सामग्री पर जाएँ

शब्दकल्पद्रुमः/वीर

विकिस्रोतः तः
पृष्ठ ४/४७२

वीर, ङ त् क शीर्य्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-आत्म०-अक०-सेट् ।) ङ, अवि-
वीरत । शौर्य्यमुद्यमः । इति दुर्गादासः ॥

वीरं, क्ली, (अज् + “स्फायितञ्चिवञ्चीति ।”

उणा० १ । १३ । इत्यादिना रक् । अजे-
र्वीभावः । वीर + अच् वा ।) शृङ्गी । नडः ।
इति मेदिनी । रे, ६७ ॥ मरिचम् । पुष्कर-
मूलम् । काञ्जिकम् । उशीरम् । आरूकम् ।
इति राजनिर्घण्टः ॥ वीरशब्दो मेदिन्यां पव-
र्गीयवकारादौ दृष्टोऽपि वीरधातोरन्तःस्थवका-
रादौ दर्शनादत्र लिखितः ॥

वीरः, पुं, (वीरयतीति । वीर विक्रान्तौ + पचा-

द्यच् । यद्वा, विशेषेण ईरयति दूरीकरोति
शत्रून् । वि + ईर + इगुपधात् कः । यद्वा,
अजति क्षिपति शत्रून् । अज + स्फायितञ्चीत्या
दिना रक् । अजेर्व्वीः ।) शौर्य्यविशिष्टः । तत्प-
र्य्यायः । शूरः २ विक्रान्तः ३ । इत्यमरः । २ । ८ ।
७७ ॥ गण्डीरः ४ तरस्वी ५ । इति जटाधरः ॥
(यथा, महाभारते । १ । १४१ । ४५ ।
“मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ।
निर्ज्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ॥”
यथा च ऋग्वेदे । १ । ११४ । ८ ।
“वीरान्मानो रुद्रभामितो वधी-
र्हविष्यन्तः सद्मि त्वा हवामहे ॥”
“वीरान् वीक्रान्तान् ।” इति सायणः ॥ पुत्त्रः ।
यथा, ऋग्वेदे । ५ । २० । ४ ।
“वीरैः स्याम सधमादः ॥”
“वीरैः पुत्त्रैश्च सधमादः सहमाद्यन्तः स्याम
तथा कुरु ।” इति तद्भाष्ये सायणः ॥ * ॥
पतिः । पुत्त्रश्च । यथा, मार्कण्डेये । ३५ । ३१ ।
“न चालपेज्जनद्विष्टां वीरहीनां तथा स्त्रियम् ।
गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्बहिः ॥”
यथा च अवीरा निष्पतिसुता । इत्यमरदर्श-
नाच्च ॥ * ॥ दनायुदैत्यपुत्त्रः । यथा, महाभारते ।
१ । ६५ । ३३ ।
“दनायुषः पुनः पुत्त्राश्चत्त्वारोऽसुरपुङ्गवाः ।
विक्षरो बलवीरौच वृत्रश्चैव महासुरः ॥”)
जिनः । नटः । इति हेमचन्द्रः ॥ विष्णुः । यथा,
वीरोऽनन्तो धनञ्जयः । इति विष्णु सहस्रनाम ॥
शृङ्गाराद्यष्टरसान्तर्गतरसविशेषः । तत्पर्य्यायः ।
उत्साहवर्द्धनः २ । इत्यमरः ॥
“उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥”
उत्साहं वर्द्धयति इति उत्साहवर्द्धनः नन्द्यादि-
त्वादनः । दानधर्म्मयुद्धेषु जीवानपेक्षोत्साह-
कारी रसो वीरः । वीरयन्ते अत्र वीरः । वीर
तङ्कत् शौर्य्ये घञ् स्फीततयैव स्वाद्यते इति सर्व्व-
रसलक्षणं कटाक्षितम् । इति भरतः ॥ * ॥
तान्त्रिकभावविशेषः । यथा, --
“तत्रैव त्रिविधो भावो दिव्यवीरपशुक्रमः ।
दिव्यवीरैकजः प्रोक्तः सर्व्वसिद्धिप्रदायकः ॥”
इति रुद्रयामले ११ पटलः ॥
अपि च ।
“भावस्तु त्रिविधः प्रोक्तो दिव्यवीरपशुक्रमात् ।
गुरवश्च त्रिधा चात्र तथैव मन्त्रदेवता ॥”
इति तत्रैव ६ पटलः ॥
अन्यच्च ।
“पशुभावं हि प्रथमे द्बितीये वीरभावकम् ।
तृतीये दिव्यभावञ्च इति भावत्रयं क्रमात् ॥
आदौ दशमदण्डेन पशुभावमथापि वा ।
मध्याह्ने दशदण्डेन वीरभावमुदाहृतम् ।
सायाह्ने दशदण्डे तु दिव्यभावं शुभप्रदम् ॥”
इति च तत्रैव ११ पटलः ॥
अन्यच्च ।
“जन्ममात्रं पशुभावं वर्षषोडशकावधि ।
ततश्च वीरभावस्तु यावत् पञ्चाशतो भवेत् ॥
द्वितीयांशे वीरभावस्तृतीये दिव्यभावकः ।
एवं भावत्रयेणैव भावमैक्यं भवेत् प्रिये ॥”
इति वामकेश्वरतन्त्रे ५१ पटलः ॥
वीराचारविशिष्टः । यथा, --
“कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् ।
संविदासेवनं कुर्य्यात् सोमपानं महेश्वरि ॥
सर्व्वथा कुरुते देवि वीरश्चोद्धतमानसः ।
दिव्यस्तु देवता प्रायश्चन्दनागुरुलेपनैः ।
रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः ॥
भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः ।
सुरापाणरतो नित्यं वलिपूजापरायणः ॥
नरश्छागश्च महिषो मेषः शूकर एव च ।
शशकः शल्लकी गोधा खड्गी कूर्म्मी दश
स्मृताः ॥
वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः ।
इत्यादिभिर्व्वलेर्दानैः पूजयेत् स्वेष्टदेवताम् ॥
सिद्धमन्त्रो भवेत् वीरो न वीरो मद्यपानतः ।
कलौ तु भारते वर्षे लोका भारतवासिनः ।
गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥”
इत्युत्पत्तितन्त्रम् ॥ * ॥
कलौ तदाचारनिषेधो यथा, --
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन ।
केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥”
इति महानिर्व्वाणतन्त्रम् ॥ * ॥
तण्डुलीयः । वराहकन्दः । लताकरञ्जः ।
करवीरः । अर्ज्जुनः । इति राजनिर्घण्टः ॥
यज्ञाग्निः । इति वीरहाशब्दटीकायां भरतः ॥
उत्तरः । सुभटः । इति मेदिनी ॥

वीरः, त्रि, श्रेष्ठः । इति हेमचन्द्रः ॥ (कर्म्मठः ।

यथा, ऋग्वेदे । ८ । २३ । १९ ।
“इमं धा वीरो अमृतं वीरं कृण्वीतमर्त्त्यः ॥”
“वीरः कर्म्मणि समर्थः ।” इति तद्भाष्ये सायणः ॥
यथा च । तत्रैव । ६ । २३ । ३ ।
“कर्त्ता वीराय सुष्वय उलोकं
दाता वसु स्तुवते कीरये चित् ॥”
“वीराय यज्ञादि कर्म्मसु दक्षाय ।” इति
तद्भाष्ये सायणः ॥ प्रेरयिता । यथा, तत्रैव ।
६ । ६५ । ४ ।
“इदा हि वो विधते रत्नमस्तीदा
वीराय दाशुष उषासः ॥”
“वीराय प्रेरयित्रे ।” इति तद्भाष्ये सायणः ॥)

वीरकः, पुं, (वीर एव । स्वार्थे कन् ।) करवीरः ।

इति राजनिर्घण्टः ॥ (विक्रान्तः । समर्थः ।
यथा, ऋग्वेदे । ८ । ८० । २ ।
“असौ य एषि वीरको गृहं गृहं विचाकशत् ॥”
“वीरको वीरः समर्थस्त्वम् ।” इति तद्भाष्ये
सायणः ॥ अपकृष्टदेशविशेषवासी । यथा,
महाभारते । ८ । ४४ । ४२ ।
“कारस्करान् माहिषकान् कालिङ्गान् केरलां-
स्तथा ।
कर्कोटकान् वीरकांश्च दुर्द्धर्म्मांश्च विवर्ज्जयेत् ॥”
चाक्षुषमन्वन्तरीयमुन्यन्यतमः । यथा, भाग-
वते । ८ । ५ । ८ ।
“मुनयस्तत्र वै राजन् हर्य्यस्मद्वीरकादयः ॥”)

वीरजयन्तिका, स्त्री, (वीराणां जयन्तिकेव ।)

रणे वीराणां नृत्यम् । इति हेमचन्द्रः ॥

वीरणं, क्ली, उशीरतृणम् । तत्पर्य्यायः । वीरणम्

२ कटायनम् ३ । इति शब्दरत्नावली ॥
वीरतरम् ४ । इत्यमरः ॥ वीरभद्रम् ५ । इति
रुद्रः ॥ (यथा, भागवते । १० । ११ । ५१ ।
“तमापतन्तं स निगृह्य तुण्डयोः
दोर्भ्यां वकं कंससखं सतां गतिः ।
पश्यत्सु बालेषु ददार लीलया
मुदावहो वीरणवद्दिवौकसाम् ॥”)
अपि च ।
“स्याद्वीरणं वीरतरु वीरञ्च बहुमूलकम् ।
वीरणं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ॥
मधुरं ज्वरनुद्वान्तिमेदजित् कफपित्तहृत् ।
तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ॥
वीरणस्य तु मूलं स्यादुशीरमभयं तथा ।
अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥
उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ।
मधुरं ज्वरकृद्वान्तिमदनुत् कफपित्तनुत् ।
तृषास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ॥”
इति भावप्रकाशः ॥
(पुं, प्रजापतिविशेषः । यथा, महाभारते ।
१२ । ३४८ । ४१ ।
“सनत्कुमारादपि च वीरणो वै प्रजापतिः ।
कृतादौ कुरुशार्द्दूल धर्म्ममेतदधीतवान् ॥”
यथा च मात्स्ये । ४ । ४० ।
“वीरणस्यात्मजायान्तु चक्षुर्म्मनुमजीजनत् ॥”)

वीरतरं, क्ली, वीरणम् । इत्यमरः ॥

वीरतरः, पुं, शरः । इति भूरिप्रयोगः ॥ (त्रि,

सामर्थ्यवान् । यथा, ऋग्वेदे । ८ । २४ । १५ ।
“नह्यङ्ग पुराचन जज्ञे वीरतरस्त्वत् ॥”
“वीरतरः सामर्थ्यवान् ।” इति तद्भाष्ये
सायणः ॥ अयमनयोरतिशयेन वीरः । वीर-
श्रेष्ठः । यथा, महाभारते । ४ । ५२ । १४ ।
“नरर्षभास्ते तु नरर्षभेण
वीरा रणे वीरतरेण भग्नाः ॥”)
पृष्ठ ४/४७३

वीरतरासनं, क्ली, (वीरतराणां साधकश्रेष्ठानां

आसनम् ।) आसनविशेषः । यथा, --
“मृदु कोमलमास्तीर्णं संग्रामपतितं हि यत् ।
जन्तुव्यापादितं वापि मृतं वा नरमासनम् ॥
गर्भच्युतं त्वचं वापि नारीणां योनिजां
त्वचम् ।
सर्व्वसिद्धिप्रदं देवि सर्व्वतोऽतिसमृद्धिदम् ।
त्वचं वा यौवनस्थानां कुर्य्याद्बीरतरासनम् ॥”
इति मुण्डमालातन्त्रे ३ पटलः ॥

वीरतरुः, पुं, (वीरस्तनाम्ना ख्यातस्तरुः ।) अर्ज्जुन-

वृक्षः । इत्यमरः ॥ कोकिलाक्षवृक्षः । इति
रत्नमाला । विल्वान्तरवृक्षः । भल्लातकः ।
इति राजनिर्घण्टः ॥

वीरपर्णं, क्ली, सुरपर्णम् । इति राजनिर्घण्टः ॥

वीरपत्नी, स्त्री, (वीराणां पत्नी । यद्बा, वीरः

पतिर्य्यस्याः । “नित्यं सपत्न्यादिषु ।” ४ । १ । ३५ ।
इति पत्युर्नकारादेशः । “ऋन्नेभ्यो ङीप् ।”
४ । १ । ५ । इति ङीप् ।) वीरभार्य्या । इत्यमरः ॥
(यथा, मार्कण्डेये । १२५ । ७ ।
“तेषामेतद्वचः श्रुत्वा वीरा वीरप्रजावती ।
वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता ॥”
नदीविशेषः । यथा, ऋग्वेदे । १ । १०४ । ४ ।
“अञ्जसी कुलिशी वीरपत्नी
पयो हिन्वाना उदभिर्भरन्ते ॥”
“वीरपत्नी वीरस्य पालयित्री एतत्संज्ञिता-
स्तिस्रो नद्यः ।” इति तद्भाष्ये सायणः ॥)

वीरपत्रा, स्त्री, (वीरप्रियाणि पत्राणि यस्याः ।)

विजया । इति राजनिर्घण्टः ॥

वीरपानं, क्ली, वीराणां श्रमनाशाय पानम् ।

यथा, --
“वीरपानन्तु यत् पानं वृत्ते भाविनि वा रणे ।”
इत्यमरः ॥
(“वा भावकरणयोः ।” ८ । ४ । १० । इति
विकल्पेण णत्वमपि । यथा, गो० रामायणे ।
४ । ९ । ७२ ।
“मत्तोऽयमिति दुर्ब्बुद्धे मोहान्मामवमन्यसे ।
मदीये संप्रहारेऽस्मिन् वीरपाणं समर्थ्यताम् ॥”)

वीरपुष्पी, स्त्री, सिन्दूरपुष्पी । इति राजनिर्घण्टः ॥

वीरबाहुः, पुं, (वीराः समर्थाः बाहवो यस्य ।)

विष्णुः । यथा, “वीरबाहुर्विदारणः ।” इति
तस्य सहस्रनामस्तोत्रम् ॥ (धृतराष्ट्रपुत्त्रान्य-
तमः । यथा, महाभारते । १ । ६७ । १०३ ।
“उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ॥”
रावणपुत्त्रः । इति रामायणम् ॥ वानरविशेषः ।
यथा, गो० रामायणे । ६ । १७ । १५ ।
“वीरबाहुः सुबाहुश्च नलश्च वनगोचरः ॥”)

वीरभद्रः, पुं, (वीराणां भद्रं येन ।) अश्वमेधाश्वः ।

वीरश्रेष्ठः । वीरणम् । इति मेदिनी ॥ शिव-
गणविशेषः । तस्योत्पत्तिर्यथा, --
“इत्याकर्ण्य महाकालः सम्यक् ज्ञात्वा सती-
व्ययम् ।
सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम् ॥
जोषं स्थिते मुनौ तत्र तन्महाकालसाध्वसात् ।
रुद्रश्चातीवरौद्रोऽभूत् बहुकोपाग्निदीपितः ॥
ततस्तत्क्रोधजाद्बह्नेराविरासीन्महाद्युतिः ।
प्रत्यक्षः प्रतिमाकारः कालमृत्युः प्रकम्पनः ॥
उवाच च प्रणम्येशं भूमुण्डीं महतीं दधत् ।
आज्ञां देहि पितः किन्ते करवै दास्यमुत्तमम् ।
ब्रह्माण्डमेककबलं करवाणि त्वदाज्ञया ॥
इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत ।
कृतकृत्यमिवात्यन्तं तं मुदा प्रत्युवाच ह ॥
महावीरोऽसि रे भद्र मम सर्व्वगणेष्विह ।
वीरभद्राख्यया हि त्वं प्रथितिं परमां व्रज ।
कुरु मे सत्वरं कार्य्यं दक्षयज्ञं क्षयं नय ॥”
इति काशीखण्डे ८९ अध्यायः ॥
(यथा च महाभारते । १२ । २८३ । ५१ ।
“वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः ।
भद्रकालीति विख्याता देव्याः कोपाद्विनिः-
सृता ॥”)

वीरभद्रकं, क्ली, (वीरभद्रमेव । स्वार्थे कन् ।)

वीरणम् । इति जटाधरः ॥

वीरभार्य्या, स्त्री, (वीराणां भार्य्या ।) वीरपत्नी ।

इत्यमरः ॥

वीरमाता, [ऋ] स्त्री, (वीराणां माता ।)

वीरजननी । तत्पर्य्यायः । वीरसूः २ । इत्य-
मरः ॥ (यथा, भागवते । ९ । १४ । ४० ।
“अन्तर्व्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् ।
पुनस्तत्र गतोऽब्दान्ते उर्व्वशीं वीरमातरम् ॥”)

वीररजः, [स्] क्ली, (वीराणां वीरभाविनां धार-

णार्थं रजः ।) सिन्दूरम् । इति राजनिर्घण्टः ॥
वीरस्य धूलिश्च ॥

वीररेणुः, पुं, (वीरा रेणव इव यस्य ।) भीमसेनः ।

इति त्रिकाण्डशेषः ॥

वीरवती, स्त्री, मांसरोहिणी । इति भाव-

प्रकाशः ॥ (विक्रमपुराधीश्वरविक्रमतुङ्गनृप-
कर्म्मचारिवीरवरस्य कन्या । यथा, कथा-
सरित्सागरे । ५३ । ९० ।
“यस्य धर्म्मवती नाम भार्य्या वीरवती सुता ।
पुत्त्रः सत्यवरश्चेति त्रयं परिकरो गृहे ॥”)

वीरवत्सा, स्त्री, (वीरो वत्सः पुत्त्रो यस्याः ।)

वीरजननी । इति जटाधरः ॥

वीरविप्लावकः, पुं, शूद्रद्रव्येण होमकर्त्ता । यथा, --

“वीरविप्लावको जुह्वन् धनैः शूद्रसमाहितैः ।”
इति हेमचन्द्रः ॥

वीरवृक्षः, पुं, (वीरनामको वृक्षः ।) भल्लातकः ।

इत्यमरः ॥ अर्ज्जुनवृक्षः ॥ इति हेमचन्द्रः ॥
विल्वान्तरः । इति राजनिर्घण्टः ॥ वृक्ष-
विशेषः । देधान इति भाषा । तत्पर्य्यायः ।
वीरतरः २ बृहद्वातः ३ अश्मरीहरः ४ । इति
रत्नमाला ॥

वीरसूः, स्त्री, (वीरान् पुत्त्रानेव सूते इति । वीर +

सू + क्विप् ।) वीरमाता । इत्यमरः ॥ (यथा,
महाभारते । १ । २०० । ७ ।
“जीवसूर्व्वीरसूर्भद्रे बहुसौख्यसमन्विता ।
सुभगा भोगसम्पन्ना यज्ञपत्नी पतिव्रता ॥”
पुत्त्रप्रसविनी । यथा, ऋग्वेदे । १० । ८५ । ४४ ।
“वीरसूर्द्देवकामा स्योना शन्नो भवद्द्विपदे शं
चतुष्पदे ॥”
“वीरसूः पुत्त्राणामेव सवित्री ।” इति तद्भाष्ये
सायणः ॥)

वीरसेनं, क्ली, आरूकवृक्षः । इति राजनिर्घण्टः ॥

वीरसेनः, पुं, नलराजपिता । इति नैषधम् ॥

(यथा, महाभारते । ७ । ५२ । ५४ ।
“निषधेषु महीपालो वीरसेन इति श्रुतः ।
तस्य पुत्त्रोऽभवन्नाम्ना नलो धर्म्मार्थकोविदः ॥”)

वीरसेनजः, पुं, (वीरसेनात् जायते इति । जन +

डः ।) नलराजः । इति नलोदयः ॥

वीरहा, [न्] पुं, (वीरान् हन्तीति । हन +

क्विप् ।) नष्टाग्निब्राह्मणः । इत्यमरः ॥ यस्या-
ग्निहोत्रिणः प्रमादादिना कारणान्तरेण वा
अग्निर्नष्टो निर्व्वाणः स्यात् स वीरहोच्यते ।
वीरयति शौर्य्यं कारयति इति वीर ङ त् क तु
शौर्य्ये इत्यस्मात् चुरादि ञिः प्रेरणे ञ्यन्तात्
पचाद्यनि वीरो यज्ञाग्निः तं हतवान् इति
क्विपि वीरहा । इति भरतः ॥ (यथा, वाज-
सनेयसंहितायाम् । ३० । ५ । “नरकाय वीर-
हणम् ।” “वीरहणं नष्टाग्निं शूरं वा ।” इति
तद्भाष्यम् ॥) विष्णुः । यथा । वीरहा माधवो
मधः । इति विष्णुसहस्रनाम । वीरहन्तरि,
त्रि ॥

वीरा, स्त्री, मुरा । क्षीरकाकोली । तामलकी ।

एलवालुका । पतिपुत्त्रवती । रम्भा । विदारी ।
दुग्धिका । मलपूः । क्षीरविदारी । इति
मेदिनी । रे, ६८ ॥ पुस्तकान्तरे मुरास्थाने सुरा
विदारीस्थाने गम्भारी इति पाठः । काकोली
महाशतावरी । गृहकन्या । ब्राह्मी । अति-
विषा । मदिरा । इति राजनिर्घण्टः ॥ शिंशपा-
वृक्षः । इति रत्नमाला ॥ (करन्धमराजपत्नी ।
यथा, मार्कण्डेये । १२३ । १ ।
“वीर्य्यचन्द्रसुता सुभ्रूर्व्वीरा नाम शुभव्रता ।
स्वयंवरे सा जगृहे महाराजं करन्धमम् ॥”
नदीविशेषः । यथा, महाभारते । ६ । ९ । २२ ।
“पूर्व्वाभिरामां वीराञ्च भीमा मोघवतीं
तथा ॥”
विक्रमशालिनी । यथा, मार्कण्डेये । १२५ । ७ ।
“तेषामेतद्बचः श्रुत्वा वीरा वीरप्रजावती ।
वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता ॥”)

वीराम्लः, पुं, अम्लवेतसः । इति राजनिर्घण्टः ॥

वीरारुकं, क्ली, आरूकम् । इति राजनिर्घण्टः ॥

वीराशंसनं, क्ली, (वीरान् आशंसयति अद्य

स्थास्यामि वा नवेति चिन्तां जनयतीति ।
आ + शंस + णिच् + ल्युः ।) अतिभयप्रदा युद्ध-
भूमिः इत्यमरः ॥

वीरासनं, क्ली, (वीराणां साधकानामासनम् ।)

भित्त्याद्यनाश्रित्योपवेशनम् । यथा, --
“दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्द्ध्वं रजः पिबेत् ।
पृष्ठ ४/४७४
शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ॥”
इति प्रायश्चित्ततत्त्वे मनुः ॥
अन्यच्च ।
“एकपादमथैकस्मिन् विन्यसेदुरु संस्थितम् ।
इतरस्मिन् तथा पश्चाद्वीरासनमिदं विदुः ॥”
इति घेरण्डसंहिता ॥
(यथा, रघुवंशे । १३ । ५२ ।
“वीरासनैर्ध्यानजुषामृषीणा-
ममी समध्यासितवेदिमध्याः ।
निर्व्वातनिष्कम्पतया विभान्ति
योगाधिरूढा इव शाखिनोऽपि ॥”)

वीरिणी, स्त्री, असिक्नी । यथा, --

“उपयेमे वीरणस्य तनयां दक्ष ईप्सिताम् ।
वीरिणी नाम तस्यास्तु असिक्नीत्यपि सत्तमाः ॥”
इति कालिकापुराणे ८ अध्यायः ॥
(यथा च महाभारते । १ । ७५ । ५ ।
“वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत् सहस्रं शंसितव्रतान् ॥”
वीरः पुत्त्रोऽस्या अस्तीति । वीर + इनि । ङीप् ।
पुत्त्रवती । यथा, ऋग्वेदे । १० । ८६ । ९ ।
“उताहमस्मि विरिणीन्द्रपत्नी ॥”
“विरिणी पुत्त्रवती ।” इति तद्भाष्ये सायणः ॥)

वीरुत्, [ध्] स्त्री, (विशेषेण रुणद्धि वृक्षानन्यान् ।

वि + रुध + क्विप् । “अन्येषामपीति ।” दीर्घः ।
अथवा विरोहतीति वीरुत् । विपूर्ब्बस्य रुहेः
क्विपि धकारो विधीयते इति काशिका । ७ । ३ ।
५३ ।) विस्तृता लता । तत्पर्य्यायः । गुल्मिनी २
उलपः ३ । इत्यमरः ॥ वीरुधा ४ । इति शब्द-
रत्नावली ॥ प्रताना ५ कक्षः ६ । इति जटा-
धरः ॥ (यथा, रघुवंशे । ८ । ३६ ।
“अभिभूय विभूतिमार्त्तवीं
मधुगन्धातिशयेन वीरुधाम् ॥”
ओषधिः । यथा, ऋग्वेदे । १ । ६७ । ५ ।
“वियो वीरुत् सुरोधन्महित्वोत प्रजा उतप्रसू-
ष्वन्तः ॥”
“वीरुत्सु ओषधीषु ।” इति तद्भाष्ये सायणः ॥
वृक्षमात्रे, पुं । यथा, महाभारते । १ । ४५ । २४ ।
“यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः ।
एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥”
यथा च ऋग्वेदे । ९ । ११३ । २ ।
“सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिः ॥”
“वीरुधां वनष्पतीनामिति ।” इति तद्भाष्ये
सायणः ॥ लतानां वीरुधाञ्च कथञ्चिद्भेदमाह ।
यथा, भागवते । ३ । १० १९ ।
“वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।”
“ये पुष्पं विना फलन्ति ते वनस्पतयः । ओषधयः
फलपाकान्ताः । लता आरोहणापेक्षाः । त्वक्-
सारा वेण्वादयः । लता एव काठिन्येनारोहणा-
नपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः ।”
इति तट्टीकायां श्रीधरस्वामी ॥)

वीरुधा, स्त्री, (विशेषेण रुणद्धीति । वि + रुध +

इगुपधादिति कः । ततस्त्रियां टाप् । अथवा
वीरुध् शब्दात् भागुरिमते टाप् । यथा, --
“वष्टि भागुरिरल्लोपः अवाप्योरुपसर्गयोः ।
टापञ्चापि हलन्तानां क्षुधा वाचा निशा
गिरा ॥”)
वीरुत् । इति शब्दरत्नावली ॥

वीरेशः, पुं, (वीराणामीशः ।) शिवः । यथा, --

“अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ।
प्रत्यूष एव वीरेशं यावदायाति स द्बिजः ॥”
इति वीरेश्वरस्तोत्रम् ॥

वीरेश्वरः, पुं, (वीराणामीश्वरः ।) महादेवः ।

यथा, --
“तिलान्तरोऽपि नो काश्यां भूमिर्लिङ्गं विना
क्वचित् ।
परं वीरेशसदृशं न लिङ्गन्त्वाशु सिद्धिदम् ॥
धर्म्मदञ्चार्थदं सम्यक् कामदं मोक्षदं तथा ।
यथा वीरेश्वरं लिङ्गं काश्यां नान्यत्तथा ध्रुवम् ॥”
इति काशीखण्डे १० अध्यायः ॥
(मैथिलानां दशकर्म्मपद्धतिकर्त्ता । तत्पद्धतिश्च ॥)

वीरोज्झः, पुं, होमाकर्त्ता । यथा, --

“अभ्युदिताभिनिर्म्मुक्तौ वीरोज्झो न जुहोति
यः ॥”
इति हेमचन्द्रः ॥

वीरोपजीविकः, पुं, अग्निहोत्रमुपजीविका यस्य ।

यथा, --
“अग्निहोत्रच्छलाद्याञ्चापरो वीरोपजीविकः ॥”
इति हेमचन्द्रः ॥

वीर्य्यं, क्ली, (वीरे साधु । तत्र साधुः इति यत् । यद्बा,

वीर्य्यतेऽनेनेति वीर विक्रान्तौ + “अचो यत् ।”
३ । १ । ९७ । इति यत् । यद्वा वीरस्य भावः । यत् ।)
चरमधातुः । तत्पर्य्यायः । शुक्रन् ३ तेजः ३
रेतः ४ बीजम् ५ इन्द्रियम् ६ । इति मनुष्य-
वर्गे अमरः ॥ वीर्य्यं शक्तिः सा च पृथिव्यादीनां
यः सारभागः तदतिशयरूपा । सा द्विविधा
चिन्त्याचिन्त्यक्रियाहेतुत्वेन । तत्र चिन्त्यक्रिया-
हेतुर्या द्रव्यरसादीनां स्वस्वकर्म्मणि स्वभाव-
सिद्धा शक्तिः । अचिन्त्यक्रियाहेतुश्च प्रभापर-
पर्य्यायः । द्रव्याणां रसाद्यननुरूपकार्य्यकरण-
शक्तिः । उक्तञ्च ।
“भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः ।
चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्म्मतम् ॥”
इति चक्रदत्तोपरि शिवदासीयटीका ॥ * ॥
परवीर्य्योदरपातदोषो यथा, --
“परवीर्य्यं यदुदरं कामतोऽकामतोऽपि वा ।
अहल्ये याति दैवेन तदुपायं निशामय ॥
अकामतो न दुष्टा सा प्रायश्चित्तेन शुद्ध्यति ।
कामभोगेन त्याज्या सा कर्म्मभोगेन शुद्ध्यति ॥
पितृपाके दैवपाके पूजायां नाधिकारिणी ।
षष्टिं वर्षसहस्राणि क्षयं कृत्वा स्वकर्म्मणः ।
प्रयाति भोगदेहं सा तस्यान्ते पापकर्म्मणः ॥”
इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ४७ अध्यायः ॥
अतिशयशक्तिभागुत्साहः । इति स्वर्गवर्गे
अमरः ॥ कर्म्मसु सुकरः प्रत्ययः उत्साहः ।
इति मधुः । कर्म्मसु दृढयत्नकारको भाघ
उत्साहः । इति रमानाथः । कर्म्मसु प्रत्यय
उत्साह इति नयनानन्दः । अशक्ये बलोद्यम
उत्साह इति केचित् । स उत्साहः अतिशय-
शक्तिभाक् वीर्य्यम् । अतिशयितोऽध्यवसायो
वीर्य्यं साधु वीर्य्यमित्यर्थः । वीर्य्या स्त्री च वीर्य्यं
वीर्य्य इति कोषान्तरम् । इति भरतः ॥ * ॥
बलम् । प्रभावः । इति नानार्थे अमरः ॥
(यथा, ऋग्वेदे । ३ । २५ । २ ।
“अग्निः सनोति वीर्य्याणि विद्वान्
सनोति वाजममृताय भूषन् ॥”
“वीर्य्याणि पशुपुत्त्रादिसम्पद्रूपाणि सामर्थ्यानि ।”
इति तद्भाष्ये सायणः ॥ यथा च भागवते । ६ ।
१७ । ३१ ।
“ज्ञानवैराग्यवीर्य्याणां नहि कश्चिद्ब्यपाश्रयः ॥”
शरीरसामर्थ्यम् । यथा, ऋग्वेदे । ४ । ५० । ७ ।
“स इद्राजा प्रतिजन्यानि विश्वाशुष्मेण तस्था-
वभि वीर्य्येण ॥”
“वीर्य्येण शरीरसामर्थ्येन ।” इति तद्भाष्य
सायणः ॥ शक्तिः । यथा, मनौ । ११ । ३१ ।
“न ब्रह्मणो वेदयते किञ्चिद्राजनि धर्म्मवित् ।
स्ववीर्य्येणैव तान् शिष्यान्मानवानपकारिणः ॥
स्ववीर्य्याद्राजवीर्य्याच्च स्ववीर्य्यं बलवत्तरम् ।
तस्मात् स्वेनैव वीर्य्येण निगृह्णीयादरीन् द्बिजः ॥”
मनःशक्तिः । यथा, भागवते । ४ । १८ । १५ ।
“कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।
हिरण्मयेन पात्रेण वीर्य्यमोजो बलं पयः ॥”)
औषधानां वीर्य्यस्य स्थितिकाला यथा, --
“यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयं
षण्मासान् घृतमोदकौ सहगुडौ मासत्रयं
गुग्गुलोः ।
सिद्धानां रसभस्मनां सुविपुलं वीर्य्यञ्च वर्षत्रयं
किञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं महत् ॥”
इति नारायणदासकृतपरिभाषा ॥
तेजः । इति मेदिनी ॥ चेतः । दीप्तिः । इति
शब्दरत्नावली ॥

वीर्य्यजः, पुं, (वीर्य्याज्जायते इति । जन + डः ।)

पुत्त्रः । इति केचित् ॥ (यथा, भागवते । ३ ।
५ । १९ ।
“नैतच्चित्रं त्वयि क्षत्तर्व्वादरायणवीर्य्यज ॥”)

वीर्य्यवान्, [त्] त्रि, (वीर्य्यमस्यास्तीति । मतुप् ।)

मांसलः । इति शब्दरत्नावली ॥ वीर्य्ययुक्तश्च ॥
(यथा, किराते । २ । ४ ।
“अतिवीर्य्यवतीव भेषजे
बहुरल्पीयसि दृश्यते गुणः ॥”)

वीर्य्यवृद्धिकरं, क्ली, (वीर्य्याणां वृद्धिकरम् ।) शुक्र-

वृद्धिकारकौषधादि । तत्पर्य्यायः । वृष्यम् २
वाजीकरणम् ३ वीजकृत् ४ । इति राज-
निर्घण्टः ॥

वीर्य्या, स्त्री, (वीर्य्यतेऽनयेति । वॄ + “अचो यत् ।”

इति यत् । टाप् ।) वीर्य्यम् । इत्यमरटीकायां
भतरः ॥
पृष्ठ ४/४७५

वीवधः, पुं, पर्य्याहारः । परित आह्रियतेऽसौ

धान्यतण्डुलादिः । (यथा, माघे । २ । ६४ ।
“निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥”)
मार्गः । पन्थाः । इत्यमरभरतौ ॥ भारः । इति
शब्दरत्नावली ॥

वीवधिकः, त्रि, (वीवधेन हरतीति । वीवध +

“विभाषा विवधवीवधात् ।” ४ । ४ । १७ ।
इति ठन् ।) भारवाहकः । इति सिद्धान्त-
कौमुदी ॥

वीहारः, पुं, (विहरन्त्यत्रेति । वि + हृ + घञ् ।

उपसर्गस्य दीर्घः ।) महालयः । स तु बुद्ध-
मन्दिरम् । इति शब्दमाला ॥ विहारः ।
इत्यमरटीका ॥

वुग, इ त्यागे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, वुङ्ग्यते । इति दुर्गादासः ॥

वुट, इ क क्षित्याम् । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । इ,
वुण्ट्यते । क, वुण्टयति । क्षितिर्हिंसा । इति
दुर्गादासः ॥

वु(बु)द्धिः, स्त्री, (वुध + क्तिन् ।) आत्मनो गुण-

विशेषः । सा त्रिविधा यथा, --
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये ।
बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥
यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अधर्म्मं धर्म्ममिति या मन्यते तमसावृता ।
सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ
तामसी ॥”
इति श्रीभगद्गीतायाम् १८ अध्यायः ॥

वृ, क च वृतौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, वारयति । इति
दुर्गादासः ॥

वृ, ङ ग संभक्तौ । इति कविकल्पद्रुमः ॥ (क्र्या०-

आत्म०-सक०-सेट् ।) संभक्तिः सेवनम् ।
ङ ग, वृणीते । वृणते हि विमृष्यकारिणं गुण-
लुब्धाः स्वयमेव सम्पदः । इति दुर्गादासः ॥

वृ, ञ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-

सक०-सेट् ।) ञ, वररि वरते । इति
दुर्गादासः ॥

वृ, न ग ञ वृतौ । इति कविकल्पद्रुमः ॥ (स्वा०-

क्र्या० च-उभ०-सक०-सेट् ।) न ञ, वृणोति
वृणुते । ग ञ, वृणाति वृणीते । वकारस्य दन्त्य-
त्वात् संवृणोति इत्यादौ नानुस्वारस्य मकारः ।
ओष्ठ्यत्वाच्च युवूर्षतीत्यादौ ऋदिरणावित्यूर् ।
न च दन्त्यस्य कथमोष्ठ्यकार्य्यमिति वाच्यं यतः
स्वभावादोष्ठ्यस्य वकारस्य ओष्ठ्यकार्य्यं स्वाभा-
विकमेव । क्वचिद्दन्त्यमध्ये पाठः नह्येकवर्णस्यो-
भयस्थानं सम्भवति । इति दुर्गादासः ॥

वृंहणः, त्रि, (वृहि + ल्युः ।) पुष्टिकारकः ।

यथा । संयावो वृंहणो गुरुः । इति शब्द-
चन्द्रिका ॥

वृंहितं, क्ली, (वृहि + क्तः ।) हस्तिगर्ज्जनम् ।

तत्पर्य्यायः । करिगर्ज्जितम् २ । इत्यमरः ॥
(यथा, महाभारते । ६ । १८ । २ ।
“शङ्खदुन्दुभिघोषैश्च वारणानाञ्च वृंहितैः ।
नेमिघोषै रथानाञ्च दीर्य्यतीव वसुन्धरा ॥”)

वृक, ङ आदाने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, वर्कते । वरीवृक्यते ।
इति दुर्गादासः ॥

वृकः, पुं, (वृणोतीति । वृ + “सृवृभृशुषिमुषिभ्यः

कक् ।” उणा० ३ । ४१ । इति कक् ।) कुक्कुर-
प्रमाणहरिणघ्नजन्तुशिशेषः । घोँघ इति ख्यातः ।
हुण्डार इति हिन्दी भाषा । तत्पर्य्यायः ।
कोकः २ ईहामृगः ३ । इत्यमरः ॥ वत्सादनः ४
विरुक् ५ गोवत्सादी ६ छागभोजी ७ छाग-
लान्त्री ८ जनाशनः ९ । इति राजनिर्घण्टः ॥
(यथा, भागवते । ३ । १० । २३ ।
“श्वा शृगालो वृको व्याघ्रो मार्ज्जारः शश-
शल्लकौ ॥”)
काकः । इत्युणादिकोषः ॥ (पोतकः । इत्युणादि-
टीकाधृतविश्वः । ३ । ४१ ॥) वकवृक्षः । इति
शब्दरत्नावली ॥ शृगालः । इति हारावली ॥
(यथा, मनुः । ८ । २३५ ।
“अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।
यां प्रसह्य वृको हन्यात् पाले तत् किल्विषं
भवेत् ॥”
“वृकैः शृगालप्रभृतिभिः ।” इति मेघातिथिः ॥)
क्षत्त्रियः । अनेकधूपः । सरलद्रवः । इति
भरतधृतरभसः ॥ (तस्करः । इति निघण्टुः ।
३ । २४ ॥ * ॥ वर्कते शत्रुप्राणानादत्ते इति ।
वृक आदाने + कः । वज्रः । इति निघण्टुः ।
२ । २० ॥)

वृकदंशः, पुं, (वृकान् दशतीति । दन्श + अण् ।)

कुक्कुरः । इति हेमचन्द्रः ॥

वृकधूपः, पुं, (वृकोऽनेकधूपः एव धूपः । वृकः

सरलद्रवस्तत्प्रधानो धूपो वा ।) नानासुगन्धि-
द्रव्यकृतदशाङ्गादिधूपः । तत्पर्य्यायः । कृत्रिम-
धूपकः २ । इत्यमरः ॥ वकधूपः ३ । इति
तट्टीका ॥ सरलवृक्षरसः । टारपिन् इति
भाषा । तत्पपर्य्यायः । पायसः २ श्रीवासः ३
श्रीवेष्टः ४ सरलद्रवः ५ । इत्यमरः ॥

वृकधूर्त्तः, पुं, (धूर्त्तो वृकः राजदन्तादिवत् पूर्ब्ब-

निपातः ।) शृगालः । इति हारावली ॥

वृका, स्त्री, अम्बष्ठा । इति रत्नमाला ॥

वृकाक्षी, स्त्री, (वृकस्याक्षीव अक्षि चिह्नं यस्याः ।)

त्रिवृत् । इति रत्नमाला ॥

वृकारातिः, पुं, (वृकस्यारातिः ।) कुक्कुरः । इति

शब्दमाला ॥

वृकारिः, पुं, (वृकस्यारिः ।) कुक्कुरः । इति

राजनिर्घण्टः ॥

वृकी, स्त्री, पाठा । इति राजनिर्घण्टः ॥

वृकोदरः, पुं, (वृकस्येवोदरो यस्य । यद्वा, वृकः

वृकनामकोऽग्निरुदरे यस्य ।) भीमसेनः । तत्प-
र्य्यायः । भीमः २ मरुत्पुत्त्रः ३ किर्म्मीरनिसू-
दनः ४ कीचकनिसूदनः ५ वकनिसूदनः ६
हिडम्बनिसूदनः ७ । इति हेमचन्द्रः ॥ वक-
वैरी ८ मारुतिः ९ । इति जटाधरः ॥ अस्य
व्युत्पत्तिर्यथा, --
“कथासु भीमसेनेन परिपृष्टः प्रतापवान् ।
त्वया पृष्टस्य धर्म्मस्य रहस्यस्यास्य भेदकृत् ॥
भविता स तदा ब्रह्मन् कर्त्ता चैव वृकोदरः ।
प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः ॥
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः ।
मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥”
इति मात्स्ये ६५ अध्यायः ॥

वृक्णं, त्रि, (व्रश्च + क्तः ।) छिन्नम् । इत्यमरः ॥

(यथा, सांख्यतत्त्वकौमुद्याम् ।
“नहि पाणौ वृक्णे स्तने वा जाते कुमारी मृता-
जाता वेति ॥”)

वृक्ष, ङ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) सप्तमस्वरी । ङ, वृक्षते
वरं कन्या । इति दुर्गादासः ॥

वृक्षः, पुं, (व्रश्च छेदने + “स्नुव्रश्चिकृत्यृषिभ्यः

कित् ।” उणा० ३ । ६६ । इति सः । स च कित् ।
“वृक्ष वरणे । अतोऽच्यावृणोतीति वृक्ष इति
सिद्धे प्रपञ्चार्थं व्रश्चिग्रहणम् ।” इति तट्टीकाया-
मुज्ज्वलदत्तः ।) स्थावरयोनिविशेषः । गाछ इति
भाषा । तत्पर्य्यायः । महीरुहः २ शाखी ३
विटपी ४ पादपः ५ तरुः ६ अनोकहः ७ कुटः
८ सालः ९ पलाशी १० द्रुः ११ द्रुमः १२ आगमः
१३ । इत्यमरः ॥ अगच्छः १४ विष्टरः १५ मही-
रुट् १६ कुचिः १७ स्थिरः १८ कारस्करः १९
नगः २० अगः २१ कुटारः २२ । इति शब्द-
रत्नावली ॥ विटपः २३ कुजः २४ वनस्पतिः २५
अद्रिः २६ शिखरी २७ कुठः २८ । इति जटा-
धरः ॥ कुञ्जः २९ क्षितिरुहः ३० अङ्घ्रिपः ३१
भूरुहः ३२ भूजः ३३ महीजः ३४ धरणीरुह
३५ क्षितिजः ३६ शालः ३७ । इति राज-
निर्घण्टः ॥ तस्य षड्जातिर्यथा, --
“कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः
पर्व्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः ।
शाल्यादयो बीजरुहाः संमूर्च्छजास्तृणादयः ।
स्युर्व्वनस्पतिकायस्य षडेते मूलजातयः ॥”
इति हेमचन्द्रः ॥
“संस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ।”
इत्यग्निपुराणम् ॥
भद्रप्रदवृक्षा यथा, --
श्रीभगवानुवाच ।
“आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।
शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्ब्बस्मिन् नृणां सम्पत्प्रदस्तथा ॥
शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ॥
विल्वश्च पनसश्चैव जम्बीरो वदरी तथा ।
प्रजाप्रदश्च पूर्ब्बस्मिन् दक्षिणे धनदस्तथा ॥
पृष्ठ ४/४७६
सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ।
जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ॥
बन्धुप्रदश्च पूर्ब्बस्मिन् दक्षिणे मित्रदस्तथा ।
सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ॥
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ।
ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ॥
सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ।
अलावूश्चापि कुष्माण्डो मायाम्बुश्च सुकासुकः ॥
खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदा ।
वास्तूकः कारविल्वश्च वार्त्ताकुश्च शुभप्रदा ।
लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥”
निषिद्धवृक्षा यथा, --
“प्रशस्तं कथितं कारो ! निषिद्धञ्च निशामय ।
वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ॥
वटो निषिद्धः शिविरे नित्यं चौरभयं ततः ।
नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥
हे कारो ! तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जयेत् ।
शरेण धनहानिः स्यात् प्रजाहानिर्भवेद्ध्रुवम् ॥
शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ।
न निषिद्धः प्रसिद्धश्च नगरेषु तथा पुरे ॥
वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ।
खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिविरे च तथैव च ।
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्वी हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ॥
हरीतको च शुभदा ग्रामेषु नगरेषु च ।
न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः ॥
अपि च ।
“अपुत्त्रस्य च पुत्त्रत्वं पादपा इह कुर्व्वते ।
यत्नेनापि च राजेन्द्र ! अश्वत्थारोपणं कुरु ॥
स ते पुत्त्रसहस्राणां कार्य्यमेकः करिष्यति ।
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः ॥
प्लक्षो यज्ञप्रदः प्रोक्तो निम्बश्चासुप्रदः स्मृतः ।
जम्बुकी नाकदा प्रोक्ता भार्य्यादा दाडिमी तथा ॥
डुम्बरो रोगनाशाय पलाशो ब्रह्मदस्तथा ।
अर्कपुष्पारोपकाणां नित्यं तुष्येद्दिवाकरः ॥
श्रीवृक्षः शङ्करो देवः पाटलायान्तु पार्व्वती ।
शिंशपायामप्सरसः कुन्दे गन्धर्व्वसत्तमाः ॥
विभीतके दासवृद्धिर्व्वकुलो दास्यदस्तथा ।
अपत्यनाशकस्तालो वकुलः कुलवर्द्धनः ॥
बहुभार्य्या नारिकेली द्राक्षः सर्व्वाङ्गसुन्दरः ।
रतिप्रदा तथा केली केतकी सर्व्वनाशिनी ।
प्रतिष्ठां ते गमिष्यन्ति ये नराः प्लक्षरोपकाः ॥”
इति पाद्मे सृष्टिखण्डे वृक्षारोपणं नाम २६
अध्यायः ॥ * ॥ अस्य रोपणफलम् ।
यम उवाच ।
“वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ।
षडेते वृक्षजातीयास्तासां रोपे फलं शृणु ॥
यः पुमान् रोपयेद्वृक्षान् छायापुष्पफलोपगान् ।
सर्व्वसत्त्वोपभोगाय स याति परमां गतिम् ॥
छायापुष्पोपगांस्त्रिंशत् फलपुष्पद्रुमांस्तथा ।
रोपयित्वा दशाम्रांस्तु नरो न नरकं व्रजेत् ॥
देवदानवगन्धर्व्वाः किन्नरोरगगुह्यकाः ।
पशुपक्षिमनुष्याश्च संश्रयन्ति मुदा द्रुमान् ॥
पुष्पैः सुरगणाः सर्व्वे फलैश्च पितरः सदा ।
छायया मे मनुष्यास्तु पशुपक्षिमृगास्तथा ॥
पुष्पोपगन्धांश्च फलोपगन्धान्
यः पादपान्रोपयते मनुष्यः ।
समृद्धदेशे वरवेश्मवेद्यां
लभेदधिष्ठानवरं स विप्रः ॥
तस्मात् सुबहवो वृक्षा रोप्याः श्रेयोऽभि-
वाञ्छता ।
पुत्त्रवत् परिपाल्याश्च ते पुत्त्रा धर्म्मतः स्मृताः ॥
किं धर्म्मविमुखैर्म्मर्त्यैः केवलं स्वार्थहेतुभिः ।
तरुपुत्त्रा वरं ये तु परार्थैकानुवृत्तयः ॥
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
परेषामुपकुर्व्वन्ति तारयन्ति पितामहान् ॥
छेत्तारमपि संप्राप्तं छायापुष्पफलादिभिः ।
पूजयन्त्येव तरवो मुनिवद्द्वेषवर्जिताः ॥
पितरं नोपहिंसन्ति द्रुमा द्रविणलोभतः ।
तारयन्ति च मे सम्यक् सर्व्वस्यातिथ्यदायकाः ॥
तस्मात्ते पुत्त्रवत् स्थाप्या विधिवद्द्विजपुङ्गव ।
द्विजैः पितृमनुष्याणामभोज्याः स्युर्यदा सदा ॥
जलकृत् वृक्षरोपी यः प्रतिग्राहारुचिर्द्विजः ।
एते स्वर्गान्न हीयन्ते ये चान्ये सत्यवादिनः ॥”
इत्याद्ये वह्निपुराणे तडागवृक्षप्रशंसानामा-
ध्यायः ॥ * ॥ अपि च ।
“भूमिदानेन ये लोका गोदानेन च कीर्त्तिताः ।
ते लोकाः प्राप्यते पुंभिः पादपानां प्ररोहणे ॥
अश्वत्थमेकं पिचुमर्द्दमेकं
न्यग्रोधमेकं दश पुष्पजातीः ।
द्वे द्वे तथा दाडिममातुलुङ्गे
पञ्चाम्ररोपी नरकं न याति ॥
यथा सुपुत्त्रः कुलमुद्धरेद्धि
यथातिकृत्स्नान्नियमप्रयत्नात् ।
तथात्र वृक्षाः फलपुष्पभूताः
स्वं स्वामिनं नरकादुद्धरन्ति ॥
गोकर्ण उवाच ।
इन्धनार्थं यथा नीतमग्निहोत्रं तदुच्यते ॥
छायाविश्रामपथिकैः पक्षिणां निलयेन च ।
पत्रमूलत्वगादींश्च औषधार्थन्तु देहिनाम् ॥
उपकुर्व्वन्ति वृक्षस्य पञ्चयज्ञः स उच्यते ।
गृहकृत्यानि कष्टानि क्षुद्रजन्तुगृहास्तथा ॥
सत्रनिर्व्वर्त्तनं प्रोक्तं भिक्षा पत्रैः समाकृता ।
फलन्ति वत्सरे मध्ये द्विवारं शाकुनादयः ॥
सांवत्सरं पितुर्मातुरुपकारं फलैः कृतम् ।
एवं पुत्त्र समारोप्या एवं तत्त्वविदो विदुः ॥”
इत्यादि वाराहपुराणे गोकर्णमाहात्म्यनामा-
ध्यायः ॥ * ॥ अच्छेद्यवृक्षा यथा, --
“अश्वत्थो वटवृक्षश्च न च्छेत्तव्यः कदाचन ।
न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन ।
कर्म्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥”
इति च वाराहपुराणे ब्राह्मणदीक्षासूत्रं नामा-
ध्यायः ॥ * ॥ वृक्षोत्पाता यथा, --
“पुरेषु येषु दृश्यन्ते पादपाश्चैव रोदिताः ।
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्रसान् ॥
अरोगा वा विना वातं शाखा मुञ्चन्त्यथ
द्रुमाः ।
फलं पुष्पं तथा काले दर्शयन्ति द्विहायनाः ॥
पूर्व्वावस्थां दर्शयन्ति फलं पुष्पं तथा भवेत् ।
क्षीरं स्नेहं मदं रक्तं मधु तोयं स्रवन्ति च ॥
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा
पुनः ।
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोन्नताः ॥
एवं वक्ष्यामि ते ब्रह्मन् विपाकफलमेव च ।
रोदने व्याधिमभ्येति हसने देशविभ्रमम् ॥
शाखाप्रपतने कुर्य्यात् संग्रामे योधपातनम् ।
बालानां मरणं कुर्य्याद्बालानां फलपुष्पिता ॥
स्वराष्ट्रभेदं कुरुते फलपुष्पमनन्तरम् ।
क्षयं सर्व्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥
वाहनापचयं मद्यं रक्तं संग्राममादिशेत् ।
मधुस्रावे भवेद्ब्याधिर्जलस्रावे न वर्षति ॥
अरोगं शोषणं ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ।
शुष्केषु संप्ररोहस्तु वीर्य्यमन्त्रञ्च हीयते ॥
उत्थाने पतितानाञ्च भयभेदकरं भवेत् ।
स्थानात् स्थानन्तु गमने देशभङ्गन्तथादिशेत् ॥
ज्वलत्स्वपि च वृक्षेषु रोदत्सु च धनक्षयम् ।
एतत् पूजितवृक्षेषु सर्व्वं राज्ञो विपद्यते ॥
पुष्पे फले वा विकृते राज्ञो मृत्युं तथादिशेत् ।
अन्येषु दैवयुक्तेषु वृक्षोत्पातेषु मन्त्रितः ॥
आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत् ।
वृक्षोपरि तथा च्छत्रं कुर्य्यात् पापप्रशान्तये ॥
शिवमभ्यर्च्चयेद्देवं पशुञ्चास्मै निवेदयेत् ।
शूलेभ्य इति यद्धोमा कृत्वा रुद्रं जपेत्तथा ॥
मध्वाज्ययुक्तेन तु पायसेन
संपूज्य विप्रांश्चतुरश्च दद्यात् ।
गीतेन नृत्येन तथार्च्चनेन
देवं हरं पापविनाशहेतोः ॥”
इति मात्स्ये अद्भुतशान्तिवृक्षोत्पातप्रशमनं नाम
२०६ अध्यायः ॥ * ॥ अथ वृक्षप्रतिष्ठा ।
भीष्म उवाच ।
“पादपानां विधिं ब्रह्मन् यथावद्विस्तराद्वद ।
विधिना येन कर्त्तव्यं पादपोद्यापनं बुधैः ।
ये च लोकाः स्मृतास्तेषां तानि चैव वदस्व मे ॥
पुलस्त्य उवाच ।
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु ।
तडागविधिवत् सर्व्वं समाप्तिं जगदीश्वर ॥
कृत्वा मण्डपसंभारं स्नात्वा प्रयतमानसः ।
पूजयेद्ब्राह्मणं तद्वद्धेमवस्त्रानुलेपनैः ॥
सर्व्वौषध्युदकैः सिक्तान्नानापुष्पविभूषितान् ।
वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत् ॥
सूच्या चैव तथा कार्य्यं सर्व्वेषां कर्णवेधनम् ।
पृष्ठ ४/४७७
कुण्डलञ्चापि दातव्यं तद्वद्धेमशलाकया ॥
फलानि सप्त चाष्टौ वा कलधौतानि कारयेत् ।
प्रत्येकं सर्व्ववृक्षाणां वेद्यां तानधिवासयेत् ॥
धूपन्तु गुग्गुलुं श्रेष्ठं ताम्रपात्रैरधिष्ठितम् ।
सर्व्वान् धान्यभृतः कृत्वा गन्धमाल्यानुलेपनैः ॥
कुम्भान् स सर्व्ववृक्षेषु स्थापयित्वा व्रती स्वयम् ।
पूजयित्वा दिनान्ते च कुर्य्याद्द्विजनिमन्त्रणम् ॥
यथा च लोकपालानामिन्द्रादीनां विधानतः ।
वनस्पतेरधिवासमेवं कार्य्यं द्विजातिभिः ॥
ततः शुक्लाम्बरधरः सौवर्णकृतशेखराम् ।
स्वर्णशृङ्गां कांस्यदोहां गां दद्याच्छुभशालि-
नीम् ॥
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम् ।
ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः ॥
ऋग्यजुःसामाथर्व्वाणां धारणैरभितस्तथा ।
तैश्च कुम्भैः संस्नपनं कुर्य्याद्ब्राह्मणपुङ्गवः ॥
शुक्लाम्बरधरः शुद्धो यजमानः स्वयं जपेत् ।
गोभिर्व्विभवतः सार्व्वानृत्विजस्तु समाहितः ॥
हेमसूत्रैः सकटकैरङ्गुलीयैः पवित्रकैः ।
वासोभिः शयनीयैश्च सहोपस्करपादुकैः ॥
क्षीरामिषैर्व्वलिं दद्याद्यावद्दिनचतुष्टयम् ।
होमश्च सर्पिषा कार्य्यो यवैः कृष्णतिलैरपि ॥
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः ।
दक्षिणा च पुनस्तद्बत् श्रेष्ठा तत्रापि शक्तितः ॥
यद्यदिष्टतमं किञ्चित्तत्तद्दद्यादमत्सरः ।
आचार्य्ये द्विगुणं दत्त्वा प्रणिपत्य समापयेत् ॥
अनेन विधिना यस्तु कुर्य्यादवृक्षोत्सवं मुदा ।
सर्व्वान् कामानवाप्नोति तत् तदानन्त्यमश्नुते ॥
यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः ।
सोऽपि स्वर्गे वसेद्राजन् यावदिन्द्रशतत्रयम् ॥
भूतभव्यांश्च मनुजांस्तारयेद्रोमसंमितान् ।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ।
सोऽपि संपूज्यते देवैर्ब्रह्मलोके महीयते ॥”
इति पाद्मे सृष्टिखण्डे २६ अध्यायः ॥ * ॥
वृक्षच्छेदने दोषो यथा, --
“तस्मान्न च्छेदयेत् वृक्षान् सुपुष्पफलितान् कदा ।
यदीच्छेत् कुलवृद्धिञ्च धनवृद्धिञ्च शाश्वतीम् ॥
सन्निधौ देवतानाञ्च शिलेष्टकचितानपि ।
छेदिताश्छेदयेल्लोकान् मरकवृष्टिक्षुद्भयैः ॥
नृपहानिर्भवेच्छ्रीघ्रं चिञ्चावृक्षे निपातिते ।
सन्नियोगी हयं याति सीमावृक्षे निपातिते ।
तस्मान्न च्छेदयेद्वृक्षं देवताधिष्ठितं क्वचित् ॥
वापीकूपतडागानां छेदने रोधने कृते ।
कुलान्यकुलतां यान्ति नराणां सुदुरात्मनाम् ॥
तद्रूंश्च छेदयेद्यस्तु वृक्षान् छायासुशीतलान् ।
असिपत्रवने घोरे पीड्यते यमकिङ्करैः ॥
नगरोपवने वृक्षान् प्रमादाद्धि च्छिनत्ति यः ।
स गच्छेन्नरकं नाम जृम्भणं रौद्रदर्शनम् ॥
विल्वादिपालनं कुर्य्याच्छुभं भयदमन्यथा ।
श्रीवृक्षान्रोपयेत् पञ्च यदि स्वर्गान्न हीयते ॥”
इत्याद्ये वह्निपुराणे वारुणारामप्रतिष्ठाध्यायः ॥
अथ वृक्षारोपणनक्षत्रादि । शतभिषा मूलं
विशाखा मृगशिरः उत्तरफल्गुनी उत्तराषाढा
उत्तरभाद्रपत् रोहिणी हस्ता पुष्यः रेवती च ॥ * ॥
राजमार्त्तण्डे ।
“प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्या-
श्विनी-
पौष्णानुष्णमरीचयः शतभिषा स्वातिर्विशाखा
तथा ।
जिवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये
शस्यानां वपने भवन्ति लवने शस्ते तिथौ
रोपणे ॥ * ॥
हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोप-
येत् ।
वसुधेति सुशीतेति पुण्यदेति धरेति च ।
नमस्ते सुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥” * ॥
अथ वृक्षप्रतिष्ठानक्षत्राणि । पूष्यः अश्विनी
ज्येष्ठा पूर्ब्बफल्गुनी धनिष्ठा मृगशिरः स्वाती
आर्द्रा मघा रोहिणी मूलं हस्ता रेवती
अनुराधा श्रवणा पुनर्व्वसुश्च । यथा हि ।
“पुष्याश्विशक्रभगदैवतवासवेषु
चन्द्रानिलेशमघरोहिणिमूलहस्ते ।
पौष्णानुराधहरिभेषु पुनर्व्वसौ च
कार्य्याभिषेकतरुभूतपतिप्रतिष्ठा ॥” * ॥
अथ विहिततिथ्यादिः । भविष्ये ।
“प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा ।
दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता ॥
सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः ।
एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि ॥”
इति ज्योतिस्तत्त्वम् ॥

वृक्षकः, पुं, कुटजवृक्षः । इति रत्नमाला ॥ वृक्ष-

मात्रञ्च ॥ (यथा, रघुवंशे । १ । ३० ।
“सिक्तं स्वयमिव स्नेहाद्बन्ध्यमाश्रमवृक्षकम् ॥”)

वृक्षचरः, पुं, (वृक्षे चरतीति । चर + टः ।)

वानरः । इति धनञ्जयः ॥

वृक्षच्छायं, क्ली, बहूनां वृक्षाणां छाया । यथा ।

वृक्षस्य वृक्षयोर्वा छाया वृक्षच्छाया वृक्ष-
च्छायम् । बहुत्वे तु वृक्षच्छायमिति । षष्ठ्या-
श्छाया बहूनाञ्चेदिति क्लीवत्वम् । इति स्त्री
नपुंसकलिङ्गसंग्रहे भरतः ॥

वृक्षधूपः, पुं, श्रीवेष्टः । इति राजनिर्घण्टः ॥

वृक्षनाथः, पुं, (वृक्षाणां नाथः ।) वटवृक्षः ।

इति शब्दरत्नावली ॥

वृक्षपाकः, पुं, वटवृक्षः । इति शब्दचन्द्रिका ॥

वृक्षभवनं क्ली, (वृक्षस्थितं भवनम् ।) वृक्षकोटरम् ।

इति शब्दचन्द्रिका ॥

वृक्षभक्षा, स्त्री, (वृक्षं भक्षयतीति । भक्ष + अच् ।

ततष्टाप् ।) वन्दाकः । इति भावप्रकाशः ॥

वृक्षभित्, स्त्री, (वृक्षं भिनत्तीति । भिद् + क्विप् ।)

वासी । इति हेमचन्द्रः ॥

वृक्षभिद्, स्त्री, (वृक्षं भिनत्तीति । भिद् + क्विप् ।)

वासी । इति हेमचन्द्रः ॥

वृक्षभेदी, [न्] पुं, (वृक्षं भिनत्तीति । भिद् +

णिनिः ।) वृक्षादनः । इत्यमरः ॥ नेहानि इति
भाषा ॥ टङ्कः । इति हेमचन्द्रः ॥

वृक्षमर्कटिका, स्त्री, (वृक्षस्य मर्कटिका ।) जन्तु-

विशेषः । काठ्विडाल इति भाषा ॥ इति
केचित् ॥

वृक्षमृद्भूः, पुं, (वृक्षमृदि भवतीति । भू + क्विप् ।)

जलवेतसः । इति शब्दचन्द्रिका ॥

वृक्षरुहा, स्त्री, (वृक्षे रोहतीति । रुह + कः ।

ततष्टाप् ।) वन्दा । इत्यमरः ॥ अमृतश्रवा ।
इति राजनिर्घण्टः ॥

वृक्षवाटिका, स्त्री, (वृक्षस्य वाटिका ।) अमात्य-

गणिकागेहोपवनम् । इत्यमरः ॥

वृक्षादनः, पुं, (वृक्षमत्ति नाशयतीति । अद् +

ल्युः ।) वृक्षभेदी । इत्यमरः ॥ नेहानि इति
भाषा । (यथा, महाभारते । ५ । १५४ । ८ ।
“सकीलक्रकचाः सर्व्वेवासी वृक्षादनान्विताः ॥”)
अश्वत्थवृक्षः । मधुच्छत्रम् । कुठारः । इति
मेदिनी ॥ पियालः । इति धरणिः ॥

वृक्षादनी, स्त्री, (वृक्षमत्तीति । अद + ल्युः ।

स्त्रियां ङीष् ।) वन्दा । विदारीकन्दः । इति
मेदिनी । ने, २१३ ॥

वृक्षादिरुहकं, क्ली, आलिङ्गनम् । इति शब्द-

माला ॥

वृक्षादिरूढकं, क्ली, आलिङ्गनम् । इति शब्द-

माला ॥

वृक्षाम्लं, क्ली, (वृक्षस्याम्लम् ।) महाम्लम् । तेन्तु-

लीति ख्यातम् । इति रायमुकुटः ॥ महादा ।
इति भरतादयः ॥ अम्बलकुटा । इति सार-
सुन्दरी ॥ चुका । इति भानुदीक्षितादयः ॥
तत्पर्य्यायः । तिन्तिडीकम् २ चुक्रम् ३ । इत्य-
मरः ॥ अम्लशाकम् ४ चुक्राम्लम् ५ तित्तिडी-
फलम् ६ शाकाम्लम् ७ अम्लपूरम् ८ पूराम्लम् ९
रक्तपूरकम् १० चुडाम्लम् ११ वीजाम्लम् १२
फलाम्लकम् १३ अम्लवृक्षम् १४ अम्लफलम् १५
रसाम्लम् १६ श्रेष्ठाम्लम् १७ अत्यम्लम् १८
अम्लवीजम् १९ चुक्रफलम् २० । अस्य गुणाः ।
कटुत्वम् । कषायत्वम् । उष्णत्वम् । कफार्श-
स्तृष्णासमीरोदरहृद्गदादिगुल्मातिसारव्रणदोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् ।
पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु ॥
अम्लोष्णं रोचनं रूक्षं दीपनं कंफवातकृत् ।
तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित् ॥”
इति भावप्रकाशः ॥

वृक्षाम्लः, पुं, (वृक्षे अम्लो यस्य ।) आम्रातकः ।

इति शब्दचन्द्रिका ॥

वृक्षायुर्व्वेदः, पुं, (वृक्षस्यायुर्व्वेदः ।) तरुचिकित्-

सादिशास्त्रम् । तद्यथा, --
धन्वन्तरिरुवाच ।
“वृक्षायुर्व्वेदमाख्यास्ये प्लक्षञ्चोत्तरतः शुभः ।
प्राग्वटो याम्यतस्त्वाम्रं आप्येऽश्वत्थं क्रमेण तु ।
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमः ॥
उद्यानं गृहवासे स्यात् तिलान् वाप्यथ
पुष्पितान् ।
गृह्णीयाद्रोपयेद्वृक्षान् द्विजं चन्द्रं प्रपूजयेत् ॥
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवम् ।
पृष्ठ ४/४७८
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ॥
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु कारयेत् ।
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवम् ॥
जलाशयसमारम्भे वारणञ्चोत्तरात्रयम् ।
संपूज्य वरुणं विष्णुं पर्ज्जन्यं तत् समारभेत् ॥
अरिष्टाशोकपुन्नागशिरीषाश्च प्रियङ्गवः ।
अशोककदलीजम्बुस्तथा वकुलदाडिमाः ॥
सायं प्रातस्तु घर्म्मर्त्तौ शीतकाले दिनान्तरे ।
वर्षारात्रे भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् ।
स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशा-
न्तरम् ॥
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोध-
नम् ।
विडङ्गघृतपक्वाक्तान् सेचयेच्छीतवारिणा ॥
फलनाशे कुलत्थैश्च माषैर्म्मुद्गैर्यवैस्तिलैः ।
घृतशीतपयःसेकः फलपुष्पाय सर्व्वदा ॥
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।
गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् ॥
उत्सेकः सर्व्ववृक्षाणां फलपुष्पादिवृद्धिदः ।
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ॥
विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदम् ।
सर्व्वेषामविशेषेण वृक्षाणां रोहवर्द्धनम् ॥”
इत्याग्नेये महापुराणे वृक्षायुर्व्वेदः ॥
(अस्यान्यद्बिवरणं बृहत्संहितायां ५५ अध्याये
द्रष्टव्यम् ॥)

वृक्षार्हा, स्त्री, (वृक्षे अर्हतीति । अर्ह + अच् ।

टाप् ।) महामेदा । इति राजनिर्घण्टः ॥

वृक्षालयः, पुं, (वृक्ष आलयो यस्य ।) पक्षी ।

इति शब्दमाला ॥

वृक्षावासः, पुं, (वृक्षे आवासो यस्य ।) वृक्षकोटर-

वासी । इति केचित् ॥

वृक्षाश्रयी, [न्] पुं, (वृक्षमाश्रयतीति । आ + श्रि

+ णिनिः ।) क्षुद्रोलूकः । इति राजनिर्घण्टः ॥

वृक्षोत्पलः, पुं, कर्णिकारः । इति रत्नमाला ॥

वृच, ई ध वृतौ । इति कविकल्पद्रुमः ॥ (रुधा०-

पर०-सक०-सेट् । अनिड्निष्ठः ।) ई, वृक्तः ।
ध, वृणक्ति । वरीवृच्यते । वर्ज्जनार्थोऽयमित्येके ।
इति दुर्गादासः ॥

वृज, ई कि त्यागे । इति कविकल्पद्रुमः ॥ (चुरा०-

भ्वा० च-पर०-सक०-सेट् । अनिड्निष्ठः ।) ई,
वृक्तः । कि, वर्ज्जयति वर्ज्जति । इति दुर्गादासः ॥

वृज, ई ध वृतौ । त्यागे । इति कविकल्पद्रुमः ॥

(रुधा० पर०-सक०-सेट् । अनिड्निष्ठः ।) ई,
वृक्तः । ध, वृणक्ति । वरीवृज्यते । इति दुर्गादासः ॥

वृज, ल ङ इ त्यागे । इति कविकल्पद्रुमः ॥

(अदा०-आत्म०-सक०-सेट् ।) सप्तमस्वरी । ल,
ङ, वृङ्क्ते । इ, वृञ्ज्यते । इति दुर्गादासः ॥

वृज, ल ङ ई त्यागे । इति कविकल्पद्रुमः ॥

(अदा०-आत्म०-सक०-सेट् । अनिड्निष्ठः ।)
सप्तमस्वरी । ल, ङ, वृक्ते । ई, वृक्तः । इति
दुर्गादासः ॥

वृजनं, क्ली, (वृज + “कॄपॄवृजीति ।” उणा० २ । ८१ ।

इति क्युः ।) पापम् । इत्युणादिकोषः ॥ आका-
शम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
निराकरणम् । इति संक्षिप्तसारोणादिवृत्तिः ॥
(संग्रामः । यथा, ऋग्वेदे । १ । ६३ । ३ ।
“त्वं शुष्णं वृजने पृक्षे ॥”
“वृजन इत्यादीनि त्रीणि संग्रामनामानि अत्र
पूर्व्वे विशेषणे वृजने वर्ज्जनयुक्ते संग्रामे हि
वीराः पुरुषा वर्ज्ज्यन्ते हिंस्यन्ते ।” इति तद्भाष्ये
सासणः ॥ बलम् । इति निघण्टुः । २ । ९ ॥
यथा, ऋग्वेदे । १ । १६६ । १५ ।
“विद्यामेषं वृजनं जीरदानुम् ।”
“वृजनं बलम् ।” इति तद्भाष्ये सायणः ॥
प्राणिजातम् । यथा, ऋग्वेदे । १ । ४८ । ५ ।
“जरयन्ती वृजनं पद्वदीयते ।”
“वृजनं गमनशीलं जङ्गमं प्राणिजातं जर-
यन्ती *** वृजनं वृजी वर्जने । वर्ज्यते इति
वृजनं प्राणिजातम् । कॄ पॄ वृजिमन्दिनिधा-
ञ्भ्यः क्युरिति क्युप्रत्ययः । कित्त्वाल्लघपधगुणा-
भावः योरनादेशे प्रत्ययस्वरः ।” इति तद्भाष्ये
सायणः ॥)

वृजनः, पुं, (वृज + क्युः ।) केशः । कुटिले, त्रि ।

इत्युणादिकोषः ॥ (वाधके च त्रि । यथा,
ऋग्वेदे । ६ । ३५ । ५ ।
“तमानूनं वृजनमन्यथा चिच्छूरो ।”
“वृजनं बाधकम् ।” इति तद्भाष्ये सायणः ॥)

वृजिः, स्त्री, व्रजभूमिः । इति केचित् ॥

वृजिनं, क्ली, (वृजी वर्ज्जने + “वृजेः किच्च ।”

उणा० २ । ४७ । इति इनच् । स च कित् ।)
पापम् । इत्यमरः ॥ (यथा, भागवते । १० ।
२९ । ३८ ।
“तन्नः प्रसीद वृजिनार्द्दन तेऽङ्घ्रिमूलम् ॥”
दुःखम् । यथा, तत्रैव । १ । ७ । ४६ ।
“वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥”
पापविशिष्टे, त्रि । यथा, महाभारते । २ । २२ । ४ ।
“वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥”)
रक्तचर्म्म । भुग्नम् । इति हेमचन्द्रः ॥

वृजिनः, पुं, केशः । कुटिले, त्रि । इति मेदिनी ।

ने, १३६ ॥ (यथा, ऋग्वेदे । ६ । ४६ । १३ ।
“असमने अध्वनि वृजिने पथि श्येनाँ इव श्रव-
स्यतः ॥”
“वृजिने कुटिले पथि ।” इति तद्भाष्ये सायणः ॥)

वृण, द ञ उ भक्षे । इति कविकल्पद्रुमः ॥ (तना०-

उभ०-सक०-सेट् । क्त्रावेट् ।) द ञ, वृणोति
वर्णोति वृणुते वर्णुते । उ, वर्णित्वा वृत्वा ।
इति दुर्गादासः ॥

वृत, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०

-अक०-सेट् ।) क, वर्त्तयति । इति दुर्गादासः ॥

वृत, ङ उ व ऌ वर्त्तने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-स्यसनोः उभ०-अक०-सेट् । क्त्वावेट् ।)
ङ, वर्त्तते । उ, वर्त्तित्वा वृत्त्वा । व, वर्त्स्यति
विवृत्सति । ऌ, अवृतत् । इति दुर्गादासः ॥

वृत, य ङ उ सम्भक्तौ । वरणे । इति कविकल्प-

द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।)
य ङ, वृत्यते । उ, वर्त्तित्वा वृत्त्वा । सम्भक्तिः
सेवनम् । इति दुर्गादासः ॥

वृतः, त्रि, (वृ + क्तः ।) कृतवरणः । तत्पर्य्यायः ।

वृत्तः २ वावृत्तः ३ । इत्यमरः ॥ (यथा, हरि-
वंशे । १२७ । १७ ।
“तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥”)
आवृतश्च ॥

वृतपत्रा, स्त्री, (वृतानि पत्राण्यस्याः ।) पुत्त्रदात्री ।

इति राजनिर्घण्टः ॥

वृतिः, स्त्री, (वृ + क्तिन् ।) वेष्टनम् । तत्पर्य्यायः ।

वरः २ । इत्यमरः ॥ (यथा, --
“न हि च्छायादानैः पथिकजनसन्तापहरणं
फलैर्व्वा पुष्पैर्व्वा न सुरमनुजप्रीणनमपि ।
अरे रे मन्दारद्रुम सहजमेतत्त्वनुचितं
वृतीभूतो रक्षस्यपरमपरेषां फलमपि ॥”
इत्युद्भटः ॥)
प्रार्थनाविशेषः । इत्यत्ये । इति भरतः । वर-
णम् । इति मेदिनी ॥ गोपनम् । इति शब्द-
रत्नावली ॥

वृतिङ्करः, पुं, विकङ्कतवृक्षः । इति शब्दरत्ना-

वली ॥ वृतिकारके, त्रि ॥

वृत्तं, क्ली, (वृत + क्तः ।) चरित्रम् । (यथा,

कथासरित्सागरे । ३ । १४ ।
“तत्र तस्थुर्निजान् भर्त्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः ।
आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥”)
पद्यम् । इत्यमरः ॥ यथा, छन्दोमञ्जर्य्याम् ।
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।
वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ।
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ॥”
वृत्तिः । इति मेदिनी ॥ वेदबोधितस्याचारस्य
परिपालनम् । इति वृत्ताध्ययनर्द्धिशब्दटीकायां
भरतः ॥ (वार्त्ता । यथा, कथासरित्सागरे ।
५८ । ११६ ।
“न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया ॥”
आचारः । यथा, मनौ । ४ । २६० ।
“अनेन विप्रो वृत्तेन वर्त्तयन् वेदशास्त्रवित् ।
अपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥”)

वृत्तः, त्रि, (वृत् + क्तः ।) अतीतः । (यथा,

रामायणे । २ । ९० । ७ ।
“जानन् दशरथं वृत्तं न राजानमुदाहवत् ॥”
“वृत्तमतीतम् ।” इति तट्टीका ॥) दृढः ।
वर्त्तुलः । (यथा, भागवते । ४ । २५ । २४ ।
“स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ॥”)
कृतावरणः । इत्यमरटीका ॥ अधीतः । मृतः ।
इति मेदिनी ॥ (निष्पन्नः । यथा, रघुः । ३ । २८ ।
“स वृत्तचूडश्चलकाकपक्षकै-
रमात्यपुत्त्रैः सवयोभिरन्वितः ॥”
जातः । यथा, रघुवंशे । २ । ५८ ।
“सम्बन्धमाभाषणपूर्व्वमाहु-
र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ॥”)
पृष्ठ ४/४७९
अथ वृत्तवस्तूनि । यथा, --
“वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः ।
रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥
कर्णपाशभुजापाशाकृष्टचापघटाननम् ।
मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥” * ॥
संपूर्णगर्भवृत्तानि यथा, --
“संपूर्णगर्भवित्तानि मुखपद्मेन्दुदर्पणाः ।
चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥
आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् ।
आलवालमहीजालचर्म्मकं सानकादयः ॥”
इति कविकल्पलतायाम् २ श्लेषस्तवके प्रकीर्णं
नामं ३ कुसुमम् ॥

वृत्तः, पुं, (स्वल्पो वृत्तः । स्वल्पार्थे कन् ।) कूर्म्मः ।

इति राजनिर्घण्टः ॥ (नागविशेषः । यथा,
महाभारते । १ । ३५ । १० ।
“वृत्तसम्बर्त्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥”)

वृत्तकर्कटी, स्त्री, (वृत्ता वर्त्तुला कर्क्कटी ।)

षड्भुजा । इति राजनिर्घण्टः ॥

वृत्तगन्धि, क्ली, (वृत्तस्य पद्यस्य गन्धो लोश इव

गन्धो यस्मिन् ।) गद्यविशेषः । तस्य लक्षणं
यथा, --
“भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।
वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनः स्मृतम् ॥”
तस्य उदाहरणं यथा । जय जय जनार्द्दन
सुकृतिजनमनस्तडागविकस्वरचरणपद्मपद्मनयन-
पद्मापद्मिनीविनोदराजहंसभासुरयशःपटल-
परिपूरितभुवनकुहर । हरकमलासनादिवृन्दा-
रकवृन्दवन्दनीयपादारविन्दद्वन्द्वनिर्म्मुक्तयोगीन्द्र-
हृदयमन्दिरावितस्नुनिरञ्जनज्योतिःस्वरूपनाथ
नाथ जगन्नाथ मामनवधिभवदुःखव्याकुलं रक्ष
रक्ष । इति छन्दोमञ्जर्य्याम् ६ स्तवकः ॥

वृत्तगुण्डः, पुं, तृणविशेषः । तत्पर्य्यायः । वृत्तः १

दीर्घनालः ३ जलाश्रयः ४ । द्बिधायं एकः
स्थूलः द्वितीयो लघुः । अस्य गुणाः । मधु-
रत्वम् । शीतत्वम् । कफपित्तातिसारदाहरक्त-
नाशित्वम् । तेषां मध्ये स्थूलतरस्याधिकगुण-
त्वञ्च । इति राजनिर्घण्टः ॥

वृत्ततः, [स्] व्य, (वृत्त + तसिल् ।) वृत्तेन । यथा,

“अतिग्रहाव्यथनक्षेपेष्वकर्त्तरि तृतीयायाः ।
अकर्त्तरि तृतीयान्तात् वा तसिः स्यात् । अव्य-
थनं अचलनम् । वृत्तेन न व्यथते वृत्ततो न
व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन
क्षिप्तः वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः ।
हीयमानपापयोगाञ्च । हीयमानपापयुक्ताद-
कर्त्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते
वृत्तेन पापः वृत्ततः । इति सिद्धान्तकौमुदी ॥

वृत्ततण्डुलः, पुं, (वृत्तस्तण्डुलः ।) यावनालः ।

इति राजनिर्घण्टः ॥

वृत्तनिष्पाविका, स्त्री, नखनिष्पावी । इति राज-

निर्घण्टः ॥

वृत्तपर्णी, स्त्री, (वृत्तं वर्त्तुलं पर्णं यस्याः । ङीष् ।)

महाशणपुष्पिका । पाठा । इति राजनिर्घण्टः ॥

वृत्तपुष्पः, पुं, (वृत्तं वर्त्तुलं पुष्पं यस्य ।) शिरीषः ।

कदम्बः । वाणीरः । कुब्जजः । मुद्गरः । इति
राजनिर्घण्टः ॥

वृत्तफलं, क्ली, (वृत्तं वर्त्तुलं फलं यस्य ।) मरी-

चम् । इति राजनिर्घण्टः ॥ गोलफलमात्रञ्च ॥

वृत्तफलः, पुं, (वृत्तं फलं यस्य ।) दाडिमः । वदरः ।

इति राजनिर्घण्टः ॥

वृत्तफला, स्त्री, (वृत्तं वर्त्तुलं फलं यस्याः ।)

वार्त्ताकी । शशाण्डुली । आमलकी । इति
राजनिर्घण्टः ॥

वृत्तबीजः, पुं, (वत्तं बीजं यस्य ।) भिण्डा । इति

राजनिर्घण्टः ॥

वृत्तबीजका, स्त्री, (वृत्तं वर्त्तुलं बीजं यस्याः । कन्

ततष्टाप् ।) पाण्डुरफली । इति राजनिर्घण्टः ॥

वृत्तबीजा, स्त्री, (वृत्तं बीजं यस्याः ।) आढकी ।

इति राजनिर्घण्टः ॥

वृत्तमल्लिका, स्त्री, (वृत्ता मल्लिकेव ।) श्वेतार्कः ।

मोदिनी । इति राजनिर्घण्टः ॥

वृत्तस्थः, त्रि, (वृत्त + स्था + कः ।) वृत्ते तिष्ठति

यः । यथा, मनुः ।
“तुरीयो ब्रह्महत्यायाः क्षत्त्रियस्य वधे स्मृतः ।
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥”
वृत्तं यथा, --
“गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः ।
प्रवर्त्तनं हितानाञ्च तत् सर्व्वं वृत्तमुच्यते ॥”
इति गोपालपञ्चाननकृतस्मृतिसंग्रहः ॥

वृत्ता, स्त्री, झिज्झिरिष्टावृक्षः । रेणुका । प्रियङ्गुः ।

मांसरोहिणी ॥ इति राजनिर्घण्टः ॥

वृत्ताध्ययनर्द्धिः, स्त्री, (वृत्ताध्ययनयोरृद्धिः ।)

ब्रह्मवर्च्चसम् । इत्यमरः ॥ वेदबोधितस्याचारस्य
परिपालनं वृत्तम् । व्रतग्रहणपूर्ब्बकं गुरुमुखेन
वेदाभ्यासः अध्ययनम् । तयोरृद्धिस्तत्परि-
पालनकृततेजस उपचयो ब्रह्मवर्च्चसं स्यात् ।
ब्रह्महस्तिराजेति अः । इति भरतः ॥

वृत्तान्तः, पुं, संवादः । तत्पर्य्यायः । वार्त्ता २

प्रवृत्तिः ३ उदन्तः ४ । इत्यमरः ॥ श्रुतिः ५ ।
इति जटाधरः ॥ उदन्तकः ६ । इति शब्द-
रत्नावली ॥ (यथा, कथासरित्सागरे । २ । २९ ।
“सर्व्वमाजन्म वृत्तान्तं विस्तरादिदमब्रवीत् ॥”)
प्रक्रिया । कार्त्स्म्यम् । वार्त्ताप्रभेदः । प्रस्तावः ।
इति मेदिनी ॥ (यथा, मनौ । ३ । १४ ।
“न ब्राह्मणक्षत्त्रिययोरापद्यपि हि तिष्ठतोः ।
कस्तिंश्चिदपि वृत्तान्ते शूद्रा भार्य्योपदिश्यते ॥”
“वृत्तान्ते इतिहासाख्याने ॥” इति कुल्लूक-
मेधातिथी ॥) अवसरः । भावः । एकान्त-
वाचकः । इति विश्वः ॥

वृत्तिः, स्त्री, (वृत + क्तिन् ।) जीविका । इत्यमरः ॥

(यथा, मनौ । ४ । २५९ ।
“एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ॥”)
विवरणम् । (यथा, कातन्त्रे । “सूत्रस्यार्थ-
विवरणं वृत्तिः ॥”) कौशिक्यादिः । प्रवर्त्तनम् ।
इति मेदिनी ॥ (यथा, शाकुन्तले । ४ ।
“उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
वाष्पं कुरु स्थिरतया विरतानुबन्धम् ॥”)
विधृतिः । इति धरणिः ॥ * ॥ कौशिक्यादि-
वृत्तयो यथा, --
“शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः ।
रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती ।
चतस्रो वृत्तयो ह्येताः सर्व्वनाट्यस्य मातृकाः ॥”
इति साहित्यदर्पणे ६ परिच्छेदः ॥
वृत्तिहरणे दोषा यथा, --
श्रीनारायण उवाच ।
“स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
स कृतघ्न इति ज्ञेयः फलं तत् शृणु भूमिप ! ॥
यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः ।
तावद्वर्षसहस्रञ्च शृतपोते स तिष्ठति ॥
तप्ताङ्गारञ्च तद्भक्ष्यं पानञ्च तप्तमूत्रकम् ।
तप्ताङ्गारे च शयनं ताडितो यमकिङ्करैः ॥
तदन्ते च महापापी विष्ठायां जायते कृमिः ।
षष्टिवर्षसहस्राणि देवमानेन भारते ।
ततो भूमिविहीनश्च प्रजाहीनश्च मानवः ।
दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥
(व्यवहारः । यथा, मनौ । २ । २०५ ।
“गुरोर्गुरौ सन्निहिते गुरुवद्बृत्तिमाचरेत् ॥”
वर्त्ततेऽस्मिन्निति व्युत्पत्त्या । आधेयः । यथा,
व्याप्तिपञ्चके । १ । “साध्याभाववदवृत्तित्वम् ।”
यथा च भाषापरिच्छेदे ।
“सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।
स पक्षस्तत्र वृत्तित्वज्ञानदनुमितिर्भवेत् ॥”
चित्तस्यावस्थाविशेषः । यथा, पातञ्जले । २ ।
“योगश्चित्तवृत्तिनिरोधः ॥” चित्तवृत्तिप्रकारास्तु
तत्रैव द्रष्टव्याः ॥ * ॥ व्यापारः । यथा, सांख्य-
तत्त्वकौमुद्याम् । ५ ।
“अर्थसन्निकृष्टस्य इन्द्रियस्य वृत्तौ सत्यां तमो-
ऽभिभवे यः सत्त्वसमुद्रेकः ॥” युक्तार्थः । यथा,
कातन्त्रव्याकरणादौ ।
“कारकप्रतियोगिभ्यां यद्यदन्यदपेक्षते ।
अपेर्ब्बहुलवाचित्वाद्वृत्तिस्तत्र तु नेष्यते ॥”)

वृत्तिस्थः, पुं, (वृत्तये तिष्ठतीति । स्था + कः ।)

सरटः इति राजनिर्घण्टः ॥ वृत्तौ तिष्ठति,
त्रि ॥

वृत्तेर्व्वारुः, पुं, (वृत्तो वर्त्तुल इर्व्वारुः ।) षड्-

मुजा । इति राजनिर्घण्टः ॥

वृत्यं, त्रि, वरणीयम् । वृतधातोः क्यपा वृञ-

धातोश्च क्यप्तुक्प्रत्ययाभ्याञ्च निष्पन्नमिदम् ।
इति सिद्धान्तकौमुदी ॥

वृ(त्त्र)त्रः, पुं, (वृत् + “स्फायितञ्चिवञ्चीति ।”

उणा० २ । १३ । इति रक् ।) अन्धकारः ।
शत्रुः । (यथा, ऋग्वेदे । ७ । ४८ । २ ।
“इन्द्रेण युजा तरषेम वृत्रम् ।”
“वृत्रं शत्रुम् ।” इति तद्भाष्ये सायणः ॥)
दानवविशेषः । स तु त्वष्टृपुत्त्र इन्द्रेण हतः ।
इत्यमरः ॥ (यथा, हरिवंशे । १२७ । १७ ।
पृष्ठ ४/४८०
“तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥”
अस्य विशेषविवरणन्तु देवीभागवते षष्ठस्कन्धे
१ अध्यायमारभ्य द्रष्टव्यम् ॥ * ॥) मेघः । (यथा,
ऋग्वेदे । ३ । ३३ । ६ ।
“इन्द्रो अस्मा अरदद्वज्रबाहु-
रपाहन् वृत्रं परिधिं नदीनाम् ॥”
“वृत्रं वृणोति आकाशमिति वृत्रो मेघस्तं मेघ-
मपाहन् जघान ।” इति तद्भाष्ये सायणः ॥)
पर्व्वतविशेषः । इति मेदिनी ॥ इन्द्रः । इति
विश्वः ॥ शब्दः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

वृत्रद्विट्, [ष्] पुं, (वृत्रं द्वेष्टीति । द्बिष् + क्विप् ।)

इन्द्रः । इति हेमचन्द्रः ॥

वृत्रभोजनः, पुं, गण्डीरः । समठ इति ख्यातः ।

इति शब्दचन्द्रिका ॥

वृत्रहा, [न्] पुं, (वृत्रं हतवान् । हन् + “ब्रह्म-

भ्रूणवृत्रेषु क्विप् ।” ३ । २ । ८७ । इति क्विप् ।)
इन्द्रः । इत्यमरः ॥ (यथा, भागवते । ९ । ७ । १९ ।
“अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥”
यथा च ऋग्वेदे । १ । १०६ । ६ ।
“इन्द्रं कुत्सः वृत्रहणं शचीपतिम् ॥”
“वृत्रहणं वृत्राणां शत्रूणां हन्तारम् ।” इति
तद्भाष्ये सायणः ॥)

वृत्रारिः, पुं, (वृत्रस्यारिः ।) इन्द्रः । इति हला-

युधः ॥

वृथा, व्य, निरर्थकः । तत्पर्य्यायः । मुधा २ व्यर्थ-

कम् ३ अविधिः ४ । इत्यमरः ॥ यथा, --
“अदण्डपाशिको ग्रामो अदासीकञ्च यद्गृहम् ।
अनाज्यभोजनं यच्च वृथा तदिति मे मतिः ॥”
इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥
अपि च ।
“वृथा वृष्टिः समुद्रस्य तृप्तस्य भोजनं वृथा ।
वृथा दानं समृद्धस्य नीचस्य सुकृतं वृथा ॥”
इति गारुडे ११५ अध्यायः ॥

वृथाजन्म, [न्] क्ली, (वृथा निरर्थकं जन्म ।)

निरर्थकजननम् । यथा, --
“वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।
तान्यहं संप्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥
अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा ।
परपाकं सदाश्वन्ति परतापरताश्च ये ॥”
इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा-
ध्यायः ॥ अपि च ।
“येर्न श्रुतं भागवतं पुराणं
नाराधितो यैः पुरुषः प्रधानम् ।
मुखे हुतं यैर्न धरामराणां
तेषां वृथा जन्म नराधमानाम् ॥”
इति पुराणम् ॥

वृथादानं, क्ली, (वृथा निरर्थकं दानम् ।) निष्फल-

दानम् । तत् षोडशविधम् । यथा, --
“देवपितृविहीनं यदीश्वरेभ्यः सदोषतः ।
दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥
अन्थाबोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा ।
गुरवेऽनृतवक्ता यः स्तेनाय पतिताय च ॥
कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्विषे ।
पाचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥
परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च ।
इत्येतानि तु राजेन्द्र वृथादानानि षोडश ॥”
इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥
अन्यच्च । न्यायमार्गेण यद्दत्तं तत् सप्तविधमपि
पुनर्नापहर्त्तव्यम् । यत् पुनरन्यायेन दत्तं तददत्तं
षोडशमपि प्रत्याहर्त्तव्यमेव । इत्यर्थादुक्तं भवति ।
नारदेन च ।
“दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् ।”
इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् ।
“पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥
अदत्तन्तु भयक्रोधशोकवेगरुजान्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् ।
कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते ।
यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतम् ॥”
इति मिताक्षरा ॥

वृथामांसं, क्ली, (वृथा निरर्थकं मांसम् ।) देवपित्र-

नुद्दिष्टमांसम् । तद्भक्षणे प्रेतत्वं भवति । यथा,
“वृथारेता वृथामांसो वृथावादी वृथामतिः ।
निन्दको द्विजदेवानां स प्रेतो जायते नरः ॥”
इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥

वृद्धं, क्ली, शैलजनामगन्धद्रव्यम् । इत्यमरः ॥

वृद्धः, पुं, वृद्धदारकः । इति राजनिर्घण्टः ॥

वृद्धः, त्रि, (वृधु वृद्धौ + क्तः । “यस्य विभाषा ।”

७ । २ । १५ । इति नेट् ।) गतयौवनः ।
प्रवृद्धः । (यथा, मनुः । २ । १५६ ।
“न तेन वृद्धो भवति येनास्य पलितं शिरः ।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥”)
पण्डितः । इति मेदिनी ॥ आद्यस्य पर्य्यायः ।
प्रवयाः २ स्थविरः ३ जीनः ४ जीर्णः ५ जरन्
६ । इत्यमरः ॥ यातयामः ७ जर्ज्जरः ८ । इति
राजनिर्घण्टः ॥ पलितः । इति जटाधरः ॥

वृद्धकाकः, पुं, (वृद्धः काकः ।) काकविशेषः ।

दाँडकाक इति भाषा । तत्पर्य्यायः । द्रोणकाकः
२ दग्धकाकः ३ कृष्णकाकः ४ पर्व्वतकाकः ५
वनाश्रयः ६ काकोलः ७ । इति हेमचन्द्रः ॥

वृद्धगङ्गा, स्त्री, (वृद्धा गङ्गा ।) नदीविशेषः ॥

वुडीगङ्गा इति ख्याता । यथा, --
“अस्ति नाटकशैले तु सरो मानससन्निभम् ।
यत्र सार्द्धं शैलपुत्त्र्या जलक्रीडां सदा हरः ॥
कुरुते नरशार्द्दूल स्वर्णपङ्कजशोभिते ।
तस्य पश्चान्मध्यपूर्ब्बभागेभ्यश्च सरित्त्रयम् ॥
अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति ।
तस्य पश्चिमभागे तु नदी दिक्करिकाह्वया ॥
दिग्गजाः क्षेत्रसंजाताः तेन दिक्करिका स्मृता ।
मध्यभागात् सृता या तु शङ्करेणावतारिता ॥
वृद्धगङ्गाह्वया सा तु गङ्गेव फलदायिनी ॥
या निःसृता पूर्ब्बभागात्तस्माद्गिरिवरान्नदी ।
स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले ॥”
इति कालिकापुराणे कामरूपपीठनिर्णयनाम
८२ अध्यायः ॥

वृद्धत्वं, क्ली, (वृद्ध + त्व ।) वृद्धस्य भावः । तत्-

पर्य्यायः । स्थाविरम् २ । इत्यमरः ॥ वार्द्धक्यम् ३
वार्द्धकम् ४ । इति शब्दरत्नावली ॥ (यथा,
रघुः । १ । २३ ।
“अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्म्मरतेरासीद्वृद्धत्वं जरसा विना ॥”)
बाल्यादेरवधिमाह सुश्रुतः ।
“वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा ।
ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्न-
भुक् ।
दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् ॥
तदुत्तरं स्यादन्नाशी एवं वालस्त्रिधा मतः ॥
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ।
चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः ॥
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्य्यादिपूरितः ।
ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥”
वीर्य्यादीत्यादिशब्देन रसादिसर्व्वधात्विन्द्रिय-
बलोत्साहा उच्यन्ते । क्षीणः सर्व्वधात्विन्द्रिय-
बलोत्साहैर्हीनः ।
“ततस्तु सप्ततेरूर्द्ध्वं क्षीणधातुरसादिकः ।
क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने ॥
वलीपलितखालित्ययुक्तः कर्म्मसु चाक्षमः ।
कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥
बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमे-
ऽधिकम् ।
वार्द्धक्ये वर्द्धते वायुर्विचार्य्यैतदुपक्रमेत् ॥”
उपक्रमेत् चिकित्सेत् । तन्त्रान्तरे तु ।
“बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ ।
बुद्धिः कर्म्मेन्द्रियं चेतो जीवितं दशतो ह्रसेत् ॥”
इति भावप्रकाशः ॥

वृद्धदारकः, पुं, (वृद्धो दारको बालक इव यस्मात् ।)

वीरताडकवृक्षः । इति भरतः ॥ विद्धडक् इति
वीजताडका इति च वङ्गभाषा । विधारा इति
हिन्दीभाषा । तत्पर्य्यायः । ऋक्षगन्धा २ छग-
लान्त्री ७ आवेगी ४ जुङ्गः ५ । इत्यमरः ॥
ऋष्यगन्धा ६ छगलाङ्घ्री ७ छगला ८ अन्त्री ९
जुङ्गा १० । इति तट्टीका ॥ छगली ११ जुङ्गकः
१२ श्यामः १३ । इति जटाधरः ॥ वृष्यगन्धा
१४ छगलान्त्रिका १५ । इति शब्दरत्नावली ॥
दीघवालुका १६ छागलान्त्रिका १७ वृद्धः १८
कोठरपुष्पी १९ अजान्त्री २० वृद्धदारु २१ ।
ग्रन्थान्तरे कोठरपुष्पीस्थाने वृद्धकोटरपुष्पीति
पाठः । अस्य गुणाः । गौल्यत्वम् । पिच्छिल-
त्वम् । कफवातकासामदोषनाशित्वम् । बल्य-
त्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च ।
“रसायनो वृद्धदारः शोथवातामवातजित् ।”
इति राजवल्लभः ॥
पृष्ठ ४/४८१

वृद्धदारु, क्ली, (वृद्धत्वनाशकं दारु यस्य ।) वृद्ध-

दारकवृक्षः । यथा, राजनिर्घण्टे ।
“वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातनुत् ।
वल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्य्यदम् ॥”

वृद्धनाभिः, त्रि, (वृद्धः प्रवृद्धो नाभिर्यस्य ।) उन्नत-

नाभिः । गोँडनाभियुक्तव्यक्ति इति भाषा ।
तत्पर्य्यायः । तुण्डिलः २ तुण्डिभः ३ । इत्यमरः ॥

वृद्धप्रपितामहः, पुं, (प्रपितामहाद्वृद्धः ।) प्रपिता-

महतातः । इति शब्दरत्नावली ॥ तत्र कन्यायाः
सपिण्डता नास्ति । यथा । तेनात्मपञ्चमे वृद्ध-
प्रपितामहे सापिण्ड्यं निवर्त्तते इति प्रतिपादि-
तम् । अतएव प्रपितामहभ्रात्रा तत्सन्ततिभिः
सह सापिण्ड्याभावात् कन्याजननमरणयोस्तेषां
सपिण्डाशैचं नास्ति किन्तु समानोदकनिमित्त-
मेवाशौचमिति । इति शुद्धितत्त्वम् ॥

वृद्धबला, स्त्री, (वृद्धा बला ।) महासमङ्गा । इति

राजनिर्घण्टः ॥

वृद्धराजः, पुं, अम्लवेतसः । यथा, --

“अत्यम्लो वृद्धराजश्च द्वावेतौ तत्र कीर्त्तितौ ॥”
इति केचित् ॥

वृद्धवाहनः, पुं, आम्रवृक्षः । यथा । सुपक्वो वृद्ध-

वाहनः । इति केचित् ॥

वृद्धविभीतकः, पुं, (वृद्धः प्रवृद्धो विभीतक इव ।)

आम्रातकः । इति शब्दमाला ॥

वृद्धश्रवाः, [स्] पुं, (वृद्धात् बृहस्पतेः शृणोतीति ।

श्रु + असुन् । “वृद्धेभ्यः शृणोतीति वृद्धश्रवाः ।”
इत्युज्ज्वलदत्तः । ४ । २२६ । “वृद्धं प्रभूतं श्रवः
श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य ।” इति
ऋग्भाष्ये सायणः । १ । ८९ । ६ । “वृद्धं श्रवो
धनं कीर्त्तिर्वा यस्य ।” इति वेददीपे महीधरः ।
१० । ९ ।) इन्द्रः । इत्यमरः ॥

वृद्धसंघः, पुं, वृद्धानां समूहः । तत्पर्य्यायः । वार्द्ध-

कम् । इत्यमरः । २ । ६ । ४० ॥

वृद्धसूत्रकं, क्ली, (वृद्धस्य सूत्रम् । ततः स्वार्थे

कन् ।) इन्द्रतूलम् । वुडीर सूता इति भाषा ।
यथा, हारावल्याम् ।
“वृद्धसूत्रकमित्याहुरिन्द्रतूलं मनीषिणः ।
ग्रीष्महासं वंशकफं वाततूलं मरुद्ध्वजम् ॥”

वृद्धा, स्त्री, (वृद्ध + टाप् ।) गतयौवना । वुडी

इति भाषा । तत्पर्य्यायः । पलिक्नी २ । इत्य-
मरः ॥ पलिता ३ । इति भरतः ॥ स्थविरा ४
निष्कला ५ जरती ६ गतार्त्तवा ७ । इति
राजनिर्घण्टः ॥ तदवस्थाकालो यथा, --
“आषोडशाद्भवेद्बाला तरुणी त्रिंशता मता ।
पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम् ॥”
इति कालिदासः ॥ * ॥
अपि च ।
“बालेति गीयते नारी यावद्वर्षाणि षोडश ।
ततस्तु तरुणी ज्ञेया द्बात्रिंशद्बत्सरावधि ॥
तदूर्द्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि ।
वृद्धा तत्परतो ज्ञेया सुरतोत्सवर्ज्जिता ॥”
इति भावप्रकाशः ॥ * ॥
तस्याः सम्भोगे दोषो यथा, --
“बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥
निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः ।
हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥
नार्त्तवे षोडशाद्वर्षात् सप्तत्याः परतो न च ।
आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥
पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् ।
द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात् ॥”
इति राजवल्लभः ॥ * ॥
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥”
इति चाणक्यम् ॥ * ॥
अङ्गुष्ठः । इति शब्दरत्नावली ॥ महाश्राव-
णिका । इति राजनिर्घण्टः ॥

वृद्धाङ्गुलिः, स्त्री, (वृद्धा अङ्गुलिः ।) हस्तपादयोः

स्थूलाङ्गुलिः । वुड आङ्गुल इति भाषा । तत्-
पर्य्यायः । अङ्गुष्ठः २ वृद्धा ३ । इति शब्दरत्ना-
वली ॥

वृद्धिः, स्त्री, (वृध + क्तिन् ।) अष्टवर्गान्तर्गतौ-

षधविशेषः । तत्पर्य्यायः । योग्या २ ऋद्धिः ३
सिद्धिः ४ लक्ष्मीः ५ । इत्यमरः ॥ पुष्टदा ६ वृद्धि-
दात्री ७ मङ्गल्या ८ श्रीः ९ सम्पत् १० आशीः
११ जनेष्टा १२ भूतिः १३ मुत् १४ सुखम् १५
जीवभद्रा १६ । अस्या गुणाः ।
“ऋद्धिर्वृद्धिश्च मधुरा सुस्निग्धा तिक्तशीतला ।
रुचिमेधाकरी श्लेष्मकुष्ठक्रिमिहरा परा ॥
प्रयोगेष्वनयोरेकं यथालाभं प्रयोजयेत् ।
तत्र यद्दातुमिष्टिः स्याद्द्वयमप्यत्र योजयेत् ॥”
इति राजनिर्घण्टः ॥ * ॥
ऋद्धिवृद्ध्योरुत्पत्तिलक्षणनामगुणाः ।
“ऋद्धिर्व्वृद्धिश्च कन्दौ द्बौ भवतः कोषयामले ।
श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥
स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे ।
तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा ॥
वृद्धिस्तु दक्षिणावर्त्तफला प्रोक्ता महर्षिभिः ।
ऋद्धिर्योग्या सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥
ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः ।
प्राणैश्वर्य्यकरी मूर्च्छारक्तपित्तविनाशिनी ॥
वृद्धिर्गर्भप्रदा शीता वृं हणी मधुरा स्मृता ।
वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥
राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्ल्लभः ।
तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् ॥”
मुख्यसदृशः प्रतिनिधिः ॥ * ॥ एतस्य प्रतिनिधि-
माह ।
“मेदा जीवककाकोली ऋद्धिद्वन्द्वेऽपि चासति ।
वरीविदार्य्यश्वगन्धावाराहीश्च क्रमात् क्षिपेत् ॥”
मेदा महामेदास्थाने शतावरीमूलं जीवकर्षभक-
स्थाने विदारीमूलं काकलीक्षीरकाकोलीस्थाने-
ऽश्वगन्धामूलं ऋद्धिवृद्धिस्थाने वाराहीकन्दं
गुणैस्तत्तुल्यं क्षिपेत् । इति भावप्रकाशः ॥ * ॥
नीतिवेदिनां क्षयादित्रिवर्गान्तर्गतवर्गविशेषः ।
इत्यमरः ॥ नीतिवेदिनां नीनिशास्त्रज्ञानां
क्षयादिभिस्त्रिवर्गः । अन्येषान्तु धर्म्मकामार्थः
पूर्ब्बमुक्तः । अष्टवर्गस्यापचयः क्षयः । तस्यैवोप-
चयो वृद्धिः । तस्य नोपचयो नाप्यपचयः
स्थानम् । अष्टवर्गो यथा, --
कृषिर्बणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।
कन्याकरबलादानं सैन्यानाञ्च निवेशनम् ॥
अष्टवर्गः स्मृतो राज्ञामिति भरतः ॥ * ॥
वर्द्धनम् । तत्पर्य्यायः । स्फातिः २ । इत्यमरः ॥
(यथा, मनुः । १२ । १२४ ।
“एष सर्व्वाणि भूतानि पञ्चभिर्व्याप्य मूर्त्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥”)
विष्कम्भादिसप्तविंशतियोगान्तर्गतैकादशयोगः ।
तत्र जातफलं यथा, --
“प्रसूतिकाले यदि वृद्धियोगो
नरः सुभोगो विनयान्वितश्च ।
धनप्रयोगग्रहणेषु दक्षो
विचक्षणः स्यात् क्रयविक्रयाभ्याम् ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
कलान्तरम् । सुद् इति भाषा । अभ्युदयः ।
समृद्धिः । इति मेदिनी ॥ (यथा, शिशुपाल-
वधे । १५ । १ ।
“अथ तत्र पाण्डुतनयेन
सदसि विहितं मधुद्विषः ।
मानमसहत न चेदिपतिः
परवृद्धिमत्सरि मनो हि मानिनाम् ॥”)
वृद्धिग्रहणनियमो यथा, --
“अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥”
मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदा-
धीयते आधिरिति यावत् । बन्धकेन सह वर्त्तत
इति सबन्धकः प्रयोगस्तस्मिन् सबन्धके प्रयोगे
प्रयुक्तस्य द्रव्यस्याशीतितमो भागो वृद्धिर्धर्म्या
भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां
ब्राह्मणादीनां क्रमेण द्बित्रिचतुःपञ्चकं शतं धर्म्म्यं
भवति । ब्राह्मणेऽधमर्णे द्विकं शतम् । क्षत्त्रिये
त्रिकम् । वैश्ये चतुष्कम् । शूद्रे पञ्चकम् । मासि
मासीत्येव । द्वौ वा त्रयो वा चत्वारो वा पञ्च वा
इति द्वित्रिचतुःपञ्चाः । द्बित्रिचतुःपञ्चा अस्मिन्
शते वृद्धिर्दीयत इति द्वित्रिचतुःपञ्चकं शतम् ।
तदस्मिन् वृद्ध्या यल्लाभशुल्कोपदा दीयते इति
कन् । इयं वृद्धिर्मासि मासि गृह्यत इति
कालिका । इयमेव वृद्धिर्दिवसगणनया विभज्य
प्रतिदिवसं गृह्यमाना कायिका भवति । तथा च
नारदेन ।
“कायिका कालिका चैव कारिता च तथा परा ।
चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्व्विधा ॥”
इत्युक्त्रोक्तम् ॥
“कायाविरोधिनी शश्वत् पणपादादि कायिका ।
प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥
वृद्धिः सा कारिता नाम यर्णिकेण स्वयं कृता ।
वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृतेति ॥”
पृष्ठ ४/४८२
ग्रहीतृविशेषणेन वृद्धेः प्रकारान्तरमाह ।
कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।
कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः
ये वृद्ध्या धनं गृहीत्वा अधिकलाभार्थं अति-
गहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते
दशकं शतं दद्युः । ये च समुद्रगास्ते विंशकं
शतं मासि मासीत्येव । एतदुक्तं भवति
कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं
शतं उत्तमर्ण आदद्यात् । मूलविनाशस्यापि
शङ्कितत्वात् इति ॥ * ॥ इदानीं कारितां वृद्धि-
माह ।
“दद्युर्व्वा स्वकृतां वृद्धिं सर्व्वे सर्व्वासु जातिषु ॥”
सर्व्वे ब्राह्मणादयोऽधमर्णा अबन्धके सबन्धके वा
स्वकृतां स्वाभ्युपगतां वृद्धिं सर्व्वासु जातिषु
दद्युः । क्वचिदकृतापि वृद्धिर्भवति यथाह
नारदः ।
“न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता
क्वचित् ।
अनाकारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते ॥” इति ॥
यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति
कात्यायनेनोक्तम् ।
“यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् ।
ऊर्द्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥”
इति ॥
यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशा-
न्तरं याति तं प्रति तेनैवोक्तम् ।
“कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् ।
ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयाद् ॥”
इति ॥
यः पुनः स्वदेशे स्थित एव याचितो याचितकं
न ददाति तं याचनकालादारभ्य वृद्धिं दापये-
द्राजा । यथाह ।
“स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् ।
तं ततो कारितां वृद्धिमनिच्छन्तञ्च दापयेत् ॥”
इति ॥
अनाकारितवृद्धेरपवादो नारदेनोक्तः ।
“पण्यमूलं भृतिर्न्यासो दण्डो यश्च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्द्धन्ते नाविवक्षिताः ॥
अविवक्षिता अनाकारिता इति ॥ * ॥ अधुना
द्रव्यविशेषे वृद्धिविशेषमाह । सन्ततिस्तु पशु-
स्त्रीणाम् । पशूनां स्त्रीणां सन्ततिरेव वृद्धिः ।
पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्तति-
कामस्य प्रयोगः सम्भवति । ग्रहणञ्च क्षीर-
परिचर्य्यार्थिनः । अधुना प्रयुक्तस्य द्रव्यस्य
वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य कस्य
द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह ।
रसस्याष्टगुणा परा ।
“वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥”
रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिर-
कालावस्थितस्य स्वकृतया वृद्ध्या वर्द्धमान-
स्याष्टगुणा वृद्धिः परा नातःपरं वर्द्धते । तथा
वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः
त्रिगुणा द्विगुणा च वृद्धिः परा । वशिष्ठेन तु
रसस्य त्रैगुण्यमुक्तम् । द्विगुणं हिरण्यं त्रिगुणं
धान्यं धान्येनैव रसा व्याख्याताः पुष्पमूल-
फलानि च । तुला घृतं त्रितयमष्टगुणमिति ।
मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च-
गुणत्वमुक्तम् । “धान्ये शदे लवे बाह्ये नातिक्रा-
मति पञ्चतामिति ।” शदः क्षेत्रफलं पुष्पमूल-
फलादि । लवो मेषोर्णाचमरीकेशादि । बाह्यो
वलीवर्दतुरगादि । धान्यशदलवबाह्यविषया वृद्धिः
पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्य-
तावशेन दुर्भिक्षादिकालवशेन च व्यवस्था
द्रष्टव्या । एतच्च सकृत्प्रयोगे सकृदाहरणे च
वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोमान्तर-
करणे तस्मिन्नेव वा पुरुषे अनैकशः प्रयोगा-
न्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ब्ब-
वद्वर्द्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रति-
मासं प्रतिवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य
द्बैगुण्यसम्भवात् । पूर्ब्बाहृतवृद्ध्या सह द्वैगुण्य-
मतिक्रम्य वर्द्धत एव । यथाह मनुः । कुषीद-
वृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । सकृदाहि-
तेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं
कुषीदं तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति
नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता
पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे
द्वैगुण्यमत्येति सकृदाहृतेति पाठे शनैः शनैः
प्रतिदिनं प्रतिमासं प्रतिवत्सरं वाधमर्णादा-
हृता द्वैगुण्यं नात्येतीति व्याख्येयम् । तथा
गौतमेनाप्युक्तम् । चिरस्थाने द्वैगुण्यं प्रयोग-
स्येति प्रयोगस्येत्येकवचननिर्देशात् प्रगोगान्तर-
करणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान
इति निर्द्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्याति-
क्रमो दर्शितः । इति मिताक्षरा ॥ कुरण्ड-
रोगः । हर्षः । इति हेमचन्द्रः ॥ समूहः ।
इति शब्दचन्द्रिका ॥ शैलेयम् । धनम् । इति
राजनिर्घण्टः ॥ * ॥

वृद्धिका, स्त्री, (वृद्धिरेव । स्वार्थे कन् ।) ऋद्धिना-

मौषधम् । इति शब्दमाला ॥

वृद्धिजीविका, स्त्री, (वृद्ध्या जीविका ।) ऋणदान-

जीविका । तत्पर्य्यायः । अर्थप्रयोगः २ कुषी-
दम् ३ । इत्यमरः ॥ कलाम्बिका ४ । इति
शब्दरत्नावली ॥

वृद्धिदः, पुं, (वृद्धिं ददातीति । दा + कः ।) जीवकः ।

शूकरकन्दः । इति राजनिर्घण्टः ॥ वृद्धिदातरि,
त्रि ॥ (यथा, बृहत्संहितायाम् । ५३ । ३७ ।
“प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ॥”)

वृद्धिश्राद्धं, क्ली, (वृद्धये यत् श्राद्धम् ।) वृद्धिनिमि-

त्तकश्राद्धम् । तत्तु अभ्युदयनिमित्तं पित्राद्युद्देशेन
श्रद्धया अन्नादेर्द्दानम् । तत् कर्म्मविशेषात् पूर्ब्बं
कर्त्तव्यं यथा । निर्णयामृते मत्स्यपुराणम् ।
“अन्नप्राशे च सीमन्ते पुत्त्रोत्पत्तिनिमित्तके ।
पुंसवने निषेके च नववेश्मप्रवेशने ॥
देववृक्षजलादीनां प्रतिष्ठायां विशेषतः ।
तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम् ॥”
हलायुधधृतकूर्म्मपुराणम् ।
“तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमेऽपि च ।
वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम् ॥”
इति श्राद्धतत्त्वम् ॥
आभ्युदयिकश्राद्धम् । नान्दीमुखश्राद्धम् ।
यथा, --
“वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ब्बवत्तद्विशेषकम् ॥
जातपुत्त्रमुखदर्शनादौ वृद्धिश्राद्धम् । पूर्व्वाभि-
मुखेषु दक्षिणोपवीतिषु मधुयववदरकुशै-
र्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेण
कर्त्तव्यम् । दक्षिणजानु गृहीत्वा ॐ अद्या-
स्मदीयामुकवृद्धौ अमुकसगोत्राणामस्मत्पितृ-
पितामहप्रपितामह-मातामहप्रमातामहवृद्ध-
प्रमातामहानां अमुकशर्म्मणां सपत्नीकानां
नान्दीमुखानां श्राद्धे कर्त्तव्ये वसुसत्यसंज्ञकानां
विश्वेषां देवानां श्राद्धं सिद्धान्नेन युष्मासु मया
कर्त्तव्यमिति देवब्राह्मणामन्त्रणम् । ॐ करिष्य-
सीति तेनोक्ते इत्थमेव मातृपितामहीप्रपिता-
महीनां देवब्राह्मणामन्त्रणम् । तत ॐ अद्य
अमुकसगोत्राया मत्प्रपितामह्या अमुकीदेव्या
नान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मया
कर्त्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम् ।
करिष्यसीति तेनोक्ते इत्थमेव मातामह्यादि-
ब्राह्मणामन्त्रणम् । देवपितृसर्व्वदेवब्राह्मणश्राद्ध-
करणानुज्ञापनम् । आसने ॐ विश्वेदेवास
आगत शृणुताम इमं हवं एवं वर्हिर्निषीदत ।
ॐ विश्वेदेवाः शृणुतेमं हवं ये मेऽन्तरीक्षे य
उपद्यविष्ट ये अग्निजिह्वा उत वा यजत्रा आ
सद्यास्मिन् वर्हिषि मादयद्धम् । ॐ आगच्छन्तु
इति विश्वेदेवावाहनं गन्धादिदानं अच्छि-
द्रावधारणवाचनम् । ततः प्रपितामहीप्रभृती-
नामनुज्ञापनम् । आसनम् आवाहनं गन्धादि-
दानञ्च । अच्छिद्रावधारणवाचनम् । इत्थं
पितामह्या मातुः । ततः प्रपितामहादीनामनु-
ज्ञापनमासनमावाहनं गन्धादिदानम् । एवं
वृद्धप्रपितामहादीनां अनुज्ञापनादिकरणम् ।
ॐ वसुसत्यसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य एतदन्नं
सघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रति-
सिद्धवर्ज्जितं नमः । इति अन्नकल्पनम् ॥
ॐ अमुकगोत्रे मत्पितामहि अमुकि देवि
नान्दीमुखि एतदन्नं सवदरं सदधि नमः । एवं
मातामहप्रमातामहेभ्यः ।” इति गारुडे २२३
अध्यायः ॥ अन्यच्च ।
“तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते ।
उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले ॥
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ।
ततो मतामहा राजन् विश्वेदेवास्तथैव च ॥
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः ।
प्राङ्मुखो निनयेत् पिण्डान् पूर्ब्बया चतुरो
युतान् ॥
सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्बयोर्द्वयोः ।
पृष्ठ ४/४८३
युग्मा द्विजातयः पूज्याः वस्त्रकार्त्तस्वरादिना ॥
तिलार्थन्तु यवैः कार्य्या नान्दीशब्दानुपूर्ब्बकम् ।
मङ्गलानि च सर्व्वाणि वाचयेत् द्बिजपुङ्गवान् ॥
एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धञ्च सर्व्वदा ।
नमस्कारेण मन्त्रेण कुर्य्यादामान्नवान् बुधः ॥
दानप्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः ।
दानेन सर्व्वकामाप्तिरस्य संजायते यतः ॥”
इति मात्स्ये साधारणाभ्युदयकीर्त्तनो नाम
१७ अध्यायः ॥ विस्तारस्तु श्राद्धतत्त्वे श्राद्ध-
विवेके च द्रष्टव्यः ॥

वृद्धोक्षः, पुं, (वृद्धश्चासौ उक्षा चेति । “अचतु-

रेत्यादि ।” ५ । ५ । ७७ । इत्यादिना अच्
प्रत्यबः ।) वृद्धवृषः । तत्पर्य्यायः । जरद्गवः २ ।
इत्यमरः ॥ (यथा, कुमारसम्भवे । ५ । ७० ।
“विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥”)

वृद्ध्याजीवः, त्रि, (वृद्ध्या आजीवतीति । आ +

जीव + अच् ।) वृद्ध्युपजीवी । तत्पर्य्यायः ।
वार्द्धुषिः २ वार्द्धुषिकः ३ कुषीदः ४ कुषीदिकः
५ । इति शब्दरत्नावली ॥ साधुः ६ । इति
जटाधरः ॥

वृध, उ ङ व ऌ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् । क्त्वावेट् ।) उ, वर्द्धित्वा
वृद्ध्वा । ङ, वर्द्धते जनः । व, वर्त्स्यति विवृत्सति ।
ऌ, अवृधत् । इति दुर्गादासः ॥

वृध, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, वर्द्धयति । इति दुर्गा-
दासः ॥

वृधसानः, पुं, (वृध + “ऋन्जिवृधीति ।” उणा०

२ । ८७ । इत्यनेन असानच् । स च कित् ।)
मनुष्यः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(वर्द्धनशीले, त्रि । यथा, ऋग्वेदे । २ । २ । ५ ।
“हरिशिप्रो वृधसानासु जर्भुरत् ॥”
“वृधसानासु प्रवर्द्धमानासु ।” इति तद्भाष्ये
सायणः ॥ यथा च तत्रैव । ४ । ३ । ६ ।
“कद्धिष्ण्यासु वृधसानो
अग्ने कद्वाताय प्रतवसे शुभं यो ॥”
“वृधसानः घृताद्याहुतिभिर्वर्द्धमानस्त्वम् ।” इति
तद्भाष्ये सायणः ॥)

वृधसानुः, पुं, (वृध + बाहुलकात् असानुच् । स च

कित् ।) पुरुषः । पत्रम् । कृतिः । इत्युणादि-
कोषः ॥

वृध्यं, त्रि, (वृध + “ऋदुपधाच्चाकॢपिचृतेः ।”

३ । १ । ११० । इति क्यप् ।) वर्द्धबीयम् ।
वृधधातोः क्यप्प्रत्ययेन निष्पन्नमिदम् ॥

वृन्तं, क्ली, फलपुष्पपत्रादिर्येन धार्य्यते तत् । वो टा

इति भाषा । तत्पर्य्यायः । प्रसवबन्धनम् २ ।
इत्यमरः ॥ (यथा, रघुवंशे । ५ । ६९ ।
“वृन्तश्लथं हरति पुष्पमनोकहानाम् ॥”)
घटीधारा । कुचाग्रम् । इति मेदिनी ॥

वृन्ताकः, पुं, वार्त्ताकी । इति शब्दरत्नावली ॥

वृन्ताकी, स्त्री, वार्त्ताकी । इति राजनिर्घण्टः ॥

वृन्तिता, स्त्री, कटुका । इति शब्दचन्द्रिका ॥

वृन्दं, क्ली, (वृञ् + “अब्दादयश्चेति ।” उणा० ४

९८ । इति दन् नुम् गुणाभावश्च निपात्यते ।)
समूहः । इत्यमरः ॥ (यथा, भागवते । ३ ।
२८ । ३० ।
“भृत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ॥”)

वृन्दः, पुं, दशार्व्वुदः । शतकोटिरिति यावत् । इति

ज्योतिषम् ॥ अस्य नामान्तरं महार्व्वुदः ॥

वृन्दा, स्त्री, तुलसी । इति शब्दरत्नावली ॥ जल-

न्धरपत्नी । अस्या विवरणं तुलसीशब्देद्रष्टव्यम् ॥
केदारराजकन्या । राधाषोडशनामान्तर्गत-
नामविशेषः । एतद्विवरणं वृन्दावनशब्दे द्रष्ट-
व्यम् ॥

वृन्दारः, त्रि, मनोज्ञम् । इति शब्दमाला ॥

वृन्दारकः, पुं, (वृन्दमस्यास्तीति । वृन्द + “शृङ्ग-

वृन्दाभ्यामारकन् वक्तव्यः ।” ५ । २ । १२२ ।
इत्यस्य वार्त्तिकोक्त्या आरकन् ।) देवता ।
इत्यमरः ॥ (यथा, भागवते । ६ । १० । ३० ।
“अपि वृन्दारका यूयं न जानीथ शरीरि-
णाम् ॥”)
यूथपाता । यथा, --
“वृन्दारकः सुरे श्रेष्ठे मनोज्ञे यूथपातरि ॥”
इति भरतधृतव्याडिः ॥

वृन्दारकः, त्रि, (वृन्दार + स्वार्थे कन् ।) मनोज्ञः ।

(यथा, महाभारते । ११ । १९ । ५ ।
“युवा वृन्दारकः शूरोविकर्णः पुरुषर्षभः ॥”)
श्रेष्ठः । इति मेदिनी ॥ तन्मते पवर्गीयादिः ।
वृन्दारकौ रूपिमुख्यौ । इत्यमरः ॥

वृन्दावनं, क्ली, स्वनामख्याततीर्थम् । तन्नामकारणं

यथा, --
श्रीनारायण उवाच ।
“पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् ।
आसीत् सत्ययुगे ब्रह्मन् सत्यधर्म्मरतः सदा ॥
स रेमे सह नारीभिः पुत्त्रपौत्त्रगणैः सह ।
पुत्त्रानिव प्रजाः सर्व्वाः पालयामास धार्म्मिकः ॥
कृत्वा शतक्रतुं राजा लेभे त्विन्द्रत्वमीप्सितम् ।
कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ॥
नित्यं नैमित्तिकं सर्व्वं श्रीकृष्णप्रीतिपूर्ब्बकम् ।
केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ॥
पुत्त्रेषु राज्यं संन्यस्य प्रिया त्रैलोक्यमोहिनी ।
जैगीषव्योपदेशेन जगाम तपसे वनम् ॥
हरेरैकान्तिको भक्तो ध्यायते सन्ततं हरिम् ।
शश्वत् सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ॥
चिरं तप्त्वा नृपश्रेष्ठो गोलोकञ्च जगाम सः ।
केदारनामतीर्थं तत्तन्नाम्ना च बभूव ह ॥
तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेत् ध्रुवम् ।
कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ॥
न वव्रे सा वरं कञ्चित् योगशास्त्रविशारदा ।
दत्तं दुर्व्वाससा तस्यै हरेर्मन्त्रं सुदुर्ल्लभम् ॥
सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् ।
षष्टिं वर्षसहस्राणि तपस्तेपे सुनिर्ज्जने ॥
आविर्ब्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः ।
प्रसन्नवदनः श्रीमान् वरं वृण्वित्युवाच सः ॥
दृष्ट्वा सा राधिकाकान्तं शान्तं सुन्दरविग्रहम् ।
मूर्च्छां संप्राप सा सद्यः कामबाणप्रपीडिता ॥
सा च शीघ्रं वरं वव्रे पतिस्त्वं मे भवेति च ।
ओमित्युक्त्वा च रहसि चिरं रेमे तया सह ॥
सा जगाम च गोलोकं कृष्णेन सह कौतुकात् ।
राधासमा सा सौभाग्यात् गोपीश्रेष्ठा बभूव सा ॥
वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् ।
वृन्दा यत्र कृता क्रीडा तेन वा मुनिपुङ्गव ॥ * ॥
अथान्यञ्चेतिहासञ्च शृणुष्व वत्स पुण्यदम् ।
येन वृन्दावनं नाम निबोध कथयामि ते ॥
कुशध्वजस्य कन्ये द्वे धर्म्मशास्त्र विशारदे ।
तुलसीवेदवत्यौ च विरक्ते भवकर्म्मणि ॥
तपस्तप्त्वा वेदवती प्राप नारायणं परम् ।
सीता जनककन्या सा सर्व्वत्र परिकीर्त्तिता ॥
तुलसी च तपस्तप्त्वा वाञ्छां कृत्वा हरिं पतिम् ।
दैवाद्दुर्व्वाससः शापात् प्राप्य शङ्खासुरं पतिम् ॥
पश्चात् संप्राप कमलाकान्तं कान्तं मनोहरम् ।
तस्याश्च तपसः स्थानं उदितञ्च तपोधन ।
तेन वृन्दावनं नाम प्रवदन्ति मनीषिणः ॥ * ॥
अथवा ते प्रवक्ष्यामि परं हेत्वन्तरं शृणु ।
येन वृन्दावनं नाम पुण्यक्षेत्रञ्च भारते ॥
राधाषोडशनाम्नाञ्च वृन्दा नाम श्रुतौ श्रुतम् ।
तस्याः क्रीडावनं रम्यं तेन वृन्दावनं स्मृतम् ॥
गोलोके प्रीतये तस्याः कृष्णेन निर्म्मितं पुरा ।
क्रीडार्थं भुवि तन्नाम्ना वनं वृन्दावनं स्मृतम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे वृन्दावन-
प्रस्तावः १७ अध्यायः ॥ * ॥
अथ वृन्दावनवर्णनम् ।
ईश्वर उवाच ।
“गुह्याद्गुह्यतरं हृद्यं परमानन्दकारणम् ।
अत्यद्भुतं रहस्यानां रहस्यं परमं परम् ॥
दुर्ल्लभानाञ्च परमं दुर्ल्लभं मोहनं परम् ।
सर्व्वशक्तिमयं देवि सर्व्वस्थानेषु गोपितम् ॥
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तवल्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि संस्थितम् ॥
पूर्णब्रह्मसुखैश्वर्य्यनित्यमानन्दमव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥
गोलोकैश्वर्य्यं यत्किञ्चित् गोकुले तत्प्रकीर्त्तितम् ।
वैकुण्ठादिवैभवं यत् द्बारकायां प्रकाशयेत् ॥
यद्ब्रह्मपरमैश्वर्य्यं नित्यं वृन्दावनाश्रयम् ।
तस्मात् त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ॥
यत् स्यान्माथुरकं धाम विष्णोरेकान्तवल्लभम् ।
स्वस्थानमधिकं नामधेयं माथुरमण्डलम् ॥
निगूढं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम् ।
सहस्रपत्रकमलाकारं माथुरमण्डलम् ॥
विष्णुचक्रपरिभ्रामद्धाम वैष्णवमद्भुतम् ।
कर्णिकापत्रविस्तारं रहस्यक्रममीरितम् ॥
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ।
भद्रश्रीलौहभाण्डीरमहातालखदीरकाः ॥
बहुलं कुमुदं काम्यं मधु वृन्दावनं तथा ।
द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे ॥
पृष्ठ ४/४८४
पूर्ब्बे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ।
महावनं गोकुलाख्यं रम्यं मधुवनं तथा ॥
पूर्व्वे तु पञ्च भद्राद्यास्तालाद्याः सप्त पश्चिमे ।
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥
कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथा ।
नन्दनानन्दखण्डञ्च पालाशाशोककेतकम् ॥
सुगन्धिमादनं कैलममृतं भोजनस्थलम् ।
सुखप्रसाधनं वत्सहरणं शेषशायनम् ॥
श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथा ।
शङ्कितं विपदञ्चैव बालक्रीडञ्च धूसरम् ॥
केमुद्रुमं खरो वीरमुत्सुकञ्चापि नन्दनम् ।
इत्थमेव वने संख्यास्त्रिंशच्चोपवनं स्मृतम् ॥
पूर्ब्बोक्तं द्वादशारण्यं प्रधानं वनमुत्तमम् ।
तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम् ॥
नानाविधरसक्रीडानानालीलामयस्थलम् ।
दलविस्पष्टविस्ताररहस्यक्रममीरितम् ॥
सहस्रपत्रकमलं गोकुलाख्य महत् पदम् ।
कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमम् ॥
तत्रोपरि स्वर्णपीठे मणिमण्डपगण्डितम् ।
तच्च तत्र क्रमाद्दिक्षु विदिक्षु दलभीरितम् ॥
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ।
तस्मिन् दले महापीठं निगमागमदुर्गमम् ॥
योगीन्द्रैरपि दुष्प्रापं सर्व्वात्मा यच्च गोकुलम् ।
द्वितीयं दलमाग्नेयं तद्रहस्यं द्विधा तथा ॥
निकुञ्जककुटीवीरकुटीरौ तद्दले स्थितौ ।
पूर्ब्बदलं तृतीयं यत् प्रधानं स्थानमुच्यते ॥
गङ्गादिसर्व्वतीर्थानां स्पर्शाच्छतगुणं भवेत् ।
चतुर्थदलमैशान्यां सिद्धपीठेप्सितप्रदम् ॥
कामयन् नूतना गोपी तत्र कृष्णपतिं लभेत् ।
वस्त्रालङ्कारहरणं तद्दले समुदाहृतम् ॥
उत्तरे पञ्चमं प्रोक्तं दलं सर्व्वदलोत्तमम् ।
द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम् ॥
वायव्यन्तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ।
दलोत्तमोत्तमञ्चैव प्रधानस्थानमुच्यते ॥
सर्व्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम् ।
यज्ञपत्नीगणानाञ्च तदीप्सितवरप्रदम् ॥
अघासुरस्य निर्व्वाणं चक्रे त्रिदशदर्शितम् ।
ब्रह्ममोहनमत्रैव दलं ब्रह्महृदावहम् ॥
नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघातनम् ।
शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम् ॥
श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ।
श्रीमद्वृन्दावनं धन्यं यमुनायाः प्रदक्षिणम् ॥
शिवलिङ्गमधिष्ठाता दृष्टो गोपी श्वराभिधः ।
तद्बाह्ये षोडशदलं श्रिया पूर्णं तदीरितम् ॥
सर्व्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद्यथाक्रमम् ।
महत् पदं महद्धाम प्रधानं षोडशं दलम् ॥
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ।
तस्मिन् मधुवनं प्रोक्तं तत्र प्रादुरभूत् स्वयम् ॥
चतुर्भुजो महाविष्णुः सर्व्वकारणकारणम् ।
तत्राधिष्ठिततद्देवं मुनिश्रेष्ठ सनातनम् ॥
दलं द्वितीयमाख्यातं किञ्चिल्लीलारसस्थलम् ।
खदिरारण्यमत्रैव दलञ्च समुदाहृतम् ॥
सर्व्वश्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम् ।
तत्र गोवर्द्धने रम्ये नित्यानन्दरसाश्रये ॥
कर्णिकायां महालीला तल्लीला रसगह्वरे ।
यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ॥
कृष्णो गोविन्दतां प्राप्तः किमन्यैर्ब्बहुभाषितैः ।
दलं तृतीयमाख्यातं सर्व्वश्रेष्ठोत्तमोत्तमम् ॥
चतुर्थदलमाख्यातं महाद्भुतरसस्थलम् ।
हरिर्यस्य पतिः साक्षान्नित्यं गोवर्द्धनः स्वयम् ॥
कदम्बखण्डी तत्रैव पूर्णानन्दरसाश्रयः ।
स्निग्धं हृद्यं प्रियं रम्यं दलञ्च समुदाहृतम् ॥
नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः ।
कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥
अधिष्ठातात्र गोपालो धेनुपालस्ततः परम् ।
दलं षष्ठं यद ख्यातं नत्र नन्दवनं स्मृतम् ॥
सप्तमं वकुलारण्यं दलं रम्यं प्रकीर्त्तितम् ।
दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम् ॥
काम्यारण्यं दलं हृद्यं दशमं सर्व्वकारणम् ।
ब्रह्मप्रसादनं तत्र विष्णुवृन्दं प्रदर्शितम् ॥
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ।
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ॥
निर्व्वाणं सेतुबन्धस्य नानारसमयस्थलम् ।
भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् ॥
कृष्णक्रीडारसस्तत्र श्रीदामादिभिरावृतः ।
त्रयोदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम् ॥
चतुर्द्दशदलं प्रोक्तं सर्व्वसिद्धिप्रदं स्थलम् ।
श्रीवनं तत्र रुचिरं सर्व्वैश्वर्य्यस्य कारणम् ॥
कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम् ।
पञ्चदशदलं श्रेष्ठं तत्र लौहवनं स्मृतम् ॥
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ।
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ॥
बालक्रीडारसस्तत्र वत्सपालैः समावृतः ।
पूतनादिवधस्तत्र यमलार्ज्जुनभञ्जनम् ॥
अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः ।
नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः ॥
दलं प्रसिद्धमाख्यातं सर्व्वश्रेष्ठदलोत्तमम् ।
कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते ।
सिद्धप्रधानं किञ्जल्कं दलञ्च समुदाहृतम् ॥ * ॥
पार्व्वत्युवाच ।
वृन्दावनस्य माहात्म्यं रहस्यं परमाद्भुतम् ।
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥
ईश्वर उवाच ।
कथितं ते प्रियतमे गुह्याद्गुह्यतमोत्तमम् ॥
रहस्यानां रहस्यं यत्दुर्ल्लभानाञ्च दुर्ल्लभम् ।
त्रैलोक्यगोपितं देवि ! देवेश्वरसुपूजितम् ॥
ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ।
योगीन्द्रादिमुनीन्द्रादिसदातद्ध्यानतत्परम् ॥
अप्सरोभिश्च गन्धर्व्वैर्न्नृत्यगीतनिरन्तरम् ।
श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् ॥
भूमिश्चिन्तामणिस्तोयममृतं रसपूरितम् ।
वृक्षाः सुरद्रुमास्तत्र सुरभिवृन्दसेविताः ॥
स्त्री लक्ष्मीः पुरुषो विष्णुस्तदंशांशसमुद्भवः ।
तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ॥
गतिर्नाट्यं कथागानं स्मितवक्त्रं निरन्तरम् ।
शुद्धसत्त्वैः प्रेमपूर्णैर्व्वैष्णवैस्तद्वनाश्रयम् ॥
पूर्णब्रह्मसुखे मग्नं स्फुरत्तन्मूर्त्तितन्मयम् ।
प्रमत्तकोटिभृङ्गाद्यैः कूजत्कलमनोहरम् ॥
कपोतशुकसंगीतमुन्मत्तालिसहस्रकम् ।
भुजङ्गशत्रुनृत्याद्यं सकान्ताभोदविभ्रमम् ॥
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ।
सुस्निग्धसौरभाश्रान्तमुग्धीकृतजगत्त्रयम् ॥
मन्दमारुतसंसिक्तवसन्तऋतुसेवितम् ।
पूर्णेन्दुनित्याभ्युदयं सूर्य्यमन्दांशुसेवितम् ।
अदुःखसुखविच्छेदं जरामरणवर्ज्जितम् ।
अक्रोधगतमात्सर्य्यं अभिन्नमनहंकृतम् ॥
पूर्णानन्दामृतरसं पूर्णप्रेमसुखावहम् ।
गुणातीतं परं धाम पूर्णप्रेमस्वरूपकम् ॥
यत्र वृक्षादिपुलकैः प्रेमानन्दाश्रुवर्षितम् ।
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ॥
गोविन्दाङ्ग्रिरजस्पर्शान्नित्यवृन्दावनं भुवि ।
सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ॥
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ।
गुह्याद्गुह्यतमं रम्यं मेध्यं वृन्दावनस्थितम् ॥
अक्षरं नित्यमानन्दं गोविन्दस्थानमव्ययम् ।
गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ॥
मुक्तिस्तत्र यतः स्पर्शात्तन्माहात्म्यं किमुच्यते ।
तस्मात् सर्व्वात्मना देवि ! हृदिस्थं कुरु तद्वनम् ॥
वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ।
अन्यारण्येषु स्थानेषु बाल्यपौगण्डयौवनम् ॥
कालिन्दीमकरन्दोऽस्य कर्णिकायाः प्रदक्षिणम् ।
नानानिर्म्माणगम्भीरं जलसौरभमोहनम् ।
आनन्दाहततन्मिश्रमकरन्दधनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णैः समुज्ज्वलम् ॥
चक्रवाकादिविहगैर्म्मञ्जुनानाकलस्वनैः ।
शोभमानं जलं रम्यं तरङ्गातिमनोहरम् ॥
तस्योभयतटी रम्या शुद्धकाञ्चननिर्म्मिता ।
गङ्गाकोटीगुणः प्रोक्तो यत्र स्पर्शवराटकः ॥
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।
कालिन्दीकर्णिकाकृष्टमभिन्नमेकविग्रहम् ॥”
इति पाद्मे पातालखण्डे १ अध्यायः ॥
(इदमेव भगवत्याः पीठस्थानानामन्यतमम् ।
यथा, देवीभागवते । ७ । ३० । ६९ ।
“रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥”)

वृन्दावनेश्वरः, पुं, (वृन्दावनस्य ईश्वरः ।) श्रीकृष्णः ।

यथा, --
“यन्नखेन्दुरुचिर्ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः ।
गुणत्रयमतीतं तं वन्दे वृन्दावनेश्वरम् ॥”
अपि च ।
“पुरुषः प्रकृतिश्चाद्यौ राधावृन्दावनेश्वरौ ।
प्रकृतिर्विकृतिः सर्व्वं विना वृन्दावनेश्वरम् ॥”
इति पाद्मे पातालखण्डे ९ अध्यायः ॥ * ॥
अन्यच्च ।
“यदा नित्यः स्वयं कृष्णः सच्चिदानन्दविग्रहः ॥
षण्णां गुणानां शीली तु भगवच्छब्दसंज्ञितः ॥
पृष्ठ ४/४८५
नित्यधामा गुणातीतः साक्षाद्वृन्दावनेश्वरः ।
असौ प्रकटलीलायां वासुदेवोऽभवत् प्रभुः ॥
गोपीनां कामपूर्णाय नित्यानां रमणाय च ।
गोपालानां विनोदाय स्वयं नन्दसुतोऽभवत् ॥”
इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥

वृन्दावनेश्वरी, स्त्री (वृन्दावनस्येश्वरी ।) राधा ।

यथा, --
“राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि ।
साक्षाल्लक्ष्मीस्तु विज्ञेया प्राकट्येनैव पार्व्वति ! ॥
वृषभानुसुता या तु नित्यानन्दस्वरूपिणी ।
गान्धर्व्विकान्तलीलायां श्रीः श्यामा कृष्णवल्लभा ।
वृन्दावनेश्वरी राधा साक्षात् कृष्णात्मिका परा ॥”
इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥

वृन्दिष्ठः, त्रि, (अयमेषामतिशयेन वृन्दारकः

श्रेष्ठः । वृन्दारक + इष्ठन् । “प्रियस्थिरेति ।”
६ । ४ । १५७ । वृन्दादेशः ।) अयमनयोरेषां वा
अतिशयेन वृन्दारको देवो मुख्यो वा । इति
मुग्धबोधटीकायां दुर्गादासः ॥

वृन्दीयान्, [स्] त्रि, (अयमनयोरतिशयेन वृन्दा-

रकः । वृन्दारक + इयसुन् । प्रियस्थिरेति वृन्दा-
देशः ।) वृन्दिष्ठः । अयमनयोरेषां वा अति-
शयेन वृन्दारकः इत्यर्थे ईयसुप्रत्ययेन निष्पन्न-
मिदम् । इति मुग्धबोधव्याकरणम् ॥

वृश, इर् य वृत्याम् । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) इर्, अवृशत् अव-
र्शीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य,
वृश्यति वरं कन्या । इति दुर्गादासः ॥

वृशः, पुं, (वृ + “जनिदाच्युसृवृमदीति ।” उणा०

४ । १०४ । इति शक् ।) उन्दुरुः । इति
शब्दरत्नावली ॥ वासकः । इत्यमरटीकायां
भरतः ॥

वृशा, स्त्री, ओषधीविशेषः । इत्युणादिकोषः ॥

वृश्चिकः, पुं, (व्रश्चू छेदने + “वृश्चिकृष्योः किकन् ।”

उणा० २ । ४० । इति किकन् ।) शूककीटः ।
इत्यमरः ॥ शुयापोका इति भाषा ॥ तत्पर्य्यायः ।
शूककीटकः २ । इति शब्दरत्नावली ॥ कीट-
विशेषः । विछा इति भाषा । तत्पर्य्यायः ।
अलिः २ द्रोणः ३ वृश्चनः ४ । इति राज-
निर्घण्टः ॥ द्रुणः ५ । इति शब्दरत्नावली ॥
पृदाकुः ६ अरुणः ७ अली ८ । इति जटा-
धरः ॥ * ॥ वृश्चिकविषस्य लक्षणमाह ।
“दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च ।
वृश्चिकस्य विषं याति पश्चाद्दंशोऽवतिष्ठते ॥”
असाध्यवृश्चिकदष्टस्य लक्षणमाह ।
“दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः ।
मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥”
असाध्यैर्व्वृश्चिकैस्तेषामेवानुवृत्तैः । हृदादिषू-
पहतः हृदादिकार्य्यरहितो भवति । अत्यर्थं
वेदनार्त्त इत्यन्वयः ॥ * ॥ अस्य चिकित्सा ।
“जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः ।
सुखोष्णो मधुना लेपाद्वृश्चिकस्य विषं हरेत् ॥
गन्धमाघ्राय मृदितसूर्य्यावर्त्तदलस्य तु ।
वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥”
इति भावप्रकाशः ॥ * ॥
अथ वृश्चिकविषहरमन्त्रः । ॐ सर स्फुः ह ॐ
हिलि मिलि चिलि चिलि स्फुः ब्रह्मणे स्फुः
सर्व्वेभ्यो देवेभ्यः स्फुः । इति तन्त्रसारः ॥ * ॥
(यथा, ऋग्वेदे । १ । १९१ । १६ ।
“वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥”
“वृश्चिकस्यैतद्विषं अरसमसारं बाधकं न भवति ।”
इति तद्भाष्ये सायणः ॥ विषस्य विशेषविवरणन्तु
अत्रैव १ -- १६ मन्त्रेषु द्रष्टव्यम् ॥ * ॥) मेषादि-
द्वादशराश्यन्तर्गताष्टमराशिः । अस्याधिष्ठात्री
देवता वृश्चिकः । विशाखाशेषपादानुराधा-
ज्येष्ठासमुदायेनैतद्राशिर्भवति । स च शीर्षो-
दयः । श्वेतवर्णः । जलराशिः । उत्तरदिक्पतिः ।
कफप्रकृतिः । जलचरः । बहुपुत्त्रः । बहुस्त्री-
सङ्गः । चित्रतनुः । विप्रवर्णश्च । अस्य विशेष-
संज्ञाः । सौम्यः । अङ्गना । युग्मम् । समः ।
स्थिरः । पुष्करः । सरीसृपजातिः । ग्राम्यः ।
तद्राशिजात एतादृशो भवति । मौनी । मन्द-
गतिः । कृपालुः । कुबुद्धिः । नीचसङ्गश्च । इति
बृहज्जातकादयः ॥ * ॥ तल्लग्नजातफलम् ।
“वृश्चिकोदयसंजातः शौर्य्यवानतिदुष्टधीः ।
भवेद्विज्ञानसम्पन्नो विग्रही सुभगः सुधीः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
ओषधीभेदः । इति भेदिनी ॥ हालिकः ।
हालः । इति संक्षिप्तसारोणादिवृत्तिः ॥ मदन-
वृक्षः । कर्कटः । गोमयकीटः । इति भरतः ॥
अग्रहायणमासः । इति सारसुन्दरी ॥

वृश्चिकप्रिया, स्त्री, (वृश्चिकस्य प्रिया ।) पूतिका ।

इति शब्दमाला ॥

वृश्चिकर्णी, स्त्री, आखुकर्णी । इति राजनिर्घण्टः ॥

वृश्चिका, स्त्री, क्षुद्रक्षुपविशेषः । तत्पर्य्यायः । नख-

पर्णी २ पिच्छिला ३ अलिपत्रिका ४ । अस्या
गुणाः । पिच्छिलत्वम् । अम्लत्वम् । अन्तर्वृद्ध्या-
दिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

वृश्चिकाली, स्त्री, (वृश्चिकानामालिर्यत्र ।) क्षुप-

विशेषः । विछाटी इति भाषा । तत्पर्य्यायः ।
वृश्चिपत्री २ विषघ्नी ३ नागदन्तिका ४ सर्प-
दंष्ट्रा ५ अमरा ६ काली ७ उष्ट्रधूसर-
पुच्छिका ८ । इति रत्नमाला ॥ विषाणी ९
नेत्ररोगहा १० उष्ट्रिका ११ अलिपर्णी १२
दक्षिणावर्त्तकी १३ कालिका १४ आगमा-
वर्त्ता १५ देवलाङ्गूलिका १६ करभी १७ भूरि-
दुग्धा १८ कर्कशा १९ स्वर्णदा २० युग्मफला २१
क्षीरविषाणिका २२ भासुरपुष्पा २३ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । हृद्वक्त्रशुद्धि-
कारित्वम् । रक्तपित्तविबन्धारोचकापहत्वम् ।
बल्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“वृश्चिकाली विषघ्नी तु कासमारुतनाशिनी ॥”
इति राजवल्लभः ॥

वृश्चिपत्री, स्त्री, वृश्चिकाली । इति रत्नमाला ॥

वृश्चीरः, पुं, श्वेतपुनर्णवा । इति रत्नमाला ॥

वृष, उ सेचने । प्रजनैश्ये । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-अक० च-सेट् । क्त्वावेट् ।)
उ, वर्षित्वा वृष्ट्वा । इति दुर्गादासः ॥

वृष, क ङ प्रजनैश्ये । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-अक०-सेट् ।) क ङ, वर्षयते ।
अस्य पञ्चमस्वरानुबन्धो लेखकश्रमकृतः
सुधीभिर्हेयः । ञ्यन्तेभ्यः सर्व्वत्र नित्येम् साम्प्र-
दायिकत्वात् । न च प्राचामनुरोधात् पाठ्य
इति वाच्यम् । तर्हि अनृक् व्यक्तौ । क ङ वनृ
वञ्चने । वृत क ङ दीप्तौ । दिव क ङ परि-
कूजने । कदि वर्द्धे । वृष क ङ शक्तिबन्धे ।
जसक् वधेऽनादरे । इत्येषामष्टानामपि पञ्चम-
स्वरानुबन्धापत्तेः वस्तुतस्तु एषां पञ्चमस्वरानु-
बन्धः प्राचीनपठितोऽप्यनर्थः । अतएव रमा-
नाथोऽपि एषामुदनुबन्धः पूर्ब्बपठितधातवो-
ऽर्थान्तरेषु चुरादयः स्युर्नत्वेते पृथग्धातव
इति ज्ञापनार्थ इत्याह । प्रजनो गर्भग्रहणं
ऐश्यमैश्वर्य्यम् । इति दुर्गादासः ॥

वृषं, क्ली, (वृष ऐश्ये + कः ।) वर्हम् । इति शब्द-

माला ॥

वृषः, पुं, (वर्षति सिञ्चति रेत इति । वृष सेचने

+ कः ।) पुरुषगवः । एँडे इति भाषा । तत्-
र्य्यायः । उक्षा २ भद्रः ३ वलीवर्द्दः ४ ऋष भः ५
वृषभः ६ अनड्वान् ७ सौरभेयः ८ गौः ९ ।
इत्यमरः ॥ शृङ्गी १० ककुद्वान् ११ । इति
शब्दरत्नावली ॥ शिखी १२ गन्धमैथुनः १३
पुङ्गवः १४ । इति जटाधरः ॥ * ॥ अस्य
लक्षणादि यथा, --
“अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः ।
गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ।
ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाश्चतुर्व्विधाः ॥
शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः ।
अल्पाशिनो बहुबला वृषभा ब्रह्मजातयः ॥
द्वयोर्लक्षणसम्बन्धात् द्विजातिर्व्वृषभो भवेत् ।
त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥
पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ।
यदृच्छाभोजिनः क्षीणा वृषभा वैश्यजातयः ॥
कृष्णाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः ।
वृहद्वृषणरोषाश्च वृषभाः शूद्रजातयः ॥
द्वयोर्लक्षणसम्पर्कात् द्विजातिर्व्वृषभो भवेत् ॥” * ॥
वात्स्यस्तु ।
“पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः ।
गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ।
एतन्मतानुसारेण भोजः प्राह महीपतिः ॥
ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ।
बह्वाशिनः स्वल्परोषास्ते वृषाः सात्त्विका
मताः ॥
व्यक्ताव्यक्तरुषः शुद्धा दृढा भारवहाः शुभाः ।
बह्वाशिनो बहुबलास्ते वृषा राजसा मताः ॥
विवर्णा विकृताङ्गाश्च निर्ब्बला स्वल्पभोजिनः ।
अपवित्रा बृहद्रोषास्ते वृषास्तामसा मताः ॥
लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् ।
पृष्ठ ४/४८६
त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥” * ॥
अथ गुणाः ।
“नीलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः
स्थिरः ।
भोजदेवेन लिखिता इत्यष्टौ वृषभे गुणाः ॥”
तद्यथा, --
“श्वेतादन्यतरो वर्णः श्वेतः खुरविषाणयोः ।
ललाटपुच्छयोः श्वेतः स नीलः शुभमावहेत् ॥ १ ॥
यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः ।
कुरुते धनवृद्धिं स दोषैर्मुक्तो यदा त्वयम् ॥ २ ॥
वर्णस्तु सहजः पुच्छो रम्यश्च ध्वज उच्यते ।
भर्त्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम् ॥ ३ ॥
पूर्ब्बार्द्धे चोन्नतो यस्तु परार्द्धेचैव नीचकः ।
निर्द्दोषो वाम इत्येष कुरुते रिपुसंक्षयम् ॥ ४ ॥
चन्द्रकं दृश्यते यस्य ललाटे देवनिर्म्मितम् ।
क्षेमनामा वृषः कुर्य्याद् धनधान्यविवर्द्धनम् ॥ ५ ॥
आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः ।
भद्रनामा वृषः कुर्य्यात् भर्त्तुः सर्व्वार्थसाधनम् ॥
६ ॥
आवर्त्तशुक्तिविज्ञानं हयेषु वृषभेष्वपि ।
पादाः सर्व्वेसिता यस्य पुच्छभालौ सितौ तथा ॥
महोक्षा चायते नेत्रे कर्णौ चातिलघू स्थिरौ ।
मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे ॥
तनुरोमा महावेगः स्निग्धगम्भीरनिस्वनः ।
शिव इत्येव कथितः शिवं प्रकुरुते ध्रुवम् ॥ ७ ॥
चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः ।
आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी ॥
रक्तताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः ।
नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥” ८ ॥
गर्गस्तु ।
“महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता ।
कुमारकत्वमित्येते वृषभाणां गुणा मताः ॥” * ॥
अथ दोषाः ।
“व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चलः खरः ।
एते सप्त महादोषा वृषभाणामुदीरिताः ॥
विषाणौ विषमौ यस्य खुराश्च विषमास्तथा ।
नेत्रकान्तेऽथवा गात्रे पञ्जरे वैकृतं भवेत् ।
व्यङ्ग इत्येष कथितो धनधान्यविनाशनः ॥ १ ॥
पूर्ब्बार्द्ध मन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् ।
पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः ॥ २ ॥
परार्द्धमुन्नतं यस्य पूर्ब्बार्द्धञ्चातिनीचकम् ।
गच्छतश्चरणौ लग्नौ शब्दायेते खरस्वरः ।
विषमो नाम वृषभः सम्पत्तिक्षयकारकः ॥ ३ ॥
हिमकुन्देन्दुसङ्काशा गात्रेषु लोमबिन्दवः ।
श्वित्री नाम महादोषो दूरतस्तं परित्यजेत् ॥ ४ ॥
शृङ्गाग्रे दीपिकाकारं ज्वलते केकरे दृशौ ।
कपिलः पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ५
दन्तशृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् ।
मुष्को वा चलते यस्य स चलः कुलनाशनः ॥ ६ ॥
आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः ।
न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥
गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते ।
विस्तृते विषमे घोणे जिह्वा चैवासिता भवेत् ।
स खरो दूरतस्त्याज्यो भर्त्तुः सर्व्वार्थनाशनः ॥
७ ॥
स्वल्पता दीर्घरोमत्वं क्षीणता भारवाहिता ।
व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः ॥ * ॥
ब्रह्मादिजातिभेदेन चत्वारो ये वृषा मताः ।
चतुर्व्विधानां लोकानां त एव स्युः शुभावहाः ॥
यो मोहादन्यजातीयं कुरुते वृषभं नरः ।
तस्य नश्यन्ति वित्तानि धनमायुः कुलं बलम् ॥
वातपित्तकफोद्रेका व्याधयो ये वृषे मताः ।
तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः ॥”
इति वृषपरीक्षा । इति भोजराजकृतयुक्ति-
कल्पतरुः ॥ * ॥ अस्य लक्षणं उत्सर्गविधिश्च
यथा, --
मनुरुवाच ।
“भगवन् श्रोतुमिच्छामि वृषभस्य च लक्षणम् ।
वृषोत्सर्गविधिञ्चैव तथा पुण्यफलं महत् ॥
मत्स्य उवाच ।
धेनुमादौ परीक्षेत सुशीलां लक्षणान्विताम् ।
अव्यङ्गामपरिक्लिष्टां जीववत्सामरोगिणीम् ॥
स्निग्धवर्णां स्निग्धखुरां स्निग्धशृङ्गां तथैव च ।
मनोहराकृतिं सौम्यां सुप्रमाणामनुद्धताम् ॥
आवर्त्तैर्द्दक्षिणावर्त्तैर्मुक्ता दक्षिणतश्च सा ।
वामावर्त्तैर्वामतश्च विस्तीर्णजघना तथा ॥
मृदुसंहतताम्रोष्ठीं रक्तजिह्वां सुपूजिताम् ।
अश्यावदीर्घस्फुटिता रक्तजिह्वा तथा च या ॥
अस्रावाविलनेत्रा च सफैरविरलैर्दृढैः ।
वैदूर्य्यमधुवर्णैश्च जलवुद्वुदसन्निभैः ॥
रक्तस्निग्धैश्च नयनैस्तथा रक्तकनीनिकैः ।
सप्त चतुर्द्दश दन्तास्तथा चाश्यामतालुका ॥
षडुन्नता सुपार्श्वोरू पृथु पञ्च समायताः ।
अष्टायतशिरोग्रीवाधराजन्मसुलक्षणा ॥
मनुरुवाच ।
षडुन्नताः के भगवन् ! के च पञ्च समायताः ।
आयताश्च तथैवाष्टौ धेनूनां के शुभावहाः ॥
मत्स्य उवाच ।
उरः पृष्ठं शिरः कुक्षिः श्रोणी च वसुधाधिप ।
षडुन्नतानि धेनूनां पूजयन्ति विचक्षणाः ॥
कर्णनेत्रललाटश्च पञ्च भास्करनन्दन ! ।
समायतानि शस्यन्ते पुच्छं सास्ना च सक्थिनी ॥
चत्वारश्च समा राजन्नेवमष्टौ मनीषिभिः ।
शिरोग्रीवायतास्त्वेते भूमिपाल स्मृता दश ॥
तस्याः सुतं परीक्षेत वृषभं लक्षणान्वितम् ।
उन्नतस्कन्धककुदमृजुलाङ्गूलकम्बलम् ॥
महाकटितटस्कन्धं वैदूर्य्यमणिलोचनम् ।
प्रबालगर्भशृङ्गाग्रं सुदीर्घपृथुबालधिम् ॥
नवाष्टदशसंख्यैर्वा तीक्ष्णाग्रैर्द्दशनैः शुभैः ।
मल्लिकाक्षश्च मोक्तव्यो गृहेऽपि धनधान्यदः ॥
वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते ।
श्वेतो रक्तश्च कृष्णश्च गौरः पाटल एव च ॥
भद्रिणस्ताम्रपृष्ठश्च सबलः पञ्चकालकः ।
पृथुकर्णो महास्कन्धः श्लक्ष्णरोमा च यो भवेत् ॥
रक्ताक्षः कपिलो यश्च रक्तशृङ्गतलो भवेत् ॥
श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते ॥
स्निग्धरक्तेन वद्धेन क्षत्त्रियस्य प्रशस्यते ।
काञ्चनाभेन वैश्यस्य कृष्णेनाप्यन्त्यजन्मनः ॥
यस्य प्रागायते शृङ्गे भ्रूमुखाभिमुखे सदा ।
सर्व्वेवामेव वर्णानां स च सर्व्वार्थसाधकः ॥
मार्ज्जारपादः कपिलो धन्यः कपिलपिङ्गलः ।
श्वेतोमार्ज्जारपादस्तु धन्यो मणिनिभेक्षणः ॥
करटः पिङ्गलश्चैव श्वेतपादस्तथैव च ।
सर्व्वपादशिरो यश्च द्बिपादश्वेत एव च ॥
कपिञ्जलनिभो धन्यस्तथा तित्तिरिसन्निभः ।
आकर्णमूलात् श्वेतस्तु मुखं यस्य प्रकाशते ॥
नन्दीमुखः स विज्ञेयो रक्तवर्णो विशेषतः ।
श्वेतञ्च जठरं यस्य भवेत् पृष्ठञ्च गोपतेः ॥
ऋषभः स समुद्राक्षः सततं कुलवर्द्धनः ।
मल्लिकापुष्पचित्रस्तु धन्यो भवति पुङ्गवः ॥
कमलैर्मण्डलैश्चापि चित्रो भवति भाग्यदः ।
अतसीपुष्पवर्णस्तु तथा धन्यतरः स्मृतः ॥ * ॥
एते धन्यास्तथाधन्यान् कीर्त्तयिष्यामि तेऽनघ ।
कष्णताल्वोष्ठदशना रूक्षशृङ्गशफाश्च ये ॥
अव्यक्तवर्णा ह्रस्वाश्च व्याघ्रभस्मनिभाश्च ये ।
ध्माङ्क्षगृध्रसवर्णाश्च तथा मूषिकसन्निभाः ॥
कुण्ठाः काणास्तथा खञ्जाः केकराक्षास्तथैव
च ।
विषमश्वेतपादाश्च उद्भ्रान्तनयनास्तथा ॥
नैते वृषाः प्रमोक्तव्या न च धार्य्यास्तथा गृहे ।
मोक्तव्यानाञ्च धार्य्याणां भूयो वक्ष्यामि लक्ष-
णम् ॥ * ॥
स्वस्तिकाकारशृङ्गाश्च मेधौघसदृशस्वनाः ।
महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ॥
महोरस्का महोत्साहा महाबलपराक्रमाः ।
शिरः कर्णौ ललाटञ्च बालधिश्चरणानि च ॥
नेत्रे पार्श्वे च कृष्णानि शस्यन्ते चन्द्रभांसि च ।
श्वेतान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ॥
भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलबालधिः ।
पुरस्तादुद्यते नीलवृषभश्च प्रशस्यते ॥
शुक्तिध्वजपताकाभा येषां राजी विराजते ।
अनड्वाहश्च ते धन्या वित्तसिद्धिजयावहाः ॥
प्रदक्षिणं निवर्त्तन्ते स्वयं ये विनिवर्त्तिताः ।
समुन्नतशिरोग्रीवा धन्यास्ते यूथवर्द्धनाः ॥
रक्तशृङ्गाग्रनयनः श्वेतवर्णो भवेद्यदि ।
सफैः प्रबालसदृशैर्नास्ति धन्यतरस्ततः ॥
एते धार्य्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ।
धारिता यदि वा मुक्ता धनधान्यविवर्द्धनाः ॥
चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ।
लाक्षारससवर्णाश्च तन्नीलमिति निर्द्दिशेत् ॥
वृष एव स मोक्तव्यो न स धार्य्यो गृहे भवेत् ।
तदर्थमेवाचरति लोके गाथा पुरातनी ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत् ॥
एवं वृषं लक्षणसंप्रयुक्तं
गृहोद्भवं क्रीतमथापि राजन् ।
पृष्ठ ४/४८७
मुक्त्वा न शोचेन्मरणं महात्मा
मोक्षे मतिञ्चाहमतोऽभिधास्ये ॥”
इति मात्स्ये वृषभलक्षणं नाम १८१ अध्यायः ॥
जलपानार्थमागतवृषस्य निवारणे दोषो यथा,
“गवां तृष्णाभिभूतानां पानार्थमभिधावताम् ।
अन्तरायो भवेद्यस्तु स भवेद्ब्रह्मघातकः ॥”
इति कर्म्मलोचनम् ॥ * ॥
अस्य दानविधिर्यथा, --
वशिष्ठ उवाच ।
“यथेश्वरो दरिद्रो वा करोति विधिना नृप ।
दानं सर्व्वगुणोपेतं तच्छृणुष्व यथातथम् ॥
भारादित्रिपलान्तञ्च वृषं कृत्वा विधानतः ।
युतं धेन्वाथवा दद्याच्छक्तितो नृपसत्तम ॥
यन्मया धेनवः प्रोक्ता वृषास्तावन्त एव हि ।
हरावेते नियोज्याः स्युर्हराय च तथा वृषाः ॥
सर्व्वाभावात्ततो राजन् तिलपात्राणि नित्यशः ।
सर्व्वपापविनाशाय दीयन्ते नृपसत्तम ॥
गोमयेन समालिप्य यववस्त्रसमावृते ।
वृषं हेममयं तत्र रौप्यं वा रत्नसंयुतम् ॥
तस्य नीलमयैः शृङ्गैर्मौक्तिकाक्षिण्यथो रदाः ।
द्वात्रिंशच्छुभवज्राणि विद्रुमौष्ठौ सुनासिका ॥
मारकती विनिर्द्दिष्टा कर्णौ चैवास्मकौ मतौ ।
पद्मरागस्य वै पादाः खुरा रौप्यमयास्तथा ॥
राजतान्यस्य रोमाणि क्षौमवस्त्रेण कम्बलम् ।
पट्टेन पुच्छमुद्दिष्टं सर्वेषामप्ययं विधिः ॥
वृषणौ स्फटिकस्यापि लिङ्गे मणिः प्रकीर्त्तितः ।
यथा धेनुस्तथानड्वान् सुवर्णस्य तु कारयेत् ॥
सर्व्वासां फलमाप्नोति धेनूनां वृषभप्रदः ।
राज्ञः स विभवाद्दानं भक्त्या यः प्रतिपादयेत् ॥
वृषभस्याप्यशक्तौ हि तदनन्तफलं स्मृतम् ।
निःस्वो वाप्येवमेवं हि कृत्वा व्रतमतन्द्रितः ।
तत्फलं समवाप्नोति स्वल्पदानान्न संशयः ॥”
इति वह्निपुराणे वृषदानाध्यायः ॥ * ॥
तद्दानफलं यथा, --
“कन्यादानं वृषोत्सर्गं तीर्थसेवां श्रुतं तथा ।
ये कुर्व्वन्ति गृहस्थास्तु न ते तद्बिषयोपगाः ॥”
इति तत्रैव कन्यादाननामाध्यायः ॥ * ॥
अपि च ।
ब्रह्मोवाच ।
“वृषगावौ समादाय युवानौ लक्षणान्वितौ ।
हेमशृङ्गौ शफे रौप्ये सवस्त्रौ पूजयेन्मुने ! ॥
शिवोमां पूजयित्वा तु तद्दिने यः प्रयच्छति ।
शिवभक्ताय विप्राय रोहिण्यां वा मृगेण वा ॥
न वियोगो भवेत्तस्य सुतपत्नीपतेः कृतः ।
वातरंहसवैमानैर्गच्छेच्छिवपुरं द्बिज ॥
तत्र भोगांश्चिरं भुक्त्वा इह आगत्य जायते ।
समृद्धौ धनधान्याभ्यां पुत्त्रमित्रसमाकुलः ॥
यो वा रत्नसमायुक्तं गोयुगं पूजयेन्मुने ।
प्रयच्छति शिवोमा च प्रीयेतां भावितात्मनः ॥
स सर्व्वपापदुःखाभ्यां विमुक्तः क्रीडते सदा ।
इह लोके भवेद्धन्यो देहान्ते परमं पदम् ॥”
इति देवीपुराणे गोरत्नव्रतनामाध्यायः ॥ * ॥
शिववृषकारणं यथा, --
श्रीकृष्ण उवाच ।
“अथ गर्व्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्वणम् ।
मत्वा मनसि संहर्त्ता सर्व्वेषां जगतामिति ।
कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम् ।
विहाय शूलं मद्दत्तं मदीयं कवचं परम् ॥
चिरं बभूव समरं वर्षमेकं दिवानिशम् ।
न कोऽपि जेतुं कं शक्तो द्वौ समौ समरे
सदा ॥
पृथिव्याञ्च रणं कृत्वा दैत्येन्द्रो मायया प्रिये ।
अत्यूर्द्ध्वञ्च समुत्तस्थौ पञ्चाशत्कोटियोजनम् ॥
उत्तस्थौ शङ्करस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः ।
जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः ॥
वज्रमुष्टिप्रहारेण सद्यो मूर्च्छामवाप सः ।
क्षणेन चेतनां प्राप्य कोपाद्दानवपुङ्गवः ।
शिवं सयानमुत्तोल्य पातयामास भूतले ॥
तदाहं कलया शीघ्रं वृषरूपं विधाय च ।
सयानं शङ्करं धृत्वा विषाणाभ्यामुरुक्रमम् ।
ददौ तस्मै स्वकवचं स्वशूलमरिमर्द्दनम् ॥
मया दत्तेन शूलेन जघान त्रिपुरं हरः ।
मामेव दर्पहन्तारं तुष्टाव व्रीडितः पुनः ॥
तत्याज शङ्करो दर्पं विघ्नबीजं ततो विभुः ।
ज्ञानानन्दस्वरूपश्च निर्लिप्तः सर्व्वकर्म्मसु ॥
ततोऽहं वृषरूपेण वहामि तेन तं प्रियम् ।
मम प्रियतमो नास्ति त्रैलोक्येषु शिवात् परः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३६ अध्यायः ॥
मेषादिद्वादशराश्यन्तर्गतद्वितीयराशिः । तत्प-
र्य्यायः । तावुरिः २ । अस्य विशेषसंज्ञा ।
सौम्यः । अङ्गना । युग्मम् । समः । स्थिरः ।
पुष्करः । अयं चतुष्पात् । निशासु ग्राम्यः ।
दिवा वन्यः । ह्रस्वाख्यः । दक्षिणदिक्पतिः ।
निशाख्यः । पृष्ठोदयाख्यः । अस्याधिष्ठात्री देवता
वृषः । कृत्तिकापादत्रयरोहिणीसमुदायमृगशि-
रोऽर्द्धेनैतद्राशिर्भवति । स च शीलस्वभावः ।
सुन्दरभूमिस्वामी । वातप्रकृतिः । श्वेतवर्णः ।
वैश्यजातिः । महाशब्दकरः । मध्यमस्त्रीसङ्गः ।
मध्यमसन्तानश्च । एतद्राशिजात एतादृग्-
भवति । दाता । वाग्दुःस्वरः । निर्भयः । पर-
दाराभिलाषी । इति बृहज्जातकादयः ॥ * ॥
एतद्राशिजातफलम् ।
“स्थिरमतिं सुमतिं कमनीयतां
कुशलतां हि नृणामुपभोगताम् ।
वृषगतो हिमगुर्भृशमादिशेत्
सुकृतिनः कृतिनश्च सुखान्यपि ॥” * ॥
तल्लग्नजातफलम् ।
“वृषलग्ने भवेज्जातो गुरुभक्तः प्रियंवदः ।
गुणी कृती धनी लुब्धः शूरः सर्व्वजनप्रियः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । (यथा, --
“पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
शशो मृगो वृषोऽश्वश्च स्त्रीपुसोर्जातिलक्षणम् ॥”
इति रतिमञ्जरी ॥)
तस्य लक्षणं यथा, --
“बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः
सकलरुचिरदेहः सत्यवादी वृषोऽयम् ॥”
इति च रतिमञ्जरी ॥ * ॥
एकादशमन्वन्तरीयेन्द्रः । यथा, --
“रुद्रपुत्त्रस्य ते पुत्त्रान् वक्ष्याम्येकादशस्य तु ।
सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरुर्गुरुः ॥
क्षत्त्रबद्धा दृढायुश्च आर्द्रकः पुत्त्रकस्तथा ।
विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥
एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृषः ।
दशग्रीवो रिपुस्तस्य स्त्रीरूपी घातयिष्यति ॥”
इति गारुडे ८७ अध्यायः ॥
(कामान् वर्षतीति । वृष + कः ।) धर्म्मः ।
(यथा, मनुः । ८ । १६ ।
“वृषो हि भगवान् धर्म्मस्तस्य यः कुरुते ह्यलम् ।
वृषलं तं विदुर्द्दवास्तस्याद्धर्म्मं न लोपयेत् ॥”)
शृङ्गी । उत्तरपदस्थश्चेत् श्रेष्ठः । (यथा, हरि-
वंशे । १४१ । ३८ ।
“शारदं वर्षणं यद्बत् सहेद्बीरो गवांपतिः ।
तद्वद्यदुवृषः सेहे वाणवर्षमरिन्दमः ॥”)
मूषिकः । शुक्रलः । वास्तुस्थानभेदः । इति
मेदिनी ॥ वासकः । इति विश्वः ॥ श्रीकृष्णः ।
इति त्रिकाण्डशेषः ॥ शत्रुः । इति जटाधरः ॥
कामः । बलवान् । इत्यनेकार्थकोषः ॥ ऋषभ-
नामौषधम् । इति राजनिर्घण्टः ॥ (पतिः ।
यथा, काशीखण्डे ।
“स्ववृषं या परित्यज्य परवृषे वृषायते ।
वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ॥”)

वृषकर्णी, स्त्री, सुदर्शना । इति रत्नमाला ॥

सुदर्शनगुलञ्च इति भाषा ॥

वृषगन्धा, स्त्री, (वृषस्य गन्धो यस्याः ।) बस्तान्त्री ।

इति राजनिर्घण्टः ॥

वृषचक्रं, क्ली, (वृषाकारं चक्रम् ।) कृषिकर्म्मोक्त-

वृषाकारचक्रम् । यथा, --
“वृषचक्रं वृषाकारं सर्व्वावयवसंयुतम् ।
लिखित्वा विन्यसेद्भानि वृषनामर्क्षपूर्ब्बकम् ॥
मुखाक्षिकर्णशीर्षेषु शृङ्गे स्कन्धे द्विकं द्विकम् ।
त्रीणि पृष्ठे द्वयं पुच्छेऽष्टौ पादे तूदरे त्रिकम् ॥
हलप्रवाहबीजोप्तिप्रारम्भादिदिनर्क्षकम् ।
यदङ्गेषु स्थितं तस्माद्वक्ष्ये सर्व्वं शुभाशुभम् ॥
आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा ।
शीर्षे धृतिस्तथा शृङ्गे सौख्यं स्कन्धे च मङ्गलम् ॥
पृष्टे कष्टं शुभं पुच्छे भ्रमः पादे सुखं हृदि ।
चन्द्रयोगादिदं प्रोक्तं वृषचक्रं फलं बुधैः ॥”
इति ज्योतिस्तत्त्वम् ॥

वृषणः, पुं, अण्डकोषः । इत्यमरः ॥ तस्य लक्षणं

यथा, --
“स्थूललिङ्गो दरिद्रः स्याद्दुःख्येकवृषणी भवेत् ।
विषमे स्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे ।
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यो मणिभिर्भवेत् ॥”
अपि च ।
“जलान्त एकवृषणो वृषणाभ्यां चलः स्त्रियाम् ।
पृष्ठ ४/४८८
समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥”
इति गारुडे ६३ । ६५ अध्यायौ ॥

वृषणकच्छूः, स्त्री, (वृषणस्य कच्छूः ।) क्षुद्ररोग-

विशेषः । तल्लक्षणं यथा, --
“स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः ।
प्रक्लिद्यते तदा स्वेदात् कण्डूं जनयते तदा ॥
ततः कण्डूयनात् क्षिप्रं स्फोटं स्रावश्च जायते ।
प्राहुर्व्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ॥
उत्सादनं उद्वर्त्तनम् । मलः मैल् इति लोके ।
प्रक्लिद्यते आर्द्रो भवति ॥ * ॥ तच्चिकित्सा
यथा, --
“सर्ज्जाब्दकुष्ठसैन्धवसितसिद्धार्थैः प्रकल्पितो
योगः ।
उद्वर्त्तनेन नियतं शमयति वृषणस्य कण्डूतिम् ॥
भिषग्वृषणकच्छून्तु चिकित्सेत् पामरोगवत् ।
अहिपूतननिर्द्दिष्टक्रिययापि च तां हरेत् ॥”
इति भावप्रकाशः ॥

वृषणश्वः, पुं, इन्द्रस्य घोटकः । इति त्रिकाण्डशेषः ॥

(एतन्नामकनृपविशेषः । यथा, ऋग्वेदे । १ ।
५१ । १३ ।
“मेनाभवो वृषणश्वस्य सुक्रतो ॥”
“वृषणश्वस्य एतदाख्यस्य राज्ञः मेनाभवो
मेनानाम कन्या भूः ।” इति तद्भाष्ये सायणः ॥ * ॥
सेचनसमर्थाश्वयुक्ते, त्रि । यथा, ऋग्वेदे । ८ ।
२० । १० ।
“वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ॥”
“वृषणश्वेन वृषभिः सेचनसमर्थैरश्वैरुपेतेन ।”
इति तद्भाष्ये सायणः ॥)

वृषण्वसु, क्ली, इन्द्रस्य धनम् । इति जटाधरः ॥

(त्रि, वर्षणकर्त्ता । यथा, ऋग्वेदे । २ । ४१ । ८ ।
“न यत्परो नान्तर आदधर्षद्वृषण्वसू ॥”
“वृषण्वसू हे धनस्य वर्षितारौ ।” इति तद्भाष्ये
सायणः ॥)

वृषदंशकः, पुं, (वृषं मूषिकं दशतीति । दंश +

ण्वुल् ।) विडालः । इत्यमरः ॥ (यथा, साहित्य-
दर्पणे १० परिच्छेदे ।
“क्षिपसि शुकं वृषदंशकवदने ॥”)

वृषध्वजः, पुं, (वृषो ध्वजो वाहनं यस्य ।) शिवः ।

इत्यमरः ॥ (यथा, काव्यादर्शे २ स्वभावा-
ख्याने ।
“जटाभिःस्निग्धताम्राभिराविरासीद्वृषध्वजः ॥”)
हेरम्बः । पुण्यकर्म्मा । इति विश्वः ॥

वृषध्वाङ्क्षी, स्त्री, नागरमुस्ता । इति राज-

निर्घण्टः ॥

वृषनाशनः, पुं, (वृषस्य नाशनं यस्मात् ।) विडङ्गः ।

इति शब्दमाला ॥

वृषपतिः, पुं, (वृषस्य पतिः ।) षण्डः । शिवः ।

इति केचित् ॥

वृषपत्रिका, स्त्री, वस्तान्त्री । इति राज-

निर्घण्टः ॥

वृषपर्णी, स्त्री, (वृषस्य मूषिकस्य कर्ण इव पर्णं

यस्याः । ङीष् ।) आखुपर्णो । इति रत्नमाला ॥
वृक्षविशेषः । पुराती इति भाषा । तत्पर्य्यायः ।
दध्याली २ चक्राङ्गी ३ सुदर्शना ४ । इति
राजनिर्घण्टः ॥

वृषपर्व्वा, [न्] पुं, शिवः । दैत्यभेदः । (यथा,

महाभारते । १ । ६७ । १६ ।
“वृषपर्व्वेति विख्यातः श्रीमान् यस्तु महा-
सुरः ॥”
अस्य विवरणन्तु तत्रैव द्रष्टव्यम् ॥ * ॥) भृङ्गा-
रुवृक्षः । कशेरुः । इति विश्वः ॥ (विष्णुः ।
यथा, महाभारते । १३ । १४९ । ४१ ।
“वृषाही वृषभो विष्णुर्वृषपर्व्वा वषोदरः ॥”
राजविशेषः । यथा, मार्कण्डेयपुराणे । १३४ । ५ ।
“जगृहे नरराजस्य सकाशाद्बृषपर्व्वणः ॥”)

वृषभः, पुं, (वृष सेचने । वृष + “ऋषिवृषिभ्यां

कित् ।” उणा० ३ । १२३ । इति अभच् । स च
कित् ।) वृषः । (यथा, मनौ । ९ । ५० ।
“यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ॥”)
श्रेष्ठः । (यथा, महाभारते । ३ । ३३ । ८७ ।
“सृञ्जयैः सह कैकेयैर्व्वृष्णीनां वृषभेण च ॥”)
वैदर्भीरीतिभेदः । इति मेदिनी ॥ आदिजिनः ।
इति हेमचन्द्रः ॥ कर्णरन्ध्रम् । ऋषभनामौष-
धम् । इत्युणादिकोषः ॥ * ॥ (चतुर्व्विधपुरु-
षान्तर्गतपुरुषविशेषः । यथा, --
“शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् ।
वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥”
इति रतिमञ्जरी ॥)
गोशब्दे अलिखनात् प्रसङ्गादत्र आतिदेशिक-
गोहत्या लिख्यते ।
“गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् ।
याति गोविप्रयोर्मध्ये गोहत्याञ्च लभेत्तु सः ॥
दण्डैर्गास्ताडयन्मूढो यो विप्रो वृषवाहनः ।
दिने दिने गवां हत्यां लभते नात्र संशयः ॥
ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् ।
भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम् ॥
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥
पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् ।
गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥
यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्ध्रिरेव च ।
सूर्य्योदये च द्बिर्भाजी स गोहत्यां लभेत् ध्रुवम् ॥
अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् ॥
पितॄंश्च पर्व्वकाले च तिथिकाले च देवताः ।
न सेवतेऽतिथिं यो हि स गोहत्यां लभेद्ध्रुवम् ॥
स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ॥
कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेत्
ध्रुवम् ।
गोमार्गं खननं कृत्वा ददाति शस्यमेव च ।
तडागे वा तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।
अर्थलोभादथाज्ञानात् स गोहत्यां लभेत् ध्रुवम् ॥
राजके दैवके यत्नाद्गोस्वामी गां न पालयेत् ।
दुःखं ददाति यो भूढो गोहत्यां लभते ध्रुवम् ॥
प्राणिनं लङ्घयेद् यो हि देवार्च्चामनलं जलम् ।
नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद्ध्रुवम् ॥
शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः ।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ! ।
न सम्भ्रमान्नमेद्यो हि स गोहत्यां लभेत् ध्रुवम् ॥
न ददात्याशिषं कोपात् प्रणताय च यो द्विजः ।
विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत् ध्रुवम् ॥
गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी ।
यथा श्रुतं सूर्य्यवक्त्रात् किं भूयः श्रोतुमिच्छसि ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

वृषभगतिः, पुं, (वृषभेण गतिर्यस्य ।) शिवः । इति

हारावली ॥

वृषभध्वजः, पुं, (वृषभः ध्वजो वाहनं यस्य ।)

शिवः । इति केचित् ॥ (यथा, रघुः । २ । ३६ ।
“अमुं पुरः पश्यसि देवदारुं
पुत्त्रीकृतोऽसौ वृषभध्वजेन ॥”)

वृषभाक्षी, स्त्री, इन्द्रवारुणी । इति राजनिर्घण्टः ॥

वृषचक्षुषि, क्ली ॥

वृषभानुः, पुं, सूरभानपुत्त्रः । स च राधिकापिता ।

यथा, --
“सुचन्द्रो वृषभानुश्च ललाभ जन्म गोकुले ।
पद्मावत्याश्च जठरे सूरभानस्य रेतसा ॥
जातिस्मरो हरेरंशः शुक्लपक्षे यथा शशी ।
ववर्द्धानुदिनं तत्र व्रजगेहे व्रजाधिपः ॥
कलावती कान्यकुब्जे बभूवायोनिसम्भवा ।
जातिस्मरा महासाध्वी सुन्दरी कमला-
कला ॥
कान्यकुब्जे नृपश्रेष्ठो भनन्दन उरुक्रमः ।
स तां संप्राप योगान्ते यज्ञकुण्डसमुत्थिताम् ॥
कृत्वा वक्षसि राजेन्द्र स्वकान्तायै ददौ मुदा ।
मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता ।
ददर्श नन्दः पथि तां गच्छतीञ्च मुदान्वितः ॥
नन्द उवाच ।
शृणु राजेन्द्र वक्ष्यामि विशेषवचनं शुभम् ।
सम्बन्धं कुरु कन्याया विशिष्टेन च सांप्रतम् ॥
सूरभानसुतः श्रीमान् वृषभानुर्व्र जाधिपः ।
नारायणांशो गुणवान् सुन्दरश्च सुपण्डितः ॥
कन्या तेऽयोनिसंभूता यज्ञकुण्डसमुद्भवा ।
त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती ।
स च योग्यस्तद्दुहितुस्तद्योग्या ते च कन्यका ॥
भनन्दन उवाच ।
सम्बन्धो हि विधिवशो न मे साध्यो व्रजाधिप ।
प्रजापतिर्योगकर्त्ता जन्मदाताहमेव च ॥
वृषभानुप्रिया धात्रा लिखिता चेत् सुता मम ।
पुरा भूतैव को वाहं केनान्येन निवार्य्यते ॥
नृपानुज्ञामुपादाय व्रजश्रेष्ठो व्रजं गतः ।
गत्वा स कथयामास सूरभानस्य संसदि ॥
सूरभानश्च यत्नेन नन्देन च समादरम् ।
सम्बन्धं योजयामास गर्गद्बारा च सत्वरम् ॥
वृषभानुर्मुदा युक्तः प्राप्य ताञ्च कलावतीम् ।
पृष्ठ ४/४८९
रेमे सुनिर्ज्जने रम्ये बुबुधे न दिवानिशम् ॥
तयोः कन्या च कालेन राधिका सा बभूव ह ।
दैवात् श्रीदामशापेन श्रीकृष्णस्याज्ञया पुरा ।
अयोनिसम्भवा सा च कृष्णप्राणाधिका सती ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥

वृषभाषा, स्त्री, (वृषेण धर्म्मेण भासते इति । भास

+ अच् । स्त्रियां टाप् ।) अमरावती । इति
त्रिकाण्डशेषः ॥

वृषयः, पुं, (वृ + “वृह्रोः षुग्दुकौ च ।” उणा० ४ ।

१०० । इति कयन् षुगागमश्च ।) आश्रयः ।
इत्युणादिकोषः ॥

वृषलः, पुं, गृञ्जनः । शूद्रः । (यथा, मनौ । ४ ।

१४० ।
“नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥”
अस्य नामनिरुक्तिर्यथा, तत्रैव । ८ । १६ ।
“वृषो हि भगवान् धर्म्मस्तस्य यः कुरुते ह्यलम् ।
वृषलं तं विदुर्द्देवास्तस्माद्धर्म्मं न लोपयेत् ॥”)
चन्द्रगुप्तराजः । वाजी । इति मेदिनी ॥
अधार्म्मिकः । इति जटाधरः ॥

वृषलात्मजः, त्रि, (वृषलस्यात्मजः ।) अधार्म्मिक-

जातः । इति केचित् ॥ शूद्रोद्भवश्च ॥

वृषली, स्त्री, पितृगृहे अविवाहिता रजस्वला

कन्या । यथा । अत्रिकाश्यपौ ।
“पितुर्गेहे च या कन्या रजः पश्यत्यसंस्कृता ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥”
इत्युद्वाहतत्त्वम् ॥
स्वपतिं परित्यज्य या परपतिगामिनी । यथा, --
“स्ववृषं या परित्यज्य परवृषे वृषायते ।
वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ॥”
इति काशीखण्डः ॥
(वृषलस्य भार्य्या । ङीप् ।) शूद्री च ॥ (यथा,
महानिर्व्वाणतन्त्रे । १ । ४७ ।
“शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः ॥”)

वृषलीपतिः, पुं, (वृषल्याः पतिः ।) वृषलीविवाह-

कर्त्ता । यथा, --
“यस्तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्ब्बलः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिम् ॥”
इत्युद्वाहतत्त्वम् ॥
“यदि शूद्रां व्रजेत् विप्रो वृषलीपतिरेव सः ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥

वृषलोचनः, पुं, (वृषस्य लोचने इव लोचने यस्य ।)

मूषिकः । इति हमचन्द्रः ॥ वृषनयने, क्ली ॥

वृषवाहनः, पुं, (वृषो वाहनं यस्य ।) शिवः । इति

केचित् ॥

वृषशत्रुः, पुं, (वृषस्यासुरविशेषस्य शत्रुः ।)

विष्णुः । इति त्रिकाण्डशेषः ॥

वृषसृक्की, [न्] पुं, भृङ्गरोलः । इति शब्दमाला ॥

वृषस्यन्ती, स्त्री, (वृषं नरं शुक्रलं वा इच्छति

मैथुनाय । वृष + “सुप आत्मनः क्यच् ।” ३ ।
१ । ८ । इति क्यच् । “अश्वक्षीरेति ।” ७ । १ ।
५१ । इति सुगागमः । ततः । “लटः शतृ-
शानचाविति ।” ३ । २ । १२४ । इति शतृ ।
“उगितश्च ।” ४ । १ । ६ । इति ङीप् ।) कामुकी ।
इत्यमरः ॥ वृषेण जब्धुमिच्छन्ती गौः । इति
व्याकरणम् ॥ तथा च ।
“लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवागमत् ।
मन्मथायुधसम्पातव्यथ्यमानमतिः पुनः ॥”
इति भट्टिः ॥

वृषा, स्त्री, मूषिकपर्णी । इत्यमरः ॥ कपिकच्छूः ।

इति हेमचन्द्रः ॥

वृषा, [न्] पुं, (वर्षतीति । वृष सेचने + “कनिन्

युवृषितक्षीति ।” उणा० १ । १५६ । इति
कनिन् ।) इन्द्रः । (यथा, रघुः । १० । ५२ ।
“प्राजापत्योपनीतं तत् अन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता ॥”)
कर्णः । वेदनाज्ञानम् । दुःखम् । इति मेदिनी ॥
वृषः । (यथा, ऋग्वेदे । १० । ४३ । ८ ।
“वृषा न क्रुद्धः पतयत् रजःसु ॥”
“रजःसु लोकेषु वृषा न यथा वृषभः क्रुद्धः सन्
प्रतिवृषभवधाय पतयत् गच्छति ।” इति तद्-
भाष्ये सायणः ॥) षोटकः । इति हेमचन्द्रः ॥
(यथा, ऋग्वेदे । ७ । ६९ । १ ।
“आवां रथो रोदसी बद्बधानो
हिरण्ययो वृषभिर्यात्वश्वैः ॥”
“हे अश्विनौ वां रथो वृषभिः युवभिरश्वैर्युक्तः
सन्नायातु ।” इति तद्भाष्ये सायणः ॥ पिता ।
यथा, ऋग्वेदे । ७ । २० । ५ ।
“वृषा जजान वृषणं रणाय ॥”
“वृषा सेक्ता पिता कश्यपो वृषणं कामानां
वर्षितारमिन्द्रम् ।” इति तद्भाष्ये सायणः ॥
त्रि, वर्षकः । यथा, ऋग्वेदे । १० । ६७ । ७ ।
“ब्रह्मणस्पतिर्वृषभिर्वराहैः ॥”
“वृषभिर्वर्षितृभिर्वराहैर्वराहारैः ।” इति तद्-
भाष्ये सायणः ॥)

वृषाकपायी, स्त्री, (वृषाकपेः विष्णोः शिवस्य अग्ने-

रिन्द्रस्य वा भार्य्या । वृषाकपि + “वृषाकप्यग्नीति ।”
४ । १ । ३७ । इति ङीप् । ऐकारादेशश्च ।) लक्ष्मीः ।
गौरी । इत्यमरः ॥ स्वाहा । इति भरतः ॥
शची । इति स्वामी ॥ (यथा, ऋग्वेदे । १० । ८६ । १३ ।
“वृषाकपायि रेवति सुपुत्त्र आदु सुस्नुषे ॥”
“हे वृषाकपायि कामानां वर्षकत्वादभीष्टदेश-
गमनाच्चेन्द्रो वृषाकपिस्तस्य पत्नि ।” इति तद्भाष्ये
सायणः ॥) जीवन्ती । शतावरी । इति मेदिनी ॥

वृषाकपिः, पुं, (“वृषः कपिरस्येति । अन्येषा-

मपीति दीर्घः ।” इति उणा० ४ । १४३ ।
इत्यस्य वृत्तौ उज्ज्वलदत्तः ।) विष्णुः । (यथा
हरिवंशे । २१६ । ४७ ।
“ततो विभुः प्रवरवराहरूपधृक्
वृषाकपिः प्रसभमथैकदंष्ट्रया ॥”)
शिवः । (यथा, हरिवंशे । ३ । ५२ ।
“वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा ॥”)
अग्निः । इति मेदिनी ॥ इन्द्रः । इति वृषाक-
पायीशब्दस्य शचीवाचकत्वदर्शनात् ॥ (यथा,
भागवते । ६ । १३ । १० ।
“एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् ।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥”
सूर्य्यः । यथा, महाभारते । ३ । ३ । ६१ ।
“त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ॥”)

वृषाकरः, पुं, माषः । इति राजनिर्घण्टः ॥

वृषाङ्कः, पुं, (वृषोऽङ्कोऽस्य ।) शिवः । (यथा,

भागवते । ८ । ८ । १ ।
“पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः ॥”)
साधुः । भल्लातकः । षण्डः । इति मेदिनी ॥

वृषाङ्कजः, पुं, डमरुः । इति शब्दरत्नावली ॥

वृषाञ्चनः, पुं, (वृषेण अञ्चति गच्छतीति । अञ्चु-

गतौ + ल्युः ।) शिवः । इति त्रिकाण्डशेषः ॥

वृषाणकः, पुं, शिवः । इति त्रिकाण्डशेषः ॥

वृषान्तकः, पुं, (वृषस्यासुरस्यान्तकः ।) विष्णुः ।

इति शब्दरत्नावली ॥

वृषायणः, पुं, चटकः । इति हारावली ॥ (वृषेण

अयनं गमनं यस्य ।) शिवश्च ॥

वृषाहारः, पुं, (वृष उन्दूर आहारो यस्य ।)

विडालः । इति हारावली ॥

वृषी, [न्] पुं, मयूरः । इति शब्दमाला ॥

वृषी, स्त्री, व्रतिनां कुशादिमयासनम् । इत्यमरः ॥

(यथा, देवीभागवते । ५ । ३२ । ३० ।
“शिष्यो ददौ वृषीं तस्मै गुरुणा नोदित-
स्तदा ॥”)

वृषोत्सर्गः, पुं, (वृषस्योत्सर्गः ।) अशौचान्त-

द्वितीयदिनादिकर्त्तव्यत्रिशूलचक्राङ्कितवत्सतरी-
चतुष्टययुक्तवृषत्यागः । वृषाभावे तत्प्रतिनिधि-
र्यथा, --
“एकादशेऽह्नि सम्प्राप्ते वृषाभावो भवेद्यदि ।
दर्भैः पिष्टैस्तु संपाद्य तं वृषं मोचयेद्बुधः ॥
वृषोत्सर्ज्जनवेलायां वृषाभावः कथञ्चन ।
मृत्तिकाभिस्तु दर्भैर्व्वा वृषं कृत्वा विमोचयेत् ॥”
इति गारुडे प्रेतकल्पे ६ अध्यायः ॥
तस्य विधिर्यथा । कालविवेकेऽप्यग्निपुराणम् ।
“एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।
प्रेतलोकं परित्यज्य स्वर्गलोकं स गच्छति ॥
आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सरे ।
वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता ।
सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः ॥”
यस्य प्रेतस्येति सामान्यतः श्रुतेः पितृभिन्न-
स्यापि वृषोत्सर्गः प्रतीयते ॥ * ॥ अथ वृषोत्-
सर्गं व्याख्यास्यामः । कार्त्तिक्यां पौर्णमास्यां
रेवत्यामाश्वयुज्यां दशाहे गते संवत्सरेऽतीते
वेति । अत्र मृततिथिमादाय संवत्सरगणना
दशाहवदित्यविरोधः । एकादशाह इति आद्य-
श्राद्ध इति चाशौचान्ताद्द्वितीयदिनपरम् ।
“अशौचान्ताद्द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् ।
काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्वितम् ॥
संपूज्य द्बिजदाम्पत्यं नानाभरणभूषणैः ।
वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥”
इति मत्स्यपुराणेनैकवाक्यत्वात् ॥
प्रेतवृषोत्सर्गे वृद्धिश्राद्धं न कर्त्तव्यम् ।
पृष्ठ ४/४९०
“नार्व्वाक् संवत्सराद्वृद्धिर्वृषोत्सर्गे विधीयते ।
सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते ॥”
इत्युशनसो वचनात् ॥ * ॥
वृषलक्षणमाह कात्यायनः ।
“अव्यङ्गो जीववत्सायाः पयस्विन्याः सुतो बली ।
एकवर्णो द्बिवर्णो वा यो वा स्यादष्टकासुतः ॥
यूथादुच्चतरो यस्तु समो वा नीच एव वा ।
सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्वृषः ॥”
अष्टकासुतः अष्टकासु जातः । कामधेनुप्रभृ-
तिषु मत्स्यपुराणम् ।
“चरणानि मुखं पुच्छं यस्य श्वेतानि गोपते ।
लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत् ॥
वृष एव स मोक्तव्यो न सन्धार्य्यो गृहे वसन् ।
तदर्थमेषा चरति लोके गाथा पुरातनी ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
गौरीं वाप्युद्वहेद्भार्य्यां नीलंवा वृषमुत्सृजेत् ॥”
वत्सतरीर्विशेषयति ।
“अग्रतो लोहिता पत्नी पार्श्वाभ्यां नीलपाण्डरे ।
पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे ॥” * ॥
वैधकर्म्मार्थमण्डपान्तर्व्वितानमुक्तं हयशीर्षपञ्च-
रात्रम् । “नवेन चित्रवस्त्रेण वितानं कल्पयेद्-
बुधः ।” अत्र च ।
“शुक्तवासाः शुचिर्भूत्वा ब्राह्मणान् स्वस्तिवाच्य
च ।
कीर्त्तयेद्भारतञ्चैव तथा स्यादक्षयं हविः ॥”
इति दानधर्म्मस्थवृषोत्सर्गप्रकरणीयवचनात्
अक्षयहविष्ट्वकामेन स्वस्तिवाचनानन्तरं भार-
तनामोच्चारणं कार्य्यम् ।
“यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् ।
महाभारतमाख्याय पूर्व्वां सन्ध्यां विमुञ्चति ॥”
इत्यादि-पुराणोक्त-प्रातर्महाभारतोच्चारणवत्
राढदेशीयास्तु विराटपर्व्व पाठयन्ति । भविष्ये ।
“वृषोत्सर्गश्च द्बिविधो जीवतो वा मृतस्य च ।”
इत्युपक्रम्य ।
“अनुज्ञां गृह्य च पुनर्गणेशं पूजयेद्घटे ।
ग्रहांश्चैव यजेत् पश्चात् विष्णुं संपूजयेत् ततः ॥”
छन्दोगपरिशिष्टम् ।
“गोशालायां प्रणीयाग्निं संस्कृत्य व्रीहितण्डु-
लान् ।
अग्निपूषेन्द्रेश्वरेभ्यो निर्व्वपेत् पायसं चरुम् ॥”
गोशालायामिति प्रधानकल्पः । वृषभ इत्युप-
क्रम्य ।
“उत्स्रष्टव्यो विधानेन श्रुतिस्मृतिनिदर्शनात् ।
प्रागुदक्प्लवने देशे मनोज्ञे निर्जने वने ॥”
सङ्कल्पानन्तरं यजमान एव प्रथमं ब्रह्मवरणा-
दिकं कुर्य्यात् तत्र ब्रह्मवरणं प्रथमतः । ज्योति-
ष्टोमे ब्रह्मोद्गातृहोत्रध्वर्य्यु इत्यादिदर्शनेन ।
गृह्यसंग्रहे ।
“द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि ।
यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ।
एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः ॥
तृतीयः प्रब्रूयात् प्रश्नं ततः कर्म्म समाचरेत् ॥”
वरणानन्तरं कुशण्डिकां समाप्य यथाविधिना
चरुपाकञ्च कृत्वा चरुहोमं कुर्य्यात् । ततः
स्विष्टिकृद्धोममहाव्याहृतिहोमौ कार्य्यौ ॥ * ॥ ततः
“वृषस्य दक्षिणे पार्श्वे त्रिशूलाङ्कं समुल्लिखेत् ।
वृषा ह्यसीति सव्येऽस्य चक्राङ्कमपि दर्शयेत् ।
तप्तेन पश्चादयसा स्पष्टौ तावेव कारयेत् ॥
अथैनं कलसस्थाभिरद्भिरेको वृषेण वा ।
सर्व्वौषधिसुगन्धीभिः स्नापयेद्वत्सिका अपि ॥
परिधाप्याहते शुक्ले वाससी हेमपट्टकम् ।
सत्यमिथ्यावेषासोमसामभ्यां शिरसि न्यसेत् ॥”
ततो वृषवत्सतरीणामलङ्कारादिकं दत्त्वा विल्व-
वकुलनिर्म्मितयूपे उपयूपे च बद्ध्वा एनं युवानं इति
मन्त्रं पठित्वा वत्सतरीचतुष्टयसहितं वृषं तत्तत्-
फलकामी अद्येत्यादिवाक्येनोत्सृजेत् ॥ * ॥ ततो
यूपाद्विमुच्य वत्सतरीचतुष्टयसहितं वृषमैशान्यां
चालयित्वा प्रार्थयेत् । यथा, --
“न खादेत् परशस्यानि नाक्रामेद्गर्भिणीञ्च
गाम् ।
धर्म्मोऽसि त्वं चतुष्पादश्चतस्रस्ते प्रियास्त्विमाः ।
चतुर्णां पोषणार्थाय मयोत्सृष्टास्त्वया सह ॥
देवानाञ्च पितॄणाञ्च मनुष्याणाञ्च योषितः ।
भूतानां तृप्तिजननास्त्वया सार्द्धं व्रजन्त्विमाः ॥
नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।
त्वयि मुक्तेऽक्षया लोका मम सन्तु निरामयाः ॥
मा मे ऋणोऽस्तु दैवोऽथ पैत्रो भौतोऽथ
मानुषः ।
धर्म्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा ॥
यत्किञ्चित् दुष्कृतं कर्म्म लोभमोहात् कृतं
भवेत् ।
तस्मादुद्धृत्य देवेश पितुः स्वर्गं प्रयच्छ मे ॥
यावन्ति तव लोमानि शरीरे सम्भवन्ति च ।
तावद्वर्षसहस्राणि स्वर्गे वासोऽस्तु मे पितुः ॥”
इति मत्स्यपुराणोक्तं पठेत् । तत आचाराद्-
वृषपुच्छगलितोदकेन ब्रह्मपुराणोक्ततर्पणं कुर्य्यात्
ततः प्रकृतदक्षिणां कृत्वा कर्म्मकारयितृभ्यो
दक्षिणां दद्यात् । इति वृषोत्सर्गतत्त्वम् ॥ * ॥
अपि च ।
“कार्त्तिक्यां कारयेत् पूजां यागं देवीप्रियं
सदा ।
गोत्सर्गन्तु प्रकर्त्तव्यं नीलं वा वृषमुतसृजेत् ।
सर्व्वयज्ञफलं ब्रह्म प्राप्नुयादविचारवन् ॥
मनुरुवाच ।
अश्वमेधसमं पुण्यं वृषोत्सर्गादवाप्यते ॥
रेवत्याञ्चाश्विने मासि कार्त्तिक्यां कार्त्तिकस्य
वा ॥
गोविवाहोऽथवा कार्य्यो माघ्यां वै फाल्गुने-
ऽपि वा ॥
शिवोमामङ्गलञ्चैत्रे तृतीयायां महाफलम् ।
अश्वत्थोडुम्बरीयागं विवाहविधिना भवेत् ॥
सतोरणं भवेत्तीर्थे उत्सर्गो गोकुलेऽपि वा ।
चतस्रो वत्सिका भद्रा द्वौ वा संभवतोऽपि वा ॥
वत्सं सर्व्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत् ।
अलंकृत्य यथाशोभमुत्सर्गं कारयेन्मुने ॥
विवाहमेकवत्सीयनीलेन भवते सदा ।
वृषेण अश्वमेधस्य यागस्य फलदायकम् ॥
जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
रोहितो यस्तु वर्णेन शङ्खवर्णखुरो वृषः ।
लाङ्गूलशिरसश्चैव स वै नीलवृषः स्मृतः ॥
अङ्कित्वोत्सृज्यते पूर्व्वं गाञ्चालंकृत्य सर्व्वतः ।
तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत् ॥
धातुना हेमतारेण आयसेनाथवाङ्कयेत् ।
एवं कृत्वा अवाप्नोति फलं वाजिमखोदितम् ॥
यमुद्दिश्योत्सृजेद्वत्सं स लभेताविचार-
णात् ।
यथा शिवोमजा अर्च्चा पूजिता सर्व्वकामदा ।
एवं देवत्रयं यष्ट्वा अनन्तं लभते फलम् ॥
मङ्गलाविहितं यच्च यच्च गोदानजं फलम् ।
सहस्रक्रतवस्तेन वृषोत्सर्गादवाप्नुयात् ॥”
इति देवीपुराणे पूजाविधि नामाध्यायः ॥

वृष्टिः, स्त्री, (वृष + क्तिन् ।) मेघाज्जलबिन्दुपत-

नम् । तत्पर्य्यायः । वर्षम् २ । इत्यमरः ॥
गोघृतम् ३ परामृतम् ४ वर्षणम् ५ । इति
शब्दरत्नावली ॥ तत्कारणं यथा, --
“अमृतादित्रये यत्र भवन्ति सर्व्वखेचराः ।
तदा वृष्टिः क्रमाज्ज्ञेया धृत्यर्कवसुवासरैः ॥”
इति स्वरोदयः ॥ * ॥
अपि च ।
“ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च ।
सूर्य्याद्धि जायते तोयं तोयात् शस्यानि
शाखिनः ॥
तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः ।
सूर्य्यग्रस्तञ्च नीरञ्च काले तस्मात् समुद्भवः ।
सूर्य्यो मेघादयः सर्व्वे विधात्रा ते निरूपिताः ॥
यत्राब्दे यो जलधरो गजश्च सागरो मरुत् ।
शस्याधिपो नृपो मन्त्री विधात्रा ते निरू-
पिताः ॥
जलाढकानां शस्यानां तृणानाञ्च निरूपितम् ।
अब्देऽब्देऽस्त्येव तत् सर्व्वं कल्पे कल्पे युगे युगे ॥
हस्ती समुद्रादादाय करेण जलमीप्सितम् ।
दद्याद्घनाय तद्दद्याद्वातेन प्रेरितो घनः ।
स्थाने स्थाने पृथिव्याञ्च काले काले यथोचितम् ॥
ईश्वरेच्छयाविर्भूतं तूर्णं भूतं प्रतिबन्धकम् ।
भूतं भव्यं भविष्यञ्च महत् क्षुद्रञ्च मध्यमम् ।
धात्रा निरूपितं कर्म्म केन तात निवार्य्यते ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अः ॥
आसन्नवृष्टिसूचकानि यथा, --
“मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः ।
केकायन्ति प्रतिवने सततं वृष्टिसूचकाः ॥
मेघोत्सुकानां मधुरश्चातकानां मनोहरः ।
श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः ॥
गगने शक्रचापेन कृतं साम्प्रतमास्पदम् ।
धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः ॥”
इति कालिकापुराणे १५ अध्यायः ॥ * ॥
पृष्ठ ४/४९१
वृष्टिफलं यथा, --
“पतिव्रताया वचनान्नोद्गच्छति दिवाकरः ।
सूर्य्योदयं विना नैव स्नानदानादिकाः क्रियाः ॥
नाग्नेर्व्विहरणञ्चैव क्रत्वभावश्च लक्ष्यते ।
नैवाप्यायनमस्माकं विना होमेन जायते ॥
वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोदितैः ।
वृष्ट्यादिनानुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥
निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः ।
एषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः ॥
अधो हि वर्षाम वयं मर्त्याश्चोर्द्ध्वप्रवर्षिणः ।
तोयवर्षेण हि वयं हविर्व्वर्षेण मानवाः ॥
येऽस्माकं न प्रयच्छन्ति नित्या नैमित्तिकीः
क्रियाः ।
क्रतुभागं दुरात्मानः स्वयं येऽश्नन्ति लोलुपाः ॥
विनाशाय वयं तेषां तोयसूर्य्याग्निमारुतैः ।
क्षितिञ्च संदूषयामः पापानामपकारिणाम् ॥
दुष्टतोयादिदोषेण तेषां दुष्कृ तकारिणाम् ।
उपसर्गाः प्रवर्त्तन्ते मरणाय सुदारुणाः ॥
ये चास्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना ।
तेषां पुण्याद्वयं लोकान् वितरामो महा-
त्मनाम् ॥”
इति मार्कण्डेयपुराणे पतिव्रतामाहात्म्यनामा-
ध्यायः ॥ * ॥ वृष्टिजलगुणाः ।
“गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने ।
बल्यं रसायणं मेध्यं पात्रापेक्षि च तत्परम् ॥
दिवार्ककिरणैर्जुष्टं स्पृष्टमिन्दुकरैर्निशि ।
अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ॥
वर्षासु चरन्ति घनैः सहोरगा वियति कीट-
लूताश्च ।
तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्व्वम् ॥
कालेन पक्वं निर्द्दोषमगस्त्येनाविषीकृतम् ।
हंसोदकमितिख्यातं शारदं विमलं जलम् ॥”
इति राजवल्लभः ॥ * ॥
अथ तस्य भेदाः ।
“पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति
द्विधा ।
दिव्यं चतुर्व्विधं प्रोक्तं धाराजं करकाभवम् ॥
तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम् ॥” *
तत्र धारस्य लक्षणं गुणाश्च ।
“धाराभिः पतितं तोयं गृहीतं स्फीतवाससा ।
शिलायां वसुधायां वा धौतायां पतितं च यत् ॥
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्म्मिते ।
भाजने मृण्मये चापि स्थापितं धारमुच्यते ॥
धारनीरं त्रिदोषघ्नमनिर्देश्यं रसं लघु ।
सौम्यं रसायनं बल्यं तर्पणं ह्लादि जीवनम् ॥
पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् ।
तृष्णां हरति तत् पथ्यं विशेषात् प्रावृषि
स्मृतम् ॥” * ॥
अथ धाराजलस्य भेदौ ।
“धाराजलञ्च द्बिविधं गाङ्गसामुद्रभेदतः ।”
तत्र गाङ्गसामुद्रयोर्लक्षणं गुणाश्च ।
“आकाशगङ्गासम्बन्धि जलमादाय दिग्गजाः ।
मेघैरन्तरिता वृष्टीः कुर्व्वन्तीति वचः सताम् ॥
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः ।
सर्व्वथा तज्जलं देयं तथैव चरके वचः ॥
स्थापितं हैमने पात्रे राजते मृण्मयेऽपि वा ।
शाल्यन्नं येन संसिक्तं भवेदक्लेदिवर्णवत् ॥
तत् गाङ्गं सर्व्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा ।
तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् ॥
विस्रञ्च दोषलं तीक्ष्णं सर्व्वकर्म्मसु गर्हितम् ।
सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥
यतोऽगस्त्यस्य विप्रर्षेरुदयात् सकलं जलम् ।
निर्म्मलं निर्व्विषं स्वादु शुक्रलं स्याददोषलम् ॥” *
अतएवाह ।
“फुत्कारविषवातेन नागानां व्योमचारिणाम् ।
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥”
इति भावप्रकाशः ॥

वृष्टिघ्नी, स्त्री, भृङ्गपर्णिका । इति शब्दचन्द्रिका ॥

गुजराटी एलाइच इति भाषा । वृष्टिनाशके,
त्रि ॥

वृष्टिजीवनः, पुं, (वृष्ट्या वृष्टिर्व्वा जीवनं यस्मिन् ।)

देवमातृकदेशः । इति हेमचन्द्रः ॥ वृष्टि-
जीवने, त्रि ॥

वृष्टिभूः, पुं, (वृष्टौ वर्षकाले भूरुत्पत्तिर्यस्य ।) भेकः ।

इति हारावली ॥ वृष्टिभवे, त्रि ॥

वृष्णिः, पुं, (वृष + “सृवृषिभ्यां कित् ।” उणा० ४

४९ । इति निः । स च कित् ।) मेषः । इत्यमरः ॥
यादवः । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । ५ । ७२ । ४ ।
“यथा हि सर्व्वस्वापत्सु पासि वृष्णीनरिन्दम ।
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो
भयात् ॥”)
कृष्णः । इति त्रिकाण्डशेषः ॥

वृष्णिः, त्रि, पाषण्डः । चण्डः । इति शब्दरत्ना-

वली ॥

वृष्णिगर्भः, पुं, श्रीकृष्णः । इति हारावली ॥

वृष्यं, क्ली, (वृष + “विभाषा कृवृषोः ।” ३ । १ ।

१२० । इति क्यप् ।) वाजीकरम् । इति राज-
निर्घण्टः ॥

वृष्यः, पुं, (वृषाय हितः । वृष + यत् ।) माषः ।

इति हेमचन्द्रः ॥

वृष्यः, त्रि, (वृषाय कामुकाय हितः । वृष +

“खलयवमाषेति ।” ५ । १ । ७ । इति यत् ।) शुक्र-
वृद्धिकारकौषधादिः । इति भावप्रकाशः ॥

वृष्यकन्दा, स्त्री, (वृष्यं बलकारकं कन्दं यस्याः ।)

विदारी । इति राजनिर्घण्टः ॥

वृष्यगन्धा, स्त्री, (वृष्यो गन्धो यस्याः ।) वृद्ध-

दारकः । इति शब्दरत्नावली ॥

वृष्यगन्धिका, स्त्री, (वृष्यो गन्धो वस्याः । स्वार्थे

कन् । टापि अत इत्वम् ।) अतिबला । इति
राजनिर्घण्टः ॥

वृष्यवल्लिका, स्त्री, विदारी । इति राजनिर्घण्टः ॥

वृष्या, स्त्री, ऋद्धिनामौषधम् । इति रत्नमाला ॥

शतावरी । आमलकी । इति राजनिर्घण्टः ॥

वृह, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) वर्हति । वृहिर्ध्वनर्द्ध्योरित्यने-
नैवेष्टसिद्धेऽस्य पाठो वृद्धौ इरनुबन्धवर्ज्जनार्थः ।
किन्तु अनेनैवेष्टसिद्धे तत्र ऋद्धि ग्रहणं परत्रा-
नुवृत्त्यर्थमेव । अयं धातुः कैश्चिन्य मन्यते ।
इति दुर्गादासः ॥

वृह, इ ध्वने । ऋद्धौ । सप्तमस्वरी ॥ (भ्वा०-पर०-

अक०-सेट् ।) इ, वृंह्यते । ववृंहिरे गजपतयः ।
इति माघः ॥ आत्मनेपदं प्रमादादिति वल्लभः ॥
ध्वनश्चेति हस्तिकर्त्तृकः । वृंहितं करिगर्जित-
मित्यमरसिंहात् । वृंहितं करिगर्जायां शब्द-
मात्रेऽपि कथ्यते । इति शब्दमहार्णवात् ।
कदाचिदन्यकर्त्तृकोऽपि । तेन श्रीहर्षचरिते
सिंहवृंहितमिति बाणभट्टप्रयोगः । इति दुर्गा-
दासः ॥

वृह, इ कि त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-अक०-सेट् ।) सप्तमस्वरी ।
इ, वृंह्यते । कि, वृंहयति वृंहति । इति
दुर्गादासः ॥

वृह, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) इ, वृंह्यते । ङ, वृंहते ।
इति दुर्गादासः ॥

वृह, इर् ध्वने । ऋद्धौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) इर्, अवृहत् ।
अवर्हीत् । ध्वनः शब्दः । ऋद्धिर्व्वृद्धिः । इति
दुर्गादासः ॥

वृह, श ऊ उद्यमे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-वेट् ।) श, वृहति । ऊ, अवर्हीत् ।
अवृक्षत् । इति दुर्गादासः ॥

वृ(बृ)हच्चञ्चुः, पुं, (वृहती चञ्चुः शाकविशेषः ।)

महाचञ्चुशाकः । इति राजनिर्घण्टः ॥ (वृहती
चञ्चुर्यस्येति दीर्घचञ्चुयुक्ते, त्रि ॥)

वृ(बृ)हच्चित्तः, पुं, फलपूरः । इति शब्दचन्द्रिका ॥

वृ(बृ)हच्छल्कः, पुं, (वृहन् शल्को यस्य ।) चिङ्गट-

मत्स्यः । इति जटाधरः ॥

वृ(बृ)हज्जीवन्ती, स्त्री, वृहज्जीवन्तिकावृक्षः ।

तत्पर्य्यायः । पत्रभद्रा २ प्रियङ्करी ३ मधुरा ४
जीवपुष्टा ५ बृहज्जीवा ६ यशस्करी ७ । अस्या
गुणाः । बहुवीर्य्यदातृत्वम् । भूतविद्रावणत्वम् ।
वेगाद्रसनियामकञ्च । इति राजनिर्घण्टः ॥

वृ(बृ)हड्ढक्का, स्त्री, (वृहती ढक्का ।) ढक्का-

विशेषः । यथा, --
“वृहड्ढक्का तु भेरी स्त्री पुमान् दुन्दुभिरा-
नकः ।
द्रगडः प्रतिपत्तूर्य्यमानकः पटहोऽस्त्रियाम् ॥”
इति जटाधरः ॥

वृ(बृ)हतिका, स्त्री, (वृहती + “बृहत्या आच्छा-

दने ।” ५ । ४ । ६ । इति स्वार्थे कन् ।) उत्तरीय-
वस्त्रम् । इत्यमरः ॥ वृहती । इति रत्नमाला ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/वीर&oldid=44071" इत्यस्माद् प्रतिप्राप्तम्