शब्दकल्पद्रुमः/शाल

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/०६०

शाल, ङ ऋ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) कत्थने प्रशंसायाम् । ङ,
शालते गुणिनं गुणी । ऋ, अशशालत् ।
इति दुर्गादासः ॥

शालः, पुं, (शल्यते प्रशंस्यते इति । शाल +

घञ् ।) मत्स्यभेदः । गजाड इति ख्यातः ।
प्राकारः । वृक्षविशेषः । तत्पर्य्यायः । सर्जः २
कार्ष्यः ३ अश्वकर्णकः ४ शस्यसम्बरः ५ । इत्य-
मरः ॥ शङ्कुवृक्षः ६ । इति रत्नमाला ॥ नद-
भेदः । इति शब्दरत्नावली ॥ शालनृपः । स तु
शालिवाहनराजः । इति विश्वः ॥ वृक्षमात्रम् ।
इति राजनिर्घण्टः ॥ * ॥ शालो झसे धीवर एव
दाश इत्युष्मभेदात्तालव्यादिः । दन्त्यादिश्च ।
कैवर्त्त इव बद्धराजीवोत्पलसालो वसन्तकाल
आजगाम । इति वासवदत्तश्लेषात् । कैवर्त्त-
पक्षे सालो मत्स्यविशेषः । वसन्तपक्षे सालस्य
पुष्पं सालम् । इति भरतः ॥

शालग्रामः, पुं, विष्णुमूर्त्तिविशेषः । स च गण्ड-

क्युद्भववज्रकीटकृतचक्रयुक्तशिला द्वारकोद्भव-
तादृशशिला च । तस्य माहात्म्यलक्षणादि
यथा, --
“प्रसङ्गात् कथयिष्यामि शालग्रामशिलार्च्चनम् ।
निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्यायन् स्तुवन्
जपन् ॥
शङ्खचक्रगदापद्मं केशवाख्यो गदाधरः ।
साब्जकौमोदकीचक्रशङ्खी नारायणो विभुः ॥
स च शङ्खाब्जपदो माधवः श्रीगदाधरः ।
गदाब्जशङ्खचक्री वा गोविन्दाख्यो गदाधरः ॥
पद्मशङ्खादिगदिने विष्णुशङ्खाय वै नमः ।
सशङ्खाब्जगदाचक्रमधुसूदनमूर्त्तये ॥
नमो गदासिचक्राब्जयुक्तत्रैविक्रमाय च ।
साविकौमोदकीपद्मशङ्खवामनमूर्त्तये ॥
शङ्खाब्जचक्रगदिने नमः श्रीधरमूर्त्तये ।
हृषीकेश साविगदाशङ्खपद्मिन्नमोऽस्तु ते ॥
साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे ।
दामोदर शङ्खगदाचक्रपद्मिन्नमोऽस्तु ते ॥
साविशङ्खगदाब्जाय वासुदेव नमो नमः ।
शङ्खाब्जचक्रगदिने दमः सङ्कर्षणाय च ॥
शङ्खचक्रगदाब्जाय धृतप्रद्युम्नमूर्त्तये ।
नमोऽनिरुद्धाय गदाशङ्खाब्जवरधारिणे ॥
साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये ।
नमोऽधोक्षजरूपाय गदाशङ्खविधारिणे ॥
नृसिंहमूर्त्तये पद्मगदाशङ्खविधारिणे ।
पद्माविशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये ॥
सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः ।
उपेन्द्रं गदिनं साविपद्मशङ्ख नमोऽस्तु ते ॥
सचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये ।
सगदाब्जाविशङ्खाय नमः श्रीकृष्णमूर्त्तये ॥
शालग्रामशिलाद्बारगतलग्नद्विचक्रधृक् ।
शुक्लाभाख्यश्च सोऽव्याद्बः सदैव श्रीगदाधरः ॥
लग्नद्विचक्रो चक्राभः पूर्व्वभागस्तु पुष्कलः ।
सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ॥
स दीर्घः स शिरश्छिद्रो योऽनिरुद्धस्तु वर्त्तुलः ।
नानाहारद्बिरेखश्च अथ नारायणोऽसितः ॥
मध्ये गदाकृता रेखा नाभिपद्ममहोन्नतः ।
पृथुचक्रो नृसिंहो वः कपिलोऽव्यात्त्रिबिन्दुकः ॥
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः ।
वराहशक्तिलिङ्गोऽव्याद्विषमद्बयचक्रकः ॥
नीलस्त्रिरेखः स्थूलोऽथ कूर्म्ममूर्त्तिः स्वबिन्दुमान् ।
कृष्णः सवर्त्तुलावर्त्तः पाण्डरोन्नतपृष्ठकः ॥
श्रीधरः पञ्चरेखोऽव्याद्वनमालागदाङ्कितः ।
वामनो वर्त्तुलो नाम वामचक्रः सुरेश्वरः ॥
नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः ।
स्थूलो दामोदरो नीलो मध्ये चक्रः सुनीलकः ॥
संकीर्णद्वारको वोऽव्यादथ ब्रह्मा सुमोहितः ।
सदीर्घरेखा शुषिर एकचक्राम्बुजः पृथुः ॥
प्रत्युच्छिद्रः स्थूलचक्रः कृष्णोऽबिन्दुश्च बिन्दुमत् ।
हयग्रीवोऽङ्कुशाकारः पञ्चरेखः ममन्ततः ॥
वैकुण्ठोऽमलवद्भाति एकचक्रात्मकोऽसितः ।
मत्स्यो दीर्घाम्बुजाकारो द्बाररेखस्तु पाण्डरः ॥
वामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः ।
शालग्रामे द्वारकायां स्थिताय गदिने नमः ॥
एकेन लक्षितो वोऽव्याद्गदाधारी सुदर्शनः ।
लक्ष्मीनारायणो द्वाभ्यां त्रिभिर्मूर्त्तिस्त्रिविक्रमः ॥
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ।
प्रद्युम्नः षड्भिरेवाव्यात् सङ्कर्षण इतः स्तुतः ॥
पुरुषोत्तमोऽष्टभिः स्याच्च नवव्यूहो नवान्नितः ।
दशावतारो दशभिरनिरुद्धोऽवतादथ ।
द्वादशात्मा द्वादशभिरत ऊर्द्ध्वो ह्यनन्तकः ॥”
इति पाद्मे पातालखण्डे १० अध्यायः ॥
अपि च ।
ईश्वर उवाच ।
“शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च ।
नित्यन्तु श्रीहरेः पूजा केवलेन जलेन तु ॥
गण्डक्यामेकदेशे तु शालग्रामस्थलं महत् ।
पाषाणान्तर्भवं यत्तत् शालग्राममिति स्थितम् ॥
शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् ।
किं पुनर्जननं तत्र हरेः सान्निध्यकारणम् ॥
शालग्रामैकयजनात् शतलिङ्गफलं लभेत् ।
बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ॥
गोष्पदेन च चिह्नेन तेन वै त्रायते नरः ।
आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठाञ्च मेच-
काम् ॥
अकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा ।
सर्व्वकामप्रदा सौम्या कराला भयदुःखदा ॥
स्निग्धा च श्रीकरी नित्यं रूक्षा दारिद्र्य-
दायिका ।
क्षुद्रा क्षुद्रफला प्रोक्ता स्थूला स्थूलफलप्रदा ॥
सदा काष्ठे स्थितो वह्निर्मन्थने च प्रकाशते ।
यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥
प्रत्यहं द्बादश शिलाः शालग्रामस्य योऽर्च्चयेत् ।
द्वारवत्याः शिलायुक्ताः स वैकुण्ठे महीयते ॥
शालग्रामशिलायान्तु गह्वरं लक्ष्यते नरः ।
पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पान्तरं दिवि ॥
शालग्रामशिला यत्र यत्र द्वारवतीशिला ।
मृते विष्णुपुरं याति कृतार्थं योजनत्रयम् ॥
जपपूजा च होमश्च सर्व्वं कोटिगुणं भवेत् ।
मनस्कामः सदाभीष्टं क्रोशमात्रं समन्ततः ॥
कीकटेऽपि मृतो याति वैकुण्ठभवनं नरः ।
शालग्रामशिलायां यो मूल्यमुत्पादयेन्नरः ॥
विक्रेता चानुमन्ता च यः परीक्षानुमोदकः ।
सर्व्व ते नरकं यान्ति यावदाहूतसंप्लवम् ।
अतस्तं वर्ज्जयेद्देवि ! हरिविक्रयणक्रयम् ।
शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥
द्वारकोद्भवः शुक्लश्च बहुचक्रेण चिह्नितः ।
चक्रमासीत् शिवाकारचित्स्वरूपनिरञ्जनम् ॥
नमोऽस्त्वोङ्काररूपाय सदानन्दस्वरूपिणे ।
शालग्रामे महाभाग भक्तस्यानुग्रहं कुरु ।
त्वया युतस्य धर्म्मस्य ऋणग्रस्तस्य मे प्रभो ॥”
इति तत्रैव ११ अध्यायः ॥
अपरञ्च ।
ब्राह्मण उवाच ।
“गण्डकीयं नदी राजन् ! सुरासुरनिषेविता ।
पुण्योदकपरीवाहैर्हतपातकसञ्चया ॥
दर्शनान्मानसं पापं स्पर्शनात् कर्म्मजं दहेत् ।
वाचिकं स्वीयतोयस्य पानतः पापसञ्चयम् ॥
पुरा दुष्टाः प्रजानाथः प्रजाः सर्व्वा विपाप्मनः ।
स्वगण्डाद्बिप्रुषोऽनेकपापघ्नीं सृष्टवानिमाम् ॥
एनां नदीं ये पुण्योदां स्पृशन्ति सुतरङ्गिणीम् ।
ते गर्भभाजो नैव स्युरपि पापकृतो नराः ॥
तस्यां भवा ये चाश्मानश्चक्रचिह्नैरलङ्कृताः ।
ते साक्षाद्भगवन्तो हि स्वस्वरूपधराः पराः ॥
शिलाः संपूजयेद्यस्तु नित्यं चक्रयुताः सदा ।
न जातुचिज्जनन्या वै जठरं समुपाविशेत् ॥
पूजयेद् यो नरो धीमान् शालग्रामशिलां
वराम् ।
तेनाचारवता भाव्यं दम्भमोहवियोगिना ॥
परदारपरद्रव्यविमुखेन नरेण च ।
पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः ॥
द्वारवत्या भवं चक्रं शिला वै गण्डकीभवा ।
पुंसां क्षणाद्धरन्त्येव पापं जन्मशतार्ज्जितम् ॥
अपि पापसहस्राणां कर्त्ता तावन्नरो भवेत् ।
शालग्रामशिला आपः पीत्वा पूयेत तत्क्षणात् ॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वेदपथे स्थितः ।
शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात् ॥
न कदाचित् स्त्रिया कार्य्यं शालग्रामस्य पूजनम् ।
भर्त्तृदीनाथ सुभगा सर्व्वलोकहितैषया ॥
मोहात् स्पृशेत महिला जन्मशीलगुणान्विता ।
हित्वा पुण्यसमूहन्तु सत्वरं नरकं व्रजेत् ॥
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि ।
पृष्ठ ५/०६१
परैरधिकपापानि वदन्ति ब्राह्मणोत्तमाः ॥
चन्दनं विषपङ्काभं कुङ्कुमं वज्रसन्निभम् ।
नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम् ॥
तस्मात् सर्व्वात्मना त्याज्यः स्त्रियाः स्पर्शः
शिलोपरि ।
कुर्व्वती याति नरकं यावदिन्द्राश्चतुर्दश ॥ * ॥
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा ।
शालग्रामशिलातोयं पीत्वा याति परां गतिम् ॥
तुलसी चन्दनं चक्रं शङ्खो घण्टाथ चक्रकम् ।
शिला ताम्रस्य पात्रन्तु विष्णोर्नाम पदामृतम् ॥
पदामृतन्तु नवभिः पापराशिप्रदाहकम् ।
वदन्ति मुनयः शान्ताः सर्व्वशास्त्रार्थकोविदाः ॥
सर्व्वतीर्थपरिस्नानात् सर्व्वक्रतुसमर्च्चनात् ।
पुण्यं भवति यद्राजन् बिन्दौ बिन्दौ तदद्भुतम् ॥
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः ।
तत्र योजनमात्रन्तु तीर्थकोटिसमन्वितम् ॥ * ॥
शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि ।
विशमा एव पूज्या वै विषमेषु त्रयं न हि ॥
द्वारवतीभवं चक्रं तथा वै गण्डकीभवम् ।
उभयोः सङ्गमो यत्र तत्र गङ्गा समुद्रगा ॥
रूक्षाः कुर्व्वन्ति पुरुषान् आयुःश्रीभिर्विवर्ज्जि-
तान् ।
तस्मात् स्निग्धा मनोहारिरूपेण ददति श्रियम् ॥
आयुष्कामो नरो यस्तु धनकामोऽपि यः पुमान् ।
पूजयन् सर्व्वमाप्नोति पापं लौकिकमैहिकम् ॥
प्राणान्तकाले तु यस्य भवेद्भाग्यबलान्नृप ।
वाचि नाम हरेः पुण्यं शिलाकृतिस्तदन्तिके ॥
गच्छत्सु प्राणमार्गेषु यस्य विश्रम्भतोऽपि चेत् ।
शालग्रामशिलामूर्त्तिस्तदा मुक्तिर्न संशयः ॥
पुरा भगवता प्रोक्तमम्बरीषाय धीमते ।
ब्राह्मणो न्यासिनो भक्ताः शालग्रामशिला
मम ॥
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमण्डले ।
पापिनां पापनिर्व्वारं कर्त्तुं धृतमुदञ्चताम् ॥
निन्दन्ति पापिनो ये वा शालग्रामशिलां सकृत् ।
कुम्भीपाके पचन्त्याशु यावदाहूतसंप्लवम् ॥
पूजां समुद्यतं कर्त्तुं यो वारयति मूढधीः ।
तस्य माता पिता बन्धुः सर्व्वे नरकगामिनः ॥
यो वै कथयति श्रेष्ठं शालग्रामार्च्चनं कुरु ।
स कृतार्थो नयत्याशु वैकुण्ठं स्वन्तु पूर्व्वजैः ॥”
इति च तत्रैव २० अध्यायः ॥ * ॥
अन्यच्च ।
श्रीईश्वर उवाच ।
“शालग्रामशिलायान्तु त्रैलोक्यं सचराचरम् ।
सदा वसति तेनात्र विष्णुस्तिष्ठति सर्व्वदा ॥
शालग्रामशिलापूजां प्रकुरुष्व षडानन ।
गङ्गामिव महापुण्यां चतुर्व्वर्गफलप्रदाम् ॥
हृष्टेन मनसा येन स्थापिता पूजिता तथा ।
यज्ञकोटिसमं पुण्यं आशु तस्मै प्रयच्छति ॥
छिन्नस्तेन महासेन गर्भवासः सुदारुणः ।
पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्ज्जितः ।
शालग्रामशिलां पश्येत् तस्य पापक्षयो भवेत् ॥
शालग्रामशिला विप्र हत्याकोटिविनाशिनी ।
स्मृता संकीर्त्तिता ध्याता पूजिता च नमस्कृता ॥
शालग्रामशिलां दृष्ट्वा यान्ति पापानि देहि-
नाम् ।
सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥
नमस्कृत्वा तु यः कुर्य्यात् शालग्रामशिलार्च्चनम् ।
भक्त्या वा यदि वाभक्त्या स मुक्तिं समवाप्नुयात् ॥
यः सेवां कुरुते नित्यं शालग्रामशिलाग्रतः ।
वैवस्वताद्भयं तस्य न स्यान्मरणजन्मनी ॥
शालग्रामशिलाचक्रं पयोदधिघृतादिकैः ।
यः स्नापयति नूनं स कल्पकोटिं वसेद्दिवि ॥
शालग्रामे नमस्कारो भावेनापि च यैः कृतः ।
मानवाः किं करिष्यन्ति मद्भक्त्या ते महीतले ॥
मद्भक्तिरणदर्पिष्ठा मत्प्रभुं न नमन्ति ये ।
वैष्णवास्ते न विज्ञेया मद्भक्ताः पापमोहिताः ।
शालग्रामशिला यत्र तत्र पुत्त्र वसाम्यहम् ॥
पूजितोऽहं न तैर्मर्त्यैः स्थापितश्च न तैर्नरैः ।
न कृतं मर्त्यलोके यैः शालग्रामशिलार्च्चनम् ॥
किमर्च्चितैर्लिङ्गशतैर्विष्णुभक्तिबहिष्कृतैः ।
शालग्रामशिलाचक्रं नार्चितं यदि पुत्त्रक ॥
जन्मकोटिसहस्रेण पूजिते मयि यत् फलम् ।
तत् फलं समवाप्नोति शालग्रामशिलार्च्चनात् ॥
अनर्ह्यं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलादृष्टं सर्व्वं याति पवित्रताम् ॥
नैवेद्यं मे न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ।
भुक्त्वा केशवनैवेद्यं कोटिभक्तिफलं लभेत् ॥
सकृदभ्यर्च्चितो विष्णुः शालग्रामशिलास्थितः ।
ददाति विपुलां मुक्तिं सर्व्वसङ्गविवर्ज्जिताम् ॥
मल्लिङ्गकोटिभिर्दृष्टैर्यत् फलं पूजितैः स्तुतैः ।
तत्फलं समवाप्नोति शालग्रामैकपूजनात् ॥
शालग्रामशिलाचक्रं यो विद्वान् पश्यति ध्रुवम् ।
अर्च्चयेद्वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥
कोटिलिङ्गसहस्रैर्यत् पूजितैर्जाह्नवीतटे ।
काशीवासाद्युगान्यष्टौ दिनेनैकेन तद्भवेत् ॥
तस्माद्भक्त्यैव मद्भक्तैः प्रीत्यर्थं मम पुत्त्रक ।
कर्त्तव्यं सर्व्वदा मर्त्यैः शालग्रामशिलार्च्चनम् ॥
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ॥
शालग्रामशिलाग्रे यैः सकृच्छ्राद्धं कृतं भवेत् ।
वसन्ति पितरस्तेषां विष्णुलोके न संशयः ॥
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।
पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।
चान्द्रायणैः किं हि तादृक् पीत्वा पादोदकं
शुचिः ॥”
इति पाद्मे उत्तरखण्डे १२७ अध्यायः ॥ * ॥
कलेर्दशसहस्रवर्षानन्तरं स च भारतं त्यक्त्रा
यास्यति । यथा, --
“शालग्रामो हरेर्मूत्तिर्जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते ययौ त्यक्त्रा हरेः पदम् ॥”
इति ब्रष्णवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥ * ॥
तस्योत्पत्तिलक्षणादि यथा, --
“शालग्रामसमुत्पत्तिं शृण्वन्तु परमाद्भुताम् ।
गण्डक्या प्राक् तपस्तप्तं भवन्तु मम देवताः ॥
सर्व्वाः पुत्त्राः सुखं दातुं जनानामिति ते सुराः ।
तस्यास्तु तपसा हृष्टा ब्रह्मविष्णुमहेश्वराः ॥
वरं दातुं समुद्युक्ता वव्रे सा स्वस्य पुत्त्रताम् ।
अशक्तास्तं वरं दातुं तदा शप्तास्तया क्रुधा ॥
प्रतारणं मम सुराः कृतं यस्मात् पुनः पुनः ।
कीटयोनिं प्रपद्येथाः क्रुद्धास्ते ह्यशपंश्च ताम् ॥
अविचार्य्य वयं शप्तास्त्वया यत्तपसोद्धताः ।
तेन कर्म्मविपाकेन जडा कृष्णा नदी भव ॥
अन्योन्यशापं श्रुत्वेत्थं महान् कोलाहलोऽभवत् ।
प्रकम्पिताः सुराः सा च ब्रह्माणन्ते व्यजिज्ञपत् ॥
ब्रह्मन् त्राहि महाशापादन्योन्यपतितात् क्रुधा ।
इति देववचः श्रुत्वा ब्रह्मा शङ्करमब्रवीत् ॥
शिवः प्रोवाच धातारमहं संहारकारकः ।
त्वं सृष्टिकर्त्ता विष्णुस्तु पालको बुद्धिमत्तरः ॥
स प्रष्टव्यो यथासङ्ख्यमुभयोः सम्भवेदिति ।
इति माहेश्वरं श्रुत्वा वचनं विष्णुरब्रवीत् ॥
शृणु ब्रह्मन् महादेव शृणु देव गजानन ।
मद्गणौ ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र तु ॥
भविष्यतस्तयोर्म्मोक्षं भविष्यामि कलेवरम् ।
शीर्णं भविष्यति यदा तन्मेदोमज्जसम्भवाः ॥
पाषाणान्तर्गता कीटा वज्राख्या प्रभविष्यथ ।
अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी ॥
गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् ।
विस्तीर्णं तन्मनुं क्षत्त्रं पुण्यक्षेत्रं महीतले ।
चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥
शालग्रामगता देवा देवोद्बारावतीगतः ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥
सर्व्वदेवप्रीतिकरा भुक्तिमुक्तिप्रदायिनी ।
भवन्त्वस्यान्तु पाषाणा ये तदन्तर्गता सुराः ॥
प्रार्थितं स्वं विना सर्व्वे वज्रकीटा भवन्त्विति ।
अनेनैव तु गण्डक्याः पुत्त्रत्वं भवतामपि ॥
भविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम् ।
विज्ञाय येऽर्च्चयिष्यन्ति सा प्रीता तस्य देवता ॥
न यन्त्रस्य न मूर्त्तेश्च न वृक्षस्यापि पूजनात् ।
सन्तोषो जायते तेषां गण्डक्यां मार्ज्जनाद्यथा ॥
इति विष्णुवचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ * ॥
कीदृक् पूज्या शिला विष्णोः किञ्छिद्रा कस्य
वल्लभा ।
किं फलं चाधिकारी च केन मार्गेण तद्वद ॥
इति ब्रह्मवचः श्रुत्वा विष्णुर्व्वचनमब्रवीत् ।
स्वीयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तये ॥
स्निग्धा शिला मन्त्रसिद्धं रूक्षा सिद्धिं करोति
च ।
मेचका कीर्त्तिता धौताङ्गारवत् सा यशोहरा ॥
पाण्डू रूपार्थशमनी मलिना पापधीकरा ।
पीता पुत्त्रफलं दद्यादारवर्णा सुतान् हरेत् ॥
नीला संदिशते लक्ष्मीं धूमाभा हरते मतिम् ।
रोगप्रदा रक्तवर्णा सिन्दूराभा महाकलिम् ॥
दारिद्रकारिणी वक्रा समा सर्व्वार्थसाधिका ।
पृष्ठ ५/०६२
स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत् ।
पूजाफलं लाञ्छितया निष्फलं लाञ्छनं विना ।
कपिला चित्तवैकल्यं नेत्ररोगञ्च कर्व्वुरा ॥
भग्ना भङ्गकरी ज्ञेया बहुचक्रापमानताम् ।
लक्षणान्तरहीना च देवचक्रा वियोगताम् ॥
बृहन्मुखी कलत्रघ्नी बृहच्चक्रा सुतान् हरेत् ।
संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम् ॥
भग्नचक्रा तु दारिद्रं सर्व्वनाशं त्वधोमुखी ।
कुष्ठादिकं व्यालमुखी विषमा विविधापदम् ॥
विकृतावर्त्तनाभिश्च विकारान् कुरुते बहून् ।
वंशच्छेदो गृहस्थानां नारसिंह्यां प्रजायते ॥
रेखार्त्ता दुःखदात्री च यथा सूक्ष्मा तथा
सुखम् ।
यथा स्निग्धास्तथा लक्ष्मीस्तद्विभेदादतः शृणु ॥
लक्ष्मीहरिः स विज्ञेयो यत्र पद्मं सचक्रकम् ।
केवला वनमाला वा गृहस्थानामभीष्टदः ॥ १ ॥
वासुदेवः स विज्ञेयो यद्द्वारं चक्रयुग्मकम् ।
निरन्तरं समं चापि स श्वेतः पापनाशनः ॥ २ ॥
सङ्कर्षणः स विज्ञेयः प्राक् पश्चाच्चक्रयुग्मकम् ।
संलग्नपूर्व्वभागस्थं महद्रत्नः सुशोभनः ॥ ३ ॥
प्रद्युम्नः सूक्ष्मचक्रः स्याच्छिद्रं दीर्घं विचित्रितम् ।
सुस्थिरान्तर्व्वहिश्छिद्रं पीत इष्टप्रदायकः ॥ ४ ॥
अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः ।
रेखाद्बयन्तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥ ५ ॥
केशवः स तु विज्ञेयस्त्वेकं वा द्बयमेव वा ।
प्राग्वा पश्चाच्च चक्रं स्यात् चतुष्कोणः स भाग्य-
कृत् ॥ ६ ॥
नारायणः श्यामवर्णः नाभौ चक्रं तथोन्नतम् ।
दीर्घरेखासमायुक्तं दक्षिणे शुषिरं पृथु ॥ ७ ॥
हरिरूपा शिला सा स्याद्यस्या ऊर्द्ध्वं मुखं
भवेत् ।
हरिवद्दृश्यते द्बारं भुक्तिमुक्तिप्रदा तु सा ॥ ८ ॥
परमेष्ठी स विज्ञेयः पद्मचक्रान्वितस्तु यः ।
विल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत् ॥ ९ ॥
विष्णुस्तु कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभने ।
द्बारोपरि तथा रेखा दृश्यते मध्यदेशतः ॥ १० ॥
नारसिंहस्तु कपिलः पृथुचक्रो बृहन्मुखः ।
त्रयो वा पञ्च वा तत्र बिन्दवो गृहिणां न
सत् ॥ ११ ॥
कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् ।
स्थूलचक्रद्बयं मध्ये द्वारे रेखा सुशोभना ॥ १२ ॥
महानृसिंहो विज्ञेयः पूर्व्वोक्तैर्लक्षणैयुतः ।
रेखाश्च केशराकारा मुखं दीर्घं भयानकम् ॥ १३
लक्ष्मीनृसिंहो विज्ञेयश्चतुश्चक्रः सबिन्दुकः ।
पूर्व्वोक्तलक्षणैर्युक्तो वनमालाविराजितः ॥ १४ ॥
वराहोऽसौ शक्तिलिङ्गे चक्रे च विषमे तथा ।
इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितो भवेत् ॥ १५
पृथ्वीवाराहनात्नी सा या वराहाकृतिः शिला ।
आभुग्ना चैव रेखैका गतराज्यप्रदायिका ॥ १६ ॥
मत्स्याख्या सा शिला ज्ञेया बिन्दुत्रयविभूषिता ।
कांस्याद्भारा स्वणनिभा दीर्घा सा भुक्ति-
मुक्तिदा ॥ १७ ॥
कूर्म्माख्या तु शिला पृष्ठे वर्त्रुला चोन्नता भवेत् ।
हरितं वर्णमाषन्तु कौस्तुभेन च चिह्निता ॥
शिलाकूर्म्मः स विज्ञेयः कूर्म्माकारस्तु यो भवेत् ।
चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा ॥ १८
हयग्रीवोऽङ्कुशाकारा रेखा चक्रा समीपगा ।
बहुबिन्दुसमायुक्तं पृष्टं नीरदनीलकम् ॥ १९ ॥
ज्ञेयः सौम्यहयग्रीवो हयग्रीवासमा शिला ।
दीर्घया लेखया युक्ता रेखा वा तादृशी
भवेत् ॥ २० ॥
हयशीर्षः स विज्ञेयो मुखं यस्य हयाकृति ।
पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा ॥ २१
वैकुण्ठस्तिलवर्णाभश्चक्रमेकं तथा ध्वजम् ।
द्वारोपरि तथा रेखा पूज्याकारा सुशोभना ॥ २२
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।
कदम्बकुसुमाकारारेखापञ्चकभूषितः ॥ २३ ॥
वामनः स तु विज्ञेयो योऽतिह्रस्वश्च वर्त्तुलः ।
अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः ॥ २४ ॥
दधिवामननामा तु ऊर्द्ध्वाधश्चक्रसंयुतः ।
महाद्युतिरतिह्रस्वः सुभिक्षः क्षेमदायकः ॥ २५ ॥
सुदर्शनस्तथा देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे तथा चक्रं रेखैकैव तु दक्षिणे ॥ २६ ॥
सहस्रार्ज्जुननामासौ नानारेखामयी भवेत् ।
चक्राकारा यन्त्रपङ्क्तिः स नष्टद्रव्यदायकः ॥ २७ ॥
स्थूलो दामोदरो यस्य मध्ये चक्रं प्रतिष्ठितम् ।
दूर्व्वाभं द्वारसङ्कीर्णः पीतरेखा धनप्रदः ॥ २८ ॥
राधादामोदरो ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम् ।
नातिदीर्घमुखं मध्ये लम्बरेखा स भोगदः ॥ २९ ॥
दामोदरः स विज्ञेयो यश्चक्रद्बयलाञ्छितः ।
सूक्ष्मं भवेच्च विवरं पूजितः सुखदः सदा ॥ ३० ॥
अनन्तो बहुवर्णः स्यान्नागभोगेन चिह्नितः ।
अनेकचक्रसंभिन्नः सर्व्वकामफलप्रदः ॥ ३१ ॥
पुरुषोत्तमनामासौ यस्य दिक्षु विदिक्षु च ।
ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरुषार्थफलप्रदः ॥ ३२ ॥
योगेश्वरः स विज्ञेयो लिङ्गं यस्य शिरोगतम् ।
ब्रह्महत्यादिपापानां नाशको योगसिद्धिदः ॥ ३३
पद्मनाभस्तथा रक्तः पङ्कजच्छत्रसंयुतः ।
तुलस्या पूजितो नित्यं दरिद्रस्त्वीश्वरो भवेत् ॥ ३४
रश्मिज्वालो हिरण्याक्षश्चन्द्राभः स्फटिको-
पमः ।
अथवा जायते नानास्वर्णरेखाभिरन्वितः ॥ ३५ ॥
गरुडः स तु विज्ञेयो मध्ये पक्षद्बयान्विते ।
सुदीर्घा दृश्यते रेखा स सर्पविषनाशकः ॥ ३६ ॥
जनार्द्दनः स विज्ञेयः केवलानि स्फुटानि च ।
यस्योदरे तु चक्राणि चत्वारि पितृतृप्तिकृत् ॥ ३७
लक्ष्मीनारायणो ज्ञेयो वनमालाङ्कितोदरः ।
सूक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्तिप्रदायकः ॥ ३८ ॥
हृषीकेशः स विज्ञेयो योऽर्द्धचन्द्राकृतिर्भवत् ।
तमभ्यर्च्च्य लभेत् स्वर्गं विषयांश्च समीहितान् ॥
२९ ॥
लक्ष्मीनरहरिर्ज्ञेयः कृष्णवर्णः सबिन्दुकः ।
वामपार्श्वे समे चक्रे गृहस्थाभीष्टदायकः ॥ ४० ॥
त्रिविक्रमस्तु विज्ञेयः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे चक्रयुग्गमेकरेखा तु दक्षिणे ॥ ४१ ॥
कृष्णो ज्ञेयः शिला कृष्णा सचक्रा वा विच-
क्रिका ।
प्रदक्षिणावर्त्तकृतवनमालाविभूषिता ॥ ४२ ॥
चतुर्म्मुखः स विज्ञेयो द्वे चक्रे मध्यदेशतः ।
चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः ॥ ४३ ॥
विष्णोर्भेदा इमे प्रोक्ता अत्रैवावाहयेद्धरिम् ।
विसर्ज्जयेच्च पूजान्ते प्रतिष्ठां नात्र कारयेत् ॥ * ॥
शालग्रामाः समाः पूज्या समेषु द्बितयं न हि ।
असमा नैव पूज्यन्ते एकः पूज्यतमो मतः ॥
शिला द्वादश यो नित्यं भक्त्या संपूजयेन्नरः ।
दिने दिने धर्म्मवृद्धिः पापनाशश्च जायते ॥
शालग्रामशिलां यस्तु भक्त्या संपूजयेन्नरः ।
शतं दिनानि यस्तेन कृतः कामः स सिध्यति ॥ *
शालग्रामा मत्स्वरूपाः शृणु तेषान्तु लक्षणम् ।
यत्सेवनाद्भवेदिष्टमिह लोके परत्र च ॥
शिवनाभः स विज्ञेयः सलिङ्गाकारताङ्गतः ।
स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः ॥ १ ॥
त्र्यम्बकः स तु विज्ञेयो यो बिन्दुत्रयभूषितः ।
शूलाकारा तथा रेखा गतपुंस्त्वप्रदायकः ॥ २ ॥
धूर्ज्जटिः स तु विज्ञेयो यत्र रेखा जटासमा ।
तिस्रो यत्र प्रदृश्यन्ते सोऽर्च्चितो ज्ञानदायकः ॥ ३
शम्भस्तु पाण्डरो ज्ञेयो बिन्दुकृष्णस्तु मस्तके ।
विल्वप्रमाणस्तेजस्वी पूजितः स्त्रीवशङ्करः ॥ ४ ॥
ईश्वरः स तु विज्ञेयो रक्तो बिन्दुस्तु मस्तके ।
एकचक्रो द्बिचक्रो वाभ्यन्तरेऽधश्च गोपदम् ॥ ५ ॥
मृत्युञ्जयः स विज्ञेयः स्वल्पमृत्युविनाशकः ।
अधश्चक्रं तदूर्द्ध्वञ्च श्वेता रेखा त्रिशूलवान् ॥ ६ ॥
चन्द्रशेखरनामासावर्द्धचन्द्राकृतिस्तु के ।
मध्ये चक्रद्बयं तस्य सेवनाद्रोगनाशनम् ॥ ७ ॥
रुद्रः स एव विज्ञेयः कपिलो मूर्द्ध्नि रक्षितः ।
चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम् ॥ ८ ॥ * ॥
शालग्रामानथो वक्ष्ये शक्तिकीटसमुद्भवान् ।
येषां पूजनतो देवी भवानी सुप्रसीदति ॥
श्रीविद्या सा तले चक्रमूर्द्ध्वेछत्रं प्रदृश्यते ।
वाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिले-
ष्टदा ॥ १ ॥
महाकाली तु सा ज्ञेया योनिचिह्नसमन्विता ॥ २
द्बिच्छिद्राद्या सर्व्वशिला त्रिकोणेनाङ्किता च या ।
यदायुधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्द्दिशेत् ॥
देवीशिला सचक्रा या दक्षमार्गेण तां यजेत् ।
सार्च्चिता वाममार्गेण लोकद्वयसुखावहा ॥
या चक्ररहिता देवी शिला तां वामतोऽर्च्च-
येत् ।
स्पर्शकार्य्येण विप्राणां नगभां क्षोभकृद्भवेत् ॥ * ॥
सौरीशिला दुर्ल्लभैव प्रायः कलियुगे सुराः ।
स्फटिकाभा भवेत् सा तु घर्म्ममुक्ता विमुञ्चति ॥
तुलस्योर्द्ध्व स्थिते वह्निं साभिषिक्ता प्रवर्षणम् ।
कुरुते शपथे मिथ्या कृते स्यात्कुष्ठकारिका ॥ *
गणेशः स तु विज्ञेयः स्वल्पशुण्डाङ्कितो भवेत् ।
शुण्डाकारा शिला वापि गजाननसमापि वा ॥ *
यस्या मध्ये महच्चक्रं सूक्ष्मचक्रञ्च यद्दिशि ।
पृष्ठ ५/०६३
सा शिला तस्य दिक्यस्य सेव्या तद्दिशि
राज्यदा ॥ * ॥
अर्द्धचन्द्राकृतिर्यत्र दृश्यते शकलद्बयम् ।
सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला
मता ॥ * ॥
बाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः ।
दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता ॥ * ॥
पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्म्मता ।
सूर्पाकारा तु राहोः स्यात् केतोस्तु ध्वज-
रूपिणी ॥ * ॥
प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते ।
भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसङ्कुले ॥
कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्ज्जिते ।
क्व शिष्यः क्व गुरुर्म्मन्त्रः क्व जपः क्व च सिद्धयः ॥
अयुताब्दे कलेर्याते त्यजेद्बिष्णुशिला महीम् ।
तदर्द्धाज्जाह्नवीतोयं तदर्द्धाद्देवताशिला ॥
जप एव कलौ श्रेयान् शालग्रामार्च्चनं यथा ॥”
इति मेरुतन्त्रे ५ पटलः ॥
अपि च ।
तुलस्युवाच ।
“हे नाथ ते दया नास्ति पाषाणसदृशस्य च ।
छलेन धर्म्मभङ्गेन मम स्वामी त्वया हतः ॥
पाषाणहृदयस्त्वञ्च दयाहीनो यतः प्रभो ।
तस्मात् पाषाणसदृशस्त्वं भवेह हरेऽधुना ॥
श्रीभगवानुवाच ।
अहञ्च शैलरूपी च गण्डकीतीरसन्निधौ ।
अधिष्ठानं करिष्यामि भारते तव शापतः ॥
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥
एकद्बारे चतुश्चक्रं नवीननीरदोपमम् ।
लक्ष्मीजनार्द्दनं ज्ञेयं रहितं वनमालया ॥
द्बारद्बये चतुश्चक्रं गोष्पदेन समन्वितम् ।
रघुनाथाभिधं ज्ञेयं वेष्टितं वनमालया ॥
अतिक्षुद्रं द्बिचक्रन्तु नवीननीरदप्रभम् ।
दधिवामनं विज्ञेयं गृहिणाञ्च सुखप्रदम् ॥
अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम् ।
श्रीधरं देवि विज्ञेयं श्रीपदं गृहिणां सदा ॥
स्थूलञ्च वर्त्तुलाकारं रहितं वनमालया ।
द्बिचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥
मध्यमं वर्त्तुलाकारं द्बिचक्रं बाणविक्षतम् ।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥
चतुर्द्दशचक्रं स्थूलञ्च नवीनजलदप्रभम् ।
अनन्ताख्यञ्च विज्ञेयं चतुर्व्वर्गफलप्रदम् ॥
मध्यमं सप्तचक्रञ्च छत्रतूणसमन्वितम् ।
राजराजेश्वरं ज्ञेयं राजसम्पत्करं नृणाम् ॥
चक्राकारं द्विचक्रञ्च सश्रीकं जलदप्रभम् ।
सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम् ॥
सुदर्शनञ्चैकचक्रं गुप्तचक्रं गदाधरम् ।
द्वि चक्रं हयवक्त्राभं हयग्रीवं प्रकीर्त्तितम् ॥
अतीवविस्तृतास्यञ्च द्बिचक्रं विकटं सति ।
नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम् ॥
द्बिचक्रं विस्तृतास्यञ्च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा ॥
द्बारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फुटम् ।
वासुदेवञ्च विज्ञेयं सर्व्वकामफलप्रदम् ॥
प्रद्युम्नं सूक्ष्मचक्रञ्च नवीननीरदप्रभम् ।
शुषिरे छिद्रबहुलं गृहिणाञ्च सुखप्रदम् ॥
द्वे चक्रे चैकलग्ने तु पृष्ठे यत्र तु पुष्कलम् ।
सङ्कर्षणन्तु विज्ञेयं सुखदं गृहिणां सदा ॥
अनिरुद्धञ्च पीताभं वर्त्तुलञ्चातिशोभनम् ।
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ * ॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्रैव लक्ष्मीर्व्वसति सर्व्वतीर्थसमन्विता ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्व्वाणि नश्यन्ति शालग्रामशिलार्च्चनात् ॥
छत्राकारे भवेद्राज्यं वर्त्तुले च भवेत् श्रियः ।
दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥
विकृतास्ये च दारिद्रं पिङ्गले हानिरेव च ।
लग्नचक्रे भवेद्धानिर्विदीर्णे मरणं ध्रुवम् ॥
व्रतं दानं प्रतिष्ठा च श्राद्धञ्च देवपूजनम् ।
शालग्रामशिलायाश्चैवाधिष्ठानात् प्रशस्तकम् ॥
स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
सर्व्वदाने च यत् पुण्यं प्रादक्षिण्ये भुवस्तथा ॥
सर्व्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च ।
पाठे चतुर्णां वेदानां तपसां करणे सति ।
तत् पुण्यं लभते नूनं शालग्रामशिलार्च्चनात् ॥
शालग्रामशिलातोयं नित्यं भुङ्क्तेच यो नरः ।
सुरेप्मितं प्रसादञ्च जन्ममृत्युजराहरम् ॥
तस्य स्पर्शञ्च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥
तत्रैव हरिणा सार्द्धमसंख्यं प्राकृतं लयम् ।
पश्यन्त्येव हि दास्येव नियुक्तो दास्यकर्म्मणि ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तं दृष्ट्वा च भिया यान्ति वैनतेयमिवोरगाः ॥
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।
पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मनि ॥
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।
सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
निर्व्वाणमुक्तिं लभते कर्म्मभोगाद्विमुच्यते ।
विष्णुपादप्रलीनश्च भविष्यति न संशयः ॥
शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः ।
स याति कूर्म्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः ॥
शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् ।
स प्रयात्यसिपत्रञ्च लक्षमन्वन्तरावधि ॥
तुलसीपत्रविच्छेदं शालग्रामं करोति यः ।
तस्य जन्मान्तरे कान्ते स्त्रीविश्लेषो भविष्यति ॥
तुलसीपत्रविच्छेदं शङ्खं यो हि करोति च ।
भार्य्याहीनो भवेत् सोऽपि रोगी च सप्तजन्मसु ॥
शालग्रामञ्च तुलसीं शङ्खञ्चैकत्र एव च ।
यो रक्षति महाज्ञानी स भवेत् श्रीहरिप्रियः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः ॥ * ॥
शूद्राणां तत्पूजनेऽनधिकारो यथा, --
“विप्रक्षत्त्रियवैश्यानां शालग्रामशिलार्च्चने ।
अधिकारो न शूद्राणां हरेरर्च्चार्च्चने तथा ॥”
इति तत्रैव जन्मखण्डे २१ अध्यायः ॥ * ॥
शालग्रामे सदा विष्णोः स्थितिस्तत्पूजने विशेषश्च
यथा, --
भूमिरुवाच ।
“उक्ता याः प्रतिमाः सर्व्वाः सुवर्णादिविनि-
र्म्मिताः ।
तासु तिष्ठसि सर्व्वासु शालग्रामे च सर्व्वदा ॥
कति पूज्या गृहादौ च अविशेषस्तु पूजने ।
विशेषो वा भवेत्तन्मे रहस्यं वद माधव ॥
वराह उवाच ।
गृहे लिङ्गद्वयं नार्च्च्यं शालग्रामद्बयं तथा ।
द्वे चक्रे द्वारकायास्तु नार्च्च्यं सूर्य्यद्वयं तथा ॥
शालग्रामशिला भग्ना पूजनीया सचक्रका ।
खण्डिता स्फुटिता वापि शालग्रामशिला शुभा ॥
शिला द्बादश वै देवि शालग्रामसमुद्भवाः ।
विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥
कोटिद्बादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ।
यत् स्यात् द्वादशकल्पैस्तु दिनेनैकेन तद्भवेत् ॥
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् ।
तत्फलं नव शक्तोऽहं वक्तुं वर्षशतैरपि ॥
शालग्रामो न स्प्रष्टव्यो हीनवर्णैर्व्वसुन्धरे ।
स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः ॥
मोहाद्यः संस्पृशेत् शूद्रो योषिद्वापि कदाचन ।
स पतेन्नरके घोरे यावदाहूतसंप्लवम् ॥
यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे ।
दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः ॥
चरणामृतपानेन सर्व्वपापक्षयो भवेत् ॥
अभक्ष्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलायोगात् पावनं तद्भवेत् सदा ॥
दद्याद्भक्ताय यो देवि शालग्रामशिलां नरः ।
सुवर्णसहितां तेन सपर्व्वतवनाकरा ।
ससमुद्रा भवेद्दत्ता सत्पात्राय वसुन्धरा ॥
शालग्रामशिलायास्तु मौल्यमुद्घाटयेत् क्वचित् ।
विक्रेता क्रयकर्त्ता वा नरके वै पतेत् ध्रुवम् ॥
पूजाफलं न शक्येत वक्तुं वर्षशतैरपि ।
एतत्ते कथितं गुह्यं प्रतिमास्थापनं प्रति ॥
शालग्रामे विशेषश्च लिङ्गादीनाञ्च यो भवेत् ।
पूजनादो विधिश्चापि किमन्यच्छ्रोतुमिच्छसि ॥”
इत्यादि वाराहे रौप्यसौवर्णार्च्चास्थापननामा-
ध्यायः ॥ * ॥ अथ शालग्रामशिलामूर्त्तिनिरू-
पणम् ।
“चतुर्व्विंशतिमूर्त्तिः स शालग्रामशिलास्थितिः ।
द्बारकादिशिलासंस्थो ध्येयः पूज्योऽपि वा हरिः ॥
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ।
निष्कामो मुक्तिमाप्नोति मूर्त्तीर्ध्यायन् स्तुवन्
जपन् ॥”
इत्यादि गारुडे मूर्त्तामूर्त्तध्यानं ४४ अध्यायः ॥
अपि च ।
“शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः ।
साब्जकीमोदकीचक्रशङ्खी नारायणो विभुः ॥
पृष्ठ ५/०६४
सचक्रशङ्खाब्जगदो माधवः श्रीगदाधरः ।
गदाब्जशङ्खचक्री वा गोविन्दोऽर्च्यो गदाधरः ॥
पद्मशङ्खासिगदिने विष्णुरूपाय वै नमः ।
शङ्खाञ्जचक्रगदिने नमः सङ्कर्षणाय च ॥
सुशङ्खसुगदाब्जाविधृते प्रद्युम्नमूर्त्तये ।
नमोऽनिरुद्धाय गदाशङ्खाब्जाविविधारिणे ॥
नमो गदासिशङ्खाब्जयुक्तत्रैविक्रमाय च ।
सासिकौमोदकीपद्मगदिने वामनमूर्त्तये ॥
चक्राब्जशङ्खगदिने नमः श्रीधरमूर्त्तये ।
हृषीकेश साविगदाशङ्खपद्मिन्नमो नमः ॥
साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे ।
दामोदर शङ्खगदाचक्रपद्मिन्नमो नमः ॥
साविशङ्खगदाब्जाय वासुदेवाय वै नमः ।
शङ्खाब्जचक्रगदिणे नमः सङ्कर्षणाय च ॥
साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये ।
नमोऽधोक्षजरूपाय गदाशङ्खासिपद्मिने ॥
नृसिंहमूर्त्तये पद्मगदाशङ्खाब्जधारिणे ।
पद्माब्जशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये ॥
सशङ्खचक्राब्जगदं जनार्द्दनमिहानमे ।
उपेन्द्रं सगदं साविं पद्मशङ्खिन्नमो नमः ॥
सुचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये ।
सगदाब्जाविशङ्खाय नमः श्रीकृष्णमूर्त्तये ॥
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ।
शुक्लाभो वासुदेवाख्यः सोऽव्याद्वः श्रीगदाधरः ॥
लग्नद्बिचक्रो रक्ताभः पूर्व्वभागे तु पुष्कलः ।
सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः ॥
सदीर्घशुषिरच्छिद्रो योऽनिरुद्धस्तु वर्त्तुलः ।
नीलो द्बारि त्रिरेखश्च अथ नारायणोऽसितः ॥
मध्ये गदाकृती रेखा नाभिचक्रमहोन्नतः ।
पृथुचक्रो नृसिंहोऽथ कपिलोऽव्यात् त्रिबि-
न्दुकः ॥
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः ।
वराहः शक्तिलिङ्गोऽव्याद्बिषमद्बयचक्रकः ॥
नीलस्त्रिरेखः स्थूलोऽथ कूर्म्ममूर्त्तिः स बिन्दु-
मान् ।
कृष्णः सवर्त्तुलावर्त्तः पातु वोन्नतपृष्ठकः ॥
श्रीधरः पञ्चरेखोऽव्याद्वनमाली गदान्वितः ।
वामनो वर्त्तुलो ह्रस्वो वामचक्रः सुरेश्वरः ॥
नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः ।
स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः ॥
संकीर्णद्वारको वोऽव्यादथ ब्रह्मा सुलोहितः ।
सदीर्घरेखः शुषिर एकचक्राम्बुजः पृथुः ॥
पृथुच्छिद्रस्थूलचक्रः कृष्णो विष्णुश्च बिन्दुवत् ।
हयग्रीवोऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः ॥
वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजोऽसितः ।
मत्स्यो दीर्घोम्बुजाकारो द्बाररेखश्च पातु वः ॥
वामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः ।
शालग्रामे द्बारकायां स्थिताय गदिने नमः ॥
एकेन लक्षितो योऽव्याद्गदाधारी सुदर्शनः ।
एकद्बारे चतुश्चक्रं वनमालाविभूषितम् ॥
स्वर्णरेखासमायुक्तं गाष्पदेन विराजितम् ।
कदम्बकुसुमाकारं लक्ष्मीनारायणं विदुः ॥
लक्ष्मीनारायणो द्बाभ्यां त्रिभिर्मूर्त्तिस्त्रिविक्रमः ।
चतुर्भुजश्चतुर्व्व्यहो वासुदेवश्च पञ्चभिः ॥
प्रद्युम्नः षड्भिरेव स्यात् सङ्कर्षण इतस्ततः ।
पुरुषोत्तमोऽष्टभिः स्यान्नवव्यूहो नवोन्नतः ॥
दशावतारो दशभिरनिरुद्धोऽवतादथ ।
द्बादशात्मा द्बादशभिरत ऊर्द्ध्वमनन्तकः ॥
विष्णोर्मूर्त्तिमयं स्तोत्रं यः पठेत् स दिवं
व्रजेत् ॥”
इति गारुडे ४५ अध्यायः ॥ * ॥
अपरञ्च ।
हरिरुवाच ।
“निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिला-
र्च्चनात् ।
आदौ सुदर्शनो मूर्त्तिर्लक्ष्मीनारायणोऽपरः ॥
त्रिचक्रोऽसावच्युतः स्यात् चतुश्चक्रश्चतुर्भुजः ।
वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः ॥
पुरुषोत्तमो ह्यष्टमः स्यान्नवव्यूहो दशात्मकः ।
एकादशोऽनिरुद्धः स्याद्द्वादशो द्बादशात्मकः ॥
अत ऊर्द्ध्वमनन्तः स्याच्चक्रैरेकादिकैः क्रमः ।
सुदर्शनाद्या लक्षिताश्च पूजिताः सर्व्वकामदाः ॥
शालग्रामशिला यत्र देवो द्बारवतीभवः ।
उभयोः सङ्गमो यत्र तत्र मुक्तिर्न संशयः ॥”
इति गारुडे ६५ अध्यायः ॥ * ॥
क्षेत्रविशेषः । यथा, --
धरण्युवाच ।
“भगवन् देवदेवेश शालङ्कायनको मुनिः ।
किं चकार तपः कुर्व्वन् तव क्षेत्रे विमुक्तिदे ॥
वाराह उवाच ।
अथ दीर्घेण कालेन स ऋषिः संसितव्रतः ।
तप्यमानो यथान्यायं पश्यते शालमुत्तमम् ॥
विश्रामं कुरुते तत्र द्रष्टुकामोऽथ मां मुनिः ।
मायया मम मूढात्मा शक्तो द्रष्टुं न मामभूत् ॥
ततः पूर्व्वेण पार्श्वेन तस्य शालस्य सुन्दरि ।
वैशाखमासद्बादश्यां मद्दर्शनमुपागतः ॥
दृष्ट्वा मां तत्र स मुनिस्तपस्वी शंसितव्रतः ।
तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुनः पुनः ॥
ततोऽहं स्तूयमानो षै ऋषिमुख्येन सुन्दरि ।
प्राप्तोऽस्मि परमां प्रीतिं तमवोचं ततः ऋषिम् ॥
तत्राश्रमे महाभाग स्थित्वा त्वं तपसांनिधे ।
पुत्त्रेण परमप्रीतो मत्क्षेत्रे मत्समो भव ॥
अन्यच्च गुह्यं वक्ष्यामि शालङ्कायन तच्छृणु ।
तव प्रीत्या प्रवक्ष्यामि येनैतत् क्षेत्रमुत्तमम् ॥
शालग्राममिति ख्यातं तन्निबोध मुने शुभम् ।
योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव न संशयः ॥
एतत् कोऽपि न जानाति विना देवं महेश्वरम् ।
एवं तस्मै वरं दत्त्वा शालङ्कायनकाय वै ॥
पश्यतस्तस्य वसुधे तत्रैवान्तर्हितोऽभवत् ।
वृक्षं दक्षिणतः कृत्वा जगाम स्वाश्रमं मुनिः ॥
मम तद्रोचते स्थानं गिरिकूटशिलोच्चये ।
शालग्राम इति ख्यातं भक्तसंसारमोक्षणम् ॥”
इति वाराहे शालग्रामक्षेत्रमाहात्म्यवर्णन-
नामाध्यायः ॥

शालग्रामगिरिः, पुं, (शालग्रामस्य गिरिः ।)

शालग्रामोत्पादकपर्व्वतः । यथा, --
वाराह उवाच ।
“कथयिष्यामि ते गुह्यं शालग्राममिति श्रुतम् ।
तस्मिन् क्षेत्रे हरो देवो मत्स्वरूपेण संयुतः ॥
शालग्रामे गिरौ तस्मिन् शिलारूपेण तिष्ठति ।
अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यदा ॥
तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा न संशयः ।
पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः ॥
लिङ्गरूपेण तु हरस्तत्र देवालये गिरौ ।
शिवनाभाः शिलास्तत्र चक्रनाभास्तथा शिलाः ॥
सोमेश्वराधिष्ठितस्तु शिवरूपो गिरिः स्मृतः ।
शालग्रामगिरिर्विष्णुरहं सोमेश्वराधिपः ॥
तयोः पर्व्वतयोर्यो वै शिला विष्णुशिलाभिधाः ॥
रेवया च कृतं पूर्व्वं तपः शिवसुतुष्टिदम् ।
मम त्वत्सदृशः पुत्त्रो भूयादभिहितो तया ॥
अहं कस्यापि न सुतः किं करिष्यामि चिन्त-
यन् ।
रेवायाखु वरो देयस्त्ववश्यं मृगलाञ्छन ।
निश्चित्यैवं तदा प्रोक्तं प्रसन्नेनान्तरात्मना ॥
लिङ्गरूपेण ते देवि गजाननपुरस्कृतः ।
गर्भे तव वसिष्यामि पुत्त्रो भूत्वा शिवप्रिये ॥
मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा ।
शिवशक्तिविभेदेन आवामेकत्र संस्थितौ ॥
एवं दत्तवरा रेवा मत्सान्निध्यमिहागता ।
रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ॥ * ॥
गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे ।
शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् ॥
दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा ।
ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ॥
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः ।
गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितेऽनघे ॥
अनवच्छिन्नया शक्त्या वरं वरय सुव्रते ।
किं देयं तद्बदस्वाशु प्रीतोऽस्मि वरवर्णिनि ॥
गण्डक्यपि पुरो दृष्ट्वा शङ्खचक्रगदाधरम् ।
दण्डवत् प्रणता भूत्वा ततः स्तोत्रं प्रचक्रमे ॥
अहो देव मया दृष्टो दुर्दर्शो योगिनामपि ।
त्वया सर्व्वमिदं सृष्टं जगत् स्थावरजङ्गमम् ॥
ततो हिमांशे सा देवी गण्डकी लोकतारिणी ।
प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् ॥
यदि देव प्रसन्नोऽसि देयो मे वाञ्छितो वरः ।
मम गर्भगतो भूत्वा विष्णो मत्पुत्त्रतां व्रज ॥
ततः प्रसन्नो भगवान् चिन्तयामास गोपते ।
किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया ॥
दास्यामि याचितं येन लोकानां भवमोक्षणम् ।
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् ॥
गण्डकीं कथयामास शृणु देवि वचो मम ।
शालग्रामशिलारूपी तव गर्भगतः सदा ॥
तिष्ठामि तव पुत्त्रत्वे भक्तानुग्रहकारणात् ।
मत्सान्निध्यान्नदीनां त्वमतिश्रेष्ठा भविष्यसि ॥
दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगा-
हनात् ।
पृष्ठ ५/०६५
हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ॥”
इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति-
क्षेत्रत्रिवेण्यादिमहिमानामाध्यायः ॥

शालङ्कटङ्कटः, पुं, सुकेशीराक्षसः । स विद्युत्-

केशिभार्य्याशालङ्कटङ्कटायाः पुत्त्रः । इति
वामनपुराणम् ॥

शालङ्कायनः, पुं, (शलङ्कस्यापत्यम् । “नडादिभ्यः

फक् ।” ४ । १ । ९९ । इति फक् ।) मुनिविशेषः ।
नन्दी । इति मेदिनी ॥

शालङ्कायनजीवसूः, स्त्री, व्यासमाता । यथा, --

“व्यासस्याम्बा सत्यवती वासवी गन्धकालिका ।
योजनगन्धा दासेयी शालङ्कायनजीवसूः ॥”
इति हेमचन्द्रः ॥

शालङ्किः, पुं, मुनिभेदः । यथा, --

“वशिष्ठोऽरुन्धतीनाथो मैत्रावरुणिरित्यपि ।
शालातुरीयः शालङ्किर्दाक्षीपुत्त्रस्तु पाणिनिः ॥”
इति जटाधरः ॥

शालजः, पुं, (शालाज्जायते इति । जन् + डः ।)

शालमत्स्यः । यथा । शालः शालजगर्जकौ ।
इति शब्दरत्नावली ॥

शालनिर्यासः, पुं, (शालस्य निर्यासः ।) सर्ज-

रसः । धूना इति भाषा । तत्पर्य्यायः । शालनः
२ सर्जः ३ सर्जरसः ४ । इति रत्नमाला ॥
धूनकः ५ वह्निवल्लभः ६ सर्ज्जमणिः ७ । इति
त्रिकाण्डशेषः ॥

शालपर्णी, स्त्री, (शालस्य पर्णवत् पर्णमस्याः ।

ङीष् ।) वृक्षविशेषः । शालपाणी इति भाषा ।
तत्पर्य्यायः । सुदला २ सुपत्री ३ स्थिरा ४ सौम्या ५
कुमुदा ६ गुहा ७ ध्रुवा ८ विदारिगन्धा ९
अंशुमती १० सुपर्णिका ११ दीर्घमूला १२
दीर्घपत्रिका १३ वातघ्री १४ पीतिनी १५
तन्वी १६ सुधा १७ सर्व्वानुकारिणी १८
शोफघ्री १९ सुभगा २० देवी २१ निश्चला २२
व्रीहिपर्णिका २३ सुमूला २४ सुरूपा २५
शुभपत्रिका २६ सुपर्णी २७ शालिपत्री २८
शालिदला २९ । इति राजनिर्घण्टः । विदारी
३० सालपर्णी ३१ । इत्यमरटीकायां भरतः ॥
अस्या गुणाः । ग्राहित्वम् । कफपित्तनाशि-
त्वञ्च । इति राजवल्लभः ॥ तिक्तत्वम् । गुरु-
त्वम् । उष्णत्वम् । वातदोषविषमज्वरमेहार्शः-
शोफसन्तापनाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“शालपर्णी स्थिरा सौम्या त्रिपर्णी पीवरा
गुहा ।
विदारिगन्धा दीर्घाङ्घ्रिर्दीर्घपत्रांशुमत्यपि ॥
शालपर्णी गरच्छर्द्दिज्वरश्वासातिसारजित् ।
शोषदोषत्रयहरी वृंहण्युक्ता रसायनी ।
तिक्ता विषहरी स्वादुः क्षतकाशकृमिप्रणुत् ॥”
इति भावप्रकाशः ॥

शालभञ्जिका, स्त्री, (शालेन भज्यते निर्म्मीयते इति ।

भन्ज + “क्वुन् शिल्पिसंज्ञयोरपूर्व्वस्यापि ।”
उणा० २ । ३२ । इति क्वुन् । टापि अत इत्वम् ।)
काष्ठादिनिर्म्मितपुत्त्रिका । (यथा, राजतरङ्गि-
ण्याम् । २ । ६६ ।
“अलोलकीर्त्तिकल्लोलदुकूलवसनोज्ज्वलाम् ।
बभार यद्भुजस्तम्भो जयश्रीशालभञ्जिकाम् ॥”)
वेश्या । इति जटाधरः ॥

शालभञ्जी, स्त्री, काष्ठादिनिर्म्मितपुत्त्रिका । इति

हेमचन्द्रः ॥

शालवः, पुं, लोध्रः । इति शब्दरत्नावली ॥

शालवेष्टः, पुं, (शालस्य वेष्टो निर्यासः ।) शाल-

निर्यासः । इति त्रिकाण्डशेषः ॥

शालसारः, पुं, (शालस्य सारः ।) द्रुमः । हिङ्गुः ।

इति विश्वः ॥

शाला, स्त्री, (शो + “बाहुलकात् श्यतेरपि

कालन् ।” इत्युज्ज्वलदत्तोक्त्या कालन् । १ । ११७ ।)
गृहम् । इत्यमरः ॥ (यथा, भागवते । ८ । ९ । १६ ।
“धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥”)
वृक्षस्य स्कन्धशाखा । गृहैकदेशः । इति
मेदिनी ॥

शालाकी, [न्] पुं, अस्त्रवैद्यः । नापितः । शेल-

धारी । इति केचित् ॥

शालाङ्की, स्त्री, पुत्तलिका । इति शब्दरत्नावली ॥

शालाजिरः, पुं, क्ली, सरावः । इति हेमचन्द्रः

शब्दारत्नावली च ॥

शालाञ्चिः, स्त्री, शाकभेदः । इति शब्दरत्नावली ॥

शालानी, स्त्री, विदारी । इति शब्दरत्नावली ॥

शालामृगः, पुं, (शालाया मृगः ।) शृगालः ।

इति हारावली ॥

शालारं, क्ली, (शालां ऋच्छतीति । ऋ + अण् ।)

हस्तिनखः । सोपानम् । पक्षिपञ्जरः । इति
मेदिनी ॥

शालावृकः, पुं, (शालायां गृहे शाखायां वा वृक

इव ।) वानरः । कुक्कुरः । शृगालः । इत्यमरः ॥
मृगः । इति शब्दरत्नावली । विडालः । इति
राजनिर्घण्टः ॥

शालिः, पुं, (शृणातीति । शॄ + बालुलकात् इञ् ।

रस्य लत्वम् ।) गन्धमार्ज्जारः । इति मेदिनी ॥
कलमादिधान्यम् । षष्टिकादिधान्यम् । इत्य-
मरः ॥ तत्पर्य्यायः । मधुरः २ रुच्यः ३ व्रीहि-
श्रेष्ठः ४ नृपप्रियः ५ धान्योत्तमः ६ कैदारः ७
सुकुमारकः ८ । पुस्तकान्तरे मधुरस्थाने कलम
इति पाठः । स तु दशविधः । यथा, --
“राजान्नषष्टिकसितेतररक्तमण्ड-
स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः ।
व्रीहिस्तथेति दशधा भुवि शालयः स्यु-
स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥”
इति राजनिर्घण्टः ॥
अस्य गुणाः ।
“शालयो मधुराः शीता लघुपाका बलावहाः ।
पित्तघ्नाश्चानिलकफाः स्निग्धा बद्धाल्पवर्च्चसः ॥”
इति राजवल्लभः ॥ * ॥
अथ शालिधान्यलक्षणम् ।
“कण्डनेन विना शुक्ला हैमन्ताः शालयः स्मृताः ॥”
शालीनां नामानि यथा, --
“रक्तशालिः सकलमः पाण्डुकः शकुनादृतः ।
सुगन्धकः कर्द्दमको महाशालिश्च दूषकः ॥
पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः ।
दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः ।
इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः ॥”
अथ तेषां गुणाः ।
“शालयो मधुराः स्निग्धा बल्या बद्धाल्पवर्च्चसः ।
कषाया लघवो रुच्या स्वर्य्या वृष्याश्च वृंहणाः ॥
अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा ।
शालयो दग्धभूजाताः कषाया लघुपाकिनः ॥
सृष्टमूत्रपूरीषाश्च रूक्षाः श्लेष्मापकर्षणाः ।
केदाराः वातपित्तघ्ना गुरवः कफशुक्रलाः ॥
कषाया अल्पवर्च्चस्का मधुराश्च बलावहाः ॥”
केदाराः कृष्टक्षेत्रजा उप्ताः ।
“स्थलजाः स्वादवः पित्तकफघ्ना वातवह्निदाः ।
किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि ॥”
स्थलजा अकृष्टभूमिजाः स्वयंजाताः ।
“वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः ॥
श्लेष्मलाश्चाल्पवर्च्चस्काः कषाया गुरवो हिमाः ॥”
वापिताः कृष्णक्षेत्रे अकृष्णक्षेत्रे च ।
“वापिकेभ्यो गुणैः किञ्चिद्धीनाः प्रोक्ता अवा-
पिताः ॥”
कृष्णक्षेत्रे अकृष्टक्षेत्रे च ।
“रोपितास्तु नवाः वृष्याः पुराणा लघवः
स्मृताः ।
रोपितारोपिता भूयः शीघ्रपाका गुणाधिकाः ॥
छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफा-
पहाः ।
बद्धविट्काः कषायाश्च लघवश्चाल्पतिक्तकाः ॥”
अथ रक्तशालेर्गुणाः ॥
“रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् ।
चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृड्ज्वरापहः ।
विषव्रणश्वासकासदाहनुद्बह्निपुष्टिदः ।
तस्मादल्पान्तरगुणाः शालयो महदादयः ॥”
रक्तशालिः दाउदखानी इति मगधदेशे प्रसिद्धः ।
इति भावप्रकाशः ॥ (पक्षी । इत्युणादिवृत्तो
उज्ज्वलः । ४ । १२७ ॥)

शालिका, स्त्री, (शालिरेव । स्वार्थे कन् । विदा-

दिका । इति शब्दरत्नावली ॥

शालिञ्चः, पुं, शाकविशेषः । शाञ्च्या इति भाषा ।

तत्पर्य्यायः । शालञ्चः २ शितसारः ३ पत्रकेष्टः ४
लोहसारकः ५ । अस्य गुणाः । दीपनत्वम् ।
तिक्तत्वम् । प्लीहार्शःकफवातनाशित्वञ्च । इति
राजनिर्घण्टः ॥

शालिञ्ची, स्त्री, (शालिञ्च + स्त्रियां ङीष् ।)

शाकभेदः । शाञ्चे इति भाषा । अस्य प्रमाणं
शौल्फशब्दे द्रष्टव्यम् ॥

शालिनीकरणं, क्ली, न्यग्भावनम् । इति त्रिकाण्ड-

शेषः ॥ तिरस्कार इति यावत् ॥

शालिपर्णी, स्त्री, (शालेरिव पर्णानि यस्याः ।

ङीष् ।) माषपर्णी । इति राजनिर्घण्टः ॥
पृष्ठ ५/०६६

शालिपिष्टं, क्ली, (शालेः पिष्टमिव शुभ्रत्वात् ।)

स्फटिकम् । इति त्रिकाण्डशेषः ॥

शालिवाहनः, पुं, राजविशेषः । स तु शककर्त्ता

विक्रमादित्यशत्रुश्च ॥

शालिहोत्रः, पुं, घोटकः । इति त्रिकाण्डशेषः ॥

शाली, [न्] त्रि, (शालास्यास्तीति । इनिः ।)

शालाविशिष्टः । पदान्ते युक्तवाचकः । यथा, --
“चन्दनचर्च्चितनीलकलेवरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मित-
शाली ॥”
इति जयदेवः ॥
(श्लाघ्यः । यथा, भागवते । ३ । २४ । १ ।
“दायालुः शालिनीमाह शुक्लाभिर्व्याहृतं
स्मरन् ॥”)

शाली, स्त्री, कृष्णजीरकः । इति राजनिर्घण्टः ॥

शालीनः, त्रि, (शालाप्रवेशनमर्हतीति । शाला +

“शालीनकौपीने अधृष्टाकार्य्ययोः ।” ५ । २ । २० ।
इति खञ्प्रत्ययेन निपातनात् सिद्धम् ।)
अधृष्टः । इत्यमरः ॥ (यथा, मार्कण्डेये । ४१ । ९ ।
“अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः ॥”)
शालासम्बन्धी च ॥

शालीना, स्त्री, (शालिन + टाप् ।) मिश्रया ।

इति राजनिर्घण्टः ॥

शालु, क्ली, (शृणाति शीतागमे । शॄ + बाहुलकात्

ञुण् रेफस्य लत्वञ्च । इत्युज्ज्वलः । १ । ५ ।)
शालूकम् । इति शब्दरत्नावली ॥

शालुः, पुं, (शॄ + ञुण् रेफस्य लत्वञ्च ।) कषाय-

द्रव्यम् । चौरकाख्यौषधिः । इति मेदिनी ॥
भेकः । इति हेमचन्द्रः ॥

शालुकं, क्ली, कुमुदादिमूलम् । तत्पर्य्यायः । पङ्क-

शूरणम् २ शालूकः ३ शालु ४ । इति शब्द-
रत्नावली ॥

शालूकं, क्ली, (शल + “शलिमण्डिभ्यामूकण् ।”

उणा० ४ । ४२ । इति ऊकण् ।) कुमुदादि-
मूलम् । इत्यमरः ॥ जातीफलम् । इति राज-
निर्घण्टः ॥

शालूकः, पुं, (शल + “शलिमण्डिभ्यामूकण् ।”

उणा० ४ । ४२ । इत्यूकण् ।) कुमुदादिमूलम् ।
इति त्रिकाण्डशेषः ॥ (यथा, बृहत्संहिता-
याम् । ४१ । ३ ।
“मिथुनेपि धान्यशारदवल्लीशालूककार्पासाः ॥”)
मण्डूकः । इति राजनिर्घण्टः ॥

शालूरः, पुं, (शलते प्लवेन गच्छतीति । शल +

“खर्ज्जिपिञ्जादिभ्यः ऊरोलचौ ।” उणा० ४ । ९० ।
इति ऊरः ।) भेकः । इत्यमरः ॥

शालेयं, त्रि, (शालीनां क्षेत्रम् । शालि + “व्रीहि-

शाल्योर्ढक् ।” ५ । २ । २ । इति ढक् ।) शाल्युद्भव-
क्षेत्रम् । इत्यमरः ॥ शालासम्बन्धि शालसम्बन्धि
च ॥

शालेयः, पुं, मधुरिका । इत्यमरः ॥

शालेया, स्त्री, (शालेय + टाप् ।) मिश्रेया ।

इति राजनिर्घण्टः ॥

शालोत्तरीयः, पुं, (शालोत्तरे ग्रामे भवः । शालो-

त्तर + छः ।) पाणिनिमुनिः । इति त्रिकाण्ड-
शेषः ॥

शाल्मलः, पुं, शाल्मलीवृक्षः । इति शब्दरत्ना-

वली ॥ (यथा, महाभारते । ३ । ६४ । ३ ।
“अर्ज्जनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः ॥”)
द्वीपविशेषः । इति शब्दमाला ॥ तद्बिवरणं
यथा, --
“अत ऊर्द्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत ।
शाल्मलो द्बिगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् ॥
परिवार्य्य समुद्रन्तु दधिमण्डोदकं स्थितः ।
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ॥
कुत एव सुदुर्भिक्षं क्षमातेजोयुता हि ते ।
प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः ॥
पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः ।
नाम्ना सर्व्वसुखो नाम दिव्यौषधिसमन्वितः ॥
तृतीयश्चैव सौवर्णो भृङ्गपत्रनिभो गिरिः ।
स नाम्ना रोहितो नाम दिव्यो गिरिवरो
महान् ॥
सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः ।
रोहितस्तु तृतीयस्तु रोहिणी नाम विश्रुतः ॥
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ।
प्रजापतिमुपादाय प्रसन्नो विधिवत् स्वयम् ॥
न तत्र नद्यो वर्षं वा शीतोष्णञ्चैव तद्विधम् ।
वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते ॥
न गृहं न च दण्डोऽस्ति ईर्ष्यासूया भयं तथा ।
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ॥
भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् ।
अधमोत्तमो न तेष्वस्ति न लोभो न परिग्रहः ॥
अरोगा बलवन्तश्च एकान्तसुखिताः प्रजाः ।
त्रिंशद्बर्षसहस्राणि मानसीं सिद्धिमास्थिताः ॥
स्वस्वमायुःस्वरूपञ्च धर्म्मैश्वर्य्यं तथैव च ।
शाल्मलाद्येषु विज्ञेयं द्वीपेषु त्रिषु सर्व्वशः ॥
व्याख्यातः शाल्मलाद्यानां द्वीपानान्तु विधिः
शुभः ।
परिमण्डलस्तु स द्वीपश्चक्रवत् परिवेष्टितः ।
सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥”
इति मत्स्यपुराणे भुवनकोषे सप्तद्वीपनिवेशनं
नाम १०० अध्यायः ॥ * ॥ अपि च ।
“प्लक्षद्बीपप्रमाणात्तु द्विगुणेन समन्ततः ।
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥
सप्त वर्षाणि तत्रैव तत्रैव कुलपर्व्वताः ।
ऋज्वायताः सुपर्व्वाणः सप्त नद्यश्च सुव्रताः ॥
कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणः कर्णस्तु महिषः ककुद्वान् सप्त पर्व्वताः ॥
योनितोषा विभृष्टा च चन्द्रा शुक्ला विमोचनी ।
निवृत्तिश्चेति ता नद्यः स्मृताः पापहराः
शिवाः ॥
न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥
यजन्ति सततं तत्र वर्णा वायुं सनातनम् ।
तेषां तस्याथ सायुज्यं स्वारूप्यञ्च सलोकताम् ॥
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।
पीता वैश्यास्तथा कृष्णा द्बीपेऽस्मिन् वृषला
द्विजाः ॥”
इति कौर्म्मे भुवनविन्यासे ४६ अध्यायः ॥ * ॥
मोचरसः । इति रत्नमाला ॥

शाल्मलिः, पुं, स्त्री, वृक्षविशेषः । शिमुल इति

भाषा ॥ (यथा मनौ । ८ । ४६ ।
“शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद-
पान् ॥”)
तत्पर्य्यायः । पिच्छिला २ पूरणी ३ मोचा ४
स्थिरायुः ५ । इत्यमरः ॥ दुरारोहा ६ शाल्म-
लिनी ७ शाल्मलः ८ । इति शब्दरत्नावली ॥
तुलिनी ९ कुक्कुटी १० रक्तपुष्पा ११ कण्ट-
कारी १२ मोचनी १३ । इति जटाधरः ॥
चिरजीवी १४ पिच्छिलः १५ रक्तपुष्पकः १६
तूलवृक्षः १७ मोचाख्यः १८ कण्टकद्रुमः १९
रक्तोत्पलः २० रम्यपुष्पः २१ बहुवीर्य्यः २२
यमद्रुमः २३ दीर्घद्रुमः २४ स्थूलफलः २५
दोर्घायुः २६ । इति राजनिर्घण्टः ॥ कण्ट-
काष्ठः २७ । इति भावप्रकाशः ॥ अस्य गुणाः ।
पिच्छिलत्वम् । वृष्यत्वम् । बल्यत्वम् । मधु-
रत्वम् । शीतलत्वम् । कषायत्वम् । लघुत्वम् ।
स्निग्धत्वम् । शुक्रश्लेष्मवर्द्धनत्वञ्च । तद्रसगुणाः ।
ग्राहित्वम् । कषायत्वम् । कफनाशित्वञ्च ॥
तत्पुष्पं फलञ्च तद्विधम् । इति राजनिर्घण्टः ।
“शाल्मली शीलता स्वाद्वी रसे पाके रसायनी ।
श्लेष्मला स्निग्धबीजा च वृंहणी रक्तपित्तजित ॥
शाल्मलीपुष्पशाकन्तु घृतसैन्धवसाधितम् ।
प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः ॥
रसे पाके च मधुरं कषायं शीतलं गुरु ।
कफपित्तास्रजिद्ग्राहि वातलञ्च प्रकीर्त्तितम् ॥”
इति भावप्रकाशः ॥ * ॥
नरकविशेषः । तत्र शाल्मलिकण्टकैः पीड्यन्ते ॥

शाल्मलिकः, पुं, (शाल्मली + “वुञ्छण्कठजिति ।”

४ । २ । ८० । इति कुमुदादित्वात् ठक् ।)
रोहितकवृक्षः । इति राजनिर्घण्टः ॥

शाल्मलिनी, स्त्री, शाल्मलिवृक्षः । इति शब्दरत्ना-

वली ॥

शाल्मलिपत्रकः, पुं, (शाल्मलिपत्रमिव पत्रं यस्य ।)

सप्तच्छदवृक्षः । इति राजनिर्घण्टः ॥

शाल्मलिस्थः, पुं, (शाल्मलौ वृक्षे तिष्ठतीति । स्था

+ कः ।) गरुडः । इति राजनिर्घण्टः ॥

शाल्मली, स्त्री, (शाल्मलि + कृदिकारादिति वा

ङीष् ।) शाल्मलिवृक्षः । इत्यमरः ॥ शलति
दैर्घात् दूरं गच्छति शाल्मलिः । शल ज गतौ
नाम्नीति मलिण् वृद्धिः । द्बयोरित्युक्ते स्त्रीपक्षे
पाच्छोणादीति ईपि शल्मली च शाल्मलिश्चेति
केचित् तन्मते विभाषया वृद्धिः । शल्मली रक्त-
पुष्पा च ककुटी चिरजीविका इति कोषान्तर-
मिति मुकुटः । इत्यमरटीकायां भरतः ॥

शाल्मली, [न्] पुं, (शाल्मलः आश्रयत्वेनास्त्यस्येति ।

इनिः ।) गरुडः । इति त्रिकाण्डशेषः ॥
पृष्ठ ५/०६७

शाल्मलीकन्दः, पुं, (शाल्मल्याः कन्दः ।) शाल्मलि-

वृक्षमूलम् । तत्पर्य्यायः । विजुलः २ वन-
वासकः ३ वनवासी ४ मलघ्नः ५ मलहन्ता ६ ।
अस्य गुणाः । मधुरत्वम् । मलसंग्रहरोधजय-
कारित्वम् । शिशिरत्वम् । पित्तदाहार्त्तिशोफ-
सन्तापनाशित्वञ्च । इति राजनिर्घण्टः ॥

शाल्मलीफलः, पुं, (शाल्मल्याः फलमिव फलं यस्य ।)

तेजःफलवृक्षः । इति राजनिर्घण्टः ॥

शाल्मलीवेष्टः, पुं, (शाल्मल्या वेष्टः ।) शाल्मलि-

निर्यासः । शिमुल आठा इति भाषा ॥ तत्-
पर्य्यायः । पिच्छा २ । इत्यमरः ॥ मोचरसः ३
शाल्मलः ४ शाल्मलीवेष्टकः ५ । इति रत्न-
माला ॥ मोचस्रावः ६ मोचनिर्यासः ७ ।
अस्य गुणाः ।
“मोचस्रावो हिमो ग्राही स्निग्धो वृष्यः
कषायकः ।
प्रवाहिकातिसारामकफपित्तास्रदाहनुत् ॥”
इति भावप्रकाशः ॥

शाल्मलीवेष्टकः, पुं, (शाल्मलीवेष्ट + स्वार्थे कन् ।)

शाल्मलीवेष्टः । इति रत्नमाला ॥

शाल्वः, पुं, देशविशेषः । यथा, --

“शाल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥”
इति हेमचन्द्रः ॥
राजविशेषः । इति महाभारतम् ॥ (भीष्मेण
सहास्य युद्धवृत्तान्तो महाभारते आदिपर्व्वणि
१०२ अध्याये तथा कृष्णेन सहास्य युद्ध-
वृत्तान्तस्तत्रैव वनपर्व्वणि १५ अध्यायमारभ्य
द्रष्टव्यः ॥)

शाल्वणः, पुं, वातघ्नौषधगणविशेषः । यथा, --

“काकोल्यादिः स वातघ्नः सर्व्वाम्लद्रव्यसंयुतः ।
सानूपोदकमांसस्तु सर्व्वस्नेहसमन्वितः ॥
सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्त्तितः ।
तेनीपनाहं कुर्व्वीत सर्व्वदा वातरोगिणाम् ॥”
इति सुश्रुते चिकित्सितस्थाने ५ अध्यायः ॥

शावः, पुं, (शव्यते प्राप्यते इति । शव गतौ +

घञ् ।) शिशुः । इति शब्दरत्नावली ॥ (यथा
रघुवंशे । ६ । ३ ।
“शिलाविभङ्गैर्मृगराजशावः
तुङ्गं नगोत्सङ्गमिवारुरोह ॥”
शवस्यायम् । शव + अण् ।) शवसम्बन्धिनि,
त्रि ॥ यथा, --
“ग्रहणे शावमाशौचं विमुक्तो सौतिकं स्मृतम् ।
तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥”
इति तिथ्यादितत्त्वे ब्रह्माण्डपुराणम् ॥

शावकः, पुं, (शाव एव । स्वार्थे कन् ।) शिशुः ।

इत्यमरः ॥ (यथा, वृहत्संहितायाम् । ४८ ।
१३ ।
“दत्ताभयखगमूगशावकेषु तेष्वाश्रमेष्वथवा ॥”)

शावरः, पुं, (शवराणामयम् । शवर + अण् ।)

पापम् । अपराधः । लोध्रवृक्षः । इति मेदिनी ॥
शवरस्वामिकृतभाष्यविशेषः । शिवकृततन्त्र-
विशेषश्च । शवरसम्बन्धिनि, त्रि । यथा, --
“संपूज्य प्रेषणं कुर्य्यात् दशम्यां शावरोत्सवैः ॥”
इति तिथ्यादितत्त्वम् ॥

शावरभेदाक्षं, क्ली, ताम्रम् । इति हेमचन्द्रः ॥

शावरी, स्त्री, शूकशिम्बी । इति मेदिनी ॥

शावरोत्सवः, पुं, (शावराणामुत्सवः ।) म्लेच्छ-

कृतोत्सवः । यथा, --
“पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा ।
विसर्ज्जयेत् दशम्यां तु श्रवणे शावरोत्सवैः ॥
अन्तःपादो दिवाभागे श्रवणस्य यदा भवेत् ।
तदा संप्रेषणं देव्या दशम्यां शावरोत्सवैः ॥
रागिणीभिः कुमारीभिर्व्वेश्याभिर्नर्त्तकैस्तथा ।
शङ्खतूर्य्यनिनादैश्च मृदङ्गैः पटहैस्तथा ॥
ध्वजैर्वज्रैर्ब्बहुविधैर्लाजपुष्पप्रकीर्णकैः ।
धूलीकर्द्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः ॥
भगलिङ्गविधानैश्च भगलिङ्गप्रगीतकैः ।
भगलिङ्गादिशब्दैश्च क्रीडयेयुरलं जनाः ॥
परैर्निक्षिप्यते यस्तु यः परं नाक्षिपत्यपि ।
क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम् ॥”
इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः ॥

शाश्वतं, त्रि, (शश्वद्भवम् । शश्वत् + अण् ।)

नित्यम् । इत्यमरः ॥ (यथा, रामायणे ।
१ । २ । १५ ।
“मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”)
पारिभाषिकशाश्वतं यथा, --
“शाश्वतं देवपूजादि विप्रदानञ्च शाश्वतम् ।
शाश्वतं सगुणा विद्याः सुहृन्मित्रञ्च शाश्वतम् ॥”
इति गारुडे नीतिसागरे १०९ अध्यायः ॥

शाश्वतः, पुं, वेदव्यासः । इति शब्दरत्नावली ॥

(शिवः । यथा महाभारते । १३ । १७ । ३२ ।
“प्रवृत्तिश्च निवृत्तिश्च नियतः श्वाश्वतो ध्रुवः ॥”)

शास्कुलः, त्रि, मांसाशी । इति हेमचन्द्रः ॥

शास्कुलिकं, क्ली, (शस्कुल + समूहार्थे ठक् ।)

शस्कुलिसमूहः । इत्यमरः ॥

शास, उ क्ष लु शासने । इति कविकल्पद्रुमः ॥

(अदा०-पर०-सक०-सेट् । क्तावेट् ।) उ,
शासित्वा शिष्ट्वा । क्ष, शासति । लु, शास्ति ।
शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः ।
इति दुर्गादासः ॥

शास ङ उ आशिषि । इति कविकल्पद्रुमः ॥

(भ्वा०-अदा० च-आत्म०-सक०-
सेट् ।) आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा-
णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः
पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते
प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा-
सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात्
क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द-
भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति
धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे
इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया
इकारो न स्यात् । आशीरिष्टार्थाशंसनम् ।
इच्छायामित्यन्ये । इति दुर्गादासः ॥

शास ल ङ आशिषि । इति कविकल्पद्रुमः ॥

(भ्वा०-अदा० च-आत्म०-सक०-
सेट् ।) आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा-
णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः
पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते
प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा-
सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात्
क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द-
भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति
धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे
इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया
इकारो न स्यात् । आशीरिष्टार्थाशंसनम् ।
इच्छायामित्यन्ये । इति दुर्गादासः ॥

शासनं, क्ली, (शास + ल्युट् ।) आज्ञा । (यथा,

मनौ । ९ । २६२ ।
“कुर्व्वीत शासनं राजा सम्यक् सारापरा-
धतः ॥”)
तत्पर्य्यायः । अववादः २ निर्द्देशः ३ निदेशः ४
शिष्टिः ५ । इत्यमरः ॥ शास्तिः ६ । इति
भरतः ॥ आदेशः ७ आदेशनम् ८ । इति
शब्दरत्नावली ॥ शास्त्रम् ९ । इति जटाधरः ॥
राजदत्तभूमिः । लेखा । शास्त्रम् । शास्तिः ।
इति मेदिनी ॥ (दानलिखितताम्रफलकादिः ।
यथा, कथासरित्सागरे । १२४ । ६२-६३ ।
“शासनं लेखयित्वा च तमेवं स समादिशत् ।
ॐकारपीठमार्गेण भद्र गच्छोत्तरां दिशम् ॥
तत्रामुना शासनेन ग्रामं भुङ्क्ष्व मदर्पितम् ।
नाम्ना तं खण्डवटकं पृच्छन् गच्छन्नवाप्स्यसि ॥”
यथाच मार्कण्डेये । ३६ । ८ ।
“वाच्यं ते शासनं पट्टे क्षुद्राक्षरनिवेशितम् ॥”
स्त्रियां धर्म्मोपदेशकर्त्रो । यथा, ऋग्वेदे । १ ।
३१ । ११ ।
“इळामकृण्वन्मनुषस्य शासनीम् ॥”)

शासनहरः, पुं, (हरतीति । हृ + अच् । शास-

नस्य हरः ।) राजदूतः । आज्ञावाहकः । इति
केचित् ॥

शासितः, त्रि, (शास + क्तः ।) कृतशासनः । यथा,

“सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥”
इति पञ्चरत्नम् ॥

शासिता, [ऋ] त्रि, (शासु + तृच् ।) शास्ता ।

इति त्रिकाण्डशेषः ॥ (यथा, मनौ । ७ । १७ ।
“स राजा पुरुषो दण्डः स नेता शासिता च सः ॥”
व्याख्याता । यथा, तत्रैव । २ । १५० ।
“ब्राह्मस्य जन्मनः कर्त्ता स्वधर्म्मस्य च
शासिता ॥”)

शास्ता, [ऋ] त्रि, (शासु + “तृन्तृचौ शंसीति ।”

उणा० २ । ९४ । इति असंज्ञायामपि तृन् ।
स च अनिट् ।) शासनकर्त्ता । तत्पर्य्यायः । देशकः
२ शासिता ३ । इति त्रिकाण्डशेषः ॥ यथा, --
“द्वौ धाता च विधाता च पौराणौ जगतः
पती ।
द्वौ शास्तारौ त्रिलोकेऽस्मिन् धर्म्माधर्म्मौ प्रकी-
र्त्तितौ ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(यथा च भागवते । १ । १२ । २६ ।
“राजर्षीणां जनयिता शास्ता चोत्पथगामि-
नाम् ॥”)

शास्ता, [ऋ] पुं, (शासु + “तृन्तृचौ शसिक्ष-

दादिभ्यः संज्ञायां चानिटौ ।” उणा० २ । ९४ ।
इति तृन् । स च अनिट् ।) बुद्धः । इत्यमरः ॥
उपाध्यायः । राजा । पिता । इति संक्षिप्त-
सारोणादिवृत्तिः ॥
पृष्ठ ५/०६८

शास्तिः, स्त्री, (शास + बाहुलकात् तिः । इत्यु-

ज्जलदत्तः । ४ । १७९ ।) शासनम् । इति
शब्दरत्नावली ॥ (यथा, मार्कण्डेये । १३२ । २० ।
“प्राहोच्चैरस्त्रमेतन्मे दुष्टशास्तिसमुद्यतम् ॥”)

शास्त्रं, क्ली, (शिष्यते अनेन । शास + “सर्व्व-

धातुभ्यष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।)
निदेशः । ग्रन्थः । इत्यमरः ॥ स च ग्रन्थः
अष्टादशविधः । तस्य विवरणं विद्याशब्दे
द्रष्टव्यम् ॥ * ॥ शास्त्रोत्पत्तिर्यथा, --
मत्स्य उवाच ।
“तपश्चचार प्रथमममराणां पितामहः ।
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः ॥
पुराणं सर्व्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
मीमांसान्यायविद्याश्च प्रमाणं तर्कसंयुताः ॥
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः ।
मनसः पूर्ब्बसृष्टा वै जाता ये तेन मानसाः ॥”
इति मात्स्ये ३ अध्यायः ॥ * ॥
शास्त्रोक्तकर्म्म कर्त्तव्यं न तु शास्त्रविरुद्धम् ।
यथा, --
“श्रुतिस्मृतिसदाचारविहितं कर्म्म केवलम् ।
सेवितव्यं चतुर्व्वर्णैर्भजद्भिः केशवं सदा ॥
अन्यथा निरयं यान्ति कुमार्गागमसेवनात् ।
अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म्म संत्यजेत् ॥
स्वबुद्धिरचितैः शास्त्रैः प्रतार्य्येह च बालिशान् ।
विघ्नन्ति श्रेयसो मार्गं लोकनाशाय केवलम् ॥
निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान् ।
तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात् ॥
श्रुतिस्मृतिसदाचारविहितं कर्म्म शाश्वतम् ।
स्वं स्वं धर्म्मं प्रयत्नेन श्रेयोऽर्थीह समाचरेत् ॥
स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः ।
तेन ते निरयं यान्ति युगानां सप्तविंशतिः ॥”
इति पाद्मे उत्तरखण्डे १७ अध्यायः ॥ * ॥
अध्यात्मशास्त्रातिरिक्तशास्त्रनिन्दा यथा, --
“पुराणं भारतं वेदधर्म्मशास्त्राणि यानि च ।
आयुषः क्षपणायैव धर्म्मतश्चेन्न चाचरेत् ॥
पुत्त्रदारादिसंभारः पुंसां संमूढचेतसाम् ।
विदुषां शास्त्रसंभारः तद्योगाभ्यासविघ्नकृत् ॥
इदं ज्ञेयमिदं ज्ञेयं यः सर्व्वं ज्ञातुमिच्छति ।
अपि वर्षशतेनापि शास्त्रान्तं नाधिगच्छति ॥
विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि सञ्चलन् ।
विहाय शास्त्रजालानि पारलौकिकमाचरेत् ॥
पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्य-
शक्तिकः ।
यः संसारान्न चात्मानं समुत्तारयितुं क्षमः ॥”
इति वह्निपुराणे सुनामद्बादशीनामाध्यायः ॥ * ॥
वेदविरुद्धशास्त्राणि यथा, --
“अन्यानि चैव शास्त्राणि लोकेऽस्मिन्मोहनानि च ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥
वामं पाशुपतं योगं नाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदवाह्यं तथेतरत् ॥
वेदमूर्त्तिरहं विप्रा नान्यशास्त्रार्थवादिभिः ।
ज्ञायते मत्स्वरूपञ्च त्यक्त्वा वेदं सनातनम् ॥”
इति कौर्म्मे उपविभागे ३६ अध्यायः ॥ * ॥
अपि च । कूर्म्मपुराणे हिमालयं प्रति देवी-
वाक्यम् ।
“यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विवि-
धानि च ।
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥
करालभैरवञ्चापि यामलं वामनाश्रितम् ।
एवंविधानि चान्यानि मोहनार्थानि तानि तु ।
मया सृष्टानि चान्यानि मोहायैषां भवार्णवे ॥”
तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वर्त्मनि न कदा-
चित् पदं न्यस्तव्यम् । इति मलमासतत्त्वम् ॥ * ॥
पृथिव्यां तन्त्रशास्त्रावतरणं यथा, --
शिव उवाच ।
“लम्बोदर महाभाग शृणु मे परमं वचः ।
इदं महासुसन्दर्भं मम वक्त्राद्बिनिर्गतम् ॥
निर्गतं पार्व्वतीवक्त्रात्तन्त्रं परमदुर्लभम् ।
विलिख्य बहुयत्नेन गच्छ सिद्धाश्रमं सुत ॥
यत्र तिष्ठन्ति मुनयो वेदवेदाङ्गपारगाः ।
अणिमादिगुणैर्युक्तः शीघ्रं त्वं भव मे सुत ॥
इत्युक्तः शङ्करेणासौ चाष्टबाहुरभूत्ततः ।
चतुर्भिर्हस्तैः संलिख्य शिवाय विनिवेदयेत् ॥
शिव उवाच ।
गच्छ पुत्त्र महाबाहो तन्त्रमादाय सत्वरम् ।
सिद्धाश्रमं वनं रम्यं यथेन्द्रस्य च नन्दनम् ।
प्रणम्य प्रययौ शीघ्रं तन्त्रमादाय तद्वनम् ॥”
इत्युपक्रम्य ।
“मुनेर्व्वाक्यं ततः श्रुत्वा तत्तन्त्रं मुनये ददौ ।
एवं तन्त्राणि सर्व्वाणि विलिख्य विनिवेदयेत् ॥”
इति गायत्त्रीतन्त्रे दशमब्राह्मणपटलः ॥ * ॥
शैवपाशुपतादिशास्त्रोत्पत्तिर्यथा, --
“प्रथमं हि मया प्रोक्तं शैवं पाशुपतादिकम् ।
मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् ॥
कणादेन च संप्रोक्तं शास्त्रं वैशेशिकं महत् ।
गौतमेन तथा न्यायं सांख्यन्तु कपिलेन तु ॥
धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम् ॥
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ।
बौद्धशास्त्रं तथा प्रोक्तं लग्ननीलपटादिकम् ॥
आपत्यं शुतिवाक्यानां दर्शयन् लोकगर्हितम् ।
कर्म्मस्वरूपत्याज्यत्वमत्र वै प्रतिपद्यते ।
सर्व्वकर्म्मपरिभ्रष्टं कल्मषन्तु तदुच्यते ॥
गौतमप्रोक्तशास्त्रार्थनिरताः सर्व्व एव हि ।
शार्गालीं योनिमापन्नाः सन्दिग्धाः सर्व्व-
कर्म्मसु ॥”
इति गन्धर्व्वतन्त्रे प्रथमपटलः ॥

शास्त्रकृत्, पुं, (शास्त्रं करोतीति । कृ + क्विप् ।)

ऋषिः । इति त्रिकाण्डशेषः ॥ शास्त्रकर्त्तरि,
त्रि ॥ (यथा, भागवते । १ । १० । २२ ।
“विधित्समानोऽनुससार शास्त्रकृत् ॥”)

शास्त्रगण्डः, त्रि, प्रघटावित् । इति त्रिकाण्डशेषः ॥

हारावल्यां छात्रगण्ड इति पाठः ॥

शास्त्रचक्षुः, [स्] क्ली, (शास्त्रेषु चक्षुरिव ।)

व्याकरणम् । इति केचित् ॥

शास्त्रचारणः, त्रि, (शास्त्रं चारयति प्रचारय

तीति । चर + णिच् + ल्युः ।) शास्त्रदर्शी ।
इति शब्दरत्नावली ॥

शास्त्रज्ञः, त्रि (शास्त्रं जानातीति । ज्ञा + कः ।)

शास्त्रवेत्ता । यथा, --
“अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति ।
दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥”
इति व्यवहारतत्त्वधृतनारदवचनम् ॥

शास्त्रतत्त्वज्ञः, पुं, (शास्त्रस्य तत्त्वं जानातीति ।

ज्ञा + कः ।) गणकः । यथा, शब्दरत्नावल्याम् ।
“दैवज्ञो गणको ज्ञानी मौहूर्त्तो दैवलेखकः ।
वार्त्तान्तिको ज्योतिषिको मौहूर्त्तिकप्रसूचकौ ॥
संवत्सरो वर्षकोषो रेखाजीवी गणाङ्कभुक् ।
तान्त्रिको ज्ञातसिद्धान्तः शास्त्रतत्त्वज्ञ ईरितः ॥”

शास्त्रदर्शी, [न्] त्रि, (शास्त्रं द्रष्टुं शीलमस्य ।

णिनिः ।) शास्त्रज्ञः । तत्पर्य्यायः । अन्तर्व्वाणिः
२ शास्त्रवित् ३ शास्त्रचारणः ४ । इति शब्द-
रत्नावली ॥

शास्त्रवित्, [द्] त्रि, (शास्त्रं वेत्तीति । विद् + सत्-

सूद्विषेति क्विप् ।) शास्त्रदर्शी । इत्यमरः ॥

शास्त्रविप्रतिषिद्धः, त्रि, (शास्त्रेण विप्रतिषिद्धः ।)

शास्त्रनिषिद्धः । शास्त्रशब्दपूर्ब्बकविपूर्ब्बकसिध-
धातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नो वा ॥

शास्त्रशिल्पी, [न्] पुं, (शास्त्रं शिल्पमस्यास्तीति ।

इनिः ।) काश्मीरदेशः । तद्देशस्थे, पुं भूम्नि ।
इति त्रिकाण्डशेषः ॥

शास्त्री, [न्] त्रि, शास्त्रज्ञः । शास्त्रं वेत्तीत्यर्थे

णिन्प्रत्ययेन निष्पन्नः ॥

शास्यः, त्रि, (शास् + ण्यत् ।) शासनीयः ।

शासितव्यः । (यथा, मनौ । ८ । १९१ ।
“यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।
तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥”
शिक्षणीयः । यथा, ऋग्वेदे । १ । १८९ । ७ ।
“अभिपित्ते मनवे शास्यो भूः ।”
“शास्यो भूः शिक्षणीयो भव इदं कुरु इदं कुरु
इति विधेयो भव ।” इति तद्भाष्ये सायणः ॥)

शि, न ञ निशाने । इति कविकल्पद्रुमः ॥ (स्वा०-

उभ०-सक०-अनिट् ।) निशानमिति श्यते
रूपम् । शान ञ तेजे इत्यस्य नित्यसनन्तत्वात् ।
अनेकार्थत्वात् निशानमिह तीक्ष्णीकरणम् ।
न ञ, शिनोति शिनुते खड्गं कर्म्मकारः ।
इति दुर्गादासः ॥

शिंशपा, स्त्री, वृक्षविशेषः । शिशु इति भाषा ।

तत्पर्य्यायः । पिच्छिला २ अगुरुः ३ कपिला ४
भस्मगर्भा ५ । इत्यमरः ॥ अगुरुशिंशपा ६ ।
इति भरतः ॥ कृष्णसारा ७ । इति जटाधरः ॥
पिङ्गला ८ पिच्छला ९ बीरा १० । इति रत्न-
माला ॥ * ॥ यथा, --
“शिंशपा गुरुसारा च पिच्छिला गुरुशिंशपा ।
सा चेत् कपिलवर्णा स्याद्भस्मगर्भा निगद्यते ॥
पृष्ठ ५/०६९
क्वचित्तु कपिला भस्मगर्भा चागुरुशिंशपा ।
पिच्छिला शिंशपा युग्मपत्रिकागुरु चेत्यपि ॥”
इति शब्दरत्नावली ॥
अस्या गुणाः । “शिंशपा वातनाशिनी ।” इति
राजवल्लभः ॥ अपि च ।
“शिंशपा कटुका तिक्ता कषाया शोषकारिणी ।
उष्णवीर्य्या हरेन्मेदः कुष्ठचित्रवमिकृमीन् ।
वस्तिवद्ब्रणदाहास्रवलासागर्भपातिनी ॥”
इति भावप्रकाशः ॥
(तत्काष्ठनिर्म्मितरथस्तु दृढो भवति । यथा, ऋग्-
वेदे । ३ । ५३ । १९ ।
“अभिव्ययस्व खदिरस्य सार-
मोजो धेहि स्पन्दने शिंशपायाम् ।”
स्पन्दने रथस्य गमने सति शिंशपायां शिंश-
पाख्यदारुनिर्म्मिते रथस्य फलके ओजो धेहि
दार्ढ्यं कुरु ।” इति तद्भाष्ये सायणः ॥)

शिक्, [च्] स्त्री, शिक्यम् । इति शब्दरत्ना-

वली ॥

शक्कुः, त्रि, अव्यवसायी । इति त्रिकाण्डशेषः ॥

शिक्थं, क्ली, मधुजातद्रव्यविशेषः । मोम् इति

भाषा । तत्पर्य्यायः । शिक्थकम् २ मधुजम् ३
विघसम् ४ मधुसम्भवम् ५ मोदनम् ६ काचम् ७
उच्छिष्टमोदनम् ८ मक्षिकामलम् ९ क्षौद्रेयम्
१० पीतरागम् ११ स्निग्धम् १२ माक्षिकजम्
१३ क्षौद्रजम् १४ मधुशेषम् १५ द्रावकम् १६
माक्षिकाश्रयम् १७ मधूत्थितम् १८ मधूत्थम्
१९ । अस्य गुणाः । पिच्छिलत्वम् । स्वादुत्वम् ।
कुष्ठवातास्रनाशित्वम् । मृदुत्वम् । कटुत्वम् ।
स्निग्धत्वम् । लेपेन स्फुटिताङ्गविलोपनत्वञ्च ।
इति राजनिर्घण्टः ॥

शिक्थकं, क्ली, (शिक्थ + स्वार्थे कन् ।) शिक्-

थम् । इति राजनिर्घण्टः ॥

शिक्यं, क्ली, (स्रंस + “स्रंसेः शि कुट् किच्च ।”

उणा ० ५ । १६ । इति यत् । स च कित् ।
कुडागमः शिरादेशश्च ।) द्रव्यरक्षार्थरज्जुमया-
धारविशेषः । शिका इति भाषा । तत्पर्य्यायः ।
काचः २ शिक्या ३ शिक् ४ । इति शब्दरत्ना-
वली ॥ (यथा, भागवते । १० । ८ । ३० ।
“हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यै-
श्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ॥”)

शिक्या, स्त्री, (शिक्य + स्त्रियां टाप् ।) शिक्यम् ।

इति शब्दरत्नावली ॥

शिक्यितं, त्रि, (शिक्ये स्थापितमित्यर्थे प्राति-

पदिकात् धात्वर्थे इति णिच् ततः क्तः ।)
शिक्यस्थापितवस्तु । तत्पर्य्यायः । काचितः २ ।
इत्यमरः ॥

शिक्ष, ङ शिक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ह्रस्वी । ङ, शिक्षते ।
शिक्षणं विद्याग्रहणम् । अशिक्षतास्त्रं पितुरेव
मन्त्रविदिति रघुः । इति दुर्गादासः ॥

शिक्षणं, क्ली, (शिक्ष + ल्युट् ।) विद्योपादानम् ।

इति शिक्षाशब्दटीकायां भरतः ॥

शिक्षा, स्त्री, (शिक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ ।

इत्यः । ततष्टाप् ।) शिक्षणम् । श्योनाकवृक्षः ।
इति शब्दमाला ॥ वेदाङ्गशास्त्रविशेषः । इत्य-
मरः ॥ यथा, --
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां
गणः ।
छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥”
इति ।
तत्र अकारादिवर्णानां स्थलकरणप्रयत्नबोधिका
अ-कु-ए-ह-विसर्ज्जनीयाः कण्ठ्या इत्यादिका
शिक्षा । इति तट्टीकायां भरतः ॥ * ॥ * ॥
अथ शिक्षाशास्त्रं लिख्यते ।
“अथ शिक्षां प्रवक्ष्यामि पाणिनीयमतं यथा ।
शास्त्रानुपूर्व्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥
प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥
अनुस्वारो विसर्गश्च ZकVपौ चापि पराश्रितौ ।
दुःस्पृष्टश्चेति विज्ञेयः ऌकारः प्लुत एव च ॥
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातःसवनयोगन्तं छन्दो गायत्त्रमाश्रितम् ॥
कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टुभानुगम् ।
तारं तार्त्तीयसवनं शीर्षण्यं जागतानुगम् ॥
सोदीर्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥
स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥
उदात्ते निषादगन्धारावनुदात्ते ऋषभधैवतौ ।
स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च ॥
ओभावश्च विवृत्तिश्च श-ष-सा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥
यद्योभावप्रसन्धानमुकारादिपरं पदम् ।
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमुष्मणः ॥
हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् ।
औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥
कण्ठ्यावहा वि-चु-य-शास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्द्धन्या ऋ-टु-र-षा दन्त्या ऌ-तु-ल-साः
स्मृताः ॥
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो
बुधैः ।
ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ
स्मृतौ ॥
अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् ।
ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥
संवृतं मात्रिकं ज्ञेयं विवृतन्तु द्बिमात्रिकम् ।
घोषा वा संवृताः सर्व्वे अघोषा विवृताः स्मृताः ॥
स्वराणामुष्मणाञ्चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥
अनुस्वारयमाणाञ्च नासिकास्थानमुच्यते ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥
अलावुवीणानिर्घोषो दन्त्यमूल्यस्वराननु ।
अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः श-ष-सेषु च ॥
अनुस्वारे विवृत्यान्तु विरामे चाक्षरद्वये ।
द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रैकारवकारयोः ॥
व्याघ्री यथा हरेत् पुत्त्रान् दंष्ट्राभ्यां न च पीड-
येत् ।
भीता पतनभेदाभ्यां तद्बद्वर्णान् प्रयोजयेत् ॥
यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते ।
एवं रङ्गाः प्रयोक्तव्याः खेअ-राँ इव खेदया ॥
रक्तवर्णं प्रयुञ्जीरन् नो ग्रसेत् पूर्व्वमक्षरम् ।
दीर्घस्वरं प्रयुञ्जीयात् पश्चान्नासिक्यमाचरेत् ॥
हृदये चैकमात्रः स्यादर्द्धमात्रस्तु मूर्द्धनि ।
नासिकायां तथार्द्धञ्च रङ्गस्यैवं द्विमात्रता ॥
हृदयादुत्करे तिष्ठन् कांस्येन समनुस्वरम् ।
मार्दवञ्च द्विमात्रञ्च जघर्न्वा इति निदर्शनम् ॥
मध्ये तु कम्पयेत् कम्पमुभौ पार्श्वौ समौ तथा ।
स रङ्गं कम्पयेत् कम्पं रथीवेति निदर्शनम् ॥
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडयेत् ।
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥
गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥
माधुर्य्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्य्यं लयसमर्थश्च षडेते पाठका गुणाः ॥
शङ्कितं भीतमुद्घृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसि गतं तथा स्थानविवर्ज्जितम् ॥
उपांशुदुष्टं त्वरितं निरस्तं
विलम्बितं गद्गदितं प्रगीतम् ।
निष्पीडितं ग्रस्तपदाक्षरञ्च
वदेन्न दीनं न तु सानुनास्यम् ॥
प्रातः पठेन्नित्यमुरःस्थितेन
स्वरेण शार्द्दूलरुतोपमेन ।
मध्यं दिने कण्ठगतेन चैव
चक्राह्वसंकूजितसन्निभेन ॥
तारन्तु विद्यात् सवनं तृतीयं
शिरोगतं तच्च सदा प्रयोज्यम् ।
मयूरहंसान्यभृतस्वराणां
तुल्येन नादेन शिरःस्थितेन ॥
अचोऽस्पृष्टा यणस्त्वीषन्नमस्पृष्टाः श-रस्तथा ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥
यमोऽनुनासिका न ह्रो नादिनो ह-झषः
स्मृताः ।
ईषन्नादा यणो जश्च श्वासिनश्च खफादयः ॥
ईषच्छ्वासांश्चरो विद्यात् गोर्द्धामैतत् प्रचक्षते ।
दाक्षीपुत्त्रः पाणिनिना येनेदं व्यापितं भुवि ॥
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
पृष्ठ ५/०७०
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥
शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥
उदात्तमाख्याति वृषोऽङ्गुलीनां
प्रदेशिनीमूलनिविष्टमूर्द्धा ।
उपान्तमध्ये स्वरितं धृतञ्च
कनिष्ठिकायामनुदात्तमेव ॥
उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोङ्गुलिम् ।
निहतन्तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥
अन्तोदात्तमाद्युदात्तमुदात्त-
मनुदात्तं नीचस्वरितम् ।
मध्योदात्तं स्वरितं द्व्युदात्तं
त्र्युदात्तमिति नव पदशय्या ॥
अग्निः सोमः प्र वो वीर्य्यं हविषां
स्वर्बृहस्पतिरिन्द्राबृहस्पती ।
अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्र इत्यु-
दात्तं व इत्यनुदात्तं वीर्य्यं नीचस्वरितम् ॥
हविषां मध्योदात्तं स्वरिति स्वरितम् । बृहस्पति-
रिति द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥
अनुदात्तो हृदि ज्ञेयो मूर्द्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूले तु सर्व्वास्ये प्रचयः स्मृतः ।
चाषस्तु बदते मात्रां द्विमात्रन्त्वेव वायसः ।
शिखी रौति त्रिमात्रन्तुं नकुलस्त्वर्द्धमात्रकम् ॥
कुतीर्थादागतं दग्धमपवर्णञ्च भक्षितम् ।
न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्वि-
षात् ॥
सुतीर्थादागतं व्यक्तं साम्नाय्यं सुव्यवस्थितम् ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥
मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥
अनक्षरं हतायुष्यं विखरं व्याधिपीडितम् ।
अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥
हस्तहीनन्तु योऽधीते स्वरवर्णविवर्ज्जितम् ।
ऋग्यजुःसामभिर्द्दग्धो वियोनिमधिगच्छति ॥
हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् ।
ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥
शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्त्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य दैवीं वाचमिति स्थितिः ॥
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥
अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥
त्रिनयनमुखनिःसृतामिमां य
इह पठेत् प्रयतश्च सदा द्विजः ।
स भवति धनधान्यपशुपुत्त्रकीर्त्तिमा-
नतुलञ्च सुखं समश्नुते दिवीति दिवीति ॥
अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां
यथा सौराष्ट्रिका । गीत्यचोस्पृष्टोदात्तं चाषस्तु
शङ्कर एकादश ॥” इति वेदशिक्षासमाप्तिम-
गमत् ॥ * ॥ अपि च ।
अग्निरुवाच ।
“वक्ष्ये शिक्षां त्रिषष्टिः स्युर्व्वर्णा वा चतुरा-
धिकाः ।
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ॥
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ।
अनुस्वारो विसर्गश्च ZकVपौ चापि परा-
श्रितौ ॥
दुःस्पृष्टश्चति विज्ञेयः ऌकारः प्लुत एव च ।
रङ्गश्च खे अराँ इव हकारः पञ्चमैर्युतः ॥
अन्तःस्थाभिः समायुक्तः औरस्यः कण्ठ्य
एव सः ।
आत्मा बुद्ध्या समेत्यार्थं मनो युङ्क्ते विवक्षया ॥
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
मारुतस्तूरसि चरन्मन्त्रं जनयति स्वरम् ॥
प्रातःसवनयोगन्तं छन्दो गायत्त्रमाश्रितम् ।
कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टभानुगम् ॥
तारं तार्त्तीयसवनं शीर्षण्यं जगतानुगम् ।
सोदीर्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः ॥
वर्णान् जनयते तेषां विभागाः पञ्चधा स्मृताः ।
स्वरः कालगतः स्थानात् प्रयत्नानुप्रदानतः ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु च ॥
ओ-भावश्च विवृत्तिश्च श-ष-सा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥
यद्योभावप्रसन्धानमुकारादिपरं पदम् ।
स्वरान्तं तादृशं विद्यात् यदन्यद्ब्यक्तमुष्मणः ॥
कुतीर्थादागतं दग्धमपवर्णञ्च भक्षितम् ।
एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥
सुतीर्थादागतं द्रव्यं स्नानार्थं सुव्यवस्थितम् ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजत ॥
न करालो न लम्बोष्ठो नाव्यक्तो नानुनासिकः ।
गद्गदाबद्धजिह्वश्च न वर्णान् वक्तुमर्हति ॥
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥
कण्ठ्यावहा वि-चु-य-शास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्द्धन्या ऋ-टु-र-षा दन्त्या ऌ-तु-ल-साः
स्मृताः ॥
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो
बुधैः ।
एऐ तु कण्ठ्यतालव्यौ ओ औ कण्ठ्योष्ठजौ
स्मृतौ ॥
अर्द्धमात्रा तु कण्ठ्या स्यात् एकारैकारयोर्भवेत् ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥
अचोऽस्पृष्टा यणस्त्वीषन्नमस्पृष्टाः शरः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्तो निबोधानुप्रदानतः ॥
यमोऽनुनासिका न ह्रो नादिनो ह झषः स्मृताः ।
ईषन्नादा यणो जश्च श्वासिनश्च खफादयः ।
ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत् प्रचक्षते ॥”
इत्याग्नेये महापुराणे शिक्षानिरूपणं नाम
३३६ अध्यायः ॥

शिक्षाकरः, पुं, (करोतीति । कृ + अच् । शिक्षाया

करः ।) व्यासः । इति शब्दमाला ॥ शिक्षा-
कर्त्तरि, त्रि ॥

शिक्षागुरुः, पुं, (शिक्षाया गुरुः ।) विद्यादाता

गुरुः । मन्त्राद्युपदेशकर्त्ता दीक्षागुरुः । यथा ।
इयं हि रसभावविशेषदीक्षागुरोर्विक्रमादित्य-
स्याभिरूपभूयिष्ठा परिषत् । इत्यभिज्ञान-
शकुन्तलायाम् १ अङ्कः ॥

शिक्षितः, त्रि, (शिक्ष + क्तः ।) विज्ञः । इत्य-

मरः ॥ शिक्षायुक्तः । यथा, --
“आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञा-
नम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥”
इत्यभिज्ञानशकुन्तलायाम् १ अङ्कः ॥

शिक्षिताक्षरः, पुं, (शिक्षितानि अक्षराणि येन ।)

शिक्षाकारी । छात्रः । यथा, --
“स्यादक्षरमुखः कालाक्षरिकः शिक्षिताक्षरः ।”
इति त्रिकाण्डशेषः ॥
(शिक्षिते, त्रि । यथा, राजतरङ्गिण्याम् । ५ । ८३ ।
“स सुय्यनामा मतिमान् प्रबुद्धः शिक्षिता-
क्षरः ।
कस्याप्यासीद्गृहपतेरर्भकाध्यापको गृहे ॥”)

शिखकः, पुं, लेखकः । इति संक्षिप्तसारोणादि-

वृत्तिः ॥

शिखण्डः, पुं, मयूरपुच्छः । इत्यमरः ॥ यथा, --

“शिखण्डोऽस्त्री पिच्छवर्हे शिखिपुच्छशिख-
ण्डके ।”
इति शब्दरत्नावली ॥
(यथा, महाभारते । १२ । २८१ । ५८ ।
“वृत्रस्य रुधिराच्चैव शिखण्डाः पार्थ जज्ञिरे ।
द्विजातिभिरभक्षास्ते दीक्षितैश्च तपोधनैः ॥”)
चूडा । इति मेदिनी ॥

शिखण्डकः, पुं, (शिखण्ड इव । कन् ।) काक-

पक्षः । इत्यमरः । जुल्पी इति भाषा । “द्बे
क्षत्त्रियकुमाराणां शिखात्रये । उक्तञ्च ।
‘बालानाञ्च शिरः कार्य्यं त्रिंशिखं मुण्डमेव
चेति ।’
शिखापञ्चके इत्यन्ये । सामान्येन चूडाया-
मित्यन्ये । काकपक्षाकारत्वात् काकपक्षः ।
शिरसि खण्डते शिखण्डकः मनीषादिः ताल-
व्यादिः । शिखण्डे तु शिखावर्हे इति तालव्यादौ
रभसः । शिखाण्डकश्च । शिखण्डकशिखाण्डका-
विति वाचस्ततिः ।” इति तट्टीकायां भरतः ॥
(यथा, रघुः । ११ । ५ ।
“तौ पितुर्नयनजेन वारिणा
किञ्चिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिमन्वगच्छतां
पौरदृष्टिकृतमार्गतोरणौ ॥”)
मयूरपुच्छे, क्ली च ॥ इति शब्दरत्नावली ॥

शिखण्डिकः, पुं, (शिखण्डीव कायति शब्दायते

इति । कै + कः । यद्वा, शिखण्डोऽस्यास्तीति ।
शिखण्ड + ठन् ।) कुक्कुटः । इति हेमचन्द्रः ॥
पृष्ठ ५/०७१
शिखण्डिका, स्त्री, शिखा । यथा, --
“चूडा केशी केशपाशी शिखा शिखण्डिका
समाः ॥”
इति हेमचन्द्रः ॥

शिखण्डिनी, स्त्री, (शिखण्डश्चूडा अस्त्यस्या इति ।

इनि । ङीप् ।) यूथिका । गुञ्जा । इति मेदिनी ॥
द्रुपदराजकन्या । (यथा, महाभारते । ५ । १९२ । २ ।
“कन्या शिखण्डिनी जाता पुरुषो वै निवे-
दितः ॥”)
सा यक्षस्य पुंस्त्वग्रहणेन पुरुषो भूत्वा शिख-
ण्डीति नाम्ना ख्यातः । एतद्बिवरणं महा-
भारते । ५ । १९० अध्यायमारभ्य विशेषतो
द्रष्टव्यम् ॥ मयूरी । शिखण्डिन्-शब्दात् स्त्रियां
ईप्प्रत्ययेन निष्पन्ना ॥ (विजिताश्वराजस्त्री ।
यथा, भागवते । ४ । २४ । ३ ।
“अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥”
शिखण्डविशिष्टा । यथा, महाभारते । ४ ।
३५ । १ ।
“सा प्राद्रवत् काञ्चनमाल्यधारिणी
ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी ।
सुदक्षिणा वेदिविलग्नमध्या
सा पद्मपत्राभनिभा शिखण्डिनी ॥”)

शिखण्डी, [न्] पुं, मयूरपुच्छः । गाङ्गेयारिः । स

तु द्रुपदराजपुत्त्रः । (अस्य जन्मादिविवरणं
महाभारते । ५ । १९० अध्याये द्रष्टव्यम् ॥)
मयूरः । इति मेदिनी ॥ (यथा, रघुः । १ । ३९ ।
“षड्जसंवादिनीः केका द्बिधाभिन्नाः शिख-
ण्डिभिः ॥”)
कुक्कुटः । बाणः । इति हेमचन्द्रः ॥ गुञ्जा ।
स्वर्णयूथिका । इति राजनिर्घण्टः ॥ विष्णुः ।
यथा । शिखण्डी नहुशो वृषेति तस्य सहस्र-
नामस्तोत्रम् ॥ (शिवः । यथा, महाभारते ।
१३ । १७ । ३१ ।
“जटी चर्म्मी शिखण्डी च सर्व्वाङ्गः सर्व्व-
भावनः ॥”)

शिखरं, क्ली, (शिखास्यास्तीति । “वुञ्छण्-

कठजिति ।” ४ । २ । ८० । अश्मादित्वात् रः
ह्रस्वश्च ।) पर्व्वताग्रम् । तत्पर्य्यायः । कूटम् २
शृङ्गम् ३ । इत्यमरः ॥ शैलाग्रदेशकम् ४ ।
इति शब्दरत्नावली ॥ (यथा, महाभारते ।
१ । १९ । २८ ।
“विदारयन् गिरिशिखराणि पत्रिभिः ॥”)

शिखरः, पुं, क्ली, (शिखास्त्यस्येति । शिखा + रः ।

ह्रस्वश्च ।) वृक्षाग्रम् । तत्पर्य्यायः । शिरः २
अग्रम् ३ । इत्यमरः ॥ शिरम् ४ । इति शब्द-
रत्नावली ॥ प्राग्रम् ५ । इति राजनिर्घण्टः ॥
पर्व्वतशृङ्गम् । पुलकः । कक्षः । पक्वदाडिम-
बीजाममाणिक्यम् । सकलाग्रम् । इति मेदिनी ॥
कोटिः । इति त्रिकाण्डशेषः ॥

शिखरवासिनी, स्त्री, (शिखरे वसतीति । वस +

णिनिः । ङीप् ।) दुर्गा । इति त्रिकाण्डशेषः ॥

शिखरा, स्त्री, मूर्व्वा । इति शब्दचन्द्रिका ॥

शिखरिणी, स्त्री, रसाला । वृत्तभेदः । नारी-

रत्नम् । मल्लिका । रोमावली । इति मेदिनी ॥
वृत्तभेदो यथा, --
“रसै रुद्रैश्छिन्ना य-म-न-स भला गः शिख-
रिणी ।
करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो-
र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ।
इति त्रस्यद्गोपानुचितनिभृतालापजनितं
स्मितं बिभ्रत् देवो जगदवतु गोवर्द्धनधरः ॥”
इति छन्दोमञ्जर्य्याम् २ स्तवकः ॥
नवमालिका । द्राक्षाविशेषः । इति राज-
निर्घण्टः ॥ मूर्व्वा । इति शब्दचन्द्रिका ॥

शिखरी, [न्] पुं, (शिखरोऽस्यास्तीति । शिखर +

इनिः ।) पर्व्वतः । (यथा, गीतायाम् । १० ।
२३ ।
“वसूनां पावकश्चास्मि मेरुः शिखरिणाम-
हम् ॥”)
वृक्षः । अपामार्गः । इति मेदिनी ॥ कोट्टः ।
कोयष्टिः । इति हेमचन्द्रः । वन्दाकः । कर्कट-
शृङ्गी । कुन्दुरुकः । यावनालः । इति राज-
निर्घण्टः ॥ (कोटिविशिष्टे, त्रि । यथा, महा-
भारते । १ । ७४ । ४ ।
“दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो-
महान् ॥”)

शिखलोहितः, पुं, वृक्षविशेषः । इति शब्द-

चन्द्रिका ॥ कुकुरमुडा इति भाषा ॥

शिखा, स्त्री, (शी + “शीङो ह्रस्वश्च ।” उणा०

५ । २४ । इति खः ह्रस्वो गुणाभावश्च । स्त्रियां
टाप् ।) अग्निज्वाला । तत्पर्य्यायः । ज्वालः २
कीलः ३ अर्च्चिः ४ हेतिः ५ शिखा ६ । इत्य-
मरः ॥ (यथा, माघे, । १ । २० ।
“विदुद्युते वाडवजातवेदसः
शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥”)
पिण्डितशिखाग्नेः शुभसूचकत्वं यथा, वायु-
पुराणे ।
“अर्च्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात् कार्य्य-
सिद्धये ॥” * ॥
अग्नेरशुभलक्षणं यथा । ब्रह्मपुराणे ।
“अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके ।
आर्द्रकाष्ठैश्च सम्पन्ने फुत्कारवति पावके ॥
कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् ।
आहुतीर्जुहुयात् यश्च तस्य नाशो भवेत्
ध्रुवम् ॥”
इति तिथितत्त्वम् ॥ * ॥
शिरोमध्यस्थकेशः । तत्पर्य्यायः । चूडा २ केश-
पाशी ३ । इत्यमरः ॥ जुटिका ४ जूटिका ५ ।
इति शब्दरत्नावली ॥ केशी ६ शिखण्डिका ७ ।
इति हेमचन्द्रः ॥ * ॥ गायत्त्र्या शिखाबन्धन
यथा, --
“गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः ।
जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत् ॥” *
शूद्रस्थ शिखाबन्धे मन्त्रो यथा, --
“ब्रह्मवाणीसहस्राणि शिववाणी शतानि च ।
विष्णोर्नामसहस्रेण शिखाबन्धं करोम्यहम् ॥” *
शिखामोचनमन्त्रो यथा, --
“गच्छन्तु सकला देवा ब्रह्मविष्णुमहेश्वराः ।
तिष्ठत्वत्राचला लक्ष्मीः शिखामुक्तं करोम्य-
हम् ॥” * ॥
शिखाबन्धनानन्तरमाचमनं यथा, --
“निबद्धशिख आसीनो द्विज आचमनं चरेत् ।
कृत्वोपवीतं सव्येऽंशे वाङ्मनःकायसंयतः ॥” * ॥
मुक्तशिखस्याचमने दोषो यथा, --
“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।
अकृत्वा पादयोः शौचं आचान्तोऽप्यशुचि-
र्भवेत् ॥”
इति आह्निकतत्त्वम् ॥ * ॥
शाखा । वर्हिचूडा । (यथा, महाभारते ।
१२ । २८२ । ५३ ।
“रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् ॥”)
लाङ्गलिकी । अग्रमात्रम् । (यथा, भागवते ।
३ । १३ । ४४ ।
“सटाशिखोद्धूतशिवाम्बुबिन्दुभिः ॥”)
चूडामात्रम् । प्रपदम् । इति मेदिनी ॥ प्रधा-
णम् । शिफा । घृणिः । इति हेमचन्द्रः ॥ (यथा,
कथासरित्सागरे । २१ । ८५ ।
“स्फुरद्रत्नशिखाजालं धात्रा मोहतमोप-
हम् ॥”)
स्मरज्वरः । इति शब्दरत्नावली ॥

शिखाकन्दं, क्ली, (शिखायुक्तः कन्दो यस्य ।)

गृञ्जनम् । इति राजनिर्घण्टः ॥

शिखाण्डकः, पुं, काकपक्षः । इति हेमचन्द्रः ॥

शिखातरुः, पुं, (शिखायाः दीपशिखायास्तरु-

रिव ।) दीपवृक्षः । इति त्रिकाण्डशेषः ॥ पिल-
सुज इति भाषा ॥

शिखाधरः, पुं, (शिखाया धरः ।) मयूरः । इति

शब्दमाला ॥ मञ्जुघोषः । इति त्रिकाण्ड-
शेषः ॥

शिखाधारः, पुं, (शिखां धरतीति । धृ + अण् ।)

मयूरः । इति शब्दरत्नावली ॥

शिखामूलं, क्ली, (शिखायुक्तं मूलं यस्य ।) गृञ्ज-

नम् । इति राजनिर्घण्टः ॥

शिखालुः, पुं, मयूरशिखा । इति राजनिर्घण्टः ॥

शिखावती, स्त्री, (शिखा विद्यतेऽस्याः । शिखा +

मतुप् । मस्य वः । स्त्रियां ङीप् ।) मूर्व्वा । इति
शब्दचन्द्रिका ॥

शिखावरः, पुं, (शिखा विद्यते अस्य । शिखा +

“दन्तशिखात् संज्ञायाम् ।” ५ । २ । १३३ ।
इति वल्च । रस्य लत्वम् ।) पनसवृक्षः । इति
शब्दमाला ॥

शिखावलः, पुं, (शिखा विद्यतेऽस्य । शिखा +

“दन्तशिखात् संज्ञायाम् ।” ५ । २ । १३३ ।
इति वल्च ।) मयूरः । इत्यमरः ॥ (शिखावल-
नगरम् । शिखावला स्थूणा । इति काशिका ॥)
पृष्ठ ५/०७२

शिखावला, स्त्री, (शिखा + वलच् । टाप् ।)

मयूरशिखा । इति राजनिर्घण्टः ॥

शिखावान्, [त्] पुं, (शिखा विद्यतेऽस्य । शिखा

+ मतुप् । मस्य वः ।) अग्निः । चित्रकवृक्षः ।
इत्यमरः ॥ केतुग्रहः । इति शब्दरत्नावली ॥
शिखायुक्ते, त्रि ॥ (यथा, मनौ । १ । ३८ श्लोके ।
“केतवः शिखावन्ति ज्योतींषि ।” इति मेधा-
तिथिकुल्लूकौ ॥)

शिखावृक्षः, पुं, (शिखाया वृक्षः इव ।) दीपवृक्षः ।

इति शिखातरुशब्ददर्शनात् ॥

शिखावृद्धिः, स्त्री, (शिखेव वृद्धिर्यस्याः ।) कायिका

वृद्धिः । प्रात्यहिकदेयलाभः । इति स्मृतिः ॥

शिखिकण्ठं, क्ली, (शिखिनो मयूरस्य कण्ठ इव

आकृतिर्यस्य ।) तुत्थम् । इति रत्नमाला ॥

शिखिग्रीवं, क्ली, (शिखिनः ग्रीवेव आकृतिर्यस्य ।)

तुत्थम् । इत्यमरः ॥

शिखिध्वजः, पुं, (शिखिनो वह्नेर्ध्वज इव ।) धूमः ।

इति त्रिकाण्डशेषः ॥ (शिखी मयूरो ध्वजो
यस्य ।) कार्त्तिकेयः । इति शब्दरत्नावली ॥

शिखिनी, स्त्री, (शिखा विद्यतेऽस्याः । इनिः ।

स्त्रियां ङीष् ।) मयूरशिखा । इति राज-
निर्घण्टः ॥

शिखिपुच्छं, क्ली, (शिखिनः पुच्छम् ।) मयूर-

पिच्छम् । यथा, --
“शिखण्डोऽस्त्री पिच्छवर्हे शिखिपुच्छशिख-
ण्डके ॥”
इति शब्दरत्नावली ॥

शिखिप्रियः, पुं, (शिखिनः प्रियः ।) लगुवदरः ।

इति राजनिर्घण्टः ॥

शिखिमण्डलः, पुं, वरुणवृक्षः । इति शब्दरत्ना-

वली ॥

शिखिमोदा, स्त्री, (शिखिनं मोदयतीति । मुद् +

णिच् + अच् । टाप् ।) अजमोदा । इति
राजनिर्घण्टः ॥

शिखियूपः, पुं, श्रीकारी मृगः । इति राज-

निर्घण्टः ॥

शिखिवर्द्धकः, पुं, (शिखिनं जठराग्निं वर्द्धयतीति ।

वृध + ण्वुल् ।) कुष्माण्डः । इति शब्दरत्नावली ॥

शिखिवाहनः, पुं, (शिखी वाहनं यस्य ।) कार्त्ति-

केयः । इत्यमरः ॥

शिखिव्रतं, क्ली, (शिखिनो व्रतम् ।) व्रतविशेषः ।

यथा, --
ब्रह्मोवाच ।
“वक्ष्ये प्रतिपदादीनि व्रतानि व्यास श्रूयताम् ।
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ।
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥”
इति गारुडे १२९ अध्यायः ॥

शिखी, [न्] पुं, (शिखास्यास्तीति । शिखा +

“व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।)
मयूरः । (यथा, बृहत्संहितायाम् । ३ । २८ ।
“शिखिपत्रनिभः सलिलं न करोति द्बाद-
शाब्दानि ॥”)
अग्निः । (यथा, महाभारते । ४ । ५१ । ९ ।
“खड्गी च धन्वी च विभाति पार्थः
शिखी वृतः स्रुग्भिरिवाज्यसिक्तः ॥”)
चित्रकवृक्षः । इत्यमरः । बलीवर्द्दः । शरः ।
केतुग्रहः । द्रुमः । कुक्कुटः । इति मेदिनी ॥
घोटकः । इति हेमचन्द्रः ॥ अजलोमा । इति
रत्नमाला ॥ सितावरः । मेथिका । इति राज-
निर्घण्टः ॥ पर्व्वतः । ब्राह्मणः । दीपः । इति
केचित् ॥ शिखायुक्ते, त्रि । इति मेदिनी ॥

शिग्रुः, पुं, (शेते स्वल्पेपि वायौ । शी + “जत्र्वा-

दयश्च ।” उणा० ४ । १०२ । इति रुः । ह्रस्वो गुगा-
गमश्च ।) शाकम् । इत्यमरः ॥ वृक्षविशेषः ।
शजिना इति भाषा । तत्पर्य्यायः । हरित-
शाकः २ शाकपत्रः ३ सुपत्रकः ४ उपदंशः ५
क्षमादंशः ६ कोमलपत्रकः ७ बहुमूलः ८
दंशमूलः ९ तीक्ष्णमूलः १० । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । तीक्ष्णत्वम् ।
वातकफमुखजाड्यव्रणदोषहरत्वम् । दीपनत्वम् ।
रुच्यत्वञ्च । तस्य पत्रशाकगुणाः । रुच्यत्वम् ।
वातकफकृमिनाशित्वम् । कटुत्वम् । उष्णत्वम् ।
दीपनत्वम् । पथ्यत्वम् । पाचनत्वञ्च ॥ * ॥
अपि च ।
“शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः ।
मुखमोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः ॥
शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा ।
जन्तुवातार्त्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥ * ॥
श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः ।
समूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥
श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः ।
अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥ * ॥
रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः ।
सुगन्धिः केशरी सिंहो मृगारिश्च प्रकी-
र्त्तितः ॥
रक्तशिग्रुर्महावीर्य्यो मधुरश्च रसायनः ।
शोफाध्मानसमीरार्त्तिपित्तश्लेष्मापसारकः ॥”
इति राजनिर्घण्टः ॥
(बाणप्रस्थाश्रमिणां तद्भक्षणनिषेधो यथा मनौ ।
६ । १४ ।
“वर्ज्जयेन्मधुमांसञ्च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ॥”
“शिग्रुकं वाह्लीकेषु प्रसिद्धं शाकम् ।” इति
मेधातिथिकुल्लूकौ ॥)

शिग्रुजं, क्ली, (शिग्रोर्ज्जायते इति । जन + डः ।)

शोभाञ्जनबीजम् । तत्पर्य्यायः । श्वेतमरिचम् २ ।
इत्यमरः ॥ शिग्रुभवे, त्रि ॥

शिग्रुबीजं, क्ली, (शिग्रोर्ब्बीजम् ।) शोभाञ्जन-

बीजम् । इति शब्दचन्द्रिका ॥

शिघ, इ आघ्राणे । इति कविकल्पद्रुमः ॥ (भ्वा०

पर०-सक०-सेट् ।) इ, शिङ्घ्यते । इति दुर्गा-
दासः ॥

शिङ्घाणं, क्ली, (शिङ्घ + आणकः । पृषोदरादित्वात्

कलोपः । इत्युणादिवृत्तौ उज्ज्वलदत्तः । ३ । ८३ ।)
काचपत्रम् । लोहमलम् । नासिकामलम् ।
इति मेदिनी ॥ शिक्नि इति भाषा ॥

शिङ्घाणकः, पुं, (शिङ्घ्यते इति । शिघ + “आणको

लूधूशिंधिधाञ्भ्यः ।” उणा० ३ । ८३ । इति
आणकः ।) श्लेष्मा । इत्युणादिकोषः ॥

शिङ्घाणकः, पुं, क्ली, (शिङ्घ + आणकः ।) नासिका-

मलम् । इत्युणादिकोषः ॥

शिङ्घितं, त्रि, (शिङ्घ + क्तः ।) घ्रातम् । इति

शब्दरत्नावली ॥

शिज, इ ल कि ङ अस्फुटध्वनौ । इति कविकल्प-

द्रुमः ॥ (चुरा०-पक्षे भ्वा०-अदा० च-आत्म०-
अक०-सेट् ।) अस्फुटध्वनिरिह भूषणकर्त्तृक
एव । भूषणानान्तु शिञ्जितमित्यमरात् । इ,
शिञ्ज्यते । ल ङ, शिङ्क्ते । कि ङ, शिञ्जयते
शिञ्जते मञ्जीरम् । तालैः शिञ्जद्वलयसुभगै-
र्नर्त्तितः कान्तयाने इत्यत्र शिञ्जदिति गणकृता-
नित्यत्वादिति रमानाथः । वस्तुतस्तु शिङ्क्ते
शिञ्जः पचादित्वादन् ततः शिञ्ज इवाचरतीति
क्वौ शत्रन्तम् । इति दुर्गादासः ॥

शिञ्जा, स्त्री, (शिजि अव्यक्तशब्दे + “गुरोश्च

हलः ।” ३ । ३ । १०३ । इत्यः । टाप् ।) भूषण-
शब्दः । इति शब्दरत्नावली ॥ धनुर्गुणः । इति
हेमचन्द्रः ॥

शिञ्जितं, क्ली, (शिञ्ज + क्तः ।) भूषणध्वनिः ।

इत्यमरः ॥ (यथा, --
“नखानि विधुशङ्कया विरहिणी करेणावृणोत्
ततः किशलयभ्रमात् स्वयमथाक्षिपद्दूरतः ।
ततो वलयशिञ्जितं भ्रमरगुञ्जिताशङ्कया
उहूरिति कुहूरवध्वनिधिया ततो मूर्च्छिता ॥”
इत्युद्भटः ॥)

शिञ्जिनी, स्त्री, (शिञ्जति आकृष्टमुक्तां शब्दा-

यते इति । शिञ्ज + णिनिः । स्त्रियां ङीप् ।)
धनुर्गुणः । इत्यमरः ॥ नूपुरः । इति हेम-
चन्द्रः ॥

शिञ्जी, [न्] त्रि, भूषणशब्दविशिष्टः । शिञ्जा

विद्यतेऽस्य इत्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

शिट, अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) शेटति खलं लोकः । इति
दुर्गादासः ॥

शिण्डाकी, स्त्री, खाद्यद्रव्यविशेषः । यथा, --

“शिण्डाकी राजिकायुक्तैः स्यान्मूलकदलद्रवैः ।
सर्षपस्वरसैर्व्वापि शालिपिष्टकसंयुतैः ।
शिण्डाकी रोचनी गुर्व्वी पित्तश्लेष्मकरी स्मृता ॥”
इति राजनिर्घण्टः ॥

शितं, त्रि, (शो तनूकरणे + क्तः । “शाच्छोरन्य-

तरस्याम् ।” ७ । ४ । ४१ । इति इकारादेशः ।)
दुर्ब्बलः । निशितः । इति मेदिनी ॥ (यथा,
रघौ । ६ । ४२ ।
“धारां शितां रामपरश्वधस्य
सम्भावयत्युत्पलपत्रसाराम् ॥”)
कृशः । इति विश्वः ॥ (पुं, विश्वामित्रगोत्रीय
ऋषिः । यथा, महाभारते । १३ । ४ । ५३ ।
पृष्ठ ५/०७३
“आङ्घ्रिको नैकट्टक् चैव शिलायूपः शितः
शुचिः ॥”)

शितद्रुः, स्त्री, शतद्रुनदी । इत्यमरः ॥ शतलज्

इति ख्याता ॥ क्षीरमोरटः । इति रत्नमाला ॥

शितशूकः, पुं, (शितं निशितं शूकं यस्य ।)

यवः । इत्यमरः ॥ दन्त्यादिरित्येके इति भरतः ॥
गोधूमः । इति त्रिकाण्डशेषः ॥

शितिः, त्रि, (शतिः सौत्रो धातुः + “क्रमि-

तमिशतिस्तम्भामत इच्च ।” उणा० ४ । १२१ ।
इति इन् । स च कित् । अत इकारश्च ।)
शुक्त्रः । कृष्णः । (यथा, माघे । १५ । ४८ ।
“शितितारकानुमितताम्र-
नयनमरुणीकृतं क्रुधा ॥”)
भूर्जवृक्षे, पुं । इति मेदिनी ॥ यथा चे ।
“शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ।”
इति शब्दरत्नावली ॥

शितिकण्ठः, पुं, (शितिः कण्ठे यस्य ।) शिवः ।

इत्यमरः ॥ (यथा, भागवते । ४ । ३ । १२ ।
यासां व्रजद्भिः शितिकण्ठ ! मण्डितं
नभो विमानैः कलहंसपाण्डुभिः ॥”)
दात्यूहपक्षी । इति त्रिकाण्डशेषः ॥) यथा,
महाभारते । १ । ९० । ६ ।
“यदा तु तान् वितुदन्ते वयांसि
तथा गृध्राः शितिकण्ठाः पतङ्गाः ॥”)

शितिचारः, पुं, शाकविशेषः । यथा, --

“शितिचारः सूतपुत्त्रो वितन्नं सुनिषण्णकम् ॥”
इति जटाधरः ॥

शितिच्छदः, पुं, (शिती छदौ यस्य ।) हंसः । इति

शब्दरत्नावली ॥

शितिपक्षः, पुं, (शिती शुक्लौ प्रक्षौ यस्य ।)

हंसः । इति शब्दरत्नावली ॥

शितिसारकः, पुं, (शितिः सारो यस्य ।) तिन्दु-

वृक्षः । इत्यमरः ॥

शिथिलं, त्रि, (श्रथ + “अजिरशिशिरशिथि-

लेति ।” उणा० १ । ५४ । इति किरच्-
प्रत्ययेन साधुः ।) श्लथः । इति हेमचन्द्रः ॥
(यथा, भागवते । ४ । २८ । १५ ।
“शिथिलावयवो यर्हि गन्धर्व्वैर्हृ तपौरुषः ॥”)

शिथिलं, क्ली, (श्रथ + किरच् ।) मन्दबन्धनम् ।

मन्यरत्वम् । इति संक्षिप्तसारोणादिवृत्तिः ॥
संयोगविशेषः । यथा, --
“प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।”
इति भाषापरिच्छेदः ॥
“प्रचय इति मूले शिथिलाख्य इति किञ्चिदव-
यवावच्छेदेनावयवान्तरसंयोगिनि महत्त्ववति
अवयवे वर्त्तमानः संयोगः प्रचय इत्येके । अत्र
महत्त्वपद न देयं परमाणुसंयोगस्य प्रचयत्वे-
ऽपि न क्षतिरित्यन्ये । भूयोऽवयवावच्छेदेनाव-
यवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः
प्रचयः तेन परमाणुसंयोगो द्व्यणुकसंयोगो वा
न प्रचय इत्यमरे ।” इति सिद्धान्तमुक्तावली-
टीकादिनकरी ॥

शिनिः, पुं, क्षत्त्रियभेदः । इत्युणादिकोषः ॥ (यथा

महाभारते । २ । ४ । ३० ।
“अक्रूरः कृतकर्म्मा च सत्यकश्च शिनेः सुतः ॥”)

शिनेर्नप्ता, [ऋ] पुं, सात्यकिः । इति त्रिकाण्ड-

शेषः ॥

शिपविष्टः, पुं, शिपिविष्टः । इत्यमरटीकायां रमा-

नाथः ॥

शिपिः, पुं, रश्मिः । यथा, --

“शैत्यात् शयनयोगाच्च शिपिवारि प्रचक्षते ।
तत्पानाद्रक्षणांच्चैव शिपयो रश्मयो मताः ।
तेषु प्रवेशात् विश्वेशः शिपिविष्ट इहोच्यते ॥”
इति व्यासवनम् ॥

शिपिविष्टः, पुं, खलतिः । दुश्चर्म्मा । महेश्वरः ।

इत्यमरः ॥ कुष्ठी । इत्यमरटीकायां रायमुकुटः ॥
अस्य रूपान्तरम् । शिपविष्टः । शिपिविष्टः ।
इत्यमरटीका ॥ विष्णुः यथा, --
“नैकरूपी बृहद्रुपः शिपिविष्टः प्रकाशनः ॥”
इति तस्य सहस्रनामस्तोत्रं रमानाथश्च ॥
(पशुप्रविष्टे, त्रि । यथा, भागवते । ४ । १३ । ३५ ।
“पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥”
“शिपिषु पशुषु यज्ञरूपेण प्रविष्टाय । तथाच
श्रुतिः यज्ञो वै विष्णुः पशवः शिपिः यज्ञ एव
पशुषु प्रतितिष्ठतीति ।” इति श्रीधरस्वामी ॥)

शिप्रः, पुं, सरोवरविशेषः । यथा, --

“एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।
अरुन्धतीं वशिष्ठस्तु मोदमाप तया सह ॥
तत्र यत् पतितं तोयं मानसाचलकन्दरे ।
विवाहावभृतार्थाय शान्त्यर्थं वसुधाकृतम् ॥
ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ॥
हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् ।
तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे ।
तेन शिप्रा नदी जाता विष्णुना प्रेरिता
क्षितिम् ॥”
इति कालिकापुराणे २३ अध्यायः ॥

शिपा, स्त्री, नदीविशेषः । यथा, --

“ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च ।
शिप्र नामं सरः पूर्णं ददृशुर्द्रुहिणादयः ॥
तद्रहस्थानमासाद्य ब्रह्मशक्रादयः सुराः ।
उपविष्टा यथान्यायं पुरस्कृत्य महेश्वरम् ॥
तं शिप्रसंज्ञकासारं मनोज्ञं सर्व्वदेहिनाम् ।
शीतामलजलं सर्व्वैर्गुणैर्मानससम्मितम् ॥
दृष्ट्वा क्षणं हरस्तस्मिन् सौत्सुकोऽभूदवेक्षणे ।
शिप्रां नाम नदीं तस्मान्निःसृतां दक्षिणोदधिम् ।
गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान् ॥”
इति कालिकापुराणे १९ अध्यायः ॥
(हनुः । यथा, ऋग्वेदे । ८ । ६५ । १० ।
“उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।”
“शिप्रे हनू ।” इति तद्भाष्ये सायणः ॥)

शिफः, पुं, शिफा । इत्यमरटीकायां विद्याविनोदः ॥

शिफा, स्त्री, वृक्षाणां जटाकारमूलम् । शिकड्

इति ख्यातम् । तत्पर्य्यायः । जटा । २ । इत्य-
मरः ॥ मूलम् ३ । इति जटाधरः ॥ नदी
(यथा ऋग्वेदे । १ । १०४ । ३ ।
“हते ते स्यातां प्रवणे शिफायाः ।”
“शिफायाः शिफा नाम नदी तस्याः ।” इति
तद्भाष्ये सायणः ॥) मांसिका । माता । इति
मेदिनी ॥ शतपुष्पा । हरिद्रा । इति राज-
निर्घण्टः ॥ पद्मकन्दः । इति मुकुटधृतस्वामी ॥
(लता । इति मेधातिथिः ॥ यथा, मनौ । ९ ।
२३० ।
“शिफाविदलरज्ज्वाद्यैर्व्विदध्यान्नृपतिर्द्दमम् ॥)

शिफाकः, पुं, (शिफा इव । कन् ।) पद्ममूलम् ।

इति शब्दरत्नावली ॥

शिफाकन्दः, पुं, (शिफायुक्तः कन्दो यस्य ।) पद्म-

मूलम् । तत्पर्य्यायः । करहाटः २ । इत्यमरः ॥
शिफाकः ३ । इति शब्दरत्नावली ॥ पद्मकन्दः
४ कर्कटः ५ । इति जटाधरः ॥ शिफा ६ कन्दः
७ । इति मुकुटधृतस्वामी ॥

शिफाधरः, पुं, (शिफाया धरः ।) शाखा । इति

शब्दचन्द्रिका ॥

शिफारुहः, पुं, (शिफाया रोहतीति । रुह +

कः ।) वटवृक्षः । इति राजनिर्घण्टः ॥

शिमृडी, स्त्री, क्षुपविशेषः । चाङ्गोनि इति

हिन्दीभाषा । तत्पर्य्यायः । मतिदा २ बल्या ३
पङ्गुल्यहारिणी ४ द्रवत्पत्री ५ वातघ्नी ६ गुच्छ-
पुष्पी ७ । अस्या गुणाः । कटुत्वम् । उष्णत्वम् ।
वातपृष्ठशूलनाशित्वम् । रसायने युक्ता चेत्
देहदार्ढ्यकारित्वञ्च । इति राजनिर्घण्टः ॥

शिम्बः, पुं, चक्रमर्द्दकः । इति शब्दचन्द्रिका ॥

शिम्बा, स्त्री, (शिम्ब + टाप् ।) कलयादित्वक् ।

सुँटी इति छिम्डा इति च भाषा । तत्-
पर्य्यायः । समी २ । इत्यमरः ॥ सिम्बा ३
सिम्बी ४ शिम्बी ५ शिम्बिका ६ शमी ७
सिम्बिका ८ शिम्बिः ९ । इति शब्दरत्नावली ॥
शमिः १० । इति हेमचन्द्रः ॥

शिम्बिः, स्त्री, शिम्बा । इति हेमचन्द्रः ॥ एरका ।

इति भावप्रकाशः ॥

शिम्बिकः, पुं, कृष्णमुद्गः । यथा, --

“कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः ॥”
इति हेमचन्द्रः ॥

शिम्बिका, स्त्री, (शिम्बि + कन् । टाप् ।) शिम्बा

इति शब्दरत्नावली ॥

शिम्बिपर्णिका, स्त्री, (शिम्बिपर्णी + स्वार्थे कन् ।)

मुद्गपर्णी । इति रत्नमाला ॥

शिम्बिपर्णी, स्त्री, (शिम्बेः पर्णमिव पर्णमस्याः ।

ङीष् ।) मुद्गपर्णी । इति शब्दचन्द्रिका ॥

शिम्बी, स्त्री, (शिम्बि + पक्षे ङीष् ।) शिम्बा ।

इति शब्दरत्नावली ॥ (यथा, राजतर-
ङ्गिण्याम् । १ । १११ ।
“भुञ्जाने कच्छगुच्छानां शिम्बीरम्बुजलोचने ॥
मुद्गपर्णी । कपिकच्छुः । इति राजनिर्घण्टः ॥

शिरः, पुं, पिप्पलीमूलम् । इति मेदिनी । मस्त-

कम् । इति जटाधर ॥ (यथा, --
पृष्ठ ५/०७४
“पिण्डं दद्यात् गयाशिरे ।” इति वायुपुराणम् ॥
“शिरो वाटी शिरोऽदन्तो रजोवाटी रजस्तथा ।”
इति कोषान्तरम् ॥) शय्या । अजगरः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

शिरः, [स्] क्ली, (श्रि + “श्रयतेः स्वाङ्गे शिरः

किच्च ।” उणा० ४ । १९३ । असुन् । सच कित् ।
धातोः शिरादेशश्च ।) शिखरम् । (यथा,
महाभारते । ४ । २३ । २ ।
“यथा वज्रेण वै दीर्णं पर्व्वतस्य महच्छिरः ॥”)
मस्तकम् । इत्यमरः ॥ (यथा, लक्ष्मीचरित्रे ।
“शिरः सपुष्पं चरणौ सुपूजितौ ॥”)
तच्च मासमात्रेण भवति । इति सुखबोधः ॥
तद्रोगनाशकौषधम् । यथा, --
“शिरोरोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् ।”
इति गारुडे १८८ अध्यायः ॥
प्रधानम् । (यथा, भागवते । ५ । १४ । ४५ ।
“योगाय सांख्यशिरसे प्रकृतीश्वराय ॥”)
सेनाग्रम् । इति मेदिनी ॥

शिरःकपाली, [न्] पुं, (शिरःकपालोऽस्यास्तीति

इनिः ।) नरमस्तककपालधारी सन्न्यासी । इति
केचित् ॥

शिरःफलः, पुं, (शिरस्तुल्यं फलं यस्य ।) नारि-

केलः । इति त्रिकाण्डशेषः ॥

शिरःशूलं, क्ली, (शिरसः शूलम् ।) मस्तक-

वेदनारोगः । (यथा, कथासरित्सागरे । १३ ।
१५५ ।
“प्रातः सोऽपि शिरःशूलव्यपदेशेन वेष्टनम् ।
कृत्वा प्रच्छादयामास ललाटतटमङ्कितम् ॥”)
तस्यौषधं यथा, --
“श्वेतापराजितामूलं पिप्पलीशुण्ठिसंयुतम् ।
परिपिष्टं शिरोलेपात् शिरःशूलविनाशनम् ॥”
इति गारुडे १८८ अध्यायः ॥

शिरजः, पुं, (शिराज्जायते इति । जन + डः ।)

केशः । इति शब्दरत्नावली ॥

शिरसिजः, पुं, (शिरसि जायते इति । जन +

डः ।) केशः । इति जटाधरः ॥ (यथा,
माघे । ७ । ६२ ।
“श्लथशिरसिजपाशपातभारा-
दिव नितरां नतिमद्भिरंसभागैः ॥”)

शिरसिरुहः, पुं, (शिरशि रोहतीति । रुह +

कः ।) केशः । इति शब्दरत्नावली ॥

शिरस्कं, क्ली, शिरस्त्राणम् । इति हेमचन्द्रः ॥

शिरःसम्बन्धिनि, त्रि ॥

शिरस्त्रं, क्ली, (शिरस्त्रायते इति । त्रै + कः ।)

शिरोरक्षणसन्नाहः । टोप् इति ख्यातः । इत्य-
मरभरतौ ॥ (यथा राजतरङ्गिण्यम् । ५ । ४७ ।
“वल्गन् मध्येऽश्ववाराणां नृत्यत्येवाग्रवाजिना
वल्गाङ्केनोद्वहल्लम्बं शिरस्त्रं वामपाणिना ॥”)

शिरस्त्राणां, क्ली, (शिरस्त्रायते अनेन । त्रै +

ल्युट् ।) शिरोरक्षणसन्नाहः । खोपडा इति
टोप् इति च भाषा । तत्पर्य्यायः । शीर्षण्यम् २
शीर्षकम ३ शिरस्कम् ४ । इति हेमचन्द्रः ॥
शिरस्त्रम् ५ । इत्यमरः ॥ (यथा, रघौ ।
४ । ६४ ।
“अपनीतशिरस्त्राणाः शेषास्त शरणं ययुः ॥”)

शिरस्यः, पुं, (शिरस् + “शाखादिभ्यो यत् ।”

५ । ३ । १०३ । इति यत् ।) विशदकचः ।
तत्पर्य्यायः । शीर्षण्यः २ । इत्यमरः ॥ द्वे स्वतः
स्नानादिना वा निर्म्मले अन्योन्यासंपृक्ते केशे ।
इति भरतः ॥

शिरा, स्त्री, धमनिः । इति मेदिनी ॥ शिर इति

भाषा । अस्याः पर्य्यायादिकं नाडीशब्दे द्रष्ट-
व्यम् ॥

शिरापत्रः, पुं, (शिरायुक्तं पत्रं यस्य ।) हिन्ताल-

वृक्षः । इति राजनिर्घण्टः ॥ कपित्थः । इति
शब्दचन्द्रिका ॥

शिरालं, क्ली, (शिराः सन्ति अस्य । “प्राणि-

स्थादातो लजन्यतरस्याम् ।” ५ । २ । ९६ ।
इति लच् ।) कर्म्मरङ्गम् । इति शब्द-
चन्द्रिका ॥ (शिरायुक्ते, त्रि । यथा, भट्टौ ।
२ । ३० ।
“आपिङ्गरूक्षोर्द्धशिरस्यबालैः
शिरालजङ्ग्रैर्गिरिकूटदघ्नैः ॥”)

शिरालकः, पुं, (शिराल इव । कन् ।) अस्थिभङ्ग-

वृक्षः । इति शब्दचन्द्रिका ॥ हाडभाङ्गा इति
भाषा ॥

शिरावृत्तं, क्ली, सीसकम् । इति राज-

निर्घण्टः ॥

शिरिः, पुं, (शृणात्यनेन + “कॄगॄशॄपॄकुटिभिदिछि-

दिभ्यश्च ।” उणा० ४ । १४२ । इति इः । स च
कित् ।) खङ्गः । शरः । हिंस्रः । इत्युणादि-
कोषः ॥ शलभः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

शिरीषः, पुं, (शृणाति झटिति म्लायतीति । शॄ +

“शॄपॄभ्यां किच्च ।” उणा० ४ । २७ । इति
ईषन् सच कित् ।) स्वनामख्यातवृक्षः । (यथा,
कुमारे । ५ । ४ ।
“पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्पं न पुनः पतत्रिणः ॥”)
तत्पर्य्यायः । कपीतनः २ भण्डिलः ३ । इत्य-
मरः ॥ भण्डिरः ४ भण्डीरः ५ भण्डीलः ६ ।
इति तट्टीका ॥ मृदुपुष्पः ७ शुकतरुः ८ विष-
नाशनः ९ । इति रत्नमाला ॥ शीतपुष्पः १०
भण्डिकः ११ स्वर्णपुष्पकः १२ शुकेष्टः १३ वर्ह-
पुष्पः १४ विषहन्ता १५ सुपुष्पकः १६ उद्दा-
नकः १७ शुक्रतरुः १८ लोमशपुष्पकः १९
कपीतकः २० कलिङ्गः २१ श्यामलः २२
शङ्खिनीफलः २३ मधुपुष्पः २४ वृत्तपुष्पः २५ ।
पुस्तकान्तरे शिखिनीफलः २६ भण्डी २७ प्लवगः
२८ शुकपुष्पः २९ । अस्य गुणाः । कटुत्वम् ।
शीतत्वम् । विषवातपामास्रकुष्ठकण्डूतित्वग्-
दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः
शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकपियः ॥
शिरीषो मधुरोऽनुष्णस्तिक्तश्च तुवरो लघुः ।
दोषशोथविसर्पघ्नः काशव्रणविषापहः ॥”
इति भावप्रकाशः ॥ * ॥
कण्टकशिरीषस्य पर्य्यायः ।
“कटभी किणिही श्वेता महाश्वेता च रोहिणी ।”
इति रत्नमाला ॥ * ॥
अस्य गुणाः ।
“शिरीषो विषवीसर्पस्वेदत्वग्दोषशोथजित् ।”
इति राजवल्लभः ॥

शिरीषपत्रिका, स्त्री, (शिरीषस्य पत्रमिव पत्र-

मस्याः । ततः स्वार्थे कन् । टापि अत इत्वम् ।)
श्वेतकिणिही । इति राजनिर्घण्टः ॥

शिरोगृहं, क्ली, (शिरसो गृहम् ।) अट्टालिको-

परिगृहम् । तत्पर्य्यायः । चन्द्रशाला २ । इति
हेमचन्द्रः ॥

शिरोग्रीवं, क्ली, शिरश्च ग्रीवा च द्वयोः समा-

हारः । यथा । द्वन्द्वैकत्वं अव्ययीभावश्च क्लीवे
स्यात् द्वन्द्वस्य समासस्य एकत्वं समाहारद्वन्द्व
इत्यर्थः । यथा, वाक्त्वचं श्रीस्रजं पाणिपदं
शिरोग्रीवम् । इति क्लीवलिङ्गसंग्रहटीकायां
भरतः ॥

शिरोधरा, स्त्री, (शिरसो धरा ।) ग्रीवा । इति

हेमचन्द्रः ॥ (यथा भागवते । ३ । १७ । १० ।
“सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् ।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः ॥”
क्लीवलिङ्गेऽपि दृश्यते । यथा, तत्रैव । ३ ।
१३ । ३७ ।
“दीक्षानुजन्मोपसदः शिरोधरम् ॥”)

शिरोधिः, स्त्री, (शिरो धीयते अनया । धा +

“कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।)
ग्रीवा । इत्यमरः ॥

शिरोमणिः, पुं स्त्री, (शिरसो मणिः ।) मस्तक-

धार्य्यरत्नम् । तत्पर्य्यायः । चूडामणिः २ शिरो-
रत्नम् ३ । इति शब्दरत्नावली ॥ पण्डितस्य
उपाधिविशेषश्च ॥ (द्वयोरुदाहरणम् । यथा, --
“यस्य सांसारिकी चिन्ता चिन्ता चिन्तामणेः
कुतः ।
तयैव हि शिरःकम्पः क्व शिरोमणिधारणम् ॥”
इत्युद्भटः ॥)

शिरोमर्म्मा, [न्] पुं, (शिर एव मर्म्म जीवाधानं

यस्य ।) शूकरः । इति हेमचन्द्रः ॥

शिरोरत्नं, क्ली, (शिरसो रत्नम् ।) शिरोमणिः ।

इत्यमरः ॥

शिरोरुजा, स्त्री, (शिरसि रुजतीति । रुज +

कः । टाप् ।) सप्तपर्णवृक्षः । इति त्रिकाण्ड-
शेषः ॥ मस्तकरोगश्च ॥

शिरोरुट्, [ह्] पुं, (शिरसि रोहतीति । रुह +

क्विप् ।) केशः । इति शब्दरत्नावली ॥

शिरोरुहः, पुं, (शिरसि रोहतीति । रुह + कः ।)

केशः । इत्यमरः ॥ (यथा, भागवते । ४ ।
२८ । ४४ ।
“चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ॥”)
पृष्ठ ५/०७५

शिरोरोगः, पुं, (शिरसो रोमः ।) मस्तकपीडा ।

यथा, --
अथ शिरोरोगाधिकारः । अत्र शिरोरोगस्य
निदानं सख्याञ्चाह ।
“शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः ।
सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा ॥
सूर्य्यावर्त्तानन्तवातशंखकार्द्धावभेदकाः ।
एकादशविधस्यास्य लक्षणानि प्रचक्षते ॥”
शिरोरोगा अत्र शिरोरोगः शूलरूपा रुगभि-
धीयते । वातपित्तकफैस्त्रिभिः । ननु वातपित्त-
कफैरित्युक्ते तत्त्रित्वबोधात् । किमर्थं त्रिभि-
रिति पदम् । वातपित्तकफानां पृथक्कार-
णत्वबोधनार्थम् । तर्हि सर्व एव शिरोरोगाः
सन्निपातसमुद्भवा इति कथम् । तदा वातादय
उल्वणतया पृथक्कारणानि बोद्धव्यानि । क्षयेण
रसादिक्षयेण ॥ * ॥ वातिकस्य लक्षणमाह ।
“यस्यानिमित्तं शिरसो रुजश्च
भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैः प्रशमश्च यत्र
शिरोऽभितापः स समीरणेन ॥”
भवेदिति विशेषः । अनिमित्तं अतर्कितविप्र-
कृष्टनिमित्तम् । निशि चातिमात्रं रात्री शैत्येन
रोगाधिक्यात् । प्रतापः स्वेदनम् । शिरोऽभि-
तापः शिरःपीडा ॥ * ॥ पैत्तिकमाह ।
“यस्योष्णमङ्गारचितं यथैव
भवेच्छिरो दह्यति नाक्षिनाशम् ।
शीतेन रात्रौ च भवेच्छमश्च
शिरोऽभितापः स तु पित्तकोपात् ॥
दह्यतीत्यार्षत्वात् ॥ * ॥ श्लैष्मिकमाह ।
“शिरो भवेद्यस्य कफोपदिग्धं
गुरु प्रतिष्टब्धमथो हिमञ्च ।
सूनाक्षिनासावदनञ्च यस्य
शिरोऽभितापः स कफप्रकोपात् ॥”
कफोपदिग्धं अन्तःकफलिप्तम् । प्रतिष्टब्धं स्तब्ध-
शिरम् ॥ * ॥ सान्निपातिकमाह ।
“शिरोऽभितापे त्रितयप्रवृत्ते
सर्वाणि लिङ्गानि समुद्भवन्ति ॥” * ॥
रक्तजमाह ।
“रक्तात्मिकः पित्तसमानलिङ्ग-
स्पर्शासहत्वं शिरसो भवेच्च ॥”
पैत्तिकाद्भेदकलिङ्गमाह । शिरःस्पर्शासहत्व-
मिति ॥ * ॥ क्षयजमाह ।
“वसावलासक्षतसम्भवानां
शिरोगतानामतिसंक्षयेण ।
क्षयप्रवृत्तिः शिरसोऽभितापः
कष्टो भवेदुग्ररुजोऽतिमात्रम् ॥”
क्षतसम्भवं रुधिरम् । कष्टः कृच्छ्रसाध्यः ।
“श्रमो भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता ।
मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मिके ॥”
कृमिजमाह ।
“निस्तुद्यते यस्य शिरोऽतिमात्रं
संभक्ष्यमाणं स्फुरतीव चान्तः ।
घ्राणाच्च गच्छेद्रुधिरं सपूयं
शिरोऽभितापः कृमिभिः सघोरः ॥”
संभक्ष्यमाणं कृमिभिरिति शेषः । घ्नाणाच्चेति
चकारेण कृमिनिर्गमोऽपि बोध्यते ॥ * ॥ सूर्य्या-
वर्त्तमाह ।
“सूर्य्योदयं या प्रतिमन्दमन्द-
मक्षिभ्रुवं रुक् समुपैति गाढम् ।
विवर्द्धते चांशुमता सहैव
सूर्य्याववृत्तौ विनिवर्त्तते च ॥
शीतेन शान्तिं लभते च किञ्चि-
दुष्णेन जन्तुः सुखमाप्नुयाद्वा ।
सर्व्वात्मकं कष्टतमं विकारं
सूर्य्याववर्त्तं तमुदाहरन्ति ॥”
सूर्य्योदयमिति लक्षीकृत्य आरभ्येति यावत् ।
सूर्य्यस्याववृत्ती सूर्य्यस्याधोगतौ ॥ * ॥ अनन्त-
वातमाह ।
“दोषास्तु दुष्टाः स्वयमेव मन्यां
संपीड्य घाटां स्वरुजां सुतीव्राम् ।
कुर्वन्ति सोऽक्ष्णि भ्रुवि शङ्खदेशे
स्थितिं करोत्याशु विशेषतस्तु ॥
गण्डस्य पार्श्वे तु करोति कम्पं
हनुग्रहं लोचनजान् विकारान् ।
अनन्तवातं तमुदाहरन्ति
दोषत्रयोत्थं शिरसो विकारम् ॥”
एवशब्दोऽत्राप्यर्थः । अव्ययानामनेकार्थत्वात् ।
स्वरुजां स्वस्य रुजां व्यथादाहगौरवादिरूपां
दोषाः कुर्वन्ति । अयमनन्तवातः । स अनन्त-
वातः अक्ष्यादिषु स्थितिं करोति । विशेषतः
गण्डपार्श्वे स्थितिं करोति । पीडया स्थितिं
कृत्वा कम्पादींश्च करोति ॥ * ॥ शङ्खकमाह ।
“पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः ॥
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् ॥
स शिरोविषवद्वेगान् निरुध्याशु गलं तथा ।
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः ।
त्र्यहाज्जीवति भैषज्यं प्रत्याख्येयस्य कारयेत् ॥”
पित्तरक्तानिलाः अत्र कफोऽपि योज्यः । कृतानु-
तापः कफपित्तरक्तैरिति सुश्रुतवचनात् । विमू-
र्च्छिताः प्रवृद्धाः । स शोथः । त्रिरात्रात्
त्रिरात्रमध्ये मारयति ॥ * ॥ अर्द्धावभेदकमाह ।
“रूक्षाशनाद्यध्यशनावश्याप्राग्वातमैथुनैः ।
वेगसंधारणायासव्यायामैः कुपितोऽनिलः ॥
केवलः सकफो वार्द्धं गृहीत्वा शिरसो बली ।
मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम् ॥
शस्त्राशनिनिभां कुर्य्यात्तीव्रां सोऽर्द्धावभेदकः ।
नयनं वाथवा श्रोत्रमभिवृद्धौ विनाशयेत् ॥”
अवश्या अवश्यायः । आयासः अतिबलेन
भारोद्वहनादिभिः । व्यायामः स्वल्पश्रमः ।
शस्त्राशनिनिभां शस्त्रपातेनैव वज्रपातेनैव वेद-
नाम् ॥ * ॥ अथ शिरोरोगाणां चिकित्स्या ।
“वातजाते शिरोरोगे स्नेहस्वेदं विवर्द्दनम् ।
पानाहारोपनाहांश्च कुर्य्याद्वातामयापहां ॥
कुष्ठमेरण्डमूले च नागरे तत्र पेषितम् ।
कटूष्णं शिरसः पीडां भाले लेपनतो हरेत् ॥
रसः श्वासकुठारोत्थस्तस्य नस्यं विशेषतः ।
शिरःशूलं हरत्येव विधेयो नात्र संशयः ॥” * ॥
अथ शिरोवस्तिविधिः ।
“आशिरोव्यापि तच्चर्म्म षोडषाङ्गुलमुच्छ्रितम् ।
तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत् ॥
निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत् ।
धारयेदारुजः शान्त्यै यामं यामार्द्धमेव च ॥
शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम् ।
हनुमन्याक्षिकर्णार्त्तिमर्द्दितं मूर्द्धकम्पनम् ।
विना भोजनमेवैष शिरोवस्त्याः प्रयुज्यते ॥
दिनानि पञ्च वा सप्त रुजि तत्परतोऽपि वा ।
ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम् ॥
शिरोललाटवदनग्रीवादीनि विमर्द्दयेत् ।
सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम ॥
आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि च ।
मुद्गान् माषान् कुलत्थांश्च खादेद्वा निशि
केवलान् ॥
कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा ।
पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसाम् ॥
कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः ।
सर्पिषः शतधौतस्य शिरसा धारणं हितम् ॥
रसः श्वासकुठारोत्थः कर्पूरं कुङ्कुमं नवम् ।
शीतं छागीपयः सर्वं वदनेनानुवर्षयेत् ॥
तस्य नस्यं भिषग्दद्यात् पित्तलायां शिरोरुजि ।
किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम् ॥
गुडनागरकल्कस्य नस्यं मस्तकशूलनुत् ॥ * ॥
रक्तजे पित्तवत् सर्वं भोजनालेपसेवनम् ॥
शीतोष्णयोश्च विन्यासो विशेषो रक्तमोक्षणम् ।
कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः ॥ * ॥
सन्निपातभवे कार्य्या सन्निपातहरी क्रिया ।
पुराणसर्पिसः पानं विशेषेण दिशन्ति हि ॥
एरण्डमूलं तगरं शताह्वा
जीवन्तिका सैन्धवरास्निके च ।
भृङ्गं विडङ्गं मधुयष्टिका च
विश्वौषधं कृष्णतिलस्य तैलम् ॥
अजापयस्तैलविमिश्रितञ्च
चतुर्गुणं भृङ्गरसे विपक्वम् ।
षड्बिन्दवो नासिकयोः प्रदेयाः
सर्व्वाणि हन्युः शिरसो विकारान् ॥
च्युतांश्च केशान् पलितांश्च दन्तान्
निर्बध्य मूलान् प्रकटीकरोति ।
सुपर्णगृध्रप्रतिमञ्च चक्षुः
कुर्वन्ति बाह्वोरधिकं बलञ्च ॥”
जीवन्तिका अत्र हरीतकी शाकविशेषश्च ।
इति षड्बिन्दुतैलम् ॥ * ॥
“क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः ।
पाने नस्ये च सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम् ॥ * ॥
कृमिजे व्योषणञ्चाहुः शिग्रुबीजैश्च लावणम् ।
अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत् परम् ॥
सूर्य्यावर्त्ते विधातव्यं नस्यकर्म्मादिभेषजम् ।
योजयेत् सगुडं सर्पिर्घृतपूपांश्च भक्षयेत् ॥
पृष्ठ ५/०७६
लावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः ।
क्षीरपिष्टस्तिलैः स्वेदी जीवनीयैश्च शस्यते ॥
भृङ्गराजरसच्छागक्षीरतुल्यार्कतापितः ।
सूर्य्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट् ॥ * ॥
अर्द्धावभेदके पूर्व्वं स्नेहस्वेदो हि भेषजम् ॥
विरेकः कायशुद्धिश्च धूपस्निग्धोष्णभोजणम् ।
विडङ्गानि तिलान् कृष्णान् समान् पिष्ट्वा
विलेपयेत् ॥
नस्यं वाप्याचरेत्तस्मादर्द्धभेदं व्यपोहति ।
पिबेत् सशकरं क्षीरं नीरं वा नारिकेलजम् ॥
सुशीतं वापि पानीयं सर्पिर्व्वा नस्ततस्तयोः ॥”
नस्ततः नासिकया पिबेदित्यन्वयः । तयोः
सूर्य्यावर्त्तार्द्धभेदयोः ॥ * ॥
“अनन्तवाते कर्त्तव्यः सूर्य्यावर्त्तहितो विधिः ।
शिराव्यधश्च कर्त्तव्योऽनन्तवातप्रशान्तये ॥
आहारश्च प्रदातव्यो वातपित्तविनाशनः ।
मधुमस्तकसंयावघृतपूपैर्विशेषतः ॥”
संयावः पक्वान्नविशेषः । एरकिया इति लोके ।
स च मधुमस्तकः मघुनोपलिप्तः । घृतपूरो-
ऽपूपः ।
“पथ्याक्षधात्री रजनी गुडूची
भूनिम्बनिम्बैः सगुडः कषायः ।
भ्रूशङ्खकर्णाक्षिशिरोऽर्द्धशूलं
निहन्ति नासानिहितः क्षणेन ॥”
इति पथ्यादिक्वाथः ॥ * ॥
“दार्व्वी हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम् ।
एतत्प्रलेपनं कुर्य्याच्छङ्खकस्य विनाशयेत् ॥
पीततोयाभिषेकञ्च शीतलक्षीरसेवनम् ।
कल्कैश्च क्षीरवृक्षाणां शङ्खके लेपनं हितम् ॥”
सर्वषु ।
“यष्टीमधुकमाषः स्यात् तूर्य्यांशन्तु विषम्भवेत् ।
तयोश्चूर्णन्तु सूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम् ॥
नासिकाभ्यन्तरे न्यस्तं सर्व्वां शीर्षव्यथां हरेत् ।
दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः ॥
आर्द्रं यच्छक्तिकाचूर्णं चूर्णितं नवसादरम् ।
उभयं योजितं गन्धात्तस्य नश्यति शीर्षरुक ॥”
इति भावप्रकाशे शिरोरोगाधिकारः ॥

शिरोऽर्त्तिः, स्त्री, (शिरसोऽर्त्तिः ।) शिरःपीडा ।

इति लोके प्रसिद्धिः ॥ (यथा, कथासरित्सागरे ।
१३ । १५२ ।
“जागरेणातिपानेन शिरोऽर्त्तिं व्यपदिश्य च ।
प्रातः स तस्थौ वस्त्रेण वेष्टयित्वाङ्कितं शिरः ॥”)

शिरोवल्ली, स्त्री, (शिरसो वल्लीव ।) बर्हिचूडा ।

इति शब्दचन्द्रिका ॥

शिरोवृत्तं, क्ली, (शिर इव वृत्तम् ।) मरिचम् ।

इति राजनिर्घण्टः ॥

शिरोवृत्तफलः, पुं, (शिरसि वृत्तं फलं यस्य ।)

रक्तापामार्गः । इति भावप्रकाशः ॥

शिरोवेष्टः, पुं, (शिरो वेष्टयतीति । वेष्ट + अच्)

उष्णीषः । इति त्रिकाण्डशेषः ॥

शिरोवेष्टनं, क्ली, (शिरो वेष्टयतीति । वेष्ट +

ल्युः ।) शिरःप्रावरणम् । पाग्डी इति भाषा ।
तत्पर्य्यायः । उष्णीषः २ वेष्टनम् ३ वेष्टकम् ४ ।
इति शब्दरत्नावली ॥ शिरोवेष्टः ५ चेलो-
ण्डुकः ६ । इति त्रिकाण्डशेषः ॥

शिरोऽस्थि, क्ली, (शिरसोऽस्थि ।) मस्तकास्थि ।

माथार खुलि इति भाषा । तत्पर्य्यायः ।
करोटिः २ शिरस्त्राणम् ३ शीर्षकम् ४ । इति
राजनिर्घण्टः ॥

शिल, श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) उञ्छ उद्धृतशस्यशेषाहर-
णम् । श, शिलति धान्यं दीनः । शेलिता ।
इति दुर्गादासः ॥

शिलः, पुं, क्ली, (शिल + कः ।) उञ्छः । इति

मेदिनी ॥ (यथा, भागवते । ११ । १७ । ४१ ।
“अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक्
तयोः ॥”)
जीवनोपायविशेषः । यथा, --
“ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥”
इति मानवे ४ अध्यायः ॥
“अवाधितस्थानेषु पथि वा क्षेत्रेषु वा अप्रति-
हतावकाशेषु यत्र यत्रौषधयो विद्यन्ते तत्र
तत्राङ्गुलीभ्यां एकैकं कणं समुच्चयित्वा इति
बौधायनदर्शनात् । एकैकधान्यादिगुडकोच्चय-
मुञ्छः । मञ्जर्य्यात्मकानेकधान्याच्चयनं शिलः ।
उञ्छश्च शिलश्च इत्येकवद्भावः । तत् सत्यसमान-
फलत्वादृतमित्युच्यते ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥ (रघुवंशीयपारियात्रनृपपुत्त्रः । यथा,
रघुवंशे । १८ । १७ ।
“तस्याभवत् सूनुरुदारशीलः
शिलः शिलापट्टविशालवक्षाः ॥”)

शिलगर्भजः, पुं, पाषाणभेदनः । इति राज-

निर्घण्टः ॥

शिला, स्त्री, पाषाणः । (यथा, मनौ । २ ।

२०४ ।
“गोऽश्वोष्ट्रयानप्रासादस्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥”)
द्वाराधःस्थितदारु । इत्यमरः ॥ स्तम्भशीर्षम् ।
मनःशिला । इति मेदिनी ॥ कर्पूरः । इति
राजनिर्घण्टः ॥

शिलाकर्णी, स्त्री, (शिलेव कर्णः कोणो यस्याः ।

ङीष् ।) शल्लकीवृक्षः । इति शब्दचन्द्रिका ॥

शिलाकुट्टकः, पुं, (शिलां कुट्टयति दारयतीति ।

कुट्ट + ण्युल् ।) टङ्कः । इति शब्दरत्नावली ॥

शिलाजं, क्ली, (शिलाया जायते इति । जन +

डः ।) शैलेयम् । इति शब्दचन्द्रिका ॥ लोहम् ।
इति राजनिर्घण्टः ॥

शिलाजतु, क्ली, (शिलाया जतु ।) पर्वतजातो-

पधातुविशेषः । शिलाजित् इति हिन्दीभाषा ।
तत्पर्य्यायः । गैरेयम् २ अर्घ्यम् ३ गिरिजम् ४
अश्मजम् ५ । इत्यमरः ॥ शिलाजम् ६ अगजम्
७ शैलम् ८ अद्रिजम् ९ । इति रत्नमामाला ॥
शैलेयम् १० शीतपुष्पकम् ११ । इति शब्द-
चन्द्रिका ॥ शिलाव्याधिः १२ । इति त्रिकाण्ड-
शेषः ॥ अश्मोत्थम् १३ अश्मलाक्षा १४ अश्म-
जतुकम् १५ जत्वश्मकम् १६ । अस्य गुणाः ।
तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । रसायनत्वम् ।
मेहोन्मादाश्मरीशोफकुष्ठापस्मरनाशित्वं च ।
इति राजनिर्घण्टः ॥ अपि च । शर्करासर्व-
रोगहरत्वम् । योगवाहित्वम् । अत्युष्णशीत-
कत्वञ्च । इति राजवल्लभः ॥ अस्योत्पत्तिनाम-
लक्षणगुणाः ।
“निदाघे घर्म्मसन्तप्ता धातुसार धराधराः ।
निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम् ॥
सौवर्णं राजतं ताम्रं आयसं तच्चतुर्बिधम् ।
शिलाजत्वद्रिजतु च शैलनिर्यास इत्यपि ॥
गैरेयमश्मजञ्चापि गिरिजं शैलधातुजम् ।
शिलाह्वं कटुतिक्तोष्णं कटुपाकं रसायनम् ॥
छेदि योगवहं हन्ति कफमेदाश्मशर्कराः ।
मूत्रकृच्छ्रं क्षयं श्वासं वातास्रार्शांसि
पाण्डुताम् ॥
अपस्मारं तथोन्मादं शोथकूष्ठोदरक्रिमीन् ।
सौवर्णन्तु जवापुष्पवर्णं भवति तद्रसात् ॥
मधुरं कटुतिक्तन्तु शीतलं कटुपाकि च ।
राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च ॥
ताम्रम् मयूरकण्ठाभं तत्तिक्तं लवणं भवेत् ।
विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥”
इति भावप्रकाशः ॥

शिलाञ्जनी, स्त्री, (शिलामञ्जयतीति । अञ्ज +

ल्युः । स्त्रियां ङीप् ।) कालाञ्जनीवृक्षः । इति
राजनिर्घण्टः ॥

शिलाटकः, पुं, (शिलामटतीति । अट + ण्वुल् ।)

अट्टः । विलम् । इति मेदिनी ॥

शिलात्मजं, क्ली, (शिलाया आत्मजमिव ।)

लोहम् । इति राजनिर्घण्टः ॥

शिलात्मिका, स्त्री, मूषा । इति शब्दचन्द्रिका ॥

शिलादद्रुः, पुं, (शिलाया दद्रुरिव ।) शैलेयम् ।

इति राजनिर्घण्टः ॥

शिलाधातुः, पुं, (शिलानां धातुः ।) सितो-

पलः । इति त्रिकाण्डशेषः ॥ खडा इति भाषा ॥
गैरिकभेदः । स तु पीतवर्णः । इति राज-
निर्घण्टः ॥
“सितोपलः शिलाधातुर्व्वर्णरेखा च मक्कलम् ।
शिलाधातुविशेषस्तु विज्ञेयो लोकशास्त्रतः ॥”
इति शब्दरत्नावली ॥

शिलापट्टः, पुं, (शिलायाः पट्टः ।) पेषणार्थ-

शिला । शिल् इति भाषा । इति केचित् ॥

शिलापुत्त्रः, पुं, (शिलायाः पुत्त्र इव ।) पेषणयोग्य-

शिला । लोडा इति भाषा । तत्पर्य्यायः । घष-
नालः २ शिलापुत्त्रकः ३ । इति शब्दरत्ना-
वली ।

शिलापुष्पं, क्ली, (शिलायाः पुष्पमिव ।) शैले-

यम् । इति राजनिर्घण्टः ॥
पृष्ठ ५/०७७

शिलाभवं, क्ली, (शिलाया भवः डत्पत्तिर्यस्य ।)

शैलेयम् । इति जटाधरः ॥

शिलाभेदः, पुं, (शिलां भिनत्तीति । भिद् + अच्)

पाषाणभेदी वृक्षः । इति रत्नमाला ॥ प्रस्तर-
भेदकास्त्रे, क्ली, ॥

शिलारम्भा, स्त्री, (शिलेव दृढा रम्भा ।) काष्ठ-

कदली । इति राजनिर्घण्टः ॥

शिलावल्का, स्त्री, (शिलेव कठिनो वल्कों

यस्याः ।) औषधद्रव्यविशेषः । शिलावाक् इति
हिन्दी भाषा । तत्पर्य्यायः । शिलजा २ शैल-
वल्कला ३ वल्कला ४ शैलगर्भाह्वा ५ शिला-
त्वक् ६ श्वेता ७ । अस्या गुणाः । हिमत्वम् ।
स्वादुत्वम् । कृच्छ्रमेहमूत्ररोधाश्मरीशूलज्वर-
पित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥

शिलाव्याधिः, पुं, (शिलाया व्याधिरिव ।) शिला

जतु । इति त्रिकाण्डशेषः ॥

शिलासनं, क्ली, (शिला आसनं यस्य ।) शैलेयम् ।

इति शब्दरत्नावली ॥ प्रस्तरनिर्म्मितासनञ्च ॥

शिलासारं, क्ली, (शिलावत् सारो यत्र ।)

लोहम् । इति हेमचन्द्रः ॥

शिलाह्वं, क्ली, (शिलाइत्याह्वा यस्य ।) शिला-

जतु । इति भावप्रकाशः ॥

शिलिः, पुं, भूर्जपत्रवृक्षः । इति शब्दमाला ॥

शिलिः, स्त्री, द्वाराधःस्थितकाष्ठम् । इति शब्द-

रत्नावली ॥ गोवराट् इति भाषा ॥

शिलिन्दः, पुं, मत्स्यविशेषः । यथा, --

“शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो
गुरुः ।
आमवातकरो हृद्यो वातपित्तहरो मतः ॥”
इति राजवल्लभः ॥

शिली, स्त्री, (शिलि + कृदिकारादिति ङीष् ।)

द्वाराधःस्थितकाष्ठम् ।) इति शब्दरत्नावली ॥
गण्डूपदी । स्तम्भशीर्षम् । इति मेदिनी ॥

शिलीन्ध्रं, क्ली, कदलीपुष्पम् । यथा, माघे ।

६ । ३२ ।
“नवकदम्बरजोरुणिताम्बरै-
रधिपुरन्ध्रिशिलीन्ध्रसुगन्धिभिः ॥”)
करका । इति मेदिनी ॥ त्रिपुटा । इति विश्वः ॥

शिलीन्ध्रः, पुं, वृक्षविशेषः । इति मेदिनी ॥ मत्स्य-

विशेषः । स तु चित्रफलकमत्स्यः । इति जटा-
धरः ॥

शिलीन्ध्रकं, क्ली, गोमयच्छत्रिका । यथा, --

“गोमयच्छत्रिकामाहुर्दिलीरञ्च शिलीन्ध्रकम् ।”
इति हारावली ॥

शिलीन्ध्री, स्त्री, विहगीभेदः । गण्डूपदी । मृत्तिका

इति मेदिनी ॥

शिलीपदः, पुं, (शिलीव स्थूलं पदमस्मात् ।)

पादरोगविशेषः । गोद इति भाषा । तत्पर्य्यायः
पदगण्डीरः २ श्लीपदः ३ । इति शब्दरत्नावली ॥
पादवल्मोकः ४ । इति हेमचन्द्रः ॥ श्लीपदस्य
विप्रकृष्टं निदानमाह ।
“पुराणोदकभूयिष्ठाः सर्व्वर्त्तुषु च शीतलाः ।
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ॥”
विशेषत इति वचनेनान्यत्रापि श्लीपदानि भवन्ति
इति बोध्यते ॥ * ॥ सामान्यं लक्षणमाह ।
“यः सज्वरो वंक्षणजो भृशार्त्तिः
शोथो नृणां पादगतः क्रमेण ।
तत् श्लीपदं स्यात् करकर्णनेत्र-
शिश्नोष्ठनासास्वपि केचिदाहुः ॥”
तत्त्रिविधम् । वातिकं पैत्तिकं श्लैष्मिकञ्चेति ।
तेषां लक्षणमाह ।
“वातजं कृणरूक्षं हि स्फुटितं तीव्रवेदनम् ।
अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च ॥ * ॥
पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम् ॥ * ॥
श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुगुरु स्थिरम् ॥
त्रीण्यप्येतानि जानीयात् श्लीपदानि कफो-
च्छ्रयात् ।
गुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफान् ॥”
असाध्यमाह ।
“वल्मीकमिव संजातं कण्टकैरुपचीयते ।
सर्व्वात्मकं महत्त्वञ्च वर्जनीयं विशेषतः ॥
यत् श्लेष्मलाहारविहारजातै-
र्जातं तथा भूरिकफस्य पुंसः ।
सास्रावमप्युन्नतिसर्वलिङ्गं
सकण्टकं वापि विवर्जीनीयम् ॥”
अस्य चिकित्सा ।
“लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ।
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥
सिद्धार्थशोभाञ्जनदेवदारु-
विश्वौषधैर्मूत्रयुतैः प्रलिम्पेत् ।
पुनर्नवा नागरसर्षपाणां
कल्केन वा काञ्जिकमिश्रितेन ॥”
श्लीपदमिति शेषः ।
“धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रसर्षपैः ।
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥
असाध्यमपि यात्यन्तं श्लीपदं चिरकालजम् ।
मूलेन सहचरायाः तालमिश्रेण लेपनात् ॥”
तालस्य फलरसो ग्राह्यः ।
“सप्तलास्थूलपत्राणां कल्कं तप्तेन वारिणा ।
संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् ॥
शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत् ।
श्लीपदानां विनाशाय मेदोदोषनिवृर्त्तये ॥
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः ।
वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥
वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् ।
सक्षौद्रं श्लीपदं लिह्याच्चिरोत्थं श्लीपदं जयेत् ॥
गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबति ।
श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण ॥”
गन्धर्वतैलं एरण्डतैलम् । गोऽम्बुना गोमुत्रेण ।
इति भावप्रकाशः ॥

शिलीमुखः, पुं, (शिलीव मुखं यस्य ।) भ्रमरः ।

(यथा, रघुः । ४ । ५७ ।
“कटेषु करिणां पेतुः पुन्नागेभ्यः शिली-
मुखाः ॥”)
बाणः । इत्यमरः ॥ (यथा, महाभारते । ४ ।
४० । ११ ।
“कस्यायं शायको दीर्घः शिलीपृष्टः शिली-
मुखः ॥”)
युद्धम् । जडीभूतः । इति शब्दरत्नावली ॥

शिलेयं, क्ली, (शिलायां भवम् । शिला + ढः ।)

शैलजम् । इति शब्दरत्नावली ॥ शिलासम्ब-
न्धिनि, त्रि, ॥ (शिलेव + “शिलाया ढः ।” ५ ।
३ । १०२ । इति ढः । शिलासदृशे च त्रि ॥
यथा, शिलेयं दधि । इति काशिका ॥)

शिलोच्चयः, पुं, (शिलाया उच्चयो यत्र । पर्वतः ॥

इत्यमरः ॥ (यथा, रघुवंशे । २ । २७ ।
“न पादपोन्मूलनशक्तिरंहः
शिलोच्चये मूर्च्छति मारुतस्य ॥”)

शिलोञ्छः, पुं, उञ्छशिलम् । उपात्तशस्यात्

क्षेत्रात् शेषावचयनम् । उञ्छेन परिचञ्च्वादान-
वद्ग्रहणेन शिष्यते सञ्चीयते उञ्छशिलम ।
उछि शुञ्छे शिल शुञ्छे कृद्धोरित्युक्ते कृ ग ज्ञेति
इजुङत्वात् कः उञ्छशिलं संघातविगृहीतं
विपर्य्यस्तम् ।
“शक्यं न चेदुञ्छशिलेन वृत्तिः
फलेन मूलेन च वारिणा च ।”
इति समाहारद्वन्द्वे । उञ्छं शिलञ्च ।
“उञ्छभैक्षञ्च यच्चान्यत् तत् परिग्रहणं त्वृतम् ।”
इति निगमाभिधाने क्लीवं पुमानुञ्छ ऋतं शिलं
इति वोपालिते पुंस्युञ्छः ।
“रघुकाराहृतसारे
परिणतवाक् कल्मकेदारे ।
भवभूतिकृतशिलोञ्छे
तत्तलपतितं वयं चिनुमः ॥”
इति गोवर्द्धनः । केचिदुञ्छशिलयोर्भेदमाहुः ।
प्रतिग्रहात् शिलं श्रेयस्ततोऽप्युञ्छः प्रशस्यते
इति । तत्र शाल्यादेर्निपातितपरित्यक्तमञ्ज-
रीणां आदानं शिलम् । शिलं धान्यमञ्जरी-
संग्रह इति स्वामी च । एकैकशः कपोत-
बद्धान्यकणोद्ग्रहणमुञ्छः । तदुक्तं उञ्छो धान्य-
कणोच्चय इति । शिलं तालव्यादि दन्त्यादि च ।
इत्यमरटीकायां भरतः ॥ यथा, मनौ ७ । ३३ ।
“एवं वृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्य्यते यशो लोके तैलबिन्दुरिभाम्भसि ॥”)

शिलोत्थं, क्ली, शिलाया उत्तिष्ठतीति । उत् +

स्था + कः । (शैलेयम् । इति राजनिर्घण्टः ॥

शिलोद्भवं, क्ली, (शिलाया उद्भबो यस्य ।) शैले-

यम् । इति राजनिर्घण्टः ॥ चन्दनविशेषः ।
यथा, --
“सुशीतलं चन्दनं यत् तैलपर्णिकमुच्यते ।
उभौ च तस्य पर्य्यायौ सोमयोनि शिलोद्भवम् ॥”
इति शब्दचन्द्रिका ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/शाल&oldid=44088" इत्यस्माद् पुनः प्राप्तिः