शब्दकल्पद्रुमः/व

विकिस्रोतः तः
पृष्ठ ४/२४०

, वकारः । स च व्यञ्जनस्य ऊनत्रिंशवर्णः । यव-

र्गस्य चतुर्थवर्णश्च । अस्योच्चारणस्थानं दन्तः
ओष्ठश्च । इति व्याकरणम् ॥ (यथा, शिक्षा-
याम् । १८ ।
“जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठो वः स्मृतो
बुधैः ॥”)
दन्त्यवकारः । स च अन्तःस्थवर्णः । यथा ।
अन्तःस्था य र ल वाः । इति कलापव्याक-
रणम् ॥ अपि च ।
“ततोऽक्षरसमाम्नायमसृजद्भगवानजः ।
अन्तःस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥”
इति श्रीभागवते १२ स्कन्धे ६ अध्यायः ॥
“ततस्तेभ्योऽक्षराणां समाम्नायं समाहारं तमे-
वाह । अन्तःस्था य र ल वाः । उष्माणः श
ष स हाः । स्वरा अकाराद्याः । स्पर्शाः
कादयो मावसानाः । ह्रस्वा दीर्घाश्च । आदि-
शब्दात् जिह्वामूलीयादयः । त एव लक्षणं
स्वरूपं यस्य तम् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥ * ॥ “यवरलीयवकारस्य प फ ब भ म
वा इत्येकपदोक्त्या उत्पत्तिस्थानमोष्ठमुक्त्वा दन्त्य-
कार्य्यार्थं दन्त्यमध्येऽपि त थ द ध न ल सा व
इति भिन्नपदे पठितवान् । यथा संवुवूर्षति
इत्यादौ वकारस्य ओष्ठ्यत्वात् उर् दन्त्यत्वात्
अनुस्वारस्य मकारो न स्यात् । वैदिकास्तु
अस्योत्पत्तिस्थानं दन्त एवेत्याहुः । अतएव
तद्विष्णोः परमं पदं इत्यादौ तथैवोच्चारयन्ति ।”
इति मुग्धबोधतीकायां दुर्गादासः ॥ * ॥
तस्य पर्य्यायः ।
“वो बाणो वारुणी सूक्ष्मा वरुणो देव-
संज्ञकः ।
तोयं लान्तश्च वामांशः ॥” इति बीजवर्णाभि-
धानम् ॥ * ॥ अपि च ।
“वकारो वरुणो बाणः स्वेदः खड्गीश्वरो जवः ॥”
इति रुद्रयामले मन्त्रकोषः ॥ * ॥
अपि च ।
“वो बाणो वारुणी सूक्ष्मा वरुणो देवसंज्ञकः ।
खड्गीशो ज्वालिनी वक्षः कलमध्वनिवाचकः ॥
उत्कारीशस्तु नावीतो वज्रा स्फिक् सागरः
शुचिः ।
त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥”
इति नानातन्त्रशास्त्रम् ॥
तस्य स्वरूपं यथा, --
“वकारं चञ्चलापाङ्गि कुण्डली मोक्षमव्ययम् ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ॥
त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् ।
पञ्चदेवमयं वर्णं पीतविद्युल्लतामयम् ॥
चतुर्व्वर्गप्रदं वर्णं सर्व्वसिद्धिप्रदायकम् ।
त्रिशक्तिसहितं देवि ! त्रिबिन्दुसहितं सदा ॥”
इति कामधेनुतन्त्रम् ॥ * ॥
वङ्गौयवर्णमालायामस्य लेखनप्रकारो यथा, --
“कोणत्रययुता रेखा ब्रह्मविष्णुशिवात्मिका ।
माया शक्तिः परा नित्या ध्यानमस्य प्रचक्ष्यते ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य ध्यानम् ।
“कुन्दपुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् ।
शुक्लमाल्याम्बरधरां रत्नहारोज्ज्वलां पराम् ॥
साधकाभीष्टदां सिद्धां सिद्धिदां सिद्धसेविताम् ।
एवं ध्यात्वा वकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥

, व्य, इवार्थः । इति मेदिनी । वे, १ ॥ (यथा,

रघुः । ४ । ४२ ।
“ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।
नारिकेलासवं योधाः शात्रवं व यशः पपुः ॥”)

वं, क्ली, (वा ल गमनहिंसयोः + कः ।) प्रचेताः ।

इति मेदिनी । वे, १ ॥ वरुणबीजम् । इति
तन्त्रम् ॥

वः, पुं, (वानमिति । वा + भावे घः ।) सान्त्व-

नम् । (वाति गच्छतीति । वाल गमने + कः ।)
वायुः । वरुणः । इति मेदिनी । वे, १ ॥
बाहुः । मन्त्रणम् । कल्याणम् । बलवान् ।
वसतिः । वरुणालयः । इति शब्दरत्नावली ॥
शार्द्दूलः । वस्त्रम् । शालूकः । वन्दनम् ।
इति नानैकाक्षरकोषः ॥

वः, [स्] त्रि, युष्मान् । युष्मभ्यम् । युष्माकम् ।

यष्मच्छब्दस्य द्बितीयाचतुर्थीषष्ठीबहुवचनान्त-
रूपोऽयम् । इति व्याकरणम् ॥ (यथा, मुग्ध-
बोधे ।
“पुष्णा तु वो नोऽपि हरिर्धनं वो
ददातु नो हन्त्वशुभानि वो नः ॥”
पादवाक्यादौ तु अस्य प्रयोगो न भवति । इति
वैयाकरणिकाः ॥)

वंशः, पुं, (वमति उद्गिरति पुरुषान् वन्यते इति

वा । टु वम उद्गिरणे इति धातोर्यद्वा वन शब्दे
इति धातोर्बाहुलकात् शः । यद्बा, वष्टि
उश्यते इति वा । वशंकान्तौ + अच् घञ् वा ।
ततो नुम् ।) पुत्त्रपौत्त्रादिः । तत्पर्य्यायः ।
सन्ततिः २ गोत्रम् ३ जननम् ४ कुलम् ५
अभिजनः ६ अन्वयः ७ अन्ववायः ८ सन्तानः
९ । इत्यमरः । २ । ७ । १ ॥ निघनम् १०
जातिः ११ । इति जटाधरः ॥ कुलञ्च विद्यया
जन्मना वा प्राणिनामेकलक्षणः सन्तानो वंश
इति जयादित्यः । धनेन विद्यया वा ख्यातस्या-
पत्यधारा वंश इति सुभूः । वमति उद्गिरति
पूर्ब्बपुरुषान् वंशः नाम्नीति शः । इत्यमर-
टीकायां भरतः ॥ * ॥ (यथा, रघुः । १ । २ ।
“क्व भूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥”
पुत्त्रः । यथा, भागवते । ९ । २ । १७ ।
“नृपस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥”)
तृणजातिविशेषः । वाँश इति भाषा । तत्-
पर्य्यायः । त्वक्सारः २ कर्म्मारः ३ त्वचिसारः ४
तृणध्वजः ५ शतपर्व्वा ६ यवफलः ७ वेणुः ८
मस्करः ९ तेजनः १० । इत्यमरः । २ । ४ ।
६० ॥ किष्कुपर्व्वा ११ । इति जटाधरः ॥
वम्भः १२ । इति शब्दरत्नावली ॥ तृणकेतुकः १३
कण्टालुः १४ कण्टकी १५ महाबलः १६ दृढ-
ग्रन्थिः १७ दृढपत्रः १८ धनुर्द्रुमः १९ धानुष्यः २०
दृढकाण्डः २१ ॥ (यथा, ऋतुसंहारे । १ । २५ ।
“ध्वनति पवनविद्धः पर्व्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन
क्षपयति मृगयूथं प्राप्तलग्नो दवाग्निः ॥”)
अस्य गुणाः । अम्लत्वम् । कषायत्वम् ।
किञ्चित्तिक्तत्वम् । शीतलत्वम् । मूत्रकृच्छ्र-
प्रमेहार्शःपित्तदाहास्रनाशित्वञ्च । इति राज-
निर्घण्टः ॥ * ॥ अपि च ।
“वंशः सरो हिमः स्वादुः कषायो वस्ति-
शोधनः ।
छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ॥ * ॥
तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः ।
कषायः कफकृत् स्वादुर्व्विदाही वातपित्तलः ॥
तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः ।
वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥”
इति भावप्रकाशः ॥ * ॥
(गृहोर्द्धकाष्ठम् । यथा, --
“वंशः पृष्ठास्थ्नि गेहोर्द्ध्वकाष्ठे वेणौ गणे कुले ॥”
इति रघुटीकायां मल्लिनाथधृतकेशवः । ७ । ३९ ॥)
पृष्ठावयवः । पिठेर दोडा इति भाषा ॥ (यथा,
भागवते । ११ । ८ । ३३ ।
“यदस्थिभिर्निर्म्मितवंशवंश्य-
स्थूनं त्वचा रोमनखैः पिनद्धम् ॥”)
वर्गः । इति मेदिनी । शे, १३ ॥ (यथा, रघुः ।
७ । ३९ ।
“उत्थापितः संयति रेणुरश्वैः
सान्द्रीकृतः स्यन्दनवंशचक्रैः ॥”)
वाद्यभाण्डविशेषः । इति धरणिः ॥ वाँशी इति
भाषा ॥ (यथा, रघुः । २ । १२ ।
“स कीचकैर्मारुतपूर्णरन्ध्रैः
कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशः स्वमुच्चै-
रुद्गीयमानं वनदेवताभिः ॥”
विवृतिरस्य वंशीशब्दे द्रष्टव्या ॥) इक्षुः ।
सालवृक्षः । इति राजनिर्घण्टः ॥ (प्राधागर्भ-
सम्भूताप्सरोविशेषे, स्त्री । यथा, महाभारते ।
१ । ६५ । ४६ ।
“अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् ।
अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)

वंशकं, क्ली, (वंश इव कायतीति । कै + कः ।

अगुरु । इति हारावली । १०४ ॥

वंशकः, क्ली, (वंश इव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् ।) मत्स्यविशेषः ।
इति शब्दमाला ॥ वाँशपातामाछ इतिभाषा ॥
इक्षुविशेषः । इति रत्नमाला ॥ वाँशाइ इति
सामशाडा इति च भाषा ॥ अस्य गुणाः ।
“वंशकस्त्वनभिष्यन्दी लघुर्द्दोषत्रयापहः ॥”
इति राजवल्लभः ॥
(यथा, सुश्रुते । १ । ४५ ।
“पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः ॥”
“अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तया ।
आभ्यां तुल्यगुणः किञ्चित् सक्षारो वंशको
मतः ॥”)
(ह्रस्वो वंशः । “संज्ञायां कन् ।” ५ । ३ ।
८७ । इति कन् । क्षुद्रवशः । इति सिद्धान्त-
कौमुदी ॥)

वंशकफं, क्ली, आकाशोड्डीयमानसूत्रम् । यथा, --

“वृद्धसूत्रकमित्याहुरिन्द्रतूलं मनीषिणः ।
ग्रीष्महासं वंशकफं वाततूलं मरुद्ध्वजम् ॥”
इति हारावली । २३ ॥

वंशकर्पूररोचना, स्त्री, (कर्पूर इव रोचते

शोभते इति । रुच् + ल्युः । ततः षष्ठीतत्-
पुरुषः ।) वंशरोचना । इति राजनिर्घण्टः ॥

वंशक्षीरी, स्त्री, (वंशस्य क्षीरमिवास्या अस्तीति ।

अच् । गौरादित्वात् ङीष् ।) वंशरोचना । इति
राजनिर्घण्टः ॥

वंशजः, पुं, (वंशाज्जायते इति । जन् + डः ।)

वेणुयवः । इति राजनिर्घण्टः ॥

वंशजः, त्रि, (वंशात् सद्वंशाज्जायते इति ।

जन् + डः ।) सद्वंशजातः । तत्पर्य्यायः । बीज्यः
२ वंश्यः ३ । इति हेमचन्द्रः । ३ । ३७७ ॥ (वेणूत्-
पन्नोऽपि । यथा, आर्य्यासप्तशत्याम् । ४७९ ।
“यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्व्वा-
णम् ।
किं कुर्म्मस्तन्निहितं धनुः पदे देवराजेन ॥”)
पृष्ठ ४/२४१

वंशजा, स्त्री, (वंशे जायते इति । जन् + डः +

टाप् ।) वंशरोचना । इति शब्दरत्नावली ॥
(अस्या गुणाः यथा, --
“वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला ।
तृष्णाकाशज्वरश्वासक्षयपित्तास्रकामलाः ।
हरेत् कुष्ठं व्रणं पार्ण्डु कषाया वातकृच्छ्रजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वंशतण्डुलः, पुं, (वंशजातस्तण्डुलः ।) वेणुयवः ।

इति राजनिर्घण्टः ॥

वंशधान्यं, क्ली, (वंशस्य धान्यम् ।) वेणुयवः ।

इति राजनिर्घण्टः ॥

वंशनालिका, स्त्री, (वंशनालोऽस्त्यस्या इति ।

वंशनाल + ठन् । टाप् ।) वंशी । इति शब्द-
रत्नावली ॥

वंशनेत्रं, क्ली, (वंशस्येव नेत्राण्यस्य ।) इक्षुमूलम् ।

इति राजनिर्घण्टः ॥

वंशपत्रः, पुं, (वंशस्य पत्राणीव पत्राण्यस्य ।)

नलः । इति राजनिर्घण्टः ॥ (वंशस्य पत्रम् ।)
वंशस्य दले, क्ली ॥ (हरितालम् । यथा, --
“तालकं वंशपत्राख्यं कुष्माण्डसलिले क्षिपेत् ।
सप्तधा वा त्रिधा वापि दध्यम्लेन च वा पुनः ॥
शोधयित्वा पुनः शुष्कं चूर्णयेत्तण्डुलाकृति ।
ततः शरावके पात्रे स्थापयेत् कुशलो भिषक् ॥
वदरीपत्रकल्केन सन्धिलेपञ्च कारयेत् ।
अरुणाभमधःपात्रं तावज्जाला प्रदीयते ॥
स्वाङ्गशीतं समुद्धृत्य माणिक्याभो भवेद्रसः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे कुष्ठाधिकारे ॥)

वंशपत्रकं, क्ली, (वंशपत्रमेव । स्वार्थे कन् ।)

हरितालम् । इति हेमचन्द्रः । ४ । १२४ ॥

वंशपत्रकः, पुं, (वंशस्य पत्रमिवाकृतिरस्यति ।

इवार्थे कन् ।) क्षुद्रमत्स्यविशेषः । इति शब्द-
माला ॥ वाँशपाता माछ इति भाषा ॥ नलः ।
श्वेतेक्षुः । इति राजनिर्घण्टः ॥

वंशपत्रपतितं, क्ली, सप्तदशाक्षरपादच्छन्दो-

विशेषः । यथा, --
“दिङ्मुनिवंशपत्रपतितं भ र न भ न ल गैः ॥”
उदाहरणम् ।
“नूतनवंशपत्रपतितं रजनिजललवं
पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ।
एष च तं चकोरनिकरः प्रपिबति मुदितो
वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥”
वंशपत्रचरितेति केचित् । वंशदलमिति शम्भौ ।
इति छन्दोमञ्जरी ॥

वंशपत्री, स्त्री, (वंशपत्र + गौरादित्वात् ङीष् ।)

नाडीहिङ्गुः । तृणविशेषः । तत्पर्य्यायः । वंश-
दला २ जीरिका ३ जीर्णपत्रिका ४ । अस्या
गुणाः । सुमधुरत्वम् । शिशिरत्वम् । पित्तरक्त-
दोषनाशित्वम् । रुच्यत्वम् । पशूनां दुग्धदायि-
त्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“वंशपत्री वेणुपत्री पिण्डा हिङ्गु शिवाटिका ।
हिङ्गुपत्रीगुणा विज्ञैर्वंशपत्री च कीर्त्तिता ॥”
इति भावप्रकाशः ॥

वंशपीतः, पुं, (वंशः वंशपत्रमिव पीतः ।) कण-

गुग्गुलुः । इति राजनिर्घण्टः ॥

वंशपुष्पा, स्त्री, (वंशस्य पुष्पाणीव पुष्पाणि

यस्याः ।) सहदेवीलता । इति राजनिर्घण्टः ॥

वंशपूरकं, क्ली, (वंशस्येव पूरकमस्य ।) इक्षु-

मूलम् । इति राजनिर्घण्टः ॥

वंशरोचना, स्त्री, (रोचते इति । रुच + नन्द्या-

दित्वात् ल्युः । टाप् । वंशस्य रोचना ।)
स्वनामख्यातवंशपर्व्वस्थितश्वेतवर्णौषधविशेषः ।
वंशलोचन इति भाषा । तत्पर्य्यायः । त्वक्-
क्षीरा २ । इत्यमरः । २ । ९ । १०९ ॥ वंश-
लोचना ३ । इति भरतः ॥ तुगाक्षीरी ४
शुभा ५ वांशी ६ वंशजा ७ । इति रत्नमाला ॥
क्षीरिका ८ । इति शब्दरत्नावली ॥ तुगा ९
त्वक्क्षीरी १० शुभ्रा ११ वंशक्षीरी १२ वैणवी
१३ त्वक्सारा १४ कर्म्मरी १५ श्वेता १६ वंश-
कर्पूररोचना १७ तुङ्गा १८ रोचनिका १९
पिङ्गा २० वंशशर्करा २१ । अस्या गुणाः ।
रूक्षत्वम् । कषायत्वम् । मधुरत्वम् । हिमत्वम् ।
रक्तशुद्धिकारित्वम् । तापपित्तोद्रेकहरत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“वंशजा वृंहणी वृष्या बल्या स्वाद्बी च शीतला ।
तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः ।
हरेत् कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ॥”
इति भावप्रकाशः ॥

वंशलोचना, स्त्री, (वंशरोचना । रस्य लः ।)

वंशरोचना । इति हेमचन्द्रः ॥ अस्या गुणाः ।
“कषायमधुरा रूक्षा वातघ्नी वंशलोचना ।
तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा ॥”
इति राजवल्लभः ॥

वंशशर्करा, स्त्री, (वंशस्य शर्करेव ।) वंशलोचना ।

इति राजनिर्घण्टः ॥

वंशशलाका, स्त्री, (वंशस्य शलाकेव दार्ढ्यात् ।)

वीणामूलम् । इति हेमचन्द्रः । २ । २०० ॥
(वंशनिर्म्मिता शलाकेति मध्यलोपी समासः ।)
वंशनिर्म्मितशलाका च ॥

वंशस्तनितं, क्ली, द्वादशाक्षरपादच्छन्दो-

विशेषः । यथा, --

वंशस्थविलं, क्ली, द्वादशाक्षरपादच्छन्दो-

विशेषः । यथा, --
“वदन्ति वंशस्थविलं जतौ जरौ ॥”
उदाहरणम् ।
“विलासवंशस्थविलं मुखानिलैः
प्रपूर्य्य यः पञ्चमरागमुद्गिरन् ।
व्रजाङ्गनानामपि गानशालिनां
जहार मानं स हरिः पुनातु वः ॥”
वंशस्तनितमपि क्वापि । इति छन्दोमञ्जरी ॥

वंशाग्रं, क्ली, (वंशस्य अग्रम् । प्रथमजातत्वात् ।)

वंशाङ्कुरः । इति राजनिर्घण्टः ॥

वंशानुचरितं, क्ली, (वंशस्य अनुचरितम् ।) वंश-

चरित्रवर्णनम् । तत्तु पुराणस्य पञ्चलक्षणान्त-
र्गतलक्षणविशेषः । यथा, शब्दरत्नावल्याम् ।
“सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुरितञ्चेति पुराणं पञ्चलक्षणम् ॥”
(यथा, भागवते । ९ । १ । ४ ।
“तेषां वंशं पृथग्ब्रह्मन् ! वंशानुचरितानि च ।
कीर्त्तयस्व महाभाग ! नित्यं शुश्रूषतां हि नः ॥”)

वंशाङ्कुरः, पुं, वंशस्याङ्कुरः । वाँशेर कोँडा इति

भाषा । तत्पर्य्यायः । करीरम् २ वंशाग्रम् ३
यवफलाङ्कुरः । अस्य गुणाः । कटुत्वम् । तिक्त-
त्वम् । अम्लत्वम् । कषायत्वम् । लघुत्वम् ।
शीतलत्वम् । पित्तास्रदाहकृच्छ्रघ्नत्वम् । रुचि-
कारित्वम् । तत्पर्व्वणो निर्गुणत्वञ्च । इति राज-
निर्घण्टः ॥

वंशिकं, क्ली, (वंशोऽस्त्यस्येति । ठन् ।) अगुरु ।

इत्यमरः । २ । ६ । १२६ ॥

वंशिका, स्त्री, (वंशिक + टाप् ।) अगुरु । इत्यमर-

टीकायां भरतः ॥ वंशी । इति शब्दरत्नावली ॥

वंशी, स्त्री, (वंशः कारणत्वेनास्त्यस्याः । अच् ।

गौरादित्वात् ङीष् ।) मुरली । इति शब्दरत्ना-
वली ॥ वाँशी इति भाषा ॥ (यथा, काव्यचन्द्रि-
कायाम् ।
“निर्म्मिता कापि गोपीनां कुलशीलविनाशिनी ।
विधिना पामरेणेयं न वंशी मुरवैरिणः ॥”)
कर्षचतुष्टयम् । इति राजनिर्घण्टः ॥ वंशी-
वाद्यस्य विवरणम् । यथा, --
“तालेन राजते गीतं तालो वादित्रसम्भवः ।
गरीयस्तेन वादित्रं तच्चतुर्व्विधमुच्यते ॥
ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् ।
ततं तन्त्रीगतं वाद्यं वंशाद्यं शुषिरं तथा ।
चर्म्मावनद्धमानद्धं घनं तालादिकं मतम् ॥”
शुषिरं यथा, --
“वंशोऽथ पारीमधुरीतित्तिरीशङ्खकाहलाः ।
तोडहीमुरलीवुक्काशृङ्गिकास्वरनाभयः ॥
शृङ्गं कापालिकं वंशश्चर्म्म वंशस्तथा परः ।
एते शुषिरभेदास्तु कथिताः पूर्ब्बसूरिभिः ॥
वर्त्तुलः सरलश्चैव पर्व्वदोषविवर्ज्जितः ।
वैणवः खादिरो वापि रक्तचन्दनजोऽथवा ॥
श्रीखण्डजोऽथ सौवर्णो दन्तिदन्तमयोऽपि वा ।
राजतस्ताम्रजो वापि लौहजः स्फाटिको-
ऽथवा ॥
कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण शोभितः ।
शिल्पविद्याप्रवीणेन वंशः कार्य्यो मनोहरः ॥
वंशेनैव मतोऽपीति मतङ्गमुनिनोदितम् ।
ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्त्तिताः ॥
तत्र त्यक्त्वा शिरोदेशादधो द्विमितमङ्गुलम् ।
फुत्काररन्ध्रं कुर्व्वीत मितमङ्गुलिपर्व्वणा ॥
पञ्चाङ्गुलानि संत्यज्य ताररन्ध्राणि कारयेत् ।
कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात् ॥
वदरीबीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम् ।
प्रान्तयोर्ब्बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे ॥
सिक्थकेन कला देया तेन सुस्वरता भवेत् ।
पञ्चाङ्गुलोऽयं वंशः स्यादेकैकाङ्गुलिवृद्धितः ॥
षडङ्गुलानि नाम्ना स्यात् यावदष्टादशाङ्गुलम् ।
फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम् ।
तदेव नाम वंशस्य वांशिकैः परिकीर्त्त्यते ॥
पृष्ठ ४/२४२
एकाङ्गुलो द्व्यङ्गुलश्च त्र्यङ्गुलश्वतुरङ्गुलः ।
अतितारतरत्वेन वांशिकैः समुपेक्षितः ॥
त्रयोदशाङ्गुलो वंशोऽपरः पञ्चदशाङ्गुलः ।
निन्दितो वंशतत्त्वज्ञैस्तथासप्तदशाङ्गुलः ॥
महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा ।
चत्वार उत्तमा वंशा मतङ्गमुनिसम्मताः ॥
दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ।
द्वादशाङ्गुलमानस्तु विजयः परिकीर्त्तितः ॥
चतुर्द्दशाङ्गुलमितो जय इत्यभिधीयते ।
ब्रह्मा रुद्रो रविर्विष्णुः क्रमादत्र व्यवस्थिताः ॥
नैविड्यं प्रौढता चापि सुस्वरत्वञ्च शीघ्रता ।
माधुर्य्यमिति पञ्चामी फुत्कृतेषु गुणाः स्मृताः ॥
शीत्कारबहुलः स्तब्धो विस्वरः स्फुटितो लघुः ।
अमधुरश्च विज्ञेयाः षड्दोषाः फुत्कृते क्रमात् ॥
वृथाप्रयोगबाहुल्यमल्पता गीतवादने ।
एभिर्दोवैर्युतोऽतीव निन्दितो वांशिको मतः ॥
स्थानकादिनयाभिज्ञो गमकाढ्यः स्फुटाक्षरः ।
शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते ॥
प्रमुक्तिर्ब्बद्धमुक्तिश्च युक्तिश्चेत्यङ्गुलेर्गुणाः ॥
सुस्थानत्वं सुस्वरत्वं अङ्गुलीसारणक्रिया ।
समस्तगमकज्ञानं रागरागाङ्गवेदिता ॥
क्रियाभाषाविभाषासु दक्षता गीतवादने ।
स्वस्थाने चापि दुःस्थाने नादनिर्म्माणकौशलम् ॥
गातॄणां स्थानदातृत्वं तद्दोषाच्छादनं तथा ।
वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः ॥”
इति संगीतदामोदरः ॥

वंश्यः, त्रि, (वंशे भवः । वंश + “दिगादिभ्यो यत् ।”

४ । ३ । ५४ । इति यत् ।) सद्वंशजातः । तत्प-
र्य्यायः । कुल्यः २ बीज्यः ३ । इति त्रिकाण्ड-
शेषः ॥ (यथा, मनुः । १ । ६१ ।
“स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ॥”
वंशोत्पन्नमात्रे च । यथा, रघुः । १८ । ४९ ।
“वंश्या गुणाः खल्वपि लोककान्ताः
प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥”
गृहोर्द्ध्वकाष्ठविशेषः । पृष्ठावयवविशेषश्च । इति
वंशशब्ददर्शनात् ॥ यथा, भागवते । ११ । ८ । ३३ ।
“यदस्थिभिर्निर्म्मितवंशवंश्य-
स्थूणं त्वचा रोमनखैः पिनद्धम् ॥”)

वक, इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सक० च-सेट् ।) कौटिल्य-
मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते ।
ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते
काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥

वक्क, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, वक्कते । इति दुर्गा-
दासः ॥

वक्तव्यः, त्रि, (ब्रू वच् वा + तव्यः ।) कुत्सितः ।

हीनः । (यथा, मनुः । ८ । ६६ ।
“नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्म्मकृत् ॥”)
वचनार्हः । इति मेदिनी । ये, १०३ ॥ (यथा,
महाभारते । १४ । ७६ । २३ ।
“वक्तव्याश्चापि राजानः सर्व्वे सह सुहृज्जनैः ।
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥”
वच् + भावे तव्य ।) वचने, क्ली ॥

वक्ता, [ऋ] त्रि, (वच् + तृच् ।) योवक्तुं जानाति

सः । इति भरतः ॥ औचित्यात् बहु विशिष्टं
वदति । इति मुकुटः ॥ (यथा, हितोपदेशे ।
“भद्रं कृतं कृतं मौनं कोकिलैर्ज्जलदागमे ।
दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥”)
तत्पर्य्यायः । वदः २ वदावदः ३ । इत्यमरः ।
३ । १ । २५ ॥ वदान्यः ४ वप्ता ५ । इति जटा-
धरः ॥ सुष्ठुवक्ता । इति भरतः ॥ बहुभाषी ।
इत्येके । तत्पर्य्यायः । वाचोयुक्तिपटुः २ वाग्मी ३
वावदूकः ४ । इत्यमरः ॥ वचक्नः ५ सुवचाः ६
प्रवाक् ७ । इति जटाधरः ॥ पण्डितः । इति
मेदिनी । ते, ५३ ॥

वक्त्रं, क्ली, (वक्ति अनेनेति । वच् + “गुधृवी-

पचिवचियमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ ।
१६६ । इति त्रः ।) मुखम् । इत्यमरः । २ ।
६ । ८९ ॥ (यथा, मनौ । ८ । २७२ ।
“धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्व्वतः ।
तप्तमासेचयेतैलं वक्त्रे श्रोत्रे च पार्थिवः ॥”)
तगरमूलम् । इति शब्दमाला ॥ वस्त्रभेदः ।
इति मेदिनी । रे, ८४ ॥ छन्दोविशेषः । इति
हेमचन्द्रः ॥ तस्य लक्षणादि यथा, --
“भवत्यर्द्धसमं वक्त्रं विषमञ्च कदाचन ।
तयोर्द्वयोरुपान्तेऽत्र च्छब्दस्तदधुनोच्यते ॥
वक्त्रं युग्भ्यां मगौ स्यातामब्देर्योऽनुष्टुभिः
ख्यातम् ॥”
अत्र द्विरावर्त्त्य श्लोकः पूरयितव्यः ।
“वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् ।
बल्लवीनां मुरारातेश्चेतो भृङ्गं जहारोच्चैः ॥”
इति छन्दोमञ्जरी ॥

वक्त्रखुरः, पुं, (वक्त्रस्य क्षुर इव पृषोदरादित्वात्

खः ।) दन्तः । इति त्रिकाण्डशेषः ॥

वक्त्रजः, पुं, (ब्रह्मणो वक्त्राद् जायते इति ।

ब्राह्मणोऽस्य मुखमासीत् इति श्रुतेः । जन् +
डः ।) ब्राह्मणः । इति त्रिकाण्डशेषः ॥ मुख-
जाते, त्रि ॥

वक्त्रतालं, क्ली, (वक्त्रस्य तालम् ।) मुखवाद्यम् ।

इति केचित् ॥ विकाण्डशेषे मुखवाद्यं वक्र-
नालमिति लिखितम् ॥

वक्त्रपट्टः, पुं, (वक्त्रस्य पट्ट इव ।) अश्वान्नभोजन-

पात्रम् । तोबडा इति भाषा । तत्पर्य्यायः ।
तलिका २ तलसारकम् ३ । इति हेमचन्द्रः ।
४ । ३१७ ॥

वक्त्रभेदी, [न्] पुं, (वक्त्रं भिनत्तिति । भिद् +

णिनिः ।) तिक्तरसः । इति हेमचन्द्रः । ६ ।
२५ ॥ मुखभेदके, त्रि ॥

वक्त्रवासः, पुं, (वक्त्रं वासयति सुरभीकरोतीति ।

वासि + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
नारङ्गः । इति राजनिर्घण्टः ॥ (विवरणमस्य
नारङ्गशब्दे ज्ञातव्यम् ॥ वक्त्रस्य वासः ।) मुख-
गन्धश्च ॥

वक्त्रशोधनं, क्ली, (वक्त्रस्य शोधनमिव ।) भव्यम् ।

इति राजनिर्घण्टः ॥ (वक्त्रस्य शोधनम् ।)
मुखशुद्धिकरणञ्च ॥

वक्त्रशोधी, [न्] पुं, (वक्त्रं शोधयतीति । शुध् +

णिच् + णिनिः ।) जम्बीरः । इति जटाधरः ॥
मुखशोधके, त्रि ॥

वक्त्रासवः, पुं, (वक्त्रस्य आसवः ।) अधरमधु ।

इति त्रिकाण्डशेषः ॥

वक्रं, क्ली, (वङ्कते इति । षकि कौटिल्ये + रन् ।

पृषोदरादित्वात् न लोपः । यद्बा, वञ्चतीति ।
वञ्चु गतौ + “स्फायितञ्चिवञ्चीति ।” उणा०
२ । १३ । इति रक् । न्यङ्क्रादित्वात् कुत्वम् ।)
नदीवङ्कः । तत्पर्य्यायः । पुटभेदः २ । इत्य-
मरः ॥ वङ्कः ३ । इति भरतः ॥ (तगर-
पादिकम् । तत्पर्य्यायो यथा, --
“कालानुशारिवा वक्रं तगरं कुटिलं शठम् ।
महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥”
इति वैद्यकरत्नमालायाम् ॥
तथास्य विषयः ।
“शताह्वै रण्डमूलोग्रा वक्रव्याघ्रीफलैः शृतम् ।
तैलं नस्य मरुत्श्लेष्मतिमिरोर्द्ध्वगदापहम् ॥”
इति शताह्वाद्यं तैलम् ।
इति चक्रपाणिसंग्रहे शिरोरोगाधिकारे ॥)

वक्रः, पुं, (वञ्चतीति । वञ्च गतौ + “स्फायितञ्चि-

वञ्चीति ।” उणा० २ । १३ । इति रक् ।
न्यङ्क्रादित्वात् कुत्वम् ।) शनैश्चरः । इति
मेदिनी । रे, ६५ ॥ मङ्गलग्रहः । इति हेम-
चन्द्रः । २ । ३० ॥ रुद्रः । त्रिपुरासुरः । इति
धरणिः ॥ पर्पटः । इति राजनिर्घण्टः ॥ वक्र-
गतिविशिष्टग्रहः । स तु यस्य ग्रहस्याश्रि-
तात् रव्यधिष्ठितराशीयत्रिंशांशान्तर्गतादंशात्
पञ्चमषष्ठांशे रविस्तिष्ठति । यथा, --
“वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे ।
नवसे दशमे भानौ जायते सहजा गतिः ॥
द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः ।
रविस्थित्यंशकस्त्रिंशावधेः संख्यात्र कल्प्यते ॥
न तु राश्यन्तरस्पर्शात् द्वितीयादिनिरूपणम् ।
राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ ॥”
इति ज्योतिस्तत्त्वम् ॥
(करूषदेशीयनृपतिभेदः । यथा, महाभारते ।
२ । १४ । ११ ।
“तमेव च महाराज ! शिष्यवत् समुपस्थितः ।
वक्रः करूषाधिपतिर्म्मायायोधी महाबलः ॥”)

वक्रः त्रि, (वङ्कते इति । वकि कौटिल्ये + रन् ।

पृषोदरादित्वात् न लोपः । यद्वा, वञ्चि + रक् ।)
अनृजुः । वाँका इति भाषा । तत्पर्य्यायः ।
अरालम् २ वृजिनम् ३ जिह्मम् ४ ऊर्म्मि-
मत् ५ कुञ्चितम् ६ नतम् ७ आविद्धम् ८ कुटि-
लम् ९ भुग्नम् १० वेल्लितम् ११ । इत्यमरः ।
३ । १ । ७१ ॥ वङ्कुरम् १२ वेङ्कु १३ विनतम् १४ उन्दु-
रम् १५ । इति शब्दरत्नावली ॥ अवनतः १६
आनतः १७ भङ्गुरः १८ । इति जटाधरः ॥ * ॥
पृष्ठ ४/२४३
(यथा, महाभारते । ३ । १३२ । १२ ।
“स वै तथा वक्र एवाभ्यजाय-
दष्टावक्रः प्रथितो वै महर्षिः ॥”)
वक्राणि यथा । अलकः १ भालः २ भ्रूः ३
नखचिह्रम् ४ अङ्कुशः ५ कुञ्चिका ६ भग्नकङ्क-
णम् ७ बालेन्दुः ८ दात्रम् ९ कुद्दालः १०
चन्द्रकः ११ शुकास्यम् १२ पलाशपुष्पम् १३
विद्युत् १४ कटाक्षः १५ शक्रधनुः १६ फणा १७
प्रबोधः १८ करः १९ हस्तिदन्तः २० शूकर-
दन्तः २१ सिंहनखादिः २२ । इति कविकल्प-
लता ॥ क्रूरः । इति मेदिनी । रे, ६५ ॥

वक्रकण्टः, पुं, (वक्राः कण्ठाः कण्टका यस्य ।)

वदरवृक्षः । इति राजनिर्घण्टः ॥ (वक्रः
कण्टः ।) कुटिलकण्टकश्च ॥

वक्रकण्टकः, पुं, (वक्राः कण्टका अस्य ।) खदिर-

वृक्षः । इति राजनिर्घण्टः ॥ (विषयोऽस्य
खदिरशब्दे विज्ञेयः ॥)

वक्रखड्गः, पुं, (वक्रः खड्गः ।) करवालः ।

इति राजनिर्घण्टः ॥

वक्रग्रीवः, पुं, (वक्रा ग्रीवास्य ।) उष्ट्रः । इति

त्रिकाण्डशेषः ॥

वक्रचञ्चुः, पुं, (वक्रा चञ्चुर्यस्य ।) शुकपक्षी ।

इति शब्दरत्नावली ॥

वक्रतालं, क्ली, (वक्रं तालं यत्र ।) वाद्यविशेषः ।

तत्पर्य्यायः । मुखवाद्यम् २ । वक्रनालमिति वा
पाठः । इति त्रिकाण्डशेषः ॥

वक्रताली, स्त्री, (वक्रताल + गौरादित्वात् ङीष् ।)

मुखवाद्यम् । इति शब्दरत्नावली ॥

वक्रतुण्डः, पुं, (वक्रन्तुण्डं यस्य ।) शुकपक्षी ।

इति शब्दरत्नावली ॥ (वक्रौष्ठे, त्रि । यथा,
भागवते । ६ । १ । २८ ।
“स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषानतिदारुणान् ।
वक्रतुण्डानूर्द्ध्वरोम्न आत्मानं नेतुमागतान् ॥”)

वक्रदंष्ट्रः, पुं, (वक्रा दंष्ट्रा यस्य ।) शूकरः । इति

केचित् ॥

वक्रनक्रः, पुं, (वक्रः कुटिलः नक्र इव हिंस्रश्च ।)

पिशुनः । शुकपक्षी । इति मेदिनी । रे, २८५ ॥

वक्रनालं, क्ली, मुखवाद्यम् । इति मुद्राङ्कित-

त्रिकाण्डशेषः ॥

वक्त्रनासिकः, पुं, (वक्रा नासिका यस्य ।) पेचकः ।

इति त्रिकाण्डशेषः ॥ कुटिलनासायुक्ते, त्रि ॥

वक्रपुच्छः, पुं, स्त्री, (वक्रं पुच्छं यस्य ।) कुक्कुरः ।

इति त्रिकाण्डशेषः ॥ सलोमकुटिललाङ्गूलञ्च ॥

वक्रपुष्पः, पुं, (वक्राणि पुष्पाण्यस्य ।) वकवृक्षः ।

इति शब्दरत्नावली ॥ पलाशवृक्षः । इति
राजनिर्घण्टः ॥

वक्रबालधिः, पुं, (वक्रो बालधिः केशयुक्तलाङ्गूलं

यस्य ।) कुक्कुरः । इति हेमचन्द्रः । ४ । ३४४ ॥
कुटिलपुच्छश्च ॥

वक्रभणितं, क्ली, (वक्रं कुटिलं भणितम् ।)

कुटिलवाक्यम् । तत्पर्य्यायः । छेकोक्तिः २ ।
इति त्रिकाण्डशेषः ॥

वक्रमः, पुं, (अवक्रमणमिति । अव + क्रम + भावे

घञ् । अल्लोपः ।) पलायनम् । इति शब्दरत्ना-
वली ॥

वक्रलाङ्गूलः, पुं, (वक्रं लाङ्गूलं यस्य ।) कुक्कुरः ।

इति राजनिर्घण्टः ॥ कुटिलपुच्छे, क्ली ॥

वक्रवक्त्रः, पुं, (वक्रं वक्त्रं मुखमस्य ।) शूकरः ।

इति शब्दरत्नावली ॥ कुटिलमुखविशिष्टे, त्रि ॥

वक्रशल्या, स्त्री, (वक्रं शल्यमिव पत्रादिकं

यस्याः ।) कुटुम्बिनीक्षुपः । इति राज-
निर्घण्टः ॥

वक्राग्रं, क्ली, (वक्रमग्रं यस्य ।) कवाटवक्रवृक्षः ।

इति रत्नमाला ॥ ॥ कुटिलाग्रभागश्च ॥

वक्राङ्गः, पुं, (वक्रमङ्गं यस्य ।) हंसः । इति

हेमचन्द्रः ॥ कुटिलावयवे, क्ली ॥ (कुटिलाव-
यवविशिष्टे, त्रि । यथा, हरिवंशे । १०२ । ३८ ।
“तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥”)

वक्रिः, त्रि, मिथ्यावादी । वकधातोः क्रिन्प्रत्ययेन

निष्पन्नः ॥

वक्री, [न्] पुं, (वक्रो वक्रतास्यास्तीति । इनिः ।

वैदिकधर्म्मविरुद्धवादित्वादस्य तथात्वम् ।) बुद्धः ।
इति शब्दरत्नावली ॥ वक्रताविशिष्टे, त्रि । यथा,
“लग्नेशो यदि वक्री स्यात् पुंसः कार्य्येषु
वक्रता ।
लग्नेशेऽस्तं गते मर्यो दुःखादिव्याधिर्सयुतः ॥”
इति ज्योतिस्तत्त्वम् ॥

वक्रोक्तिः, स्त्री, (वक्रा कुटिला उक्तिः ।)

काकूक्तिः । यथा, कामधेनुकल्पतरुधृतब्रह्म-
पुराणम् ।
“अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः ।
ब्राह्मणानाह यत् किञ्चित् मयोत्सृष्टन्तु
निर्ज्जने ॥
तत् कश्चिदन्यो न नयेन्न विभाज्यं यथाक्रमम् ।
न बाह्यं न च तत् क्षीरं पातव्यं केनचित्
क्वचित् ॥”
कृत्यप्रदीपेऽप्येवम् । वक्रोक्तिभिः काकूक्तिभिः ।
इति शुद्धितत्त्वम् ॥ * ॥ कुटिलोक्तिः । यथा,
“वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः
सभां
जल्पन्नल्पमतिः स्मयात् पटुवटुर्भ्रूभङ्गवक्रो-
क्तिभिः ।
ह्रीतः सन्नुपहासमेति गणको गोलानभिज्ञस्तथा
ज्योतिर्व्वित्सदसि प्रगल् भगणकः प्रश्नप्रपञ्चो-
क्तिभिः ॥”
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥
(वक्रा अर्थान्तरग्रहणेन कुटिला उक्तिः ।
शब्दालङ्कारप्रभेदः । तल्लक्षणादिकं यथा,
साहित्यदर्पणे दशमपरिच्छेदे ।
“अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥
द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । क्रमे-
णोदाहरणं यथा, --
“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः
किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो
हरिः ।
वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो
वर्त्तते
येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद्
भ्रमः ॥”
अत्र विशेषपदस्य विः पक्षी शेषो नाग इति
अर्थद्वययोगात् सभङ्गः श्लेषः । अन्यत्र तु अभङ्गः ।
“काले कोकिलवाचाले सहकारमनोहरे ।
कृतागसः परित्यागात् तस्याश्चेतो न दूयते ॥”
अत्र कयाचित् सख्या निषेधार्थे नियुक्तो नञ्
अन्यया काक्वा दूयत एवेति विध्यर्थे घटितः ॥”)

वक्रोष्ठिका, स्त्री, (वक्रोष्ठोऽस्त्यस्या इति । ठन् ।

ईशद्धसनेन हि ओष्ठस्य वक्रता जायते अतो-
ऽस्यास्तथात्वम् । यद्वा, वक्र ओष्ठो यस्याः ।
ततः स्वार्थे कन् । टापि अत इत्वम् ।) अदृष्ट-
रदहास्यम् । ईषद्धास्यम् । तत्पर्य्यायः । स्मितम्
२ । इति हेमचन्द्रः ॥

वक्ष, रोषसंहत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-रोषे अक०-संहतौ सक०-सेट् ।) वक्षति ।
इति दुर्गादासः ॥

वक्षः, [स्] क्ली, (उच्यतेऽनेनेति । वच + “पचि-

वचिभ्यां सुट् च ।” उणा० ४ । २१९ । इति
असुन् सुट् । वक्षतेरसुन् इति रमानाथः ।
धातुप्रदीपश्च ।) अङ्गविशेषः । स तु हृदयोपरि-
कण्ठादधोभागः । वुक् इति भाषा । तत्प-
र्य्यायः । क्रोडम् २ भुजान्तरम् ३ उरः ४
वत्सम् ५ । इत्यमरः ॥ अङ्कः ६ उत्सङ्गः ७ ।
इति जटाधरः ॥ वक्षणम् ८ गणपीठकम् ९ ।
इति शब्दचन्द्रिका ॥ अपि च ।
“अथ वक्षश्च वत्सं स्यादुरो वक्षस्थले त्रयम् ।”
इति शब्दरत्नावली ॥
तस्य शुभाशुभलक्षणं यथा, --
“अन्नवान् समवक्षाः स्यात् पीनैर्व्वक्षोभि-
रूर्ज्जितः ।
वक्षोभिर्व्विषमैर्निस्वः शस्त्रेण निधनस्तथा ॥”
इति गारुडे ६६ अध्यायः ॥
(पुं, वहतीति । वह + “वहिहाधाञ्म्य-
श्छन्दसि ।” उणा० ४ । २२० । इति असुन् ।
सुट् च । अनड्वान् । इत्युज्ज्वलदत्तः ॥”)

वक्षणं, क्ली, (वक्षत्यनेनेति । वक्षरोषसंहत्योः +

ल्युट् ।) वक्षः । इति शब्दचन्द्रिका ॥ (बाहके,
त्रि । यथा, ऋग्वेदे । ६ । २३ । ६ ।
“क्रियास्म वक्षणानि यज्ञैः ।”
“वक्षणानि वाहकानि स्तोत्राणि क्रियास्म
करवाम ।” इति तद्भाष्ये सायणः ॥)

वक्षोजं, क्ली, (वक्षसि जायते इति । जन् + डः ।)

स्तनः । इति शब्दरत्नावली ॥ (यथा, साहित्य-
दर्पणे ३ परिच्छेदे ।
“मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दतां
दूरं यात्युदरञ्च लोमलतिका नेत्रार्जवं धावति ।
पृष्ठ ४/२४४
कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं
क्षणात्
अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥”)

वक्षोरुहः पुं, (वक्षसि रोहतीति । रुह + कः ।)

स्तनः । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्या-
सप्तशत्याम् । ४४६ ।
“मा शबरतरुणि पीवरवक्षोरुहयोर्भरेण भज
गर्व्वम् ।
निर्म्मोकैरपि शोभा ययोर्भुजङ्गीभिरुन्मुक्तैः ॥”)

वक्ष्यमाणः, त्रि, भविष्यत्कथनीयविषयः । वच-

धातोः स्यमानप्रत्ययेन निष्पन्नः । यथा । अत्र
वक्ष्यमाणवचनात् मध्यरात्रप्राप्तावेव जयन्ती-
त्वम् । इति तिथ्यादितत्त्वम् ॥ अपि च ।
“तत्रैव द्वादशीमध्ये पारणं श्रवणोऽधिके ।
वक्ष्यमाणञ्च घटतेऽन्यथा प्राग्वद्द्विधा व्रतम् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

वख, सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) वखति । सृपि गतौ । इति
दुर्गादासः ॥

वख, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् । इदित् ।) इ, वङ्ख्यते । सृपि
गतौ । इति दुर्गादासः ॥

वग, इ खञ्जे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) इ, वङ्ग्यते । इति दुर्गादासः ॥

वगला स्त्री, दशमहाविद्यान्तर्गतदेवी-

विशेषः । तदुक्तं तन्त्रान्तरे ।

वगलामुखी स्त्री, दशमहाविद्यान्तर्गतदेवी-

विशेषः । तदुक्तं तन्त्रान्तरे ।
“ब्रह्मास्त्रं संप्रवक्ष्यामि सद्यःप्रत्ययकारकम् ।
साधकानां हितार्थाय स्तम्भनाय च वैरि-
णाम् ॥
यस्याः स्मरणमात्रेण पवनोऽपि स्थिरायते ।
प्रणवं स्थिरमायाञ्च ततश्च वगलामुखि ॥
तदन्ते सर्व्वदुष्टानां ततो वाचं मुखं पदम् ॥
स्तम्भयेति ततो जिह्वां कीलयेति पदद्बयम् ॥
बुद्धिं नाशय पश्चात्तु स्थिरमायां समालिखेत् ।
लिखेच्च पुनरोङ्कारं स्वाहेति पदमन्ततः ॥
षटत्रिंशदक्षरी विद्या सर्व्वसम्पत्करी मता ॥”
स्थिरमायां ह्लीँ । तथा च ।
“वह्रिहीनेन्द्रमायायुक् स्थिरमाया प्रकीर्त्तिता ॥
ॐ ह्लीँ वगलामुखी सर्व्वदुष्टानां वाचं मुखं
स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीँ
ॐ स्वाहा ॥ * ॥ तन्त्रान्तरे ।
“वह्रिहीनेन्द्रमायायुक् वगलामुखि सर्व्वयुक् ।
दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्त्तयेत् ॥
जिह्वां कीलय बुद्धिं तत् विनाशय पदं वदेत् ।
पुनर्ब्बीजं ततस्तारं वह्निजायावधिर्भवेत् ।
तारादिका चतुस्त्रिंशदक्षरा वगलामुखी ॥”
ॐ ह्लीँ वगलामुखि सर्व्वदुष्टानां वाचं मुखं
स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीँ ॐ
स्वाहा । इत्यपि मन्त्रान्तरम् ॥ * ॥ अनयोः
पूजा । प्रातःकृत्यादिप्राणायामान्तं विधाय
ऋष्यादिन्यासं कुर्य्यात् । यथा, शिरसि नारद-
ऋषये नमः । मुखे तृष्टुप्छन्दसे नमः । हृदि
वगलामुख्यै देवतायै नमः । गुह्ये ह्लीँ बीजाय
नमः । पादयोः स्वाहाशक्तये नमः ।
“नारदोऽस्य ऋषिं मूर्द्ध्नि तृष्टुप् छन्दश्चतन्मुखे ।
श्रीवगलामुखीं देवीं हृदये विन्यसेत्ततः ।
ह्लीँ बीजं गुह्यदेशे तु स्वाहाशक्तिस्तु पादयोः ॥”
ततः कराङ्गन्यासौ । ॐ ह्लीँ अङ्गुष्ठाभ्यां नमः ।
वगलामुखि तर्जनीभ्यां स्वाहा । सर्व्वदुष्टानां
मध्यमाभ्यां वषट् । वाचं मुखं स्तम्भय अना-
मिकाभ्यां हूँ । जिह्वां कीलय कीलय कनि-
ष्ठाभ्यां वौषट् । बुद्धिं नाशय ह्लीँ ॐ स्वाहा
करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । तथा
च दिव्यतन्त्रे ।
“युग्मबाणेषुसप्ताहिशेषार्णैश्च मनूद्भवैः ।
करशाखासु तलयोः कराङ्गन्यासमाचरेत् ॥”
ततो मूलान्ते आत्मतत्त्वव्यापिनीवगलामुखीश्री-
पादुकां पूजयामि इति मूलाधारे । मूलान्ते
विद्यातत्त्वव्यापिनीवगलामुखीश्रीपादुकां पूज-
यामि शिरसि । मूलान्ते शिवतत्त्वव्यापिनी-
वगलामुखीश्रीपादुकां पूजयामि सर्व्वाङ्गे ।
ततश्च ।
“मूर्द्ध्नि भाले दृशोः श्रोत्रे गण्डयोर्नासयोः
पुनः ।
ओष्ठयोर्म्मुखवृत्ते च दक्षिणांशे च कूर्परे ॥
मणिबन्धेऽङ्गुलेर्म्मूले गले च कुचयोर्हृदि ।
नाभौ कट्यां गुह्यदेशे वामांशे कूर्परे तथा ॥
मणिबन्धेऽङ्गुलेर्म्मूले ततश्च विन्यसेत् पुनः ।
दक्षवामे चोरुजान्वोर्गुल् फयोरङ्गुलिमूलयोः ।
क्रमेण मन्त्रवर्णास्तु न्यस्य ध्यायेत् यथाविधि ॥” * ॥
ततो ध्यानम् ।
“मध्ये सुराब्धिमणिमण्डपरत्नवेदी-
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रुं परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥”
एवं ध्यात्वा मानसैः सम्पूज्य बहिःपूजामार-
भेत् ॥ * ॥ तत्र प्रथमतोऽर्घ्यस्थापनम् । यथा ।
अष्टाङ्गुलं चतुरस्रं षिधाय ईशानादिकोणेषु
पूर्व्वादिदिक्षु च कुसुमाक्षतरक्तचन्दनैर्म्लौं गण-
पतये नमः इत्यनेन गजदानेन संपूज्य तेन
मधुना वा अर्घ्यपात्रमापूरयेत् । ततो वारत्रयं
विद्यया संपूज्य अङ्गानि विन्यसेत् । ततो धेनु-
योनिमुद्रे प्रदर्श्य तेनोदकेन आत्मानं पूजोप-
करणञ्चाभ्युक्षयेत् ॥ * ॥ अस्या यन्त्रम् । त्र्यस्रं
षडस्रं वृत्तमष्टदलं भूपुरान्वितम् । ततो मूल-
मुच्चार्य्यं ॐ आधारशक्तिकमलासनाय नमः ।
एवं शक्तिपद्मासनाय नमः । पूर्ब्बवत् ध्यात्वा
पीठे आवाह्य षडङ्गानि न्यसेत् । ततो मुद्रां
प्रदर्श्य पुरतः षडङ्गेन मण्डलं यजेत् । ततो
मूलेन मन्त्रयित्वा धेनुयोनिमुद्रे प्रदर्श्य आत्म-
विद्याशिवैस्तत्त्वैर्बिन्दुत्रयं मुखे क्षिप्त्वा तर्जन्य-
ङ्गुष्ठयोगेन साङ्गावरणां वगलामुखीं तर्पयेत् ।
ततो यथासम्भवमुपचारैः संपूज्य आवरणपूजा-
मारभेत् । षट्कोणेषु पूर्व्वे ॐ सुभगायै नमः ।
एवमग्निकोणे भगसर्पिण्यै । ईशाने भगाव-
हायै । पश्चिमे भगसिद्धायै । नैरृते भग-
पातिन्यै । वायौ भगमालिन्यै । ततोऽष्टदल-
पत्रेषु ब्राह्म्याद्याः पूज्याः । पत्राग्रेषु ॐ जयायै
नमः । एवं विजयायै । अजितायै । अपरा-
जितायै । स्तम्भिन्यै । जम्भिन्यै । मोहिन्यै ।
आकर्षिण्यै । ततो द्वारेषु ॐ भैरवाय नमः ।
तद्बाह्ये इन्द्रादीन् वज्रादीन् पूजयेत् । ततो
मूलेन धूपादिकं दत्त्वा यथाशक्ति जपं विधाय
त्रिशूलमुद्रां प्रदर्श्य पुष्पाञ्जलित्रयं दत्त्वा देव्यै-
योनिमुद्रां प्रदर्शयेत् । ततो भैरवाय वलिं
दद्यात् । ततो विसर्जनान्तं कर्म्म समापयेत् ॥
अस्य पुरश्चरणं लक्षजपः । तथा च ।
“पीताम्बरधरो भूत्वा पूर्व्वाशाभिमुखस्थितः ।
लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया ॥
ब्रह्मचर्य्यरतो नित्यं प्रयतो ध्यानतत्परः ।
प्रियङ्गुकुसुमेनापि पीतपुष्पैश्च होमयेत् ॥” * ॥
द्वितीयमन्त्रस्य तु न्यासादिकं सर्व्वं पूर्ब्बवत् ।
ध्यानन्तु ।
“गम्भीराञ्च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ।
चतुर्भुजां त्रिनयनां कामलालसमानसाम् ॥
मुद्गरं दक्षिणे पाशं वामे जिह्वाञ्च वज्रकम् ।
पीताम्बरधरां देवीं दृढपीनपयोधराम् ।
हेमकुण्डलभूषाञ्च स्वर्णसिंहासनस्थिताम् ॥” * ॥
अथ प्रयोगः ।
“कुरुते वाग्गतिस्तम्भं दुष्टानां बुद्धिनाशनम् ।
जपहोमप्रयोगे च मन्त्रं चाप्ययुतं जपेत् ॥
हरिद्राहरितालाभ्यां लवणं जुहुयान्निशि ।
स्तम्भयेत् परसैन्यानि नात्र कार्य्या विचारणा ॥
अथवा पीतपुष्पैश्च त्रिमध्वक्तैश्च होमयेत् ।
स्तम्भनेषु च सर्व्वेषु प्रयोगः प्रत्ययावहः ॥” * ॥
यन्त्रन्तु ।
“ॐकारयोः संमुखयोरूर्द्ध्वाधःशिरसोर्लिखेत् ।
मध्यगं नाम साध्यस्य तद्बाह्ये चाक्षरद्बयम् ॥
बीजं द्वितीयवर्गस्य तृतीयं बिन्दुभूषितम् ।
चतुर्द्दशस्वरोपेतं संलिखेत् पृथिवीगतम् ॥
ठकारेण समावेष्ट्य चतुष्कोणपुटं बहिः ।
तत्कोणरेखासंसक्तैः शूलैर्व्वज्राष्टकं लिखेत् ॥
त्रिशूलमध्यरेखायाः पृथ्वी बीजानि पार्श्वयोः ।
अष्टष्वपि च कोणेषु तद्बहिर्व्वगलां लिखेत् ॥
पृथिव्यन्तरितं बाह्ये मातृकापरिमण्डलम् ।
आवेष्ट्य चाष्टधा पश्चात्तद्बाह्ये स्थिरमायया ॥
निरुध्याङ्कुशबीजेन नादसंमिलिताङ्घ्रिणा ।
लिखेत् पूर्व्ववदावेष्ट्य पश्चाच्च वगलामुखीम् ॥
पट्टे पाषाणपट्टे वा हरिद्रोन्मत्ततालकैः ।
दिव्यस्तम्भे मुखस्तम्भे लिखित्वा गाढमाक्रमेत् ॥
विवादे यन्त्रमालिख्य भूर्ज्जे तैरेव वस्तुभिः ।
कुम्भकारस्य चक्रस्य भ्रमतो विपरीततः ॥
पृष्ठ ४/२४५
मृत्तिकां समुपादाय वृषभं कारयेत्ततः ।
यन्त्रं तस्योपरि न्यस्य तालकेन विलिप्य च ॥
तन्नासायां विनिः क्षिप्य पीतरज्जुं निजे गृहे ।
अर्च्चयेत्तं चतुष्कालं नित्यं पीतोपचारतः ।
दुष्टस्य स्तम्भयत्येव मुखं वाचस्पतेरपि ॥”
इति वगलापरिच्छेदः ॥ * ॥
विश्वसारे ।
“काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्याः सिद्धविद्याः प्रकी-
र्त्तिताः ॥”
अथ वगलामुखीस्तोत्रम् ।
“मध्ये सुधाब्धिमणिमण्डपरत्नवेदी-
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रुं परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बरां तां द्विभुजां भजामि ॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलीं
लसत्कनकचम्पकद्युतिमदिन्दुविम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वाञ्चलां
स्मरामि वगलामुखीं विमुखसन्मनःस्तम्भिनीम् ॥
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे
यत्सिंहासनमौलिपातितरिपुप्रेतासनाध्यासि-
नीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदावि-
भ्रमा-
मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽथ
सर्व्वापदः ॥
देवि त्वच्चरणाम्बुजार्च्चनकृते यः पीतपुष्पाञ्जलीन्
भक्त्या वामकरे निधाय च मनुं मन्त्री मनो-
ज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशात् बीजं स्मरेत्
पार्थिवं
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्
तत्क्षणात् ॥
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः
शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः
खञ्जति ।
गर्व्वी खर्व्वति सर्व्वविच्च जडति त्वन्मन्त्रणा-
यन्त्रितः
श्रीनित्ये वगलामुखि प्रतिदिन कल्याणि तुभ्यं
नमः ॥
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रञ्च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रञ्च चित्रं
न ते ।
मातः श्रीवगलेति नाम ललितं यस्यास्ति
जन्तोर्म्मुखे
त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्-
वादिनाम् ॥
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भूशमनं वलन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं मम दृशोः कारुण्यपूर्णामृतं
मृत्योर्म्मारणमाविरस्तु पूरतो मातस्त्वदीयं वपुः ॥
मातर्भञ्जय मे विपक्षवदनं जिह्वाञ्चलां कीलय
ब्राह्मीं मुद्रय नाशयाशु धिषणामुग्रां गतिं
स्तम्भय ।
शत्रूं श्चूर्णय देवि तीक्ष्णगदया गौराङ्गि
पीताम्बरे
विघ्नौघं वगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वा-
श्रये
श्रीविद्ये संमये महेशि वगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि
त्राहि माम् ॥
संरम्भे चौरसङ्घे प्रहरणसमये बन्धने व्याधिमध्ये
विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले
निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा
वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुया-
दाशु धीरः ॥
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः
पठत्यादरा-
द्वृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा
गले ।
राजानो हरयो मदान्धकरिणः सर्पा मृगेन्द्रा-
दिका-
स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः
स्थिराः सिद्धयः ॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौघ-
संछेदिनी
योषाकर्षणकारिणी जनमनःसम्मोहसन्दायिनी ।
स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसंदायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥
विद्या लक्ष्मीः सर्व्वसौभाग्यमायुः
पुत्त्रैः पौत्त्रैः सर्व्वसाम्राज्यसिद्धिः ।
मानं भोगो वश्यमारोग्यसौख्यं
प्राप्तं तत्तद्भतलेऽस्मिन् नरेण ॥
यत् कृतं जपसन्नाहं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥
पीताम्बरां द्विभुजाञ्च त्रिनेत्रां गात्रकोज्ज्वलाम् ।
शिलामुद्गरहस्ताञ्च स्मरेत्तां वगलामुखीम् ॥
प्रातर्म्मध्याह्रकाले स्तवपठनमिदं कार्य्यसिद्धिप्रदं
स्यात् ॥”
इति रुद्रयामले वगलामुखीस्तोत्रं समाप्तम् ।
इति कृष्णानन्दकृततन्त्रसारः ॥

वगाहः, पुं, (अव + गाह + भावे घञ् ।

अलोपः ।) अवगाहः । इति मुग्धबोधव्याकरणं
भरतश्च ॥

वग्नुः, पुं, (वक्ति इति । वच् + “वचेर्गश्च ।” उणा०

३ । ३३ । इति नुः गश्चान्तादेशः ।) वक्ता ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ वावदूकः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥ (शब्दः । यथा,
ऋग्वेदे । ७ । १०३ । २ ।
“गवामाहनमायुर्वत्सिनीनां
मण्डूकानां वग्नुरत्रासमेति ॥”
“मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते ॥”
इति तद्भाष्ये सायणः ॥)

वघ, इ ङ गतिनिन्दारम्भजयेषु । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-सक०-जवे अक० च-
सेट् ।) इ, वंघ्यते । ङ, वंघते । जवे एव कैश्चित्
पठ्यते । इति दुर्गादासः ॥

वङ्कः, पुं, (वङ्कतीति । वङ्क + अच् ।) नदीवक्रम् ।

इत्यमरटीकायां भरतः ॥

वङ्का, स्त्री, (वङ्क + टाप् ।) वल्गाग्रभागः । तत्-

पर्य्यायः । पल्ययनम् २ । इति त्रिकाण्डशेषः ॥

वङ्किलः, पुं, (वङ्कति इति । वङ्क + इलच् ।)

कण्टकः । इति त्रिकाण्डशेषः ॥

वङ्क्यः, त्रि, (वञ्च् + ण्यत् । “वञ्चेर्गतौ ।” ७ ।

३ । ६३ । इति अगत्यर्थे कुत्वञ्च ।) वक्रम् ।
यथा, वङ्क्यं काष्ठम् । इति मुग्धबोधव्याकर-
णम् ॥

वङ्क्रि, क्ली, (वङ्कते इति । वकि कौटिल्ये + “वङ्-

क्र्यादयश्च ।” उणा० ४ । ६६ । इति क्रिन्-
प्रत्ययेन निपातितम् ।) पार्श्वास्थि । तत्पर्य्यायः ।
पर्शुकम् २ । इति हेमचन्द्रः । ३ । २९१ ॥

वङ्क्रिः, पुं, क्ली, (वङ्कते इति । वकि कौटिल्ये +

“वङ्क्र्यादयश्च ।” उणा० ४ । ६६ । इति क्रिन्-
प्रत्ययेन निपात्यते ।) वाद्यभेदः । इत्युणादि-
कोषः । गृहदारु । पार्श्वास्थि । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

वङ्क्षणः, पुं, (वक्षति संहतो भवतीति । वक्ष +

ल्युः । पृषोदरादित्वात् नुम् ।) ऊरुसन्धिः ।
इत्यमरः । २ । ६ । ७३ ॥ कुँच्की इति भाषा ॥
(यथा, सुश्रुते शारीरस्थाने ५ अध्याये ।
“चतुर्द्दशास्थ्नां संघाताः । तेषां त्रयोगुल्फ-
जानुवङ्क्षणेषु ॥”)

वङ्क्षुः, स्त्री, (वहतीति । वह + बाहुलकात् कुन् ।

नुम् च ।) गङ्गास्रोतोविशेषः । यथा, --
“तस्याः स्रोतसि सीता च बङ्क्षर्भद्रा च
कीर्त्तिता ॥”
सा च केतुमालवर्षस्था गङ्गा । यथा । एवं
माल्यवच्छिखरान्निष्पतन्ती तत उपरतवेगा
केतुमालमभिवङ्क्षुः प्रतीच्यां दिशि सरित्पतिं
प्रविशति । इति श्रीभागवते ५ स्कन्धे १७
अध्यायः ॥ (यथा त्त महाभारते । १३ । १६५ । २२ ।
“गोदावरी च वेण्वा च कृष्णवेणा तथा द्विजा ।
दृषद्वती च कारेवी वङ्क्षुर्मन्दाकिनी तथा ॥”)
पृष्ठ ४/२४६

वङ्गं, क्ली, (वङ्गतीति । वगि गतौ + अच् ।) धातु-

विशेषः । रां इति भाषा ॥ तत्पर्य्यायः । त्रपुः
२ स्वर्णजम् ३ नागजीवनम् ४ मृद्वङ्गम् ५ रङ्गम्
६ गुरुपत्रम् ७ पिच्चटम् ८ चक्रसंज्ञम् ९ तमरम्
१० नागजम् ११ कस्तीरम् १२ आलीनकम् १३
सिंहलम् १४ । इति हेमचन्द्रः । ४ । १०८ ॥
स्ववेतम् १५ नागम् १६ त्रपु १७ । इति शब्द-
रत्नावली ॥ अस्य गुणाः । तिक्तत्वम् । मधु-
रत्वम् । भेदित्वम् । पाण्डत्वम् । कृमिवात-
नाशित्वम् । लेखनत्वम् । किञ्चित्पित्तकारि-
न्वञ्च । इति राजवल्लभः ॥ (अथ वङ्गस्य नाम-
लक्षणगुणाः ।
“रक्तवङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि ।
खुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते ॥
उत्तमं खुरकं तत्र मिश्रकन्त्ववरं मतम् ।
रङ्गं लघु सरं रुक्षमुष्णं मेहकफक्रिमीन् ॥
निहन्ति पाण्डुं सश्वासं चक्षुष्य पित्तलं मनाक् ।
सिंहो यथा हस्तिगणं निहन्ति
तथैव वङ्गोऽखिलमेहवर्गम् ।
देहस्य सौख्यं प्रवलेन्द्रियत्वं
नरस्य पुष्टिं विदधाति नूनम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अस्य शोधनमारणविधिर्यथा, --
“वङ्गं चूर्णोदके स्विन्नं यामार्द्धेन विशुध्यति ॥”
इति वङ्गशुद्धिः ॥
“वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन संपुटेत् ।
शुष्काश्वत्थभवैर्व्वल्कैः सप्तधा भस्मतां नयेत् ॥”
मतान्तरम् ।
“वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत् सुधीः ।
द्रवीभूते पुनस्तस्मिन् चूर्ण्यान्येतानि दापयेत् ॥
प्रथमं रजनीचूर्णं द्वितीये च यमानिका ।
तृतीये जीरकञ्चैव ततश्चिञ्चात्वगुद्भवम् ॥
अश्वत्थवल्कलोत्थञ्च चूर्णं तत्र विनिः-
क्षिपेत् ।
एवं विधानतो वङ्गं म्रियते नात्र संशयः ॥
वङ्गं तिक्ताम्लकं रुक्षं किञ्चिद्बातप्रकोपनम् ।
मेदःश्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम् ॥”
इति वङ्गमारणम् । इति वैद्यकरसेन्द्रसारसंग्रहे
जारणमारणाधिकारे ॥) अन्यद्रङ्गशब्दे द्रष्ट-
व्यम् ॥ * ॥ सीसकम् । देशविशेषे पुं भूम्नि ।
इति मेदिनी । गे, २२ ॥ (एकवचनान्तोऽपि ।
यथा, महाभारते । १ । १०४ । ५० ।
“अङ्गस्याङ्गो भवेद्देशो वङ्गो वङ्गस्य च
स्मृतः ॥”)
स तु प्राचीदेशान्तर्गतदेशविशेषः । यथा, --
“अङ्गवङ्गा मद्गुरका अन्तर्गिरिवहिर्गिराः ॥”
इत्युपक्रम्य ।
“शाल्वा मागधगोनर्द्दाः प्राच्यां जनपदाः
स्मृताः ॥”
इत्यन्तं मत्स्यपुराणवचनम् ॥
मतान्तरं यथा, --
“आग्नेय्योमङ्गवङ्गोपवङ्गत्रिपुरकोषलाः ।
कलिङ्गौढ्रान्ध्रकिष्किन्धाविदर्भशवरादयः ॥”
इति ज्योतिस्तत्त्वधृतकूर्म्मचक्रवचनम् ॥
तस्य सीमा यथा, --
“रत्नाकरं समारभ्य ब्रह्मपुत्त्रान्तगं शिवे ! ।
वङ्गदेशो मया प्रोक्तः सर्व्वसिद्धिप्रदर्शकः ॥”
इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥

वङ्गः, पुं, चन्द्रवंशीयवलिराजपुत्त्रः । यथा, --

“वलिः मुतपसो जज्ञे अङ्गवङ्गकलिङ्गकाः ।
सुह्मपौण्ड्राश्च वालेया अनपानस्तथाङ्गतः ॥”
इति गारुडे १४४ अध्यायः ॥ * ॥
(स च वङ्गो दीर्घतमस औरसो वलेः क्षेत्र-
जश्च । यथा, महाभारते । १ । १०४ । ४७-५१ ।
“ततः प्रसादयामास पुनस्तमृषिसत्तमम् ।
वलिं सुदेष्णां भार्य्यां स्वां तस्मै तां प्राहिणोत्-
पुनः ॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ।
भविष्यन्ति कुमारास्ते तेजसादित्यवर्च्चसः ॥
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्वश्च ते सुताः ।
तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि ॥
अङ्गस्याङ्गो भवेद्देशो वङ्गो वङ्गस्य च स्मृतः ।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः ॥
पुण्ड्रस्य पुण्ड्रा प्रख्याताः सुह्मा सुह्मस्य च
स्मृताः ।
एवं वलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥”)
वार्त्ताकुः । कार्पासः । इति मेदिनी । गे, २२ ॥

वङ्गजं, क्ली, (वङ्गात् धातुविशेषात् जायते इति ।

जन् + डः ।) सिन्दूरम् । इति रत्नमाला ॥
वङ्गदेशजाते, त्रि ॥

वङ्गनः, पुं, (वङ्गतीति । वगि + ल्युः ।) वार्त्ताकुः ।

इति शब्दरत्नावली ॥ वेगुन् इति भाषा ॥
(गुणादयोऽस्य वार्त्ताकुशब्दे ज्ञातव्याः ॥)

वङ्गला, स्त्री, रागिणीविशेषः । इति हलायुधः ॥

वङ्गालीति च नामान्तरम् ॥

वङ्गशुल्वजं, क्ली, (वङ्गशुल्वाभ्यां रङ्गताम्राभ्यां

जायते इति । जन + डः ।) कांस्यम् । इति
हेमचन्द्रः । ४ । ११५ ॥

वङ्गसेनः, पुं, वकवृक्षः । यथा, --

“वङ्गसेनस्त्वगस्तिद्रुः शुकनाशो मुनिद्रुमः ।
अनलिः कुनली ॥” इति त्रिकाण्डशेषः ॥

वङ्गसेनकः, पुं, (वङ्गसेन + स्वार्थे कन् ।) वकवृक्षः ।

यथा, --
“रक्तपुष्पो मुनितरुरगस्तिर्व्वङ्गसेनकः ॥”
इति रत्नमाला ॥
अस्य पुष्पगुणाः ।
“वासकस्य च पुष्पाणि वङ्गसेनस्य चैव हि ।
कटुपाकानि तिक्तानि कासक्षयकराणि च ॥”
इति राजवल्लभः ॥

वङ्गारिः, पुं, (वङ्गस्य रङ्गधातोररिः । अस्य वङ्ग-

धातुजारकत्वात् तथात्वम् ।) हरितालम् । इति
हेमचन्द्रः ॥

वङ्गालः, पुं, भैरवरागस्य पुत्त्रः । यथा, --

“वङ्गालः पञ्चमः षष्ठो मधुरो हर्षकस्तथा ।
देशाख्यो माधवः सिन्धुर्भैरवपुत्त्राः प्रकी-
र्त्तिताः ॥”
अस्य ध्यानम् ।
“कक्षानिवेशितकरण्डवरस्तपस्वी
भास्वत्त्रिशूलपरिमण्डितवामहस्तः ।
भस्मोज्ज्वलो निविडबद्धजटाकलापो
वङ्गाल इत्यभिहितस्तरुणार्कवर्णः ॥
षाडवो देववङ्गालो गृहांशन्यासमध्यमः ।
प्रहर्षे विनियोक्तव्यः प्रोक्तोऽयं मुनिना स्वयम् ॥”
इति सङ्गीतरत्नाकरः ॥

वङ्गाली, स्त्री, भैरवरागस्य रागिणी । यथा, --

“भैरवी कौशिकी चैव भाषा वेलावली तथा ।
वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः ॥”
इति सङ्गीतदामोदरः ॥
अस्या मूर्त्तिः ।
“मनोज्ञमुक्तागुणभूषिताङ्गी
शुकं दधाना धरणीधरस्था ।
प्रांशुः कुमारी कमनीयमूर्त्ति-
र्व्वङ्गालिकेयं शुचिसाङ्गगीता ॥”
इति सङ्गीतरत्नाकरः ॥
“वङ्गाली औडवा ज्ञेया गृहांशन्यासषड्ज-
भाक् ।
ऋधहीना च विज्ञेया मूर्ञ्छना प्रथमा मता ।
पूर्णा वा मद्वयोपेता कल्लिनाथेन भाषिता ॥”
इति सङ्गीतदर्पणम् ॥

वच, औ वाचि । सन्देशे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-अनिट् ।) औ, वक्ता ।
अयं सेम् (सेट्) इत्येके । न वचत्यप्रियं वचः ।
इति हलायुधः । इति दुर्गादासः ॥

वच, क सन्देशे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) सन्देशो वचनविशेषः ।
क, वाचयत्यखिलां लिपिमिति हलायुधः ।
इति दुर्गादासः ॥

वच, ल औ वाचि । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-द्विक०-सेट् ।) ल, वक्ति । औ, वक्ता ।
अस्मादन्तिविभक्तिर्न प्रयोज्या । इत्यालङ्का-
रिकाः । इति दुर्गादासः ॥ (यथा, --
“वचेरन्त्यन्तुशन्तृङ्भिः प्रयोगो नाभिधीयते ।
जयतेर्नास्ति पञ्चम्या उत्तमः पुरुषः क्वचित् ॥”
इति बहुसम्मतम् ॥)

वचः, पुं, (वक्तीति । वच् + अच् ।) कीरपक्षी ।

इति मेदिनी । चे, ९ ॥

वचः, [स्] क्ली, (उच्यते इति । वच् + “सर्व्व-

धातुभ्योऽसुन् ।” उणा० ४ । १८९ । इत्यसुन् ।)
वाक्यम् । इत्यमरः । १ । ६ । १ ॥ (यथा, रघौ । २ । ४१ ।
“इति प्रगल् भं पुरुषाधिराजो
मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावा-
दात्मन्यवज्ञां शिथिलीचकार ॥”)

वचक्नुः, पुं, (वक्तीति । वच् + “सृयुवचिभ्यो-

ऽन्युजागूजक्नुचः ।” उणा० ३ । ८१ । इति
अक्नुच् ।) ब्राह्मणः । इति मेदिनी । ने, १२७ ॥
पृष्ठ ४/२४७

वचक्नुः त्रि, (वक्तीति । वच् + “सृयुवचिभ्यः

इति ।” उणा० ३ । ८१ । इत्यक्नुच् ।) वावदूकः ।
इति मेदिनी । ने, १२७ ।

वचण्डी, स्त्री, शारिका । वर्त्तिः । शस्त्रभेदः ।

इति शब्दरत्नावली ॥ मेदिन्यां वचण्डा इति
वरण्डा इति च पाठः ॥

वचनं, क्ली, (उच्यतेऽनेनेति । श्लेष्मनाशकत्वादस्य

तथात्वम् । वच् + ल्युट् ।) शुण्ठी । इति शब्द-
चन्द्रिका ॥ वाक्यम् । तत्पर्य्यायः ।
“इरा सरस्वती ब्राह्मी भाषा वाणी च सारदा ।
गिरा गीश्च गिरां देवी गीर्देवी भारती-
श्वरी ॥
वाग्वाचा वचसामीशा वाग्देवी वर्णमातृका ।
वचनं भाषितं चोक्तिर्व्याहारो लपितं वचः ॥
वाग्देवीवचसोरेष पर्य्यायः परिकीर्त्तितः ।
यथास्थानं यथायोग्यं भेद ऊह्यो मनीषिभिः ॥”
इति शब्दरत्नावली ॥ * ॥
(यथा, हितोपदेशे ।
“असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीववचनं धन्यं कस्यापि जीवनम् ॥”)
तत्तु त्रिविधम् । यथा, --
वशिष्ठ उवाच ।
“वचनं त्रिविधं शैल लौकिके वैदिके तथा ।
सर्व्वं जानाति शास्त्रज्ञो निर्म्मलज्ञानचक्षुषा ॥
असत्यमहितं पश्चात् सांप्रतं श्रुतिसुन्दरम् ।
सुबुद्धिशत्रुर्व्वदति नहि तेषां कदाचन ॥
आपदः प्रीतिजनकं परिणामसुखावहम् ।
दयालुर्धर्म्मशीलश्च बोधयत्येव बान्धवम् ॥
श्रुतिमात्रात् सुधातुल्यं सर्व्वकाले सुखावहम् ।
सत्यं सारं हितकरं वचसां श्रेष्ठमीप्सितम् ॥
एवं स त्रिविधं शैल नीतिसारनिरूपितम् ।
कथ्यतां त्रिषुमध्ये किं वदामि वाक्यमीप्सि-
तम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४१ अध्यायः ॥
विभक्तिः । सा तु स्यादिस्त्यादिश्च । यथा ।
“क्तेरेकैकं वचनं क्रमात् क्वद्बव्वसंज्ञं स्यात् ।” इति
मुग्धबोधव्याकरणम् ॥ तद्वैदिकपर्य्यायः । श्लोकः
१ धारा २ इळा ३ गौः ४ गौरी ५ गान्धर्व्वी
६ गभीरा ७ गम्भीरा ८ मन्द्रा ९ मन्द्राजनी
१० वाशी ११ वाणी १२ वाणीची १३ वाणः
१४ पविः १५ भारती १६ धमनिः १७ नाळीः
१८ मेना १९ मेळिः २० सूर्य्या २१ सरस्वती २२
निवित् २३ स्वाहा २४ वग्नुः २५ उपब्दिः २६
मायुः २७ काकुत् २८ जिह्वा २९ घोषः ३०
स्वरः ३१ शब्दः ३२ स्वनः ३३ ऋक् ३४ होत्रा
३५ गीः ३६ गाथा ३७ गणः ३८ धेना ३९ ग्नाः
४० विपा ४१ नग्ना ४२ कशा ४३ धिषणा ४४
नौः ४५ अक्षरम् ४६ मही ४७ अदितिः ४८
शची ४९ वाक् ५० अनुष्टुप् ५१ धेनुः ५२
वल्गुः ५३ गल्दा ५४ सरः ५५ सुपर्णी ५६
वेकुरा ५७ । इति सप्तपञ्चाशत् वाङ्नामानि ।
इति वेदनिघण्टौ । १ । ११ ॥

वचनग्राही [न्], त्रि, (वचनं गृह्णातीति ।

ग्रह + णिनिः ।) वचने स्थितः । इत्यमरटीकायां
रमानाथः ॥

वचनीयः, त्रि, (वच् + अनीयर् ।) कथनीयः ।

इति वचधातोः कर्म्मणि अनीयप्रत्ययेन निष्पन्नः ॥
(निन्दायां, क्ली । यथा, कुमारे । ४ । २१ ।
“मदनेन विना कृता रतिः
क्षणमात्रं किल जीवितेति मे ।
वचनीयमिदं व्यवस्थितं
रमण ! त्वामनुयामि यद्यपि ॥”
“इति वचनीयं निन्दा मे मम व्यवस्थितम् ॥”
इति तट्टीकायां मल्लिनाथः ॥)

वचनीयता, स्त्री, (वचनीयस्य भावः । वचनीय +

तल् ।) लोकापवादः । यथा, --
“जनप्रवादः कौलीनं विगानं वचनीयता ॥”
इति हेमचन्द्रः । २ । १८४ ॥
(तथा, मृच्छकटिकनाटके तृतीयाङ्के ।
“कामं नीचमिदं वदन्ति पुरुषः स्वप्ने च
यद्वर्द्धते
विश्वस्तेषु च वञ्चनापरिभवश्चौर्य्यं न शौर्य्यं
हि तत् ।
स्वाधीना वचनीयतापि हि वरं बद्धो न
सेवाञ्जलि-
र्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्ब्बं कृतो
द्रौणिना ॥”)

वचनेस्थितः, त्रि, (वचने तिष्ठति स्मेति । स्था +

“गत्यर्थेति ।” ३ । ४ । ७२ । इति क्तः । “तत्पुरुषे
कृति बहुलम् ।” ६ । ३ । १४ । इति सप्तम्या अलुक् ।)
वचने तिष्ठति यः । वचनस्थः । तत्पर्य्यायः ।
विधेयः २ विनयग्राही ३ आश्रवः । इत्यमरः ।
३ । १ । २४ ॥ वश्यः ५ प्रणेयः ६ । इति केचि-
दिति भरतः ॥

वचनोपक्रमः, पुं, (वचनस्य उपक्रमः ।) वाक्या-

रम्भः । इति भरतशब्दरत्नावल्यौ ॥ तत्पर्य्यायः ।
उपन्यासः २ वाङ्मुखम् ३ । इत्यमरः ॥

वचरः, पुं, (अवान्तरे चरतीति । अव + चर +

अच् । अल्लोपः ।) कुक्कुटः । शठः । इति मेदिनी ॥

वचलुः, पुं, शत्रुः । यथा, --

“पुंसि मन्तुः क्षुपण्युश्च वचलुर्जगलुस्तथा ।
भरण्युश्च शरण्युः स्यादमित्रे सृणिरित्यपि ॥”
इति शब्दमाला ॥

वचसांपतिः, पुं, (वचसां वाचां पतिः ।) बृह-

स्पतिः । यथा, --
“जीवोऽङ्गिराः सुरगुरुर्व्वचसांपतीज्यौ ॥”
इति दीपिका ॥

वचस्करः, त्रि, (करोतीति । कृ + अच् । वचसः

करः ।) वचने स्थितः । इति केचित् ॥

वचा, स्त्री, (वाचयतीति । वच् + णिच् + अच् ।

निपातनात् ह्रस्वः । यद्वा, अन्तर्भाविण्यर्थात्
वचः अच् ।) औषधविशेषः । वच् इति भाषा ।
तत्पर्य्यायः । उग्रगन्धा २ षड्ग्रन्था ३ गोलोमी ४
शतपर्व्विका ५ । इत्यमरः । २ । ४ । १०२ ॥
तीक्ष्णा ६ जटिला ७ मङ्गल्या ८ विजया ९
उग्रा १० रक्षोघ्नी ११ । इति रत्नमाला ॥
वच्या १२ लोमशा १३ । इति जटाधरः ॥
भद्रा १४ । अस्या गुणाः । अतितीक्ष्णत्वम् ।
कटुत्वम् । उष्णत्वम् । कफामग्रन्थिशोफवात-
ज्वरातिसारसादभूतनाशित्वम् । वान्तिकारि-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च ।
“वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका ।
क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥
वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् ।
विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥
अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत् ॥”
अथ खुरासानी वचा ।
“पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा ।
हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः ॥”
अथ महाभरी वचा । यस्या लोके कुलीजन
इति नामान्तरम् ।
“सुगन्धाप्युग्रगन्धा च विशेषात् कफकासनुत् ।
सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ॥”
अपरा सुगन्धा स्थूलग्रन्थिर्यस्या लोके महाभरा
इति नाम ।
“स्थूलग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता ॥”
अथ चोपचीनीति लोके प्रसिद्धा । तस्या
गुणाः ।
“द्वीपान्तरवचा कट्वी तिक्तोष्णा वह्निदीप्तिकृत् ।
विवन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥
वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् ।
व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥”
इति भावप्रकाशः ॥ * ॥
अपरञ्च ।
“वचायुष्या वातकफतृष्णाघ्नी स्मृतिवर्द्धिनी ॥”
इति राजवल्लभः ॥ * ॥
अन्यच्च ।
“अद्भिर्व्वा पयसाज्येन मासमेकन्तु सेविता ।
वचा कुर्य्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥
चन्द्रसूर्य्यग्रहे पीतं पलमेकं पयोऽन्वितम् ।
वचायास्तत्क्षणं कुर्य्यान्महाप्रज्ञान्वितं नरम् ॥”
इति गारुडे १९८ अध्यायः ॥

वचोग्रहः, पुं, (गृह्णातीति । ग्रह + अच् ।

वचसां ग्रहः ।) कर्णः । इति राजनिर्घण्टः ॥

वज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) वजति । इति दुर्गादासः ॥

वज, क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) अयं मार्गणसंस्कारे
इति प्राञ्चः । मार्गणस्य शरस्य पक्षादिना
संस्कारो मार्गणसंस्कारः । क, वाजयति पक्षै-
र्बाणं काण्डकारः । इति रमानाथः ॥ मार्गण-
संस्कारयोरिति कश्चित् । इति दुर्गादासः ॥

वज्रं, पुं, क्ली, (वजतीति । वज गतौ + “ऋज्रे-

न्द्राग्रवज्रविप्रेति ।” उणा० २ । २८ । इति रन्-
प्रत्ययेन निपातितः ।) इन्द्रस्यास्त्रविशेषः । वाज्
इति भाषा ॥ तत्पर्य्यायः । ह्रादिनी २ कुलिशम् ३
पृष्ठ ४/२४८
भिदुरम् ४ पविः ५ शतकोटिः ६ स्वरुः ७
शम्वः ८ दम्भोलिः ९ अशनिः १० । इत्यमरः ।
१ । १ । ५० ॥ कुलीशम् ११ भिदिरम् १२ भिदुः
१३ स्वरुस् १४ सम्बः १५ संवः १६ अशनी १७
वज्राशनिः १८ । इति तट्टीका ॥ जम्भारिः १९
त्रिदशायुधम् २० शतधारम् २१ शतारम् २२
आपोत्रम् २३ अक्षजम् २४ । इति पुरुषो-
त्तमः ॥ गिरिकण्टकः २५ गौः २६ अभ्रोत्थम्
२७ मेघभूतिः २८ गिरिज्वरः २९ । इति
शब्दरत्नावली ॥ जाम्बविः ३० दम्भः ३१ । इति
जटाधरः ॥ भिद्रः ३२ अम्बुजम् ३३ । इति
त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । १ । ३२ । २ ।
“अहन्नहिं पर्व्वते शिश्रियाणं
त्वष्टास्मै वज्रं स्वर्य्यं ततक्ष ॥”)
अस्योत्पत्तिर्यथा, --
“तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ।
पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् ॥
त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् ।
दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम् ॥
रूपञ्च प्रतिमञ्चक्रे त्वष्टा पादादृते महत् ।
न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः ॥
अर्च्चास्वपि ततः पादौ न कश्चित् कारयेत्
क्वचित् ।
यः करोति स पापिष्ठां गतिमाप्नोति निन्दि-
ताम् ॥
कुष्ठरोगमवाप्नोति लोकेस्मिन् दुःखसंयुतम् ।
तस्मान्न धर्म्मकामार्थी चित्रेय्वायतनेषु च ।
न क्वचित् कारयेत् पादौ देवदेवस्य धीमतः ॥”
इति मात्स्ये ११ अध्यायः ॥ * ॥
अपि च ।
“प्रविश्य जठरं शुद्धो दैत्यमातुः पुरन्दरः ।
ददर्शोर्द्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥
तस्यैवान्तेऽथ ददृशे पेशीं मांसस्य वासवः ।
शुद्धस्फटिकसंकाशां कराभ्यां जगृहेऽथ ताम् ॥
ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः ।
कराभ्यामर्दयामास ततः सा कठिनाभवत् ॥
ऊर्द्ध्वेनार्द्धञ्च ववृधे त्वधोऽर्द्धं ववृधे तथा ।
शतपर्व्वा च कुलिशः संजातो मांसपेशितः ॥”
इति वामने ६८ अध्यायः ॥ * ॥
वृत्रासुरवधार्थं दधीचिमुनेरस्थ्ना इन्द्राज्ञया
विश्वकर्म्मणा निर्मितवज्रस्य प्रमाणं यथा, --
“एवं कृतव्यवसितो दध्यङ्ङाथर्व्वणस्तनुम् ।
परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥
यताक्षासु मनो बुद्धिस्तत्त्वदृक ध्वस्तबन्धनः ।
आस्थितः परमं योगं न देहं बुबुधे गतम् ॥
अथेन्द्रो वज्रमुद्यम्य निर्म्मितं विश्वकर्म्मणा ।
मुनेः सकथिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥
वृतो देवगणैः सर्व्वैर्गजेन्द्रो पर्य्यशोभत ।
स्तयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥”
इति श्रीभागवते ६ स्कन्धे १० अध्यायः ॥ * ॥
तन्निर्घोषवारकविधिर्यथा, --
“पचण्डपवनाघाते मेधेषु स्तनितेषु यः ।
त्रिः पठेज्जैमिनीयोऽस्मि प्राङ्मुखो वाप्युदङ्-
मुखः ॥
तस्य माभूद्भयं घोरं विद्युतीयोऽवसीदति ॥”
इत्याह्रिकतत्त्वधृतब्रह्मपुराणम् ॥
“मुनेः कल्याणमित्रस्य जैमिनेश्चापि कीर्त्तनात् ।
विद्युदग्निभयं नास्ति पठिते च गृहोदरे ॥”
लिखिते च गृहोदरे । इति वा पाठः ।
“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥”
इति पुराणम् ॥ * ॥ * ॥
रत्नविशेषः । हीरा इति भाषा । तत्पर्य्यायः ।
इन्द्रायुधम् २ हीरम् ३ भिदुरम् ४ कुलिशम् ५
पविः ६ अभेद्यम् ७ अशिरम् ८ रत्नम् ९ दृढम्
१० भार्गवकम् ११ षट्कोणम् १२ बहुधारम्
१३ शतकोटिः १४ । अस्य गुणाः । षड्रसो-
पेतत्वम् । सर्व्वरोगापहारकत्वम् । सर्व्वाघशम-
नत्वम् । सौख्यत्वम् । देहदार्ढ्यकरत्वम् । रसा-
यनत्वञ्च । तद्विशेषो यथा, --
“स्वच्छं विद्युत्प्रभं स्निग्धं सौन्दर्य्यं लघु लेखनम् ।
षडारन्तीक्ष्णधारञ्च सुशाम्यारं श्रियं दिशेत् ॥”
तस्य कुलक्षणं यथा, --
“भस्माभं काकपादञ्च रेखाक्रान्तन्तु वर्त्तुलम् ।
आधारमलिनं बिन्दु संत्रासे स्फुटितन्तथा ।
नीलाभं चिपिटं रूक्षं तद्वज्रं दोषलं त्यजेत् ॥”
वज्रस्य चतुर्व्वर्णलक्षणं यथा, --
“श्वेतालोहितपीतमेचकतया छायाश्चतस्रः
क्रमाद्-
विप्रादित्वमिहास्य यत् सुमनसः शंसन्ति सत्यं
ततः ।
स्फीतां कीर्त्तिमनुत्तमां श्रियमिदं दत्ते यथा
संधृतं
मर्त्यानामयथायथं तु कुलिशं पथ्यं हितं
जात्यतः ॥” * ॥
तस्य परीक्षा यथा, --
“यत् पाषाणतले निकाशनिकरे नोद्घृष्यते
निष्ठुरे
यच्चान्योपललोहमुद्गरमुखैर्लेखान्न यात्याहनम् ।
यच्चान्यं निजलीलयैव दलयेद्वज्रेण वा भिद्यते
तज्जातं कुलिशं वदन्ति कुशलाः श्लाध्यं महा-
र्घञ्च तत् ॥” * ॥
तस्य वर्णगुणौ यथा, --
“विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो
राजन्यस्तु नृणां बलीपलितजिन्मृत्युं जयेद-
ञ्जसा ।
द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्योऽथ शूद्रो
भवेत्
सर्व्वव्याधिहरस्तदेष कथितो वज्रस्य वर्णो
गुणः ॥”
इति राजनिर्घण्टः ॥ * ॥
अपि च ।
अथ वज्रस्य नामलक्षणगुणाः ।
“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः ।
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियो
मतः ।
पीतो वैश्योऽसितः शूद्रश्चतुर्व्वर्णात्मकश्च सः ॥
रसायने मतो विप्रः सर्व्वसिद्धिप्रदायकः ।
क्षत्त्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥
वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् ।
शूद्रो नाशयति व्याधीन् वयस्तम्भं करोति च ।
पुंस्त्रीनपुंसकाश्चैते लक्षणीयानि लक्षणैः ॥
सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥
रेखाबिन्दुसमायुक्ताः षडसास्ते स्त्रियः स्मृताः ॥”
षडस्राः षट्कोणाः ।
“त्रिकोणाश्च सुदीर्घाश्च ते विज्ञेया नपुंसकाः ॥
तेऽपि स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः ।
स्त्रियः कुर्व्वन्ति कायस्य कान्तिं स्त्रीणां सुख-
प्रदाः ॥
नपुंसकास्त्ववीर्य्याः स्युरकामाः सत्त्ववर्ज्जिताः ।
स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयो-
जयेत् ।
सर्व्वेभ्यः सर्व्वदा देयाः पुरुषा वीर्य्यवर्द्धनाः ॥
अशुर्द्ध कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा ।
पाण्डुतां पङ्गुरत्वञ्च तस्मात् संशोध्य मारयेत् ॥”
मारितस्य वज्रस्य गुणाः ।
“आयुः पुष्टिं बलं वीर्य्यं वर्णं सौख्यं करोति च ।
सेवितं सर्व्वरोगघ्नं मृतं वज्रं न संशयः ॥”
इति भावप्रकाशः ॥
(अथ वज्रमारणम् ।
“त्रिवर्षारूढकार्पासमूलमादाय पेषयेत् ।
त्रिवर्षनागवल्ल्यास्तु निजद्रावैः प्रपेषयेत् ॥
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटेनैव म्रियते कुलिशं ध्रुवम् ॥”
मतान्तरम् ।
“कांस्यपात्रे तु भेकस्य मूत्रे वज्रन्तु निःक्षिपेत् ।
त्रिःसप्तकृत्वः सन्तप्तं वज्रमेवं मृतं भवेत् ॥”
अथान्यः ।
“त्रिःसप्तकृत्वः सन्तप्तं खरमूत्रेण सेचयेत् ।
मुद्गरैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्ब्बक्रमेण तु ।
भस्मी भवति तद्वज्रं वज्रवत् कुरुते तनुम् ॥
आयुष्यं सौख्यजननं बलरूपप्रदन्तथा ।
रोगप्नं मृत्युहरणं वज्रभस्म भवत्यलम् ॥”
इति वज्रमारणम् । इति वेद्यकरसेन्द्रसारसंपहे
जारणमारणाधिकारे ॥ * ॥) अन्यच्च । अथ
वज्रगणना । विष्णुधर्म्मोत्तरे ।
“वज्रं मरकतञ्चैव पद्मरागञ्च मौक्तिकम् ।
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् ॥
चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं बलकं तथा ।
कर्केतरं पुष्परागं तथा ज्योतीरसं द्बिज ॥
स्फाटिकं राजवर्त्तञ्च तथा राजमतं शुभम् ।
सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा ॥
गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज ।
धूलीमरकतञ्चैव तुत्थकं सीसमेव च ॥
पृष्ठ ४/२४९
पीलुं प्रवालकञ्चैव गिरिवज्रञ्च भार्गव ।
भुजङ्गमामणिश्चैव तथा वज्रमणिः शुभः ॥
तित्तितञ्च तथा पीत्तं भ्रामरञ्च तथीत्पलम् ।
वज्राण्येतानि सर्व्वाणि धार्य्याण्येव महीभृता ॥
सुवर्णप्रतिबद्धानि जयारोग्यसमृद्धये ॥”
इति युक्तिकल्पतरुः ॥
तस्योत्पत्तिपरीक्षामूल्यादि यथा, --
“वच्मि परीक्षां रत्नानां बलो नामासुरोऽभ-
वत् ।
इन्द्राद्या निर्ज्जितास्तेन निर्ज्जेतुं तैर्न शक्यते ॥”
इत्यपक्रम्य ।
“महाप्रभावं विबुधैर्यस्माद्बज्रमुदाहृतम् ।
वज्रपूर्ब्बा परीक्षेयं ततोऽस्माभिः प्रकीर्त्त्यते ॥
तस्यास्थिलेशो निपपात येषु
भुवः प्रदेशेषु कथञ्चिदेव ।
वज्राणि वज्रायुधनिर्ज्जिगीषो-
र्भवन्ति नानाकृतिमन्ति तेषु ॥
हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोषलाः ।
वेण्वातटाः ससौवीरा वज्रस्याष्टाविहाकराः ॥
आताम्रा हिमशैलजाश्च शशिभा वेण्वा-
तटीयाः स्मृताः
सौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौरा-
ष्ट्रजाः ।
कालिङ्गाः कनकावदातरुचिराः पीतप्रभाः
कोषले
श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीत-
प्रभाः ॥
अत्यर्थं लघु वर्णतश्च गुणवत् पार्श्वेषु सम्यक्
समं
रेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्व्वर्जितम् ।
लोकेऽस्मिन् परमाणुमात्रमपि यत् वज्रं क्वचिद्
दृश्यते
तस्मिन् देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं
यदि ॥
वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः ।
वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव ॥
हरितसितपीतपिङ्गश्यामाताम्राः स्वभावतो
रुचिराः ।
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका
वर्णाः ॥
विप्रस्य शङ्खकुमुदस्फटिकावदातः
स्यात् क्षत्त्रियस्य शशवभ्रुविलोचनाभः ।
वैश्यस्य कान्तकदलीदलसन्निकाशः
शूद्रस्य धौतकरवालसमानदीप्तिः ॥
द्वौ वज्रवर्णौ पृथिवीपतीनां
सद्भिः प्रतिष्ठौ न तु सार्व्वजन्यौ ।
यः स्याज्जवाविद्रुमभङ्गशोणो
यो वा हरिद्रारससन्निकाशः ॥
ईशत्वात् सर्व्ववर्णानां गुणवत् सार्व्ववर्णिकम् ।
कामतो धारयेद्राजा न त्वन्योऽन्यत् कथञ्चन ॥
अघरोत्तरवृत्त्या हि यादृक् स्याद्वर्णसङ्करः ।
ततः कष्टतरो वडी वर्णानां सङ्करो मतः ॥
न च मार्गविभागमात्रवृत्त्या
विदुषा वज्रपरिग्रहो विधेयः ।
गुणवद्गुणसम्पदां विभूति-
र्व्विपरीतो व्यसनोदयस्य हेतुः ॥
एकमपि यस्य शृङ्गं
विदलितमवलोक्यते विशीर्णं वा ।
गुणवदपि तन्न धार्य्यं
वज्रं श्रेयोऽर्थिभिर्भवने ॥
स्फुटिताग्निविशीर्णशृङ्गदेशं
मलवर्णैः पृषतैरुपेतमध्यम् ।
नहि वज्रभृतोऽति वज्रमाशु
श्रियमन्याश्रयलालसां न कुर्य्यात् ॥
यस्यैकदेशः क्षतजावभासो
यद्वा भवेल्लोहितवर्णचित्रम् ।
न तन्न कुर्य्याद्ध्रियमाणमाशु
स्वच्छन्दमृत्योरपि जीवितान्तम् ॥
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्बादशेति च ।
उत्तुङ्गसमतीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥
षट्कोटिशुद्धममलं स्फुटतीक्ष्णधारं
वर्णान्वितं लघु सुपार्श्वमपेतदोषम् ।
इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्ष-
मेवंविधं भुवि भवेत् सुलभं न वज्रम् ॥
तीक्ष्णाग्रं विमलमपेतसर्व्वदोषं
धत्ते यः प्रयततनुः सदैव वज्रम् ।
वृद्धिस्तं प्रतिदिनमेति यावदायुः
श्रीसम्पत्सुतधनधान्यगोपशूनाम् ॥
व्यालवह्रिविषव्याघ्रतस्कराम्बुभयानि च ।
दूरात्तस्य निवर्त्तन्ते कर्म्माण्याथर्व्वणानि च ॥
यदि वज्रमपेतसर्व्वदोषं
विभृयात्तण्डुलविंशतिं गुरुत्वे ।
मणिशास्त्रविदो वदन्ति तस्य
द्विगुणं रूपकलक्षणमग्र्यं मूल्यम् ॥
त्रिभागहीनार्द्धतदर्द्धशेषं
त्रयोदशं त्रिंशदतोऽर्द्धभागाः ।
अशीतिभागोऽथ शतांशभागः
सहस्रभागोऽल्पसमानयोगः ॥
यत्तण्डुलैर्द्बादशभिः कृतस्य
वज्रस्य मूल्यं प्रथमं प्रदिष्टम् ।
द्बाभ्यां क्रमाद्धानिमुपागतस्य
त्वेकावसानस्य विनिश्चयोऽयम् ॥
न चापि तण्डुलैरेव वज्राणां धारणक्रमः ।
अष्टाभिः सर्षपैर्गौरैस्तण्डुलं परिकल्पयेत् ॥
यत्तु सर्व्वगुणैर्युक्तं वज्रं तरति वारिणि ।
रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥
अनेनापि हि दोषेण लक्ष्यालक्ष्येण दूषितम् ।
स्वमूल्यात् दशमं भागं वज्रं लभति मानवः ॥
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा ।
स्वमूल्याच्छतशो भागो वज्रस्य न विधीयते ॥
स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते ।
रत्नानां परिकर्म्मार्थं मूल्यं तस्य भवेल्लघु ॥
प्रथमं गुणसम्पदाभ्युपेतं
प्रतिबद्धं समुपैति यच्च दोषम् ।
अलमाभरणेन तस्य राज्ञो
गुणहीनोऽपि मणिर्न भूषणाय ॥
नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूति-
मिच्छन्त्या ।
अन्यत्र दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च ॥
अयसा पुष्परागेण तथा गोमेदकेन च ।
वैदूर्य्यस्फटिकाभ्याञ्च काचैश्चापि पृथग्विधैः ॥
प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला जनाः ।
परीक्षा तेषु कर्त्तव्या विद्वद्भिः स्वपरीक्षकैः ॥
क्षारोल्लेखनशालाभिस्तेषां कार्य्यं परीक्षणम् ।
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥
सर्व्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥
गुरुता सर्व्वरत्नानां गौरवाधारकारणम् ।
वज्र तान्वैपरीत्येन सूरयः परिचक्षते ॥
जातिरजातिं विलिखन्ति वज्रकुरुविन्दाः ।
वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् ।
वज्राणि मुक्ता मणयो ये च केचन जातयः ।
न तेषां प्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥
तिर्य्यक्क्षतत्वात् केषाञ्चित् कथञ्चिद्यदि
दृश्यते ।
तिर्य्यगालिख्यमानानां सा पार्श्वेष्वपि हन्यते ॥
यद्यपि विशीर्णकोटिः
सबिन्दुरेखान्वितो विवर्णो वा ।
तदपि धनधान्यपुत्त्रान्
करोति सेन्द्रायुधो वज्रः ।
सौदामिनीविस्फुरिताभिरामं
राजा यथोक्तं कुलिशं दधानः ।
पराक्रमाक्रान्तपरप्रतापः
समस्तसामन्तभुवं भुनक्ति ॥”
इति गारुडे ६८ अध्यायः ॥
वज्रार्थे वैदिकपर्य्यायो यथा । दिद्युत् १ नेमिः २
हेतिः ३ नमः ४ पविः ५ सृकः ६ वृकः ७ वधः ८
वज्रः ९ अर्कः १० कुत्सः ११ कुलिशः १२ तुजः
१३ तिग्मम् १४ मेनिः १५ स्वधितिः १६ सायकः
१७ परशुः १८ । इत्यष्टादश वज्रनामानि । इति
वेदनिघण्टौ । २ । २० ॥

वज्रं, क्ली, (वज गतौ + ऋज्रेन्द्रेति रन् ।)

बालकः । धात्री । इति मेदिनी । रे, ६ ॥
काञ्जिकम् । इति धरणिः ॥ वज्रपुष्पम् । इति
शब्दरत्नावली ॥ लौहविशेषः । स च बहुविधो
यथा । नीलपिण्डम् १ अरुणाभम् २ मोरकम् ३
नागकेशरम् ४ तिन्तिराङ्गम् ५ स्वर्णवज्रम् ६
शैवालवज्रम् ७ शोणवज्रम् ८ रोहिणी ९
काङ्कोलम् १० ग्रन्थिवज्रकम् ११ मदनाख्यम् १२
इत्यादि । तेषां नामानुरूपं चिह्रम् । इति
पुराणम् ॥ अभ्रविशेषः । तस्योत्पत्त्यादि
यथा, --
“पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् ।
विस्फूलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् ।
त्रेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् ।
पृष्ठ ४/२५०
गगनात् स्खलितं यस्मात् गगनञ्च ततो मतम् ॥
पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम् ।
वज्रन्तु वज्रवत् तिष्ठेत् तन्नाग्नौ विकृतिं व्रजेत् ॥
सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् ॥”
इति भावप्रकाशः ॥

वज्रः, पुं, (वज् + रन् ।) कोकिलाक्षवृक्षः ।

श्वेतकुशः । इति राजनिर्घण्टः ॥ सेहुण्ड-
वृक्षः । इति भावप्रकाशः ॥ श्रीकृष्णप्रपौत्त्रः ।
यथा, --
“अनिरुद्धात् सुभद्रायां वज्रो नाम नृपोऽभवत् ।
प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥”
इति गारुडे १४४ अध्यायः ॥
अपि च ।
“प्रद्युम्न आसीत् प्रथमः पितृवद्रुक्मिणीसुतः ।
स रुक्मिणो दुहितरमुपयेमे महारथः ॥
तस्यां ततोऽनिरुद्धोऽभून्नागायुतबलान्वितः ।
स चापि रुक्मिणः पौत्त्रीं दौहित्रो जगृहे ततः ॥
वज्रस्तस्यामभूद्यस्तु मौषलादवशेषितः ।
प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ॥”
इति श्रीभागवते १० स्कन्धे ९० अध्यायः ॥ * ॥
(विश्वामित्रपुत्त्रभेदः । यथा, महाभारते । १३ ।
४ । ५१; ५९ ।
“वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः ।
रुचिर्वज्रस्तथाख्यातः सालङ्कायन एव च ॥”
“विश्वामित्रात्मजाः सर्व्वे मुनयो ब्रह्मवादिनः ॥”)
विष्कम्भादिसप्तविंशतियोगान्तर्गतपञ्चदशयोगः ।
तस्याद्यनवदण्डा वर्ज्जनीया यथा, --
“त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः ।
गण्ड व्याघातयोः षट् च नव हर्षणवज्रयोः ॥
वैधृतिव्यतिपातौ च सभस्तौ परिवर्ज्जयेत् ।
शेषा यथार्थनामानो योगाः कार्य्येषु शोभनाः ॥”
इति ज्योतिस्तत्त्वम् ॥
अत्र जातफलं यथा, --
“गुणी गुणज्ञो बलवान् महौजाः
सद्रत्नवस्त्रादिपरीक्षकः स्यात् ।
वज्राभिधाने यदि चेत् प्रसूतो
वज्रोपमः स्याद्रिपुकामिनीनाम् ॥”
इवि कोष्ठीप्रदीपः ॥

वज्रकं, क्ली, (वज्र + संज्ञायां कन् ।) वज्रक्षारम् ।

इति राजनिर्घण्टः ॥ (यथा, सुश्रुते चिकित्सित-
स्थाने ९ अध्याये । तैलं वज्रकमभ्यङ्गार्थे ॥)
सर्व्वतोभद्रचक्रान्तर्गतसूर्य्यभोग्यनक्षत्रात् त्रयो-
विंशनक्षत्रात्मक उपग्रहः । यथा, --
“सूर्य्यभात् पञ्चमं धिष्ट्यं ज्ञेयं विद्युन्मुखा-
भिधम् ।
शून्यञ्चाष्टमगं प्रोक्तं सन्निपातं चतुर्द्दशम् ॥
केतुमष्टादशं प्रोक्तमुल्का स्यादेकविंशतिः ।
द्वाविंशतितमं कम्पं त्रयोबिंशञ्च वज्रकम् ।
निर्घातञ्च चतुर्व्विंशमुक्ता अष्टावुपग्रहाः ॥”
इति ज्योतिस्तत्त्वम् ॥

वज्रकङ्कटः, पुं, (वज्रः कङ्कटो देहावरणमस्य ।)

हनूमान् । इति हेमचन्द्रः । ३ । ३७० ॥

वज्रकण्टकः, पुं, (वज्रस्य कण्टकमिव तद्वार-

कत्वात् ।) स्नुहीवृक्षः । इति जटाधरः ॥ कोकि-
लाक्षवृक्षः । इति राजनिर्घण्टः ॥

वज्रकन्दः, पुं, (वज्राकारः कन्दोऽस्य ।) वज्रकर्णः ।

इति रत्नमाला ॥ सकरकन्द आलु इति
भाषा ॥

वज्रकपाली, [न्] पुं, (वज्रकपालोऽस्यास्तीति ।

इनिः ।) बुद्धविशेषः । तत्पर्य्यायः । हेरम्बः २
हेरुकः ३ चक्रसम्बरः ४ देवः ५ निशुम्भीशः ६
शशिशेखरः ७ वज्रटीकः ८ । इति हेमचन्द्रः ॥

वज्रकालिका, स्त्री, (वज्रोपलक्षिता कालिका ।)

मायादेवी । इति हेमचन्द्रः ॥

वज्रकेतुः, पुं, (वज्रं केतुश्चिह्रमस्य ।) नरकराजः ।

यथा, --
“गते वशिष्ठे नरकः शीघ्रं विस्मयसंयुतः ॥”
इत्युपक्रम्य ॥
“इति यासीन्मतिस्तस्य वज्रकेतोस्तदा चला ।
दूतञ्च प्राहिणोत् यस्तं वाणस्य नगरं प्रति ॥”
इति कालिकापुराणे ३८ अध्यायः ॥

वज्रक्षारं, क्ली, (वज्रसंज्ञकं क्षारमिति ।) क्षार-

विशेषः । तत्पर्य्यायः । वज्रकम् २ क्षार-
श्रेष्ठम् ३ विदारकम् ४ सारः ५ चन्दनारः ६
धूमोत्थम् ७ धूमजाङ्गकम् ८ । अस्य गुणाः ।
अत्युष्णत्वम् । तीक्ष्णत्वम् । क्षारत्वम् । रेचन-
त्वम् । गुल्मोदरार्त्तिविष्टम्भश्रमप्रशमनत्वम् ।
सरत्वञ्च । इति राजनिर्घण्टः ॥ (भक्षणीयौषध-
विशेषः । तद्यथा, --
“सामुद्रं सैन्धवं काचं यवक्षारं सुवर्च्चलम् ।
टङ्गणं सर्ज्जिका क्षारं तुल्यं सर्व्वं विचूर्णयेत् ॥
अर्कक्षीरैः स्नुहीक्षीरैरातपे भावयेत् त्र्यहम् ।
तेन लिप्त्वार्कपत्रञ्च रुद्ध्वा चान्तः पुटे पचेत् ॥
तत् क्षारं चूर्णयेत् पश्चात् त्र्यूषणस्त्रिफलारजः ।
जीरकं रजनी वह्रि नवभागं समं समम् ॥
क्षारार्द्धमेवं सर्व्वञ्च एकीकृत्य प्रयोजयेत् ।
वज्रक्षारमिदं सिद्धं स्वयं प्रोक्तं पिनाकिना ॥
सर्व्वोदरेषु गुल्मेषु शूलदोषेषु योजयेत् ।
अग्निमान्द्येऽप्यजीर्णेऽपि भक्ष्यं निष्कद्बयं द्वयम् ॥
वाताधिके जलं कोष्णं घृतं वा पैत्तिके हितम् ।
कफे गोमूत्रसंयुक्तमारनालं त्रिदोषजे ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे प्लीहाधिकारे ॥ * ॥)

वज्रचर्म्मा, [न्] पुं, (वज्रवत् दुर्भेद्यं चर्म्म यस्य ।)

खड्गी । गण्डकम् । इति राजनिर्घण्टः ॥

वज्रजित्, पुं, (वज्रं जयति तस्याघातसहनेनेति ।

जि + क्विप् । “ह्रस्वस्य पिति कृति तुक् ।” ६ ।
१ । ७१ । इति तुगागमश्च ।) गरुडः । इति
हेमचन्द्रः । २ । १४५ ॥

वज्रज्वाला, स्त्री, (वज्रस्य ज्वाला ।) वज्राग्निः ।

इति हलायुधः ॥ (यथा, मात्स्ये । १२१ । १४ ।
“वज्रज्वालान्तरमयः शाल्मलश्चान्तरालकृत् ॥”)

वज्रटीकः, पुं, (वज्रेण वज्रकपालेन टीकते प्रका-

शते इति । टीक + कः ।) वज्रकपाली नामक-
बुद्धः । इति त्रिकाण्डशेषः ॥

वज्रतुण्डः, पुं, (वज्रं वज्रतुल्यं कठिनन्तुण्डं यस्य ।)

गरुडः । गणेशः । इति त्रिकाण्डशेषः ॥ गृध्रः ।
मशकः । इति राजनिर्घण्टः ॥ (वज्रतुण्डधरे,
त्रि । यथा, भागवते । ५ । २६ । ३५ ।
“यस्त्विह वा अतिथीनभ्यागतान् वा गृहपति-
रसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा
निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी
वज्रतुण्डा गृध्रकङ्क काकवटादयः प्रसहोरुबला-
दुत्पाटयन्ति ॥”)

वज्रदन्तः, पुं, (वज्रमिव कठिना दन्ता यस्य ।)

शूकरः । मूषिकः । इति शब्दमाला ॥

वज्रदशनः, पुं, (वज्रमिव कठिनं दशनमस्य ।)

मूषिकः । इति हेमचन्द्रः । ४ । ३६६ ॥

वज्रद्रुः, पुं, (वज्रवारको द्रुः ।) स्नुहीवृक्षः । इत्य-

मरः ॥

वज्रद्रुमः, पुं, (वज्रवारको द्रुमः ।) स्नुहीवृक्षः ।

इति शब्दरत्नावली ॥ (तथास्य पर्य्यायः ।
“सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च ।
सुधासमन्तदुग्धा च स्नुक्स्त्रियां स्यात् स्नुही-
गुडा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वज्रधरः पुं, (धरतीति । धृ + अच् । वज्रस्य

धरः ।) इन्द्रः । इति हलायुधः ॥ (यथा, महा-
भारते । ३ । ११३ । २३ ।
“अरुन्धती वा सुभगा वशिष्ठं
लोपामुद्रा वापि यथा ह्यगस्त्यम् ।
नलस्य वा दमयन्ती यथाभूद्
यथा शची वज्रधरस्य चैव ॥”)
जिनविशेषः । इति त्रिकाण्डशेषः ॥ (वल्ला-
पुराधिपतिराजविशेषः । यथा, राजतरङ्गि-
ण्याम् । ८ । ५४० ।
“उपरागे नवे सज्जे पार्व्वतीयास्त्रयो नृपाः ।
चाम्पेयो जासटो वज्रधरो वल्लापुराधिपः ॥”)

वज्रनिर्घोषः, पुं, (वज्रस्य निर्घोषः ।) वज्रजनित-

शब्दः । इति हलायुधः ॥

वज्रनिष्पेषः, पुं, (वज्राणां निष्पेषः संघर्षध्वनिः ।)

वज्रनिर्घोषः । तत्पर्य्यायः । स्फुर्जथुः २ । इत्य-
मरः । १ । ३ । १० ॥ “द्वे वज्रजनितशब्दे ।
अन्योन्यसंघट्टनात् भग्नं साग्निमेघखण्डं वज्रमिव
वज्रं तस्य साटोपध्वनौ द्वयमिति केचित् ॥
ट्वो स्फुर्ज्जी वज्रनिष्पेषे । निष्पेषः संघट्टध्वनिः ।
अशन्याधात इत्येके । निष्पेषश्चूर्णनं साटोप-
ध्वनिश्च इह तु ध्वनिरभिप्रेतः । श्रुत्वा विस्फु-
र्जथुप्रख्यं निनादं परिदेविनीति भट्टिः । ट्वितो-
ऽथुरिति अथुः निपातनान् दीर्घः । स्फुर्जे-
रथुरिति दीर्घार्थं परसूत्रम् । केचित्तु दीर्घं
नेच्छन्ति । केचिद्बिभाषया दीर्घमिच्छन्ति ।
वज्रस्य निष्पेषो वज्रनिष्पेषः धौ पिष ऌ चूर्णने
घञ् । निष्पेषो द्बिमूर्द्धन्यः ।” इति भरतः ॥

वज्रपाणिः, पुं, (वज्रं पाणौ यस्य ।) इन्द्रः । इति

त्रिकाण्डशेषः ॥ (यथा, महाभारते । ६ । १९ । ७ ।
“एष व्यूहामि ते व्यूहं राजसत्तम दुर्ज्जयम् ।
पृष्ठ ४/२५१
अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥”
ब्राह्मणः । यथा, महाभारते । १ । १७१ । ५१ ।
“वज्रपाणिर्ब्राह्मणः स्यात् क्षत्त्रं वज्ररथं स्मृतम् ।
वैश्या वै दानवज्राश्च कर्म्मवज्रा यवीयसः ॥”)

वज्रपुष्पं, क्ली, (वज्रमिव पुष्पम् ।) तिलपुष्पम् ।

इत्यमरः । २ । ४ । ७६ ॥

वज्रपुष्पा, स्त्री, (वज्रमिव पुष्पं यस्याः ।) शतपुष्पा ।

इति राजनिर्घण्टः ॥

वज्रबीजकः, पुं, (वज्रमिव कठिनं बीजमस्य ।

कप् ।) लताकरञ्जः । इति राजनिर्घण्टः ॥

वज्रमूली, स्त्री, (वज्रमिव कठिनं मूलं यस्याः ।

ङीष् ।) माषपर्णी । इति राजनिर्घण्टः ॥
(विवरणमस्या मासपर्णीशब्दे ज्ञातव्यम् ॥)

वज्ररथः, पुं, (वज्रमिव रथो यस्य ।) क्षत्त्रियः । इति

पुराणम् ॥ (यथा, महाभारते । १ । १७१ । ५१ ।
“वज्रपानिर्ब्राह्मणः स्यात् क्षत्त्रं वज्ररथं
स्मृतम् ॥”)

वज्ररदः, पुं, (वज्रमिव रदोऽस्य ।) शूकरः ।

इति त्रिकाण्डशेषः ॥ वज्रतुल्यदन्तश्च ॥

वज्रवल्ली, स्त्री, (वज्रमिव कठिना वल्ली ।) अस्थि-

संहारलता । इति हारावली ॥

वज्रवाराही, स्त्री, मायादेवी । तत्पर्य्यायः ।

मारीची २ त्रिमुखा ३ वज्रकालिका ४ विकटा ५
गौरी ६ पोत्रिरथा ७ । इति त्रिकाण्डशेषः ॥

वज्रवृक्षः, पुं, (वज्रनिवारको वृक्षः ।) सेहुण्ड-

वृक्षः । इति राजनिर्घण्टः ॥ (तथास्यान्यः
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“स्नुही स्नु क् च महावृक्षो वज्रवृक्षः सुधा-
गुडा ॥”)

वज्रशल्यः, पुं, (वज्रमिव कठिनं शल्यं गात्र-

लोमशलाका यस्य ।) शल्यकनामा जन्तुः ।
इति राजनिर्घण्टः ॥

वज्रशृङ्खला, स्त्री, (वज्रवत् शृङ्खलं यस्याः ।)

विद्यादेवी । इति हेमचन्द्रः । २ । १५३ ॥

वज्रसूर्य्यः, पुं, (अतिसारवत्त्वात् वज्रमिव तेजस्वि-

त्वात् सूर्य्य इव च ।) बुद्धविशेषः । इति
त्रिकाण्डशेषः ॥

वज्रा स्त्री, (वजति गच्छतीति । वज गतौ +

“ऋज्रेन्द्रेति ।” उणा० २ । २८ । इति रक् ।
टाप् ।) स्नुहीवृक्षः । गुडूची । इति मेदिनी ।
रे, ८१ ॥ दुर्गा । यथा, --
“वज्राङ्कुशकरी देवी वज्रा तेनोपगीयते ॥”
इति देवीपुराणे ४५ अध्यायः ॥

वज्राङ्गः, पुं, (वज्रमिव अङ्गं यस्य ।) सर्पः । इति

राजनिर्घण्टः ॥ वक्राङ्ग इति वा पाठः । वज्र-
तुल्याङ्गयुक्ते, त्रि ॥

वज्राङ्गी, स्त्री, (वज्रमिव अङ्गं यस्याः । ङीष् ।)

गवेधुका । इति शब्दचन्द्रिका ॥ अस्थि-
संहारी । इति भावप्रकाशः ॥

वज्राभः, पुं, (वज्रस्य हीरकस्य आभा इव आभा

यस्य ।) दुग्धपाषाणः । इति राजनिर्घण्टः ॥
हीरकतुल्यदीप्तिमति, त्रि ॥

वज्राशनिः, पुं, वज्रम् । इति त्रिकाण्डशेषः ॥

वज्रास्थिशृङ्खला, स्त्री, कोकिलाक्षवृक्षः । इति

राजनिर्घण्टः ॥

वज्री, [न्] पुं, (वज्रोऽस्त्यस्येति । वज्र + “अत

इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
इन्द्रः । इत्यमरः । १ । १ । ४५ ॥ (यथा,
रघुः । ९ । २४ ।
“यमकुबेरजनेश्वरवज्रिणां
समधुरं मधुरञ्चितविक्रमम् ॥”)
बुद्धः । इति मेदिनी । ने, १२६ ॥ (वज्र-
विशिष्टे, त्रि । यथा, महाभारते । १३ । १४ ।
३८१ ।
“पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं
शुभाङ्गदं व्यालयज्ञोपवीतम् ॥)

वज्री, स्त्री, (वज् + रक् । गौरादित्वात् ङीष् ।)

स्नुहीभेदः । इति मेदिनी । रे, ८१ ॥ (तथास्याः
पर्य्यायः ।
“सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि
च ।
सुधासमन्तदुग्धा च स्नुक् स्त्रियां स्यात् स्नुही-
गुडा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वञ्चकः, पुं, (वञ्चयते प्रतारयतीति । वञ्च +

णिच् + ण्वुल् ।) शृगालः । इत्यमरः ॥ गृह-
वभ्रुः । इति मेदिनी । के, १५४ ॥

वञ्चकः, त्रि, (वञ्चयते इति । वञ्च + णिच् +

ण्वुल् ।) खलः । धूर्त्तः । इति मेदिनी । के,
१५४ ॥ (यथा, कलाविलासे । १ । ३९ ।
“शृणु पुत्त्र वञ्चकानां सकलकलाहृदयसार-
मतिकुटिलम् ।
ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियो-
ऽप्यचलाः ॥”)

वञ्चथः, पुं, (वञ्चति प्रतारयतीति । वञ्च +

“शीङ्शपीति ।” उणा० ३ । ११३ । इति
अथः ।) धूर्त्तः । इत्युणादिकोषः ॥ वञ्चना ।
कोकिलः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वञ्चनं क्ली, (वञ्च + भावे ल्युट् ।) प्रतारणम् ।

इति हेमचन्द्रः । ३ । ४३ ॥ तस्य गोपनीय-
त्वम् । यथा, --
“वञ्चनञ्चापमानञ्च मतिमान्न प्रकाशयेत् ॥”
इति चाणक्यसंग्रहः ॥

वञ्चना, स्त्री, (वञ्च + णिच् + युच् + टाप् ।)

प्रतारणा । यथा, --
“ते कान्तं मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
स्वर्गाभिसन्धि सुकृतं वञ्चनामिव मेनिरे ॥”
इति कुमारसम्भवे । ६ । ४७ ॥

वञ्चितः, त्रि, (वञ्च्यते स्मेति । वञ्च + णिच् +

क्तः ।) वञ्चनाविशिष्टः । प्रतारितः । तत्-
पर्य्यायः । विप्रलब्धः २ । इति हेमचन्द्रः ।
३ । १०६ ॥ (यथा, कुमारे । ४ । १० ।
“विधिना जन एष वञ्चित-
स्त्वदधीनं खलु देहिनां सुखम् ॥”)

वञ्चुकः, त्रि, (वञ्चति प्रतारयतीति । वञ्च +

उकञ् ।) प्रतारणशीलः । तत्पर्य्यायः । धूर्त्तः २
वञ्चूकः ३ । इति शब्दरत्नावली ॥

वञ्च्यं, त्रि, (वन्च् + ण्यत् । “वञ्चेर्गतौ ।” ७ । ३ ।

६३ । इति कुत्वं न ।) गमनीयम् । इति गत्यर्थ-
वन्चधातोः कर्म्मणि घ्यण्प्रत्ययेन निष्पन्नम् ।
इति मुग्धबोधव्याकरणम् ॥

वञ्जुलः, पुं, (वजतीति । वज गतौ + बाहुलकात् ।

उलच् नुम्च ।) तिनिशवृक्षः । (तथास्य
पर्य्यायः ।
“तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अशोकवृक्षः । इत्यमरः । २ । ४ । २७ ॥
स्थलपद्मवृक्षः । इति शब्दरत्नावली ॥ पक्षि-
विशेषः । इति हलायुधः ॥ वेतसवृक्षः । इति
मेदिनी । ले, १२९ ॥ (अस्य पर्य्यायो यथा, --
“वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा ।
अभ्रपुष्पश्च विदुलो ह्यथ शीतश्च कीर्त्तितः ॥”
इति भावप्रकाशः ॥
यथा च रामायणे । ६ । ४ । ७९ ।
“चिरविल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥”)

वञ्जुलद्रुमः, पुं, (वञ्जुलो द्रुमः ।) अशोकवृक्षः ।

इति राजनिर्घण्टः ॥ (वेतसवृक्षादिरपि तदर्थे
वञ्जुलशब्ददर्शनात् ॥)

वञ्जुलप्रियः, पुं, (वञ्जुलस्य प्रियः । वञ्जुलः प्रिय-

श्चेति कर्म्मधारयो वा ।) वेतसवृक्षः । यथा,
“विदुलो वेतसः शीतो वानीरो वञ्जुलप्रियः ॥”
इति रत्नमाला ॥

वञ्जुला, स्त्री, (रञ्जुल + टाप् ।) बहुदुग्धा गौः ।

इति हेमचन्द्रः । ४ । ३३५ ॥ (नदीविशेषः ।
यथा, मात्स्ये । ११३ । २९ ।
“गोदावरो भीमरथी कृष्णवेणी च वञ्जुला ।
तुङ्गभद्रा सुप्रयोगा बाह्या कावेरी चैव तु ।
दक्षिणापथनद्यस्ताः सह्यपादाद्बिनिःसृताः ॥”)

वट, वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) वटति वृक्षं लता । इति दुर्गा-
दासः ॥

वट, इ स्तेये । सौत्रधातुरयम् । इति कविकल्प-

द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । इदित् ।) इ,
वण्टकः । इति दुर्गादासः ॥

वट, इ कि वण्टने । इति कविकस्त्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) वण्टनं
विभागः । इ, वण्ट्यते । कि, वण्टयति वण्टति ।
वण्टन्ति हाटकं यस्मात् प्राप्य विप्राः परस्परम् ।
इति हलायुधः । अयं चुरादौ कैश्चिन्न पठ्यते ।
इति दुर्गसिंहादयः । इति दुर्गादासः ॥

वट, त् क वेष्टे । भागे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) वटयति ।
इति दुर्गादासः ॥

वट, म उक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, वटयति । इति दुर्गा-
दासः ॥
पृष्ठ ४/२५२

वटः, पुं, (वटति वेष्टयति मूलेन वृक्षान्तरमिति ।)

वट् + पचाद्यच् ।) वृक्षविशेषः । वड्गाछ
इति भाषा । तत्पर्य्यायः । न्यग्रोधः २ बहु-
पात् ३ । इत्यमरः । २ । ४ । ३२ ॥ वृक्षनाथः ४
यमप्रियः ५ । इति शब्दरत्नावली ॥ रक्त-
फलः ६ शृङ्गी ७ कर्म्मजः ८ ध्रुवः ९ क्षीरी १०
वैश्रवणावासः ११ भाण्डीरः १२ । इति जटा-
धरः ॥ जटालः १३ रोहिणः १४ अवरोही १५
विटपी १६ स्कन्धरुहः १७ मण्डली १८ महा-
च्छायः १९ भृङ्गी २० यक्षावासः २१ यक्षतरुः
२२ पादरोहणः २३ नीलः २४ शिफारुहः २५
बहुपादः २६ वनस्पतिः २७ । अस्य गुणाः ।
कषायत्वम् । मधुरत्वम् । शिशिरत्वम् । कफ-
पित्तज्वरदाहतृषामोहव्रणशोफनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः ।
वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् ॥”
इति भावप्रकाशः ॥ * ॥
स च रुद्रस्वरूपः । यथा, --
ऋषय ऊचुः ।
“कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।
सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ ॥
सूत उवाच ।
अश्वत्थरूपो भगवान् विष्णुरेव न संशयः ।
रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।
दुःखापद्व्याधिदुष्टानां विनाशकारिणौ ध्रुवम् ॥”
इति पाद्मोत्तरखण्डे १६० अध्यायः ॥
अन्यत् पलाशशब्दे द्रष्टव्यम् ॥ * ॥ कपर्द्दः । इति
मेदिनी । टे, २४ ॥ कडि इति भाषा ॥ गोलः ।
भक्ष्यम् । वडा इति भाषा । साम्यम् । इति
हेमचन्द्रः ॥ * ॥ क्ली, व्रजमण्डलाभ्यन्तरीणवट-
संज्ञकषोडशवनानि यथा । अथैषां षट्-
साङ्गवनानामभ्यन्तरे सङ्केतवटाद्या यमुनाया-
श्चतुरशीतिक्रोशमर्य्यादान्तरे दक्षिणोत्तरतटयोः
षोडशवनानि । पाद्मे ।
“सङ्केतवटमादौ तु भाण्डीराख्यं वटं द्वयम् ।
यावकाख्यं तृतीयञ्च वटं शृङ्गारसंज्ञकम् ॥
तूर्य्यं वंशिवटं श्रेष्ठं पञ्चमं श्रीवटञ्च षट् ।
सप्तमञ्च जटाजूटं कामाख्यवटमष्टकम् ॥
मनोऽर्थवटकं नाम नवमं परिकीर्त्तितम् ।
आशावटं महाश्रेष्ठं दशमं शुभदायकम् ॥
अशोकाख्यं वटं श्रेष्ठमेकादशमुदाहृतम् ।
नाम केलिवटं श्रेष्ठं द्बादशं परिकीर्त्तितम् ॥
नाम ब्रह्मवटञ्चैव त्रयोदशमसंज्ञकम् ।
नाम रुद्रवटं श्रेष्ठं चतुद्दशमुदाहृतम् ॥
श्रीधराख्यं वटं ख्यातं पञ्चदशसमीरितम् ।
मावित्राख्यं वटं श्रेष्ठं संख्याषोडशनिर्म्मितम् ॥”
इति व्रजमण्डलान्तरे षोडशवटानि । इति
नारायणभट्टकृतव्रजभक्तिविलासः ॥ * ॥

वटः, त्रि, (वटतीति । वट् + अच् ।) गुणः । इति

मेदिनी । टे, २४ ॥ वेटे इति भाषा ॥

वटकः, पुं, (वट एव । स्वार्थे कन् ।) पिष्टक-

विशेषः । इत्यमरभरतौ ॥ वडा इति भाषा ।
अस्य गुणौ । विदाहित्वम् । तृष्णाकारित्वञ्च ।
इति राजवल्लभः ॥ अपि च ।
“माषाणां पिष्टिकां युक्तां लवणार्द्रकहिङ्गुभिः ।
कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः ॥
विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः ।
वातामयहरा रुच्या विशेषादर्दितापहाः ॥
विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः ।
संचूर्ण्य निक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च ॥
लवणं तत्र वटकान् सकलानपि मज्जयेत् ।
शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः ॥
विबन्धकृद्विदाही च श्लेष्मलः पवनापहः ।
राज्यक्तयातिरोचिन्या पाचन्या तांस्तु भक्षयेत् ॥
तत्प्रकारा यथा ।
कदलसुमनमाषक्षोदसत्सीरिशस्यै-
र्म्मरिचसुघनदुग्धैः सच्चतुर्ज्जातचन्द्रैः ।
कृत इह घृतपक्वो यः पतेत् खण्डपाके
वटकममृतकेलिं सा व्यधात्तं प्रियेष्टम् ॥ १ ॥
सामिक्षैः शालिचूर्णैर्दधिमरिचसितानारिकेला-
र्द्रशस्यै-
र्जात्येलासल्लवङ्गामृतकदलफलैः फेणितैः
पिष्टमुद्गैः ।
सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्धपूरे
प्रगाढे
सेन्दौ कर्पूरकेलिं तमिह मुवटकं सा व्यधात्
स्वप्रियेष्टम् ॥ २ ॥
ग्रन्थिवद्बटिकालिस्तैर्द्रव्यैः सृष्टा तु या पतेत् ।
पञ्चामृते व्यधात्तां सा पीयूषग्रन्थिपालिकाम् ॥ ३
सक्षीरसारशशितण्डूलनारिकेल-
जातीलवङ्गमरिचैः ससितैः सुपिष्टैः ।
रम्भैलया च घृतभावनया भवेद्या
सा तामनङ्गगुटिकां विदधे प्रियेष्टाम् ॥ ४ ॥
कदलमरिचदुग्धैः खण्डगोधूमपक्व-
प्रकटितवटकोऽयं भूरिजातीफलाढ्यः ।
नवविधुमधुमध्ये यो विलासं विधत्ते
रचित इह तयासौ सीधुपूर्व्वो विलासः ॥ ५ ॥
लवङ्गैलेन्द्वमरिचैः संयुतैः शर्कराचयैः ।
चक्रे गङ्गाजलाख्यानि लड्डुकान्यपराणि च ॥ ६
तैस्तैर्युतैः क्षीरसारैस्तथा लाङ्गलिशस्यकैः ।
अन्यान्यप्याज्यसंभृष्टैः सा रसैः सरपूपिका ॥” ७
इति रघुनाथभट्टकृते गोविन्दलीलामृते १९
सर्गः ॥ * ॥ अथाम्लिकावटकः ।
“अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत् ।
तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः ॥
अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः ।
वटकस्य गुणेः पूर्व्वैरेतेऽपि च समन्विताः ॥ * ॥
अथ तक्रवटकः ।
मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः ।
संस्कारजप्रभावेण त्रिदोषशमना हिताः ॥ * ॥
अथ माषवटकः ।
माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृताः ।
तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ॥
तालितास्तप्ततैले ता अथवा सुप्रलेहिताः ।
वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ॥ *
अथ कुष्माण्डवटिः ।
कुष्माण्डकवटी ज्ञेया पूर्व्वोक्तवटिकागुणा ।
विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ॥
अथ मुद्गवटिका ।
मुद्गानां वटिका तद्वद्द्रविता साधिता तथा ।
पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ॥”
इति भावप्रकाशः ॥ * ॥
(वटी । वडि इति भाषा ॥ यथा, --
“वटका अथ कथ्यन्ते तन्नाम गुटिका वटी ।
मोदको वटिका पिण्डी गुडोवर्त्तिस्तथोच्यते ॥
लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा ।
गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥
यथा च ।
“मण्डूरं चूर्णयेच्छुद्धं गोमूत्रेऽष्टगुणे क्षिपेत् ।
पक्त्वा च वटकं कृत्वा दद्यात्तक्रानुपानतः ॥”
इति शार्ङ्गधरे मध्यखण्डे सप्तमेऽध्याये मण्डूर
वटके ॥ * ॥) अष्टमाषकपरिमाणम् । यथा, --
“दशगुञ्जास्तु माषः स्यात् शाणो माषचतुष्टयम् ।
द्वौ शाणौ वटकः कोणस्तोलको द्रङ्खणश्च सः ॥”
इति शब्दमाला ॥
(तथा च ।
“माषेश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ।
टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते ।
क्षुद्रको वटकश्चैव द्रङ्क्षणः स निगद्यते ॥”
इति शार्ङ्गधरे पूर्व्वखण्डे प्रथमेऽध्याये ॥)

वटपत्रः, पुं, (वटस्येव पत्रं यस्य ।) सितार्जकः ।

इति राजनिर्घण्टः ॥ (तथास्य पर्य्यायः ।
“वर्व्वरी तुवरी तुङ्गी खरपुष्पाजगन्धिका ।
पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ ॥
तत्र शुक्लेऽर्ज्जकः प्रोक्तो वटपत्रस्तोऽपरः ॥”
इति भावप्रकाशम्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वटपत्रा, स्त्री, (वटम्येव पत्रमस्याः ।) त्रिपुर-

मालीपुष्पवृक्षः । इति रत्नमाला ॥

वटपत्री, स्त्री, (वटस्येव पत्रं यस्याः । गौरादि-

त्वात् ङीष् ।) पाषाणभेदीविशेषः । तत्पर्य्यायः ।
इनानी २ ऐरावती ३ गोधावती ४ इरावती ५
श्यामा ६ खट्टाङ्गनामिका ७ । अस्याः गुणाः ।
हिमत्वम् । गोल्यत्वम् । मेहकृच्छ्रविनाशित्वम् ।
बलदातृत्वम् । व्रणहन्तृत्वम् । किञ्चिद्दीपन-
कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“वटपत्री तु कथिता मोहिन्यैरावती बुघैः ।
वटपत्री कषायोष्णा योनिमूत्रगदापहा ॥”
इति भावप्रकाशः ॥

वटरः, पुं, कुक्कुटः । वेष्टः । शठः । चौरः ।

चञ्चलः । इति शब्दरत्नावली ॥

वटवासी [न्] पुं, स्त्री, (वटे वटवृक्षे वसतीति ।

वस् + णिनिः ।) यक्षः । इति हेमचन्द्रः । २
१०८ ॥ वटवृक्षवासकर्त्तरि, त्रि ॥
पृष्ठ ४/२५३

वटाकरः, पुं, रज्जुः । इत्यमरटीकायां रामा-

श्रमः ॥

वटारका, स्त्री, रज्जुः । दडि इति वेटे इति च

भाषा । इति पुराणम् ॥ (यथा, महाभारते ।
१२ । ३२९ । ३९ ।
“क्षत्रारित्रां सत्यमयीं धर्म्मस्थैर्य्यवटारकाम् ॥”
पुंलिङ्गोऽप्ययं शब्दः । यथा, महाभारते ।
३ । १८७ । ४० ।
“वटारकमयं पाशमथ मत्स्यस्य मूर्द्धनि ।
मनुर्मनुजशार्द्दूल ! तस्मिन् शृङ्गे न्यवेशयत् ॥”)

वटावीकः, पुं, चौरविशेषः । यथा, --

“नामचौरो वटावीकः सन्धिचौरस्तु हारकः ॥”
इति शब्दमाला ॥

वटिः, स्त्री, (वटतीति । वट + “सर्व्वधातुभ्य इन् ।”

उणा० ४ । ११८ । इति इन् ।) उपजिह्विका ।
यथा, --
“उपजिह्विकोत्पादिका च वटिरुद्देहिका
देवी ॥”
इति हारावली । ११० ॥

वटिका, स्त्री, (वटिरेव । स्वार्थे कन् । टाप् ।)

वटी । वडी इति भाषा । तत्पर्य्यायः । निस्तली
२ । इति शब्दचन्द्रिका ॥ अथ वटिकाविधिः ।
“वटका अथ कथ्यन्ते तन्नामा वटिका वटी ।
मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥
लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा ।
गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥”
तत्र वह्निसिद्धे गुडादौ ।
“कुर्य्यादवह्रिसिद्धेन क्वचिद्गुग्गुलुना वटीम् ।
द्रवेण मधुना वापि गुटिकां कारयेद्बुधः ॥
सिता चतुर्गुणा देया वटीषु द्बिगुणो गुडः ।
चूर्णे चूर्णसमः कार्य्यो गुग्गुलुर्मधु तत्समम् ॥”
तत्समं चूर्णसमम् ।
“द्रवन्तु द्विगुणं देयं मोदकेषु भिषग्वरैः ॥”
द्रवं चतुर्गुणमिति वा पाठः । द्रवं द्रवरूपं द्रव्यम् ।
“कर्षप्रमाणा तन्मांत्रा बलं दृष्ट्वा प्रयुज्यते ।
बलमिति कालादेरप्युपलक्षणम् । इति भाव-
प्रकाशः ॥ * ॥ व्यञ्जनोपयोगिद्रव्यम् । अस्यापि
वडी इति भाषा । यथा, --
“माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता ।
तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ॥
तालितास्तप्ततैले ता अथवा सुप्रलेहिताः ।
घटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ॥
कुष्माण्डकवटी ज्ञेया पूर्ब्बोक्तवटीकागुणा ।
विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ॥
मुद्गानां वटिका तद्वद्रचिता साधिता तथा ।
पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ॥”
इति भावप्रकाशः ॥

वटी, स्त्री, (वट् + अच् । गौरादित्वात् ङीष् ।)

वटिका । इति भावप्रकाशः ॥ वृक्षविशेषः ।
तत्पर्य्यायः । नदीवटः २ यज्ञवृक्षः ३ सिद्धार्थः ४
वटकः ५ अमरा ६ भृङ्गिणी ७ क्षीरकाष्ठा ८ ।
अस्या गुणाः । कषायत्वम् । मधुरत्वम् ।
शिशिरत्वम् । पित्तनाशित्वम् । दाहतृष्णा-
श्रमश्वासविषच्छर्द्दिशमनत्वञ्च । इति राज-
निर्घण्टः ॥

वटी, त्रि, रज्जुः । इत्यमरः । २ । १० । २७ ॥

व(ब)टुः, पुं, (वटतीति । वट् + “कटिवटिभ्याञ्च ।”

उणा० १ । ९ । इति उः ।) माणवकः ।
यथा, --
“वटुः पुनर्म्माणवको भिक्षास्य ग्रासमात्रकम् ॥”
इति हेमचन्द्रः ॥
ब्रह्मचारी । यथा । वटुर्व्वर्णी ब्रह्मचारी । इति
शब्दरत्नावली ॥ (यथा, महाभारते । १ ।
१८९ । १५ ।
“तस्माद्ब्रुवन्तु सर्व्वेऽत्र वटुरेष धनुर्म्महान् ।
आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः ॥”)
कुटन्नटवृक्षः । यथा, --
“मण्डूकपर्णः श्योणाकः शुकनासः कुटन्नटः ।
ऋक्षो वटुदीर्घवृन्तो दीर्घवृन्तक इत्यपि ॥”
इति च शब्दरत्नावली ॥
बालकः । यथा, --
“बालको माणवो बालः किशोरो वटुरि-
त्यपि ॥”
इत्यपि शब्दरत्नावली ॥

वटुकः, पुं, (वटु + स्वार्थे संज्ञायां वा कन् ।)

बालकः । इति शब्दरत्नावली ॥ (यथा, पाद्मे
कृष्णचतुर्द्दशीकृत्ये ।
“कुमारीवटुकान् पूज्य तथा शैवतपोधनान् ।
राजसूयफलं तेन प्राप्यते नात्र संशयः ॥”
ब्रह्मचारी । यथा, भागवते । १० । ८८ । २७ ।
“तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्द्दनः ।
दूरात् प्रत्युदियाद् भूत्वा वटुको योग-
मायया ॥”)
भैरवविशेषः । (यथा, महानिर्व्वाणतन्त्रे । २ । २४ ।
“भैरवाश्चैव वेताला वटुका नायिकागणाः ।
शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतादयः ॥”)
अस्य मन्त्रादिर्यथा, --
“उद्धरेद्बटुकं ङेऽन्तमापदुद्धारणं तथा ।
कुरुद्बयं पुनर्ङेऽन्तं वटुकञ्च समुद्धरेत् ।
एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः ॥”
अस्य पूजा । प्रातःकृत्यादिप्राणायामान्तं
विधाय पीठन्यासं कुर्य्यात् । यथा । धर्म्मादि-
अनैश्वर्य्यान्तं देहे विन्यस्य ऋष्यादिन्यासं
कुर्य्यात् । यथा शिरसि ॐ बृहदारण्यकऋषये
नमः । मुखे गायत्त्रीच्छन्दसे नमः । हृदि
वटुकभैरवाय देवतायै नमः । ततो मूर्त्ति-
न्यासः । ह्रों वों ईशानाय नमोऽङ्गुष्ठयोः । ह्रें
वें तत्पुरुषाय नमस्तर्ज्जन्योः । हुं वु अघो-
राय नमो मध्यमयोः । ह्रिं विं वामदेवाय
नमोऽनामिकयोः । ह्रं वं सद्योजाताय नमः
कनिष्ठयोः । पुनस्तत्तदङ्गुलीभिः शिरोवदन-
हृद्गुह्यपादेषु तत्तद्बीजादिकास्तत्तन्मूर्त्ती-
र्न्यसेत् । तथोर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु
च तान् न्यसेत् । तथा च निबन्धे ।
“अङ्गुलीदेहवक्त्रेषु मूर्त्तीर्न्यसेद्यथा पुरा ।
सत्यादिपञ्चह्रस्वाढ्यशक्तिबीजपुरःसरम् ।
वकारं पञ्चह्रस्वाढ्यमीशानादिषु योजयेत् ॥”
ततः कराङ्गन्यासौ । तद्यथा ॐ ह्रां वां अङ्गु-
ष्ठाभ्यां नम इत्यादि । ॐ ह्रां वां हृदयाय नम
इत्यादि च । षड्दीर्घबीजद्वयेन कुर्य्यात् । तथा
च निबन्धे ।
“षड्दीर्घयुक्तया शक्त्या वकारेणापि तद्वता ।
अङ्गानि जातियुक्तानि प्रणवाद्येन कल्पयेत् ॥”
ततो ध्यानम् ।
“तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ॥”
सात्त्विकम् । यथा, --
“वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विषदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डौ दधा-
नम् ॥” १ ॥
राजसं यथा, --
“उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरंदेवं सदा भावये ॥” २ ॥
तामसं यथा, --
“ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं
महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्ग-
शूलाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्व्विभ्रतं
भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी-
नूपुराढ्यम् ॥” ३ ॥
“सात्त्विकं ध्यानमाख्यातमपमृत्युविनाशनम् ।
आयुरारोग्यजननमपवर्गफलप्रदम् ॥ १ ॥
राजसं ध्यानमाख्यातं धर्म्मकामार्थसिद्धि-
दम् । २ ॥
तामसं शत्रुशमनं कृत्याभूतगदापहम् ॥” ३ ॥
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं
कुर्य्यात् ॥ * ॥ अस्य पूजायन्त्रम् ।
“धर्म्माधर्म्मादिभिः कॢप्तपीठे पङ्कजशोभिते ।
षट्कोणान्तस्त्रिकोणस्थे व्योमपङ्कजसंयुते ॥”
ततो मूलेन मूर्त्तिं सङ्कल्प्य पूर्ब्बवत् ध्यात्वा-
वाहनादिकं कुर्य्यात् । तत्र क्रमः । मूलेन सद्यो-
जातमन्त्रेणावाहनम् । मूलादिवामदेवेन स्थाप-
नम् । मूलेन सान्निध्यम् । अघोरेण सन्निबोध-
नम् । तत्पुरुषेण योनिमुद्राप्रदर्शनम् । ईशा-
नेन वन्दनमिति विशेषः । ततः कर्णिकायां
दिक्षु कोणेषु ईशानादीन् यजेत् । ततो व्योम-
पङ्कजदलेषु असिताङ्गादिभैरवान् यजेत् ।
“असिताङ्गो रुरुश्चण्डः क्रोधोन्मत्तौ च मैरवौ ।
कपाली भीषणश्चैव संहारोऽष्टौ च भैरवाः ॥”
एतैरष्टभैरवैर्द्वितीयावरणम् । ततः षट्कोणेषु
ह्रां वां हृदयाय नम इत्यनेन पूजयेत् ।
पृष्ठ ४/२५४
ततः पूर्ब्बादिडाकिनीराकिणीलाकिनीकाकिनी-
साकिनीहाकिनीमालिनीपुत्त्रान् देवीपुत्त्रान्
उमापुत्त्रान् रुद्रपुत्त्रान् मातृकापुत्त्रान् दक्षिणे
यजेत् । ऊर्द्ध्वे ऊर्द्ध्वमुखीपुत्त्रान् अधोऽधोमुखी-
पुत्त्रान् । तद्बहिरष्टपत्रेषु लोकेशान् वटुक-
रूपान् पूजयेत् । तद्बहिः पूर्ब्बे ॐ ब्रह्माणी-
पुत्त्राय नमः । एवमीशाने माहेश्वरीपुत्त्राय ।
उत्तरे वैष्णवीपुत्त्राय । अनिले कौमारीपुत्त्राय ।
पश्चिमे इन्द्राणीपुत्त्राय । नैरृते महालक्ष्मी-
पुत्त्राय । याम्ये वाराहीपुत्त्राय । अनले
चामुण्डापुत्त्राय । तथा च निबन्धे ।
“ब्रह्माणीपुत्त्रकं पूर्ब्बे माहेशीपुत्त्रमैश्वरे ।
वैष्णवीपुत्त्रकं सौम्ये कौमारीपुत्त्रमानिले ॥
इन्द्राणीपुत्त्रकं भूयः पश्चिमे पूजयेत्ततः ।
महालक्ष्मीसुतं पञ्चाद्रक्षोदिशि समर्च्चयेत् ।
वाराहीपुत्त्रकं याम्ये चामुण्डापुत्त्रमानले ॥”
तद्बहिर्द्दशदिक्षु च । हेतुकं त्रिपुरान्तकं वेतालं
वह्रिजिह्वं करालं कालान्तकं एकपादं भीम-
रूपं अचलं चाटकेश्वरं पूजयेत् । ततो
योगिनीसहितदिव्ययोगीशाय नमः । एवं
योगिनीसहितान्तरीक्षयोगीशाय नमः । एवं
योगिनीसहितभूमिष्ठयोगीशाय नमः । ईशा-
नाग्निनिरृतिषु पूजयेत् ॥ * ॥ अस्य पुर-
श्चरणमेकविंशतिलक्षजपः ।
“वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।
तद्दशांशं प्रजुहुयात्तिलैर्मधुरसंयुतैः ॥” * ॥
अथ वलिदानम् ।
“पूर्ब्बं विघ्नं दुर्गां समाराध्य वलिं दद्यात् ।
शाल्यन्नं पललं सर्पिर्लाजचूर्णानि शर्कराः ॥
गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितैः ।
कृत्वा कवलमाराध्य देवं प्रागुक्तवर्त्मना ।
रक्तचन्दनपुष्पाद्यैर्निशि तस्मै वलिं हरेत् ॥”
यद्वा ।
“अन्यूनाङ्गमजं हत्वा राजसं प्रागुदीरितम् ।
वलिप्रदानसमये रिपूणां सर्व्वसैन्यकम् ।
निवेदयेद्वलित्वेन वटुकाय विशिष्टधीः ॥
विदर्भयेच्छत्रुनाम्ना वलिमन्त्रं तथा सुधीः ।
शत्रुपक्षस्य रुधिरं पिशितञ्च दिने दिने ॥
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ।
वलिमन्त्रोऽयमाख्यातः सर्व्वेषां विजयप्रदः ॥
अनेन वलिना हृष्टो वटुकः परसैन्यकम् ।
सर्व्वं गणेभ्यो विभजेच्चामिष क्रुद्धमानसः ॥
एवं कृते परबलं क्षीयते नात्र संशयः ॥”
इति तन्त्रसारः ॥ * ॥
अथ वटुकभैरवस्तोत्रम् ।
“कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्व्वती परमेश्वरम् ॥
श्रीपार्व्वत्युवाच ।
भगवन् सर्व्वधर्म्मज्ञ सर्व्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्व्वसिद्धिप्रदं नृणाम् ॥
सर्व्वेषाञ्चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥
अङ्गन्यासकरन्यासबीजन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥
श्रीभगवानुवाच ।
शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्व्वदुःखप्रशमनं सर्व्वशत्रुनिवर्हणम् ॥
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥
ग्रहराजभयानाञ्च नाशनं सुखवर्द्धनम् ।
स्नेहाद्बक्ष्यामि ते मन्त्रं सर्व्वसारमिमं प्रिये ॥
सर्व्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।
प्रणवं पूर्ब्बमुच्चार्य्य देवी प्रणवमुद्धरेत् ॥
वटुकायेति वै पश्चादापदुद्धारणाय च ।
कुरुद्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ॥
देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये ।
मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ।
अप्रकाश्यमिमं मन्त्रं सर्व्वशक्तिसमन्वितम् ॥
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।
विद्रवन्ति भयार्त्ता वै कालरुद्रादिव प्रजाः ॥
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।
नाग्निचौरभयं वापि ग्रहराजभयन्तथा ।
न च मारीभयं तस्य सर्व्वत्र सुखवान् भवेत् ॥
आयुरारोग्यमैश्वर्य्यं पुत्त्रपौत्त्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥
श्रीपार्व्वत्युवाच ।
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ॥
तस्य नामसहस्राणि अयुतान्यर्व्वुदानि च ।
सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ * ॥
श्रीभगवानुवाच ।
यस्तु संकीर्त्तयेदेतत् सर्व्वदुष्टनिवर्हणम् ।
सर्व्वान् कामानवाप्नोति साधकः सिद्धिमेव च ॥
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ॥
सर्व्वपापहरं पुण्यं सर्व्वापद्बिनिवारकम् ।
सर्व्वकामार्थदं देवि साधकानां सुखावहम् ॥
देहाङ्गन्यसनञ्चैव पूर्ब्बं कुर्य्यात् समाहितः ।
भैरवं मूर्द्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥
अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥
क्षेत्राख्यं नाभिदेशे च कट्यां सर्व्वाघनाशनम् ।
त्रिनेत्रमूर्व्वोर्विन्यस्य जङ्घयो रक्तपाणिकम् ॥
पादयोर्देवदेवेशं सर्व्वाङ्गे वटुकं न्यसेत् ।
एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ॥
नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।
बृहदारण्यको नाम ऋषिश्च परिकीर्त्तितः ॥
देवता कथिता चेह सद्भिर्वटुकभैरवः ।
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ॥ * ॥
ॐभैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्त्रियो विराट् ।
श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।
रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ॥
करालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः ॥
धनदो धनहारी च धनपः प्रतिभाववान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥
कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ॥
त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।
वटुको वटुकेशश्च खट्वाङ्गवरधारकः ॥
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्त्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः ॥
प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः ॥
अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ॥
कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥
शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।
वलिभुक् वलिभूतात्मा कामी कामपराक्रमः ॥
सर्व्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ।
सर्व्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ॥
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्व्वकामिकम् ॥
य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा ।
न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित् ॥
पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।
मारीभये राजभये तथा चौराग्निजे भये ॥
औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने ।
बन्धने च तथा घोरे पठेत् स्तोत्रं समाहितः ॥
सर्व्वे प्रशमनं यान्ति भयाद्भैरवकीर्त्तनात् ।
एकादशसहस्रन्तु पुरश्चरणमुच्यते ॥
त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानुषः ॥
षण्मासान् भूमिकामस्तु स जप्त्वा लभते महीम् ।
राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ॥
रात्रौ वारत्रयञ्चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ॥
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।
पठेद्बारत्रयं यद्बा वारमेकं तथा निशि ॥
धनं पुत्त्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥
भीतो भयात् प्रमुच्येत देवि सत्यं न संशयः ।
यान् यान् समी हते कामांस्तांस्तानाप्नोति
निश्चितम् ।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥
सत्कुलीनाय शान्ताय ऋजवे दम्भवर्ज्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्व्वकामफलप्रदम् ।
ध्यानं वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ॥ *
ॐ शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्च्चसम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥
पृष्ठ ४/२५५
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ॥
खट्वाङ्गमसिपाशञ्च शूलञ्चैव तथा पुनः ।
डमरुञ्च कपालञ्च वरदं भुजगन्तथा ॥
नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् ।
दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम् ॥
आत्मवर्णसमोपेतसारमेयसमन्वितम् ।
ध्यात्वा जपेत् सुसंहृष्टः सर्व्वान् कामानवाप्नुयात् ॥
एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
भैरवाय प्रहृष्टाभूत् स्वयञ्चैव महेश्वरी ॥”
इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव-
स्तवराजः समाप्तः ॥ * ॥ अथ वटुकभैरवकवचम् ।
श्रीभैरव उवाच ।
“देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ।
म्रियन्ते साधका येन विना श्मशानभूमिषु ॥
रणेषु चातिघोरेषु महावायुजलेषु च ।
शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥
श्रीदेव्युवाच ।
कथयामि शृणु प्राज्ञ वटोस्तु कवचं शुभम् ।
गोपनीयं प्रयन्तेन मातृजारोपमं यथा ॥
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।
सात्त्विकं राजसञ्चैव तामसं देव तत् शृणु ॥
वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विषदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां वटुकमनिशं शूलखड्गौ
दधानम् ॥ १ ॥
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
वन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ २ ॥
ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं
महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्ग-
शूलाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं
भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी
नूपुराठ्यम् ॥ ३ ॥ * ॥
अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनु-
ष्टुप्छन्दः श्रीवटुकभैरवो देवता वं बीजं ह्रीं
शक्तिरापदुद्धारणायेति कीलकं मम सर्व्वाभीष्ट-
सिद्ध्यर्थे विनियोगः ।
“ॐ शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।
नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥
भूतनाथश्च मे कर्णौ कपोलौ प्रेतवाहनः ।
नासापुटौ तथोष्ठौ च भस्माङ्गः सर्व्वभूषणः ॥
भीषणास्यो ममास्यञ्च शक्तिहस्तो गलं मम ।
स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥
पाणी कपाली मे पातु मुण्डमालाधरो हृदम् ।
वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम ॥
उदरञ्च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा ।
क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥
कटीं पापौघनाशश्च वटुको लिङ्गदेशकम् ।
गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥
जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः ॥
गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥
आपादमस्तकञ्चैव आपदुद्धारणस्तथा ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥
पातु मां वटुको देवो भैरवः सर्व्वकर्म्मसु ।
पूर्ब्बस्यामसिताङ्गो मे दिशि रक्षतु सर्व्वदा ॥
आग्नेय्याञ्च रुरुः पातु दक्षिणे चण्डभैरवः ।
नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥
वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः ।
भीषणो भैरवः पातूत्तरस्यां दिशि सर्व्वदा ॥
संहारभैरवः प तु दिश्यैशान्यां महेश्वरः ।
ऊर्द्धे पातु विधाता वै पाताले नन्दिको विभुः ॥
सद्योजातस्तु मां पायात् सर्व्वतो देवसेवितः ।
वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥
जले तत्पुरुषः पातु स्थले पातु गुरुः सदा ।
डाकिनीपुत्त्रकः पातु दारांस्तु लाकिनीसुतः ॥
पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः ।
लाकिनीपुत्त्रकः पातु पशूनश्वानजांस्तथा ॥
महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः ।
राज्यं राज्यश्रियं पायात् भैरवो भीति-
हारकः ॥
रक्षाहीनन्तु यन् स्थानं वर्जितं कवचेन च ।
तत् सर्व्वं रक्ष मे देव त्वं यतः सर्व्वरक्षकः ॥
एतत् कवचमीशान तव स्नेहात् प्रकाशितम् ।
नाख्येयं नरलोकेषु सारभूतञ्च सुश्रियम् ॥
यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् ।
न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर ॥
यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ॥
अनेन कवचेशेन रक्षां कृत्वा द्बिजोत्तमः ।
विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ॥
मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः ।
तस्मात् सर्व्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥
भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो ।
धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः ।
सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥
नमो भैरवदेवाय सारभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥”
इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव-
भैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

वटुकरणं, क्ली, (वटोः करणम् ।) उपनयनम् ।

इति त्रिकाण्डशेषः ॥

वठ, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) स्थौल्यमिह सामर्थ्यम् । वठति
दाता दातुं समर्थः स्यादित्यर्थः । इति दुर्गा-
दासः ॥

वठ, इ ङ एकचरे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् । इदित् ।) एककर्त्तृकचर-
णम् । इ, वण्ट्यते । ङ, वण्ठते चौरश्चोरयितुं
एकश्चरतीत्यर्थः । इति दुर्गादासः ॥

वठरः, पुं, (वक्तीति । वच् + “वचिमनिभ्यां

चिच्च ।” उणा० ५ । ३९ । इति अरप्रत्ययः ।
ठश्चान्तादेशः ।) मूर्खः । इत्युणादिकोषः ॥
अम्बष्ठः । इति हेमचन्द्रः ॥ शब्दकारः । वक्रः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

वठरः, त्रि, (वच् + अरः । ठश्चान्तादेशः ।)

शठः । मन्दः । इति त्रिकाण्डशेषः ॥

वड, आरोहणे । सौत्रधातुरयम् । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) वडभी ।
बडिशम् । इति दुर्गादासः ॥

वड, इ क विभागे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् । इदित् ।) इ क, वण्डयति ।
अयं कैश्चिन्न पठ्यते । इति दुर्गादासः ॥

वड, इ ङ वेष्टे । विभागे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् । इदित् ।) इ, वण्ड्यते ।
ङ, वण्डते । इति दुर्गादासः ॥

वडभी, स्त्री, (वड्यते आरुह्यतेऽत्रेति । वड् + बाहु-

लकात् अभिच् । कृदिकारादिति ङीष् ।)
गृहचूडा । इत्यमरः ॥ मुदनि । इति भाषा ।
तत्पर्य्यायः । गोपानसी २ । इति तट्टीकासार-
सुन्दरी ॥ चन्द्रशालिका ३ कूटागारम् ४ ।
इति त्रिकाण्डशेषः ॥
“चन्द्रशाला च वडभी स्यातां प्रासादमूर्द्धनि ॥”
इति श्रीधरः ॥
खेलायां वडभौ चूडा । इति रुद्रः ॥
“वडभी चन्द्रशालेति प्रासादादौ च मण्डपे ॥”
इति कोषान्तरम् ॥
“शुद्धान्ते वडभी चन्द्रशाले सौधोर्द्ध्ववेश्मनि ॥”
इति रभसः ॥
ह्रस्वान्तापि वडभिः । तां कस्याञ्चिद्भवनवडभौ
सुप्तपारावतायामिति । मेघदूतम् । ४० ॥
वडभिः वडभी वलभिः वलभी चेति चातूरूप्य-
मिति वृद्धाः । इति भरतः ॥ (यथा, हरिवंशे ।
८४ । ११ ।
“सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।
क्रियन्तां मञ्चवाटाश्च वडभ्यो वीथयस्तथा ॥”)

वडा, स्त्री, (वड् + अच् + टाप् ।) वटकः ।

यथा, --
“कदलेनाथवा तालैर्युक्तं यत्ताण्डुलं पिडम् ।
पिडं चूर्णं वटो वडा । इति शब्दचन्द्रिका ॥

वड्रं, त्रि (वडते इति । वड + बहुलमन्यत्रा-

पीति रक् ।) बृहत् । इत्यमरः । ३ । १ ।
६१ ॥ अस्य भाषा वड ॥

वण, ॠ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अवीवणत् अववाणत् ।
इति दुर्गादासः ॥

वण्ट, त् क भागे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) वण्टयति वण्टापयति ।
इति दुर्गादासः ॥

वण्टः, पुं, (वण्ट्यते इति । वण्ट् + घञ् ।) भागः ।

दात्रमुष्टिः । इति हेमचन्द्रः । ६ । ७० ॥ (वण्ट
+ अच् ।) अकृतोद्वाहः । इति शब्दमाला ॥
पृष्ठ ४/२५६

वण्टकः, पुं, (वण्ट एव । स्वार्थे कन् ।) भागः ।

इत्यमरः । २ । ९ । ८९ ॥ (वण्ट् + ण्वुल् । विभाय-
कर्त्तरि, त्रि ॥)

वण्ठः, पुं, (वण्ठते इति । वठि ङ एकचरे + अच् ।)

अकृतोद्वाहः । खर्व्वः । कुन्तायुधः । इति
मेदिनी । ठे, ८ ॥

वण्ठरः, पुं, स्थगिकारज्जुः । कुक्कुरस्य लाङ्गूलम् ।

करीरकोषः । तालस्य पल्लवम् । पयोधरः । इति
मेदिनी । रे, १८८ ॥ तत्र ओष्ठ्यवकारादौ गणितो-
ऽयम् । किन्तु वठि ङ एकचरे इत्यस्मात् अरच्-
प्रत्ययेन निष्पन्नत्वात् दन्त्यवकारादौ लिखितः ॥

वण्ठालः, पुं, शूरयुद्धम् । नौका । खनित्रम् । इति

मेदिनी हेमचन्द्रश्च ॥

व(ब)ण्डः, पुं, (वनते इति वनु सम्भक्तौ । वन् +

“ञमन्तात् डः ।” उणा० १ । ११३ । इति
डः ।) अनावृतमेढ्रः । तत्पर्य्यायः । दुश्चर्म्मा २
द्विनग्नकः ३ शिपिविष्टः ४ । इति हेम-
चन्द्रः ॥

वण्डः, त्रि, (वनते इति । वन सम्भक्तौ । वन् +

“ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।)
हस्तादिवर्ज्जितः । इति मेदिनी । डे, २४ ॥
वेँडे इति भाषा ॥

वण्डा, स्त्री, (वण्ड + टाप् ।) पांशुला । इति

मेदिनी । डे, २४ ॥

वत्, व्य, (वातीति । वा + डति ।) साम्यम् ।

तत्पर्य्यायः । वा २ यथा ३ तथा ४ एव ५
एवम् ६ । इत्यमरः ॥

वत, व्य, खेदः । अनुकम्पा । (यथा, शकु-

न्तलायाम् । प्रथमाङ्के ।
“क्व वत हरिणकानां जीवितञ्चातिलोलं
क्व च निशितनिपाता वज्रसाराः शरास्ते ॥”)
सन्तोषः । विस्मयः । आमन्त्रणम् । इत्यमरः ।
३ । ३ । २४३ ॥

वतंसः, पुं, (अवतंसयति अवतंस्यतेऽनेन वेति ।

अव् + तसि + अच् । घञ् वा । अवस्याल्लोपः ।)
कर्णपूरः । कर्णभूषणम् । शेखरः । शिरो-
भूषणम् । इति मेदिनी । से, ३७ ॥ (यथा,
गीतगोविन्दे । २ । २ ।
“चलितदृगञ्चलचञ्चलमौलिकपोलविलोल-
वतंसम् ।
रासे हरिमिह विहितविलासं
स्मरति मनो मम कृतपरिहासम् ॥”)

वतण्डः, पुं, (वनतीति । वन् + “अण्डन् कृसृभृ-

वृञः ।” उणा० १ । १२८ । इत्यत्र वनतेस्तका-
रान्तादेशः । वतण्ड इति काचिद्वृत्तिरित्यु-
ज्ज्वलदत्तोक्त्या अण्डन् प्रत्ययेन साधुः ।) मुनि-
भेदः । इत्युणादिकोषः ॥

वतूः, पुं, देवनदी । सत्यवाक् । पन्थाः । अक्षि-

रोगः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वतोका, स्त्री, (अवगतं तोकं अपत्यं यस्याः अव-

स्याल्लोपः । अवतोका । इत्यमरटीकायां
भरतः ॥

वत्सं, क्ली, (वदतीति । वद् व्यक्तायां वाचि +

“वृतॄवदिहनिकमिकषिभ्यः सः ।” उणा०
३ । ६२ । इति सः ।) वक्षः । इत्यमरः ॥

वत्सः, पुं, (वदतीति । वद् + “वृतॄवदिहनिकमि-

कषिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।)
वर्षः । गोशिशुः । वाछुर इति भाषा । तत्-
पर्य्यायः । शकृत्करिः २ तर्णकः ३ । इति वैश्य-
वर्गे नानार्थे चामरः ॥ दोग्धा ४ दोषकः ५
दोषः ६ । इति शब्दरत्नावली ॥ रौहिणेयः ७
बाहुलेयः ८ तन्तुभः ९ । सद्योजातस्य तस्य
पर्य्यायः । तर्णकः १ तर्णभः २ तन्तुभः ३
कचः ४ । इति जटाधरः ॥ पुत्त्रादिः । इति
मेदिनी । से, ११ ॥ वाछा इति भाषा । (यथा,
भागवते । ४ । ८ । ११ ।
“न वत्स ! नृपतेर्धिष्णं भवानारोढुमर्हति ।
न गृहीतो मया यत् त्वं कुक्षावपि नृपात्मज ! ॥”
दिवोदासपुत्त्रः । द्युमानित्यादीन्यस्य नामा-
न्तराणि । यथा, भागवते । ९ । १७ । ५ -- ६ ।
“तत्पुत्त्रः केतुमालस्य यज्ञे भीमरथस्ततः ।
दिवोदासो द्युमांस्तस्मात् प्रतर्द्दन इति स्मृतः ॥
स एव शक्रजित् वत्स ऋतध्वज इतीरितः ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥”
देशभेदः । यथा, कथासरित्सागरे । ९ । ४ ।
“अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये ।
स्वर्गस्य निर्म्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥”)

वत्सकं, क्ली, (वत्स + संज्ञायां इवार्थे वा कन् ।)

पुष्पकासीसम् । इति राजनिर्घण्टः ॥ (विव-
रणमस्य पुष्पकासीसशब्दे ज्ञातव्यम् ॥)

वत्सकः, पुं, (वत्म + कन् ।) कुटजः । इत्यमरः ॥

(अस्य पर्य्यायो यथा, --
“वृक्षकः शक्रपर्य्यायो वत्सको गिरिमल्लिका ।
कुटजस्तत्फलञ्चेन्द्रयवश्चापि कलिङ्गकः ॥”
इति वैद्यकरत्नमालायाम् ॥
तथान्यः पर्य्यायः ।
“कुटजः कूटजः कौटो वत्सको गिरिमल्लिका ।
कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
इन्द्रयवः । इति राजनिर्घण्टः ॥

वत्मकबीजं, क्ली, (वत्सकस्य बीजम् ।) इन्द्र-

यवः । इति राजनिर्घण्टः ॥ (यथा, --
“व्योषं वत्सकबीजञ्च निम्बभूनिम्बमार्कवम् ।
चित्रकं रोहिणीं पाठां दार्व्वीमतिविषां
समाम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वरातिसारे
व्योषाद्यचूर्णे ॥)

वत्मकामा, स्त्री, (वत्सं कामयते इति । कम् +

अच् । टाप् ।) वत्साभिलासिनी गौः । तत्-
पर्य्यायः । वत्सला २ । इति राजनिर्घण्टः ॥
पुत्त्रादिकामा स्त्री च ॥

वत्सतरः, पुं, (प्रथमवया वत्सः । “वत्सोक्षाश्वर्षभेभ्य-

श्चेति ।” ५ । ३ । ९१ । इति ष्टरच् ।) प्राप्तदमनकाल-
गवः । दोयाने वाछुर इति भाषा । तत्पर्य्यायः ।
दम्यः २ । इत्यमरः । २ । ९ । ६२ ॥ दुर्द्दान्तः ३
गडिः ४ । इति राजनिर्घण्टः ॥

वत्सतरी, स्त्री, (वत्सतर + ङीप् ।) वृषोत्मर्गे

वृषपत्नीत्वेन कल्पिता त्रिहायणी गौः । यथा,
कात्यायनसूत्रम् । पयस्विन्याः पुत्त्रो यूथे च
रूपवान् स्यात् तमलङ्कृत्य यूथमुख्याश्चतस्रो
वत्सतर्य्यस्ताश्चालङ्कृत्य एवं युवानं पतिं वो ददानि
तेन क्रीडन्तीश्चरथ प्रियेण मनः साप्तजनुषा
सुभगा रायस्पोषेण समिषा मदेम इत्येतयैव
ऋचोत्सृजेरन्निति । ऋगर्थस्तु हे वत्सतर्य्यो
वो युष्माकं एनं युवानं पतिं स्वामिनं ददानीत्युक्तं
प्रार्थयामि तेन वृषेण सह क्रीडन्तीः खेलन्त्य-
श्चरथ भ्रमथ हे वत्सतर्य्यो यूयमपि मानः
नास्मत्स्वत्वविषया भविष्यथ किन्तु मया
त्यक्तव्याः । वयं वृषस्य वत्सतरीणाञ्च त्यागेन
रायस्पोषेण धनसमृद्ध्या साप्तजनुषा सप्तजन्म-
व्यापकेन इषा अन्नेन च सम्मदेम हृष्टा भवामः
सुभगा लोकस्य प्रिया इति सम्मदेम इति
भविष्यत्सामीप्ये वर्त्तमान इति पाणिनिस्वर-
साद्भविष्यदर्थे वर्त्तमानः ॥ * ॥ वत्सतरीर्व्विशे-
षयति स्मृतिः ।
“अग्रतो लोहितापत्नी पार्श्वाभ्यां नीलपाण्डरे ।
पृष्ठतस्तु भवेत् कृष्णा वृषभस्य तु मोक्षणे ॥”
तासां वयःप्रमाणं यथा, --
“त्रिहायणीभिर्धन्याभिः सुरूपाभिः सुशो-
भितः ।
सर्व्वोपकरणोपेतः सर्व्वशस्यचरो महान् ।
उत्स्रष्टव्यो विधानेन श्रुतिस्मृतिनिदर्शनात् ॥”
इति शुद्धितत्त्वे वृषोत्सर्गविचारः ॥

वत्सनाभः पुं, (वत्सान् नभ्यति हिनस्तीति ।

नभ हिंसायाम् + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) विषवृक्षविशेषः । इत्यमरः १ । ८ । ११ ॥
स तु स्थावरविषभेदः । प्रायो वत्सान् नभ्यति
हिनस्ति वत्सनाभः णभ्य ग हिंसे ढात् षन्निति
षन् । वत्सस्य नाभिरिव वत्सनाभः ष्णः अनित-
श्चेति न वृद्धिः अयं सिन्धुवारपत्रसदृशपत्रः ।
इति भारतः ॥ * ॥ (यथा, हरिवंशे । २२३ ।
६५ ।
“वरुणा वत्सनाभाश्च पनसाश्चन्दनैः सह ॥)
तत्पर्य्यायः । अमृतम् २ विषम् ३ उग्रम् ४
महौषधम् ५ गरलम् ६ मारणम् ७ नागः ८
स्तौककम् ९ प्राणहारकम् १० स्थावरादि ११ ।
अस्य गुणाः । अतिमधुरत्वम् । उष्णत्वम् ।
वातकफकण्ठरुक्सन्निवातनाशित्वम् । पित्त-
सन्तापकारकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अस्य स्वरूपनिरूपणं यथा ।
“सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ।
यत्पार्श्वेन तरोर्वृद्धिर्व्वत्सनाभः स भाषितः ॥”
तस्य सामान्यगुणा यथा ।
“विषं प्राणहरं प्रोक्तं व्यवायि च विकासि च ।
आग्नेर्य वातकफहृद्योगवाहि मदावहम् ॥”
व्यवायि सकलकायव्यापनपूर्ब्बकपाकगमनशीलम् ।
पृष्ठ ४/२५७
बिकासि ओजःशोषणपूर्ब्बकं सन्धिबन्धशिथिली-
करणशीलम् । आग्नेयं अधिकाग्न्यंशम् । योग-
वाहि संसर्गगुणग्राहकम् । मदावहं तमो-
गुणाधिक्येन बुद्धिविध्वंसकम् ।
“तदेव युक्तियुक्तं तु प्राणदायि रसायनम् ॥
योगवाहि त्रिदोषघ्नं वृं हणं वीर्य्यवर्द्धनम् ॥
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् ।
तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥”
इति भावप्रकाशः ॥
(क्लीवेऽपि दृश्यते । यथा, --
“चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ।”
“ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ॥”
इति सुश्रुते कल्पस्थाने द्वितीयेऽध्याये ॥)

वत्सपत्तनं, क्ली, (वत्सस्य वत्सराजस्य पत्तनम् ।)

भारतवर्षस्योत्तरे देशविशेषः । तत्पर्य्यायः ।
कौशाम्बी २ । इति हेमचन्द्रः । ४ । ४१ ॥

वत्सपालः, पुं, (वत्सान् पालयतीति । वत्स +

पालि + अण्) श्रीकृष्णः । बलदेवः । यथा, --
“वृन्दावनं गोवर्द्धनं यमुनापुलिनानि च ।
वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥
एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः ।
कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥”
इति श्रीभागवते । १० । ११ । ३६ ॥
(वत्सपालके, त्रि । यथा, हरिवंशे । ६७ । २४ ।
“स तत्र वयसा तुल्यैर्व्वत्सपालैः सहानघः ।
रेमे वै दिवसं कृष्णः पुरा स्वर्गगतो यथा ॥”)

वत्स्ररः, पुं, (वसन्त्यस्मिन् अयनर्त्तुमासपक्षवारा-

दय इति । वस निवासे + “वसेश्च ।” उणा०
३ । ७१ । इति सरन् । “सः स्यार्द्धधातुके ।”
७ । ४ । ४९ । इति सस्य तः ।) द्वादशमासा-
त्मककालः । अयनद्बयात्मकश्च । तत्पर्य्यायः ।
संवत्सरः २ अब्दः ३ हायनः ४ शरत् ५ समा
६ । इत्यमरः । १ । ४ । २० ॥ शरदा ७ वर्षम्
८ वरिषम् ९ संवत् १० । इति शब्दरत्नावली ॥ * ॥
“व्रतबन्धविवाहे च वत्सरपरिकल्पनमाहुरा-
चार्य्याः ।
आधानपूर्ब्बमेके प्रसूतिपूर्ब्बं सदान्ये तु ॥”
सौरसावननाक्षत्रचान्द्रभेदेन चतुर्व्विधो वत्सरः ।
यथा चूडोपनयनादिषु वर्षगणना सावनेन
शुभाशुभगणनन्तु सौरेणेति सिद्धम् । सावनसंवत्-
सरेण एकदिनाधिकवत्सरो नाक्षत्रो भवती-
त्यनयोर्भेदः । सौरस्तु पञ्चषष्ट्यधिकत्रिशत-
दिनैर्भवति । यथा, --
“मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् । १८७ ।
तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत्ततः ॥” १७८ ॥
चान्द्रवत्सरोऽपि द्बादशमासैर्भवति । मलमास-
पाते तु त्रयोदशमासैर्भवति । तथा च श्रुतिः ।
द्वादशमासाः संवत्सरः क्वचित्त्रयोदशमासाः
मंवत्सर इति । त्रयोदशेत्यधिमासे । स्मृतिः ।
यस्मिन्नब्दे द्बादशैकश्च यव्य इति । यव्यो मास
इति । यव्या मासाः स्वमेकः संवत्सर इति
शतपथश्रुत्या यव्य-स्वमेक-शब्दयोर्मासवर्षपर्य्याय-
तोक्ता । इति मलमासतत्त्वम् ॥ * ॥ अथ षष्टिसंव-
त्सरगणना ।
“शकेन्द्रकालः पृथगाकृति-२२ घ्नः
शशाङ्कनन्दाश्वियुगैः ४०९१ समेतः ।
शराद्रिवस्विन्दु-१८७५ हृतः सलब्घः
षष्ट्यावशिष्टाः प्रभवादयोऽब्दाः ॥
वर्षवर्जन्तु यच्छेषं सूर्य्यैः संपूर्य्य खोर्म्मिभिः । ६० ।
हृतव्युत्क्रमतः खाग्निहृतेऽंशे मासकादयः ॥”
अस्यार्थः शकेन्द्रकालः शकराजाब्दकालः ।
पृथक् आकृतिघ्नः २२ द्बाविंशत्या पूरितः ।
शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्बयाधिक-
चतुःसहस्रैः समेतोऽङ्कः । शराद्रिवस्विन्दुहृतः
पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्संख्यं हर्त्तुं
शक्रोति तावता हृतः कर्त्तव्यः । सलब्धः पूर्ब्ब-
शकाब्दः शरेत्यादिना लब्धसंख्यया युतः
कार्य्यः । षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्ब्बवत्
षष्ट्याहृतलब्धस्यावशिष्टे प्रभवादयः । एकाव-
शेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः । वर्ष-
वर्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृता-
वशिष्टं तत् सूर्य्यैर्द्बादशभिः संपूर्य्य खोर्म्मिभिः
षष्ट्या हृते व्युत्क्रमत इत्यनेन षष्टिहृताव-
शिष्टा अङ्का दण्डाः षष्टिहृतलब्धांशके खाग्नि-
हृते त्रिशता हृतेऽवशिष्टा अंशका लब्धा
मासाः स्युरिति । प्रभवादिवर्षाण्युपक्रम्य ।
“आद्या तु विंशतिर्ब्राह्मी द्बितीया वैष्णवी
स्मृता ।
तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥”
भविष्यपुराणे ।
भैरव उवाच ।
“षष्ट्यब्दं कथयाम्यत्र क्रूराः सौम्याश्च ये प्रिये ! ।
संवत्सरफलं मुख्यं प्रभवादौ वरानने ! ॥
बहुतोयास्तथा मेघा बहुशस्या च मेदिनी ।
बहुक्षीरास्तथा गावो व्याधिरोगविवर्ज्जिताः ॥
प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिताः । १ ।
सुभिक्षं क्षेममारोग्यं सर्व्वे व्याधिविवर्ज्जिताः ॥
प्रशान्ता मानवास्तत्र बहुशस्या बसुन्धरा ।
हृष्टास्तुष्टा जनाः सर्व्वे विभवे च वरानने ! ॥ २ ॥
रोगा बहुविधाश्चैव मनुष्या वाजिकुञ्जराः ।
सर्व्व एव प्रणश्यन्ति शुक्रे वर्षे वरानने ! ॥ ३ ॥
उन्मत्तञ्च जगत् सर्व्वं धनधान्यसमाकुलम् ।
नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये ॥ ४ ॥
नीरोगाश्च निरावाधा मानवा विगतद्बिषः ।
बहुक्षीरास्तथा गावः प्राजापत्ये वरानने ॥ ५ ॥
निरातङ्कं जगत् सर्व्वं धनयौवनगर्वितम् ।
अङ्गिरसि प्रजाः सर्व्वा नित्योत्साहा वरानने ॥ ६ ॥
सुभिक्षं क्षेममारोग्यं वर्षाकालं सुशोभनम् ।
शस्यवृद्धिं विजानीयात् श्रीमुखे सुरवन्दिते ॥ ७ ॥
बहुक्षीरास्तथा गावो धान्यञ्च बलवत्तरम् ।
जायन्ते सर्व्वशस्यानि भावे वर्षे वरानने ॥ ८ ॥
महार्घं जायते सर्व्वं घृततैलरसादिकम् ।
प्रजानाञ्च भवेद्वृद्धिर्यूनि संवत्सरे शुभे ॥ ९ ॥
निष्पत्तिः सर्व्वशस्यानां मध्या धातरि कीर्त्तिता ।
इक्षुक्षीरगुडादीनां प्रवलत्वं वरानने ॥ १० ॥
सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता ।
लवणं मधु गव्यञ्च ईश्वरे दुर्लभं प्रिये ॥ ११ ॥
सुभिक्षं क्षेममारोग्यं प्रशान्ताः पार्थिवाः प्रिये ।
तस्करोपहतं वित्तं बहुधान्ये वरानने ॥ १२ ॥
राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैश्चोपपीडनम् ।
जानीयाद्विग्रहं घोरं प्रमाथिनि वरानने ॥ १३ ॥
जायन्ते सर्व्वशस्यानि मेदिनी निरुपद्रवा ।
लवणं मधु गव्यञ्च महार्घं विक्रमे प्रिये ॥ १४ ॥
कोद्रवाः शालिमुद्गाश्च शक्तुमाषास्तथैव च ।
महार्घं जायते सर्व्वं वृषे च सुरवन्दिते ॥ १५ ॥
चणका मुद्गमाषाश्च अन्यच्च विदलं प्रिये ।
महार्घं जायते सर्व्वं चित्रभानौ वरानमे ॥ १६ ॥
सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् ।
व्यवहारो भवेत् हृष्टः स्वर्भानौ देवपूजिते ॥ १७ ॥
अतिवृष्टिश्च जायेत ध्यान्यस्याथ प्रपीडनम् ।
शस्यं भवति मामान्यं दारुणे सुरवन्दिते ॥ १८ ॥
बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने ।
सौराष्ट्रे नाटदेशे च पार्थिवे नात्र संशयः ॥ १९ ॥
दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् ।
अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ॥ २० ॥
उद्यतो वर्षणे मेघो जलं नैवोपजायते ।
महार्घं सर्व्वजिद्वर्षे सर्व्वमेव वरानने ॥ २१ ॥
कोद्रवाः शालिमुद्गाश्च कङ्गुमाषास्तथैव च ।
सुलभं जायते सुस्थं जगद्वै सर्व्वधारिणि ॥ २२ ॥
अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् ।
जायते मानुषे कष्टं विरोधिनि न संशयः ॥ २३ ॥
सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते ।
शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते
जनाः ॥ २४ ॥
उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः ।
पीडिताश्च प्रजाः सर्व्वा देशभङ्गाः खरे ।
प्रिये ॥ २५ ॥
सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् ।
बहुक्षीरास्तथा गावो नन्दनं नन्दने प्रिये ॥ २६ ॥
अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्डले ।
नश्यन्ति सर्व्वशस्यानि विजये नात्र संशयः ॥ २७ ॥
क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः ।
पीडितास्ते वरारोहे जये सर्व्वे न संशयः ॥ २८ ॥
सरोगञ्च तथा देवि दाहज्वरसमन्वितम् ।
अभिभूतं जगत् सर्व्वं मन्मथे सुरवन्दिते ॥ २९ ॥
तुषधान्यक्षयो देवि सर्व्वशस्यमहार्घता ।
व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः ॥ ३० ॥
पीड्यभ्ते सर्व्वशस्यानि देशे देशे शुचिस्मिते ।
हेमलखे प्रजाः सर्व्वाः क्षीयन्ते नात्र संशयः ॥ ३१ ॥
तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् ।
अर्घो भवति सामान्यो विलम्बे तु भयं महत् ॥ ३२ ॥
विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् ।
विकारी सर्व्वतोऽपायो मम वाक्यन्तु
नान्यथा ॥ ३३ ॥
क्वचिद्वर्षति पर्ज्जन्यो देशे संछिन्नमण्डलः ।
दुर्भिक्षं शर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ ॥
पृष्ठ ४/२५८
दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ।
प्लवे प्लवन्ति तोयानि पीडिता मानवाभुवि ॥ ३५ ॥
सुवर्णरूप्यधान्यानि जगत् सर्व्वं सुशोभनम् ।
ब्राह्मणा बणिजस्तुष्टाः सुभिक्षे शुभकृत्
प्रिये ॥ ३६ ॥
सुभिक्षं क्षेममारोग्यं तृप्ता गोब्राह्मणाः प्रिये ।
सुस्थिताः शोभने वर्षे प्रजाः सर्व्वाः सुलो-
चने ॥ ३७ ॥
विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् ।
जनानां जायते भद्रे क्रोधे क्रोधः परस्परम् ॥ ३८ ॥
सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता ।
विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥ ३९ ॥
पार्थिवैर्नृपसैन्यैश्च समस्तैः खण्डमण्डले ।
प्रपीड्यन्ते जनाः सर्व्वे भयभीताः पराभवे ॥ ४० ॥
तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः ।
प्लवङ्गे पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते ॥ ४१ ॥
जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।
सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत् ॥ ४२ ॥
सुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् ।
सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकी-
र्त्तितम् ॥ ४३ ॥
तोयपूर्णो भवेन्मेघो वर्षते च दिने दिने ।
निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये ॥ ४४ ॥
वासवो वर्षते देवि देशे चाखण्डमण्डले ।
अहिच्छत्रे कान्यकुब्जे विरोधी कृषिनाश-
कृत् ॥ ४५ ॥
अभिभूतं जगत् सर्व्वं क्लेशैर्व्वहुविधैः प्रिये ।
मारुतैः फलदाहैश्च परिवारिणि शोभने ॥ ४६ ॥
निष्पत्तिः सर्व्वशस्यानां सुभिक्षं भवति प्रिये ।
प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा ॥ ४७ ॥
निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यमहार्घता ।
घृतं तैलसमं याति आनन्दे नन्दति प्रजा ॥ ४८ ॥
कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्णिनि ।
सर्व्वौषधानि धान्यानि राक्षसे निष्ठुराः
प्रजाः ॥ ४९ ॥
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।
अनले च समाख्यातं नात्र कार्य्या विचा-
रणा ॥ ५० ॥
देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् ।
पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्मदातटे ॥ ५१ ॥
गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः ।
वासवो वर्षते देवि शस्यञ्च नहि जायते ॥
तिलसर्षपमाषादिकार्पासानां महार्घता ।
गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः ॥
तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ।
तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्द्दिनम् ।
पार्थिवा मोषका दीनाः कालयुक्ते प्रपी-
डिताः ॥ ५२ ॥
तोयपूर्णाः स्मृता मेधा बहुशस्या च मेदिनी ।
निष्ठुराः पार्थिवा देवि ! सिद्धार्थे च वरा-
नने ! ॥ ५३ ॥
अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः ।
विरुद्धाः पार्थिवा देवि रौद्रे संवत्सरे प्रिये ! ॥
५४ ॥
दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते ।
भवेद्बै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥
सुभिक्षं जायते लोकः सर्व्वोपद्रववर्ज्जितः ।
प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि ॥ ५६ ॥
महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः ।
तत् सर्व्वं देवि ! विक्रीय कर्त्तव्यो धान्यसञ्चयः ॥
रक्ते संवत्सरे देवि ! क्रूरबुद्धिर्नराधिपः ।
मानवाः क्रूरचेष्टाश्च संग्रामे न जयो भवेत् ॥ ५७
दुर्भिक्षं मरणं रोगो धान्यौषधिप्रपीडनम् ।
पापरोगो भवेद्देवि ! रक्ताक्षेऽमरवन्दिते ॥ ५८ ॥
रोगो मरणदुर्भिक्षं विरोधो बहुसंकुलः ।
क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ! ॥ ५९
मेदिनी चलते देवि ! सर्व्वभूतं चराचरम् ।
देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।
दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ! ॥
कौमुदीचर्म्मनद्योश्च यमुनानर्म्मदातटे ।
विन्ध्यायां सैन्धवे चापि विनश्यति न संशयः ॥
सिंहलं मध्यदेशश्च कालञ्जरं तथैव च ।
क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥”
६० ॥ * ॥
कार्त्तिकादिद्बादशवर्षाणि यथा । वराहसंहि-
तायाम् ।
“नक्षत्रेण सहोदयमस्तं वा येन याति सुर-
राजमन्त्री ॥”
तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥
वर्षाणि कार्त्तिकादीनि आग्नेयाद्भद्वयानु-
योगीनि ।
क्रमशस्त्रिभञ्च पञ्चममन्त्यमुपान्त्यञ्च विज्ञेयम् ॥”
नक्षत्रेण गुरुभुज्यमाननक्षत्रेण । आग्नेयं
कृत्तिका । पञ्चमं फाल्गुनं वर्षम् । अन्त्य-
माश्विनम् । उपान्त्यं भाद्रम् ।
“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो
मतः ।
शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ॥
द्वे द्वे चित्रादिताराणां पूर्णपर्व्वेन्दुसङ्गते ।
मासाश्चैत्रादयो ज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः ॥”
इति सङ्कर्षणकाण्डाच्च ॥
पूर्णपर्व्वेन्दुसङ्गते पौर्णमासीयुते द्वे द्बे तारे
तदेकवाक्यतया पूर्व्ववचने पौर्णमासीलाभः ।
यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात्
कार्त्तिकादित्वं तथा वर्षाणामपि गुरोः कृत्ति-
कादावस्तोदयसम्बन्धात् कार्त्तिकादित्वं तेन
कृत्तिकारोहिण्योरेकतरस्मिन् गुरोरस्तोदये-
ऽन्यतरलाभे कार्त्तिकं वर्षम् । एवं मार्ग-
शीर्षादि । अत्र वर्षद्वयघटकयोर्नक्षत्रयोरेक-
तरस्मिन् अस्तं गतो गुरुरन्यतरस्मिन्नुदेति तत्र
का गतिरिति चेत् कार्त्तिकोत्तरं मार्गशीर्षं
ततः पौषमित्यादिक्रमाद्गतिरिति । फलानि च ।
“शकटानलोपजीविकगोपीडाव्याधिशोकश्च ।
वृद्धिस्तु रक्तपीतकुसुमानां कार्त्तिके वर्षे ॥ १ ॥
सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च शस्य-
नाशः ।
व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥ २ ॥
शुभकृज्जातः पौषो निवृत्तवैराः परस्परं
भूपाः ।
द्वित्रिगुणो धान्यार्घः पौष्टिककर्म्मप्रसिद्धिश्च ॥ ३ ॥
पितृपूजा परिवृद्धिर्म्माघे हार्द्दञ्च सर्व्वभूता-
नाम् ।
आरोग्यवृष्टिधान्यार्घसम्पदो वित्तलाभश्च ॥ ४ ॥
फाल्गुने वर्षे विद्यात् क्वचित् क्वचित् क्षेम-
वृष्ट्यादिशस्यानि ।
दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥ ५
चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा
मृदवः ।
वृद्धिश्च कोषधान्यस्य भवति पीडा च रूप-
वताम् ॥ ६ ॥
वैशाखे धर्म्मपरा विगतभयाः प्रमुदिताः प्रजाः
सनृपाः ।
यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्व्वशस्यानाम् ॥ ७ ॥
ज्यैष्ठे ज्ञातिकुलधर्म्मश्रेणीश्रेष्ठा नृपाः सर्व्व-
धर्म्मज्ञाः ।
पीड्यन्ते धान्यानि च हित्वा कङ्गुशमीजानि ॥ ८
आषाढे जायन्ते शस्यानि क्वचिद्वृष्टिरन्यत्र ।
योगक्षेमं मध्यं शस्यव्यग्रा भवन्ति भूपाः ॥ ९ ॥
श्रावणे वर्षे क्षेमं कामं शस्यानि पाकमुप-
यान्ति ।
क्षुद्रा ये पार्थिवास्ते पीड्यन्ते ये च तद्भक्ताः ॥
१० ॥
भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्ब्बशस्यञ्च ।
न भवत्यपरं शस्यं क्वचित् सुभिक्षं क्वचिच्च
दुर्भिक्षम् ॥ ११ ॥
आश्वयुजेऽप्यजस्रं पतति जलं प्रमुदिताः प्रजाः
क्षेमम् ।
प्राणचयः प्राणभृतां सर्व्वेषामर्थवाहुल्यम् ॥”
१२ ॥
इति ज्योतिस्तत्त्वम् ॥ * ॥
समाद्यादिपञ्चवत्सरा यथा, --
“शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्-
सराः ।
सम्परीदानुपूर्ब्बाश्च तथोदापूर्व्वका मताः ॥”
संवत्सरादिफलमुक्तं विष्णुधर्म्मोत्तरे ॥
“संवत्सरे तथा दानं तिलस्य तु महाफलम् ।
परिपूर्व्वे तथा दानं यवानाञ्च द्बिजोत्तमाः ॥
इदापूर्व्वेऽन्नवस्त्राणां धान्यानाञ्चानुपूर्व्वके ।
उदासंवत्सरे दानं रजतस्य महाफलम् ॥
ज्जोतिर्व्विदस्त्विज्यमध्यात् प्रभवादेश्च सम्भवम् ।
ऊचुस्तद्बत् समाद्यादिवर्षाणामपि सम्भवम् ॥”
इज्यमध्यात् । गुरुमध्यभोगगणनात् । प्रभवादेः ।
प्रभवादिवर्षषष्टेः । इति मलमासतत्त्वम् ॥ * ॥
(ध्रुवपुत्त्रः । यथा, भागवते । ४ । १० । १ ।
“प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥”)

वत्सरान्तकः, पुं, (वत्सरस्यान्ते कायति शोभते

इति । कै + कः । यद्वा, वत्सरस्यान्तो नाशो
यस्मात् ।) फाल्गुनमासः । इति राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/व&oldid=44058" इत्यस्माद् प्रतिप्राप्तम्