सामग्री पर जाएँ

शब्दकल्पद्रुमः/वासिः

विकिस्रोतः तः
पृष्ठ ४/३५७

वासिः, पुं, (वसनिवासे + “वसिवपियजिरा-

जीति ।” उणा० ४ । १२४ । इति इञ् । कुठार-
भेदः । वाइस इति भाषा । इत्युणादिकोषः ॥

वासिका, स्त्री, (वासैव । स्वार्थे कन् । टाप् । अत

इत्वञ्च ।) वासकः । इति शब्दरत्नावली ॥

वासितं, क्ली, (वास्यते स्मेति । वास + क्तः ।)

रुतम् । इति मेदिनी । ते, १५२ ॥ ज्ञान-
मात्रम् । इति हेमचन्द्रः ॥ खगवरः । इति
विश्वः ॥

वासितः, त्रि, (वास्यते स्मेति । वासि सुरभीकरणे

+ क्तः ।) सुरभीकृतः । तत्पर्य्यायः । भावितः
२ । इत्यमरः ॥ द्वे सुगन्धिपुष्पादिवासितद्रव्ये ।
भाव्यते प्राप्यते भावितं भू क ङ प्राप्तौ कर्म्मणि
क्तः । वासं सौरभं करोति इति ञ्यन्तात् ।
कर्म्मणि क्ते वासितम् । इति तट्टीकायां भरतः ॥
जलादौ वासितः । इति शब्दरत्नावली ॥
ख्यातः । वस्त्रवेष्टितः । इति धरणिः ॥

वासिता, स्त्री, (वासयतीति वस निवासे + णिच् +

क्तः । टाप् ।) स्त्रीमात्रम् । करिणी । इत्यमरः ॥

वासिनी, स्त्री, (वासोऽस्या अस्तीति । वास +

इनिः ।) शुक्लझिण्ठी । इति शब्दचन्द्रिका ॥

वासिष्टं, क्ली, रुधिरम् । इति हेमचन्द्रः ॥

वासिष्ठं, त्रि, वसिष्ठकृतयोगशास्त्रादि । वसिष्ठेन

कृतमित्यादर्थे (अण्) प्रत्ययेन निष्पन्नम् ॥
वसिष्ठसम्बन्धि च ॥

वासी, स्त्री, (वासयतीति वासि अच् । गौरादि-

त्वात् ङीष् ।) तक्षणी । वाइस इति ख्याता-
स्त्रम् । इति त्रिकाण्डशेषः ॥

वासुः, पुं, (सर्व्वोऽत्र वसति सर्व्वत्रासौ वसतीति

वा । वस + बाहुलकात् उण् । इति १ । १ संख्यक
उणादिसूत्रवृत्तो उज्ज्वलदत्तः ।) नारायणः ।
इति त्रिकाण्डशेषः ॥ श्रीनिवासोऽप्यजो वासुः ।
इति जटाधरश्च ॥ विश्वरूपः । पुनर्व्वसुः । इत्यु-
णादिकोषः ॥

वासुकिः, पुं, वसुकस्यापत्यमिति । वसुक + इञ् ।)

अहिपतिः । तत्पर्य्यायः । सर्पराजः २ । इत्य-
मरः ॥ वासुकेयः ३ । इति शब्दरत्नावली ।
तस्योत्पत्तिर्यथा, --
“सुरसा जज्ञिरे सर्पांस्तेषां राजा तु तक्षकः ।
वासुकिश्चैव नागानां गणाः क्रोधतमोऽधिकः ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
(जरत्कारुमुनिपत्नी मनसादेवी तु अस्येव
भगिनी ।
“आस्तीकस्य मुनेर्माता भगिनी वासुके स्तथा ।
जरत्कारुमुनेः पत्नी नागमातर्नमोऽस्तु ते ॥”
इति मनसाप्रणाममन्त्रः ॥)

वासुकेयः, पुं, (वसुकस्यापत्यमिति । वसुक +

ढञ् ।) वासुकिः । इति शब्दरत्नावली ॥

वासुकेयस्वसा, [ऋ] स्त्री, (वासुकेयस्य वासुकेः

स्वसा भगिनी ।) मनसादेवी । इत्यमरः ॥

वासुदेवः, पुं, (वसुदेवस्यापत्यमिति । वसुदेव +

“ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ४ । १ । ११४ ।
इति अण् । यद्वा, सर्व्वत्रासौ वसत्यात्मरूपेण
विश्वम्भरत्वादिति । वस् + बाहुलकात् उण्
वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः ।
अस्य नामनिरुक्तिस्तु परतो ज्ञेया ।) श्रीकृष्णः ।
इत्यमरः ॥ तत्पर्य्यायः । वसुदेवभूः २ । इति
हेमचन्द्रः ॥ सव्यः २ सुभद्रः ४ वासुभद्रः ५
षडङ्गजित् ६ षड्बिन्दुः ७ प्रश्निशृङ्गः ८ प्रश्नि-
भद्रः ९ गदाग्रजः १० मार्जः ११ वभ्रुः १२
लोहिताक्षः १३ परमाण्वङ्गकः १४ । इति
शब्दमाला ॥ अन्यत् कृष्णशब्दे द्रष्टव्यम् ॥
श्रीकृष्णशरीरस्य नित्यत्वं यथा, --
श्रीसनत्कुमार उवाच ।
“भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ।
कृष्णस्य कुशलप्रश्नं शिवबीजस्य निष्फलम् ॥
साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः ।
भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ॥
निर्गुणस्य निरोहस्य सर्व्वबीजस्य तेजसः ।
भारावतारणायैव चाविर्भूतस्य साम्प्रतम् ॥
श्रीकृष्ण उवाच ।
शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् ।
तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ॥
सनत्कुमार उवाच ।
शरीरे प्राकृते नाथ सन्त्रतञ्च शुभाशुभम् ।
नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ॥
श्रीभगवानुवाच ।
यो यो विग्रहधारी च स च प्राकृतिकः स्मृतः ।
देहो न विद्यते विप्र तां नित्यां प्रकृतिं विना ॥
सनत्कुमार उवाच ।
रक्तबिन्दूद्भवा देहास्ते च प्राकृतिकाः स्मृताः ।
कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ॥
सर्व्वबीजस्य सर्व्वादिर्भवांश्च भगवान् स्वयम् ।
सर्व्वेषामवताराणां प्रधानं बीजमव्ययम् ॥
कृत्वा वदन्ति वेदाश्च नित्यं नित्यं सनातनम् ।
ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम् ॥
मायया सगुणञ्चैव मायेशं निर्गुणं परम् ।
प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ॥
श्रीकृष्ण उवाच ।
साम्प्रतं वासुदेवोऽहं भक्तवीर्य्याश्रितं वपुः ।
कथं न प्राकृतो विप्र शिवप्रश्नमभीप्सितम् ॥
सनत्कुमार उवाच ।
वासः सर्व्वनिवासश्च विश्वानि यस्य लोमसु ।
तस्य देवः परं ब्रह्म वासुदेव इतीरितः ॥
वासुदेवेति तन्नाम वेदेषु च चतुर्षु च ।
पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ॥
रक्तवीर्य्याश्रितो देहः कृते वेदे निरूपितः ।
साक्षिणो मुनयश्चात्र धर्म्मः सर्व्वत्र एव हि ॥
साक्षिणो मम वेदाश्च रविचन्द्रौ च साम्प्रतम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अध्यायः ॥
तस्य नामव्युत्पत्तिः ।
“सर्व्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्बद्भिः परिगीयते ॥”
इति विष्णुपुराणे १ अंशे २ अध्यायः ॥
अपि च ।
“सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि ।
भूतेष्वपि च सर्व्वात्मा वासुदेवस्ततः स्मृतः ॥
खाण्डिक्यजनकायाह ष्टष्टः केशिध्वजः पुरा ।
नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥
भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र च तानि यत् ।
धाता विधाता जगतां वादेवस्ततः प्रभुः ॥”
इति तत्रैव । ६ । ५ । ८० -- ८२ ॥ * ॥
(तथा च महाभारते । ५ । ७० । ३ ।
“वसनात् सर्व्वभूतानां वसुत्वात् देवयोनितः ।
वासुदेवस्ततो वेद्यो बृहत्वात् विष्णुरुच्यते ॥”)
अस्य अङ्गप्रत्यङ्गमन्त्रा यथा, --
“बीजस्तु वासुदेवस्य पुरैव प्रतिपादितम् ।
तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते ॥
ॐ नमो भगवते वामुदेवाय वै पदम् ।
अङ्गमन्त्रं तथैतस्य वासुदेवस्य कीर्त्तितम् ॥
अस्य प्रत्यङ्गरूपन्तु दधिवामनसंज्ञकम् ।
तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु ॥
ॐ नमो विष्णवे पूर्व्वं पदं तस्य प्रकोर्त्तितम् ।
पदन्तु सुरपतये चतुर्थ्यन्तं महाबलम् ॥
स्वाहान्तं हृदयासन्नं प्रत्यङ्गं वैष्णवं मतस् ।
मन्त्रद्वयन्तु यो वेद बीजं प्रत्यङ्गमन्त्रकम् ॥
स पूषा देवकायस्तु न स भूयोऽभिजायते ।
सर्व्वस्तूत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने ॥
त्रिषु मन्त्रेषु च बुधो विशेषं शृणु भूपते ।
रूपन्तु बीजमन्त्रस्य प्रथमं शृणु भूपते ॥
पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः ।
चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत ॥
दक्षिणोर्द्ध्वे गदां धत्ते तदधो विकचाम्बुजम् ।
वामोर्द्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च ॥
श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चाद्भुतम् ।
धत्ते कक्षे ह्यधो वामे तूणीरं वाणपूरितम् ॥
दक्षिणे कोषगं खड्गं नन्दकं सशराशनम् ।
शीर्षे किरीटं सद्योतं कर्णयोः कुण्डलद्वयम् ॥
आजानुलम्बिनीं चित्रां स्वर्णमालां गलस्थि-
ताम् ।
दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम् ॥
सरस्वर्ती वामपार्श्वे चिन्तयेद्वरदं हरिम् ।
मन्त्रस्य बीजरूपन्तु कथितं तव पार्थिव ॥
द्बादशाक्षरमन्त्रस्य रूपमन्यत् शृणुष्व मे ।
नीलोत्पलदलश्यामं तथैव च चतुर्भुजम् ॥
दक्षिणोर्द्ध्वे स्थितं पद्मं गदाञ्चाधः प्रचोदयेत् ॥
वामेऽधश्चक्रमतुलमूर्द्ध्वे शङ्खञ्च विभ्रतम् ।
चिन्तयेद्वरदं देवं सर्व्वमन्यच्च पूर्व्ववत् ॥
अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य च विस्तरम् ।
शृणु राजन्नवहितो दारिद्र्यभयभञ्जनम् ॥
पूर्णेन्दुसदृशं कामं शुक्लवस्त्रं विचिन्तयेत् ।
करे विचिन्तयेद्वामे पीयूषापूरितं घटम् ॥
दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् ।
पद्मासनगतं देवं चन्द्रमण्डलमध्यगम् ॥
पृष्ठ ४/३५८
शुक्लवस्त्रधरं देवं प्रमाणाद्वामनं सदा ।
ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् ।
चिन्तयेद्वरदं देवं सर्व्वकामफलप्रदम् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥ * ॥
तस्योत्पत्तिर्यथा, --
“ततस्तु दशमे मासि विधौ ब्रह्मर्क्षसङ्गते ।
अष्टम्यामर्द्धरात्रौ च तस्यां जातो जनार्द्दनः ॥
इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः ।
चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।
वमुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥
इति पाद्मोत्तरखण्डे ६० अध्यायः ॥ * ॥
तस्य चतुर्धा मूर्त्तिर्यथा, --
“एकांशेन जगत् कृत्स्नं व्याप्य नारायणः स्यितः ।
चतुर्द्धावस्थितो व्यापी सगुणो निर्गुणोऽपि वा ॥
एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला ।
वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥
द्बितीया कालसंज्ञान्या तामसी शेषसंज्ञिता ।
निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥
सत्त्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति च संज्ञिता ।
जगत् स्थापयते सर्व्वं सा विष्णुप्रकृतिर्ध्रुवा ॥
चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता ।
राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टि-
कारिका ॥
यः स्वपित्यखिलं हत्वा प्रद्युम्नेन सह प्रभुः ।
नारायणाख्यो ब्रह्मासौ प्रजासर्मकरो हि सः ॥
या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्बराः ।
तया संमोहयेद्विश्वं सदेवासुरमानुषम् ॥
सैव सर्व्वजगत्सूतिः प्रकृतिः परिकीर्त्तिता ।
वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥
प्रधानं पुरुषः कालस्तद्वत् त्रयमनुत्तमम् ।
वासुदेवात्मकं नित्यमेतत् विज्ञानमुच्यते ॥
एकवेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ।
विभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥”
इति कूर्म्मपुराणे ४८ अध्यायः ॥

वासुदेवप्रियङ्करी, स्त्री, (वासुदेवस्य प्रियङ्करी ।)

शतावरी । इति राजनिर्घण्टः ॥ श्रीकृष्णप्रिय-
कारिणी च ॥

वासुपूज्यः, पुं, (वासुर्नारायण इव पूज्यः ।)

जिनविशेषः । इति हेमचन्द्रः । १ । २७ ॥

वासुभद्रः, पुं, श्रीकृष्णः । इति शब्दमाला ॥ (यथा,

विष्णुपादादि-केशान्तवर्णनस्तोत्रे । ३१ ।
“या वायावानुकूल्यात् सरति मणिरुचा भास-
मानासमाना
साकं साकम्पमंसे वसति विदधती वासुभद्रं
सुभद्रम् ॥”)

वासुरा, स्त्री, स्त्रीमात्रम् । करिणी । रात्रिः ।

भूमिः । इति हेमचन्द्रः ॥

वासूः, स्त्री, (वास्यते स्वगृहे इति । वास + बाहु-

लकात् ऊः ।) नाट्योक्तौ बाला । इत्यमरः ॥

वासौकः, [स्] क्ली, (वासाय ओकः स्थानम् ।)

वासगृहम् । यथा, --
“गर्भागारेऽपवरको वासौकः शयनास्पदम् ।”
इति हेमचन्द्रः ॥

वास्तवं, क्ली, (वस्त्वेष । वस्तु + अण् ।) यथार्थ-

भूतम् । यथा, --
“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्सराणां
सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।”
इत्यादि श्रीभागवते प्रथमस्कन्धे १ अध्यायः ॥
“वास्तवं परमार्थभूतं वस्तु । यद्वा, वास्तव-
शब्देन वस्तुबोऽंशो जीवः वस्तुनः कार्य्यं जगच्च
तत् सर्व्वं वस्त्वेव न ततः पृथक् ।” इति तट्टी-
कायां श्रीधरस्वामी ॥

वास्तविकं, त्रि, (वस्त्वव वस्तु + ठक् ।) परमार्थ-

भूतं वस्तु । वास्तवमेव इत्यर्थे वास्तवशब्दात्
ष्णिकप्रत्ययेनापि निष्पन्नम् ॥

वास्तवोषा, स्त्री, रात्रिः । इति त्रिकाण्डशेषः ॥

किन्तु वास्तवा ऊषा इति नामद्वयमिति साधु-
पाठः ॥

वास्तव्यः, त्रि, वसतीति वस + “वसेस्तव्यत् कर्त्तरि

णिच्च ।” ३ । १ । ९६ । इत्यस्य वार्चिकोक्त्या
वासकर्त्ता । कर्त्तरितव्यत् । इति सिद्धान्त-
कौमुदी ॥ (यथा, कथासरित्सागरे । ३८ ।
१०७ ।
“इहैवास्मि महाराज वास्तव्यो नगरे द्बिजः ॥”)
वासयोग्यश्च । वसतौ, पुं ॥

वास्तु, क्ली, वास्तूकशाकम् । इति राजनिर्घण्टः ॥

वास्तु, क्ली पुं, (वसन्ति प्राणिनो यत्र । वस निवासे

+ “वसेरगारे णिच्च ।” उणा० १ । ७० । इति
तुण् । स च णित् ।) गृहकरणयोग्यभूमिः । तत्-
पर्य्यायः । वेश्मभूः २ । इत्यमरः ॥ पोतः ३ वाटी
४ । इति जटाधरः ॥ वाटिका ५ गृहपोतकः
६ । इति शब्दरत्नावली ॥ वास्तुकरणप्रमा-
णादिर्यथा, --
श्रीहरिरुवाच ।
“वास्तु संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् ।
ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥
ईशाने च शिरःपादौ नैरृतेऽग्न्यनिले करौ ।
आवासवासवेश्मादौ पुरे ग्रामे बणिक्पथे ॥
प्रासादारामदुर्गेषु देवालयमठेषु च ।
द्वात्रिंशत्तु सुरान् वाह्ये तदन्तश्च त्रयोदश ॥
ईशश्चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः ।
सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥
पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ ।
गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ।
असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ॥
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।
बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥
ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः ।
आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥
मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् ।
देवानेकोत्तरानेतान् पूर्ब्बादौ नामतः शृणु ॥
अर्य्यमा सविता चैव विवस्वान् विबुधाधिपः ।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।
ईशानकोणादारभ्य दुर्ज्ञेयो वंश उच्यते ॥
आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः ।
अदितिं हिमवन्तञ्च जयन्तञ्च इदं त्रयम् ॥
नादिका कारिका नाम शक्राद्गन्धर्व्वगा पुनः ।
वास्तुदेवान् पूजयित्वा गृहप्रासादकृद्भवेत् ॥
सुरेभ्यः पुरतः कार्य्यं दिश्याग्नेय्यां महानसम् ।
रूपनिर्गमणे येन पूर्ब्बतः सत्रमण्डपम् ॥
गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् ।
भाण्डागारञ्च कौवेर्य्यां गोष्ठागारञ्च वायवे ॥
उदगाश्रयञ्च वारुण्यां वातायनसमन्वितम् ।
समित्कुशेन्धनस्थानमायुधानाञ्च नैरृते ॥
अभ्यागतालयं रम्यं शय्यासनसपादुकाम् ।
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ॥
गृहान्तराणि सर्व्वाणि सजलैः कदलीगृहैः ।
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥
प्राकारं तद्बहिर्दद्यात् पञ्चहस्तं प्रमाणतः ।
एवं विष्ण्वाश्रमं कुर्य्याद्वनैश्चोपवनैर्युतम् ॥
चतुःषष्टिपदो वास्तुः प्रासादादौ सुपूजितः ।
मध्ये चतुष्पदो ब्रह्मा द्विपदास्त्वर्य्यमादयः ॥
कर्णे चैवाथ पक्ष्याद्यास्तथा देवाः प्रकोर्त्तिताः ।
तेभ्योऽप्युभयतः सार्द्ध अन्येऽपि द्विपदाः सुराः ॥
चतुःषष्टिपदे देवा इत्येवं परिकीर्त्तिताः ।
चरकी च विदारी च पूतना पापराक्षसो ॥
ईशानाद्यास्तथा बाह्ये देवाद्या हेतुकादयः ।
हेतुकस्त्रिपुरान्तश्च अग्निर्वेतालको यमः ॥
अग्निजिह्वः कालकस्तु करालो ह्येकपादकः ।
ईशान्यां भीमरूपस्तु पाताले प्रेतनायकः ॥
आकाशे गन्धमाली स्यात् क्षेत्रपालांस्तथा
यजेत् ।
विस्ताराभिहतं दीर्घं राशिद्वारन्तु कारयेत् ॥
वसुभिर्भागशुद्धिञ्च शेषाङ्कादायमादिशेत् ।
पुनर्गुणितमष्टाभिरृक्षभागन्तु भाजयेत् ॥
यच्छेषं तद्भवेदृक्षं भागैर्हृत्य व्ययं भवेत् ।
ऋक्ष चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥
शेषमंशं विजानीयात् देवलस्य मतं यथा ।
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागहारितम् ॥
यच्छेषन्तु भवेज्जीवं मरणं भूतहारितम् ।
वास्तुक्रोडे गृहं कुर्य्यात् न पृष्ठे मानवः सदा ॥
वामपार्श्वेन स्वपिति नात्र कार्य्या विचारणा ।
सिंहकन्यातुलायाञ्च द्वारं शुद्धेदथोत्तरम् ॥
एवञ्च वृश्चिकादौ स्यात् पूर्ब्बदक्षिणपश्चैमम् ।
द्बारं दीर्घार्द्धविस्तारं द्बाराण्यष्टौ स्मृतानि च ॥
सुताल्पप्रैष्यनीचत्वं सुयानं सूत्रभूषणम् ।
पुत्त्रहीनन्तु रौद्रेण वीर्य्यघ्नं दक्षिणे तथा ॥
बद्धोऽवन्धश्चायुर्वृद्धिः पुत्त्रलाभसुतृप्तिदे ।
धनदं नृपपीडादमर्थघ्नं रोगदं जले ॥
नृपभीतिर्मृतापत्या अनपत्यञ्च वैरिदम् ।
अर्थदं वार्थहान्येव दोषदं पुत्त्रमृत्युदम् ॥
द्वाराण्युत्तरसंज्ञानि पूर्ब्बद्वाराणि वच्म्यहम् ।
पृष्ठ ४/३५९
अग्निभीतिर्बहुकन्या धनसम्मानकोपदम् ॥
राजघ्नं कोपदं पूर्ब्बे फलतो द्बारमीरितम् ।
ईशानादौ भवेत् पूर्ब्बे आग्नेयादौ तु दक्षिणे ॥
नैरृत्यादौ पश्चिमे स्यात् वायव्यादौ तु चोत्तरे ।
अष्टभागे कृते भागे द्वाराणाञ्च फलाफलम् ॥
अश्वत्थप्लक्षन्यग्रोधाः पूर्ब्बादौ स्यादुडुम्बरः ।
गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः ॥
पूजितो विघ्नहारी स्यात् प्रासादस्य गृहस्य
च ॥”
इत्यादि गारुडे वास्तुमानलक्षणं ४६ अध्यायः ॥
प्रासादलक्षणन्तु प्रासादशब्दे द्रष्टव्यम् ॥ * ॥
अपि च ।
ऋषय ऊचुः ।
“प्रासादभवनादीनां निवेशं विस्तरान्नृप ।
कुर्य्यात् केन विधानेन कश्च वास्तुरुदाहृतः ॥
सूत उवाच ।
भृगुरत्रिर्व्वशिष्ठश्च विश्वकर्म्मा यमस्तथा ।
नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ॥
ब्रह्मा कुमारो नन्दीशः शौनको गर्ग एव च ।
वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥
अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः ।
संक्षेपेणोपदिष्टं यन्मनवे मत्स्यरूपिणा ॥
तदिदानीं प्रवक्ष्यामि वास्तुशास्त्रमनुत्तमम् ।
पुरान्धकवधे घोरे घोररूपस्य शूलिनः ॥
ललाटस्वेदसलिलमपतद्भुवि भीषणम् ।
करालवदनं तस्मात् समुद्भूतं समुल्वणम् ॥
ग्रसमानमिवाकाशं सप्तद्वीपां वसुन्धराम् ।
ततोऽन्धकानां रुधिरमपिबत् पतितं क्षितौ ॥
तेन तत्समरे सर्व्वं पतितं यन्महीतले ।
तथापि तृप्तिमगमत्तद्भूतं न तदा यदा ॥
तदा शिवस्य पुरतस्तपश्चक्रे सुदारुणम् ।
क्षुधाविष्टन्तु तद्भूतमाहर्त्तु जगतां त्रयम् ॥
ततः कालेन सन्तुष्टो भैरवस्तस्य चादरात् ।
वरं वृणीष्व भद्रं ते यदभीष्टं तवानघ ॥
तमुवाच ततो भूतं त्रैलोक्यग्रसनक्षमम् ।
भवामि देवदेवेश तथेत्युक्तञ्च शूलिना ॥
ततस्तत् त्रिदिव सर्व्वं भूमण्डलमशेषतः ।
स्वदेहेनान्तरीयञ्च बन्धानं प्रापतद्भुवि ॥
भीतभीतैस्ततो देवैर्ब्रह्मणा वाथ शूलिना ।
दानवासुररक्षोभिरवष्टब्धं समन्ततः ॥
येन यत्रैव चाक्रान्तं स तत्रैवाभवत् पुनः ।
निवासात् सर्व्वदेवानां वास्तुरित्यभिधीयते ॥
अवष्टब्धेन तेनापि विज्ञप्ताः सर्व्वदेवताः ।
प्रसीदध्वं सुराः सर्व्वे युष्माभिर्निश्चलीकृतः ॥
स्थास्यामि किं यदाहारमवष्टब्धमधीमुखम् ।
ततो ब्रह्मादिभिः प्रोक्तं वास्तुमध्ये तु यो वलिः ॥
आहारो वैश्वदेवान्ते न्यूनमस्मिन् भविष्यति ।
वास्तूपशमनो यज्ञस्तवाहारो भविष्यति ॥
एवमुक्तस्ततो हृष्टः स वास्तुरभवत्तदां ।
वास्तुयज्ञः स्मृतस्तस्मात् ततः प्रभृति शान्तये ॥”
इति मात्स्ये वास्तुभूतोद्भवो नाम २२६
अध्यायः ॥ * ॥
सूत उवाच ।
“अथातः संप्रवक्ष्यामि गृहकालविनिर्णयम् ।
यथाकालं शुभं ज्ञात्वा सदा भवनमारभेत् ॥
चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।
वैशाखे धनरत्नानि ज्यैष्ठे मृत्युं तथैव च ॥
आषाढे भृत्यरत्नानि पशुवर्ज्जमवाप्नुयात् ।
श्रावण भृत्यलाभञ्च हानिं भाद्रपदे तथा ॥
पत्नीनाशोऽश्वयुजे विन्द्यात् कार्त्तिके धन-
धान्यकम् ।
मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥
लाभञ्च बहुशो विन्द्यादग्निं माघे विनिर्द्दिशेत् ।
फाल्गुने काञ्चनं पुत्त्रानिति कालबलं स्मृतम् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥
आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ।
वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः ॥
विष्कम्भगण्डपरिघवर्ज्जं योगेषु कारयेत् ।
श्वेते मैत्रेय माहेन्द्रे गान्धर्व्वेऽभिजिद्रोहिणे ।
तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।
स्तम्भोच्छ्रायादि कर्हव्यमन्यत्र परिवर्ज्जयेत् ॥
प्रासादेष्वेवमेव स्यात् कूपवापीषु चैव हि ।
पूर्ब्बं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् ॥
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्ब्बशः ।
विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम् ॥
विप्राणां मधुरास्वादा कषाया क्षत्त्रियस्य च ।
कषायकटुका तद्वद्वै श्यशूद्रेषु शस्यते ॥
रत्निमात्रे तु वै गर्त्तेष्वनुलिप्ते तु सर्व्वतः ।
घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् ।
ज्वालयेत् भूपरीक्षार्थं पूर्ब्बं तत् सर्व्वदिङ्मुखम् ॥
दीप्तां पूर्ब्बादि गृह्णीयाद्वर्णानामनुपूर्व्वशः ।
वास्तुः सामूहिको नाम दीप्यते सर्व्वतस्तु यः ॥
शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च ।
रत्निमात्रमधो गर्त्तं परीक्ष्यं खातपूरणे ॥
अधिके श्रियमाप्नोति न्यूने हानिं समे समम् ।
हलकृष्टेऽथवा देशे शर्व्वबीजानि वापयेत् ॥
त्रिपञ्चसप्तमात्रेण यत्र रोहन्मि तान्यपि ।
ज्येष्ठोत्तमा कनिष्ठा भूर्वर्ज्जनीयतरा मता ॥
पञ्चगव्योषधिजलैः परीक्षित्वा च सेचयेत् ॥
एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ।
पश्चात् पिष्टेन चालिप्येत् सूत्रेणालोड्य सर्व्वतः ॥
दश पूर्ब्बायता रेखा दश चैवोत्तरायताः ।
सर्व्वा वास्तुविभागेषु विज्ञेया नवका नव ॥
एकाशीतिपदं कृत्वा वास्तुवित् सर्व्ववास्तुषु ।
पदस्थान् पूजयेद्देवांस्त्रिंशत् पञ्चदशैव तु ॥
द्बात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ।
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत ॥
ईशानकोणादिषु तान् पूजयेद्धविषा नरः ।
शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्य्यसत्यौ भृशश्चैव आकाशो वायुरेव च ।
पूषा च वितथश्चैव गृहक्षतयमावुभौ ॥
गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ।
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥
असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ।
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।
बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥
ईशानादिचतुष्कोणे संस्थितान् पूजयेद्यथा ।
आपश्चैवाथ सावित्रो जयो भद्रस्तथैव च ॥
मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् ।
साध्या नैकान्तरान् विद्यात् पूर्ब्बाद्यान् नामतः
शृणु ॥
अर्य्यमा सविता चैव विवस्वान् विबुधाधपः ।
मिथोऽथ राजयक्ष्मा च तथा पृथ्वीधरः स्मृतः ॥
अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः ।
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ॥
पदिकानाञ्च वर्गोऽयमेवं कोणेष्वशेषतः ।
तन्मध्ये तु वहिर्विंशत् द्विपदास्ते तु सर्व्वतः ॥
अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
ब्रह्मणः परिधौ दिक्षु त्रिपदास्ते तु सर्व्वतः ॥ * ॥
वंशानिदानीं वक्ष्यामि ऋजूनपि पृथक् पृथक् ।
वायुं यावत्तथा रोगात् पितृभ्यः शिखिनं पुनः ॥
मुख्याद्भृशमथो शेषात् वितथं यावदेव तु ।
सुग्रीवाददितिं यावत् भृगोः पर्जन्यमेव च ॥
एते वंशाः समाख्याताः क्वचिद्दुर्ज्जय एव च ।
एतेषां यस्तु सम्पातः पदं मध्यं समन्ततः ॥
मर्म्म चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् ।
स्तम्भन्यासे तु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥
कीलोच्छिष्टोपघातानि वर्ज्जयेद्यत्नतो नरः ।
सर्व्वत्र वास्तुर्निर्द्दिष्टः पितृवैश्वानरायतः ॥
मुर्द्धन्यग्निः समाविष्टो मुखे चापः समाहितः ।
पृथ्वीधरोऽर्य्यमा चैव तयोस्तावदधिष्ठितौ ॥
वक्षःस्थले चापवत्सः पूजनीयः सदा बुधैः ।
नेत्रयोर्दितिपर्ज्जन्यौ श्रोत्रेऽदितिजयन्तकौ ॥
सर्पेन्द्रा वंशसंस्थौ च पूजनीयौ प्रयत्नतः ।
सत्यरोगादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्ते समास्थितौ ।
सावित्रः सविता तद्बद्धस्तं दक्षिणमाश्रितौ ॥
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।
पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने ॥
तथैवासुरसोमौ च वामपार्श्वे समास्थितौ ।
पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥
उर्व्वोऽर्य्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ ।
जङ्घयोर्भृगुसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः ॥
जयशक्रौ तथा मेढ्रेपान्दयोः पितरस्तथा ।
मघ्ये नवपदो ब्रह्मा हृदये स तु पूज्यते ॥
चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः ।
ब्रह्मा चतुष्पदस्तत्र कोणेष्वर्द्धपदास्ततः ॥
बहिष्कोणे तु चाष्टौ तु सार्द्धाश्चोभयसंस्थिताः ।
विंशतिर्द्विपदाश्चैषां चतुःषष्टिपदे स्मृताः ॥ * ॥
गृहारम्भे तु कण्डूतिः स्वाम्यङ्गे यत्र जायते ।
शल्यस्त्वपनयेत्तत्र प्रासादे भवमेऽपि वा ॥
सशल्यं भयदं तस्मादशल्यं शुभदायकम् ।
हीनाधिकाङ्गभावांस्तु सर्व्वथा तु विवर्ज्जयेत् ॥
नगरग्रामदेशेषु सर्व्वत्रैवं प्रकल्पयेत् ।
पृष्ठ ४/३६०
चतुःशालं त्रिशालन्तु द्विशालञ्चैकशालकम् ॥
नामतस्तानि वक्ष्यामि स्वरूपेण द्बिजोत्तमाः ॥”
इति मात्स्ये एकाशीतिपदवास्तुनिर्णयो नाम
२२७ अध्यायः ॥ * ॥
सूत उवाच ।
“चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा ।
चतुःशालं द्बयद्वारैरलिन्दैः सर्व्वतोमुखम् ॥
नाम्ना तत् सर्व्वतोभद्रं शुभं देवनृपालये ।
पश्चिमद्बारहीनन्तु नन्द्यावर्त्तं प्रचक्ष्यते ॥
दक्षिणद्वारहीनं तदूर्द्ध्वमानमुदाहृतम् ।
पूर्ब्बद्वारविहीनन्तत् स्वस्तिकं नाम विश्रुतम् ॥
रुचकं चोत्तरद्वारविहीनं तत्प्रचक्ष्यते ।
सौम्यशालाविहीनन्तु त्रिशालं धन्यकञ्च तत् ॥
क्षेमवृद्धिकरं नॄणां बहुपुत्त्रफलप्रदम् ।
शालया पूर्ब्बया हीनं सुक्षेत्रमिति विश्रुतम् ॥
धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् ।
चुल्ली तु याम्यया हीनं विशालं शालया तु यत् ॥
कुलक्षयकरं नॄणां सर्व्वव्याधिभयावहम् ।
हीनं पश्चिमया यत्तु पक्षघ्नं नाम तत् पुनः ॥
मित्रबन्धुसुतान् हन्ति तथा सर्पभवावहम् ।
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ॥
क्षेमवृद्धिकरं नॄणां तथा पुत्त्रफलप्रदम् ।
यमं सूर्य्यञ्च विज्ञेयं पश्चिमोत्तरशालकम् ॥
राजाग्निमयदं नॄणां कुलक्षयकरञ्च तत् ।
उदक्पूर्व्वे तु शाले द्वे दण्डाख्ये यत्र तद्भवेत् ॥
अकालमृत्युभयदं परचक्रभयावहम् ।
धनाख्यं यामपूर्ब्बाभ्यां शालाभ्यां यद्द्विशालकम् ॥
तच्छस्त्रभयदं नॄणां पराभवभयावहम् ।
चुल्ली पूर्ब्बापराभ्यान्तु सा भवेत् मृत्युसूचनी ॥
वधबन्धाय शस्त्राणामनेकभयकारकम् ।
काचमुत्तरयामाभ्यां शालाभ्यां भयदं नृणाम् ॥
सिद्धार्थवर्ज्यं वर्ज्यानि द्विशालानि सदा बुधैः ॥ * ॥
अथातः संप्रवक्ष्यामि भवनं पृथिवीपतेः ।
पञ्चप्रकारं तत् प्रोक्तमुत्तमादिविभेदतः ॥
अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः ।
चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ।
युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥
षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्त-
रात् ।
त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ * ॥
सेनापतेः प्रवक्ष्यामि सदा भवनपञ्चकम् ।
चतुःषष्टिन्तु विस्तारात् षड्भिः षड्भिस्तु
हीयते ॥
पञ्चस्वतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् ॥ * ॥
मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥
चतुश्चतुर्भिर्हीना स्यात् करषष्टिः प्रविस्तरे ।
अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥ * ॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।
चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥
चतर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते । * ।
शिल्पिनां कञ्चुकीनाञ्च वैश्यानां गृहपञ्चकम् ॥
अष्टाविंशत् कराणान्तु द्बिहीनं विस्तरेण तत् ।
द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेव तु ॥ * ॥
दूतकर्म्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ।
चतुर्थांशाधिकं दैर्घ्यं विस्तारो द्वादशैव तु ॥
अध्यर्द्ध्वकरहानिः स्यात् विस्तारात् पञ्चसु
क्रमात् । * ।
दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥
तेषामपि प्रवक्ष्यामि सदा भवनपञ्चकम् ।
चत्वारिंशच्च विस्ताराच्चतुर्भिर्हीयते क्रमात् ॥
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् । * ।
चतुर्व्वर्णस्व वक्ष्यामि सामान्यं गृहपञ्चकम् ॥
द्बात्रिंशकं कराणान्तु चतुर्भिर्हीयते क्रमात् ।
आषोडशादिति परं नूनमन्त्यावसायिनाम् ॥
दशांशेनाष्टभागेन त्रिभागेणाथ पादिकम् ।
अधिकं दैर्घ्यमित्याहुर्ब्राह्मणादेः प्रशस्यते ॥
सेनापतेर्नृपस्यापि गृहस्यैवोत्तरेण तु ।
नृपवासगृहं कार्य्यं भाण्डागारन्तथैव च ॥
सेनापतेर्गृहस्यापि चातुर्व्वर्ण्यस्य चान्तरम् ।
वासकोषगृहं कार्य्यं राजपूज्येषु सर्व्वदा ॥
अन्तरप्रभवाणाञ्च स्वपितुर्दूरमिष्यते ।
तथा हस्तशतादर्व्वाक् गदितं वनवासिनाम् ॥
सेनांपतेर्नृपस्यापि सप्तत्या सहितेऽन्विते ।
चतुर्द्दशहृते व्यासे शालान्यासः प्रकीर्त्तितः ॥
पञ्चत्रिंशद्धृते तस्मिन् अलिन्दः समुदाहृतः ।
तथा षट्त्रिंशद्धस्तात्तु सप्ताङ्गुलसमन्वितः ॥
विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् ।
दशाङ्गुलाधिका तद्वत् क्षत्त्रियस्य विधीयते ॥
पञ्चत्रिंशत् करा वैश्ये अङ्गुलानि त्रयोदश ।
तावत्करैस्तु शूद्रस्य युता पञ्चदशाङ्गुलैः ॥
शालायास्तु त्रिभागेण यस्याग्रे वीथिका भवेत् ।
सोष्णीशं नाम तद्वास्तु पश्चाच्छायोच्छ्रयम्भवेत् ॥
पार्श्वयोर्वीथिका यत्र सावष्टम्भन्तदुच्यते ।
समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥
शुभदं सर्व्वमेतत् स्यात् चातुर्वर्ण्यञ्चतुर्व्विधम् ।
विस्तरात् षोडशो भागस्तथा हस्तचतुष्टयम् ॥
प्रथमो भूमिक्रोच्छ्राय उपरिष्टात् प्रहीयते ।
द्वादशांशेन सर्व्वासु भूमिकासु तथोच्छ्रयः ॥
पक्वेष्टके भवेद्भित्तिः षोडशांशेन विस्तरात् ।
दानवेन विकल्पः स्यात् तथा मृण्मयभित्तिके ॥
गर्भमानेन मानन्तु सर्व्ववास्तुषु शस्यते ।
गृहवासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥
संयुतो द्वारनिष्कम्भो द्विगुणश्चोच्छ्रयो भवेत् ।
द्वारशाखासु बाहुल्यमुच्छ्रायं करसम्मितैः ॥
अङ्गुलैः सर्व्ववास्तूनां पृथुत्वं शस्यते बुधैः ।
उदुम्बरोत्तराङ्गे च तदर्द्धार्द्धं प्रविस्तरैः ॥”
इति मात्स्ये वास्तुविद्यासु गृहमाननिर्णयो
नाम २२८ अथ्यायः ॥ * ॥
सूत उवाच ।
“अथातः संप्रवक्ष्यामि स्तम्भमानविनिर्णयम् ।
कृत्वा स्वभवनोच्छ्रायं सदा सप्तगुणं बुधः ॥
अशीत्यन्तं पृथुत्वं स्यादग्रे नवगुणैः सह ।
रुचकञ्चतुरस्रः स्यादष्टांशो वज्र उच्यते ॥
द्विवज्रः षोडशास्रस्तु द्बादशास्रः प्रलीनकः ।
मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥
एतेपञ्च महास्तम्भाः प्रशस्ताः सर्व्ववास्तुषु ।
पद्मवल्लीलता कार्य्या पत्रदर्शनरूपिता ॥
स्तम्भस्य नवमांशेन पद्मकुम्भोत्तराणि च ।
स्तम्भतुल्या तुला प्रोक्ता हीनाश्चोपतुला ततः ॥
त्रिभागेणेह सर्व्वत्र चतुर्भागेण वा पुनः ।
हीनं हीनञ्चतुर्थांशात्तथा सर्व्वासु भूमिषु ॥
वासगेहानि सर्व्वेषां प्रवेशे दक्षिणेन तु । * ।
द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह तानि तु ॥
पूर्ब्बेणेन्द्रं जयन्तञ्च द्वारं सर्व्वत्र शस्यते ।
याम्यञ्च वितथञ्चैध दक्षिणेन विदुर्बधाः ॥
पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते ।
उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत् ॥
तथा वास्तुसु सर्व्वत्र वेधं द्वारस्य वर्ज्जयेत् ।
द्वारे तु रथ्यया विद्धे भवेत् सर्व्वकुलक्षयः ॥
तरुणा दोषबाहुल्यं शोकः पङ्केन जायते ।
अपस्मारो भवेन्नूनं कूपवेधेन सर्व्वदा ॥
व्यथा प्रस्रवणेन स्यात् कीलेनाग्निभयम्भवेत् ।
विनाशो देवताविद्धे स्तम्भेन स्त्रीहृतो भवेत् ॥
गृहभर्त्तुर्विनाशः स्यात् गृहेण च गृहे कृते ।
अमेध्यावस्करैर्व्विद्धे गृहिणीबन्धनम्भवेत् ॥
तथा शस्त्रभयं विद्यादन्त्यजस्य गृहेण तु ।
उच्छ्रायद्बिगुणां भूमिं त्यक्त्वा वेधो न विद्यते ॥
स्वयमुद्घाटिते द्वारे उन्मादो गृहमेधिनाम् ।
स्वयञ्च पिहिते विन्द्यात् कुलनाशं विचक्षणः ॥
मानाधिके राजभयं नीचे तस्करतो भयम् ।
द्वारोपरि च यद्द्वारं तदन्तकमुखं स्मृतम् ॥
आध्वानं मध्यदेशे तु अधिको यस्य विस्तरः ।
वज्रन्तु शकटं मध्ये सद्यो भर्त्तृविनाशनम् ॥
तथान्यपीडितद्वारं बहुदोषकरम्भवेत् ।
मूलद्वारं तथान्यन्तु नाधिकं शोभनम्भवेत् ॥
कुम्भश्रीपर्णिवल्लीभिर्मू लद्वारन्तु शोभयेत् ।
पूजयेच्चापि तन्नित्यं वलिना चाक्षतोदकैः ॥ * ॥
भवनस्य वटः पूर्ब्बे दिग्भागे सर्व्वकालिकः ।
उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ॥
प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वसिद्धये ।
कण्टकी क्षीरवृक्षश्च आसन्नः सफलो द्रुमः ॥
भयं हानिं प्रजाहानिं कुर्व्वन्ति क्रमशः सदा ।
न च्छिन्द्याद्यदि तानन्यानन्तरे स्थापयेत्
शुभान् ।
पुन्नागाशोकवकुलशमीतिलकचम्पकान् ।
दाडिमी पिप्पली द्राक्षा तथा कुसुममण्डपम् ॥
जम्बीरपूगपनसद्रुमकेतकीभि-
र्जातीसरोजशतपत्रिकमल्लिकाभिः ।
यन्नारिकेलकदलीदलपाटलाभि-
र्युक्तं तदत्र भवनं श्रियमातनोति ॥”
इति मात्स्ये वास्तुविद्यासु वेधपरिवर्ज्जनो नाम
२२९ अध्यायः ॥ * ॥
सूत उवाच ।
“उदगादिप्लवं वास्तु समानशिरसन्तथा ।
परीक्ष्य पूर्ब्बवत् कुर्य्यात् स्तम्भोच्छ्रायं विचक्षणः ॥
पृष्ठ ४/३६१
न देवधूर्त्तसचिवचत्वराणां समीपतः ।
कारयेद्भवनं प्राज्ञो दुःखशोकभयं यतः ॥
तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः ।
पृष्ठतः पृष्ठभङ्गस्तु सव्यावर्त्तः प्रशस्यते ॥
अपसव्यो विनाशाय दक्षिणे शीर्णकस्तथा ।
सर्व्वकामफलो नॄणां संपूर्णो नाम वामतः ॥
एवं प्रवेशमालोक्य यत्नेन गृहमारभेत् । * ।
अथ संवत्सरे पूर्णे मुहूर्त्ते शुभलक्षणे ॥
रत्नोपरि शिलां कृत्वा सर्व्वबीजसमन्विताम् ।
चतुभिर्ब्राह्मणैस्तम्भं वस्त्रालङ्कारपूजितम् ॥
शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ।
स्थापितं विन्यसेत् तद्वत् सर्व्वौषधिसमन्वितम् ॥
नानाक्षतफलोपेतं वस्त्रताम्बूलसंयुतम् ।
ब्रह्मघोषेण वाद्येन गीतमङ्गलनिस्वनैः ॥
पायसं भोजयेद्विप्रान् होमस्तु मधुसर्पिषा ।
वास्तोस्पते प्रतिजानीहि मन्त्रेणानेन सर्व्वदा ॥
सूत्रपाते तथा कार्य्यमेवं स्तम्भोदये पुनः ।
द्वारबन्धोच्छ्रये तद्बत् प्रवेशसमये तथा ॥
वास्तूपशमने तद्वत् वास्तुयज्ञस्तु पञ्चधा ।
ईशाने सूत्रपातः स्यादाग्नेये स्तम्भरोपणम् ॥
प्रदक्षिणञ्च कुर्व्वीत वास्तोः पदविलेखनम् ।
तर्ज्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे ।
प्रबालरत्नकनकं फलपिष्टकृतोदकम् ।
सर्व्ववास्तुविभागेषु शस्तम्पद्विलेखने ॥
न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्म्मभिः ।
न च सास्थिकपालेन क्वचिद्वास्तु प्रलेखयेत् ॥
एभिर्विलेखितं कुर्य्यात् दुःखशोकामयादिकम् ।
यदा गृहप्रवेशः स्याञ्छिल्पी तत्रोपलेखयेत् ॥
स्तम्भसूत्रादिके तद्वत् शुभाशुभफलोदयम् । * ।
आदित्याभिमुखं रौति शकुनः परुषं यदि ॥
तुल्यकालं स्पृशेदङ्गं गृहभर्त्तुः समात्मनः ।
वास्त्वङ्गे तद्विजानीयान्नरशल्यं भयप्रदम् ॥
शकुनानन्तरं तत्र हस्त्यश्वश्वापदम्भवेत् ।
तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः ॥
प्रसार्य्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ।
तत्र शल्यं विजानीयात् खरशब्दे च भैरवे ॥
यदीशान्तेऽथ दिग्भागे मधुरं रौति वायसः ।
धनन्तत्र विजानीयादङ्गे वा स्वाम्यधिष्ठिते ॥
सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले त्वधोमुखे ।
अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् ।
कम्बुशल्ये च जानीयात् पुंश्चल्यं स्त्रीषु वास्तुवित् ।
गृहभर्त्तुर्गृ हस्यापि विनाशः शिल्पिसम्भ्रमे ॥
स्तम्भस्थाने च्युते कुम्भे शिरोरोगं विनिर्द्दिशेत् ।
कुम्भापहारे सर्व्वस्य कुलस्यापि क्षयो भवेत् ॥
मृत्युं स्थानच्युते कुम्भे भग्ने बन्धं विदुर्ब्बुधाः ।
करसंख्याविनाशे तु नाशं गृहपतेर्विदुः ॥
बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् ।
प्राग्दक्षिणेन विन्यस्य स्तम्भे च्छत्रं विवेशयेत् ॥
ततः प्रदक्षिणेनान्यन्न्यसेत् स्तम्भं विचक्षणः ।
यस्माद्भयकरं नॄणां योजितान्यप्रदक्षिणम् ॥
रक्षां कुर्व्वीत यत्नेन स्तम्भोपद्रवनाशिनीम् ।
तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् ॥
प्रागुद्रक्प्लवनं कार्य्य द्बिमुखन्तु न कारयेत् ।
स्तम्भंवा भवनं वापि द्बारंवा स्वगृहन्तथा ॥
दिङ्मूढे कुलनाशः स्यात् न च सम्बर्द्धयेद्गृहम् ।
यदि सम्बर्द्धयेद्गेहं सर्व्वदिक्षु विवर्द्धयेत् ॥
पूर्व्वेण वर्द्धितं बास्तु कुर्य्याद्बैराणि वै सदा ।
दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संसयः ॥
पश्चाद्वृद्धन्तु यद्वास्तु तदर्थक्षयकारकम् ।
वर्द्धायितं तथा सौम्ये बहुसन्तापकारकम् ॥
आग्नेये यत्र वृद्धिः स्यात् तदग्निभयदम्भवेत् ।
वर्द्धितं राक्षसे कोणे शिशुक्षयकरं भवेत् ॥
वर्द्धायितन्तु वायव्ये वातव्याधिप्रकोपकृत् ।
ईशाने तु प्रजाहानिर्वास्तौ सम्बर्द्धिते सदा ॥ * ॥
ईशाने देवतागारं तथा शान्तिगृहं भवेत् ।
महानसं तथाग्नेये तत्पार्श्वे चोत्तरं जलम् ॥
गृहस्योपस्करं सर्व्वं नैरृते स्थापयेद्बुधः ।
बन्धस्थानं बहिःकुर्य्यात् स्नानमण्डपमेव च ॥
धनधान्यञ्च वायव्ये कर्म्मशाला ततो बहिः ।
एवं वास्तुनिवेशः स्यात् गृहभर्त्तुः शुभावहः ॥”
इति मात्स्ये वास्तुविद्यागृहनिर्णयो नाम २३०
अध्यायः ॥ * ॥
सूत उवाच ।
“अथातः संप्रक्ष्यामि दार्व्वाहरणमुत्तमम् ।
धनिष्ठापञ्चकं त्यक्त्वा विष्ट्यादिकमतः परम् ॥
ततः साम्बत्सरोद्दिष्टे दिने यायाद्वनं बुधः ।
प्रथमं वलिपूजान्तु कुर्य्यात् वृक्षाय सर्व्वदा ॥
पूर्व्वोत्तरेण पतितं गृहे दारु प्रशस्यते ।
अन्यथा न शुभं विद्याद्याम्यापरनिपातने ॥
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् ।
कृताधिवासं विहगैरनिलानलपीडितम् ॥
गजावभग्नञ्च तथा विद्युन्निर्घातपीडितम् ।
अर्द्धशुष्कं तथा दारु भग्नशुष्कं तथैव च ॥
चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा ।
श्मशानकूपनिलयं तडागादिसमुद्भवम् ॥
वर्ज्जयेत् सर्व्वथा दारु यदीच्छेद्विपुलां श्रियम् ।
तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान् ॥
श्लेष्मातकान् एलतरून् वर्ज्जयेत् गृहकर्म्मणि ।
अशनं शाकमधुकसर्ज्जशालाः शुभावहाः ॥
चन्दनं पनसं धन्यं सुरदारु हरिद्रका ।
द्वाभ्यामेकेन वा कुर्य्यात् त्रिभिर्व्वा भवनं शुभम् ॥
बहुभिः कारितं यस्मादनेकभयदं भवेत् ।
एकैकं शिंशपा ध्रन्या श्रीपर्णी तिन्दुकी तथा ॥
एता नान्यसमायुक्ता कदाचिच्छुभकारिकाः ।
स्यन्दनः पनसस्तद्वत् सरलार्ज्जुनपद्मकाः ॥
एते नान्यसमायुक्ता बास्तुकार्य्ये शुभप्रदाः ।
तरुच्छेदे महापीते गोधां विद्याद्बिचक्षणः ॥
माञ्जिष्ठवर्णे भेकः स्यात् नीले सर्पं विनिर्द्दिशेत् ।
अरुणे सरटं विद्यात् मुक्ताभे शुकमादिशेत् ॥
कपिले मूषिकां विद्यात् खड्गाभे जलमादिशेत् ।
एवंविधं सगर्भन्तु वर्ज्जयेद्वास्तुकर्म्मणि ॥
पूर्व्वं छिन्नन्तु शृह्णीयात् निमित्तं शकुनैः शुभैः । * ।
व्यासेन गुणि दैर्घे अष्टभिर्वै हते तथा ॥
यच्छेषमायतं विद्यादष्टभेदं वदामि वः ।
ध्वजो धूमश्च सिंहश्च श्वा वृषः खर एव च ॥
हस्ती ध्वाङ्क्षश्च पूर्ब्बाद्याः करिशेषा भवन्त्यमी ।
ध्वजः सर्व्वमुखो धन्यः प्रत्यग्वारो विशेषतः ॥
उदङ्मुखो भवेत् सिंहः प्राङ्मुखो वृषभो भवेत् ।
दक्षिणाभिमुखो हस्ती सप्तभिः स उदाहृतः ॥
एकेन ध्वज उद्दिष्टस्त्रिभिः सिंह उदाहृतः ।
पञ्चभिर्वृषभः प्रोक्तो विकोणस्थांस्तु वर्ज्जयेत् ॥
तमेवाष्टगुणं कृत्वा विद्याद्राशिं विचक्षणः ।
सप्तविंशद्धृते भागे ऋक्षं विद्याद्बिचक्षणः ॥
अष्टभिर्भाजिते ऋक्षे यच्छेषं स व्ययो मतः ।
व्ययाधिकं न कुर्व्वीत यतो दोषकरम्भवेत् ।
आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ॥
कृत्वाग्रतो द्बिजवरानथ पूर्णकुम्भं
दध्यक्षताम्रदलपुष्पफलोपशोभम् ।
दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो
माङ्गल्यशान्तिनिलयाय गृहं विशेच्च ॥
गृह्योक्तहोमविधिना वलिकर्म्म कुर्य्यात्
प्रासादवास्तुशमने च विधिर्य उक्तः ।
सन्तर्पयेत् द्विजवरानथ भक्ष्यभोज्यैः
शुक्लाम्बरश्च भवनं प्रविशेत् सधूमम् ॥”
इति मात्स्ये वास्तुविद्यानुकीर्त्तनं समाप्तम् २३१
अध्यायः ॥ * ॥ अन्यच्च । अथ वास्तुयुक्तिः ।
तत्र स्थाननिर्णयः ।
“नदीश्मशानशैलानां वनस्य निकटे तथा ।
न वास्तुकर्म्म कुर्व्वीत न द्वन्द्व-नगरान्तयोः ॥” * ॥
तत्र दिङ्निर्णयः ।
“राक्षसानिलवह्नीनां यमस्य दिशि वेश्मनः ।
नारम्भं कारयेद्राजा भीरुग्दाहक्षयप्रदम् ॥”
तथा हि ।
“भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयः क्षयः ।
दाह इत्येव कथितो दिशि वास्तुफलोद्भवः ॥”
भोजे च ।
“यल्लग्ने जायते राजा तस्य लग्नस्य यः पतिः ।
या दिक् तस्य नृपस्तस्यां वास्त्वारम्भं समा-
चरेत् ॥”
एवञ्च ।
“कुजाधिपतिके मेषलग्ने जातस्य भूपतेः ॥”
कुजाधिपतिकायां दक्षिणस्यामपि वास्तुर्न
दुष्यतीति । पराशरस्तु ।
“यद्दशाजनितो राजा वास्तुस्तम्भस्तु तद्दिशि ॥”
एतेन सूर्य्यादिजनितस्य नृपतेः पूर्ब्बादिदिक्षु
वास्तुकरणम् । तेन शुक्रदशायां जातस्याग्ने-
य्यामपि न दुष्यति ॥ * ॥ अथ लक्षणम् ।
“वास्तु कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् ।
प्रागुदक्प्लवनं रम्यं रम्यवृक्षोपशोभितम् ॥
लक्ष्मीर्द्दाहः क्षयो भीतिर्धननाशोऽभ्यशून्यता ।
सम्पद्वृद्धिरिति प्रोक्तं पूर्ब्बादिककुभां फलम् ॥”
तथा हि प्लवनमन्यत् ।
“जन्मलग्नेन दिक् पश्चात् राज्ञां वास्तुप्लवोमतः ॥”
एतेन सूर्य्याधिपतितुलालग्ने जातस्य नृपतेः
सूर्य्याधिपतेः पूर्ब्बस्याः पश्चात् पश्चिमप्लवोऽपि
न दुष्यति । अन्ये तु ।
पृष्ठ ४/३६२
“यद्दशाजनितो राजा तद्दिशोग्रप्लवो मतः ॥”
एतेन गुरुदशाजातस्य नृपतेर्द्दक्षिणप्लवोऽपि न
दुष्यति । अन्यत्र तु ।
“ब्रह्मक्षत्त्रियविट्शूद्राः पूर्ब्बादिदिग्युगे क्रमात् ।
वास्तुप्लवनमिच्छन्ति निजसम्पत्तिहेतवे ॥”
नीतिशास्त्रे च ।
“वास्तुकर्म्म नृपः कुर्य्याद्बलवद्वैरिणो दिशि ।
दीर्धा वा चतुरस्रा वा वास्तुभूमिर्म्महीक्षिताम् ।
एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥” * ॥
अथ मानम् ।
“राजकाण्डेन नृपतिर्वास्त्वारम्भं समाचरेत् ।
जयो भङ्गः सुखं दुःखं प्रीतिर्भीतिश्च यः स्थिरः ।
इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥”
अन्यत्र तु ।
“जन्मलग्ने महीभर्त्तुर्द्दण्डयोरन्त एव हि ।
राजकाण्डैस्तु तावद्भिर्वास्तु कुर्य्यान्महीपतिः ॥
सुदर्शाच्छन्दसंख्येन राजपट्टेन भूपतेः ।
वास्तुकर्म्मसमारम्भो धनधान्यजयप्रदः ॥”
एतयोरपि पूर्ब्बवद्व्याख्यानम् ।
“राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते ।
तस्यापि पूर्व्ववन्मानमिति भागुरिभाषितम् ॥”
अथ दोषगुणौ ।
“परनिर्म्मितवास्तुस्थो न तिष्ठति चिरं नृपः ।
न सुखाय न धर्म्माय तत्तस्य भुवि जायते ॥”
अन्यत्रापि ।
“राजान्यवीर्य्यप्रत्याशी परवास्तुकृतस्थितिः ।
न सुखाय भवेन्नॄणां यथा परगृहे ग्रहः ॥
यः स्वनिर्म्मितवास्तुस्थो निजलग्नादिसंयुतः ।
विचारितपुरो राजा स चिरं सुखमश्नुते ॥”
अन्यत्रापि ।
“राजा स्वबाहुवीर्य्याढ्यो निजनिर्म्मितवास्तु-
भाक् ।
स चिर तनुते सौख्यं स्वगृहस्थो ग्रहो यथा ॥”
अथ कालः ।
“वर्षान्तेऽभ्युदिते शुक्रे केन्द्रे सुरगुरौ शुभे ।
वास्तुकर्म्मसमारम्भं शुक्रचन्द्रार्कभूमिजे ॥
ग्रहवुक्तो यः समयः कर्त्तव्यस्तत्र वै शुभे ।
वास्त्वारम्भः कार्य्यः शुभसम्पत्तिकामिना
राज्ञा ॥”
इति वास्तुयुक्तौ वास्तूद्देशः ॥ * ॥
अन्येषां यथा । यदाह बास्तुकुण्डल्याम् ।
“स्वामिहस्तैश्चतुभिः स्याद्दण्डस्तेनैव मापयेत् ।
क्षेमो भयङ्करो भव्यः शोककृद्विजयः शुचिः ॥
वंशकृत् पापकारी च विकारी शोभनः शिवः ।
कुणपः कामदो धूम्रो धौम्यो धनहरस्तथा ॥
धनदः सुखकृच्चेति वाट्योऽष्टादश कीर्त्तिताः ॥”
तद्यथा ।
“आयामपरिणाहाभ्यां योऽङ्कपिण्डोऽभिजायते ।
ऊनविंशतिहृते मागे शेषेणैता यथाक्रमम् ॥
क्षेमे सर्व्वार्थसंसिद्धिर्भयकारी भयङ्करः ।
भव्यो भोगं प्रकुरुते शोककृद्बन्धुनाशनः ॥
विजयः कुरुते वृद्धिं शुचिः सर्व्वसुखं वहेत् ।
वंशकृत् कुरुते वंशं पापकारी कुलापह ॥
विकारी कुरुते दुःखं शोभनः शुभमावहेत् ।
शिवः सर्व्वार्थसिद्ध्यै स्यात् कुणपः सर्व्वनाशनः ॥
कामदोऽभीष्टलाभः स्यात् धूम्रो दहति सर्व्वशः ।
धौम्ये धर्म्ममतिः सौख्यं दुःखं धनहरे भवेत् ॥
धनदे धनलाभः स्यात् सुखकृत् सुखकारकः ।
इति प्रोक्तोऽतिसंक्षेपाद्वास्तुलक्षणसंग्रहः ॥”
भोजस्तु । दण्डमानं तथैव किन्तु युक्तिरन्या ।
स्वदशाब्दतो द्बिगुणैस्तैः शुभावह-
श्चतुरस्र एव नववास्तु शिष्यते ।
किमु लग्नदण्डमितदण्डसम्मितः
प्रकरोति वास्तुरतिसौख्यसम्पदम् ॥
ऊषरा वालुका क्लिन्ना त्रयमेतद्विनिन्दितम् ।
त्रिकोणो वर्त्तुलो दीर्घो यवमध्योबृहन्मुखः ॥
तथा डमरुरूपश्च सर्पाकारस्तथैव च ।
छिन्नो भिन्नो मध्यनिन्दो व्यजनाभश्चतुष्पथः ॥
त्रिपथो जनदोषी च वृक्षदोषी तथा परः ।
गजशुण्डाकृतिश्चैवोपद्रवाः परिकीर्त्तिताः ॥
वास्तुखण्डे महादोषा हेयास्तस्माद्विचक्षणैः ।
चतुरस्रः शुभो दीर्घस्तुल्यः प्रान्तः समाश्रितः ।
दोषैर्विहीनो विज्ञेयो वास्तुखण्डः सुखावहः ॥”
इति युक्तिकल्पतरौ वास्तुयुक्तिः ॥ * ॥
तत्र कालनिर्णयः ।
“वैशाखश्रावणाषाढमार्गफाल्गुनकार्त्तिकाः ।
सुप्रशस्ता गृहारम्भे पत्नीपुत्त्रसमृद्धिदाः ॥
शुक्लपक्षे भवेत् सौख्यं कृष्णे च भवते भयम् ।
आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ॥”
तथान्यत्र ।
“पूर्णिमाद्यष्टमीं यावत् पूर्ब्बास्यं वर्ज्जयेद्गृहम् ।
उत्तरास्यं न कुर्व्वीत नवम्यादिचतुर्द्दशीम् ॥
अमावास्याष्टमीं यावत् पश्चिमास्यं विवर्ज्जयेत् ॥
नवम्यादि तथा याम्यं यावत् शुक्लचतुर्द्दशीम् ।
वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ॥
विष्कम्भगण्डयोश्चैव गृहारम्भं न कारयेत् ॥
आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठा धनिष्ठो-
त्तरा
रेवत्याथ मघानुराधहरिभिः शुद्धैः स्वभा-
वादिभिः ।
सौम्यानां दिवसेऽथ पापरहिते योगे विरिक्ते
तिथौ
विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्य्यं
शुमम् ॥”
मत्स्यपुराणेऽपि ।
“चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।
स्तम्भोच्छ्रायादि कर्त्तव्यमन्यत्र तु विवर्ज्जयेत् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।
स्वातिर्हस्तानुराधा च वास्तुकर्म्मणि शस्यते ॥”
तथा च ।
“त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यै-
रशेषपुत्त्राप्तिधनानि शोकाः ।
शत्रोर्भयं राजभयञ्च मृत्युः
सुखं प्रवासश्च नव प्रभेदाः ॥
नाशं दिशन्ति मकरालिकुलीरलग्ने
मेषे धटे धनुषि कर्म्मसु दीर्घसूत्रम् ।
कन्याझषे मिथुनके ध्रुवमर्थलाभो
ज्योतिर्व्विदः कलससिं हवृषेषु वृद्धिम् ॥
लग्नेऽर्के वज्रसम्पातः कोषहानिश्च शीतगौ ।
मृत्युर्वसुन्धरापुत्त्रे चन्द्रजे सुखसम्पदः ॥
जीवे धर्म्मार्थकामाश्च सुतोत्पत्तिश्च भार्गवे ।
शनैश्चरे तु दारिद्र्यं राहावस्त्रं प्रवर्त्तते ॥” * ॥
अथ प्रवेशकालः ।
“शुद्धैर्द्बादशकेन्द्रगैर्न्निधनगैः पापैस्त्रिषष्ठायगै-
र्ल्लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेयपूज्येऽपि वा ।
सर्व्वारम्भफलप्रसिद्धिरुदये राशौ च भर्त्तुः शुभे
स्वग्राम्यस्थिरतोदये च भवनं कार्य्यं प्रवेशोऽपि
वा ॥
पौष्णे धनिष्ठा अथ वारुणेषु
स्वायम्भु वर्क्षे त्रिषु चोत्तरेषु ।
अक्षीणचन्द्रे शुभवासरे च
तथा विरिक्ते च गृहप्रवेशः ॥
तिथिर्व्वारश्च लग्नादि समारम्भे यथोदितम् ।
प्रवेशेऽपि गृहस्याहुस्तथा ज्योतिर्व्विदो जनाः ॥”
अथ द्वारम् ।
“नैकद्वारं वास्तुखण्डं न चतुर्द्द्वारमारभेत् ।
एकद्वारं दुःशरणं चतुर्द्द्वारं दुरावरम् ॥
त्रिद्वारमेव नृपतेर्व्वास्तुकर्म्म प्रशस्यते ।
द्वे मुख्ये तत्र चान्यत् स्यादमुख्यमिति निर्णयः ॥
राजद्वारस्तु तत्रैको यमद्वारस्तथा परः ।
अपद्वारं तथान्यत् स्यादिति द्बारस्य निर्णयः ॥
ब्रह्मक्षत्त्रियवैश्यानां प्रागुदक्पश्चिमैः क्रमात् ।
मुख्यद्वारं दक्षिणस्य परं तस्यापि दक्षिणे ॥
बलवद्वै वैरिमुख्यं द्बारमित्यन्यसम्मतम् ।
राजद्वारेऽन्यभूपानां शिष्टानांवा प्रवेशयेत् ॥
यात्राप्रसादपर्व्वाणि राजद्वारेषु कारयेत् ।
यमद्वारे छिदाकर्म्म द्बिषताञ्च प्रवेशनम् ॥
निःसारणं मृतानाञ्च दुष्टानाञ्च निबन्धनम् ।
अपद्धारेऽपरोधस्य गमनागमनक्रिया ॥
राज्ञे विलासयात्रा च मर्म्मज्ञस्य प्रवेशनम् ॥”
अथ प्राचीरनिर्णयः ।
“मञैरभेद्या मनुजेरलङ्घ्याः
प्राचीरखण्डा नृपतेर्भवन्ति ॥
राजदण्डोन्नताः सर्व्वे प्राचीराः पृथिवीभुजः ।
विंशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च ॥
पश्चात् पञ्च च विज्ञेयाः प्राचीरा पृथिवीभुजः ।
सर्व्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते ॥
प्रतिप्राकारसंस्थानं द्वारं नाभिमुखस्थितम् ।
तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥
तद्यथा ।
“राजच्छत्रान्तरे पञ्च राजद्वारे महीपतेः ।
राजदण्डत्रये सार्द्धजयद्बारे प्रतिष्ठिताः ॥
अद्वारे राजदण्डार्थे प्राचीराः पृथिबीपतेः ।
एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥
राजच्छत्रद्वयं सार्द्धमायामे जयवास्तुनि ।
परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः ॥
पृष्ठ ४/३६३
राजपट्टाभिधानेन स्थानमेतन्निगद्यते ।
अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥
अज्ञानाद् दम्भतो राजा योऽन्यत्र गृहमारभेत् ।
सोऽचिरात् मृत्युमाप्नोति रोगं शोकं भयं तथा ॥
यमदण्डोदयदण्डौ केनाहतिरुपप्लवः ।
ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये
पुनः ।
न स्पृश्यते राजपट्टस्तैः सर्पैर्गरुडो यथा ॥
द्विगुणादिरतोऽपि स्यात् क्रमाद्भङ्गादिवास्तुषु ।
राजछत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥” * ॥
अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्डनिर्णयः ।
“राजद्वारे हि प्राकारा राजच्छत्रान्तरे मताः ।
यमद्वारे सार्द्ध राजच्छत्रान्तरे च ये नृपाः ॥
अपद्वारे राजदण्डं जिता आरम्भिताः पुनः ।
अद्वारे भूपतेस्तस्य राजदण्डत्रयान्तरे ॥
एवं व्यवस्थिते स्थाने मध्यमे तत् प्रदृश्यते ।
आयामे राजच्छत्राणि चत्वारि परिणाहतः ॥
राजच्छत्रैकमानेन राजदण्ड उदाहृतः ।
अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥
अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् ।
अस्मिन् विजयवृद्धिञ्च सौख्यञ्च समवाप्नुयात् ॥
यो राजा दम्भतोऽन्यत्र वेश्मारम्भं समा-
चरेत् ।
य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥
गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् ।
सिंहे सिंहासनं स्थानं व्याघ्रे स्यात् द्वारमन्दि-
रम् ॥
गजे यात्रालयं कुर्य्यात् मृगे केलिनिकेतनम् ।
भ्रमरेऽन्तःपुरं कुर्य्यात् क्रमेण पृथिवीपतेः ॥
तेन मध्यमेव सिंहासनं दीर्घस्य चतुरस्रकैः ॥”
तत्र भविष्योत्तरे ।
“मेषादिचन्द्रे जातस्य नृपतेः स्युरनुक्रमात् ।
द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥
सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ।
विनोदश्च विलासश्च विजयो विमलस्तथा ।
रङ्गः केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥”
अथैषां लक्षणानि ।
“यद्यत्रैवोच्यते मानं तस्य तेनैव कल्पना ।
राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निक्षिपेत् ॥
आयामेन सुन्दरः स्यात् राजहस्तैश्च पञ्चमिः ।
परिणाहे चतुर्भिश्च राजहस्तैः प्रतिष्ठितः ॥
अस्याधिदेवता भौमो रक्षतीदं वसुन्धरा ।
द्वाराणि विंशतिश्चास्य रक्तचित्रावृतानि च ॥
रक्तपट्टावृतो गेहः सकलार्थप्रसाधकः ।
अत्र स्थित्वा महीपालः सुचिरं पाति मेदि-
नीम् ॥”
दीर्घम् ५१ । प्रस्थम् ४० । इति सुन्दरः ॥ * ॥
“द्वौ राजहस्तावायामे परिणाहे तथैव च ।
इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।
चतुर्द्दशास्य द्बाराणि कृष्णचित्रावृतानि च ॥
पीतपटावृतो ह्येष सर्व्वानिष्टविनाशनः ।
अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृ-
न्तति ॥”
दीर्घम् २१ । प्रस्थम् २० । इति सर्व्वतोभद्रः ॥ * ॥
“अष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयः ।
राजहस्तोन्नतः कार्य्यो बुधश्चास्याधिदेवता ॥
रक्षका वसवश्चास्य पूज्यास्तेऽत्र प्रयत्नतः ।
अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥
पीतपट्टावृतो ह्येष सर्व्वानिष्टविनाशनः ।
अत्र स्थाता क्षितिपतिर्न रिष्टैरवमृद्यते ॥
राजदण्डो भवेद्दीर्घः प्रसरे राजहस्तकः ।
राजहस्ते राजहस्ते प्रकोष्ठां स्तत्र कारयेत् ॥
अयं नान्दीमुखो नाम चन्द्रश्चास्याधिदेवता ।
नक्षत्रलोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥
द्वाविंशतिस्तु द्वाराणि दोर्घे दश तथान्तरे ।
अन्यत्र दीर्घे एकं स्यात् प्रसरे एकमेव च ॥”
दीर्घद्वितये दश द्वाराणि प्रसरद्वितये एकं कृत्वा
द्वितयं एवं २२ द्वाराणि ।
“शुक्लचित्रेण सहितः शुक्लपट्टेन शोभितः ।
सर्व्वार्थसाधको राज्ञां लक्ष्मीविजयवर्द्धनः ॥”
दीर्घम् ११ । प्रस्थम् १० । इति नान्दीमुखः ॥ * ॥
“दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ ।
विनोद एष द्वाराणि त्रिंशत्कोष्ठद्वयं भवेत् ॥
रक्तचित्रेण चित्राङ्गो रक्तवस्त्रोपगूहितः ।
अत्र स्थाता नरपतिर्भवेत् कीर्त्तिप्रतापवान् ॥
सूर्य्याधिदेवता चास्य रक्षकाः सकलग्रहाः ॥”
दीर्घम् ३१ । प्रस्थम् २० । इति विनोदः ॥ * ॥
“दीर्घेण राजदण्डार्द्धं प्रसरे राजहस्तकौ ।
विलास एष द्वाराणि चत्वारिंशद्बुधा विदुः ॥
गन्धर्व्वा रक्षकाश्चास्य प्रकोष्ठत्रितयं मवेत् ।
चित्रपद्मेन शङ्खेन चित्रवस्त्रेण शोभितः ॥
दुर्भिक्षशमनो ह्येष शस्यसम्पत्तिकारकः ।
तत्र स्थित्वा नरपतिः प्रचुरं सुखमश्नुते ॥”
दीर्घम् ५१ । प्रस्थम् २० । इति विलास-
गृहम् ॥ * ॥
“द्वादशहस्ताः प्रसरे दीर्घे द्बौ राजहस्तकौ
कथितौ ।
विजये द्वादश भवनद्वाराणि स्युर्जयप्रदान्यत्र ॥
सूर्य्योऽधिदेवता चास्य रक्षतीमं विहङ्गराट् ।
अरुणाम्भोजचित्राङ्गो अरुणाम्बरभूषितः ।
तत्र स्थित्वा नरपतिः कृत्स्नां शास्ति वसुन्ध-
राम् ॥”
दीर्घम् २१ । प्रस्थम् १२ ॥ * ॥
“आयामे राजदण्डौ द्वौ प्रसरे राजदण्डकः ।
शतद्वारोपसहितः प्रकोष्ठैर्द्दशभिर्युतः ॥
दिक्पाला रक्षकाश्चास्य कुजश्चास्याधिदेवता ।
नानावर्णेन चित्रेण वसनेन विभूषितः ॥
अत्र स्थित्वा नरपतिः सुचिरं सुखमश्नुते ।
यस्मिन्राज्ये प्रतिष्ठेत विमलो गृहसत्तमः ॥
दुर्भिक्षं नात्र जायेत नेतयोर्न च विप्लवः ।
न रोगो नापि शोकश्च नैवोत्पातभवन्तथा ।
इत्यादि गुणबाहुल्यमन्यत्र कथितं बुधैः ॥”
दीर्घम् २०० । प्रस्थम् १०० ॥ * ॥
“आयामपरिणाहाभ्यां राज्ञः षोडशहस्तकः ।
द्वाराणि षोडशैवास्य गुरुरस्याधिदेषता ॥
रक्षिका देवता चास्य शुक्लवस्त्रैर्विभूषणम् ।
अत्र स्थित्वा नरपतिः सर्व्वार्थान् मुवि
साधयेत् ॥”
दीर्घम् १७ । प्रस्थम् १६ । इति रङ्गः ॥ * ॥
“आयामे राजदण्डः स्यात् प्रसरे च तदर्द्धकम् ।
दश प्रकोष्ठा द्वाराणि शनिरस्याधिदेवता ॥
पिशाचा रक्षकाश्चास्य नीलवस्त्रादिभूषणम् ।
नाम्नायं केलिराख्यातो भयरोगविनाशनः ।
अत्र स्थित्वा नरपतिः सुखं विजयते रिपून् ॥”
दीर्घम् १०० । प्रस्थम् ५० ॥ * ॥
“राजहस्तेन कोणः स्यादेवं केलिश्चतुर्द्दश ।
चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥
नक्तञ्चरा रक्षकास्तु नानावर्णाम्बरादिकम् ।
अयं जयः प्रकटितः सर्व्वत्रैव जयप्रदः ॥
आयामे राजहस्तः स्यात् परिणाहेऽष्टहस्तकः ।
नानारूपः कुटीरूपो वीरो नाम यजप्रदः ॥
बृहस्पतिर्देवतास्य रक्षकाश्चास्य खेचराः ।
विचित्रवसनोपेतः सर्व्वकामार्थदायकः ॥”
द्रीर्घम् ११ । प्रस्थम् ८ । इति वीरः ॥ * ॥
“यो यस्य गदितो वर्णस्तथा स्याच्चामरोऽपि च ।
राजहस्तान्तरे पञ्च चामराः स्युर्म्महीभुजाम् ॥
चन्द्रोऽपि दर्पणे हस्त उपरि क्रमतो न्यसेत् ।
पताकाध्वजयुक्ताश्च गृहरक्षक-रक्षसाम् ।
छत्रयुक्तं गृहं राज्ञां विज्ञेयं चक्रवर्त्तिनाम् ॥”
एषां नियमः परवत् ।
“इति द्वादशचिह्नानि गृहाणां कथितानि वै ।
विमृष्यैतानि नृपतिर्गृहारम्भं समाचरेत् ॥
इति सिंहासनस्थानमिति राष्ट्रस्य मस्तकम् ।
इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥
जलयन्त्रादयो येऽन्ये तेषां नास्ति विनिश्चयः ।
स्वजन्मगेहसंस्थो यो नृपतिः शुभचेतनः ॥
स चिरं पृथिवीं शास्ति सर्व्वार्थान् साधयत्यपि ।
यो वा तत्परगेहस्थो दुर्म्मोहात् धरणीपतिः ॥
न चिरं पाति वसुधां घोरं रोगञ्च विन्दति ।
स्वलग्नपतिमित्रस्य गृहवारो न दुष्यति ॥” * ॥
परञ्च ।
“हीरकस्य विशुद्धस्य ब्रह्मजातेर्म्महाद्युतेः ।
सूर्य्याङ्गस्पर्शमात्रेण वमतो दीप्तिमच्छिखाः ।
गृहाग्रे धारयेद्राजा तद्बज्रं वज्रवारणम् ॥”
वात्स्यस्तु ।
“गृहेषु मणिविन्यासो विज्ञेयो न च दण्डवत् ।
विशुद्धहीरकन्यासो विधेयः सदनोपरि ।
तेन सर्व्वाणि नश्यन्ति अरिष्टानि मही-
भुजाम् ॥”
भोजोऽपि ।
“वास्तुखण्डोऽब्जरूपः स्यात्यथार्थैर्नामभिः स्वकैः ।
यमद्वारात् समारभ्य यावदद्वारमिष्यते ॥”
तद्यथा, --
“मृत्युर्भयः स्थिरश्चण्डो धनं विभव एव च ।
वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥
पृष्ठ ४/३६४
यमनैरृततोयेशवायुयक्षेशशङ्कराः ।
इन्द्रो वह्निरिति प्रोक्ता विभागानामघीश्वराः ॥
मृत्यौ कारालयं कुर्य्यात् भयस्थाने च पत्तयः ।
स्थिरे सहचरान् रक्षेत् चण्डे वाजिगजादयः ॥
धने धान्यादिकं रक्षेव् विभवे कोषरक्षणम् ।
राजपट्टे भवेद्वीरो तापे कश्चिन्नरालयम् ।
प्राचीरप्रतिभागान्ते इति भोजस्य सम्मतम् ॥”
इति युक्तिकल्पतरौ राजगृहयुक्तिः ॥ * ॥
“वास्तुमानेन नियमो गृहमाणेन निर्णयः ॥”
तत्र वास्तुप्लवलक्षणम् ।
“पूर्ब्बप्लवो वृद्धिकरो धनदश्चोत्तरप्लवः ।
दक्षिण्यो मृत्युदो वास्तुर्द्धनहा पश्चिमप्लवः ॥
कोणे रेखाद्वयं कृत्वा मध्ये रेखाद्वयं तथा ।
ऐशानकोणतो रेखा दक्षिणाद्यैर्ध्वजास्तथा ॥
नाचामरो नामणिश्च नापताकापि नाध्वजः ।
नाकुम्भादिर्नावितानो ना चित्रो नातिचित्रधृक् ॥
नात्युच्चो नातिनीचो वा नाप्रकीर्णप्रकीर्णकः ।
ना धातुर्नागवाक्षश्च न चैकानेकद्बारभाक ॥
नियमोऽस्तु महीन्द्राणां सर्व्वसम्पत्तिहेतवे ॥”
इति राजगृहयुक्तिः ॥ * ॥
अन्येषान्तु यथा वास्तुमानेन नियमः ।
“ध्वजो धूमस्तथा सिंहः श्वा वृषो गर्द्दभो गजः ।
काक इत्येष गदितो वास्तुस्थानस्य निर्णयः ।
अयुग्मे सुखसम्पत्तिर्युग्मञ्च विपदास्पदम् ॥”
एवमन्यत्रापि ।
“ध्वजे विभूतिर्विपदश्च धूमे
सिंहे विभोगः शुनि सर्व्वनरशः ।
वृषे सुखं गर्द्दभतो विनाशो
गजे धनं काकपदे च मृत्युः ॥
कोणरेखा कोणशुचिः सुखसम्पत्तिनाशिनी ।
पूर्ब्बपश्चिमतो दण्ड उदयाख्यः सुखावहः ॥
दक्षिणोत्तरतो दण्डो वंशहा यमदण्डकः ।
गृहाणि पातयेद्धीमानेषां दण्डव्यधान्तरे ॥ * ॥
एका चेद्दक्षिणे शाला द्वे च दक्षिणपश्चिमे ।
तिस्रश्चेत् पूर्ब्बतो हीनाश्चतुःशालं सुखावहम् ॥
पश्चिमास्यं ध्वजे वेश्म सिंहे तूदङ्मुखं शुभम् ।
पूर्ब्बालयं धृषस्थाने दक्षिणाभिमुखं गजे ॥
पदाघातः परिखाघातः पथाघातस्तथैव च ।
जलदोषो वृक्षदोषो दोषा इत्येवमादयः ॥
गच्छतां पदतालस्य श्रवणं यदि वेश्मनि ।
पदाघातो नाम दोषः पुत्त्रपौत्त्रधनाषहः ॥
परिखादण्डयोर्घातो वास्तुनोः प्रतिवेशिनोः ।
परिखाघातो नाम दोषः कुलवीर्य्यधनापहः ॥
पथाघातो नाम दोष आघातो वास्तुनः पथः ।
स हन्ति भोगं वंशञ्च तस्य भेदमतः शृणु ॥
एकमार्गं सुखं कुर्य्यात् द्विपथं कुलवर्द्धनम् ।
त्रिपथं कुलनाशाय सर्व्वनाशश्चतुष्पथे ॥
स्ववाट्यां परवाट्याञ्च यस्तिष्ठति जलाशयः ।
तद्दोषो जलदोषः स्यात् स हन्ति कुलसम्पदः ॥
ऋद्धिमानसुखैश्वर्य्यमृत्युक्लेशभयामयाः ।
एते जलाशये दोषाः पूर्ब्बादिदिक्षु च क्रमात् ॥
स्ववास्तुवृक्षतो दोषः कुलसम्पत्तिनाशवः ।
वर्ज्जयेत् पूर्ब्बतोऽश्वत्थं प्लक्षं दक्षिणतस्तया ॥
ऐशान्यां रक्तपुष्पञ्च आग्नेय्यां क्षीरिणस्तथा ।
यत्र तत्र स्थिता वृक्षा विल्वदाडिमकेशराः ।
पनसा नारिकेलाश्च शुभं कुर्व्वन्ति निश्चयम् ।
निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता ।
कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥ * ॥
गृहपातनमिच्छन्ति नागस्य स्वपने क्रगात् ।
पूर्ब्बादिषु शिरः कृत्वा नागः शेते त्रिभि-
स्त्रिभिः ।
भाद्राद्यैर्व्वामपार्श्वेन तस्य क्रोडे गृहं शुभम् ॥”
तत्र प्रमाणम् ।
“स्वामिहस्तप्रमाणेन ज्येष्ठपत्नीकरेण वा ।
गृहाभ्यन्तरसंस्थानं मापयेदभितो नरः ॥” * ॥
तत्र सामान्यलक्षणम् ।
“गृहभूमिसमाहतपिण्डपदं
वसुलोचनरन्ध्रगजैर्गुणितम् ।
रबिभूधरत्रिंशद्योगहृतं
भवनाय व्ययस्थितिऋक्षपदम् ॥
एकाशीतिगुणे हस्ते द्विबाणैकहते च ते ।
षडिन्दुयुग्मसम्भक्ते पिण्डः स्यात् सर्व्वबेश्मनः ॥”
तद्यथा ।
“ध्वजादिगेहसंस्थाने गृहमानं शुभावहम् ।
दीर्घे भानुः परीणाहे सप्त चैवाङ्गुलिद्वयम् ॥
इदं पुत्त्रफलं गेहं वृषस्थानेऽप्युदीरितम् ।
दीर्घे षट्प्रसरे पञ्च चतस्रोऽङ्गुलयोऽपि च ॥
इदं पुत्त्रफलं गेहं गजस्थाने प्रकीर्त्तितम् ।
दीर्घे त्रयोदश भुजाङ्गुलयश्चैकविंशतिः ॥
प्रसरेऽष्टौ सुखफलं गजस्थाने गृहं विदुः ।
इति द्वादशकं प्रोक्तं गृहाणां सर्व्वसंमतम् ।
एवं गृहं समाचर्य्य गृहस्थः शुभमिच्छति ॥” * ॥
भोजस्तु ।
“आयामपरिणाहाभ्यां योऽङ्कपिण्डो विजायते ।
येन केनापि चाङ्केन शोधनीयः स इष्यते ॥
एकद्बिपञ्चसप्तानि शुभान्यन्यानि चान्यथा ।
आयामपरिणाहाभ्यां सार्द्धद्वादशहस्तकम् ॥
एतत्तु मङ्गलं नाम गृहं सुखविवर्द्ध नम् ।
आयामपरिणाहाभ्यां सार्द्धहस्तचतुर्द्दश ॥
इदं कमलकं नाम गृहं सम्पत्तिकारकम् ।
आयामपरिणाहाभ्यां सार्द्धहस्तास्तु षोडश ।
इदं हि सर्व्वतोभद्रं स्वामिनः सुखकारकम् ॥
आयामपरिणाहाभ्यां सार्द्धाष्टादशहस्तकम् ।
कल्याणनाम वेश्मेदं धनधान्यसुखप्रदम् ॥
आयामपरिणाहाभ्यां सार्द्धविंशतिहस्तकम् ।
इदं हि सुखदं नाम भर्त्तुः सुखविवर्द्धनम् ॥
मया यदिदमुद्दिष्टं गृहपञ्चकमद्भुतम् ।
न तेषु स्थाननियमः सर्व्वेष्वेतानि कारयेत् ॥
स्थानं मानञ्च दोषाश्च ये प्रोक्तास्तु मया क्रमात् ।
तद्विचार्य्य गृहं कृत्वा गृहस्थः सुखमश्नुते ॥
अज्ञानादथ मोहाद्वा योऽन्यथा गृहमाचरेत् ।
स विषीदति नश्येत तस्य कीर्त्तिः कुलं बलम् ॥
प्राचीराणां न नियमो गृहस्थानाञ्च विद्यते ।
यथावास्तु यथाशक्ति प्राचीरानचयेद्गृही ॥
गृहरोधो यथा न स्यात् तथा प्राचीरकल्पना ॥”
इति युक्तिकल्पतरौ गृहयुक्तिः ॥ * ॥
अथ वास्तुयागप्रमाणम् । लैङ्गे ।
चतुःषष्टिपदं वास्तु सर्व्वदेवगृहं प्रति ।
एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् ॥
अग्रतः शोधयेद्वास्तुभूमिं यस्य पुरोदिताम् ।
चतुर्हस्तं द्विहस्तं वा जलान्तं वापि शोध्य च ॥
सुसमञ्च तदा कृत्वा सदार्च्चनं ततो भवेत् ॥”
पुरोदितां ब्राह्मणादिभेदेन प्रशस्तत्वेनोपपादि-
ताम् ॥ * ॥ तथा च मत्स्यपुराणम् ।
“अरत्निमात्रे गर्त्ते वै अनुलिप्ते च सर्व्वशः ।
घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् ॥
ज्वालयेत्तु परीक्षार्थं पूर्ब्बं तत् सर्व्वदिङ्मुखम् ।
दीप्त्या पूर्ब्बादि गृह्णीयात् वास्तूनामनुपूर्ब्बशः ॥
वास्तुः समृद्धिको नाम दीप्यते सर्व्वतो हि यः ।
शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च ॥”
वास्तुकर्त्तुररत्निमात्रे गर्त्ते तत्रैव स्थापिते आम-
शरावे पूर्ब्बादिक्रमेण वर्त्तिचतुष्टयं कृत्वा गव्य-
घृतेनापूर्य्य वर्त्तिचतुष्टयं प्रज्वालयेत् । तत्र
प्राच्यां दीपशिखाया उज्ज्वलत्वे तद्बास्तु ब्राह्म-
णस्य प्रशस्तम् । एवं दक्षिणादिदिशि शिखाया-
स्तथात्वे क्षत्त्रियादेः । सर्व्वशिखासमत्वे सर्व्व-
वर्णानां स वास्तुदेशः प्रशस्तः । जलान्तमिति
तु मत्स्यपुराणपरिभाषितं प्रासादपरम् ॥ * ॥
तथा च मात्स्ये ।
“पुरुषाधःस्थितं शल्यं न गृहे दोषदं भवेत् ।
प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तिकम् ॥
प्रासादभवनादीनां निवेशं विस्तराद्बद ।
कुर्य्यात् केन विधानेन कश्च वास्तुरुदाहृतः ॥”
इत्युपक्रम्य वाप्यादीनामभिधानादादिपदात्
कूपादयो गृह्यन्ते । प्रासादेऽप्येवमेव स्यात् कूप-
वापीषु चैव हि । इत्यभिधानाच्च कूपादावपि ॥
वास्तुपुरुषश्च ।
“कश्यपस्य गृहिणी तु सिंहिका
राहुवास्तुतनयावजीजनत् ।
पूर्ब्बजो हरिनिकृत्तकन्धरो
दैवतैरवरजो निपानितः ॥”
तथा ।
“चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।
वैशाखे धनरत्नानि ज्यैष्ठे मृत्युमवाप्नुवात् ॥
आषाढे भृत्यरत्नानि पशुवर्ज्जमवाप्नुयात् ।
श्रावणे मित्रलाभस्तु हानिर्भाद्रपदे तथा ॥
आश्विने पत्नीनाशः स्यात् कार्त्तिके धनधान्य-
कम् ।
मार्गशीर्षे तथा भक्तं पौषे तस्करतो मवम् ॥
माधे चाग्निभयं विद्यात् काञ्चनं फाल्गुने
सुतान् ।
शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥
आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ।
वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ॥
पृष्ठ ४/३६५
विष्कम्भगण्डपरिघवर्ज्जं योगेषु कारयेत् ।
श्वेतमैत्रेयगान्धर्व्वेष्वभिजिद्रौहिणेऽपि च ॥
तथा विजयसावित्रे मुहूर्त्ते गृहमारभेत् ।
चन्द्रादित्यबलं लग्नं तथा शुभनिरीक्षितम् ।
प्रासादेऽप्येवमेव स्यात् कूपवापीषु चैव हि ॥”
ऐन्दवं मृगशिरः ॥ * ॥ मुहूर्त्ते संवर्त्तः ।
“रौद्रः श्वेतश्च मैत्रेयस्तथा शानकटः स्मृतः ।
सावित्रश्च जयन्तश्च गान्धर्व्वः कुतपस्तथा ॥
रौहिणश्च विरिञ्चिश्च विजयो नैरृतस्तथा ।
माहेन्द्रो वारुणश्चैव वटः पञ्चदश स्मृताः ॥”
तेन द्बितीयतृतीयसप्तमाष्टमनवमैकादशपञ्चमा-
न्यतममुहूर्त्ते श्वेतादौ वास्तुकर्म्म कुर्य्यात् ।
चैत्रादिफलन्तु नरगृहे देवगृहे तु प्रतिष्ठाकाल-
वशात् तत्कालपरिग्रहः ॥ * ॥ तथा च कल्प-
तरौ देवीपुराणम् ।
“यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे ।
गर्त्तापूरशिलान्यासे शुभदस्तस्य पूजितः ॥”
यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभ-
दस्तस्य गर्त्तापूरशिलान्यासे गृहारम्भे स कालः
पूजित इति ॥ * ॥ प्रतिष्ठाकालश्च मात्स्ये ।
“चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा ।
माघे वा सर्व्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥
प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ।
पञ्चमी च द्बितीया च तृतीया सप्तमी तथा ॥
दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी ।
आसु प्रतिष्ठा विधिवत् कृता बहुफला भवेत् ॥”
प्रतिष्ठासमुच्चये ।
“माघे वा फाल्गुने वापि चैत्रवैशाखयोरषि ।
ज्यैष्ठाषाढकयोर्व्वापि प्रतिष्ठा शुभदा भबेत् ॥”
कल्पतरौ देरीपुराणम् ।
“महिषासुरहन्त्र्याश्च प्रतिष्ठा दक्षिणायने ॥”
ज्योतिषे ।
“गुरोभृगोरस्तबाल्य वार्द्धके सिंहगे गुरौ ।
गुर्व्वादित्ये दशाहे तु वक्रिजीवाष्टविंशके ॥
पूर्ब्बराशावनायातातिचारिगुरुवत्सरे ।
प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके ॥
कम्पाद्यद्भतसप्ताहे नीचस्थेज्ये मलिम्लुचे ।
पौषादिकचतुर्म्मासे चरणाङ्कितवर्षणे ॥
एकेनाह्ना चैकदिने द्बितीयेन दिनत्रये ।
तृतीयेन तु सप्ताहे माङ्गल्यानि विवर्जयेत् ॥
व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने ।
प्रतिष्ठारम्भणे देवकूपादेः परिवर्जयेत् ॥” * ॥
स्मृतिसागरे ।
“उल्कापाते च भूकम्पे अकालवषगर्जिते ।
वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः ॥
प्रयाणन्तु त्यजेत् शूद्रः सप्तरात्रमतः परम् ।
ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरा-
त्रकम् ॥
शूद्रस्त्यक्त्वा चैकरात्रं ततः कर्म्म समाचरेत् ॥”
पराशरः ।
“प्रयाणे सप्तरात्रन्तु त्रिरात्रं व्रतबन्धने ।
एकरात्रं परित्यज्य कुर्य्यात् पाणिग्रहं ग्रहे ॥”
मत्स्यपुराणे ।
“नवग्रहमखं कृत्वा ततः कर्म्म समाचरेत् ।
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥”
नव्यवर्द्धमानधृतवचनम् ।
“पितृभ्यो वृद्धये वृद्धिश्राद्धं दत्त्वा सदक्षिणम् ।
क्रूरभूतबलिञ्चैव संपूज्य वास्तुदेवताः ॥”
एकादिने वास्तुयागगृहोत्सर्गयोः करणे सकृदेव
वृद्धिश्राद्धं करणीयम् ।
“गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् ।
सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु ॥”
इति छन्दोगपरिशिष्टात् ॥
मात्स्ये ।
“ऊहापोहार्थतत्त्वज्ञो वास्तुशास्त्रस्य पारगः ।
आचार्य्यश्च भवेन्नित्यं सर्व्वदा दोषवर्जितः ॥”
देवीपुराणम् ।
“प्रासादे च चतुःषष्टिरेकाशीतिपदं गृहे ।
चतुरस्रीकृते क्षेत्रे चाष्टधा नवधा कृते ॥
कोणे रेखास्ततो दत्त्वा नव भागान् प्रकल्पयेत् ।
ईशः कोणार्द्धतो ज्ञेयः पर्जन्यः पदसंस्थितः ॥
द्विपदस्थो जयन्तश्च शक्रः स्यादेककोष्ठगः ।
भास्करश्च पदो ज्ञेयो द्विपदः सत्य उच्यते ॥
भृशः पदस्थो ज्ञातव्यो व्योम चैव पदार्द्ध कम् ।
हुताशनः पदार्द्धे तु पूषा च पदसंस्थितः ॥
वितथा द्बिपदो ज्ञेयः पदैकस्थो गृहक्षतः ।
वैवस्वतः पदकस्थो गन्धर्व्वो द्विपदस्थितः ॥
भृङ्गश्चैकपदो ज्ञेयो मृगश्चार्द्ध पदस्थितः ।
पितरोऽर्द्ध पदे ज्ञेयाः पदे दौवारिकस्तथा ॥
सुग्रीवो हि पदे ज्ञेयः पदस्थः पुष्पदन्तकः ।
पयसां पतिरेकस्थोऽसुरो द्विपदसंस्थितः ॥
शोषश्चैकपदो ज्ञेयः पापोऽर्द्धपद उच्यते ।
रोगश्चार्द्धपदो ज्ञेयो नागश्चापि पदे स्थितः ॥
द्विपदे विश्वकर्स्मा तु भल्लाटः पदसंस्थितः ।
यज्ञेश्वरः पदो ज्ञेयो नागराड्द्विपदस्थितः ॥
पादस्था श्रीर्महादेवी दितिश्चार्द्धपदस्थिता ।
आपान्तपादसंस्थः स्यादापवत्सः पदस्थितः ॥
चतुष्पदस्थो विज्ञेयश्चार्य्यमा मध्यपूर्ब्बगः ।
सावित्रस्तु पदो ज्ञेयः सावित्री पदसंस्थिता ॥
ततो विवस्वान् विज्ञेयश्चतुष्कैर्मध्यसंस्थितः ॥
इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपदसंस्थितौ ॥
मित्रश्चतुष्पदश्चैव पश्चिमे च व्यवस्थितः ।
रुद्रश्चैकपदो ज्ञेयो राजयक्ष्मा पदस्थितः ॥
धराधरश्च विज्ञेय उत्तरे च चतुष्पदे ।
चतुष्पदश्चतुर्हस्तो मध्ये ज्ञेयः प्रजापतिः ॥
देवतानुचरा बाह्ये सर्व्वे चान्तस्तथासुराः ।
एवं प्रगृह्य कोष्ठानि रजसापूर्य्य देशिकः ।
एतेषामेव देवानां बलिं दद्यात्तु कामिकम् ॥”
रजसेति पञ्चवर्णरजोभिः । तथा च शारदा-
याम् ।
“उक्तानामपि देवानां पदान्यापूर्य्य पञ्चभिः ।
रजोभिस्तैर्यथोक्तेभ्यः पायसान्नैर्बर्लिं हरेत् ॥”
तथा ।
“पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् ।
कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ।
विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् ॥”
स्यात् पुलाकस्तुच्छधान्ये इत्यमरोक्तेः तुच्छं
अपकृष्टम् ।
“पूज्या मण्डलबाह्ये तु पूर्व्वाग्नय्यादिकक्रमात् ।
स्कन्दश्चैव विदारी च अर्य्यमा पूतना तथा ।
जम्भका पापराक्षस्यौ पिलिपिञ्जश्चरक्यपि ॥”
मण्डलकरणासामर्थ्ये शालग्रामसमीपे सर्व्वे
पूज्याः ।
“शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्द्दश ॥”
इति पद्मपुराणवचनात् ॥
तत्रावाहनविसर्ज्जने न स्तः ।
“शालग्रामे स्थावरे च नावाहनविसर्ज्जने ॥”
इति वचनात् ॥
तदसम्भवे घटादिजले । प्रतिमास्थानेष्वप्सु
आवाहनविसर्ज्जनवर्ज्जम् । इति बौधायन-
वचनात् ॥ * ॥ एषां विशेषबलिर्मत्स्यपुराणदेवी-
पुराणाभ्यामुक्तोऽपीदानीन्तनैर्न व्यवह्नियते ।
इति न लिखितः । किन्तु मत्स्यपुराणोक्तपायस-
बलिर्दीयते । तथा च ।
“पायसं वापि दातव्यं स्वनाम्ना सर्व्वतः क्रमात् ।
नमस्कारेण मन्त्रेण प्रणवाद्येन सर्व्वतः ॥”
अतएव प्रागुक्तशारदावाक्ये पायसमात्रमुक्तं
तेन एष पायसबलिः ॐ ईशानाय नमः ।
इत्यादिना प्रयोगः । न च वाचस्पतिमिश्रोक्त-
ममुकदेवतायै एष पायसबलिर्नम इत्यादि
प्रणवादिनमस्कारान्तस्वनामरूपमन्त्रमध्ये देय-
प्रवेशस्यायुक्तत्वात् । तथा च ब्रह्मपुराणम् ।
“ॐकारादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।
स्वनाम सर्व्वसत्त्वानां मन्त्र इत्यभिधीयते ॥”
इति देवीपुराणम् ॥
“एवं भूतगणानान्तु वलिर्देयस्तु कामिकः ।
एतान् प्रपूजयेद्देवान् कुशपुष्पाक्षतैर्ब्बुधः ॥
एवं प्रपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् ।
अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा ।
एतान् प्रपूजयेद्देवान् कुशपुष्पाक्षतैस्तथा ॥”
अत्र पूजाया नित्यत्वात् वक्ष्यमाणमत्स्यपुराण-
वचने होमानन्तरं वलिदानाच्च वलेः काम्यत्वात्
पूजा होमानन्तरं वलिदानाचारः । तथा च ।
“ब्रह्मस्थाने तथा कुर्य्याद्वासुदेवस्य पूजनम् ।
श्रियाश्च पूजनं कुर्य्याद्वासुदेवगणस्य च ॥
गन्धार्घ्यपुष्पनैवेद्यधूपाद्यैः सुरसत्तम ।
ततः संपूजयेत् तस्मिन् सर्व्वलोकधरां महीम् ॥
सुरूपां प्रमदारूपां दिव्याभरणभूषिताम् ।
ध्यात्वा तामर्च्चयेद्देवीं परितुष्टां स्मिताननाम् ॥
ततः स्वनाममन्त्रेण सर्व्वदेवमयं हरिम् ।
ध्यात्वा समर्च्चयेत्तत्र यजेद्वास्तुनरं परम् ॥
ब्रह्मस्थाने ततो विद्वान् कुर्य्यादाधारमक्षतैः ।
तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूरितम् ॥
हैमं वा राजतं पात्रं मृण्मयं वा दृढं शुभम् ।
सर्व्वबीजौषधीयुक्तं सुवर्णरजतान्वितम् ॥
पृष्ठ ४/३६६
ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् ।
तस्मिंश्चतुर्म्मुखं देवं प्राजेशं मन्त्रविग्रहम् ॥
गन्धैः पुष्पैश्च धूपैश्च नैवेद्यैः सुमनोहरैः ।
ततो मण्डलबाह्ये तु प्रतीच्यां प्राङ्मुखः स्थितः ॥
आचार्य्यो गृह्य सम्भारं ब्रह्मादींस्तर्पयेत् सुरान् ।
प्राजेशं तर्पयेद्विद्वान् आहुतीनां शतेन च ॥
इतरान् दशभिर्देवानाहुतिभिः प्रतर्पयेत् ।
ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् ॥
प्रगृह्य कर्करीं सम्यङ्मण्डलान्तःप्रदक्षिणम् ।
सूत्रमार्गेण देवेन तोयधारेण कारयेत् ॥
पूर्ब्बवत् तेन मार्गेण सप्तबीजानि वापयेत् ।
आरम्भं तेन मार्गेण तस्य खातस्य कारयेत् ॥
ततो गर्त्तं खनेन्मध्ये हस्तमानप्रमाणतः ।
चतुरङ्गुलमात्रं तदधः खन्यात् सुसम्मितम् ॥
गोमयेन प्रलिप्याथ चन्दनेन विलेपितम् ।
मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च ॥
आचार्य्यः प्राङ्मुखोभूत्वा ध्यायेद्देवं चतुर्म्मुखम् ।
तूर्य्यमङ्गलघोषेण ब्रह्मघोषरवेण च ॥
अर्घ्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्रवित् ।
प्रगृह्य कर्करीं तान्तु तत् खातं पूजयेज्जलैः ॥
सर्व्वरत्नसमायुक्तैर्विमलैश्च सुगन्धिभिः ।
तस्मिन् पुष्पाणि शुक्लानि प्रक्षिपेदोमिति स्मरन् ॥
तदावर्त्तं परीक्षेत दधिभक्तान्वितं क्षिपेत् ।
शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः ॥
बीजैः शालियवादीनां गर्त्तं तं पूरयेत्ततः ।
क्षेत्रजाभिः पवित्राभिर्मृद्भिर्गत्तं प्रपूरयेत् ॥
एवं निष्पाद्य विधिना वास्तुयागं सुरोत्तम ।
सुवर्णं गाञ्च वस्त्रञ्च आचार्य्याय निवेदयेत् ॥”
इतरानीशादीन् होमस्तु प्रणवादिस्वाहान्त-
तत्तन्नामभिः । तथा च विष्णुधर्म्मोत्तरे ।
“एकैकां देवतां राम समुद्दिश्य यथाबिधि ।
चतुर्थ्यन्तेन धर्म्मज्ञो नाम्ना च प्रणवादिना ।
होमद्रव्यमथैकैकं शतसङ्ख्यन्तु होमयेत् ॥”
शतसङ्ख्यमिति पूर्ब्बोक्तवचनानुसारेण वास्तु-
यागेतरपरम् । स्मृतिः ।
“स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेव-
ताम् ॥”
होमदक्षिणासम्प्रदानमाह छन्दोगपरिशिष्टम् ।
“ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता ।
कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ॥
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्ध हरो भवेत् ।
स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत् ॥”
अन्यो यजमानभिन्नः । उभयं ब्रह्मकर्म्म होतृ-
कर्म्म च । उपसंहारे वास्तुयागमिति श्रुतेः
सङ्कल्पवाक्ये तेनैवोल्लेखमाचरन्ति । अत्र
मिलितामिलितदक्षिणादानात् फलतार-
तम्यम् ॥ * ॥ मात्स्ये ।
“ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् ॥”
देवीपुराणम् ।
“कालज्ञस्थपती पूज्यौ वैष्णवान् शक्तितोऽर्च्चयेत् ।
ब्राह्मणान् भोजयित्वा तु नृत्यगीतादि कारयेत् ॥
प्रासादं कारयेद्बिद्बान् गृहं वापि मनोहरम् ।
कार्य्यस्तु पञ्चभिर्व्विल्वैर्व्विल्वबीजैरथापि वा ।
होमान्ते भक्ष्यभोज्यैश्च वास्तुयागे बलिं हरेत् ॥”
इति मत्स्यपुराणे होमान्ते बलिविधानात्
अत्रापि होमं कृत्वा बल्यादिप्रागुदितसर्व्वकर्म्म-
करणाचारः ॥ * ॥ अत्र प्रजापतिनामाग्निः ।
“प्रतिष्ठायां लोहितश्च वास्तुयागे प्रजापतिः ।
जलाशयप्रतिष्ठायां वरुणः समुदाहृतः ॥”
इति मत्स्यसूक्तवचनात् । एकाशीतिपदवास्तु-
यागे मत्स्यपुराणम् । भूम्यधिकारे ।
“पञ्चगव्यौषधिजलैः परीक्षित्वा तु सेचयेत् ।
एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ॥
पश्चाल्लेप्येन चालिप्य सूत्रेणालोड्य सर्व्वतः ।
दश पूर्व्वायता रेखा दश चैवोत्तरायताः ।
सर्व्ववास्तुविभागे तु विज्ञेया नवधा नव ॥”
पञ्चगव्यमन्त्रमाह शङ्खः ।
“गायत्त्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्नेति वै दधि ।
तेजोऽसीति घृतञ्चैव देवस्यत्वा कुशोदकम् ॥”
ओषधीराह कात्यायनः ।
“व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः ।
यवाश्चौषधयः सप्त विपदो घ्नन्ति धारिताः ॥”
व्रीहिः शरत्पक्वधान्यं षष्टिकाख्यम् । शालयो
हैमन्तिकाः । दशेति वास्तुमण्डलवायव्ये उप-
विश्य पूर्व्वाभिमुखो गुरुः उत्तरत आरभ्य दश-
रेखाः प्राङ्मुखीर्यथादक्षिणं कुर्य्यात् । एवं
नैरृत्यामुपविश्य पश्चिमतः पूर्व्वापरगा दशो-
त्तरायता रेखाः कुर्य्यात् कनकशलाकादिना ।
रुद्रयामले तासां नामानि ।
“शान्ता यशोवती कान्ता विशाला प्राण-
वाहिनी ।
शची सुमनसा नन्दा सुभद्रा सुरथा तथा ॥”
इत्याद्या दश रेखाः ॥
“हिरण्या सुव्रता लक्ष्मीर्विभूतिर्विमला प्रिया ।
जया कला विशोका च इडा संज्ञा दशो-
त्तराः ॥”
इत्यन्तदश रेखाः ॥
“एकाशीतिपदं कृत्वा वास्तुकृत् सर्व्ववास्तुषु ।
पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव तु ॥
द्बात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ।
नामतस्तानि वक्ष्यामि स्थानानि च निबोध मे ॥
ईशानकोणादिषु तान् पूजयेच्च विधानतः ।
शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ।
पूषा च वितथश्चैव गृहक्षतयमावुभौ ॥
गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ।
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ।
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ॥
बहिर्द्वात्रिंशदेते च तदन्तश्चतुरः शृणु ।
ईशानादिचतुष्कोणसं स्थितान् पूजयेद्बुधः ॥
आपश्चैवाथ सावित्र्यो जयो रुद्रस्तथैव च ।
मध्ये नवपदे ब्रह्मा तस्याष्टौ च स्रमीपगाः ॥
सर्व्वानेकान्तरान् विद्यात् पूर्ब्बाद्यान्नामतः शृणु ।
अर्य्यमा सविता चैव विवस्वान् विबुधाधिपः ॥
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ।
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ॥
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ।
पादिकानाञ्च वर्गोऽयमेवं कोणेषु शेषतः ॥
तन्मध्ये तु बहिर्विंशद्द्विपदास्ते तु सर्व्वतः ।
अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः ॥”
एवमिति यथा ईशानकोणे कोष्ठचतुष्टये अन्त-
स्थितैककोष्ठसहिते देवतापञ्चकमेवमाग्नेयादि-
कोणेष्वपीत्यर्थः । दिक्षु पूर्ब्बादिदिक्षु ॥ * ॥
“वंशानिदानीं वक्ष्यामि बहूनपि पृथक् पृथक् ।
वायुं यावत् तथा रोगात् पितृभ्यः शिखिनं
पुनः ॥
मुख्याद्भृशमथो शोषाद्वितथं यावदेव तु ।
सुग्रीवाददितिं यावद्भृङ्गाज्जयन्तमेव च ॥
एते वंशाः समाख्याताः क्वचिज्जठर एव च ।
एतेषां चैव सम्पातः पदमध्ये समस्तथा ॥
मर्म्म चैतत् समाख्यातं त्रिशूलं कोणगं च यत् ।
स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥
कीलोच्छिष्टोपघातानि वर्ज्जयेत् यत्नतो नरः ।
सर्व्वत्र वास्तुनिर्द्दिष्टः पितृवैश्वानरायतः ॥
मूर्द्धन्यग्निः समाविष्टो मुखे चापः समाश्रितः ।
पृथ्वीधरोऽर्य्यमा चैव स्तनयोस्तावधिष्ठितौ ॥
वक्षःस्थले चापवत्सः पूजनीयस्तथा बुधैः ।
नेत्रयोर्दितिपर्ज्जन्यौ श्रोत्रे दितिजयन्तकौ ॥
सर्पेन्द्रा वंशसंस्थौ च पूजनीयौ प्रयत्नतः ।
सोमसूर्य्यादयस्तद्बद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्तसमाश्रितौ ।
सावित्रः सविता तद्वद्धस्तं दक्षिणमाश्रितौ ॥
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।
पूषा च पापयक्ष्मा च हस्तयोर्म्मणिबन्धके ॥
तथैवासुरशेषौ च वामपार्श्वे समाश्रितौ ।
पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥
उर्व्वोर्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ ।
जङ्घयोर्भृङ्गसुग्रीवौ कट्यां दौवारिको मृगः ॥
जयः शक्रस्तथा मेढ्रे पादयोः पितरस्तथा ।
मध्ये नवपदो ब्रह्मा हृदये स तु पूज्यते ॥
चरकीञ्च विदारीञ्च पूतनां पापराक्षसीम् ।
ईशाग्नयादिकोणेषु मण्डलाद्बाह्यतो यजेत् ॥”
पितृभ्य इति पितृगणादारभ्य वह्निं यावत् यो
वंशः प्रसारितस्तद्वदायतो वास्तुपूरुषः । अम्बुपो
वरुणः । पुष्पकः पुष्पदन्तः । तथा ।
“प्रदक्षिणन्तु कुर्व्वीत वास्तोः पदविलेखनम् ।”
कोष्ठानां लिखनं प्रदक्षिणं कार्य्यम् । तथा ।
“तर्जनी मध्यमा चैव तथाङ्गुष्ठश्च दक्षिणः ।
प्रबालरत्नकनकं फलपुष्पाक्षतोदकम् ।
सर्व्वञ्च वामभागेषु शस्तं पदविलेखने ॥” * ॥
तथा ।
“वास्तौ परीक्षिते सम्यग्वास्तुदेहे विचक्षणः ।
वास्तू पशमनं कुर्य्यात् समिद्भिर्बलिकर्म्मणा ॥
पृष्ठ ४/३६७
जीर्णोद्धारे तथोद्याने तथा गृहनिवेशने ।
द्वाराभिवर्द्धने तद्वत् प्रासादेषु गृहेषु च ॥
वास्तूपशमनं कुर्य्यात् पूर्ब्बमेव विचक्षणः ।
एकाशीतिपदं लेख्यं लेखकैर्वास्तुपिष्टकैः ।
होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके ॥”
विश्वकर्म्मा ।
“खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥
मेखलारहिते शोको ह्यधिके वित्तसंक्षयः ।
भार्य्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ।
अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्ज्जितम् ॥”
वशिष्ठसंहितायाम् ।
“तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।”
एवंविधकुण्डासम्भवे क्रियासारः ।
“कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समा-
श्रयेत् ॥”
मत्स्यपुराणम् ।
“यवैः कृष्णतिलैस्तद्बत् समिद्भिः क्षीरसम्भवैः ।
पालाशैः खादिरैरापामार्गोडुम्बरसम्भवैः ॥
कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः ।
कार्य्यस्तु पञ्चभिर्विल्वैर्विल्वबीजैरथापि वा ।
होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे वलिं हरेत् ॥”
अत्र होमे मन्त्रानाह विष्णुधर्म्मोत्तरम् ।
“वास्तोष्पतेन मन्त्रेण यजेच्च गृहदेवताम् ।”
वास्तोष्पतेन वास्तोष्पतिदैवतेन पञ्चमन्त्रेण ।
वलिद्रव्यञ्च पायसं प्रागेव लिखितम् ॥ * ॥
ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजन-
मित्यादि । सुवर्णं गां वस्त्रयुगमाचार्य्याय निवे-
दयेत् । इत्यन्तमत्रापि बोध्यम् कल्पतरौ मत्स्य-
पुराणम् ।
“ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् ।
द्विजांश्च पूजयेद्भक्त्या ये चान्ये गृहमागताः ॥
एतद्बास्तूपशमनं कृत्वा कर्म्म समाचरेत् ।
प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ॥
पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ।
इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ॥”
इति मत्स्यपूराणे उपक्रमोपसंहारयोर्वास्तूप-
शमनत्वेनाभिधानात् वास्तूपशमनं कर्म्मणो
नामधेयं इति तेनैवोल्लेखः सर्व्वदोषापनुत्तये
इति श्रुतेश्च वास्तुसर्व्वदोषापनोदनं फलं संकल्पे
तु तदुल्लेखः कार्य्यः । एतत्तु प्रारम्भप्रवेशान्य-
तरस्मिन्नवश्यं कर्त्तव्यम् । आवश्यकत्वे प्रमाणं
प्रागेवोक्तम् । इति श्रीरघुनन्दनभट्टाचार्य्यविर-
चितं वास्तुयागतत्त्वं समाप्तम् ॥

वास्तुकं, क्ली, (वास्तु एव । वास्तु + स्वार्थे कन् ।)

वास्तूकशाकम् । इत्यमरटीकायां भरतः ॥
(यथा, सुश्रुते । १ । १९ ।
“तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः ॥”)

वास्तुकी, स्त्री, चिल्लीशाकम् । इति राजनिर्घण्टः ॥

वास्तूकं, क्ली, (वसन्ति गुणा अत्रेति । वस +

ऊलूकादयश्चेति साधुः ।) शाकविशेषः । वेतुया
इति भाषा । तत्पर्य्यायः । वास्तू २ वास्तुकम् ३
वसुकम् ४ वस्तूकम् ५ हिलमोचिका ६ शाक-
राजः ७ राजशाकः ८ चक्रवर्त्ती ९ । अस्य
गुणाः । मधुरत्वम् । सुशीतलत्वम् । क्षारत्वम् ।
मादनत्वम् । त्रिदोषजित्त्वम् । रोचनत्वम् ।
ज्वरहरत्वम् । महार्शसां नाशनत्वम् । मल-
मूत्रशुद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“वास्तू कं वास्तुकञ्च स्यात् क्षारपत्रञ्च शाक-
राट् ।
तदेव तु बृहत्पत्रं रक्तं स्याद्गौडवास्तुकम् ॥
प्रायशो यवमध्ये स्यात् यावत् शाकमतः स्मृतम् ।
वास्तू कद्बितयं स्वादु क्षारं पाके कटूदितम् ॥
दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् ।
सरं प्लीहास्रपित्तास्रकृमिदोषत्रयापहम् ॥”
इति भावप्रकाशः ॥

वास्तेयं, त्रि, वस्तिसम्बन्धि । वस्तसन्धम्बि । वस्तु-

सम्बन्धि । वास्तुसम्बन्धि । वस्तिवस्तवस्तुवास्तु-
शब्देभ्यः ष्णेयप्रत्ययेन निष्पन्नम् ॥ (वस्तौ
भवम् । वस्ति + “दृतिकुक्षिकलशिवस्त्यस्त्यहे-
र्ढञ् ।” ४ । ३ । ५६ । इति ढञ् । वस्ति-
भवम् ॥ यथा, छान्दोग्योपनिषदि । ३ । १९ ।
२ ।
“तत् यत् रजतं सेयं पृथिवी यत् सुवर्णं सा
द्यौर्यज्जरायु ते पर्व्वता यदुल्वं स मेघो नीहारो
याधमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥”
वस्तिरिव । वस्ति + “वस्तेर्ढञ् ।” ५ । ३ ।
१०१ । इति ढञ् । वस्तिसदृशम् । इति सिद्धान्त-
कौमुदी ॥)

वास्तोष्पतिः, पुं, (वास्तोर्गृहक्षेत्रस्य पतिरधि-

ष्ठाता । “वास्तोष्पतिगृहमेधाच्छ च ।” इति
निपातनात् अलुक् षत्वञ्च । यद्वा, “वास्त्वन्त-
रिक्षं तस्य पतिः पाता विभुत्वेन ।” इति
निघण्टुटीकायां देवराजयज्वा । ५ । ४ । ९ ।)
इन्द्रः । इत्यमरः ॥ (देवतामात्रम् । यथा,
भागवते । १० । ५० । ५३ ।
“वास्तोष्पतीनाञ्च गृहैर्वलभीभिश्च निर्म्मितम् ।
चातुर्व्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥”
“किञ्च नगरगृहादौ वास्तोष्पतीनां देवानाञ्च
गृहैर्वलभीभिश्चन्द्रमालिकाभिश्च निर्म्मितम् ॥”
इति तट्टीकायां स्वामी ॥ गृहपालयितरि, त्रि ।
यथा, ऋग्वेदे । ७ । ५४ । १ ।
“वास्तोष्पते प्रतिजानीह्यस्मान्
स्वावेशो अनमीवो भवानः ॥”
“हे वास्तोष्पते गृहस्य पालयितर्देव त्वं अस्मान्
त्वदीयान् स्तोतॄनिति प्रतिजानीहि ।” इति
तद्भाष्ये सायणः ॥)

वास्त्रः, पुं, (वस्त्रेण परिवृतो रथः । वस्त्र + “परि-

वृतो रथः ।” ४ । २ । १० । इति अण् ।)
वस्त्रावृतरथः । इत्यमरः । २ । ८ । ५४ ॥ त्रि,
वस्त्रसम्बन्धी ॥

वास्थः, त्रि, वारि तिष्ठति यः । वार्शब्दपूर्ब्ब-

स्थाधातोर्डप्रत्ययेन निष्पन्नः ॥

वास्पः, पुं, उष्मा । लोहम् । इति केचित् ॥ मूर्द्धन्य-

मध्य इति साधुपाठः ॥

वास्पेयः, पुं, नागकेशरः । इति रत्नमाला ॥

वाह, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऋ, अववाहत् । ङ,
वाहते । ववाह रक्तं पुरुषास्ततो जाताः सह-
स्रशः इत्यादि सिद्ध्यर्थमोष्ठ्यादिश्च वहधातुं
मन्येते वर्णदेशशरणदेवौ । वस्तुतस्तु बहुवाद्य-
सम्मतत्वादेवोष्ठ्यादिरनेनोपेक्षितः ववाहेति
चण्डीप्रयोगस्य तु वाह ऋ ङ यत्ने इत्यस्मात्
गणकृतानित्यत्वात् परस्मैपदसिद्धिः अनेकार्थ-
त्वात् सुस्रावेत्यर्थः । अथवा वव इत्याह इत्येव
व्याख्यानम् । इति दुर्गादासः ॥

वाहः, पुं, (उह्यतेऽनेनेति । वह + करणे घञ् ।)

घोटकः । (यथा, अध्यात्मरामायणे । २ । ५ । ५६ ।
“इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् ॥”)
परिमाणविशेषः । इत्यमरः ॥ यथाहुः ।
“पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् ।
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् ॥
अष्टाढको भवेत् द्रोणो द्विद्रोणः सूर्प उच्यते ।
सार्द्धसूर्पो भवेत् खारीद्बे खार्य्यौ गोण्युदाहृता ।
तामेव भारं जानीयात् वाहो भारचतुष्टयम् ॥”
इति भरतः ॥
चतुर्द्दशभेदात् संख्यान्यथात्वम् । तथा च ।
“चतुराढको द्रोणः षोडशद्रोणा खारी ।
विंशतिद्रोणः कुम्भः दशकुम्भो वाहः । इति
स्वामी ॥ * ॥ भुजः । वृषः । वायुः । इति
शब्दरत्नावली ॥ (प्रवाहः । यथा, कथासरित्-
सागरे । ९३ । ८१ ।
“यत्रार्च्चिराज्यधूमादिमार्गाविव समागतौ ।
गङ्गायमुनयोर्वाहौ भातः सुगतये नृणाम् ॥”
वाहनम् । यथा, तत्रैव । ६२ । १५७ ।
“तच्छ्रुत्वा तत्र भेकानां राजा वाहसमुत्सुकः ।
जलादुत्तीर्य्य तत्पृष्ठमारोहत् गतभीर्मुदा ॥”)

वाहकः, त्रि, (वहतीति । वह + ण्वुल् ।) वहन-

कर्त्ता । वहति यः । इत्यर्थे णकप्रत्ययेन निष्पन्नः ॥
(यथा, भागवते । १० । १८ । २१ ।
“आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः ।
यत्रारीहन्ति जेतारो वहन्ति च पराजिताः ॥”)

वाहद्विषन्, [त्] पुं, (वाहानां घोटकानां द्विषन्

शत्रुः ।) महिषः । इत्यमरः ॥

वाहनं, क्ली, (वहत्यनेनेति । वह + करणे ल्युट् ।

“वाहनमाहितात् ।” ८ । ४ । ८ । इत्यत्र
“वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।”
इति भट्टोजिदीक्षितोक्त्या निपातनात् वृद्धिः ।)
हस्त्यश्वरथदोलादिः । तत्पर्य्यायः । यानम् २
युग्यम् ३ पत्रम् ४ धोरणम् ५ । इत्यमरः ।
२ । ८ । ५८ ॥ * ॥ (यथा, रघुः । ११ । १० ।
“पूर्व्ववृत्तकथितैः पुराविदः
सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः
पादचारमपि न व्यभावयत् ॥”)
पृष्ठ ४/३६८
देव्या वाहनानि यथा, --
“विष्णब्रह्मशिवैर्द्देवैर्ध्रियते सा जगन्मयी ॥
सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः ।
हरिर्हरिस्तु विज्ञेयो वाहनानि महौजसः ॥
स्वमूर्त्त्या वाहनत्वन्तु तेषां यस्मान्न युज्यते ।
तस्मान्मूर्त्त्यन्तरं कृत्वा वाहनत्वं गतास्त्रयः ॥
यस्मिन् यस्मिन्महामाया प्रीणाति सततं
शिवा ।
तेन तेनैव रूपेण आसनान्यभवन् त्रयः ॥”
इति कालिकापुराणे ५७ अध्यायः ॥ * ॥
देवदानवानां वाहनानि यथा, --
पुलस्त्य उवाच ।
“शृणुष्व कथयिष्यामि सर्व्वेषामपि नारद ।
वाहनानि समासेन एकैकस्यानुपूर्व्वशः ॥
रुद्रहस्ततलोत्पन्नं महाकायं महागजम् ।
श्वेतवर्णं महावीर्य्यं देवराजस्य वाहनम् ॥
रौद्रौजःसम्भवं भीमं कृष्णवर्णं मनोजवम् ।
पौण्ड्रकं नाम महिषं धर्म्मराजस्य नारद ॥
रुद्रमानस-सम्भूतं श्यामं जलधिसंज्ञकम् ।
शिशुमारं दिव्यगतिं वाहनं वरुणस्य च ॥
रौद्रं शकटचक्राक्षं शैलाकारनरोत्तमम् ।
अम्बिकापादसम्भू तं वाहनं धनदस्य तु ॥
एकादशानां रुद्राणां वाहनानि महामुने ।
गन्धर्व्वाश्च महावीर्य्या भुजगेन्द्राः सुदारुणाः ॥
श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च ।
रथं चन्द्रमसश्चार्द्धं सहस्रहंसवाहनम् ॥
हयोढरथवाहाश्च आदित्या मुनिसत्तम ।
कुञ्जरस्थाश्च वसवो यक्षाश्च नरवाहनाः ॥
किन्नरा भुजगारूढा हयारूढौ तथाश्विनौ ।
शारङ्गाधिष्ठिता ब्रह्मन् मरुतो घोरदर्शनाः ॥
शुकारूढाश्च कवयो गन्धर्व्वाश्च पदातिनः ।
आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः ॥
सन्नह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः ॥ * ॥
नारद उवाच ।
गदितानि सुरादीनां वाहनानि महामुने ।
दैत्यानां वाहनान्येवं यथावद्वक्तुमर्हसि ॥
पुलस्त्य उवाच ।
शृणुष्व दानवादीनां वाहनानि द्विजोत्तम ।
कथयिष्यामि तत्त्वेन यथावत् श्रोतुमर्हसि ॥
अन्धकस्य रथो युक्तः श्रेष्ठः परमवाजिभिः ।
कृष्णवर्णः सहस्रारस्त्रिनल्वपरिमाणवान् ॥
प्रह्नादस्य रथो दिव्यः श्बेतवर्णैर्हयोत्तमैः ।
उह्यमानस्तथाष्टाभिः श्वेतरुक्ममयः शुभः ॥
विरोचनस्य तु गजः कुम्भस्य तु तुरङ्गमः ।
जम्भस्य तु रथो दिव्यो हयैः काञ्चनसन्निभैः ॥
शङ्कुकर्णस्य तरगो हयग्रीवस्य कुञ्जरः ।
रथो मयस्य विख्यातो दुन्दुभेश्च महोरगः ।
शम्बरस्य विमानोऽभूदायः शङ्कोर्मृगाधिपः ॥”
इति श्रीवामनपुराणे ९ अध्यायः ॥
(वाहयतीति । वह + स्वार्थे णिच् + ल्युः ।
वाहके, त्रि । यथा, कथासरित्सागरे । १२४ ।
२२० -- २२२ ।
“स वाहनानां नागानां शीकराम्बुमहाभरैः ।
शूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः ॥”
“नागानां वाहना मेघाः शूकरप्रेयसी क्षितिः ।
विष्णोः शूकररूपस्य सा हि प्रियतमोच्यते ॥
तस्यां मेघाम्बुभिर्धान्यमुत्पन्नं चेत् किमद्भुतम् ॥”)

वाहश्रेष्ठः, पुं, (वाहेषु वाहनेषु श्रेष्ठः ।) अश्वः ।

इति राजनिर्घण्टः ॥

वाहसः, पुं, (उह्यते इति । वह + “वहियुभ्यां

णित् ।” उणा० ३ । ११९ । इति असच् । सच
णित् ।) अजगरः । इत्यमरः ॥ (यथा, तैत्ति-
रीयसंहितायाम् । ५ । ५ । १४ । १ ।
“त्वाष्ट्राः प्रतिश्रत्कायै वाहसः ॥”)
वारिनिर्य्याणम् । सुनिषण्णकम् । इति मेदिनी ।
से, ३७ ॥

वाहा, स्त्री, (वाह + अजादित्वात् टाप् ।)

वाहुः । इत्यजयपालद्विरूपकोषौ ॥

वा(बा)हावा(बा)हवि, व्य, (वाहुभिर्वाहुभिः प्रहृत्य

इदं युद्धं प्रवृत्तं तत् ।) वाहुयुद्धम् । हाता-
हाति इति भाषा । इति मुग्धबोधव्याकरणम् ॥

वाहिकः, पुं, (वाहेन परिमाणविशेषेण क्रीतः ।

वाह + “असमासे निष्कादिभ्यः ।” ५ । १ । २० ।
इति ठक् ।) ढक्का । गोवाहः । शकटादि ।
इति धरणिः ॥ त्रि, भारवाहकश्च ॥

वाहित्थं, क्ली, गजकुम्भस्याधोभागः । इत्यमरः ॥

वाहिनी, स्त्री, (वाहा वाहनानि घोटकादीनि

सन्त्यस्यामिति । वाह + इनिः । ङीप् ।) सेना ।
(यथा, रघुः । ११ । ६ ।
“लक्ष्मणानुचरमेव राघवं
नेतुमैच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं
सा हि रक्षणविधौ तयोः क्षमा ॥” * ॥
वाहः प्रवाहोऽस्त्यस्या इति ।) नदी । (यथा,
रामायणे । २ । ८९ । ९ ।
“उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा ।
नावः समुपकर्षध्वं तारयिष्याम वाहिनीम् ॥”)
सेनाभेदः । तद्यथा । गजाः एकाशीतिः ।
रथाः एकाशीतिः । अश्वास्त्रिचत्वारिंशदधिक-
शतद्वयम् । पदातिकाः पञ्चाधिकचतुःशतम् ।
समुदायेन दशाधिकाष्टशतं वाहाः सन्त्यस्याम् ।
इत्यमरभरतौ ॥ (यथा, महाभारते । १ । २ ।
१९ -- २१ ।
“एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
पत्तिस्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥”
प्रवाहशीला । यथा, मार्कण्डेये । ७८ । २९ ।
“यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ॥”)

वाहिनीपतिः, पुं, (वाहिन्याः सेनायाः पतिः ।)

सेनापतिः । इत्यमरः ॥ (यथा, महाभारते ।
४ । २१ । ९ ।
“प्रवादेनेह मत्स्यानां राजा नाम्नायमुच्यते ।
अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥”
वाहिन्या नद्याः पतिः ।) समुद्रः । इति शब्द-
रत्नावली ॥

वाहीकः, पुं, देशभेदः । तत्पर्य्यायः । अष्टक्वः २ ।

इति हेमचन्द्रः ॥ जर्त्तिकजातिः । जाट् इति
भाषा ॥ यथा, --
“तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः ।
वाहीकदेशं मद्रांश्च कुत्सयन् वाक्यमब्रवीत् ॥
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।
तान् धर्म्मवाह्यानशुचीन् वाहीकान् परि-
वर्ज्जयेत् ॥
शाकलं नाम नगरमापगानामनिम्नगा ।
जर्त्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दि-
तम् ॥”
इति महाभारते कर्णपर्व्वणि २०० अध्यायः ॥

वा(बा)हुः, पुं, (बाधते शत्रूनिति । बाधृ लोडने

+ “अर्त्तिदृशिकमीति ।” उणा० । १ । २८ ।
इति कुः हकारादेशश्च ।) कक्षावध्यङ्गुल्यग्र-
पर्य्यन्तावयवः । यथा । भुजवाहुः प्रवेष्टो द्योरि-
त्यमरः ॥ वहत्यनेन वाहुः नाम्नीति उण् । घञि
वाहोऽदन्तः । वाहोऽश्वभुजयोः पुमान् । इति
दामोदरः । स्त्रियां वाहा च । वाहो वाहा
भुजा वाहुर्दोषो दोषा च दोः पुमान् । इति
कोषान्तरम् ॥ इति तट्टीकायां भरतः ॥ कूर्प-
रस्योर्द्ध्वभागो वाहुस्तस्याधोभागः प्रवाहुः ।
यथा, --
“मुखं वाहू प्रवाहू च मनः सर्व्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥”
इति विष्णुपुराणे ५ अंशे ५ अध्यायः ॥
वाहुप्रवाहू च कूर्परस्योर्द्ध्वाधोभागौ । इति
तट्टीका ॥ अन्यत् पवर्गीयवकारादिबाहुशब्दे
द्रष्टव्यम् ॥ * ॥ अस्य शुभाशुभलक्षणं यथा, --
“निर्मांसौ चैब भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ ।
आजानुलम्बिनौ वाहू वृत्तौ पीनौ नृपेश्वरे ॥
निःस्वानां रोमशौ ह्नस्वौ श्रेष्ठौ करिकरप्रभौ ।
हस्ताङ्गुलय एव स्युरायुर्दा ललिताः शुभाः ॥
मेधाविनाञ्च सूक्ष्माः स्युर्भृत्यानां चिपिटाः
स्मृताः ।
स्थूलाङ्गुलीभिर्निःस्वाः स्युर्नताःस्युर्वहिरन्तदाः ॥
कपितुल्यकरा निःस्वा व्याघ्रतुल्यकरैर्धनम् ।
मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः ॥
नृपा हीनैः करच्छेदः सशब्दैर्धनवर्ज्जिताः ।
पितृवित्तविहीनाश्च निम्नात् करतलान्नराः ॥
संवृत्तैश्चैव निम्नैश्च धनिनः परिकीर्त्तिताः ।
प्रोक्ता नरकदातारो विषमैर्विषमा नराः ॥
करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः ।
परदाररताः पीतै रूक्षैर्निःस्वा नरा मताः ॥
तुषतुल्यनखाः क्लीवाः कुटिलैः स्फुटितैर्नराः ।
निःस्वाश्चक्रनखैस्तद्वद्बिवर्णैः परतर्ककाः ॥
ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा ।
अङ्गुष्ठमूलजैः प्रेष्यः स्याद्दीर्घाङ्गुलिपर्व्वकः ॥
पृष्ठ ४/३६९
दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः ।
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ॥
नृपतेः करतलगा मणिबन्धे समुत्थिताः ।
युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः ॥
वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे ।
शङ्खातपत्रशिविकागजपद्मोपमा नृपे ॥
कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे ।
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ॥
चक्रासितोमरधनुःकुन्ताभा नृपतेः करे ।
उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि ॥
वापीदेशकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके ।
अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च दारिकाः ॥
प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ।
शतायुषञ्च कुरुते छिन्नया तरुतो भयम् ।
निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥”
इति गारुडे ६६ अध्यायः ॥

वा(बा)हुमूलं, क्ली, (वाह्वोर्मूलम् ।) भुजद्वयस्य

आद्यभागः । काँक् इति वगल् इति च भाषा ।
तत्पर्य्यायः । कक्षः २ । इत्यमरः ॥ भुजकोटरः
३ दोर्मूलम् ४ खण्डिकः ५ कक्षा ६ । इति
हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । १२४
“कापि कुन्तलसं व्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”)

वा(बा)हुलः, पुं, कार्त्तिकमासः । इत्यमरः ॥ अथ

कार्त्तिकमाहात्म्यम् ।
नारद उवाच ।
“कार्त्तिकस्य तु माहात्म्यं मासस्य वक्तुमर्हसि ।
पूर्ब्बं कार्त्तिकमाहात्म्यं यथावत् वक्तुमर्हसि ॥
ब्रह्मोवाच ।
साधु पृष्टं त्वया पुत्त्र लोकोद्धारणहेतवे ।
कथयामि न सन्देहस्त्वत्समो नास्ति वैष्णवः ॥
एकतः सर्व्वतीर्यानि सर्व्वे यज्ञाः सदक्षिणाः ।
कार्त्तिकस्य च मासस्य कोट्यंशं नापि बिभ्रति ॥
एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले ।
एकतः कार्त्तिको वत्स ! सर्व्वपुण्याधिको मतः ॥
स्वर्णानि मेरुतुल्यानि सर्व्वदानानि चैकतः ।
एकतः कार्त्तिको वत्स ! सर्व्वदा केशवप्रियः ॥
कृत्वा कोटिसहस्राणि पापानि सुबहून्यपि ।
निमेषार्द्धेन सर्व्वाणि विलयं यान्ति कार्त्तिके ॥
यत्किञ्चित् कुरुते पुण्यं विष्णुमुद्दिश्य कार्त्तिके ।
तदक्षयं भवेत् सर्व्वं सत्योक्तं तव नारद ! ॥
तस्य क्षयं न पश्यामि सत्यमुक्तं तवानघ ।
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ॥
तथात्मानं समादध्यात् यथा न स्यादितः पुनः ।
दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न यः ॥
धर्म्मं धर्म्मभृतां श्रेष्ठ स मातृपितृघातकः ।
कार्त्तिकं खलु वै मासं सर्व्वमासेषु चोत्तमम् ॥
पुण्यानां परमं पुण्यं पावनानाञ्च पावनम् ।
अस्मिन् मासे त्रयस्त्रिंशद्देवाः सन्निहिता ऋषे ॥
अत्र स्नानानि दानानि भोजनानि व्रतानि च ।
तिलधेनुहिरण्यानां रजतं भूमिवाससाम् ॥
गोप्रदानानि कुर्व्वन्ति सर्व्वभावेन नारद ! ।
ब्राह्मणानाञ्च ये कन्यां दास्यन्ति विधिवन्नराः ॥
दानानां फलमेतेषां प्राप्नुयुस्ते विधानतः ।
तानि दानानि गृह्णन्ति दत्तानि विधिवत् सुराः ॥
यत्किञ्चित् कार्त्तिके दत्तं तपश्चैव तथा कृतम् ।
तदक्षयफलं प्रोक्तं विष्णुना लोककर्त्तृणा ॥
वृषाणां मोक्षणं चैव कार्त्तिके मासि यैः कृतम् ।
अश्वपेधादिकं पुण्यं तैश्च प्राप्तं न संशयः ॥
तस्माद्यत्नेन विप्रेन्द्र कार्त्तिके मासि दीयते ।
यत्किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः ॥
हुतं दत्तञ्च विप्रेन्द्र तपश्चैव तथा कृतम् ।
तदक्षयं लभन्ते ते शस्यदानं विशेषतः ॥
यथा नदीनां विप्रेन्द्र शैलानाञ्चैव नारद ।
उदधीनाञ्च विप्रर्षे क्षयो नैवोपपद्यते ॥
तद्वत् कार्त्तिकमासे तु यत्किञ्चिद्दीयते मुने ।
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ॥
तस्मात् सर्व्वप्रयत्नेन कर्म्मणा मनसा गिरा ।
पापं समाचरेन्नैव कार्त्तिके विष्णुतत्परः ॥
ज्ञानाद्वा यदि वाज्ञानाद्दुष्कृतं येन यत्कृतम् ।
तत्तस्य नश्यति क्षिप्रं वायुना पांशवो यथा ॥
संप्राप्तं कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् ।
दिने दिने च कृच्छ्रस्य फलं प्राप्नोत्यसंशयम् ॥
प्रवृत्तानान्तु भक्षाणां कार्त्तिके नियमे कृते ।
अवश्यं विष्णुरूपत्वं प्राप्यते मुक्तिदं शुभम् ॥
न कार्त्तिकसमो मासो न कृतेन समं युगम् ।
न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥
न चान्नेन समं दानं न सुखं भार्य्यया समम् ।
न कृषेस्तु समं वित्तं न लाभः सुरभीसमः ॥
न तपोऽनशनैस्तुल्यं न दमात् परमो जयः ।
न च धर्म्मो दयातुल्यो न ज्योतिश्चक्षुषा समम् ॥
न तृप्ती रसनातुल्या न प्रीतिस्तु सुतं विना ।
न कार्त्तिकसमो मासो वैष्णवानां प्रियः सदा ॥
अव्रतेन क्षपेद्यस्तु मासं दामोदरप्रियम् ।
तिर्य्यग्योनिमवाप्नोति सर्व्वधर्म्मबहिष्कृतः ॥
दुर्ल्लभं वैष्णवं ज्ञानं दुर्ल्लभा वैष्णवी कथा ।
दुर्ल्लभा वैष्णवी दीक्षा दुर्ल्लभो जागरस्तथा ॥
दुर्ल्लभं कपिलादानं दुर्ल्लभं जाह्नवीजलम् ।
दुर्ल्लभो वैष्णवो विप्रो दुर्ल्लभं नीलमोक्षणम् ॥
दुर्ल्लभं पुष्करे दानं दुर्ल्लभाः कार्त्तिके तिलाः ।
दुर्ल्लभो जागरो विष्णोः पक्षयोरुभयोरपि ॥
दुर्ल्लभा कार्त्तिके विप्र द्बादशी हरिबोधिनी ।
दुर्ल्लभा मालतीपूजा दुर्ल्लभा तुलसी मुने ॥
दुर्ल्लभं कार्त्तिके स्नानं दुर्ल्लभं साधुवन्दनम् ।
शालग्रामशिलापूजा दुर्ल्लभा मुनिपुङ्गव ॥
समुद्रगा नदी यत्र दुर्ल्लभा स्नानशालिनाम् ।
कुलशीलवती कन्या दुर्ल्लभा दम्पती नृणाम् ॥
दुर्ल्लभा जननी लोके पिता चैव विशेषतः ।
दुर्ल्लभं साधुसम्मानं दुर्ल्लभो धार्म्मिकः सुतः ॥
दुर्ल्लभैकादशी लोके दशमीसङ्गवर्ज्जिता ।
पक्षद्वयं व्रतं वत्म अयने दक्षिणोत्तरे ॥
दुर्ल्लभं वैष्णवे दानं माघस्नानं नदीजले ।
ज्यैष्ठाषाढे तु पानीयमिन्धनं पौषमाघयोः ॥
ब्राह्मणं दुर्ल्लभं विप्र दुर्ल्लभं तीर्थसेवनम् ॥
न्यायेनोपार्ज्जितं वित्तं दुर्ल्लभं कुलवर्द्धनम् ।
दुर्ल्लभं वत्स द्रव्याणां पात्रे यत् प्रतिपादितम् ॥
पात्राणामपि तत्पात्रं सदाचारक्रियान्वितम् ।
संप्राप्य कार्त्तिकं मासं विमुखा ये जनार्द्दने ।
तेषां यमपुरे वासः पितृभिः सह नारद ! ॥”
इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये ११४ अः ॥
ब्रह्मोवाच ।
“कार्त्तिकस्य तु माहात्म्यं पुनरेव शृणुष्व मे ।
यत् श्रुत्वा मुनिशार्द्दूल ! सर्व्वान् कामानवा-
प्स्यसि ॥
व्रतानामिह सर्व्वेषामेकजन्मानुगं फलम् ।
कर्त्तुर्विष्णुव्रतस्योक्तं शतजन्मानुगं फलम् ॥
आश्विनस्य सिते पक्षे एकादश्यां द्बिजोत्तम ! ।
वैष्णवैर्वैष्णवं धर्म्मं प्रारम्भोऽस्य विधीयते ॥
यावत् कार्त्तिकशुक्लस्य पौर्णमासी तिथिर्भवेत् ।
तावदस्य व्रतस्योक्तं सम्यगाचरणं बुधैः ॥
अन्यथा तु कृतं विप्र व्रतमेतत् सुदुर्ल्लभम् ।
कार्य्यं सद्भिः प्रयत्नेन कार्त्तिके तुं विशेषतः ॥
त्रिंशद्दिनानि पुण्यानि विप्रप्रीतिकराणि वै ।
कार्त्तिकस्य व्रतं विप्र ! श्रीविष्णुप्रीतिकारणम् ॥
तदर्द्धं भीष्मस्य व्रतं मुने तुष्टिकरं परम् ।
पुण्यं पञ्चदिनं प्रोक्तं दत्तं तस्मै च विष्णुना ॥
नरो वा यदि वा नारी कुरुते वैष्णवं व्रतम् ।
दिने दिनेऽसङ्ख्यफलं भवेत्तस्यैव कार्त्तिके ॥
अतस्त्वं विधिवत् पुत्त्र ! वैष्णवं व्रतमुत्तमम् ।
श्रीदामोदरतुष्ट्यर्थं प्रकुरुष्व समाहितः ॥
ऊर्ज्जे मासि मुनिश्रेष्ठ प्रातःकाले तथामले ।
गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥”
इति पाद्मे उत्तरखण्डे ११५ अध्यायः ॥ * ॥
ब्रह्मोवाच ।
“पुराणश्रवणं यत्र कुर्व्वन्ति द्विजसत्तम ।
तेषां करस्थिता मुक्तिर्विद्यते नात्र संशयः ॥
कार्त्तिके मासि यो भक्त्या कुर्य्याद्ब्राह्मणभोज-
नम् ।
प्रत्यहं विष्णुतृप्त्यर्थं स याति भवनं हरेः ॥
कार्त्तिके मासि यः कुर्य्यात् तिलतैलेन दीपकम् ।
अहोरात्रान् मुनिश्रेष्ठ स याति परमं पदम् ॥
कार्त्तिके मासि यो दद्यात् पादत्राणं द्विजन्मने ।
दद्याद्बस्त्रान्वितं वत्स यमं नैव स पश्यति ॥
यज्ञोपवीतं यो दद्यात् भूमिं वै ब्राह्मणाय तु ।
स याति ब्रह्मसदनं पुनरावृत्तिवर्जितम् ॥
ताम्बूलञ्चैव यो दद्यात् सपूगं विधिवद्द्विज ।
गन्धर्व्वलोकमाप्नोति भुक्त्वा भोगान् मनोरमान् ॥
श्रीचन्दनञ्च यो दद्यात् देवपूजार्थमादरात् ।
विप्राय वेदविदुषे पुरन्दरपुरं व्रजेत् ॥
नारिकेलफलं वत्स सवस्त्रञ्च सदक्षिणम् ।
यो दद्याद्वेदविदुषे स शश्वत् पुत्त्रवान् भवेत् ॥”
इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥

वा(बा)हुल्यं, क्ली, बहुत्वम् । वहुलस्य भाव इत्यर्थे

ष्ण्यप्रत्ययेन निष्पन्नम् ॥

वाहुवारः, पुं, श्लेष्मान्तकवृक्षः । इति राजनिर्घण्टः ॥

अन्यत् पवर्गीयवकारादितच्छब्दे द्रष्टव्यम् ॥
पृष्ठ ४/३७०

वाह्यं, क्ली, (वाह्यते चाल्यते इति वाहि + ण्यत् ।)

यानम् । यथा, हेमचन्द्रे ।
“यानं युग्यं पत्रं वाह्यं वह्यं वाहनधोरणे ॥”

वाह्यः, त्रि, (वह + ण्यत् ।) वहनीयः । (यथा,

रघुः । ६ । १० ।
“मनुष्यवाह्यं चतुरस्रयान-
मध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं
पतिंवरा कॢप्तविवाहवेशा ॥”
वहिस् + ष्यञ् ।) वहिः । वाहिर इति भाषा ।
यथा, स्मृतिः ।
“अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स वाह्याभ्यन्तरः शुचिः ॥”

वा(बा)ह्येन्द्रियं, क्ली, (वाह्यमिन्द्रियम् ।) वहि-

रिन्द्रियम् । तद्यथा । चक्षुः । जिह्वा । नासिका ।
त्वक् । श्रोत्रम् । एतदेकैकगुणाः । यथा, --
“एते तु द्बीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः ।
वाह्यैकैकेन्द्रियग्राह्या गुरुत्वादृष्टभावना ॥”
इति भाषापरिच्छेदः ॥

वाह्लिकः, पुं, वाह्लीकदेशः । इत्यमरटीकायां

भरतः ॥ (तद्देशजाते, त्रि । यथा, महाभारते ।
१ । २२२ । ४९ ।
“पृष्ठ्यानामपि चाश्वानां वाह्लिकानां जनार्द्दनः ।
ददौ शतसहस्राणि कन्याधनमनुत्तमम् ॥”)

वाह्लिकं, क्ली, कुङ्कुमम् । हिङ्गु । इत्यमर-

मेदिनीकरौ ॥

वाह्लीकं, क्ली, कुङ्कुमम् । हिङ्गु । इत्यमर-

मेदिनीकरौ ॥

वाह्लीकः, पुं, देशभेदः । वलख् इति आरवी

भाषा । तद्देशजातघोटकः । इत्यमरमेदिनी-
करौ ॥ गन्धर्व्वविशेषः । इति शब्दरत्नावली ॥
(प्रतीपपुत्त्रविशेषः । यथा, महाभारते । १ । ९५ । ४४ ।
“प्रतीपः खलु शैव्यामुपयेमे सुतन्दां नाम तस्यां
पुत्त्रानुत्पादयामास देवापिं शान्तनुं वाह्लीक-
ञ्चेति ॥”)

वि, व्य, निग्रहः । नियोगः । पदपूरणम् । निश्चयः ।

असहनम् । हेतुः । अव्याप्तिः । विनियोगः । ईष-
दर्थः । परिभवः । शुद्धम् । अवलम्बनम् । विज्ञा-
नम् । इति मेदिनी । वे, ७६ ॥ विशेषः । गतिः ।
आलम्भः । पालनम् । इति शब्दरत्नावली ॥ उप-
सर्गविशेषः । अस्यार्थाः । वि विशेषवैरूप्यनञर्थ-
गतिदानेषु । इति मुग्धबोधटीकायां दुर्गदासः ॥

विः, पुं, स्त्री, (वाति गच्छतीति । वा + “वाते-

र्डिच्च ।” उणा० ४ । १३३ । इति इण् । स च
डित् ।) पक्षी । इत्यमरः ॥ (यथा, साहित्य-
दर्पणे १० परिच्छेदे ।
“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषा-
श्रयः ।
किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो
हरिः ॥”)

विंशः, त्रि, (विंशति + पूरणे डट् । तेर्लोपः ।)

विंशतेः पूरणः । इति सिद्धान्तकौमुदी ॥ (यथा,
मनुः । ८ । ३९८ ।
“कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥”)

विंशकः, त्रि, (विंशत्या क्रीतः । विंशति + “विशति-

त्रिंशद्भ्यां ड्वुनसंज्ञायाम् ।” ५ । १ । २४ ।
इति ड्युन् । “ति विंशतेर्डिति ।” ६ । ४ ।
१४२ । इति तिलोपः ।) विंशतिक्रीतः । इति
सिद्धान्तकौमुदी ॥

विंशतिः, स्त्री, (द्वौ दश परिमाणस्य पक्तिविंश-

तीति निपातनात् सिद्धम् ।) संख्याविशेषः ।
विष इति कुडि इति च भाषा । यथा, --
“विंशत्याद्याः सदैकत्वे सर्व्वा संख्येयसंख्ययोः ।
संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥”
इत्यमरः ॥
तद्वाचकानि । रावणबाहुः १ । अङ्गुलिः २ ।
इति कविकल्पलता ॥ नखम् ३ । इति सत्कृत्य-
मुक्तावली ॥

विंशतिकः, त्रि, विंशतियोग्यः । यथा । संख्यायाः

कक् स्यादार्हीयेऽर्थे । विंशतित्रिंशद्भ्यां कन्
संज्ञायाम् । अभ्यां कन् स्यात् असंज्ञायान्तु
ड्वुन् स्यात् । विंशकः । संज्ञायान्तु विंशतिकः ।
इति सिद्धान्तकौमुदी ॥

विंशतितंमः, त्रि, (विंशतेः पूरणः । विंशति +

डट् । “विंशत्यादिभ्यस्तमडन्यतरस्याम् ।” ५ ।
२ । ५६ । इति तमडागमः ।) विंशः । इति
सिद्धान्तकौमुदी ॥

विंशी, पुं, विंशतिः । इति सिद्धान्तकौमुदी ॥

विकं, क्ली, सद्यःप्रसूताया गोः क्षीरम् । यथा, --

“क्षीरं सद्यःप्रसूतायाः पेयूषं पालनं विकम् ।”
इति शब्दचन्द्रिका ॥

विकङ्कटः, पुं, गोक्षुरः । इति शब्दमाला ॥

विकङ्कतः, पुं, वदरीसदृशसूक्ष्मफलवृक्षः । वँइच

इति भाषा । तत्पर्य्यायः । स्वादुकण्टकः २
स्रुवावृक्षः ३ ग्रन्थिलः ४ व्याघ्रपात् ५ । इत्य-
मरः ॥ श्रुग्वारुः ६ मधुपर्णी ७ । इति रत्न-
माला ॥ कण्टपादः ८ बहुफलः ९ गोपघण्टा
१० स्रुवाद्रुमः ११ मृदुफलः १२ दन्तकाष्ठः १३
यज्ञीयब्रह्मपादपः १४ पिण्डारः १५ हिमकः
१६ पूतः १७ किङ्किणी १८ वैकङ्कतः १९ वुति-
ङ्करः २० कण्टिकारी २१ । इति शब्दरत्ना-
वली ॥ किङ्किरी २२ स्रुग्दारु २३ । इति
जटाधरः ॥ अस्य गुणाः । अम्लमधुरत्वम् ।
पाकेऽतिमधुरत्वम् । लघुत्वम् । दीपनत्वम् ।
कामलास्रप्लीहनाशित्वम् । पाचनत्वञ्च । इति
राजनिर्घण्टः ॥ अपि च ।
“स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि ।
विकङ्कतफलं पक्वं मधुरं सर्व्वदोषजित् ॥”
इति भावप्रकाशः ॥

विकङ्कता, स्त्री, अतिवला । इति राजनिर्घण्टः ॥

विकचः, पुं, (विगतः कचो यस्य केशशून्यत्वात् ।

यद्वा, विशिष्टः कचो यस्य प्रभूतकेशत्वात् ।)
क्षपणः । केतुः । इति मेदिनी । चे, ॥ (यथा,
बृहत्संहितायाम् । ११ । १९ ।
“विकचा नाम गुरुसुताः
सितैकताराः शिखिपरित्यक्ताः ।
षष्टिः पञ्चभिरधिका
स्निग्धा याम्याश्रिताः पापाः ॥”)

विकचः, त्रि, (विकचति विकशतीति । वि + कच्

+ अच् ।) विकसितः । इत्यमरः ॥ (यथा,
माघे । ११ । १९ ।
“विकचकमलगन्धैरन्धयन् भृङ्गमालाः
सुरभितमकरन्दं मन्दमावाति वातः ।
प्रमदमदनमाद्यद्यौवनोद्यामरामा-
रमणरभसखेदस्वेदविच्छेददक्षः ॥” * ॥
विगतः कचो यस्य ।) केशशून्यः । इति मेदिनी ।
चे, ॥ (यथा, महाभारते । ३ । २५९ । १२ ।
“विभ्रच्चानियतं वेशमुन्मत्त इव पाण्डव ।
विकचः परुषा वाचो व्याहरन् विविधा
मुनिः ॥”)

विकचा, स्त्री, महाश्रावणिका । इति राज-

निर्घण्टः ॥

विकच्छः, त्रि, (विगतः कच्छो यस्य ।) कच्छ-

रहितः । मुक्तकच्छः । इति स्मृतिः ॥

विकटः, पुं, (विकटति पूयरक्तादिकं वर्षतीति ।

वि + कट + पदाद्यच् ।) विस्फोटकः । इति
शब्दरत्नावली ॥ साकुरुण्डवृक्षः । इति राज-
निर्घण्टः ॥ (धृतराष्ट्रस्य पुत्त्रविशेषः । यथा,
महाभारते । १ । ६७ । ९६ ।
“दुर्म्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ॥”)

विकटः, त्रि, (वि + “संप्रोदश्च कटच् ।” ५ । २ । २९ ।

इति कटच् ।) विशालः । (यथा, माघे । १० । ४२ ।
“उत्तरीयविनयात्त्रपमाणा
रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विवोढु-
र्वक्षसैव कुचमण्डलमन्या ॥”)
विकरालः । इति मेदिनी । टे, ॥ सुन्दरः । इति
विश्वः ॥ दन्तुरः । इति धरणिः ॥ (यथा, मार्क-
ण्डेये । ४३ । २० ।
“करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥”)
विकृतः । इति त्रिकाण्डशेषः ॥

विकटा, स्त्री, (विकट + टाप् ।) मायादेवी । सा

च बौद्धदेवीभेदः । तत्पर्य्यायः । मारीची २
त्रिमुखा ३ वज्रकालिका ४ वज्रवाराही ५
गौरी ६ पोत्रिरथा ७ । इति त्रिकाण्डशेषः ॥

विकण्टकः, पुं, (विशिष्टः कण्टको यस्य ।) यवासः ।

इति जटाधरः ॥ वृक्षविशेषः । तत्पर्य्यायः ।
मृदुफलः २ ग्रन्थिलः ३ स्वादुकण्टकः ४
गोकण्टकः ५ काकनासः ६ व्याघ्रपादः ७ घन-
द्रुमः ८ गर्जाफलः ९ घनफलः १० मेघस्तनितो-
द्भवः ११ मुदिरफलः १२ प्रावृष्यः १३ हास्य-
फलः १४ स्तनितफलः १५ । अस्य गुणाः ।
कषायत्वम् । कटुत्वम् । उष्णत्वम् । रुचिप्रद-
त्वम् । दीपनत्वम् । कफहारित्वम् । वस्त्ररङ्ग-
विधायकत्वञ्च । इति राजनिर्घण्टः ॥

विकत्थनं, क्ली, (विकत्थ्यते इति । वि + कत्थ श्लाघा-

याम् + भावे ल्युट् ।) मिथ्याश्लाघा । यथा, --
पृष्ठ ४/३७१
“श्लाघा प्रशंसार्थवादः सा तु मिथ्याविकत्थनम् ॥”
इति हेमचन्द्रः ॥
(यथा, भागवते । १ । १५ । १९ ।
“शय्यासनाटनविकत्थनभोजनादि-
ष्वैकाद्बयस्य ऋतवानिति विप्रलब्धः ॥”
विकत्थते आत्मानमिति । वि + कत्थ + ल्युः ।
आत्मश्लाघाकारिणि, त्रि । यथा, महाभारते ।
२ । ७३ । ३२ ।
“असूयितारं द्बेष्टारं प्रवक्तारं विकत्थनम् ।
भीमसेननियोगात्ते हन्ताहं कर्णमाहवे ॥” * ॥
स्त्री, वि + कत्थ + णिच् + युच् । टाप् । आत्म-
श्लाघा । यथा, विख्यातविजयनाटके । २ ।
“सम्भवोक्तापि शक्तानां न प्रशस्ता विकत्थना ।
शरदीयघनध्वानैर्व्वाचोभिः किं भवादृशाम् ॥”)

विकम्पितः, त्रि, विशेषेण कम्पविशिष्टः । विपूर्ब्बक-

कम्पधातोः क्तप्रत्ययेन निष्पन्नः ॥

विकरः, पुं, (विकीर्य्यते हस्तपदादिकमनेनेति ।

वि + कृ + “ऋदोरप् ।” इत्यप् ।) रोगः ।
इति शब्दचन्द्रिका ॥

विकरालः, त्रि, (विशेषेण करालः ।) भयानकः ।

इति विकटशब्दार्थे मेदिनी ॥ (यथा, मार्क-
ण्डेये । ११८ । ४८ ।
“विकरालं महावक्त्रमतिभीषणदर्शनम् ।
समुद्यतमहाशूलं प्रभूतमतिदारुणम् ॥”)

विकर्णः, पुं, दुर्य्योधनपक्षीयशूरः । यथा, --

“अश्वत्थामा विकर्णञ्च सोमदत्तिर्जयद्रथः ।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥”
इति भगवद्गीतायाम् १ अध्यायः ॥
(विगतौ कर्णौ यस्येति विग्रहे कर्णरहिते,
त्रि ॥)

विकर्णिकः, पुं, सारस्वतदेशः । इति हेमचन्द्रः ॥

विकर्त्तनः, पुं, (विशेषेण कर्त्तनं यस्य । विश्वकर्म्म-

यन्त्रखोदितत्वादस्य तथात्वम् ।) सूर्य्यः । अर्क-
वृक्षः । इत्यमरः ॥

विकर्म्मकृत्, त्रि, (विकर्म्म विरुद्धं कर्म्म करो-

तीति । कृ + क्विप् ।) निषिद्धकर्म्मकारी । यथा,
“न साक्षी नृपतिः कार्य्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्म्मकृत् ।
न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥”
इति मानवे । ८ । ६६ ॥
“विकर्म्मकृत् निषिद्धकर्म्मकारी ।” इति कुल्लूक-
भट्टः ॥

विकर्म्मस्थः, त्रि, (विकर्म्मणि विरुद्धाचारे तिष्ट-

तीति । स्था + कः ।) निषिद्धकृत् । यथा, --
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्
शठान् ।
हेतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”
इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥
(तथा मनौ । ४ । ३० ॥)

विकर्षः पुं, (विकृष्यतेऽसौ इति । यद्वा, विकृष्यन्ते

परप्राणा अनेनेति । वि + कृष् + घञ् ।)
बाणः । इति त्रिकाण्डशेषः ॥ (वि + कृष +
भावे घञ् । विकर्षणम् ॥)

विकर्षणं, क्ली, (वि + कृष + ल्युट् ।) आकर्षणम् ।

विपूर्ब्बकृषधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा,
किराते । ३ । ५७ ।
“अविलङ्घ्यविकर्षणं परैः
प्रथितज्यारवकर्म्मकार्म्मुकम् ॥”
विभागः । यथा, भागवते । ३ । ७ । ३० ।
“वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।
ऋषीणां जन्मकर्म्माणि वेदस्य च विकर्षणम् ॥”)

विकलः, त्रि, (विगतः कलो व्यक्तध्वनिर्यस्य ।)

विह्वलः । इति जटाधरः ॥ स्वभावहीनः । इति
भरतः ॥ (यथा, महाभारते । १ । ४९ । ११ ।
“विधवानाथविकलान् कृपनांश्च बभार सः ।
सुदर्शः सर्व्वभूतानामासीत् सोम इवापरः ॥”)

विकलपाणिकः, पुं, (विकलः पाणिर्यस्य । कन् ।)

स्वभावहीनपाणियुक्तः । यथा । कुणिर्विकल-
पाणिकः । इति हलायुधः ॥

विकला, स्त्री, (विगतः कलो मधुरालापो यस्याः ।

ऋतौ तु स्त्रिया मौनित्वविहितत्वात् ।) ऋतु-
हीना । इति शब्दरत्नावली ॥

विकलाङ्गः, त्रि, (विकलानि अङ्गानि यस्य ।)

स्वभावतो न्यूनाङ्गः । तत्पर्य्यायः । अपोगण्डः
२ । इत्यमरः ॥ पोगण्डः ३ अङ्गहीनकः ४ ।
इति शब्दरत्नावली ॥ (यथा, महाभारते ।
१ । ३१ । ३४ ।
“जनयामास पुत्त्रौ द्वावरुणं गरुडं तथा ।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥”)

विकली, स्त्री, (विगता कला यस्याः । गौरादि-

त्वात् ङीष् ।) ऋतुहीना । इति शब्दरत्ना-
वली ॥

विकल्पः, पुं, (विरुद्धं कल्पनमिति । वि +

कृप + घञ् ।) भ्रान्तिः । (यथा, देवीभाग-
वते । १ । १९ । ३२ ।
“विकल्पोपहतस्त्वं वै दूरदेशमुपागतः ।
न मे विकल्पसन्देहो निर्व्विकल्पोऽस्मि सर्व्वथा ॥”)
कल्पनम् । इति मेदिनी । पे, ॥ (यथा, भाग-
वते । ५ । १६ । २ ।
“तत्रापि प्रितव्रतरथचरणपरिखातैः सप्तभिः
सप्त सिन्धवः उपकॢप्ताः । यत एतस्याः सप्त-
द्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचितः ॥”
संशयः । यथा, रघुः । १७ । ४९ ।
“रात्रिन्दिवविभागेषु यथादिष्टं महीक्षिताम् ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥”
नानाविधः । यथा, मनुः । ९ । २२८ ।
“प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ।
तस्य दण्डविकल्पः स्याद्तथेष्टं नृपतेस्तथा ॥”)
विविधकल्पः । स च द्विविधः । व्यवस्थितः ।
एच्छिकश्च । सोऽप्याकाङ्क्षाविरहे युक्तः । तथा
च भविष्ये ।
“स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति ॥”
इच्छाविकल्पेऽष्टदोषाः । यथा, --
“प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना ।
प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥”
व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते । तत्र
व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः ।
अप्रतीतयवाप्रामाण्यपरिकल्पनम् । इदन्तु पूर्ब्ब-
स्मात् पृथक् वाक्यं अन्यथा समुच्चयेऽपि याग-
सिद्धिः स्यात् । अतएव विकल्पे न उभयः
शास्त्रार्थ इत्युक्तम् । प्रयोगान्तरे यवे उपा-
दीयमाने परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृत-
यवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं
व्रीहावपि चत्वारः । इत्यष्टौ दोषा इच्छा-
विकल्पे । तथा चोक्तम् ।
“एवमेवाष्टदोषोऽपि यद्व्रीहियववाक्ययोः ।
विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥”
इति ॥
एकार्थतया विविधं कल्प्यते इति विकल्पः ।
तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र
न इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः ।
इत्येकादशीतत्त्वम् ॥ (अवान्तरः कल्पः । यथा,
भागवते । २ । ८ । ११ ।
“यावान् कल्पो विकल्पो वा यथा कालोऽनु-
मीयते ॥”
देवता । यथा, भागवते । १० । ८५ । ११ ।
“वैकारिको विकल्पानां प्रधानमनुशायि-
नाम् ॥”
“विविधं आधिदैवाध्यात्माधिभूतभेदेन कल्प्यन्ते
इति विकल्पा देवास्तेषां कारणं वैकारिकः
सात्त्विकोऽहङ्कारश्च त्वम् ॥” इति तट्टीकायां
स्वामी ॥)

विकश्वरः, त्रि, (वि + कश + वरच् ।) विकासी ।

इत्यमरटीकायां भरतः ॥ (यथा, नैषधे । २ । ५ ।
“अयमेत्य तडागनीडजै-
र्लघुपर्य्यव्रियताथ शङ्कितैः ।
उदडीयत वैकृतात् कर-
ग्रहजादस्य विकश्वरस्वरैः ॥”)

विकषा, स्त्री, (विकषतीति । वि + कष गतौ +

अच् । टाप् ।) मञ्जिष्ठा । इत्यमरटीकायां
रायमुकुटः ॥ मांसरोहिणी । इति राज-
निर्घण्टः ॥

वकस्वरः, त्रि, (वि + कष + वरच् ।) विकस्वरः ।

इत्यमरटीकायां भरतः ॥

विकसः, पुं, (विकसतीति । वि + कस + अच् ।)

चन्द्रः । इति त्रिकाण्डशेषः ॥

विकसा, स्त्री, (विकसतीति । वि + कस + अच् ।

टाप् ।) मञ्जिष्ठा । इत्यमरः ॥

विकसितं, त्रि, (वि + कस + क्तः ।) दलानामन्यो-

न्यविश्लेषः । तत्पर्य्यायः । उज्जृम्भितम् २ उज्जृ-
म्भम् ३ स्मितम् ४ उन्मिषितम् ५ विनिद्रम् ६
उन्निद्रम् ७ उन्मीलितम् ८ विजृम्भितम् ९
उद्बुद्धम् १० उद्भिदुरम् ११ भिन्नम् १२ उद्-
भिन्नम् १३ हसितम् १४ विकस्वरम् १५ विक-
चम् १६ व्याकोषम् १७ फुल्लम् १८ संफुल्लम् १९
पृष्ठ ४/३७२
स्फुटम् २० उदितम् २१ दलितम् २२ दीर्णम्
२३ स्फुटितम् २४ उत्फुल्लम् २५ प्रफुल्लम् २६ ।
इति राजनिर्घण्टः ॥ (यथा, आर्य्यासप्तश-
त्याम् । ४७६ ।
“यदवधिविवृद्धमात्रा विकसितकुसुमोत्करा
शणश्रेणी ।
पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्त्री ॥”)

विकस्वरः, त्रि, (विकसतीति । वि + कस गतौ +

“स्थेशभासपिसकसो वरच् ।” ३ । २ । १७५ ।
इति वरच् ।) विकासशीलः । तत्पर्य्यायः ।
विकासी २ । इत्यमरः ॥ “विकसति कस ज गतौ
दन्त्यान्तः यायाय भासकसेति वरे विकस्वरः ।
विकासः स्फुटने व्यक्ताविति दन्त्यान्ते धरणिः ।
‘कुशेशयैरत्र जलाशयोषिता
मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषिता
मुदा रमन्ते कलभा विकस्वरैः ॥’
इति माघयमकेऽपि दन्त्यवत्त्वम् । (४ । ३३) कष
वधे मूर्द्धन्यान्त इत्यस्य रूपमिति केचित् । कश
शब्दे इत्यस्य तालव्यान्तस्य रूपमिति केचित् ।”
इति तट्टीकायां भरतः ॥ (यथा, कथासरित्-
सागरे । ४ । १५ ।
“एकस्याः सोत्सुका दृष्टिर्नृपालोकविकस्वरा ।
श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ॥”)

विकस्वरा, स्त्री, (विकस्वर + टाप् ।) रक्तपुन-

र्नवा । इति राजनिर्घण्टः ॥ (विवरणमस्या
रक्तपुनर्नवाशब्दे ज्ञातव्यम् ॥)

विकारः, पुं, (वि + कृ + घञ् ।) प्रकृतेरन्यथाभावः ।

तत्पर्य्यायः । परिणामः २ विकृतिः ३ विक्रिया
४ । इत्यमरः ॥ विकृत्या ५ । इति भरतः ॥
केचित्तु पूर्ब्बद्वयं प्रकृतिध्वंसजन्यविकारे यथा
काष्ठस्य विकारो भस्म । मृत्पिण्डस्य घट इति ।
परद्वयं विकारमात्रे यथा मुखस्य विकृतिः
क्रोधरक्तता । काष्ठस्य भस्म च । इति भरतः ॥
(यथा, कुमारे । ७ । ९५ ।
“अपि शयनसखिभ्यो दत्तवाचं कथञ्चित्
प्रमथमुखविकारैर्हासयामास गूढम् ॥”
प्रकृतिविकृतिः । यथा, हरिवंशे । २४९ । ३५ ।
“शब्दः स्पर्शश्च रूपञ्च रसो गन्धस्तथैव च ।
प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ॥”
अस्य विशेषविबरणं विकृतिशब्दे द्रष्टव्यम् ॥)
रोगः । इति मेदिनी । रे, २१८ ॥ (यथा, --
“विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते ।
सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥”
इति चरके सूत्रस्थाने नवमेऽध्याये ॥
मत्स्यः । तत्पर्य्यायो यथा, --
“मत्स्यो मीनो विकारश्च झषो वैशारिणो-
ऽण्डजः ।
शकुलो पृथुरोमा च स सुदर्शन इत्यपि ॥
रोहिताद्यास्तु ये जीवास्ते मत्स्याः परि-
कीर्त्तिताः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

विकालः, पुं, (विरुद्धः कार्य्यानर्हः कालः ।)

दैवपैत्रादिकर्म्मणि विरुद्धकालः । वैकाल इति
भाषा । तत्पर्य्यायः । सायः २ दिनान्तः ३
सायाह्नः ४ सायम् ५ । इति शब्दरत्नावली ॥
उत्सवः ६ विकालकः ७ । इति त्रिकाण्डशेषः ॥
(यथा, मार्कण्डेये । ३५ । ३० ।
“न लङ्घयेत् तथैवासृक् ष्ठीवनोद्वर्त्तनानि च ।
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥”)

विकालकः, पुं, (विकाल एव । स्वार्थे कन् ।)

विकालः । इति त्रिकाण्डशेषः ॥

विकालिका, स्त्री, (विज्ञातः कालो यया । कन् ।

टापि अत इत्वम् ।) मानरन्ध्रा । ताम्री ।
इति त्रिकाण्डशेषः ॥ ताँवी इति भाषा ॥

विकाशः, पुं, (वि + काशृ दीप्तौ + घञ् ।) रहः ।

प्रकाशः । इत्यमरटीकायां भरतः ॥ विकाशो
विजने स्फुटे । इत्यजयः ॥ (यथा, राजतर-
ङ्गिण्याम् । ४ । १५५८ ।
“विकाशः केषाञ्चित् नयनविषमैर्व्विद्युदुदयैः
परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः ।
नचेष्टा काप्यन्योपकृतिपरिहीना जलमुचो
जडा वर्षादन्यं गणयति गुणं नास्य तु जनः ॥”)

विकाशनं, क्ली, (वि + काश + ल्युट् ।) विकाशः ।

विपूर्ब्ब-काशृ ङ दीप्तौ इत्यस्मात् अनट्प्रत्ययेन
निष्पन्नम् ॥

विकाशी, [न्] त्रि, (विकाशोऽस्यास्तीति ।

विकाश + इनिः ।) विकाशशीलः । इत्यमर-
टीकायां रायमुकुटः ॥ (यथा, मार्कण्डेये ।
“कात्यायनीं तुष्टवुरिष्टलम्भात्
विकाशिवक्त्रास्तु विकाशिताशाः ॥”)

विकाषी, [न्] त्रि, (विकाष + इनिः ।) विकाश-

शीलः । इत्यमरटीकायां भरतः ॥

विकासी, [न्] त्रि, (विकास + इनिः । विकासते

इति । वि + कास + णिनिर्वा ।) विकस्वरः ।
इत्यमरः ॥

विकिरः, पुं, (विकिरति मृत्तिकादीन् भोजनार्थ-

मिति । वि + कॄश विक्षेपे + इगुपधेति कः ।)
पक्षी । इत्यमरः ॥ (अस्य पर्य्यायो यथा, --
“पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः ।
शकुनिर्विः पतत्त्री च विष्किरो विकिरो-
ऽण्डजः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
कूपः । इति त्रिकाण्डशेषः ॥ (विकीर्य्यते इति ।
वि + कॄ + घञर्थे कः ।) पूजाकालीनविघ्नोत्-
सारणार्थक्षेपणीयतण्डुलादिः । यथा । फडिति
सप्त जप्तान् विकिरानादाय ।
“अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥”
इति विकिरेत् ॥
यथा, --
“लाजचन्दनसिद्धार्थभस्मदूर्व्वाकूशाक्षताः ।
विकिरा इति सन्दिष्टाः सर्व्वविघ्नौघनाशकाः ॥”
इति तन्त्रसारः ॥
अग्निदग्धादीनां पिण्डम् । यथा, मनुः । ३ । २४५ ।
“असंस्कृतप्रमीतानां योगिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥”
अपि च ।
“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते ।
स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥”
इति श्राद्धतत्त्वम् ॥
(यथा च मार्कण्डेये । ३१ । १२ ।
“ये वा दग्धाः कुले बालाः क्रियायोग्या
ह्यसंस्कृताः ।
विपन्नास्तेऽन्नविकिरसम्मार्ज्जनजलाशिनः ॥” * ॥
जलविशेषे, क्ली । तथा च चिन्तामणिधृतवच-
नम् ।
“नद्यादिनिकटे भूमिर्या भवेद्बालुकामयी ।
उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ॥
विकिरं शीतलं स्वच्छं निर्द्दोषं लघु च स्मृतम् ।
तुवरं स्वादु पित्तघ्नं मनाक् कफकरं स्मृतम् ॥”)

विकिरणं, क्ली, (वि + कॄ + ल्युट् । इत्वं रपर-

त्वम् ।) विक्षेपणम् । विहिंसनम् । विज्ञानम् ।
इति कॄधात्वर्थदर्शनात् ॥ (अर्कवृक्षे, पुं ।
इत्यमरः । २ । ४ । ८० ॥)

विकीरणः, पुं, अर्कवृक्षः । इत्यमरः । २ । ४ । ८० ॥

(तथास्य पर्य्यायः ।
“अलर्को गुणरूपः स्यान्मन्दारो वसुकोऽपि च ।
श्वेतपुष्यः सदापुष्पः सवालार्कः प्रतीयसः ॥
रक्तोपरोऽर्कनामा स्यादर्कपर्णो विकीरणः ।
रक्तपुष्पः शुक्लफलस्तथास्फोटः प्रकीर्त्तितः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

विकीर्णः, त्रि, (विकीर्य्यते स्मेति । वि + कॄ + क्तः ।)

विक्षिप्तः । छडान इति भाषा ॥ यथा, --
“अथ सा पुनरेव विह्वला
वसुधालिङ्गनधूसरस्तनी ।
विललाप विकीर्णमूर्द्धजा
समदुःखामिव कुर्व्वती स्थलीम् ॥”
इति कुमारसम्भवे ४ सर्गः ॥

विकीर्णरोम, [न्] क्ली, (विकीर्णानि रोमाण्यस्मि-

न्निति ।) स्थौणेयम् । इति राजनिर्घण्टः ॥

विकीर्णसंज्ञं, क्ली, (विकीर्णमिति संज्ञा यस्य ।)

स्थौणेयम् । इति राजनिर्घण्टः ॥

विकुक्षिः, पुं, इक्ष्वाकुराजपुत्त्रः । यथा, --

“वैवस्वतमनोरासीदिक्ष्वाकुः पृथिवीपतिः ।
तस्य पुत्त्रशतञ्चासीद्बिकुक्षिर्ज्येष्ठ उच्यते ।
सोऽयोध्याधिपतिर्वीरस्तस्य पञ्चदश स्मृताः ॥”
इति बह्निपुराणे सागरोपाख्याननामाध्यायः ॥

विकुर्व्वाणः, त्रि, (विकुरुते इति । वि + कृ +

शानच् ।) हर्षमाणः । इत्यमरः ॥ (विकृति
प्राप्ते च ॥ यथा, सांख्यदर्शने । १ । ६२ ।
“आकाशस्तु विकुर्व्वाणः स्पर्शमात्रं ससर्ज्ज ह ।
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ॥”)

विकुस्रः, पुं, (विकसतीति । वि + कस + “वौ

कसेः ।” उणा० २ । १५ । इति रक् । उत्वञ्चो
पधायाः ।) चन्द्रः । इत्युणादिकोषः ॥
पृष्ठ ४/३७३

विकूणिका, स्त्री नासिका । इति हेमचन्द्रः ॥

विकृतं, त्रि, (वि + कृ + क्तः ।) वीभत्सम् । रोगि-

तम् । असंस्कृतम् । इति मेदिनी । ते, १५८ ॥
(अङ्गविहीनम् । यथा, मनुः । ९ । २४७ ।
“बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥”
अप्रकृतिस्थः । यथा, महाभारते । ३ । १११ । १८ ।
“अथर्य्यशृङ्गं विकृतं समीक्ष्य
पुनः पुनः पीड्य च कायमस्य ।
अवेक्ष्यमाणा शनकैर्जगाम
कृत्वाग्निहोत्रस्य तदापदेशम् ॥” * ॥
मायावी । यथा, रघुः । १२ । ३९ ।
“लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चात् बुबुधे विकृतेति ताम् ॥”)

विकृतं, क्ली, विकारः । तस्य लक्षणम् । यथा, --

“ह्रीमानेर्षादिभिर्यत्र नोच्यते स्वं विवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः ॥”
इत्युज्ज्वलनीलमणिः ॥
प्रभवादिषष्टिसंवत्सरान्तर्गतचतुर्व्विंशवर्षम् ।
यथा, भविष्यपुराणे ।
भैरव उवाच ।
“सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च
जायते ।
शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः ॥”
इति ज्योतिस्तत्त्वम् ॥
(नायिकालङ्कारविशेषः । यथा, साहित्य-
दर्पणे । ३ । १४६ ।
“वक्तव्यकालेऽप्यवचो व्रीडया विकृतं मतम् ॥”)

विकृतिः, स्त्री, (वि + कृ + क्तिन् ।) विकारः ।

इत्यमरः ॥ (यथा, कुमारे । ७ । ३४ ।
“यथाप्रदेशं भुजगेश्वराणां
करिष्यतामाभरणान्तरत्वम् ।
शरीरमात्रं विकृतिं प्रपेदे
तथैव तस्थुः फणरत्नशोभाः ॥”)
रोगः । डिम्बः । मद्यादिः । इति हेमचन्द्रः ॥
(सांख्योक्तविकृतिः । यथा, सांख्यकारिका-
याम् । ३ ।
“मूलप्रकृतिरविकृति-
र्म्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो
न प्रकृतिर्न विकृतिः पुरुषः ॥”
संक्षेपतः शास्त्रस्य चतस्रो विधाः । कश्चिदर्थः
प्रकृतिरेव कश्चिदर्थो विकृतिरेव कश्चित् प्रकृति-
विकृतिरेव कश्चिदनुभयरूपः । तत्र का प्रकृति-
रेवेत्यत उक्तं मूलप्रकृतिरविकृतिरिति । प्रक-
रोतीति प्रकृतिः प्रधानं सत्वरजस्तमसां साम्या-
वस्था सा प्रकृतिः प्रकृतिरेव इत्यर्थः । कस्मादि-
त्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति
मूलप्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं
न त्वस्या मूलान्तरमस्तीति भावः । कतमाः पुनः
प्रकृतिविकृतयः कियत्यश्च इत्यत उक्तं मह-
दाद्याः प्रकृतिविकृतयः सप्तेति । प्रकृतयश्च ता
विकृतयश्च ता इति । तथाहि महत्त्वत्त्वमह-
ङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । एव-
महङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृति-
र्व्विकृतिश्च महतः । एवं पञ्चतन्मात्राणि
भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाह-
ङ्कारस्य । अथ का विकृतिरेव कियती च इत्यत
उक्तं षोडशकस्तु विकार इति षोडशसंख्या-
परिमितो गणः षोडशकः । तु शब्दोऽवधारणे
भिन्नक्रमश्च । पञ्चमहाभूतान्येकादशेन्द्रियाणि
चेति षोडशको गणो विकार एव न प्रकृति-
रिति । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो
विकाराः एवं तद्विकारभेदानां दध्यङ्कुरादय-
स्तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्य
स्तत्त्वान्तरम् । तत्त्वान्तरोपादानत्वञ्च प्रकृतित्व-
मिहाभिप्रेतमिति न दोषः सर्व्वेषां गोघटा-
दीनां स्थूलता इन्द्रियग्राह्यता च समेति न
तत्त्वान्तरम् । अनुभयरूपमुक्तं तदाह न प्रकृति-
र्न विकृतिः पुरुष इति तत्त्वकौमुदी ॥ ३ ॥)

विकृष्टः, त्रि, विशेषेण कृष्टः । आकृष्टः । विपूर्ब्ब-

कृषधातोः क्तप्रत्ययेन निष्पन्नः ॥

विकृष्टकालः, पुं, (विकृष्टः कालः ।) चिरकालः ।

यथा, --
“विकृष्टकालैर्या वेगैर्म्मन्दैः समभिवर्त्तते ।
क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधावति ॥”
विकृष्टकालैः चिरेण । जत्रु कक्षोरसोः सन्धिः ।
इति भावप्रकाशः ॥

विकेशी, स्त्री, (विगतः केशो यस्याः । ङीष् ।)

केशवर्ज्जिता । पटवर्त्तिः । इति धरणिः ॥
महीरूपशिवस्य पत्नी । यथा, --
“सूर्य्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥
सुवर्च्चला तथैवोषा विकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथा-
क्रमम् ।
सूर्य्यादीनामिमाः पत्न्यो रुद्राद्यैर्नामभिः सह ॥”
इति मार्कण्डेयपुराणे रुद्रसर्गः ॥

विकोकः, पुं, वृकासुरपुत्त्रः । स च कल्किदेवेन

हतः । यथा, --
“कल्किः कोकविकोकाभ्यां गदापाणिर्युधां
पतिः ।
युयुधे विशने विष्णुर्लोकानां जनयन् भयम् ॥
वृकासुरस्य पुत्त्रौ तौ नप्तारौ शकुनेर्हरिः ।
तयोः कल्किः संयुयुधे मधुकैटभयोर्यथा ॥
तयोर्गदाप्रहारेण चूर्णिताङ्गस्य भूपतेः ।
कराच्च्युतोऽपतद्भूमौ दृष्ट्वोचुरित्यहो जनाः ॥
ततः पुनः क्रुधा विष्णुर्ज्जगज्जिष्णुर्म्महाभुजः ।
नन्दकेन शिरस्तस्य विकोकस्याच्छिनत् प्रभुः ॥”
इति कल्किपुराणे २१ अध्यायः ॥

विकोषः, त्रि, (विगतः कोषो यस्य ।) कोष-

रहितः । निष्कोषः । इति पुराणम् ॥ (यथा,
महाभारते । ३ । ६२ । १८ ।
“परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोषं खड्गमुत्तमम् ॥”
आच्छादनरहितः । यथा, मनोः । ११ । ४९ ।
श्लोकटीकायां कुल्लूकः ।
“गुरुभार्य्यागामी विकोषमेहनत्वमिति ॥”)

विक्कः, पुं, (विक् इति कायति शब्दायते इति ।

कै + कः ।) करिशावकः । इति त्रिकाण्डशेषः ॥

विक्रमः, पुं, (विशेषेण क्रामतीति । वि + क्रम +

अच् ।) विष्णुः । यथा, विष्णुसहस्रनामस्तोत्रे ।
“ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ॥”
(वि + क्रम + घञ् ।) शौर्य्यातिशयः । तत्-
पर्य्यायः । अतिशक्तिता २ । इत्यमरभरतौ ॥
(यथा, रघुः । १२ । ८७ ।
“अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥”)
क्रान्तिमात्रम् । इति मेदिनी । मे, ५४ ॥ (पाद-
विक्षेपः । यथा, रामायणे । १ । १ । १० ।
“आजानुबाहुः सुशिराः सुललाटः सुवि-
क्रमः ॥”)
विक्रमादित्यराजा । यथा, --
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥”
इति नवरत्नश्लोकः ॥
चरणः । शक्तिः । इति राजनिर्घण्टः ॥
(स्थितिः । यथा, भागवते । २ । ८ । २० ।
“संप्लवः सर्व्वभूतानां विक्रमः प्रतिसंक्रमः ।
इष्टापूर्त्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥”
“विक्रमः स्थितिः प्रतिसंक्रमो महाप्रलयः ।”
इति तट्टीकायां श्रीधरस्वामी ॥ * ॥) प्रभवादि-
षष्टिसंवत्सरान्तर्गतचतुर्द्दशंवर्षम् । यथा
“जायन्ते सर्व्वशस्यानि मेदिनी निरुपद्रवा ।
लवणं मधु गव्यञ्च महार्घ्यं विक्रमे प्रिये ॥”
इति ज्योतिस्तत्त्वम् ॥
(स्वनामख्यातकविविशेषः । स च नेमिदूताख्य-
खण्डकाव्यं विरचितवान् । तथा च नेमिदूते
उक्तम् ।
“तद्दःखाथ प्रचरकवितुः कालिदांसस्य काव्या-
दन्त्यं पादं सुपदरचितान् मेघदूताद्गृहीत्वा ।
श्रीमन्नमेश्चरितविशदं साङ्गणस्याङ्गजन्मा
चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥”
वत्सप्रीपुत्त्रः । यथा, मार्कण्डेये । ११७ । १ ।
“तस्य तस्यां सुनन्दायां पुत्त्रा द्बादश जज्ञिरे ।
प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः ॥”)

विक्रमादित्यः, पुं, (विक्रमेणादित्य इव ।) स्वनाम-

ख्यातो राजा । स च उज्जयनीदेशाधिपतिः
संवत्कर्त्ता च । तत्पर्य्यायः । साहसाङ्कः २
शकारिः ३ । इति जटाधरः ॥ अस्य विवरणं
द्वात्रिंशत्पुत्तलिकाकथायां तथा विक्रमार्कशब्दे
च द्रष्टव्यम् ॥ (मोदकविशेषः । यदुक्तं चिन्ता-
मणौ । यथा, --
“घृते गुन्दपलं विंशत् पचेत् सम्यग्भिषग्वरः ।
उत्तार्य्य च क्षिपेदेषां खण्डश्च पलविंशतिः ॥
पृष्ठ ४/३७४
तालमूली तुरङ्गी च शुण्ठी चेति पलार्द्धकम् ।
जातीफलञ्च कक्कोलं लवङ्गञ्चेति कार्षिकम् ॥
मालतीञ्च कुलिञ्जञ्च कबावं करभं त्वचम् ।
एतेषां कोलमात्राञ्च आयसस्य पलद्वयम् ॥
पलैकं मोदकं कृत्वा एकैकं भक्षयेद् दिने ।
धातुक्षीणोऽग्निक्षीणश्च बलानलकरं परम् ॥
नेत्ररोगेषु सर्व्वेषु कासश्वासे च कामले ।
प्रमेहान् विंशतिं हन्याद्विक्रमादित्यमोदकः ॥”)

विक्रमार्कः, पुं, (विक्रमेण अर्क इव ।) विक्रमा-

दित्यः । इति केचित् ॥ (अथ विक्रमार्कवर्णनं
सन्दधाति ज्योतिर्व्विदाभरणसमाप्तौ श्रीकालि-
दासः ।
“वर्षे श्रुतिस्मृतिविचारविवेकरम्ये
श्रीभारते खधृतिसम्मित-१८० देशपीठे ।
मत्तोऽधुनाकृतिरियं सति मालवेन्द्रे
श्रीविक्रमार्कनृपराजवरे समासीत् ॥”
प्रथमं नृपसभायां पण्डितवर्गं वर्णयति ।
“शङ्कुः सुवाग् वररुचिर्म्मणिरंशुदत्तो
जिष्णुस्त्रिलोचनहरी घटकर्पराख्यः ।
अन्येऽपि सन्ति कवयोऽमरसिंहपूर्ब्बा
यस्यैव विक्रमनृपस्य सभासदोऽमी ॥
सत्यो वराहमिहिरः श्रुतसेननामा
श्रीवादरायणमणित्थकुमारसिंहाः ।
श्रीविक्रमार्कनृपसंसदि सन्ति चैते
श्रीकालतन्त्रकवयस्त्वपरे मदाद्याः ॥
धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटखर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥”
अथ परिजनान् वर्णयति ।
“अष्टौ यस्य शतानि मण्डलधराधीशाः सभायां
सदा
स्युः संसत्परिणाहकोटिसुभटाः सत्पण्डिताः
षोडश ।
दैवज्ञा दश षण्मिताश्च भिषजो भट्टास्तथा
ढड्डिनो
वेदज्ञा रसचन्द्रमा १६ विजयते श्रीविक्रमः
सोऽधिभूः ॥”
अथास्य सैन्यं वर्णयति ।
“यस्याष्टादशयोजनानि कटके पादातिकोटि-
त्रयम् ३०००००००
वाहानामयुतायुतञ्च १०००००००० नवतेस्त्रिघ्ना-
कृति-२४३०० र्हस्तिनाम् ।
नौकालक्षचतुष्टयं ४००००० विजयिनो यस्य
प्रयाणे भवेत्
सोऽयं विक्रमभूपतिर्व्विजयते नान्यो धरित्त्री-
तले ॥”
अथास्य शाकप्रवृत्तिं दर्शयति ।
“येनास्मिन् वसुधातले शकगणान् सर्व्वा
दिशः सङ्गरे
हत्वा पञ्चनवप्रमान् ५५५५५५५५५ कलियुगे
शाकपवृत्तिः कृता ।
श्रीमद्बिक्रमभूभुजा प्रतिदिन मुक्तामणिस्वर्णगो
सप्तीभाद्यपवर्ज्जनेन विहितो धर्म्मः सुवर्णा-
ननः ॥”
अथास्य दिग्विजयमाह ।
“उद्दामद्रविडद्रुमैकपरशुर्लाटाटवीपावको
वल्गद्बङ्गभुजङ्गराजगरुडो गौडाब्धिकुम्भोद्भवः ।
गर्ज्जद्गुर्ज्जरराजसिन्धुरहरिर्धारान्धकारार्य्यमा
काम्बोजाम्बुजचन्द्रमा विजयते श्रीविक्रमार्को
नृपः ॥”
अथास्य प्रभुत्वादिगुणान् वर्णयति ।
“येनाप्युग्रमहीधराग्रविषये दुर्ग्गाण्यसह्यान्यहो
नीत्त्वा यानि नतीकृतास्तदधिपा दत्तानि तेषां
पुनः ।
इन्द्राम्भोध्यमरद्रुमस्मरसुरक्ष्माभृङ्गुणेनाञ्जसा
श्रीमद्विक्रमभूभृताखिलजनाम्भोजेन्दुना
मण्डले ॥”
अस्य पुरीं वर्णयति ।
“यद्राजधान्युज्जयिनी महापुरी
सदा महाकालमहेशयोगिनी ।
समाश्रितप्राण्यपवर्गदायिनी
श्रीविक्रमार्कोऽवनिपो जयत्यपि ॥
यो रूमदेशाधिपतिं शकेश्वरं
जित्वा गृहीत्वोज्जयिनीं महाहवे ।
आनीय सम्भ्राम्य सुमोच तन्त्वहो
श्रीविक्रमार्कः समसह्यविक्रमः ॥
तस्मिन् सदा विक्रममेदिनीशे
विराजमाने समवन्तिकायाम् ।
सर्व्वप्रजामण्डलसौख्यसम्प-
द्बभूव सर्व्वत्र च वेदकर्म्म ॥
शङ्क्वादिपण्डितवराः कवयस्त्वनेके
ज्योतिर्व्विदः समभवंश्च वराहपूर्ब्बाः ।
श्रीविक्रमार्कनृपसंसदि मान्यबुद्धि-
स्तैरप्यहं नृपसखा किल कालिदासः ॥”
इति ज्वोतिर्व्विदाभरणम् ॥)

विक्रमी, [न्] पुं, (विक्रमोऽस्त्यस्येति । विक्रम +

इनिः ।) सिंहः । इति राजनिर्घण्टः ॥ विष्णुः ।
यथा, --
“ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।”
इति महाभारते अनुशासनपर्व्वणि तस्य सहस्र-
नामस्तोत्रे १४९ अध्याये २२ श्लोकः ॥ अति-
शक्तिविशिष्टे, त्रि ॥ (यथा, महाभारते ।
१ । १२८ । २८ ।
“प्राणवान् विक्रमी चैव शौर्य्येण महता-
न्वितः ।
स्पर्द्धते चापि सहितानस्मानेको वृकोदरः ॥”)

विक्रयः, पुं, (विक्रयणमिति । वि + क्री + “एरच् ।”

३ । ३ । ५६ । इति अच् ।) विक्रयणक्रिया । वेचा
इति भाषा ॥ तत्पर्य्यायः । विपणः २ । इत्य-
मरः ॥ विपणनम् ३ पणनम् ४ । इति शब्द-
रत्नावली ॥ व्यवहारः ५ पणाया ६ । इति
जटाधरः ॥ अस्य विहिताविहितनक्षत्राणि
यथा, --
“यमाहिशक्राग्निहुताशपूर्ब्बा
नेष्टाः क्रये विक्रयणे प्रशस्ताः ।
पौष्णाग्निचित्राशतबिन्दुवाताः
क्रये हिता विक्रयणे निषिद्धाः ॥”
इति ज्योतिःसारसंग्रहः ॥ * ॥
क्रयविक्रयनिर्णयो यथा । मूल्यं दास्यामीति
कृत्वा ग्रहणादपि क्रयसिद्धिः । तथा च विवाद-
चिन्तामणौ कात्यायनः ।
“पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत् ।
ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात् ॥”
अतएव बृहस्पतिः ।
“गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥”
क्रयविक्रये समयविशेषाभ्यन्तरे पश्चात्तापाद-
सिद्धिः । यथा मनुः ।
“क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो
भवेत् ।
सोऽन्तर्द्दशाहे तद्दव्यं दद्याच्चैवाददीत वा ॥”
एतद्याज्ञवल्क्योक्तेतरपरम् । यथा याज्ञ-
वल्क्यः ।
“दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकम् ।
बीजायोबाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥”
अत्र बृहस्पतिः ।
“अतोऽर्व्वाक् पण्यदोषस्तु यदि संजायते
क्वचित् ।
विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्यमवाप्नुयात् ॥”
अतस्तद्द्रव्यपरीक्षणकालात् । कात्यायनः ।
“अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रीतं तत् स्वामिने देयं पण्यं कालेऽन्यथा न
तु ॥”
काले प्रागुक्तपरीक्षाकालाभ्यन्तरे । परीक्षिते
तु बृहस्पतिः ।
“परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत् ।
परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥”
अत्र विशेषयति नारदः ।
“क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम् ॥
द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमाहरेत् ।
द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥”
आहरेत् दद्यात् विक्रेत्रे इति शेषः । द्विगुणं
त्रिंशांशस्य । याज्ञवल्क्यः ।
“राजदैवोपघातेन पण्ये दोष उपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥”
नारदः ।
“उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥
दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी ।
स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अपि च ।
“न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति च ।
विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥”
पृष्ठ ४/३७५
न्यासं कृत्वा आधिं करोति आधिं कृत्वा
वा विक्रयं करोति । विक्रयपदं स्वत्वध्वंसकत्वात्
दानं लक्षयति परा क्रिया सिद्धेत्यर्थः । एवञ्च
विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रय-
दाने तत्कर्त्तृतुल्यस्वत्वजननात तत्र तत्क्रेतृ-
प्रतिग्रहीतृभ्यामाध्युद्धारः कार्य्यः । इति ।
तत्र च ।
“न च स्थावरस्य समस्तस्य गोत्रसाधारणस्य च ।
नैकः कुर्य्यात् क्रयं दानं परस्परमतं विना ॥
विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः ।
एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये ॥”
इति व्यासवचनाभ्यामेकस्य दानबन्धकविक्रया-
धिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्य
स्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वच-
नञ्च स्वामित्वेन दुर्व्वृत्तपुरुषगोचरविक्रयादिना
कुटुम्बविरोधादधर्म्मज्ञापनार्थनिषेधरूपं न तु
विक्रयाद्यनिष्पत्यर्थमिति दायभागः ॥ * ॥
एवञ्च ।
“स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया ॥”
इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं
भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसा-
दर्शनाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं
दत्त्वा दानरूपेण स्थावरविक्रय इति विज्ञाने-
श्वरः ॥ वस्तुतस्तु स्थावरविक्रयनिषेधो अवि-
भक्तस्थावरविषयः । तत्रापि यदि विक्रयं विना
अवस्थितिर्न भवति तदा विक्रयः कर्त्तव्यः ।
पूर्ब्बपुरुषार्ज्जितनष्टोद्धारे विशेषयति मिता-
क्षरायाम् ।
“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् ।
असम्भूय सुतान् सर्व्वान् न दानं न च विक्रयः ॥”
इत्यादि ॥
अस्यापवादमाह ।
“एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्म्मार्थे च विशेषतः ॥”
इति दायतत्त्वम् ॥
द्रव्यविशेषविक्रयनिषेधो यथा । स्मृतिः ।
“विक्रीणन् मद्यमांसानि ह्यभक्षस्य च भक्षणम् ।
कुर्व्वन्नगम्यागमनं शूद्रः पतति तत्क्षणात् ॥
कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥”
कालिकापुराणम् ।
“विक्रयं सर्व्ववस्तूनां कुर्व्वन् शूद्रो न दोषभाक् ।
मधु चर्म्म सुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम् ॥”
मनुः ।
“सद्यः पतति लौहेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ॥
अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च ।
यद्यवश्यन्तु विक्रेयास्तिला धान्येन तत्समाः ॥”
इत्याह्निकतत्त्वम् ॥
“गवां विक्रयकारी च गवि लोमानि यानि च ।
तावद्वर्षसहस्राणि गवां गोष्ठे क्रिमिर्भवेत् ॥”
इति यमवचनम् ॥
“गोवधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः ।
तडागारामदाराणामपत्यस्य च विक्रयः ।
भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः ॥”
इत्यादि मानवे ११ अध्याये उपपातकमध्ये
गणितम् ॥

विक्रयणं, क्ली, (वि + क्री + ल्युट् ।) विक्रयः । यथा,

“यमाहिशक्राग्निहुताशपूर्ब्बा
नेष्टाः क्रये विक्रयणे प्रशस्ताः ।
पौष्णाग्निचित्राशतविन्दुवाताः
क्रये हिता विक्रयणे निषिद्धाः ॥”
इति ज्योतिःसारसंग्रहः ॥

विक्रयिकः, पुं, (विक्रयेण जीवतीति । विक्रय +

“वस्नक्रयविक्रयात् ठन् ।” ४ । ४ । १३ । इति
ठन् । यद्वा, विक्रीणातीति । वि + क्री + “क्रिय
इकन् ।” उणा० २ । ४४ । इति इकन् ।)
विक्रेता । इत्यमरः ॥ (यथा, महाभारते ।
१२ । ३६ । ३० ।
“दीक्षितस्य कदर्य्यस्य क्रतुविक्रयिकस्य च ।
तक्ष्णश्चर्म्मावकर्त्तुश्च पुंश्चल्या रजकस्य च ।
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ॥”)

विक्रयी, [न्] त्रि, (विक्रीणातीति । वि + क्री +

णिनिः ।) विक्रयकर्त्ता । इति शब्दरत्नावली ॥
(यथा, याज्ञवल्क्ये । २ । १७३ ।
“क्रेता मूल्यमवाप्नोति तस्मात् यस्तस्य
विक्रयी ॥”)

विक्रान्तं, क्ली, (वि + क्रम + क्तः ।) वैक्रान्त-

मणिः । इति राजनिर्घण्टः ॥ (त्रिविक्रमाव-
तारस्य विष्णोर्द्वितीयपादक्षेपेण अन्तरिक्षं
विक्रान्तमिति ख्यातम् । तथा च वाजसनेय-
संहितायाम् । १० । १९ ।
“विष्णोर्विक्रमणमसि । विष्णोर्विक्रान्तमसि ।
विष्णोः क्रान्तमसि ।”
“हे द्वितीयप्रक्रम त्वं विष्णोर्विक्रान्तं द्वितीय-
पादप्रक्षेपेण जितमन्तरिक्षमसि ।” “इमे वै
लोका विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः
क्रान्तमिति श्रुतेः ।” इति तद्भाष्ये महीधरः ॥)

विक्रान्तः, पुं, (वि + क्रम + क्तः ।) शूरः । इत्य-

मरः ॥ (वाच्यलिङ्गेऽपि दृश्यते । यथा, मुद्रा-
राक्षसे । १ ।
“विक्रान्तैर्नयशालिभिः सुसचिवैः श्रीर्व्वक्र-
नासादिभिः ॥”)
सिंहः । इति राजनिर्घण्टः ॥ (मदालसागर्भ-
जात-ऋतध्वजपुत्त्रः । यथा, मार्कण्डेये । २५ । ८ ।
“मदालसायाः सञ्जज्ञे पुत्त्रः प्रथमजस्ततः ।
तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ॥”
हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे । ३ ।
७८ -- ७९ ।
“हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः ।
झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)

विक्रान्तिः, स्त्री, (वि + क्रम् + क्तिन् ।) अश्व-

गतिः । तत्पर्य्यायः । पुलायितम् २ । इति
त्रिकाण्डशेषः ॥ विक्रमश्च ॥ (यथा, राजतर-
ङ्गिण्याम् । ४ । १२९ ।
“पार्थिवः पृथुविक्रान्तिर्युधि क्रोधं मुमोच यः ॥”
पादन्यासः । यथा, शतपथब्राह्मणे । १ । १ । २ । १३ ।
“विष्णुस्त्वाक्रमतामिति यज्ञो वै विष्णुः स देवेभ्य
इमां विक्रान्तिं विचक्रमे यैषामिमं विक्रान्ति-
रिदमेव प्रथमेन पदेन पस्पाराथेदमन्तरिक्षं
द्वितीयेन दिवमुत्तमेनैतां वेवैष एतस्मै विष्णु-
र्यज्ञो विक्रान्तिं विक्रमते ॥”)

विक्रायकः, पुं, (विक्रीणातीति । वि + क्री +

ण्वुल् ।) विक्रेता । इति हेमचन्द्रः । ३ । ५३२ ॥
(यथा, महाभारते । ५ । ३८ । ४ ।
“चिकित्सकः शल्यकर्त्तावकीर्णी-
स्तेनः क्रूरो मद्यपो भ्रूणहा च ।
सेनाजीवी श्रुतिविक्रायकश्च
भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥”)

विक्रिया, स्त्री, (विकरणमिति । वि + कृ + “कृञः

शच ।” ३ । ३ । १०० । इति शः । टाप् ।)
विकारः । इत्यमरः ॥ (यथा, रघुः । १३ । ७१ ।
“श्मश्रुप्रवृद्धिजनिताननविक्रियांञ्च
प्लक्षान् प्ररोहजटिलानिव मन्त्रिवृद्धान् ॥”
प्रकृतेरन्यथाभावः । यथा, मार्कण्डेये । ३५ । २ ।
“अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ॥”
विरुद्धा क्रिया । विरुद्धकार्य्यम् । यथा, रघुः ।
१५ । ४८ ।
“इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥”)

विक्रीतः, त्रि, (वि + क्री + क्तः ।) कृतविक्रयः ।

यथा, बृहस्पतिः ।
“नाष्टिकश्चैव कुरुते तद्धनं ज्ञातिभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनी ॥”
इति प्रायश्चित्ततत्त्वम् ॥

विक्रुष्टं, त्रि, (वि + क्रुष + क्तः ।) निष्ठुरम् । इति

हेमचन्द्रः ॥

विक्रेता, [ऋ] त्रि, (विक्रीणातीति । वि + क्री +

तृच् ।) विक्रयकर्त्ता । तत्पर्य्यायः । विक्रयिकः
२ । इत्यमरः ॥ विक्रयी ३ । इति शब्दरत्ना-
वली ॥ विक्रायकः ४ । इति हेमचन्द्रः ॥
(यथा, याज्ञवल्क्यः । २ । १७३ ।
“विक्रेतुर्द्दर्शनात् शुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥”)

विक्रेयं, त्रि, (विक्रीयते इति । वि + क्री + “अचो

यत् ।” ३ । १ । ९७ । इति यत् ।) विक्रययोग्यद्रव्यम् ।
तत्पपर्य्यायः । पणितव्यम् २ पण्यम् ३ । इत्य-
मरः ॥ विक्रययोग्यायोग्यानि यथा, --
“इदन्तु वृत्तिवैकल्यात्त्यजतो धर्म्मनैपुणम् ।
विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्द्धनम् ॥
सर्व्वान्रसानपोहेत कृतान्नञ्च तिलैः सह ।
अश्मनो लवणञ्चैव पशवो ये च मानुषाः ॥
सर्व्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्व्वशः ।
पृष्ठ ४/३७६
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥
अरण्यांश्च पशून् सर्व्वान् दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलीञ्च लाक्षांश्च सर्व्वांश्चैकशफांस्तथा ॥
काममुत्पाद्य कृष्यास्तु स्वयमेव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिर-
स्थितान् ॥”
इति मानवे १० अध्यायः ॥

विक्लवः, त्रि, (विक्लवते इति । वि + क्लु + पचा-

द्यच् ।) विह्वलः । इत्यमरः ॥ (यथा, माघे ।
१२ । ६३ ।
“नूनं सहायेन वियोगविक्लवा
पुरः पुरस्त्रीरपि निर्ययौ तदा ॥” * ॥
क्ली, दुःखम् । यथा, रामायणे । २ । ४४ । २५ ।
“किमिदानीमिदं देवि ! करोति हृदि विक्लवम् ॥”)

विक्लिन्नः, त्रि, (वि + क्लिद् + क्तः ।) जरसा जीर्णः ।

शीर्णः । आर्द्रः । इति मेदिनी । ने, १३३ ॥

विक्षतः, त्रि, (वि + क्षण + क्तः ।) विशेषेण क्षतः ।

(यथा, महाभारते । २ । ४९ । ३३ ।
“अद्वारेण विनिर्गच्छन् द्वारसंस्थानरूपिणा ।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥”)

विक्षावः, पुं, (विक्षवणमिति । वि + क्षु + “वौ

क्षुश्रुवः ।” ३ । ३ । २५ । इति घञ् ।) शब्दः ।
इत्यमरः ॥ (यथा, भट्टिः । ७ । ३६ ।
“यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् ।
विक्षावैस्तोयविश्रावं तर्ज्जयन्तो महोदधेः ॥”)
कासः । इति स्वामिकलिङ्गौ । इति भरतः ॥

विक्षिप्तः, त्रि, (वि + क्षिप् + क्तः ।) त्यक्तः ।

(यथा, महाभारते । १ । २७ । ७ ।
“वायुविक्षिप्तकुमुमैस्तथान्यैरपि पादपैः ॥”
कम्पितः । यथा, भागवते । ८ । ८ । ४६ ।
“स व्रीडस्मितविक्षिप्तभ्रूविलासावलोकनैः ।
दैत्यय्थुपचेतःसु काममुद्दीपयन् मुहुः ॥”
क्ली चित्तवृत्तिविशेषः । यथा, पातञ्जलभाष्ये । १ ।
“क्षिप्तं मूडं विक्षिप्तमेकाग्रनिरुद्धमितिचित्त
भूमयः ॥” “क्षिप्ताद्विशिष्टं विक्षिप्तमितिमणि-
प्रभा ॥”)

विक्षीरः, पुं, (विशिष्टं क्षीरं यत्र ।) अर्कवृक्षः ।

इति राजनिर्घण्टः ॥

विक्षेपः, पुं, (वि + क्षिप् + घञ् ।) प्रेरणम् ।

त्यागः । विक्षेपणम् । यथा, --
“नैरृत्यामिषुविक्षेपमतीत्य ह्यधिकं भुवम् ॥”
इत्याद्याह्निकाचारतत्त्वम् ॥
(कम्पनम् । यथा, कुमारे । १ । १३ ।
“लाङ्गूलविक्षेपविसर्पिशोभै-
रितस्ततश्चन्द्रमरीचिगौरैः ।
यस्यार्थेयुक्तं गिरिराजशब्दं
कुर्व्वन्ति वालव्यजनैश्चमर्य्यः ॥”)
अद्बितीयवस्त्ववलम्बनेन चित्तस्य अन्यावलम्ब-
नम् । इति वेदान्तसारः ।

विक्षेपशक्तिः, स्त्री, (विक्षेपाय शक्तिः ।) माया-

शक्तिः । यथा । रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या
सर्पादिकमुद्भावयति । एवं अज्ञानमपि स्वावृ-
तात्मनि तथा विक्षेपशक्त्या आकाशादिप्रपञ्च-
मुद्भावयति तादृशं सामर्थ्यम् । इति वेदान्त-
सारसुबोधिनीटीका ॥

विखः, त्रि, (विख्यः । निपातनात् यलोपः ।)

गतनासिकः । इति भरतद्विरूपकोषः ॥

विखनाः, [स्] पुं, ब्रह्मा । यथा, --

“न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्त्वतां कुले ॥”
इति श्रीभागवते । १० । ३१ । ४ ॥

विखुः, त्रि, (विगता नासिका यस्य । बहुलवच-

नात् नासिकायाः खुः ।) गतनासिकः । इति
भरतद्विरूपकोषः ॥

विखुरः, पुं, राक्षसः । इति त्रिकाण्डशेषः ॥

चौरः । इति संक्षिप्तसारोणादिवृत्तिः ॥

विख्यः, त्रि, (विगता नासिकास्येति । “ख्यश्च ।”

८ । ४ । २८ । इत्यस्य वार्त्तिकोक्त्या नासिकायाः
ख्यः ।) गतनासिकः । इति केचित् ॥

विख्यातः, त्रि, ख्यात्यापन्नः । विपूर्ब्बख्याधातोः

क्तप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । १ ।
६७ । ३२ ।
“चन्द्रवर्म्मेति विख्यातः काम्बोजानां नरा-
धिपः ॥”)

विख्यातिः, स्त्री, प्रसिद्धिः । सुख्यातिः । विपूर्व्व-

ख्याधातोः क्तिप्रत्ययेन निष्पन्नः ॥

विख्यापनं, क्ली, (वि + ख्या + णिच् + ल्युट् ।)

व्याख्यानम् । विपूर्ब्बञ्यन्तख्याधातोरनट्प्रत्य-
येन निष्पन्नम् ॥

विख्रः, त्रि, (विगता नासिका यस्य । “ख्रु-

ख्रौ च वक्तव्यौ ।” इति नासिकाया
ख्रः ख्रु श्च ।) अनासिकः । इति हेमचन्द्रः ॥
छिन्ननासिकः । इति शब्दरत्नावली ॥

विख्रुः, त्रि, (विगता नासिका यस्य । “ख्रु-

ख्रौ च वक्तव्यौ ।” इति नासिकाया
ख्रः ख्रु श्च ।) अनासिकः । इति हेमचन्द्रः ॥
छिन्ननासिकः । इति शब्दरत्नावली ॥

विगणनं, क्ली, (वि + गण + ल्युट् ।) ऋणमुक्तिः ।

इति त्रिकाण्डशेषः ॥ (यथा, पाणिनिः । १ ।
३ । ३६ ।
“संमाननोत्सञ्जनाचार्य्यकरणज्ञानभृतिविगणन-
व्ययेषु नियः ॥” “विगणनं ऋणादेर्निर्यातनम् ।”
इति काशिका ॥)

विगतः, त्रि, (वि + गम + क्तः ।) प्रभारहितः ।

तत्पर्य्यातः । निष्प्रभः २ अरोकः ३ । इत्य-
मरः ॥ वीतः ४ । इति रुद्रः ॥ विशेषेण गतः ।
इति हेमचन्द्रः ॥ (यथा, माघे । ११ । २६ ।
“विगततिमिरपङ्कं पश्यति व्योम यावत्
धुवति बिरहखिन्नः पक्षती यावदेव ।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना
सरिदपरतटान्तादागता चक्रवाकी ॥”)

विगतश्रीकः, त्रि, श्रीरहितः । विगता श्रीर्यस्य इति

बहुव्रीहौ कप्रत्ययेन निष्पन्नः ॥

विगतार्त्तवा, स्त्री, (विगतं आर्त्तवं रजो यस्याः ।)

पञ्चपञ्चाशदब्देभ्य ऊर्द्ध्वं निवृत्तरजस्का । तत्-
पर्य्यायः । निष्कली २ निष्कला ३ निष्फली ४
निष्फला ५ विकली ६ विकला ७ । इति शब्द-
रत्नावली ॥

विगमः, पुं, (वि + गम + “ग्रहवृदृनिश्चिगमश्च ।”

३ । ३ । ५८ । इति अप् ।) नाशः । यथा ।
एकदण्डिनो वेदान्तिनस्तु यदुपाध्यनवच्छिन्नस्य
ब्रह्मणो विशुद्धरूपता तादृशोपाधिविगम एव
कैवल्यम् । त्रिदण्डिनस्तु आनन्दमयपरमात्मनि
जीवात्मनो लयो मोक्षः । जीवात्मपरमात्मनो-
रभेदेऽपि उपाधिविशेषविशिष्टस्यात्मनो जीव-
रूपतया तस्यौपाधिकः परमात्मभेदः । इति
भेदकोपाधिविगम एव जीवस्य परमात्मनि
लयः । यथा घटाकाशस्य घटविगम एव शुद्ध
आकाशे तस्य लयः । लिङ्गशरीरावच्छिन्नस्यै-
वात्मनो जीवभाव इति लिङ्गशरीरनाश एव
पर्य्यवसितो मोक्षः । इति मुक्तिवादः ॥
(विच्छदः । यथा, भागवते । १ । १३ । ४३ ।
“यथा क्रीडोपस्कराणां संयोगविगमाविह ।
इच्छया क्रीडितुः स्यातां तथैवेशेच्छया
नॄणाम् ॥”)

विगन्धकः, पुं, (विरुद्धो गन्धो यस्मिन् । बहुव्रीहि-

लक्षणः कः ।) इङ्गुदीवृक्षः । इति राजनिर्घण्टः ॥

विगन्धिका, स्त्री, हपुषा । इति राजनिर्घण्टः ॥

विगर्हणं, क्ली, (वि + गर्ह + ल्युट् ।) निन्दनम् ।

भर्त्सनम् । (यथा, हरिवंशे । ७९ । २३ ।
“कृष्णे च भवतो द्बेष्ये वसुदेवविगर्हणात् ॥”)

विगर्हणा, स्त्री, (वि + गर्ह + णिच् + युच् ।

टाप् ।) निन्दनम् । भर्त्सनम् । (यथा, महा-
भारते । १२ । ११४ । २१ ।
“विगर्हणां परमदुरात्मना कृतां
सहेत यः संसदि दुर्ज्जनान्नरः ॥”)

विगर्हितः, त्रि, (विशेषेण गर्हितः ।) निन्दितः ।

(यथा, नैषधे । १ । १३१ ।
“न केवलं प्राणिवधो वधो मम
त्वदीक्षणाद्विश्वसितान्तरात्मनः ।
विगर्हितं धर्म्मधनैर्निवर्हणं
विशिष्य विश्वासजुषां द्विषामपि ॥”)
निषिद्धः । इति विपूर्ब्बगर्हधातोः क्तप्रत्ययेन
निष्पन्नः ॥

विगलितः, त्रि, (विशेषेण गलितः ।) स्खलितः ।

यथा, गीतगोविन्दे ५ सर्गः ।
“विगलितवसनं परिहृतरसनं
घटय जघनमपिधानम् ।
किशलयशयने पङ्कजनयने
निधिमिव हर्षनिधानम् ॥”

विगाढः, त्रि, (विगाह्यते स्मेति । वि + गाह +

क्तः ।) स्नातः । अवगाहितः । विपूर्ब्बगाह-
धातोः क्तप्रत्ययेन निष्पन्नः ॥ (प्रगाढः । यथा,
महाभारते । ३ । ४६ । ५ ।
“निर्गम्य चन्द्रोदयने विगाढे रजनीमुखे ।
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं प्रति ॥”)