्ञं तथा
सर्व्वाशासु लघुत्रयं शरमुखं तत् पट्टयुग्मं
क्रमात्
तत्सौभाग्यविवर्द्धनञ्च भवनं राज्ञां सदा निर्मि-
तम् ।
आनन्दं सुखराजिदक्षिणलघुर्वामे च पृष्ठे द्वयं
रागास्यं जनशोभनं गुणगणैकेनान्वितं सृष्टितः
स्याद्गोवर्द्धनमग्रतो रसयुतं युग्माग्निनेत्रैः क्रमात्
सप्ताग्रे त्रिगुणं त्रिकश्च लघवो लोकत्रिकं
सुन्दरम् ।
गेहं श्रीतिलकं च भद्रसहितं ह्रस्वेन हीनं मुखे
तद्युक्तं लघुना च भद्रसहितं विष्णुप्रियं
भूपतेः ॥”
इति सोमादिषोडशगृहाणि ॥ * ॥
“षड्दारुकं श्रीत्रिदशं त्रिशालं
तत् श्रीनिवासं मुखह्रस्वयुक्तम् ।
श्रीवत्सतः श्रीधरमेव वृद्ध्या
श्रीभूषणं वेदमुखञ्च गेहम् ॥
बाणैः श्रीजयमग्रतोऽपि ऋतुभिः श्रीतैलिकं
मन्दिरं
रागाग्रं रसदारुयुग्मसहितं तत् श्रीविलासं
भवेत् ।
श्रीतेजोजयमग्रतश्च मुनिभिः शडदारु युग्मान्वितं
सोमादित्रिदशादिभूपतिगृहाः पञ्चाधिका
विंशतिः ॥”
इति त्रिदशादिनवगृहाणि ॥ * ॥
“भवननवकमुक्तं यच्चतुःशालमध्यात्
नयनलघुमुखं स्याद्दक्षिणैकेन चन्द्रम् ।
भवति सदनमध्ये सर्वतो दारुषट्कं
द्बितयमपि च तेषामन्तिमं युग्मयुक्तम् ॥
मलयमथ च गेहं वामह्रस्वाधिकं स्यात्
भवति च गुणह्रस्वं शोभणं पूर्व्वतोऽपि ।
त्रिभिरपि च सुकर्णा पृष्ठयाम्ये तथैक-
स्तदधिकमपि वामे वेश्म नागेन्द्रसंज्ञम् ॥
चक्रं चतुष्टयमुखं सकलेषु शस्तं
ग्राम्योत्तरे हि लघुनापि जयावहं स्यात् ।
भद्राह्वयञ्च मकराह्वयमेव तस्मिन्
पृष्टाग्रह्रस्वमपि कामदमग्रभद्रम् ॥”
इति विजयादिनवचतुःशालगृहाणि ॥ * ॥
“शुद्धादयो मुनिमतेऽष्टविधा च शाला-
स्तासां षडेव कथिता भवनप्रसङ्गे ।
शालालिमध्यरचितोऽपि लघुः सुखाय
यद्वा तदग्ररचिताः पृथगेव शालाः ॥”
इति सूत्रधारमण्डनविरचिते वास्तुशास्त्रे राज-
वल्लभे द्विशालत्रिशालचतुःशालगृहलक्षणवर्णनं
सप्तमोऽध्यायः ॥ * ॥
“शयनमथ नृपाणां त्वङ्गुलानां शतैकं
नवतिरपि सुतानां मन्त्रिणः षड्विहीनम् ।
बलपतिगुणहस्तं त्र्यङ्गुलोनं गुरोश्च
तदनु युगलहीनं ब्राह्मणादेः प्रशस्तम् ॥
व्यासोर्द्धभागे नतदैर्घ्यतश्च
कलांसमात्रोऽधिक एव शस्तः ।
त्र्यंशेन पादेन समुच्छ्रयः स्यात्
द्वित्र्यङ्गुलानामधिको न कार्य्यः ॥
श्रीपर्णी धनदासनोऽपि गदहावित्तप्रदा तिन्दुकी
वृद्धिः शिंशपयाथ शाकशयने शर्म्मापि शालैः
कृते ।
आयुः पद्मकजे च चन्दनमये शत्रुक्षयः स्यात्
सुखं
श्रेष्ठं चैकमलं शिरीषजनितं पर्य्यङ्कयाना-
सनम् ॥”
इति शयनम् ॥ * ॥
“सिंहासनं चोत्तममङ्गुलानां
षष्ट्या दशोनञ्च परं तथैव ।
दशांशवस्वंशमतो विहीनं
व्यासे च दैर्घ्यार्द्धसमुच्छ्रयः स्यात् ॥
मुनिभिरथ शिवैर्व्वा भद्रभागत्रयं स्या-
दुदय इति विभागैर्भाजिते पीठमष्टौ ।
कनकमपि रसांश सप्तधा ग्रासपट्टी
शिवनवमुनिरत्नैर्दन्तिवाहौ निवेद्यौ ॥
छाद्यं स्याद्रसभागमेव तिथितो भागेन कक्षासनं
युक्तं स्तम्भयुगेन तोरणयुतं रत्नैः शुभै राजि-
तम् ।
कर्त्तव्यं नृपवल्लभं मतिमता ज्येष्ठञ्च सिंहासनं
ज्ञातव्यञ्च यशोऽभिवर्द्धनंमिभैः सिहैर्नृकक्षा-
सनम् ॥
नरैस्तु वेदी पुनरेव छाद्यं
सुखासनं तोरणसंयुतं स्यात् ।
पीठञ्च कुम्भः कलसं विटङ्क-
मुत्तङ्गसंज्ञं सह छाद्यकेन ॥
पीठे गोहरिवेदिके च सुयशश्छाद्येन सिंहासनं
हस्ती मातृकवेदिकासनयुतं तद्दीपचित्रं भवेत्
छत्रं ज्येष्ठमशीतिवेदसहितं द्वासप्ततिर्मध्यमं
षष्ट्या कन्यसमङ्गुलैर्नरपतेर्दैवं शतार्द्धं शुभम् ॥”
इति सिंहासनच्छत्रलक्षणानि ॥ * ॥
“वातायनो लुम्बिकया विहीनो
बुधैरुदीर्णस्त्रिपताक एव ।
द्विलुम्बिकश्चोभयसंज्ञकश्च
यः स्वस्तिकोऽसौ युगलुम्बियुक्तः ॥
स्याद्बाणैः प्रियवक्त्र एव सुमुखः षड्भिः पुन-
श्चेति च
छाद्यैकेन युतः सुवक्त्र उदितो द्वाभ्यां प्रियङ्गो
भवेत् ।
एकोनः परिपद्मनाभ उदितस्तद्दीपचित्रो युगै-
र्वैचित्रः शरपङ्क्तिभिस्तु विविधाकारैर्युतः
पञ्च च ॥
सिंहो दैर्घ्यविवर्द्धितो हि पृथुले हंसो गवाक्षो
भवेत्
कुम्भोऽसौ मतिदोऽपि भद्रसहितो ज्ञेयस्तु
बुद्ध्यर्णवः ।
द्वारेणैव युगास्रकेण गरुडः पक्षद्वये जालकं
प्रोक्ताः पञ्चदशैव रूपमदला वेद्यादिकक्षा-
सनैः ॥”
इति पञ्चदश गवाक्षाः ॥ * ॥
“सभा च नन्दा परतोऽथ भद्रा
जया च पूर्णा क्रमतोऽपि दिव्या ।
पक्षी सुरत्नोद्भविकोत्पलाष्टौ
र्बुधैर्विधेयावनिपालगेहे ॥
क्षेत्रं चतुष्टयपदैरपि षोडशांशं
मध्ये तुरीयपदमेकपदो लघुश्च ।
नन्देति भद्रसहिता च पदेन भद्रा
तद्वेदतश्च जयदा लघुना च पूर्णा ॥
दिव्या सभा केवलनन्दभागा
भद्रैश्चतुर्भिः सहिता च पक्षी ।
रत्नोद्भवा स्याद्युगतोऽपि तुल्यै-
स्तथोत्पलाख्या प्रतिभद्रतश्च ॥
स्तम्भैस्तोरणराजितैश्च मदला निर्यूहवैतानकै-
र्लूच्छाद्यैर्गजसिंहराजविविधैर्नृत्यान्वितैः
शोभितम् ।
रत्नस्फाटिकरङ्गभूमिनृपतेः क्रीडास्पदं मण्डपं
कुर्य्याद्दक्षिणभद्रके च रुचिरां यन्मध्यतो वेदि-
काम् ॥”
इति सभाष्टकम् ॥ * ॥
“वेदी कोणचतुष्टयेन सकले पाणिग्रहे स्वस्तिका
कल्याणं रविकोणकैश्च नृपतेः सा भद्रिका
सर्व्वदा ।
कोणैः श्रीधरिका च विंशतिमितैस्त्रिस्रोऽम-
राणां गृहे
कोणैरष्टभिरन्विता च शुभदा चण्ड्यर्च्चने
पद्मिनी ॥
विप्रे सप्तकराञ्च भूपमवने षट्पञ्च वैश्ये तथा
कुर्य्याद्धस्तचतुष्टयाञ्च वृषले त्रिद्ध्येकतो हीनके
तस्योर्द्धे च नरेश्वरासनमतो माण्डं चतुस्तम्भकं
हेम्ना मौक्तिकपदृकूलमणिमिः सौम्याननं
राजितम् ॥”
इति वेदिकाचतुष्टयम् ॥ * ॥
“दीपस्तम्भं त्रिकरमुदये षड्मिरूनं क्रमेण
हस्तान्तं तं विहितमपि तैः पीठकुम्भान्वितञ्च
दीपस्योर्द्ध्वे कनककलसं शोभितं कङ्कणाद्यैः
कुर्य्याद्धातोरथ तरुमतो नागवङ्गे विवर्ज्ये ॥”
इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे
राजवल्लभे शयनसिंहासनच्छत्रगवाक्षसभा-
ष्टकवेदिकाचतुष्टयदीपस्तम्भलक्षणं ८ अध्यायः
पृष्ठ ५/०८७
“गृहा वास्तुशास्त्रोदधौ राजयोग्या
अनन्ता हि सन्त्यत्र तेभ्यः कियन्तः ।
मयोक्ताश्च योग्या नृपाणां समृद्ध्यै
सुशोभान्वितास्ते च कल्याणदाश्च ॥
त्रिशालं गृहं दिकत्रये ह्रस्वयुग्मं
मुखे वीयिकाग्रे च षड् दारुमध्यम् ।
गुणालिन्दचातुर्द्दिशं चैकवक्त्रं
गवाक्षञ्च कोणे च भद्रे विधेयम् ॥
मुखे भद्रके श्रीधरं माण्डयुक्तं
तथा भूमिका पञ्चसप्तैकभूम्याम् ।
विनाच्छादनं मण्डपं वेदवक्त्रै
रिपुघ्नं गृहं राज्यवर्द्धन्यमेतत ॥
मध्ये निम्नन्त्वङ्गणाग्रं तथोच्चैः
शस्तं दैवं पुत्त्रनाशाय गेहम् ।
स्तम्भश्रेणी मध्यमानेन कार्य्या
न्यूनाधिक्ये नैव पूज्या न च श्रीः ॥
हीनस्तम्भे शालयोर्बाह्यपट्टे
नो वेद्यः स्यादन्यतो वेध एव ।
भूमेर्ज्ञेयं रुद्रसंख्याप्रमाणं
तुल्या नेष्टा वर्द्धमानाः शुभाः स्युः ॥
सार्द्धत्रयेन विभजेत् करतत्त्वसख्य-
मध्ये नवांशमुदितञ्च करार्द्धभित्तिः ।
स्तुम्भाश्च षोडशगृहेऽपि च भद्रकेषु
दन्तैर्मिताश्च सकलासु चतुर्मुखं स्यात् ॥
भद्रे च भूमिद्वयमूर्द्धमाण्डं
सार्द्धत्रिभूमं कथितञ्च गेहम् ।
प्रतापवर्द्धन्यमिदं नृपाणां
लक्ष्मीविलासञ्च वदामि तस्मात् ॥
स्तम्भा दश दश भद्रञ्चैकं
षोडशमध्ये तत्समरूपम् ।
मदनशरावनिमाण्डसमेतं
लक्ष्मीः कर्म्मकरोति च नित्यम् ॥
भागाः पञ्चगुणाश्च पञ्च भवनं षड्विंशता
स्तम्भकैः
कुड्ये चार्द्धपदे च नन्दपदकैर्भद्रं चतुर्द्वारकैः ।
भद्रे वैगुणभद्रकाणि सकलेऽष्टाशीतिका स्तम्भका
माण्डं भूत्रितये च सार्द्धशरभूः स्याच्छ्रीनिवास
गृहम् ॥
मध्ये स्तम्भशतञ्च भागसमके भित्तिश्चतुर्द्वारकं
सप्तांशाद्रिशरांशरामसहितं भद्रं चतुस्त्रिंशता ।
षट्त्रिंशत् द्विशती च ते तु सकलः स्तम्भाः
क्षितौ पूर्व्वतो
नाम्ना तत् कमलोद्भवञ्च कथितं भूम्यर्द्धसप्ता-
न्द्वितम् ॥
हर्म्यस्योदयकं विभज्य नवधा कुम्भी भवेद्भागतः
पादोनं भरणं शिरश्च कथितं पट्टः सपादो
भवेत् ।
स्तम्भः पञ्चपदोनभाग उदितः कोणाष्टवृत्तस्तथा
भागार्द्धेन जयन्तिका निगदिता सा तन्त्रकस्यो
परि ॥
गृहस्योदयं दिग्विभागैर्विभाज्यं
द्विभागेन कक्षासनं वेदिका स्यात् ।
त्रिभागेन तत्कण्ठतो निम्नमेवं
गृहस्योदयार्द्धेन पीठं नृपाणाम् ॥
उत्तानपट्टो नृपमन्दिरेऽसौ
हस्ते च हस्ते द्वियवोन्नतः स्यात् ।
पाषाणतः सौख्यकरो नृपाणां
धनक्षयं सोऽपि करोति गेहे ॥
सुधेष्टके शर्करया वियुक्ते
सकर्करैस्तैः सुदृढा गृहे भूः ।
शस्ता न शस्तं भवनेषु चित्रं
कपोतगृध्नाः कपिकाकरौद्रम् ॥
शुद्धोऽलिन्दविशेषतश्च सकला भूम्यौच्चरण्ड्या-
न्विता
छाद्येनाप्यथ मत्तवारणयुतं माण्डं तथार्द्धो-
दयम् ।
मौडो भद्रचतुष्किकाभिरुदितो मण्डेन युक्त-
स्तथा
मल्लैस्तुल्यसपादकैस्तु मुकुलो वा शीर्षकैः
शेखरः ॥
राज्ञो गृहं छन्दचतुयं स्यात्
तथैव घण्टाकलसेन युक्तम् ।
तुङ्गारसंज्ञस्त्वथ सिंहकर्णः
प्रासादके तेऽपि षडेव शस्ताः ॥
षड्जातिगेहं तृणपर्णपट्टै-
र्वंशैः कडैर्वापि मृदा शिलाभिः ।
छत्रं प्रकारैः कथितञ्च षड्भि-
र्लोकप्रसिद्ध्या च परीक्षणीयम् ॥”
इति राजगृहादि ॥ * ॥
“वामे भागे दक्षिणे वा नृपाणां
त्रेधा कार्य्या वाटिका क्रीडनार्थम् ।
एकद्वित्रिर्द्दण्डसंख्या शतं स्यान्-
मध्ये धारामण्डपं तोययन्त्रेः ॥
क्षेत्रं सप्तविभागभाजितमतो भद्रञ्च भागत्रयं
तन्मध्ये जलवापिकाजिनपदैरेकांशतो वेदिका
स्तम्भैर्द्वादशभिश्च मध्यरचितः कोणेषु कूपान्वितः
कर्त्तव्यो जलयन्त्र एष विधिवत भोगाय भूमी-
भुजाम् ॥
तस्यां चम्पककुन्दजातिसुमनोवल्ल्यः सुनि-
र्व्वालुका
जातीहेमसमानकेतकिरपि श्वेता तथा
पाटला ।
नारङ्गः करणा वसन्तलतिका चारक्तपुष्पादिकं
जम्बीरो वदरी च पूगमधुका जम्बूश्च चूतद्रुमाः ॥
मालूरः कदली च चन्दनवटावश्वत्थपथ्याशिवा-
चिञ्चाशोककदम्बनिम्बतरवः खर्ज्जूरिका
दाडिमी ।
कर्पूरागुरुकिंशुका हयरिपुः पुन्नागको निम्बुकी
प्रोक्ता नागलता च बीजनिभृता स्यात् तिन्दुकी
लाङ्गली ॥
द्राक्षैला शतपत्रिका च वकुला धत्तूरकंकोलकौ
शालस्तालतमालकौ मुनिवरो मन्दारपारि-
द्रुमौ ।
अन्ये भोज्यविचित्रखाद्यसुफलास्ते रोपणीया
बुधैः
यद्याप्नोति न भूतले शुभतरूंस्तच्चम्पकान्
वापयेत् ॥
आस्थानं प्रतिषेचनाय च घटीयन्त्रस्तुषारोद्भवे
दोला स्त्रीजनखेलनाय रुचिरे वर्षावसन्तोत्-
सवे ।
बालाप्रौढबधूसुमध्यवनितागानैर्मनोहारिभि-
र्ग्रीष्मे शारदकेऽथ शीतलजलक्रीडा शुभे
मण्डपे ॥
इति वाटिका ॥ * ॥
“तुरङ्गमाणां गृहवामभागे
शाला चतु षष्टिकरा विधेया ।
शतार्द्धतो मध्यमिका च दैर्घ्ये
कनीयसी तैर्दशभिर्विहीना ॥
व्यासे च ज्येष्ठा तिथिहस्तमाना
त्रयोदशैकादशकैः क्रमेण ।
तद्वाह्यभित्तिश्च करप्रमाणा
पञ्चार्द्धपञ्चाब्धिकरोदया स्यात् ॥
तेजोहानिमपीहया विदधते पूर्व्वापरास्या
नृणां
ते याम्योत्तरतो मुखादि सततं कीर्त्तिर्यशो
धान्यकम् ।
कर्त्तव्यो धिषणं प्रतीह कलसस्थानं द्विहस्तोदयं
तस्यास्तोरणमच्छ्रितञ्च मुनिमिहस्तैः सुशोभा-
न्वितम् ॥
षष्ट्या साधुहयाङ्गुलैर्निगदितो वेदाङ्गुलेनाधिकः
श्रीवत्सस्त्वहिलाव एव च मनोहारी द्बिसप्ता-
ङ्गुलः ।
रागाद्यङ्गुलकैस्तु वाजिविजयोऽशीत्या तथा
भैरवः
शान्ताख्यस्तु युगाष्टमात्र उदये मानं हरेः
सप्तधा ॥”
इत्यश्वशाला ॥ * ॥
“सिंहद्वारं पूर्व्वमानेन कार्य्यं
त्रिद्व्येका वा मालिका स्तम्भशीर्षे ॥
स्यातां मध्ये ताडकौ रक्षणार्थं
तुल्यौ भागेनाधिकौ वापि सार्द्धौ ॥
भागे दक्षिणवामके च करिणां शाला हरे-
र्द्वारतः
कर्त्तव्या सुदृढोन्नता च कलसैर्घण्टादिभि-
र्भूषिता ।
संकीर्णो रसनो नगैर्निगदितो मन्दा मृगा-
श्चाष्टतः
सर्वेषूत्तमभद्रजातिरुदितो नन्दैः करैरुच्छ्रितः ॥
इति गजशाला ॥ * ॥
“अष्टोत्तरहस्तशतं पृथुत्वे
नृपालयं चोत्तममेव तस्मात् ।
अष्टाभिरष्टाभिरतो विहीनं
पञ्चैव भागाधिकतोऽपि दैर्घ्ये ॥
अशीतितो रागकरैश्च हीनाः
पञ्चालया भूपसुतप्रियाश्च ।
पृष्ठ ५/०८८
त्रिभागदैर्घ्येऽधिकतो विधेया
गृहाः क्रमेर्णव यथोदिताश्च ॥
प्रोक्तं चतुःषष्टिकरं पृथुत्वे
क्रमेण षड्भिश्च करैर्विहीनम् ।
षड्भागतो दैर्घ्य मतोऽधिकं स्या-
द्वलाधिपस्यैव च पञ्चवृद्धैः ॥
षष्ट्या हस्तैर्मन्त्रिगेहं पृथत्वे
हीनं हीनं पञ्चकं वेदवेदैः ।
कुर्य्याद्धस्तैरष्टमांशोऽधिकोऽसौ
व्यामादग्रे वर्द्धितो दैर्घ्य एव ॥
सामन्तादिकभूपतेश्च भवनं विध्यब्धिहस्तैः समं
हस्तैर्वेदविहीनकैः क्रमतया भागाधिकं
दैर्घ्यतः ।
दैवज्ञञ्च सभासदस्य गुरुतः पौरोधमं भैषजं
विंशत्यष्टकरं द्विहस्तरहितं दैर्घ्ये द्विधा तद्-
भवेत् ॥
वेश्याकञ्चुकिशिल्पिनामपि गृहे वेदाधिका
विशति-
र्मानं हस्तचतुष्टयैर्विरहितं दैर्घ्येऽधिका
व्यासतः ।
हर्म्म्यं द्यूतकरान्तिकस्य रचितो हस्तैः समं
विस्तरे
हीनं त्वर्द्धकरेण पञ्चकमिदं तुर्य्यांशदैर्घ्याधि-
कम् ॥
द्वात्रिंशता मानमिदं द्विजादे-
र्हीनं चतुर्भिः क्रमतो विधेयम् ।
दिगष्टरागाब्धिविभागतश्च
क्रमेण तद्वर्णचतुष्टयेऽपि ॥
कर्णाधिकं विस्तरतोऽधिकञ्च
शीघ्रं विनाशं समुपैति गेहम् ।
द्वारं नतं मूर्द्ध्नि यदाग्रतश्च
तत् सन्ततेर्हानिकरं प्रदिष्टम् ॥
व्यासे सप्ततिहस्तवियुक्ते
शालामानमिदं मनुभुक्ते ।
पञ्चत्रिंशत् पुनरपि तस्मिन्
मानमुशन्ति लघोरिव वृद्धाः ॥
एकं द्वारं प्राङ्मुखं शोभनं स्यात्
चातुर्वक्त्रं धातृभूपेशजैने ।
युग्मं प्राच्यां पश्चिमे स्यात्त्रिकेषु
मूलं द्वारं दक्षिणे वर्ज्जनीयम् ॥”
इति वास्तुशास्त्रे राजवल्लभमण्डने वाजगृहा-
दिल क्षणं नाम नवमोऽध्यायः ॥ * ॥

शिल्पिका, स्त्री, तृणविशेषः । लहानसिपी इति

हिन्दीभाषा । तत्पर्य्यायः । शिल्पिनी २ शीता
३ क्षेत्रजा ४ मृदुच्छदा ५ । अस्या गुणाः ।
मूत्ररोधाश्मरीशूलज्वरपित्तापहारकत्वम् । इति
राजनिर्घण्टः ॥

शिल्पिनी, स्त्री, कोलदलौषधिः । इति मेदिनी

शिल्पिशाला, स्त्री, क्ली, (शिल्पिनां शाला ।)

शिल्पशाला । इत्यमरटीकायां स्वामी ॥

शिल्पी, [न्] त्रि, (शिल्पं क्रियाकौशलमस्यास्तीति

इनि ।) शिल्पकर्त्ता । (यथा, मनौ । ७ । ७५ ।
“ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”)
तत्पपर्य्यायः । कारुः २ । इत्यमरः ॥ अस्य विव-
रणं शिल्पकारशब्दे द्रष्टव्यम् । शिल्पसम्बन्धी
च ॥

शिवं, क्ली, (शी + “सर्व्वनिघृष्वरिष्वलष्वशिव-

पद्वप्रह्वेष्वा अतन्त्रे ।” उणा० १ । १५३ । वन्
प्रत्ययेन साधु ।) मङ्गलम् । इत्यमरः ॥ (यथा,
रघुः । १६० ।
“उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीनाञ्च प्रतिहर्त्ता त्वमापदाम् ॥”
सुस्वम् । जलम् । इत्युणादिकोषः ॥ मैन्धवम् ।
समुद्रलवणम् । श्वेतटङ्कणम् । इति राज-
निर्घण्टः ॥ (मङ्गलवति, त्रि ॥ यथा, महा-
भारते । १ । २०८ । ३६ ।
“तत्र रम्ये शिवे देशे कौरवस्य निवेशनम् ॥”)

शिवः, पुं, (शी + “सर्वनिघृष्वेति ।” उणा० १ । १५३

इति वन्प्रत्ययेन साधुः ।) ब्रह्मणः संज्ञाविशेषः ।
तस्य व्युत्पत्तिर्यथा । शिवं कल्याणं विद्यतेऽस्य
शिवः । श्यति अशुभमिति वा । शेरतेऽवतिष्ठन्ते
अणिमादयोऽष्टौ गुणा अस्मिन् इति वा शिवः ।
इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । शम्भुः २
ईशः ३ पशुपतिः ४ शूली ५ महेश्वरः ६ ईश्वरः
७ सर्व्वः ८ ईशानः ९ शङ्करः १० चन्द्रशेखरः
११ भूतेशः १२ खण्डपरशुः १३ गिरीशः १४
गिरिशः १५ मृडः १६ मृत्युञ्जयः १७ कृत्ति-
वासाः १८ पिनाकी १९ प्रमथाधिपः २० उग्रः २१
कपर्द्दी २२ श्रीकण्ठः २३ शितिकण्ठः २४
कपालभृत् २५ वामदेवः २६ महादेवः २७
विरूपाक्षः २८ त्रिलोचनः २९ कृशानरेताः ३०
सर्व्वज्ञः ३१ धूर्ज्जटिः ३२ नीललोहितः ३३
हरः ३४ स्मरहरः ३५ भर्गः ३६ त्र्यम्बकः ३७
त्रिपुरान्तकः ३८ गङ्गाधरः ३९ अन्धकरिपुः ४०
क्रतुध्वंसी ४१ वृषध्वजः ४२ व्योमकेशः ४३
भवः ४४ भीमः ४५ स्थाणुः ४६ रुद्रः ४७
उमापतिः ४८ । इत्यमरः ॥ वृषपर्व्वा ४९
रेरिहाणः ५० भगाली ५१ पांशुचन्दनः ५२
दिगम्बरः ५३ अट्टहासः ५४ कालञ्जरः ५५
पुरद्विट् ५६ वृषाकपिः ५७ महाकालः ५८
वराकः ५९ नन्दिवर्द्धनः ६० हीरः ६१ वीरः ६२
खरुः ६३ भूरिः ६४ कटप्रूः ६५ भैरवः ६६
ध्रुवः ६७ शिविपिष्टः ६८ गुडाकेशः ६९ देव-
देवः ७० महानटः ७१ । इति जटाधरः ॥
तीव्रः ७२ खण्डपर्शुः ७३ पञ्चाननः ७४ कण्ठे-
कालः ७५ भरुः ७६ भीरुः ७७ भीषणः ७८
कङ्कालमाली ७९ जटाधरः ८० व्योमदेवः ८१
सिद्धदेवः ८२ धरणीश्वरः ८३ विश्वेशः ८४
जयन्तः ८५ हररूपः ८६ सन्ध्यानाटी ८७
सुप्रसादः ८८ चन्द्रापीडः ८९ शूलधरः ९०
वृषाङ्कः ९१ वृषभध्वजः ९२ भूतनाथः ९३
शिपिविष्टः ९४ वरेश्वरः ९५ विश्वेश्वरः ९६
बिश्वनाथः ९७ काशीनाथः ९८ कुलेश्वरः ९९
अस्थिमाली १०० विशालाक्षः १०१ हिण्डी १०२
प्रियतमः १०३ विषमाक्षः १०४ भद्रः १०५
ऊर्द्ध्वरेताः १०६ यमान्तकः १०७ नन्दीश्वरः १०८
अष्टमूर्त्तिः १०९ अर्घीशः ११० खेचरः १११
भृङ्गीशः ११२ अर्द्धनारीशः ११३ रसनायकः ११४ ।
इति शब्दरत्नावली ॥ उः ११५ पिनाक-
पाणिः ११६ फणधरधरः ११७ कैलासनिके-
तनः ११८ हिमाद्रितनयापतिः ११९ । इति
कविकल्पलता ॥ तस्य सहस्रनामानि श्रीमहा-
भारते अनुशासनपर्वणि १७ अध्याये द्रष्ट-
व्यानि ॥ * ॥ अस्य कपालिनामककारणं यथा, --
ईश्वर उवाच ।
“आसीत्तत्र वरारोहे ब्रह्मणस्तु शिरोऽपरम् ।
पञ्चमं शृणु सुश्रोणि जातं काञ्चनसुप्रभम् ॥
ज्वलन्तं परमं शीर्षं जातं तस्य महात्मनः ।
स एवमब्रवीद्देवि ! जन्म जानामि ते ह्यहम् ॥
अतः क्रोधपरीतेन संरक्तनयनेन च ।
वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ॥
ब्रह्मोवाच ।
यस्मादनपराधेन शिरश्छिन्नं त्वया मम ।
तस्माच्छापसमायुक्तः कपालीत्वं भविष्यसि ॥”
इति मात्स्ये १८५ अध्यायः ॥ * ॥
अथ शिवमन्त्राः । तत्र एकाक्षरमन्त्रो यथा, --
“सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् ।
प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो
मणिः ॥” हौ ॥ * ॥
अस्य पूजा । प्रातःकत्यादिमातृकान्यासं प्राणा-
यामञ्च विधाय श्रीकण्ठादिन्यासं मातृका-
स्थानेषु कुर्य्यात् । ततः सामान्यपूजापद्धत्युक्त-
पीठन्यासं कृत्वा पीठशक्तीर्न्यसेत । ततः
ऋष्यादिन्यामः । ततः कराङ्गन्यासौ । ततः
ईशानाद्याः पञ्चमूर्त्तीर्न्यसेत् । शूद्रस्तु एतत्पर्य्यन्तं
न्यासं कृत्वा ध्यायेत् । अन्यत्रानधिकारात् ।
तत ऊर्द्ध्वप्राग् दक्षिणोत्तरपश्चिमेषु मुखेषु ईशा-
नस्य पञ्चकलाः पञ्च ब्रह्म ऋचः पदादिकाः
प्रणावाद्या नमोऽन्ता न्यसेत् । ततः पूर्वपश्चिम-
दक्षिणोत्तरेषु तत्पुरुषस्य चतस्रः कला विन्य-
सेत् । ततो हृदये ग्रीवायां अंशद्वये नाभौ
कुक्षौ पृष्ठे वक्षसि अघोरस्याष्टौ कलाः न्यसेत् ।
ततो गुह्ये अण्डकोषे ऊरुद्वये जानुद्वये जङ्घा-
द्वये कुक्षिद्वये कट्यां पार्श्वयोः वामदेवस्य
त्रयोदशकलाः विन्यसेत् । ततः पार्श्वयोः
स्तनयोर्नासिकायां मूर्द्ध्नि बाहुयुग्मे सद्यो
जातस्याष्टौ कला न्यसेत् । ततः पञ्चाङ्गुलीषु
ईशानाद्याः पञ्च ऋचो न्यसेत् । एवं मूर्द्धास्य
हृदयगुह्यपादेष्वेता ऋचो न्यसेत् । ततोऽङ्ग-
न्यासान्तरं कुर्य्यात् । एवं विन्यस्य ध्यायेत् ।
“मुक्तापीतपयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभि-
स्त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटि-
प्रभम् ।
शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान्
पाशं भीतिहरं दधानममिताकल्पोज्ज्वलाङ्गं
भजे ॥”
पृष्ठ ५/०८९
एवं ध्यात्वा मानसैः संपृज्य अर्घ्यस्थापनं कृत्वा
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाह-
नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण-
पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा-
पयेत् । अस्य पुरश्चरणं पञ्चलक्षजपः ॥ १ ॥ * ॥
अस्याष्टाक्षरमन्त्रो यथा, --
“षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ॥”
ह्रोँ ॐ नमः शिवाय ह्रीँ । अस्य पूजा । प्रातः-
कृत्यादिशैवोक्तं पीठमन्वन्तं न्यासं विधाय
ऋष्यादिन्यासकराङ्गन्यासान् प्राणायामञ्च कृत्वा
ध्यायेत् ।
“बन्धुकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं
हस्तैः शूलं कपालं वरदमभयदं चारुहासं
भजामि ।
वामोरूस्तम्भगायाः करतलविलसच्चारुरक्तोत्-
पलाया
हस्तेनाश्लिष्टदेहं मणिमयविलसद्भूषणायाः
प्रियायाः ॥”
एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वा
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाह्य पञ्च-
पुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां कृत्वा
धूपदानादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य
पुरश्चरणं चतुर्द्दशलक्षजपः ॥ २ ॥ * ॥ तस्या-
ष्टाक्षरमन्त्रान्तरं यथा, --
“तारो माया वियद्बिन्दुमनुस्वारविभूषितम् ।
पञ्चाक्षरममायुक्तो वसुवर्णो मनुर्म्मतः ॥”
ॐ ह्रीँ हौँ नमःशिवाय । अस्य पूजा । प्रातः-
कृत्यादिशैवोक्तपीठन्यासान्तं विधाय पूर्ववदृष्या-
दिन्यासं कराङ्गन्यासौ च कृत्वा ध्यायेत् ।
“वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसं
भालोद्यन्नेतमीशं स्मितमुखकमलं दिव्यभूषाङ्ग-
रागम् ।
वामोरुन्यस्तपाणेररुणकुवलयं संदधत्याः
प्रियाया-
श्चण्डोत्तुङ्गस्तनाग्रे न्निहितकरतटं वेदटङ्केऽष्ट-
हस्तम् ॥”
एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वा
पीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्चपुष्पा-
ञ्जलिदानपर्य्यन्तं विधाय आवरणपूजां कृत्वा
धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य
पुरश्चरणमष्टलक्षजपः ॥ ३ ॥ * ॥ अथास्य मृत्यु-
ञ्जयाख्यमन्त्रः ।
“तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः ।
त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ॥”
ॐ जुँ सः । अस्य पूजा । प्रातःकृत्यादिशैवोक्त-
पीठन्यासान्तं विधाय ऋष्यादिन्यासं कराङ्ग-
न्यासौ च कृत्वा ध्यायेत् ।
“चन्द्रार्क्काग्निविलोचनं स्मितमुखं पद्मद्वयन्तः-
स्थितं
मुद्रापाशमृगाक्षसूत्रविलसत्प्राणिं हिमांशु-
प्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं
भावये ॥”
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वा
पीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वावाह-
नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण-
पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा-
पयेत् । अस्य पुरश्चरणं लक्षत्रयजपः ॥ ४ ॥ * ॥
अथास्यापरद्वादशाक्षरमृत्युञ्जयमन्त्रः ।
“मृत्युञ्जयं समुच्चार्य्य पालय द्वितयं वदेत् ।
मृत्युञ्जयं समुच्चार्य्य पुनरेव विलोमतः ॥
द्वादशाक्षरोऽयं मन्त्रः स्यात् मृत्युञ्जयाभिधो-
ऽपरः ।”
ॐ जुँ सः पालय पालय ॐ जुँ सः । अस्य
ध्यानपूजादिकं सर्वं पूर्ववत् ॥ ५ ॥ * ॥ अस्य
द्वाविंशत्यक्षरमन्त्रः ।
“प्रणवो हृदयं पश्चात् ततो भगवते पदम् ।
ङेऽन्तञ्च दक्षिणामूर्त्तिं मह्यं मेधामुदीरयेत् ।
प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ॥”
ॐ नमो भगवते दक्षिणामूर्त्तये मह्यं मेघां
प्रयच्छ स्वाहा । अस्य पूजा । प्रातःकृत्यादि-
शैवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कराङ्गन्यासौ च कृत्वा ध्यायेत् ।
“वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्वलम् ।
गारुत्मतमयैः पत्रैर्विचित्रैरुपशोभितम् ॥
नवरत्नमहाकल्पैर्लम्बमानैरलङ्कृतम् ।
विचिन्त्य वटमूलस्थं चिन्तयेल्लोकनायकम् ॥
स्फटिकरजतवर्णन्मौक्तिकीमक्षमाला-
ममृतकलसविद्याज्ञानमुद्राः कराब्जैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्त्तिमीडे ॥”
एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनादि-
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि-
पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां
कृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।
अस्य पुरश्चरणं लक्षजपः ॥ ६ ॥ * ॥ अथास्य
मन्त्रान्तरम् ।
“अग्निसम्बर्त्तकादित्यरानिलौ षष्ठबिन्दुमत् ।
चिन्तामणिरिति ख्यातं बीजं सर्व्वसमृद्धिदम् ॥”
र-क्ष म-र य-औ ऊँ ॥ प्रपञ्चसारे ।
“अनलक-ष-मरेफ-प्राणसत्यान्तवाम-
श्रुतिहिमरुचिखण्डैर्म्मण्डितो मन्त्रराजः ।”
अस्य पूजा । प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं
विन्यस्य ऋष्यादिन्यासं कराङ्गन्यासौ च कृत्वा
ध्यायेत् ।
“नीलप्रबालरुचिरं विलसत्त्रिनेत्रं
पाशारुणोत्पलकपालकशूलहस्तम् ।
अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषं
बालेन्दुबद्धमुकुटं प्रणमामि रूपम् ॥”
एवं ध्यात्वा मानसैः संपूज्यार्घ्यं संस्थाप्य
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि-
पञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरणपूजां
विधाय धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।
अस्य पुरश्चरणं लक्षजपः । अयं अर्द्धनारी-
श्वरः ॥ ७ ॥ * ॥
“पार्श्वो वह्निसमारूढस्तारवानाद्यमीरितम् ।
धान्तो वह्निसमारूढस्तूर्य्यस्वरसमन्वितः ॥
बिन्दुमांस्तु द्वितीयः स्यात् टान्तः सर्गी तृती-
यकः ।
नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः ॥”
प्रमाणान्तरम् ।
“लोहितोऽग्न्यासनः सत्यो बिन्दुमान् प्रय
पुनः ।
द्वितीया वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता ॥
तृतीया लाङ्गली सर्गी मन्त्रो बीजत्रयात्मकः ।
नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः ॥”
प्रोँ न्रीँ ठः इति मन्त्रः । अस्य पूजा । प्रातः
कृत्यादिशैवोक्तपीठन्यासान्तं कृत्वा ऋष्यादि-
न्यासं कराङ्गन्यासौ च विधाय ध्यानं कुर्य्यात् ।
“बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं
नागेन्द्रैः कृतशेखरं जपवटीं शूलं कपालं
करैः ।
खट्टाङ्गं विधृतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं
व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं
भजे ॥”
एवं ध्यात्वा मानसैः संपूज्य अर्घ्यस्थापनादि-
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाह-
नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण-
पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा-
पयेत् । अस्य पुरश्चरणं त्रिलक्षजपः । अयं
नीलकण्ठः ॥ ८ ॥ * ॥ अस्याष्टाक्षरमन्त्रो यथा--
“तारो हृन्नीलकण्ठाय मन्त्रश्चाष्टाक्षरः परम् ।
ॐ नमो नीलकण्ठाय । अस्य पूजादिकं सर्व्वं
पूर्व्ववत् ॥ ९ ॥ * ॥ अस्य पञ्चाक्षरमन्त्रः षड-
क्षरमन्त्रश्च यथा, --
“हृदयं वपरं साक्षिन् लान्तोऽनन्तान्वितो
मरुत् ।
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥”
नमः शिवाय । ॐ नमः शिवाय । अस्य पूजा ।
प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं न्यासं विधाय
ऋष्यादिन्यासं कुर्य्यात् । ततो मूर्त्तिन्यासः ।
ततः कराङ्गन्यासौ । ततो गोलकन्यासः । ततो
व्यापकन्यासं प्राणायामञ्च कृत्वा ध्यायेत् ।
“ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रा-
वतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्त
प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणेर्व्याघ्रकृत्तिं
वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं
त्रिनैत्रम् ॥”
एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वा
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि-
पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां
कृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।
पृष्ठ ५/०९०
अस्य पुरश्चरणं षट्त्रिंशल्लक्षजपः ॥ १० ॥ * ॥
अथास्य त्र्यक्षरमन्त्रः ।
“अर्घोशो वह्निशिखरो लान्तस्थो दान्त ईरीतः
फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ॥”
ऊर्द्ध्व फट् इति मन्त्रः । अस्य पूजा । प्रातः-
कृत्यादिशैवोक्तपीठन्यासान्तं विधाय ऋष्यादि-
न्यासं कराङ्गन्यासौ च कृत्वा ध्यायेत् ।
“चण्डेश्वरं रक्ततनुं त्रिनेत्रं
रक्तांशुकाढ्यं हृदि भावयामि ।
टङ्कं त्रिशूलं स्फटिकाक्षमालां
कमण्डलुं विभ्रतमिन्दुचूडम् ॥”
एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनादिशैवो
क्तपीठपूजान्तं विधाय ठमिति बीजेन मूर्त्तिं
संकल्प्य पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदान-
पर्य्यन्तं विधायावरणपूजां कृत्वा धूपादिविसर्ज्ज-
नान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं
त्रिलक्षजपः । अयं चण्डेश्वरः ॥ ११ ॥ इति
तन्त्रसारे शिवमन्त्राः ॥ * ॥ * ॥ विष्णुशिवयोर-
भेदो यथा, --
वराह उवाच ।
“शिवो मे दक्षिणं स्थानं तिष्ठते विगतज्वरः ।
लोकानां प्रवरः श्रेष्ठः सर्व्वलोकवरो हरः ॥
तं ये विन्दन्ति ते देवि ! नूनं मामेव विन्दति ।
ये मां विन्दति देवेशि ! ते विन्दन्ति शिवं
परम् ॥
अहं यत्र शिवस्तत्र शिवो यत्र वसुन्धरे ।
अहं तत्रापि तिष्ठामि आवयोर्नान्तरं क्वचित् ॥
शिवं यो वन्दते भूमे ! स हि मामेव वन्दते ।
लभते पुष्कलां सिद्धिमेवं यो वेत्ति तत्त्वतः ॥”
इति वाराहे शालग्रामक्षेत्रमाहात्म्यवर्णननामा-
ध्यायः ॥ * ॥ देवीविष्णुशिवानामभेदो यथा, --
“अयं नारायणो गौरी जगन्माता सनातनः ।
विभज्य संस्थितो देवः स्वात्मनं बहुधेश्वरः ॥
न मे विदुः परं मत्त्वं देवाद्या न महर्षयः ।
एकोऽयं देवदेवात्मा भवानी विष्णुरेव च ॥
अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः
मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥”
इति कौर्म्मे १४ अध्यायः ॥ * ॥
शिवनिन्दानिषेधो यथा, --
“परात् परतरं यान्ति नारायणपरा जनाः ।
न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥
ध्यानं होमस्तपस्तप्तं ज्ञानं यज्ञादिको विधिः
तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम्
यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः ।
विनिन्दन्देवमीशानं स याति नरकायुतम् ॥
तस्मात् सा परिहर्त्तव्या निन्दा पशुपतेर्द्विज ।
कर्म्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः ॥”
इति कौर्म्मे २५ अध्यायः ॥ * ॥
तस्य प्रलयकारकत्वं यथा, --
“गते परार्द्धद्वितये काले लोकप्रकालकः ।
कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलं
मतिम ॥
आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥
तमावेश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं लोकमाश्रितः ॥
प्रविश्य मण्डलं घोरं कृत्वासौ बहुधा पुनः ।
निर्द्दहत्यखिलं लोकं सप्तमूर्त्तिस्वरूपधृक् ॥
स दग्ध्वा सकलं सत्त्वमस्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकः ॥
दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा ।
एषा सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः
शिवः कपालैर्द्देवानां कृतस्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन्रोममण्डलम् ॥
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।
सहस्रहस्तचरणः सहस्रार्च्चिर्म्महाभुजः ॥
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूलं कृत्तिवसनो योगमैश्वरमास्थितः ॥
पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् ।
करोति ताण्डवं देवमालोक्य परमेश्वरः ॥
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गला ।
योगमास्थाय देवस्य देहमायाति शूलिनः ॥
स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
याति स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम्
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु ।
गुणैरनेकैः पृथिवी विलयं याति वारिषु ॥
सवारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।
तेजःस्वगुणसंयुक्तं वायौ संयाति संक्षयम् ॥
आकाशे सगुणो वायुः प्रलयं याति संक्षयम् ।
भूतादौ च तथाकाशं लीयते गुणसंयुतम् ॥
इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम् ।
वैकारिके देवगणा प्रलयं यान्ति सत्तमाः ॥
वैकारिकास्तेजसश्च भूतादिश्चेति सत्तमाः ।
त्रिविधोऽयमहङ्कारो महते प्रलयं व्रजेत् ॥
महान्तमेभिः सहितं ब्राह्मणममितौजसम् ।
अव्यक्तं जगतो योनिः संहरेदेकमव्ययः ॥
एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ।
वियोजयत्यथान्योन्यं प्रधानं पुरुषं परम् ॥
प्रधानपुंसोरजयोरेष संहार ईरितः ।
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।
गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।
प्रधानं जगतो योनिराद्यतत्त्वमचेतनम् ॥
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।
गीयते मुनिभिः साक्षी महानेकः पितामहः ॥
एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।
प्रधानञ्च विशेषान्तं दहेद्रुद्र इति श्रुतिः ॥
योगिनामथ सर्वेषां ज्ञानविन्यस्तचतसाम् ।
आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः ॥”
इति कौर्म्मे उपविभागे ४३ अध्यायः ॥ * ॥
ब्रह्मविष्णुशिवानामभेदो यथा, --
श्रीभगवानुवाच ।
“न ब्रह्मा भवतो भिन्नो न शम्भुर्ब्रह्मणस्तथा ।
न चाहं युवयोर्भिन्नो ह्यभिन्नत्वम् सनातनम् ॥
प्रधानस्याप्रधानस्य भागाभागस्य रूपिणः ।
ज्योतिर्म्मयस्य भागो मेऽनेकोऽनेकोऽहमंशकः ॥
कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥
चिन्तयन् स्वात्मनात्मानं सम्भवं कुरु चात्मनि ।
एकत्वं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु ॥
शिरोग्रीवादिभेदेन यथैवैकस्य धर्म्मिणः ।
अङ्गानि मे तथैकस्य भागत्रयमिदं हर ॥
यज्ज्योतिरग्र्यं स्वपरप्रकाशं
कूटस्थमव्यक्तमनन्तरूपम् ।
नित्यञ्च दीर्घादिविशेषणाद्यै-
र्हीनं परं तच्च वयं न भिन्नाः ॥”
इति कालिकापुराणे ११ अध्यायः ॥
अपि च ।
“ततो ब्रह्मा च शारीरं त्रिधा चक्रे महेश्वर ।
प्रधानेच्छाबलाच्छम्भो त्रिगुणं त्रिगुणीकृतम् ॥
तदूर्द्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः ।
पद्मकेशरगौराङ्गकायो ब्रह्मा महेश्वर ॥
तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भजः ।
शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः ॥
अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः ।
स्फटिकाभ्रसमः कायः शुक्लः स चन्द्रशेखरः ॥
ईशस्ततो ब्रह्मकाये सृष्टिशक्तिं न्ययोजयत् ।
स्वयमेवाभवत् सृष्टा ब्रह्मरूपेण लोकभृत् ॥
स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययो-
जयत् ।
महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥
स्थितिकर्त्ता भवेद्विष्णुरहमेव महेश्वरः ।
सर्व्वशक्तिनियोगेन सदा तदूपता मम ॥
अन्तशक्तिं तथा काये शाम्भवे संन्ययोजयत् ।
अन्तकर्त्ता भवेच्छम्भुः स एव परमेश्वरः ॥
ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ।
ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः ॥
सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ।
ब्रह्मा विष्णुः शिवश्चेति संज्ञामपि पृथक् पृथक् ॥
अतस्त्वञ्च विधाता च तथाहमपि न पृथक् ।
एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् ॥”
इति तत्रैव १२ अध्यायः ॥ * ॥
मार्कण्डेय उवाच ।
“ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे ।
ववृधे तोयराशिस्थ ब्रह्माण्डञ्च यथा पुरा ॥
तन्मध्ये पद्मगर्भाभं ब्रह्माणं जगतः पतिम् ।
ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थञ्च पृथग्गतम्
शरीरिणं स ददृशे ब्रह्माण्डान्तर्गतं मुहुः ।
चतुर्भुजं प्रकाशन्तं ज्योतिर्भिः कमलासनम् ॥
तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श स ।
ऊर्द्ध्वमध्यान्तभागैस्तु ब्रह्मविष्णुशिवात्मकम् ॥
अथोर्द्धभागो वपुषो ब्रह्मत्वमगमत्तथा ।
मध्यस्तदा विष्णुभूतो ददर्शान्तस्य शम्भुताम् ॥
एकमेव शरीरन्तु त्रिधाभूतं मुहुर्म्मुहुः ।
हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत् ॥
कदाचित् वैष्णवं कायं ब्राह्म्ये काये लयं ब्रजेत् ।
ब्राह्म्यं तथा वैष्णवे च शाम्भवं वैष्णवे तथा ॥
पृष्ठ ५/०९१
शाम्भवं वैष्णवे काये ब्राह्म्ये चाप्यथ शाम्भवम् ।
गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्म्मुहुः ॥
ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् ।
परमात्मनि गच्छन्तं लीनतां तद्वपुश्च यत् ॥”
इति कालिकापुराणे १३ अध्यायः ॥ * ॥
अस्य शरभरूपधारणकारणं यथा, --
“इति तेषां निगदतां श्रुत्वा वाक्यं जनार्द्दनः ।
उवाच शङ्करं देवं ब्रह्माणञ्च विशेषतः ॥
यत्कृते देवताः सर्व्वाः प्रजाश्च सकला इमाः ।
प्राप्नुवन्ति महद्दुःखं शीर्य्यते सकलं जगत् ॥
वाराहं सकलं कायं त्यक्तुमिच्छामि शङ्करः ।
त्वं त्याजयस्व तत् कायं यत्नात्मा शङ्कराधुना ॥
त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्वरहरं मुहुः ।
आप्यायन्तु तदा देवाः शङ्करो हन्तु पोत्रिणम् ॥
वासुदेवोऽपि तान् सर्व्वान् विसृज्य त्रिदशां-
स्तदा ।
वाराहं तेजसा हर्त्तुं स्वयं ध्यानपरोऽभवत् ॥
शनैः शनैर्यदा तेज आहरत्येष माधवः ।
तदा देहन्तु वाराहं सत्त्वहीनं व्यजायत ॥
तेजोहीनं यदा देहं ज्ञातं सर्व्वैरथामरैः ।
आससाद महादेवो यज्ञवाराहमद्भुतम् ॥
ब्रह्माद्यास्त्रिदशाः सर्व्वे महादेवमुपापतिम् ।
अनुजग्मुस्तदा तेज आधातुं स्मरनाशने ॥
ततः सर्व्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे ।
आदधे तेन बलवान् सोऽतीव समजायत ॥
ततः शरभरूपी स तत्क्षणाद्गिरिशोऽभवत् ।
ऊर्द्धाधोभागतश्चाष्टपादयुक्तः सुभैरवः ।
द्विलक्षयोजनोच्छ्रायः सार्द्धलक्षकविस्मृतः ॥”
इति कालिकापुराणे २९ अध्यायः ॥
अस्य विवाहो यथा, --
ईश्वर डवाच ।
“हिताय सर्व्वजगतां सम्भोगायात्मनस्तथा ।
दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये ॥
साहाय्यं तत्र कुर्वन्तु भवन्तो मम सांप्रतम् ।
मदर्थे तनयां कालीं याचन्तान्तु हिमाचलम् ॥
मार्कण्डेय उवाच ।
हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् ।
तेन संपूजितास्ते तु प्रोचुस्ते मुनयो गिरिम् ॥
यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः ।
शापानुग्रहणे शक्तो य एको जगतां पतिः ॥
यः संहरति सर्व्वाणि जगन्ति प्रलयोद्भवे ।
यो विभूतिप्रदो भक्ते नानारूपो मनोहरः ॥
स ते दुहितरं कालीं भार्य्यामादातुमिच्छति ।
यदि पश्यति त्वद्योग्यं वरं त्वं दुहितुः समम् ।
तदा प्रयच्छ तनयां कालीं शशिभृते गिरे ॥
मार्कण्डेय उवाच ।
इत्युक्तस्तैर्गिरिपतिर्वरं यद्धृदयस्थितम् ।
दुहितुश्च प्रियं ज्ञात्वा प्राप्यं मुदमगात्तदा ॥
दास्यामि सम्भवे पुत्त्रीं युष्माभिः प्रार्थित-
स्त्वहम् ।
पूर्व्वमेव तपस्तप्त्वा तयेशः पतिरीहितः ॥
धातुर्नियोजनमिदं कोऽन्याथा कर्त्तुमुत्सहेत् ।
कोऽन्यः प्रार्थयितुं शक्तः सुतां मम विना
हरात् ॥
हरेणानुगृहीता या तामन्यः कः समुत्सहेत् ।
हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति ॥
इत्युक्त्वा मेनया सार्द्धं सुतां दातुञ्च शम्भवे ।
अङ्गीकृत्य विसृष्टास्ते मुनयोऽगुर्महेश्वरम् ॥
ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः ।
शैलराजो यदाचष्ट तदूचुर्मदनारये ॥
हिमवांस्तनयां दातुं तुभ्यमुत्सहते हर ।
यदिदानीं त्वया कर्त्तुं युज्यते क्रियतान्तु तत् ॥
अस्मांश्चाप्पनुजानीहि हर गन्तुं निजास्पदम् ।
सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्ट-
वान् ॥
यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन् ॥
कालीविवाहदिवसे यूयमायात मां प्रति ।
इति चापि हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः ॥
अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् ।
समयं कारयामास विवाहाय हरो गिरिम् ॥
माधवे मासि पञ्चम्यां सितपक्षे गुरोर्द्दिने ।
चन्द्रे चोत्तरफल्गुन्यां भरण्यादौ स्थिते रवौ ॥
आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः ।
हरेण चिन्तिताः सर्व्वे तथा ब्रह्मादयः सुराः ॥
तथा च सर्व्वे दिक्पाला मुनयो ये तपोधनाः ।
शच्या सह तदा शक्रो ब्रह्मान्याद्यास्तु मातरः ॥
नारदश्च गतस्तत्र देवषिर्ब्रह्मणः सुतः ।
एतैः परिकरैः सार्द्धं गणैराप्यायितः स्वकैः ।
कन्याविवाहविधिना गिरिपुत्त्रीं हरोऽग्रहीत् ॥
विवाहे गिरिणा शम्भोः सर्पा येऽष्टौ तनौ
स्थिताः ।
ते जाम्बूनदसन्नद्धा अलङ्कारास्तदाभवन् ॥
द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः ।
शिरःस्थितश्चन्द्रखण्डः शोचिषा ज्वलितोऽभवत्
ललाटनेत्रमभवत्तढा रत्नं महार्घ्यकम् ।
विचित्रवसनं व्याघ्रकृत्तिरासौत्तदा द्विजाः ॥
विभूतिलेपोऽभूत्तस्य सुगन्धिमलयोद्भवः ।
चारुरूपो हरस्तत्र बभूवाद्भुतदर्शनः ॥
ततो देवाः सगन्धर्व्वाः सिद्ध्वा विद्याधरोरगाः ।
विस्मयं परमं प्रापुर्हरं दृष्ट्वा तथाविधम् ।
हिमवान् मुदितश्चाभूत् सहपुत्त्रैश्च मेनया ।
ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम् ॥
इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम् ॥
सर्व्वं शिवकरं यस्माद्भस्माद्यस्याभवत् सुराः ।
तस्मात् शिवोऽयं लोकेषु नास्मादन्योऽधिकः
शिवः ॥
महेश्वरसमायुक्तमीदृशं यः स्मरेद्धृदा ।
सततं तस्य कल्याणं वाञ्छितञ्च भविष्यति ॥
एवं काली महामाया योगनिद्रा जगत्प्रसूः ।
पूर्व्वं दाक्षायणी भूत्वा पश्चात् गिरिसुताभवत्
स्वयं समर्थापि सती काली सम्मोहितुं हरम् ।
तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा ।
एवं सम्मोहयामास कालिका चन्द्रशेखरम् ॥
इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा ।
हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम् ॥”
इति कालिकापुराणे ४३ ध्यायः ॥ * ॥
अस्य गणा यथा, --
पुलस्त्य उवाच ।
“हरोऽपि शम्बरे याते समाहूयाशु नन्दिनम् ।
प्राहामन्त्रय शैलादौ ये स्थितास्तव शासने ॥
ततो महेशवचनान्नन्दी सर्व्वगणाधिपः ।
उपस्पृश्य जलं धीमान् सस्मार गणनायकान् ॥
नन्दिना संस्मृताः सर्व्वे गणनाथाः सहस्रशः ।
समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदशेश्वरम् ॥
आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः ।
सर्व्वान्निवेदयामास शङ्कराय महात्मने ॥
नन्द्युवाच ।
यानेतान् पश्यसि शम्भो त्रिनेत्रान् जटिलान्
शुचीन् ।
एते रुद्रा इति ख्याताः कोट्य एकादशैव च ॥
वानरास्यान् पश्यसि यान् शार्द्दूलसमविक्र-
मान् ।
एते वै द्वारपालास्ते मन्नामानो यशोधनाः ॥
षण्मुखान् पश्यसि यांश्च शक्तिपाणीन् शिखि-
ध्वजान् ।
षट् च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमार-
कान् ॥
एतावत्यस्तथा कोट्यः शाखा नाम षडाननाः ।
विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर ! ॥
सप्तकोटिशताः शम्भो अमी वै प्रथमोत्तमाः ।
एकैकं प्रति देवेश तावत्यो ह्यपि मातरः ॥
भग्नारुणितदेहाश्च त्रिनेत्राः शूलपाणयः ।
एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः ॥
तया पाशुपताश्चान्ये भस्मप्रहरणा विभो ।
एते गणास्त्वसंख्याताः साहाय्यार्थं समागताः ॥
पिनाकधारिणो रौद्रा गणाः कालमुखाः परे ।
तव भक्ताः समायाता जटामण्डलिनोऽद्भुताः ॥
खट्टाङ्गयोधिनो वीरा रक्तचर्म्मसमावृताः ।
इमे प्राप्ता गणा योद्ध्वुं महाव्रतिन उत्तमाः ॥
दिग्वाससो यौनिनश्च घण्टाप्रहरणास्तथा ।
निरामया नाम गणाः समायाता जगद्गुरो ॥
सार्द्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ।
समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः ॥
महापाशुपता नाम चक्रशूलधरास्तथा ।
भैरवो विष्णुना सार्द्धमभेदेनार्च्चितो हि यैः ॥
इमे मृगेन्द्रवदनाः शूलबाणधनुर्धराः ।
गणास्त्वद्रोमसम्भूता वीरभद्रपुरोगमाः ॥
एते चान्ये च बहवः शतशोऽथ सहस्रशः ।
साहाय्यार्थं तवायाता यथापीत्यादिशस्व तान्
ततोऽभ्येत्य गणाः सर्व्वे प्रणेमुर्वृषकेतनम् ॥”
इति वामनपुराणे ६४ अध्यायः ॥
अस्य लिङ्गपूजादि शिवलिङ्गशब्दे द्रष्टव्यम् ॥
अस्मात् कोचविहारदेशीयराजवंशोत्पत्तिर्यथा,
श्रीदेव्यु वाच ।
“देवेश परमेशान सर्व्वज्ञ सर्बपूजित ।
क्व गच्छसि मुहुर्नाथ कृपया वद शङ्खर ॥
पृष्ठ ५/०९२
ईश्वर उवाच ।
कोचाख्याने च देशे च योनिगर्त्तसमीपतः ।
साध्वी सती वाम्बिका हि रेवती जनविश्रुता ॥
म्लेच्छदेशोद्भवा या तु योगिनी सुन्दरी मता ।
तत्कुचौ कठिनौ द्वन्द्वौ योनेस्तस्याश्च पीनता ॥
भिक्षाचारप्रसङ्गेन गच्छामि च दिवानिशम् ।
तत्सन्निधौ महेशानि तया मे रमणं महत् ॥
देव्युवाच ।
कुत्रासीत् किं तपस्तप्तं कथं प्राप्तं महीतलम् ।
त्वया सार्द्धं रतिर्यत् स्यात् नाल्पस्य तपसः
फलम् ॥
तवापि च कृपा तस्यां लक्ष्यते महती मया ।
इदानीं किमभूत् सा हि कृपया परया वद ॥
ईश्वर उवाच ।
नगेन्द्रतनये बाले शृणु मत्प्राणवल्लभे ।
शावरोचरितं किञ्चित् कथयामि शुचिस्मिते ॥
रसक्रीडाञ्चकाराहमेकाम्रकानेन मुदा ।
वेदाङ्गसम्भवा साध्वी योगिनी सा सुरी मता ।
नाभूत्तस्याः सुतृप्तिर्म्मे मत्क्रियायां नगात्मजे
मामाप्तुमुत्कटं तप्तं द्वये मे क्षेत्रकामदे ॥
एकाम्रगहने देवि पर्व्वते तीर्थसङ्कुले ।
तत्रैको ब्राह्मणो जातो भिक्षार्थं तामुवाच ह ॥
न दत्तमुत्तरं तस्मै भिक्षा तिष्ठतु दूरतः ।
ततः शशाप विप्रस्तां म्लेच्छतां याहि दुर्म्मदे ।
इत्युक्त्वा स ययौ विप्रो म्लेच्छत्वमाप योगिनी ।
अतोऽर्थिनः समर्थश्चेत् याचितं न ददाति च ॥
स दुर्गतिमवाप्नोत्यसमर्थो विनयञ्चरेत् ।
तस्यास्तु तपसा देवि क्रीतोऽहमभवं सदा ॥ * ॥
अतस्तया रतिर्जाता मम कामिनि सर्व्वदा ।
तस्याः पुत्त्रो विनुसिंहो मदौरससमुद्भवः ॥
एकेन जितवान् कामान् सौमारान् गौडपञ्च-
मान् ।
विनिर्ज्जित्य नृपान् सर्व्वान् एकः श्रीमान्
महामतिः ॥
तस्यापि बहवः पुत्त्राः पृथिवीपरिपालकाः ।
कुवाचा धार्म्मिकाः सर्व्वे राजानो युद्धदुर्म्मदाः ॥
ततोऽपि स विनुसिंहो योगमाश्रित्य विह्वले ।
त्रिष्ठत्यव्यक्तरूपेण पट्टे आकल्पमम्बिके ॥
कामात् सा माधवी देवि मद्देहे लीनतां गता
यथा जाया नन्दिमाता तथेयं योगिनी मता ॥
यथा पुत्त्रो भृङ्गरीटिस्तथा विनुर्म्ममात्मजः ।
विनुसिहोऽपि कल्पान्ते परां सिद्धिमवाप्स्यति ॥
तद्वशजास्तु राजानः सर्व्वे कैलासवासिनः ।
भविष्यन्ति महात्मानो गणेशाः सर्ब्बशालिनः ॥
रूपयौवनसम्पन्नैर्देवकन्यागणैः सह ।
विहरन्ति सदा देवि क्रीडन्ति भैरवा यथा ॥ * ॥
यदा यदा ब्रह्मशापः कामाख्यायां भवेत् पुनः
तदा तदावतीर्य्याहं विश्वकामस्य पालकः ॥
तथा तद्वंशजाः सर्व्वे भवेयुः कामपालकाः ।
कल्पान्तमेवं देवेशि यावत् शापो विमुच्यते ॥
तावदेव महामाये मद्वोर्य्यात् क्रीडते ध्रुवम् ।
कल्पमेवं महेशानि कलौ वर्षशतत्रयम् ॥
यावत्तु परमेशानि भुङक्ते शापं परात्मिके ।
कामाख्या हि महामाये तदन्ते सफला भवेत् ॥
एव ते कथितं देवि ब्रह्मशापविमोचनम् ।
कामाख्याया महेशानि साकल्येन मया ध्रुवम् ॥”
इति श्रीयोगिनीतन्त्रेदेवीश्वरसंवादे चतुर्विंशति
साहस्रे १३ पटलः ॥ मोक्षः । कीलग्रहः ।
वालुकम् । गुग्गुलुः । वेदः । पुण्डरीकद्रुमः ।
इति मेदिनी ॥ कृष्णधुस्तूरः । पारदः । इति
राजनिर्घण्टः ॥ देवः । इति शब्दरत्नावली ॥
लिङ्गः । इत्युणादिकोषः ॥ विष्कुम्भादिसप्त-
विंशतियोगान्तर्गतविंशतितमयोगः । तत्र जात-
फलम् ।
“महेशभक्तः श्रुतिपारदृश्वो
जितेन्द्रियश्चारुतनुर्म्महात्मा ।
शिवाभिधानः खलु योगराजः
प्रसूतिकाले यदि मानवानाम् ॥”
इति कोष्ठीप्रदीपः ॥

शिवकः, पुं, कीलकः । इत्यमरः ॥ द्वेखोँटा इति

ख्याते । गवां गात्रकण्डूयनार्थं गोष्ठे निखात-
स्तम्भे इति सुभूतिः । कण्डूयनार्थकाष्ठे इति
केचित् । बन्धनखट्टे इति केचित् । यत्र बद्धा
गौर्दुह्यते इति केचित् । श्यति गात्रकण्डुं शिवः
शो तनुकरणे नाम्नीति डिवः स्वार्थे कन् कः
शिवकस्तालव्यादिः । कील्यतेवध्यतेऽस्मिन् कील
कील बन्धे घञ् स्वार्थे कः कीलकः । इति
भरतः ॥

शिवकरः, पुं, (शिवस्य करः ।) चतुर्विंशति-

भूतार्हदन्तर्गतजिनविशेषः । इति हेमचन्द्रः ॥
मङ्गलकारके, त्रि ॥

शिवकाञ्ची, स्त्री, पुरीविशेषः । यथा, --

“शिवकाञ्ची विष्णुकाञ्ची काञ्चीयुग्गञ्च सम्मतम्
एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ॥
काशी शिवत्रिशूलस्था काञ्ची हरिहरात्मिका
वामदक्षिणहस्ताभ्यां दधार द्विजपुङ्गवाः ॥”
इति भूतशुद्धितन्त्रम् ॥

शिवकीर्त्तनः, पुं, (शिवं सुखकरं कीर्त्तनं यस्य ।)

भृङ्गरीटः । विष्णुः । इति मेदिनी ॥ शैवः ।
इति शब्दरत्नावली ॥

शिवगतिः, पुं, भूतार्हद्विशेषः । इति हेमचन्द्रः ॥

शिवघर्म्मजः, पुं, (शिवघर्म्माज्जातः । जन् + डः ।)

मङ्गलग्रहः । अस्य प्रमाणं मङ्गलशब्दे द्रष्ट-
व्यम् ॥

शिवङ्करः, त्रि, मङ्गलकर्त्ता । तत्पर्य्यायः । क्षेम-

ङ्करः २ अरिष्टतातिः ३ शिवतातिः ४ । इति
हेमचन्द्रः ॥ (पुं, बालग्रहविशेषः । यथा, हरि-
वंशे । १६६ । ७५ ।
“संघट्टनः संकुचमः काष्ठभूतः शिवङ्करः ॥”)

शिवचतुर्दशी, स्त्री, (शिवप्रिया चतुर्द्दशी ।)

चतुर्दशीकर्त्तव्यशिवव्रतविशेषः । यथा, --
नन्दिकेश्वर उवाच ।
“शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम्
त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्द्दशी ॥
मार्गशीर्षे त्रयोदश्यां सितायामेकभक्तकम् ।
प्राथयेद्देवदेवेशं त्वामहं शरणं गतः ॥
चतुर्द्दश्यां निराहारः समभ्यर्च्च्य च शङ्करम् ।
सुवर्णवृषभं दत्त्वा भोक्ष्यामीति परेऽहनि ॥
एवं नियमकृत् सुप्त्वा प्रातरुत्थाय मानवः ।
कृतस्नानजपः पश्चादुमया सह शङ्करम् ॥
पूजयेत् कमलैः शुक्लैर्गन्धधूपानुलेपनैः ।
पादौ नमः शिवायेति शिरः सर्व्वात्मने नमः ॥
ललाटं वामदेवाय नेत्राणि हरये नमः ।
मुखमिन्दुमुखायेति श्रीकण्ठायेति कन्धरम् ॥
सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ ।
अघोरहृदयायेति हृदयञ्चापि पूजयेत् ॥
स्तनौ तत्पुरुषायेति तथेशायेति चोदरम् ।
पार्श्वे चानन्तधर्म्माय ज्ञानभूताय वै कटिम् ॥
ऊरू चानन्तवैराजसिंहायेति च पूजयेत् ।
अनन्तैश्वर्य्यनाथाय जानुनी चार्च्चयेद्बुधः ॥
प्रधानाय नमो जङ्घेगुल्फौ व्योमात्मने नमः ।
व्योमकेशात्मरूपाय पृष्ठमभ्यर्च्चयेन्नरः ॥
नमः पुष्ट्यै नमस्तुष्टै पार्व्वतीञ्चापि पूजयेत् ।
ततस्तु वृषभं हैममुदकुम्भसमन्वितम् ॥
शुक्लमाल्याम्बरयुतं पञ्चरत्नपरिष्कृतम् ।
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मनाय निवेदयेत् ॥
प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक् ।
ततस्तु विप्रानन्नेन तर्पयेच्छक्तितः शुभान् ॥
पृषदाज्यञ्च संप्राश्य स्वपेद्भूमावुदड्मुखः ।
पञ्चदश्यां ततः पूज्य विप्रान् भूञ्जीत वाग्यतः ॥
तद्वत् कृष्णचतुर्द्दश्यामेतत् सर्व्वं समाचरेत् ।
चतुर्द्दशीषु सर्व्वासु कुर्य्यात् पूर्व्ववदर्च्चनम् ॥
ये तु मासविशेषाः स्युस्तान्निबोध क्रमादिह ।
मार्गशीर्षादिमासेषु स्तवमेतदुदीरयेत् ॥
शङ्कराय नमम्तुभ्यं नमस्ते करवीरकम् ।
त्र्यम्बकाय नमस्तेऽस्तु महेश्वर नमः परम् ॥
नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् ।
नमः पशुपते नाथ नमस्ते शम्भवे पुनः ॥
नमस्ते परमानन्द नमः सोमार्द्धधारिणे ।
नमो भीमाय इत्येवं त्वामहं शरणं गतः ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
पञ्चगव्यं तथा विल्वं यवान् गोशृङ्गवारि च ॥
तिलांश्च कृष्णान् विधिवत् प्राशनं क्रमशः
स्मृतम् ।
प्रतिमासं चतुर्द्दश्योरेकैकं प्राशनं स्मृतम् ॥
मन्दारैर्म्मालतीभिश्च तथा धुस्तूरकैरपि ।
सिन्धूवारैरशोकैश्च मल्लिकाभिश्च पाटलैः ॥
अर्कपुष्पकदम्बैश्च शतपत्रैस्तथोत्पलैः ।
एकैकेन चतुर्द्दश्यामर्च्चयेत् पार्व्वतीपतिम् ॥
पुनश्च कार्त्तिके मासि संप्राप्ते तर्पयेत् द्विजान् ।
अन्नैर्नानाविधैर्भक्षैर्वस्त्रमाल्यविभूषणैः ॥
कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः ।
उमामहेश्वरं हैमं वृषभञ्च गवा सह ॥
मुक्ताफलाष्टकयुतं सितनेत्रत्रयावृतम् ।
सर्व्वोपस्करयुक्तायां शय्यायामुदकुम्भयोः ॥
ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् ।
पृष्ठ ५/०९३
स्थाप्य विप्राय शान्ताय वेदव्रतपराय च ॥
ज्येष्ठसामविदे देयं न वकव्रतिने क्वचित् ।
गुणज्ञे श्रोत्रिये दद्यादाचार्ये तत्त्ववेदिनि ॥
अव्यङ्गाङ्गाय सौम्याय सदाकल्याणकारिणि ।
सपत्नीकाय संपूज्य माल्यवस्त्रविभूषणैः ॥
गुरौ सति गुरोर्देयं तदभावे द्विजातये ।
न वित्तशाठ्यं कुर्व्वीत कुर्व्वन् मोहात् पतत्यधः
अनेन विधिना यस्तु कुर्य्यात् शिवचतुर्द्दशीम् ।
सोऽश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।
पितृभिर्भ्रातृभिश्चैव तत् सर्व्वं नाशमाप्नुयात् ॥
दीर्घायुरारोग्यकुलाभिवृद्धि-
रत्राक्षयामुत्र चतुर्भुजत्वम् ।
गणाधिपत्यं दिवि कल्पकोटि-
शतं वसित्वा पदमेति शम्भोः ॥
न बृहस्पतिरप्यनन्तमस्याः
पहल्मिन्द्रो न पितामहोऽपि वक्तुम् ।
न च सिद्धगणोऽप्यलं न चाहं
यदि जिह्वायुतकोटयोऽपि वक्त्रे ॥
भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा
शृणोति च विमत्सरः सकलपापविध्वंसिनीम् ।
इमां शिवचतुर्द्दशीममरकामिनीकोटयः
स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा ॥
या वाथ नारी कुरुते ह भक्त्या
भर्त्तारमापृच्छ सुतं गुरुं वा ।
सापि प्रसादात् परमेश्वरस्य
परं पदं याति पिणाकपाणैः ॥”
इति मात्स्ये शिवचतुर्द्दशीव्रतं ८० अध्यायः ॥ * ॥
फाल्गुनी कृष्णा चतुर्द्दशी । तत्र शिवव्रतं कर्त्त-
व्यम् । तस्य विवरणं शिवरात्रिशब्दे द्रष्टव्यम् ॥
माघ फाल्गुन-चैत्र-वैशाख-श्रावण-भाद्रेषु
दिवादण्डा यथा ।

शिवज्ञा, स्त्री, (शिवं जानातीति । ज्ञा + कः ।)

शिवोपासिका । मङ्गलज्ञात्री । शिवं जानाति
या इत्यर्थे डप्रत्ययः ॥

शिवज्ञानं, क्ली, (शिवस्य ज्ञानमस्मात् ।) शुभा-

शुभकालबोधकशास्त्रम् । यदा यात्रादिक्रिया
अवश्यकर्त्तव्या ज्योतिः शास्त्रोक्तशुभक्षणप्राप्तिश्च
न भवति तदा शिवज्ञानोक्तशुभसमये कर्म्म
कर्त्तुमुचितं भवति । एतच्छिवज्ञानोक्तमाहेन्द्र-
योगे कृतयात्रादिर्जयं अमृतयोगे कार्य्यसिद्धिं
वक्रे कार्य्यनाशं शून्ये मृत्युं अपमानं वा
प्राप्नोति । दिवारात्रौ माघ-फाल्गुन-चैत्र-
वैशाखश्रावणभाद्रेषु एते योगा एकरुपाः
आश्विनकार्त्तिकाग्रहायणपौषेषु एकप्रकाराः
ज्यैष्ठाषाढयोश्च एकरूपा भवन्ति ॥ यथा, --
माघ फाल्गुन-चैत्र-वैशाख-श्रावण-भाद्रेषु
दिवादण्डा यथा ।
रविवारे मा २ अ ८ शू ८ मा २ व १० ।
सोमवारे अ ४ व ८ अ ६ व ६ मा ४ शू २ ।
मङ्गलवारे व ४ शू २ अ ६ व ४ शू २ अ ४ शू २ अ ४ शू २ ।
बुधवारे अ ४ व ६ अ ४ शू २ व ४ मा ४ अ ४ शू २ ।
गुरुवारे मा ४ शू २ व ६ मा ६ शू ४ व ४ शू ४ ।
शुक्रवारे अ २ व २ अ ६ व ६ अ ६ शू ४ अ ४ ।
शनिवारे शू ४ व ४ शू २ अ ८ शू ४ व ४ शू ४ ।
तेषु रात्रिदण्डा यथा ।
रविवारे शू २ मा २ अ ४ व ८ मा ८ शू ६
सोमवारे व २ अ ६ व ६ अ ८ शू ८ ।
मङ्गलवारे अ २ व ४ शू २ अ ६ व ६ अ ४ व ४ शू २ ।
बुधवारे शू २ अ ६ मा ४ व ४ शू ४ अ १० ।
गुरुवारे व १४ शू ४ व ४ अ २ शू ६ ।
शुक्रवारे व ४ अ ४ शू ४ मा २ व ६ शू ४ अ २ मा २ शू २ ।
शनिवारे शू २ व ४ अ ६ व ४ अ ४ व २ अ ४ शू ४ ।
आश्विन-कार्त्तिकाग्रहायणपौषेषु
दिवादण्डा यथा ।
रविवारे शू २ अ ६ व ८ अ ८ शू २ मा २ शू २ ।
सोमवारे अ ४ शू ४ अ ६ व १६ ।
मङ्गलवारे अ २ व २ अ १० व ६ शू ६ व ४ ।
बुधवारे अ २ मा २ अ २ व ६ अ ६ शू २ मा ६ व ४ ।
गुरुवारे अ ४ व ४ शू ४ व ६ शू २ अ ४ व ६ ।
शुक्रवारे अ २ व २ अ ६ व ६ अ ८ शू २ अ ४ ।
शनिवारे अ २ व २ अ ६ व ६ अ ८ शू २ अ ४ ।
तेषु रात्रिदण्डा यथा ।
रविवारे शू २ व ४ अ ४ व ६ अ ४ शू २ अ ८ ।
सोमवारे व ६ अ ८ व ८ अ २ व ६ ।
मङ्गलवारे मा ६ अ २ शू २ अ ६ व ४ मा ४ शू २ अ ४ ।
बुधवारे व २ अ २ व ४ अ १६ व २ शू ४ ।
गुरुवारे शू २ अ ८ व ६ अ ८ शू २ अ ४ ।
शुक्रवारे व २ अ ८ व ६ अ ८ शू २ अ ४ ।
शनिवारे व १४ शू ४ व ४ अ २ शू ६ ।
पृष्ठ ५/०९४
ज्यैष्ठाषाढयोर्दिवादण्डा यथा ।
रविवारे शू ४ अ ६ व ६ अ ६ व ४ मा २ शू २ ।
सोमवारे व ८ अ ४ शू ६ व ८ शू ४ ।
मङ्गलवारे अ ६ शू ४ अ ६ व ६ मा २ अ २ मा २ शू २ ।
बुधवारे शू २ व ४ अ ८ व ६ अ ८ शू २ ।
गुरुवारे मा २ शू २ व ६ मा ४ शू ४ व ६ अ ६ ।
शुक्रवारे शू २ मा २ व ६ मा २ शू ४ अ ६ व ४ शू ४ ।
शनिवारे मा २ शू २ व ६ मा ६ शू ४ व ४ अ ६ ।
तत्र रात्रिदण्डा यथा ।
रविवारे अ ४ शू ४ व ४ अ ६ व ८ शू ४ ।
सोमवारे व ८ अ ८ शू ४ अ ४ शू २ मा २ शू २ ।
मङ्गलवारे अ २ व ४ मा ४ शू ४ व २ अ ६ शू २ व ६ ।
बुधवारे अ १० शू २ व ४ अ ४ शू १० ।
गुरुवारे शू २ अ ६ शू २ व ४ शू २ अ ६ शू ४ अ ४ ।
शुक्रवारे अ ६ शू २ व ४ शू ६ अ ६ शू २ अ ४ ।
शनिवारे शू २ अ २ व ८ शू २ अ ६ शू ४ अ ६ ।
मतान्तरे अस्य प्रमाणं यथा, --
“माहेन्द्रे विजयो नित्यं अमृते कार्य्यशोभनम् ।
वक्रे कार्य्यविलम्बः स्याच्छून्ये च मरणं ध्रुवम् ॥
वैशाखादिश्रावणान्तं एकभावेन संवहेत् ।
अमृतादि दिवारात्रौ चतुर्मासं यथाक्रमम् ॥
याममानं दिवामाने ज्ञेयं सर्व्वत्र मासके ।
तत्प्रमाणेन ज्ञातव्यं दण्डमानं विचक्षणैः ।
रात्रिमानप्रमाणेन ज्ञेयो दण्डप्रमाणकः ॥
न वारतिथिनक्षत्रं न योगकरणं तथा ।
शिवज्ञानं समासाद्य सर्व्वं मुनिर्विचारयेत् ॥”
तथा ।
“भाद्रादिमार्गपर्य्यन्तं सप्तवारे समादिशेत् ।
शून्यवक्रादियोगं हि पीषादिचैत्रतस्तथा ॥”
इति ज्योतिषे शिवज्ञानम् ॥ * ॥
अनेकप्रकारं शिवज्ञानं शिवाज्ञा शिवालिखितं
अमृतघटी च दृष्टं किन्तु परस्परमनैक्यं जातम् ॥

शिवतातिः, स्त्री, कल्याणकारिणी । इति हेम-

चन्द्रः ॥ अस्य पर्य्यायः शिवङ्करशब्दे द्रष्टव्यः ॥

शिवदत्तं, क्ली, (शिवेन दत्तम् ।) विष्णुचक्रम् ।

इति केचित् ॥ शिवेन शिवाय वा दत्तं द्रव्य-
मात्रञ्च ॥

शिवदारु, क्ली, (शिवस्य दारु ।) देवदारुवृक्षः ।

इति राजनिर्घण्टः ॥

शिवदूतिका, स्त्री, (शिवदूती + स्वार्थे कन् ।)

मातृकाविशेषः । इति शब्दरत्नावली ॥

शिवदूती, स्त्री, (शिवेन दूतयति सन्देशं प्रापयती-

न्यर्थे दूत + णिच् + पचाद्यच् । यद्वा, शिवो दूतो
यस्याः । गौरादेराकृतिगणत्वात् ङीष् ।) दुर्गा ।
इति त्रिकाण्डशेषः ॥ योगिनीविशेषः । यथा,
“ब्रह्माणो प्रथमा प्रोक्ता ततो माहेश्वरी परा ।
कीमारी वेष्णवी चैव वाराही पञ्चमी तथा ॥
नारमिंहो तथैवैन्द्री शिवदूती तथाष्टमी ।
एताः पूज्या महाभागा योगिनीः काम-
दायिनोः ॥”
तस्या उत्पत्तिमन्त्रध्यानादि यथा, --
“कौषिक्या हृदयाद्देवी निःसृता ध्यानतो
हरेः ।
शिवदूतीति विख्याता शिवाशतसुसंवृता ॥
मन्त्रमस्याः प्रवक्ष्यामि धर्म्मकामार्थदायकम् ।
यत् श्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् ॥
येनाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् ।
न चिराल्लभते कामान्नरः सर्व्वजयी भवेत् ॥
अन्तःसमाप्तिसहितो बिन्द्विन्दुभ्यां दशावरा ।
स्वरेण पान्त्यदन्त्येन संसृष्टोऽन्तेन पूर्वशः ॥
स एव बिन्दुयुगलपूर्वस्थोपान्त्यपावकः ।
षष्ठस्वरकलाशून्यैः संहितः प्रथमस्थितः ॥
मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः ।
रूपमस्याः प्रवक्ष्यामि शृणु वत्सक संमतम् ॥
चतुर्भुजं महाकायं सिन्दूरसदृशद्युतिम् ।
रक्तदन्तं मुण्डमालाजटाजूटार्द्धचन्द्रधृक् ॥
नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् ।
व्याघ्रचर्म्मपरीधानं दक्षिणे शूलचक्रधृक् ॥
वामे पाशं तथा चर्म्म बिभ्रदूर्द्ध्वं परिक्रमात् ।
स्थूलवक्त्रञ्च पीनोष्ठं तुङ्गमूर्त्तिं भयङ्करम् ॥
निक्षिप्य दक्षिणं पादं सन्तिष्ठेत् कुणपोपरि ।
वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् ॥
ईदृशं शिवदूत्यास्तु मूर्द्ध्नि ध्यायेद्विभूतये ।
ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् ॥
पूजनादचिराद्देवो सर्व्वान् कामान् ददाति च ॥
यः शिवाविरुतं श्रुत्वा शिवदूतों शिवप्रदाम् ।
प्रणमेत् साधको भक्त्या तस्य कामाः करे
स्थिताः ॥
यदा जघान जगतां रक्तबीजं हिताय वै ।
महादेवी महामाया तदास्याः कायतः सृता ॥
दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका ।
तेन सा शिवदूतीति देवैः सर्व्वैः प्रगीयते ॥
क्षेमङ्करी च शान्ता च वेदमाता महोदरी ।
कराला कामदा देवी भगास्या भगमालिनी ॥
भगोदरी भगाहारा भगजिह्वा भगा तथा ।
एता द्वादश योगिन्यः पूजने परिकीर्त्तिताः ॥
एता द्वादश योगिन्यः शिवदूत्याः सदैव हि ।
विचरन्ति स्वयं देवी यत्र यत्रैव गच्छति ॥”
इति कालिकापुराणे उत्तरतन्त्रे ५० अध्यायः ॥
प्रमाणानन्तरं वामने ५३ अध्याये मार्कण्डेय-
पुराणे देवीमाहात्म्ये रक्तबीजवधाध्याये च
द्रष्टव्यम् ॥

शिवद्रुमः, पुं, (शिवप्रियो द्रुमः ।) विल्ववृक्षः ।

इति राजनिर्घण्टः ॥

शिवद्विष्टा, स्त्री, (शिवेन द्विष्टा तत्पूजनानर्ह-

त्वात् ।) केतकी । इति राजनिर्घण्टः ॥

शिवधातुः, पुं, (शिवस्य धातुः ।) पारदम् ।

पारदं शिववीर्य्यं स्यादिति दर्शनात् । गोदन्त-
मणिः । इति केचित् ॥

शिवनाभिः, पुं, (शिवस्य नाभिरिव ।) शिवलिङ्ग-

विशेषः । यथा, --
“उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् ।
चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तकम् ॥
उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः ।
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ॥
शिवनाभिमयं लिङ्गं प्रतिपूज्य महर्षिभिः ।
श्रेष्ठञ्च सर्व्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः ॥”
इति वीरमित्रोदयः ॥

शिवपुरी, स्त्री, (शिवस्य पुरी ।) काशी । इति

हेमचन्द्रः ॥

शिवप्रियं, क्ली, (शिवस्य प्रियम् ।) रुद्रा-

क्षम् । इति राजनिर्घण्टः ॥ शिवस्य प्रियद्रष्ये
त्रि ॥

शिवपियः, पुं, (शिवस्य प्रियः ।) वकवृक्ष । इति

जटाधरः ॥ स्फटिकः । धुस्तूरः । इति राजनिर्घण्टः ॥