शब्दकल्पद्रुमः/लाज

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/२१५

लाज, भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) लाजति ॥

लाज, इ भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) द्बौ द्बितीय-
स्वरिणौ । लाजति । इ, लाञ्ज्यते । भर्त्सन
एव कैश्चित् पठ्यते । भर्गो भर्ज्जनम् । इति
दुर्गादासः ॥

लाजं, क्ली, (लाज् + अच् ।) उषीरम् । इति

मेदिनी । जे, १५ ॥ (भृष्टधान्यम् । खै इति
भाषा ॥
“येषां स्युस्तण्डुलास्तानि धान्यानि सतु-
षाणि च ।
भृष्टानि स्फुटितान्याहुर्लाजानीति मनीषिणः ॥
लाजाः स्युर्म्मधुराः शीता लघवो दीपनाश्च ते ॥
स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः ।
छर्द्द्यतीसारदाहास्रमेहमेदस्तृषापहाः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लाजः, पुं, (लाज् + अच् ।) आर्द्रतण्डुलः । इति

मेदिनी । जे, १५ ॥

लाजा, स्त्री, अक्षतम् । इति मेदिनी । जे, १५ ॥

(यथा, सुश्रुते । ४ । १६ ।
“पैत्तिकं शर्करालाजामधुकैः सारिवा-
युतैः ॥”)

लाजाः, पुं, भूम्नि, (लाञ्ज्यन्ते ये ते । लाज् +

घञ् ।) भृष्टधान्यम् । लाओया इति खै इति
च भाषा । (यथा, रामायणे । २ । ४३ । १३ ।
“कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।
लाजेरवकरिष्यन्ति प्रविशन्तावरिन्दमौ ॥”)
तत्पर्य्यायः । अक्षतम् २ । इत्यमरः । २ । ९ । ४७ ॥
लाजा ३ अक्षताः ४ । इति भरतः ॥ अस्य
गुणाः । तृष्णाच्छर्द्द्यतीसारप्रमेहमेदःकफनाशि-
त्वम् । कासपित्तोपशमनत्वम् । अग्निकारित्वम् ।
लघुत्वम् । शीतलत्वञ्च । अस्य मण्डगुणाः ।
अग्निकारित्वम् । दाहतृष्णाज्वरातीसारनाशि-
त्वम् । अशेषदोषामपाचनत्वञ्च ॥ तस्य पेया-
गुणाः । क्षामकण्ठस्य श्रमघ्नत्वम् । क्षुधातृष्णा-
ग्लानिदौर्ब्बल्यकुक्षिरोगनाशित्वञ्च । इति राज-
वल्लभः ॥ * ॥ अपि च ।
“एते च व्रीहयो भृष्टास्ते लाजा इति
संज्ञिताः ।
यवादयश्च ये भृष्टास्ते धानाः परिकीर्त्तिताः ॥
लाजाश्च यवधानाश्च तर्पणाः पित्तनाशनाः ।
गोधूमयावनालोत्थाः किञ्चिदुष्णाश्च दीपनाः ॥
तृष्णातीसारशमनो धातुशाम्यकरः परः ।
मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् ।
देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः ॥”
इति राजनिर्घण्टः ॥ * ॥
तस्य चूर्णगुणाः ।
“द्राक्षादाडिमखर्ज्जूरमृदिताम्बुसशर्करम् ।
लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् ॥”
लाजचूर्णं द्राक्षादिजलशर्करामध्वाज्यसहितं
तर्पणमुक्तमित्यर्थः । लाजशक्तुगुणाश्च गुणग्रन्थे ।
“लाजानां शक्तवः क्षौद्रसितायुक्ता विशेषतः ।
छर्द्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः ॥”
चरकश्च ।
“तत्र तर्पणमेवादौ प्रदेयं लाजशक्तुभिः ।
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् ॥”
इति भावप्रकाशः ॥

लाञ्छनं क्ली, (लाञ्छ + ल्युट् ।) नाम । चिह्नम् ।

इति मेदिनी । ने, १२१ ॥ (यथा, कुमारे ।
७ । ३५ ।
“दिवापि निष्ठ्यूतमरीचिभासा
बालादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेः
चूडामणेः किं ग्रहणं हरस्य ॥”)

लाञ्छनः, पुं, (लाञ्छतीति । लाञ्छ + ल्युः ।)

रागीधान्यम् । इति राजनिर्घण्टः ॥ क्वचित्
पुस्तके लाञ्छनीति च पाठः ॥

लाटः, पुं, देशान्तरम् । (यथा, कथासरित्सागरे ।

७८ । ११९ ।
“ददौ तस्मै सपुत्त्राय प्रीत्या वीरवराय च ।
लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥”)
वस्त्रम् । इति मेदिनी । टे, २७ ॥ जीर्णभूष-
णादि । इति शब्दरत्नावली ॥

लाड, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा० पर०-सक०-सेट् ।) लाडयति अल-
लाडत् । इति दुर्गादासः ॥

लापः, पुं, कथनम् । लपधातोर्भावे घञ्प्रत्ययेन

निष्पन्नम् ॥

लाप्यं, त्रि, (लप्यते इति । लप् + ण्यत् ।) कथ-

नीयम् । लपधातोः कर्म्मणि घ्यण्प्रत्ययेन
निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥

लाभः, पुं, (लभ + घञ् करणे ।) मूलधनादधिकं

बाणिज्योपार्ज्जितं धनम् । तत्पर्य्यायः । फलम् २ ।
इत्यमरभरतौ ॥ लभ्यम् ३ वृद्धिः ४ । इति
शब्दरत्नावली ॥ (यथा, रामायणे । २ ।
२२ । २२ ।
“सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म्म तत् ॥”)
प्राप्तिः । इति लभधात्वर्थदर्शनात् ॥ (सप्त-
धर्म्म्यवित्तागमेषु अन्यतमः । यथा, मनुः । १० ।
११५ ।
“सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)

लाभ्यं, क्ली, (लभ् + ण्यत् ।) लाभः । इति

शब्दरत्नावली ॥

लामज्जकं, क्ली, वीरणमूलम् । इत्यमरः ॥ अस्य

पर्य्यायगुणावुशीरशब्दे द्रष्टव्यौ । उशीरवत्-
पीतच्छवितृणविशेषः । तत्पर्य्यायः । सुना-
लम् २ अमृणालम् ३ लवम् ४ लघु ५ इष्टिका
पथिकम् ६ शीघ्रम् ७ दीर्घमूलम् ८ जला-
शयम् ९ । अस्य गुणाः । हिमत्वम् । तिक्त-
त्वम् । वातपित्ततृड्दाहश्रममूर्च्छार्त्तिरक्त-
ज्वरापहत्वञ्च । इति राजनिर्घण्टः ॥

लालनं, क्ली, (लल् + णिच् + ल्युट् ।) अत्यन्त-

स्नेहकरणम् । प्रेमपूर्ब्बकवालकादरणम् ।
सोहाग इति भाषा । लड कोपसेवे उपसेव
इह अत्यन्तपालनम् । क, लालयेत् पञ्च वर्षाणि
पुत्त्रमिति अत्र डलयोरेकत्वाल्लत्वम् । इति
कविकल्पद्रुमटीकायां दुर्गादासः ॥ तथा हि ।
“लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत् ॥”
अपि च ।
“लालयेत् पञ्च वर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्त्रं मित्रवदाचरेत् ॥”
इति चाणक्यशतकम् ॥

लालसा, पुं स्त्री, (लस् + यङ् । ततः “अ प्रत्य-

यात् ।” ३ । ३ । १०२ । इति अः । टाप् ।) महाभि-
लासः । इत्यमरः ॥ औत्सुक्यम् । याच्ञा
इति मेदिनी । से, ३४ ॥ दोहदम् । यथा, --
“दोहदं दौर्हृदं श्रद्धा लालसा सूतिमासि तु ।”
इति हेमचन्द्रः ॥
लोलः । इति नानार्थे स एव ॥ (लोलुपे, त्रि ।
इति यादवः ॥ यथा, माघे । ४ । ६ ।
“छायां निजस्त्री चटुलालसानां
मदेन किञ्चित् चटुलालसानाम् ।
कुर्व्वाणमुत्पिञ्जरजातपत्रै-
र्विहङ्गमानां जलजातपत्रैः ॥”
तथा च कुमारे । ७ । ५६ ।
“तस्मिन् मुहूर्त्ते पुरसुन्दरीणा-
मीशानसन्दर्शनलालसानाम् ॥”)

लालसीकं, क्ली, पिच्छलम् । इति शब्दरत्नावली ॥

लाला, स्त्री, (लल् + णिच् + अच् । टाप् ।)

मुखभवजलम् । लाल इति भाषा । तत्पर्य्यायः ।
सृणिका २ स्यन्दिनी ३ । इत्यमरः ॥ द्राविका ४
सृणीका ५ । इति शब्दरत्नावली ॥ मुख-
स्रावः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते ।
४ । २२ ।
“हीनच्छेदात् भवेच्छोफो लालानिद्राभ्रम-
स्तमः ॥”)

लालाटिकः, त्रि, (ललाटं पश्यतीति । ललाट +

“संज्ञायां ललाटकुक्कुटौ पश्यति ।” ४ । ४ । ४६ ।
इति ठक् । दूरेस्थित्वा प्रभोर्ललाटं पश्यति न
तु कार्य्येषूपतिष्ठते इत्यर्थः ।) प्रभोर्भालदर्शी ॥
कार्य्याक्षमः । इत्यमरः ॥ यः सेवकः क्रोध-
प्रसादचिह्नज्ञानाय प्रभोर्ललाटमेव पश्यति । यश्च
प्रभोः कार्य्येऽक्षमोऽशक्तस्तौ लालाटिकौ पूर्ब्ब-
वत् ष्णिकः । केचित्तु कार्य्याक्षम इति भाल-
दर्शिन एव विशेषणमुक्त्वा एकमेव लालाटिक-
माहुर्न तु द्बाविति । भावदर्शीति च पाठः
लालाटिकः सदालस्ये प्रभुभावनिदर्शिनि । इत्य-
जयः ॥ इति तट्टीकायां भरतः ॥ आश्लेषण-
विशेषे, पुं, । इति मेदिनी । के, २२१ ॥ ललाट-
सम्बन्धिनि, त्रि । यथा । प्राप्तिस्तु लालाटिकी-
त्यादि ॥

लालामेहः, पुं, (लालावत् मेहतीति । मिह +

अच् ।) प्रमेहविशेषः । यथा, --
“लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ।”
प्रमेहतीति शेषः । अस्यौषधम् ।
“गुडूच्याः स्वरसः पेयो मधुना सर्व्वमेहजित् ।
पृष्ठ ४/२१६
हरिद्राचूर्णयुक्तो वा रसो धात्र्याः समा-
क्षिकः ॥”
अपि च ।
“चन्द्रप्रभा वचा मुस्ता भूनिम्बं सुरदारु च ।
हरिद्रातिविषा दार्व्वी पिप्पलीमूलचित्रकम् ॥
तृवृद्दन्तीपत्रकञ्च त्वगेला वंशलोचना ।
प्रत्येकं कर्षमात्राणि कुर्य्यादेतानि बुद्धिमान् ॥
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली ।
सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम् ॥
एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् ।
द्विकर्षहतलोहं स्याच्चतुः कर्षा सिता भवेत् ॥
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः ।
विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा ॥
चन्द्रप्रभातिविख्याता सर्व्वरोगप्रणाशिनी ।
निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा ॥”
इत्यादि भावप्रकाशः ॥
(तथास्य लक्षणान्तरम् ।
“तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति ।
आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः ॥”
इति चरके निदानस्थाने चतुर्थेऽध्याये ॥)

लालायितः, त्रि, लालाविशिष्टः । कातर इति

यावत् । लालाशब्दात् नमस्तपोवरिवः कण्ड्वा-
दिभ्यः क्यः कृतौ इति मुग्धबोधव्याकरणसूत्रेण
क्यप्रत्यये कृते क्तप्रत्ययान्निष्पन्नः । यथा । अत्र
लालायितः फणी । इति अनन्तदेवोक्तगणेश-
लिखितपाणिनिव्याकरणीयमहाभाष्यम् ॥
अपि च ।
“परिखावलयच्छलेन या
न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किका
विषमा कुण्डलनामवापिता ॥”
इति पूर्ब्बनैषधे २ सर्गः ॥
परिखेति । शत्रूणां ग्रहणगोचरो नेयमिति
कृत्वा परिखावलयव्याजेन या पुरी कुण्डलनां
प्रापिता विधात्रेति शेषः । फणिना भाषिता
या महाभाष्यफक्किका तद्बद्बिषमा सापि परेषां
ज्ञानगोचरो नेयमिति कृत्वा अत्र लालायितः
फणीत्येवं कुण्डलनां प्रापिता पण्डितैरिति
शेषः । इति भवदत्तकृततट्टीका ॥

लालाविषः, पुं, (लालायां विषं यस्य ।) लूतादिः ।

इति हेमचन्द्रः । ४ । ३७९ ॥

लालास्रावः, पुं, (लालां स्रावयतीति । स्रु + णिच्

+ अण् ।) ऊर्णनाभः । इति हेमचन्द्रः ॥
(लालाक्षारके, त्रि । यथा, सुश्रुते । २ । १६ ।
“ललास्रावी स विज्ञेयः कण्डूमान् शौषिरो
गदः ॥”)

लालिकः, पुं, महिषः । इति हेमचन्द्रः । ४ । ३४९ ॥

लालित्यं, क्ली, (ललित + ष्यञ् ।) ललितस्य भावः ।

यथा, --
“प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन्
स्मृत-
स्तं वृन्दारकवृन्दवन्दितपदं नत्वा मतङ्गाननम् ।
पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां
प्रस्फुटां
संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीला-
वतीम् ॥”
इति लीलावती ॥

ला(ब)वः, पुं स्त्री, पक्षिविशेषः । लाओया इति

भाषा । इत्यमरभरतौ ॥ (यथा, सुश्रुते । ४ । ८ ।
“ग्राम्यानुपोदकैर्म्मांसै र्लाबाद्यैर्व्वापि विष्किरैः ॥”)
अस्य मांसगुणाः । लघुत्वम् । कटुत्वम् । मल-
बद्धकारित्वम् । स्वादुत्वम् । शीतत्वम् । त्रिदोष-
नाशित्वञ्च । इति राजवल्लभः ॥ (तथा च ।
“संग्राही दीपनश्चैव कषायो मधुरो लघुः ।
लावः कटुविपाकश्च सन्निपाते च पूजितः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
(यथास्य गुणपर्य्यायौ ।
“लावा विष्किरवर्गेषु ते चतुर्धा मता बुधैः ।
पांशुलो गौरकोऽन्यस्तु पौण्ड्रकोदर्भरस्तथा ॥
लावा वह्निकराः स्निग्धा गरघ्ना ग्राहिका
हिताः ॥
पांशुलः श्लेष्मलस्तेषु वीर्य्योष्णोऽनिलनाशनः ।
गौरो लघुतरो रूक्षो वह्रिकारी त्रिदोषजित् ॥
पौण्ड्रकः पित्तकृत् किञ्चिल्लघुवातकफापहः ।
दर्भरोरक्तपित्तघ्नो हृदामयहरो हिमः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

ला(ब)वकः, पुं, (लाव एव । स्वार्थे कन् ।) लाव-

पक्षी । तत्पर्य्यायः । लघुजङ्गलः २ । इति
त्रिकाण्डशेषः ॥ (तथास्य मांसगुणाः ।
“पक्षिणाञ्च महाश्रेष्ठो लावको जाङ्गलात्मकः ।
मंग्राही दीपनः प्रोक्तः कषायो मधुरो लघुः ।
तथा विपाके मधुरः सन्निपातेऽतिपूजितः ॥”
इति हारीते प्रथमे स्थाने एकादशेऽध्याये ॥
यथा, सुश्रुते । ४ । ३९ ।
“विरिक्तवान्तैर्हरिणैणलावकाः
शशश्च सेव्यः समयूरतित्तिरिः ॥”
लुनातीति । लू + ण्वुल् । छेदकः । यथा, मार्क-
ण्डेये । ४६ । १६ ।
“यथा प्रागव्यापकः क्षेत्री पालको लावक-
स्तथा ॥”)

लावणं, त्रि, (लवण + अण् ।) लवणेन संस्कृतम् ।

यथा, --
“सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् ।
लवणोदकाभ्यामुदकं लाषणिकमुदश्विति ।
औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् ॥”
इति हेमचन्द्रः ॥
लवणसम्बन्धि च । (यथा, हरिवंशे । ५३ । २० ।
“स मां परिभवन्नेव स्वां वेलां समुपाक्रमन् ।
क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ॥”)
नस्ये, क्ली । इति रत्नमाला ॥

लावणिकं, त्रि, (लवण + ठञ् ।) लवणेन संस्कृ-

तम् । इति हेमचन्द्रः ॥ लवणसम्बन्धि च ।
लबणविक्रेतरि, पुं । (यथा, माघे । १० ।
३८ ।
“लीलयैव सुतनोस्तुलयित्वा
गौरवाढ्यमपि लावणिकेन ॥”)
लवणपात्रे, क्ली । इति केचित् ॥

लावण्यं, क्ली, (लवण + ष्यञ् ।) लवणत्वम् ।

लवणस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ।
(लवणा त्विट् विद्यते यस्येति लवणः । अर्श-
आदिभ्योऽच् । तस्य भावः । दृढादित्वात्
ष्यञ् । यद्बा, लवणा त्विट् सैव । चतुर्वर्णादि-
त्वात् स्वार्थे ष्यञ् ।) सौन्दर्य्यविशेषः । तस्य
लक्षणं यथा, --
“मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
तथा हि ।
“नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गनानां
धृति-
र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो
गिराम् ।
लावण्यं वपुषः स्मृतिस्तु मनसा शान्तिर्द्विजस्य
क्षमा
शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां
मण्डनम् ॥”
इति नवरत्नान्तर्गतामरसिंहः ॥
(शीलनैपुण्यादि । अस्य प्रमाणं लावण्यार्जित-
शब्दे द्रष्टव्यम् ॥)

लावण्यार्जितं, क्ली, (लावण्येन अर्जितम् ।) विवाह-

कालीनं श्वशुराभ्यां दत्तं धनम् । यथा, --
“प्रीत्या दत्तञ्च यत्किञ्चित् श्वश्र्वा वा श्वशुरेण
वा ।
पादवन्दनिकं यत्तल्लावण्यार्जितमुच्यते ॥”
इति विवादचिन्तामणिधृतकात्यायनवचनम् ॥
लावण्यं शीलनैपुण्यादि । तथा च पादप्रणतायै
शीलादिमत्यै वा स्त्रियै श्वशुरादिना दत्तं
तृतीयं स्त्रीधनमित्यर्थः । इति तद्व्याख्यानम् ॥

लावा, स्त्री, (लाव + टाप् ।) पक्षिविशेषः । तत्-

पर्य्यायः । लावकः २ लावः ३ लवः ४ । अस्या
मांसगुणाः । पथ्यत्वम् । ग्राहित्वम् । लघुत्वञ्च ।
इति राजनिर्घण्टः ॥

लावुः, स्त्री, अलावुः । इति शब्दरत्नावली ॥

लावूः, स्त्री, अलावुः । इति शब्दरत्नावली ॥

लासः, पुं, (लस् + घञ् ।) नृत्यमात्रम् । स्त्रीणां

नृत्यम् । इति शब्दरत्नावली ॥ (यथा, ऋतु-
संहारे । ६ । ३१ ।
“मदनजनितलासैर्दृष्टिपातैर्म्मुनीन्द्रान्
स्तनभरनतनार्य्यः कामयन्ति प्रशान्तान् ॥”)
यूषः । इति शब्दचन्द्रिका ॥

लासकं, क्ली, (लसतीति । लस + ण्वुल् ।) मट्टकम् ।

इति हारावली ॥ मट्का इति भाषा ॥
लासकः, पुं, (लसतीति । लस + ण्वुल् ।) लास्य-
कारी । मयूरः । लसकः । इति मेदिनी । के, ॥
वेष्टः । इति धरणिः ॥ (दीप्तिकारकः । यथा,
ऋतुसंहारे । २ । २६ ।
पृष्ठ ४/२१७
“नवजलकणसेकाच्छीततामादधानः
कुसुमभरनतानां लासकः पादपानाम् ॥”)

लासकी, स्त्री, नर्त्तकी । इत्यमरः ॥

लासिका, स्त्री, (लासोऽस्त्यस्या इति । लास +

ठन् ।) नर्त्तकी । इत्यमरः ॥

लास्फोटनी, स्त्री, आस्फोटनी । वेधनिका ।

इत्यमरटीकायां रायमुकुटः ॥

लास्यं, क्ली, (लस् + “ॠहलोर्ण्यत् ।” ३ । १ । १२४ ।

इति ण्यत् ।) नृत्यम् । इत्यमरः ॥ तौर्य्यत्रिकम् ।
इति मेदिनी ॥ भावाश्रयं नृत्यम् । ताललयाश्रयं
नृत्यम् । इति भरतः ॥
“पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यते ।”
इति सङ्गीतनारायणे नारदसंहिता ॥
(यथा, महाभारते । १ । ९८ । १० ।
“सम्भोगस्नेहचातुर्य्यैर्हावलास्यमनोहरैः ।
राजानं रमयामास तथा रेमे तथैव सः ॥”)

लास्यः, पुं, (लास्यमस्त्यस्येति । लास्य + अच् ।)

नर्त्तकः । इति शब्दरत्नावली ॥

लास्यकं, क्ली, (लास्यमेव । स्वार्थे कन् ।) नृत्यम् ।

इति शब्दरत्नावली ॥

लास्या, स्त्री, (लास्यमस्त्यस्या इति । लास्य +

अच् । टाप् ।) नर्त्तकी । इति शब्दरत्नावली ॥

लिकुचं, क्ली, (लक्यते आस्वोद्यते इति । लक् +

बाहुलकात् उचः । पृषोदरादित्वात् इत्वम् ।)
चुक्रम् । इति राजनिर्घण्टः ॥ (डहुः । अस्य
गुणा यथा, --
“पित्तश्लेष्मप्रकोपीणि कर्कन्धुलिकुचान्यपि ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)

लिकुचः, पुं, लकुचः । इत्यमरः ॥

लिक्का, स्त्री, लिक्षा । इति शब्दरत्नावली ॥

लिक्षा, क्ली, (लिशगतौ + बाहुलकात् सः । सच

कित् । इत्युणादिवृत्तौ उज्ज्वलः । ३ । ६६ ।)
यूकाण्डम् । इत्यमरः ॥ लिकि इति भाषा ।
इत्यमरभरतौ ॥ तत्पर्य्यायः । लिक्का २ लीक्षा ३
लीक्का ४ लिक्षिका ५ । इति शब्दरत्नावली ॥
(यथा, --
“बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ॥”
इति वाभटे निदानस्थाने चतुर्द्दशेऽध्याये ॥)
परिमाणविशेषः । यथा, --
“जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः ।
तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषड्भिश्च सर्षपः ॥”
इति शब्दचन्द्रिका ॥
सयकारकवर्गद्वितीयवतीत्यपि पाठः ॥

लिख, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, लिङ्ख्यते । सृपि गतौ ।
इति दुर्गादासः ॥

लिख, श लेखने । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) श, लिखति पुस्तकं लेखकः ।
अयं विभाषया कुटादिरिति केचित् । तेन
लिखितं विश्वसृजोऽपि शक्तिहानिरिति ।
लिखितव्यं लेखितव्यं लिखनं इत्यादि सिद्धम् ।
इति दुर्गादासः ॥

लिखः, त्रि, (लिखतीति । लेख + “इगुपधज्ञेति ।”

३ । १ । १३५ । इति कः ।) लेखकः । इति
लिखधातोः कप्रत्ययेन निष्पन्नम् ॥

लिखनं, क्ली, लेखनम् । लिपिः । इत्यमरटीकायां

सारसुन्दरी ॥ (यथा, मार्कण्डेये । ५१ । २२ ।
“प्रसिद्धमन्त्रलिखनात् शस्तमाल्यादिधारणात् ।
विशुद्धगेहावसथादनायासाच्च वै द्विज ! ॥”)
विधिलिपिरखण्डनीया यथा, --
“यस्य यल्लिखनं पूर्व्वं यत्र काले निरूपितम् ।
तदेव खण्डितुं राधे क्षन्ये नाहञ्च को विधिः ॥
विधातुश्च विधाताहं येषां यल्लिखनं कृतम् ।
ब्रह्मादीनाञ्च क्षुद्राणां न तत् खण्ड्यं कदाचन ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १५ अध्यायः ॥

लिखितं, क्ली, (लिख + भावे क्तः ।) लिपिः ।

इत्यमरः ॥ लेखनम् । इति भरतः ॥ (लिख +
कर्म्मणि क्तः ।) लिखितपत्रादौ, त्रि । यथा, --
“प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति
कीर्त्तितम् ॥”
इति मिताक्षरायां याज्ञवल्क्यः ॥
मुनिविशेषे, पुं । यथा, श्राद्धतत्त्वे याज्ञवल्क्येः ॥
“पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
शातांतपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”

लिख्या, स्त्री, परिमाणविशेषः । यथा, --

“जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः ।
तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः ॥”
इति शब्दचन्द्रिका ॥

लिग, इ गतौ । इति कविकल्कद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, लिङ्ग्यते । इति दुर्गादासः ॥

लिग, इ क चित्रे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) इ क, लिङ्गयति शब्दं
स्त्रीनपुंसकैः शाब्दिकः चित्रं करोतीत्यर्थः ।
इति दुर्गादासः ॥

लिगु, क्ली, (लिङ्गति विषयात् विषयान्तरं गच्छ-

तीति । लिग + “खरुशंकुपीयुनीलङ्गुलिगु ।”
उणा० १ । ३७ । इति कुप्रत्ययेन साधु ।) मनः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

लिगुः, पुं, (लिग + कुः ।) मूर्खः । इति सिद्धान्त-

कौमुद्यामुणादिवृत्तिः ॥ भूप्रदेशः । मृगः ।
इति नानार्थरत्नमाला ॥

लिङ्गं, क्ली, (लिङ्ग्यते अनेन इति । लिङ्ग + घञ् ।

अभिधानात् क्लीवलिङ्गत्वम् ।) चिह्रम् । (यथा,
महाभारते । १ । २ । १२ ।
“येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥”)
शेफः । इत्यमरः ॥ अनुमानम् । साङ्ख्योक्त-
प्रकृतिः । (यथा, सांख्यकारिकायाम् । ५५ ।
“तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः
पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं स्वभावेन ॥”
प्रकृतिकार्य्यं विकृतिश्च । यथा, तत्रैव । १० ।
“हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं
लिङ्गम् ।
सावयबं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥”
विशेषस्तु तत्र द्रष्टव्यः ।) शिवमूर्त्तिविशेषः । इति
मेदिनी । गे, २३ ॥ व्याप्यम् । व्यक्तम् । पुंस्त्वादिः ।
इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ५ । १३६ ।
“एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥”)
सामर्थ्यम् । यथा, --
“यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।
अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः ॥”
इति तिथ्यादितत्त्वे एतत्कारिकाव्याख्यायां रघु-
नन्दनः ॥ * ॥ अथ शेफार्थस्य लिङ्गस्य पर्य्यायः ।
शिश्नः २ स्वरस्तम्भः ३ उपस्थः ४ मदनाङ्कुशः ५
कन्दर्पमुषलः ६ शेफः ७ मेहनम् ८ शेफः [स्] ९
मेढ्रः १० लांगुः ११ ध्वजः ११ रागलता १३
व्यङ्गः १४ । इति शब्दरत्नावली ॥ लाङ्गूलम् १५
साधनम् १६ सेफः १७ कामाङ्कुशः १८ । इति
जटाधरः ॥ * ॥ लिङ्गमूले वादिलान्तवर्णयुक्त-
स्वाधिष्ठाननामकषड् दलपद्ममस्ति । यथा, --
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयम्भूलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥
तद्वाद्ये हेमवर्णाभं व स वर्णचतुर्दलम् ।
तदूर्द्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ॥
वादिलान्तषड्र्णेन युक्तञ्चाधिष्ठानसंज्ञकम् ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥”
इति तन्त्रम् ॥ * ॥
अस्याधिष्ठातृदेवतादिर्यथा ।
“प्रजनः सर्व्वभूतानामुपस्थोऽध्यात्ममुच्यते ।
अधिभूतं तथा शुक्रं दैवतञ्च प्रजापतिः ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥
अस्य शुभाशुभलक्षणं यथा, --
“स्वल्पे लिङ्गे च धनवान् स्याच्च पुत्त्रादि-
वर्ज्जितः ।
स्थूललिङ्गो दरिद्रः स्याद्दःख्येकवृषणी भवेत् ॥”
इति गारुडे ६३ अध्यायः ॥ * ॥
अपि च ।
“महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः ।
अपत्यरहितश्चैव स्थूललिङ्गो धनोज्झितः ॥”
महद्भिर्जानुभिरिति शेषः ।
“मेढ्रे वामनते चैव सुतान्नरहितो भवेत् ।
वक्रेऽन्यथापुत्त्रवान् स्यात् दारिद्र्यं विनते
त्वधः ॥
अल्पे तु तनयो लिङ्गे शिरालेऽथ सुखी नरः ।
स्थूलग्रन्थियुते लिङ्गे भवेत् पुत्त्रादिसंयुतः ॥”
इति गारुडे ६६ अध्यायः ॥
अन्यच्च ।
“दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन निर्द्धनः ।
कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥
कर्कशैः कठिनैर्लिङ्गैः परदाररतः सदा ।
रमते च सदा दासीं निर्द्धनो भवति ध्रुवम् ॥
कृशलिङ्गेन सूक्ष्मेण रक्तलिङ्गेन भूपतिः ।
परस्त्रीं रमते नित्यं नारीणां वल्लभो भवेत् ॥
कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् ।
पृष्ठ ४/२१८
राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पति-
र्भवेत् ॥”
इति सामुद्रकम् ॥
शिवस्य लिङ्गरूपस्य तन्निर्माल्याग्राह्यत्वस्य च
कारणं यथा, --
दिलीप उवाच ।
“वेद्मि स्माहं द्विजश्रेष्ठ ! रुद्रस्त्रिपुरहन्तकः ।
कस्माद्विगर्हितं रूपं प्राप्तवान् सह भार्य्यया ॥
योनिलिङ्गस्वरूपञ्च कथं स्यात् सुमहात्मनः ।
पञ्चवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ॥
कथं विगर्हितं रूपं प्राप्तवान् द्विजपुङ्गव ! ।
एवं सर्व्वं समाचक्ष्व मित्रावरुणनन्दन ॥
श्रीवशिष्ठ उवाच ।
शृणु राजन् प्रवक्ष्यामि यन्मां पृच्छसि गौरवात् ।
स्वायम्भुवो मनुः पूर्व्वं मन्दरे पर्व्वतोत्तमे ॥
इयाज मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ।
तस्मिन् समागताः सर्व्वे मुनयः शंसितव्रताः ॥
अन्वेष्टुं देवतातत्त्वं मिथः प्रोचुस्तपोधनाः ।
विप्राणावेदविदुषां कः पूज्यो देवतावरः ॥
इति तस्य वचः श्रुत्वा सर्व्व एव महर्ययः ।
भृगुं तपोनिधिं विप्रं प्रोचुः प्राञ्जलयस्तदा ॥
ऋषय ऊचुः ।
अस्माकं संशयं छेत्तुं समर्थोऽसि शुभव्रत ।
ब्रह्मविष्णुमहेशानामन्तिकं व्रज सुव्रत ॥
गत्वा तेषां समीपन्तु तथा दृष्ट्वा च विग्रहान् ।
शुद्धसत्त्वगुणस्तेषां यस्मिन् संविद्यते मुने ! ॥
स एव पूज्यो विप्राणां नेतरस्तु कदाचन ।
तस्मात् त्वं हि मुनिश्रेष्ठ विबुधानां निरासनम् ॥
क्षिप्रं कुरु मुनिश्रेष्ठ सर्व्वलोकहितं प्रभो ॥
एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः ।
जगाम बामदेवेन यत्रास्ते वृषभध्वजः ॥
गृहद्वारमुपागम्य शङ्करस्य महात्मनः ।
शूलहस्तं महारौद्रं नन्दिं दृष्ट्वाब्रवीद्द्विजः ॥
संप्राप्तो हि भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम् ।
निवेदयस्व मां शीघ्रं शङ्कराय महात्मने ॥
तस्य तद्वचनं श्रुत्वा नन्दी सर्व्वगणेश्वरः ।
उवाच परुषं वाक्यं महर्षिममितौजसम् ॥
असान्निध्यः प्रभोस्तस्य देव्या क्रीडति शङ्करः ।
निवर्त्तस्व निवर्त्तस्व यदि जीवितुमिच्छसि ॥
एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः ।
बहूनि दिवसान्यस्मिन् गृहद्वारे मुनीश्वरः ॥
ततः क्रोधसमाविष्टो भृगुः प्रोवाच शङ्करम् ।
विनष्टस्तमसारूढो मां न जानाति शङ्करः ॥
नारीसङ्गममत्तोऽसौ यस्मान्मामवमन्यते ।
योनिलिङ्गस्वरूपं वै रूपं तस्माद्भविष्यति ॥
ब्राह्मणं मां न जानाति तमसा चाप्युपागतः ।
अब्रह्मण्यत्वमापन्नो न पूज्योऽसौ द्बिजन्मनाम् ॥
तस्मान्न जलमन्नन्तु तस्मै दत्तं हविस्तथा ।
शिवस्यान्नं जलञ्चैव पत्रं पुष्पं फलादिकम् ॥
निर्म्माल्यमस्य चाग्राह्यं भविष्यति न संशयः ॥
एवं शप्त्वा महातेजाः शङ्करं लोकपूजितम् ।
उवाच गणमत्युग्रं नन्दिं शूलधरं नृप ! ॥
रुद्रभक्ताश्च ये लोके भस्मलिङ्गास्थिधारिणः ।
ते पाषण्डत्वमापन्ना वेदवाह्या भवन्ति वै ॥
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्तकम् ।
जगाम ब्रह्मलोकं वै सर्व्वलोकनमस्कृतम् ॥”
इति पाद्मोत्तरखण्डीयाष्ठसप्ततितमाध्यायात्
सङ्कलितम् ॥ * ॥ शिवलिङ्गस्य पूजाधारत्वं यथा,
“पूजास्थानानि वक्ष्यामि यस्मिन् सान्निध्यतां
व्रजेत् ।
लिङ्गस्थां पूजयेद्देवीं स्थण्डिलस्थां तथैव च ।
पुस्तकस्थां महादेवीं पादुके प्रतिमासु च ॥
तल्लिङ्गमाश्रयेन्मन्त्री शुक्राद्यैर्यत् प्रतिष्ठितम् ।
कचाद्यैर्यत् कृतं लिङ्गं वर्ज्जनीयन्तु साधकैः ॥
अल्पसौख्यप्रदं प्रोक्तं वेदमन्त्रैः प्रतिष्ठितम् ।
साविकारन्तु सल्लिर्ङ्ग भुक्तभोगं तथेव च ।
ज्ञातव्यं साधकेन्द्रेण सिद्धिदञ्चाप्यसिद्धिदम् ॥
देव्युवाच ।
साविकारन्तु यल्लिङ्गं मन्त्रहीनं प्रतिष्ठितम् ।
निर्वर्त्तितविकारञ्च अस्वयम्भु स्वयम्भवम् ॥
कुर्व्वन्ति भक्तिवात्सल्यं लोकानां वासनात्मकम् ।
दुर्विज्ञेयमिदं ज्ञानं योगिनामप्यगोचरम् ॥
मर्त्यैर्जडधियैर्नाथ कथं विज्ञायते विभो ॥
ईश्वर उवाच ।
साधु साधु महादेवि ! रहस्यमिदमुत्तमम् ।
यत्त्वया चोदितं भद्रे ! तत्तथैव न चान्यथा ॥
दुर्विज्ञेयं सुरैश्चापि किं पुनर्मनुजन्तुभिः ।
आधिष्ठ्य साधकः क्षेत्रं हृदयानन्दकारकम् ॥
इन्द्रियाणाञ्च औत्सुक्यं ददामि लिङ्गदर्शने ।
सेव्यमानं ततो लिङ्गं नित्यमानन्ददायकम् ॥
सुस्वप्नान् पश्यते नित्यं विमानस्थां वराङ्गनाम् ।
भैरवं पश्यते नित्यं क्रीडन्तं मातृमण्डले ॥
उमामहेश्वरञ्चापि स्वप्ने पश्यति साधकः ।
अनिवर्त्तिताधिकारं लिङ्गं त्रिभुवनेश्वरि ! ।
आक्रमन्ति महाविघ्नाः सदैत्या राक्षसादयः ॥
शून्यागारं यथा देवि ! आक्रमन्ति नराः प्रिये ।
अनर्च्चितन्तु भुञ्जन्ति तथा लिङ्गन्तु कल्पना ॥
प्रेतं यथा सुराध्यक्षे आक्रमन्ति पिशाचकाः ।
शून्यञ्च व्यङ्गलिङ्गन्तु आश्रयन्ति तथा प्रिये ॥”
इत्याद्ये देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ * ॥
अथ लिङ्गलक्षणम् ।
तत्र बाणलिङ्गस्य लक्षणं यथा, --
“बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् ।
उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु ॥
नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा ।
सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि यन्मुखे ॥
इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि च ।
सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥
इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि
च ॥”
अथाग्नेयलिङ्गलक्षणम् ।
“आरुणं हित्यकीलालमुष्णस्पर्शं-करोत्यलम् ।
आग्नेयं तत् शक्तिनिभमथवा शक्तिलाञ्छितम् ॥
इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् ॥” * ॥
अथ याम्यलिङ्गलक्षणम् ।
“दण्डाकारं भवेद्याम्यमथवा रसनाकृति ।
यद्यदुक्तं सह तेर्न निर्निक्तं ज्ञायते तदा ।
निषिक्तं निधनं तेन क्रियते स्थापितेन तु ॥” * ॥
अथ नैऋतलिङ्गलक्षणम् ।
“राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् ।
कर्करादिप्रलिप्तन्तु कुण्ठकुक्षियुतं तथा ।
राक्षसं निष्कृते लिङ्गं गार्हस्थे न सुखप्रदम् ॥”
अथ वारुणलिङ्गलक्षणम् ।
“वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् ।
वृद्धिर्मुखादेः र्ह्रस्वत्वं संभोगाप्तन्तु मध्यगे ॥”
अथ वायुलिङ्गलक्षणम् ।
“कृष्णं धूम्रं न वारुच्यं ध्वजाभं ध्वजमूषलम् ।
मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः ॥” * ॥
अथ कुबेरलिङ्गलक्षणम् ।
“तूणपाशगदाकारं गुह्यकेशस्य मध्यगम् ।”
अथ रौद्रलिङ्गलक्षणम् ।
“दिनं वाप्यथवा रात्रिं सशोणं रविवर्च्चसम् ।
अस्थिशूलाङ्कितं रौद्रं हेमकुण्डलवर्च्चसम् ॥”
अथ वैष्णवलिङ्गलक्षणम् ।
“चतुर्व्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः ।
वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम् ॥
श्रीवत्सं कौस्तुभाङ्कञ्च सर्व्वसिंहासनाङ्कितम् ।
वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम् ॥
वैष्णवं नाम तत् प्रोक्तं सर्व्वैश्वर्य्यफलप्रदम् ।
शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम् ॥
पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये ॥”
इति वीरमित्रोदयधृतकालोत्तरः ॥ * ॥
नारद उवाच ।
“अथ वक्ष्यामि ते विप्र चिह्रमेकादशं परम् ।
श्रवणाद्यस्य पापानि नाशमायान्ति तत्-
क्षणात् ॥
मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् ।
स्वयम्भुलिङ्गमाख्यातं सर्व्वसिद्धैर्निषेवितम् ॥
नानावर्णसमाकीण जटाशूलसमन्वितम् ।
मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम् ॥
दीर्घाकारं शुभ्रवर्णं कृष्णबिन्दुसमन्वितम् ।
बीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः ॥
शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् ।
त्रिलोचनं महादेवं सर्व्वपापप्रणोदनम् ॥
ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् ।
कालाग्निरुद्रमाख्यातं सर्व्वसत्त्वैर्निषेवितम् ॥
मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतिनम् ।
श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम् ॥
प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् ।
शुभ्राभं पिङ्गलजटं मुण्डमालाधरं परम् ॥
त्रिशैलधरमीशानं लिङ्गं सर्व्वार्थसाधनम् ।
त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः ॥
अर्द्धनारीश्वराह्वानं सर्व्वदेवैरभिष्टुतम् ।
ईषद्रक्तमयं कान्तं स्थूलं लिङ्गं समुज्ज्वलम् ॥
महाकालं समाख्यातं धर्म्मकामार्थमोक्षदम् ।
एतत्तु कथितं तुभ्यं लिङ्गचिह्रं महेशितुः ।
पृष्ठ ४/२१९
एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत ॥”
इति हेमाद्रिधृतलक्षणकाण्डम् ॥ * ॥
“उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्ज्जयेत् ।
यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम् ॥
दण्डाङ्कं सूत्रचिह्रं वा ब्रह्मज्ञानान्वितं मतम् ।
शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ॥
पद्मरागनिभं सर्व्वं महाभं सिद्धपूजितम् ।
मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम् ॥
वसुदैः सेन्द्रयक्षेशं गुह्यकैर्यातुधानकैः ।
नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम् ॥”
इति वीरमित्रोदयधृतकालोत्तरः ॥
इति बाणलिङ्गलक्षणम् ॥ * ॥
अथ तस्य परीक्षा ।
“इत्येतल्लक्षणं प्रोक्तं परीक्षा तत्त्वकोविदैः ।
त्रिः सप्त पञ्च वारं वा तुलासाम्यं न जायते ।
तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥”
इति वीरमित्रोदयधृतम् ॥
तुलाकरणन्तु तण्डुलेन । अपरतुलादिषु तण्डुला
यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्यमव-
धार्य्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यन्तदिति
किं वदन्तीति हेमाद्रिधृतलक्षणकाण्डम् ॥
“सप्तकृत्वस्तुलारूढं वृद्धिमेति न हीयते ।
बाणलिङ्गमिति ख्यातं शेषं नार्म्मदमुच्यते ॥
त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते ।
तदा बाणं समाख्यातं शेषं पाषाणसम्भवम् ॥”
इति सूतसंहिता ॥
“नद्यां वा प्रक्षिपेद्भूयाद्यदा तदुपलभ्यते ।
बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् ॥”
इति वीरमित्रोदयः ॥ * ॥
बाणशब्दव्युत्पत्तिरपि तत्रैव ।
“अथ बाणं समाख्यातं यथा वक्ष्य तथादितः ।
बाणः सदाशिवो देवो बाणो वाणान्तरोऽपि
च ॥
तेन यस्मै कृतं तस्मात् बाणलिङ्गमुदाहृतम् ।
सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥
कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च ।
पङ्कजस्य फलाकारं कुण्डलस्य समाकृति ॥
भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम् ॥”
पङ्कजफलं पद्मबीजम् ।
“पक्वजम्बुफलाकारं कुक्कुटाण्डसमाकृति ।”
इति हेमाद्रिधृतलक्षणकाण्डे पाठः ॥ * ॥
देवीं प्रति शिववाक्यम् ।
“प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति ।
मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् ॥
हंसडिम्बाकृति पुनः स्थापनायां प्रशश्यते ।
स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले ॥
पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे ।
आविरासं गिरौ तत्र लिङ्गरूपी महेश्वरः ।
बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले ॥
अन्येषां कोटिलिङ्गानां पूजने यत् फलं
लभेत् ।
तत् फलं लभते मर्त्यो बाणलिङ्गैकपूजनात् ॥”
तथा, --
“ताम्री वा स्फाटिकी स्वार्णी पाषाणी
राजती तथा ।
वेदिका च प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत् ॥” * ॥
प्रत्यहं योऽर्च्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः ।
ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता ॥”
इति प्रत्यहबाणलिङ्गपूजायाः फलम् । इति
याज्ञवल्क्यसंहिता ॥ * ॥
“संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् ।
रसलिङ्गे ततो बाणात् फलं कोटिगुणं स्मृतम् ॥
गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी ।
सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः ॥”
इति सूतसंहिता ॥ * ॥
“रत्नधातुमयान्येव लिङ्गानि कथितान्यपि ।
पवित्राण्येव पूज्यानि सर्व्वकामप्रदानि च ॥
एतेषामपि सर्व्वेषां काश्मीरं हि विशिष्यते ।
काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते ॥
वाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते ।
ऐहिकामुष्मिकं सर्व्वं पूजाकर्त्तुः प्रयच्छति ॥”
इति बाणलिङ्गप्रशंसा । इति केदारखण्डम् ॥ * ॥
निन्द्यलिङ्गमाह तत्रैव ।
“कर्कशे बाणलिङ्गे तु पुत्त्रदारक्षयो भवेत् ।
चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम् ॥
एकपार्श्वस्थिते धेनुपुत्त्रदारधनक्षयः ।
शिरसि स्फुटिते बाणे व्याधिर्म्मरणमेव च ॥
छिद्रलिङ्गेऽर्च्चिते बाणे विदेशगमनं भवेत् ।
लिङ्गे च कर्णिकां दृष्ट्वा व्याधिमान् जायते
पुमान् ।
अत्युन्नतिं विलाग्रे तु गोधनानां क्षयो भवेत् ॥ *
तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत् ।
अतिस्थूलञ्चातिकृशं स्वल्पं वा भूषणान्वितम् ।
गृही विवर्ज्जयेत्तादृक् तद्धि मोक्षार्थिनो
हितम् ॥”
इति दुष्टबाणलिङ्गलक्षणम् । इति हेमाद्रिः ॥ * ॥
शुभलिङ्गमाह ।
“अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणः ।
लघु वा कपिलं स्थूलं गृही नैवार्च्चयेत् क्वचित् ॥
पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् ।
तत् सपीठमपीठं वा मन्त्रसंस्कारवर्जितम् ।
सिद्धिमुक्तिप्रदं लिङ्गं सर्व्वप्रासादपीठगम् ॥”
इति शुभवाणलिङ्गलक्षणम् । इति वीरमित्रो-
दयः ॥ * ॥ वाणलिङेष्वावाहनादि न कर्त्तव्यं
यथा, --
“वाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये ।
न प्रतिष्ठा न संस्कारस्तेषामावाहनं न च ॥”
इति भविष्यपुराणम् ॥
“ब्राह्म्ये मुहूर्त्ते चोत्थाय यः स्मरेद्वाणलिङ्गकम् ।
सर्व्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर ! ॥”
इति योगसारे ५ परिच्छेदः ॥ * ॥
अथ बाणलिङ्गध्यानम् ।
“ॐ प्रमत्तं शक्तिसंयुक्तं बाणाख्यञ्च महा-
प्रभम् ।
कामबांणान्वितं देवं संसारदहनक्षमम् ॥
शृङ्गारादिरसोल्लासं वाणाख्यं परमेश्वरम् ।
एवं ध्यात्वा बाणलिङ्गं यजेत्तं परमं शिवम् ॥
मनसा गन्धपुष्पाद्यैः संपूज्यास्य मनुं स्मरेत् ।
प्राणायामं ततः कृत्वा वाणलिङ्गन्तु तोषयेत् ॥
तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् ।
ततो जपं समाप्याथ स्तवेनानेन तोषयेत् ॥” * ॥
अथ स्तवः ।
“वाणलिङ्ग महाभाग संसारात्त्राहि मां प्रभो
नमस्ते चोग्ररूपाय नमस्तेऽव्यक्तयोनये ॥
संसारकारिणे तुभ्यं नमस्ते सृक्ष्मरूपधृक् ।
प्रमत्ताय महेन्द्राय कालरूपाय वै नमः ॥
दहनाय नमस्तुभ्यं नमस्ते योगकारिणे ।
भोगिनां भोगकर्त्रे च मोक्षदात्रे नमो नमः ॥
नमः कामाङ्गनाशाय नमः कल्मषहारिणे ।
नमो विश्वप्रदात्रे च नमो विश्वस्वरूपिणे ॥
वाणस्य वरदात्रे च रावणस्य क्षयाय च ।
रामस्यानुग्रहार्थाय राज्याय भरतस्य च ॥
मुनीनां योगदात्रे च राक्षसानां क्षयाय च ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥
ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय च ।
भगप्रियाय सर्व्वाय वैरिणां निग्रहाय च ॥
परित्राणाय योगिनां कौलिकानां प्रियाय च ।
कुलाङ्गनानां भक्ताय कुलाचाररताय च ॥
कुलभक्ताय योगाय नमो नारायणाय च ।
मधुपानप्रमत्ताय योगेशाय नमो नमः ॥
कुलनिन्दाप्रणाशाय कौलिकानां सुखाय च ।
कुलयोगाय निष्ठाय शुद्धाय परमात्मने ॥
परमात्मस्वरूपाय लिङ्गमूलात्मकाय च ।
सर्व्वेश्वराय सर्व्वाय शिवाय निर्गुणाय च ॥ * ॥
इत्येतत् परमं गुह्यं वाणलिङ्गस्य शङ्कर ।
यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः ॥
स्तवस्यास्य प्रसादेन योगी योगित्वमाप्नुयात् ।
राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव च ॥
साधूनां साधनं देव कौलिकानां कुलं भवेत् ।
यं यं कामयते मन्त्री तं तमाप्नोति लीलया ॥
वाणलिङ्गप्रसादेन सर्व्वमाप्नोति सत्वरम् ।
किमन्यत् कथयामीह सर्व्वं वेत्सि कुलेश्वर ! ॥
महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! ।
देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले ।
पथनात् स्तवराजस्य न भयं लभते क्वचित् ॥
बाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितं
मया ।
तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात् ॥
बाणलिङ्गं सदाराध्यं योगिनां योगसाधने ।
कौलिकानां कुलाचारे पशूनां शत्रुनिग्रहे ॥
वेदज्ञानां वेदपाठे रोगिणां रोगनाशने ।
यो यो नाराधयेदेनं सर्व्वं तन्निष्फलं भवेत् ॥”
इति श्रीयोगसारे सर्व्वागमोत्तमे पार्व्वतीशिव-
संवादे बाणलिङ्गस्तोत्रं समाप्तम् ॥ * ॥
अथ रौद्रलिङ्गलक्षणम् ।
“नदीसमुद्भवं रौद्रमन्योन्यस्य विघर्षणात् ।
पृष्ठ ४/२२०
नदीवेगात् समं स्निग्धं संजातं रौद्रमुच्यते ॥”
इति वीरमित्रोदयः ॥
“सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति ।
तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ॥
नदीसारनर्म्मदाया वाणलिङ्गसमाकृति ।
तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति ॥
रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति ।
श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिपूजितम् ॥
स्वभावात् कृष्णवर्णं वा सर्व्वजातिषु सिद्धिदम् ।
नर्म्मदासम्भवं रौद्रं वाणालङ्गवदीरितम् ॥”
इति रौद्रलिङ्गलक्षणम् । इति लक्षणसमुच्चयोऽपि ॥
अथ शिवनाभिलिङ्गलक्षणम् ।
“उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् ।
चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तमम् ॥
उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः ।
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ॥”
तस्य महिमा ।
“शिवनाभिमयं लिङ्ग प्रतिपूज्य महषिभिः ।
श्रेष्ठञ्च सर्व्वलिङ्गभ्यस्तस्मात् पूज्यं विशेषतः ॥”
इति शिवनाभिलिङ्गलक्षणम् । इति वीरमित्रो-
दयधृतशिवनारदसंवादः ॥ * ॥
अथ दैवलिङ्गलक्षणम् । सिद्धान्तशेखरे ।
“करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् ।
रेखाकोटरसंयुक्तं निम्नोन्नतसमन्वितम् ॥
दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्जितम् ।
लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना ॥
कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् ।
काकडिम्बफलाकारं गोललिङ्गमितीरितम् ॥”
इति गोललिङ्गलक्षणम् ॥
अथार्षलिङ्गलक्षणं तत्रैव ।
“नानाकौलफलाकारं ब्रह्मसूत्रविवर्त्तनम् ।
मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम् ॥
नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् ।
मध्ये स्थूलं वरं लिङ्गमृषिबाणमुदाहृतम् ॥”
इत्यार्षलिङ्गलक्षणम् ॥ * ॥
अथ लिङ्गलक्षणम् ।
“लिङ्गं हि द्विविधं प्रोक्तं कृत्रिमाकृत्रिमञ्चतत् ।
तल्लिङ्गं द्विविधं ज्ञेयमचलञ्च चलन्तथा ।
प्रत्येकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम् ॥
प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् ।
स्थापितं सचलं गेहे स्थिरं लिङ्गमयोजिते ॥
पञ्चधा तत् स्थितं लिङ्गं स्वयम्भु दैवपालकम् ।
आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते ॥”
इति सिद्धान्तशेखरः ॥
“आचार्य्यमुनये स्वैरं स्वयम्भूतो महेश्वरः ।
यत्र चैव स्वयं व्यक्तं लिङ्गमस्तु स्वयम्भु तत् ॥
धमनी यस्य संस्पर्शात् दहति क्षिप्रमेव तु ॥”
इति षट्कर्म्मदीपिका ॥ * ॥
“नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम् ।
अदष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते ॥
तल्लिङ्गन्तु स्वयम्भूतमपरं लक्षणच्युतम् ।
स्वयम्भु लिङ्गमित्युक्तं तच्च नानाविधं मतम् ॥
शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् ।
पद्माभमस्तकं ब्राह्म्यं छत्राभं शाक्रमुच्यते ॥
शिरोयुग्मं तदाग्नेयं त्रिपदं याम्यमीरितम् ।
खड्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति ॥
वायव्यं ध्वजवल्लिङ्गं कौबेरन्तु गदान्वितम् ।
ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् ।
सयम्भु लिङ्गमाख्यातं सर्व्वशास्त्रविशारदैः ॥”
इति स्वयम्मुलिङ्गलक्षणम् ॥
इति सिद्धान्तशेखरः ॥ * ॥
“दृष्ट्वा लिङ्गं महेशस्य स्वयम्भू तस्य पार्व्वति ! ।
सर्व्वपापविनिर्मुक्तः परे ब्रह्मणि लीयते ॥”
एतेषां पूजाफलं तत्रैव ।
“विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः ।
पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः ॥
एवं वै दारुजं ज्ञेयं चिह्रलिङ्गं तथा पुनः ।
स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यप्रदञ्च तत् ॥
पुत्त्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् ॥”
इति मत्स्यसूक्तमहातन्त्रम् ॥ * ॥
“पारदञ्च महाभूत्यै सौभाग्याय च मौक्तिकम् ।
चन्द्रकाभ्तं मृत्युजित् स्याद्धाटकं सर्व्वकामदम् ॥”
इति पद्मपुराणम् ॥ * ॥
“सर्व्वफलप्रदा भूमिर्मणयस्तद्बदेव हि ।
अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः ॥
रात्रौ प्रकाशकाः सर्व्वविषाद्याघातकारिणः ।
नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः ॥
वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनि-
र्म्मितम् ।
सर्व्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम् ॥”
इति वीरमित्रोदयधृतकालोत्तरः ॥ * ॥
“गांन्धं सौभाग्यदं लिङ्गं पौष्पं मुक्तिप्रदायकम् ।
नानाशूनोद्भवं लिङ्गं नानाकामप्रदायकम् ॥
सैकतं गुणदं लिङ्गं सौभाग्याय च लावणम् ।
उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् ।
तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत् ॥”
इति लक्षणसमुच्चयः ॥
अथ गन्धलिङ्गम् । गरुडपुराणे ।
“कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य च ।
कुङ्कुमस्य त्रयश्चैव शशिना च चतुः समम् ॥
एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः ।
शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः ॥”
पुष्पमयलिङ्गं यथा, --
“कार्य्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् ।
नवखण्डां धरां भुक्त्वा गणेशोऽधिपतिर्भवेत् ॥”
अथ रजोमयलिङ्गम् ।
“रजोभिर्निर्म्मितं लिङ्गं यः पूजयति भक्तितः ।
विद्याधरपदं प्राप्य पश्चाच्छिवसमो भवेत् ॥”
अथ गोशकृल्लिङ्गम् ।
“श्रीकामो गोशकृल्लिङ्गं कृत्वा भक्त्यां प्रपू-
जयेत् ।
स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् ॥”
स्वच्छेन भूमिपतनरहितेन । शून्योद्धृतेनेति
यावत् ॥ * ॥
अथ यवगोधूमशालिजलिङ्गम् ।
“कार्य्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् ।
श्रीकामः पुष्टिकामश्च पुत्त्रकामस्तदर्च्चयेत् ॥”
अथ सिताखण्डमयलिङ्गम् ।
“सिताखण्डमयं लिङ्गं कार्य्यमारोग्यवर्द्धनम् ।
वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम् ॥”
तालं हरितालम् । त्रिकटुकं शुण्ठीपिप्पली-
मरीचं इति प्रसिद्धम् ।
“गव्यघृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् ।”
तथा ।
“लवणेन च सौभाग्यं पार्थिवं सर्व्वकामदम् ।
कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् ॥
भस्मोत्थं सर्व्वफलदं गुडोत्थं प्रीतिवर्द्धनम् ।
गन्धोत्थं गुणदं भूरि शर्करोत्थं सुखप्रदम् ॥
वंशाङ्कुरोत्थं वंशकरं गोमयं सर्व्वरोगदम् ।
केशास्थिसम्भवं लिङ्गं सर्व्वशत्रुविनाशनम् ॥
क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् ।
दारिद्र्यदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम् ॥
दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम् ।
धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत् ॥
पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धात्रीफलोद्भवम् ।
नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् ॥
दूर्व्वाकाण्डसमुद्भूतमपमृत्युनिवारणम् ।
कर्पूरसम्भवं लिङ्गं चलं वै भुक्तिमुक्तिदम् ॥
अयस्कान्तं चतुर्धा तु ज्ञेयं सामान्यसिद्धिषु ॥
सर्व्वं नवभवं श्रेष्ठं तत्र वज्रमरिच्छिदि ।
यमलिङ्गं महाभूत्यै सौभाग्याय च मौक्तिकम् ।
पुष्टिमूलं महानीलं ज्योतिश्चीरसमुद्भवम् ॥
स्पर्शकं कुलसन्नत्यै तैजसं सूर्य्यकान्तजम् ।
चन्द्रापीडं मृत्युजितं स्फाटिकं सर्व्वकामदम् ॥”
चन्द्रापीडं चन्द्रकान्तमित्यर्थः ।
“शूलाख्यमणिजं शत्रुक्षयार्थं मौक्तिकं तथा ।”
यत्सन्निधानात् शूलरोगनाशः स शूलमणिः ॥
“आपुत्त्रं हीरकं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् ।
शुभकृत् पुष्कलं तीर्थे वैदूर्य्यं शत्रुदर्पहृत् ।
नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्व्वकामदम् ॥”
इति सारसंग्रहे ॥
“महाभुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम् ।
आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् ॥”
आरकूटं पित्तलम् ।
“त्रषु सीसायसं लिङ्गं शत्रूणां नाशने हितम् ।
कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुष्टिवर्द्धनम् ।
पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्व्वसिद्धिदम् ॥”
मिश्रजमष्टधातुनिर्म्मितम् ॥ इति कालोत्तरः ॥
“पितॄणां मुक्तये लिङ्गं पूज्यं रजतसम्भवम् ।
हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् ॥
पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः ॥”
इति शिवनारदसंवादः ॥
ताम्रादिलिङ्गपुजनन्तु कलीतरपरम् ।
“ताम्रलिङ्गं कलौ नार्च्चेत् रैत्यस्य सीसकस्य च ।
रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा ॥
तुष्टिकामस्तु सततं लिङ्गं पित्तलसम्भवम् ।
पृष्ठ ४/२२१
कीर्त्तिकामो यजेन्नित्यं लिङ्गं कांस्यसमुद्भवम् ॥
शत्रुमारणकामस्तु लिङ्गं लौहमयं सदा ।
सदा सीसमयं लिङ्गमायुष्कामोऽर्च्चयेत् नरः ॥”
इति मत्स्यसूक्तमहातन्त्रम् ॥
“स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् ।
प्रजावृद्धिकरं राङ्गं ताम्रमायुःप्रवर्द्धनम् ॥
विद्वेषकारणं कांस्यं रीतिजं शत्रुनाशनम् ।
रोगघ्नं सैसकं लिङ्गमायसं शत्रुनाशनम् ॥
अष्टलौहमयं लिङ्गं कुष्ठरोगक्षयावहम् ।
त्रिलौहसम्भवं लिङ्गं विज्ञानं प्रति सिद्धिदम् ॥”
इति लक्षणसमुच्चयः ॥
“श्रीप्रदं वज्रजं लिङ्गं शिलाजं सर्व्वसिद्धिदम् ।
धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम् ॥”
इति लिङ्गपुराणम् ॥
“गन्धपुष्पमयं लिङ्गं तथान्नादिविनिर्म्मितम् ।
कस्तूरीसम्भवं लिङ्गं धनाकाङ्क्षी प्रपूजयेत् ॥
लिङ्गं गोरोचनोत्थञ्च रूपकामस्तु पूजयेत् ।
कान्तिकामस्तु सततं लिङ्गं कुङ्कुमसम्भवम् ॥
श्वेतागुरुसमुद्भूतं महाबुद्धिविवंर्द्धनम् ।
धारणाशक्तिदं लिङ्गं कृष्णागुरुसमुद्भवम् ॥
यक्षकर्दमसम्भू तम् ।” इति कालोत्तरः ॥
“पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् ।
पाषाणे शिवपूजायां द्विगुणं फलमीरितम् ॥
स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ।
सर्व्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ॥
ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंक्षयः ।
गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥
स्फाटिके सर्व्वसिद्धिः स्यात्तथा मरकते प्रिये ।
लौहलिङ्गे रिपोर्नाशः कामदं भस्मलिङ्गकम् ।
बालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् ।
सर्व्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम् ॥”
इति मातृकाभेदतन्त्रे १२ पटलः ॥
“ब्रह्मा संपूजयेन्नित्यं लिङ्गं शैलमयं शुभम् ।
तस्य संपूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् ॥
इन्द्रनीलमयं लिङ्गं विष्णुः समर्च्चयेत् सदा ।
विष्णुत्वं प्राप्तवान् तेन सोऽभूद्भूतैकपालकः ॥
स्फाटिकं निर्मलं लिङ्गं वरुणोऽभ्यर्च्चयेत् सदा ।
तेन तद्वरुणैत्वं हि प्राप्तं तेजोबलान्वितम् ॥”
इति षट्कर्म्मदीपिकाधृतशिवधर्म्मः ॥
“पूजयेत् पार्थिवे लिङ्गे पाषाणलिङ्गकेऽथवा ।
स्वर्णलिङ्गेऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥
पारदे वाथ गङ्गायां स्फाटिके मरकतेऽपि वा ।
कार्य्यभेदे लौहलिङ्गे भस्मनिर्म्मितलिङ्गके ॥
बालुकानिर्म्मिते लिङ्गे गोमये वाथ पूजयेत् ।
संस्कारेण विना देवि पाषाणादौ न पूजयेत् ॥”
इति मातृकाभेदतन्त्रे ७ पटलः ॥
इति शिवलिङ्गनिर्म्माणद्रव्याणि ॥ * ॥ अथ
शिवलिङ्गसं स्कारः ।
“संस्कारञ्च प्रवक्ष्यामि विशेष इह यद्भवेत् ॥
रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च ।
तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् ।
त्र्यम्बकेन स्नापयित्वा कालरुद्रं प्रपूजयेत् ॥
षोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् ।
तस्मादुत्तोल्य तल्लिङ्गं गङ्गातोये दिनत्रयम् ।
ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः ॥”
पूर्व्वोक्तवचनैः फलविशेषकामनया नानाविध-
लिङ्गपूजोक्ता सा च पूजा ।
“लिङ्गं सुलक्षणं कुर्य्यात्त्यजेल्लिङ्गमलक्षणम् ।
दैर्घ्यहीने भवेद्व्याधिरधिके शत्रुवर्द्धनम् ॥
मानहीने विनाशः स्यादधिके च शिशुक्षयः ।
विस्तारे चाधिके हीने राष्ट्रनाशो भवेद्ध्रुवम् ॥
पीठहीने तु दारिद्र्यं शिरोहीने कुलक्षयः ।
ब्रह्मसूत्रविहीने च राज्ञां राष्ट्रञ्च नश्यति ।
तस्मात् सर्व्वप्रयत्नेन लिङ्गं कुर्य्यात् सुलक्षणम् ॥”
इत्यादिना सुलक्षणलिङ्गस्यैव फलदातृत्वमुक्तम् ।
इति मातृकाभेदतन्त्रे ७ पटलः ॥
देव्युवाच ।
“इन्द्रियै रहितो देवः शून्यरूपः सदाशिवः ।
आकारो नास्ति देवस्य किं तस्य पूजने फलम् ॥
शिव उवाच ।
प्रेते पूजा महेशानि कदाचिन्नास्ति पार्व्वती ।
रुद्रस्य परमेशानि रौद्री शक्तिरितीरिता ॥
रौद्री तु परमेशानि आद्या कुण्डलिनी भवेत् ।
वर्त्तते परमेशानि ब्रह्मविष्णुशिवात्मिका ॥
सार्द्धत्रिवलयाकारैः शिवं वेष्ट्य सदा स्थिता ।
शक्तिं विना महेशानि प्रेतत्वं तस्य निश्चितम् ॥
शक्तिसंयोगमात्रेण कर्म्मकर्त्ता सदाशिवः ।
अतएव महेशानि पूजयेच्छिवलिङ्गकम् ॥”
इति सशक्तिकशिवलिङ्गपूजनफलम् ॥
इति लिङ्गार्च्चनतन्त्रे २ पटलः ॥ * ॥
देव्युवाच ।
“लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो ।
पार्थिवे च शिलादौ च विशेषो यत्र यो भवेत् ॥
श्रीशिव उवाच ।
मृत्तिकातोलकं ग्राह्यमथवा तोलकद्बयम् ।
एतदन्यन्न कुर्व्वीत कदाचिदपि पार्व्वति ॥”
इति मातृकाभेदतन्त्रे ७ पटलः ॥
अपि च ।
“मृत्तिकातोलकं ग्राह्यमथवा तोलकद्बयम् ।
त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः ॥
स्वाङ्गुष्ठपर्व्वमानन्तु कृत्वा लिङ्गं प्रपूजयेत् ।
मृदादिलिङ्गघटने प्रमाणं परिकीर्त्तितम् ।
फलमुक्तमवाप्नोति अन्यथा चेत्तदन्यथा ॥”
इति षट्कर्म्मदीपिकाधृतविश्वसारतन्त्रम् ॥
“लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् ।
समञ्चैव विजानीयात्त्रिसूत्रीकरणन्त्विदम् ॥”
इति कालोत्तरः ॥
मृत्तिकाभेदेन ब्राह्मणादीनां पूजाफलस्य प्रश-
स्तत्वं यथा, --
“चतुर्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्व्वति ।
शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि ॥
शुक्लन्तु ब्राह्मणे शस्तं क्षत्त्रिये रक्तमिष्यते ।
पीतन्तु वैश्यजातौ स्यात् कृष्णं शूद्रे प्रकीर्त्ति-
तम् ॥”
तथा ।
“शुक्लं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् ।
स एव परमेशानि त्रिवर्गफलभाग्भवेत् ॥
क्षत्त्रियस्तु वरारोहे रक्तं निर्म्माय पार्थिवम् ।
पूजयेत् सततं यस्तु त्रिवर्गफलमाप्नुयात् ॥
हरितं पार्थिवं देवि ! निर्म्माय यस्तु पूजयेत् ।
स च वैश्यो महेशानि ! त्रिवर्गफलभाग्भवेत् ॥
कृष्णं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् ।
स शूद्रः परमेशानि ! त्रिवर्गफलभाग्भवेत् ॥”
इति लिङ्गार्च्चनतन्त्रे ३ पटलः ॥ * ॥
“शिलादौ च महेशानि ! स्थूलञ्च फलदायकम् ।
अङ्गुष्ठमानं देवेशि ! यद्बा हेमाद्रिमानकम् ॥
क्रमेण देवदेवेशि ! फलं बहुविधं लभेत् ।
स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ! ॥
पूजनाद्धारणाद्देवि ! फलं बहुविधं स्मृतम् ॥”
स्थूलात् स्थूलमिति पार्थिवलिङ्गेतरपरम् ।
मृत्तिकातोलकमिति विशेषवचनात् । शिला-
स्फाटिकमरकतादीनां पञ्चसूत्रीकरणमुक्तं
यथा, --
“शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः ।
योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत् ॥”
इति लिङ्गपुराणम् ॥
“लिङ्गस्य यादृग्विस्तारः परिणाहोऽपि तादृशः ।
लिङ्गस्य द्विगुणा देवी योनिस्तदर्द्धसम्मिता ॥
कुर्व्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित् ।
रत्नादिशिवनिर्म्माणे मानमिच्छावशाद्भवे ॥”
इति तन्त्रान्तरम् ॥
लिङ्गव्युत्पत्तिर्यथा, --
“आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका ।
आलयः सर्व्वदेवानां लयनाल्लिङ्गमुच्यते ॥”
इति स्कन्दपुराणम् ॥
लिङ्गमहिमा यथा, --
शिव उवाच ।
“न तुष्याम्यर्च्चितोऽर्च्चायां पुष्पधूपनिवेदनैः ।
लिङ्गेऽर्च्चिते तथात्यर्थं परं तुष्यामि पार्व्वति ! ॥
एष देवि ! पुरा कृत्ये जीनोऽहं सर्व्वदैवतैः ।
लिङ्गत्वाल्लिङ्गमित्युक्तं सदेवासुरकिन्नरैः ॥
प्रयच्छामि दिवं देवि ! यो मल्लिङ्गार्च्चने रतः ।
त्यक्त्वा सर्व्वाणि पांपानि निर्गदो न्दग्धकल्मषः ॥
मन्मना मन्नमस्कारो मामेव प्रतिपद्यते ॥”
इति वीरमित्रोदयधृतस्कन्दपुराणम् ॥
द्रव्यविशेषेण पूजादिफलं यथा, --
“वस्त्रपूतजलैर्लिङ्गं स्नपित्वा मम मानवाः ।
लक्षाणाञ्चाश्वमेधानां फलमाप्नोति सत्तमः ॥
सुगन्धिचन्दनरसैर्लिङ्गमालिप्य भक्तितः ।
आलिप्यते सुरस्त्रीभिः सुगन्धैर्यक्षकद्दमैः ॥”
इति तत्रैव ॥ * ॥
लिङ्गपूजाया अकरणे दोषः तत्पूजाफलञ्च यथा,
“विना लिङ्गार्च्चनं यस्य कालो गच्छति नित्यशः ।
महाहानिर्भवेत्तस्य दुर्गतस्य दुरात्मनः ।
एकतः सर्व्वदानानि व्रतानि विविधानि च ।
तीर्थानि नियमा यज्ञा लिङ्गाराधनमेकतः ॥
पृष्ठ ४/२२२
न लिङ्गाराधनादन्यत् पुरा वेदे चतुर्ष्वपि ।
विद्यते सर्व्वशास्त्राणामेष एव सुनिश्चितः ॥
भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् ।
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥
सर्व्वमन्यत् परित्यज्य क्रियाजालमशेषतः ।
मक्त्या परमया विद्वान् लिङ्गमेकं प्रपूजयेत् ॥”
इति स्कन्दपुराणम् ॥ * ॥
“अश्वमेधसहस्राणि वाजपेयशतानि च ।
महेशार्च्चनपुण्यस्य कलां नार्हन्ति षोडशीम् ॥”
इति मत्स्यसूक्त १६ पटलः ॥
“बहुनात्र किमुक्तेन चराचरमिदं जगत् ।
शिवलिङ्गं समभ्यर्च्च्य स्थितमत्र न संशयः ॥”
इति लिङ्गपुराणम् ॥ * ॥
“शिवस्य पूजनाद्देवि चतुर्व्वर्गाधिपो भवेत् ।
अष्टैश्वर्य्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ।
स्वयं नारायणेनोक्तं यदि शम्भुं प्रपूजयेत् ॥
स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा ।
तेषां पूजा भवेद्देवि शम्भुनाथस्य पूजनात् ॥”
इति लिङ्गपुराणम् ॥ * ॥
“असारे खलु संसारे सारमेतच्चतुष्टयम् ।
काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भु-
पूजनम् ॥”
इति षट्कर्म्मदीपिकाधृतकालोत्तरे नारद-
वाक्यम् ॥ * ॥
“अग्निहोत्रास्त्रिवेदाश्च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गार्च्चनस्यैते कोट्यंशेनापि ते समाः ॥
छित्त्वा भित्त्वा च भूतानि हित्वा सर्व्वमिदं
जगत् ।
यजेद्देवं विरूपाक्षं न स पापेन लिप्यते ॥
अनेकजन्मसाहस्रं भ्राम्यमाणश्च योनिषु ।
कः समाप्नोति वै मुक्तिं विना लिङ्गार्च्चनं नरः ॥”
इति स्कन्दपुराणम् ॥ * ॥
“ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वाप्यनुलोमजः ।
पूजयेत् सततं लिङ्गं तत्तन्मन्त्रेण सादरम् ॥”
तत्तन्मन्त्रेणेति यथायोग्यं वैदिकतान्त्रिकनाम-
मन्त्रेणेत्यर्थः । इति वीरमित्रोदयधृतस्कन्द-
पुराणम् ॥ * ॥
“मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः ।
रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः ॥
लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः ॥
तयोः प्रपूजनान्नित्यं देवी देवश्च पूजितौ ॥”
इति लिङ्गपुराणम् ॥ * ॥
अथ पारदशिवलिङ्गमाहात्म्यम् ।
“ज्योतिर्म्मयं महालिङ्गं कैलासनगरे प्रिये ।
तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥
पूर्णलिङ्गं महेशानि शिवबाज न चान्यथा ।
शिलामध्ये यथा चक्रं लक्ष्मीनारायणः परम् ।
पारदस्य शतांशैको लक्ष्मीनारायणो न हि ॥
पकारं विष्णुरूपञ्च आकारं कालिका स्वयम् ।
रेफं शिवं दकारञ्च ब्रह्मरूपं न चान्यथा ॥
पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ।
यो यजेत् पारदं लिङ्गं स एव शम्भुरव्ययः ॥
आजन्ममध्ये यो देवि एकदा यदि पूजयेत् ।
स एव धन्यो देवेशि स ज्ञानी स च तत्त्ववित् ॥
स ब्रह्मवेत्ता स धनी स राजा भुवि पूज्यते ।
अणिमादिविभूतीनामीश्वरः साधकोत्तमः ॥” * ॥
अथ पारदशिवलिङ्गनिर्म्माणविधिः ।
“पारदे शिवनिर्म्माणे नानाविघ्नं यतः प्रिये ।
अतएव महेशानि शान्तिस्वस्त्ययनं चरेत् ॥
पारदं शिवबीजं हि ताडनं हि न कारयेत् ।
ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता ।
ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत् ॥”
इति मातृकाभेदतन्त्रे ८ पटलः ॥ * ॥
अथ शिवलिङ्गोत्पत्तिः ।
ब्रह्मोवाच ।
“पुरा त्वां चञ्चलं ज्ञात्वा त्वदग्रे न प्रकाशितम् ।
इदानीं योगिनं ज्ञात्वा कथयामि न संशयः ॥
अतिगुह्यमतिगुह्यमतिगुह्यं न संशयः ।
गोपितव्यं गोपितव्यं गोपितव्यं त्वयापि च ॥
शम्भुना गोपितं तन्त्रे तन्त्रान्तरे प्रकाशितम् ।
शृणु तत् कथयाम्यद्य सावधानोऽवधारय ॥
सर्गादौ विविधाः सर्गा मया सृष्टा हि नारद ।
देवदानवदैत्याश्च गन्धर्व्वयक्षराक्षसाः ॥
सर्व्वे स्त्रीवशगाः श्रेष्ठा मैथुनाज्जायते प्रजा ।
केवलं हि शिवः शम्भुर्दारग्रहणकर्म्मणि ॥
कदापि न मनश्चक्रे दृष्ट्वा चिन्तापराः सुराः ।
मामेव शरणं जग्मुः सेन्द्रा देवासुरादयः ॥
प्रणिपत्य स्तुतिं कृत्वा उपतस्थुः समाहितः ।
प्रोचुः प्राञ्जलयः सर्व्वे भयाद्गद्गदमानसाः ॥
देवाद्या ऊचुः ।
उद्वाहिता वयं सर्व्वे भवानपि जनार्द्दनः ।
केवलं हि महादेवो देवदेवो जगत्पतिः ॥
विवाहे न मनश्चक्रे कया वा मोह्यते शिवः ।
उपायं चिन्तय विभो सदारः कथमीश्वरः ।
येन स्याज्जगतां नाथस्तत् कुरुष्व दयानिधे ॥
इति श्रुत्वा वचस्तेषां ततो ब्रह्मा प्रजापतिः ।
सह तैर्गरुडारूढं जगाम कमलासनः ।
उवाच तं जगन्नाथं विष्णुं कमललोचनम् ॥
ब्रह्मोवाच ।
सृष्टा मया सुरश्रेष्ठ मानुषा मैथुनोद्भवाः ।
सर्व्वे स्त्रैणा विना शम्भुं यत् कर्त्तव्यं वदस्व मे ॥
श्रीभगवानुवाच ।
एभिः सह महाबाहो गच्छामस्त्वमहं शिवम् ।
कर्त्तव्यं सूचितं तेन अनुज्ञातैर्यथाविधि ।
किन्तु तद्योग्यनारीन्तु विवाहार्थं प्रकल्पय ॥
ब्रह्मोवाच ।
दक्षं गच्छामहे सर्व्वे अनुज्ञापय तं हरे ।
आद्याशक्तिं महामायां प्रसादयतु वै लघु ॥
कन्या भूत्वा महाशम्भुं मोहयिष्यति शङ्करम् ।
एवमुक्त्वा तु तैः सार्द्धं जग्मतुर्विधिकेशवौ ।
यत्र दक्षो महातेजाः प्रोचतुः कार्य्यमात्मनः ॥
उवाच दक्षं तद्युक्तं तपस्तप्तुं प्रजापतिः ।
ब्रह्मा विष्णुश्च सर्व्वे ते तपसा तोषयेच्छिवाम् ॥
आविर्ब्बभूव सा देवी कालिका जगदीश्वरी ।
प्राह मांवः किमर्थन्तु समुत्कण्ठाः सुरासुराः ॥
देव्युवाच ।
शीघ्रं रूपं यथाकामं भवतां प्रार्थने फलम् ।
अचिरात् तत्प्रदास्यामि सत्यं सत्यं न संशयः ॥
देवाद्या ऊचुः ।
भूत्वा तु दक्षकन्या त्वं शङ्करं परिमोहय ।
अस्माकं वाञ्छितञ्चैतत् कुरु सिद्धिं सदा शिवे ॥
एतत् श्रुत्वा वचस्तेषां निरीक्ष्य कमलासनम् ।
उवाच विस्मयाविष्टा कालिका जगदीश्वरी ॥
देव्युवाच ।
शम्भुरद्यतनो बालः किं मां सन्तोषयिष्यति ।
मम योग्यं पुमांसन्तु अन्यं वै परिकल्पय ॥
ब्रह्मोवाच ।
शम्भुः सर्व्वगुरुर्देवो ह्यस्माकं परमेश्वरः ।
महासत्त्वो महातेजाः स ते तोषं करिष्यति ॥
शम्भुतुल्यः पुमान्नास्ति कदाचिदपि कुत्रचित् ।
इत्युक्त्वा ब्रह्मणा देवी वाढमित्याह चेश्वरी ।
दक्षाय दर्शनं दत्त्वा उवाच उच्यतां वरः ॥
दक्षोऽपि दृष्ट्वा तां देवीं खड्गकर्त्तृधरां पराम् ।
खर्व्वां लम्बोदरीं व्याघ्रचर्म्मावृतकटिस्थलीम् ॥
नीलोत्पलकपालाढ्यकरयुग्मां वरप्रदाम् ।
कृतकृत्यमिवात्मानं मेने दक्षः प्रजापतिः ॥
दक्ष उवाच ।
यदि मे वरदासि त्वं देवानामपि वाञ्छितम् ।
मदीयतनया भूत्वा शङ्करं किल मोहय ॥
तथेत्युक्त्रा जगद्धात्री अन्तर्द्धानं गता तदा ।
देबताश्च ततो नत्वा यत्र तेपे तपो हरः ॥
सस्त्रीकाः परमात्मानमुपतस्थुर्जगत्पतिम् ।
प्रणेमुस्तुष्टुवुर्भक्त्या प्राहुर्गद्गदभाषिणः ॥
देवाद्या ऊचुः ।
भगवन् देवदेवेश लोकनाथ महाशय ।
वयं सर्व्वे तु सस्त्रीकाः सृष्ट्यर्थं परमेश्वर ।
अतस्त्वं कुरु चोद्वाहं सृष्टिरक्षा यथा भवेत् ॥
दक्षगेहे महाकाली मायेति परिकीर्त्तिता ।
जाता ते प्रीतये शम्भो सा ते योग्या न
संशयः ॥
ईश्वर उबाच ।
भवतां प्रीतये सम्यक् करिष्ये नात्र संशयः ।
उद्योगः क्रियतां क्षिप्रं विवाहाय ममैव हि ॥
इत्युक्तास्तु सुराः सर्व्वे ईश्वरेण महात्मना ।
कृतकृत्या गताः सर्व्वे भवनं सर्व्वसुन्दरम् ॥
दक्षाय कथयामासुः शङ्करेणोदितं वचः ।
ततो विवाहं निर्व्वर्त्य कृतकृत्या यथा गताः ॥
गताः सर्व्वे महेशोऽपि सत्या सह तदा गृहम् ।
जगाम रेमे सत्या च चिरं निर्भरमानसः ॥
अथ काले कदाचित्तु सत्या सह महेश्वरः ।
रेमे न शेके तं सोढुं सती श्रान्ताभवत्तदा ॥
उवाच दीनया वाचा देवदेवं जगद्गुरुम् ।
भगवन्नहि शक्नोमि तव भारं सुदुःसहम् ।
क्षमस्व मां महादेव कृपां कुरु जगत्पते ॥
निशम्य वचनं तस्या भगवान् वृषभध्वजः ।
निर्भरं रमणं चक्रे गाढं निर्द्दयमानस्रः ॥
पृष्ठ ४/२२३
कृत्वा सम्पूर्णरमणं सती च त्यक्तमैथुना ।
उत्थानाय मनश्चक्रे उभयोस्तेज उत्तमम् ।
पपात धरणीपृष्ठे तैर्व्याप्तमखिलं जगत् ॥
पाताले भूतले स्वर्गे शिवलिङ्गास्तदाभवन् ।
तेन भूता भविष्याश्च शिवलिङ्गाः सयोनयः ॥
यत्र लिङ्गं तत्र योनिर्यत्र योनिस्ततः शिवः ।
उभयोश्चैव तेजोभिः शिवलिङ्गं व्यजायत ॥”
इति शिवलिङ्गोत्पत्तिकथनमिति नारदपञ्च-
रात्रान्तर्गततृतीयरात्रे प्रथमाध्याये नारद-
ब्रह्मसंवादः ॥ * ॥ शिवलिङ्गपूजायां सर्व्वेषा-
मधिकारो यथा, --
“शाक्तो वा वैष्णवो वापि सौरो वा गाणपोऽथवा ।
शिवार्च्चनविहीनस्व कुतः सिद्धिर्भवेत् प्रिये ॥
अनाराध्य च मां देवि योऽर्च्चयेद्देवतान्तरम् ।
न गृह्णाति महादेवि शापं दत्त्वा व्रजेत् पुरम् ॥
पर्व्वताग्रसमं देवि मिष्टान्नादि क्रमेण हि ।
फलानि बहुधान्येव पुष्पाण्येव यथाविधि ॥
सुमेरुसदृशं चान्नं नानाविधं महेश्वरी ।
सूपादिकं महेशानि यदि स्यात् सागरोपमम् ॥
यद्दत्तं पुष्पनैवेद्यं सर्व्वं विष्ठासमं भवेत् ।
शिवार्च्चनविहीनो यः पूजयेद्देवतान्तरम् ।
विशेषतः कलियुगे स नरः पापभाग्भवेत् ॥”
इति उत्पत्तितन्त्रे ६४ पटलः ॥ * ॥
“सर्व्वपूजासु देवेशि ! लिङ्गपूजापरं पदम् ।
लिङ्गपूजां विना देवि अन्यपूजां करोति यः ॥
विफला तस्य पूजा स्यादन्ते नरकमाप्नुयात् ।
तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत् ॥
यद्राज्यं लिङ्गपूजायां रहितं सततं प्रिये ।
तद्राज्यं पतितं मन्ये विष्ठाभूमिसमं स्मृतत् ॥
ब्रह्म विट् क्षत्त्रियो देवि यदि लिङ्गं न पूजयेत् ।
तत्क्षणात् परमेशानि त्रयश्चण्डालतामियुः ।
शूद्रश्च परमेशानि सदा शूकरवद्भवेत् ॥
शिवार्च्चनन्तु देवेशि यस्मिन् गेहे विवर्ज्जितम् ।
विष्ठागर्त्तसमं देवि तत्गृहं विद्धि पार्व्वति ।
अन्नं विष्ठा पयो मूत्रं तस्मिन् वेश्मनि पार्व्वति ॥
शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि ! ।
आदौ लिङ्गं प्रपूज्याथ विल्वपत्रैर्व्वरानने ! ॥
पश्चादन्यं महेशानि ! लिङ्गं प्रार्थ्य प्रपूजयेत् ।
अन्यथा मूत्रवत् सर्व्वं शिवपूजां विना प्रिये ! ॥”
इति लिङ्गार्च्चनतन्त्रे १ पटलः ॥
उपक्रमोपसंहारादि । यथा । लिङ्गानि तु
उपक्रमोपसंहारावभ्यासापूर्व्वताफलार्थवादोप-
पत्याख्यानि । तदुक्तम् ।
“उपक्रमोपसंहारावभ्यासोऽपूर्व्वताफलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्य्यनिर्णये ॥”
तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपा-
दानं उपक्रमोपसंहारौ । यथा छान्दोग्ये षष्ठे
प्रपाठके । प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन
एकमेवाद्वितीयमित्यादौ ऐतदात्म्यमिदं सर्व्व-
मित्यन्तेन च प्रतिपादनम् ॥ १ ॥ प्रकरणप्रति-
पाद्यस्य वस्तुनः तन्मध्ये पौनःपुन्येन प्रतिपादनं
अभ्यासः । यथा तत्रैवाद्बितीयवस्तुनो मध्ये
तत्त्वमसीति नवकृत्वः प्रतिपादनम् ॥ २ ॥ प्रक-
रणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणाविषयी-
करणं अपूर्ब्बत्वम् । यथा । तत्रैवाद्वितीय-
वस्तुनो मानान्तराविषयीकरणम् ॥ ३ ॥ फलन्तु ।
प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा
तत्र तत्र श्रूयमाणं प्रयोजनम् । यथा । तत्रैव
आचार्य्यवान् पुरुषो वेद तस्य तावदेव चिरं
यावन्न विमोक्षे अथ सम्पत्स्ये इत्यद्वितीयवस्तु-
ज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते ॥ ४ ॥ प्रकरण-
प्रतिपाद्यस्य तत्र तत्र प्रशंसनं अर्थवादः । यथा
तत्रैव उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं
भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीय-
वस्तुप्रशंसनम् ॥ ५ ॥ प्रकरणप्रतिपाद्यार्थसाधने
तत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः । यथा
तत्र यथा सौम्यैकेन मृत्पिण्डेन सर्व्वं मृण्मयं
विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं
मृत्तिकेत्येव सत्यम् । इत्यादावद्बितीयवस्तुसाधने
विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते ॥ ६ ॥
इति श्रीपरमहंससदानन्दयोगीन्द्रविरचित-
वेदान्तसारः ॥ (पुराणविशेषः । यथा, देवी-
भागवते । १ । ३ । १० ।
“एकादशसहस्राणि लिङ्गाख्यं चातिविस्तृतम् ॥”
अस्यान्यद्बिवरणं पुराणशब्दे द्रष्टव्यम् ॥ हेतुः ।
यथा, तर्ककौमुद्याम् । “लिङ्गज्ञानजन्यं लिङ्गि-
ज्ञानमनुमितिः ॥ “ज्ञायमानं लिङ्गन्तु करणं न
हि ।” इति भाषापरिच्छेदः ॥ सूक्ष्मशरीरम् ।
यथा, पञ्चदश्याम् । १ । २३ ।
“बुद्धिकर्म्मेन्द्रियप्राणपञ्चकैर्म्मनसा धिया ।
शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥”)

लिङ्गकः, पुं, (लिङ्गेन कायतीति । कै + कः ।)

कपित्थवृक्षः । इति शब्दचन्द्रिका ॥ (गुणा-
दयोऽस्य कपित्थशब्दे विज्ञेयाः ॥)

लिङ्गवर्द्धः, पुं, (लिङ्गं वर्द्धयतीति । वृध् + णिच् +

अच् ।) कपित्थवृक्षः । इति शब्दचन्द्रिका ॥
शिश्नवृद्धिकरणम् । तस्यौषधं यथा, --
“कटुतैलं भल्लातकं बृहतीफलदाडिमम् ।
वल्कलैः साधितं लिप्तं लिङ्गं तेन विवर्द्धते ॥”
अपि च ।
“कुष्ठमाषमरीचानि तगरं मधुपिप्पली ।
अपामार्गाश्वगन्धा च वृहती सितसर्षपाः ॥
यवास्तिलं सैन्धवञ्च पाणिकोद्वर्त्तनं शुभम् ।
लिङ्गबाहुस्तनानाञ्च कर्णयोरृद्धिकृद्भवेत् ॥”
इति गारुडे १८० अध्यायः ॥

लिङ्गवर्द्धिनी, स्त्री, (लिङ्गं वर्द्धयति या । वृध् +

णिच् + इनि । ङीप् ।) अपामार्गः । इति
शब्दचन्द्रिका ॥

लिङ्गवृत्तिः, पुं, (लिङ्गमेव वृत्तिर्जीवनोपायो

यस्य ।) जीविकार्थजटादिचिह्नधारी । तत्-
पर्य्यायः । धर्म्मध्वजी २ । इत्यमरः । २ । ७ । ५४ ॥
“जीविकादिनिमित्तन्तु यो बिभर्त्ति जटादिकम् ।
धर्म्मध्वजी लिङ्गवृत्तिर्द्वयं तत्र निगद्यते ॥”
इति शब्दरत्नावली ॥

लिङ्गालिका, स्त्री, क्षुद्रमूषिकः । तत्पर्य्यायः ।

दीना २ । इति हारावली । २१७ ॥

लिङ्गनी, स्त्री, (लिङ्गमस्त्यस्या इति । लिङ्ग +

इनिः ।) लताविशेषः । पञ्चगुरिया इति हिन्दी
भाषा । तत्पर्य्यायः । बहुपत्री २ ईश्वरी ३
शिववल्लिका ४ स्वयम्भः ५ लिङ्गसम्भूता ६
लैङ्गी ७ चित्रफला ८ चाण्डाली ९ लिङ्गजा १०
देवी ११ चण्डा १२ आपस्तम्भिनी १३ शिवजा
१४ शिववल्ली १५ । अस्या गुणाः । कटुत्वम् ।
उष्णत्वम् । दुर्गन्धत्वम् । रसायनत्वम् । सर्व्व-
सिद्धिकरत्वम् । दिव्यत्वम् । वश्यत्वम् । रस-
नियामनत्वञ्च । इति राजनिर्घण्टः ॥ (सन्न्या-
सादिलिङ्गधारिणी । यथा, सुश्रुते । ४ । २४ ।
“लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्व्वसु ।
वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः ॥”)

लिङ्गी [न्], पुं, (लिङ्गमस्त्यस्येति । इनिः ।)

हस्ती । इति जटाधरः ॥ त्रि, धर्म्मध्वजी ।
यथा, --
“अलिङ्गी लिङ्गवेशेन यो लिङ्गमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्य्यग्योनौ च गच्छति ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
(वासनाश्रयः । इति श्रीधरस्वामी ॥ यथा,
भागवते । ४ । २९ । ६५ ।
“तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भ-
वम् ।
श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमिच्छति ॥”)

लिप, ञि औ श प ञ लेपे । इति कविकल्पद्रुमः ॥

(तुदा०-उभ०-सक०-अनिट् ।) ञि, लिप्तो-
ऽस्ति । औ, लेप्ता । श प ञ, लिम्पति लिम्पते
चन्दनेन गात्रं सुखी । इति दुर्गादासः ॥

लिपः, पुं, (लिम्पतीति । लिप + कः ।) लेपन-

कर्त्ता । इति लिपधातोः कर्त्तरि कप्रत्ययेन
निष्पन्नम् ॥

लिपिः, स्त्री, (लिप + “इगुपधात् कित् ।” उणा०

४ । ११९ । इति इन् । सच कित् ।) लिखित-
वर्णम् । तत्पर्य्यायः । लिखितम् २ अक्षरसंस्था-
नम् ३ लिबिः ४ । इत्यमरः ॥ लिखनम् ५ लेख-
नम् ६ अक्षरविन्यासः ७ लिपी ८ लिबी ९ ।
इति तट्टीका ॥ अक्षररचना १० । इति जटा-
धरः ॥ लिपिका ११ । इति शब्दरत्नावली ॥
(यथा, नैषधे । १ । १५ ।
“अयं दरिद्रो भवितेति वैधसीं
लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषा न चक्रेऽल्पितकल्पपादपः
प्रणीय दारिद्रदरिद्रतां नृपः ॥”
अस्याः पञ्चविधत्वं यथा, वाराहीतन्त्रे ।
“मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा ।
गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः ॥”)
लिखितपुस्तकादि । इति केचिदिति भरतः ॥

लिपिकरः, पुं, (लिपिं करोतीति । लिपि + कृ +

“दिवाविभानिशेति ।” ३ । २ । २१ । इति
टः ।) लेखकः । इत्यमरटीका ॥
पृष्ठ ४/२२४

लिपिका, स्त्री, (लिपिरेव । लिपि + स्वार्थे कन् ।

टाप् ।) लिपिः । इति शब्दरत्नावली ॥

लिपिकारः, पुं, (लिपिं करोतीति । कृ + अण् ।)

लेखकः । इत्यमरः । २ । ८ । १ दे ॥

लिपी, स्त्री, (लिपिः । कृदिकारादिति ङीष् ।)

लिपिः । इति शब्दरत्नावली ॥

लिप्तं, त्रि, (लिप + क्तः ।) भक्षितम् । कृत-

लेपनम् । तत्पर्य्यायः । दिग्धम् २ । इत्यमरः ॥
विलिम्पितम् ३ । इति शब्दरत्नावली ॥ चर्च्चि-
तम् ४ । इति जटाधरः ॥ (यथा, कथासरित्-
सागरे । ४ । ४८ ।
“तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया ॥”)
मिलितम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
विषदिग्धम् । इति मेदिनी । ते, ५२ ॥

लिप्तकः, पुं, (लिप्त एव । स्वार्थे कन् ।) विषाक्त-

बाणः । इत्यमरः । २ । ८ । ८८ ॥

लिप्तिका, स्त्री, (लिप्तैव । स्वार्थे कन् ।) दण्डः ।

यथा । वैश्वस्य चतुर्थोऽंशः श्रवणादौ लिप्तिका-
चतुष्कं अभिजित् । इति सत्कृत्यमुक्तावली ॥

लिप्सा, स्त्री, (लब्धुमिच्छा । लभ + सन् + अः ।

टाप् ।) इच्छा । इत्यमरः ॥ (यथा, हरि-
वंशे । ३८ । २६ ।
“लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके ।
गोविन्दो न च तंलेभे शक्तोऽपि न जहार ह ॥”)

लिप्सुः, त्रि, (लभ + सन् + उः ।) लब्धुमिच्छुः ।

तत्पर्य्यायः । गृध्नुः ३ गर्द्धनः ३ तृष्णक् ४ लुब्धः ५
अभिलासुकः ६ लोलुपः ७ लोलुभः ८ । इति
हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । २४ ।
११९ ।
“सोऽप्युपायनलोभात्तत् श्रद्दधे कल्पितायतिः ।
उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम् ॥”)

लि(वि)बिः, स्त्री, (लिप् + इन् । बाहुलकात्

पस्य बत्वम् ।) लिपिः । इत्यमरः ॥

लिबि(वि)करः, पुं, (लिबिं करोतीति । कृ +

“दिवाविभानिशेति ।” ३ । २ । २१ । इति
टः ।) लिपिकरः । लिपिं करोति इत्यर्थे
सृकुष्ट इत्यनेन कर्त्तरि टप्रत्ययेन निष्पन्नः ॥

लिबि(वि)ङ्करः, पुं, (लिपिं करोतीति । कृ + टः ।

पृषोदरादित्वात् द्वितीयाया अलुक् ।) लिपि-
कारः । इत्यमरटीकायां भानुदीक्षितः ॥

लिबी, स्त्री, (लिबि + कृदिकारादिति ङीष् ।)

लिपिः । इति शब्दरत्नावली ॥

लिम्पः, पुं, (लिम्पतीति । लिम्प + “अनुपसर्गात्

लिम्पविन्देति ।” ३ । १ । १३८ । इति शः ।)
लेपनकर्त्ता । इति लिम्पधातोः कर्त्तरि शप्रत्यय-
निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥

लिम्पटः, पुं, षिड्गः । इति हारावली । १९२ ॥

लिम्पाकं, क्ली, निम्बूकविशेषः । पातिलेवु इति

भाषा । तस्य गुणाः । सुरभित्वम् । स्वादुत्वम् ।
नात्यम्लत्वम् । भक्तरोचनत्वम् । वातश्लेष्महर-
त्वम् । हृद्यत्वम् । छर्दिघ्नत्वम् । नातिपित्तकृत्त्वञ्च ।
इति राजवल्लभः ॥ (तथा च ।
“कर्षं शुद्धं मृतं ताम्रं लिम्पाकाङ्घ्रित्वचां
पलम् ॥”
इति रसेन्द्रसारसंग्रहे प्लीह्रि यकृदरिलौहे ॥)

लिम्पाकः, पुं, जम्बीरः । खरः । इति शब्दरत्ना-

वली ॥

लिश, ङ य औ तौच्छ्ये । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-अनिट् ।) तौच्छ्य-
मल्पीभावः । ङ य, लिश्यते धर्म्मः कलौ ।
औ, लेष्टा । इति दुर्गादासः ॥

लिश, श औ गत्याम् । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-अनिट् ।) लिशति । औ,
अलिक्षत् लेष्टा । इति दुर्गादासः ॥

लिष्वः, पुं, नर्त्तकः । लषधातोः कर्त्तरि वन्प्रत्य-

येन निपातनात् सिद्धः । उपधाया इत्त्वमपि ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः । १ । १५३ ॥
(लष्व इति पाठः साधुः ॥)

लिह, ल ञ औ स्वादे । इति कविकल्पद्रुमः ॥

(अदा०-उभ०-सक०-अनिट् ।) ल ञ, लेढि
पुष्पाणि षट्पदः । लीढे । औ, अलिक्षत् ।
इति दुर्गादासः ॥

ली, कि द्रावणे । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-अनिट् ।) द्रावणं द्रवी-
करणम् । कि, लाययति लयति । मिम्यो-
र्यब्णाविति लापयति लोहमग्नौ कर्म्मकारः ।
स्नेहद्रवे तु लाल्योर्लन्ननाविति जनो घृतमग्नौ
लीनयत्यपि । इति दुर्गादासः ॥

ली, गि श्लिषि । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-अक०-अनिट् ।) गि, लिनाति बाला
लावण्यं प्राप्नोतीत्यर्थः । कर्म्माविवक्षायान्तु
लिनाति जलधौ नदी । लीनः लीनिः । अयं
अन्तःस्थतृतीयादिः । इति दुर्गादासः ॥

ली, ङ य ओ श्लिषि । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-अनिट् ।) ङ य,
लीयते चन्द्रः सूर्य्ये । ओ, लीनः । इति दुर्गा
दासः ॥

लीक्का, स्त्री, लिक्षा । इति शब्दरत्नावली ॥

लीक्षा, स्त्री, लिक्षा । इति शब्दरत्नावली ॥

लीढः, त्रि, आस्वादितः । इति लिहधातोः

कर्म्मणि क्तप्रत्ययेन निष्पन्नः । (यथा, श्रीकण्ठ-
चरिते । १ । ५३ ।
“सा शुद्धयेऽस्तु शिवपादनखावनिर्यो
भक्ता यदीयरुचिलीढलंलाटपट्टाः ॥”)

लीनः, त्रि, (ली + क्तः । “ओदितश्च ।” ८ । २ ।

४५ । इति निष्ठातस्य नः ।) लयप्राप्तः । श्लिष्टः ।
इति व्याकरणम् ॥ अपि च ।
“दिवाकराद्रक्षति यो गुहासु
लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्वमुच्चैःशिरसामतीव ॥”
इति कुमारसम्भवे । १ । १२ ॥

लीला, स्त्री, (लयनमिति । ली + सम्पदादित्वात्

क्विप् । लियं लातीति । ला + कः ।) केलिः ।
विलासः । शृङ्गारभावचेष्टा । इति मेदिनी ।
ले, ४७ ॥ खेला । इति विश्वः ॥ (यथा, भाग-
वते । १ । १ । १८ ।
“अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
लीलाविदधतः स्वैरमीश्वरस्यात्ममायया ॥”)
अलब्धप्रियसमागमया स्वचित्तविनोदनार्थं
प्रियस्य या वेशगतिदृष्टिहसितभणितैरनुकृतिः
क्रियते सा लीला । तथा च ।
“अप्राप्तवल्लभसमागमनायिकायाः
सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या ।
आलापवेशगतिहास्यविलोकनाद्यैः
प्राणेश्वरानुकृतिमाकथयन्ति लीलाम् ॥” इति ।
प्रियानुकरणं लोला । यथा तेनोदितं वदति
याति तथा तथासावित्यादीत्यन्योऽपि । ली ङ
य ओ श्लिषि नाम्नीति लक् लीला । इत्यमर-
टीकायां भरतः ॥ * ॥ सा प्रकटाप्रकटभेदेन
द्बिविधा यथा, --
“प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ।”
इति पद्मपुराणम् ॥
तथा हि ।
“सदानन्तैः प्रकाशैः स्वैर्लीलाभिश्च स दीव्यति ।
तत्रैकेन प्रकाशेन कदाचिज्जगदन्तरे ॥
सहैव स्वपरीवारैर्ज्जन्मादि कुरुते हरिः ।
कृष्णभावानुसारेण लीलाख्या शक्तिरेव सा ॥
तेषां परिकराणाञ्च तं तं भावं विभावयेत् ।
प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता ॥
अन्यास्त्वप्रकटा भान्ति तादृश्यस्तदगोचराः ।
तत्र प्रकटलीलायामेव स्यातां गमागमौ ॥
गोकुले मथुरायाञ्च द्वारकायाञ्च शार्ङ्गिणः ।
यास्तत्र तत्राप्रकटास्तत्र तत्रैव सन्ति ताः ॥”
इति श्रीभागवतामृतम् ॥

लीलावती, स्त्री, (लीलास्त्यस्या इति । लीला +

मतुप् । मस्य वः ।) केलियुक्ता । विलासवती ।
शृङ्गारभावचेष्टान्विता । खेलाविशिष्टा । इति
लीलाशब्दार्थदर्शनात् ॥ * ॥ भास्कराचार्य्यस्य
पत्नी । तत्कृताङ्कग्रन्थः । यथा । गोदावरीतीर-
निवासिनो महाराष्ट्रदेशोद्भवस्य श्रीभास्करा-
चार्य्यस्य ग्रन्थकर्त्तुः सुप्रिया लीलावती विरह-
विक्षिण्णहृदयस्य तां पदैर्लीलावत्या लीला-
वतीमिव । इति लीलावतीग्रन्थस्य मङ्गला-
चरणश्लोकस्य टीकायां भवेशः ॥ * ॥ (अवि-
क्षितनृपतेः स्त्रीविशेषः । यथा, मार्कण्डेये ।
१२३ । १७ ।
“लीलावती वीरसुता वीरभद्रसुतानिभा ॥”)
वेश्याविशेषः ॥ यथा, --
“अभिरूपेण सम्पन्नान् घट्टयित्वा विना भृतिम् ।
धर्म्मकार्य्यमिति ज्ञात्वा न गृह्णाति कथञ्चन ॥
योऽसौ सुवर्णकारश्च दरिद्रोऽप्यथ सत्त्ववान् ।
न मूल्यमादाद्वेश्यातः सभार्य्य ऋद्धिसंयुतः ।
सप्तद्वीपपतिर्ज्जातः सूर्य्यायुतसमप्रभः ॥”
इति मत्स्यपुराणे लीलावतीवेश्याया लवणाचल-
दाने हेमतरुघटकस्य तथाविधफलदर्शनात् ।
पृष्ठ ४/२२५
इति तिथ्यादितत्त्वम् ॥ * ॥ न्यायग्रन्थविशेषः ।
तस्य द्वितीयश्लोको यथा, --
“द्रव्यं नाकुलमुज्ज्वलो गुणगणः कर्म्माधिकं
श्लाघ्यते
जातिर्व्विप्लुतिमागता न च पुनः श्लाघ्या विशेष-
स्थितिः ।
सम्बन्धः सहजो गुणादिभिरयं यत्रास्तु सत्-
प्रीतये
सान्वीक्षा नयवेश्मकर्म्मकुशला श्रीन्यायलीला-
वती ॥”
इति मण्डनमिश्रः ॥

लीलोद्यानं, क्ली, (लीलार्थमुद्यानम् ।) देववनम् ।

इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्-
सागरे । १०९ । ४१ ।
“अथ मानसमुल्लङ्घ्य देवर्षिव्रातसेवितम् ।
अतीत्य गण्डशैलञ्च लीलोद्यानं द्युयोषिताम् ॥”)

लुक्, [च्] पुं, लोपः । यथा । स्यमोर्लुक् क्लीवात्

परयोः स्यमोर्लुक् स्यात् । इति मुग्धबोध-
व्याकरणम् ॥

लुक्कायितः, त्रि, (लुक् कायस्य यस्य तादृश इवा-

चरतीति । लुक्काय + क्विप् । ततः क्तः ।)
अन्तर्हितः । यथा । अन्तर्धानं लुक्कायनमिति
यावत् । यथा गुरोरन्तर्द्धत्ते शिशुः निलीयते
यलायते लुक्कायते लुक्कायतीति लुञ्चापनयने-
ऽपि लुक् । लुक् कायः शरीरं यस्य स लुक्कायः
ततः स इव आचरतीति क्वौ साध्यम् । इति
कारकटीकायां दुर्गादासः ॥ कर्म्मणि क्तप्रयेन
निष्पन्नोऽयम् ॥

लुङ्गुषः, पुं, छोलङ्गः । इति रत्नमाला ॥

लुज, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सक०-च-सेट् ।) इ क,
लुञ्जयति । भा दीप्तिः । षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥

लुञ्च, अपनयने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) सोऽलुञ्चीत् कर्णनासिकम् ।
इति दुर्गादासः ॥

लुट, विलोटविलोडनयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-विलोटे अक०-विलोडने सक०-
सेट् ।) लोटति । इति दुर्गादासः ॥

लुट, इ ह्रुतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, लुण्ट्यते । हृतिश्चौर्य्यम् ।
इति दुर्गादासः ॥

लुट, ऌ ॠ य विलोटविलोडनयोः । इति कवि-

कल्पद्रुमः ॥ (दिवा०-पर०-विलोटे अक०-विलो-
डने सक०-सेट् ।) ऌ, अलुटत् । ॠ, अलूलु-
टत् अलुलोटत् । य, लुट्यति । विलोटः सम्बन्धी-
भावः । तत्र लुट्यन् सशोको भुवि रीरुदावान् ।
इति भट्टिः ॥ विलोडने लुट्यत्यट्टालकान् दुर्गान्
कवाटानि च लोटति । इति हलायुधः । इति
दुर्गादासः ॥

लुट, ऌ ङ दीप्तिप्रतिहत्योः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-पुनर्हनने सक०-सेट् ।)
ऌ, अलुटत् । ङ, लोटते । प्रतिहतिः शोका-
दिना पतनं पुनर्हवनं वा । इति दुर्गादासः ॥

लुट, क भासे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, लोटयति । भासो
दीप्तिः । इति दुर्गादासः ॥

लुठ, उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) लोठति । इति दुर्गादासः ॥

लुठ, इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-अक० च-सेट् ।) इ, लुण्ठ्यते ।
आलस्यं मन्दीभावः । स्तेयं चौर्य्यम् । खोटः
खोडनम् । इति दुर्गादासः ॥

लुठ, ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऌ, अलुठत् । ङ,
लोठते । इति दुर्गादासः ॥

लुठ, क चौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, लोठयति । इति दुर्गा-
दासः ॥

लुठ, शि लोटे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-सेट् ।) शि, लुठति अलुठीत्
लुलोठ । लोटः सम्बन्धीमावः । हारोऽयं
हरिणाक्षीणां लुठति स्तनमण्डले । इति दुर्गा-
दासः ॥

लुठनं, क्ली, (लुठ लोटे + ल्युट् ।) अश्वस्य

भूमौ पुनः पुनः श्रमोपहननम् । लोटा इति
गडागडि इति च भाषा । तत्पर्य्यायः । वेल्ल-
नम् २ । इति त्रिकाण्डशेषः ॥

लुठितः त्रि, (लुठ + क्तः ।) मुहुर्भुवि परावृत्तः ।

श्रमशान्त्यर्थं पुनःपुनर्भूमौ लुठितोऽश्वः । तत्-
पर्य्यायः । उपावृत्तः २ । इत्यमरभरतौ ॥
वेल्लितः ३ । इति शब्दरत्नावली ॥ अपावृत्तः ४
परावृत्तः ५ । इति हेमचन्द्रः ॥ (यथा, कथा-
सरित्सागरे । १०२ । ७७ ।
“शिलाकलापो लुठितः किमञ्जनगिरेरयम् ।
किमुताकालकल्पान्तमेघौघः पतितो भुवि ॥”)

लुड, मन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) लोडति । मन्थो विलोडनम् ।
इति दुर्गादासः ॥

लुड, शि संवृतौ । श्लेषे । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-सेट् ।) शि, लुडति
अलुडीत् लुलोड । इति दुर्गादासः ॥

लुण्ट, कि अवज्ञाचौर्य्ये । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) दन्त्य-
नकारप्रकृतिः टयोगान्मूर्द्धन्यः तेन भ्वादिपक्षे
यगादौ तल्लोपे लुट्यत इत्यादि । कि, लुण्टयति
लुण्टति । इति दुर्गादासः ॥

लुण्टकः पुं, (लुण्टतीति । लुण्ट + ण्वुल् ।) शाक-

विशेषः । नट्या इति भाषा । तत्पर्य्यायः ।
मासवः २ । इति शब्दचन्द्रिका ॥

लुण्टा, स्त्री, (लुण्ट + अङ् । टाप् ।) लुठनम् ।

इति काचित् शब्दरत्नावली ॥

लुण्टाकः, पुं, (लुण्टतीति । लुण्ट + “जल्पभिक्ष-

कुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ । इति
षाकन् ।) चौरः । लुटधातोः षाकप्रत्ययेन
निष्पन्नः ॥

लुण्टाकी, स्त्री, (लुण्टाक + षित्वात् ङीप् ।) चौरा

स्त्री । इति मुग्धबोधव्याकरणम् ॥

लुण्ठकः, त्रि, (लुण्ठतीति । लुण्ठ + ण्वुल् ।) स्तेय-

कारकः । लुटेरा इति भाषा । यथा, --
“ये चौरा वह्रिना दुष्टा गरदा ग्रामलुण्ठकाः ।
सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥”
इति पाद्मे पातालखण्डम् ॥

लुण्ठनं, क्ली, (लुण्ठ + ल्युट् ।) लुठनम् । इति

काचित् शब्दरत्नावली ॥ (यथा, देवीभाग-
वते । ५ । १ । १८ ।
“हरणं लुण्ठनं तद्वत् तत्पत्नीनां नराधिप ! ॥”)

लुण्ठा, स्त्री, (लुण्ठ + अङ् । स्त्रियां टाप् ।)

लुठनम् । इति काचित् शब्दरत्नावली ॥

लुण्ठाकः, पुं, (लुण्ठ + षाकन् ।) काकः । इति

त्रिकाण्डशेषः ॥ (चौरः । यथा, कलाविलासे । १ । ३ ।
“विघ्नोऽभिसारिकाणां भवनगणस्फाटिकप्रभा-
निकरः ।
यत्र विराजति रजनीतिमिरपटप्रकट-
लुण्ठाकः ॥”)

लुण्ठी, स्त्री, लुठनम् । इति काचित् शब्दरत्नावली ॥

लुण्ड, क चौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, लुण्डयति । इति
दुर्गादासः ॥

लुण्डिका, स्त्री, (लुण्डी । स्वार्थे कन् । ततष्टाप् ।)

न्यायसारिणौ । इति हारावली ॥ एकत्र वेष्टित-
मेषलोमादिः । लुडि इति नुटि इति च भाषा ॥
यथा, --
“सैन्धवञ्च घृताभ्यक्तं ताम्रभाजनमातपे ।
प्रतप्तमूर्णया घृष्टं तन्मलञ्च समाहरेत् ॥”
ताम्रभाजने धृतं सैन्धवं दत्त्वा रौद्रे तप्तं कृत्वा
मेषलोमलुण्डिकया घृष्ट्वा मलग्रहं कृत्वा तेन
म्रक्षयेत् । इति भैषज्यरत्नावली ॥

लुण्डी, स्त्री, न्यायसारिणी । इति त्रिकाण्डशेषः ॥

लुथ, इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, लुन्थ्यते । कुन्थो वध-
क्लेशौ । इति दुर्गादासः ॥

लुप ॠ श प ऌ ञ औ छेदे । इति कविकल्प-

द्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) ॠ,
अलूलुपत् अलुलोपत् । श प ञ, लुम्पति
लुम्पते । ऌ, अलुपत् । औ, लोप्ता । इति
दुर्गादासः ॥

लुप, इर य युपि । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-अक०-सेट् ।) इर, अलुपत् अलोपीत ।
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, लुप्यति ।
युपि आकुलीभावे । पातुं लुप्यति लावण्यं
नेत्राञ्जलिपुटैर्नरः । इति हलायुधः । इति
दुर्गादासः ॥

लुप्, पुं, (लुप् च्छेदे + क्विप् ।) लोपः । यथा ।

अभोभगोऽघोभ्योऽवे लुप् । इति मुग्धबोध-
व्याकरणम् ॥
पृष्ठ ४/२२६

लुप्तं, क्ली, (लुप् + क्तः ।) चौर्य्यधनम् । लोत

इति ख्यातम् । इति शब्दरत्नावली ॥ लोप-
वति, त्रि । यथा, --
“चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च ।
प्रशंसा निन्दनं द्वेषात् परुषान्न विशिष्यते ॥”
इति तिथ्यादितत्त्वम् ॥
(यथा च, आर्य्यासप्तशत्याम् । ३६३ ।
“परिवृत्तनाभि लुप्तत्रिबलि श्यामस्तनाग्र-
मलसाक्षि ।
बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥”)

लुब कि इ अर्द्दने । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, लुम्बयति
लुम्बति । इ, लुम्ब्यते । अर्द्दनं वघः । इति
दुर्गादासः ॥

लुब्धः, पुं, (लुभ + गत्यर्थेति क्तः ।) व्याधः ।

(यथा, महाभारते । १६ । ४ । २१ ।
“स संनिरुद्धेन्द्रियवाङ्मनास्तु
शिष्ये महायोगमुपेत्य कृष्णः ।
जराथ तं देशमुपाजगाम
लुब्धस्तदानीं मृगसंलिप्सुरुग्रः ॥”)
लम्पटः । इति शब्दरत्नावली ॥

लुब्धः, त्रि, (लुभ + क्तः ।) आकाङ्क्षी । इति

मेदिनी । धे, १४ ॥ तत्पर्य्यायः । गृध्नुः २ ।
गर्द्धनः ३ अभिलाषुकः ४ तृष्णक् ५ । इत्य-
मरः ॥ (यथा, कथासरित्सागरे । ५५ । ३० ।
“लुब्धो यशसि नत्वर्थे भीतः पापान्न शत्रुतः ।
मूर्खः परापवादेषु नच शास्त्रेषु योऽभवत् ॥”)

लुब्धकः, पुं, (लुब्ध एव । स्वार्थे कन् ।) व्याधः ।

इत्यमरः ॥ (यथा, कथासरित्सागरे । ८ । २४ ।
“आस्माकमीदृशं मांसं ददते लुब्धका इति ॥”)
लम्पटः । इति लुब्धशब्दार्थदर्शनात् ॥ (पायुः ।
यथा, भागवते । ४ । २५ । ५३ ।
“निरृतिर्नाम पश्चाद्द्बास्तया याति पुरञ्जनः ।
वैशसं नाम विषयं लुब्धकेन समन्वितः ॥”)

लुभ, य इर् गार्ध्ये । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-सेट् ।) गार्ध्यमाकाङ्क्षा । य,
लुभ्यति धनं लुब्धः । इर्, अलुभत् अलोभीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥

लुभ, श विमोहने । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-सेट् ।) श, लुभत्यात्मनि कामे च ।
इति हलायुधः ॥ लोभिता लोब्धा । इति
दुर्गादासः ॥

लुभितः, त्रि, विमोहितः । विमोहनार्थलुभधातोः क्तप्रत्ययेन निष्पन्नः ॥

लुल, विमर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) सौत्रधातुरयम् । लुलापः ।
इति दुर्गादासः ॥

लुलापः, पुं, (लुल्यते इति । लुल विमर्द्दने + भिदा-

दित्वात् अङ् । लुलां आप्नोतीति । आप् +
अण् ।) महिषः । इत्यमरः ॥ (यथा, दुर्गा-
भक्तितरङ्गिण्याम् ।
“लुलापं खड्गेन छिन्धि छिन्धि ॥”)
(तथास्य पर्य्यायः ।
“महिषो घोटकारिः स्यात्कासरश्च रज-
स्वलः ।
पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

लुलापकन्दः, पुं, (लुलापप्रियः कन्दः ।) महिष-

कन्दः । इति राजनिर्घण्टः ॥

लुलापकान्ता, स्त्री, (लुलापस्य कान्ता ।) महिषी ।

इति राजनिर्घण्टः ॥

लुलितः, त्रि, (लुल + क्तः ।) आन्दोलितः । यथा,

“प्रेङ्क्षोलितस्तरलितो लुलितान्दोलितावपि ॥”
इति भूरिप्रयोगः ॥
(यथा, कथासरित्सागरे । ३७ । ७० ।
“हत्वा रथाश्वांश्चिच्छेद शिरो लुलितकुण्ड-
लम् ॥”
विकीर्णः । इति श्रीधरः ॥ यथा, भागवते । १ ।
९ । ३४ ।
“युधि तुरगरजो विधूम्रविष्वक्
कचलुलितश्रमवार्य्यलङ्कृतास्ये ॥”
व्याप्तः । यथा, रामायणे । २ । ६५ । १९ ।
“न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥”
ग्लानः । यथा, आर्य्यासप्तशत्याम् ।
“प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहै-
रङ्गैः ।
जामातरि मुदितमनास्तथा तथा सादरा
श्वश्रूः ॥”
उन्मूलितः । यथा, भागवते । ३ । १९ । २४ ।
“विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतत्
यथा नगेन्द्रो लुलितो नभस्वता ॥”
खण्डितः । यथा, तत्रैव । ४ । ९ । १० ।
“किम्बन्तकासिलुलितात् पततां विमानात् ॥”
विध्वस्तः । यथा, तत्रैव । ७ । ९ । २३ ।
“येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू-
विस्फूर्ज्जितेन लुलिताः स तु ते निरस्तः ॥”)

लुष, स्तेये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) लोषति । इति दुर्गादासः ॥

लुष, हिंसने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सौत्रधातुरयम् । लुष्णः । इति
दुर्गादासः ॥

लुषभः, पुं, (रोषतीति । रुष हिंसायाम् +

“रुषेर्निल्लुष् च ।” उणा० ३ । १२४ । इति
अभच् । लुषादेशश्च धातोः ।) मत्तहस्ती ।
इत्युणादिकोषः ॥

लुह, औ गार्ध्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-अनिट् ।) औ, अलुक्षत् । गार्ध्यं
लब्धुमिच्छा । लोहति धनं लोकः । इति दुर्गा-
दासः ॥

लू, ञ गि छिदि । इति कविकल्पद्रुमः ॥ (क्र्या०-

उभ०-सक०-अनिट् ।) ञ गि, लूनाति लूनीते ।
लूनः लूनिः । इति दुर्गादासः ॥

लूता, स्त्री, (लूनातीति । लू + बाहुलकात् तन् ।

गुणाभावश्च ।) कीटविशेषः । माकड्सा इति
भाषा । तत्पर्य्यायः । तन्तुवायः २ ऊर्णनाभः ३
मर्कटकः ४ । इत्यमरः ॥ मर्कटः ५ लूतिका ६
ऊर्णनाभिः ७ शनकः ८ तन्त्रवायः ९ । इति
शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् ।
५०४ ।
“लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः ।
पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव
सखि ! ॥”)
पिपीलिका । रोगविशेषः । इति मेदिनी । ते,
५२ ॥ शेषस्य पर्य्यायः । मर्म्मव्रणः २ वृक्का ३ ।
इति राजनिर्घण्टः ॥ तद्रोगस्य निदानादि
लूतानां जन्तुबिशेषाणामुत्पत्तिं संख्याञ्चाह ।
“यस्माल्लूनतृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः ।
तेभ्यो जातास्ततो लूता इति ख्यातास्तु
षोडश ॥”
अत्र सुश्रुतः ।
“विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् ।
वशिष्ठं कोपयमास गत्वाश्रमपदं किल ॥
कुपितस्य मुनेस्तस्य ललाटे स्वेदबिन्दवः ।
अपतन् दर्शनादेव ह्यधस्तात्तीव्रवर्च्चसः ॥
लूते तृणे महर्षेस्तु धेन्वर्थे संभृतेऽपि च ।
ततो जातास्त्विमा घोरा नानारूपा महा-
विषाः ।
तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि ॥”
तत्र तृणमण्डलाप्रभृतयोऽष्ट कष्टसाध्याः ।
सौवर्णिकाप्रभृतयोऽष्टावसाध्याः । तासां सामा-
न्यतो दंशलक्षणमाह ।
“ताभिर्दष्टे दंशकोऽप्यप्रवृत्तिः क्षतजस्य च ।
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदो-
षजाः ॥
पिडिका विविधाकारा मण्डलानि महान्ति च ।
शोथा महान्तो मृदवो रक्ताः श्यावाश्चला-
स्तथा ।
सामान्यं सर्व्वलूतानामेतद्दंशस्य लक्षणम् ॥”
दंशकोऽप्यदंशमध्ये पूतिभावः ।
“दंशमध्ये तु यत् कृष्णं श्यावं वा जालकावृ-
तम् ।
दग्धाकृति भृशं पाकं क्लेदशोथज्वरान्वितम् ।
दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्द्दिशेत् ॥”
सौवर्णिकादयोऽष्टावसाध्यप्राणहरास्तासां
लक्षणमाह ।
“शोथः श्वेतासिता रक्ता पीता च पिडिका
ज्वरः ।
प्राणान्तिको भवेद्दाहः श्वासो हिक्का शिरो-
ग्रहः ॥ * ॥
तस्यौषधं यथा, --
“रजनीयुग्मपत्तङ्गमञ्जिष्ठानागकेशरैः ।
शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ॥”
अपि च ।
“अभयां रोचनां कुष्ठमर्कपुष्पं तथोत्पलम् ।
नलवेतसमूलानि गरलं सुरसां तथा ॥
सकलिङ्गं समञ्जिष्ठामनन्ताञ्च शतावरीम् ।
पृष्ठ ४/२२७
शृङ्गाटकं समङ्गाञ्च पद्मकेशरमित्यपि ॥
कल्कीकृत्य पचेत् सर्पिः पयो दद्याच्चतुर्गुणम् ।
सम्यक् पक्वेऽवतीर्णे च शीते तस्मिन् विनिः ।
क्षिपेत् ॥
सर्पिस्तुल्यं भिषक् क्षौद्रं कृतरक्षं निधापयेत् ।
विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ॥
स्पर्शाद्धन्ति विषं सर्व्वं गरैरुपहतां त्वचाम् ।
योगजन्तमकं कण्डुं मांससादं विसंज्ञताम् ॥
नाशयत्यञ्जनाभ्यङ्गं पानवस्तिषु योजितम् ।
सर्पकीटाखुलूतादिदष्टानां विषहृत् परम् ॥”
मृत्युपाशच्छेदि घृतम् । इति भावप्रकाशः ॥
(तथा च ।
“कोटिभ्यो दारुणतरा लूताः षोडश ता जगुः ।
अष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः ॥
सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः ।
बहूपद्रवरूपा तु लूतैकैव विषात्मिका ॥
रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसङ्करात् ।
नास्ति स्थानव्यवस्था च दोषतोऽतः प्रचक्षते ॥
कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा ।
तद्दंशः पैत्तिको दाहतृट्स्फोटज्वरदाहवान् ॥
भृशोष्मा रक्तपीताभः क्लेदी द्राक्षाफलोपमः ।
श्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः ॥
निद्रां शीतज्वरं कासं कण्डूञ्च कुरुते भृशम् ।
वातिकः परुषः श्यावः पर्व्वभेदज्वरप्रदः ॥
तद्विभागं यथास्वञ्च दोषलिङ्गैर्विभावयेत् ।
असाध्यायान्तु हृन्मोहश्वासहिक्काशिरो-
रुजाः ॥
श्वेताः पीताः सिता रक्ताः पिटिकाः श्वयथू-
द्भवाः ॥
वेपथुर्व्वमथुर्दाहस्तृडान्ध्यं वक्रनासता ।
श्यावोऽष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम् ॥
पक्वजम्बूसवर्णञ्च दंशात् स्रवति शोणितम् ।
सर्व्वापि सर्व्वजा प्रायो व्यपदेशस्तु भूयसा ॥
तीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिताः ।
सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ॥
लूतादंशश्च सर्व्वोऽपि दद्रुमण्डलसन्निभः ।
सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरु-
न्नतः ॥
मध्ये कृष्णोऽथवा श्यावः पर्य्यन्ते जाल-
कावृतः ।
विसर्पवान् शोफयुतस्तप्यते बहुवेदनः ॥
ज्वराशुपाकविक्लेदकोदावदरणान्वितः ।
क्लेदेन यत् स्पृशत्यङ्गं तत्रापि कुरुते व्रणम् ॥
श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्त्तवैः ।
अष्टाभिरुद्वमत्येषा विषं वक्त्रैर्व्विशेषतः ॥
लूता नाभेर्द्दशत्यूर्द्ध्वमूर्द्ध्वं वाधश्च कीटकाः ।
तद्दूषितञ्च वस्त्रादिदेहे पृक्तं विकारकृत् ॥
दिनार्द्ध लक्ष्यते नैव दंशो लूताविषोद्भवः ।
सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि ॥
अव्यक्तवर्णः प्रचलः किञ्चित् कण्डूरुजान्वितः ।
द्वितीयेऽभ्युन्नतोऽन्तेषु पिटकैरिव वाचितः ॥
व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः ।
तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः ॥
शरावरूपस्तोदाढ्यो रोमकूपेषु सस्रवः ।
महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः ॥
विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् ।
षष्ठे व्याप्नोति मर्म्माणि सप्तमे हन्ति जीवितम् ॥
इति तीक्ष्णं विषं मध्यं हीनञ्च विभजेदतः ।
एकविंशतिरात्रेण विषं शाम्यति सर्व्वथा ॥
अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् ।
दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत् ॥
कर्कशं भिन्नरोमाणं मर्म्मसन्ध्यादिसंश्रितम् ।
प्रसृतं सर्व्वतो दंशं नच्छिन्दीत दहेन्न च ॥
लेपयेद्दग्धमगदैर्म्मधुसैन्धवसंयुतैः ।
सुशीतः सेचयेच्चानुकषायैः क्षीरिवृक्षजः ॥
सर्व्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयापिवा ।
सेका लेपास्ततः शीता बोधिश्लेष्मान्तकाक्षरैः ॥
फलिनीद्विनिशाक्षौद्रसर्पिर्भिः पद्मकाह्वयः ।
अशेषलूताकीटानामगदः सर्व्वकार्म्मिकः ॥”
“रोध्रं सेव्यं पद्मकं पद्मरेणुः
कालीयाख्यं चन्दनं यच्च रक्तम् ।
कान्ता पुष्पं दुग्धिनीका मृणालं
लूताः सर्व्वा घ्नन्ति सर्व्वक्रियाभिः ॥”
इति वाग्भटे उत्तरस्थाने ३७ अध्यायः ॥)

लूतारिः, पुं, (लूताया अरिः ।) दुग्धफेनीक्षुपः ।

इति राजनिर्घण्टः ॥

लूतिका, स्त्री, (लूतैव । स्वार्थे कन् । टापि अत

इत्वम् ।) मर्कटकः । इति शब्दरत्नावली ॥

लूनः, त्रि, (लूयते स्मेति । लू + क्तः । “ल्वादिभ्यः ।”

८ । २ । ४४ । इति निष्ठातस्य नः ।) छिन्नः ।
इत्यमरः ॥ (यथा, कथासरित्सागरे । २७ । १४३ ।
“दैवेन वैरिणा संख्ये लूनबाहुवनः कृतः ॥”
उपचितः । यथा, कुमारे । ३ । ६१ ।
“तस्याः सखीभ्यां प्रणिपातपूर्ब्बं
स्वहस्तलूनः शिशिरात्ययस्य ।
व्यकीर्य्यत त्र्यम्बकपादमूले
पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥”)

लूनकः, पुं, (लून एव । स्वार्थे कन् ।) भेदितः ।

पशुः । इति मेदिनी । के, १५९ ॥

लूनिः, स्त्री, (लू + क्तिन् । “ऋकारल्वादिभ्यः

क्तिन्निष्ठावद्भवतीति वक्तव्यम् ।” ८ । २ । ४४ ।
इत्यस्य वार्त्तिकोक्त्या तस्य नः ।) छेदः । इति
मुग्धबोधव्याकरणम् ॥ (ब्रीहिः । इत्युज्ज्वल-
दत्तः । ४ । १०५ ॥)

लूमं, क्ली, (लूयते इति । लू + बाहुलकात् मक् ।)

लाङ्गूलम् । इत्यमरः ॥

लूमविषः, पुं, (लूमे लाङ्गूले विषमस्य ।) वृश्चि-

कादिः । इति हेमचन्द्रः ॥

लूष, क वधे । स्तेये । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) क, लूषयति ।
इति दुर्गादासः ॥

लेखः, पुं, (लिख्यते इति । लिख् + घञ् ।) देवः ।

इत्यमरः ॥ लेख्यः । इति मेदिनी । खे, ४ ॥ (यथा,
कुमारे । १ । ७ ।
“व्रजन्ति विद्याधरसुन्दरीणा-
मनङ्गलेखक्रिययोपयोगम् ॥”)

लेखकः, पुं, (लिखतीति । लिख् + ण्वुल् ।)

लेखनकर्त्ता । तत्पर्य्यायः । लिपिकरः २ अक्षर-
चनः ३ अक्षरचुञ्चुः ४ । इत्यमरः । २ । ८ । १५ ॥
वोलकः ५ करकः ६ मसीपण्यः ७ करप्रणीः ८ ।
इति शब्दरत्नावली ॥ वर्णी ९ । इति जटा-
धरः ॥ * ॥ तस्य लक्षणानि यथा, --
“सर्व्वदेशाक्षराभिज्ञः सर्व्वशास्त्रविशारदः ।
लेखकः कथितो राज्ञः सर्व्वाधिकरणेषु वै ॥
शीर्षोपेतान् सुसंपूर्णान् समश्रेणिगतान्
समान् ।
अक्षरान् वै लिखेद्यस्तु लेखकः स वरः स्मृतः ॥
उपायवाक्यकुशलः सर्व्वशास्त्रविशारदः ।
बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥
वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् ।
अनाहार्य्यो नृपे भक्तो लेखकः स्याद्भृगूत्तम ॥”
इति मात्स्ये १८९ अध्यायः ॥ * ॥
अपि च ।
“सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः ।
सर्व्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥”
इति चाणक्यसंग्रहः ॥ * ॥
राजलेखकलक्षणं यथा, --
“ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः ।
नानालिपिज्ञो मेधावी नानाभाषासमन्वितः ॥
मन्त्रणाचतुरो धीमान् नीतिशास्त्रार्थकोविदः ।
सन्धिविग्रहभेदज्ञो राजकार्य्ये विचक्षणः ॥
सदा राजहितान्वेषी राजसन्निधिसंस्थितः ।
कार्य्याकार्य्यविचारज्ञः सत्यवादी जितेन्द्रियः ॥
स्वरूपवादी शुद्धात्मा धर्म्मज्ञो राजधर्म्मवित् ।
एवमादिगुणैर्युक्तः स एव राजलेखकः ॥
नृपानुवर्त्ती सततं नृपविश्वासरक्षकः ।
नृपतेर्हितकान्वेषी स एव राजलेखकः ॥”
इति पत्रकौमुदी ॥ * ॥
लेख्यकर्म्म कायस्थेन कर्त्तव्यम् । यथा, --
“लेखकानपि कायस्थान् लेख्यकृत्ये विचक्ष-
णान् ॥”
कुर्य्यादितिशेषः । इति पराशरसंहितायाम् १०
अध्यायः ॥ (गणेशस्तु महाभारतस्य लेखकः ।
यथा, महाभारते । १ । १ ७८ -- ७९ ।
“श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् ।
ॐमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः ॥”)

लेखनं, क्ली, (लिख + ल्युट् ।) छर्द्दनम् । भुर्ज्जत्वफ् ।

अक्षरविन्यासः । इति मेदिनी । मे, १२२ ॥ * ॥
भूमौ लेखननिषेधो यथा, --
“न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तकं लिखेत् ॥”
इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥
लेखनाञ्जनम् । यथा, --
“दक्षाण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः ।
चूर्णितैरञ्जनं प्रोक्तं पुष्पार्म्मादिनिकृन्तनम् ॥”
पृष्ठ ४/२२८
दक्षः कुक्कुटः तस्याण्डस्य त्वक् । शिला मनः-
शिला । इति भावप्रकाशः ॥

लेखनः, पुं, (लिख + ल्युः ।) काशः । इति राज-

निर्घण्टः ॥

लेखनिकः पुं, (लेखनं शिल्पमस्य । लेखन + ठन् ।)

लेखहारकः । परहस्तेन लेखकः । स्वहस्तेन
लेखकः । इति मेदिनी । के, २११ ॥

लेखनी, स्त्री, लिख्यतेऽनया । (लिख + ल्युट् ।

ङीष् ।) लेखनसाधनवस्तु । तत्पर्य्यायः । वर्ण-
तूलिका २ । इति हारावली ॥ वर्णतूली ३
कलमः ४ अक्षरतूलिका ५ । इति जटाधरः ॥
कराश्रयः ६ चित्रकः ७ । इति शब्दरत्ना-
वली ॥ * ॥ (यथा, महाभारते । १ । १ । ७८ ।
“श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदास्यां लेखको ह्यहम् ॥”)
लेखनीकरणशुभाशुभं यथा, --
“वंशसूच्या लिखेद्बर्णं तस्य हानिर्भवेद्ध्रुवम् ।
ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत् ॥
महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शलाकया ।
बृहन्नलस्य सूच्या वै मतिवृद्धिः प्रजायते ॥
तथा अग्निमयैर्द्देवि पुत्त्रपौत्त्रधनागमः ।”
अग्निमयैश्चित्रकाष्ठमयैः ।
“रैत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत् ॥
अष्टाङ्गुलप्रमाणेन दशाङ्गुलेन वाथवा ।
चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे ।
तत्तदक्षरसंख्ये तु स्वल्पायुर्याति वै दिने ॥”
यथा रैत्येनेत्यादिवचने एकत्रैव विधिनिषेधौ
तथात्राप्यष्टाङ्गुलदशाङ्गुलयोर्विधिः निषेधश्चतु-
रङ्गुले । इति योगिनीतन्त्रे तृतीयभागे ७
पटलः ॥ (खटिका । तत्पर्य्यायो यथा, --
“खटिका कठिनी चापि लेखनी च निगद्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लेखनीयः, त्रि, लेख्यम् । लेखितव्यम् । इति लिख-

धातोः कर्म्मण्यनीयप्रत्ययेन निष्पन्नम् ॥ (यथा,
सुश्रुते । ६ । १८ ।
“स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा ॥”)

लेखर्षभः, पुं, (लेखेषु देवेषु ऋषभः श्रेष्ठः । लेख

ऋषभ इवेति वा ।) इन्द्रः । इत्यमरः ॥

लेखहारः, पुं, लेखं हरति इत्यर्थे अणप्रत्ययेन

निष्पन्नः । पत्रवाहकः । इति सिद्धान्तकौमुदी ॥
(यथा, कथासरित्सागरे । ५ । ६५ ।
“निगूढं स नृपस्तत्र लेखहारं व्यसर्ज्जयत् ॥”)

लेखहारकः, पुं, (लेखहार एव । स्वार्थे कन् ।)

पत्रवाहकः । (यथा, कथासरित्सागरे । ३९ ।
१९० ।
“आह्वानाय स्वनगरे स्थितेनोच्छृङ्खलस्थितेः ।
भ्रातुर्धूमशिखस्येह प्रहितो लेखहारकः ॥”)

लेखा, स्त्री, (लिख्यते इति । लिख + बाहुलकात्

अप् । टाप् ।) लिपिः । पङ्क्तिः । इति
मेदिनी । खे, ४ ॥

लेखार्हः, पुं, (लेखे अर्हः ।) श्रीतालवृक्षः । इति

राजनिर्घण्टः ॥ लेखनयोग्ये, त्रि ॥

लेखितं, त्रि, लेख्यते यत् । कारितलिखितम् ।

इति ञ्यन्तलिखधातोः क्तप्रत्ययेन निष्पन्नम् ॥

लेख्यं, त्रि, (लिख + ण्यत ।) लेखितव्यम्

लेखनीयम् । इति लिखधातोः कर्म्मणि यप्रत्य-
येन निष्पन्नम् ॥ * ॥ व्यवहाराङ्गकक्रियापादा-
ङ्गम् । यथा, --
“षाण्मासिकेऽपि समये भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥
लेख्यन्तु द्विविधं प्रोक्तं स्वहस्तान्यकृतन्तथा ।
असाक्षिकं साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥
मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तदप्यपार्थं करणमृते त्वाधेः स्थिराश्रयात् ॥
दर्शितं प्रतिकालञ्च पठितं श्रावितञ्च यत् ।
लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि च साक्षिषु ॥”
इति व्यवहारतत्त्वे बृहस्पतिः ॥
अपि च । साम्प्रतं लेख्यं निरूप्यते । तत्र लेख्यं
द्बिविधम् । शासनं जानपदञ्चेति । शासनं निरू-
पितम् । जानपदमभिधीयते । तच्च द्विविधम् ।
स्वहस्तकृतमन्यकृतञ्चेति । तत्र स्वहस्तकृतम-
साक्षिकम् । अन्यकृतं ससाक्षिकम् । अनयोश्च
देशाचारानुसारेण प्रामाण्यम् । यदाह
नारदः ।
“लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतन्तथा ।
असाक्षिमत् साक्षिमच्च सिद्धिदेशस्थितेस्तयोः ॥”
इति ॥
तत्रान्यकृतमाह ।
“यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यन्तु साक्षिमत् कार्य्यन्तस्मिन् धनिकपूर्व्वकम् ॥”
धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं
स्वरुच्या इयता कालेनैतावद्देयमितीयती च
प्रतिमास्रं वृद्धिरिति निष्णातो व्यवस्थित-
स्तस्मिन्नर्थ कालान्तरे विप्रतिपत्तौ वस्तुतत्त्व-
निर्णयार्थं लेख्यम् । साक्षिमदुक्तलक्षणं साक्षि-
युक्तम् । धनिकः पूर्व्वो यस्मिन् तद्धनिकपूर्व्वकम् ।
धनिकनामलेखनपूर्ब्बकमिति यावत् कार्य्यं
कर्त्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः ।
“कर्त्त्रा तु यत् कृतं कार्य्यं सिद्ध्यर्थन्तस्य
साक्षिणः ।
प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेख्यकम् ॥”
इति स्मरणात् ॥
आप च ।
“समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्रितम् ॥”
समा संवत्सरः । मासश्चैत्रादिस्तदर्द्धः पक्षः
शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः ।
नाम धनिकाधमर्णयोः । जातिर्ब्राह्मणादिः ।
स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्रि-
तम् । तथा सब्रह्मचारिकं बह्वृचादिशाखा-
प्रयुक्तं गुणनामबह्वृचः कठ इति । आत्मीय-
पितृनाम धनिकर्णिकपितृनाम । आदि ग्रह-
णाद्द्रव्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्चि-
ह्रितं लेख्यं कार्य्यमिति गतेन सम्बन्धः । किञ्च ।
“समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितम् ॥”
धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थित-
स्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णो
नामात्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितं
तन्ममामुकपुत्त्रस्य मतमभिप्रेतमिति निवेशयेत्
पत्रे लिखेत् । तथा, --
“साक्षिणश्च स्वहस्तेन पितृनामकपूर्ब्बकम् ।
अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥”
तस्मिन् लेख्ये ये साक्षिणो लिखितास्तेऽप्या-
त्मीयपितृनामलेखनपूर्ब्बकमस्मिन्नर्थे अहममुको
देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुस्ते
च समाः संख्यातो गुणतश्च कर्त्तव्याः । यद्य-
धमर्णः साक्षी वा लिपिज्ञो न भवति तदाध-
मर्णोऽन्यन साक्षी च साक्ष्यन्तरेण सर्व्वसाक्षि-
सन्निधौ स्वमतं लेखयेत् । यथाह नारदः ।
“अलिपिज्ञ ऋणी यः स्यात् स्वमतन्तु स लेख-
येत् ।
साक्षी वा साक्षिणान्येन सर्व्वसाक्षी समीपतः ॥”
इति ।
अपि च ।
“उभयाभ्यर्थ्यते नैतन्मया ह्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥
ततो लेखको धनिकाधमर्णिकाभ्यां उभाभ्यां
प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना
एतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥ * ॥ साम्प्रतं
स्वकृतलेख्यमाह ।
“विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितन्तु यत् ।
तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥”
यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षि-
भिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोप-
धिकृतादृते । बलेन बलात्कारेण । उपधिना
छललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्मा-
द्विना । नारदोऽप्याह ।
“मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् ।
तदप्रमाणं लिखितं भयोपधिकृतन्तथेति ॥”
तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशा-
चारानुसारेण सवन्धकव्यवहारे वन्धकव्यवहार-
युक्तमर्थक्रमापरिलोपन लिप्यक्षरापरिलोपेन च
लेख्यमित्येतावन्न पुनः साधुशब्दैरेव प्रातिस्विक-
देशभाषयापि लेखनीयम् । यथाह नारदः ।
“देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥”
इति ॥
विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्ष-
णम् । गोप्याधिर्भोग्याधिकालकृतमित्यादि तद्-
व्यक्तं विस्पष्टं यस्मिंस्तद्ब्यक्ताधिविधिलक्षणम् ।
अविलुप्तक्रमाक्षरं अर्थानाक्रमः क्रमञ्चाक्षराणि
च क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिं-
स्तदविलुप्तक्रमाक्षरम् । तदेवं भूतं लिखितं प्रमा-
णम् । राजशासनवन्न साधुशब्दनियमोऽत्रेत्यभि-
प्रायः । लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेव
पृष्ठ ४/२२९
देयमित्याह । ऋणं लेख्यकृतन्देयं पुरुषैस्त्रिभिरेव
तु । यथा साक्ष्यादिकृतमृणन्त्रिभिरेव देयं तथा
लेख्यकृतमप्याहर्त्तृपुत्त्रतत्पुत्रैस्त्रिभिरेव देयम् ।
न चतुर्थादिभिरिति नियम्यते । ननु पुत्त्रपौत्त्रै-
रृणन्देयमित्यविशेषेणर्णमात्रन्त्रिभिरेव देयमिति
नियतमेव । वाढमस्यैवोत्सर्गस्य पत्रारूढर्ण-
विषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं
वचनमारब्धम् । तथा हि । पत्रलक्षणमभिधाय
कात्यायनेनाभिहितम् । एवं कालमतिक्रान्तं
पितॄणान्दाप्यते ऋणमिति । इत्थं पत्रारूढ-
मतिक्रान्तकालमपि पितॄणामपि पितॄणां सम्बन्धि
दाप्यते । अत्र पितॄणामिति बहुवचननिर्द्देशात्
कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्यत इति
प्रतीयते । तथा हारीतेनापि । लेख्यं यस्य भवे-
द्धस्ते लाभन्तस्य विनिर्द्दिशेदिति । अत्रापि यस्य
हस्ते पत्रमस्ति तस्यर्णलाभ इति सामान्येन चतु-
र्थादिभ्योऽप्यृणलाभोऽस्तीति प्रतीयते । अतश्चै-
तदाशङ्कानिवृत्त्यर्थं एतद्वचनमिति युक्तम् । वचन-
द्बयन्तु योगीश्वरवचनानुसारेण योजनीयम् ॥ * ॥
अस्यापवादमाह । आधिस्तु भुज्यते तावद्-
यावत्तन्न प्रदीयते । सवन्धकेऽपि पत्रारूढे ऋणे
त्रिभिरेव देयमिति नियमादृणापकरणानधि-
कारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते ।
यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते ताव-
देवाधिर्भुज्यत इति वदता सवन्धकर्णापाकरणे
चतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्ययुक्त-
मेव फलभोग्यो न नश्यतीति सत्यम् । तदप्ये-
तस्मिन्न सत्यपवादवचने पुरुषत्रयविषयमेव
स्यादिति सर्व्वमनवद्यम् ॥ * ॥ प्रासङ्गिकं परि-
समाप्य प्रकृतमेवानुसरति ।
“देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धऽथवा च्छिन्ने लेख्यमन्यत्तु कारयेत् ॥”
व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्य्यादिति विधी-
यते । व्यवहाराक्षमत्वञ्चात्यन्तव्यवहितदेशान्त-
रस्थे पत्रे दुर्लेख्ये दुष्टानि सन्दिह्यमानानि
अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि
वा यस्मिंस्तद्दुर्लेख्यं तस्मिन्दुर्लेख्ये नष्टे कालवशेन
उन्मृष्टे मसीदौर्ब्बल्यादिना मृदिते लिप्यक्षरे
हृते तस्करादिभिर्भिन्ने विदलिते दग्धे अग्निना
छिन्ने द्विधा भूते सति द्विर्भवति । एतच्चार्थि-
प्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्यान्तु
व्यवहाराप्राप्तौ देशान्तरस्थपत्रानयनाध्याना-
पेक्षया कालो दातव्यः दुर्द्देशावस्थिते नष्टे वा
पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्य्यः ।
यथाह नारदः ।
“लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
सतस्तत्कालकरणमसतो दृष्टदर्शनम् ॥” इति ॥
सतो विद्यमानपत्रस्य देशान्तरस्थस्यानयनाय
कालकरणं कालावधिदातव्यः । असतः पुनर-
विद्यमानस्य पत्रस्य पूर्ब्बं ये द्रष्टारः साक्षिणस्तै-
र्दर्शनं व्यवहारपरिसमापनं कुय्यम् । यदा तु
साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्य्यः
अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्द्दिशेदिति
स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् ।
राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति ।
इयांस्तु विशेषः ।
“राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्रितन्तथा ।
राजकीयं स्मृतं लेख्यं सर्व्वेष्वर्थेषु साक्षिमत् ॥”
इति ॥ * ॥
तथान्यदपि राजकीयं जयपत्रं वृद्धवशिष्ठेनोक्तम् ।
यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।
सावधारणकञ्चैव जयपत्रकमिष्यते ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकमिति ॥
तथा । सभासदोऽपि मतं मेऽमुकपुत्त्रस्येति
स्वहस्तं दद्युः ।
“सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथा लेख्यविधौ तद्बत् स्वहस्तं दद्युरेव ते ॥”
इति मनुस्मरणात् ॥
सभासदाञ्च परस्परानुमतिव्यतिरेकेण व्यवहारो
निःशल्यो भवति । यथाह नारदः ।
“यत्र सभ्यो जनः सर्व्वः साध्ये तदिति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यस्त्वन्यथा
भवेत् ॥” इति ।
एतच्चतुष्पाद्व्यवहार एव ।
“साधयेत् साध्यमर्थं यच्चतुष्पादान्वितञ्च यत् ।
राजमुद्राङ्कितञ्चैव जयपत्रकमिष्यते ॥”
इति स्मरणात् ॥
यत्र तु हीनता यथा ।
“अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आह्रतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥”
इति ॥
तत्र न जयपत्रमस्ति अपि तु हीनपत्रमेव तच्च
कालान्तरे दण्डप्राप्त्यर्थं जयपत्रं तु प्राङ्न्याय-
विधिसिद्ध्यर्थमिति विशेषः । लेख्यसन्देहे
निर्णयनिमित्तान्याह ।
“सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखिता-
दिभिः ।
युक्तिप्राप्तिक्रियाचिह्रसम्बन्धागमहेतुभिः ॥”
शुद्धमशुद्धञ्चेति सन्दिग्धस्य लेख्यस्य शुद्धिः
स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं
यल्लेख्यान्तरन्तेन शुद्धिः । यदि सदृशान्यक्ष-
राणि भवन्ति तदा शुद्धिः स्यादित्यर्थः । आदि-
शब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसम्बा-
दाच्छुद्धिरिति । युक्त्या प्राप्तिर्युक्तिप्राप्तिः । देश-
कालपुरुषाणां द्रव्येण सह सम्बब्धः प्राप्तिः ।
अस्मिन्देशे अस्मिन् काले अस्य पुरुषस्येदं द्रव्यं
घटत इति युक्तिः । प्राप्तिः क्रिया तत्साक्ष्युप-
न्यासः । चिह्रमसाधारणं श्रीकारादि । सम्बन्धः
अर्थिप्रत्यर्थिनोः पूर्ब्बमपि परस्परविश्वासेन दान-
ग्रहणादिसम्बन्धः । आगमोऽस्यैतावतोऽर्थस्य
सम्भावितः प्राप्त्युपायः । एत एव हेतवः ।
एभिर्हेतुभिः सन्दिग्धलेख्यशुद्धिः स्यादित्यन्वयः ।
यदा तु लेख्ये सन्देहनिर्णयो न जायते तदा
साक्षिभिर्निर्णयः कार्य्यः । यथाह कात्यायनः ।
“दूषिते पत्रके वादी तदारूढांस्तु निर्द्दिशेत् ॥”
इति ।
साक्षिसम्भवविषयमिदं वचनम् । साक्ष्यसम्भव-
विषयन्तु हारीतवचनम् ।
“न मयैतत् कृतं पत्रं कूटमेतेन कारितम् ।
अधरीकृत्य तत् पत्रमथ दिव्येन निर्णयः ॥”
इति ॥ * ॥
एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा
कृत्स्नमेवर्णन्दातुमसमर्थस्तदा किं कर्त्तव्यमित्यत
आह ।
“लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् ।
धनी चोपगतं दद्यात् स्वहस्तपरिचिह्रितम् ॥”
यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा
शक्त्यनुसारेण दत्त्वा दत्त्वा पूर्व्वकृतस्य लेख्यस्य
पृष्ठेऽभिलिखेदेतावन्मया दत्तमिति । उत्तमर्णो
वा उपगतं प्राप्तं धनन्तस्यैव लेख्यस्य पृष्ठे दद्या-
दभिलिखेदेतावन्मया लब्धमिति । कथं स्वहस्त-
परिचिह्रितम् । स्वहस्तलिखिताक्षरचिह्रितम् ।
यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्रित-
मधमर्णायोत्तमर्णो दद्यात् ॥ * ॥ ऋणे तु कृत्स्ने
दत्ते लेख्यं किं कर्त्तव्यमित्यत आह ।
“दत्त्वर्णं पाटयेल्लेख्यं शुद्धौ चान्यत्तु कारयेत् ॥”
क्रमेण सकृदेव वा कृत्स्नमृणन्दत्त्वा पूर्व्वकृतं
लेख्यम्पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं
नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यलेख्यं
कारयेदुत्तमर्णमधमर्णः पूर्ब्बोक्तक्रमेणोत्तमर्णो
विशुद्धिपत्रं अधमर्णाय दद्यादित्यर्थः ॥ * ॥
ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्त्तव्य-
मित्यत आह ।
“साक्षिमच्च भवेत् यद्वा तद्दातव्यं ससाक्षिकम् ।”
यत्तु ससाक्षिकमृणन्तत् पूर्व्वसाक्षिसमक्षमेव
दद्यात् । इति लेख्यप्रकरणम् । इति मिता-
क्षरायां व्यवहाराध्यायः ॥

लेख्यचूर्णिका, स्त्री, (लेख्यस्य चूर्णिका ।) तूलिका

इति शब्दरत्नावली ॥

लेख्यपत्रः, पुं, (लेख्यं लेखार्हं पत्रं अस्य ।)

तालवृक्षः । इति भावप्रकाशः ॥ लेखनीय-
पत्रे, क्ली ॥

लेख्यस्थानं, क्ली, (लेख्यस्य स्थानम् ।) लिख्यते

यत्र । आफिस इति दप्तरखाना इति च
म्लेच्छभाषा । तत्पर्य्यायः । ग्रन्थकुटी २ । इति
शब्दरत्नावली ॥

लेण्डं, क्ली, गूथम् । ल्याड इति भाषा । यथा, --

“उत्ससर्ज्ज बृहल्लेण्डं मूत्रञ्च भयमाप ह ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे धेनुकासुरवधे
२२ अध्यायः ॥

लेप, ऋ ङ गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अलिलेपत् । ङ,
लेपते लिलेपे । इति दुर्गादासः ॥

लेपः, पुं, (लिप + घञ् ।) लेपनम् । (यथा, मार्क-

ण्डेये । ३५ । १५ ।
पृष्ठ ४/२३०
“भूमिर्विशुध्यते कालात् दाहमार्ज्जनगोक्रमैः ।
लपादुल्लेखनात् सेकाद्वेश्मसंमार्ज्जनार्च्चनात् ॥”)
भोजनम् । इति मेदिनी । पे, १० ॥ (लिप्यते-
ऽनेनेति ।) सुधा । इति विश्वः ॥ चुन इति भाषा ॥

लेपकः, पुं, (लिम्पतीति । लिप् + ण्वु ल् ।) जाति-

विशेषः । राज इति थैकर इति च भाषा ।
तत्पर्य्यायः । पलगण्डः २ । इत्यमरः ॥ लेपी ३ ।
इति शब्दरत्नावली ॥ लेप्यकृत् ४ । इति हेम-
चन्द्रः ॥ (लेपनकर्त्तरि, त्रि ॥)

लेपनं, क्ली, (लिप् + ल्युट् ।) लेपः । लेपा इति

भाषा । यथा, --
“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।
तत्र मां लेपयेद्गन्धलेपनैरतिशोभितम् ॥”
इति तिथ्यादितत्त्वम् ॥
विष्णुगृहलेपनफलं यथा, --
वराह उवाच ।
“शृणु तत्त्वेन मे देवि ! लिप्यमानस्य यत् फलम् ।
सर्व्वं ते कथयिष्यामि यथा प्राप्नोति मानवः ॥
गोमयं गृह्य वै भूमे मम वेश्मोपलेपयेत् ।
न्यस्तानि तत्र यावन्ति पदानि च विलिम्पतः ॥
तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ।
यदि द्बादश वर्षाणि लिप्यते मम कर्म्मसु ॥
जायते विपुले शुद्धे धनधान्यसमाकुले ॥
दिव्यैर्नमस्कृतो देवि ! कुशद्वीपाय गच्छति ।
कुशद्वीपमनुप्राप्य सहस्रं जीवते दश ।
मद्भक्तश्चैव जायेत महिमागुणवान् शुचिः ॥
कुशद्वीपात् परिभ्रष्टो मम कर्म्मपरायणः ।
राजा वै जायते सुभ्रु सर्व्वधर्म्मेषु निष्ठितः ॥
लेपनस्य प्रभावेण मम कर्म्मपरायणः ।
भक्त्या व्यवस्थितश्चापि सर्व्वशास्त्राणि गच्छते ॥
देवि ! कारयते सर्व्वं मम चायतनानि च ॥
कारयित्वा यथान्यायं मम लोकाय गच्छति ॥
गोमयस्य तु वक्ष्यामि तच्छृणुष्व वसुन्धरे ।
गोमयन्तु समासाद्य यावल्लोकोऽनुगच्छति ॥
समीपे यदि वा दूरे गत्वानयति गोमयम् ।
यावन्ति तत्पदान्यस्य तावद्बर्षसहस्रकम् ।
गोमयानयिता चैव स्वर्गलोके महीयते ॥
एकादशसहस्राणि एकादशशतानि च ।
ततः स शाल्मले द्वीपे रमते च मुदा युतः ॥
शाल्मलात्तु परिभ्रष्टो राजा भवति धार्म्मिकः ।
मद्भक्तश्चैव जायेत सर्व्वधर्म्मविदांवरः ॥
अथ द्वादशवर्षाणि मच्चित्तः सुदृढव्रतः ।
वहते गोमयं सुभ्रु मम लोकाय गच्छति ॥”
इति वराहपुराणम् ॥
देवीगृहलेपनफलं यथा, --
“देव्या गृहन्तु यः शुक्र गोमयेनानुलेपयेत् ।
स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त-
रम् ।
स लभेदीप्सितान् कामान् देव्या लोकञ्च
गच्छति ॥”
देवीपुराण ४२ अध्यायः ॥
(रात्रौ लेपननिवधो यथा, --
“न रात्रौ लेपनं कुर्य्यात् शुष्कमाणं न धार-
येत् ।
शुष्कमाणमुपेक्षेत प्रदेहे पीडनं प्रति ॥”
इति मध्यखण्डे त्रयोविंशेऽध्याये शार्ङ्गधरे-
णोक्तम् ॥)

लेपनः, पुं, (लिम्पत्यनेनेति । लिप् + करणे ल्युट् ।)

तुरुष्कनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

लेपी [न्] पुं, (लिम्पतीति । लिप् + णिनिः ।)

लेपकः । थैकंर इति भाषा । इति शब्दरत्ना-
वली ॥ लेपकर्त्तरि लेपविशिष्टे च त्रि ॥

लेप्यं, त्रि, (लिप् + ण्यत् ।) लेपनीयम् । लेप्त-

व्यम् । लिपधातोः कर्म्मणि यप्रत्ययेन निष्पन्नम् ॥
(यथा, भागवते । ११ । २७ । १२ ।
“शैली दारुमयी लौही लेप्या लेख्या च
सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥”)

लेप्यकृत्, पुं, (लेप्यं करोतीति । कृ + क्विप् ।)

लेपकः । इति हेमचन्द्रः । ३ । ५८६ ॥

लेप्यमयी, स्त्री, (लेप्य + मयट् । ङीप् ।) काष्ठादि-

घटितपुत्तलिका । तत्पर्य्यायः । अञ्जलि-
कारिका २ । इति हेमचन्द्रः ॥

लेप्यस्त्री, स्त्री, (लेप्या स्त्री ।) सुगन्धद्रव्यलिप्ता

स्त्री । इति शब्दरत्नावली ॥

लेयः, पुं, सिंहराशिः । इति ज्योतिस्तत्त्वम् ॥

लेलिहानः, पुं, (पुनःपुनरतिशयेन वा लेढीति ।

लिह् + यङ् + शानच् ।) शिवः । इति शब्द-
रत्नावली ॥ सर्पः । इति हेमचन्द्रः ॥ पुनःपुन-
र्लेहनकर्त्तरि, त्रि ॥ (यथा, महाभारते । १ ।
२३३ । ५ ।
“सप्तजिह्वाननः क्रूरो लेलिहानो विसर्पति ॥”)

लेलिहाना, स्त्री, (लेलिहान + स्त्रियां टाप् ।)

मुद्राषिशेषः । यथा, --
“वक्त्रं विस्तारितं कृत्वाप्यधो जिह्वाञ्च चाल-
येत् ।
पार्श्वस्थं मुष्टियुगलं लेलिहानेति कीर्त्तिता ॥”
एषा ताराराधने । अन्या लेलिहाना वक्तव्या ।
“योनिर्म्मायाधरः सेन्दुर्वधूः कूर्च्चं क्रमाद्विदुः ॥
बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमाचरेत् ।
तर्ज्जनीमध्यमानामाः समं कुर्य्यादधोमुखम् ॥
अनामायां क्षिपेद्वृद्धां ऋज्वीं कृत्वा कनि-
ष्ठिकाम् ।
लेलिहानाख्यमुद्रेयं जीवन्यासे प्रकीर्त्तिता ॥”
इति तन्त्रसारः ॥

लेशः, पुं, (लिश् + घञ् ।) कणा । इत्यमरः ॥

(यथा, महाभारते । १२ । ५८ । २४ ।
“एष ते राजधर्म्माणां लेशः समनुवर्णितः ॥”)

लेष्टुः, पुं, (लिश्यते इति । लिश् + बाहुलकात्

तुन् ।) लोष्टम् । इत्यमरः ॥ (यथा, महाभारते ।
१३ । ३४ । २६ ।
“अथ यो ब्राह्मणान् क्रुष्टः पराभवति सोऽ-
चिरात् ।
यथा महार्णवे क्षिप्त आमलेष्टुर्व्विनश्यति ”)

लेष्टुघ्नः, पुं, (लेष्टुं हन्तीति । हन् + टक् ।

लेष्टुभेदनः । इति शब्दरत्नावली ॥

लेष्टुभेदनः, पुं, (लेष्टुं भिनत्तीति । भिद् + ल्युट् ।)

लोष्टभङ्गसाधनमुद्गरः । मै इति ख्यातः ।
इति केचित् । इति भरतः ॥ तत्पर्य्यायः
कोटिशः २ । इत्यमरः ॥ कोटीशः ३ । इति
रत्नकोषः ॥ लेष्टुघ्नः ४ लेष्टुभेदी ५ चूर्णदण्डः ६ ।
इति शब्दरत्नावली ॥

लेसिकः, पुं, हस्त्यारोहकः । तत्पर्य्यायः । कटि-

रोहकः २ । इति शब्दमाला ॥

लेहः, पुं, (लेहनमिति । लिह् + घञ् ।)

आहारः । भक्षणम् । इति हेमचन्द्रः ॥ तत्-
पर्य्यायः । स्वादनम् २ रसनम् ३ स्वदनम् ४
स्वदिः ५ । इति राजनिर्घण्टः ॥ (यथा, बृहत्-
संहितायाम् । ५ । ४३ ।
“सव्यापसव्यलेहग्रसननिरोधावमर्द्दनारोहाः ।
आघ्रातं मध्यतमस्तमोऽन्य इति ते दश
ग्रासाः ॥”
कर्म्मणि घञ् । रसः । यथा, सुश्रुते । १ । ४४ ।
“पचेल्लेहं सिता क्षौद्रं पलार्द्धकुडवान्वितम् ॥”
लेढीति । लिह् + पचाद्यच् । लेहनकर्त्तरि, त्रि ।
यथा, भट्टिः । ६ । ८२ ।
“दह्येऽहं मधुनो लेहैर्द्दावैरुग्रैर्यथा गिरिः ॥”
अवलेहः । तत्पर्य्यायो यथा, --
“क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारस-
क्रिया ।
सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात् पलो-
न्मिता ॥
सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः ।
द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥”
इति मध्यखण्डेऽष्टमेऽध्याये शार्ङ्गधरेणोक्तम् ॥”)

लेहनं, क्ली (लिह् + ल्युट् ।) जिह्वया रस-

ग्रहणम् । चाटन इति भाषा । तत्पर्य्यायः ।
जिह्वास्वादः २ । इति हेमचन्द्रः ॥

लेहिनः, पुं, (लिह् + बाहुलकात् इनन् ।) टङ्क-

णम् । इति हेमचन्द्रः ॥

लेह्यं, क्ली, (लिह् + ण्यत् ।) अमृतम् । इति

शब्दमाला ॥ लेहनीये, त्रि ॥ (यथा, कथा-
सरित्सागरे । ४५ । २३० ।
“तत्तन्नानाविधं भक्ष्यभोज्यलेह्यादि षड्रसम् ।
दिव्यमम्नं बुभुजिरे पपुः पानमथोत्तमम् ॥”
आहारविशेषो यथा, --
“आहारं षड्विधञ्चूष्यं पेयं लेह्यन्तथैव च ।
भोज्यं भक्ष्यन्तथा चर्व्व्यं गुरु विद्याद्यथोत्त-
रम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लैङ्गं, क्ली, (लिङ्गमधिकृत्य कृतो ग्रन्थ इति ।

लिङ्गस्येदमिति वा । लिङ्ग + अण् ।) लिङ्ग-
पुराणम् । यथा, --
“मात्स्यं कौर्म्म्यंतथालैङ्गं शैवं स्कान्दन्तथैव च ॥”
इत्यादि पाद्मोत्तरखण्डे ३४ अध्यायः ॥
(अस्य विवरणादिकं पुराणशब्दे द्रष्टव्यम् ॥)
पृष्ठ ४/२३१

लैङ्गी, स्त्री, लिङ्गिनी । इति राजनिर्घण्टः ॥ लिङ्ग

सम्बन्धिनि, त्रि ॥

लोक, ऋ क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) ऋ, अलुलोकत् । क,
लोकयति । इति दुर्गादासः ॥

लोक, ऋ ङ ईक्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अलुलोकत् । ङ,
लोकते । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकाम-
विस्तारफलं हरिण्यः । इत्यादौ विलोकनं
विलोकः पश्चात् तं करोतीति ञौ साध्यम् ।
इति दुर्गादासः ॥

लोकः, पुं, (लोक्यते इति । लोक् + घञ् ।) भुव-

नम् । जनः । इत्यमरः ॥ सप्तलोकनामानि
यथा, --
“भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव च ।
सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ॥”
इत्यग्निपुराणम् ॥
अपि च ।
“भूर्लोको भुवः स्वर्लोकस्त्रैलोक्यमिदमुच्यते ।
महर्ज्जनस्तपः सत्यः सप्त लोकाः प्रकीर्त्तिताः ॥
भूर्लोकः पार्थिवो लोकः अन्तरीक्षं भुवः
स्मृतः ।
भाव्यो लोको दिवि ह्येतच्छेषादूर्द्ध्वं यथाक्रमम् ॥
भूतस्याधिपतिर्ह्यग्निस्ततो भूतपतिस्तु सः ।
वायुर्नभसोऽधिपतिस्तेन वायुर्नभस्पतिः ।
भाव्यस्य सूर्य्याधिपतिस्तेन सूर्य्यो दिवस्पतिः ॥
गन्धर्व्वाप्सरसश्चैव गुह्यकाः सह राक्षसैः ।
भूर्लोकवासिनः सर्व्वे अन्तरीक्षचरान् शृणु ॥
मरुतः सप्तभिः स्कन्दै रुद्रास्तथैव चाश्विनौ ।
आदित्या वसवः सर्व्वे तथैव च गवाङ्गनाः ॥
चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः ।
प्रजानां पतिभिः सर्व्वैः सेव्यते पञ्चमो महान् ॥
मनुः सनत्कुमाराद्या वैराजश्च सुतास्त्रयः ।
षष्ठे तु संस्थिता ह्मेते देवा देवविरोधकाः ॥
सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् ।
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥
महीतलात् सहस्रांशस्तत ऊर्द्ध्वं दिवाकरः ।
दश तानि ध्रुवे यावद्द्बिगुणे द्बिगुणान्तरे ॥
दशयोजनकोट्यास्तु मेरुरूर्द्ध्वं ध्रुवः स्मृतः ।
त्रयोविंशतिलक्षाणि त्रैलोक्येशैक उच्यते ॥
द्विगुणेषु सहस्रेषु योजनानां शतेषु च ।
लोकान्तरमथैवैकं ध्रुवादूर्द्ध्वं विधीयते ॥
देवदानवगन्धर्व्वयक्षराक्षसपन्नगाः ।
भूतविद्याधराश्चैव अष्टौ ते देवयोनयः ॥
ते ब्रह्माण्डस्य मध्यस्थाः परतस्तमसावृतम् ।
ततोऽग्निवायुराकाशं ततो भूतादिरुच्यते ॥
ततो महान् प्रधानञ्च प्रकृतिः पुरुषस्ततः ।
पुरुषादीश्वरो ज्ञेयो यस्य शक्त्यावृतं जगत् ।
शिवोमाभानुदेवानां परापरतरा मताः ॥”
इति देवीपुराणे त्रैलोक्याभ्युदये ग्रहगति-
र्नामाध्यायः ॥ * ॥ दिक्पालानां लोका यथा,
“प्रजापतिस्तु भगवान् गुणतः प्रेक्ष्य देवताम् ।
आघिपत्येषु शुक्लेषु न्ययोजयत योगवित् ॥
त्रयाणामपि लोकानां देवतानां द्विजोत्तमाः ।
चकार शक्रं राजानं दैत्यानां दितिपूर्ब्बजम् ॥
पूर्ब्बस्यां कौशिको राजा दक्षिणस्यां यमो
दिशि ।
वरुणः पश्चिमायान्तु उत्तरस्यां सदा धनी ॥” * ॥
पुण्यवतां लोका यथा, --
“एवं विभज्य राज्यानि पुरा प्रोक्तानि यानि च ।
लोकांश्च विदधे दिव्यान् ददावथ पृथक् पृथक् ॥
कस्यचित् सूर्य्यसङ्काशान् कस्यचिद्वह्रिनिर्म्म-
लान् ।
कस्यचिद्धिष्ण्यविद्योतान् कस्यचिच्चन्द्रनिर्म्म-
लान् ॥
नानावर्णान् काममयाननेकशतयोजनान् ।
स तान् सुकृतिनां लोकान् पावनाय च संस्थि-
तान् ॥
भानूर्द्ध्वे ये तपस्यन्ति सौम्यास्तारागणाः सदा ।
एते सुकृतिनां लोका ये शान्ताः पुण्यकर्म्मभिः ।
ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः ।
स्वदारनिरता दान्ता ऋजवः सत्यवादिनः ॥
दीनानुग्रहकर्त्तारो ब्रह्मण्या लोकपूजिताः ।
योगयुक्ता महात्मानो यान्ति तत्र तपोज्ज्वलाः ॥
सर्व्वं सहाः क्षमायुक्ता कोपिता ये तमोजिताः ।
एवं नियोज्य तनयान् स्वयं लोकपितामहः ।
पौष्करं ब्रह्मसदनमारुरोह प्रजापतिः ॥
सर्व्वे स्वयम्भुदत्तेषु पावनेषु दिवौकसः ।
रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः ॥”
इति वह्रिपुराणे वाराहप्रादुर्भावनामाध्यायः ॥
(जनार्थे विषयोऽस्य यथा, --
“यथा लोकस्य स्वार्गादिस्तथा पुरुषस्य गर्भा-
धानं यथा कृतयुगमेवं बाल्यम् । यथा त्रेता
तथा यौवनं यथा द्वापरस्तथा स्थाविर्य्यं यथा
कलिरेवमातुर्य्यं यथा युगान्तस्तथा मरणमित्येव-
मनुमानेनानुक्तानामपि लोकपुरुषयोरवयव-
विशेषाणामग्निवेशसामान्यं विद्यात् ।”
“तत्र संयोगापेक्षी लोकशब्दः षड्धातुसमुदायो
हि सामान्यतः सर्व्वलोकः । तस्य हेतुरुत्-
पत्तिर्वृद्धिरुपप्लवो वियोगश्च तत्र हेतुरुत्पत्ति-
कारणं उत्पत्तिर्जन्म वृद्धिराप्यायनं उपप्लवो
दुःखागमः षड्धातु विभागो वियोगः स
जीवापगमः स प्राणनिरोधः स भङ्गः स लोक-
स्वभावः ।” इति चरके शारीरस्थाने पञ्चमे-
ऽध्याये ॥
“तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य
द्वैविध्यात् । लोकोहि द्विविधः स्थावरो
जङ्गमश्च । द्बिविधात्मक एवाग्नेयः सौम्यश्च
तद्भूयस्त्वात् । पञ्चात्मको वा ।” इति सुश्रुते
सूत्रस्थाने प्रथमेऽध्याये ॥ * ॥)

लोककान्ता, स्त्री, (लोकानां कान्ता प्रिया ।)

ऋद्धिनामौषधम् । इति राजनिर्घण्टः ॥
(लोकप्रिये, त्रि । यथा, गो० रामायणे ।
२ । ३८ । ६ ।
“लोककान्तं प्रियं पुत्त्रं कुशचीराम्बरं वनम् ।
प्रस्थितं पश्यतो मेऽद्य हृदयं किं न दीर्य्यते ॥”)

लोकचक्षुः, [स्] क्ली, (लोकानां चक्षुरिव ।)

सूर्य्यः । इति शब्दमाला ॥ जनस्य लोचनञ्च ॥

लोकजित्, पुं, (लोकं जितवानिति । जि + क्विप् ।)

बुद्धः । इत्यमरः ॥ (लोकजेतरि, त्रि । यथा,
शतपथब्राह्मणे । १४ । ४ । १ । ३३ ।
“यं कामं कामयते तमागायति तद्वै तल्लोक-
जिदेव ॥”)

लोकतुषारः, पुं, (लोके तुषार इव ।) कर्पूरः ।

इति राजनिर्घण्टः ॥ (कर्पूरशब्देऽस्य गुणादिकं
ज्ञातव्यम् ॥)

लोकनाथः, पुं, (लोकानां नाथः ।) बुद्धः । इति

त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् । १ ।
१३८ ।
“लोके भगवतो लोकनाथादारभ्य केचन
ये जन्तवो गतक्लेशान् बोधिसत्तानवेहि तान् ॥”)
ब्रह्मा । इति शब्दरत्नावली ॥ विष्णुः । इति
तस्य सहस्रनामस्तोत्रम् ॥ शिवः । यथा, --
“अकिञ्चनः सन् प्रभवः स सम्पदां
स लोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्य्यते
न सन्ति याथार्थ्यविदः पिणाकिनः ॥”
इति कुमारसम्भवम् ॥
(तथा च महालिङ्गार्च्चनतन्त्रे शिवशतनाम-
स्तोत्रे ।
“त्रैलोक्ये लोकनाथश्च रुद्रलोके महेश्वरः ॥”
वटिकौषधविशेषः । तद्यथा, --
“पारदं गन्धकञ्चैव समभागं विचूर्णयेत् ।
मृताभ्रं रसतुल्यञ्च पुनस्तेनैव मर्द्दयेत् ॥
रसाद्द्विगुणलौहञ्च लौहतुल्यञ्च ताम्रकम् ।
भस्मवराटिकायाश्च ताम्रतस्त्रिगुणं क्षिपेत् ॥
नागवल्लीदलेनैव मर्द्दयेद्यत्नतो भिषक् ।
पचेद्गजपुटेनैव स्वाङ्गशीतं समुद्धरेत् ॥
यकृत्प्लीहोदरहरः गुल्मश्वयथुनाशनः ।
पिप्पलीमधुसंयुक्तां सगुडां वा हरीतकीम् ॥
गोमूत्रञ्च पिबेच्चानु गुडं वा जीरकान्वि-
तम् ॥”
इति लोकनाथो रसः ॥ इति वैद्यकरसेन्द्रसार-
संग्रहे यकृत्प्लीहाधिकारे ॥ * ॥ लोकप्रभौ,
त्रि । यथा, गो ० रामायणे । २ । ३३ । १६ ।
“लोकनाथस्य रामस्य पीडया पीडितं जगत् ।
अपर्व्वणीव सोमस्य राहुग्रहणपीडया ॥”)

लोकपालः, पुं, (लोकान् पालयतीति । पाल +

णिच् + अण् ।) राजा । इति हलायुधः ॥
(यथा, राजतरङ्गिण्याम् । १ । ३४९ ।
“उत्तमो लोकपालोऽयमिति लक्ष्म प्रशस्तिषु ।
यः प्राप्तवान् विना यज्ञं चक्षमे न पशुक्षयम् ॥”)
दिक्पालः । यथा, --
“इन्द्रो वह्रिः पितृपतिर्निरृतिर्वरुणोऽनिलः ।
धनदः शङ्करश्चैव लोकपालाः पुरातनाः ॥”
इति वह्निपुराणम् ॥
पृष्ठ ४/२३२
(यथा च, मनुः । ५ । ९६ ।
“सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ।
अष्टानां लोकपालानां वपुर्धारयते नृपः ॥”)

लोकबान्धवः, पुं, (लोकानां बान्धवः ।) सूर्य्यः ।

इति जटाधरः ॥

लोकबाह्यः, पुं, (लोकात् लोकसमाजात् बाह्यः ।)

सर्व्वाचारवर्ज्जितः । यथा, --
“लोकबाह्यस्तु यो वाजिगवाश्याचारवर्ज्जितः ॥”
इति जटाधरः ॥

लोकमाता, स्त्री, (लोकानां मातेव ।) लक्ष्मीः ।

इत्यमरः ॥ (लक्षणया लोकजननीसमापि च ।
यथा, भागवते । २ । ३ । ५ ।
“प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥”)

लोकलोचनं, क्ली, (लोकानां लोचनमिव ।) सूर्य्यः ।

इति शब्दरत्नावली ॥ (जनस्य लोचनञ्च ।
कथा, कथासरित्सागरे । १८ । ९२ ।
“सोऽश्वस्तत्पार्ष्णिघातेन यन्त्रेणेवेरितः शरः ।
जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ॥”)

लोकविनायकः, पुं, (लोके विनायक इव ।) ग्रह-

विशेषः । यथा, --
“स्कन्दग्रहादयो ये च आर्य्यकत्रासकादयः ।
कौभारास्ते भूवि ज्ञेया ये च लोकविनायकाः ।
सहस्रशतसंख्याता मर्त्यलोकविचारिणः ॥”
इति वह्निपुराणम् ॥

लोकविश्रुतिः, स्त्री, (लोके विश्रुतिः ।) जनश्रुतिः ।

किंवदन्ती । इति केचित् ॥

लोकायतं, क्ली, (लोकेषु आयतं विस्तीर्णमिव ।)

तर्कभेदः । चार्वाकशास्त्रम् । इत्यमरभरतौ ॥

लोकायतिकः, पुं, (लोकायतं शास्त्रमस्त्यस्येति ।

लोकायत + ठन् ।) चार्व्वाकः । इति हेम-
चन्द्रः ॥ (तार्किकः । यथा, हरिवंशे । २४९ । ३० ।
“ऐक्यनामात्मसंयोगसमवायविशारदैः ।
तोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ॥”)

लोकालोकः, पुं, (लोक्यतेऽसौ इति लोकः । न

लोक्यतेऽसौ इति अलोकः । ततः कर्म्म-
धारयः ।) स्वनामख्यातपर्व्वतः । तत्पर्य्यायः ।
चक्रवाडः २ । इत्यमरः ॥ द्वे साब्धिद्बीपां
महीमावेष्ट्य प्राकारवत् स्थिते गिरौ लोकालोक
इति स्वनामख्याते । अन्तर्लोक्यते सूर्य्यरश्मिभिः
स्पृश्यमानत्वात् इति लोकः । तथा बहिः
मूर्य्यकिरणास्पर्शात् न लोक्यते इति अलोकः ।
लोकृ ञीक्षे कर्म्मणि घञ् लोकश्चासौ अलोक-
श्चेति लोकालोकः । चक्रं महीचक्रं वण्डते
वेष्टयति चक्रवाडः । वडि ङ वेष्टे च षण्-
ज्ञापकसिद्धस्यानित्यत्वात् न नुण् । इति भरतः ॥
(यथा, रघुः । १ । ६८ ।
“मोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥”
अस्य विवरणं यथा देवीभागवते । ८ । १४ । १-१५ ।
श्रीनारायण उवाच ।
“ततः परस्तादचलो लोकालोकेति नामकः ।
अन्तराले च लोकालोकयोयः परिकल्पितः ॥
यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् ।
सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥
दर्पणोदरतुल्या सा सर्व्वप्राणिविवर्ज्जिता ।
यस्यां पदार्थः प्रहितो न किञ्चित् प्रत्युदीयते ॥
अतः सर्व्वप्राणिसङ्घरहिता सा च नारद ! ।
लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥
लोकालोकान्तरे चास्य वर्त्तते सर्व्वदा स्थितिः ।
ईश्वरेण सलोकानां त्रयाणामन्तगः कृतः ॥
सूर्य्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह ।
अर्व्वाचीनाश्च त्रीँ ल्लोकानातन्वानाः कदापि
हि ॥
पराचीनत्वभाजो हि न भवन्ति च नारद ! ।
तावदुन्नहनायामः पर्व्वतेन्द्रो महोदयः ॥
एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः ।
कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥
भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने ! ।
तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥
निवेशिता दिग्गजा ये तन्नामानि निबोधत ।
ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥
एते समस्तलोकस्य स्थिहिहेतव ईरिताः ।
तेषाञ्च स्वविभूतीनां बहुवीर्य्योपबृंहणम् ॥
विशुद्धसत्त्वञ्चैश्वर्य्यं वर्द्धयन् भगवान् हरिः ।
आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥
निजायुधैः परिवृतो भुजदण्डैः समं ततः ।
आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥
आकल्पमेवं वेशं स गतो विष्णुः सनातनः ।
स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥
योऽन्तर्व्विस्तार एतेन ह्यलोकपरिमाणकम् ।
व्याख्यातं यद्बहिर्लोकालोकाचल इती-
रणात् ॥” * ॥
लोकश्च अलोकश्च तौ । सूर्य्याद्यालोकविशिष्ट-
तद्रहितदेशौ । अत्र द्बिवनप्रयोगः स्यात् ।
यथा, भागवते । ५ । २० । ३४ ।
“ततः परस्तात् लोकालोकनामाचलो लोका-
लोकयोरन्तराले परित उपकॢप्तः ॥”)

लोकेशः, पुं, (लोकानामीशः ।) ब्रह्मा । इत्य-

मरः ॥ बुद्धभेदः । इति त्रिकाण्डशेषः ॥
पारदः । इति राजनिर्घण्टः ॥ (इन्द्रः । यथा,
रघुः । ३ । ६६ ।
“यथा च वृत्तान्तमिमं सदोगत-
स्तिलोचनैकांशतया दुरासदः ।
तवैव सन्देशहराद्विशांपतिः
शृणोति लोकेश ! तथा विधीयताम् ॥”
लोकपालः । यथा, मनुः । ५ । ९७ ।
“लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।
शौचाशौचं हि मर्त्तानां लोकेशप्रभवाप्ययम् ॥”
लोकाधिपतौ, त्रि । यथा, भागवते । ३ ।
६ । १९ ।
“पादावस्य विनिर्भिन्नौ लोकेशो विष्णुरावि-
शत् ॥”)

लोकेश्वरः, पुं, (लोकानामीश्वरः ।) बुद्धभेदः ।

इति त्रिकाण्डशेषः ॥ भुवनानां जनानां
प्रभुश्च ॥ (यथा, महाभारते । ३ । ११४ । १९ ।
“अवसीदच्च कौन्तेय दत्तमात्रा मही तदा ।
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥”)
लाकपालः । यथा, महाभारते । ८ । ३४ । २९ ।
“ग्रहनक्षत्रताराभिश्चर्म्म चित्रं नभस्तलम् ।
सुराम्बुप्रेतवित्तानां पतीन् लोकेश्वरान्
हयान् ॥”)

लोकेश्वरात्मजा, स्त्री, (लोकेश्वरस्य बुद्धस्य आत्म-

जेव ।) बुद्धशक्तिभेदः । तत्पर्य्यायः । तारा २
महाश्रीः ३ ओङ्कारा ४ स्वाहा ५ श्रीः ६
मनोरमा ७ तारिणी ८ जया ९ अनन्ता १०
शिवा ११ खदूरवासिनी १२ भद्रा १३ वैश्या १४
नीलसरस्वती १५ शङ्खिनी १६ महातारा १७
वसुधारा १८ धनन्ददा १९ त्रिलोचना २०
लोचना २१ । इति हेमचन्द्रः ॥

लोच, ऋ क भासि । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सेट् ।) ऋ, अलुलोचत् ।
भासि दीप्तौ । किन्तु पुरुषोत्तमशरणदेवौ भाष
इति मूर्द्धन्यषकारं मत्वा वचनार्थमाहतुः ।
इति दुर्गादासः ॥

लोच, ऋ ङ ईक्षे । इति दुर्गादासः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ईक्षः पर्य्यालोचनं प्रणि-
धानमिति यावत् । ऋ, अलुलोचत् । ङ, लोचते
कार्य्यं सुधीः । इति दुर्गादासः ॥

लोचं, क्ली, (लोचते पर्य्यालोचयति सुखदुःखा-

दिकमिति । लोच + अच् ।) अश्रु । इति
जटाधरः ॥

लोचकः, पुं, (लोचते इति । लोच + ण्वुल् ।)

मांसपिण्डम् । अक्षितारका । कज्जलम् ।
स्त्रीणां ललाटाभरणम् । कदली । नीलवस्त्रम् ।
निर्ब्बुद्धिः । कर्णपूरः । मूर्व्वी । भ्रूश्लथचर्म्म ।
इति मेदिनी । के, ५० ॥ निर्म्मोकः । इति
शब्दरत्नावली ॥

लोचनं, क्ली, (लोचतेऽनेनेति । लोच + ल्युट् ।)

चक्षुः । इत्यमरः ॥ तस्य शुभाशुभलक्षणं
यथा, --
“वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः ।
मार्जारलोचनैः पापो महात्मा मधुपिङ्गलैः ॥
क्रूराः केकरनेत्राश्च हरिणाक्षाः सकल्मषाः ।
जिह्मैश्च लोचनैः क्रूराः सेनान्यो गजलोचनाः ॥
गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः ।
नीलोत्पलाक्षा विद्वांसः सौभाग्यं श्यावचक्षु-
षाम् ॥
स्यात् कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल ।
मण्डलाक्षाश्च पापाः स्युर्निःस्वाः स्युर्दीर्घ-
लोचनाः ॥
दृक् स्निग्धा विपुला भोगे अल्पायुर्नाभि-
रुन्नता ।
विशालोन्नता सुखिनो दरिद्रा विषमभ्रुवः ॥”
इति गारुडे ६५ अध्यायः ॥

लोचनहिता, स्त्री, (लोचनाभ्यां हिता ।) तुत्थाञ्ज

नम् । इति राजनिर्घण्टः ॥
पृष्ठ ४/२३३

लोचना, स्त्री, (लोचते पर्य्यालोचयतीति । लोच

+ ल्युः । टाप् ।) बुद्धशक्तिभेदः । अस्याः प्रमाणं
पर्य्यायाश्च लोकेश्वरात्मजाशब्दे द्रष्टव्याः ॥

लोचनामयः, पुं, (लोवनयोरामयः ।) चक्षूरोग-

विशेषः । तत्पर्य्यायः । अभिमन्थः २ । इति
त्रिकाण्डशेषः ॥

लोचनी, स्त्री, (लोच्यतेऽसौ । लोच् + ल्युट् ।

ङीप् ।) महाश्रावणिका । इति राज-
निर्घण्टः ॥

लोचमर्कटः, पुं, लोचमस्तकः । इत्यमरटीकायां

स्वामी ॥

लोचमस्तकः, पुं, (लोचं दृश्यं मस्तकं मयूरशिखेव

यस्य ।) मयूरशिखौषधम् । रुद्रजटा इति
ख्यातः । क्षेत्रयमानिकेति केचित् । तत्पर्य्यायः ।
खराश्वा २ कारवी ३ दीप्यः ४ भयूरः ५ ।
इत्यमरः ॥ लोचमर्कटः ६ । इति भरतः ॥

लोचिका, स्त्री, दधिघृतमर्द्दितोष्णोदकसहित-

दलितमण्डलाकारनिर्म्मितघृतभृष्टसमिता । लुचि
इति भाषा । इति पाकराजेश्वरः ॥

लोट, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अलुलोटत् । लोटति
लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

लोटुलः, पुं, (लोटतीति । लोट् + बाहुलकात्

उलच् ।) अभिलोटकः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

लोड, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अलुलोडत् । इति
दुर्गादासः ॥

लोणतृणं, क्ली, (लोणं लवणरसयुक्तं तृणम् ।)

लवणतृणम् । इति राजनिर्घण्टः ॥

लोणा, स्त्री, (लवणमस्त्यस्या इति । अच् । टाप् ।

पृषोदरादित्वात् साधुः ।) क्षुद्राम्लिका । इति
राजनिर्घण्टः ॥ (तथास्याः पर्य्यायः ।
“लोणा लोणी च कथिता बृहल्लोणी तु
घोटिका ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लोणारं, क्ली, (लवणं ऋच्छतीति । लवण + ऋ +

अण् । पृषोदरादित्वात् साधुः ।) क्षारविशेषः ।
तत्पर्य्यायः । लवणोत्थम् २ लवणाकरजम् ३
लवणमदः ४ जलजम् ५ लवणक्षारः ६ लवणः ७ ।
अस्य गुणाः । अत्युष्णत्वम् । तीक्ष्णत्वम् । पित्त-
वृद्धिकारित्वम् । क्षारत्वम् । ईषल्लवणत्वम् । वात-
गुल्मादिशूलनाशित्वञ्च । इति राजनिर्घण्टः ॥

लोणाम्ला, स्त्री, क्षुद्राम्लिका । इति राजनिर्घण्टः ॥

लोतं, क्ली, (लुनातीति । लू + “हसिमृग्रिणिति ।”

उणा० ३ । ८६ । इति तन् ।) स्तेयधनम् ।
तत्पर्य्यायः । लोप्त्रम् २ । इति जटाधरः ॥
लोप्त्री ३ लोत्रम् ४ लुम्पम् ५ । इति शब्दरत्ना
वली ॥

लोतः, पुं, क्ली, (लुनातीति । लू + “हसिमृग्रि-

णिति ।” उणा० ३ । ८६ । इति तन् ।) नेत्राम्बु ।
इति त्रिकाण्डशेषः ॥ चिह्नम् । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ लवणम् । अश्रुपातः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

लोत्रं, क्ली, (लूनातीति । लू + “सर्व्वधातुभ्यष्ट्रन् ।”

उणा० ४ । १५८ । इति ष्ट्रन् । यद्बा, ला +
“अशित्रादिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ ।
इति उत्रः । इत्युज्ज्वलः ।) लोतम् । इति
शब्दरत्नावली ॥ नेत्रजलम् । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

लोधः, पुं, (रुणद्धीति । रुध + अच् । रस्य लः ।)

स्वनामख्यातवृक्षः । रक्तवर्णस्य तस्य पर्य्यायः ।
तिरीटः २ मार्ज्जनः ३ रक्तः ४ लोध्रः ५
तिन्दुकः ६ । श्वेतस्य तस्य पर्य्यायः । शुक्लः २
शवरलोध्रः ३ महालोध्रः ४ शावरः ५ । इति
रत्नमाला ॥ अस्य गुणाः । अस्रकफवात-
नाशित्वम् । चक्षुष्यत्वम् । शोथजित्त्वम् । सर-
त्वञ्च । इति राजवल्लभः ॥

लोध्रः, पुं, (रुणद्धीति । रुध + बाहुलकात् रन् ।

रस्य लः ।) लोधवृक्षः । (यथा, शिशुपाल-
वधे । ९ । ४६ ।
“अधरेष्वलक्तकरसः सुदृशां
विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयो-
र्विभिदे न शङ्खनिहितात् पयसः ॥”)
तत्पर्य्यायः । गालवः २ शावरः ३ तिरीटः ४
तिल्वः ५ मार्जनः ६ । इत्यमरः ॥ षट् लोध्र-
मात्रे लोध इति ख्याते । षट् श्वेतलोध्र इति
सुभूतिः ॥ आद्यपादः श्वेतलोध्रे शेषो रक्तलोध्र
इति स्वामी ॥ तस्य पर्य्यायान्तरं यथा । लोध्रः ७
भिल्लतरुः ८ तिल्वकः ९ काण्डकीलकः १०
लोध्रकवृक्षः ११ शम्बरः १२ हस्तिरोध्रकः १३
तिलकः १४ काण्डनीलकः १५ हेमपुष्पकः १६
भिल्ली १७ शावरकः १८ । अस्य गुणाः ।
कषायत्वम् । शीतत्वम् । वातकफास्रनाशित्वम् ।
चक्षुष्यत्वम् । विषहृत्त्वम् । तत्र विशिष्टो वल्क-
लोध्रकः । इति राजनिर्घण्टः ॥ अपि च ।
“लोध्रस्तिल्वस्तिरीटश्च शावरो गालवस्तथा ।
द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः ॥
जीर्णपत्रो बृहत्पत्रः पट्टीलाक्षाप्रसादनः ।
लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् ।
कषायो रक्तपित्तासृग्वातातीसारशोथहृत् ॥”
इति भावप्रकाशः ॥
(तथा च ।
“तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः ।
तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्ज्जिताम् ॥
चूर्णयेत्तु त्रिधा कृत्वा द्बौ भागौ श्च्योतयेत्ततः ।
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ॥
भागं तं दशमूलस्य पुनः क्वाथेन भावयेत् ।
शुष्कं चूर्णं पुनः कृत्वा तत ऊर्द्धं प्रयोजयेत् ॥
दधितक्रसुरामण्डमूत्रैर्वदरशीधुना ।
रसेनामलकानां वा ततः पाणितलं पिबेत् ॥”
“सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत् ॥”
इति चरके कल्पस्थाने नवमेऽध्याये ॥)

लोध्रकवृक्षः, पुं, (लोध्र एव लोध्रकः । स एव

वृक्षः ।) लोधः । इति राजनिर्घण्टः ॥

लोपः, पुं, छेदः । आकुलीभावः । लुपधातोर्भावे

घञ्प्रत्ययेन निष्पन्नोऽयम् । (अभावः । यथा,
रघुः । १ । ६८ ।
“सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥”)
व्याकरणमते वर्णनाशः । तथा हि । नाश-
विधिर्यथा । लोपोऽस्योमाङोरित्यादि ॥ अपि च ।
“सकलेभ्यो विधिभ्यः स्याद्बली लोपविधिस्तथा ।
लोपस्वरादेशयोस्तु स्वरादेशो विधिर्ब्बली ॥”
इति दुर्गादासः ॥

लोपा, स्त्री, अगस्त्यमुनिपत्नी । इति जटाधरः ॥

लोपाकः, पुं, (लोपं शीघ्रमदर्शनं अकति प्राप्नो-

तीति । अक् + अण् ।) शृगालः । इति
त्रिकाण्डशेषः ॥ (यथा, सुश्रुते । १ । ४६ ।
“श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमश-
कर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुल-
महावभ्रुप्रभृतयो विलेशयाः ॥”)

लोपापकः, पुं, (लोपं द्रुतमदर्शनं आप्नोतीति ।

आप् + ण्वुल् ।) शृगालः । इति शब्दमाला ॥

लोपापिका, स्त्री, (लोपापक + स्त्रियां टाप् ।

अत इत्वम् ।) शृगाली । इति शब्दमाला ॥

लोपामुद्रा, स्त्री, अगस्त्यमुनिभार्य्या । इत्यमरः ॥

लोपयति योषितां रूपाभिधानमिति लोपा
पचाद्यन् आमुद्रयति स्रष्टुः सृष्टिमिति आमुद्रा
अन् ततः कर्म्मधारयः । किंवा न मुदं राति
अमुद्रा पतिशुश्रूषाया लोपे अमुद्रा लोपा-
मुद्रा । लोपा च ।
“लोपामुद्रा तु वैदर्भी लोपा स्त्री कुम्भजन्मनः ॥”
इति कण्ठभूषणम् । इति भरतः ॥ * ॥
अस्या अर्घ्यदानप्रसङ्गेन अगस्त्यार्घ्यदानं
लिख्यते । अगस्त्यार्घ्यदानन्तु सौरेण सिंहराशौ
विधानात् । यथा, ब्रह्मवैवर्त्ते ।
“अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः ।
अर्घ्यं दद्युरगस्त्याय गौडदेशनिवासिनः ॥”
नारसिंहे ।
“शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम् ।
मन्त्रेणानेन वै दद्याद्दक्षिणाशामुखस्थितः ॥
काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।
मित्रावरुणयोः पुत्त्र कुम्भयोने नमोऽस्तु ते ॥”
प्रार्थनन्तु ।
“आतापिर्भक्षितो येन वातापिश्च महासुरः ।
समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥”
गन्धादिकन्तु अगस्त्याय नम इत्यनेन देयं विशे
षानुद्देशो सामान्यतः प्राप्तत्वात् ।
दक्षिणाशामुखस्थित इति गन्धादावपि प्रयो-
गाङ्गकर्त्तृधर्म्मत्वादिति रत्नाकरः ॥ * ॥
तत्पत्न्यर्घ्यदानमन्त्रस्तु ।
“लोपामुद्रे महाभागे राजपुत्त्रि पतिव्रते ।
गृहाणार्घ्यं मया दत्तं मैत्रावरुणिवल्लभे ॥”
इति मलमासतत्त्वम् ॥
पृष्ठ ४/२३४
(अस्या जन्मादिविवरणन्तु महाभारते वन-
पर्व्वणि ९६ अध्यायमारभ्य द्रष्टव्यम् ॥)

लोपामुद्रापतिः, पुं, (लोपामुद्रायाः पतिः ।)

अगस्त्यमुनिः । इति पुराणम् ॥

लोपाशकः, पुं, (लोपं व्याकुलीभावं चकितमश्नाति ।

अश् + ण्वुल् ।) शृगालः । इति हारावली ॥

लोपाशिका, स्त्री, (लोपाशक + स्त्रियां टाप् ।

अत इत्वम् ।) शृगाली । इति हारा-
वली । १७२ ॥

लोप्त्रं, क्ली, (लुप् + ष्ट्रन् ।) स्तेयधनम् । लोतम् ।

इत्यमरः ॥ (यथा, महाभारते । १ । १०७ । ५ ।
“ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ! ।
निधाय च भयाल्लीनास्तत्रैवानागते बले ॥”)

लोप्त्री, स्त्री, (लोप्त्र + षित्वात् ङीष् ।) लोप्त्रम् ।

इति शब्दरत्नावली ॥

लोभः, पुं, (लुभ् + घञ् ।) आकाङ्क्षा । पर-

द्रव्याभिलाषः । तत्पर्य्यायः । तृष्णा २ लिप्सा ३
वशः ४ स्पृहा ५ काङ्क्षा ६ शंसा ७ गर्द्धः ८
वाञ्छा ९ इच्छा १० तृट् ११ मनोरथः १२
कामः १३ अभिलाषः १४ । इति हेमचन्द्रः ॥ * ॥
तस्य लक्षणं यथा, --
“परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते ।
अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्त्तितः ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥
स च ब्रह्मणोऽधराज्जातः । यथा, --
“भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः ।”
इति मात्स्ये सुखोत्पत्तिर्नाम ३ अध्यायः ॥ * ॥
स तु नाशकारणं यथा, --
“लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः ।
तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥”
इति गारुडे नीतिसारे ११५ अध्यायः ॥
अपि च ।
“त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥”
इति श्रीभगवद्गीतायाम् १६ अध्यायः ॥
(लोभनिन्दाविषयकश्लोकानि यथा, --
“लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च ।
द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥
लोभात् क्रोधः प्रभवति लोभात्कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कार-
णम् ॥
लोभात् क्रोधः प्रभवति क्रोधाद्द्रोहः प्रवत्तते ।
द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः ॥
मातरं पितरं पुत्त्रं भ्रातरं वा सुहृत्तमम् ।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहो-
दरम् ॥
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥
लोभाविष्टो नरो वित्तं वीक्षते न स चापदम् ।
दुग्धं पश्यति भार्ज्जारो यथा न लगुडा-
हतिम् ॥
प्रायेण धनिनामेव धनलोभो निरन्तम् ।
पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥
नात्यर्थमर्थार्थितया लुब्धमुद्वेजयेज्जनम् ।
अब्धिर्दत्त्वाश्वरत्नं स्त्रीर्मथ्यमानोऽसृजद्विषम् ॥
लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्व्वतो भयं
दृष्टम् ।
कार्य्याकार्य्यविचारो लोभविमूढस्य नास्त्येव ॥
सत्यप्रशमतपोभिः शस्त्रधनैः शास्त्रवेदि-
भिर्विजितः ।
लोभो वत प्रविष्टः कुटिलं हृदयं किराती-
नाम् ॥
स्नेहोपपन्न इति पूर्णदशाविशेष-
शाली स्वमात्मनि वसुप्रकरं निधाय ।
लब्धोदये तमथ गृह्णति पद्मबन्धौ
दीपा भवन्ति कलुषा बलवान् हि लोभः ॥
यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं
गाहन्ते गहनं समुद्रमथनक्लेशं कृषिं कुर्व्वते ।
सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं
सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फू-
र्ज्जितम् ॥” * ॥)

लोभी, [न्] त्रि, (लोभोऽस्यास्तीति । लोभ +

इनिः ।) लोभयुक्तः । तत्पर्य्यायः । गृध्नुः २
गर्द्धनः ३ लुब्धः ४ अभिलाषुकः ५ तृष्णकः ६
लोलुपः ७ लोलुभः ८ । इति जटाधरः ॥
लिप्सुः ९ । इति हेमचन्द्रः ॥

लोभ्यः, पुं, (लुभ्यते इति । लुभ + यत् ।) मुद्गः ।

इति हेमचन्द्रः ॥ लोभनीये, त्रि ॥

लोम, [न्] क्ली, (लूयते छिद्यते इति । ल +

“नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्यामन् ।”
उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः ।)
शरीरस्थकेशः । तत्पर्य्यायः । तनूरुहम् २ रोम
३ । इत्यमरः ॥ तनुरुहम् ४ तनुरुट् ५ । इति
शब्दरत्नावली ॥ (यथा, मुण्डकोपनिषदि ।
१ । १ । ७ ।
“यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केशलोमानि
तथाक्षरात् सम्भवतीह विश्वम् ॥”)
तत्तु गर्भस्थस्य षष्ठे मासि भवति । इति सुख-
बोधः ॥ अपि च ।
“षष्ठे मासि च नारीणां वैदिके नाधिकारिता ।
उदरस्थस्य बालस्य नखलोमप्रवर्त्तनात् ॥”
इति स्मृतिः ॥
(तथास्य विवृतिः ।
“अस्थो मलानि लोमानि असङ्ख्यानि भवन्ति
हि ।
सन्ति यावन्ति लोमानि तावन्तो लोम-
कूपकाः ॥
अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते ।
सन्निवेशञ्च गात्राणां नात्रास्ते कारणान्तरम् ॥”
निर्वृत्तिः सिद्धिः स्वभावात् ईश्वरात् । सन्निबेशो
रचनाविशेषः । इति भावप्रकाशस्य पूर्ब्बखण्डे
प्रथमे भागे ॥)

लोमं, क्ली, लाङ्गूलम् । इति जटाधरः ॥ (रोम ।

यथा, तैत्तिरीयसंहितायाम् । ५ । १ । ६ । २ ।
“अथो शन्त्वायाजलोमैः संसृजत्येषा वा अग्नेः
प्रिया तणूर्यदजेति ॥”)

लोमकरणी, स्त्री, मांसच्छदा । इति राजनिर्घण्टः ॥

लोमकर्णः, पुं, (लोमयुक्तौ कर्णौ यस्य ।) शशकः ।

इति हेमचन्द्रः ॥ (अस्य पर्य्यायो यथा, --
“लम्बकर्णः शशः शूली लोमकर्णो विलेशयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
लोमयुक्तकर्णविशिष्टे, त्रि ॥

लोमघ्नं, क्ली, (लोमानि हन्तीति । हन + टक् ।)

इन्द्रलुप्तकम् । इति भूरिप्रयोगः ॥ टाक इति
भाषा ॥ लोमघातके, त्रि ॥

लोमपादः, पुं, (लोमानि पादयोर्यस्य ।) अङ्ग-

देशीयराजविशेषः । स तु ऋष्यशृङ्गमुनि-
श्वशुरः । इति रामायणम् ॥ (अयं हि सूर्य्य-
वंशावतंसस्य दशरथस्य सखा । विप्रावमान-
नात एवास्य राष्ट्रे बहुकालं अवग्रहः सम्बभूव
तत एवासौ काश्यपं ऋष्यशृङ्गं स्वराष्ट्रे
आनीय शान्तां नाम दशरथकन्यामस्मै दत्त-
वान् । एतद्वृत्तान्तन्तु महाभारते वनपर्व्वणि
११० अध्यायतो विशेषतो द्रष्टव्यम् ॥)

लोमपादपूः, स्त्री, (लोमपादस्य पूः ।) पुरी-

विशेषः । अधुना भागलपुर इति ख्याता ।
तत्पर्य्यायः । चम्पा २ मालिनी ३ कर्णपूः ४ ।
इति हेमचन्द्रः ॥

लोमफलं, क्ली, (लोमयुक्तं फलम् ।) भव्यम् ।

इति राजनिर्घण्टः ॥

लोमविषः, पुं, (लोम्नि विषं यस्य ।) व्याघ्रादिः ।

इति हेमचन्द्रः ॥

लोमशः, पुं, (लोमानि सन्त्यस्येति । लोमन् +

“लोमादिभ्यः शः ।” इति शः ।) मुनिविशेषः ।
(मुनिवरोऽयं तीर्थगमनाभिलाषिणः सानुजस्य
युधिष्ठिरस्यानुगामी सर्व्वतीर्थवृत्तान्तमस्मै विज्ञा-
पयामासेति महाभारते वनपर्व्वणि द्रष्टव्यम् ॥ * ॥)
मेषः । अतिलोमान्विते, त्रि । इति मेदिनी ।
शे, २७ ॥ यथा, --
“कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी ॥”
इति सामुद्रकम् ॥
(धान्यापहरणरूपकर्म्मविपाकात् लोमशो
भवति । यथा, महाभारते । १३ । १११ । ११९ ।
“ध्यान्यं हृत्वा तु पुरुषो लोमशः संप्रजायते ॥”)

लोमशकाण्डा, स्त्री, (लोमशः काण्डो यस्याः ।)

कर्कटी । इति राजनिर्घण्टः ॥ (कर्कटीशब्दे
ऽस्या गुणादयो ज्ञातव्याः ॥)

लोमशपर्णिनी, स्त्री, (लोमशं पर्णमस्त्यस्या इति ।

इनि । ङीप् ।) माषपर्णी । इति शब्द-
चन्द्रिका ॥

लोमशपुष्पकः, पुं, (लोमशानि पुष्पाणि यस्य ।

कप् ।) शिरीषवृक्षः । इति राजनिर्घण्टः ॥

लोमशमार्ज्जारः, पुं, (लोमशो लोमबहुलो

मार्ज्जारः ।) मार्जारविशेषः । गन्धगकुला ।
पृष्ठ ४/२३५
इति भाषा । तत्पर्य्यायः । पूतिकः २ मार-
जातकः ३ सुगन्धी ४ मूत्रपातनः ५ गन्ध-
मार्ज्जारकः ६ । इति राजनिर्घण्टः ॥ अस्य
मुष्कगुणाः ।
“गन्धमार्ज्जारवीर्य्यन्तु वीर्य्यकृत् कफवातहृत् ।
कण्डुकोष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् ॥”
इति भावप्रकाशः ॥

लोमशा, स्त्री, (लोमानि सन्त्यस्या इति ।

लोमन् + श । टाप् ।) काकजङ्घा । मांसी ।
(अस्याः पर्य्यायो यथा, --
“नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी ।
किरातिनी च जटिला लोमशा तु तपस्विनी ॥”
इति वैद्यकरत्नमालायाम् ॥)
वचा । (अस्याः पर्य्यायो यथा, --
“वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका ।
क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शूकशिम्बिः । महामेदा । कासीसम् । शाकिनी-
भेदः । इति मेदिनी । शे, २७ ॥ अतिवला ।
इति विश्वः ॥ शणपुष्पी । एर्व्वारुः । गन्धमांसी ।
इति राजनिर्घण्टः ॥

लोमशातनं, क्ली, (लोम्नां शातनम् ।) लोम-

पातनम् । तस्यौषधानि यथा, --
“हरितालं शङ्खचूर्णं कदलीदलभस्मना ।
एतद्द्रव्येण चोद्बर्त्त्य लोमशातनमुत्तमम् ॥
लवणं हरितालञ्च तण्डुल्याश्च फलानि च ।
लाक्षारससमायुक्तं लोमशातनमुत्तमम् ॥
सुधा च हरितालञ्च शङ्खञ्चैव मनःशिला ।
सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ।
तत्क्षणोद्बर्त्तनादेव लोमशातनमुत्तमम् ॥”
इति गारुडे १८५ अध्यायः ॥
(तथाच ।
“भल्लातकं बिडङ्गञ्च यवक्षारञ्च सैन्धवम् ।
मनःशिला शङ्खचूर्णं तैलपक्वं तथैव च ।
लोमानि शातयत्येव नात्र कार्य्या विचारणा ॥”
इति वैद्यके भैषज्यधन्वन्तरौ वशीकरणाद्यधि-
कारे ॥ * ॥)

लोमहर्षणं, क्ली, (लोम्नां हर्षणमिव ।) रोमाञ्चः ।

इत्यमरः ॥ (लोम्नां हर्षणमस्नादिति । रोमाञ्च-
कारके, त्रि । यथा, महाभारते । ६ । ६७ । १३ ।
“तस्मिन् महाभये घोरे तुमुले लोमहर्षणे ।
ववर्षुः शरजालानि क्षत्रिया युद्धदुर्म्मदाः ॥”)

लोमहर्षणः, पुं, (विचित्रपुराणकथाश्रवणात्

लोम्नां हर्षणं उद्गमो यस्मात् ।) सूतः । यथा,
“पुराणसंहितां चक्रे पुराणार्थविशारदः ।
प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोभहर्षणः ॥
पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ॥”
इति विष्णुपुराणे ३ अंशे ७ अध्यायः ॥ * ॥
स च बलरामेण हतः । यथा, --
“तथा क्षेत्रे सूतपुत्त्रो निहतो लोमहर्षणः ।
बलरामास्त्रयुक्तात्मा नैमिषेऽभूत् स्ववाञ्छया ॥”
इति कल्किपुराणे २७ अध्यायः ॥

लोमहृत्, पुं, (लोमानि हरति नाशयतीति ।

हृ + क्विप् ।) हरितालम् । इति हेमचन्द्रः ॥

लोमालिका, स्त्री, (लोमाल्या लोमश्रेण्या काय-

तीति । कै + कः । टाप् ।) शृगालिका ।
यथा, --
“लोमालिका दीप्तजिह्वा किखिरुल्कामुखी च
सा ॥”
इति त्रिकाण्डशेषः ॥

लोलः, त्रि, (लोडतीति । लुड विलोडने + अच् ।)

चञ्चलः । (यथा, साहित्यदर्पणे ३ परिच्छेदे ।
१४१ ।
“पल्लवोपमितिसाम्यसपक्षं
दष्टवत्यधरविम्बमभीष्टे ।
पर्य्यकूजि सरुजेव तरुण्या-
स्तारलोलवलयेन करेण ॥”)
साकाङ्क्षः । इत्यमरः ॥ (यथा, रघुः । ७ । २३ ।
“ह्रीयन्त्रणामानशिरे मनोज्ञा-
मन्योन्यलोलानि विलोचलानि ॥”
पुं, तामसमनुः । इति मार्कण्डेयपुराणम् ।
७४ । ४१ ॥)

लोला, स्त्री, (लोल + टाप् ।) जिह्वा । लक्ष्मीः ।

इति मेदिनी । ले, ४७ ॥ चञ्चला स्त्री च ।
(यथा, आर्य्यासप्तशत्याम् । ६०८ ।
“सर्व्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।
अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥”
चतुर्द्दशाक्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥
अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

लोलार्कः, पुं, (लोलनामा अर्कः ।) सूर्य्यः । यथा,

पुलस्त उवाच ।
“ततः सुकेशिवचनात् सर्व्व एव निशाचराः ।
तेनोदितन्तु ते धर्म्मं चक्रुर्मुदितमानसाः ॥
ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः ।
पुत्त्रपौत्त्रार्थसंयुक्ताः सदाचारसमन्विताः ॥
तज्ज्योतिस्तेजसा तेषां राक्षसानां महात्मनाम् ।
गन्तुं नाशक्नुवन् सूर्य्यो नक्षत्राणि च चन्द्रमाः ॥
ततस्त्रिभुवनं ब्रह्मन् निशाचरपुरोऽभवत् ।
दिवा सूर्य्यस्य सदृशः क्षणदायाञ्च चन्द्रवत् ॥
ततः क्रोधाभिभूतेन भानुना विप्रभेदिभिः ।
भानुभी राक्षसपुरं तद्दृष्टञ्च यथेच्छया ॥
तद्भानुना तदा दृष्टं क्राधाध्मातेन चक्षुषा ।
निपपाताम्बराद्दृष्टः क्षीणपुण्य इव ग्रहः ॥
पतमानं समालोक्य पुरं शालङ्कटङ्कटः ।
नमो भवाय सर्व्वाय इदमुच्चैरधीयत ॥
तेषां क्रन्दितमाकर्ण्य चारणा गगनेचराः ।
हाहेत्युच्चुक्रुशुः सर्व्वे हरभक्तः पतत्यसौ ॥
तच्चारणवचः शर्व्वः श्रुतवान् सर्व्वतोऽव्ययः ।
श्रुत्वा स चिन्तयामास केनासौ पात्यते भुवि ॥
ज्ञातवान् देवपतिना सहस्रकिरणेन तत् ।
पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः ॥
क्रुद्धस्तु भगवान् दृग्भिर्भानुमन्तमपश्यत ।
दृष्टमात्रस्त्रिनेत्रेण निपपात ततोऽम्बरात् ॥
ततो ब्रह्मा सुरपतिः सुरैः सार्द्धं समभ्ययात् ।
रम्यं महेश्वरावासं मन्दरं रविकारणात् ॥
गत्वा दृष्ट्वा च देवेशं शङ्करं शूलपाणिनम् ।
प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत् ॥
ततो दिवाकरं भूयः पाणिनादाय शङ्करः ।
कृत्वा नामास्य लोलेति रथमारोपयत् पुनः ॥
आरोपिते दिनकरे ब्रह्माभ्येत्य सुकेशिनम् ।
सबान्धवं सनगरं पुनरारोपयद्दिवि ॥”
इति श्रीवामनपुराणे सुकेशिचरिते लोलार्क-
जननं नाम १५ अध्यायः ॥

लोलिका, स्त्री, (लोलतीति । लुल + ण्वुल् ।

टापि अत इत्वम् ।) चाङ्गेरी । यथा, --
“क्षुद्रा दन्तशठाम्बष्ठा चाङ्गेरी लोलिका च सा ॥”
इति जटाधरः ॥

लोलितः, त्रि, श्लथः । झोला इति भाषा । लुल

विमर्द्दे अस्माद्भावे घञि लोलः सोऽस्य जातः
इत्यर्थे इतप्रत्ययेन निष्पन्नः ॥

लोलुपः, त्रि, (गर्हितं लुम्पतीति । लुप + यङ् +

अच् ।) अतिलुब्धः । इत्यमरः ॥ (यथा,
माघे । १ । ४० ।
“तथापि वाचालतया युनक्ति मां
मिथस्त्वदाभाषणलोलुपं मनः ॥”)

लोलुभः, त्रि, (भृशं लुभ्यतीति । लुभ + यङ् +

अच् ।) लोलुपः । इत्यमरः ॥ (यथा, कथा-
सरित्सागरे । ११७ । ४६ ।
“स्त्रियोऽपीच्छन्ति पुंभावं यं दृष्ट्वा रूपलोलुभाः ।
तस्यास्ते को भवेन्नार्थी तुल्यरूपः स किं पुनः ॥”)

लोष्ट, ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, लोष्टते धान्यं लोकः ।
इति दुर्गादासः ॥

लोष्टं, क्ली, (लोष्टते इति । लोष्ट + अच् ।)

लौहमलम् । इति राजनिर्घण्टः ॥ लेष्टुः ।
इत्यमरः ॥

लोष्टः, पुं क्ली, (लोष्ट्यते इति । लोष्ट + घञ् ।

यद्वा, लूयते इति । लू + “लोष्टपलितौ ।”
उणा० ३ । ९२ । इति क्तप्रत्ययेन निपातितः ।)
मृत्तिकाखण्डम् । डेला इति भाषा । तत्-
पर्य्यायः । लोष्टुः २ । इति शब्दरत्नावली अम-
रश्च ॥ लोष्टुः ३ दलिः ४ । इति हेमचन्द्रः ॥
(यथा, वेतालपञ्चविंशत्याम् । १ ।
“अहौ वा हारे वा बलवति रिपौ वा
सुहृदि वा
मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥”)

लोष्टघ्नः, पुं, (लोष्टं हन्तीति । हन + टक् ।)

लेष्टुभेदनः । इत्यमरटीकायां भरतः ॥

लोष्टभेदनः, पुं, (भिनत्तीति । भिद् + ल्युः । लोष्टस्य

भेदनः ।) लोष्टभङ्गसाधनमुद्गरः । मै इति
ख्याते इति केचित् । तत्पर्य्यायः । लेष्टुभेदनः २
लोष्टघ्नः ३ लेष्टुघ्नः ४ कोटिशः ५ कोटीशः ६ ।
इत्यमरटीका ॥

लोष्टुः, पुं, लोष्टः । इति हेमचन्द्रः ॥

पृष्ठ ४/२३६

लोहं, क्ली, अगुरु । इत्यमरः ॥ (अथास्य

पर्य्यायः ।
“अगुरुप्रवरं लोहं राजार्हं योगजन्तथा ।
वंशिकं क्रिमिजं वापि क्रिमिजग्धमनार्यकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लोहः, पुं, क्ली, (लूयतेऽनेनेति । लू + बाहुलकात्

हः ।) लौहम् । जोङ्गकम् । सर्व्वतैजसम् । इति
मेदिनी । हे, ८ ॥ रुधिरम् । इति राजनिर्घण्टः ॥
अथ मुण्डलोहस्य पर्य्यायः । मुण्डम् २ मुण्डा-
यसम् ३ दृषत्सारम् ४ शिलात्मजम् ५ अश्म-
जम् ६ कृषिलोहम् ७ आरम् ८ कृष्णायसम् ९ ॥
अथ तीक्ष्णलोहस्य पर्य्यायः । तीक्ष्णम् २
शस्त्रायसम् ३ शस्त्रम् ४ पिण्डम् ५ पिण्डा-
यसम् ६ शठम् ७ आयसम् ८ निशितम् ९
तीव्रम् १० खड्गम् ११ मुण्डजम् १२ अयः १३
चित्रायसम् १४ चीनजम् १५ । अस्य गुणाः ।
रूक्षत्वम् । उष्णत्वम् । तिक्तत्वम् । वातपित्त-
कफप्रमेहपाण्डुशूलनाशित्वम् । तीक्ष्णत्वम् ।
मुण्डाधिकगुणत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अथ लोहस्योत्पत्तिनामलक्षणगुणाः ।
“पुरा लोमिलदैत्यानां निहतानां सुरैर्युधि ।
उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालाय-
सायसी ।
गुरुता दृढतोत्क्लेदकफदाहस्य कारिता ।
अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु ॥
लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु ।
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥
कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः ।
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि ॥
षण्डत्वकुष्ठामयमृत्युदं भवेत्
हृद्रोगशूलौ कुरुतेऽश्मरीञ्च ।
नानारुजाञ्चापि तथा प्रकोपं
करोति हृल्लासमशुद्धलोहम् ॥
जीवहारि मदकारि चायसं
चेदशुद्धिमदसंस्कृतं ध्रुवम् ।
पाटवं न तनुते शरीरके
दारुणां हृदि रुजाञ्च यच्छति ॥” * ॥
तत्र सारलोहस्य लक्षणं गुणाश्च ।
“क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते ।
लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥
लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् ।
अर्द्धसर्व्वाङ्गजं वातं शूलञ्च परिणामजम् ।
छर्द्दिञ्च पीनसं पित्तं श्वासमाशु व्यपोहति ॥”
अथ कान्तलोहस्य लक्षणं गुणाश्च ।
पत्पात्रे न प्रसरति जले तैलबिन्दुः प्रतप्ते
हिङ्गुर्गन्धं त्यजति चनिजं तिक्ततां निम्बकन्दः ।
तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं
कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं
तदुक्तम् ॥
गुल्मोदरार्शःशूलाममामवातं भगन्दरम् ।
कामलाशोथकुष्ठानि क्षयं कान्तमयो जयेत् ॥
प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम् ।
सर्व्वान्रोगान् विजयते कान्तलोहं न संशयः ।
बलं वीर्य्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्द्धयेत् ॥”
अथ किट्टी ।
“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।
लोहसिंहानिका किट्टी सिंहानञ्च निगद्यते ॥
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥”
अथ लोहस्याशुद्धस्य दोषमाह ।
“षण्डत्वकुष्ठामयमृत्युकारि
हृद्रोगशूलौ कुरुतेऽश्मरीञ्च ।
नानारुजानाञ्च तथा प्रकोपं
कुर्य्याच्च हृल्लासमशुद्धलोहम् ॥”
अथ लोहस्य दोषशान्तये शोधनमभिधीयते ।
“पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत् ।
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा ।
एवं लोहस्य पत्राणां विशुद्धिः संप्रजायते ॥”
अथ लोहस्य मारणविधिः ।
“शुद्धलोहभवं चूर्णं पातालगरुडीरसैः ।
मर्द्दयित्वा पुटेद्वह्रौ दद्यादेवं पुटद्धयम् ॥
पुटत्रयं कुमार्य्याश्च कुठारच्छिल्लिकारसैः ।
पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ॥”
अन्यच्च ।
“क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः ।
मर्द्दयेत् कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् ।
एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात् ॥
सत्योऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारणे ।
कथ्यते रामराजेन कौतूहलधियाधुना ॥
सूतकाद्द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् ।
द्वयोः समं लौहचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ।
घर्म्मे धृत्वा रूवुकस्य पत्रैराच्छादयेद्बुधः ॥
यामद्बयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः ।
दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत् ॥
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् ।
दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा ॥
तद्रसेनायसश्चूर्णं सन्नीयात् प्लावयेदपि ।
आतपे शोषयेत्तच्च पुटेदेव पुनः पुनः ।
एकविंशतिवारैस्तत्म्रियते नात्र संशयः ।
एवं सर्व्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥”
एवं मारितलोहस्य गुणाः ।
“लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु ।
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥
कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः ।
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि ॥
गुञ्जामेकां समारभ्य यावत् स्युर्नवरक्तिकाः ।
तावल्लोहं समश्नीयाद्यथादोषानलं नरः ॥
कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा ।
मद्यमम्लरसञ्चैव वर्जयेल्लोहसेवकः ॥”
इति भावप्रकाशः ॥
लोहपात्रे भक्षणनिषेधो यथा, --
“यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः ।
स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥”
इति मत्स्यसूक्ततन्त्रम् ॥
अपि च ।
“अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च ।
भृष्टादिकं मधु गुडं नारिकेलोदकन्तथा ॥
फलं मूलञ्च यत्किञ्चिदभक्ष्यं मुनिरब्रवीत् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
(अश्मन एवास्य उत्पत्तिः श्रूयते । यथा, मनुः ।
९ । ३२१ ।
“अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुत्थितम् ।
तेषां सर्व्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥”
पुं, छागः । स तु लक्षणान्वितः कृष्णवर्णो रक्त-
वर्णो वा । यथा, मनुः । ३ । २७२ ।
“कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥”
पार्व्वत्यजातिविशेषः । यथा, महाभारते । २ ।
२७ । २५ ।
“लोहान् परमकाम्बोजानृषिकानुत्तरानपि ।
सहितांस्तान् महाराज व्यजयत् पाक-
शासनिः ॥”
रक्तवर्णे, त्रि । यथा, महाभारते । १ । १३६ । २३ ।
“भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।
पञ्चबाणान् सुसंयुक्तान् स मुमोचैकबाणवत् ॥”)

लोहकण्टकः, पुं, (लोहवत् कण्टकं यत्र ।)

मदनवृक्षः । इति शब्दचन्द्रिका ॥ लौहमय-
कण्टकश्च ॥ (यथा, आर्य्यासप्तशत्याम् । ४७४ ।
“सखि लोहकण्टकनिभस्तथा तथा मदन-
विशिखोऽपि ॥”)

लोहकान्तं, क्ली, (लोहः कान्तोऽस्येति ।) अय-

स्कान्तम् । इति राजनिर्घण्टः ॥

लोहकारः, पुं, (लोहं लोहमयं शस्त्रादि करो-

तीति । कृ + अण् ।) लौहकारकः । इति
हलायुधः ॥ (यथा, गो० रामायणे । २ । ९० । २३ ।
“प्रख्याताश्चर्म्मकाराश्च लोहकारास्तथैव च ॥”)

लोहकारकः, पुं, (लोहं तन्मयशस्त्रादि करो-

तीति । कृ + ण्वुल् ।) वर्णसङ्करजातिविशेषः ।
कामार इति भाषा । तत्पर्य्यायः । व्योकारः २
इत्यमरः ॥ लौहकारः ३ अयस्कारः ४ कर्म्म-
कारः ५ कर्म्मारः ६ । इति भरतरभसौ ॥
तस्योत्पत्तिर्यथा ।
“गोपालात्तन्त्रवाय्यां वै कर्म्मकारोऽप्यभूत्
सुतः ॥”
इति पराशरपद्धतिः ॥

लोहकिट्टं, क्ली, (लोहस्य किट्टम् ।) लोहमलम् ।

तत्पर्य्यायः । किट्टम् २ लोहचूर्णम् ३ अयोमलम्
४ लोहजम् ५ कृष्णचूर्णम् ६ लोष्टम् ७ लोह-
मलम् ८ । (यथा, सुश्रुते । ६ । ४४ ।
“मूत्रस्यितं सैन्धवसंप्रयुक्तं
मांसं पिबेद्वापि हि लोहकिट्टम् ॥”)
अस्य गुणाः । मधुरत्वम् । कटुत्वम् । उष्णत्वम् ।
कृमिवातपक्तिशूलमहच्छूलमेहगुल्मशोफनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
पृष्ठ ४/२३७
“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।
लोहसिंहानिका किट्टी सिंहाङ्गञ्च निगद्यते ॥
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥”
इति भावप्रकाशः ॥
(तथास्योद्धरणादिविधिः ।
“शतोर्द्ध्वमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम् ।
अधमं षष्टिवर्षोयं ततो हीनं विषोपमम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य-
धिकारे ॥
“कुरवं पथ्याचूर्णं द्विपलगन्धाश्मलोहकिट्टञ्च ।
शुद्धरसस्यार्द्धपलं भृङ्गस्य रसं केशराजस्य ॥”
इति वैद्यकचक्रपाणिसंग्रहे परिणामशूलाधि-
कारे ॥)

लोहचूर्णं, क्ली, (लोहस्य चूर्णम् ।) लोहकिट्टम् ।

इति राजनिर्घण्टः ॥ (यथा, बृहत्संहितायाम् ।
७६ । ३ ।
“माक्षीकधातुमधुपारदलोहचूर्ण-
पथ्याशिलाजतुविडङ्गकृतानि योऽद्यात् ।
सैकानि विंशतिरहानि जरान्वितोऽपि
सोऽशीतिकोऽपि रमयत्यबलां युवेव ॥”)

लोहजं, क्ली, (लोहात् जायते इति । जन् + डः ।)

लोहकिट्टम् । इति राजनिर्घण्टः ॥ (पर्य्यायो-
ऽस्य यथा, “मण्डूरं लोहजं किट्टम् ।” इति
वैद्यकरत्नमालायाम् ॥) कांस्यम् । इति हेम-
चन्द्रः ॥

लोहद्रावी [न्] पुं, (लोहानि द्रावयतीति । द्रु +

णिच् + णिनिः ।) टङ्कणः । इति राजनिर्घण्टः ॥
(टङ्कणशब्देऽस्य विषयो विज्ञेयः ॥)

लोहनालः, पुं, (लोहस्य नालं दण्डो यत्र ।)

नाराचः । इति त्रिकाण्डशेषः ॥

लोहपृष्ठः, पुं, (लोहस्येव कठिनं श्यामलं वा

पृष्ठं यस्य ।) कङ्कपक्षी । इत्यमरः ॥ लौहमय-
पृष्ठयुक्ते, त्रि ॥

लोहप्रतिमा, स्त्री, (लोहस्य प्रतिमा ।) लौह-

मयी प्रातमा । तत्पर्य्यायः । सूर्म्मी २ स्थूणा ३ ।
इत्यमरः ॥ शूर्म्मी ४ शूर्म्मिः ५ शूर्म्मः ६ । इति
भरतः ॥ शूर्म्मिका ७ । इति शब्दरत्नावली ॥

लोहमयं, त्रि, लोहात्मकम् । लोहनिर्म्मितम् ।

लोहशब्दात् तद्रूपार्थे मयट्प्रत्ययेन निष्पन्नम् ॥
(यथा, छान्दोग्योपनिषदि । ६ । १ । ५ ।
“यथा सौम्यैकेन लोहमणिना सर्व्वं लोहमयं
विज्ञातं स्याद्बाचारम्भणं विकारो नामधेयं
लोहमित्येव सत्यम् ॥”)

लोहमारकः, पुं, (लोहं मारयति जारयतीति ।

मृ + णिच् + ण्वुल् ।) शालिञ्चशाकः । इति
त्रिकाण्डशेषराजनिर्घण्टौ ॥

लोहलः, पुं, (लोहं लातीति । ला + कः ।)

शृङ्खलाचार्य्यः । इति मेदिनी । ले, १२९ ॥

लोहलः, त्रि, (लोहमिव लातीति । ला + कः ।)

अव्यक्तवाक् । इत्यमरः ॥ लोहग्राहकश्च ॥

लोहवरं, क्ली, (लोहेषु सर्व्वतैजसेषु वरम् ।)

स्वर्णम् । इति त्रिकाण्डशेषः ॥

लोहश्लेषणः, पुं, (लोहानि सर्व्वतैजसानि श्लेष-

यति योजयतीति । श्लेषि + ल्युः ।) टङ्कणः ।
इति हेमचन्द्रः ॥

लोहसङ्करं, क्ली, (लोहानां सङ्करो यत्र ।) वर्त्त-

लोहम् । इति राजनिर्घण्टः ॥ मिश्रिततैज-
सञ्च ॥

लोहाख्यं, क्ली, (लोहमेव आख्या यस्य ।) अगुरु ।

इति रत्नमाला ॥

लोहाभिसारः, पुं, (लोहानां शस्त्रादीनां अभि-

सारो यत्र ।) लोहाभिहारः । इत्यमरटीकायां
भरतः ॥

लोहाभिहारः, पुं, (लोहानामभिहारो यत्र ।)

शस्त्रभृतां राज्ञां नीराजनाविधिः । इत्यमरः ॥
महानवमीदीक्षायां अश्वादीनां नीराजने सति
पश्चात् शस्त्रधारिणां राज्ञां यः शास्त्रोक्तो
निर्म्मञ्छनप्रधानो विधिः प्रस्थानात् प्राक् स
लोहाभिहारः । लोहस्य शस्त्रस्य अभिहारः
सर्व्वतो हरणमत्रेति बहुव्रीहिः । लोहाभिहार
इत्युक्तो विधिर्नीराजनोत्तर इत्यमरमाला ॥
लोहोऽस्त्री शस्त्रके लौहे इति मेदिनी ॥ लोहा-
भिसार इति पठन्त्यन्ये तत्र लोहं शस्त्र अभि-
सार्य्यते प्रस्थाप्यतेऽत्रेति घञ् वाहनायुधादे-
र्निःशेषेण राजनं यत्र सा नीराजना नीरस्य
शान्त्युदकस्य अजनं क्षेपो यत्र सा नीराजना
वा । इति भारतः ॥

लोहार्गलं, क्ली, (लोहस्य अर्गलमिव ।) तीर्थ-

विशेषः । यथा, --
वराह उवाच ।
“शृणु देवि च तत्त्वेन यन्मां त्वं परिपृच्छसि ।
गुह्यमन्यच्च वक्ष्यामि महतः कर्म्मणो गतिः ॥
ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः ।
म्लेच्छमध्ये वरारोहे हिमवन्तं समाश्रितम् ॥
तत्र लोहार्गलं नाम निवासो मे विधीयते ।
गुह्याः पञ्चदशा यत्र समन्तात् पञ्चयोजनम् ॥
सुलभं पुण्ययुक्तानां मम कर्म्मानुसारिणाम् ।
तत्र तिष्ठाम्यहं भद्रे ! उदीचीं दिशमास्थितः ॥
तत्र ब्रह्मा च रुद्रश्च स्कन्दन्द्रश्च मरुद्गणाः ।
आदित्या वसवो रुद्रा अश्विनौ च महौजसः ॥
सोमो बृहस्पतिश्चैव ये चान्ये च दिवौकसः ।
तेषाञ्चैवार्गलं दत्त्वा चक्रं गृह्य महौजसम् ॥
ततो मे दानवाः सर्व्वे क्रमन्तो लोकमुत्तमम् ।
मया चैवान्तरं कृत्वा कृत्वा मायाञ्च वैष्णवीम् ॥
शतकोटिसहस्राणि शीघ्रमेव निपातितम् ।
एवं लोहार्गलेत्यासीन्नाम मे तच्च कारितम् ॥
एकधारा पतत्यत्र इन्द्रगोपकसन्निभा ।
यस्तत्र कुरुते स्नानं सप्तरात्रोषितो नरः ॥
ब्रह्मलोकं समासाद्य ब्रह्मणा सह मोदते ।
अथात्र मुञ्चते प्राणानहङ्कारविवर्ज्जितः ॥
ब्रह्मलोकं परित्यज्य मम लोकं प्रपद्यते ।
गुह्याख्याने महाभागे क्षेत्रे लोहार्गले मम ॥
सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः ॥
एतत्ते कथितं भद्रे लीहार्गलनिवासिनः ।
माहात्म्यं पद्मपत्राक्षि गुह्यं पञ्चमहौजसम् ।
मङ्गल्यञ्च पवित्रञ्च मम भक्तसुखावहम् ॥”
इत्यादि वराहपुराणे लोहार्गलमाहात्म्यवर्णनं
नामाध्यायः ॥ * ॥ लौहकीलके क्ली स्त्री च ॥

लोहि, क्ली, श्वेतटङ्कणम् । इति कश्चिद्राज-

निर्घण्टः ॥

लोहिका, स्त्री, (लोहमस्त्यत्रेति । लोह + ठन् ।)

लौहपात्रम् । तत्पर्य्यायः । खरसोन्दः २ खर-
पात्रम् ३ । इति त्रिकाण्डशेषः ॥

लोहितं, क्ली, (रुह्यते इति । रुह + “रुहे-

रश्च लो वा ।” उणा० ३ । ९४ । इति
इतन् रस्य लत्वञ्च ।) रक्तगोशीर्षम् । कुङ्कु-
मम् । रक्तचन्दनम् । इति मेदिनी । ते, १४७ ॥
पत्तङ्गम् । हरिचन्दनम् । तृणकुङ्कुमम् । रुधि-
रम् । इति राजनिर्घण्टः ॥ (यथा, मनुः ॥
४ । ५६ ।
“नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तमन्यद्बा लोहितं वा विषाणि षा ॥”)
युद्धम् । इति हेमचन्द्रः ॥ (सरोवरविशेषः ।
इति मात्स्ये । १२० । १२ ॥ माणिक्यम् । तत्-
पर्य्यायो यथा, --
“माणिक्यं पद्मरागः स्याच्छोणरत्नञ्च लोहि-
तम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लोहितः, पुं, (रुह + इतन् । रस्य लः ।) नद-

विशेषः । (सागरविशेषश्च । यथा, रामायणे ।
४ । ४० । ३९ ।
“ततो रक्तजलं भीमं लोहितं नाम सागरम् ।
गत्वा प्रेक्षत ताञ्चैव बृहतीं कूटशाल्म-
लीम् ॥”)
भौमः । (यथा, बृहत्संहितायाम् । ६ । ८ ।
“मध्येन यदि मघानां गतागतं लोहितः
करोति ततः ।
पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयम-
वृष्टिः ॥”)
रक्तवर्णः । इति मेदिनी । ते, १४८ ॥ रोहित-
मत्स्यः । मृगविशेषः । इति शब्दरत्नावली ॥
सर्पः । (यथा, महाभारते । २ । ९ । ८ ।
“वासुकिस्तक्षकश्चैव नागश्चैरावणस्तथा ।
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥”)
सुरान्तरः । इति धरणिः ॥ मसूरः । इति
शब्दचन्द्रिका ॥ रक्तालुः । रक्तशालिः । इति
राजनिर्घण्टः ॥ (यथा, सुशुते । १ । ४६ ।
“षष्टिका यवगोधूमा लोहिता ये च शालयः ।
मुद्गाढकी मसूराश्च धान्येषु प्रवराः स्मृताः ॥”)
बलभेदः । इति हेमचन्द्रः ॥ (पर्व्वतविशेषः ।
इति मात्स्ये । १२० । ११ ॥ कुशद्वीपस्थवर्ष-
विशेषः । इति तत्रैव । १२१ । ६५ ॥)

लोहितः, त्रि, रक्तवर्णयुक्तः । इत्यमरः ॥ (यथा,

मनुः । ५ । ६ ।
“लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।
शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्जयेत् ॥”)
पृष्ठ ४/२३८

लोहितकं, क्ली, (लोहितमिव । इवार्थे कन् ।)

रीतिः । इति राजनिर्घण्टः ॥

लोहितकः, पुं, (लोहित एव । स्वार्थे कन् ।)

मङ्गलग्रहः । इति शब्दमाला ॥ पद्मरागमणिः ।
इति हेमचन्द्रः ॥ (यथा, माघे । १३ । ५२ ।
“लयनेषु लोहितकनिर्म्मिता भुवः
शितिरत्नरश्मिहरितीकृतान्तराः ॥”
रक्तवर्णयुक्ते, त्रि । यथा, महाभारते । २ । ९ । ३ ।
“नीलपीतासितश्यामैः सितैर्लौहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः ॥”)

लोहितचन्दनं, क्ली, (लोहितं चन्दनमिव ।)

कुङ्कुमम् । इत्यमरः ॥ रक्तचन्दनम् ॥ (यथा,
किरातार्ज्जुनीये । १ । ३४ ।
“परिभ्रमन् लोहितचन्दनोचितः
पदातिरन्तर्गिरिरेणुरुंसितः ॥”)

लोहितपुष्पकः, पुं, (लोहितं पुष्पमस्य । कप् ।)

दाडिमवृक्षः । इति भावप्रकाशः ॥

लोहितमृत्तिका, स्त्री, (लोहिता मृत्तिका ।) गैरि-

कम् । इति रत्नमाला ॥ रक्तवर्णमृत्तिका च ॥

लोहिता, स्त्री, (लोहित + स्त्रियां टाप् ।) रागा-

दिना रक्तवर्णा । इति जटाधरः ॥ वराह-
क्रान्ता । इति शब्दचन्द्रिका ॥ रक्तपुनर्नवा ।
इति राजनिर्घण्टः ॥

लोहिताक्षः, पुं, (लोहिते अक्षिणी यस्य । सक्-

थ्यक्ष्णोः स्वाङ्गात् षच् ।) विष्णुः । इति शब्द-
माला ॥ कोकिलः । इति शब्दचन्द्रिका ॥ रक्त-
वर्णचक्षुर्युक्ते, त्रि । (यथा, महाभारते । १ ।
५६ । ६ ।
“यथा सूतो लोहिताक्षो महात्मा
पौराणिको वेदितवान् पुरस्तात् ॥”)

लोहिताङ्गः, पुं, (लोहितमङ्गं यस्य ।) मङ्गल-

ग्रहः । इत्यमरः ॥ (यथा, हरिवंशे । २२८ । १२ ।
“वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः ॥”)
कम्पिल्लकः । इति राजनिर्घण्टः ॥

लोहिताननः, पुं, (लोहितमाननं मुखं यस्य ।)

नकुलः । इति राजनिर्घण्टः ॥ रक्तवर्णमुखे, त्रि ॥

लोहितायः, [स्] क्ली, (लोहितमयः ।) ताम्रम् ।

इति त्रिकाण्डशेषः ॥ (विशेषोऽस्य ताम्रशब्दे
विज्ञेयः ॥)

लोहितायसं, क्ली, (लोहितमायसम् ।) रक्तवर्ण

लोहजातिः । इति मुग्धबोधव्याकरणम् ॥

लोहिनी, स्त्री, (लोहिता + “वर्णादनुदात्ता-

दिति ।” ४ । १ । ३९ । इति ङीप् । तकारस्य
नकारादेशश्च ।) रक्तवर्णा स्त्री । यथा, --
“रोहिणी रोहिता रक्ता लोहिनी लोहिता
च सा ॥”
इति जटाधरः ॥

लोहोत्तमं, क्ली, (लोहेषु सर्व्वतैजसेषु उत्तमम् ।)

स्वर्णम् । इति हेमचन्द्रः ॥

लौकायतिकः, पुं, (लोकायतमधीते वेद वा ।

लोकायत + “क्रतूक्थादि सूत्रान्तात् ठक् ।”
४ । २ । ६० । इति ठक् ।) तार्ककभेदः । (यथा,
गो० रामायणे । २ । १०९ । २९ ।
“कच्चिन्नु लौकायतिकान् ब्राह्मणानुपसेवसे ।
अनर्थकुशला ह्येते मूढाः पण्डितमानिनः ॥”)
चार्व्वाकशास्त्रवेत्ता । लोकायतं वेत्ति इत्यर्थे
ष्णिकप्रत्ययेन निष्पन्नोऽथम् ॥

लौकिकः, त्रि, (लोके विदितः प्रसिद्धो हितो लोकं

वेत्ति वा । लोक + ठञ् ।) लोकव्यवहारसिद्धः ।
यथा, --
“वैदिका लौकिकज्ञैश्च ये यथोक्तास्तथैव ते ।
निर्णीतार्थास्तु विज्ञेया लोकात्तेषामसंग्रहः ॥”
इति कलापव्याकरणे सन्धिवृत्तौ प्रथमप्रकरणम् ॥
लोकाय हित इत्यर्थे च ष्णिकप्रत्ययनिष्पन्नः ।
इति मुग्धबोधव्याकरणम् ॥

लौकिकता, स्त्री, (लौकिकस्य भावः । लौकिक +

तल् ।) लोकव्यवहारसिद्धत्वम् । शिष्टाचारेऽस्य
भूरिप्रयोगः ॥

लौकिकाग्निः, पुं, (लौकिकोऽग्निः ।) असंस्कृ-

ताग्निः । यथा, श्राद्धतत्त्वे ।
“न पैत्र्ययज्ञियो होमो लौकिकाग्नौ विधी-
यते ॥”

लौड, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अलु-
लौडत् । इति दुर्गादासः ॥

लौहः, पुं, (लोह एव । प्रज्ञाद्यण् ।) लोहः ।

इत्यमरटीकायां भरतः ॥ स च पञ्चविधः ।
यथा । काञ्चिः १ पाण्डिः २ कान्तः ३
कालिङ्गः ४ वज्रकः ५ । अस्य त्रयोदशविध-
संस्काराः । यथा । शालिघर्षणम् १ उद्वर्त्तनम् १
अम्लभावनम् ३ आतपशोषः ४ निषेकः ५
मारणम् ६ दलनम् ७ क्षालनम् ८ सूर्य्यपाकः ९
स्थालीपाकः १० चूर्णनम् ११ पुटपाकः १२
पाकनिष्पन्नः १३ । अस्य गुणाः । आयुर्ब्बल-
वीर्य्यकामदातृत्वम् । रोगनाशित्वम् । श्रेष्ठ-
तमरसायनत्वञ्च । कृष्णवर्णस्य तस्य गुणाः ।
शोथशूलार्शःकुष्ठपाण्डुप्रमेहमेदवायु-नाशित्वम् ।
वयःस्थैर्य्यचक्षुस्तेजःकारित्वम् । सारकत्वम् ।
गुरुत्वञ्च । शोधितस्यास्य गुणौ । सर्व्वरोग-
नाशित्वम् । मरणनाशित्वञ्च । अशुद्धस्य तस्य
गुणाः । जारणायोग्यत्वम् । आयुर्नाशकत्वञ्च ।
इति रत्नावल्यादयः ॥ * ॥ (अथास्य शोधनादि-
नियमः ।
“त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् ।
ततः क्वाथे पादशेषे लौहस्य पलपञ्चकम् ॥
कृत्वा तप्ताणि पत्राणि सप्तवारं निषेचयेत् ।
ध्रुवं प्रलीयते दोषो गिरिजे लोहसम्भवः ॥”
इति लोहशोधनम् ॥ * ॥
“भानुपाकात्तथा स्थालीपाकाच्च पुटपाकतः ।
निरुत्थो जायते लौहो यथोक्तफलदो भवेत् ॥”
इति संक्षिप्तलौहमारणम् ॥ * ॥
“द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् ।
कन्यानीरेन संमर्द्द्य यामयुग्मञ्च संपुटे ।
पुटेदेवं लौहचूर्णं सप्तधा मारणं व्रजेत् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥”) अन्यत् लोहशब्दे द्रष्टव्यम् ॥ (छाग-
विशेषः । यथा, महाभारते । १३ । ८८ । १३ ।
“अजेन वापि लौहेन मघास्वेव यतव्रतः ।
हस्तिच्छायासु विधिवत् कर्म्म व्यजनवीजितम् ॥”
लोहशब्दार्थोऽप्यत्र ॥)

लौहचारकः, पुं, (लौहेन लौहनिगडेन चारः

प्रचारो यत्र ।) नरकभेदः ॥ यत्र निगडैर्वध्यन्ते ।
इति पुराणम् ॥

लौहजं, क्ली, (लौहात् जायते इति । जन् + डः ।)

मण्डूरम् । इति रत्नमाला ॥

लौहभाण्डः, पुं, (लौहस्य भाण्डमिवाकृतिर्यत्र ।)

अश्मभालम् । इति शब्दचन्द्रिका ॥ हामन्-
दिस्ता इति भाषा । लौहनिर्म्मितभाण्डे, क्ली ॥

लौहभूः, स्त्री, (लौहस्य भूरिव ।) कठिनी । सा

तु लौहपात्रविशेषः । यथा, --
“लौहात्मा चायुगा लौहा लौहभूः कठिनी-
त्यपि ॥”
इति शब्दचन्द्रिका ॥

लौहमलं, क्ली, (लौहस्य मलम् ।) लोहमलम् ।

इति राजनिर्घण्टः ॥ (तथास्य विषयः ।
“सद्यो लौहमलाज्यमाक्षिकसिताभागाः समा
मानतः
पात्रे ताम्रमये दिनान्तमथितं संस्थापये-
दातपे
पश्चात्तद्घनतां प्रणीय रजनीमेकां बहिः
स्थापयेत् ।
पात्रे ताम्रमये विधेयमथवा पात्रे बवि-
र्भाविते ॥
पश्चान्माषचतुष्टयं प्रतिदिनं जग्ध्वा जलं
शीतलम् ।
पेयं भोजनपूर्ब्बमध्यविरतोऽस्वच्छन्दभोज्यैर्नरैः ॥
जेतुं शूलहुताशमान्द्यकसनश्वासाम्लपित्तज्वरो-
न्मादापस्मृतिमेहसर्व्वजठराजीणादि सर्व्वा
रुजः ॥”
इति भैषज्यधन्वन्तरौ शूले चतुःसममण्डूरम् ॥)

लौहशङ्कुः, पुं, (लौहस्य शङ्कुयत्र ।) नरकविशषः ।

यत्र सूचीभिर्भिद्यते । इति पुराणम् ॥ लौह-
निर्म्मितकीलकश्च ॥

लौहा, स्त्री, लौहभूः । इति शब्दचन्द्रिका ॥

लौहात्मा, स्त्री, (लौह आत्मा यस्याः ।) लौहभूः ।

इति शब्दचन्द्रिका ॥

लौहितः, पुं, लोहितः । इति लोहितशब्दात्

स्वार्थे ष्ण-(अण्) प्रत्ययेन निष्पन्नः ॥ लोहित-
सम्बन्धिनि, त्रि ॥

लौहितीकः, त्रि, (लोहित इव । लोहित + “कर्क-

लोहितादीकक् ।” ५ । ३ । ११० । इति ईकक् ।)
लोहितवर्णतुल्यः । इति सिद्धान्तकौमुदी ॥

लौहित्यं, क्ली, (लोहितस्य भावः । लोहित +

ष्यञ् ।) लोहितत्वम् । इति मेदिनी ।
ये, १०२ ॥
पृष्ठ ४/२३९

लौहित्यः पुं, (लोहित एव । स्वार्थे ष्यञ् ।)

नदभेदः । स च ब्रह्मपुत्त्रः । इति मेदिनी ।
ये, १०२ ॥ सागरः । इति शब्दमाला ॥ तस्य
नदविशेषस्य उत्पत्तिर्यथा, --
सगर उवाच ।
“अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः ।
कथं शान्तनुभार्य्यायां रतः स कमलासनः ॥
पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् ।
तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ॥
और्व्व उवाच ।
शृणु त्वं नृपशार्द्दूल कथयामि महत्तरम् ।
आख्यानं ब्रह्मपुत्त्रस्य लौहितस्य महात्मनः ॥
हरिवर्षे महावर्षे शान्तनुर्नाम नामतः ।
मुनिरासीन्महाभागो ज्ञानवान् सुतपोधनः ॥
तस्य भार्य्या महाभागा अमोघाख्या महा-
सती ।
हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ॥
तया सार्द्धं स कैलासमर्य्यादापर्व्वतेऽवसत् ।
लोहित्याख्यस्य सरसस्तीरे वै गन्धमादने ॥
एकदा स तपोनिष्ठो निजपुष्पादिगोचरे ।
जगाम वनमध्यन्तु चिन्वन् बहुफलानि च ॥
तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः ।
तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया ॥
तां दृष्ट्वा हेमगर्भाभां युवतीमतिसुन्दरीम् ।
मोहितो मदनेनाशु तथाभूद्दूषितेन्द्रियः ॥
उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् ।
अथाधावत्तदा ब्रह्मा संमुखो मदनार्द्दितः ॥
धावमानं विधातारं दृष्ट्वामोघा महासती ।
मैवं मैवमिति प्रोक्त्वा पर्णशालां व्यलीयत ॥
इदञ्चोवाच धातारममोघा कुपिता तदा ।
पर्णशालात्तरगता द्वारमावृत्य तत्क्षणात् ॥
अकार्य्यं न मया कार्य्यं मुनिपत्न्या विगर्हितम् ।
बलात् प्रमथ्ये चाहं तत्त्वया त्वाञ्च शपाम्यहम् ॥
अमोघया चैवमुक्ते विधातुश्च तदा नृप ।
रेतश्चस्कन्द च तदैवाश्रमे शान्तनोर्मुनेः ॥
च्युते रेतसि धातापि हंसयानं समास्थितः ।
लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ ॥
गते वेधसिं शान्तनुर्निजमाश्रममागतः ।
आगत्य दृष्ट्वा हसानां पदक्षोभं तथा भुवि ॥
तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् ।
अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ॥
किमेतदत्र शुभगे प्रवृत्तं दृश्यते तु यत् ।
पक्षिणाञ्च पदक्षोभं तेजश्चेदञ्च कीदृशम् ॥
सा तस्य वचन श्रुत्वा शान्तनुं मुनिसत्तमम् ।
अमर्षितेव न्यगददाकुला विकलानना ॥
हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः ।
कमण्डलुकरो भीरू रतिं मां समयाचत ॥
ततो मया मर्त्सितश्च उटजान्तरलीनया ।
प्रच्याव्य तेजः संयातो मम शापभयार्द्दितः ॥
कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो ।
न हि मां धर्षणां सोढुं कश्चित् शक्रोति जीव-
भृत् ॥
स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः ।
इति निश्चित्य मनसा तत्र ध्यानपरोऽभवत् ॥
दिव्यध्यानेन तज्ज्ञात्वा देवकार्य्यमुपस्थितम् ।
तीर्थावतारणञ्चापि हिताय जगतां मुनिः ॥
ध्यात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत् ।
इदं तेजो ब्रह्मणस्त्वं पिबामोघे ममाज्ञया ॥
हिताय सर्व्वजगतां देवकार्य्यार्थसिद्धये ।
भवत्या निकटं ब्रह्मा स्वयमेव समागतः ॥
त्वामप्राप्य महाकृत्यमावयोः स समर्प्य च ।
गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि तद्वचः ॥
तत् श्रुत्वा शान्तनोर्व्वाक्यममोघातीव लज्जिता ।
सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती ॥
नान्यस्य तेजो धास्यामि न चेत्ते विमनस्कता ।
अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज ॥
ततस्तस्या वचः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः ।
स्वयं पीत्वा च तत्तेजस्तस्या गर्भे व्यसेचयत् ॥
संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती ।
गर्भं दधानामोघाख्या हिताय जगतां ततः ॥
तस्यां काले तु संप्राप्ते संजातो जलसञ्चयः ।
तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक् ॥
रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् ।
चतुर्भुजः पद्मविद्याधरशक्तिधरस्तथा ॥
शिशुभारशिरःस्थश्च तुल्यकायो जलोत्करैः ।
तं जातञ्च तथा भूतं शान्तनुर्लोकशान्तनुः ।
चतुर्णां पर्व्वतानाञ्च मध्यदेशे न्यवेशयत् ॥
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः ।
जारुधिः पश्चिमे शैलः पूर्व्वे सम्बर्त्तकाह्वयः ॥
तेषां मध्ये स्वयं कुण्डं पर्व्वतानां विधेः सुतः ।
कृत्वातिववृधे नित्यं शरदीव निशाकरः ॥
तं तोयमध्यगं पुत्त्रमासाद्य द्रुहिणः स्वयम् ।
क्रमतस्तस्य संस्कारानकरोद्देहशुद्धये ॥
अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।
तोयराशिस्वरूपेण ववृधे पञ्चयोजनान् ॥
तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे ।
शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः ॥
तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् ।
चक्रे मातृवधं घोरमत्युग्रं पितुराज्ञया ॥
तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।
स जगाम महाकुण्डं ब्रह्माख्यं स्नातुमिच्छया ॥
तत्र स्नात्वा च पीत्वा च मातृहत्यां व्यपानयत् ।
वीथीं परशुना कृत्वा तञ्च क्ष्मामवतारयत् ॥”
इति कालिकापुराणे जामदग्न्योपाख्याने ८४
अध्यायः ॥ * ॥ अपि च ।
“जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तं वरम् ।
वीथीं परशुना कृत्वा ब्रह्मपुत्त्रमवाहयत् ॥
ब्रह्मकुण्डात् सुतः सोऽथ कासारे लोहिताह्वये ।
कैलासोपत्यकायान्तु न्यपतद्ब्रह्मणः सुतः ॥
तस्यापि सरसस्तीरं समुत्थाय महाबलः ।
कुठारेण दिशं पूर्व्वामनयद्ब्रह्मणः सुतम् ॥
ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च ।
कामरूपान्तरं पीठमवाहयदमुं हरिः ॥
तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् ।
लोहित्यात् सरसो जातो लौहित्याख्यस्ततो
ऽभवत् ॥
स कामरूपमखिलं पीठमाप्लाव्य वारिणा ।
गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥
प्रागेव दिव्ययमुनां संत्यक्त्वा ब्रह्मणः सुतः ।
पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥
चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः ।
स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥
चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः ।
लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥”
इति कालिकापुराणे ८५ अध्यायः ॥

ल्पी, गि श्लिषि । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-सक०-अनिट् ।) ओष्ठ्यवर्गाद्योपधः ।
ल्पिनाति ल्पीनः ल्पीनिः । अन्तःस्थाद्योपध
इति रामानाथः । ल्यिनाति । इति दुर्गादासः ॥

ल्वी, गि ग गत्याम् । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-सक०-अनिट् ।) वकारोपधः । ग,
ल्वीनाति ल्वीतः ल्वीतिः । गि, ल्विनाति
ल्वीनाति ल्वीनः ल्वीनिः । गिनैव क्र्यादित्व-
सिद्धौ गकरणं प्वादित्वविकल्पार्थम् । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/लाज&oldid=44057" इत्यस्माद् पुनः प्राप्तिः