सामग्री पर जाएँ

शब्दकल्पद्रुमः/विध

विकिस्रोतः तः
पृष्ठ ४/३९५

विध, श विधौ । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) विधिर्विधानम् । श, विधति
वेधा जगत् । अनेकार्थत्वात् छिद्रकरणेऽप्ययम् ।
विधितच्छिद्रितौ विद्धे । इत्यमरः ॥ कर्णवेधः ।
इति दुर्गादासः ॥

विधः, पुं, (विध्यते क्रियते इति । विध + धञर्धे

कः ।) विमानम् । हस्त्यन्नम् । प्रकारः । वेध-
नम् । ऋद्धिः । इति भरतधृतरभसाजयौ ॥

विधवनं, क्ली, कम्पनम् । विपूर्ब्बधूधातोर्भावे अनट्

(ल्युट्)प्रत्ययेन निष्पन्नम् ॥

विधवा, स्त्री, (विगतो धवो भर्त्ता यस्याः ।) मृत-

भर्त्तृका । तत्पर्य्यायः । विश्वस्ता २ । इत्यमरः ॥
जालिका ३ रण्डा ४ यतिनी ५ यतिः ६ । इति
शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १० । ४० । २ ।
“को वां शयुत्रा विधवेव देवरं
मर्यं न योषा कृणुते सधस्थ आ ॥”)
तस्याः कर्त्तव्याकर्त्तव्यानि यथा । विष्णुः ।
“मृतेभर्त्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा इति ।”
ब्रह्मचर्य्यं मैथुनवर्ज्जनं ताम्वूलादिवर्ज्जनञ्च ।
यथा, प्रचेताः ।
“ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥”
अभ्यञ्जनं आयुर्वेदोक्तं पारिभाषिकम् । स्मृतिः ।
“एकाहारः सदा कार्य्यो न द्वितीयः कदाचन ।
पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ॥
गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया पुनः ।
तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ॥”
एतत्तु तर्पणं पुत्त्रपौत्त्राद्यभाव इति मदनपारि-
जातः ॥
“वैशाखे कार्त्तिके माघे विशेषनियमञ्चरेत् ।
स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥”
इति शुद्धितत्त्वम् ॥ * ॥
अपि च ।
“ब्राह्मणी पतिहीना या भवेन्निष्कामिनी सदा ।
एकभक्ता दिनान्ते सा हविष्यान्नरता सदा ॥
न घत्ते दिव्यवस्त्रञ्च गन्धद्रव्यं सुतैलकम् ।
स्रजञ्च चन्दनञ्चैव शङ्खसिन्दूरभूषणम् ॥
त्यक्त्वा मलिनवस्त्रा स्यान्नित्यं नारायणं स्मरेत् ।
नारायणस्य सेवाञ्च कुरुते नित्यमेव च ॥
तन्नामोच्चारणं शश्वत् कुरुतेऽनन्यभक्तितः ।
पुत्त्रतुल्यञ्च पुरुषं सदा पश्यति धर्म्मतः ॥
मिष्टान्नं न च भुङ्क्ते सा न कुर्य्याद्बिभवं व्रजम् ।
एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने ॥
श्रीरामस्य नवम्याञ्च शिवरात्रौ पवित्रया ।
अघोरायाञ्च प्रेतायां चन्द्रसूर्य्योपरागयोः ॥
भ्रष्टद्रव्यं परित्याज्यं भुज्यते परमेव च ।
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ।
सन्न्यासिनाञ्च गोमांसं सुरातुल्यं श्रुतौ श्रुतम् ॥
रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च ।
अलावुर्वर्त्तुलाकारा वर्ज्जनीया च तैरपि ॥
पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ।
यान आरोहणं कृत्वा विधवा नरकं व्रजेत् ॥
न कुर्य्यात् केशसंस्कारं गात्रसंस्कारमेव च ।
केशवेणीजटारूपं तत्क्षौरं तीर्थकं विना ॥
तैलाभ्यङ्गं न कुर्व्वीत न हि पश्यति दर्पणम् ।
मुखञ्च परपुंसाञ्च यात्रा नृत्यं महोत्सवम् ॥
नर्त्तकं गायनञ्चैव सुवेशं पुरुषं शुभम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥
(विधवायास्तु पत्यन्तर-ग्रहणं निषिद्धं न
तद्विवाहशब्दवाच्यञ्च । तत्तु विशेषतो विचा-
रेण ग्रन्थविस्तृतिर्भवेदतस्तद्भीतः केवलं कति-
पयानि वचनान्युद्धृत्य दर्शयामि तानि
सुधीभिर्व्विचारणीयानीति ॥ तत्र याज्ञवल्क्यः ।
“अविप्लुतब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्व्विकां कान्तामसपिण्डां यवीयसीम् ॥”
अनन्यपूर्ब्बिकां दानेनोप भोगेनवा पुरुषान्तरा-
परिगृहीताम् ॥ व्यासः । २ । ३ ।
“सवर्णामसमानार्षाममातृपितृगोत्रजाम् ।
अनन्यपूर्ब्बिकां लध्वीं शुभलक्षणसंयुताम् ॥”
गोतमः । ४ । १ ।
“गृहस्थः सदृशीं भार्य्यां विन्देतानन्यपूर्ब्बि-
काम् ॥”
वशिष्ठः । ८ । १ ।
“गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः
स्नात्वा असमानार्षां अस्पृष्टमैथुनां भार्य्यां
विन्देत ॥” हारीतः । ४ । १ ।
“असमानार्षगोत्रां हि कन्यां सभ्रातृकां शुभाम् ।
सर्व्वावयवसम्पन्नां सुवृत्तामुद्बहेन्नरः ॥”
पारस्करगृह्यसूत्रम् ।
“अग्निमुपधाय कुमार्य्याः पाणिं गृह्णीयात्
त्रिषु त्रिषूत्तरादिषु ॥”
कन्याशब्दार्थः कथ्यते । “कन्या कुमारी” इत्य-
मरः । “कन्यापदस्यादत्तस्त्रीमात्रवचनेन ।”
इत्यादि दायभागटीकायां आचार्य्यचूडा-
मणिः । “कन्यापदस्यापरिणीतामात्रवचनात् ।”
इति रघुनन्दनः ॥ “अनूढात्वेन कन्यापदस्य
सपत्नीकन्या बोधकतया अमुख्यत्वप्रसक्तेः तद्रूपे-
णैव कन्यापदस्य शक्तेः ।” इति श्रीकृष्णतर्का-
लङ्कारः ॥ पूर्ब्बोक्तैर्व्वचनैः कुमारीणामेव परि-
णये विवाहशब्दवाच्यत्वं नतूढानाम् ॥
मनुः । ५ । १५१ -- १५२ ।
“यस्मै दद्यात् पिता त्वेनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितञ्च न लङ्घयेत् ॥
मङ्गलार्थं स्वस्त्ययनं यज्ञस्तासां प्रजापतेः ।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥”
तत्रैव । १६० -- १६३ ।
“मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्त्रापि यथा ते ब्रह्मचारिणः ।
अपत्यलोभात् या तु स्त्री भर्त्तारमतिवर्त्तते ।
सेहनिन्दामवाप्नोति पतिलोकाच्च हीयते ॥
नान्योत्पन्ना प्रजास्तीह न चाप्यस्य परिग्रहे ।
न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते ॥
पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते ।
निन्द्यैव सा भवेल्लोके परपूर्व्वेति चोच्यते ॥”
लघुहारीतः ।
“स्वगोत्राद् भ्रस्यते नारी विवाहात् सप्तमे पदे ।
पतिगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया ॥”
मनुः । ९ । ४७ ।
“सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाहुर्द्ददानीति त्रीण्येतानि सतां सकृत् ॥”
तत्रैव । ५९ -- ६५ ।
“देवराद्वा सपिण्डाद्बा स्त्रिया सम्यक्नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकमुत्पादयेत् पुत्त्रं न द्बितीयं कथञ्चन ।
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्बिदः ॥
अनिर्वृ तं नियोगार्थं पश्यतो धर्म्मतस्तयोः ॥
विधवायां नियोगार्थे निर्व्वृते तु यथाविधि ।
गुरुषच्च स्नुषावच्च वर्त्तेयातां परस्परम् ॥
नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः ।
तावुभौ पतितौ स्यातां स्नुषाग-गुरुतल्पगौ ॥
नान्यस्मिन् विधवा नारी नियोक्तव्या द्बिजा-
तिमिः ।
अन्यस्मिन् हि नियुञ्जाना धर्म्मं हन्युः सना-
तनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित् ।
न विवाहविधाधुक्तं विधवावेदनं क्वचित् ॥”
“न च विवाहविधायकशास्त्रे अन्येन पुरुषेण
सह पुनर्व्विवाह उक्तः ॥” इति कुल्लूकः ॥
तत्रैव । ६८ -- ७० ।
“ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथोभजे दाप्रसवात् सकृत् सकृदृतातृतौ ॥”
“आगर्भग्रहणात् सकृद्गमनोपदेशाच्च यस्मै
वाग्दत्ता तस्यैवापत्यं भवति ।” इति कुल्लूक-
भट्टः ॥ तत्रैव । ७१ ।
“न दत्त्वा कस्यचित् कन्यां पुनर्द्दद्याद्बिचक्षणः ।
दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥”
तत्रैव । ७९ ।
“उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम् ।
न त्यागोऽस्ति द्विषन्त्याश्च नच दायापवर्त्तनम् ॥”
तत्रैव । ९७ ।
“कन्यायां दत्तशुल्कायां म्रियते यदिशुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥”
आश्वलायनगृह्यसूत्रम् । ४ । २ । २१ ।
तामुत्थापयेत् देवरः पतिस्थानीयः अन्तेवासी
जरद्दासः । उदीर्ष्वनार्य्यभि जीवलोकम् ॥
अथ पत्नीमुत्थापयेत् कः देवरः पतिस्थानीयः
स पतिस्थानीय इत्युच्यते । अनेन ज्ञायते
पतिकर्त्तृकं कर्म्म पुंसवनादि पत्यसम्भवे देवरः
पृष्ठ ४/३९६
कुर्य्यात् । अन्तेवासी शिष्यः स वा यो बहुकालं
दास्यं कृत्वा वृद्धोऽभूत् स वा ॥ * ॥ पराशरः ।
४ । २५ -- २६ ।
“ज्येष्ठभ्राता यदा तिष्ठेत् आधानं नैव कारयेत् ।
अनुज्ञातस्तु कुर्व्वीत शङ्खस्य वचनं यथा ॥
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥”
पराशरः । १० । २५ -- ३७ ।
“वन्दिग्राहेण या भुक्ता हत्वा वद्धाबलाद्-
भयात् ।
कृत्वा सान्तपनं कृच्छ्रं शुध्येत् पराशरो-
ऽब्रवीत् ॥
सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्म्मभिः ।
प्राजापत्येन शुद्ध्येत ऋतुप्रस्रवणेन तु ॥
पतत्थर्द्धं शरीरस्य यस्य भार्य्या सुरां पिबेत् ।
पतितार्द्धशरीरस्य निष्कृतिर्न विधीयते ॥
गायत्त्रीं जपमानस्तु कृच्छं सान्तपनञ्चरेत् ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।
जारेण जनयेद्गर्भं गते त्यक्ते मृते पतौ ॥
तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् ।
ब्राह्मणी तु यदागच्छेत् परपुंसा समन्विता ॥
सा तु नष्टा विनिर्द्दिष्टा न तस्या गमनं पुनः ।
कामान्मोहाद् यदा गच्छेत् त्यक्त्वा बन्धुं सुतान्
पतिम् ॥
सा तु नष्टा परे लोके मानुषेषु विशेषतः ।
दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥
दशाहं न त्यजेन्नारी त्यजेन्नष्टश्रुता तथा ।
भर्त्ता चैव चरेत्कृच्छ्रं कृच्छ्रार्द्धं चैव बान्धवाः ॥
तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति ।
ब्राह्मणी तु यदागच्छेत् परपुंसा विवर्ज्जिता ॥
गत्वा पुंसां शतं याति त्यजेयुस्तान्तु गोत्रिणः ।
पुंसो यदि गृहं गच्छेत् तदशुद्धं गृहं भवेत् ॥
पितृमातृगृहं यस्य जारस्यैव तु तद्गृहम् ।
उल्लिख्य तद्गृहं पश्चात् पञ्चगव्येन शुद्ध्यति ॥”
बृहन्नारदीयम् । उद्बाहतत्त्वे ।
“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।
द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।
मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥
दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च ।
दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥
महाप्रस्थानगमनं गोमेधञ्च तथा मखम् ।
इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ॥”
हेमाद्रिपराशरभाष्ययोरादित्यपुराणम् ।
“दीर्घकालं ब्रह्मचर्य्यं घारणञ्च कमण्डलोः ।
देवरेण सुतोत्पत्तिर्द्दत्ता कन्या प्रदीयते ॥
कन्यानामसवर्णानां विवाहश्च द्बिजातिभिः ।
आततायिद्विजाग्र्याणां धर्म्मयुद्धे निहिंसनम् ॥
वानप्रस्थाश्रमस्यापि प्रवेशो विधिदेशितः ।
वृत्तस्वाध्यायसाक्षेपमघसङ्कोचनन्तथा ॥
प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् ।
संसर्गदोषः पापेषु मधुपर्के पशोर्व्वधः ॥
दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्रहः ।
शूद्रेषु दासगोपालकुलमित्रार्द्धशीरिणाम् ॥
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ।
ब्राह्मणादिषु शूद्रस्य पक्वतादिक्रियापि च ॥
भृग्वग्निमरणञ्चैव वृद्धादिमरणं तथा ।
एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ॥
निवर्त्तितानि कर्म्माणि व्यवस्थापूर्ब्बकं बुधैः ।
समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ॥”
याज्ञवल्क्यः । १ । ६५ ।
“सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् ।
दत्तामपि हरेत् कन्यां श्रेयांश्चेद्वर आव्रजेत् ॥”
गोतमः ।
“प्रतिश्रुत्याप्यधर्म्मसंयुक्ताय न दद्यात् ॥”
वशिष्ठः ।
“कुलशीलविहीनस्य षण्डादिपतितस्य च ।
अपस्मारिविधर्म्मस्य रोगिणां वेशधारिणाम् ।
दत्तामपि हरेत्कन्यां सगोत्रोढां तथैवच ॥”
वशिष्ठः उद्वाहतत्त्वे ।
“अद्भिर्व्वाचा प्रदत्तायां म्रियेतोर्द्धं वरो यदि ।
नच मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ॥”
उद्वाहतत्त्वे । यमः ।
“नोदकेन न वा वाचा कन्यायाः पतिरिष्यते ।
पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥”
उद्बाहतत्त्वे कात्यायनः ।
“अनेकेभ्योऽपि दत्तायामनूढायान्तु तत्र वै ।
वरागमश्च सर्व्वेषां दत्तं पूर्व्ववरो हरेत् ॥”
नान्योत्पन्ना प्रजास्तीह नचाप्यन्यपरिग्रहे ।
न द्बितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते ॥
व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्दितम् ।
शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥”
नारदसंहिता ।
“अज्ञातदोषेणोढाया निर्द्दोषा नान्यमाश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्ब्बन्धुः स्वयमाश्रयेत् ॥
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥
अष्टौ वर्षाण्यपेक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता च या नारी परतोऽन्यं समाश्रयेत् ॥
क्षत्रिया षट् समास्तिष्ठेत् अप्रसूता समा
त्रयम् ।
वैश्या प्रसूता चत्वारि द्बे वर्षे इतरा वसेत् ॥
न शूद्रायाः सृतः कालः एष प्रोषितयोषि-
ताम् ।
जीवति श्रूयमाणे तु स्यादेव द्बिगुणो विधिः ॥
अतोऽन्यगमने स्त्रीणां एषु दोषो न विद्यते ॥”
ऋग्वेदे । १० । ४० । २ ।
“को वां शयुत्रा विधवेव देवरम् ॥”
“तत्र दृष्टान्तं दर्शयति शयुत्रा शयने विधवेव
यथा मृतभर्त्तृका नारी देवरं भर्त्तृभ्रातरं अभि-
मुखीकरोति ।” “तथाच यास्कः क्वचिद्रात्रौ
भवथः क्व दिवा क्वाभिप्राप्तिं कुरुथः क्व वसथः
को वां शयने विधवेव देवरं देवरः कस्माद्द्वितीयो
वर उच्यते । विधवा विधातृका भवति विधव-
नाद्बा विधावनाद्वेति चर्म्मशिरा अपिवा धव
इति मनुष्यनाम तद्वियोगाद्विधवा देवरो
दीव्यतिकर्म्मा मर्य्यो मनुष्यो मरणधर्म्मा योषा
यौतेराकुरुते सहस्थाने इति ॥” इति तद्भाष्ये
सायणः ॥
एतेन पूर्व्वोल्लिखितप्रमाणपर्य्यालोचनेन एतत्
प्रतीयते यत् विधवाया विवाहो नास्ति किन्तु
देवरादिना नियोगोऽस्ति । सोऽपि कलौ क्षेत्र-
जादिपुत्त्रवत् नास्त्येव । नष्टेमृते इत्यादि वचने
अन्यवचनैरेकवाक्यतया पतिशब्दस्य पालका-
र्थत्वं वाग्दानपत्यर्थत्वं वा दत्तामपि हरेत्कन्या-
मित्यादिवचने दत्ताशब्दस्य वाग्दत्तापरार्थत्वञ्च
एतच्च सर्व्वं सुधीभिर्भाव्यमिति ॥)

विधा, स्त्री, (विधानमिति । वि + धा + क्विप् ।)

विधिः । प्रकारः । इत्यमरः ॥ (यथा, तैत्ति-
रीयोपनिषदि । ३ । १० । १ ।
“तस्मात् यया कया च विधया बह्वन्नं प्राप्नु-
यात् ॥”)
ऋद्धिः । गजान्नम् । वेतनम् । इति मेदिनी-
शब्दरत्नावल्यौ ॥ कर्म्म । इति हेमचन्द्रः ॥
वेधनभ् । इति त्रिकाण्डशेषः ॥ (आपः । यथा,
वाजसनेयसंहितायाम् । १४ । ७ ।
“सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः ।”
“विधाभिर्या त्वं सजूरसि विदधति सृजन्ति जग-
दिति विधा आपस्ताभिः । आपो वै विधा
अद्भिर्हीदं सर्व्वं विहितमितिश्रुतेः । अप एव
ससर्जादौ इति स्मृतेश्च ।” इति तद्भाष्ये मही-
धरः ॥)

विधाः, [स्] पुं, ब्रह्मा । इत्युणादिकोषः ॥

विघाता, [ऋ] पुं, (विदधातीति । वि + धा +

तृच् ।) ब्रह्मा । इत्यमरः ॥ (विष्णुः । यथा,
महाभारते । १३ । १४९ । ६४ ।
“अविज्ञाता सहसांशुर्विधाता कृतलक्षणः ॥”
“विशेषेण शेषदिग्गजभू भूधरात् समस्तभूतानि
च दघातीति विधाता ।” इति तत्र शाङ्कर-
भाष्यम् ॥ * ॥ महेश्वरः । यथा, महाभारते ।
१३ । १७ । १०४ ।
“उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥”)
कामदेवः । इति मेदिनी । ते, १६ ॥ मदिरा ।
इति राजनिर्घण्टः ॥ भृगुमुनिपुत्त्रः । तस्य
भार्य्या मेरुकन्या नियतिः । तस्य पुत्त्रः प्राणः ।
तस्य सुतः वेदशिराः कविश्च । इति श्रीभाग-
वतमतम् ॥ * ॥ विधातुर्विचित्रा गतिर्यथा, --
कंस उवाच ।
“तृणेन पर्व्वतं हन्तुं शक्तो धाता च दवतः ।
कीटेन सिंहशार्दूलं मशकेन गजं तथा ॥
शिशुना च महावीरं महान्तं क्षुद्रजन्तुभिः ।
भूषिकेण च मार्ज्जारं मण्डूकेन भुजङ्गमम् ॥
एवं जन्येन जनकं भक्ष्येणैव च भक्षकम् ।
वह्रिना च जलं नष्टं वह्निं शुष्कतृणेन च ॥
पीताः सप्त समुद्राश्च द्बिजेनैकेन जह्नना ।
पृष्ठ ४/३९७
धातुर्गतिर्विचित्रा च दुर्ज्ञेया भुवनत्रये ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजम्मखण्डे ७ अध्यायः ॥
अपि च ।
भलन्दन उवाच ।
“सम्बन्धो हि विधिवशो न मे साध्यो व्रजाधिप ।
प्रजापतिर्योगकर्त्ता जन्मदाताहमेव च ॥
का कस्य पत्नी कन्या वा वरः को वा ससाधनः ॥
कर्म्मानुरूपफलदः सर्व्वेषां कारणं विधिः ।
भवितव्यं कृतं कर्म्म तदमोघं श्रुतौ श्रुतम् ॥
अन्यथा निष्फलं सर्व्वमनीशस्योद्यमो यथा ।
वृषभानुप्रिया धात्रा लिखिता चेत् सुता मम ॥
पुरा भूतैव को वाहं केनान्येन निवार्य्यते ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अः ॥ * ॥
अन्यच्च ।
“त्यागे दोषः कामुकीनां शापभाक् पापभाक्
गृही ।
ब्रह्मा जगद्बिधातापि न विरक्तः कलत्रवान् ।
त्यागे दोषस्तत् कदाचिन्नास्माकं त्यक्तयोषि-
ताम् ॥” * ॥
अपरञ्च ।
“स्वान्तर्दुःखेन दुःखार्त्तो यो यं शपति निश्चितम् ।
तं शापं खण्डितुं शक्तो न विधाता जगत्-
प्रभुः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २० अः ॥ * ॥
असौ जगतां पतिर्यथा, --
“द्वौ धाता च विधाता च पौराणौ जगतां
पती ।
द्वौ शास्तारौ त्रिलोकेऽस्मिन् धर्म्माधर्म्मौ प्रकी-
र्त्तितौ ॥”
इति वह्रिपुराणे गणभेदनामाध्यायः ॥
(त्रि, मेधावी । इति निघण्टुः । ३ । १५ ॥
विहितकर्म्मानुष्ठाता । यथा, मनुः । ११ । ३५ ।
“विधाता शासिता वक्ता मेत्री ब्राह्मण उच्यते ।
तस्मै नाकुशलं ब्रूयात् न शुष्कां गिरमीरयेत् ॥”
स्रष्टा । सर्व्वसभर्थः । यथा, रघुः । १ । ७० ।
“तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमपादपम् ॥”
जनयिता । दाता । यथा, कुमारे । १ । ५७ ।
“स्वयं विधाता तपसः फलानां
केनापि कामेन तपश्चचार ॥”)

विघातृभूः, पुं, (विधातुर्ब्रह्मणो भूरुत्पत्तिर्यस्य ।)

नारदमुनिः । इति त्रिकाण्डशेषः ॥

विधात्रायुः, [स्] पुं, (विधातुरायुर्ज्जीवित-

कालपरिमाणं यस्मात् । सूर्य्यक्रियां विना वत्स-
रादिज्ञानासम्भवादेवास्य तथात्वम् ।) सूर्य्यः ।
यथा, --
“वेशदानो विधात्रायुर्द्दिव्यवस्त्रो दिवाकरः ॥”
इति शब्दचन्द्रिका ॥
क्ली, ब्रह्मणो वयः । तद्यथा । चतुर्द्दश-
मन्वन्तरैर्ब्रह्मणः एकं दिनं भपति । तन्मनुष्य-
मानेनैकः कल्पस्त्रिंशत्कल्पे ब्रह्मण एको
मासो भवति । एतादृशैर्द्वादशमासैर्ब्रह्मणः
संवत्सरो भवति । एवं वर्षशतं ब्रह्मण आयुः ।
तत्र पञ्चाशत् वर्षा व्यतीताः । एकपञ्चाशदा-
रम्भेऽधुना श्वेतवाराहकल्पः । अत्र मन्वन्त-
राणि व्यतीतानि षट् अधुना वैवस्वतमन्वन्तरं
वर्त्तते । इति श्रीभागवतमतम् ॥

विधात्री, स्त्री, (वि + धा + तृच् । ङीप् ।) पिप्पली ।

इति शब्दचन्द्रिका ॥ विधानकर्त्त्री । यथा, --
“गतासूनां बाहुप्रकरकृतकाञ्चीपरिलस-
न्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् ।
श्मशानस्थे तल्पे शवहृदि महाकालसुरत-
प्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि
कविः ॥”
इति तन्त्रसारे कर्पू राख्यस्तोत्रम् ॥

विधानं, क्ली, (वि + धा + ल्युट् ।) विधिः । इति

जटाधरः ॥ (यथा, मनुः । ७ । १८१ ।
“यदातु यानमातिष्ठेत् परराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायादरिपुरं शनैः ॥”)
करणम् । इति नानार्थविधिशब्दटीकायां
भरतः ॥ (यथा, रघुः । ७ । १४ ।
“परस्परेण स्पृहणीयशोभं
न चेदिदं द्बन्द्वमयोजयिष्यत् ।
अस्मिन् द्वये रूपविधानयत्नः
पत्युः प्रजानां वितथोऽभविष्यत् ॥”)
करिकवलः । इति हारावली । १९१ ॥ (वेदादि-
शास्त्रम् । यथा, मनुः । १ । ३ ।
“त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः ।
अचिन्त्यस्याप्रमेयस्य कार्य्यतत्त्वार्थवित् प्रभो ! ॥”
नाटकाङ्गविशेषः । यथा, साहित्यदर्पणे । ६ ।
३४६ ।
“सुखदुःखकृतो योऽर्थस्तद्बिधानमिति स्मृतम् ॥”
यथा, बालचरिते ।
“उत्साहातिशयं वत्स तव बाल्यञ्च पश्यतः ।
मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥”)

विधानकं, क्ली, व्यथा । इति शब्दरत्नावली ॥

(विधिः । यथा, कथासरित्सागरे । ४९ । १८० ।
“ततस्तुष्टो भदन्तोऽसौ तस्मायादित्यशर्म्मणे ।
ददौ सुलोचनामन्त्रमर्थितं सविधानकम् ॥”)
विधानवेत्तरि, त्रि ॥

विधानगः, पुं, (विधानं गायतीति । गै + टक् ।)

पण्डितः । इति शब्दरत्नावली ॥

विधायकः, त्रि, विपूर्ब्बधाञ्धातोर्णक (ण्वुल्) प्रत्य-

येन निष्पन्नः ॥ विधानकर्त्ता । (यथा, राज-
तरङ्गिण्याम् । १ । १६९ ।
“स विहारस्य निर्म्माता जुष्को जुष्कपुरस्य यः ।
जयस्वामिपुरस्यापि शुद्धधीः स विधायकः ॥”)
विधिज्ञापकः ॥

विधायी, [न्] त्रि, विधानकर्त्ता । विपूर्ब्बकधाञ्-

धातोर्णिन्प्रत्ययेन निष्पन्नः ॥ (यथा, कथा-
सरित्सागरे । ४१ । ११३ ।
“भार्य्याञ्च काव्यालङ्कारां तादृक्कार्य्यविधा-
यिनीम् ।
भूगृहे स निचिक्षेप पापां तां पुत्त्रघातिनीम् ॥”)

विधाव्यं, क्ली, कम्पनम् । विपूर्ब्बधूधातोर्घ्यण्प्रत्ययेन

निष्पन्नम् ॥

विधिः, पुं, (विधति विदधाति विश्वमिति । विध

विधाने + “इगुपधात् कित् ।” उणा० ४ । ११९ ।
इति इन् । स च कित् ।) ब्रह्मा । (यथा,
नैषधे । २२ । ४७ ।
“विधिर्विधत्ते विधुना बधूनां
किमाननं काञ्चनसञ्चकेन ॥” * ॥
विधीयेते सुखदुःखे अनेनेति । वि + धा +
“उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।)
भाग्यम् । (यथा, मार्कण्डेये । ८ । १८२ ।
“राज्यनाशं सुहृत्यागो भार्य्यातनयविक्रयः ।
हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया ॥”)
क्रमः । विधानम् । इत्यमरः ॥ कालः । इति
मेदिनी । धे, १७ ॥ विधिवाक्यम् । (यथा,
गीतायाम् । १६ । २३ ।
“यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥”)
प्रकारः । नियोगः । इति हेमचन्द्रः ॥ विष्णुः ।
इति हलायुधः । कर्म्म । इति त्रिकाण्डशेषः ॥
(यथा, देवीपुराणे ।
“तस्मात् सूर्य्यः शशाङ्कस्य क्षयवृद्धिविधेर्विभुः ॥”)
गजान्नम् । इति जटाधरः ॥ वैद्यः । इति
राजनिर्घण्टः ॥ यागोपदेशकग्रन्थः । इति
भरतधृतकोषः ॥ षड्विधसूत्रलक्षणान्तर्गत-
लक्षणविशेषः । यथा, --
“संज्ञा च परिभाषा च विधिर्नियम् एव च ।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥”
अप्राप्तप्रापको विधिः । स तु द्बिविधः । वर्णोत्-
पादनरूपोऽभावरूपश्च । वर्णोत्पादनरूपो यथा
सहर्णे र्घ इत्यादि । अभावरूपो द्विविधः ।
नाशो निषेधरूपश्च । नाशविधिर्यथा । लोपो-
ऽस्योमाङोरित्यादि । निषेधविधिर्यथा । नाजो-
ऽन्त इत्यादि । सामान्यप्राप्तस्य विशेषावधारणं
नियमविधिः । यथा । रङो विः सुपि इत्यादि ।
अन्यधर्म्मस्यान्यत्रारोपणमतिदेशविधिः यथा ।
इन्वदिक् इत्यादि । पूर्ब्बसूत्रस्थितपदस्य पर-
सूत्रेषूपस्थितिरधिकारविधिः । स तु त्रिविधः ।
“सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च ।
गङ्गाश्रोत इति ख्यातश्चाधिकारास्त्रयो मताः ॥”
सिंलावलोकितो यथा । वावगोर्द्दान्ते इत्यस्मात्
दान्ते इति पदस्य ऋक्यगित्यन्तेषूपस्थितिः ।
मण्डूकप्लुतिर्यथा । टाभिस्ङेङसीत्यस्मात् अत
इति पदस्य आक्तिमभवि इत्यत्रोपस्थितिः ।
गङ्गाश्रोतो यथा । लेः सि औ जस् इत्यस्मात्
लेरिति पदस्य तद्धितपर्य्यन्तेषूपस्थितिरिति ।
एवञ्च ।
“कार्य्यी कार्य्यं निमित्तञ्च त्रिभिः सूत्रमुदा-
हृतम् ।
कदाचित् कार्य्यिकार्य्याभ्यां क्वचित् कार्य्यनिमि-
त्ततः ॥
यस्य निर्द्दिश्यते कार्य्यं स कार्यी गदितो बुधैः ।
पृष्ठ ४/३९८
क्रियते यत्तु तत् कार्य्यमादेशप्रत्ययागमम् ॥
यस्मात् परं परे यस्मिन् तन्निमित्तं द्विधा मतम् ।
आकाङ्क्षायान्तु सर्व्वेषामनुवृत्तिः परे भवेत् ॥”
इति ॥
एवञ्च ।
“बहिरङ्गविधिभ्यः स्यादन्तरङ्गविधिर्ब्बली ।
प्रत्ययाश्रितकार्य्यन्तु बहिरङ्गमुदाहृतम् ॥
प्रकृत्याश्रितकार्य्यं स्यादन्तरङ्गमिति ध्रुवम् ।
प्रकृतेः पूर्ब्बपूर्ब्बं स्यादन्तरङ्गतरं तथा ॥
सावकाशविधिभ्यः स्याद्बली निरवकाशकः ।
कस्यचिद्भिन्नकार्य्यस्य प्रथमे परतस्तथा ।
सम्भवेद्विषयो यस्य स भवेत् सावकाशकः ॥
आदौ हि विषयो यस्य परतो न हि संभवेत् ।
स पण्डितगणैरुक्तो विधिर्निरवकाशकः ॥
तथा सामान्यकार्य्येभ्यो विशेषकविधिर्ब्बली ।
बहवो विषया यस्य स सामान्यविधिर्भवेत् ॥
स्वल्पः स्याद्विषयो यस्य स विशेषविधिर्म्मतः ।
आगमादेशयोर्म्मध्ये बलीयानागमो विधिः ॥
प्रकृतिं प्रत्ययञ्चापि यो न हन्ति स आगमः ।
आदेश उपघाती यः प्रकृतेः प्रत्ययस्य वा ॥
सकलेभ्यो विधिभ्यः स्याद्बली लोपविधिस्तथा ।
लोपस्वरादेशयोस्तु स्वरादेशो विधिर्बली ॥”
इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥ * ॥
अथ विधिभदाः । तत्र कश्चित् प्रधानविधिः ।
स तु स्वतः फलहेतुक्रियाबोधकः । यथा । यजेत
स्वर्गकाम इत्यादि । कश्चिदङ्गविधिः । स तु
स्वतः फलहेतुक्रियायां कथमित्याकाङ्क्षायां
विधायकः । यथा । इडो यजति इत्यादि ।
कश्चित प्रयोगविधिः । स तु यावदङ्गयुक्तक्रिया-
बोधकः । यथा । यावदङ्गयुक्तं यजेत विलक्षण-
स्वर्गकाम इत्यादि । कश्चिद्गुणफलविधिः ।
स तु आकाङ्क्षानिवृत्तौ अधिकफलाय प्राप्त-
कर्म्मणि गुणविधिः । यथा । गोदोहेनापः प्रणयेत्
पशुकाम इत्यादि । प्रधानविधिश्च द्बिविधः ।
उत्पत्तिर्नियोगश्चेति । तत्रोत्पत्तिस्तु कर्म्मस्वरूप-
बोधकः । यथा आग्नेयाष्टाकपालः अमा-
वास्यायां पौर्णमास्याञ्चाच्युतो भवति इत्यादि ।
नियोगश्च स्वर्गकामाद्यधिकारिबोधकः । यथा ।
स्वर्गकामो यजेत इत्यादि । अङ्गविधिस्तु काल-
देशकर्त्रादिबोधकतया अनियत एव । प्रधानाङ्ग-
विध्योर्विधेयाप्राप्तिप्राप्तिभ्यां त्रैविध्यम् । तत्र
अप्राप्तितो द्वैविध्यम् । तत्राप्यत्यन्ताप्राप्तौ
अपूर्ब्बविधिः । पक्षतोऽप्राप्तौ नियमविधिः ।
विधेयतत्प्रतिपक्षयोः प्राप्तौ परिसङ्ख्याविधिः ।
अतएवोक्तम् ।
“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या विधीयते ॥”
तत्र प्रधानस्य विधिभेदो यथा । अहरहः
सन्ध्यामुपासीत इत्यादिरपूर्ब्बविधिः । अत्र
विथेयस्य सन्ध्यादेः शास्त्रतो रागतो न्यायतो
वा कचिदप्यप्राप्तेः । तथा ऋतौ भार्य्यामुपेयात्
इत्यादिर्नियमविधिः । विधेयस्य भार्य्याभि-
गमनस्य रागतः प्राप्तावपि रागाभावात्
पक्षतोऽप्राप्तेः । तथा । प्रोक्षितं मांसं भुञ्जीत
इत्यादिः परिसङ्ख्याविधिः । विधेयस्य प्रोक्षित-
मांसभक्षणस्य च रागतः प्राप्तेः । अङ्गस्य
विधिभेदो यथा । शारदीयपूजायामष्टम्या-
मुपवसेत् इत्यादिरपूर्ब्बविधिः । अत्र विधेयस्यो-
पवासस्य एतदन्यशास्त्रतो रागतो न्यायतो वा
क्वक्षिदप्राप्तेः । तथा श्राद्धे भुञ्जीत पितृसेवित-
मित्यादिनियमविधिः । विधेयस्य श्राद्धशेष-
भोजनस्य रागतः प्राप्तावपि रागाभावात्
पक्षतोऽप्राप्तेः । तथा । वृद्धिश्राद्धे प्रातरामन्त्रि-
तान् विप्रान् इत्यादिः परिसङ्ख्याविधिः । तत्र
विधेयस्य प्रातर्निमन्त्रणस्य तत्प्रतिपक्षस्य पूर्ब्ब-
दिनसायं निमन्त्रणस्य च पार्व्वणवन्न्यायतः
प्राप्तेरिति स्मृतेरुदाहरणम् । इति धर्म्म-
दीपिका ॥ * ॥ न्यायमते विधिर्यथा, --
“प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा ।
तजज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा ॥”
विधिजन्यज्ञानात् प्रवृत्तिर्दृ श्यते सा इच्छातः
चिकीर्षातः चिकीर्षा च कृतिसाध्यत्वेष्टसाधनत्व-
ज्ञानात् तज्ज्ञानस्य विषयः कार्य्यत्वं इष्टसाधन-
त्वञ्च विधिरिति प्राचीनमतम् ॥ स्वमतमाह
तज्ज्ञापकोऽथवेति इष्टसाधनत्वानुमापक
आप्ताभिप्रायो विधिप्रत्ययार्थः । इति हरि-
दासीयकुसुमाञ्जलिः ॥ * ॥ अपि च आश्रयत्व-
सम्बन्धन प्रत्ययोपस्थापितेष्टसाधनत्वान्वितस्वार्थ-
परपदघटितवाक्यत्वं विधित्वम् । मीमांसकमते
इष्टसाधनत्वं कृतिसाध्यत्वञ्च पृथग्विध्यर्थः ।
इति गदाधरभट्टाचार्य्यकृतविधिस्वरूपः ॥

विधिदर्शी, [न्] पुं, (विधिं द्रष्टुं शीलमस्य ।

दृश् + णिनिः ।) सदस्यः । इत्यमरः ॥

विधिदेशकः, पुं, (विधिं दिशतीति । दिश +

ण्वुल् ।) सदस्यः । इति शब्दरत्नावली ॥

विधिवत्, व्य, यथाविधि । विध्यनुसारेण । यथा, --

“तोषयेत् सततं भार्य्यां विधिवत् पाणिपीडि-
ताम् ॥”
इति कालिकापुराणे १९ अध्यायः ॥ * ॥
अपि च ।
“सन्ध्यामुपास्य विधिवत् विल्वपत्राद्युपा-
र्ज्जयेत् ॥”
इति शिवरात्रिव्रतकथा ॥ * ॥
अन्यच्च ।
“पूजयेद्ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम् ।
व्रतोपवासैर्विधिवत् श्रद्धवा च विमत्सरः ॥”
इति मत्स्यपुराणे योगमाहात्म्यम् ४९ अध्यायः ॥
अपरञ्च ।
“इति नक्षत्रपुरुषमुपोष्य विधिवत् स्वयम् ।
सर्व्वान् कामानवाप्नोति विष्णुलोके महीयते ॥”
इति तत्रैव ५१ अध्यायः ॥

विधुः, पुं, (विध्यति विरहिणं विध्यते राहुणेति

वा । व्यध ताडे + “पॄभिदिव्यधीति ।” उणा०
१ । २४ । इति कुः ।) चन्द्रः । (यथा, --
“पिक ! विधुस्तव हन्ति समं तम-
स्त्वमपि चन्द्रविरोधिकुहूरवः ।
तदुभयोरनिशं हि विरोधिता
कथमहो समता मम तापने ॥” * ॥
विध्यति असुरानिति ।) विष्णुः । कर्पूरः ।
इति मेदिनी । धे, १६ ॥ ब्रह्मा । इति शब्द-
रत्नावली ॥ राक्षसः । इति विश्वः ॥ आयुधः ।
वायुः । इति संक्षिप्तसारोणादिवृत्तिः ॥ * ॥
चन्द्रस्य द्वादशावस्थास्तत्फलादिश्च यथा, --
“चन्द्रस्य द्वादशावस्था भवन्ति शृणु ता अपि ।
त्रिषु त्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम् ॥
प्रवासस्थं पुनर्नष्टं मृतावस्थं जयावहम् ।
हास्यावस्थं क्रीडावस्थं प्रमोदावस्थमेव च ।
विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम् ॥
कम्पावस्थं सुस्थावस्थं द्वादशावस्थगं भवेत् ॥
प्रवासो हानिर्मृत्युश्च जयो हासो रतिः सुखम् ।
शोको भोगो ज्वरः कम्पः सुस्थावस्थाक्रमात्-
फलम् ॥
जन्मस्थः कुरुते तृप्तिं द्वितीये नास्ति निर्वृतिः ।
तृतीये राजसम्मानं चतुर्थे कलहागमः ॥
पञ्चमेन मृगाङ्केण स्त्रीलाभो वै तथा भवेत् ॥
धनधान्यागमः षष्ठे रतिः पूजा च सप्तमे ।
अष्टमे प्राणसन्देहो नवमे कोषसञ्चयः ॥
दशमे कार्य्यनिष्पत्तिर्ध्रुवमेकादशे जयः ।
द्वादशेन शशाङ्केन मृत्युरेव न संशया ॥”
इति गारुडे । ६१ । ३ -- ९ ॥ * ॥
चन्द्रस्य क्षयवृद्धिकारणम् यथा, --
ब्रह्मोवाच ।
“राका चानुमती चैव द्विविधा पूर्णिमा मता ।
सिनीवाली कुहुश्चैव अमावास्या द्बिधैव तु ॥
अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठिता ।
यस्मात् सोमो वसत्यस्याममावासी ततः स्मृता ॥
पूर्ब्बोदितकलाभिन्नपौर्णमास्या निशाकरे ।
पूर्णिमानुमती ज्ञेया पश्चास्तमितभास्करे ॥
यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह ।
तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता ॥
यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः ।
युगपत् सोत्तरा रागस्तदानुमतिपूर्णिमा ॥
राकान्तामनुमन्यन्ते देवताः पितृभिः सह ।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥
सिनीवालीप्रमाणन्तु क्षीणशेषो निशाकरः ।
अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥
कुहेति कोकिलेनोक्तो यः कालस्तु समाप्यते ।
तत्कालसंज्ञा त्वेषा वै अमावास्या कुहूः स्मृता ।
अनुमत्याशवाः कार्य्या सिनीव्याल्याः कुहूं
विना ।
एतासां विरलः कालः कुमात्रति कुहूः स्मृता ॥
कलाः षोडश सोमस्य शुक्ले वर्द्धयते रविः ।
अमृतेनामृतं कृष्णे पीयते दैवतैः क्रमात् ॥
प्रथमां पिबते वह्निर्द्वितीयां पवनः कलाम् ।
विश्वेदेवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः ॥
पञ्चमीं वरुणश्चापि षष्ठीं पिबति वासवः ।
पृष्ठ ४/३९९
सप्तमीमृषयो दिव्या वसवोऽष्टौ तथाष्टमीम् ॥
नवमीं कृष्णपक्षस्य पिबतीन्द्रः कलामपि ।
दशमीं मरुतश्चापि रुद्रा एकादशीं कलाम् ।
द्वादशीन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् ।
चतुर्द्दशीं पशुपतिः कलां पिबति नित्यशः ।
ततः पञ्चदशीञ्चैव पिबन्ति पितरः कलाम् ॥
कलावशिष्टो निष्पीतः प्रविष्टः सूर्य्यमण्डलम् ।
अमायां विशते रश्मौ अमावासी ततः स्मृता ॥
पूर्ब्बाह्णे विशते चार्कं मध्याह्रे तु वनस्पतिम् ।
अपराह्णे विशत्यप्सु स्वयोनिवारिसम्भवः ॥
आपः प्रविष्टः सोमस्य शेषया कलयैकया ।
तृणगुल्मलतावृक्षान्निष्पादयति चौषधीः ॥
तमोषधिं स्थितं गावश्चरन्त्यापः पिबन्ति च ।
तदङ्गानुगतं गोभ्यः क्षारत्वमुपगच्छति ॥
तत्क्षीरममृतं भूत्वा मन्त्रभूतं द्बिजातयः ।
स्वाहाकारवषट्कारैर्जुह्वन्त्याहुतयः क्रमात् ॥
हुतमग्निषु देवाय पुनः सोमं विवर्द्धयेत् ।
एवं संक्षीयते सोमः क्षीणश्चाप्यायते पुनः ।
तस्मात् सूर्य्यः शशाङ्क्षस्य क्षयवृद्धिविधेर्व्विभुः ॥”
इति देवीपुराणे चन्द्रक्षयवृद्धिः ॥ * ॥
ब्रह्मोवाच ।
“यदयं वदते लोको वालिशत्वान्महामते ।
तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम् ॥
यदि सत्यमयं ग्रस्तस्तेजोराशिर्दिवाकरः ।
तत्कथं नोदरस्थेन राहुर्न भस्मसात् कृतः ॥
अथवा राहुणाक्रम्य शत्रुवक्त्रं प्रवेशितः ।
तत् कथं दशनैस्तीक्ष्णैः शतधा न विखण्डितः ॥
विमुक्तश्च पुनर्दष्टस्तथैवाखण्डमण्डलः ।
न चास्यापहृतं तेजो न स्थानादपसारितः ॥
यदि वा ह्येष निष्पीतः कथं दीप्रतरोऽभवत् ।
तस्मान्न तेजसां राशी राहोर्वक्त्रं गमिष्यति ॥
भक्ष्यार्थं सर्व्वदेवानां सोमः सृष्टः स्वयम्भुवा ।
तत्रस्थममृतञ्चापि सम्भूतं सूर्य्यतेजसा ॥
पिबन्त्यम्बुमयं देवाः पितरश्च स्वधामृतम् ।
त्रयञ्च त्रिशतञ्चैव त्रयस्त्रिंशत्तथैव च ॥
त्रयश्च त्रिसहस्राश्च देवाः भोमं पिबन्ति ये ।
राहोरप्यमृतं भाग्यं पुरा सृष्टं स्वयम्भु वा ॥
तस्मात्तद्राहुरागत्य पातुमिच्छति पर्व्वसु ।
उद्धृत्य पार्थिवीं छायां मद्राकारान्तमोमयः ॥
पातुमिच्छन् ततश्चेन्दुमाच्छादयति छायया ।
शुक्ले च चन्द्रमभ्येति कृष्णे पर्व्वणि भास्करम् ॥
सूर्य्यमण्डलसंस्थन्तु चन्द्रमेव जिघांसति ।
तस्मात् पिबति तं राहुस्तनुमस्याविनाशयन् ॥
अविहिंसन् यथा पद्मं पिबति भ्रमरो मधु ।
चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते ॥
चन्द्रकान्तो मणिर्यद्वत्तुहिनं क्षरते क्षणात् ।
क्षरन्नपि न हीयेत तेजसा नैव मुच्यते ॥
यथा सूर्य्यमणिः सूर्य्यादुत्पाट्य पावकं शुभम् ।
न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते ॥
एवं चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा ।
स्वतेजसा नं मुच्येत नाङ्गहीनौ बभूवतुः ॥
पर्व्वखथ च चन्द्रस्य माणिक्यकलसाकृतिः ।
सोमो दैवतसंयोगात् छायायोगाच्च पार्थिवात् ।
राहोश्च वरलब्धाद्वै प्रक्षरेदमृतं शशी ॥
स्वदोहकाले संप्राप्ते वत्सं दृष्ट्वा च गौर्यथा ।
स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् ।
पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते ॥
यथा मातुः स्तनं पीत्वा जीवन्ते सर्व्वजन्तवः ।
पीत्वामृतं तथा सोमात् तृप्यन्ते सर्व्वदेवताः ॥
सम्भृ तं सर्व्वयोगेषु तथायं क्षरते शशी ।
तं क्षरन्तं यथाभागमुपजीवन्ति देवताः ॥
तस्मिन् काले समभ्येति राहुरप्यवकर्षति ।
सर्व्वमर्हन्ति भागञ्च पादं पादार्द्धमेव च ॥
आक्रम्य पार्थिवी छाया यावती चन्द्रमण्डलम् ।
स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः ॥
तृप्तिं विधाय देवानां राहोः पर्व्वगतस्य च ।
चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते ॥
तिथिभागाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः ।
सर्व्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः ॥
अतो राहुभुजः सोमः सोमाद्वृद्धिं दिवाकरः ।
पर्व्वकाले स्थितिस्त्वेवं विपरीताः पुनः पुनः ॥
अतश्छादयते राहुरभ्रवच्छशिभास्करौ ।
राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति ॥
उद्धृत्य पार्थिवीं छायां धूममेघ इवोत्थितः ।
चन्द्रस्य यदवस्तब्धं राहुणा भास्करस्य च ॥
नाम्नावखण्डितं तस्य कैवल्यं व्यामलीकृतम् ।
कर्द्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते ॥
एकोद्देशेऽथ सर्व्वद्या राहुणा चन्द्रमास्तथा ।
प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् ॥
राहुयुक्तं भवेत्तद्वन्निर्म्मलं चन्द्रमण्डलम् ।
राहुणा छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ ॥
विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् ।
एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते ॥
अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः ।
जगत्सम्मोहनं चैतत् ग्रहणं चन्द्रसूर्य्ययोः ॥”
इत्याद्ये देवीपुराणे ग्रहणविकल्पः ॥ * ॥
विधोर्देवपित्राद्यन्नकारणत्वं राजयक्ष्मादिकार-
णत्वञ्च कालिकापुराणे २० । २१ अध्याययोर्द्रष्ट-
व्यम् ॥ * ॥ (कर्त्तरि, त्रि । यथा, ऋग्वेदे ।
१० । ५५ । ५ ।
“विधुं दद्राणं समने बहूनां
युवानं सन्तं पलितो जगार ॥”
“विधुं विधातारं सर्व्वस्य युद्धादेः कर्त्तारं
विपूर्ब्बो दधातिः करोत्यर्थे ।” इति तद्भाष्ये
सायणः ॥)

विधुतः, त्रि, (वि + धु + क्तः ।) त्यक्तः । इत्य-

मरः ॥ (यथा, भागवते । ९ । १९ । २५ ।
“स तत्र निर्म्मुक्तसमस्तसङ्ग
आत्मानुभूत्या विधुतत्रिलिङ्गः ।
परेऽमले ब्रह्मणि वासुदेवे
लेभे गतिं भागवतीं प्रतीतः ॥”)
कम्पितश्च ॥

विधुतिः, स्त्री, कम्पनम् । विपूर्ब्बधुधातोः क्तिप्रत्य-

येन निष्पन्ना ॥ (यथा, भागवते । १० । ३३ । ८ ।
“पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासै-
र्भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलीनैः ॥”
निराकृतिः । यथा, तत्रैव । ४ । २२ । ३८ ।
“यस्मिन्निदं सदसदात्मतया विभाति-
मायाविवेकविधुतिस्रजि वाहिबुद्धिः ॥”)

विधुननं, क्ली, (वि + घू + णिच् । ल्युट् । नुक्

च । पृषोदरादित्वात् ह्रस्वः ।) कम्पनम् । इति
जटाधरः ॥

विधुन्तुदः, पुं, (विधुं तुदति पीडयतीति । विधु +

तुद + “विध्वरुसोस्तुदः ।” ३ । २ । ३५ । इति
खश् । मुम् ।) राहुः । इत्यमरः ॥ (यथा,
माघे । २ । ६१ ।
“नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ॥”)

विधुपञ्जरः, पुं, (विधोः पञ्जरः वक्रास्थि इव तत्-

सादृश्यात् ।) खड्गः । इति शब्दमाला ॥

विधुप्रिया, स्त्री, (विधोश्चन्द्रस्य प्रिया ।) चन्द्र-

पत्नी । यथा । दाक्षायण्यो विधुप्रिया । इति
कोषान्तरम् ॥

विधुरं, क्ली, (विगता धूर्भारो यस्मात् । समासे

अः ।) प्रविश्लेषः । इत्यमरः ॥ कैवल्यम् । इति
त्रिकाण्डशेषः ॥ (प्रत्यवायः । कष्टम् । यथा,
किरातटीकायां मल्लिनाथधृतवैजयन्ती ।
“विधुरं प्रत्यवाये स्यात् कष्टविश्लेशयोरपि ॥”
तथा च किराते । २ । ७ ।
“विधुरं किमतः परं परै-
रवगीतां गमिते दशामिमाम् ।
अवसीदति यत् सुरैरपि
त्वयि सम्भावितवृत्ति पौरुषम् ॥”)

विधुरः, त्रि, (विगता धूः कार्य्यभारो यस्मात् ।

ऋक्पूरित्यः ।) विकलः । इति मेदिनी । रे,
२१६ ॥ (यथा, कुमारे । ४ । ३२ ।
“तदिदं क्रियतामनन्तरं
भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्ज्जनात्
ननु मां प्रापय पत्युरन्तिकम् ॥”)

विधुरा, स्त्री, रसाला । इति मेदिनी । रे, २१६ ॥

(जत्रूर्द्ध्वस्नायुमर्म्म । यथा, सुश्रुते । ३ । ६ ।
“जत्रूर्द्ध्वं मर्म्माणि चतस्रो धमन्योऽष्टौ मातृका द्बे
कृकाटिके द्वे विधुरे ॥”)

विधुवनं, क्ली, (वि + धु + ल्युट् । कुटादित्वात्

साधुः ।) कम्पनम् । इत्यमरः । ३ । २ । ४ ॥

विधूतं, त्रि, (वि + धू + क्तः ।) कम्पितम् । (यथा,

कलाविलासे । २ । २८ ।
“तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः ।
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमा-
यातः ॥”)
त्यक्तम् । इति हेमचन्द्रः ॥ (यथा, महागण-
पतिस्तोत्रे । १ ।
“योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय-
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासि-
नाम् ॥”)
पृष्ठ ४/४००

विधूतिः, स्त्री, कम्पनम् । विपूर्व्वधूधातोः क्तिप्रत्य-

येन निष्पन्नमिति ॥

विधूननं, क्ली, (वि + धू + णिच् + ल्युट् । नुक् च ।)

कम्पनम् । तत्पर्य्यायः । विधुवनम् २ । इत्य-
मरः । ३ । २ । ४ ॥ विधुननम् ३ । इति शब्द-
रत्नावली ॥ (यथा, साहित्यदर्पणे । ३ । १४२ ।
“केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।
प्राहुः कुट्टमितं नाम शिरःकरविधूननम् ॥”)

विधूनितं, त्रि, कम्पितम् । विपूर्ब्बञ्यन्तधूधातोः

क्तप्रयेत्यन निष्पन्नम् ॥

विधृतं, क्ली, विशेषेण धृतम् । यथा, --

“अथावकृष्य विण्मूत्रं लोष्टकाष्ठतृणादिना ।
उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः ॥”
इत्याह्रिकतत्त्वम् ॥

विधेयः, त्रि, विधातुं शक्यः । (वि + धा + “अचो

यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ ।
६५ । इति आत ईत् ।) वाक्यस्थः । तत्पर्य्यायः ।
विनयग्राही २ वचनेस्थितः ३ आश्रवः ४ । इत्य-
मरः ॥ (यथा, महाभारते । ५ । २३ । १३ ।
“कर्णोऽमात्यः कुशली तात कच्चित्
सुयोधनो यस्य मन्दो विधेयः ॥”)
विधिजन्यबोधविषयः । यथा, --
“अनुवाद्यमनुक्त्वा तु न विधेयमुदीरयेत् ।
न ह्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥”
इत्येकादशीतत्त्वम् ॥
अपि च । प्रमाणान्तरासन्निहितं कर्म्म प्रथमं
बुद्धौ न विषयीभवति शब्दादेव तस्य कर्म्मण
उपस्थितिरित्युपादेये विधेये कर्म्मणि पूजादौ
शुचितत्कालजीविनः कर्म्माधिकारात् प्रमाणा-
न्तरलभ्यत्वेनाविधेयत्वात्तिथ्यादिर्गुणः । इति
तिथ्यादितत्त्वम् ॥ (कर्त्तव्यम् । यथा, बृहत्-
संहितायाम् । ९५ । ४९ ।
“द्बात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समु-
द्दिष्टम् ॥
तत्तथा विधेयं गुणदोषफलं यियासूनाम् ॥” * ॥
अधीनः । यथा, रघुः । १९ । ४ ।
“सन्निवेश्य सचिवेष्वतः परं
स्त्रीविधेयनवयौवनोऽभवत् ॥”
तथा च तत्रैव । ७ । ६२ ।
“तस्थौ ध्वजस्तम्भनिषण्णदेहं
निद्राविधेयं नरदेवसैन्यम् ॥”)

विधेयता, स्त्री, (विधेयस्य भावः । विधेय + तल् ।)

विधेयत्वम् । विधिजन्यबोधविषयत्वम् । यथा ।
यथा ब्रह्मवधादिषु पापस्य निषिद्धतयोपयुक्त-
बाह्मणादिज्ञाने द्वैगुण्यं तथा गङ्गास्नानादिषु
पुण्यस्य विधेयतावच्छेदकगङ्गादिज्ञाने द्वैगुण्यम् ।
इति प्रायश्चित्ततत्त्वम् ॥ (अधीनता । यथा,
किराते । ११ । ३३ ।
“परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥”)

विध्वंसः, पुं, (वि + ध्वंस + घञ् ।) विनाशः ।

यथा, तिथ्यादितत्त्वे ।
“हरिते रोगोऽनुतापः शस्यानामीतिभिश्च
विध्वंसः ।
कपिले शीघ्रगसत्त्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् ॥”
(अपकारः । यथा, किराते । ३ । १६ ।
“विधाय विध्वं समनात्मनीनं
शमैकवृत्तेर्भवतश्छलेन ।
प्रकाशितत्वन्मतिशीलसाराः
कृतोपकारा इव विद्विषस्ते ॥”)

विनतः, त्रि, (वि + नम + क्तः ।) प्रणतः । (यथा,

आर्य्यासप्तशत्याम् । ६१६ ।
“सखि दुरवगाहगहनो विदधानो विप्रियं
प्रियजनेऽपि ।
खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः
कोपः ॥”)
भुग्नः । (यथा, बृहत्संहितायाम् । ६१ । ३ ।
“दशसप्तचतुर्द्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।
ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥”)
शिक्षितः । इति मेदिनी । ते, १५६ ॥ (सङ्कु-
चितः । यथा, रामायणे । १ । ४३ । २४ ।
“विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ।
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥”
पुं, स्वनामख्यातवानरविशेषः । यथा, भट्टिः ।
७ । ५२ ।
“प्राचीं तावद्भिरव्यग्रः कपिभिर्विनतो ययौ ।
अप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः ॥”)

विनता, स्त्री, गरुडमाता । (सा तु दक्षप्रजापतेः

कन्या । यथा, महाभारते । १ । ६५ । १२ ।
“क्रोधा प्राधा च विश्वा च विनता कपिला
मुनिः ।
कद्रुश्च मनुजव्याघ्र दक्षकन्यैव भारत ॥”)
पिडकाभेदः । इति मेदिनी । ते, १५६ ॥
(यथा, सुश्रुते । २ । ६ ।
“महती पिडका नीला पिडका विनता स्मृता ॥”)

विनतासूनुः, पुं, (विनतायाः सूनुः पुत्त्रः ।)

अरुणः । इति हेमचन्द्रः ॥ गरुडश्च ॥

विनदः, पुं, (विशेषेण नदति शब्दायते पत्र-

फलादिनेति । नद् + अच् ।) विन्याकवृक्षः ।
इति शब्दचन्द्रिका ॥ छातियान् इति ख्यातः ॥

विनम्रकं, क्ली, तगरपुष्पम् । इति राज-

निर्घण्टः ॥

विनयः, त्रि, बणिक् । क्षिप्तः । निभृतः । विजिते-

न्द्रियः । इत्यजयपालः ॥ (विशेषेण नयतीति ।
नी + अच् । विशेषेण प्रापकः । पृथक्कर्त्ता ।
यथा, ऋग्वेदे । २ । २४ । ९ ।
“स संनयः स विनयः पुरोहितः
समुष्टुतः सयुधि ब्रह्मणस्पतिः ॥”
“विनयः संगतानां विविधं नेता पृथक्कर्त्ता स
एव ।” इति तद्भाष्ये सायणः ॥)

विनयः, पुं, (वि + नी + अच् ।) शिक्षा । (यथा,

रघुः । १ । २४ ।
“प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥”)
प्रणतिः । इति मेदिनी । ये, १०५ ॥ * ॥ (यथा,
“जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोऽनुरज्यते
जनानुरागप्रभवा हि सम्पदः ॥”
इत्युद्भटः ॥)
अथ विनयप्रशंसा ।
“वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
तेभ्यो हि शिक्षेत् विनयं विनीतात्मा हि
नित्यशः ॥
समग्रां वशगां कुर्य्यात् पृथिवीन्नात्र संशयः ।
बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः ।
वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥”
इति मत्स्यपुराणे १८९ अध्यायः ॥ * ॥
(विशिष्टो नयः ।) दण्डः । यथा । “यत्तु ।
‘पूर्ब्बमाक्षारयेद्यस्तु नियतं स्यात् स दोष-
भाक् ।
पश्चाद्यः सोऽप्यसत्कारी पूर्व्वे तु विनयो
गुरुः ॥’
इति नारदवचनम् ॥
तत्पूर्व्वापेक्षया परस्याधिकवाक्पारुष्योत्पा-
दकस्यापि स्वल्पदण्डविधायकम् । युगपत्संप्रव-
र्त्तने अधिकदण्डाभावमाह स एव ।
‘पारुष्ये साहसे चैव युगपत्संवर्त्तयोः ।
विशेषश्चेन्न लभ्येत विनयः स्यात् समस्तयोः ॥’
विनयो दण्डः ।” इति व्यवहारतत्त्वम् ॥

विनयग्राही, [न्] त्रि, (विनयं गृह्णातीति । ग्रह

+ णिनिः ।) वचनेस्थितः । इत्यमरः ॥

विनयस्थः, त्रि, (विनये तिष्ठतीति । स्था + कः ।)

आज्ञाकारी । तत्पर्य्यायः । विधेयः २ आश्रवः
३ वचनस्थितः ४ वश्यः ५ प्रणेयः ६ । इति
हेमचन्द्रः । ३ । ९६ ॥

विनया, स्त्री, वाठ्यालकः । इति मेदिनी ॥

विनशनं, क्ली, (विनश्यति अन्तर्दधाति सरस्वत्य-

त्रेति । वि + नश + अधिकरणे ल्युट् ।) कुरु-
क्षेत्रम् । तच्च हस्तिनाया उत्तरपश्चिमे वर्त्तते ।
इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ ।
८२ । १०५ ।
“ततो विनशनं गच्छेन्नियतो नियताशनः ।
गच्छत्यन्तर्हिता यत्र मेरुपृष्ठे सरस्वती ॥”
वि + नश + भावे ल्युट् ।) विनाशश्च ॥

विनष्टः, त्रि, (वि + नश + क्तः ।) नाशाश्रयः ।

ध्वंसविशिष्टः । यथा । शिखी विनष्टः पुरुषो न
नष्टः । इति विशेषव्याप्तिटीकायां मथुरानाथः ॥
पतितः । यथा नारदः ।
“विनष्टे वाप्यशरणे पितर्य्युपरतस्पृहे ॥”
विनष्टे पतिते । इति दायभागः ॥

विनष्टिः, स्त्री, विनाशः । इति विपूर्ब्बनशधातोर्भावे

क्तिप्रत्ययेव निष्पन्नमिति । इति सिद्धान्त-
कौमुदी ॥ (यथा, भागवते । ३ । १ । २० ।
“तत्राथ शुश्राव सुहृद्विनष्टिं
वनं यथा वेणुजवह्निसंश्रयम् ।
पृष्ठ ४/४०१
संस्पर्द्धया जग्धमथानुशोचन्
सरस्वतीं प्रत्यगियाय तूष्णीम् ॥”)

विनसः, त्रि, (विगता नासिका यस्य । नसादेशः ।)

गतनासिकः । तत्पर्य्यायः । विग्नः २ विख्रः ३
विनासकः ४ । इति जटाधरः ॥

विना, व्य, (वि + “विनञ्भ्यां नानाञ्चौ न सह ।”

५ । २ । २७ । इति ना ।) वर्ज्जनम् । तत्पर्य्यायः ।
पृथक् २ अन्तरेण ३ ऋते ४ हिरुक् ५ नाना
६ । इत्यमरः ॥ (शब्देनानेन योगे “पृथग्-
विनेति ।” २ । ३ । ३२ । इत्यनेन तृतीया पञ्चमी
च स्यात् । एवं “पृथद्विना नानाभिरिति
योगविभागो द्वितीयार्थः ॥” इति काशिकोक्त्या
द्वितीयापि । यथा, तत्रैव ।
“विना वातं विना वर्षं विद्युत्प्रपतनं विना ।
विना हस्तिकृतान्दोषान् केनेमौ पातितौ द्रुमौ ॥”
तृतीयाप्रयोगो यथा, रघुवंशे २ । १४ ।
“शशाम वृष्ट्यापि विना दवाग्निः ॥”
पञ्चमीप्रयोगो यथा, सांख्यकारिकायाम् । ४१ ।
“चित्रं यथाश्रयमृते
स्थाण्वादिभ्यो विना यथा च्छाया ।
तद्वद्विना विशेषै-
र्न तिष्ठति निराश्रयं लिङ्गम् ॥”)

विनाकृतं, त्रि, (विना अन्तरेण कृतम् ।) त्यक्तम् ।

इति त्रिकाण्डशेषः ॥

विनायकः, पुं, (विशिष्टो नायकः ।) बुद्धः । गणेशः ।

इत्यमरः ॥ (यथा, कथासरित्सागरे । ३० । ५५ ।
“अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः ।
दृष्टप्रभावो वरदो देवदेवो विनायकः ॥”)
गरुडः । विघ्नः । (यथा, हरिवंशे । १८१ । ६५ ।
“राक्षसाश्च पिसाचाश्च भूतानि च विना-
यकाः ॥”)
गुरुः । इति मेदिनी । के, ११२ ॥ * ॥ विना-
यकगणो यथा, --
“गाङ्गेयो विष्णवश्चैव द्बौ विज्ञेयौ विनायकौ ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
विनायकस्योत्पत्तिर्यथा, --
प्रजापाल उवाच ।
“कथं गणपतेर्जन्म मूर्त्तिमत्त्वञ्च सत्तम ! ।
एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥
महातपा उवाच ।
पूर्ब्बं देवगणाः सर्व्वे ऋषयश्च तपोधनाः ।
कार्य्यारम्भे यथा प्राप्ताः सिद्धिं ते च न संशयः ॥
सन्मागांवस्थिषु यथा सिध्यन्ते विघ्नतः क्रियाः ।
असत्कारिषु सर्व्वेषु तद्बदेवमविघ्नतः ॥
ततो देवाः सपितरश्चिन्तयामासुराजसा ।
असत्कार्य्येषु विघ्नार्थे सर्व्व एवाभ्यमन्त्रयन् ॥
ततस्तेषा तदा मन्त्रं कुर्व्वतां त्रिदिवौकसाम् ।
बभूव बुद्धिर्गमने रुद्रं प्रति महामते ॥
ते तत्र रुद्रमामन्त्र्य कैलासनिलयं गुरुम् ।
ऊचुः सविनयं सर्व्वे प्रणिपातपुरःसरम् ॥
देवा ऊचुः ।
देवदेव महादेव शूलपाणे त्रिलोचन ।
विघ्नार्थमविशिष्टानां उत्पादयितुमर्हसि ॥
एवमुक्तस्तदा देवैर्भवः परमया मुदा ।
उमां निरीक्षयामास चक्षुषानिमिषेण ह ॥
देवानां सन्निधौ तस्य पश्यतो मां महात्मनः ।
चिन्ताभूद्व्योम्नि मूर्त्तेभ्यो दृश्यते केन हेतुना ॥
पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च ।
तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते ॥
आकाशस्य कथं नेति मत्वा देवो जहास च ।
ज्ञानशक्तिः परान् दृष्ट्वा यद्दृष्टं व्योम्नि शम्भुना ॥
यच्चोक्तं ब्रह्मणा पूर्व्वं शरीरन्तु शरीरिणाम् ।
यच्चापि हसितं तेन देवेन परमेष्ठिना ॥
एतत्कार्य्यचतुष्केण पृथिव्यादिचतुर्ष्वपि ।
मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः ॥
प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशम् ।
परमेष्ठिगुणैर्युक्तः साक्षाद्रुद्र इवापरः ॥
उत्पन्नमात्रो देवानां योषितः संप्रमोहयन् ।
कान्त्या दीप्त्या तथा मूर्त्त्या रूपेण च
महात्मवान् ॥
तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः ।
उमा निमिषनेत्राभ्यां तमपश्यत भामिनी ॥
तं दृष्ट्वा कुपितो देवस्तीव्रकोपसमन्वितः ।
मत्वा कुमाररूपन्तु शोभनं मोहनं दृशाम् ।
ततः शशाप तं देवो गणेशं परमेश्वरः ॥
कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा ।
भविष्यति तथा सर्पैरुपवीतगतिर्ध्रुवम् ॥
एवं शशाप तं देवस्तीव्रकोपसमन्वितः ।
धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ॥
यथा यथासौ स शरीरमाद्यं
धुनोति देवस्त्रिशिखास्त्रपाणिः ।
तथा तथा चाङ्गरुहाच्चकास
जलं क्षितौ संन्यपतंस्तथान्ये ॥
विनायकानेकमुखा गजास्या-
स्तमालनीलाञ्जनसन्निकाशाः ।
उत्तस्थुरुच्चैर्विविधास्त्रहस्ता-
स्ततस्तु देवा मनसाकुलेन ॥
किमेतदित्यद्भुतकर्म्मकारी
ह्येकः करोत्यप्रतिमं महच्च ।
कार्य्यं सुराणां कृतमेतदिष्टं
भवेत्तथैतं परितं कुतस्तत् ॥
दिवौकसां चिन्तयतां तथा तु
विनायकैः क्ष्मा क्षुभिता बभूव ।
चतुर्मखश्चाप्रतिमो विमान-
मारुह्य खे वाक्यमिदं जगाद ॥
धन्यास्तु देवा सुरनायकेन
त्रिलोचनेनाद्भुतरूपिणा च ।
अनुगृहीताः परमेश्वरेण
सुरद्विषां विघ्नकृतां नतौ च ।
इत्येवमुक्त्वा प्रपितामहस्ता-
नुवाच देवस्त्रिंशिखा स्त्रपाणिम् ॥
यस्ते विभो वक्त्रसमुद्भवः प्रभु-
र्विनायका नाम वसन्त्विमेऽनुगाः ।
भवन्त्वथास्यात्मवरेण चाम्बरे
त्वया च तुष्टस्तु शरीरचारी ॥
आकाशमेतद्वहुधा व्यवस्थितं
त्वया चैको वदतां ते प्रयाताः ।
प्रभुर्भवत्वप्रतिमास्त्रपाणिना
इमान् हि चास्त्रैः सुवरांश्च देहि ॥
इत्येवमुक्त्राभिगते पितामहे
त्रिलोचनश्चात्मभवं जगाद ।
विनायको विघ्नकरो गजास्यो
गणेशनामा तु भवस्य पुत्त्रः ॥
एते च सर्व्वे त्वपयान्तु भृत्या
विनायकाः क्रूरदृशः प्रचण्डाः ।
उच्छुष्मदानादिविवृद्धदेहाः
कार्य्येषु सिद्धिं प्रतिपादयन्तः ॥
भवांश्च वेदेषु तथा मखेषु
कार्य्येषु चान्येषु महानुभावात् ।
अग्नेषु पूजां लभतेऽन्यथा च
विनाशयिष्यस्यथ कार्य्यसिद्धिम् ॥
इत्येवमुक्तः परमेश्वरेण
सुरैः समं काञ्चनकुम्भसंस्थैः ।
जलैस्तथासावभिषिक्तगात्रो
रराज राजेन्द्रः विनायकानाम् ॥
दृष्ट्वाभिषिच्यमानं तु देवास्तं गणनायकम् ।
तुष्टुवुः प्रयताः सर्व्वे त्रिशूलास्त्रस्य सन्निधौ ॥
देवा ऊचुः ।
नमस्ते गजवक्त्राय नमस्ते गणनायक ।
विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥
नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल ।
नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ।
सर्व्वदेवनमस्कारादविघ्नं कुरु सर्व्वदा ॥
एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।
अभिषिक्तस्तु रुद्रेण सोमस्यापत्यतां गतः ॥
एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिव ।
यतस्ततोऽयं महती तिथीनां परमा तिथिः ॥
एतस्यां यस्तिलान् भक्त्या भुक्त्वा गणपतिं नृप ।
आराधयति तस्याशु तुष्यते नात्र संशयः ॥
यश्चैतत् पठते स्तोत्रं यश्चैतत् शृणुयात्तथा ।
तस्य विघ्ना न जायन्ते न पापं सर्व्वथा नृप ॥”
इत्यादि वाराहे विनायकोत्पत्तिनामाध्यायः ॥ * ॥
विनायकस्य नामाष्टकस्तोत्रं यथा, --
श्रीविष्णुरुवाच ।
“गणेशमेकदन्तञ्च हेरम्बं विघ्ननायकम् ।
लम्बोदरं सूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥
नामाष्टकार्थं पुत्त्रस्य शृणु मत्तो हरप्रिये ।
स्तोत्राणां सारभूतञ्च सर्व्वविघ्नहरं परम् ॥
ज्ञानार्थवाचको गश्च णश्च निर्व्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ १ ॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।
बलं प्रधानं सर्व्वस्मादेकदन्तं नमाम्यहम् ॥ २ ॥
दीनार्थवाचको हेश्च रम्बः पालनवाचकः ।
परिपालकं तं दीनानां हेरम्बं प्रणमाम्यहम् ॥ ३ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारन्तं नमामि विघ्ननायकम् ॥ ४ ॥
पृष्ठ ४/४०२
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा ।
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरञ्च तम् ॥ ५ ॥
शूर्पाकारौ च तत्कर्णौ विघ्नवारणकारणौ ।
सम्पदास्फालरूपौ च सूर्पकर्णं नमाम्यहम् ॥ ६ ॥
विष्णुप्रसादपुष्पञ्च यन्मूर्द्ध्नि मुनिदत्तकम् ।
तद्गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥ ७ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरगृहे ।
वन्दे गुहाग्रजं देवं सर्व्वदेवाग्रपूजितम् ॥ ८ ॥
एतन्नामाष्टकं दर्गे नामार्थसंयुतं परम् ।
पुत्त्रस्य पश्य वेदे च तदा कोपं वृथा कुरु ॥
एतन्नामाष्टकं स्तोत्रं नामार्थसंयुतं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्व्वतो जयी ॥
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥
पुत्त्राथीं लभते पुत्त्रं भार्य्याथीं विपुलां स्त्रियम् ।
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥
अस्य कवचं यथा, --
नारद उवाच ।
“संसारमोचनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।
सर्व्वेषां कवचानाञ्च सारभूतमिदं मुने ॥
ॐ गौँ गैँ श्रीँ गणेशाय स्वाहा मे पातु
मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदावतु ॥
ॐ ह्रीँ क्लीँ श्री गमिति च सततं पातु
लोचनम् ।
तारकां पातु विघ्नेशः सततं धरणीतले ॥
ॐ ह्रीँ श्रीँ क्लीमिति सततं पातु नासिकाम् ।
ॐ गौँ गं सूर्पकर्णाय स्वाहा पात्वधरं मम ॥
दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः ।
ॐ श्रीं लम्बोदरायेति स्वाहा गण्डं सदावतु ॥
ॐ गां गं गजाननायेति स्वाहा स्कन्धं सदा-
वतु ॥
श्रीं क्लीं स्त्रीमिति कङ्कालं पातु वक्षःस्थलञ्च गं ।
पाणौ पादौ सदा पातु सर्व्वाङ्गं विघ्ननिघ्नकृत् ॥
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ।
दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥
पश्चिमे पार्व्वतीपुत्त्रो वायव्यां शङ्करात्मजः ।
कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः ।
गणाधिपोऽप्यधः पातु सर्व्वपूज्यश्च सर्व्वतः ।
स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥
इति ते कथितं वत्स ! सर्व्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।
वृन्दावने विनीताय मह्यं दिनकरात्मज ॥
मया दत्तञ्च तुभ्यञ्च यस्मै कस्मै न दास्यसि ।
परं वरं सर्व्वपूज्यं सर्व्वसङ्कटतारणम् ॥
गुरुमभ्यर्च्च्य विधिवत् कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥
इदं कवत्तमज्ञात्वा यो भजेच्छङ्करात्मजम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे गणेशकवचं नाम
१३ अध्यायः ॥ * ॥ अथ विनायकशान्तिः ।
याज्ञवल्क्य उवाच ।
“विनायकोपसृष्टस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।
विमना विफलारम्भः स सीदत्यनिमित्ततः ॥
राजा राज्यं कुमारी च पतिं पुत्त्रञ्च गुर्व्विणी ।
नाप्नुयात् स्वपनन्तस्य पुण्येऽह्नि विधिपूर्ब्बकम् ॥
गौरसर्षपकल्केन सत्येनोत्सारितस्य च ।
सर्व्वौषधैः सर्व्वगन्वैर्व्विलिप्तशिरसस्तथा ॥
भद्रासनोपविष्टस्य स्वस्तिवाच्य द्विजान् शुभान् ।
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु
निक्षिपेत् ॥
या आहृता ह्येकवर्णैश्चतुर्भिः कलसैर्ह्रदात् ।
चर्म्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं तथा ॥
सहस्राक्षं शतधारं ऋषिभिः पारणं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥
भगन्तु वरुणो राजा भगं सूर्य्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥
यत्ते कोषसुसौभाग्यं सीमन्ते यच्च मूर्द्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तत् घ्नन्तु ते सदा ॥
स्नातस्य सार्षपं तैलं श्रुवेणौडम्बरेण तु ।
जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य च ॥
मितश्च संमितश्चैव तथा शालकटंकटाः ।
कुष्माण्डा राजपुत्त्राश्चेत्यन्ते स्वाहासमन्वितैः ॥
दद्याच्चतुष्पथे सूर्पे कुशानास्तीर्य्य सर्व्वशः ।
कृताकृतांस्तण्डुलांश्च पललौदनमेव च ॥
पुष्पं चित्रं सुगन्धिञ्च सुराञ्च त्रिविधामपि ।
मूलकं पूरिका पूपास्तथैवैरण्डिकाः स्रजः ॥
दधि पायसमन्नञ्च गुडपिष्टं समोदकम् ।
एतान् सर्व्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ।
दूर्व्वासर्षपपुष्पैश्च पुत्त्रजन्मभिरन्ततः ॥
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ।
रूपं देहि यशो देहि भगं भगवति देहि मे ॥
पुत्त्रान् देहि श्रियं देहि सर्व्वकामांञ्च देहि मे ।
ब्राह्मणान् भोजयेत् पश्चात् शुक्लवस्त्रानु-
लेपनैः ॥
वस्त्रयुम्मं गुरोर्द्दद्यादासंपूज्य ग्रहांस्तथा ।
श्रेयःकर्म्मफलं विद्यात् सूर्य्यार्च्चनरतस्तथा ॥”
इति गारुडे १०० अध्यायः ॥ * ॥
अथ गणेशमन्त्राः ।
“पञ्चान्तकं शशिधरं बीजं गणपतेर्विदुः ।”
पञ्चान्तको गकारः । ध्यानन्तु गणेशशब्दे
द्रष्टव्यम् । अस्य पुरश्चरणं चतुर्लक्षजपः ॥ * ॥
अथ महागणपतिमन्त्रः । निबन्धे ।
“श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् ।
ङेऽन्तं गणपतिं पश्चात् वरान्ते वरदं पदम् ॥
उक्त्वा सर्व्वजनं मेऽन्ते वशमानय ठद्वयम् ।
अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः ॥”
भूबीजमाह ।
“स्मृतिस्थं मांसमौबिन्दुयुक्तं भूबीजभीरितम् ।”
स्मृतिर्गकारः । मांसं लकारः ॥ * ॥ अस्य
ध्यानम् ।
“नवरत्नमयं द्वीपं स्मरेदिक्षुरसाम्बुधौ ।
तद्वीचिधौतपर्य्यन्तं मन्दमारुतसेवितम् ॥
मन्दारपारिजातादिकल्पवृक्षलताकुलम् ।
उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् ।
उद्यद्दिनकरेन्दुभ्यामुद्भाषितदिगन्तरम् ॥
तस्य मध्ये पारिजातं नवं रत्नमयं स्मरेत्
ऋतुभिः सेवितं षड्भिरनिशं प्रीतिवर्द्धनम् ॥
तस्याधस्तात् महापीठे रचिते मातृकाम्बुजे ।
षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ॥
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-
दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्गस्यया
सन्ततम् ।
वीजापूरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्पलं
व्रीह्यग्रस्वविषाणगण्डकलसान् हस्तैर्व्वहन्तं
भजे ॥
गण्डपाणिगलद्दानपूरलालसमानसान् ।
द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहुः ॥
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिःसृतैः ।
रत्नवर्षैः प्रीणयन्तं साधकं मदविह्वलम् ॥
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् ॥”
अस्य पुरश्चरणं चतुर्लक्षजपः ॥ * ॥ अपि च ।
“शक्तिरुद्धनिजं बीजं महागणपतिं वदेत् ।
ङेऽन्तमग्निबधूप्रोक्तो मन्त्रोऽयं द्वादशाक्षरः ॥”
अस्य ध्यानम् ।
“मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रं
हस्तैः स्वीयैर्दधतमरविन्द्बङ्कुशौ रत्नकुम्भम् ।
अङ्कस्थायाः सरसिजरुचेस्तद्ध्वजालम्बिपाणे-
र्देव्या योनौ विनिहितकरं रत्नमौलिं
भजामि ॥”
अस्य पुरश्चरणं लक्षजपः ॥ * ॥ मन्त्रान्तरम् ।
“शक्तिरुद्धं निजं बीजं वशमानय ठद्वयम् ।
ताराद्यो मनुराख्यातो रुद्रसंख्याक्षरान्वितः ॥”
अस्य ध्यानम् ।
“हस्तैर्विभ्रतमिक्षुदण्डवरदौ पाशाङ्कुशौ पुष्कर-
स्पृष्टस्वप्रमदावराङ्गमनयाश्लिष्टं ध्वजाग्रस्पृशा ।
श्यामाङ्ग्या विधृताब्जया त्रिनयनं चन्द्रार्द्धचूडं
जवा-
रक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं
विभुम् ॥”
अस्य पुरश्चरणं लक्षत्रयजपः ॥ * ॥ अथ हेरम्ब-
मन्त्रः । स च ऊकारयुक्तो गकारः सबिन्दुः
प्रणवादिनमोऽन्तश्चतुरक्षरः । निबन्धे ।
“पञ्चान्तको बिन्दुयुक्तो वामकर्णविभूषितः ।
तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ।
चतुर्वर्णात्मको नॄणां चतुर्व्वर्गफलप्रदः ॥”
पृष्ठ ४/४०३
अस्य ध्यानम् ।
“मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा-
न्वितै-
र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ।
दृप्तं दानमभीतिमोदकरदान् टङ्के शिरोऽक्षा-
त्मिकां
मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्द्दधानं
भजे ॥”
अस्य पुरश्चरणं त्रिलक्षसंख्यकजपः ॥ * ॥ मन्त्रा-
न्तरम् । गं क्षिप्रप्रसादनाय हृत् । तथा च
निबन्धे ।
“संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः ।
प्रसादनाय हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ॥”
अस्य ध्यानम् ।
“पाशाङ्कुशौ कल्पलतां विषाणं
दधत् स्वशुण्डाहितबीजपूरः ।
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि-
र्हारोज्ज्वलो हस्तिमुखोऽवतान्नः ॥”
अस्य पुरश्चरणं लक्षजपः ॥ * ॥ अथ हरिद्रा-
गणेशमन्त्रः ।
“पञ्चान्तको धरासंस्थो बिन्दुभूषितमस्तकः ।
एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥”
ध्यानन्तु ।
“हरिद्राभं चतुर्ब्बाहुं हारिद्रवसनं विभुम् ।
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥”
अस्य पुरश्चरणं चतुर्लक्षजपः । इति तन्त्र-
सारः ॥ * ॥ (पीठस्थानविशेषः । यथा,
देवीभागवते । ७ । ३० । ७१ ।
“करवीरे महालक्ष्मीरुमादेवी विनायके ।
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥”
विगतो नायको यस्येति विग्रहे अनाथे, त्रि ॥)

विनायिका, स्त्री, (विनायकस्य स्त्री । भार्य्यार्थे

ङीप् ।) गरुडपत्नी । इति शब्दमाला ॥

विनारुहा, स्त्री, (विना आश्रयं रोहतीति ।

रुह + कः । स्त्रियां टाप् ।) त्रिपर्णिका । इति
राजनिर्घण्टः ॥

विनाशः, पुं, (विनशनमिति । वि + नश + घञ् ।)

विनशनम् । (यथा, गीतायाम् । २ । १७ ।
“अविनाशि तु तद्विद्धि येन सर्व्वमिदं ततम् ।
विनाशमव्ययस्थास्य न कश्चित् कर्त्तुमर्हति ॥”)
तत्पर्य्यायः । अदर्शनम् २ । इत्यमरः ॥ छञ्छट्
३ । यथा, श्रीभागवते ।
“एषा षोरतमा सन्ध्या लोकछञ्छट्करी
विभो ॥”
छञ्छडित्यव्ययं विनाशे वर्त्तते । इति श्रीधर-
स्वामी ॥

विनाशकः, त्रि, विनाशकर्त्ता । विपूर्ब्बकनशधातो-

र्णक(ण्वुल्)प्रत्ययेन निष्पन्नः ॥ (यथा, महा-
भारते । १२ । ९१ । ९ ।
“राजैव कर्त्ता भूतानां राजैव च विनाशकः ।
धर्म्मात्मा यः स कर्त्ता स्यादधर्म्मात्मा विना-
शकः ॥”)

विनाशी, [न्] त्रि, विनाशकरणशीलः । विपूर्ब्ब-

नशधातोर्णिन्प्रत्ययेन निष्पन्नः ॥ (यथा, महा-
भारते । १२ । १०७ । ११ ।
“लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।
तौ क्षयव्ययसंयुक्तावन्योन्यञ्च विनाशिनौ ॥”
यथा च मनौ । १ । २७ ।
“अण्व्यो मात्राविनाशिन्यो दशार्द्धानान्तु याः
स्मृताः ।
ताभिः सार्द्धमिदं सर्व्वं सम्भवत्यनुपूर्ब्बशः ॥”)

विनाशोन्मुखं, त्रि, (विनाशाय पतनाय उन्मु-

खम् ।) पछम् । इत्यमरः ॥ नाशोद्यतञ्च ॥

विनासकः, त्रि, (विगता नासा यस्य । बहुव्रीहौ

कन् ह्रस्वश्च ।) गतनासिकः । इति जटाधरः ॥

विनाहः, पुं, (विशेषेण नह्यते अनेन । वि + नह

+ “हलश्च ।” ३ । ३ । १२१ । इति घञ् ॥)
कूपाननपिधानकः । इति शब्दरत्नावली ॥

विनिक्षिप्तः, त्रि, विनिक्षेपाश्रयः । परित्यक्तः ।

विनिपूर्ब्बकक्षिपधातोः क्तप्रत्ययेन निष्पन्नः ॥
(यथा, देवीभागवते । २ । ८ । २७ ।
“पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतो-
रगः ॥”)

विनिगमना, स्त्री, एकतरपक्षपातिनी युक्तिः ।

एकतरावधारणा । यथा । उच्यते । एकदेशो-
पात्तस्यैव भूहिरण्यादावुत्पन्नस्य स्वत्वस्य विनि-
गमनाप्रमाणाभावेन वैशेषिकव्यवहारानर्हतया
अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं
विभागः । इति दायभागः ॥ उच्यत इति
भूहिरण्यादावुत्पन्नस्य एकदेशोपात्तस्य तत्तदं-
शावच्छिन्नस्य विनिगमना इदममुकस्य नान्य-
स्येत्यवधारणरूपा तत्प्रमाणभावेन वैशेषिक-
व्यवहारः परस्परनैरपेक्षेण दानविक्रयादि-
लक्षणस्तदनर्हतया अव्यवस्थितस्य सतोऽप्यसत्-
कल्पस्य गुटिकापातादिना व्यञ्जनं इदं अमुक-
स्येत्यवधारणं विभाग इत्यर्थः । इति तट्टीकायां
श्रीकृष्णतर्कालङ्कारः ॥

विनिद्रः, त्रि, (विगता निद्रा मुद्रना यस्य ।)

उन्मीलितः । इति शब्दमाला ॥ (यथा, नैषधे ।
१ । ३४ ।
“विनिद्ररोमाजनि शृण्वती नलम् ॥”
तथा च सा हत्यदर्पणे । १० परिच्छेदे ।
“उत्पत्तिरिन्दोरपि निष्फलैव
दृष्टा विनिद्रा नलिनी न येन ॥”)
निद्रारहितः । (यथा, महाभारते । ३ ।
२८५ । २१ ।
“स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ।
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥”)

विनिद्रत्वं, क्ली, (विनिद्रस्य भावः ।) प्रबोधः ।

इति हेमचन्द्रः ॥ निद्रारहितत्वञ्च ॥

विनिपातः, पुं, (विशेषेण निपतनम् । वि + नि +

पत + घञ् ।) निपातः । दैवादिव्यसनम् । इति
मेदिनी । ते, २१७ ॥ अवमानः । इति हेम-
चन्द्रः ॥ (यथा, मनौ । ४ । १४६ ।
“मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम् ।
जपतां जुह्वताञ्चैव विनिपातो न विद्यते ॥”)

विनिमयः, पुं, (वि + नि + मी + अप् ।) परि-

दानम् । प्रतिदानम् । इति शब्दरत्नावली ॥
(यथा, रघुः । १ । २६ ।
“दुदोह गां स यज्ञाय शस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥”)
बन्धकः । इति शब्दमाला ॥ यथा, --
“विक्रयैर्गां विनिमयैर्दत्त्वा गोमांसखादके ।
व्रतं चान्द्रायणं कुर्य्याद्वधे साक्षाद्वधी भवेत् ॥”
इति प्रायश्चित्ततत्त्वधृतगोभिलवचनम् ॥

विनियोगः, पुं, (वि + नि + युज् + घञ् ।) फले

अर्पणम् । इति हेमचन्द्रः ॥ विनियोजनम् ।
यथा, --
“अनेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः ॥”
इत्याह्निकतत्त्वम् ॥
(यथा, सन्ध्याविधौ ।
“ॐकारस्य ब्रह्मऋषिर्गायत्त्रीच्छन्दः सविता
देवता प्राणायामे विनियोगः ॥”)

विनियोजितः, त्रि, विनियुक्तः । विनिपूर्ब्बञ्यन्त-

युजधातोः क्तप्रत्ययेन निष्पन्नः ॥

विनिर्धूतः, त्रि, (वि + निर् + धू + क्तः ।) दुरव-

स्थया चलितः । यथा, --
“ततो देवा विनिर्धूता भ्रष्टराज्याः परा-
जिताः ।
हृताधिकारास्त्रिदशास्ताभ्यां सर्व्वे निरा-
कृताः ॥”
इति मार्कण्डेये देवीमाहात्म्यम् ॥

विनिर्भयः, पुं, (विशेषेण निर्नास्ति भयं यस्य ।)

साध्यगणविशेषः । यथा, --
“मनो मन्ता तथा शानो नरो यानश्च वीर्य्य-
वान् ।
विनिर्भयो नयश्चैव हंसो नारायणो वृषः ।
प्रभुश्चेति समाख्याताः साध्याः द्वादश
पौर्व्विकाः ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
भयरहितश्च ॥

विनिर्म्मोकः, पुं, व्यतिरेकः । यथा । दिवाकरवार-

विनिर्म्मोके तु गर्गः । इति चूडाप्रकरणे ज्योति-
स्तत्त्वम् ॥ (विगतो निर्म्मोको यस्य इति विग्रहे
मुक्तकञ्चुके, त्रि ॥)

विनिर्वृत्तः, त्रि, समाप्तः । निष्पन्नः । विनिर्

पूर्ब्बकवृत्धातोः क्तप्रत्ययेन निष्पन्नः ॥

विनिवृत्तः, त्रि, निवृत्तिविशिष्टः । क्षान्तः ।

निरस्तः । विनिपूर्ब्बकवृत्धातोः क्तप्रत्ययेन
निष्पन्नः ॥ (यथा, गीतायाम् । १५ । ५ ।
“निर्म्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ॥”)

विनिहतः, त्रि, विनष्टः । विनिपूर्ब्बकहनधातोः

क्तप्रत्ययेन निष्पन्नः ॥

विनीतः, त्रि, (वि + नी + क्तः ।) विनयान्वितः ।

विनयः शास्त्रतः संस्कारः इन्द्रिययमो वा ।
पृष्ठ ४/४०४
तत्पर्य्यायः । निभृतः २ प्रश्रितः ३ । इत्यमर-
भरतौ ॥ (यथा, रघुवंशे । १४ । ७५ ।
“तपस्विसंसर्गविनीतसत्त्वे
तपोवने वीतभया वसास्मिन् ॥”)
जितेन्द्रियः । (यथा, तन्त्रसारे ।
“शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेश-
वान् ॥”)
अपनीतः । (यथा, महाभारते । ७ । ११० । ५५ ।
“विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥”)
हृतः । इति मेदिनीकारहेमचन्द्रौ ॥ क्षिप्तः ।
इत्यजयपालः ॥ कृतदण्डः । इति स्मृतिः ॥
(अनुद्धतः । यथा, मनौ । ९ । ४१ ।
“तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ॥”)

विनीतः, पुं, (वि + नी + क्तः ।) सुवहाश्वः ।

तत्पर्य्यायः । साधुवाही २ । इत्यमरः । सुष्ठु-
वाहनशीलकः ३ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ७ । ११० । ५६ ।
“तांस्तदा रूप्यवर्णाभान् विनीतान् शीध्र-
गामिनः ॥”)
बणिक् । इति मेदिनी । ते, १५४ ॥ दमनकवृक्षः ।
(अस्य पर्य्यायो यथा, --
“उक्तो दमनको दान्तो मुनिपुत्त्रस्तपोधनः ।
गन्धोत्कटे ब्रह्मजटो विनीतः फलपत्रकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शिक्षितवृषभादिः । इति राजनिर्घण्टः ॥

विनीतकं, क्ली पुं, वैनीतकम् । परस्परावाहनम् ।

इत्यमरटीकायां रायमुकुटः ॥

विनीयः, पुं, (वि + नी + “विपूयविनीयजित्येति ।”

३ । १ । ११७ । क्यप्प्रत्ययेन निपातितः ।)
कल्कः । इति मुग्धबोधव्याकरणम् ॥ (यथा, --
“पृक्कातुरुष्कलघुलाभतया विनीयः ।”
इति वैद्यकचक्रपाणिसंग्रहे वातव्याधौ एला-
तैले ॥) पापम् । इति सिद्धान्तकौमुदी ॥

विनेता, [ऋ] पुं, (वि + नी + तृच् ।) राजा ।

आदेशके, त्रि । इति मेदिनी । ते, १५६ ॥
(यथा, रघुवंशे । १४ । २३ ।
“तेनास लोकः पितृमान् विनेत्रा ॥”
गुरुः । शिक्षकः । यथा, महाभारते । ११ । २६ ।
“अर्ज्जुनस्य विनेतारमाचार्य्यं सात्यकेस्तथा ।
तं पश्य पतितं द्रोणं कुरूणां द्बिजसत्तमम् ॥”
यथाच रघुवंशे । ८ । ९१ ।
“स तथेति विनेतुरुदारमतेः
प्रतिगृह्य वचो विससर्ज्ज मुनिम् ॥”)

विनेयः, त्रि, (वि + नी + यत् ।) नेतव्यः । विपूर्ब्ब-

नीधातोयप्रत्ययेन निष्पन्नः ॥ दण्डनीयः । यथा,
“ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् ।
श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥”
विनेयाः दण्डनीयाः । इति ज्योतिस्तत्त्वम् ॥

विनोदः, पुं, (वि + नुद + घञ् ।) कौतूहलम् ।

इति हलायुधः ॥ (यथा, कथासरित्सागरे ।
१५ । १२५ ।
“वाधते तञ्च नैकव्यात् सर्व्वं स मगधेश्वरः ।
तत्तत्र रक्षाहेतोश्च विनोदायतनस्य ताम् ॥”)
क्रीडा । इति भूरिप्रयोगः ॥ (यथा, भाग-
वते । ३ । १६ । २४ ।
“नैतावता त्र्यधिपतेर्वत विश्वभर्त्तु-
स्तेजःक्षत तव न तस्य स ते विनोदः ॥”
अपनयनम् । यथा, शिशुपालवधे । १ । ४८ ॥
“विनोदमिच्छन्नथ दर्पजन्मनो
रणेन कण्ड्वास्त्रिदशैः समं पुनः ॥”
प्रमोदः । यथा, हितोपदेशे ।
“काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥”)
आलिङ्गनविशेषः । तल्लक्षणं यथा । नायको
नायिकाया दक्षिणपादं वामपादं वा स्वमध्य-
देशे स्वदक्षिणपादं वामपादं वा नायिकामध्य-
देशे निधाय वक्षसि वक्षः ओष्ठे ओष्ठं दत्त्वा
यदाश्निषति तत् । इति कामशास्त्रम् ॥ राज-
गृहविशेषः । यथा, --
“दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ ।
विनोद एव द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥”
इति युक्तिकल्पतरुः ॥
“द्वादशैते गृहान् वक्ष्ये तेषां लक्षणमग्रतः ।
सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ॥
विनोदश्च विलासश्च विजयो विमलस्तथा ।
रङ्गः केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥”
इति भविष्योत्तरपुराणम् ॥

वि(बि)न्दुः, पुं, (बिदि अवयवे + बाहुलकादुः ।)

जलकणा । तत्पर्य्यायः । पृषत् २ पृषतः ३
विप्रुट् ४ । इत्यमरः ॥ पृषन्ति ५ विप्लट् ६ । इति
तट्टीका ॥ (यथा, पञ्चतन्त्रे ।
“जलबिन्दुप्रपातेन क्रमशः पूर्य्यते घटः ।
स हेतुः सर्व्वशास्त्रस्य धर्म्मस्य च धनस्य च ॥”)
दन्तक्षतविशेषः । भ्रुवोर्मध्यम् । रूपकार्थ-
प्रकृतिः । इति मेदिनी । दे, १०-११ ॥ अनुस्वारः ।
यथा । “बिन्दुद्बिबिन्दुमात्रौ वर्णौ क्रमान्नुवी संज्ञौ
स्तः ।” इति मुग्धबोधव्याकरणम् ॥ अपि च ।
“शिवो वह्निसमायुक्तो वामाक्षिबिन्दुभूषितः ।
एकाक्षरो महामन्त्रः श्रीसूर्य्यस्य प्रकीर्त्तितः ॥”
इति सूर्य्यकवचम् ॥
बन्दूत्पत्तिर्यथा, --
“सच्चिदानन्दविभवात् सकलात् परमेश्वरात् ।
आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः ॥”
इति सारदातिलके १ पटलः ॥
अपि च ।
“आसीद्बिन्दुस्ततो नादो नादाच्छक्तिः समुद्भवा ।
नादरूपा महेशानी चिद्रूपा परमा कला ॥
नादाच्चैव समुत्पन्नः अर्द्धबिन्दुर्महेश्वरि ।
सार्द्धत्रितयबिन्दुभ्यों भुजङ्गी कुलकुण्डली ॥”
इति कुब्जिकातन्त्रे १ पटलः ॥
“बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः ।
बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः ॥
समवायः समाख्यातः सर्व्वागमविशारदैः ॥”
इति सारदातिलकः ॥
अन्यच्च ।
“बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मक स्मृतम् ।
तयोर्योगे भवेन्नादस्ताभ्यो जातास्त्रिशक्तयः ॥”
इति क्रियासारः ॥

वि(बि)न्दुः, त्रि, (वेत्ति तच्छीलः । विदज्ञाने +

“बिन्दुरिच्छुः ।” ३ । २ । १६९ । इति उप्रत्ययो
लुमागमश्च निपात्यते ।) ज्ञाता । इत्यमरः ॥
दाता । इत्यजयपालः ॥ वेदितव्यः । इति
शब्दरत्नावली ॥

वि(बि)न्दुचित्रकः, पुं, (बिन्दुभिश्चिह्नविशेषैश्चित्रकः

इव ।) मृगभेदः । इति शब्दरत्नावली ॥

वि(बि)न्दुजालं, क्ली, (बिन्दूनां जालम् ।) हस्ति-

शुण्डोपरिविचित्रबिन्दुसमूहः । इति हेमचन्द्रः ॥

वि(बि)न्दुजालकं, क्ली, (बिन्दूनां जालकम् ।)

गजस्य मुखादिस्थो बिन्दुसमूहः । तत्पर्य्यायः ।
पद्मकम् २ । इत्यमरः । पद्मम् ३ । अतएव
पद्मी हस्तीति भरतः ॥

वि(बि)न्दुतन्त्रः, पुं, (बिन्दुश्चिह्नं तन्त्रं यस्य ।)

अक्षः । इति हारावली ॥ तुरङ्गकः । यथा, --
“बिन्दुतन्त्रः पुमान् शारिफलके च तुरङ्गके ॥”
इति पवर्गीयवादौ मेदिनी ॥

वि(बि)न्दुपत्रः, पुं, (बिन्दुः पत्रे यस्य ।) भूर्य्यवृक्षः ।

इति रत्नमाला ॥

वि(बि)न्दुरेखकः, पुं, (बिन्दुविशिष्टा रेखा यत्र ।

कन् ।) पक्षिभेदः । इति शब्दचन्द्रिका ॥

वि(बि)न्दुवासरः, पुं, (बिन्दुपातस्य वासरः ।) गर्भे

सन्तानोत्पत्तिकारकशुक्रपातदिनम् । इति
ज्योतिषम् ॥

वि(बि)न्दुसरः, [स्] क्ली, (बिन्दुनामक सरः ।)

सरोवरविशेषः । यथा, --
“अभ्युत्तरेण कैलासं शिवं सर्व्वौषधिं गिरिम् ।
गौरन्तु पर्व्वतश्रेष्ठं हरितालमयं प्रति ॥
हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो
गिरिः ।
तस्य पादे महद्दिव्यं सरः काञ्चनसन्निभम् ॥
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ॥
दिव्यं यास्यन्ति मे पूर्ब्बे गङ्गातोयपरिप्लुताः ।
तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता ॥
सोमपादात् प्रसूता सा सप्तधा प्रतिभज्यते ।
यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः ॥
तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह ।
दिव्यश्छायापथस्तत्र नक्षत्राणान्तु मण्डलम् ॥
दृश्यते भास्वरा रात्रौ देवी त्रिपथगा तु सा ।
अन्तरीक्षं दिवञ्चैव भावयित्वा भुवं गताः ॥
भवस्य स्वाङ्के पतिता संरुद्धा योगमायया ।
तस्या ये बिन्दवः केचित् क्षुब्धायाः पतिता
भुवि ।
कृतस्तु तैर्बिन्दुसरस्ततो बिन्दुसरः स्मृतम् ॥”
इति मात्स्ये । १२० । २७ -- ३३ ॥

विन्धपत्री, स्त्री ज्वरापहा । इति शब्दचन्द्रिका ॥

वेलशुँटा इति भाषा ॥
पृष्ठ ४/४०५

विन्धसः, पुं, चन्द्रः । इति त्रिकाण्डशेषः ॥

विन्ध्यः, पुं, पर्व्वतविशेषः । इत्यमरः ॥ (यथा,

मनौ । २ । २१ ।
“हिमवविन्ध्ययोर्मध्यं यः प्राग्विनशना-
दपि ।
प्रत्यगेव प्रयगाञ्च मध्यदेशः प्रकीर्त्तितः ॥”)
व्याधः । इति मेदिनी ॥ विन्ध्यपर्व्वतस्य निम्न-
शृङ्गत्वकारणम् । यथा, --
नारद उवाच ।
“किमर्थमद्रिं भगवानगस्त्य-
स्तं निम्नशृङ्गं कृतवान् मह्र्षिः ।
कस्मै कृते केन च कारणेन
नस्तद्वदस्वाखिलसत्त्ववृत्ते ॥
पुलस्त्य उवाच ।
पुरा हि विन्ध्येन दिवाकरस्य
गतिर्न्निरुद्धा गगनेचरस्य ।
रविस्ततः कुम्भभवं समेत्य
होमावसाने वचनं बभाषे ॥
समागतोऽहञ्च द्विजर्षभ त्वां
कुरुष्व मय्युद्धरणं मुनीन्द्र ।
ददस्व दानं मम यन्मनीषितं
चरामि येन त्रिदिवे सुनिर्वृतः ॥
इत्थं दिवाकरवचो गुणसङ्गयोगि
श्रुत्वा तदा कलसजो वचनं बभाषे ।
दानं ददामि तव यन्मनसा त्वभीष्टं
नार्थी प्रयाति विमुखो मम कश्चिदेव ॥
श्रुत्वा वचोऽमृतमयं कलसोद्भवस्य
प्राह प्रभुः करपुटं प्रणिधाय मूर्द्ध्नि ।
एषोऽद्य मे गिरिवरः प्ररुणद्धि मार्गं
विन्ध्यस्य निम्रकरणे भगवान् यतस्व ॥
इति रविवचनादुवाच कुम्भजन्मा
कृतमिति तद्धि मया हि नीचशृङ्गम् ।
तव किरणजितो भविष्यतीति महीध्रो
मम हि शरणसमागतस्य का व्यथा ते ॥
इत्येवमुक्त्वा कलसोद्भवस्तु
सूर्य्यञ्च संस्तूय विनम्य भक्त्या ।
जगाम संत्यज्य हि दण्डकं हि
विन्ध्याचलं वृद्धवपुर्महर्षिः ॥
गत्वा वचः प्राह मुनिर्महीध्रं
यास्ये महातीर्थवरं सुपुण्यम् ।
वृद्धोऽप्यशक्तश्च तवाधिरोढुं
तस्माद्भवान् नीचतरोऽस्तु सद्यः ॥
इत्येवमुक्तो मुनिसत्तमेन
स नीचशृङ्गस्त्वभवन् महीध्रः ।
समाक्रमच्चापि महर्षिमुख्यः
प्रोल्लङ्म विन्ध्यं द्विज आह शैलम् ॥
यावन्न भूयो निजमाव्रजामि
महाश्रमं धौतवपुः सुतीर्थात् ।
त्वया न तावत्त्विह वर्द्धितव्यं
न चेत् शपिष्येऽहमवज्ञया ते ॥
इत्येवमुक्त्वा भगवान् जगाम
दिशं स यामीं सहसान्तरीक्षम् ।
आक्रम्य तस्थौ स हि तां तदाशां
काले व्रजाम्यत्र यदा मुनीन्द्र ॥
तत्राश्रमं रम्यतरं हि कृत्वा
संशुद्धजाम्बूनदतोरणान्तम् ।
तत्राथ निःक्षिप्य विदर्भपुत्त्रीं
स्वमाश्रमं सौन्यमुपाजगाम ॥
ऋतावृतौ कार्य्यपरो ह्यगस्त्यो
नित्यं तदा स्वाश्रममावसत् सः ।
शेषञ्च कालं स हि दण्डकस्थ-
स्तपश्चचारामितकान्तिमान्मुनिः ॥
विन्ध्योऽपि दृष्ट्वा गगने महाश्रमं
वृद्धिं न यात्येव भयान्महर्षेः ।
नासौ निवृत्तेऽभिमतिं निधाय
स संस्थितो नीचतराग्रशृङ्गः ॥
एवं त्वगस्त्येन महाचलेन्द्रः
स नीचशृङ्गो हि कृतो महर्षे ।
तस्योर्द्ध्वशृङ्गे मुनिसंस्तुता सा
दुर्गा स्थिता दानवशासनार्थे ॥
देवाश्च सिद्धाश्च महोरगाश्च
विद्याधरा भूतगणाश्च सर्व्वे ।
सर्व्वाप्सरोभिः सहिता दिवानिशं
कात्यायनीं तस्थुरपेतशोकाः ॥”
इति वामनपुराणे देवीमाहात्म्ये १८ अध्यायः ॥
“आर्य्यावर्त्तः पुण्यभूमिर्मध्यं विन्ध्यहिमागयोः ।”
इत्यमरः ॥
“विन्ध्यस्य पश्चिमे भागे मत्स्यभुक् पतितो
भवेत् ॥”
इति प्राचीनाः ॥

विन्ध्यकूटः, पुं, (विन्ध्ये कूटं माया कैतवं वा यस्य ।

व्याजेन तस्यावनतीकरणादस्य तथात्वम् ।)
अगस्त्यमुनिः । इति त्रिकाण्डशेषः ॥

विन्ध्यवासी, [न्] पुं, (विन्ध्ये वसतीति । वस +

णिनिः ।) व्याडमुनिः । इति हेमचन्द्रः ॥

विन्ध्यवासिनी, स्त्री, (विन्ध्ये वसतीति । वस् + णिनिः ।

ततस्त्रियां ङीप् ।) दुर्गा । यथा, --
“सहस्राक्षोऽपि तां गृह्य विन्ध्यं वेगाज्जगाम ह ।
तत्र गत्वा तथोवाच तिष्ठस्वात्र महावने ॥
पूज्यमाना सुरैर्नाम्ना ख्याता त्वं विन्ध्यवासिनी ॥
तत्र स्थाप्य हरिर्देवीं दत्त्वा सिंहञ्च वाहनम् ।
भवामरारिहन्त्रीति ह्युक्त्वा स्वर्गमवाप्नुयात् ॥”
इति वामने ५१ अध्यायः ॥ * ॥
अन्यच्च देवीपुराणे ४५ अध्याये ।
“विन्ध्येऽवतीर्य्य देवार्थं हतो घोरो महाभटः ।
अद्यापि तत्र सावासा तेन सा विन्ध्यवासिनी ॥”

विन्ध्यस्थः, पुं, (विन्ध्ये विन्ध्यपर्व्वते तिष्ठतीति । स्था

+ कः ।) व्याडिमुनिः । इति जटाधरः ॥

विन्ध्या, स्त्री, लवलीवृक्षः । इति मेदिनी ॥ त्रुटिः ।

इति हेमचन्द्रः ॥ एलाचि इति भाषा ॥

विन्ध्यावली, स्त्री, बलिपत्नी । बाणराजमाता ।

इति पुराणम् ॥ (यथा, भागवते । ८ । २० ।
१७ ।
“विन्ध्यावली तदागत्य पत्नीजालकमालिनी ॥”)

विन्ध्यावलीपुत्त्रः, पुं, (विन्ध्यावल्याः पुत्त्रः ।) बाण-

राजः । इति त्रिकाण्डशेषः ॥

विन्ध्यावलीसुतः, पुं, (विन्ध्यावल्याः सुतः ।) बाण-

राजः । इति जटाधरः ॥

विन्नः, त्रि, (विद् + क्तः । “नुदविदेति ।” ८ । २ । ५६ ।

नत्वम् ।) विचारितः । प्राप्तः । इत्यमरः ॥
ज्ञातः । स्थितः । इति विश्वः ॥

विन्यस्तः, त्रि, (वि + नि + अस + क्तः ।) कृत-

विन्यासः । यथा, --
“सद्द्रव्या गुणगुम्फिता सुकृतिनां सत्कर्म्मणां
ज्ञापिका
सत्सामान्यविशेषनित्यमिलिता भावप्रकर्षोज्-
ज्वला ।
विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली
विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा
चिरम् ॥”
इति सिद्धान्तमुक्तावली ॥

विन्याकः, पुं, (वि + नि + अक + घञ् ।) विद्ध-

वृक्षः । इति शब्दचन्द्रिका ॥ छातियान् इति
भाषा ॥

विन्यासः, पुं, (वि + नि + अस + घञ् ।) स्थाप-

नम् । रचनम् । यथा, ज्ञानार्णवे । वैष्णवे तु ।
“एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् ।
नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥”
अपि च ।
“ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्बिन्दुवर्ज्जितः ।
पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥”
इति भट्टः । इति तन्त्रसारः ॥
अन्यच्च ।
“गृहेषु मणिविन्यासो विज्ञेयो न च दण्डवत् ।
विशुद्धहीरकन्यासो विधेयः सदनोपरि ।
तेन सर्व्वाणि नश्यन्ति अरिष्टानि मही-
भुजाम् ॥”
इति युक्तिकल्पतरुः ॥
किञ्च ।
“तया कवितया किवा तया वनितया च किम् ।
पदविन्यासमात्रेण यया नापहृत मनः ॥”
इत्युद्भटः ॥

विप, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०

-सक०-सेट् ।) क, वेपयति । इति दुर्गादासः ॥

विपक्षः, पुं, (विरुद्धः पक्षो यस्य ।) शत्रुः । इत्य-

मरः ॥ (यथा हरिवंशे । ५३ । ५४ ।
“तत्र वंशा विभज्यन्तां विपक्षः पक्ष एव च ।
पुत्त्राणां हि तयो राज्ञो भविता विग्रहो
महान् ॥”
यथा च रघुवंशे । १७ । ७५ ।
“इन्दोरगतयः पद्मे सूर्य्यस्य कुमुदेऽंशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्त-
रम् ॥”
न्यायमते साध्याभाववत्पक्षः । यथा, भाषा-
परिच्छेदे । ७३ ।
पृष्ठ ४/४०६
“यः सपक्षे विपक्षे च भवेत् साधारणस्तु सः ।”
“सपक्षविपक्षवृत्तिः साधारणः । सपक्षः
साध्यवान् । विपक्षः साध्याभाववान् ।” इति
मुक्तावली ॥ विकल्पः पक्षः । उक्ताकरणम् ।
यथा, आर्य्यासप्तशत्याम् । ३५४ ।
“प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा
गुरुषु ॥”
विगतः पक्षो यस्य । पक्षहीने, त्रि ॥)

विपञ्चिका, स्त्री, (वि + पचि विस्तारे + ण्वुल् ।

स्त्रियां टाप् अत इत्वञ्च ।) वीणा । इति
शब्दरत्नावली ॥

विपञ्ची, स्त्री, (वि + पञ्च + अच् । स्त्रियां गौरा-

दित्वात् ङीष् ।) वीणा । इत्यमरः ॥ (यथा,
कथासरित्सागरे । ४९ । २० ।
“अहं ह्येतद्विजानामि तन्त्रीझङ्कारलक्षणैः ।
इत्युक्त्वा गुणशर्म्माङ्कात्तां विपञ्चीं मुमोच सः ॥”)
केलिः । इति मेदिनी । चे, १७ ॥

विपणः, पुं, (वि + पण व्यवहारे + घञ् । संज्ञा-

पूर्ब्बकत्वात् न वृद्धिः ।) विक्रयः । इत्यमरः ॥
(यथा, मनौ । ३ । १५२ ।
“विपणेन च जीवन्तो वर्ज्ज्याःस्युर्हव्यकव्ययोः ॥”
विशेषेण पण्यतेऽस्मिन्निति । विपणिः । यथा,
महाभारते । १२ । ६९ । ५३ ।
“विशालान् राजमार्गांश्च कारयेत नराधिपः ।
प्रपाश्च विपणांश्चैव यथोद्देशं समादिशेत् ॥”)

विपणिः, पुं स्त्री, (विपण्यतेऽस्मिन्निति । वि +

पण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ ।
इति इन् ।) पण्यविक्रयशाला । इति हला-
युधः ॥ हट्टः । इत्यन्ये । विक्रयार्थप्रसारित-
नानाद्रव्यायां बणिग्वीथ्यां वाणियाविथी
इति वाजार इति च ख्यातायामिति केचित् ।
हट्टमण्डपः । इति केचित् । हट्टमध्यस्थपण्य-
विक्रयवीथी । इति केचित् । इति भरतः ॥
तत्पर्य्यायः । पण्यवीथिका २ । इत्यमरः ॥
आपणः ३ पण्यवीथी ४ पण्यम् ५ । इति
रभसः ॥ निषद्या ६ बणिक्पथम् ७ । इत्यमर-
दत्तः ॥ विपणम् ८ वीथी ९ । इति कोषः ॥
“निषद्या विपणिः पण्यवीथिका त्वापणिस्तथा ।
पण्यविक्रयशालायां भवेदेतच्चतुष्टयम् ॥”
इति शब्दरत्नावली ॥
“विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः ।”
इति मेदिनी । णे, ७८ ॥
(यथा, महाभारते । ९ । ३५ । ३० ।
“विपण्यापणपण्यानां नानाजनशतैर्व्वृतः ॥”
बाणिज्यम् । यथा, मनौ । १० । ११६ ।
“विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः
कृषिः ।
धृतिर्भैक्ष्यं कुसीदञ्च दश जीवनहेतवः ॥”)

विपणी, [न्] पुं, (विपणः विक्रयोऽस्यास्तीति ।

विपण + इनिः ।) बणिक् । इति जटाधरः ॥
(यथा, शिशुपालवधे । ५ । २४ ।
“पूर्णापणा विपणिनो विपणीर्व्विभेजुः ॥”)

विपणी, स्त्री, (विपणि + वा ङीष् ।) हट्टः । इति

द्विरूपकोषः ॥ (यथा, कथासरित्सागरे । २० । ६५ ।
“ययौ भोजनमूल्यार्थी विपणीमात्तमूलकः ॥”)

विपत्तिः, स्त्री, (वि + पद + क्तिन् ।) आपत् ।

विपत् । इत्यमरः ॥ यातना । इति मेदिनी ।
ते, १५९ । यथा, --
भृगुरुवाच ।
“श्रुतं सर्व्वं सुरश्रेष्ठ मारोदीर्व्वचनं शृणु ।
न कातरो हि नीतिज्ञो विपत्तौ च कदाचन ॥
सम्पत्तिर्व्वा विपत्तिर्व्वा नश्वरा स्वप्नरूपिणी ।
पूर्ब्बस्वकर्म्मायत्ता च स्वयं कर्त्ता तयोरपि ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३४ अध्यायः ॥
विनाशः । यथा, --
“यस्मिन् राशिगते भानौ विपत्तिं यान्ति
मानवाः ।
तेषां तत्रैव कर्त्तव्या पिण्डदानोदकक्रिया ॥”
इति मलमासतत्त्वम् ॥

विपथः, पुं, (विरुद्धः पन्थाः । “ऋक्पूरब्धूःपथा-

मानक्षे ।” ५ । ४ । ७४ । इत्यकारप्रत्ययः ।)
निन्दितपथः । तत्पर्य्यायः । व्यध्वः २ दुरध्वः ३
कदध्वा ४ कापथः ५ । इत्यमरः ॥ कुपथः ६
असत्पथः ७ कुत्सितवर्त्म ८ । इति शब्दरत्ना-
वली ॥ (यथा, महाभारते । १२ । ३५९ । ११ ।
“सत्पथं कथसत्सृज्य यास्यामि विपथं वद ॥”)

विपत् स्त्री, (वि + पद् + सम्पदादित्वात् क्विप् ।)

विपत्तिः । इत्यमरः ॥ (यथा, --

विपद् स्त्री, (वि + पद् + सम्पदादित्वात् क्विप् ।)

विपत्तिः । इत्यमरः ॥ (यथा, --
“कैवर्त्तकर्क्कशकरात् सफरश्च्युतोऽपि
जाले पुनर्निपतितः सफरो विपाकः ।
दैवात्ततो विगलितो गिलितो वकेन
वामे विधौ वद कथं विपदां निवृत्तिः ॥”
इत्युद्भटः ॥
यथा च मागवते । १ । ९ । १५ ।
“यत्र धर्म्मसुतो राजा गदापाणिर्व्वृकोदरः ।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो
विपत् ॥”)

विपदा, स्त्री, (विपद् + भागुरिमते हलन्तानां

टाप् ।) विपत् । इत्यमरटीकायां रायमुकुटः ॥

विपन्नः, त्रि, (वि + पद + क्तः ।) विपदाक्रान्तः ।

इति मेदिनी । ने, १३४ ॥ नष्टः । इति शब्द-
रत्नावली ॥

विपन्नः, पुं, सर्पः । इति मेदिनी । ने, १३४ ॥

विपरीतः, त्रि, (वि + परि + इ + क्तः ।) विप-

र्य्ययः । उल्टा इति भाषा ॥ तत्पर्य्यायः ।
प्रतिसव्यः २ प्रतिकूलः २ अपसव्यः ४ अपष्टुः
५ विलोमकः ६ । इति जटाधरः ॥ प्रसव्यम्
७ पराचीनम् ८ प्रतीपम् ९ । इति शब्दरत्ना-
वली ॥ (यथाच शङ्करदिग्विजये ।
“मत्तो जातः कलञ्जाशी विपरीतानि भाषसे ।
सत्यं ब्रवीषि पितृवत् त्वत्तो जातः कलञ्जभुक् ॥”
मुमूर्षुः । यथा, रामायणे । ६ । १७ । १५ ।
“स च न प्रतिजग्राह रावणः कालचोदितः ।
उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥”)
षोडशरतिबन्धान्तर्गतदशभबन्धः । यथा, --
“पादमेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम् ।
नारीषु रमते कामी विपरीतस्तु बन्धकः ॥”
इति रतिपञ्जरी ॥
अपिच ।
“पादमेकमूरौ कृत्वा द्वितीयं स्कन्धसंस्थितम् ।
कामिन्याः कामयेत् कामी बन्धः स्याद्विपरी-
तकः ॥”
इति स्मरदीपिका ॥

विपरीता, स्त्री, कामुकी । इति धनञ्जयः ॥

विपर्णकः, पुं, (विशिष्टानि पर्णानि यस्य ।) पलाश-

वृक्षः । इति शब्दचन्द्रिका ॥ (पर्णरहिते, त्रि ॥)

विपर्य्ययः, पुं, (वि + परि + इ + “एरच् ।”

इत्यच् ।) व्यतिक्रमः । तत्पर्य्यायः । व्यत्यासः २
विपर्य्यासः ३ व्यत्ययः ४ । इत्यमरः ॥ विपर्य्यायः
५ । इति भरतः ॥ (यथा, भागवते । १० ।
१ । ५० ।
“विपर्य्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया ।
उपस्थितो निवर्त्तेत निवृत्तः पुनरापतेत् ॥”
सांख्यनये विपर्य्ययाः पञ्च । ते च सांख्यकारि-
कायां द्रष्टव्याः ॥)

विपर्य्यायः, पुं, (विगतः पर्य्यायो यस्य । यद्बा,

वि + परि + इ + घञ् ।) विपरीतमयनम् ।
अन्यस्यान्यरूपग्रहणम् । इति भरतः ॥
“विपर्य्याये कुलं नास्ति न कुलं रण्डपित्तयोः ।”
इति कुलाचार्य्यकारिका ॥

विपर्य्यासः, पुं, (वि + परि + अस + घञ् ।) विप-

र्य्ययः । इत्यमरः ॥ (यथा, उत्तरचरिते । २ ।
“पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्य्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्द्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥”
अप्रमात्मकबुद्धिभेदः । यथा, भाषापरिच्छेदे ।
“तच्छून्ये तन्मतिर्यास्यादप्रमा सा निरूपिता ।
तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः ।
आद्यो देहे ह्यात्मबुद्धिः शङ्खादौ पीतता-
मतिः ॥”
“आद्यो विपर्य्यासः ।” इति मुक्तावली ॥)

विपव्यं, त्रि, (वि + पू + “अचो यत् ।” इति

यत् ।) शोधनीयम् । विपूर्व्वपूधातोर्यप्रत्ययेन
निष्पन्नम् ॥

विपशी, [न्] पुं, बुद्धभेदः । इति हेमचन्द्रः ॥

विपश्चित्, त्रि, (विशेषं पश्यति विप्रकृष्टं चेतति

चिनोति चिन्तयति वा । पृषोदरादित्वात्
साधुः ।) पण्डितः । इत्यमरः ॥ (यथा, मनौ ।
७ । ५८ ।
“सर्व्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता ॥”)

विपाकः, पुं, (वि + पच + भावे कर्म्मणि वा घञ् ।)

पचनम् । (यथा, भागवते । ५ । १६ । २० ।
“तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानु-
विध्यमाना वाय्वर्कसंयोगविपाकेन सदामर-
लोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥”)
पृष्ठ ४/४०७
स्वेदः । कर्म्मणो विसदृक्फलम् । इति मेदिनी ॥
(फलमात्रम् । यथा, भागवते । १० । ७१ । १० ।
“जरासन्धबधः कृष्ण भूर्य्यर्थायोपकल्प्यते ।
प्रायःपाकविपाकेन तव चाभिमतः क्रतुः ॥”
चरमोत्कर्षः । यथा, तत्रैव । ४ । ९ । २ ।
“सवै धिया योगविपाकतीव्रया
हृत्पद्मकोषे स्फुरितं तडित्प्रभम् ॥”)
परिणामः । दुर्गतिः । स्वादुः । इति हेम-
चन्द्रः ॥ जातिः । आयुः । भोगः । इति
कुसुमाञ्जलिः ॥ * ॥ (कर्म्मफलरूपस्यैव विपा-
कस्य त्रैविध्यम् । यथाच पातञ्जले । २ । १३ ।
“सति मूले तद्बिपाको जात्यायुर्भोगाः ॥”
“सतसु क्लेशेषु कर्म्माशयो विपाकारम्भी भवति
नोच्छिन्नक्लेशमूलोऽपि । यथैव तुषावनद्धाः
शालितण्डुला दग्धबीजभावाः प्ररोहसमर्था
भवन्ति नापनीततुषा दग्धबीजभावा वा । तथा
क्लेशावनद्धः कर्म्माशयो विपाकप्ररोही भवति
नापनीतक्लेशोनप्रसंख्यानदग्धबीजभावो वेति ।
स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति ॥”
इति तद्भाष्यम् ॥)
“जाठरेणाग्निना योगात् यदुदेति रसान्त-
रम् ।
रसानां परिणामान्ते स विपाक इति स्मृतः ॥”
इति सुश्रुतः ॥
अपि च ।
“मिष्टः कटुश्च मधुरमम्लोऽम्लं पच्यते रसः ।
कटुतिक्तकषायाणां पाकः स्यात् प्रायशः
कटुः ॥”
तथा च वाग्भटः ।
“त्रिधा रसानां पाकः स्यात् स्वाद्वम्लकटुका-
त्मकः ॥”
प्रायः पदेन व्रीहिः स्वादुरम्लविपाकः । शिवा
कषाया मधुपाका । शुण्ठी कटुकमधुरपाके-
त्यादिः ॥ * ॥ अथ विपाकानां गुणाः ।
“श्लेष्मकृन्मधुरः पाको वातपित्तहरो मतः ।
अन्नअस्तु कुरुते पित्तं वातश्ले ष्मगदापहः ॥
कटुः करोति पचनं कफं पित्तञ्च नाशयेत् ।
विशेष एष रसतो विपाकानां निदर्शितः ॥”
इति भावप्रकाशः ॥
(तथास्य विवरणम् ।
“नेत्याहुरन्ये । विपाकः प्रधानमिति कस्मात्
सम्यङ्मिथ्याविपाकत्वादिह सर्व्वद्रव्याण्यभ्यव-
हृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा
जनयन्ति । तत्राहुरन्ये प्रतिरसं पाक इति ।
केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकञ्चेति
तत्तु न सम्यक् भूतगुणादागमाच्चाम्लो विपाको
नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्द-
त्वात् । यद्येवं लवणोऽप्यन्यः पाको भविष्यति
श्ले ष्माहिविदग्धो लवणतामुपैति मधुरो मधुर-
स्याम्लोऽम्लस्यैवं सर्व्वेषामिति । केचिदाहुर्दृष्टान्तं
चोपदिशन्ति यथा तावत् क्षीरं स्थालीगत-
मभिमानं मधुरमेवस्यात्तथा शालियवमुद्गादयः
प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति
तद्वदिति ।”
“किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति
वा ॥”
इति सुश्रुते सूत्रस्थाने ४० अः ॥)

विपाट्, [श्] स्त्री, विपाशानदी । इत्यमरः ॥

(यथा, ऋग्वेदे । ३ । ३३ । १ ।
“गावेव शुभ्रे मातरा रिहाणे
विपाट्छुतुद्री पयसा जवेते ॥”
“विपाट् कूलविपाटनात् विपाशनात् शतपुत्त्र-
मरणोद्भूततमोवृतेर्म्मुमूर्षोर्वशिष्ठस्य पाशा अस्यां
व्यपास्यन्त विमोचनाद्वा विपाट् । शुतुद्री शुक्षिप्रं
तुन्ना तुन्नेव द्रवति गच्छतीति शुतुद्री एत-
न्नागके नद्यौ ॥ प्रजवेते समुद्रं प्रति शीघ्रं
गच्छतः । *** विपाट् पटगतौ । पशवाधन-
स्पर्शनयोरितिवा ण्यन्तावेतौ विपूर्ब्बौ शकारस्य
ब्रश्चादिना षत्वम् ॥” इति तद्भाष्ये सायणः ॥)

विपा(ट)ठः, पुं, बाणः । इति त्रिकाण्डशेषः ॥

(यथा, महाभारते । ३ । २७० । १७ ।
“एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥”
स्त्री, दुर्गमराजभार्य्या । यथा, मार्कण्डेये ।
७५ । ४६ ।
“विपाठां नन्दिनीञ्चैव वेद्मि भार्य्यां गृहे
द्विज ॥”)

विपादिका, स्त्री, पादस्फोटः । इत्यमरः ॥ (यथा,

राजतरङ्गिण्याम् । ८ । १३७ ।
“छिन्नोपानत कशाबन्धे शतं चर्म्मकृतेऽर्पितम् ।
विपादिकाकृते दास्या नीतं पञ्चाशतो घृतम् ॥”)
“वैपादिकं पाणिपादे स्फुटनं तीव्रवेदनम् ।
कण्डुमद्भिः सरागैश्च गण्डैरलसकं चितम् ॥”
विपादिका वातश्लेष्मोद्भवा । इति माधवकरः ॥
अयं कुष्ठरोगः ॥ (अस्या लक्षणम् । यथा, --
“कण्डूमती दाहरुजोपपन्ना
विपादिका पादगतेयमेव ॥”
इति सुश्रुते निदानस्थाने पञ्चमेऽध्याये ॥)
प्रहेलिका । इति शब्दमाला ॥ * ॥

विपाशा, स्त्री, (पाशं विमोचयतीति । पाश +

“सत्यापपाशेति ।” ३ । १ । २५ । विमोचने णिच् ।
ततः पचाद्यच् ।) नदीविशेषः । इत्यमरः ॥
पुत्त्रशोकादेव गले पाशं बद्ध्वा प्रविष्टं वशिष्ठं
पाशच्छेदात् विपाशितवती विमुक्तपाशं कृत-
वतीति विपाशा ञिः कल्यादेरिति पाशं
विमोचयति इत्यर्थे ञिः पचादित्वादन् आप् ।
एवं क्विपि विपाट् । इति तट्टीकायां भरतः ॥ * ॥
(यथा, हरिवंशे । १६६ । २० ।
“इरावती विपाशाच सरयूर्यमुना तथा ॥”)
तस्या जलगुणाः ।
“शतद्रोर्विपाशायुजः सिन्धुनद्याः
सुशीतं लघु स्वादु सर्व्वामयघ्नम् ।
जलं निर्म्मलं दीपनं पाचनञ्च
प्रदत्ते बलं बुद्बिमेधायुषञ्च ॥”
इति राजनिर्घण्टः ॥
(अस्या नामनिरुक्त्यादि विशेषविवरणं महा-
भारते । १ । १७८ । अध्याये द्रष्टव्यम् ॥ अस्या-
स्तीरे पीठस्थाने अमोघाक्षीदेवी वर्त्तते । यथा,
देवीभागवते । ७ । ३० । ६५ ।
“विपाशायाममोघाक्षी पाटला पुण्ड्रवर्द्धने ॥”
तथा अत्र यशस्करनामकविष्णुमूर्त्तिरपि वर्त्तते ।
यथा, नरसिंहपुराणे ६२ अध्याये ।
“यशस्करं विपाशायां माहिष्मत्यां हुताश-
नम् ॥”
विगतः पाशो यस्य ।) पाशवर्ज्जिते, त्रि । इति
धरणिः ॥ (यथा, महाभारते । ३ । १३० । ९ ।
“अत्र वै पुत्त्रशोकेन वशिष्ठो भगवानृषिः ।
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥”
पाशास्त्रहीने च त्रि ॥ यथा, हरिवंशे । ४७ ।
४८ ।
“निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे ॥”)

विपिनं, क्ली, (वेपन्ते जना यत्रेति । “वेपितुह्यो-

र्ह्रस्वश्च ।” उणा० २ । ५२ । इनन् । ह्रस्व-
त्वञ्च ।) वनम् । इत्यमरः ॥ (यथा, महानाटके ।
“यच्चिन्तितं तदिह दूरतरं प्रयाति
यच्चेतसा न गणितं तदिहाभ्युपैति ।
प्रातर्भवामि वसुधाधिपचक्रवर्त्ती
सोऽहं व्रजामि विपिने जटिलस्तपस्वी ॥”
भीतिप्रदे, त्रि । यथा, भागवते । ९ । १५ । २३ ।
“स एकदा तुंमृगयां विचरन् विपिने वने ।
यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥”
विजने वने इत्यपि क्वचित् पाठः ॥)

विपुलः, त्रि, (विशेषेण पोलतीति । वि + पुल

महत्त्वे + कः ।) बृहत् । इत्यमरः ॥ (यथा,
साहित्यदर्पणे । १० ।
“विपुलेन सागरशयस्य कुक्षिणा ॥”)
अगाधम् । इति मेदिनी । ले, १३२ ॥

विपुलः, पुं, (वि + पुल + कः ।) मेरुपश्चिमभूधरः ।

इति मेदिनी । ले, १३२ ॥ (अयं हि सुमेरो-
र्व्विष्कम्भपर्व्वतानामन्यतमः । यथा, विष्णुपुराणे ।
२ । ३ । १७ ।
“विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोक्षरे स्मृतः ॥”
अस्मिंस्तु पीठस्थाने विपुलेति पीठदेवी वर्त्तते ।
यथा, देवीभागवते । ७ । ३० । ६६ ।
“विपुले विपुला देवी कल्याणी मलयाचले ॥”)
सुमेरुः । हिमाचलः । इति धरणिः ॥ (वसुदेव-
पुत्त्रः । यथा, भागवते । ९ । २४ । ४६ ।
“बलं गदं सारणञ्च दुर्म्मदं विपुलं ध्रुवम् ।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥”)

विपुलरसः, पुं, (विपुलो रसो यत्र ।) इक्षुः ।

इति केचित् ॥

विपुला, स्त्री, (वि + पुल महत्त्वे + कः । ततस्त्रियां

टाप् ।) पृथिवी । आर्य्याच्छन्दोभेदः । इति
हेमचन्द्रः ॥ अस्या लक्षणादिर्यथा, --
“पथ्या विपुला चपला मुखचपला जघन-
चपला च ।
गीत्युपगीत्युद्गीतय आर्य्यागीतिश्च नवधार्य्या ॥
पृष्ठ ४/४०८
संलङ्व्य गणत्रयमादिमं सकलयोर्द्वयोर्भवति
पादः ।
यस्यास्तां पिङ्गलनागो विपुलामिति समा-
ख्याति ॥
पंसां कलिकालव्यालहतानां नास्त्युपहतिर-
ल्पापि ।
वीर्य्यविपुला मुखे चेत् स्यात् गोविन्दाख्यमन्त्र-
कला ॥”
इति छन्दोमञ्जरी ॥
(विपुलपर्व्वतस्थादेवी । इति देवीभागवतम् ।
७ । ३० । ६६ ॥)

विपुलास्रवा, स्त्री, (विपुलं रसं आस्रवतीति । आ

+ स्रु + अच् । टाप् ।) गृहकन्या । इति राज-
निर्घण्टः ॥

विपूयः, पुं, (वि + पू + “विपूयविनीयेति ।” ३ । १ ।

११७ । इति कर्म्मणि क्यबन्तनिपातः ।) मुञ्जः ।
इति मुग्धबोधव्याकरणम् ॥ यथा, --
“वासानां वल्कले शुद्धे विपूयैः कृतमेखलाम् ।
क्षामामञ्जनपिण्डाभां दण्डिनीमजिनास्तराम् ॥”
इति भट्टिः । ६ । ६० ॥

विप्रः, पुं, (वप + “ऋज्रेन्द्राग्रवज्रेति ।” उणा० २ । २८ ।

निपातनात् रप्रत्ययेन साधुः ।) ब्राह्मणः । इत्य-
मरः । विशेषेण प्राति पूरयति षट् कर्म्माणि
विप्रः । प्रा ल पूर्त्तौ इत्यस्मात् डप्रत्ययः । किंवा ।
उप्यते धर्म्मबीजमत्र इति वपेर्नाम्नीति रे
निपातनादत इत्वम् । इति भरतः ॥ तस्य
लक्षणं यथा, --
“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् ॥”
इति प्रायश्चित्तविवेकः ॥
(यथाच मनौ । १ । ९४ ।
“उत्षत्तिरेव विप्रस्य मूर्त्तिर्धर्म्मस्य शाश्वती ।
स हि धर्म्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥”
अस्य पादोदकमाहात्म्ये यथा, ब्रह्मवैवर्त्ते । १ ।
११ । २६ -- ३३ ।
“पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत् पुष्करपात्रेषु पिबन्ति पितरो जलम् ।
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ॥
स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
महारोगी यदि पिबेत् विप्रपादोदकं द्विज ।
मुच्यते सर्व्वरोगेभ्यो मासमेकन्तु भक्तितः ॥
अविद्यो वा सविद्यो वा सन्ध्यापूतो हि यो
द्विजः ।
स एव विष्णुसदृशो मा हरी विमुखो यदि ॥
घ्नन्तं विप्र शपन्तं वा न हन्यान्नच तं शपेत् ।
गोभ्यः शतगुणं पूज्यो हरिभक्तश्च ब्राह्मणः ॥
पादोदकञ्च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज ।
नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत् ॥
एकादश्यां न भुङ्क्ते यो नित्यं विष्णुं समर्च्चयेत् ।
नस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद्ध्रुवम् ॥”)
अश्वत्थः । इति राजनिर्घण्टः ॥ (त्रि, मेधावी ।
यथा, ऋग्वेदे । १० । ११२ । । ९ ।
“निषुसीद गणपते गणेषु त्वा माहुर्व्विप्रतमं
कवीनाम् ॥”)
“विप्रतमं अतिशयेन मेधाविनम् ।” इति तद्भाष्ये
सायणः ॥ स्तवकर्त्ता । यथा, ऋग्वेदे । १० ।
४० । १४ ।
“विप्रस्य वा यजमानस्य वा गृहम् ॥”
“विप्रस्य मेधाविनः स्तोतुर्व्वा ।” इति तद्भाष्ये
सायणः ॥)

विप्रकारः, पुं, (वि + प्र + कृ + भावे घञ् ।)

अपकारः । तत्पर्य्यायः । निकारः २ । इत्य-
मरः ॥ (यथा, महाभारते । १ । ६२ । १४ ।
“तेषान्तु विप्रकारेषु तेषु तेषु महामतिः ।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत् ॥”)
खलीकारः । इति स्वामी । तिरस्कारः । इति
हेमचन्द्रः ॥ (विविधप्रकारः । यथा, महा-
भारते । ३ । २७५ । ३ ।
“स वाधते प्रजाः सर्व्वा विप्रकारैर्म्महाबलः ।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते ॥”)

विप्रकाष्ठं, क्ली, तूलवृक्षः । इति राजनिर्घण्टः ॥

विप्रकृतः, त्रि, (वि + प्र + कृ + क्तः ।) तिरस्कृतः ।

तत्पर्य्यायः । निकृतः २ । इति हेमचन्द्रः ॥
(यथा, कुमारसम्भवे । २ । १ ।
“तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।
तुराषाहं पुरोधाय घाम स्वायम्भुवं ययुः ॥”)

विप्रकृतिः, स्त्री, विप्रकारः । विप्रपूर्व्वककृधातोः

क्तिप्रत्ययेन निष्पन्नमिदम् ॥

विप्रकृष्टः, त्रि, (वि + प्र + कृष + क्तः ।) दूरः ।

इति हलायुधः ॥ (यथा, --
“सन्निकृष्टविप्रकृष्टव्यभिचारिप्राधानिकमेदाच्च-
तुर्धा इति । नच ते चयादिकमपेक्षन्ते । विप्र-
कृष्टो यथा । हेमन्ते नि चतः श्लेष्मा वसन्ते
कफरोगकृत् । किंवा सन्निकृष्टो ज्वरस्य रुक्षादि-
सेवा विप्रकृष्टो रुद्रकोपः ।” इति माधवकृत
रुग्विनिश्चयव्याख्याने विजयः ॥)

विप्रकृष्टकं, त्रि, (विप्रकृष्ट एव । स्वार्थे कन् ।)

दूरम् । इत्यमरः ॥

विप्रचित्तिः, पुं, दनुपुत्त्रः । यथा, --

सूत उवाच ।
“अभवद्दनुपुत्त्राश्च वंशे ख्याता महासुराः ।
विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
(तथाच महाभारते । १ । ६५ । २१ ।
“चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र
भारत ।
तेषां प्रथमजो राजा विप्रचित्तिर्म्महायशाः ॥”)

विप्रतिपत्तिः, स्त्री, (वि + प्रति + पद + क्तिन् ।)

विरोधः । यथा, --
“परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु ।
वाक्यान्न्यायाद्व्यवस्थान व्यवहार उदाहृतः ॥
भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृद्धिभिः ।
आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥”
इति मिताक्षरायां व्यवहारमातृका ॥ * ॥
विकृतिः । यथा प्रथमाध्याये कात्यायनसूत्रम् ।
शब्देऽविप्रतिपत्तिरिति । प्रतिनिहितद्रव्ये श्रुत-
शब्दः प्रयोज्यः । श्रुतद्रव्यबुद्ध्या प्रतिनिध्युपादा-
नात् शब्दान्तरप्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात् ।
इत्येकादशीतत्त्वम् ॥ (अन्यथाभावः । अरिष्ट-
विशेषः । यथा, सुश्रुते । १ । ३० । “अथातः पञ्चे-
न्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ।”
एवं छायाविप्रतिपत्तिः । स्वभावविप्रति-
पत्तिः ॥)

विप्रतिसारः, पुं, (वि + प्रति + सृ + घञ् ।)

विप्रतीसारः । इत्यमरटीकायां रायमुकुटः ॥
(यथा, शिशुपालधधे । १० । २० ।
“प्रापि चेतसि स विप्रतिसारे
सुभ्रुवामवसरः सरकेण ॥”
“विप्रतिसारे पश्चात्तापयुक्ते । पश्चात्तापोऽनुता-
पश्च विप्रतीसार इत्यपि । इत्यमरः ।” इति
तट्टीकायां मल्लिनाथः ॥)

विप्रतिषिद्धं, त्रि, (वि + प्रति + षिध + क्तः ।)

निषिद्धम् । इति स्मृतिः ॥

विप्रतीसारः, पुं, अनुतापः । इत्यमरः ॥ कौकृत्यम् ।

अनुशयः । रोषः । इति मेदिनी । रे, ३०७ ॥

विप्रदहः, पुं, (विशेषेण प्रकृष्टञ्च दह्यते इति ।

दह + घः ।) फलमूलादिशुष्कद्रव्यम् । इति
शब्दचन्द्रिका ॥

विप्रप्रियः, पुं, (विप्राणां पियः । यज्ञीयद्रुमत्वात् ।)

पलाशवृक्षः । इति केचित् ॥ ब्राह्मणवल्लभे, त्रि ।
यथा, --
“रामं लक्ष्मणपूर्ब्बजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं
धार्म्मिकम् ।”
इति रामायणम् ॥

विप्रयाणं, क्ली, (विशेषेण प्रयाणम् ।) पलायनम् ।

इति केचित् ॥

विप्रयुक्तः, त्रि, (प्र + युज् + भावे क्तः । विगतं

प्रयुक्तं प्रयोगो यस्मात् ।) विश्लिष्टः । विभिन्नः ।
इति केचित् ॥

विप्रयोगः, पुं, (विगतः प्रकृष्टो योगो यत्र ।)

विप्रलम्भः । इत्यमरः ॥ विरहो विसंवादो वा ।
इति स्वामी ॥ रागिणोर्विच्छेदः । इति सुभूतिः ॥
(यथा, मनौ । ९ । १ ।
“पुरुषस्य स्त्रियाश्चैव धर्म्म्ये वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्म्मान् वक्ष्यामि शाश्व-
तान् ॥”
संयोगाभावः । यथा, साहित्यदर्पणे । २ ।
“संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता ॥”)

विप्रलब्धः, त्रि, (वि + प्र + लभ + क्तः ।) वञ्चितः ।

इति हेमचन्द्रः ॥ (यथा, महाभारते । ५ ।
१९१ । २१ ।
“दशार्णराजो राजंस्त्वामिदवचनमब्रवीत् ।
अभिषङ्गात् प्रकुपितो विप्रलब्धस्त्वयानघ ॥”)
पृष्ठ ४/४०९

विप्रलब्धा, स्त्री, (विशेषेण प्रलब्धा प्रतारिता ।)

स्वीयादिनायिकाभेदः । तस्या लक्षणं यथा, --
सङ्केतनिकेतने प्रियमनवलोक्य समाकुलहृदया
विप्रलब्धा । अस्याश्चेष्टा निर्वेदनिश्वाससखी-
जबोपालम्भभयमूर्च्छाचिन्ताश्रुपातादयः ॥ * ॥
मुग्धा पिप्रलब्धा यथा, --
“आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया
शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न
स्थितम् ।
न्यस्ताः किन्तु नवोढनीरजदृशा कुञ्जोपकण्ठे
रुषा
भ्राम्यद्भृङ्गकदम्बडम्बरचमत्कारस्पृशो
दृष्टयः ॥” * ॥
मध्या विप्रलब्धा यथा, --
“सङ्केतकेलिगृहमेत्य निरीक्ष्य शून्य-
मेणीदृशो निभृतनिश्वसिताधरायाः ।
अर्द्धाक्षरं वचनमर्द्धविकाशि नेत्रं
ताम्बूलमर्द्धकवलीकृतमेव तस्थौ ॥” * ॥
प्रगल्भा विप्रलब्धा यथा, --
“शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञात-
चेतोभवं
दूती नापि निवेदिता सहचरी पृष्टापि नो वा
तया ।
शम्भो शङ्कर चन्द्रशेखर हरश्रीकण्ठ शूलिन्
शिव
त्रायस्वेति परन्तु पङ्कजदृशा भर्गस्य चक्रे
स्तुतिः ॥” * ॥
परकीया विप्रलब्धा यथा, --
“दत्त्वा धैर्य्यभुजङ्गमूर्द्ध्नि चरणावुल्लङ्घ्य लज्जानदी-
मङ्गीकृत्य घनान्धकारपटलं तन्व्या न दृष्टः
प्रियः ।
सन्तापाकुलया तया च परितः पाथोधरे
गर्ज्जति
क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ
योजिते ॥”
सामान्या विप्रलब्धा यथा, --
“कपटवचनभाजा केनचिद्बारयोषा
सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ ।
इति तरलितरिङ्गद्भृङ्गविक्षिप्तचक्षु-
र्हसति विकचकुन्दच्छद्मना केलिकुञ्जः ॥”
इति रसमञ्जरी ॥

विप्रलम्भः, पुं, (वि + प्र + लभ + घञ् । नुम् ।)

विसंवादः । (यथा, महाभारते । ३ । ३१ । २७ ।
“विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥”)
बञ्चनम् । (यथा, महाभारते । ५ । १९१ । १६ ।
“ततो दशार्णाधिपतेः प्रेष्याः सर्व्वा न्यवेदयन् ।
विप्रलम्भं यथा वृत्तं स च चुक्रोध पार्थिवः ॥”)
विप्रयोगः । विच्छेदः । इत्यमरः ॥ शृङ्गाररस-
भेदः । यथा, शब्दरत्नावल्याम् ।
“नामान्येतानि शृङ्गारे कैशिकः शुचिरुज्ज्वलः ।
सम्भोगो विप्रलम्भश्च तस्य भेदद्बयं भवेत् ॥”
शृङ्गाराङ्गविशेषः । यथा, --
“यूनोरयुक्तयोर्भावो युक्तयोर्वाथ यो मिथः ।
अभीष्टालिङ्गनादीनामनवाप्त्यै प्रहृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नतिकारकः ॥”
इत्युज्ज्वलनीलमणिः ॥

विप्रलापः, पुं, (वि + प्र + लप + घञ् ।) विरो-

धोक्तिः । इत्यमरः ॥ परवचनविरोधिवचनं
विप्रलापः । अन्योन्यविवदनमिति यावत् । यथा
एको ब्रूते आगता कल्याणीति अन्यो ब्रूते
नहीति । तथाभ्युदाजहार सर्व्वानन्दः ।
“एकः स्रवन्मधुसरोजमवैति वक्त्र-
मन्यः सुधाकिरणबिम्बमदो मृगाक्ष्याः ।
यूनोर्म्मुहुर्व्विवदतोर्व्वदने बभूवुः
सिद्धान्तवन्मधुशराजिगतागतानि ॥”
विरुद्धः प्रलापो विप्रलापः घञ् । विरोधे
उक्तिर्वचनं विरोधोक्तिः । इति भरतः ॥ (यथा,
महाभारते । ६ । ८२ । २५ ।
“स धर्म्मराजस्य वचो निशम्य
रूक्षाक्षरं विप्रलापापविद्धम् ॥”)
अनर्थकवाक्यम् । इति हेमचन्द्रः ॥ (यथा,
महाभारते । ३ । ५ । २१ ।
“सत्यं श्रेयः पाण्डव विप्रलापं
तुल्यञ्चान्नं सह भोज्यं सहायैः ॥”)

विप्रलोभी, [न्] पुं, किंकिरातवृक्षः । इति राज-

निर्घण्टः ॥

विप्रश्निका, स्त्री, (विविधः प्रश्नोऽस्त्यस्या इति ।

विप्रश्न + “अत इनिठनौ ।” ५ । २ । ११५ । इति
ठन् ।) दैवज्ञा । इत्यमरः ॥

विप्रियः, पुं, (विरुद्धं प्रीणातीति । प्री + कः ।)

अपराधः । तत्पर्य्यायः । मन्तुः २ व्यलीकम् ३
आगः ४ । इति हेमचन्द्रः ॥ (यथा, भाग-
वते । ६ । ५ । ४२ ।
“यन्नस्त्वं कर्म्मसन्धानां साधूनां गृहमेधिनाम् ।
कृतवानसि दुर्म्मर्षं विप्रियं तव मर्षितम् ॥”)
अप्रिये, त्रि । (यथा, महाभारते । १ । १६० । ८ ।
“पिण्डं पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं
भवेत् ॥”)

विप्रुट्, [ष्] स्त्री, (विशेषेण प्रोषति दहति

पापानि । वि + प्रुष् + क्विप् ।) बिन्दुः । इत्य-
मरः ॥ (यथा, महाभारते । १३ । १०७ ।
१३५ ।
“विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ॥”)
वेदपाठे विप्रुषो मुखनिर्गतजलबिन्दवो ब्रह्म-
बिन्दव उच्यन्ते । ते शुद्धाः । यथा, --
“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः ।
रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥”
इति शुद्धितत्त्वे मनुवचनम् ॥
(यथा च मनौ । ५ । १४१ ।
“नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गे पतन्तियाः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥”)
आचमनकाले मुखनिर्गता विप्रुषो न उच्छिष्ट-
जनिकाः । यथा, --
“नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गं नयन्ति याः ।
दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥”
इति कौर्म्मे उपविभागे १३ अध्यायः ॥

विप्रोषितः, त्रि, प्रवासितः । विप्रपूर्ब्बकवसधातोः

क्तप्रत्ययेन निष्पन्नः ॥

विप्लवः, पुं, (वि + प्लु + अप् ।) परचक्रादिभयम् ।

इति भरतः ॥ राष्ट्राद्युपद्रवः । इति सार-
सुन्दरी ॥ तत्पर्य्यायः । डिम्बः २ डमरः ३ ।
इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ८ । १०४१ ।
“सर्व्वां मडवराज्योर्व्वीं वीरः शमितविप्ल-
वाम् ॥”)
अस्त्रकलहः । इति स्वामी ॥ (क्लेशः । उप-
द्रवः । यथा, भागवते । ४ । २६ । ९ ।
“विप्लवोऽभूद्दःखितानां दुःसहः करुणात्मनाम् ॥
विनाशः । यथा, कथासरित्सागरे । १३ । ८२ ।
“संमन्त्र्य कौतुकात् पापास्तद्भार्य्याशीलविप्लवम् ।
चिकीर्षवो ययुः शीघ्रं ताम्रलिप्तीमलक्षिताः ॥”
विप्लवते इति अच् । जलोपर्य्यवस्थितः । यथा,
महाभारते । ९ । ३ । ५ ।
“बणिजो नावि भग्नायामगाधे विप्लवा इव ॥”)

विप्लावः, पुं, अश्वस्य प्लुतगतिः । इति विपूर्ब्ब-

प्लुधातोर्घञ् प्रत्ययेन निष्पन्नम् ॥

विप्लुट्, [ष्] स्त्री, (विशेषेण प्लोषतीति । वि +

प्लुष् + क्विप् ।) विप्रुट् । बिन्दुः । इत्यमर-
टीकायां रामाश्रमः ॥

विप्लुतः, त्रि, (वि + प्लु + क्तः ।) व्यसनार्त्तः । तत्-

पर्य्यायः । पञ्चभद्रः २ व्यसनी ३ । इति हेम-
चन्द्रः ॥

विफलं, त्रि, (विगतं फलं यस्य ।) निरर्थकम् ।

तत्पर्य्यायः । मोघम् २ व्यर्थम् ३ । इनि जटा-
धरः ॥ (यथा, कुमारसम्भवे । ७ । ६६ ।
“परस्परेण स्पृहणीयशोभं
न चेदिदं द्वन्द्बमयोजयिष्यत् ।
अस्मिन् द्वये रूपविधानयत्नः
पत्युः प्रजानां विफलोऽभविष्यत् ॥”)

विफला, स्त्री, (विगतं फलं यस्याः ।) केतकी ।

इति राजनिर्घण्टः ॥

विबन्धः, पुं, आनाहरोगः । इत्यमरः ॥ तस्य

चिकित्सा ।
“तुल्यकारणकार्य्यत्वात् उदावर्त्तहरीं क्रियाम् ।
आनाहेऽपि च कुर्व्वीत विशेषश्चाभिधीयते ॥
त्रिवृत्कृष्णा हरीतक्यो द्बिचतुःपञ्चभागिकाः ।
गुडेन तुल्या वटिका हरन्त्यानाहमुल्वणम् ॥
वर्त्तिस्त्रिकटुसैन्धवसर्षपगृहधूमकुष्ठमदनफलैः ।
मधुनि गुडेवा पक्वैर्निहिता स्वाङ्गुष्ठपरिमाणा ॥
वर्त्तिरियं दृष्टफला शनैः प्रणिहिता गुदे घृता-
भ्यक्ते ।
आनाहोदाषर्त्तौ शमयति जठरं तथा गुल्मम् ॥”
त्रिकटुकाद्या वर्त्तिः । इति भावप्रकाशः ॥
(विशेषेण बन्धः । विशेषबन्धनम् । यथा, महा-
भारते । ८ । १४० । ४४ ।
“पादोदरविबन्धैश्च भूमावुद्भ्रमणैस्तथा ॥”)
पृष्ठ ४/४१०

विबाधा, स्त्री, विहेठनम् । इति त्रिकाण्डशेषः ॥

विबुधः, पुं, (विशेषेण बुध्यते इति । बुध + कः ।)

देवः । इत्यमरः ॥ (यथा, मनौ । १२ । ४७ ।
“गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये ॥”)
पण्डितः । इति मेदिनी । धे, ३६ ॥ (यथा,
कथासरित्सागरे । ६३ । १०५ ।
“ब्रवीमि विबुधः खेदं जनानां निह्नुते कथम् ॥”
अस्मिन्नर्थे वाच्यलिङ्गेऽपि दृश्यते ॥ * ॥) चन्द्रः ।
इति हलायुधः ॥

विबुधानः, पुं, (वि + बुध + शानच् ।) आचार्य्यः ।

पण्डितः । देवः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥

विबोधः, पुं, (विगतो बोधः ।) अनवधानता ।

इति केचित् ॥ (विशिष्टो बोधः ।) प्रबोधश्च ॥
(यथा, भागवते । ३ । ४ । २० ।
“स एवमाराधितपादतीर्था-
दधीत तत्त्वात्मविबोधमार्गः ॥”
द्रोणपक्षिपुत्त्रः । यथा, मार्कण्डेये । १ । २१ ।
“पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।
द्रोणपुत्त्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्र-
चिन्तकाः ॥”)

विबोधनं, क्ली, (वि + बुध + ल्युट् ।) प्रबोधनम् ।

यथा, --
“तुष्टाव योगनिद्रान्तामेकाग्रहृदयस्थितः ।
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ॥”
इति देवीमाहात्म्यम् ॥
(जागरणम् । यथा, महाभारते । १ । १०० । ८ ।
“वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः ॥”
प्राप्तिबोधके, त्रि । यथा, ऋग्वेदे । ३८ । २२ ।
“अदाद्रायो विबोधनम् ।”
“रायो धनस्य विबोधनं विशेषेण बोधकं बहु-
धनप्राप्तिहेतुमित्यर्थः ।” इति तद्भाष्ये सायणः ॥

विभक्तः, त्रि, (वि + भज् + क्तः ।) प्राप्तविभागः ।

विभिन्नः । पृथक् । यथा । बृहस्पतिः ।
“पित्रा सहविभक्ता ये सापत्न्या वा सहोदराः ॥
जघन्यजाश्च ये तेषां पितृभागहरास्तु ते ।
अनीशः पूर्ब्बजः पित्र्ये भ्रातृभागे विभक्तजः ॥”
विभक्तजो विभागानन्तरं गर्भाधानेन जातः ॥
अपि च । व्यासः ।
“भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते ।
तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते ॥”
विभक्तानां स्वमात्रधने वैदिककर्म्मकरणात्तन्मा-
म्रधर्म्मत्वेन तद्वृद्धिरित्यर्थः ।
“विभक्ता अविभक्ता वा सपिण्डाः स्थावरे
समाः ।
एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये ॥”
अपि च ।
“दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथक् ज्ञेयाः पाकधर्म्मागमव्ययाः ॥
साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च ।
विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥
येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वऋक्थतः ।
विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान् ॥”
इति नारदवचनानि ॥
तथा ।
“भ्रातॄणामथ दम्पत्योः पितुः पुत्त्रस्य चैव हि ।
प्रातिभाव्यमृणं साक्ष्यमविभक्तेन तत् स्मृतम् ॥”
इति याज्ञवल्क्यवचनम् ॥ * ॥
तथा ।
“विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र
संस्थितः ।
पितृव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥”
इति बृहस्पतिवचने येषामेव हि पितृभ्रातृ-
पितृव्यादीनां पितृपितामहोपार्ज्जितद्रव्येणा-
विभक्तत्वमुत्पत्तितः सम्भवति त एव विभक्ताः
सन्तः परस्परप्रीत्या पूर्ब्बकृतविभागध्वंसेन यत्तव
धनं तन्मम धनं यन्मम धनं तत्तवापि इत्येक-
स्मिन् कार्य्ये एकगृहिरूपतया स्थिताः संसृष्टाः ।
न त्वेवं रूपाणां धनसंसर्गमात्रेण । नापि विभ-
क्तानां प्रीतिपूर्ब्बकाभिसन्धानं विना ॥ * ॥ तथा ।
“बन्धूनामविभक्तानां भोगं नैव प्रदापयेत् ॥”
इति कात्यायनवचनम् ॥
तथा ।
“भ्रातॄणामविभक्तानामेको धर्म्मः प्रवर्त्तते ।
विभागे सति धर्म्मोऽपि भवेत्तेषां पृथक्पृथक् ॥”
तथा ।
“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥”
इति मनुवचनम् ॥
तथा । कात्यायनः ।
“अविभक्ते मृते पुत्त्रे तत्सुतं ऋक्थभागिनम् ।
कुर्व्वीत जीवनं येन लब्धं नैव पितामहात् ।
लभेतांशं स पित्र्यं च पितृव्यात् तस्य वा
सुतात् ॥”
तथा । विष्णुः । पितृविभक्ता विभागानन्तरो-
त्पन्नस्य विभागं दद्युः ॥ * ॥ अपि च ।
“अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥”
इति कात्यायनवचनम् ॥
अविभक्तानां सह वसतां संसृष्टानां वा पुन-
र्विभागो भ्रातृतत्सुततत्सुतपर्य्यन्तमेव तत्सुता-
च्चतुर्थान्निवर्त्तते । इति ॥ तथा ।
“अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भवेत् ।
विभक्तं स्थावरं प्राप्तं नान्योदर्य्यैः कदाचन ॥”
इति यमवचनम् । एतानि वचनादीनि दाय-
तत्त्वधृतानि ॥ * ॥ अपि च ।
“अविभक्ता विभक्ता वा कुर्य्युः श्राद्धमदैविकम् ।
मघासु च तथान्यत्र नाधिकारः पृथक् विना ॥”
इति श्राद्धतत्त्वम् ॥
अन्यच्च ।
“बहवः स्युर्यदा पुत्त्राः पितुरेकत्र वासिनः ।
सर्व्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
द्रव्येण चाविभक्तेन सर्व्वैरेव कृतं भवेत् ॥”
इति शुद्धितत्त्वम् ॥
(पुं, कार्त्तिकेयः । यथा, महाभारते । ३ । १३१ । ६ ।
“षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः ।
कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥”)

विभक्तजः, पुं, (विभक्ते सति जायते इति । जन

+ डः ।) विभागानन्तरं गर्भाधानेन जातः ।
यथा । बृहस्पतिः ।
“पित्रा सह विभक्ता ये सापत्न्या वा सहोदराः ।
जघन्यजाश्च ये तेषां पितृभागहरास्तु ते ॥
अनीशः पूर्ब्बजः पित्र्ये भ्रातृभागे विभक्तजः ।
यथा धने तथर्णेऽपि मुक्त्रा शौचोदकक्रियाः ॥”
इति दायतत्त्वम् ॥

विभक्तिः, स्त्री, (विभजनमिति । संख्याकर्म्मादयो

ह्यर्था विभज्यन्ते आभिरिति वा । वि + भज +
क्तिन् ।) विभागः । स्यादिः त्यादिश्च । यथा ।
“संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु
यः ।
सा विभक्तिर्द्विधा प्रोक्ता सुप्तिङ् चेति प्रभे-
दतः ॥”
संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः
प्रत्ययः सा विभक्तिः । सुप् तिङ् इति भेदा-
द्द्विविधा । इति शब्दशक्तिप्रकाशिका ॥ (उभ-
यार्थोदाहरणम् । यथा, नैषधे । ३ । २३ ।
“क्रियेत चेत् साधु विभक्तिचिन्ता
व्यक्तिस्तदा सा प्रथमाभिधेया ।
या स्वौजसां साधयितुं विलासै-
स्तावत् क्षमा नाम पदं बहु स्यात् ॥”)

विभजनीयं, त्रि, विभाज्यम् । विभागयोग्यम् ।

यथा । यद्यस्य प्रयोजनार्हं पुस्तकादि तन्-
मूर्खादिभिः सह पण्डितादिभिर्न विभजनीयम् ।
इति दायतत्त्वम् ॥ भजनार्हम् । विपूर्ब्बभज-
धातोरनीयप्रत्ययेन निष्पन्नम् ॥

विभवः, पुं, धनम् । (यथा, मनौ । ४ । ३४ ।

“न जीर्णमलवद्बासा भवेच्च विभवे सति ॥”)
मोक्षः । ऐश्वर्य्यम् । इति मेदिनी । वे, ५१ ॥
(यथा, भागवते । ७ । ८ । ५५ ।
“भवता हरे स वृजिनोऽवसादितो
नरसिंह नाथ विभवाय नो भव ॥”)
प्रभवादिषष्टिसंवत्सरान्तर्गतद्वितीयवर्षम् । यथा,
भविष्यपुराणे ।
भैरव उवाच ।
“सुभिक्षं क्षेममारोग्यं सर्व्वे व्याधिविवर्ज्जिताः ।
प्रशान्ता मानवास्तत्र बहुशस्या वसुन्धरा ।
हृष्टास्तुष्टा जनाः सर्व्वे विभवे च वरानने ! ॥”
इति ज्योतिस्तत्त्वम् ॥

विभा, स्त्री, (वि + भा + क्विप् ।) किरणः । इति

हेमचन्द्रः ॥ प्रकाशः । शोभा । इति राज-
निर्घण्टः ॥ (यथा, साहित्यदर्पणे । १० । ६६७ ।
“कमलेव मतिर्मतिरिव कमला
तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी
सततं विभाति वत यस्य तव ॥”
प्रकाशके, त्रि । यथा, ऋग्वेदे । १० । ५५ । ४ ।
पृष्ठ ४/४११
“यदुष औच्छः प्रथमा विभानाम् ॥”
“विभानां विभासकानां ग्रहनक्षत्रादीनाम् ।”
इति तद्भाष्ये सायणः ॥)

विभाकरः, पुं, (वि + भा + कृ + “दिवाविभा-

निशेति ।” ३ । २ । २१ । इति टः ।) सूर्य्यः ।
(यथा, साहित्यदर्पणे । १० । अर्थश्लेशे ।
“सहसा भूयसाविष्टो विभाति च विभाकरः ॥”)
अर्कवृक्षः । चित्रकवृक्षः । इत्यमरः । अग्निः ।
इति मेदिनी । रे, २९७ ॥ (त्रि, प्रकाशशीलः ॥)

विभागः, पुं, (वि + भज + घञ् ।) भागः । अस्य

पर्य्यायः अंशशब्दे द्रष्टव्यः ॥ अस्य लक्षणं यथा ।
“एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य
स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेशिक-
व्यवहारानर्हतया अव्यवस्थितस्य गुटिकापाता-
दिना व्यञ्जनं विभागः । विशेषेण भजनं
स्वत्वज्ञापनं वा विभागः ।” इति दायभागः ॥
अपि च ।
“विभागोऽर्थस्य पित्र्यस्य पुत्त्रैर्यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ॥”
इति नारदवचनम् ॥
पूर्ब्बस्वामिस्वत्वोपरमे सम्बन्धाविशेषात् सम्ब-
न्धिनां सर्व्वधनप्रसूतस्य स्वत्वस्य गुटिकापाता-
दिना प्रादेशिकस्वत्वव्यवस्थापनं विभागः ॥ * ॥
अपि च । कात्यायनः ।
“जीवद्विभागे तु पिता नैकं पुत्त्रं विशेषयेत् ।
निर्भाजयेत् न चैवैकमकस्मात् कारणं विना ॥”
उक्तकारणशून्ये तु नारदः ।
“व्याधितः कुपितश्चैव विषयासक्तचेतनः ।
अयथाशास्त्रकारी च न विभागे पिता प्रभुः ॥”
निवृत्तरजस्कायामेव मातरि पितामहधन-
विभागमाह बृहस्पतिः ।
“पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः ।
मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥”
अन्यच्च । याज्ञवल्क्यः ।
“विभागश्चेत् पिता कुर्य्यादिच्छया विभजेत्
सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्व्वेवा स्युः समांशिनः ॥”
अपि च देवलः ।
“अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥”
विष्णुः । पितृविभक्ता विभागानन्तरोत्पन्नस्य
विभागं दद्युरिति ।
“गोत्रभागविभागार्थे सन्देहे समुपस्थिते ।
गोत्रजैश्चापरिज्ञाते कुलं साक्षित्वमर्हति ॥”
इति शङ्खवचनम् ॥ इति दायतत्त्वम् ॥
सामान्यधर्म्मावच्छिन्नानामेव बहूनां परस्पर-
विरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपादनं हि वि-
भागः । इति श्राद्धविवेकटीकायां श्रीकृष्ण-
तर्कालङ्कारः ॥ * ॥ न्यायमते चतुर्व्विंशतिगुणान्त-
र्गतगुणविशेषः । स त्रिविधः । यथा, --
“शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा
भवेत् ।
एककर्म्मोद्भवस्त्वाद्यो द्वयकर्म्मोद्भवः परः ॥
विभागजस्तृतीयः स्यात्तृतीयोऽपि द्बिधा भवेत् ।
हेतुमात्रविभागोत्थहेत्वहेतुविभागजः ॥”
इति भाषापरिच्छेदः ॥ * ॥
विभक्तप्रत्ययकारणं विभागं निरूपयति विभाग
इति एककर्म्मेति । उदाहरणन्तु । श्येनशैल-
विभागादिकं पूर्व्ववत् बोध्यं तृतीयो विभागजः
कारणमात्रविभागजन्यः कारणाकारणविभाग-
जन्यश्चेति आद्यस्तावत् यत्र कपालकर्म्म ततः
कपालद्वयविभागस्ततो घटारम्भकसंयोगनाश-
स्ततो घटनाशः ततस्तेन एककपालविभागेन
सकर्म्मणः कपालस्य देशान्तरविभागो जन्यते
तत उत्तरदेशसंयोगः ततः कर्म्मनाश इति ।
न च तेन कर्म्मणैव कथं देशान्तरविभागो न
जन्यते इति वाच्यं एकस्य कर्म्मण आरम्भक-
संयोगप्रतिद्बन्द्विविभागजनकत्वस्यानारम्भकसं-
योगप्रतिबन्धिविभागजनकत्वविरोधात् अन्यथा
विकसत्कमलकुट्मलभङ्गप्रसङ्गात् तस्माद्यदीदं
अनारम्भकसंयोगप्रतिद्वन्द्बिविभागं जनयेत्तदा
आरम्भकसंयोगप्रतिबन्धिविभागं न जनयेत् ।
न च कारणविभागेनैव द्रव्यनाशात् पूर्व्वं कुतो
देशान्तरविभागो न जन्यते इति वाच्यं आर-
म्भकसंयोगप्रतिबन्धिविभागवतः अवयवस्य सति
द्रव्ये देशान्तरविभागासम्भवात् यत्र हस्त-
क्रियया हस्ततरुविभागः ततः शरीरेऽपि
विभक्तप्रत्ययो भवति तत्र च शरीरतरुविभागे
हस्तक्रिया न कारणं व्यधिकरणत्वात् शरीरे तु
क्रिया नास्ति अवयविकर्म्मणो यावदवयवकर्म्म-
नियतत्वात् । अतस्तत्र कारणाकारणविभागेन
कार्य्याकार्य्यविभागो जन्यते इति अतएव विभागो
गुणान्तरं अन्यथा शरीरे विभक्ताविभक्त-
प्रत्ययो न स्यात् अतः संयोगनाशेन विभागो
नान्यथासिद्धो भवति । इति सिद्धान्तमुक्ता-
वली ॥ (“सामान्यधर्म्मावच्छिन्नानामेव वस्तूनां
परस्परविरुद्धतद्व्याप्यधर्म्मप्रकारेण प्रतिपाद-
नम् ॥” यथा द्रव्यत्वधर्म्मावच्छिन्नानां क्षित्या-
दीनां परस्परविरुद्धेन क्षितित्वजलत्वादिना
अथ द्रव्यत्वव्याप्येन विशेषेण तथा प्रतिपादनं
नवधा द्रव्यविभागः ॥ यागः । यथा, ऋग्वेदे ।
५ । ७७ । ४ ।
“यो भूयिष्ठं नासत्याभ्यां विवेष च निष्ठं पित्त-
ररते विभागे ।”
“यो यजमानो विभागे हविर्व्विभागवति यागे ।”
इति तद्भाष्ये सायणः ॥”)

विभाज्यं, त्रि, विभजनीयम् । विभागार्हम् । यथा,

“कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि
वा ।
शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥
शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकं
भवेत् ।
परं निरस्य यल्लब्धं विद्यया द्यूतपूर्ब्बकम् ।
विद्याधनन्तु तद्विद्यान्न विभाज्यं बृहस्पतिः ॥”
तथा ।
“शौर्य्यभार्य्याधने चोभे यच्च विद्याधनं भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यच्च पैतृकः ॥”
इति दायतत्त्वम् ॥

विभाण्डकः, पुं, मुनिविशेषः । स तु ऋष्यशृङ्ग-

पिता । इति रामायणम् ॥ (यथा, महा-
भारते । ३ । १११ । २१ ।
“सोऽपश्यदासीनमुपेत्य पुत्त्रं
ध्यायन्तमेकं विपरीतचित्तम् ।
विनिश्वसन्तं मुहुरूर्द्धदृष्टिं
विभाण्डकः पुत्त्रमुवाच दीनम् ॥”)

विभाण्डी, स्त्री, आवर्त्तकीलता । इति राज-

निर्घण्टः ॥

विभातं, क्ली, (वि + भा + क्तः ।) प्रत्यूषः । इति

शब्दरत्नावली ॥

विभावः, पुं, (विशेषेण भावयति रसं सामाजि-

कानिति । वि + भावि + अच् ।) परिचयः ।
रसस्योद्दीपनादिः । इति मेदिनी ॥ तल्लक्ष-
णादिर्यथा, --
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥”
विभावादयो वक्ष्यन्ते । विभावादीनां यथा-
संख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि
रसोद्बोधे कारणत्वमित्युच्यते ।
“कारणकार्य्यसञ्चारिरूपा अपि हि लोकतः ।
रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥
सद्भावाश्च विभावादेर्द्बयोरेकस्य वा भवेत् ।
झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ॥
विभावादिपरामर्शविषयत्वात् सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥” * ॥
“अथ के ते विभावानुभावव्यभिचारिण इत्य-
पेक्षायां विभावमाह ।
रत्याद्युद्बोधका लोके विभावाः काव्य-
नाट्ययोः ।
ये हि लोके रामादिगतरतिहासादीनां उद्-
बोधकारणानि सीतादयस्त एव काव्ये नाट्ये च
निवेशिताः सन्तो विभाव्यन्ते आस्वादाङ्कुरप्रादु-
र्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा
एभिरिति विभावा उच्यन्ते ।
आलम्बनोद्दीपनाख्यौ तस्य भेदापुभौ स्मृतौ ॥”
इति साहित्यदर्पणे ३ परिच्छेदे ।
(विविधप्रकारेण प्रकाशवति, त्रि । यथा,
ऋग्वेदे । १ । १४८ । १ ।
“न चित्रं वपुषे विभावम् ।”
“विभावं विविधप्रकाशवन्तम् ।” इति तद्भाष्ये
सायणः ॥)

विभावनं, क्ली, (विभावयति कारणं विना

कार्य्योत्पत्तिं चिन्तयति पण्डित-
मिति । वि + भावि + ल्युः । युच् वा ।) अल-
ङ्कारविशेषः । स च विनाकारणं उपनिबद्ध-
मानोऽपि कार्य्योदयरूपः । यथा, --

विभावना, स्त्री, (विभावयति कारणं विना

कार्य्योत्पत्तिं चिन्तयति पण्डित-
मिति । वि + भावि + ल्युः । युच् वा ।) अल-
ङ्कारविशेषः । स च विनाकारणं उपनिबद्ध-
मानोऽपि कार्य्योदयरूपः । यथा, --
“विभावना विना हेतुं कार्य्योत्पत्तिर्यदुच्यते ।
पृष्ठ ४/४१२
उक्तानुक्तनिमित्तत्वात् द्बिधा सा परि-
कीर्त्तिता ॥”
उक्तहेतौ यथा, --
“अनायासकृशं मध्यमशङ्कतरले दृशौ ।
अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ॥”
अनुक्तहेतौ यथा, --
“स एव त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं तस्य शम्भुना न हृतं बलम् ॥”
इति साहित्यदर्पणे १० परिच्छेदे ॥
(पालनम् । यथा, भागवते । ४ । ८ । २० ।
“यस्याङ्घिपद्मं परिचर्य्यविश्व-
विभावनायात्तगुणाभिपत्तेः ॥”)

विभावरी, स्त्री, रात्रिः । इत्यमरः ॥ (यथा,

राजतरङ्गिण्याम् । ३ । २०७ ।
“प्रभातायां विभावर्य्यां यथास्थानस्थितो नृपः ।
आकार्य्यतां मातृगुप्त इति क्षत्तारमादिशत् ॥”
मन्दारविद्याधरकन्या । यथा, मार्कण्डेये । ६३ ।
१४ ।
“मन्दारविद्याधरजा सखी मम विभावरी ॥”
सुमेरूत्तरस्था पुरी । यथा, भागवते । ७५ । २१ । ७ ।
“उत्तरतः सौम्यां विभावरीं नाम ॥”)
हरिद्रा । कुट्टनी । वक्रयोषित् । विवादवस्त्र-
मुण्डी । इति मेदिनी । रे, २९६ ॥ मौखर्य्य-
निरतस्त्री । इति शब्दरत्नावली ॥ मेदावृक्षः ।
इति रत्नमाला ॥

विभावसुः, पुं, (विभा प्रभा एव वसु समृद्धिर्यस्य ।)

सूर्य्यः । (यथा, महाभारते । १ । ८६ । ७ ।
“वर्द्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥”)
अर्कवृक्षः । अग्निः । (यथा, महाभारते ।
३ । ६८ । ७ ।
“निबद्धां धूमजालेन प्रभामिव विभावसोः ॥”)
चित्रकवृक्षः । इत्यमरः ॥ चन्द्रः ॥ हारभेदः ।
इति हेमचन्द्रः ॥ (वसुपुत्त्रविशेषः । यथा,
भागवते । ६ । ६ । १०, १६ ।
“वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु ।
द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्द्दोषो वास्तुर्व्विभा-
वसुः ।
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ॥”
मुरासुरपुत्त्रः । यथा, तत्रैव । १० । ५९ । १२ ।
“ताम्रोऽन्तरिक्षः श्रवणो विभावसुः
वसुर्नभस्वानरुणश्च सप्तमः ॥”
दनुपुत्त्रोऽसुरविशेषः । यथा, तत्रैव । ६ । ६ । ३० ।
“त्रिमूर्द्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ॥”)

विभावितः, त्रि, विचिन्तितः । विशेषेण उत्पा-

दितः । विशेषेण प्रापितः । विमिश्रयितः । इति
ञ्यन्तभूधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा,
शिशुपालवधे । १ । २ ।
“चयस्त्विषामित्यवधारितं पुरा
ततः शरीरीति विभाविताकृतिः ॥”)

विभाषा, स्त्री, (विकल्पत्वेन भाष्यते इति ।

भाष् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः ।
ततष्टाप् ।) विकल्पः । यथा । द्वयोर्विभाषयो-
र्म्मध्ये विधिर्नित्यः । इति मुग्धबोधव्याकरणम् ॥
(“नवेति विभाषा ॥” इति पाणिनिः । १ । १ । ४४ ॥)

विभिन्नः, त्रि, (वि + भिद् + क्तः ।) विभक्तः ।

विदीर्णः । यथा, --
“गदापरशुखड्गैश्च चक्रतोमरशायकैः ।
विभिन्ने वेदना या हि क्षुधया सापि निर्ज्जिताः ॥”
इति इतिहाससमुच्चयः ॥
(विघट्टितः । यथा, शिशुपालवधे । १ । ५५ ।
“विभिन्नशङ्खः कलुषीभवन्मुहु-
र्म्मदेन दन्तीव मनुष्यधर्म्मणः ॥”)

विभीतकः, त्रि, वृक्षविशेषः । वहेडा इति भाषा ।

तत्पर्य्यायः । अक्षः २ तुषः ३ कर्षफलः ४ भूत-
वासः ५ कलिद्रुमः ६ । इत्यमरः ॥ कल्पवृक्षः ७
संवर्त्तः ८ । इति रत्नमाला ॥ तैलफलः ९
भूतावासः १० संवर्त्तकः ११ वासन्तः १२
कलिवृक्षः १३ वहेडुकः १४ हार्य्यः १५ विषघ्नः
१६ अनिलघ्नः १७ कासघ्नः १८ । (यथा, महा-
भारते । ३ । ६४ । ५ ।
“पियालतालखर्ज्जूरहरीतकविभीतकैः ॥”)
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषा-
यत्वम् । उष्णत्वम् । कफापहत्वम् । चक्षुष्यत्वम् ।
पलितघ्नत्वम् । विपाके मधुरत्वञ्च ॥ तन्मज्ज-
गुणाः । तृष्णाच्छर्द्दीकफवातहरत्वम् । लघु-
त्वम् । मधुरत्वम् । मदकारित्वञ्च ॥ तत्तैल-
गुणाः । स्वादुत्वम् । हिमत्वम् । केश्यत्वम् ।
गुरुत्वम् । पित्तानिलार्त्तिनाशित्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ अपि च । अथ विभीतक-
नामानि गुणाश्च ।
“विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु यः ।
कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥
विभीतकं स्वादुपाकं कषायं कफपित्तनुत् ।
उष्णवीर्य्यं हिमस्पर्शं भेदनं काशनाशनम् ।
रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् ॥
विभीतमज्जा तृट्छर्द्दिकफवातहरो लघुः ।
कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणाः ॥”
इति भावप्रकाशः ॥ * ॥
अन्यञ्च ।
“विभीतंभेदि तीक्ष्णोष्णं वैस्वर्य्यं क्रिमिनाशनम् ।
चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥”
इति राजवल्लभः ॥ * ॥
अस्य कलिद्रुमत्वकारणं यथा, --
पुलस्त्य उवाच ।
“ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज ।
त्रैलोक्यं पालयामास बलिर्धर्म्मान्वितः सदा ॥
कलिस्तदा धर्म्मयुतं जगद्दृष्ट्वा कृते यथा ।
ब्रह्माणं शरणं भेजे स्वभावस्य निषेधनात् ॥
प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् ।
मम स्वभावो बलिना नाशितो देवसत्तम ॥
तं प्राह भगवान् योगी स्वभावो जगतोऽपि हि ।
न केवलं हि भवतो हृतस्तेन बलीयसा ॥
पश्याद्य तिष्य देवेन्द्रं वरुणञ्च समागतम् ।
भास्वरोऽपि हि दीनत्वं प्रयातो हि बलाद्वलेः ॥
इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः ।
दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं गतः ॥”
इति वामने १७ अध्यायः ॥
(अन्यच्च । यथा, महाभारते ३ । ७२ अध्याये ।
“एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ।
तस्याक्षहृदयाज्ञस्य शरीरान्निःसृतः कलिः ॥”
“तं शप्तुमैच्छत् कुपितो निषधाधिपतिर्नलः ।
तमुवाच कलिर्भीतो वेपनानः कृताञ्जलिः ॥
कोपं संयच्छ नृपते कीर्त्तिं दास्यामि ते पराम् ॥”
“एवमुक्तो नलो राजा नियच्छत् कोपमात्मनः ।
ततो भीतः कलिः क्षिप्रं प्रविवेश विभी-
तकम् ॥”
“विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥”)

विभीषणः, पुं, (विभीषयतीति । वि + भीषि +

“नन्दिग्रहिपचीति ।” ३ । १ । १३४ । इति
ल्युः ।) रावणभ्राता । इति रामायणम् ॥
(यथा, भागवते । ४ । १ । ३४ ।
“रावणः कुम्भकर्णश्च तथाप्यस्यां विभीषणः ।
पुलहस्य गतिर्भार्य्या त्रीनसूत सती सुतान् ॥”)
नलतृणम् । इति राजनिर्घण्टः ॥ भयानके त्रि ॥
(यथा, ऋग्वेदे । ५ । ३४ । ६ ।
“इन्द्रो विश्वस्य दमिता विभीषणः ॥”
“विभीषणः भयजनकः ।” इति तद्भाष्ये
सायणः ॥)

विभीषिका, स्त्री, (विभीषा + स्वार्थे कन् । स्त्रियां

टाप् अत इत्वञ्च ।) भयप्रदर्शनम् । यथा, --
“कृत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः
प्रजाः
मथ्नन्तो विटजल्पितैरुपहताः क्षौणीभुजस्ते
ऽखिलाः ।
विद्वांसोऽपि वयं परं त्रिजगतां सर्गस्थिति-
व्यापदा-
मीशस्तत्परिचर्य्यया न गणितो यैरेष नारा-
यणः ॥”
इति शान्तिशतकम् ॥

विभुः, पुं, (वि + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।”

३ । २ । १८० । इति डुः ।) प्रभुः । (यथा,
शिशुपालवधे ।
“विभुर्व्विभक्तावयवं पुमानिति
क्रमादमुं नारद इत्यबोधि सः ॥”)
सर्व्वगतः । शङ्करः । (यथा, महाभारते । १३ ।
१७ । १६ ।
“त्रिजटश्चिरवासाश्च रुद्रः सेनापतिर्विभुः ॥”)
ब्रह्मा । इति मेदिनी । भे, ७ ॥ भृत्यः । इति
त्रिकाण्डशेषः ॥ विष्णुः । इति शब्दमाला ॥
(यथा, महाभारते । १३ । १४९ । १०७ ।
“विहायसगतिर्ज्ज्योतिः सुरुचिर्हुतभुग्विभुः ॥”
जीवात्मा । यथा, --
“न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः ।
दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥”
इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)
नित्यः । अर्हन् । इति हेमचन्द्रः ॥
पृष्ठ ४/४१३

विभुः, त्रि, सर्व्वमूर्त्तसंयोगी । परममहत्त्ववान् ।

स तु आत्मादिः । यथा, --
“आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्त्तृकम् ।
विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्बिविधा मता ॥”
इति भाषापरिच्छेदः ॥
विभुरिति विभुत्वं परममहत्त्ववत्त्वम् । इति
सिद्धान्तमुक्तावली ॥
“कालखात्मदिशां सर्व्वगतत्वं परमं महत् ।”
इति भाषापरिच्छेदः ॥
दृढः । इत्यजयपालः ॥ व्यापकः । इति हेम-
चन्द्रः ॥ (यथा, ऋग्वेदे । १० । ४० । १ ।
“प्रातर्यावाणं विभ्वं विशे विशे ॥”
“विभ्वं विभुं व्यापिनम् ।” इति तद्भाष्ये सायणः ॥
व्याप्तः । यथा, ऋग्वेदे । १ । ३४ । १ ।
“त्रिश्चिन्नो अद्याभवतं न वेद सा
विभुर्व्वायाम उत राति रश्विना ॥”
“विभुः व्याप्तः ।” इति तद्भाष्ये सायणः ॥
सर्व्वत्र गमनशीलः । यथा, ऋग्वेदे । १ । १६५ । १० ।
“एकस्य चिन्मे विभ्वस्त्वोजो
या नु दधृष्वान्कृणवै मनीषा ॥”
“विभु सर्व्वत्र गमनशीलम् ।” इति तद्भाष्ये
सायणः ॥ ईश्वरः । यथा, ऋग्वेदे । ४ । ७ । १ ।
“यमप्नवानो भृगवो विरुरुचुर्व्वनेषु चित्रं विभ्वं
विशे विशे ॥”
“विभ्वं विभुं ईश्वरम् ।” इति तद्भाष्ये सायणः ॥
महान् । यथा, ऋग्वेदे । ५ । ३८ । १ ।
“उरोष्ट इन्द्र राधसो विभ्वी राति शतक्रतो ॥”
“विभ्वी महती ।” इति तद्भाष्ये सायणः ॥)

विभूतिः, स्त्री, (वि + भू + क्तिन् ।) अणिमादि-

कमष्टधा । तत्पर्य्यायः । भूतिः २ ऐश्वर्य्यम् ३ ।
इत्यमरः ॥ (यथा, ऋग्वेदे । १ । ८ । ९ ।
“एवाहिते विभूतय इन्द्रमावते ॥”
“विभूतयः ऐश्वर्य्यविशेषाः ।” इति तद्भाष्ये
सायणः ॥) शिवधृतभस्म । अस्य शिवस्य
अणिमाद्यष्टप्रकारं वैभवं विभूत्यादिपदत्रयं वाच्यं
केचित्तु विभूतिर्भूतिरिति द्वयं शम्भुधृतभस्मनि
अणिमाद्यष्टके तु ऐश्वर्य्यमित्याहुः । विभवत्यनया
विभूतिः क्तिः भवतेः क्तिः भूतिः विग्रहणमन्यो-
पसर्गनिरासार्थं ईश्वरगुणैश्वर्य्यं भावे ष्ण्यः
अणिमादि लघिमादि । तथा च ।
“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा
तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावशायिता ॥”
इति ॥
अणुत्वमणिमा येन सूक्ष्मो भूत्वा विचरति ।
लघुत्वं लघिमा येन वायुरिव लघुतरो भवति ।
प्राप्तिरभीप्सितप्रापणं प्राकाम्यमिच्छानभिघातः ।
महिमा महत्त्वं येन चतुर्द्दशभुवनान्यस्योदरे
वर्त्तन्ते । ईशित्वं प्रभुता येन स्थावरजङ्गमादि-
भूतान्यादेशकारीणि भवन्ति । वशित्वं स्वातन्त्र्यं
येन स्वतन्त्रश्चरति । कामेन इच्छया अवशा-
यितुं स्थातुं शीलमस्य कामावशायी शीङो
ग्रहादित्वाण्णिन् तस्य भावः कामावशायिता ।
सर्व्वानन्दस्तु अनेकार्थत्वाद्धातूनां स्मृतिरिह
तिष्ठत्यर्थः । अवशायी दन्तमध्य इत्याह । इति
भरतः ॥ * ॥ अपि च ।
श्रीभगवानुवाच ।
“परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् ।
नित्यानन्दं स्वयं ज्योतिरद्वयं तमसः परम् ।
ऐश्वर्य्यं तस्य यन्नित्यं विभूतिरिति गीयते ॥”
इति कौर्म्मे १ अध्यायः ॥
(लक्ष्मीः । यथा, ऋग्वेदे । १ । ३० । ५ ।
“विभूतिरस्तु सूनृता ।”
“विभूतिर्लक्ष्मीः ।” इति तद्भाष्ये सायणः ॥
विभवहेतुः । यथा, तत्रैव । ६ । २१ । १ ।
“रयिर्व्विभूतिरीयते वचस्या ॥”
“विभूतिर्ज्जगतो विभवहेतुः ॥” इति तद्भाष्ये
सायणः ॥ विविधसृष्टिः । यथा, भागवते । ४ ।
२४ । ४३ ।
“शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने ।
चेत आकूतिरूपाय नमो वाचोविभूतये ॥”
सम्पत् । यथा, रघुवंशे । ८ । ३६ ।
“अभिभूय विभूतिमार्त्तवीं
मधुगन्धातिशयेन वीरुधाम् ॥”)

विभूतिद्वादशी, स्त्री, (विभूतिवर्द्धिका द्वादशी ।)

व्रतविशेषः । यथा, --
नन्दिकेश्वर उवाच ।
“शृणु नारद ! वक्ष्यामि विष्णोर्व्रतमनुत्तमम् ।
विभूतिद्वादशीनाम सर्व्वपापनिसूदनम् ॥
कार्त्तिके चैव वैशाखे मार्गशीर्षेऽथ फाल्गुने ।
आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः ।
कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः ॥
एकादश्यां निराहारः समभ्यर्च्च्य जनार्द्दनम् ।
द्वादश्यां विधिसंयुक्तः करिष्ये भोजनं विभो ।
तदविघ्नेन मे यातु साफल्यं मधुसूदन ॥
ततः प्रभाते चोत्थाय कृतस्नानजपः शुचिः ।
पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥
विभूतिदाय नमः पादावशोकाय च जानुनी ।
नमः शिवायेत्यूरू च विश्वमूर्त्तये नमः कटिम् ॥
कन्दर्पाय नमो मेढ्रमादित्याय नमः करौ ॥
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ।
माधवायेति हृदयं कण्ठमुत्कण्ठिते नमः ॥
श्रीधराय मुखं केशान् केशवायेति नारद ।
पृष्ठं शार्ङ्गधरायेति श्रवणौ च स्वयम्भुवे ॥
स्वनाम्ना शङ्खचक्रासिगदापरशुपाणयः ।
सर्व्वात्मने शिरो ब्रह्मन् नम इत्यभिपूजयेत् ॥
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।
उदकुम्भसमायुक्तमग्रतः स्थापयेद्विभोः ॥
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।
रात्रौ जागरणं कुर्य्यादितिहासकथादिना ॥
प्रभातायाञ्च शर्व्वर्य्यां ब्राह्मणाय कुटुम्बिने ।
सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥
यथा न मुच्यसे विष्णोः सदा सर्व्वविभूतिभिः ।
तथा मामुद्धराशेषदुःखसंसारसागरात् ॥
दशावताररूपाणि प्रतिमासं क्रमान्मुने ।
दत्तात्रेयं ततो व्यासमुत्पलेन समन्वितम् ।
दद्यादेवं समा यावत् पाषण्डानभिवर्ज्जयेत् ॥
समाप्यैवं यथाशक्त्या द्वादशद्वादशीं नरः ।
संवत्सरान्ते लवणपर्व्वतेन समन्विताम् ।
शय्यां दद्यान्मुनिश्रेष्ठ गुरवेऽमरसंयुताम् ॥
ग्रामञ्च शक्तिमान् दद्यात् क्षेत्रमाभरणान्वितम् ।
गुरुं संपूज्य विधिवत् वस्त्रालङ्कारभूषणैः ॥
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् ।
तर्पयेद्वस्त्रगोदानैरन्यत्र धनसञ्चयात् ॥
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ।
यश्चातिनिस्वः पुरुषो भक्तिमान् माधवं प्रति ।
पुष्पार्च्चनविधानेन स कुर्य्याद्बत्सरद्वयम् ॥
अनेन विधिना यस्तु विभूतिद्बादशीव्रतम् ।
कुर्य्यात् स पापनिर्म्मुक्तः पितॄणान्तारयेच्छतम् ॥
जन्मनां शतसाहसं न शोकफलभाग्भवेत् ।
न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् ॥
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ।
यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।
तावत् स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत् ॥”
इति मात्स्ये ८२ अध्यायः ॥

विभूषणं, क्ली, (विशेषेण भूषयत्यनेनेति । वि +

भूष + णिच् + ल्युट् ।) आभरणम् । इत्यमरः ॥
(यथा, कथासरित्सागरे । १७ । ६४ ।
“अस्ति पाटलिपुत्त्राख्यं पुरं पृथ्वीविभूषणम् ॥”)

विभूषा, स्त्री, (वि + भूष् भूषणे + “गुरोश्च हलः ।”

३ । ३ । १०३ । इत्यः । स्त्रियां टाप् ।) शोभा ।
इति हेमचन्द्रः ॥ (यथा, कामन्दकीये । १५ । ४६ ।
“ततः प्रबुद्धः शुचिरिष्टदेवः
श्रीमद्विभूषोज्वलितः प्रहृष्टः ॥”)
आभरणञ्च ॥ (यथा, आर्य्यासप्तशत्याम् । ४५९ ।
“मानग्रहगुरुकोपादनुदयितात्येव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥”)

विभूषितः, त्रि, (वि + भूष + क्तः । यद्वा, विभूषा

संजातास्य इति । विभूषा + इतच् ।) अल-
ङ्कृतः । यथा, --
“विशुद्धरत्नांशुविभूषिताङ्गी
शिलातले हेममये सुरम्ये ।
सुखोपविष्टं मदनाङ्गनाशनं
जगाद वाक्यं गिरिराजपुत्त्री ॥”
इति स्कान्दे नीलकण्ठस्तोत्रम् ॥

विभृतः, त्रि, धृतः । पुष्टः । विपूर्व्वभृधातोः क्तप्र-

त्ययेन निष्पन्नः ॥

वि(बि)भ्रत्, त्रि, (भृ + शतृ ।) बिभर्त्ति यः ।

धारणपोषणकर्त्ता । यथा, --
“चतुर्द्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्ज्जितम् ।
ददार करजैरूरावेरकां कटकृद्यथा ॥”
इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥
अपि च ।
“तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः ।”
इत्यादि तन्त्रसारे सरस्वतीध्यानम् ॥
(पवर्गीयबकारादिः साधुरेव ॥)
पृष्ठ ४/४१४

विभ्रमः, पुं, (वि + भ्रम + घञ् ।) हावभेदः । स

तु स्त्रीणां शृङ्गारभावजक्रियाविशेषः । इत्य-
मरः ॥ (यथा, मेघदूते । २९ ।
“स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥”)
मदरागहर्षजनितविपर्य्यासो विभ्रमः । यथा
अन्यनिमित्तमानसादुत्थायान्यत्र गमनं प्रिया-
रब्धकथामाक्षिप्य सख्या सहालपनमुच्चैर्हसित-
क्रोधौ पुष्पादीनां याच्ञा सहसैव तत्परि-
त्यागः । वस्त्राभरणमाल्यानामकारणतः खण्डनं
माननञ्च । यदुक्तम् ।
“क्रोधः स्मितञ्च कुसुमाभरणादियाच्ञा
तद्वर्ज्जनञ्च सहसैव विमण्डनञ्च ।
आक्षिप्य कान्तवचनं लपनं सखीभि-
र्निष्कारणोत्थितगतं वद विभ्रमं तत् ॥” इति ।
“चित्तवृत्त्यनवस्थानं शृङ्गाराद्बिभ्रमो भवेत् ॥”
इत्यन्यत्र च ॥ तथान्यत्र ।
“विभ्रमस्त्ररया काले भूषास्थानविपर्य्ययः ।”
यथा, --
“श्रुत्वायातं बहिः कान्तमसमापितभूषया ।
भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥”
इति ।
योषितां यौवनजो विकारो विभ्रमः । इत्येके ।
विभ्रान्तिर्विभ्रमः घञ् । इति भरतः ॥ अपि च ।
“वल्लभप्राप्तिवेलायां मदनावेशसंभ्रमात् ।
विभ्रमो हारमाल्यादिभूषास्थानविपर्य्ययः ॥”
इत्युज्ज्वलनीलमणिः ॥ * ॥
भ्रान्तिः । इति मेदिनी । मे, ५२ ॥ (यथा,
भागवते । ४ । २१ । १२ ।
“तमत्रिर्भगवानैक्षत् त्वरमाणं विहायसा ।
आमुक्तमिव पाषण्डं योऽधर्म्मे धर्म्मविभ्रमः ॥”)
शोभा । (यथा, राजतरङ्गिण्याम् । ३ । ३६७ ।
“ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः ।
तस्य शम्भुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥”
यथा च अमरुशतके । १ ।
“ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठे
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातुमञ्जरितपल्लवकर्णपूर-
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥”)
संशयः । इति हेमचन्द्रः ॥ (यथा, कथा-
सरित्सागरे । १९ । ६५ ।
“पूरयन् बहुनादाभिर्व्वाहिनीभिर्भुवस्तलम् ।
कुर्व्वन्नकाण्डनिर्म्मेघवर्षासमयविभ्रमम् ॥”)
भ्रमणम् । इति शब्दरत्नावली ॥ (विकार-
विशेषः । यथा, --
“तीव्रार्त्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् ।
आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥
निहन्यादपि चैतेषां विभ्रमः सहसातुरम् ।
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ॥”
इति वाभटे सूत्रस्थानेऽष्टमेऽध्याये ॥)

विभ्रमा, स्त्री, वार्द्धक्यम् । इति शब्दरत्नावली ॥

विभ्राट्, [ज्] त्रि, (विशेषेण भ्राजते इति ।

वि + भ्राज् + “अन्येभ्योऽपि

विभ्राड्, [ज्] त्रि, (विशेषेण भ्राजते इति ।

वि + भ्राज् + “अन्येभ्योऽपि
दृश्यते ।” ३ । २ । १७७ । इति क्विप् ।) अलङ्का-
रादिना दीप्तिशीलः । तत्पर्य्यायः । भ्राजिष्णुः
२ रोचिष्णुः ३ । इत्यमरः ॥ (यथा, ऋग्वेदे ।
१० । १७० । १ ।
दृश्यते ।” ३ । २ । १७७ । इति क्विप् ।) अलङ्का-
रादिना दीप्तिशीलः । तत्पर्य्यायः । भ्राजिष्णुः
२ रोचिष्णुः ३ । इत्यमरः ॥ (यथा, ऋग्वेदे ।
१० । १७० । १ ।
“विभ्राड् बृहत्पिबतु सोम्यं
मध्वायुर्द्दधद्यज्ञपतावविह्रुतम् ॥”
“विभ्राड् विभ्राजमानः विशेषेण दीप्यमानः ।”
इति तद्भाष्ये सायणः ॥)

विभ्रान्तः, त्रि, विभ्रमयुक्तः । विपूर्व्वभ्रमधातोः

क्तप्रत्ययेन निष्पन्नः ॥ (यथा, गीतायाम् ।
१६ । १६ ।
“अनेकचित्तविभ्रान्ता मोहजालसमावृताः ॥”)

विभ्रान्तिः, स्त्री, (वि + भ्रम + क्तिन् ।) विभ्रमः ।

इति विभ्रमशब्दटीकायां भरतः ॥ (यथा,
प्रबोधचन्द्रोदये । “स्फुरदद्वैतविभ्रान्तिसन्तान-
सन्तप्तवन्दारुसंसारनिद्रापहारैकदक्षेति ॥”)

विमतः, त्रि, विरुद्धमतिविशिष्टः । विपूर्ब्बमन-

धातोः क्तप्रत्ययेन निष्पन्नः ॥

विमनस्कः, त्रि, विमनाः । विनिगृहीतं मनोऽस्येति

बहुव्रीह्यर्थे कप्रत्ययेन निष्पन्नः ॥ (यथा, भाग-
वते । ७ । १० । ६१ ।
“विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ॥”)

विमनाः, [स्] त्रि, (विरुद्धं मनो यस्य ।) चिन्ता-

दिव्याकुलचित्तः । तत्पर्य्यायः । दुर्म्मनाः २ अन्त-
र्मनाः ३ । इत्यमरः ॥ दुःखितमानसः ४ ॥
इति शब्दरत्नावली ॥ (यथा, देवीभागवते ।
१ । १९ । १० ।
“मिष्टमत्सि सदा राजन् मुदितो विमनास्तथा ।
मालायाञ्च तथा सर्पे समदृक् क्व नृपोत्तम ! ॥”)

विमयः, पुं, (वि + मी + “एरच् ।” इत्यच् ।)

विनिमयः । इति हेमचन्द्रः ॥

विमर्द्दः, पुं, (विमृद्यतेऽसौ इति । वि + मृद् +

घञ् ।) कालङ्कतवृक्षः । इति रत्नमाला ॥
कालकासुन्दिया इति भाषा ॥ विमर्द्दनम् । इति
शब्दरत्नावली ॥ (यथा, रघुः । ५ । ६५ ।
“तं कर्णभूषणनिपीडितपीवरांसं-
शय्योत्तरच्छदविमर्द्दकृशाङ्गरागम् ॥”
सम्पर्कः । यथा, रघुः । १३ । २० ।
“असौ महेन्द्रद्विपदानगन्धि-
स्त्रिमार्गगावीचिविमर्द्दशीतः ॥”
“त्रिमार्गगा गङ्गा तस्या वीचीनां विमर्द्देन
सम्पर्केण शीतः ।” इति तट्टीकायां मल्लि-
नाथः ॥ * ॥ युद्धम् । यथा, रामायणे । ३ । ३२ । ७ ।
“देवासुरविमर्द्देषु वज्राशनिकृतव्रणम् ॥”
कलहः । यथा, तत्रैव । ७ । ६३ । २४ ।
“कार्य्यार्थिनां विमर्द्दो हि राज्ञां दोषाय
कल्पते ॥”)

विमर्द्दकः, पुं, (विमर्द्द एव । स्वार्थे कन् ।) चक्र-

मर्द्दः । इति राजनिर्घण्टः ॥ (चक्रमर्द्दशब्दे-
ऽस्य गुणादयो विज्ञेयाः ॥)

विमर्द्दनं, क्ली, (वि + मृद् + ल्युट् ।) कुङ्कुमादि-

मर्द्दनम् । तत्पर्य्यायः । परिमलः २ । इत्य-
मरः ॥ विमर्द्दः ३ । इति शब्दरत्नावली ॥
विशेषेण मर्द्दनञ्च ॥ (यथा, महाभारते । ३ ।
३६ । ३ ।
“धर्म्मस्य जानमानोऽहं गतिमग्यां सुदुर्व्विदाम् ।
कथं बलात्करिष्यामि मेरोरिव विमर्द्दनम् ॥”
त्रि, विशेषेण मृद्नातीति । वि + मृद् + ल्युः ।
मर्द्दनकारी । पीडादायकः । यथा, कथासरि-
त्सागरे । ११३ । १९ ।
“अभूच्च वारणस्तस्य परसेनाविमर्द्दनः ।
महान् कुवलयापीड इति ख्यातो महीतले ॥”
यथा च साहित्यदर्पणे । ४ । २६६ ।
“अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः ।
नाभ्यूरुजघनस्पशीं नीवीविस्रंसनः करः ॥”)

विमर्द्दोत्थः, पुं, (विमर्द्दादुत्तिष्ठतीति । उत् + स्था

+ कः ।) मर्द्दनाज्जातसुगन्धादिः । यथा, --
“अथ गन्धे परिमलो विमर्द्दोत्थे मनोहरे ।
दूरगामी मनोहारी गन्ध आमोद ईरितः ॥”
इति शब्दरत्नावली ॥

विमर्शनं, क्ली, (वि + मृश + ल्युट् ।) परामर्शः ।

वितर्कः । यथा, --
“वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ।
अध्याहारस्तर्क ऊहोऽसूयान्यगुणदूषणम् ॥”
इति हेमचन्द्रः ॥
(विमृश्यतेऽनेनेति । करणे ल्युट् । ज्ञानम् ।
यथा, भागवते । ६ । १ । ११ ।
“कर्म्मणा कर्म्मनिर्हारो न ह्यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥”)

विम(र्श)र्षः, पुं, (वि + मृ(श)ष + घञ् ।) विचा-

रणा । इति जटाधरः ॥ (यथा, कथासरित्-
सागरे । २० । १२४ ।
“प्रत्ययः स्त्रीषु मुष्णाति विम(र्शं)र्षं विदुषा-
मपि ॥”)

विमलं, क्ली, (विगतो मलो यस्मात् ।) तारहेम-

द्विधाकृतम् । तत्तूपरसविशेषः । तत्पर्य्यायः ।
निर्म्मलम् २ स्वच्छम् ३ अमलम् ४ स्वच्छधातु-
कम् ५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् ।
त्वग्दोषव्रणनाशित्वम् । रसवीर्य्यादौ तुल्य-
त्वम् । वेधे भिन्नवीर्य्यकत्वञ्च । इति राज-
निर्घण्टः ॥ (तथास्य शोधनमारणविधिः ।
“मूत्रारनालतैलेषु गोदुग्धे कदली रसे ।
कौलत्थे कोद्रवक्वाथे माक्षिकं विमलन्तथा ॥
मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ! ।
क्षाराम्ललवणैश्चैव तैलसर्पिःसमन्वितम् ॥
पुटत्रयं प्रदातव्यं ततस्तु शोधितं भवेत् ।
जम्बीरस्य रसे स्विन्नो मेषशृङ्गीरसैस्तथा ।
रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये ॥”
इति विमलशुद्धिः ॥ इति वैद्यकरसेन्द्रसार-
संग्रहे जारणमारणाधिकारे ॥)

विमलं, त्रि, (विगतो मलो यस्मात् ।) निर्म्मलम् ।

तत्पर्य्यायः । वीध्रम् २ । इत्यमरः ॥ प्रयतम् ३ ।
इति शब्दरत्नावली ॥ (यथा, रामायणे । २ ।४८ । १४ ।
“प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ॥”)
चारुः । इति च शब्दरत्नावली ॥

(यथा, माघे ।९ । १३ ।

“रुचिधाम्नि भत्तरि भृशं विमलाः
परलोकमभ्युपगते विविशुः ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/विध&oldid=214685" इत्यस्माद् प्रतिप्राप्तम्