शब्दकल्पद्रुमः/शब्द

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/०२१

शब्द, क शब्दकृतौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, शब्दयति । सोपसर्ग-
स्त्वाविष्कृतौ मतः । प्रशब्दयति गभीरमत्यर्थं
शिष्यः स्फुटीकरोतीत्यर्थः । इति दुर्गादासः ॥

शब्दः, पुं, (शब्द + भावे घञ् । यद्बा, शप आक्रोशे

+ “शाशपिभ्यां ददनौ ।” उणा ० ४ । ९७ । इति
दन् । पकारस्य बकारः ।) श्रोत्रग्राह्यगुणपदार्थ-
विशेषः । तत्पर्य्यायः । निनादः २ निनदः ३ ध्वनिः
४ ध्वानः ५ रवः ६ स्वनः ७ स्वानः ८ निर्घोषः ९
निर्हादः १० नादः ११ निःस्वानः १२ निःस्वनः
१३ आरवः १४ आरावः १५ संरावः १६
विरावः १७ । इत्यमरः ॥ संरवः १८ रावः १९ ।
इति शब्दचन्द्रिका ॥ घोषः २० । इति जटा-
धरः ॥ स च ध्वन्यात्मको वर्णात्मकश्च । यथा,
“कण्ठसंयोगादिजन्या वर्णास्ते कादयो
मताः ।
सर्व्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥
वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता ।
कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥
उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता ।
सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ।
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ॥”
इति भाषापरिच्छेदः ॥
शब्दं निरूपयति ।
“शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ।
सर्व्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥”
इति ॥
नभोवृत्तिराकाशसमवेतः । दूरस्थशब्दस्याग्र-
हणादाह श्रोत्रोत्पन्न इति कण्ठसंयोगादिजन्या
वर्णास्ते कादयो मता इति । ननु मृदङ्गाद्यव-
च्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्पत्तिरत आह
वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता इति ।
आद्यशब्दस्य बहिर्दशदिगवच्छिन्नोऽन्यः शब्द-
स्तेनैव शब्देन जन्यते तेन चापरस्तद्व्यापक
एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इति । कदम्ब-
गोलकन्यायादुत्पत्तिः कस्यचिन्मते इति । आद्य
शब्दात् दशदिक्षु दश शब्दा उत्पद्यन्ते । तत-
श्चान्ये दश शब्दा उत्पद्यन्ते इति भावः ।
अस्मिन् कल्पे गौरवादुक्तं कस्यचिन्मते इति ।
ननु शब्दस्य नित्यत्वादुत्पत्तिः कथमत आह ।
उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता इति ।
शब्दानामुत्पादविनाशप्रत्ययशालित्वादनित्यत्व-
मित्यर्थः । ननु स एवायं ककार इत्यादि प्रत्य-
भिज्ञानाच्छब्दानां नित्यत्वम् । इत्थञ्चोत्पाद-
विनाशबुद्धिभ्रमरूपा चेत्यत आह सोऽयं क
इति बुद्धिस्तु साजात्यमवलम्बते । तदेवौषध-
मित्यादौ सजातीयेपि दर्शनात् इति ॥ तत्र
प्रत्यभिज्ञानस्य तत्सजातीयत्वं विषयः । ननु
तद्ब्यक्त्यभेदो विषयः उक्तप्रतीतिविरोधात् ।
इत्थञ्च द्बयोरपि बुद्ध्योर्न भ्रमत्वमिति । ननु
सजातीयत्वं सोऽयमिति प्रत्यभिज्ञायां भाषते
इति कुत्र दृष्टमित्यत आह तदेवेति । यदौषधं
मया कृतं तदेवान्येनापि कृतमित्यादि दर्शना-
दिति भावः । इति सिद्धान्तमुक्तावली ॥ * ॥
दशविधशब्दा यथा, --
“षड्जर्षभसगान्धारमध्यमः पञ्चमस्तथा ।
अतः परन्तु विज्ञेयो निषादो धैवतस्तथा ।
इष्टश्चानिष्टशब्दश्च संहतः प्रविभागवान् ॥”
इत्याश्वमेधिकपर्व्व ॥
शब्दविशेषाणां नामविशेषा यथा, --
“शब्दो गुणानुरागोत्थः प्रणादः शीत्कृतं
नृणाम् ।
पर्द्दनं गुदजे शब्दे कर्द्दनं कुक्षिसम्भवे ॥
क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः ।
कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥
मर्मरो वस्त्रपर्णादेर्भूषणानान्तु शिञ्जितम् ।
हेषा ह्नेषा तुरङ्गाणां गजानां गर्ज्जवृंहिते ॥
विस्फारो धनुषां हम्भारम्भे गोर्जलदस्य च ।
स्तनितं गर्जितं गर्ज्जिः स्वनितं रसितादि च ॥
कूजितं स्याद्विहङ्गानां तिरश्चां रुतवाशिते ।
वृकस्य रेषणं रेवा वुक्कनं भषणं शुनः ॥
पीडितानान्तु कणितं मणितं रतकूजितम् ।
प्रक्काणः प्रक्कणस्तन्त्र्या मर्द्दलस्य तु गुन्दलः ॥
क्षीजनन्तु कीचकानां भेर्य्या नादस्तु टट्टुरः ।
तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥
काकली तु कलः सूक्ष्म एकतालो लयानुगः ।
काकुर्ध्वनिविकारः स्यात् प्रतिश्रुत्तु प्रतिध्वनिः ॥”
इति हेमचन्द्रः ॥
अथैकार्थानुलोमविलोमसमशन्दाः । नयन १
नर्त्तन २ कनक ३ कण्टक ४ महिम ५ कलङ्क
६ कालिका ७ सरस ८ सहास ९ मध्यम १०
सदस्य ११ नवेन १२ तावता १३ तारता १४
विभवि १५ करक १६ कम्बुक १७ काञ्चिका १८
नन्दन १९ दन्तद २० दम्भद २१ योग्ययोः २२
लगुल २३ नुततनु २४ हाववहा २५ पतदातप २६
वरभैरव २७ कलपुलक २८ वरकैरव २९ वरपौरव
३० तरुणीरुत ३१ रदसोदर ३२ नदभेदन ३३
दम्पतीपदम् ३४ लङ्काकङ्काल ३५ माधववल्लव-
वधमा ३६ नन्दनन्दन ३७ तद्धित ३८ समास
३९ कारिका ४० पादपाः ४१ जलज ४२ नाना
४३ मम ४४ ॥ * ॥ अथान्यार्थकानुलोमविलोम-
शब्दाः । वन्दे १ देवे २ लेख ३ रवी ४ भानो ५
हंसा ६ जीवा ७ यामा ८ विभु ९ वद १०
रम ११ यम १२ कम्प १३ राधा १४ राधया
१५ सूत्रामा १६ नन्दक १७ मालिका १८
कालिनी १९ राजते २० भारती २१ हासिका
२२ गगन २३ करका २४ भार्गव २५ कटकम्
२६ दीनरक्षा २७ महोरगा २८ वातापिना
२९ पिनाकिना ३० सदालिका ३१ यमराज
३२ हरिदैवे ३३ सव्यायामा ३४ भोविकर्त्तन ३५
नन्दनवन ३६ नलकूवर ३७ सहसानुत ३८
रसविभवेन ३९ साहमहमिक ४० नवतम-
संमद ४१ मार ४२ वत ४३ युवा ४४ सदा ४५
वशि ४६ मया ४७ लता ४८ नुत ४९ लव ५०
विभा ५१ ॥ * ॥ अथ संस्कृतप्राकृतसमपुंलिङ्ग-
शब्दाः । आहार १ हार २ विहार ३ सार
४ समर ५ सम्भोग ६ रोग ७ असुर ८ संहार
९ अमर १० वार ११ वारण १२ गण १३
टङ्कार १४ भार १५ आकर १६ लोल १७
उल्लोल १८ विलास १९ वायस २० हर २१
अहङ्कार २२ हीर २३ अङ्कुर २४ नीहार २५
उरग २६ राग २७ भाल २८ तरल २९
गोविन्द ३० कन्द ३१ उदर ३२ तरुण ३३
तरणि ३४ दास ३५ मोह ३६ सन्दोह ३७
मास ३८ खुर ३९ खर ४० तर ४१ मल ४२
सङ्गर ४३ आरम्भ ४४ हास ४५ कर ४६
करि ४७ किरि ४८ कीर ४९ कोल ५० कन्दोल
५१ धीर ५२ मल ५३ मलय ५४ करीर ५५
वामदेव ५६ असि ५७ वीर ५८ नर ५९ नरक
६० करङ्क ६१ दण्ड ६२ चण्डाल ६३ रङ्ग ६४
दर ६५ सरल ६६ कलङ्क ६७ कम्बल ६८
आकार ६९ पङ्क ७० खल ७१ बहुल ७२
कुरङ्ग ७३ देह ७४ सन्देह ७५ सङ्ग ७६ पर
७७ कुरर ७८ तरङ्ग ७९ चारु ८० सञ्चार ८१
भङ्ग ८२ अरि ८३ हरि ८४ परिणाह ८५
कण्ठ ८६ कुण्ठ ८७ अहि ८८ दाह ८९ परि-
सर ९० रवि ९१ हाहा ९२ मञ्जु ९३ मञ्जीर
९४ वाह ९५ अचल ९६ कुल ९७ कुमार ९८
कुम्भ ९९ कुम्भीर १०० सार १०१ विरल १०२
कवल १०३ जार १०४ कन्दर १०५ उदार
१०६ पार १०७ जम्बीर १०८ केशरि १०९
वराह ११० मुरारि १११ काल ११२ काकोल
११३ कुन्तल ११४ चमूरु ११५ विराम ११६
बाल ११७ आलोल ११८ बाहु ११९ रण १२०
सङ्गर १२१ चोल १२२ भार १२३ संसार १२४
केरल १२५ समीरण १२६ टङ्क १२७ ताल
१२८ आसार १२९ चामर १३० कुलीर १३१
तुरङ्ग १३२ सूर १३३ कङ्काल १३४ कन्दल १३५
कराल १३६ विकास १३७ पूर १३८ हेरम्ब
१३९ कम्बु १४० विधु १४१ सिन्धु १४२ बुध
१४३ अनुबन्ध १४४ कुन्द १४५ इन्दु १४६
मन्दर १४७ समीर १४८ समह १४९ गन्ध
१५० भीम १५१ अङ्क १५२ सङ्कर १५३
किरीट १५४ तमाल १५५ गुञ्जा १५६ हिन्ताल
१५७ तोमर १५८ महीरुह १५९ विम्ब १६०
पुञ्ज १६१ हिण्डीर १६२ पिण्ड १६३ वर १६४
संवर १६५ कोण १६६ काण १६७ संरम्भ
१६८ सोम १६९ परिरम्भ १७० विकार १७१
वाण १७२ वसन्त १७३ आसब १७४ वेसन्त
१७५ वास १७६ वासव १७७ वासर १७८
कासार १७९ सार १८० सरस १८१ किरण
१८२ अरुण १८३ वारण १८४ ॥ * ॥ अथ
संस्कृतप्राकृतसमस्त्रीलिङ्गशब्दाः । हेला १
खेला २ कला ३ माला ४ रसाला ५ काहला
६ अचला ७ कीला ८ लीला ९ वला १०
वाला ११ लोला १२ दोला १३ अलसा १४
पृष्ठ ५/०२२
मसी १५ धरणी १६ धारणी १७ गोणी १८
रोहिणी १९ रमणी २० मणी २१ वीणा २२
वाणी २३ वसा २४ वेणी २५ रीढा २६ गङ्गा
२७ तरङ्गिणी २८ कन्दली २९ लहरी ३०
नारी ३१ रामा ३२ भेरी ३३ वसुन्धरा ३४
काली ३५ कराली ३६ चामुण्डा ३७ चण्डा
३८ रण्डा ३९ तुला ४० मही ४१ ॥ * ॥ अथ
संस्कृतप्राकृतक्लीवलिङ्गसमशब्दाः । जल १ फल
२ पल ३ मूल ४ वारि ५ कीलाल ६ कूल ७
वल ८ पलल ९ दुकूल १० लिङ्ग ११ गम्भीर
१२ कूल १३ सलिल १४ कमल १५ चीर १६
तुच्छ १७ राजीव १८ नीर १९ हल २० रजत
२१ कुटीर २२ दारु २३ लाल २४ पटीर २५
कारण २६ रोहण २७ चेल २८ कुहर २९
अम्बर ३० मन्दिर ३१ कुट्मल ३२ मण्डल ३३
तामरस ३४ कुण्डल ३५ अङ्गद ३६ पुर ३७
अरबिन्द ३८ लोह ३९ अङ्ग ४० तडाग ४१
करण ४२ कुल ४३ तोरण ४४ मरण ४५ तुङ्ग
४६ अलम् ४७ आगार ४८ भासुर ४९ ॥ * ॥
अथ संस्कृतप्राकृतसमक्रियापदानि । भण १
देहि २ गच्छ ३ संहर ४ कुरु ५ चोरय ६
मारय ७ अवगच्छ ८ अवलोकय ९ अवचिन्तय
१० खाद ११ ॥ * ॥ अथ निरोष्ठ्यपुंलिङ्गशब्दाः ।
नीहार १ हार २ हरिण ३ अङ्क ४ हर ५
अट्टहास ६ कैलास ७ कास ८ रद ९ नारद
१० सिंह ११ शङ्ख १२ शेष १३ अहि १४
हंस १५ घनसार १६ हलि १७ इन्द्र १८
नाग १९ हिण्डीर २० निर्झर २१ शरद्वन २२
चन्द्रकान्त २३ शृङ्गार २४ सागर २५ तडाग
२६ जलाशय २७ अग २८ हर्य्यक्ष २९ तक्षक
३० नख ३१ क्षत ३२ दीक्षित ३३ अक्ष ३४
नाराच ३५ काच ३६ कच ३७ कीचक ३८
चञ्चरीक ३९ चाणक्य ४० चारण ४१ गण ४२
क्षण ४३ काण ४४ शोण ४५ संहार ४६
सारस ४७ रस ४८ अरि ४९ रसाल ५०
साल ५१ कङ्काल ५२ काल ५३ कलि ५४
शैल ५५ खल ५६ अनल ५७ अर्क ५८ किञ्जल्क
५९ कल्क ५० कर ६१ शङ्कर ६२ कीर ६३
हीर ६४ लङ्केश ६५ केश ६६ गर ६७ केशव
६८ देश ६९ लेश ७० आनन्द ७१ नन्दन ७२
धनञ्जय ७३ खञ्जरीट ७४ कीट ७५ अग्नि ७६
कण्टक ७७ कटाह ७८ कटाक्ष ७९ यक्ष ८०
दक्ष ८१ अङ्ग ८२ यज्ञ ८३ जनक ८४ अञ्जलि ८५
यन्त्र ८६ यत्न ८७ रत्नाकर ८८ अन्धक ८९
धराधर ९० धीर ९१ शीर ९२ नासीर ९३
नारायण ९४ कृष्ण ९५ हृषीकेश ९६ ॥ * ॥
अथ निरोष्ठ्यस्त्रीलिङ्गशब्दाः । गङ्गा १ गीता २
सती ३ सीता ४ सिद्धि ५ सन्ध्या ६ मदा ७
गया ८ आशीः ९ काशी १० निशा ११
नासा १२ कान्ति १३ शान्ति १४ दया १५
रसा १६ आर्द्रा १७ निद्रा १८ हरिद्रा १९
दृक् २० द्राक्षा २१ लाक्षा २२ धृति २३
कृति २४ छाया २५ जाया २६ कथा २७
कान्ता २८ धात्री २९ रात्रि ३० रति ३१
गति ३२ कन्धरा ३४ धारणा ३४ धारा ३५
तारा ३६ कारा ३७ जरा ३८ धरा ३९
आजि ४० राजि ४१ रजनी ४२ अर्त्ति ४३
कीर्त्ति ४४ कन्या ४५ तटी ४६ नटी ४७ नारी ४८
सारी ४९ दरी ५० दासी ५१ घटिका ५२
खटिका ५३ जटा ५४ कक्षा ५५ रक्षा ५६
शिखा ५७ संख्या ५८ कालिन्दी ५९ कलिका ६०
कला ६१ काली ६२ कराली ६३ दुर्गा ६४ ॥ *
अथ निरोष्ठ्यक्लीवलिङ्गशब्दाः । चरण १
करण २ चक्र ३ क्षत्त्र ४ नक्षत्र ५ तक्र ६
रजत ७ शत ८ शरीर ९ क्षीर १० नीर ११
अक्षि १२ तीर १३ धन १४ कनक १५
निधान १६ ध्यान १७ सन्धान १८ दान १९
नलिन २० नगर २१ गात्र २२ छत्र २३ नेत्र २४
अस्थि २५ दात्र २६ आलिङ्गन २७ स्थान २८
शिरः २९ चरित्र ३० जल ३१ स्थल ३२
स्थाल ३३ कलत्र ३४ चित्र ३५ कीलाल ३६
जाल ३७ अलक ३८ नाल ३९ दैन्य ४० लिङ्ग ४१
अङ्ग ४२ लावण्य ४३ हिरण्य ४४ सैन्य ४५
अञ्ज ४६ अजिन ४७ यान ४८ असृक् ४९
काञ्चन ५० आनन ५१ कानन ५२ हाटक ५३
नाटक ५४ नाट्य ५५ तैल ५६ चेल ५७ रसा-
तल ५८ अदन ५९ सदन ६० ज्ञान ६१ निदान
६२ दधि ६३ चन्दन ६४ अक्षर ६५ लक्षण ६६
लक्ष ६७ शस्त्र ६८ शास्त्र ६९ दल ७१
हल ७१ ॥ * ॥ अथ निरोष्ठ्यक्रियापदानि ।
आशास्ते १ अस्ति २ चकास्ति ३ निन्दति ४
सृजति ५ आशंसति ६ क्रीडति ७ ध्यायति ८
अर्च्चति ९ याचते १० द्यति ११ वहति १२
आराधति १३ त्रस्यति १४ शेते १५ गच्छति १६
यच्छति १७ इच्छति १८ नयति १९ आयाति २०
हन्ति २१ ईहते २२ अश्नाति २३ स्नाति २४
दधाति २५ याति २६ जयति २७ हसति २८
करोति २९ । इति कविकल्पलतायां १ स्तवके
२ कुसुमम् ॥

शब्दकारः, त्रि, (शब्दं करोतीति । कृ + अण् ।

“न शब्दश्लोककलहगाथेति ।” ३ । २ । २४ ।
इति टप्रतिषेधः ।) शब्दं करोति यः । यथा,
“सतामरुस्करं पक्षी वैरकारं नराशनम् ।
हन्तुं कलहकारोऽसौ शब्दकारः पपात
खम् ॥”
इति भट्टौ ५ सर्गः ॥

शब्दग्रहः, पुं, (शब्दं गृह्णात्यनेनेति । ग्रह +

“ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति
अप् ।) कर्णः । इत्यमरः ॥ शब्दस्य ज्ञानञ्च ॥

शब्दनः, त्रि, (शब्दं कर्त्तुं शीलमस्य । शब्द +

“चलनशब्दार्थादकर्म्मकाद्युच् ।” ३ । २ । १४९ ।
इति तच्छीले युच् ।) शब्दकर्त्ता । तत्पर्य्यायः ।
रवणः २ । इत्यमरः ॥ (शब्द + भावे ल्युट् ।)
शब्दमात्रे, क्ली ॥

शब्दभेदी, [न्] पुं, (शब्दमनुसृत्य भेत्तुं शीलमस्य ।

भिद् + णिनिः ।) अर्ज्जुनः । इति त्रिकाण्डशेषः ॥
पायुः । इति केचित् ॥ वाणविशेषः । इति
रामायणम् ॥

शब्दवेधी, [न्] पुं, (शब्दमनुसृत्य वेद्धुं शील-

मस्य । विध + णिनिः ।) अर्ज्जुनः । इति धन-
ञ्जयः ॥ दशरथराजः । यथा, --
“लब्धशब्देन कौशल्ये कुमारेण धनुष्मता ।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥”
इति वाल्मीकीये रामायणे ६३ अध्यायः ॥
शब्दवेधी इत्येवं लब्धकीर्त्तिनेति यावत् । इति
तट्टीका ॥

शब्दाधिष्ठानं, क्ली, (शब्दस्य अधिष्ठानं आश्रय-

स्थानम् ।) कर्णः । इति हेमचन्द्रः ॥

शम, उ भ य इर् शमे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् । क्त्रावेट् ।) उ,
शमित्वा शान्त्वा । भ य, शाम्यति । इर्, अश-
मत् अशमीत् । पुषादित्वान्नित्यं ङ इत्यन्ये । शमः
शान्तीभावः । शशाम वृष्ट्यापि विना दवाग्नि-
रिति रघुः । शम इति पदस्य ञ्यन्तस्यापि
सम्भवे शान्तीकरणेऽप्ययमिति धातुप्रदीपः ।
‘वरेण शमितुं लोकानलं दग्धुं हि तत्तपः ॥’
इति कुमारसम्भवम् ॥
‘वचो निशम्याधिपतिर्दिवौकसाम् ।’
इत्यादावनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ वा शम यम
इत्यत्र वाशब्दस्य व्यवस्थावाचित्वादस्य ञौ नित्यं
ह्नस्वः शममति । इति दुर्गादासः ॥

शम, ङ क ञ आलोचे । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-उभ०-इति केचित्-सक०-सेट् ।)
आलोचः प्रणिधानम् । वा शम यम इत्यत्र
वाशब्दस्य व्यवस्थावाचित्वात् अस्य स्वार्थे ञौ
ह्नस्वाभावः । ङ क, शामयते कार्य्यं सधीः । ञ,
शामयति शामयते ।
‘निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥’
अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥

शमः, पुं, (शम्यत इति । शम + हलश्चेति घञ्

नोदात्तोपदेशेति वृद्ध्यभावः ।) शान्तिः । इत्य-
मरः ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३८१ ।
“विरागशैलमथितात् तस्य चित्तमहोदधेः ।
प्रकोपकालकूटस्य पश्चात् शमसुधोदयात् ॥”)
मोक्षः । इति त्रिकाण्डशेषः ॥ पाणिः । इति
शमशब्दटीकायां रामाश्रमः ॥ उपचारः ।
इति राजनिर्घण्टः ॥ अन्तरिन्द्रियनिग्रहः ।
इति वेदान्तसारः ॥ अन्तःकरणसंयमः ।
इति भगवद्गीतादशमाध्यायस्य ४ श्लोकटीका-
याम् श्रीधरस्वामी ॥ (यथा, गीतायाम् । १० । ४ ।
“बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ॥”)
विक्षेपककर्म्मोपरमः । इति च तस्यैव ६ अध्या-
यस्य ३ श्लोकटीकायां श्रीधरस्वामी ॥ (वाह्ये-
न्द्रियनिग्रहः । यथा, भागवते । ३ । ३२ । ३३ ।
“सत्यं शौचं दया मौनंबुद्धिह्नीः श्रीर्यशःक्षमा ।
शमो दमो भगश्चेति यत्सङ्गाद्याति संक्षयम् ॥”
पृष्ठ ५/०२३
सर्व्वकर्म्मनिवृत्तिः । यथा, गीतायाम् । ६ । ३ ।
“योगारूढस्य तस्यैव शमः कारणमुच्यते ॥”
“शमः उपरमः सर्व्वकर्म्मभ्यो निवृत्तिः ।” इति
शङ्करभाष्यम् ॥ शान्तरसस्य स्थायिभावः । यथा,
साहित्यदर्पणे । ३ । २३८ ।
“शान्तः शमः स्थायिभाव उत्तमः प्रकृति-
र्म्मतः ॥”
निवृत्तिः । यथा, राजतरङ्गिण्याम् । २ । ५६ ।
“अभवन्निर्म्मलं व्योम देवीकृत्यैः सह क्रमात् ।
साकं भूपालशोकेन दुर्भिक्षञ्च शमं ययौ ॥”)

शमकः, त्रि, (शामयतीति । शम + णिच् + ण्वुल् ।

“नोदात्तोपदेशेति ।” ७ । ३ । ३४ । इति न
दीर्घः ।) शान्तिकारकः । ञ्यन्तशमधातो-
र्णकप्रत्ययेन निष्पन्नमेतत् ॥

शमथः, पुं, (शम + “दृशमिदमिभ्यश्च ।” इति

अथः । इत्युज्ज्वलदत्तः । ३ । ११४ ।) शान्तिः ।
इत्यमरः ॥ मन्त्री । इति मेदिनी ॥

शमनं, क्ली, (शम + ल्युट् ।) यज्ञार्थपशुहननम् ।

इत्यमरः ॥ शान्तिः । इति मेदिनी ॥ (यथा,
पाणिनौ । ५ । १ । ३८ । “वातस्य शमनं
कोपनं वा ।” इति काशिका ॥) चर्व्वणम् ।
इति धरणिः ॥ हिंसा । इति हेमचन्द्रः ॥
(प्रतिसंहारः । यथा, मार्कर्कण्डेये । ७८ ।
१३ ।
“निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजःशमनं कुरु ॥”
निवारकः । यथा, तत्रैव देवीमाहात्म्ये ।
“दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम् ॥”)

शमनः, पुं, (शमयति पापिनां कर्म्म आलोचय-

तीति । कर्त्तरि ल्युः ।) यमः । इत्यमरः ॥ मृग-
भेदः । इति शब्दचन्द्रिका ॥ कलायः । इति
राजनिर्घण्टः ॥

शमनस्वसा, [ऋ] स्त्री, (शमनस्य यमस्य

स्वसा ।) यमुना । इत्यमरः ॥

शमनी, स्त्री, (शमयति नृणां व्यापारान् । शम +

ल्युः । स्त्रियां ङीप् ।) रात्रिः । इति शमनी-
षदशब्ददर्शनात् ॥ (शाम्यते अनेन इत्यर्थे
करणे ल्युटि शान्तिकारके, त्रि । यथा, भाग-
वते । ३ । २४ । ३९ ।
“मात्रे चाध्यात्मिकीं विद्यां शमनीं सर्व्वकर्म्म-
णाम् ॥”)

शमनीषदः, पुं, (शमन्यां सीदन्तीति । सद् +

अच् ।) निशाचरः । राक्षसः । इति त्रिकाण्ड-
शेषः ॥

शमलं, क्ली, (शम + “शाकशम्योर्नित् ।” उणा०

१ ॥ १११ । इति कलः ।) विष्ठा । इत्यमरः ॥
पापम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा,
भागवते । २ । ७ । ३ ।
“ऊचे ययात्मशमलं गुणसङ्गपङ्कम् ॥”)

शमान्तकः, पुं, (शमस्य शान्तेरन्तकः ।) काम-

देवः । इति त्रिकाण्डशेषः ॥

शमिः, स्त्री, शिम्बा । इति हेमचन्द्रः ॥

शमितः, त्रि, (शम + क्तः ।) शान्तः । इत्यमरः ॥

शमिरः, पुं, शमीवृक्षः । इति शब्दरत्नावली ॥

शमिरोहः, पुं, शिवः । इति त्रिकाण्डशेषः ॥

शमी, स्त्री, वृक्षविशेषः । शाँइ इति भाषा ।

(यथा, शाकुन्तले । ३ ।
“अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥”)
तत्पर्य्यायः । शक्तुफला २ शिवा ३ । इत्यमरः ॥
शक्तुफली ४ । इति शब्दरत्नावली ॥ शान्ता ५
तुङ्गा ६ कचरिपुफला ७ केशमथनी ८ ईशानी
९ लक्ष्मीः १० तपनतनया ११ इष्टा १२ शुभ-
करी १३ हविर्गन्धा १४ मेध्या १५ दुरितदमनी
१६ शक्तुफलिका १७ समुद्रा १८ मङ्गल्या १९
सुरभिः २० पापशमनी २१ भद्रा २२ शङ्करी
२३ केशहन्त्री २४ शिवाफला २५ सुपत्रा २६
सुखदा २७ । अस्य गुणाः । रूक्षत्वम् । कषा-
यत्वम् । रक्तपित्तातिसारनाशित्वञ्च । तत्फल-
गुणाः । गुरुत्वम् । स्वादुत्वम् । रूक्षत्वम् ।
उष्णत्वम् । केशनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“शमी शक्तुफला तुङ्गा केशहन्त्री शिवाफला ।
मङ्गल्या च तथा लक्ष्मीः शमीरः स्वल्पिका
स्मृता ॥
शमी तिक्ता कटुः शीता कषाया रेचनी लघुः ।
कम्पकासश्रमश्वासकुष्ठार्शःकृमिजित् स्मृता ॥”
इति भावप्रकाशः ॥ * ॥
शिम्बा । छिमडा इति भाषा । इत्यमरः ॥
वागुजिः । इति मेदिनी ॥ (कर्म्म । यथा, ऋग्-
वेदे । ६ । २ । २ ।
“ईजे यज्ञेभिः शशमे शमीभिः ।”
“शमीभिः कर्म्मभिः कृच्छ्रचान्द्रायणादिभिः ॥”
इति तद्भाष्ये सायणः ॥)

शमी, [न्] त्रि, शान्तः । शमो विद्यतेऽस्य इत्यर्थे

इन्प्रत्ययेन निष्पन्नमिदम् ॥

शमीकः, पुं, मुनिविशेषः । यथा, --

“जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥”
इति श्रीभागवते । १ । १८ ॥
अस्यार्थः । अचक्षाणः अपश्यन् । तं प्रसिद्ध-
माश्रमं तस्मिन् मुनिं शमीकम् । इति श्रीधर-
स्वामी ॥

शमीगर्भः, पुं, (शम्या गर्भः ।) ब्राह्मणः । अग्निः ।

इति हेमचन्द्रः ॥

शमीधान्यं, क्ली, (शमी यज्ञादिकर्म्म तदर्थं धान्यम् ।)

माषादिः । इत्यमरः ॥ तत्पर्य्यायगुणाः ।
“शमीजाः शिम्बिजाः शिम्बातराः सूप्याश्च
वैदलाः ।
वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः ॥
वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः ।
ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ॥”
मुद्गमसूरयोराध्मानकारित्वमन्यद्वैदलापेक्षया ।
नतु सर्व्वथा । एतयोरपि किञ्चिदाध्मान-
कारित्वदर्शनात् । इति भावप्रकाशः ॥ * ॥
अपि च ।
“शूकधान्यं शमीधान्यं समातीतं प्रशस्यते ।
परतो वातकृद्रूक्षं प्रायेणातिनवं गुरु ॥
यवगोधूममाषाश्च तिलाश्चातिनवा हिताः ।
पुराणा विरसा रूक्षा न तथार्थकरा मताः ॥”
इति राजवल्लभः ॥

शमीपत्रा, स्त्री, (शम्याः पत्राणीव पत्राणि

यस्याः ।) लज्जालुवृक्षः । इति जटाधरः ॥

शमीरः, पुं, (ह्नस्वा शमी । “कुटीशमीशुण्डाभ्यो

रः ।” ५ । ३ । ८८ । इति रः ।) अल्पा शमी ।
इत्यमरः ॥

शम्पा, स्त्री, विद्युत् । इत्यमरः ॥

शम्पाकः, पुं, आरग्वधः । इत्यमरः ॥ विपाकः ।

यावकः । इति हेमचन्द्रः ॥ (हस्तिनापुरवासी
कश्चिद्ब्राह्मणः । यथा, महाभारते । १२ ।
१७६ । २३ ।
“इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् ।
सम्पाकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥”)

शम्पातः, पुं, आरग्वधः । इति शब्दरत्नावली ॥

शम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) शम्बति । इति दुर्गादासः ॥

शम्बः, पुं, (शम् + “शमेर्व्वन् ।” उणा० ४ । ९४ ।

इति वन् । यद्वा, शमस्त्यस्येति । शं + “कंशंभ्यां
वभयुस्तितुतयसः ।” ५ । ६ । १३८ । इति वः ।)
वज्रम् । (यथा, ऋग्वेदे । १० । ४२ । ७ ।
“उग्रो यः शम्बः पुरुहूत तेन ।”
“शम्ब इति वज्रनाम ।” इति तद्भाष्ये सायणः ॥)
मुषलाग्रस्थलोहमण्डलकम् । इति मेदिनी ॥
लौहकाञ्ची । इति हेमचन्द्रः ॥ अनुलोमकर्ष-
णम् । इति शम्बाकृतशब्दटीकायां भरतः ॥
दरिद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥ भाग्य-
वति, त्रि । इति रामाश्रमः ॥

शम्बरं, क्ली, सलिलम् । व्रतम् । वित्तम् । इति

नानार्थरत्नमाला ॥ चित्रम् । बौद्धव्रतविशेषः ।
इति विश्वहेमचन्द्रौ ॥ (मेघः । यथा, ऋग्वेदे ।
२ । २४ । २ । “अदर्द्दर्मन्युना शम्बराणि ॥”
“शम्बराणि मेघनामैतत् मेघान् व्यदर्द्दः वर्ष-
णार्थं विदारितवान् ॥” इति तद्भाष्ये सायणः ॥)

शम्बरः, पुं, मृगविशेषः । दैत्यविशेषः । इति

मेदिनी ॥ (यथा, ऋग्वेदे । १ । ५१ । ६ ।
“अरन्धयो तिथिग्वाय शम्बरम् ।”
“शम्बरं एतन्नामानमसुरम् ।” इति तद्भाष्ये
सायणः ॥ यथा च महाभारते । १ । ६५ । २२ ।
“शम्बरो नसुचिश्चैव पुलोमा चेति विश्रुतः ।
असिलोमा च केशी च दुर्ज्जयश्चैव दानवः ॥”)
मत्स्यविशेषः । शैवविशेषः । जिनभेदः । इति
विश्वः ॥ युद्धम् । श्रेष्ठः । इति धरणिः ॥
चित्रकवृक्षः । लोध्रः । अर्ज्जुनवृक्षः । इति
राजनिर्घण्टः ॥ शम्बरासुरस्य वधोपाख्यानं
श्रीभागवते १० स्कन्धे ५५ अध्याये द्रष्टव्यम् ॥

शम्बरकन्दः, पुं, (शम्बरनामकः कन्दः ।) वाराही-

कन्दः । इति राजनिर्घण्टः ॥
पृष्ठ ५/०२४

शम्बरचन्दनं, क्ली, (शम्बरनामकं चन्दनम् ।)

चन्दनविशेषः । तत्पर्य्यायः । कैरातम् २ वहल-
गन्धम् ३ बल्यम् ४ गन्धकाष्ठम् ५ कैरातकम् ६
शैलगन्धम् ७ । अस्य गुणाः । शीतलत्वम् ।
तिक्तत्वम् । उष्णत्वम् । श्लेष्मानिलश्रमपित्त-
विस्फोटपामादिकुष्ठतृषातापविमोहनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

शम्बरसूदनः, पुं, (शम्बरं सूदयतीति । सूद + ल्युः ।)

कामदेवः । इति हलायुधः ॥

शम्बरारिः, पुं, (शम्बरस्यारिः ।) कामदेवः ।

इत्यमरः ॥

शम्बरी, स्त्री, आखुपर्णी । इति मेदिनी ॥ माया ।

इति शब्दरत्नावली ॥

शम्बलः, पुं, क्ली, कूलम् । पाथेयम् । मत्सरः ।

इति मेदिनी ॥

शम्बाकृतं, त्रि, (शम्ब + “कृञो द्वितीयतृतीयशम्ब-

बीजात् कृषौ ।” ५ । ४ । ५८ । इति डाच् ।) द्बिवार-
कृष्टक्षेत्रम् । तत्पर्य्यायः । द्विगुणाकृतम् २ द्बितीया-
कृतम् ३ द्बिहल्यम् ४ द्विसीत्यम् ५ । इत्यमरः ॥

शम्बुः, पुं, शम्बुकः । यथा, --

“शम्बूकः शम्बुको ज्ञेयः पूर्व्वः कान्तस्तु सर्व्वदा ।
ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥”
इति हड्डचन्द्रः । इत्यमरटीकायां भरतः ॥

शम्बुकः, पुं, (शम्बु + स्वार्थे कन् ।) सृम्बुकः । यथा,

“शम्बूकः शम्बुको ज्ञेयः पूर्ब्बः कान्तस्तु सर्व्वदा ।
ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥”
इति हड्डचन्द्रः । इत्यमरटीकायां भरतः ॥

शम्बुक्कः, पुं, शम्बूकः । इति शब्दरत्नावली ॥

शम्बूकः, पुं, स्त्री, (शम् + “उलूकादयश्चेति” उणा०

४ । ४१ । इति उकः वुगागमश्च निपात्यते ।)
जलजन्तुविशेषः । शामूक इति भाषा । तत्-
पर्य्यायः । जलशुक्तिः २ । इत्यमरः ॥ शम्बुका ३
शम्बुकः ४ शम्बुक्कः ५ शाम्बुकः ६ शम्बुः ७
शाम्बुक्कः ८ । इति शब्दरत्नावली ॥ जल-
डिम्बः ९ दुश्चरः १० पङ्कमण्डूकः ११ । इति
हारावली ॥ पुं, गजकुम्भान्तर्भागः । घोङ्गः ।
शूद्रतापसः । (यथा, उत्तरचरिते । २ ।
“दत्ताभये त्वयि यमादपि दण्डधारे
सञ्जीवितः शिशुरयं मम चेयमृद्धिः ।
शम्बूक एष शिरसा चरणौ नतस्ते
सत्सङ्गजानि निधनान्यपि तारयन्ति ॥”)
इति मेदिनी ॥ दैत्यविशेषः । शङ्खः । इति
हेमचन्द्रः क्षुद्रशङ्खः । इति राजनिर्घण्टः ॥

शम्बूका, स्त्री, (शम्बुक + टाप् ।) जलशुक्तिः ।

इति राजनिर्घण्टः ॥

शम्भलः, पुं, ग्रामविशेषः । अधुना सम्बल-मोरदा-

वाद इति नाम्ना ख्यातः । तत्र षष्टितीर्थानि
सन्ति कल्की चाविर्भूय सहस्रं समाः स्थास्यति ।
यथा, --
“शम्भले वसतस्तस्य सहस्रं परिवत्सराः ।
व्यतीता भ्रातृपुत्त्रस्वज्ञातिसम्बन्धिभिः सह ॥
शम्भले शुशुभे श्रेणीसभापणकचत्वरैः ।
पताकाध्वजचित्राद्यैर्यथेन्द्रस्यामरावती ॥
यत्रास्ते षष्टितीर्थानां सम्भवः शम्भलेऽभवत् ।
मृत्यौ मोक्षः क्षितौ कल्केरकल्कस्य क्षयाश्रयः ॥
वनोपवनसन्ताननानाकुसुमसङ्कुलैः ।
शोभितं शम्भलग्रामं मन्ये मोक्षोपमं भुवि ॥
महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः ।
शम्भलग्रामविप्रर्षिमाविवेश परात्मकः ॥
सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् ।
द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः ॥
जातो ददृशतुः पुत्त्रं पितरौ हृष्टमानसौ ।
धात्रीमाता महाषष्ठी नाडीच्छेत्री तदाम्बिका ॥
गङ्गोदकक्लेदमोक्षा सावित्री मार्ज्जनोद्यता ।
तस्य विष्णोरनन्तस्य मातृकादात् पयःसुधाम् ॥
सुमतिस्तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्प्रभुम् ।
पूर्णकामा विप्रमुख्यानाहूयादात् गवां शतम् ॥
तं बालकं नराकारं विष्णुं मत्वा मुनीश्वराः ।
कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः ।
नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम् ॥”
इति कल्किपुराणे १ अध्यायः ॥

शम्भली, स्त्री, (शम्भं कल्याणयुक्तं नायकादिकं

लाति गृह्णातीति । ला + कः । गौरादित्वात्
ङीष् ।) कुट्टनी । इत्यमरः ॥

शम्भुः, पुं, (शं मङ्गलं भवत्यस्मादिति । शम् +

“मितद्र्वादिभ्य उपसंख्यानम् ।” ३ । २ । १८० ।
इत्यस्य वार्त्तिकोक्त्या डुः ।) शिवः । इत्यमरः ॥
(यथा, भागवते । ४ । ७ । ५७ ।
“एतद्भगवतः शम्भोः कर्म्मदक्षाध्वरद्रुहः ।
श्रुतं भागवतात् शिष्यादुद्धवान्मे बृहस्पतेः ॥”
एकादशरुद्राणामन्यतमः । यथा, विष्णुपुराणे ।
१ । ५ । १२३ -- १२४ ।
“हरश्च बहुरूपश्च त्र्यम्बकश्चापराजतः ।
वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा ॥
मृगव्याधश्च शर्व्वश्च कपाली च महामुने ।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः ॥)
ब्रह्मा । (यथा, महाभारते । १ । ६४ । ४५ ।
“तामुवाच महाराज भूमिं भूमिपतिः प्रभुः ।
प्रभवः सर्व्वभूतानामीशः शम्भुः प्रजापतिः ॥”)
बुद्धः । इति मेदिनी ॥ विष्णुः । इति हलायुधः ॥
(यथा, महाभारते । १२ । ४३ । ७ ।
“त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ॥”)
सिद्धः । इति शब्दरत्नावली ॥ श्वेतार्कः । इति
चन्द्रिका ॥ (अग्निः । यथा, महाभारते । ३ ।
२२० । ५ ।
“शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥”
सुखस्य भावयितरि, त्रि । यथा, ऋग्वेदे । १ ।
४६ । १३ ।
“मनुष्वच्छम्भू आगतम् ॥”
“हे शम्भू सुखस्य भावयितारौ ।” इति तद्भाष्ये
सायणः ॥)

शम्भुतनयः, पुं, (शम्भोस्तनयः ।) कार्त्तिकेयः ।

इति शब्दरत्नावली ॥ गणेशश्च ॥

शम्भुनन्दनः, पुं, (शम्भोर्नन्दनः ।) गणेशः । इति

शब्दरत्नावली ॥ कार्त्तिकेयश्च ॥

शम्भुप्रिया, स्त्री, (शम्भोः प्रिया ।) आमलकी ।

इति शब्दचन्द्रिका ॥ दुर्गा च ॥

शम्भुवल्लभं, क्ली, (शम्भोर्वल्लभम् ।) श्वेतकमलम् ।

इति राजनिर्घण्टः ॥ शिवप्रिये, त्रि ॥

शम्या, स्त्री, (शम्यतेऽनयेति । शम + यत् । टाप् ।)

युगकीलकः । इत्यमरः ॥ (यथा, ऋग्वेदे । ३ ।
३३ । १३ ।
“उद्व ऊर्म्मिः शम्याः हन्त्वापो योक्त्राणि
मुञ्चत ॥”)
दक्षिणहस्तगृहीततालविशेषः । इति सङ्गीत-
शास्त्रम् ॥ (दण्डयष्टिः । इति मेधातिथिः ॥
यथा, मनुः । ८ । २३७ ।
“शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥”)

शम्याक्षेपः, पुं, (शम्यायाः क्षेपो यत्र ।) भ्रमित-

क्षिप्तयष्टिप्राप्तयावद्भूप्रदेशः । यथा, --
“भ्रामयित्वा बहुगुणं यष्टिः क्षिप्ता समाप्नुयात् ।
भुवः प्रदेशं यावन्तं शम्याक्षेपः स उच्यते ॥”
इति मार्कण्डेयपुराणे विविंशचरितं नामा-
ध्यायः ॥ (यज्ञविशेषः । यथा, महाभारते ।
३ । ९० । ५ ।
“पुण्यञ्चाख्यायते दिव्यं शिवमग्निशिरोऽनघ ।
सहदेवोऽयजत् यत्र शम्याक्षेपेण भारत ! ॥”
“बलवता क्षिप्ता शम्या लगुडविशेषो यावद्दूरं
पतेत् तावान् यज्ञमण्डपो यस्मिन् यज्ञे न शम्या-
क्षेपस्तेन ।” इति तट्टीकायां नीलकण्ठः ॥)

शयः, पुं, (शेते सर्व्वमस्मिन्निति प्रायो वस्तुनः करा-

धीनत्वात् । शी + पुंसीति घः ।) हस्तः । इत्य-
मरः ॥ शय्या । सर्पः । इति मेदिनी ॥ निद्रा ।
पणः । इति विश्वः ॥

शयण्डः, त्रि, (शेते इति । शी + अण्डन् । इत्यु-

ज्ज्वलः । १ । १२८ ।) निद्राशीलः । इत्युणा-
दिकोषः ॥ (पुं, विषयः । देशः । इत्युणादि-
टीका । १ । १२८ ॥)

शयतः, पुं, निद्रालुः । इति संक्षिप्तसारोणादि-

वृत्तिः ॥

शयथः, पुं, (शेते इति । शीङ् + “शीङ्शपिरुशमि-

जीविप्राणिभ्योऽथः ।” उणा० ३ । ११३ । इति
अथः ।) अजगरः । मृत्युः । निद्रालुः । इति
हेमचन्द्रः ॥ वराहः । मत्स्यः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥ (मरणम् । यथा, ऋग्वेदे ।
६ । १७ । ९ ।
“विश्वायुः शयथे जघान ॥”
“शयथे शयननिमित्ते मरणायेत्यर्थः ।” इति
तद्भाष्ये सायणः ॥)

शयनं, क्ली, (शी + ल्युट् ।) निद्रा । शय्या ।

इत्यमरः ॥ (यथा, महाभारते । १ । १४५ । १४ ।
“आसनानि च दिव्यानि यानानि शयनानि च ।
विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता ॥”)
मैथुनम् । इति मेदिनी ॥ अथ सर्व्वदेवशयन-
कालः ।
पृष्ठ ५/०२५
पुलस्त्य उवाच ।
“यदाषाढी समायाति व्रजते चोत्तरायणम् ।
तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥
प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्व्वगुह्यकाः ।
देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥
नारद उवाच ।
कथयस्व सुरादीनां शयने विधिमुत्तमम् ।
सर्व्वञ्चानुक्रमेणैव पुरस्कृत्य जनार्द्दनम् ॥
पुलस्त्य उवाच ।
मिथुनाभिगते सूर्य्ये शुक्लपक्षे तपोधन ।
एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ॥
शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ।
कृत्वोपवीतकञ्चैव सम्यक् संपूज्य च द्बिजान् ॥
अनुज्ञां ब्राह्मणेभ्यश्च द्बादश्यां प्रयतः शुचिः ।
लब्ध्वा पीताम्बरधरं स्वस्तिनिद्रां समानयेत् ॥
त्रयोदश्यां ततः कामः स्वपते शयने शुभे ।
कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥
चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।
सुवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥
पौर्णमास्यामुमानाथः स्वपते चर्म्मसंस्तरे ।
वैयाघ्रे च जटाभारं समुद्ग्रथ्यान्यचर्म्मणा ॥
ततो दिवाकरो राशिं संप्रयाति च कर्कटम् ।
ततोऽमराणां रजनी भवते दक्षिणायनम् ॥
ब्रह्मा प्रतिपदि तथा नीलोत्पलदलेऽनघ ।
तल्पे स्वपिति देवानां दर्शयन् मार्गमुत्तमम् ॥
विश्वकर्म्मा द्वितीयायां तृतीयायां गिरेः सुता ।
विनायकश्चतुर्थ्यान्तु पञ्चम्यामपि धर्म्मराट् ॥
षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः ।
कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥
दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः ।
एकादश्यान्तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति
हि ॥
एष क्रमस्ते गदितो निशायां शयने मुने ।
स्वपत्सु तेषु देवेषु प्रावृट्कालः समाययौ ॥
कङ्काः समं वलाकाभिरारोहन्ति नगोत्तमान् ।
वायसाश्चापि कुर्व्वन्ति नीडानि मुनिपुङ्गव ।
वायस्यश्च स्वपन्त्येता ऋतौ गर्भभरालसाः ॥
यस्यां तिथ्यां प्रस्वपिति विश्वकर्म्मा प्रजापतिः ।
द्वितीया सा शुभा पुण्या सुपुण्या शयनोदिता ॥
तस्यां तिथावर्च्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम् ।
पर्य्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने ॥
ततो देवाय शय्यायां फलानि प्रक्षिपेत् क्रमात् ।
सुरभीणि निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥
यथा हि लक्ष्म्या न वियुज्यसे त्वं
त्रिविक्रमानन्त जगन्निवास ।
तथास्त्वशून्यं शयनं सदैव
त्वस्माकमेवेह तव प्रसादात् ॥
तदा त्वशून्यं तव देव तल्पं
स्वयं हि लक्ष्म्या शयने सुरेश ।
सत्येन तेनामितवीर्य्य विष्णो
गार्हस्थ्यरागो मम चास्तु देव ॥
इत्युच्चार्य्य प्रणम्येशं प्रसाद्य च पुनः पुनः ।
नक्तं भुञ्जीत देवर्षे तैलक्षारविवर्जितम् ॥
द्वितीयेऽह्नि द्बिजाग्र्याय फलं दद्याद्बिचक्षणः ।
लक्ष्मीधर प्रीयतां मे इत्युच्चार्य्य निवेदयेत् ॥
अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् ।
यावद्वृश्चिकराशिस्थः प्रतिभाति दिवाकरः ।
ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने ॥
नभस्ये मासि च तथा या स्यात् कृष्णाष्टमी
शुभा ।
युक्ता मृगशिरेणैव सा तु कामाष्टमी स्मृता ॥
तस्यां सर्व्वेषु लिङ्गेषु तिथौ स्वपिति शङ्करः ।
वसते सन्निधाने तु तत्र पूजाक्षया स्मृता ॥”
इति वामने १६ अध्यायः ॥ * ॥
अथ हरिशयनादिव्यवस्था । भविष्यनारदी-
ययोः ।
“मैत्राद्यपादे स्वपितीह विष्णु-
र्व्वैष्णव्यमध्ये परिवर्त्तते च ।
पौष्णावसाने च सुरारिहन्ता
प्रबुध्यते मासचतुष्टयेन ॥”
मैत्रमनुराधा । वैष्णवं श्रवणा । पौष्णं रेवती ।
भविष्ये ।
“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।
अन्यत्र पादयोगे तु द्बादश्यामेव कारयेत् ॥”
इत्थञ्च नक्षत्रयोगप्राप्तौ फलातिशयः । एत-
द्विधानं वामनपुराणे ।
“एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ।
शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ॥
अनुज्ञां ब्राह्मणेभ्यश्च द्बादश्यां प्रयतः शुचिः ।
लब्धा पीताम्बरधरं देवं निद्रां समानयेत् ॥”
अनुज्ञां लब्ध्वा इत्यन्वयः । एकादशीसमये दिवा-
शयनीयकल्पनं रात्रौ द्वादशीक्षणे निद्रेति ।
विष्णुधर्म्मोत्तरे ।
“स्वास्तीर्णशयनं कृत्वा प्रीणयेद्भोगशायिनम् ।
आषाडशुक्लद्बादश्यां विष्णुलोके महीयते ॥”
स्वास्तीर्णशयनं शोभनास्तरणयुक्तं खट्टादि ।
वराहपुराणे श्रीभगवानुवाच ।
“अन्यत्तु संप्रवक्ष्यामि कर्म्म संसारमोचनम् ।
कदम्बकुटजश्चैव धवकोऽर्ज्जुनकस्तथा ॥
एभिरभ्यर्च्चनं कुर्य्याद्विधिदृष्टेन कर्म्मणा ।
ततः संस्थापनं कृत्वा मम मन्त्रविधिः स्मृतः ।
नमो नारायणायोक्त्वा इमं मन्त्रमुदीरयेत् ॥
पश्यन्तु मेघानपि मेघश्यामं
ह्युपागतं सिच्यमानं महीमिमाम् ।
निद्रां भगवान् गृह्णातु लोकनाथ
वर्षास्विमं पश्यतु मेघवृन्दम् ॥
ज्ञात्वैव पश्यैव च लोकनाथ मासा-
श्चत्वारि वैकुण्ठस्य च पश्य नाथ ।
आषाढशुक्लद्वादश्यां सर्व्वशान्तिकरम् शिवम् ॥
य एतेन विधानेन भूमि ! मे कर्म्म कारयेत् ।
स पुमान् न प्रणश्येत्तु संसारेषु युगे युगे ॥
शयने कुटजविधानात् विष्णुधर्म्मोत्तरीयनिषे-
धोऽन्यत्र । धवकः कपित्थः । संस्थापनं समा-
पनम् । भूमि इति पृथिव्याः सम्बोधनम् ।
“एवमुक्तेन मन्त्रेण कृष्णं सुष्वापयेत्ततः ।
सुप्ते त्वयि जगन्नाथ जगत् सुप्तं भवेदिदम् ।
विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥”
इति मन्त्रेण पूजयेत् ॥ * ॥
“प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि ।
कटदानं भवेद्विष्णोर्महापूजा प्रवर्त्तते ॥”
कटदानं पार्श्वपरिवर्त्तः । कामरूपीयनिबन्धे ।
“एवं संपूज्य विधिवत् भाद्रस्य द्बादशीदिने ।
मन्त्रेणानेन देवेशं पार्श्वेन परिवर्त्तयेत् ॥
वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव ।
पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ॥
त्वयि सुप्ते जगन्नाथ जगत् सर्व्वं चराचरम् ॥”
ब्रह्मपुराणे ।
“एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् ।
प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः ॥”
रात्रौ प्रसुप्तमित्यन्वयः । बोधनन्तु दिवैव ॥
“कृत्वा वै मम कर्म्माणि द्वादश्यां मत्परो नरः ।
ममैव बोधनार्थाय इमं मन्त्रमुदीरयेत् ॥
महेन्द्ररुद्रैरभिनूयमानो
भवानृषिर्व्वन्दितवन्दनीयः ।
प्राप्ता तवेयं किल कौमुदाख्या
जागृष्व जागृष्व च लोकनाथ ॥
मेघा गता निर्म्मलपूर्णचन्द्रः
शारद्यपुष्पाणि च लोकनाथ ।
अहं ददानीति च पुण्यहेतो-
र्जागृष्व जागृष्व च लोकनाथ ॥
एवं कर्म्माणि कुर्व्वीरन् द्बादश्यां ये यशस्विनि ।
मम भक्ता नरश्रेष्ठास्ते यान्ति परमां गतिम् ॥”
अत्र मन्त्रद्बयपाठानन्तरम् ।
“उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ।
त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥”
इति सम्प्रदायागतस्तृतीयः श्लोक इति वाच-
स्पतिमिश्राः ॥ शयनोत्थानमन्त्रास्तु कल्पतरु-
प्रभृतिग्रन्थसंवादाल्लिखिताः । तदेवं द्बादश्यां
एकादश्यां वा रेवत्यन्तपादयोगवशाद्दिवोत्थानं
नक्षत्रयोगाभावे तु द्बादश्यामेव कारयेदिति
गुरुचरणाः । जीमूतवाहनस्तु भविष्ये ।
“आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती ।
आदिमध्यावसानेषु प्रस्वापावर्त्तबोधनम् ॥”
आ-भा-का-सितपक्षेषु आषाढभाद्रकार्त्तिक-
शुक्लपक्षेषु । एषाञ्च द्वादश्यां प्राप्तौ मुख्य-
कल्पः । भविष्यपुराणम् ।
“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।
अन्यत्र पादयोगे तु द्वादश्यामेव कारयेत् ॥”
विष्णुधर्म्मोत्तरे ।
“विष्णुर्दिवा न स्वपिति न रात्रौ प्रतिबुध्यते ।
द्वादश्यामृक्षसंयोगे पादयोगो न कारणम् ॥
अप्राप्ते द्बादशीमृक्षे उत्थानशयने हरेः ।
पादयोगेन कर्त्तव्येनाहोरात्रं विचिन्तयेत् ॥”
वचनान्तरम् ।
“रेवत्यन्तो यदा रात्रौ द्बादश्या च समन्वित
तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम् ॥
पृष्ठ ५/०२६
दिनान्ते त्रिधा विभक्तदिनतृतीयभागे दिवोत्थान-
मित्यनुरोधात् । अतएव ।
“रात्रौ विबोधो विनिहन्ति पौरान्
स्वापो दिवा राष्ट्रकुलं नृभर्त्तुः ।
सन्ध्याद्बये स्वल्पफला धरित्री
भवेन्नराणामपि रोगदुःखम् ॥”
इति श्रुतिः ॥ वराहपुराणे ।
“द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।
आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम् ॥”
तदेवं शयनादौ कालचतुष्टयम् । द्वादश्यां
निशादौ नक्षत्रयोगः । तदभावेऽपि निशाद्य-
नादरेण तिथ्यन्तरे पादयोगः । तस्याप्यभावे-
ऽपि सन्ध्यायां नक्षत्रमात्रयोगः । तस्याप्यभावे
द्वादश्यां सन्ध्यायामिति । विष्णुधर्म्मोत्तरे ।
“किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा ।
पौष्णशेषेण किं तेन प्रतिपद्यध यो निशि ॥”
इति दशमीप्रतिपदोर्निषेधात् एकादश्यादिपौर्ण-
मास्यन्तानां तिथीनामभ्यनुज्ञानम् ॥ * ॥
पद्मपुराणे सर्व्वदेवशयनादिकमुक्तं यथा, --
“प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः ।
श्रिया देव्या द्वितीया तु तिथीनामुत्तमा स्मृता ॥
तृतीया तु भवान्याश्च चतुर्थी तत्सुतस्य च ।
पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च ॥
सप्तमी भास्करस्योक्ता दुर्गायाश्चाष्टमी स्मृता ।
मातॄणां नवमी प्रोक्ता दशमी वासुकेस्तथा ॥
एकादशी ऋषीणान्तु द्बादशी चक्रपाणिनः ।”
चक्रपाणिन इति पणव्यवहार इत्यस्मात् ।
“त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्द्दशी ।
मम चैव मुनिश्रेष्ठ पौर्णमासी तिथिः स्मृता ॥
यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या ।
तस्य देवस्य तस्मिंश्च शयनावर्त्तनादिकम् ॥”
अत्र हरिशयनाद्याषाढादिविधानात् तत्साह-
चर्य्यादन्येषामपि तथा । ज्योतिषेऽपि ।
“व्रजति यदा मिथुनं विहाय
कर्कं राजविवर्ज्जितां तिथिं सूर्य्यः ।
भवति तदा नियतं द्बिराषाढः
सुरशयनादिविधिर्द्वितीये मासि ॥”
राज्ञा चन्द्रेण विवर्ज्जितां अमावास्याम् । पूर्व्व-
कृष्णपक्षे मिथुने संक्रान्ते इति शेषः । हरि-
नाथोपाध्यायास्तु । यमः ।
“क्षीराब्धौ शेषपर्य्यङ्के आषाढ्यां संविशेद्धरिः ।
निद्रां त्यजति कार्त्तिक्यां तयोस्तं पूजयेत् सदा ॥
ब्रह्महत्यासमं पापं क्षिप्रमेव व्यपोहति ।
हिंस्रात्मकैश्च किं तस्य यज्ञैः कार्य्यं महात्मनः ।
प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥”
आषाढशुक्लैकादशीमारभ्य पौर्णमासीपर्य्यन्तं
विष्णोर्निद्राग्रहणरूपशयनसमयः । अतएव
एकादश्यां शयनमभिधाय तदादिदिनपञ्चके
कर्म्मकथनं ब्रह्मपुराणे । वराहपुराणीये तु ।
एकादशीकालीनमन्त्रे निद्राग्रहणाभिधानम् ।
यमस्मृतौ पौर्णमास्यां शयनाभिधानम् ।
आषाढीपदस्यानुपाधेस्तत्रैव प्रवृत्तेः । एवञ्च
ब्रह्मपुराणे यद्यप्येकादश्यां प्रबोधसमयः । तेन
वराहपुराणे द्वादश्यां प्रबोधाभिधानम् । यम-
स्मृतौ कार्त्तिक्यां प्रबोधाभिधानम् सर्व्वसमञ्जस-
मिति । एवमेव श्रीदत्तोपाध्यायाः । कल्पतरुस्तु
एकादश्यामेव शयनं प्रबोधश्च । यमस्मृतावा-
षाढी कार्त्तिकस्येयमिति वुत्पत्त्या न तत्प्रत्य-
यानुपपत्तिः । अपवादविषयके क्वचिदुत्सर्ग-
प्रवृत्तेरित्याह । श्रीभगवद्वाक्यम् ।
“मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने ।
फलमूलजलाहारी हृदि शल्यं ममार्पयेत् ॥”
फलाहारपदमनशनपरम् । तेन सर्व्वथा अन-
शनपरत्वम् । इत्येकादशीतत्त्वम् ॥ * ॥
मर्त्त्यानां शयनविधिनिषेधौ यथा, --
सूत उवाच ।
“उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्तोऽथ संविशेत् ॥
शुचिं देशं विविक्तन्तु गोमयेन तु लेपयेत् ।
प्रागुदक्प्रवणे चैव संस्वपेत सदा बुधः ॥
प्राक्शिराश्च स्वपेन्नित्यं तथा वै दक्षिणाशिराः ।
स्वपेदुदक्शिरा नैव तथा प्रत्यक्शिरा न च ।
न चान्तर्द्धानहीने तु न तिर्य्यक् च कदाचन ॥
शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे ।
महादेवगृहे चापि मातृवेश्मनि न स्वपेत् ॥
न यक्षनागायतने स्कन्दस्यायतने तथा ।
गर्भेषु च विना दीक्षां न स्वपेच्च कथञ्चन ॥
धान्यगेहे च विप्राणां गुरूणाञ्च तथोपरि ।
नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिखस्तथा ॥
दिने सन्धौ न नग्नश्च नोत्तरापरमस्तकः ।
आकाशे पर्व्वते शून्ये न च चैत्यद्रुमे तथा ॥
न तु द्वारेऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः ।
पालाशे शयने नैव बहुदारकृते न च ॥
न दग्धे विद्युता चैव वह्निप्लुष्टे जले तथा ।
न स्वपेत् सन्ध्ययोर्नित्यं न शिरस्यासने कटे ॥
एवं खपन् नरो नित्यं सुखस्येह परत्रभाक् ।
व्यत्यये च भवेद्दुःखी मृतो नरकमश्नुते ॥”
इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥ * ॥
अपि च । सति सूर्य्ये शय्या च न पातनीया
सूर्य्योदयात् पूर्व्वमुत्तोलनीया । तथा च स्मृतिः ।
“भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।
सूर्य्यावलोककिदीपानि लक्ष्म्या वेश्मानि भाज-
नम् ॥
आसनं वसनं शय्या जायापत्यं कमण्डलुः ।
आत्मनः शुचिरेतानि न परेषां कदाचन ॥”
न कदाचन इत्यनुमतिं विना अन्यथातिथ्यानु-
पपत्तेः । व्यासः ।
“शुचौ देशे विविक्ते तु गोमयेनोपलिप्तके ।
प्रागुदक्प्लवने चैव संविशेत्तु सदा बुधः ॥
माङ्गल्यं पूर्णकुम्भञ्च शिरःस्थाने निधापयेत् ।
वैदिकैर्गारुडैर्म्मन्त्रै रक्षां कृत्वा स्वपेत्ततः ॥”
गर्गः ।
“स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणा-
शिराः ।
प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः ॥”
मार्कण्डेयपुराणे ।
“प्राक्शिराः शयने विद्यात् धनमायुश्च दक्षिणे ।
पश्चिमे प्रबलां चिन्तां हानिं मृत्युं तथोत्तरे ॥”
तथा ।
“नमस्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि ।”
मार्कण्डेयः ।
“शून्यागारे श्मशाने च एकवृक्षे चतुष्पथे ।
महादेवगृहे चापि शर्करालोष्ट्रपांशुषु ॥
धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि ।
न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥
नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः ।
नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥”
न स्वपेदित्यर्थः । इत्याह्निकाचारतत्त्वम् ॥ * ॥
अन्यच्च ।
“भुक्त्वा च विधिवन्मन्त्रैर्द्विजो भुक्तावशिष्टकम् ।
ससुहृद्बान्धवजनः स्वपेत् शुष्कपदो निशि ॥
नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न
च ।
न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥
न शीर्णायान्तु खट्वायां शून्यागारे न चैव हि ।
नापि वंश्ये च पालाशे शयने वा कदाचन ॥”
इति कौर्म्मे उपविभागे १८ अध्यायः ॥ * ॥
अपि च ।
“कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही ।
गच्छेत् शय्यां समन्त्राञ्च अथवा दारुनिर्म्मिताम् ॥
शाल्मलस्य कदम्बस्य नीपमन्दारकस्य च ।
किंशुकस्य वटस्याथ तथा कुशमयस्य च ॥
आरोहणात भवेत् पापं तस्मात्तेषु न च
स्वपेत् ।
प्ररोहशय्यां सूत्रे वा अपर्णे परमेश्वरि ! ॥
न शुक्रे नापवित्रे च न तृणे न च भूतले ।
तूलिकायां तथा वस्त्रे शय्याभावे स्वपेद्गृही ।
स्वपेन्न पट्टवस्त्रे च कलङ्की कम्बलेषु च ॥”
इति मत्स्यसूक्ते ४४ पटलः ॥ * ॥
अपि च ।
“सूर्य्येणाभ्युदितो यस्तु त्यक्तः सूर्य्येण यः स्वपन् ।
अन्यत्रातुरभावाच्च प्रायश्चित्तीयते नरः ॥”
इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥
यस्मिन् सुप्ते सूर्य्य उदेति स सूर्य्येणाभ्युदितः ।
यस्मिन् सुप्ते अस्तं याति स सूर्य्येण त्यक्तः ॥
सूर्य्योदयास्तसमययोः स्वपन् प्रायश्चित्तीयते
पातकी भवेदित्यर्थः । इति तस्य टीका च ॥
किञ्च ।
“श्वासानष्टौ समुत्तानस्तान् द्वि १६ पार्श्वे च
दक्षिणे ।
ततस्तद्द्विगुणान् ३२ वामे पश्चात् स्वप्यात्
यथासुखम् ॥
वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तू-
नाम ।
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् ॥”
इति भावप्रकाशः ॥
पृष्ठ ५/०२७

शयनीयं, क्ली, (शेतेऽस्यामिति । शी + अधिकरणे

अनीयर् ।) शय्या । इत्यमरः ॥ (यथा,
माघे । ११ । ५ ।
“रतिपरिचयनश्यन्नैद्रतन्द्रः कथञ्चित्
गमयति शयनीये शर्व्वरीं किं करोतु ॥” * ॥)
शयनयोग्ये, त्रि ॥ (यथा, रामायणे । २ ।
७२ । ११ ।
“शून्योऽयं शयनीयस्ते पर्य्यङ्को हेमभूषितः ।
न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे ॥”)

शयनीयकं, क्ली, (शयनीयमेव । स्वार्थे कन् ।)

शय्या । इति शब्दरत्नावली ॥ (यथा, कथा-
सरित्सागरे । ३३ । १७७ ।
“गत्वा कलिङ्गसेनायाः सुप्तायाः शयनीयके ।
सुप्तं मदनवेगं तं स्वरूपे स्थितमैक्षत ॥”)

शयनैकादशी, स्त्री, (शयनाय शयनस्य वा एका-

दशी ।) श्रीहरेः शयनसम्बन्धितिथिः । सा
चाषाढशुक्लैकादशी । तद्बिवरणं शयनशब्दे
हरिशयनशब्दे च द्रष्टव्यम् ॥

शयानकः, पुं, (शी + शानच् । ततः कन् । यद्वा,

“आनकः शीङ्भियः ।” इति आनक् ।) सर्पः ।
इत्युणादिकोषः ॥ कृकलासः । इति हेमचन्द्रः ॥

शयालुः, त्रि, (शयनशीलः । शी + “शोङो ग्रहणं

कर्त्तव्यम् ।” ३ । २ । १५८ । इत्यस्य वार्त्तिकोक्त्या
आलुच् ।) निद्रालुः । इत्यमरः ॥ (यथा,
माघे । २ । ८० ।
“उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥”)

शयालुः, पुं, (शी + आलुच् ।) अजगरः । कुकरः ।

इति हारावली ॥

शयितः, त्रि, (शी + क्तः ।) निद्रालुः । इत्यमरः ॥

(कृतशयनः । यथा, कथासरित्सागरे । ५६ । १८७ ।
“तयोः स्नपितयोः स्वामि भुञ्जे भोजितयो-
स्तयोः ।
शये शयितयोस्तेन ज्ञानमीदृग्विधं मम ॥”)
वसन्तकुसुमे, पुं । यथा, --
“वसन्तकुसुमः शेलुः शयितो द्विजकुत्सितः ॥”
इति शब्दमाला ॥
शयने, क्ली ॥

शयितवान्, त्रि, निद्रालुः । शीङ्धातोः क्तवतुप्रत्य-

येन निष्पन्नमेतत् ॥

शयुः, पुं, (शेते इति । शी + उः ।) अजगरः ।

इत्यमरः ॥ (ऋषिविशेषः । यथा, ऋग्वेदे । १ ।
२१२ । १६ ॥
“याभिर्नरा शयवे याभिरत्रये ॥”
“हे नरा नेतारावश्विनौ पुरा पूर्व्वस्मिन् काले
शयवे एतत् संज्ञकाय ऋषये ।” इति तद्-
भाष्यम् ॥ शयाने, त्रि । यथा, ऋग्वेदे । ४ ।
१८ । १२ ।
“कस्ते मातरं विधवामचक्रत्
शयुं कस्त्वामजिघांसच्चरन्तम् ॥”
“कस्त्वत्तोऽन्यः शयुं शयानं चरन्तं जाग्रतं
वा त्वां अजिघांसत् ।” इति तद्भाष्यम् ॥)

शयुनः, पुं, अजगरः । इत्युणादिकोषः ॥

शय्या, स्त्री, (शी शयने + “संज्ञायां समजेति ।”

३ । ३ । ९९ । इति क्यप् ।) गुम्फनम् । इति
मेदिनी ॥ शीयते यत्र सा । तत्पर्य्यायः । शय-
नीयम् २ शयनम् ३ । इत्यमरः ॥ तल्पम् ४ ।
इति जटाधरः ॥ शयनीयकम् ५ । इति शब्द-
रत्नावली ॥ तस्या गुणाः ।
“सुखशय्यासनं सेव्यं निद्रापुष्टिधृतिप्रदम् ।
श्रमानिलहरं शस्तं विपरीतमतोऽन्यथा ॥
भूशय्यानिलपित्तघ्नी वृंहणी शुक्रवर्द्धिनी ।
खट्वा तु वांतला प्रोक्ता पट्टो रूक्षोऽतिवा-
तलः ॥”
इति राजवल्लभः ॥ * ॥
अपि च ।
“त्रिदोषशमनी खट्वा तूली वातकफापहा ।
भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला ॥”
अन्यत् पुनराह ।
“भूशय्या वातलातीव रूक्षा पित्तास्रनाशिनी ।
सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम् ।
श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा ॥”
इति भावप्रकाशः ॥ * ॥
तद्गमनविधानं यथा, --
“कृतपादावशौचश्च भुक्त्वा सायं ततो गृही ।
गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप ॥
नाविशालां न वै भग्नां नासमां मलिनां न च ।
न च जन्तुमयीं शय्यामधिगच्छेदनास्तृताम् ॥”
इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ * ॥
तद्दानफलं यथा । याज्ञवल्क्यः ।
“गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥”
प्रियं यद्यस्य हर्म्म्यादि । प्रतिग्रहसमर्थेन
शय्या न प्रत्याख्येया । यथा याज्ञवल्क्यः ।
“कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि
क्षितिः ।
मांसशय्यासनं धानाः प्रत्याख्येयं न वारि च ॥”
मृतोद्देश्यकदत्तशय्याग्रहणे दोषो यथा । ब्रह्म-
पुराणम् ।
“शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य च ।
नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा ॥” * ॥
सा च औत्तानाङ्गिरोदेवताका । यथा, --
“छत्रं कृष्णाजिनं शय्यां रथमासनमेव च ।
उपानहौ तथा यानं तथा यत् प्राणवर्ज्जितम् ।
औत्तानाङ्गिरसन्त्वेतत् प्रतिगृह्णीत मानवः ॥”
इति शुद्धितत्त्वम् ॥ * ॥
पुष्पाभिषेके शय्यापट्टकं यथा, --
“सर्व्वरत्नमलङ्कारं पट्टं कार्य्यं द्बिहस्तकम् ।
हस्तविस्तार उच्छ्राये दशाङ्गुल्यः सुशोभनम् ॥
स्नानाख्यं सार्द्धहस्तन्तु पट्टं वृत्तासनान्वितम् ।
शय्याख्यं द्विगुणा दैर्घ्याद्धनुर्मानं सपीठकम् ॥”
इति देवीपुराणे त्रैलोक्याभ्युदयपादे पुष्पाभि-
षेकनामाध्यायः ॥

शरं, क्ली, (शॄ + अप् ।) जलम् । इति मेदिनी ॥

शरः, पुं, (शॄणात्यनेनेति । शॄ गि हिंसे + “ऋदो

रप् ।” ३ । ३ । ५७ । इति अप् ।) बाणः ।
इत्यमरः ॥ (यथा, रघुः । १ । ६१ ।
“तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥”)
दध्यग्रभागः । इति मेदिनी ॥ दुग्धशरस्य
नामान्तरम् । सन्तालिकः । दधिशरस्य नामा-
न्तरम् । दधिसारः । दधिस्नेहः । कट्टरञ्च ।
इति रत्नमालादयः ॥ तृणविशेषः । काँडा इति
हिन्दी भाषा । (यथा, महाभारते । १ ।
१३८ । १५ ।
“आचार्य्यः कलसाज्जातो द्रोणः शस्त्रभृतां-
वरः ।
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥”)
तत्पर्य्यायः । इषुः २ काण्डः ३ बाणः ४ मुञ्जः ५
तेजनः ६ गुन्द्रकः ७ । इति रत्नमाला ॥ उत्-
कटः ८ शायकः ९ क्षुरः १० इक्षुप्रः ११
क्षुरिकापत्रः १२ विशिखः १३ । अस्य गुणाः ।
मधुरत्वम् । सतिक्तत्वम् । कोष्णत्वम् । कफ-
श्रान्तिमदापहत्वम् । बलवीर्य्यकारित्वम् । नित्यं
निषेवितञ्चेत् किञ्चिद्वातकारित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“भद्रमुञ्जः शरो बाणस्तेजनश्चक्षुवेष्टनः ।
मुञ्जो मुञ्जातको वाणः स्थूलदर्भः सुमेधसः ॥
मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा ।
दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् ।
दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥”
इति भावप्रकाशः ॥
उशीरः । महापिण्डीतरुः । इति च राज-
निर्घण्टः ॥ हिंसा । इति शॄधात्वर्थदर्शनात् ॥
(ज्योतिषोक्तपञ्चमाङ्कः । यथा, साहित्यदर्पणे ।
४ । २६४ ।
“वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥”)

शरजं, क्ली, (शरात् जायते यत् तत् । जन् + डः ।)

हैयङ्गवीनम् । इति हेमचन्द्रः ॥ नवनीतम् ।
इति केचित् ॥

शरजन्मा, [न्] पुं, (शरे शरवणे जन्म यस्य ।)

कार्त्तिकेयः । इत्यमरः ॥ (यथा, रघुः । ३ । २३ ।
“उमावृषाङ्कौ शरजन्मना यथा
यथा जयन्तेन शचीपुरन्दरौ ।
तथा नृपः साच सुतेन मागधी
ननन्दतुस्तत्सदृशेन तत्समौ ॥”)

शरटः, पुं, (शॄ + शकादित्वात् अटन् ।) कुसुम्भ-

शाकः । इति रत्नमाला ॥ कृकलासः । इत्य-
मरटीका ॥ (यथा, --
“भट्टस्य कट्यां शरटः प्रविष्टः ॥”
इति हास्यार्णवे ॥)

शरणं, क्ली, (शृणाति दुःखमनेनेति । शॄ + ल्युट् ।)

गृहम् । (यथा, महाभारते । १ । १०६ । ४ ।
“ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः ।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥”)
रक्षिता । इत्यमरः ॥ (यथा, वैवाग्यशतके । ९१ ।
पृष्ठ ५/०२८
“त्यज संसारमसारं भज शरणं पार्व्वतीरमणम् ।
विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेश-
कम् ॥”)
रक्षणम् । वधः । इति मेदिनी ॥ घातकः ।
इति शब्दरत्नावली ॥

शरणा, स्त्री, प्रसारणी । इति शब्दरत्नावली ॥

शरणागतः, त्रि, (शरणमागतः प्राप्तः ।) शरणा-

पन्नः । तत्पर्य्यायः । शरणार्पकः २ अभिपन्नः ३
शरणार्थी ४ । इति त्रिकाण्डशेषः ॥ तद्रक्षणा-
रक्षणयोः गुणदौषौ यथा, --
“शस्त्रहीनञ्च भीतञ्च दीनञ्च शरणागतम् ।
यो न रक्षत्यधर्म्मिष्ठः कुम्भीपाके वसेद्युगम् ॥
राजसूयशतानाञ्च रक्षिता लभते फलम् ।
परमैश्वर्य्ययुक्तश्च धर्म्मेण स भवेदिह ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः ॥ * ॥
अपि च ।
“शरणागतरक्षां यः प्राणैरपि धनैरपि ।
कुरुते मानवो ज्ञानी तस्य पुण्यं निशामय ॥
सर्व्वपापविनिर्मुक्तो ब्रह्महत्यामुखैरपि ।
आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्लभम् ॥”
इति पाद्मे क्रियायोगसारे गङ्गामाहात्म्यं नाम
८ अध्यायः ॥ अन्यच्च ।
“लोभाद्द्वेषाद्भयाद्वापि यस्त्यजेत् शरणागतम् ।
ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥
शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।
शरणागतहातुस्तु न दृष्टा निष्कृतिः क्वचित् ॥”
इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥

शरणार्थी, [न्] त्रि, (शरणं अर्थयते इति ।

अर्थ + णिनिः ।) शरणागतः । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । १ । १६२ । १० ।
“आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥”)

शरणार्पकः, त्रि, (शराणार्थमर्पयति आत्मान-

मिति । अर्प + ण्वुल् ।) शरणापन्नः । इति
त्रिकाण्डशेषः ॥

शरणिः, स्त्री, पन्थाः । इत्यमरः ॥ सरन्त्यनयेति

सरणिः नाम्नीति अनिः इदन्तात् पक्षे ईपि
सरणी च ।
“सरणिः श्रोणिवर्त्मनोरिति दन्त्यादौ रभसः ।”
शॄ स्वॄ गि हिंसने इत्यस्मात् पूर्व्ववदनौ शरणि-
स्तालव्यादिश्च । शुभं शुभे प्रदीप्ते च शरणिः
पथि चावनाविति तालव्यादावजयः । इति
तट्टीकायां भरतः ॥ पृथ्वी । इत्यजयः ॥ (हिंसा ।
यथा, ऋग्वेदे । १ । ३१ । १६ ।
“इमामग्ने शरणिं मीमृषो नः ।”
“हे अग्ने नो ऽस्मत्सम्बन्धिनीं इमामिदानीं
सम्पादितां शरणिं हिंसां व्रतलोपरूपां मीमृषः
क्षमस्व * * * शरणिं शॄ हिंसायामित्यस्मादौ-
णादिकः अनिः प्रत्ययः ।” इति तद्भाष्येसायणः ॥)

शरणी, स्त्री, (शरणि + वा ङीष् ।) पन्थाः ।

प्रसारणी । इति शब्दरत्नावली ॥ जयन्ती ।
इति शब्दचन्द्रिका ॥

शरण्डः, पुं, पक्षी । कामुकः । इति शब्दरत्नावली ॥

धूर्त्तः । शरटः । भूषणभेदः । इति मेदिनी ॥
चतुष्पात् । इति संक्षिप्तसारोणादिवृत्तिः ॥

शरण्यः, त्रि, (शृणाति भयमिति । शॄ हिंसा-

याम् + “शॄरम्योश्च ।” उणा० ३ । १०१ । इति
अन्यः । यद्वा, शरणमिव । शरण + “शाखा
दिभ्यो यः ।” ५ । ३ । १०३ । इति यः ।) रक्षा-
कर्त्ता । यथा, --
“ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥”
इति श्रीभागवतम् ॥

शरण्या, स्त्री, (शरण्य + टाप् ।) दुर्गा । यथा, --

“विषाग्निभयघोरेषु शरण्यं स्मरणाद्यतः ।
शरण्या तेन सा देवी पुराणे परिपठ्यते ॥”
इति देवीपुराणे देवीनिरुक्ताध्यायः ॥

शरण्युः, पुं, वारिदः । वातः । इति विश्वः ॥

भरण्युः । इति शब्दमाला ॥

शरत्, [द्] स्त्री, (शॄ हिंसायाम् + “शॄ दॄभ-

सोऽदिः ।” उणा० १ । १२९ । इति अदिः ।)
वत्सरः । (यथा, रघुः । १० । १ ।
“पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥”)
ऋतुविशेषः । स चाश्विनकार्त्तिकमासद्वया-
त्मकः । इत्यमरः ॥ तत्पर्य्यायः । शारदा २
कालप्रभातः ३ । इति शब्दरत्नावली ॥ काल-
प्रभातम् ४ । इति त्रिकाण्डशेषः ॥ वर्षाव-
सानः ५ मेघान्तः ६ प्रावृडत्ययः ७ । (यथा,
रघुः । ४ । २४ ।
“सरितः कुर्व्वती गाधाः पथश्चाश्यानकर्द्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥”)
तत्र जलगुणाः ।
“वर्षासु नाभसं वारि सेवतोद्भिदमेव वा ।
सर्व्वं शरदि हेमन्ते तडागं सारसन्तु वा ॥” * ॥
तत्र ग्राह्यवायुर्यथा, --
“वसन्ते दक्षिणो वातो भवेत् वर्षासु पश्चिमः ।
उत्तरः शारदे काले पूर्व्वो हेमन्तशैशिरे ॥”
इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“शारदञ्चानभिष्यन्दि लघु तत्परिकीर्त्तितम् ।
हैमन्तिकं जलं स्निग्धं बल्यं वृष्यं हितं गुरु ॥”
इति राजवल्लभः ॥ * ॥
वैद्यकमते भाद्राश्विनमासात्मकः । केचित्तु ।
“ऋतुषट्कं समाख्यातं रवे राशिषु संक्र-
मात् ॥
ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृट् मिथुनकर्कटौ ।
सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् ।
धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनकौ ॥”
अन्येतु ।
“शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमः ।
माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी ॥”
तस्या गुणाः ।
“शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ।”
इति भावप्रकाशः ॥ * ॥
तत्र जातफलम् ।
“नरः शरत्संज्ञकलब्धजन्मा
भवेत् सुकर्म्मा मनुजस्तरस्वी ।
शुचिः सुशीलो गुणवान् सुमानी
धनान्वितो राजकुलप्रपन्नः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र वर्णनीयानि यथा । चन्द्रपटुता । रवि-
पटुता । जलशुष्कता । अगस्त्यः । हंसः । वृषः ।
सर्पः । सप्तच्छदः । पद्मम् । श्वेतमेघः । धान्यम् ।
शिखिपक्षमदपातः । इति कविकल्पलता ॥

शरत्कामी, [न्] पुं, (शरदि शरत्काले कामयते

कुक्कुरीमिति । कम + णिङ् + णिनिः ।) कुक्कुरः ।
इति शब्दरत्नावली ॥

शरत्पद्मं, क्ली, (शरदः पद्मम् ।) सिताम्भोजम् ।

इति राजनिर्घण्टः ॥

शरत्पर्व्व, [न्] क्ली, (शरदः पर्व्व ।) कोजागर-

पूर्णिमा । यथा, --
“कोजागरः शरत्पर्व्व शारदी द्यूतपूर्णिमा ।”
इति जटाधरः ॥

शरत्पुष्पं, क्ली, (शरदः पुष्पम् ।) आहुल्यम् ।

इति राजनिर्घण्टः ॥ शरदुद्भवकुसुमञ्च ॥

शरद्, स्त्री, (शॄ + अदिः ।) शरत् । इत्यमरः ॥

शरदन्तः, पुं, (शरदः तदाख्य-ऋतोरन्तो यस्मात् ।)

हेमन्तः । इति राजनिर्घण्टः ॥

शरदा, स्त्री, वत्सरः । शरदृतुः । इति शब्द-

रत्नावली ॥

शरदिजं, त्रि, (शरदि जायते यत् । जन + डः ।

“प्रावृट्शरत्कालदिवां जे ।” ६ । ३ । १५ । इति
सप्तम्या अलुक् ।) शरत्कालजातम् । यथा,
“नद्यः प्रावृषिजास्तु पीनसकफश्वासार्त्तिकाश-
प्रदाः
पथ्या वातकफापहाः शरदिजा हेमन्तजा
बुद्धिदाः ।
सन्तापं शमयन्ति संविदधते शैशिर्य्यवासन्तजा-
स्तृष्णादाहवमिश्रमार्त्तिशमदा ग्रीशे यथास्वं
गुणाः ॥
इति राजनिर्घण्टः ॥

शरदुदाशयं, क्ली, शरत्कालीनसरोवरम् । यथा, --

“शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥”
इति श्रीभागवते । १० । ३१ । २ ॥
शरदुदाशये शरत्कालीनसरसि । इति श्रीधर-
स्वामी ॥

शरधिः, पुं, (शरा धीयन्तेऽस्मिन्निति । शर +

धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ ।
इति किः ।) तूणः । इति हेमचन्द्रः ॥ (यथा,
राजेन्द्रकर्णपूरे । ३३ ।
पृष्ठ ५/०२९
“धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो
माधवं
कामः केरवबान्धवोदयधिया धुन्वन् धनु-
र्धावति ॥”)

शरपुङ्खा, स्त्री पुं, (शरस्य पुङ्खेव आकृतिर्यस्याः ।)

नीलीवृक्षाकृतिवृक्षविशेषः । शरफोका इति
हिन्दीभाषा । तत्पर्य्यायः । काण्डपुङ्खा २ बाण-
पुङ्खा ३ इषुपुङ्खिका ४ शायकपुङ्खा ५ इषुपुङ्खा
६ । तस्या गुणाः । कटुत्वम् । उष्णत्वम् । कृमि-
वातरुजापहत्वम् । श्वेताया गुणाढ्यत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“शरपुङ्खो यकृत्प्लीहगुल्मव्रणविषापहः ।
तिक्तः कषायः कासास्रज्वरश्वासहरो लघुः ॥”
इति भावप्रकाशः ॥
बाणस्य पक्षे, पुं ॥ (क्ली, यन्त्रविशेषः । यथा,
सुश्रुते । १ । ७ । “तेषां गण्डूपदशरपुङ्खसर्प-
फणवडिशमुखे द्बे द्वे एषणव्यूहनचालनाह-
रणार्थमुदिश्येते ॥”)

शर(ल)भः, पुं, (शृणाति हिनस्तीति । शॄ हिंसा-

याम् + “कॄशॄशलिकलिगर्दिभ्योऽभच् ।” उणा०
३ । १२२ । इति अभच् ।) मृगेन्द्रविशेषः ।
इत्यमरः ॥ तत्पर्य्यायः । महामृगः २ महा-
स्कन्धी ३ महामनाः ४ अष्टपादः ५ महासिंहः
६ मनस्वी ७ पर्व्वताश्रयः ८ । इति राज-
निर्घण्टः ॥ अस्य लक्षणं यथा, --
“अष्टपादूर्द्ध्वनयन ऊर्द्ध्वपादचतुष्टयः ।
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ॥”
इति महाभारतम् । १२ । ११७ । १२ ॥
करभः । (यथा, ऋतुसंहारे । १ । २३ ।
“भ्रमति गवययूथः सर्व्वतस्तोयमिच्छन्
शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥”)
वानरविशेषः । इति मेदिनी ॥ उष्ट्रः । इति
जटाधरः ॥ (विष्णुः । यथा, महाभारते ।
१३ । १४९ । ५२ ।
“अतुलः शरभो भीमः समयज्ञो हविहरिः ॥”
दनुपुत्रविशेषः । यथा, तत्रैव्र । १ । ६५ । २६ ।
“शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा ।
एते ख्याता दनोर्व्वंशे दानव्राः परिकीर्त्तिताः ॥”
नागविशेषः । यथा, तत्रैव । १ । ५७ । ११ ।
“विहङ्गः शरभो मेदः प्रमोदः संहता-
पनः ॥”)

शरभूः, पुं, (शरे शरवणे भूरुत्पत्तिर्यस्य ।)

कार्त्तिकेयः । इति हेमचन्द्रः ॥

शरमयं, त्रि, (शरस्य विकारोऽवयवो वा । शर +

“नित्यं वृद्धशरादिभ्यः ।” ४ । ३ । १४४ । इति
मयट् ।) शरनिर्म्मितम् । यथा, --
“शरमयवर्हिषा कुशमयवर्हिर्व्वाधव्रत् ।” इति
स्मृतिः ॥

शरमल्लः, पुं, (शरे शरवणे मल्ल इव ।) पक्षि-

विशेषः । इति शब्दचन्द्रिका ॥ गोशालिक इति
भाषा । (शरे बाणनिक्षेपादौ मल्लः ।) वाण-
योद्धा च ॥

शरयुः, स्त्री, नदीविशेषः । इति द्विरूप-

कोषः ॥ दन्त्यसादिरयं शब्दः । इति
बहुसम्मतः ॥

शरयूः, स्त्री, नदीविशेषः । इति द्विरूप-

कोषः ॥ दन्त्यसादिरयं शब्दः । इति
बहुसम्मतः ॥

शरलः, त्रि, विगीतः । स्वच्छहृदयः । वृक्षविशेषे,

पुं । इति सारस्वताभिधानम् ॥ दन्त्यसादिरप्यय-
मिति बहुसम्मतः ॥

शरलकं, क्ली, जलम् । इति शब्दचन्द्रिका ॥

शरवणोद्भवः, पुं, (शरवणे उद्भवो यस्य ।) कार्त्ति-

केयः । इति केचित् ॥ (यथा, महाभारते ।
३ । २३१ । ८ ।
“खचारी ब्रह्मचारी च शूरः शरवणोद्भवः ॥”)

शरवाणिः, पुं, शरमुखम् । पदातिः । शरजीवी ।

इति हेमचन्द्रः ॥

शरव्यं, क्ली, (शरवे हिंसायै बाणशिक्षायै वा

साधु । शरु + “उगवादिभ्यो यत् ।” ५ । १ । २ ।
इति यत् । यद्वा, शरान् व्ययति । व्ये + डः ।)
लक्ष्यम् । इत्यमरः ॥ (यथा, माघे । ७ । २४ ।
“विदधाति जनतामनःशरव्य-
व्यधपटुमन्मथचापनादशङ्काम् ॥”)

शराघातः, पुं, (शरस्याघातः ।) बाणाघातः ।

तत्पर्य्यायः । प्रचलाकः २ । इति जटाधरः ॥

शराटिः, स्त्री, (शरं जलं अटति प्राप्नोतीति ।

अट् + इन् ।) शरालिपक्षी । इति शब्दरत्ना-
वली ॥

शराडिः, स्त्री, शरालिपक्षी । इति शब्दरत्ना-

वली ॥

शरातिः, स्त्री, (शरं जलमततीति । अत +

इन् ।) शरालिपक्षी । इत्यमरटीकायां रामा-
श्रमः ॥

शराभ्यासः, पुं, (शराणामभ्यासः ।) बाणशिक्षा ।

तत्पर्य्यायः । उपासनम् २ । इत्यमरः ॥ विक-
र्षणम् ३ खुरली ४ शस्त्राभ्यासः ५ । इति
शब्दरत्नावली ॥

शरारिः, पुं, (शरं जलं ऋच्छतीति । ऋगतौ +

“अच इः ।” इति इः ।) शरालिपक्षी । तत्प-
र्य्यायः । आटिः २ आडिः ३ । इत्यमरः ॥
आडी ४ शराडी ५ आडिका ६ शराली ७
शरालिः ८ शराटिः ९ शरालिका १० । इति
शब्दरत्नावली ॥ (यथा, ऋतुसंहरे । ४ । ९ ।
“प्रफुल्लनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानि ।
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनाम् ॥”)
अस्य गुणाः । पवनापहत्वम् । स्निग्धत्वम् ।
सृष्टमलत्वम् । वृष्यत्वम् । वातरक्तहरत्वम् ।
हिमत्वञ्च । इति राजवल्लभः ॥ अपि च ।
“हंससारसकाचाक्षवकक्रौञ्चशरारिकाः ।
नन्दीमुखीसकादम्बाः वलाकाद्याः प्लवाः
स्मृताः ॥
प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।
वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥”
इति भावप्रकाशः ॥

शरारुः, त्रि, (शृणातीति । शॄ + “शॄवन्द्यो-

रारुः ।” ३ । २ । १७३ । इति आरुः ।) हिंस्रः
इत्यमरः ॥

शरारोपः, पुं, (शरस्यारोपो यस्मिन् ।) धनुः ।

इति जटाधरः ॥

शरालिः, स्त्री, शरारिपक्षी । इति शब्दरत्ना-

वली ॥

शरालिका, स्त्री, शरारिपक्षी । इति शब्दरत्ना-

वली ॥

शराली, स्त्री, शरारिपक्षी । इति शब्दरत्ना-

वली ॥

शरावः, पुं, क्ली, (शरं जलं अवति रक्षतीति ॥

अव रक्षणे + अण् ।) मृत्पात्रविशेषः । शरा
इति भाषा । तत्पर्य्यायः । वर्द्धमानकः २ ।
इत्यमरः ॥ मार्त्तिकः ३ सरावः ४ शाला-
जिरम् ५ पार्थिवम् ६ मृत्कांस्यम् ७ । इति
शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् ।
१२६ ।
“उदितेऽपि तुहिनगहने गगनप्रान्ते न
दीप्यते तपनः ।
कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥”)
कुडवद्बयपरिमाणम् । तत्तु चतुःषष्टितोल-
कात्मकम् । सेर इति भाषा । तत्पर्य्यायः ।
मानिका २ । इति शब्दमाला वैद्यकपरि-
भाषा च ॥

शरावती, स्त्री, (शरास्तृणविशेषाः सन्त्यस्या-

मिति । शर + मतुप् । “शरादीनाञ्च ।” ६ ।
३ । १२० । इति दीर्घः ।) नदीविशेषः । इत्य-
मरः ॥ (यथा, महाभारते । ६ । ९ । २० ।
“शरावतीं पयोष्णीञ्च वेण्णां भीमरथीमपि ॥”
लवस्य राजधानी । यथा, रघुः । १५ । ९७ ।
“स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।
शरावत्यां सतां सूक्तैः जनिताश्रुलवं लवम् ॥”)

शरावार्द्धं, क्ली, (शरावस्य अर्द्धम् ।) कुडवपरि-

माणम् । तत्तु द्बात्रिंशत्तोलकात्मकम् । आधसेर
इति भाषा । इति वैद्यकपरिभाषा ॥

शराश्रयः, पुं, (शराणामाश्रयः ।) तूणः । इति

हेमचन्द्रः ॥

शरासनं, क्ली, (शरा अस्यन्ते क्षिप्यन्तेऽनेनेति ।

अस + करणे ल्युट् ।) धनुः । इत्यमरः ॥
(यथा, रघुः । ३ । ५२ ।
“स एवमुक्त्वा मघवन्तमुन्मुखः
करिष्यमाणः सशरं शरासनम् ॥”
पुं, धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महा-
भारते । १ । ११७ । ४ ।
“चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरा-
सनः ॥”)

शरास्यं, क्ली, (शरा अस्यन्तेऽनेनेति । अस् +

ण्यत् ।) धनुः । यथा, --
“चिच्छेद तस्य तान् वाणान् शरास्यञ्च महा-
मुने ।
युयुधातेऽतिसंरब्धौ परस्परवधैषिणौ ॥”
पृष्ठ ५/०३०
इति मार्कण्डेयपुराणे जैमिनिखण्डं पुराणं परि-
पूर्णम् ॥

शरिमा, [न्] पुं, (शृणाति यौवनमिति । शॄ +

“हृभृधृसृस्तृशॄभ्य इमणिच् ।” उणा० ४ । १४७ ।
इति इमणिच् ।) प्रसवः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

शरी, स्त्री, एरकातृणम् । इति भावप्रकाशः ॥

शरीरं, क्ली, (शॄ + “कॄशॄपॄकटिपटिशौटिभ्य

ईरन् ।” उणा० ४ । ३० । इति ईरन् ।)
शीर्य्यते रोगादिना यत् । तत्पर्य्यायः । कले-
वरम् २ गात्रम् ३ वपुः ४ संहननम् ५ वर्ष्म ६
विग्रहः ७ कायः ८ देहः ९ मूर्त्तिः १० तनुः
११ तनूः १२ । इत्यमरः ॥ क्षेत्रम् १३ पुरम् १४
घनः १५ अङ्गम् १६ पिण्डम् १७ । इति राज-
निर्घण्टः ॥ भूतात्मा १८ स्वर्गलोकेशः १९
स्कन्धः २० पञ्जरः २१ कुलम् २२ बलम् २३
आत्मा २४ । इति जटाधरः ॥ स्कन्धम् २५ ।
इति शब्दरत्नावली ॥ इन्द्रियायतनम् २६ भूः
२७ मूर्त्तिमत् २८ करणम् २९ वेरम् ३०
सञ्चरः ३१ बन्धः ३२ पुद्गलम् ३३ । इति हेम-
चन्द्रः ॥ * ॥ शरीरधर्म्मा यथा, --
“शरीरे भस्मसाद्भूते प्रतिविम्बः स चात्मनः ।
जीवस्तत्रान्तरीक्षस्य उवाच विनयं विभुम् ॥
जीव उवाच ।
सदुक्तिर्व्वा कदुक्तिर्व्वा कोपः सन्तोष एव च ।
लोभो मोहश्च कामश्च क्षुत्पिपासादिकञ्च यत् ॥
स्थौल्यं कार्श्यञ्च नाशश्च दृश्यादृश्यं समुद्भवम् ।
सर्व्वं शरीरधर्म्मश्च न जीवस्य न चात्मनः ॥
सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम् ।
तच्च नानाप्रकारञ्च प्रबोध कथयामि ते ॥
किञ्चित् सत्त्वातिरिक्तञ्च किञ्चिदेव रजो-
ऽधिकम् ।
तमोऽतिरिक्तं किञ्चिच्च न समं कुत्रचिन्मुने ॥
सत्त्वाद्दया च मुक्तीच्छा कर्म्मेच्छा च रजो-
गुणात् ।
तमोगुणाज्जीवहिंसा कोपोऽहङ्कार एव च ॥
कोपात् कदुक्तिर्नियतं कदुक्त्या शत्रुता भवेत् ।
तया चाप्रियता सद्यः शत्रुः कः कस्य भूतले ॥
को वा प्रियोऽप्रियो वा कः किं मित्रं को
रिपुर्भुवि ।
इन्द्रियाणि च जीवानि सर्व्वत्र शत्रुमित्रयोः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २४ अः ॥ * ॥
अथ स्त्रीपुंसयोः सर्व्वाङ्गानि पादाग्रादिशिरः-
पर्य्यन्तानि । प्रपदम् १ अङ्घ्रिः २ गुल्फः ३
पार्ष्णिः ४ जङ्घा ५ जानु ६ ऊरुः ७ वङ्क्षणः ८
कटिः ९ त्रिकम् १० नितम्बः ११ स्फिक् १२
वस्तिः १३ उपस्थः १४ ककुन्दरम् १५ जघनम्
१६ जठरम् १७ नाभिः १८ वलिः १९ स्तनः २०
चूचकम् २१ क्रोडम् २२ रोम २३ कक्षः २४
अंसः २५ वक्षः २६ दोः २७ पार्श्वः २८
प्रगण्डः २९ कुर्परः ३० हस्तः ३१ प्रकोष्ठः ३२
मणिबन्धः ३३ अङ्गुलिः ३४ अङ्गुष्ठः ३५ करभः
३६ नखः ३७ पर्व्व ३८ चपेटकः ३९ कण्ठः ४०
शिरोधिः ४१ श्मश्रु ४२ मुखम् ४३ ओष्ठः ४४
चिवुकम् ४५ हनुः ४६ सृक्कम् ४७ तालु ४८
रदः ४९ जिह्वा ५० नासा ५१ भ्रूः ५२ गण्डः
५३ लोचनम् ५४ अपाङ्गः ५५ तारा ५६
कर्णः ५७ भालः ५८ मस्तकम् ५९ केशः ६० ।
इति कविकल्पलता ॥ * ॥
परमेश्वरशरीरतो देवानामुत्पत्तिर्यथा, --
“सर्व्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः ।
विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ॥
अग्निस्तथाश्विनौ गौरी गजवक्त्रो भुजङ्गमः ।
कार्त्तिकेयस्तथादित्यो मातरो दुर्गया सह ॥
दिशो धनपतिर्विष्णुर्धर्म्मो रुद्रः शशी तथा ।
पितरश्चेति संभूताः प्राधान्येन जगत्पतेः ॥
हिरण्यगर्भस्य तनौ सर्व्व एव समुद्भवाः ।
पृथक् पृथक् ततो गर्व्वं वहमानाः समन्ततः ॥
अहं योग्यस्त्वहं याज्य इति तेषां स्वनोमहान् ।
श्रूयते देवसमितौ क्षुब्धसागरसन्निभः ॥
तेषां विवदमानानां वह्निरुत्थाय पार्थिव ।
उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् ॥
प्राजापत्यमिदं नूनं शरीरं मद्विना कृतम् ।
विनाशमुपपद्येत यतो नाहं महानहम् ॥
एवमुक्त्वा शरीरन्तु त्यक्त्वा वह्निर्व्विनिर्ययौ ।
निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्य्यते ॥
ततोऽश्विनौ मूर्त्तिमन्तौ प्राणापानशरीरगौ ।
आवां प्रधानावित्येवमूचतुर्याज्यवत्तरौ ॥
एवमुक्त्वा शरीरं तौ विहाय क्वचिदास्थितौ ।
तयोरपि क्षयं कृत्वा क्षीणं तत्पुरमास्थितः ॥
ततश्चैवाब्रवीद्गौरी प्राधान्यमपि संस्थितम् ।
साप्येवमुक्त्वा क्षेत्रात्तु निश्चक्राम बहिः शुभा ॥
तया विनापि तत् क्षेत्रं वागूनं व्यवतिष्ठते ।
ततो गणपतिर्व्वाक्यमाकाशाख्योऽब्रवीत्तदा ॥
न मया रहितं किञ्चिच्छरीरस्थोऽपि दूरतः ।
कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः ॥
पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् ।
विना सांख्यञ्च तत्त्वेन तथापि न विशीर्य्यते ॥
शुषिरैस्तु विहीनन्तु दृष्ट्वा क्षेत्रं व्यवस्थितम् ।
शरीरधातवः सर्व्वे ते ब्रूयुर्व्वाक्यमेव हि ॥
अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् ।
भवतीत्येवमुक्त्वा ते जहुः सर्व्वे शरीरिणः ॥
तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते ।
तद्दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहङ्कारः प्रकी-
र्त्तितः ॥
मया विना शरीरस्य सम्भू तिरपि नेष्यते ।
एवमुक्त्वा शरीरात्तु सोव्यपेतः पृथक् स्थितः ॥
तेनाक्षतेन तत् क्षेत्रं विना मुक्तवदास्थितम् ।
तद्दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्त्तितः ॥
मया विना कथं क्षेत्रमिमं क्षणमपीष्यते ।
एवमुक्त्वाथ यातः स तच्छरीरं न शीर्य्यते ॥
ततः कामादिरुत्थाय गणो मातृकसंज्ञितः ।
न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः ॥
एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्य्यते ।
ततो मायाब्रवीत् कोपात् सा च दुर्गा प्रकी-
र्त्तिता ॥
न मयास्य विना भूतिरित्युक्त्वान्तर्दधे पुनः ।
ततो दिशः समुत्तस्थुरूचुश्चैव वचो महत् ॥
नास्माभी रहितं कायं भवतीति न संशयः ।
चतस्र आगताः काष्ठा अपयाताः क्षणात्तदा ॥
ततो धनपतिर्व्वायुर्मध्ये तत्पक्तसम्भवः ।
शरीरस्येति सोऽप्येवमुक्त्वा मूर्द्धानगोऽभवत् ॥
ततो विष्णोर्मनो ब्रूयात् नायं देहो मया विना ।
क्षणमप्युत्सहे स्त्रातुमित्युक्त्वान्तर्दधे पुनः ॥
ततो धर्म्मोऽब्रवीत् सर्व्वमिदं पालितवाहनम् ।
इदानीं मय्युपगते कथमेतद्भविष्यति ।
एवमुक्त्वा गते धर्म्मे तच्छरीरं न शीर्य्यते ॥
ततोऽब्रवीन्महादेवश्चाव्यक्तो भूतनायकः ।
महत्संज्ञो मया हीनं शरीरं नो भवेद्यथा ॥
एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्य्यते ।
तद्दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः ॥
प्राणान्तरेभिरेतश्च शरीरं शीर्य्यते ध्रुवम् ।
एवमुक्त्वा तु तं देहं त्यक्त्वान्तर्द्धानमागताः ॥
अग्निः प्राणः अपानश्च आकाशश्चैव धातवः ।
क्षेत्रं तद्बत्त्वहंकारो भानुः कामादयो मया ॥
काष्ठा वायुर्व्विष्णुधर्म्मौ शम्भुश्चैवेन्द्रियार्थकाः ।
एतैर्मुक्तन्तु तत् क्षेत्रं मुक्ताविव सुसंस्थितम् ॥
सोमेन पाल्यमानन्तु पुरुषेणेन्दुरूपिणा ।
एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे ॥
प्राग्वत्तत्र गुणोपेतं क्षेत्रमुत्थाय यद्भवेत् ।
प्रागवस्थं शरीरन्तु दृष्ट्वा सर्व्वज्ञपालितम् ॥
ताः क्षेत्रदेवताः सर्व्वा वैलक्ष्यं भावमाश्रिताः
तमेवं तुष्टुवुः सर्व्वास्तं देवं परमेश्वरम् ॥”
इति वाराहे महातपोपाख्याननामाध्यायः ॥ *
शरीरान्नं यथा, --
“शरीरमापः सोमश्च विविधं चान्नमुच्यते ।
प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥”
इति गारुडे २१५ अध्यायः ॥ * ॥
मानसकायिकक्लेशसाध्यव्रतं यथा, --
धरण्युवाच ।
“कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो ।
स्त्रीभिर्व्वा सर्व्वमेतन्मे शंस त्वं भूतभावन ॥
वाराह उवाच ।
भावसाध्यस्त्वहं देवि न वित्तैर्न जपैरहम् ।
साध्यस्तथापि भूतानां कायक्लेशं वदामि ते ॥
कर्म्मणा मनसा वाचा मच्चित्तो यो नरो
भवेत् ।
तस्य व्रतानि वक्ष्येऽहं विविधानि निबोध मे ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यमकल्कता ।
एतानि मानसान्याहुर्व्रतानि तु धराधरे ॥
एकभक्तं तथा नक्तमुपवासादिकञ्च यत् ।
तत् सर्व्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥”
इति वाराहे सत्यतपोपाख्याननामाध्यायः ॥

शरीरजः, पुं, (शरीरात् जायते इति । जन +

डः ।) रोगः । कामदेवः । (यथा, महा-
भारते । १ । १०० । ५६ ।
पृष्ठ ५/०३१
“नाकामयत तं दातुं वरं दाशाय शान्तनुः ।
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥”)
पुत्त्रः । इति धरणिः । (यथा, महाभारते ।
१३ । २४ । ४ ।
“इति पृष्टो मया राजन् पराशरशरीरजः ।
अब्रवीन्निपुणो धर्म्मे निःसंशयमनुत्तमम् ॥”)
देहजाते, त्रि । यथा, --
“शरीरजैः कर्म्मदोषैर्य्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

शरीरसंस्कारः, पुं, (शरीरस्य संस्कारः ।) देह-

संस्कारकर्म्म । शरीरस्य शोभनं मार्जनञ्च ॥

शरीरावरणं, क्ली, (शरीरस्य आवरणम् ।) चर्म्म ।

इति राजनिर्घण्टः ॥ कायवेष्टनञ्च ॥ (वर्म्म ।
यथा, महाभारते । ७ । १८५ । ४२ ।
“विचित्रैर्विविधाकारैः शरीरावरणैरपि ।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥”)

शरीरी [न्] पुं, (शरीरमस्यास्तीति । शरीर +

इनिः ।) शरीरविशिष्टः । तत्पर्य्यायः ।
“भवोद्भवौ च प्राणी तु शरीरिजन्युजन्तवः ।
प्राणभृच्चेतनो जन्मी चित्तन्तु हृदयं मनः ॥”
इति जटाधरः ॥
शरीरिलक्षणं यथा, --
“गर्माशयगतं शुक्रमार्त्तवं जीवसंज्ञकः ।
प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः ।
भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥”
अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः ।
“तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः ।
मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ॥
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः ।
तस्यान्तर्मस्तुलुङ्गश्च ललाटभ्रूयुगं तथा ॥
नेत्रद्वयं तयोरन्तर्व्वर्त्तते द्बे कणीनिके ।
दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनि ॥
पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छस्कुलीद्बयम् ।
पाणिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ॥
ओष्ठाधरौ च सृक्कण्यौ मुखं तालु हनुद्वयम् ।
दन्ताश्च दन्तवेष्टाश्च रसना चिवुकं गलः ॥
द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्य्यते ।
तृतीयं बाहुयुगलं तदुपाङ्गान्यथो ब्रुवे ॥
तस्योपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः ।
कफोणियुग्मं तदधः प्रकोष्ठयुगलं तथा ॥
मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश ।
नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः ॥
चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ व्रुवे ।
स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम् ॥
यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ ।
गर्भवत्याः प्रसूतायास्तावेतौ क्षीरपूरितौ ॥
हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम् ।
जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ॥
आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् ।
अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ॥”
चेतनास्थानमुत्तममिति अयमभिप्रायः ।
“चेतनानामधिष्ठानं मनो देहश्च सेन्द्रियः ।
केशलोमनखाग्रान्तर्मलं द्रव्यगुणैर्विना ॥”
इत्युक्तवता चरकेण सकलं शरीरं चेतनास्थान-
मुक्तं तदपेक्षया हृदयं विशेषतश्चेतनावस्थान-
मिति ।
“कक्षयोर्व्वक्षसोः सन्धी जत्रुणी समुदाहृते ।
कक्षे उभे समाख्याते तयोः स्याताञ्च वंक्षणौ ॥
उदरं पञ्चमं भागं षष्ठं पार्श्वद्बयं मतम् ।
सपृष्ठवंशं पृष्ठन्तु समस्तं सप्तमं स्मृतम् ॥ * ॥
उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः ॥
शोणिताज्जायते प्लीहा वामतो हृदयादधः ।
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः ॥
हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेणजः ।
अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः ॥
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ।
अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति ।
जलवाहिशिरामूलं तृष्णाच्छादनकृन्मतम् ॥”
क्लोम तिलकं एतत्तु वातरक्तजम् । अत्राह च
वृद्धवाग्भटः ।
“रक्तादनिलसंयुक्तात् कालीयक समुद्भवः ।”
इति ।
“मेदःशोणितयोः साराद्वुक्कयोर्युगलं भवेत् ।
तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ॥
उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि
सूरिभिः ।
अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्द्दिशेत् ॥
उण्डुकश्च कटी चापि त्रिकं वस्तिश्च वंक्षणौ ।
कण्डराणां प्ररोहः स्यान्मेढ्राणां वीर्य्यमूत्रयोः ।
स एव गर्भस्याधानं कुर्य्याद्गर्भाशये स्त्रियाः ॥
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता ।
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥
वृषणौ भवतः सारात् कफासृङ्मांसमेदसाम् ।
वीर्य्यवाहिशिराधारौ तौ मतौ पौरुषावहौ ॥
गुदस्य मानं सर्व्वस्य सर्व्वं स्याच्चतुरङ्गुलम् ।
तत्र स्युर्व्वलयस्तिस्रः शङ्खावर्त्तनिभास्तु ताः ॥
प्रवाहिणी भवेत् पूर्व्वा सार्द्धाङ्गुलमिता मता ।
उत्सर्ज्जिनी तु तदधः सा सार्द्धाङ्गुलसम्मिता ॥
तस्या अधःशम्बरणी स्यादेकाङ्गुलसम्मिता ।
अर्द्धाङ्गुलप्रमाणन्तु बुधैर्गुदमुखं मतम् ॥
मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः ।
पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च
योषितः ॥
तयोः कुकुन्दरे स्यातां सक्थिनी त्वङ्गमष्टमम् ।
तदुपाङ्गानि च व्रूमो जानुनी पिण्डिकाद्बयम् ॥
जङ्घे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा ।
पादावङ्गुलयस्तत्र दश तासां नखा दश ॥”
इति भावप्रकाशः ॥
(क्षेत्रज्ञो जीवात्मा । यथा, मनुः । १ । ५३ ।
“तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरी-
रिणः ।
स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति ॥”)

शरुः, पुं, (शॄ हिंसायाम् + “शॄस्वृस्निहित्रप्य-

सीति ।” उणा० १ । ११ । इति उः ।) क्रोधः ।
वज्रम् । इति मेदिनी ॥ बाणः । इति हेम-
चन्द्रः ॥ आयुधम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ (हिंसा । यथा, ऋग्वेदे । ६ ।
२७ । ६ ।
“वृचीवन्तः शरवे पत्यमानाः ।”
“शरवे हिंसायै ।” इति तद्भाष्ये सायणः ॥
गन्धर्व्वविशेषः । यथा, महाभारते । १ ।
१२३ । ५५ ।
“विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा ॥”
हिंसके, त्रि । यथा, तत्रैव । ७ । ७१ । १ ।
“दिवा नक्तं शरुमस्मद्युयोतम् ॥”
“शरुं हिंसकम् ।” इति तद्भाष्ये सायणः ॥)

शरेष्टः, पुं, आम्रः । इति जटाधरः ॥

शर्करकः, पुं, (शर्कर + “वुञ्छण्कठेति ।” ४ ।

२ । ८० । इत्यनेन कः ।) मधुरजम्बीरः । इति
राजनिर्घण्टः ॥

शर्करजा, स्त्री, (शर्कराज्जायते इति । जन + डः ।

स्त्रियां टाप् ।) सिताखण्डः । इति राज-
निर्घण्टः ॥

शर्करा, स्त्री, खण्डविकृतिः । चिनी इति भाषा ।

तत्पर्य्यायः । सिता २ । इत्यमरः ॥ शुक्लोपला ३
शुक्ला ४ सितोपला ५ । इति रत्नमाला ॥
मीनाण्डी ६ श्वेता ७ मत्स्यण्डिका ८ अहि-
च्छत्रा ९ सुसिकता १० गुडोद्भवा ११ । अस्या
गुणाः । मधुरत्वम् । शीतत्वम् । पित्तदाह-
श्रमरक्तदोषभ्रान्तिकृमिकोपनाशित्वञ्च । इति
साधारणशर्करागुणाः ॥ * ॥
अथ शर्कराविशेषगुणाः ।
“स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षये-
ऽरोचके
चक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशे-
क्षुजा ।
वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा
शीतला
स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा
पित्तजित् ॥”
इति पञ्चेक्षुशर्करागुणाः ॥ * ॥
“यावनाली हिमोत्पन्ना हिमाली हिमशर्करा ।
क्षुद्रशर्करिका क्षुद्रा गुडजा जलबिन्दुजा ॥
हिमजा शर्करा गौल्या सोक्ता तिक्ताति-
पिच्छिला ।
वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥”
इति यावनालशर्करागुणाः ॥ * ॥
“शीतजान्या कर्करजा माधवी मधुशर्करा ।
माक्षिका शर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥
सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्द्दिनाशनः ।
कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥
यवासशर्क्करा त्वन्या सुधामोदकमोदकः ।
तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥”
इति राजनिर्घण्टः ॥” * ॥
पृष्ठ ५/०३२
अपि च ।
“मत्स्यण्डिकाः खण्डसिता गुणश्रेष्ठा यथोत्तरम् ।
विमलाः शीतलाः स्निग्धा गुर्व्व्यः स्वादुतराः
सराः ॥
वृष्यास्तृषाक्षतक्षीणरक्तपित्तानिलापहाः ।
मत्स्यण्डी ग्राहिणी बल्या कषाया वातजिद्-
गुरुः ॥
खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् ।
सितोपला सरा गुर्व्वी वातघ्नी न कफप्रदा ॥”
इति पथ्यापथ्यविवेकः ॥ * ॥
अन्यच्च ।
“शर्करा ज्वरपित्तासृङ्मूर्च्छाछर्दितृषापहा ।
तृष्णाघ्नस्तवराजस्तु ज्वरदाहास्रपित्तनुत् ॥
लसिकाफाणितगुडखण्डमत्स्यण्डिकासिताः ।
निर्म्मला लघवो क्षेयाः शीतवीर्य्या यथोत्तरम् ।
यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा ॥”
इति राजवल्लभः ॥ * ॥
किञ्च ।
“खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता ।
सिता सुमधुरा रुच्या वातपित्तास्रदाहजित् ।
मूर्च्छाछर्दिज्वरान् हन्ति सुशीता शुक्र-
कारिणी ॥ * ॥
भवेन्मधुसिता शीता रक्तपित्तहरी लघुः ।
सितोपला सरा लघ्वी वातपित्तहरी हिमा ॥ * ॥
मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः ।
छर्द्यतीसारतृड्दाहरक्तकृत्तुवरा हिमा ॥
यथा यथैषां नैर्म्मल्यं मधुरत्वं तथा तथा ।
स्नेहलाघवशैत्यानि रसत्वञ्च तथा तथा ॥”
इति भावप्रकाशः ॥ * ॥
उपला । कर्परांशः । (यथा, महाभारते ।
३ । ५५ । २ ।
“ततो वायुर्म्महान् शीघ्रो नीचैः शर्क्करवर्षणः ॥”)
शर्करान्वितदेशः । रोगभेदः । शकलम् । इति
मेदिनी ॥ शर्करारोगस्य निदानचिकित्सादि-
र्मूत्रकृच्छ्रशब्दे द्रष्टव्यः ॥ (कूर्म्मचक्रस्य पुच्छदेश-
स्थितदेशविशेषः । यथा, मार्कण्डेये । ५८ । ३५ ।
“तारक्षुरा ह्यङ्गतकाः शर्कराः शाल्म-
वेश्मकाः ॥”)

शर्कराचलः, पुं, (शर्करामयोऽचलः ।) दानार्थ-

कृत्रिमशर्करामयाचलविशेषः । अस्य विवरणं
पर्व्वतशब्दे द्रष्टव्यम् ॥

शर्कराधेनुः, स्त्री, (शर्क्कराभिर्निर्म्मिता धेनुः ।)

दानार्थशर्करानिर्म्मितधेनुः । तद्बिधिर्यथा, --
श्रीहोतोवाच ।
“तद्वत्स शर्कराधेनुं शृणु राजन् यथार्थतः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
धेनुं शर्करया राजन् कृत्वा भारचतुष्टयम् ।
उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकम् ॥
तदर्द्धं मध्यमा प्रोक्ता कनिष्ठा भारकेण तु ।
तद्वत् वत्सं प्रकुर्व्वीत चतुर्थांशेन तत्त्वतः ॥
अथ कुर्य्यादष्टशतैरूर्द्धं नृपतिसत्तम ।
स्वशक्त्यां कारयेद्धेनुं यथात्मानं न पीडयेत् ॥
सर्व्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः ।
सौवर्णमुखशृङ्गाणि मौक्तिकानयने तथा ॥
गुडेन तु मुखं कार्य्यं जिह्वा पिष्टमयी तथा ।
कम्बलं पट्टसूत्रेण कण्ठाभरणभूषितम् ॥
इक्षुपादां रौप्यखुरां नवनीतमयस्तनीम् ।
प्रशस्तपत्रश्रवणां सितचामरमूषिताम् ॥
पञ्चरत्नसमायुक्तां वस्त्रैराच्छादितां तथा ।
गन्धपुष्पैरलंकृत्य ब्राह्मणाय कुटुम्बिने ॥
श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते ।
वेदवेदाङ्गविदुषे आहिताग्नेर्विशेषतः ।
अदुष्टाय प्रदातव्या न तु मत्सरिणे नृप ॥
अयने विषुवे पुण्ये व्यतीपाते शशिक्षये ।
एषु पुण्येषु कालेषु यदृच्छा वा सदार्पयेत् ॥
सत्पात्रन्तु द्विजं दृष्ट्वा आगतं श्रोत्रियं गृहे ।
तादृशाय प्रदातव्या पुच्छदेशे विगृह्य च ॥
पूर्ब्बाभिभुखमास्थाय अथवा स उदङ्मुखः ।
गां पूर्व्वाभिमुखीं कृत्वा वत्समुत्तरतो न्यसेत् ॥
दानकाले तु ये मन्त्रास्तान् पठित्वा समर्पयेत् ।
संपूज्य विधिवद्विप्रं मुद्रिकाकर्णभूषणः ॥
स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः ।
हस्ते तु दक्षिणां दत्त्वा गन्धपुष्पसचन्दनाम् ॥
धेनुं समर्पयेत्तस्य मुखञ्च न विलोकयेत् ।
एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत् ॥
सर्व्वपापहरा धेनुः सर्व्वकामप्रदायिनी ।
सर्व्वकामसमृद्धस्तु जायते नात्र संशयः ।
दीयमानां प्रशंसन्ति ते यान्ति परमां गतिम् ॥
य इदं शृणुयाद्भक्त्या पठते वापि मानवः ।
मुच्यते सर्व्वपापेभ्यो विष्णुलोकं स गच्छति ॥”
इति वाराहे शर्कराधेनुमाहात्म्यनामाध्यायः ॥

शर्कराप्रभा, स्त्री, (शर्क्करेव प्रभा यस्याः ।) जिनानां

नरकविशेषः । यथा, --
“रत्नशर्करावालुकापङ्कधूमतमप्रभा ।
महातमप्रभा वेत्यधोऽधो नरकभूमयः ॥”
इति हेमचन्द्रः ॥

शर्करार्व्वुदः, पुं, क्ली, (शर्क्करावदर्व्वुदः ।) क्षुद्ररोग-

विशेषः । तल्लक्षणं यथा, --
“प्राप्य मांसं शिराः स्नायुं मेदः श्लेष्मा तथानिलः ।
ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्व्वसानिभम् ॥
स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ।
मांसं विशोष्य ग्रथितां शर्क्करां जनयत्यतः ॥
दुर्गन्धक्लिन्नमत्यर्थं नानावर्णं ततः शिराः ।
श्रवन्ति सहसा रक्तं तं विन्द्याच्छर्करार्व्वुदम् ॥”
शर्करा बालुकातुल्या । तच्चिकित्सा यथा, --
“मेरोऽर्व्वुदविधानेन साधयेच्छर्करार्व्वुदम् ॥”
इति भावप्रकाशः ॥

शर्करावान्, [त्] त्रि, (शर्क्करा विद्यतेऽस्मिन् । “देशे-

लुबिलचौ च ।” ५ । २ । १०५ । इति मतुप् ।)
कर्परांशबहुलदेशः । तत्पर्य्यायः । शर्करा २
शर्करिलः ३ शार्करः ४ । इत्यमरः ॥

शर्करासप्तमी, स्त्री, (शर्क्कराया दानविधायिका

सप्तमी ।) वैशाखीशुक्ला सप्तमी । तत्र व्रतविधि-
र्यथा, --
ईश्वर उवाच ।
“शर्करासप्तमीं वक्ष्ये तद्वत् कल्मषनाशिनीम् ।
आयुरारोग्यमैश्वर्य्यं ययानन्तं प्रजायते ॥
माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः ॥
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानु-
लेपनैः ॥
स्थण्डिले पद्ममालिख्यं कुङ्कुमेन सकर्णिकम् ।
तस्मै नमः सवित्रे तु गन्धपुष्पं निवेदयेत् ॥
स्थापयेदुदकुम्भञ्च शर्करापात्रसंयुतम् ।
शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः ।
सुवर्णाश्वसमायुक्तं मन्त्रेणानेन पूजयेत् ॥
विश्ववेदमयो यस्मात् वेदवादीति पठ्यते ।
त्वमेवामृतसर्व्वस्वमतः कान्तिं प्रयच्छ मे ॥
पञ्चगव्यं ततः पीत्वा स्वपेत्तत् पार्श्वतः क्षितौ ।
सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥
अहोरात्रे गते पश्चात् अष्टम्यां कृतनैत्यिकः ।
तत् सर्व्वं वेदविदुषे ब्राह्मणाय निवेदयेत् ॥
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः ।
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः ॥
अनेन विधिना सर्व्वं मासि मासि समाचरेत् ॥
संवत्सरान्ते शयनं शर्कराकलसान्वितम् ।
सर्व्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् ॥
गृहञ्च शक्तितो दद्यात् समस्तोपस्करान्वितम् ।
सहस्रेणाथ निष्काणां कृत्वा दद्यात् शतेन वा ॥
दशभिर्व्वाथ निष्काणां तदर्द्धेनाथ शक्तितः ।
सुवर्णाश्वः प्रदातव्यः पूर्ब्बवन्मन्त्रवाचनम् ॥
वित्तशाठ्यं न कुर्वीत कुर्व्वन् दोषं समश्नुते ।
अमृतं पिबतो वक्त्रात् सूर्य्यस्यामृतबिन्दवः ॥
निपेतुर्ये तदुत्थामी शालिमुद्गेक्षवः स्मृताः ।
शर्करापरमस्तस्मादिक्षुसारोऽमृतात्मकः ॥
इष्टा रवेरतः पुण्या शर्कराहव्यकव्ययोः ।
शर्करासप्तमी चैषा वाजपेयफलप्रदा ॥
सर्व्वदुःखोपशमनीं पुत्त्रसन्ततिवर्द्धनीम् ।
यः कुर्य्यात् परया भक्त्या स परं ब्रह्म गच्छति ।
कल्पमेकं वसेत् स्वर्गे ततो याति महत् पदम् ॥
इदमनघं शृणोतियः स्मरेद्बा
परिपठतीह दिवाकरस्य लोके ।
मतिमपि च ददाति सोऽपि
दैवैरमरबधूजनमालया च पूज्यः ॥”
इति मात्स्ये ७२ अध्यायः ॥

शर्करिकः, त्रि, (शर्क्करा विद्यते अस्मिन् ।

“बुञ्छण्कठजिलेति ।” ४ । २ । ८० । इति कुमुदा-
दित्वात् ठक् ।) शर्करावान् । इति सिद्धान्त-
कौमुदी ॥

शर्करिलः, त्रि, (शर्क्करा विद्यते अस्मिन् । “देशे

लुबिलचौ च ।” ५ । २ । १०५ । इति इलच् ।)
शर्करावान् । इत्यमरः ॥

शर्करी, स्त्री, छन्दोविशेषः । नदी । मेखला । इति

हस्तलिखितमेदिनी ॥ लेखनी । इति धरणिः ॥
मुद्राङ्कितमेदिनीहेमचन्द्रयोः रेफशून्यद्विककार-
मध्यपाठः । अस्या विवरणं शक्करीशब्दे
द्रष्टव्यम् ॥
पृष्ठ ५/०३३

शर्करोदकं, क्ली, (शर्करायुक्तमुदकम् ।) शर्करा-

युक्तजलम् । चिनिरपाना इति शरवत् इति च
भाषा । यथा, --
“जलेन शीतलेनैव घोलिता शुभ्रशर्करा ।
एलालवङ्गकर्पूरमरिचैश्च समन्विता ॥
शर्करोदकनाम्नैतत् प्रसिद्धं विदुषां मुखे ।
शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम् ॥
बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाशनम् ।
मूर्च्छाच्छर्द्दितृषादाहज्वरशान्तिकरं परम् ॥”
इति भावप्रकाशः ॥

शर्द्धः, पुं, (शृधु शब्दकुत्सायाञ्च + घञ् ।) अपा-

नोत्सर्गः । शृधधातोर्घञ्प्रत्ययेन निष्पन्नमेतत् ॥
(तेजः । यथा, ऋग्वेदे । ४ । १ । १२ ।
“प्र शर्द्ध आर्त्त प्रथमं विपन्या ॥”
“शर्द्धस्तेजः ।” इति तद्भाष्ये सायणः ॥
समूहः । यथा, तत्रैव । १ । ६४ । १ ।
“वृष्णे शर्द्धाय सुमखाय वेधसे ।”
“शर्द्धाय समूहाय ।” इति तद्भाष्ये सायणः ॥
प्रसहनशीले, त्रि । यथा, तत्रैव । १ । ३७ । ४ ।
“प्रवः शर्द्धाय घृष्वये त्वेष द्युम्नाय शुष्मिणे ।”
“शर्द्धाय प्रसहनशीलाय ।” इति तद्भाष्ये सायणः ॥)

शर्द्धंजहः, पुं, (शर्द्धं जहातीति । हा + “एजेः

खश् ।” ३ । २ ॥ २८ । इत्यत्र । “वातशुनीति-
लशर्द्धेष्विति ।” खश् । “अरुर्द्विषदजन्तस्यति ।”
६ । ३ । ६७ । इति मुम् ।) माषः । यथा ।
शर्द्धं आर्द्रत्वं जहाति इति शर्द्धंजहो माषः ।
इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥

शर्द्धनं, क्ली, (शर्द्ध + ल्युट् ।) अधोवायुः । इति

मनुटीकायां कल्लूक-भट्टः ॥ वातकर्म्म इति
भाषा ॥

शर्व्व, हिंसे । गतौ । इति कविकल्पद्रुमः ॥ शर्व्वति ।

इति दुर्गादासः ॥

शर्म्म, [न्] क्ली, (शॄ + “सर्व्वधातुभ्यो मनिन् ।”

उणा० ४ । १४४ । इति मनिन् ।) सुखम् ।
इत्यमरः ॥ (यथा, ऋग्वेदे । ४ । २५ । ४ ।
“तस्मा अग्निर्भारतः शर्म्म यं सत् ।”
“शर्म्म सुखम् ।” इति तद्भाष्ये सायणः ॥ यथाच
कथासरित्सागरे । ७८ । ४९ ।
“स्वामिभक्तस्तदेतस्य शर्म्मोपायमिमं शृणु ॥”)
तद्वति, त्रि ॥ गृहम् । इति निघण्टुः । ३ । ४ ॥
यथाच ऋग्वेदे । ३ । १३ । ४ ।
“स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।”
“शर्म्माणि शर्म्मशब्दो गृहवाची छाया शर्म्मेति
तन्नामसु पाठात् ।” इति तद्भाष्ये सायणः ॥)

शर्म्मा, [न्] पुं, (शृणात्यशुभमिति । शॄ + “सर्व्व-

धातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति
मनिन् ।) ब्राह्मणस्योपाधिविशेषः । यथा, --
“शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि ।
शर्म्मणोऽक्षय्यकाले च पितॄणां दत्तमक्षयम् ॥”
शर्म्मन्नित्यनेन गोत्रसम्बन्धनामानि पितणां परि-
कल्पयन्नित्येकवाक्यतया शर्म्मान्तं नाम प्रतीयते ।
तथा च विष्णुपुराणम् ।
“ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि ।
देवपूर्ब्बं नराख्यं हि शर्म्मवर्म्मादिसंयुतम् ॥”
देवात् पूर्ब्बं नराख्यं नरनाम तच्च विशिष्टं शर्म्म-
युतम् । एतच्च विप्रपरम् ।
“शर्म्मा देवश्च विप्रस्य वर्म्म त्राता त्त भूभुजः ।
भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥”
इति यमवचनात् ॥
अत्र चकारेण देवशर्म्मणोः समुच्चयः । अत्रापि
शर्म्माद्यन्ततामाह शातातपः ॥
“शर्म्मान्तं ब्राह्मणस्य स्याद्वर्म्मान्तं क्षत्त्रियस्य च ।
धनान्तञ्चैव वैश्यस्य दासान्तं चान्त्यजन्मनः ॥”
इति श्राद्धतत्त्वम् ॥
(तथा च विष्णुपुराणे । ३ । १० । ८ -- ९ ।
“ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि ।
देवपूर्व्वं नराख्यं हि शर्म्मवर्म्मादिसंयुतम् ॥
शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥”
“दशमेऽहनि अतीते इति शेषः । तच्चाशौ-
चान्तोपलक्षणम् । अत्रैव कालान्तरमप्याह ।
यथा, --
‘नामधेयं दशम्याञ्च केचिदिच्छन्ति पार्थिव ।
द्बादश्यामथवा रात्र्यां मासे पूर्णे तथापरे ॥’
इति ॥
देवपूर्व्वं कुलदेवतानामपूर्व्वकं कुलदेवतासम्बन्धं
नाम कुर्य्यात् इति शङ्खोक्तेः । नराख्यं पुरुषवाच-
कम् । तत्र प्रान्त शर्म्मवर्म्मादिसंयुतम् । यथा,
सोमशर्म्मा इन्द्रवर्म्मा चन्द्रवर्म्मा चन्द्रगुप्तः
शिवदासः इत्यादि ।” इति तट्टीकायां स्वामी ॥
“तत्रादौ नाम निर्णयः ।
‘शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥”
इत्यत्रेति पदस्वरसेन यद्यपि शर्म्मपदात्मकमेव
नामावगम्यते तथापि तावन्मात्रं न नाम किन्तु
तद्वन्नामेति निर्णीयते द्ब्यक्षरं चतुरक्षरं इत्यादि
गृह्यदर्शनात् । एवञ्च हरिशर्म्मा नारायण-
शर्म्मेत्यादि सिध्यति शर्म्मपदमात्रात्मकत्वात् त-
न्नाम्नश्चतुरक्षरता न स्यादेव । तथाच नारा-
यणादिपदशर्म्मपदाभ्यां निर्णीतमेव नाम द्व्यक्ष-
रादिकन्तु शर्म्मपूर्व्वप्रतीकमात्रमेव अतएव
दानादौ नामोच्चारणे चैत्रशर्म्मणे इत्येव
श्रूयते । गोभिलः ।
‘शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि ।
शर्म्मणोऽक्षय्यकाले स्यादेवं कुर्व्वन्न मुह्यति ॥’
इदमप्युत्तरप्रतीकमात्रपरमुक्तगृह्येन सहैकमूल-
त्वात् । एतेन शर्म्म सुखनीयमिति कर्कदर्शनात् ।
शर्म्मपदमर्थपरं तेन शुभङ्करेत्याद्येव नामेत्यपास्तं
गोभिलविरोधात् । कर्कन्तु पूर्व्वप्रतीकमात्रपरम् ।
तेन शुभङ्करशर्म्मा भीमशर्म्मेत्यादि सिध्यति एवञ्च
हव्यकव्ये चैतादृशमेव नाम तेषां प्रयोज्यम् ।
अपवादकाभावादिति । अत्रैव मनुः ।
‘मङ्गल्यंब्राह्मणस्य स्यात् क्षत्त्रियस्य बलान्वितम् ।
वैशस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥
शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्व्वादाभिधानवत् ॥’
शर्म्मवर्म्मप्रभृतीनि उत्तरपदानि कार्य्याणीति
मनुटीकापि । स्त्रीनाम तु यशोदादेवीत्यादि
स्त्रीणां दान्तमित्यपि पूर्व्वप्रतीकमात्रपरम् ।
वैश्यस्य गुप्तान्तमिति तु पराशरः । एवञ्च
दानादौ चैत्रशर्म्मणे ब्राह्मणायेत्यादि स्वरूपं
वाक्यम् ॥” इति द्वैतनिर्णयः ॥ * ॥)

शर्म्मरः, पुं, वस्त्रभेदः । इति धरणिः ॥

शर्म्मरा, स्त्री, दारुहरिद्रा । इति धरणिः ॥

शर्य्या, स्त्री, रात्रिः । यथा, --

“त्रियामाशर्व्वरी शर्य्या क्षयणी क्षणदा क्षपा ।”
इति भरतधृतवाचस्पतिः ॥
(इषुः । यथा, ऋग्वेदे । १ । १४ । ४ ।
“शर्य्यामसना मनुद्यून् ।” “शर्य्या इषवः शर-
मय्यः । इति यास्कः ॥” इति तद्भाष्ये सायणः ॥
अङ्गुलिः । यथा, तत्रैव । ९ । ११० । ५ ।
“शर्य्याभिर्नभरमाणोगभस्त्योः ।”
“शर्य्याभिरङ्गुलीभिः ।” इति तद्भाष्ये सायणः ॥)

शर्य्यातिः, पुं, वैवस्वतमनुपुत्त्रः । तस्य पुत्त्र आनर्त्तः ।

यथा, --
“आनर्त्तो नाम शर्य्यातेः सुकन्या नाम दारिका ॥
आनर्त्तस्याभवत् पुत्त्रो रोचमाणः प्रतापवान् ।
आनर्त्तो नाम देशोऽभून्नगरी च कुशस्थली ॥”
इति मात्स्ये १२ अध्यायः ॥
(अस्य विशेषविवरणं भागवते । ८ । १३ ॥
एवं ९ । १ । अध्याये च द्रष्टव्यम् ॥)

शर्व्व, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक-सेट् ।) शर्व्वति । इति दुर्गादासः ॥

शर्व्वः, पुं, (शृणाति सर्व्वाः प्रजाः संहरति प्रलये

संहारयति वा भक्तानां पापानि । शॄ + “कॄ
गॄ शॄ दॄ भ्यो वः ।” उणा० १ । १५५ । इति वः ।)
शिवः । इति हेमचन्द्रः ॥ (यथा, रघुवंशे ।
११ । ९३ ।
“कतिचिदवनिपालः शर्व्वरीः शर्व्वकल्पः ॥”)
दन्त्यसादिरप्ययम् । विष्णुः । यथा, --
“शर्व्वः सर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।”
इति तस्य सहस्रनामस्तोत्रम् ॥

शर्व्वरं, क्ली, तमः । कन्दर्पः । इति संक्षिप्तसारो-

णादिवृत्तिः ॥

शर्व्वरी, स्त्री, (शृणाति चेष्टामिति । शॄ + “कॄगॄ-

शॄवृचतिभ्यः ष्वरच् ।” उणा० २ । १२३ ।
इति ष्वरच् । षित्वात्ङीष् ।) रात्रिः । इत्यमरः ॥
(यथा, ऋग्वेदे । ५ । ५२ । ३ ।
“अतिस्कन्दन्ति शर्व्वरीः ॥”)
योषित् । इति मेदिनी ॥ हरिद्रा । इति विश्वः ॥
सन्ध्या । इति संक्षिप्तसारोणादिवृत्तिः ॥

शर्व्वला, स्त्री, तोमरास्त्रम् । इत्यमरटीकायां

रायमुकुटः ॥ दन्त्यसादिरप्ययम् ॥

शर्व्वाणी, स्त्री, (शर्व्वस्य भार्य्या । “इन्द्रवरुण-

भवेति ।” ४ । १ । ४९ । इति ङीष् ।) पार्व्वती ।
पृष्ठ ५/०३४
इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे ।
१ । ५८ ।
“निपत्य पादयोस्ताभ्यां जयया सह बोधिता ।
शापान्तं प्रति शर्व्वाणी शनैर्व्वचनमब्रवीत् ॥”)
दन्त्यसादिरप्ययं शब्दः ॥

शर्शरीकः, पुं, (शॄ + “शॄपॄवृञां द्वेरुक् चाभ्या-

सस्य ।” उणा० ४ । १९ । इति ईकन् द्बित्वमभ्यासस्य
रुक् च ।) हिंस्रः । खलः । इत्युणादिकोषः ॥
अश्वः । मङ्गलाभरणम् । अग्निः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

शल, वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) शलति । इति दुर्गादासः ॥

शल, क ङ श्लाघे । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) क ङ, शालयते पण्डितं
धीरः । इति दुर्गादासः ॥

शल, ङ चलने । स्तृतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सक०-च-सेट् ।) ङ, शलते ।
चलनं कम्पः । स्तृतिरिह संवरणम् । इति
दुर्गादासः ॥

शल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ज, शालः शलः । इति
दुर्गादासः ॥

शलं, क्ली, (शल + “ज्वलितिकसन्तेभ्यो णः ।” ३ ।

१ । १४० । इति णः ।) शल्लकीलोम । सजारु-
कांटा इति भाषा । तत्पर्य्यायः । शलली २
शललम् ३ । इत्यमरः ॥

शलः, पुं, शललम् । भृङ्गी । क्षेत्रभेदः । ब्रह्मा ।

इति मेदिनीशब्दरत्नावल्यौ ॥ कुन्तास्त्रम् । इति
त्रिकाण्डशेषः ॥ उष्ट्रः । इति हेमचन्द्रः ॥
(वासुकिवंशीयसर्पविशेषः । यथा, महाभारते ।
१ । ५७ । ५ ।
“कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥”
शन्तनुराजपुत्त्रः । यथा, भागवते । ९ । २२ । १८ ।
“शलश्च शन्तनोरासीत् गङ्गायां भीष्म आत्म-
वान् ।”
शल्यराजः । यथा, भागवते । १ । १५ । १६ ।
“नप्तृत्रिगर्त्तशलसैन्धववाह्लिकाद्यैः ॥”
कंसामात्यः । यथा, तत्रैव । १० । ३६ । २१ ।
“ततो मुष्टिकचाणूरशलतोशलकादिकान् ॥”)

शलकः, पुं, मर्कटः । इति त्रिकाण्डशेषः ॥ माकड्सा

इति भाषा ॥

शलङ्गः, पुं, लोकपालः । लवणविशेषः । इत्यु-

णादिकोषः ॥

शलभः, पुं, (शल + “कृशॄ शलिकलिगर्द्दिभ्यो-

ऽभच् ।” उणा० ३ । १२२ । इति अभच् ।)
कीटविशेषः । फडिं इति पङ्गपाल इति च
भाषा । तत्पर्य्यायः । पतङ्गः २ । इत्यमरः ॥
पत्राङ्गः ३ पत्राङ्कः ४ । इति शब्दरत्नावली ॥
स तु ईतिविशेषः । यथा, --
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥”
इति ज्योतिस्तत्त्वम् ॥
(असुरविशेषः । यथा, हरिवंशे । ३ । ८८ ।
“शरभः शलभश्चैव विप्रचित्तिश्च वीर्य्यवान् ॥”)

शललं, क्ली, (शल चलनसंवरणयोः + वृशादित्वात्

कलः ।) शलम् । इत्यमरः ॥

शलली, स्त्री, (शलल + गौरादित्वाज्जातित्वाद्बा

ङीष् ।) शलम् । इत्यमरः ॥ शली । इति राज-
निर्घण्टः ॥

शलाका, स्त्री, (शल + “बलाकायदश्च ।” उणा०

४ । १४ । इति आकः । स्त्रियां टाप् ।) शल्यम् ।
मदनवृक्षः । शारिका । शल्लकी । छत्रादि-
काष्ठी । (यथा, गुरुगीतायाम् ।
“अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥”)
शरः । इति मेदिनी ॥ आलेख्यकूर्चिका । इति
हेमचन्द्रः ॥ अस्थि । इति शब्दचन्द्रिका ॥

शलाकापरि, व्य, शलाकाक्रीडायां पराजयः ।

यथा । “अक्षशलाकासंख्याः परिणा ।” २ । १ । १० ।
द्यूतव्यवहारे पराजये एवायं समासः । अक्षे
विपरीतं वृत्तम् । अक्षपरि । एवं शलाका-
परि । एकपरि । इति सिद्धान्तकौमुदी ॥
अपि च । नन्वेकस्याक्षस्य शलाकाया वा
द्यूतेऽन्यथापातनमित्यर्थे अक्षपरि शलाकापरि
इत्यव्ययीभावेऽव्याप्तिस्तयोरव्ययगर्भत्वेऽपि अव्यय-
पूर्व्वत्वाभावात् । इति शब्दशक्तिप्रकाशिका ॥

शलाकापुरुषाः, पुं, बौद्धानां त्रिषष्टिदैवपुरुषाः ।

तत्र द्बादश चक्रवर्त्तिनः । चतुर्व्विंशतिर्जिनाः ।
नव वासुदेवाः । नव बलदेवाः । नव प्रति-
वासुदेवाश्च । यथा, --
“यः सर्व्वमण्डलस्येशो राजसूयञ्च योऽयजत् ।
चक्रवर्त्ती सार्व्वभौमस्ते तु द्बादश भारते ॥
आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः ।
मघवा वैजयिरथाश्वसेननृपनन्दनः ॥
सनत्कुमारोऽथ शान्तिकुन्थुररोजिना अपि ।
शुभूमस्तु कार्त्तवीर्य्यः पद्मः पद्मोत्तरात्मजः ॥
हरिषेणो हरिसुतो जयो विजयनन्दनः ।
ब्रह्मसूनुर्ब्र ह्मदत्तः सर्व्वे चेक्ष्वाकुवंशजाः ॥
प्राजापत्यस्त्रिपृष्ठोऽथ द्बिपृष्ठो ब्रह्मसम्भवः ।
स्वयम्भू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥
शैविः पुरुषसिंहोऽथ महासीरः समुद्भवः ।
स्यात् पुरुषपुण्डरीकौ दत्तोऽग्निः सिंहनन्दनः ॥
नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः ।
वासुदेवा अमी कृष्ण नव शुक्ला बलास्त्वमी ॥
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।
आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥
अश्वग्रीवस्तारकश्च मेरको मधुरेव च ।
निशुम्भवलिप्रह्लादलङ्केशमगधेश्वराः ।
जिनः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी ॥”
इति हेमचन्द्रः ॥

शलाटः, पुं, शकटपरिमाणम् । यथा, --

“तुलापलशतं तासां विंशत्या भार आचितः ।
शकटः शाकटीनश्च शलाटस्ते दशाचितः ॥”
इति हेमचन्द्रः ॥

शलाटुः, त्रि, अपक्वफलम् । इत्यमरः । २ । ४ । १५ ॥

(यथा, सुश्रुते । १ । ४३ ।
“मदनशलाटु चूर्णान्येवं वा वकुलरम्यकोप-
युक्तानि मधुलवणयुक्तानीति ॥”)

शलाटुः, पुं, मूलविशेषः । इत्युणादिकोषः ॥ विल्वः ।

इति राजनिर्घण्टः ॥

शलाभोलिः, पुं, उष्ट्रः । इति हेमचन्द्रः ॥

शलालु, क्ली, सुगन्धिद्रव्यविशेषः । इति सिद्धान्त-

कौमुदी ॥

शलालुकः, त्रि, शलालुना क्रीतं वस्तु । यथा ।

“शलालुनोऽन्यतरस्याम् ।” ४ । ४ । ५४ । इति
पक्षे ठक् । शलालुकः । शलालुकी । शला-
लुकः । शालालुकी । शलालु सुगन्धिद्रव्य-
विशेषः । इति सिद्धान्तकौमुदी ॥

शली, स्त्री, (शलं शल्लकीलोम अस्त्यस्या इति ।

शल + अच् । ङीष् ।) स्वल्पशल्यकः । तत्-
पर्य्यायः । शलली २ श्वावित् ३ । अस्य मांस-
गुणाः । गुरुत्वम् । स्निग्धत्वम् । शीतलत्वम् ।
कफपित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥

शल्कं, क्ली, (शल चलने स्तृतौ + “इण्भीका-

पाशल्यतिमर्च्चिभ्यः कन् ।” उणा० ३ । ४३ ।
इति कन् ।) खण्डम् । वल्कलम् । इत्यमरः ॥
मत्स्यत्वक् । आँइस इति भाषा । यथा, --
“शल्कं स्यात् वल्कले खण्डे शल्कन्तु मत्स्य-
वल्कले ॥”
इति भरतधृतकोषः ॥
(यथा, महाभारते । १२ । ३६ । २३ ।
“अभक्ष्या ब्राह्मणैर्मत्स्याः शल्कैर्ये वै विव-
र्जिताः ॥”)

शल्कलं, क्ली, मत्स्यवल्कलम् । वृक्षत्वक् । शल-

धातोः कलच्प्रत्ययेन निष्पन्नमेतत् । इति
सिद्धान्तकौमुदी ॥

शल्कली, [न्] पुं, (शल्कलमस्यास्तीति । शल्कल +

इनिः ।) मत्स्यः । इति शब्दरत्नावली ॥

शल्की, [न्] पुं, (शल्कमस्यास्तीति । शल्क +

इनिः ।) मत्स्यः । इति हेमचन्द्रः ॥

शल्पदा, स्त्री, मेदा । इति राजनिर्घण्टः ॥

शल्पपर्णिका, स्त्री, मेदा । इति राजनिर्घण्टः ॥

शल्भ, ङ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, शल्भते । कत्थनं
प्रशंसा । इति दुर्गादासः ॥

शल्मलिः, पुं, शाल्मलीवृक्षः । (यथा, वाजसनेय-

संहितायाम् । २३ । १३ । “शाल्मलिर्वृद्ध्या ।”
“शाल्मलिर्वृक्षविशेषो वृद्ध्या त्वामवतु शल्मलि-
र्वनस्पतीनां वर्षिष्ठं वर्द्धते इति श्रुतेः ।” इति
तद्भाष्यम् ॥)

शल्मली, स्त्री, शाल्मलिवृक्षः । यथा, --

“शल्मलिः स्यात् शाल्मलिश्च शाल्मली शल्मली
तथा ॥”
इति भरतद्बिरूपकोषः ॥

शल्यं, क्ली, (शलति चलतीति । शल + “सानसि-

वर्णसिपर्णसीति ।” उणा० ४ । १०७ । इति
पृष्ठ ५/०३५
यः ।) क्ष्वेडः । इषुः । (यथा, रघुः ।
९ । ७५ ।
“शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्त्रं
तापादन्तःशल्य इवासीत् क्षितिपोऽपि ॥”)
तोमरम् । इति मेदिनी ॥ वंशकन्विका । इति
विश्वः ॥ दुःसहम् । दुर्व्वाक्यम् । इति शब्द-
रत्नावली ॥ पापम् । इति त्रिकाण्डशेषः ॥
अस्थि । यथा । अथ शल्योद्धारविधिः ।
“सुनिश्चितां मन्दिरभूमिमादौ
निखाय तोयावधि यत्नतस्ताम् ।
कुर्य्याद्बिशल्यामथवा नृमानं
ज्ञात्वाथवा प्रश्नवशाद्विधिज्ञः ॥
दूर्व्वाप्रबालाक्षतपुष्पपाणिः
शुचिः शुचिं दैवविदं समेत्य ।
पृच्छेद्विनीतो मधुरस्वरेण
शल्यस्य तत्त्वं भवने तदीशः ॥
ततः प्रश्नादिमो वर्णः सन्धार्य्यो यत्नतोऽथवा ।
क्रमात् पुष्पापगादेव फलानां ब्राह्मणादितः ॥
प्रणवो धरणी धारिणी करौ च तदनन्तरम् ।
न भूत्यै नम इत्येष मन्त्रो वह्निप्रियान्तकः ॥”
वह्निप्रिया स्वाहा ।
“मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत् ।
नवधा सदनक्षेत्रं तया पश्चाद्विलेखयेत् ॥
व-क-च-त-ए-हाः श-प-षा नव चेत् प्रश्ना
क्षराणि जायन्ते ।
प्रागादिकोष्ठे नवके वर्णास्ते शल्यमाख्यान्ति ॥
प्रश्ने वकारः पुरतो नरास्थि
ब्रवीति शल्यं मरकप्रदायि ।
क्षौणीशदण्डोरगहेतुमृत्यु-
प्रदं ककारः खरशल्यमग्नौ ॥
याम्यां चकारः प्लवगास्थि वेश्म
प्रभोर्विनाशं प्रकरोति शल्यम् ।
रक्षोदिशि श्वास्थिगृहस्थितानां
महद्भयं वक्ति सुनिश्चितं तः ॥
एः पाशिदिश्यस्थि शिशोर्ब्रवीति
मृत्युं प्रवासाद्गृहमेव शल्यम् ।
हो वायुकोणे नररूपमस्थि
दारिद्र्यमित्रक्षयकृद्बिधत्ते ॥”
धनपदिशि शकारः प्राह विप्रास्थि वित्त-
क्षयकृदथ पकारो वक्ति ऋक्षास्थि शम्भौ ।
तदिह कुलविनाशं गोधनानाञ्च हानिं
वितरति गृहनाथस्यापि गुप्तस्य देवैः ॥
यो मध्यभागे भसितं कपालं
कालायसं चाह कुलक्षयाय ।
यत्नादपास्यान्यधना प्रमाणं
सर्व्वत्र तथ्यं कथयामि शल्ये ॥
इन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ ।
वह्न्यन्तककुबेरेषु पुरुषे मध्यवातयोः ॥”
देवीपुराणम् ।
“पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् ।
प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तकम् ॥
गृहारम्भेऽतिकण्डूतिः स्वाम्यङ्गे यदि जायते ।
शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि वा ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
सप्त शल्यानि यथा, --
“नृपो न हरिसेवको व्ययधनो न कृष्णार्पकः
कविर्न मुरजित् कविः श्रुतगुरुर्न सद्वैष्णवः ।
गुणी न भगवत्परो रसिकधीर्न कृष्णाश्रयः
स न व्रजजनानुगो जगति सप्त शल्यानि च ॥”
इति पाद्मोत्तरखण्डे १०० अध्यायः ॥

शल्यः, पुं, (शल गतौ + यः ।) मदनवृक्षः ।

श्वावित् । इत्यमरः ॥ (यथा, भागवते । ८ । २ । २२ ।
“वृका वराहा महिषर्क्षशल्या
गोपुच्छशालावृकमर्कटाश्च ॥”)
नृपभेदः । स तु युधिष्ठिरमातुलः । (अयं हि
दुर्य्योधनेन कापट्यात् वशीकृतः कुरुपाण्डवयुद्धे
दुर्य्योधनपक्षं समाश्रयत् । यथा, महाभारते ।
१ । २ । २१६ ।
“मद्रराजञ्च राजानमायान्तं पाण्डवान् प्रति ।
उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः ॥
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम ।
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्यं पाण्डवान् ॥”
कर्णार्ज्जुनयोर्द्बैरथयुद्धे शल्यस्य कर्णतेजो भङ्ग-
करणे प्रतिज्ञा । यथा, तत्रैव । ५ । ८ । ३७-४५ ।
युधिष्ठिर उवाच ।
“सुकृतं ते कृतं राजन् ! प्रहृष्टेनान्तरात्मना ।
दुर्य्योधनस्य यद्बीर त्वया वाचा प्रतिश्रुतम् ॥
एकं त्विच्छामि भद्रन्ते क्रियमाणं महीपते ।
राजन्नकर्त्तव्यमपि कर्त्तुमर्हसि मातुल ॥
मम त्ववेक्षया वीर शृणु विज्ञापयामि ते ।
भवानिह महाराज वासुदेवसमो युधि ॥
कर्णार्ज्जुनाभ्यां संप्राप्ते द्बैरथे राजसत्तम ।
कर्णस्य भवता कार्य्यं सारथ्यं नात्र संशयः ॥
तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि ।
तेजोवधश्च ते कार्य्यः सौतेरस्मज्जयावहः ।
अकर्त्तव्यमपि ह्येतत् कर्त्तुमर्हसि मातुल ॥
शल्य उवाच ।
शृणु पाण्डव भद्रं ते यद्ब्रवीति दुरात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्त्रस्य रुंयुगे ॥
अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् ।
वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।
ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥
यथा च हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥”
युधिष्ठिरस्तु एनं हतवान् । एतद्वृत्तान्तस्तु
महाभारते शल्यपर्व्वणि १७ अध्याये द्रष्टव्यः ॥)
सीमा । शलाका । इति हेमचन्द्रः ॥ विल्व-
वृक्षः । मत्स्यभेदः । इति राजनिर्घण्टः ॥ * ॥
शल्यनिःसरणौषधं यथा, --
“रुद्र लाङ्गलिकामूलं हिज्जलस्य तथैव च ।
तेन व्रणमुखं लिप्तं शल्यो निःसरति व्रणात् ।
चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥”
इति गारुडे १९३ अध्यायः ॥

शल्यः, पुं, क्ली, शस्त्रविशेषः । शेल इति भाषा ।

तत्पर्य्यायः । शङ्कुः २ । इत्यमरः ॥ दीर्घायुधः
३ शलः ४ कुन्तः ५ विषाङ्कुरः ६ । इति
त्रिकाण्डशेषः ॥

शल्यकः, पुं, (शल्य इव । शल्य + इवार्थे कन् ।)

मदनवृक्षः । इति शब्दरत्नावली ॥ शल्लकी-
जन्तुः । इति राजनिर्घण्टः ॥ (यथा, मनुः ।
५ । १८ ।
“श्वाविधं शल्यकं गोधां खड्गकूर्म्मशशांस्तथा ।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥”)

शल्यकण्ठः, पुं, (शल्यं तद्बल्लोम कण्ठेऽपि यस्य ।)

शल्लकी । इति शब्दचन्द्रिका ॥

शल्यलोम, [न्] क्ली, (शल्यवत् लोम ।) शलली ।

इति राजनिर्घण्टः ॥

शल्यारिः, पुं, (शल्यस्य अरिस्तन्नाशकत्वात् ।)

युधिष्ठिरराजः । इति हेमचन्द्रः ॥

शल्ल, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) शल्लकी । इति दुर्गादासः ॥
सौत्रधातुरयम् ॥

शल्लं, क्ली, त्वक् । इति शब्दरत्नावली ॥

शल्लः, पुं, भेकः । इति शब्दरत्नावली ॥

शल्लकं, क्ली, (शल्लमेव । स्वार्थे कन् ।) त्वक् । इति

शब्दरत्नावली ॥

शल्लकः, पुं, शोणवृक्षः । इति जटाधरः ॥

(शल्लकीजन्तुः । यथा, याज्ञवल्क्ये । १ ।
१७७ ।
“भक्ष्याः पञ्चनखाः सेधा गोधाकच्छपशल्लकाः ।
शशाश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥”)

शल्लकी, स्त्री, पशुविशेषः । शजारु इति वङ्ग-

भाषा । साहिल इति हिन्दीभाषा ॥ तत्-
पर्य्यायः । श्वावित् २ शलका ३ शल्यः ४ ।
इति जटाधरः ॥ क्रकचपादः ५ छेदारः ६ ।
इति शब्दरत्नावली ॥ शल्यकः ७ शल्यमृगः ८
वज्रशल्यः ९ विलेशयः १० । अस्या मांस-
गुणाः ।
“शल्यमांसं गुरुस्निग्धं शीतलं कफपित्तजित् ॥”
इति राजनिर्घण्टः ॥
भावप्रकाशोक्तगुणाः विलेशयशब्दे द्रष्टव्याः ॥
वृक्षविशेषः । (यथा, रामायणे । २ । ५५ । ९ ।
“क्रोशमात्रं ततो गत्वा नीलं प्रेक्ष्य च काननम् ।
शल्लकीवदरीमिश्रं राम वन्यैश्च यामुनैः ।
स पन्थाश्चित्रकूटस्य गतस्य बहुशो मया ॥”)
तत्पर्य्यायः । गजभक्ष्या २ सुवहा ३ सुरभिः ४
रसा ५ महेरणा ६ कुन्दुरुकी ७ ह्लादिनी ८ ।
इत्यमरः ॥ गजभक्षा ९ सुरभी १० महेरुणा ११
महारणा १२ ह्नादिनी १३ सिल्लकी १४
सल्लकी १५ । इति भरतः ॥ सुरभीरसा १६
शिल्लकी १७ । इति टीकान्तरम् ॥ सिह्लकी १८
सिह्लभूमिका १९ । इति शब्दरत्नावली ॥ अश्व-
सूत्री २० कुन्ती २१ । इति जटाधरः ॥

शल्लकीद्रवः, पुं, सिह्लकः । इति जटाधरः ॥

शल्वः, पुं, शाल्वदेशः । इत्युणादिकोषः ॥

"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/शब्द&oldid=44086" इत्यस्माद् पुनः प्राप्तिः