शब्दकल्पद्रुमः/ल

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/१९४
ल-

, लकारः । स तु यवर्गस्य तृतीयो वर्णो व्यञ्जन-

स्याष्टाविंशवर्णश्च । अस्योच्चारणस्थानं दन्तः ।
इति व्याकरणम् ॥ (तथाच सिद्धान्तकौमुद्याम् ।
“ऌतुलसानां दन्ताः ॥”) तस्य स्वरूपं यथा, --
“लकारं चञ्चलापाङ्गि ! कुण्डलीत्रयसंयुतम् ।
पीतविद्युल्लताकारं सर्व्वरत्नप्रदायकम् ॥
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
आत्मादितत्त्वसहितं हृदि भावय पार्व्वति ! ॥”
इति कामधेनुतन्त्रम् ॥ * ॥
(वङ्गीयवर्णमालायाम् ।) अस्य लेखनप्रकारो
यथा, --
“कुण्डलीत्रयसंयुक्ता वामाद्दक्षगता त्वधः ।
पुनरूर्द्ध्वगता रेखा तासु नारायणः शिवः ।
ब्रह्मशक्तिश्च सन्तिष्ठेद्ध्यानमस्य प्रचक्षते ॥”
ध्यानं यथा, --
“चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् ।
सर्व्वदा वरदां भीमां सर्व्वालङ्कारभूषिताम् ॥
योगीन्द्रसेवितां नित्यां योगिनीं योगरूपिणीम् ।
चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम् ॥
एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥
तस्य नामानि यथा, --
“लश्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः ।
बलानुजः पिनाकीशो व्यापको मांससंज्ञकः ॥
खड्गी नादोऽमृतं देवी लवणं वारुणीपतिः ।
शिखा वाणी क्रिया माता भामिनी कामिनी
प्रिया ॥
ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः ।
विश्वात्ममन्त्रौ बली चेतो मेरुर्गिरिः कला रसः ॥”
इति नानातन्त्रशास्त्रम् ॥
(अनुबन्धविशेषः । यथा, कविकल्पद्रुमे ।
“दिवाद्यो य्लादादिकः ।” एतेन अद् लौ
भक्षणे लुग्द्भ्योऽपः । अत्ति इति ॥ छन्दः-
शास्त्रोक्तो लघुसंज्ञको गणविशेषः । इति
छन्दोमञ्जरी ॥)

लं, क्ली, (लीयतेऽत्रेति । ली + अभिधानान्निरुप-

पदेऽपि डः ।) पृथ्वीबीजम् । इति तन्त्रम् ॥

लः, पुं, (लातीति । ला + अच् ।) इन्द्रः । इति

भेदिनी । ले, १ ॥

लक, क स्वाद आपने । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) स्वादो रसो-
पादानम् । क, लाकयति मोदकं बालकः ।
इति दुर्गादासः ॥

लकचः, पुं, लकुचवृक्षः । इति शब्दरत्नावली ॥

लकुचः, पुं, (लक्यते इति । लक स्वादे + बाहु-

लकादुचः ।) वृक्षविशेषः । डेहुया इति
मादार इति च भाषा । तत्पर्य्यायः । लिकुचः २
शालः ३ कषायी ४ दृढवल्कलः ५ डहुः ६
कार्श्यः ७ शूरः ८ स्थूलस्कन्धः ९ । अस्य गुणाः ।
तिक्तरसत्वम् । कषायत्वम् । उष्णत्वम् । लघु-
त्वम् । कण्ठदोषहरत्वम् । दाहित्वम् । मल-
संग्रहदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि ।
आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा ॥
मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत् ।
शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम् ॥
सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् ।
कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ॥”
इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् ।
श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम् ॥”
इति वैद्यकम् ॥

लक्तकः, पुं, (रक्तेन रक्तवर्णेन कायतीति । कै +

कः । रस्य लत्वम् ।) अलक्तकः । इति शब्द-
रत्नावली ॥ (यथा, गो० रामायणे । २ । ६० । १६ ।
“प्रकृत्या लक्तकरसप्रख्यौ तद्रसवर्ज्जितौ ।
तथैव रेजतुस्तस्याश्चरणौ पद्मवर्चसौ ॥”)
जीर्णवस्त्रखण्डम् । नेकडा इति भाषा । तत्-
पर्य्यायः । कर्पटः २ । इत्यमरः ॥ नक्तकः ३ ।
इति भरतः ॥ द्वे मलिनत्वादिदुष्टजीर्णवस्त्रखण्डे
नेकडा इति ख्याते । लक्तकाद्यष्टकं वस्त्रमात्रे
इति केचित् ॥ पटोऽस्त्री कर्पटः शाटः सिचय-
प्रोतलक्तकाः । इति रभसः ॥ लक्यते हीनै-
रास्वाद्यते अनुभूयते लक्तः रक लक क स्वाद
आपने चुर्भ्यो ञिर्व्वेति विभाषितत्वात् न ञिः
कर्म्मणि क्तः ततः स्वार्थे कः लक्तकोऽन्तः स्थादिः ।
अज्यते स्म अक्तं व्यक्तं अन्जोः क्तः न अक्तं कं
मुखं यस्मादिति त्रिपदबहुव्रीहौ मनीषादित्वात्
अक्तस्य पूर्व्वलोपे नक्तकस्तवर्गपञ्चमादिरपि ।
इति तट्टीकायां भरतः ॥

लक्तकर्म्मा, [न्] पुं, (लक्तं रक्तवर्णं करोतीति ।

कृ + मनिन् ।) रक्तवर्णलोध्रः । इति शब्द-
चन्द्रिका ॥

लक्ष, क ञ दर्शने । अङ्के । इति कविकल्पद्रुमः ॥

(चुरा०-उभ०-सक०-सेट् ।) क ञ, लक्षयति
लक्षयते घटं लोकः । पश्यति चिह्नयुक्तं करोती-
त्यर्थो वा । इति दुर्गादासः ॥

लक्षं, क्ली, (लक्षयतीति । लक्ष + अच् ।) व्याजः ।

शरव्यम् । इति मेदिनी । षे, २३ ॥ (यथा,
मनुः । ७ । ५४ ।
“मौलान् शास्त्रविदः शूरान् लब्धलक्षान्
कुलोद्गतान् ।
सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षि-
तान् ॥”)

लक्षं, क्ली, स्त्री, (लक्षयतीति । लक्ष + अच् ।)

दशायुतसंख्या । इति मेदिनी । षे, २३ ॥ लाक
इति भाषा । (यथा, कथासरित्सागरे । ४३ । १०९ ।
“तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि ।
लक्षमभ्यधिकं देव वर्त्तते वरवाजिनाम् ॥”)

लक्षकं, क्ली, (लक्षयतीति । लक्ष + ण्वुल् ।)

लक्षयति यत् । यथा । लक्षकं नाम लक्षयति ।
“यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् ।
तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि ॥”
यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेव
तादृशार्थे लक्षकं यदि तादृशार्थे शक्तिशून्यं
भवेत् । सैन्धवादयस्तु शब्दाः तुरगादिसम्ब-
न्धिनि लवणादाविव तुरगादावपि शक्ता एव ।
गङ्गादयस्तु तीरादावसङ्केतिताः तत्सम्बन्धि-
बीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोध-
यन्ति तत्र लक्षका एव । अपि च । तदेवं
विधलक्षणावत्त्वाल्लक्षकं नामापि जहत्-
स्वार्थादिभेदादनेकविधमित्यर्थः स्यादेतद्यदि
तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा-
द्यनुभवे भवेद्धेतुस्तदोक्तक्रमेण लक्षकाणां
विभागो न त्वेतदस्ति । तीराद्यन्वयबोधं प्रति
तीरादिशक्तत्वेनैव पदज्ञानस्य लाघवेन हेतु-
तया लक्षकाणामननुभावकत्वात् गुरूणामग्नौ
शैत्यं स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायां
घोष इत्यादौ लक्षितेन तीरादिना सार्द्धम-
गृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वान्वयबोध-
प्रविष्टत्वादिति चेन्न । प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य-
यार्थस्य धर्म्म्यन्तरेऽन्वयबुद्धेर्व्व्युत्पन्नतया तीराद्य-
विशेषितस्य सुबर्थाधेयत्वादेर्घोषादावन्वयबोधा-
योगात् । न च शक्तस्यैव पदस्य स्वसाकाङ्क्ष-
पदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्म्मिकान्वय-
बोधं प्रति हेतुत्वादन्वयबुद्धौ लक्षार्थस्य प्रवेशः ।
कुन्ताः प्रविशन्तीत्यादौ लक्ष्यस्य कुन्तधरादेर-
न्वयविशेष्यत्वानुपपत्तेः । कुमतिः पशुरित्यादौ
लक्षार्थयोर्म्मिथोऽन्वयबोधस्याप्यनुभविकत्वाच्च ।
तस्मात् शक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव-
त्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च न व्यभि-
चारः । इति शब्दशक्तिप्रकाशिका ॥

लक्षणं, क्ली, (लक्ष्यतेऽनेनेति । लक्ष + ल्युट् ।

यद्वा, “लक्षेरट् च ।” उणा० ३ । ७ । इति
नप्रत्ययस्तस्याडागमश्च ।) चिह्नम् । (यथा,
रघुः । १० । ६ ।
“अव्याक्षेपो भविष्यन्त्याः कार्य्यसिद्धेर्हि लक्ष-
णम् ॥”)
नाम । इति मेदिनी । णे, ७५ ॥ लक्ष्यते ज्ञायते-
ऽनेनेति लक्षणम् । तद्द्विविधम् । इतरभेदानु-
मापकम् । व्यवहारप्रयोजकञ्च । इति न्याय-
मतम् ॥ व्याकरणमते तु ।
“कृत्तद्धितसमासानामभिधानं नियामकम् ।
लक्षणन्त्वनभिज्ञानां तदभिज्ञानसूचकम् ॥”
इति वोपदेवः ॥
(लक्षणलक्षणन्तु । “समानासमानजातीयो
व्यवच्छेदो लक्षणार्थः ।” इति सांख्यतत्त्वकौमु-
द्याम् । ५ ॥ सुखदुःखलक्षणं यथा, मनौ । ४ । १६० ।
“सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् ।
एतद्बिद्यात् समासेन लक्षणं सुखदुःखयोः ॥”)
दर्शनम् । इति लक्षधात्वर्थदर्शनात् ॥

लक्षणः, पुं, (लक्ष + “लक्षेरट् च ।” उणा० ३ । ७ ।

इति नस्तस्याडागमश्च । लक्षणमस्त्यस्येति अच्
वा ।) सौमित्रिः । यथा, हरिवंशे । ४१ । १२९ ।
“लक्षणानुगतो यश्च सर्व्वभूतहिते रतः ।
चतुर्द्दश वने तप्त्वा तपो वर्षाणि राघवः ॥”)
सारसपक्षी । इति शब्दरत्नावली ॥

लक्षणा, स्त्री, (लक्षण + टाप् ।) सारसी । इति

मेदिनी । णे, ७५ ॥ हंसी । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (अप्सरोविशेषः । यथा,
महाभारते । १ । १२३ । ५९ ।
“अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥”)
शक्यसम्बन्धः । यथा, --
“लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः ॥”
इति भाषापरिच्छेदः ॥
गङ्गायां घोष इत्यादौ गङ्गापदस्य शक्यार्थे
प्रवाहरूपे घोषस्यान्वयानुपपत्तिस्तात्पर्य्यानुप-
पत्तिर्व्वा यत्र प्रतिसन्धीयते तत्र लक्षणया
तीरस्य बोधः । सा च शक्यसम्बन्धरूपा । तथा
हि प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृही-
तत्वात्तीरस्य स्मरणं ततः शाब्दबोधः । इति
सिद्धान्तमुक्तावली ॥ * ॥ अपि च ।
“जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिका-
दिकाः ।
लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा ॥”
काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया
जहत्स्वार्थेत्युच्यते । यथा तीरत्वादिना गङ्गादि-
पदस्य । काचिच्छक्यलक्षोभयवृत्तिना शक्य-
पृष्ठ ४/१९५
वृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था ।
यथा द्रव्यत्वादिना नीलघटत्वादिना च घटादि-
पदस्य । काचिल्लक्षतावच्छेदकीभूततत्तद्रूपेण
पूर्व्वपूर्व्वं प्रत्यायकत्वान्निरूढा । यथा, आरु-
ण्यादिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरु-
णादिपदस्य । काचिच्च पूर्व्वपूर्व्वं ताद्रूप्येणा-
प्रत्यायकत्वादाधुनिकी । यथा घटत्वादिना
पटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेण
बोधकतया गौणीत्युपगृह्यते । यथा अग्नि-
र्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादि-
पदस्य । इति शब्दशक्तिप्रकाशिका ॥ * ॥
अन्यच्च ।
“मुख्यार्थवाधे तद्युक्तो ययान्योऽर्थः प्रतीयते ।
रूढेःप्रयोजनाद्वासौ लक्षणाशक्तिरर्पिता ॥” १ ॥
कलिङ्गः साहसिक इत्यादौ कलिङ्गादिशब्दो
देशविशेषादिरूपे स्वार्थे असम्भवन् यया शब्दस्य
शक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति ।
यथा च गङ्गायां घोष इत्यादौ गङ्गादिशब्दो
जलमयाद्यर्थवाचकत्वात् प्रकृतेऽसम्भवन् स्वस्य
सामीप्यादिसम्बद्धसम्बन्धिनं तटादिं बोधयति ।
सा शब्दस्यार्पिता स्वाभाविकेतरा ईश्वरानुद्-
द्भाविता वा शक्तिर्लक्षणा नाम । पूर्व्वत्र हेतू
रूढिः प्रसिद्धिरेव । उत्तरत्र गङ्गातटे घोष
इति प्रतिपादनादलभ्यस्य शीतत्वपावनत्वाति-
शयस्य बोधनरूपं प्रयोजनम् । हेतुं विनापि
यस्य कस्यचित् सम्बन्धिनो लक्षणेऽतिप्रसङ्गः
स्यादत उक्तं रूढेः प्रयोजनाद्बेति ॥ * ॥
तद्भेदानाह ।
“मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये ।
स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥” २ ॥
रूढावुपादानलक्षणा यथा । श्वेतो यावति ।
प्रयोजने यथा । कुन्ताः प्रविशन्ति । अन-
योर्हि श्वेतादिभिः कुन्तादिभिश्च अचेतन-
तया केवलैर्धावनप्रवेशनक्रिययोः कर्त्तृतया-
न्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनो
ऽश्वादयः पुरुषादयश्च आक्षिप्यन्ते । पूर्ब्बत्र
प्रयोजनाभावाद्रूढिः । उत्तरत्रं कुन्तादीना-
मतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थ-
स्यात्मनोऽप्युपादानम् । लक्षणलक्षणायान्तु
परस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवाजहत्-
स्वार्थेत्युच्यते ॥ * ॥
“अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥” ३ ॥
रूढिप्रयोजनयोर्लक्षणलक्षणा यथा । कलिङ्गः
साहसिकः गङ्गायां घोष इति च । अनयोर्हि
पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गा-
शब्दावात्मानमर्पयतः । यथा वा ।
“उपकृतं बहु तत्र किमुच्यते
सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे
सुखितमास्म ततः शरदां शतम् ॥”
अत्रानुपकारादीनां वाक्यार्थेऽन्वयसिद्धये उप-
कृतादयः शब्दाः आत्मानमर्पयन्ति । अत्राप-
कारिणं प्रति उपकारादिप्रतिपादनान्मुख्यार्थ-
वाधः वैपरीत्यलक्षणः सम्बन्धः फलमपकारा-
द्यतिशयः । इत्यमेव जहत्स्वार्थेत्युच्यते ॥ * ॥
“आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।”
ताः पूर्ब्बोक्ताश्चतुर्भेदा लक्षणाः ।
“विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत् ।
सारोपा स्यान्निगीर्णस्य मता साध्यवसा-
निका ॥ ४ ॥
रूढावुपादानलक्षणा सारोपा यथा । अश्वः
श्वेतो धावति अत्र हि श्वेतगुणवान् अश्वोऽनि-
गीर्णस्वरूपः स्वसमवेतश्वेतगुणतादात्म्येन प्रती-
यते । प्रयोजने यथा एते कुन्ताः प्रविशन्ति
अत्र सर्व्वनाम्ना कुन्तधारिपुरुषनिर्द्देशात्
सारोपात्वम् । रूढौ लक्षणलक्षणा यथा ।
कलिङ्गः पुरुषो युध्यति । अत्र पुरुषकलिङ्गयो-
राधार्य्याधारतासम्बन्धः । प्रयोजने यथा आयु-
र्घृतम् । अत्रायुष्कारणमपि घृतं कार्य्यकारण-
भावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते अन्य-
वैलक्षण्येनाव्यभिचारेणायुष्करणं प्रयोजनम् ।
यथा च राजकीये पुरुषे गच्छति राजासौ
गच्छति इत्यत्र स्वस्वामिभावलक्षणः सम्बन्धः ।
यथा वा अग्रमात्रेऽवयवे हस्तोऽयम् । अत्राव-
यवावयविभावलक्षणः सम्बन्धः । ब्राह्मणेऽपि
तक्षासौ अत्र तात्कर्म्म्यलक्षणः सम्बन्धः । इन्द्रा-
र्थासु स्थूणासु अमी इन्द्राः अत्र तादर्थ्यरूपः ।
एवमन्यत्रापि । निगीर्णस्य पुनर्विषयस्यान्यता-
दात्म्यप्रतीतिकृत् साध्यवसाना । अस्याश्चतुर्षु
भेदेषु पूर्ब्बोदाहरणान्येव ॥ * ॥
“सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ।
सादृश्यात्तु मता गौण्यस्तेन षोडश
भेदिताः ॥” ५ ॥
ताः पूर्ब्बोक्ता अष्टभेदा लक्षणाः सादृश्येतर-
सम्बन्धाः कार्य्यकारणभावादयः । अत्र शुद्धानां
पूर्ब्बोदाहरणान्येव । रूढावुपादानलक्षणा
सारोपा गौणी यथा । एतानि तैलानि हेमन्ते
सुखानि अत्र तैलशब्दस्तिलभवस्नेहरूपं
मुख्यार्थमुपादायैव सार्षपादिस्नेहेषु वर्त्तते ।
प्रयोजने यथा राजकुमारेषु तत्सदृशेषु च
गच्छत्सु एते राजकुमारा गच्छन्ति । रूढा
वुपादानलक्षणा साध्यवसाना गौणी यथा
तैलानि हेमन्ते सुखानि । प्रयोजने यथा
राजकुमारा गच्छन्ति । रूढौ लक्षणलक्षणा
सारोपा गौणी यथा राजा गौडेन्द्रः कण्टकं
शोधयति । प्रयोजने गौर्व्वाहिकः । रूढौ
लक्षणलक्षणा साध्यवसाना गौणी यथा
कण्टकं शोधयति । प्रयोजने यथा गौर्ज्ज-
ल्पति ॥ * ॥
“व्यङ्गस्य गूढागूढत्वाद्द्बिधा स्युः फल-
लक्षणाः ॥” ६ ॥
प्रयोजने या अष्टभेदा लक्षणा दर्शितास्ताः
प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा
भूत्वा षोडशभेदाः । तत्र गूढः वाक्यार्थभावना-
परिपक्वबुद्धिविभवमात्रवेद्यः । यथा उपकृतं
बहु तत्रेत्यादि । अगूढोऽतिस्पष्टतया सर्व्वजन-
वेद्यः । यथा उपदिशति कामिनीनां यौवन-
मद एव ललितानि । अत्रोअप्दिशतीत्यनेन
आविष्करोतीति लक्ष्यते आविष्कारातिशय-
श्चाभिधेयवत् स्फुटं प्रतीयते ॥ * ॥
“धर्म्मिधर्म्मगतत्वेन फलस्यैता अपि द्बिधा ॥” ७ ॥
एता अनन्तरोक्ताः षोडशभेदा लक्षणाः
फलस्य धर्म्मगतत्वेन धर्म्मिगतत्वेन च प्रत्येकं
द्विधा भूत्वा द्बात्रिंशद्भेदाः । क्रमेणोदाहरति ।
“स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका
घनाः
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः
कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि
सर्व्वं सहे
वैदेही तु कथं भविष्यति ह हा हा देवि !
धीरा भव ॥”
अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्म्मिणि लक्ष्ये
तस्यैवातिशयः फलम् । गङ्गायां घोष इत्यत्र
तटादिषु लक्ष्येषु शीतत्वपावनत्वादिरूपधर्म्म-
स्यातिशयः फलम् ॥ * ॥
“तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥”
रूढावष्टौ फले द्वात्रिंशदिति चत्वारिंशल्लक्षणा-
भेदाः ॥ * ॥ किञ्च ।
“पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।” ८ ।
ता अनन्तरोक्ताः । अत्र पदगतत्वेन यथा
गङ्गायां घोषः । वाक्यगतत्वेन यया उपकृतं
बहु तत्रेति । एवमशीतिप्रकारा लक्षणा ।
इति साहित्यदर्पणम् ॥

लक्षा, स्त्री, (लक्षयतीति । लक्ष् + अच् । टाप् ।)

लक्षम् । दशायुतसंख्या । इति मेदिनी ।
षे, २३ ॥

लक्षितः, त्रि, (लक्ष् + क्तः ।) आलोचितः । दृष्टः ।

(यथा, रघुः । ७ । ४४ ।
“यैः सादिता लक्षितपूर्ब्बकेतून्
तानेव सामर्षतया निजघ्नुः ॥”)
अङ्कितः । इति लक्षधातोः कर्म्मणि क्तप्रत्ययेन
निष्पन्नम् ॥ लक्षणाश्रयश्च ॥

लक्षितलक्षणा, स्त्री, लक्षिते लक्षणा । यथा

द्बिरेफपदेन बहुव्रीहिलक्षणयोपस्थापिताद्रेफ-
द्बययुक्तभ्रमरपदादभिधयैव भृङ्गोपस्थितिः । अत्र
रूढिरस्ति । प्रकृते तु रूढिप्रयोजनाभावा-
न्नेयार्थत्वं इयमेव लक्षितलक्षणेत्युच्यते । न च
लक्षणाद्वयाभावात् कथमियं लक्षितलक्षणेति
वाच्यम् । यत्र लक्षिताच्छब्दादर्थाभिधानं
तत्रैव लक्षितलक्षणायाः परिभाषितत्वात् ।
इति साहित्यदर्पणटीकाकृत् श्रीरामचरणतर्क-
वागीशः ॥

लक्षिता, स्त्री, (लक्ष + क्तः । स्त्रियां टाप् ।)

परकीयान्तर्गतनायिकाभेदः । अस्या लक्षणम् ।
पृष्ठ ४/१९६
पुंश्चलीभावनिपुणा । उदाहरणं यथा, --
“यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् ।
यद्भवतु तद्भवतु वा विफलस्तव गोपनोपायः ॥”
इति रसमञ्जरी ॥

लक्ष्म, [न्] क्ली, (लक्षयत्यनेन लक्ष्यते इति वा ।

लक्ष + मनिन् ।) चिह्नम् । (यथा, शाकुन्तले
१ अङ्के ।
“सरसिजमनुविद्धं शैवलेनापि रम्यं
मनिलमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥”)
प्रधानम् । इत्यमरः । ३ । ३ । १२४ ॥

लक्ष्मणं, क्ली, चिह्नम् । इति शब्दरत्नावली ॥

(यथा, माधे । ९ । ३१ ।
“अथ लक्ष्मणानुगतकान्तवपु-
र्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणै-
स्तिमिरौघराक्षसकुलं विभिदे ॥”)
नाम । इत्यमरटीकायां भरतः ॥ (लक्ष्मीरस्त्य-
स्येति । लक्ष्मी + पामादित्वान्नः । लक्ष्म्या अच्चेति
गणसूत्रेणात्वं बोध्यम् ।) श्रीविशिष्टे, त्रि । इति
मेदिनी । णे, ७५ ॥

लक्ष्मणः, पुं, (लक्ष्मणमस्त्यस्येति । अर्शआदि-

त्वादच् ।) सारसः । इति हेमचन्द्रः ॥ श्रीराम-
भ्राता । इति मेदिनी । णे, ७६ ॥ (यथा,
अध्यात्मरामायणे । १ । ३ । ४५ ।
“भरणाद्भरतो नाम लक्ष्मणं लक्ष्मणान्वितम् ।
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत ॥”)
स च त्रेतायुगे अयोध्यायां सुमित्रागर्भे दश-
रथाज्जातः । इन्द्रजिद्वधार्थं तस्य त्ततुर्द्दशवर्ष-
पर्य्यन्तं आहारनिद्रादिरहितत्वं यथा, --
“एकदा रघुनाथश्च सीतया लक्ष्मणेन च ।
स्नातः सरसि तत्रस्थो रम्ये पञ्चवटीतटे ॥
उवाच सीतां हेमन्ते जलं सुस्वादु निर्म्मलम् ।
तथान्नव्यञ्जनं रम्यं सर्व्वं वस्तु सुशीतलम् ॥
फलञ्च चयनं चक्रे सीतायै प्रददौ पुरः ।
ततो ददौ लक्ष्मणाय पश्चाद्भुङ्क्ते स्वयं प्रभुः ॥
लक्ष्मणस्तु गृहीत्वा च नैव भुङ्क्ते फलं जलम् ।
मेघनादवधार्थञ्च सीतोद्धारणकारणात् ॥
निद्रां न याति नो भुङ्क्ते वर्षाणाञ्च चतुर्द्दश ।
य एव पुरुषो योगी तद्वध्यो रावणात्मजः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११५ अध्यायः ॥

लक्ष्मणप्रसूः, स्त्री, (लक्ष्मणस्य प्रसूर्जननी ।)

मुमित्रा । इति शब्दरत्नावली ॥

लक्ष्मणा, स्त्री, (लक्ष्मणमस्त्यस्या इति । अर्श

आदित्वात् अच् । टाप् ।) श्वेतकण्टकारी ।
इति राजनिर्घण्टः ॥ सारसी । ओषधिभेदः ।
इति मेदिनी । ७६ ॥ शेषस्तु लक्ष्मणाकन्द इति
नाम्ना ख्यातः । तस्याः पर्य्यायः । पुत्त्रकन्दा २
पुत्त्रदा ३ नागिनी ४ नागाह्वा ५ नागपत्री ६
तुलिनो ७ मज्जिका ८ अस्रबिन्दुच्छदा ९
पुच्छदा १० । अस्या गुणाः । मधुरत्वम् । शीतत्वम् ।
स्त्रीबन्ध्यत्वनाशित्वम् । रसायनकरत्वम् । बल्य-
त्वम् । त्रिदोषशमनत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“पुत्त्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छिता सदा ।
लक्ष्मणा पुत्त्रजननी वस्तगन्धाकृतिर्भवेत् ॥”
इति भावप्रकाशः ॥ * ॥
(मद्राधिपतिकन्या । यथा, भागवते । १० ।
५८ । ५७ ।
“सुताञ्च मद्राधिपतेर्लक्ष्मणां लक्ष्मणैर्युताम् ।
स्वयंवरे जहारैकः स सुपर्णः सुधामिव ॥”)
दुर्य्योधनकन्या । सा तु श्रीकृष्णपुत्त्रेण साम्बेन
विवाहिता । इति महाभारतम् ॥ (यथा,
भागवते । १० । ६८ । १ ।
“दुर्य्योधनसुतां राजन् लक्ष्मणां समितिञ्जयः ।
स्वयंवस्थामहरत् साम्बो जाम्बवतीसुतः ॥”)

लक्ष्मीः, स्त्री, (लक्षयति पश्यति उद्योगिनमिति ।

लक्षि + “लक्षेर्मुट् च ।” उणा० ३ । १६० । इति
ईप्रत्ययो मुडागमश्च ।) विष्णुपत्नी । तत्पर्य्यायः ।
पद्मालया २ पद्मा ३ कमला ४ श्रीः ५ हरि-
प्रिया ६ इन्दिरा ७ लोकमाता ८ मा ९
क्षीराब्धितनया १० रमा ११ । इत्यमरः ॥
जलधिजा १२ भार्गवी १३ । इति शब्दरत्ना-
वली ॥ हरिवल्लभा १४ दुग्धाब्धितनया १५
क्षीरसागरसुता १६ । इति कविकल्पलता ॥ * ॥
अथ लक्ष्मीमन्त्राः ।
“वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् ।
बीजमेतत् श्रियः प्रोक्तं सर्व्वकामफलप्रदम् ॥” * ॥
अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं
कर्म्म विधाय हृत्पद्मस्य पूर्ब्बादिकेशरेषु मध्ये च
पीठशक्तीः पीठमनुञ्च न्यसेत् । ॐ विभूत्यै
नमः । एवं उन्नत्यै कान्त्यै सृष्ट्यै कीर्त्त्यै सन्नत्यै
व्युष्ट्यै उत्कृष्ट्यै ऋद्ध्यै । ततः श्रीकमलासनाय
नमः । इत्यासनं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् ।
शिरसि भृगुऋषये नमः मुखे निवृच्छन्दसे नमः ।
हृदि श्रियै देवतायै नमः । ततः कराङ्गन्यासौ
कुर्य्यात् । श्रां अङ्गुष्ठाभ्यां नमः । श्रीं तर्जनीभ्यां
स्वाहा । श्रूं मध्यमाभ्यां वषट् । इत्यादि ।
एव श्रां हृदयाय नमः इत्यादिना च न्यसेत् ।
तथा च निबन्धे ।
“अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् ।”
ततो ध्यानम् ।
“कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यै-
श्चतुर्भिर्गजै
र्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानां
श्रियम् ।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटो-
ज्ज्वलां
क्षौमाबद्धनितम्बविम्बललितां वन्देऽरविन्द-
स्थिताम् ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।
ततः पीठपूजां विधाय केशरेषु मध्ये च विभू-
त्यादिपीठमन्वन्तपूजां विधाय पुनर्ध्यात्वा आवा-
हनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाय आव-
रणपूजामारभेत् । अग्न्यादिकेशरेषु मध्ये दिक्षु
च श्रां हृदयाय नमः । इत्यादिना संपूज्य दिग्-
दलेषु पूर्व्वादिषु ॐ वासुदेवाय नमः । एवं सङ्क-
र्षणाय प्रद्युम्नाय अनिरुद्धाय । विदिग्दलेषु ॐ
दमकाय ॐ सलिलाय ॐ गुग्गुलवे ॐ कुरु-
ण्टकाय । ततो देव्या दक्षिणे ॐ शङ्खनिधये
नमः । एवं वसुधारायै । वामे ॐ पद्मनिधये
वसुमत्यै । पत्राग्रेषु पूर्व्वादिषु ॐ वलाक्यै नमः ।
एवं विमलायै कमलायै वनमालिकायै विभी-
षिकायै शाङ्कर्य्यै वसुमालिकायै । तद्बहिरिन्द्रा-
दीन् वज्रादींश्च पूजयेत् । ततो धूपादिविस-
र्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं
द्वादशलक्षजपः । तथा च ।
“भानुलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।
तत्सहस्रञ्च जुहुयात् कमलैर्मधुराप्लुतैः ।
जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुराप्लुतैः ।
विल्वैः फलैर्व्वा जुहुयात्त्रिभिर्व्वा साधकोत्तमः ॥
वाग्भवं वनिता विष्णोर्माया मकरकेतनः ।
चतुर्ब्बीजात्मको मन्त्रश्चतुर्व्वर्गफलप्रदः ॥”
वाग्भवं ऐं । विष्णुवनिता श्रीँ । माया ह्रीँ ।
मकरकेतनः क्लीँ । अस्य पूजादिकं पूर्व्ववद्-
बोध्यम् । तथा च ।
“रमायाः कल्पिते पीठे तद्बिधानेन पूजयेत् ।
कुर्य्यात् प्रयोगान् तत्रस्थाननेन साधकोत्तमः ॥
निधिभिः सेव्यते नित्यं मूर्त्तिमद्भिरुपस्थितैः ॥”
ध्याने तु विशेषः ।
“माणिक्यप्रतिभप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजै-
र्हस्तग्राहितरत्नकुम्भसलिलैराषिच्यमानां सदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतीर्दधानां हरेः
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजा-
सनाम् ॥”
अस्य पुरश्चरणं द्वादशलक्षजपः । तथा च ।
“भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः ।
जुहुयादरुणैः पुष्पैस्तत्सहस्रं जितेन्द्रियः ॥”
मन्त्रान्तरम् । नमः कमलान्ते वासिन्यै ठद्वय-
मिति प्रोक्तो दशाक्षरः । तथा च निबन्धे ।
“दीर्घा यादिर्विसर्गान्तो ब्रह्मा भानुर्व्वसुन्धरा ।
वान्तेसिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः ॥”
“दीर्घा नकारः । यादिर्मः । ब्रह्मा कः ।
भानुर्मः । वसुन्धरा लः । वान्तेसिन्यै वासिन्यै ।
वह्निप्रिया स्वाहा । अस्य पूजाप्रयोगः । पूर्व्व-
वत् पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं
कुर्य्यात् । शिरसि दक्षऋषये नमः । मुखे
विराट्छन्दसे नमः । हृदि श्रियै देवतायै नमः ।
तथा च शारदायाम् ।
“ऋषिर्दक्षो विराट्छन्दो देवता श्रीः प्रकी
र्त्तिता ॥”
ततः कराङ्गन्यासौ । ॐ देव्यै नमोऽङ्गुष्ठाभ्यां
नमः । ॐ पद्मिन्यै नमस्तर्जनीभ्यां स्वाहा ।
ॐ विष्णुपत्न्यै नमो मध्यमाभ्यां वषट् ।
ॐ वरदायै नमोऽनामिकाभ्यां हुं ।
पृष्ठ ४/१९७
ॐ कमलरूपायै नमः कनिष्ठाभ्यां फट् । एवं
हृदयादिषु । ॐ देव्यै नमो हृदयाय नम
इत्यादि । तथा च निबन्धे ।
“देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् ।
विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् ।
अस्त्रं कमलरूपायै नमोऽन्ताः प्रणवादिकाः ॥”
ततो ध्यानम् ।
“आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजै-
र्बिभ्रती
दानं पद्मयुगाभये च वपुषा सौदामिनी-
सन्निभा ।
मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भाषिणी
पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती
हरिम् ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं
कृत्वा पूर्व्वोक्तपीठशक्तिसहितपीठमन्वन्तां पूजां
विधाय पूनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदान-
पर्य्यन्तं विधायावरणपूजामारभेत् । अग्न्यादि-
चतुष्क दिक्षु च ॐ देव्यै नमो हृदयाय नमः ।
ॐ पद्मिन्यै नमः शिरसे स्वाहा । ॐ विष्णु-
पत्न्यै नमः शिखायै वषट् । ॐ वरदायै नमः
कवचाय हुम् । ॐ कमलरूपायै नमोऽस्त्राय
फट् । ततः पूर्ब्बादिदलेषु पूर्ब्बवत् वलाक्यादि
पूजयेत् । तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।
ततो धूपादिविसर्जनान्तं कर्म्म समापयेत् ।
अस्य पुरश्चरणं दशलक्षजपः । तथा च ।
“दशलक्षं जपेन्मन्त्रं मन्त्रविद्बिजितेन्द्रियः ।
दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः ॥” * ॥
अथ लक्ष्मीस्तोत्रम् ।
ईश्वर उवाच ।
“त्रैलोक्यपूजिते देवि ! कमले विष्णुवल्लभे ।
यथा त्वं सुस्थिरा कृष्णे तथा भव मयि स्थिरा ॥
ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया ।
पद्मा पद्मालया सम्पत्सृष्टिः श्रीः पद्मधारिणी ॥
द्बादशैतानि नामानि लक्ष्मीं संपूज्य यः पठेत् ।
स्थिरा लक्ष्मीर्भवेत् तस्य पुत्त्रदारादिभिः सह ॥”
इति तन्त्रसारः ॥
विष्णुपुराणोक्तलक्ष्मीस्तोत्रं तत्रैव १ अंशे
९ अध्याये द्रष्टव्यम् ॥ * ॥ अथ लक्ष्मीपूजा-
निरूपणम् । यथा, स्कन्दपुराणे ।
“पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् ।
सिंहे धनुषि मीने च स्थिते सप्ततुरङ्गमे ॥
प्रत्यब्दं पूजयेल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने ।
नापराह्णे न रात्रौ च नासिते न त्र्यहस्पृशि ॥
द्वादश्याञ्चैव नन्दायां रिक्तायाञ्च निरंशके ।
त्रयोदश्यां तथाष्टम्यां कमलां नैव पूजयेत् ॥
न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे ।
पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः ॥
गुरुवारे हि पूर्णा च यत्नेन यदि लभ्यते ।
तत्र पूज्या तु कमला धनपुत्त्रविवर्द्धिनी ॥
न कुर्य्यात् प्रथमे मासि नैव कुर्य्याद्बिसर्जनम् ।
न घण्टां वादयेत्तत्र नैव झिण्टीं प्रदापयेत् ॥
पौषे च दशमी शस्ता चैत्रके पञ्चमी तथा ।
नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः ॥
आढकं धान्यसम्पूर्णं नानाभरणभूषितम् ।
सुगन्धिशुक्लपुष्पेण शुक्लपक्षे प्रपूजयेत् ॥
पौषे तु पिष्टकं दद्यात् परमान्नञ्च चैत्रके ।
पिष्टकं परमान्नञ्च नभस्ये तु विशेषतः ॥
गुरुवारसमायुक्ता नभस्ये पूर्णिमा शुभा ।
कमलां पूजयेत्तत्र पुनर्ज्जन्म न विद्यते ॥
एकेन कमलेनैव कमलां पूजयेद् यदि ।
इह लोके सुखं प्राप्य परत्र केशवं व्रजेत् ॥
प्राङ्मुखी पूजयेल्लक्ष्मीं पश्चिमाननसंस्थिताम् ।
गन्धपुष्पधूपदीपनैवेद्याद्युपचारकैः ॥
गन्धद्वारेतिमन्त्रेण गन्धेनावाहयेदसौ ।
श्रिये जात इति द्वाभ्यां पुष्पैरावाहयेत्ततः ॥”
ततो ध्यानम् ।
“हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदसमावहाम् ॥
गौरवर्णान्तु द्बिभुजां सितपद्मोपरिस्थिताम् ।
विष्णोर्व्वक्षःस्थलस्थाञ्च जगच्छोभाप्रकाशिनीम् ॥
ध्यायेदाद्यां सदा देवीं पूजाकाले विशेषतः ।
ततः पूजादिकं कुर्य्यात् श्रीं लक्ष्मीं नम इत्यृचा ॥
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्धतिः क्षमा ।
तुष्टिः पुष्टिस्तथा कान्तिर्मेधा विद्या रमा श्रुतिः ॥
हरिप्रिया तथा विष्णोः प्रिया नारायणस्य च ।
एताभिः सप्तदशभिर्लक्ष्मीबीजादिनार्च्चयेत् ॥
लक्ष्मीनारायणाभ्याञ्च नमोऽन्तेन प्रपूजयेत् ।
धिषणञ्च कुबेरञ्च पूजयेत्तदनन्तरम् ॥”
लक्षीचरित्रे ।
“न कृष्णपक्षे रिक्तायां दशमीद्वादशीषु च ।
श्रवणादिचतुरृक्षे लक्ष्मीपूजां न कारयेत् ॥”
इति कालचन्द्रिका ॥
दीपान्वितामावस्यायां लक्ष्मीपूजाविधिर्यथा, --
“तुलारासिगते भानौ अमावास्यां नराधिपः ।
स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च ॥
कृत्वा तु पार्व्वणश्राद्धं दधिक्षीरगुडादिभिः ।
ततोऽपराह्णसमये घोषयेन्नगरे नृपः ।
लक्ष्मीः संपूज्यतां लोका उल्काभिश्चाभिवेष्ट्य-
ताम् ॥
अमावास्या यदा रात्रौ दिवाभागे चतुर्द्दशी ।
पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका ॥
अमावास्यां यदा देवाः कार्त्तिके मासि केश-
वात् ।
अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु ॥
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्ताम्बुजोदरे ।
चतुर्युगसहस्रान्ते ब्रह्मा स्वपिति पङ्कजे ॥
अतोऽत्र विधिवत् कार्य्या मनुष्यैः सुखसुप्तिका ।
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।
दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥
चतुष्पथश्मशानेषु नदीपर्व्वतसानुषु ।
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥
वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्र भूमयः ।
दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम् ॥
ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षि-
तान् ।
अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना ।
स्निग्धैर्मुग्धैर्व्विदग्धैश्च बान्धवैर्भृतकैः सह ॥”
अत्र लक्ष्मीपूजायां पुष्पदानकाले ।
“नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चनात् ॥”
लक्ष्म्यै नम इत्यनेन वारत्रयं पूजयेत् ।
“सुखरात्र्यां प्रदोषे तु कुबेरं पूजयन्ति ये ॥”
इति रुद्रधरधृतात् कुबेरमपि पूजयन्ति ।
“धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥”
इति पठित्वा कुबेराय नम इति त्रिः पूजयेत् ।
ततो देवगृहादिषु दीपान् दद्यात् । तत्र
मन्त्रः ।
“अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥”
ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुक्त्वा
सुखं सुप्त्वा प्रत्यूषे भविष्योक्तं कर्म्म कुर्य्यात् ।
तथा, --
“सुखरात्रेरुषःकाले प्रदीपोज्ज्वलितालये ।
बन्धूर्ब्बन्धूनबन्धूंश्च वाचा कुशलयार्च्चयेत् ॥
प्रदीपवन्दनं कार्य्यं लक्ष्मीमङ्गलहेतवे ।
गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्व्वतः ॥”
लक्ष्मीपूजामन्त्रः ।
“विश्वरूपस्य भार्य्यासि पद्मे पद्मालये शुभे ।
महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीर्व्यपोहतु ॥
या रात्रिः सर्व्वभूतानां या च देवेष्ववस्थिता ।
संवत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥
माता त्वं सर्व्वभूतानां देवानां सृष्टिसम्भवा ।
आख्याता भूतले देवि ! सुखरात्रि नमोऽस्तु
ते ॥”
लक्ष्म्यै नम इति त्रिः पूजयेत् । इति तिथ्यादि-
तत्त्वम् ॥ * ॥ तस्या उपाख्यानं यथा, --
नारद उवाच ।
“श्रीकृष्णस्यात्मनश्चैव निर्गुणस्य निराकृतेः ।
सावित्रीयमसंवादे श्रुतं सुनिर्म्मलं यशः ॥
तद्गुणोत्कीर्त्तनं सत्यं मङ्गलानाञ्च मङ्गलम् ।
अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमेव च ॥
केनादौ पूजिता सापि किम्भूता केन वा पुरा ।
तद्गुणोत्कीर्त्तनं सत्यं वद वेदविदांवर ॥
श्रीनारायण उवाच ।
सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः ।
देवी वामांशसम्भूता बभूव रासमण्डले ॥
अतीवसुन्दरी रामा न्यग्रोधपरिमण्डला ।
यथा द्बादशवर्षीया शश्वत् सुस्थिरयौवना ॥
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।
शरत्पार्व्वणकोटीन्दुप्रभाप्रच्छादितानना ॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।
पृष्ठ ४/१९८
सा च देवी द्विधा भूता सहसैवेश्वरेच्छया ॥
समा रूपेण वर्णेन तेजसा वयसा त्विषा ।
यशसा वाससा सूक्त्या भूषणेन गुणेन च ॥
स्मितेन वीक्षितेनैव वचसा गमनेन च ।
मधुरेण स्वरेणैव नयेनानुनयेन च ॥
तद्बामांशो महालक्ष्मीर्द्दक्षिणांशश्च राधिका ।
राधादौ वरयामास द्विभुजञ्च परात्परम् ॥
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ।
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ॥
दक्षिणांशश्च द्बिभुजो वामांशश्च चतुर्भुजः ।
चतुर्भुजाय द्बिभुजो महालक्ष्मीं ददौ पुरा ॥
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् ।
देवीषु या च महती महालक्ष्मीश्च सा
स्मृता ॥
द्बिभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः ।
शुद्धसत्त्वस्वरूपैश्च गोपैर्गोपीभिरावृतः ॥
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ।
सर्व्वांशेन समौ द्बौ तौ कृष्णनारायणौ परौ ॥
महालक्ष्मीश्च योगेन नानारूपा बभूव सा ।
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा ॥
शुद्धसत्त्वस्वरूपा च सर्व्वसौभाग्यसंयुता ।
प्रेम्णा सा च प्रधाना च सर्व्वासु रमणीषु च ॥
स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी ।
पातालेषु च मर्त्येषु राजलक्ष्मीश्च राजसु ॥
गृहलक्ष्मीर्गृहेष्वेव गृहिणी च कलांशया ।
सम्पत्स्वरूपा गृहिणां सर्व्वमङ्गलमङ्गला ॥
गवां प्रसूः सा सुरभी दक्षिणा यज्ञकामिनी ।
क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ॥
शोभास्वरूपा चन्द्रे च सूर्य्यमण्डलमण्डिता ।
विभूषणेषु रत्नेषु फलेषु च जलेषु च ॥
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ।
सर्व्वशस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च ॥
प्रतिमासु च देवानां मङ्गलेषु घटेषु च ।
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ॥
मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च ।
वृक्षशाखासु रम्यासु नवमेधेषु वस्तुषु ॥
वैकुण्ठे पूजिता सादौ देवी नारायणेन च ।
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ॥
विष्णुना पूजिता सा च क्षीरोदे भारते मुने !
स्वायम्भुवेन मनुना मानवेन्द्रैश्च सर्व्वतः ॥
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे ।
गन्धर्व्वाद्यैश्च नागाद्यैः पातालेषु च पूजिता ॥
शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा ।
भक्त्या च पक्षपर्य्यन्तं त्रिषु लोकेषु नारद ! ॥
चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ।
विष्णुना निर्म्मिता पूजा त्रिषु लोकेषु भक्तितः ॥
वर्षान्ते पौषसंक्रान्त्यां मेध्यामावाह्य प्राङ्गणे ।
मनुस्तां पूजयामास सा भूता भुवनत्रये ॥
राजेन्द्रेण पूजिता सा मङ्गलेनैव मङ्गला ।
केदारेणैव नीलेन नलेन सुवलेन च ॥
ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा ।
कश्यपेन च दक्षेण कर्द्दमेन विवस्वता ॥
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ।
यमेन वह्निना चैव वरुणेनैव पूजिता ॥
एवं सर्व्वत्र सर्व्वैश्च वन्दिता पूजिता सदा ।
सर्व्वैश्वर्य्याधिदेवी सा सर्व्वसम्पत्स्वरूपिणी ॥”
अपि च ।
नारद उवाच ।
“बारायणप्रिया सा च वरा वैकुण्ठवासिनी ।
वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।
किं तद्ध्यानञ्च स्तवनं सर्व्वः पूजाविधिक्रमः ।
पुरा केन स्तुतादौ सा तन्मां व्याख्यातुमर्हसि ॥
श्रीनारायण उवाच ।
पुरा दुर्व्वाससः शापात् भ्रष्टश्रीश्च पुरन्दरः ।
बभूव देवसंघश्च मर्त्यलोकश्च नारद ! ॥
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता ।
गत्वा लीना च वैकुण्ठे महालक्ष्म्याञ्च नारद ॥
तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम् ।
ब्रह्माणञ्च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥
वैकुण्ठे शरणापन्ना देवा नारायणे परे ।
अतीवदैन्ययुक्ताश्च शुष्ककण्ठौष्ठतालुकाः ॥
तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया ।
बभूव सिन्धुकन्या सा शक्रसम्पत्स्वरूपिणी ॥
तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।
संप्रापुश्च वरं लक्ष्म्या ददृशुस्ताञ्च तत्र हि ॥
सुरादिभ्यो वरं दत्त्वा वरमालाञ्च विष्णवे ।
ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥
देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च तद्वरात् ।
तां सम्पूज्य च सम्भूय सर्व्वत्र च निरापदः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३५ । ३६ अध्यायौ ।
लक्ष्म्या अगम्यगृहाणि यथा, --
“यं यं रुष्टो गुरुर्द्देवो माता तातश्च बान्धवः ।
अतिथिः पितृलोकाश्च न यामि तस्य मन्दि-
रम् ॥
मिथ्यावादी च यः शश्वन्नास्तीति वाचकः
सदा ।
सत्त्वहीनश्च दुःशीलो न गेहं तस्य याम्यहम् ॥
सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः ।
विश्वासघ्नः कृतघ्नो यो न यामि तस्य मन्दिरम् ॥
चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी ।
ऋणग्रस्तोऽतिकृपणो न गेहं यामि पापिनाम् ॥
दीक्षाहीनश्च शोकार्त्तो मन्दधीः स्त्रीजितः
सदा ।
पुंश्चलीपतिपुत्त्रौ यौ तद्गेहं नैव याम्यहम् ॥
पुंश्चल्यन्नञ्चावीरान्नं यो भुङ्क्ते कामतः सदा ।
शूद्रान्नभोजी तद्याजी तद्गेहं नैव याम्यहम् ॥
यो दुर्व्वाक् कलहाविष्टः कलिः शश्वदघालये ।
स्त्री प्रधाना गृहे यस्य न यामि तस्य मन्दि-
रम् ॥
यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम् ।
नोत्सुकश्च प्रशंसायां न यामि तस्य मन्दिरम् ॥
कन्यान्नवेदविक्रेता नरघाती च हिंसकः ।
नरकागारसदृशं न यामि तस्य मन्दिरम् ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य च ।
यो हरेद्दानहीनश्च न यामि तस्य मन्दिरम् ॥
यत् कर्म्म दक्षिणाहीनं मूढधीः कुरुते शठः ।
स पापी पुण्यहीनश्च न यामि तस्य मन्दिरम् ॥
मातरं पितरं भार्य्यां गुरुपत्नीं गुरुञ्च तम् ।
अनाथां भगिनीं कन्यामनन्याश्रयबान्धवान् ॥
कार्पण्याद्यो न पुष्णाति सञ्चयं कुरुते सदा ।
तद्गृहान्नरकाकारान्न यामि तान्मुनीश्वराः ॥
मूत्रं पुरीषमुत्सृज्य यस्तत् पश्यति मन्दधीः ।
यः शेते स्निग्धपादेन न यामि तस्य मन्दिरम् ॥
अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः ।
सन्ध्याशायी दिवाशायी न यामि तस्य मन्दि-
रम् ॥
मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत् ।
ददाति पश्चाद्गात्रे वा न यामि तस्य मन्दिरम् ॥
दत्त्वा तैलं मूर्द्ध्नि गात्रे विण्मूत्रं यः समुत्सृजेत् ।
प्रणमेदाहरेत् पुष्पं न यामि तस्य मन्दिरम् ॥
तृणं छिनत्ति नखरैर्नखरैर्व्विलिखेन्महीम् ।
गात्रे पादे मलं यस्य न यामि तस्य मन्दिरम् ॥
दशनं वसनं यस्य समलं रूक्षमस्तकम् ।
विकृतौ ग्रासहासौ च न यामि तस्य मन्दिरम् ॥
मन्त्रविद्योपजीवी च ग्रामयाजी चिकित्सकः ।
सूपकृद्देवलश्चैव न यामि तस्य मन्दिरम् ॥
विवाहं धर्म्मकार्य्यं वा यो निहन्ति च कोपतः ।
दिवामैथुनकारी यो न यामि तस्य मन्दिरम् ॥”
इत्यादि ब्रह्मवैवर्त्ते गणेशखण्डे लक्ष्मीचरित-
न्नाम २३ अध्यायः ॥ * ॥ अपि च ।
“कुचेलिनं दन्तमलोपधारिणं
बह्वाशिनं निष्ठुरवाक्यभाषिणम् ।
सूर्य्योदये चास्तमये च शायिनं
विमुञ्चति श्रीरपि चक्रपाणिनम् ॥
नित्यं छेदस्तृणानां धरणिविलिखनं पादयो-
रल्पमार्ष्टि-
र्द्दन्तानामल्पशौचं वसनमलिनता रूक्षता
मूर्द्धजानाम् ।
द्वे सन्ध्ये चापि निद्रा विवसनशयनं ग्रांसहातिरेकं
स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत् केशव-
स्यापि लक्ष्मीम् ॥
शिरः सुधौतं चरणौ सुमार्ज्जितौ
वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्व्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति षट् ॥
यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः ।
शिरसा धार्य्यमाणस्य अलक्ष्मीः प्रतिहन्यते ॥
दीपस्य पश्चिमा च्छाया छाया शय्यासनस्य च ।
रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्र तिष्ठति ॥”
इत्यादि गारुडे ११४ अध्यायः ॥ * ॥
अङ्गविशेषे तस्याः स्थितिफलं यथा, --
देवा ऊचुः ।
“कथयस्व जगन्नाथ ! केषु स्थानेष्ववस्थिता ।
पुरुषाणां फलं किं वा प्रयच्छत्यथ नश्यति ॥
पृष्ठ ४/१९९
दत्तात्रेय उवाच ।
नृणां पादस्थिता लक्ष्मीर्निलयं संप्रयच्छति ।
सक्थिनि संस्थिता वस्त्रं रत्नं नानाविधं वसु ॥
कलत्रदा गुह्यसंस्था क्रोडस्थापत्यदायिनी ।
मनोरथान् पूरयति पुरुषाणां हृदि स्थिता ॥
लक्ष्मीर्लक्ष्मीवतां श्रेष्ठं कण्ठस्था कण्ठभूषणम् ।
अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥
मिष्टान्नं वाक्यलावण्यमाज्ञामवितथान्तथा ।
मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा ॥
शिरोगता संत्यजति ततोऽन्यं याति संश्रयम् ।
सेयं शिरोगता दैत्यान् परित्यजति साम्प्रतम् ॥”
इति मार्कण्डेयपुराणे दत्तात्रेयचरिताध्यायः ॥ * ॥
अथ लक्ष्मीचरित्रम् ।
श्रीसूत उवाच ।
“मेरुपृष्ठे सुखासीनां लर्क्ष्मो पृच्छति केशवः ।
केनोपायेन देवि त्वं नृणां भवसि निश्चला ॥
श्रीरुवाच ।
शुक्लाः पारावता यत्र गृहिणी यत्र चोज्ज्वला ।
अकलहा वसतिर्यत्र तत्र कृष्ण वसाम्यहम् ॥
धान्यं सुवर्णसदृशं तण्डुला रजतोपमाः ।
अन्नञ्चैवातुषं यत्र तत्र कृष्ण वसाम्यहम् ॥
यः संविभागी प्रियवाक्यभाषी
वृद्धोपसेवी प्रियदर्शनश्च ।
अल्पप्रलापी न च दीर्घसूत्री
तस्मिन् सदाहं पुरुषे वसामि ॥
यो धर्म्मशीलो विजितेन्द्रियश्च
विद्याविनीतो न परोपतापी ।
अगर्व्वितो यश्च जनानुरागी
तस्मिन् सदाहं पुरुषे वसामि ॥
चिरं स्नाति द्रुतं भुङ्क्ते पुष्पं प्राप्य न जिघ्रति ।
यो न पश्येत् स्त्रियं नग्नां नियतं स च मे प्रियः ॥
त्यागः सत्यञ्च शौचञ्च यत्र एते महागुणाः ।
यः प्राप्नोति गुणानेतान् श्रद्धावान् स च मे प्रियः ॥
सर्व्वलक्षणमध्ये तु त्याग एव विशिष्यते ।
काले देशे च पात्रे च स च त्यागः प्रशस्यते ॥
नित्यमामलके लक्ष्मीर्नित्यं वसति गोमये ।
नित्यं शङ्खे च पद्मे च नित्यं श्रीः शुक्लवाससि ॥
वसामि पद्मोत्पलशङ्खमध्ये
वसामि चन्द्रे च महेश्वरे च ।
नारायणे चैव वसुन्धरायां
वसामि नित्योत्सवमन्दिरेषु ॥”
वसुन्धरायामित्यत्र वसौ धरायामिति वा पाठः ॥
“यथोपदिष्टा गुरुभक्तियुक्ता
पत्युर्व्वचो नाक्रमते च नित्यम् ।
नित्यञ्च भुङ्क्ते पतिभुक्तशेषं
तस्याः शरीरे नियतं वसामि ॥
तुष्टा च धीरा प्रियवादिनी च
सौभाग्ययुक्ता च सुशोभना च ।
लावण्ययुक्ता प्रियदर्शना या
पतिव्रता या च वसामि तासु ॥
श्यामा मृगाक्षी कृशमध्यभागा
सुभ्रूः सुकेशी सुगतिः सुशीला ।
गभीरनाभिः समदन्तपङ्क्ति-
स्तस्याः शरीरे नियतं वसामि ॥
या पापरक्ता पिशुनस्वभावा
स्वाधीनकान्तः परिभूयते च ।
अमर्षकामा कुचरित्रशीला
तामङ्गनां प्रेतमुखीं त्यजामि ॥
पुष्पं पर्य्युषितं पूतिं शयनं बहुभिः सह ।
भग्नासनं कुनारीञ्च दूरतः परिवजयेत् ॥
चिताङ्गारकमस्थीनि वह्निं भस्म द्विजञ्च गाम् ।
न पादेन स्पशेत् पादं कार्पासास्थि तुषं गुरुम् ॥
नखकेशोदकञ्चैव मैथुनं पर्व्वसन्ध्ययोः ।
वर्जयेन्नग्नशायित्वमेकाकी मिष्टभोजनम् ॥
शिरः सपुष्पं चरणौ सुपूजितौ
निजाङ्गनासेवनमल्पभोजनम्
अनग्नशायित्वमपर्व्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति षट् ॥
सम्मार्जनीरजोवात निर्गुण्डीं लकुचन्तथा ।
रात्रौ विल्वपलाशञ्च कपित्थं वर्जयेद्दधि ॥
स्वगात्रासनयोर्वाद्यं अपूजा मूर्द्धपादयोः ।
उच्छिष्टस्पर्शनं मूर्द्ध्नि स्नानाभ्यङ्गञ्च वर्जयेत् ॥
शयनञ्चान्धकारे च रात्रिवासो दिने तथा ।
म्लानाम्बरं कुबेशञ्च वर्जयेत् शुष्कभोजनम् ॥
परेणोद्बर्त्तितं वक्षः स्वयं माल्यापकर्षणम् ।
आलस्यमवसादञ्च न कुर्य्याल्लोष्टमर्द्दनम् ॥
शुक्रवारे च यत्तैलं शिलापिष्टञ्च दर्शके ।
स्वयं वामेन मूर्द्धानं पाणिना नैव संस्पृशेत् ॥
तारकाः पुष्यवन्तो च न पश्येदशुचिः पुमान् ।
नेक्षेद्गुह्यं परस्त्रीणां नास्तं यान्तं दिवाकरम् ॥
कुर्य्यान्नान्यधनाकाङ्क्षां परस्त्रीणां तथैव च ।
परेषां प्रतिकूलञ्च उदितार्के प्रबोधनम् ।
नखकण्टकरक्तैश्च मृत्तिकाङ्गारवारिभिः ।
वृथा विलेखनं भूमौ न कुर्य्यान्मम काङ्क्षया ॥
स्वयं दोहं स्वयं माल्यं स्वयं घृष्टञ्च चन्दनम् ।
नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥”
स्वयं दोहमित्यत्र ग्रथितञ्चेति वा पाठः ।
“न निन्दां गणके विप्रे पादयोर्नर्त्तनन्तथा ।
प्रतिकूलञ्चरेत् स्त्रीणां भुक्त्वा च दन्तधावनम् ॥
अघृतं मांससूपञ्च नग्नाञ्चैव स्त्रियन्तथा ।
भक्षणाद्दशनाच्चैव शक्रादपि हरेत् श्रियम् ॥
मन्त्रैरयुक्तः परदारसेवी
आचारहीनः परसेवकश्च ।
सङ्कीर्णचारी परिवादशील-
स्तं निष्ठुरं दम्भमयं त्यजामि ॥
शयनञ्चार्द्रपादेन रात्रिवासो दिने तथा ।
नोत्तरीयमधः कुर्य्यात् शुष्कपादेन भोजनम् ॥
अशुचिं म्लानवस्त्राञ्च दुर्गन्धामसुखावहाम् ।
अभूषणामपुष्पाञ्च न कुर्य्यादात्मनस्तनुम् ॥
कर्णे च वदने घ्राणे तथा करतलेऽपि च ।
पादे पृष्ठे तथा नेत्रे न कुर्य्यादनुलेपनम् ॥
चक्षुर्लग्ने हतं श्रेयो मुखलग्ने धनक्षयः ।
दरिद्रः कर्णलग्ने च पादपृष्ठे तथायुषः ॥
गन्धं पुष्पं यथा तोयं रत्नञ्चैव महोदधिम् ।
गृहीतं प्रथमं वस्त्रं वर्जयेन्न कदाचन ॥
अजरजः खररजस्तथा सम्मार्जनीरजः ।
स्त्रीणां पादरजो राजन् शक्रादपि हरेत्
श्रियम् ॥
कुचेलिनं दन्तमलप्रधारिणं
महाशठं निष्ठुरवाक्यभाषिणम् ।
सूर्य्योदये चास्तमिते तु शायिनं
विमुञ्चति श्रीरपि चक्रपाणिनम् ॥”
महाशठमित्यत्र बह्वाशिनमिति वा पाठः ।
“नित्यं छेदस्तृणानां क्षितिनखलिखनं पाठः ।
रल्पशौचं
एकाङ्गे तैलहीनं वसनमलिनताबन्धनं मूर्द्ध-
जानाम् ।
द्बे सन्ध्ये चापि निद्रा विवसनशयणं ग्रासहासा-
तिरेकः
स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव-
स्यापि लक्ष्मीम् ॥”
अबन्धनमित्यत्र रूक्षता इति वा पाठः ।
“एवं यः कुरुते नित्यं मयोक्तानि च केशव ! ।
तुष्टा भवामि तस्याहं त्वय्येषा निश्चला यथा ॥
श्रीभाषितमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
तद्गृहं विपुलं रम्यं नित्यं भवति नान्यथा ॥
व्याधितो मुच्यते रोगी बद्धो मुच्येत बन्धनात् ।
आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥”
इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मी-
चरित्रं समाप्तम् ॥ * ॥ दुर्गा । यथा, --
“स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च वा ।
लक्ष्मीर्व्वा ललना वापि क्रमात् सा कान्ति-
रुच्यते ॥
इति देवीपुराणे ५५ अध्यायः ॥
सम्पत्तिः । शोभा । ऋद्ध्यौषधम् । वृद्धिनामौ-
षधम् । फलिनीवृक्षः । इति मेदिनी । मे, २८ ॥
सीता । वीरयोषित् । इति शब्दरत्नावली ॥
स्थलपद्मिनी । हरिद्रा । शमी । द्रव्यम् । मुक्ता ।
इति राजनिर्घण्टः ॥ मोक्षप्राप्तिः । इति
चण्डीटीकायां नागभट्टः ॥ (शोभा । यथा,
कुमारे । ३ । ४९ ।
“कपालनेत्रान्तरलब्धमार्गै-
र्ज्यातिःप्ररोहैरुदितैः शिरस्तः ।
मृणालसूत्राधिकसौकुमार्य्यां
बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥”)

लक्ष्मीकान्तः, पुं, (लक्ष्म्याः कान्तः ।) नारायणः ।

यथा, --
“नमः कमलनेत्राय हरये परमात्मने ।
जगतः पालयित्रे च लक्ष्मीकान्त नमोऽस्तु ते ॥”
इति जन्माष्टमीव्रतकथा ॥

लक्ष्मीगृहं, क्ली, (लक्ष्म्याः गृहमावासस्थानम् ।)

रक्तोत्पलम् । इति त्रिकाण्डशेषः ॥ लक्ष्मी-
वेश्म च ॥

लक्ष्मीजनार्द्दनः, पुं, (लक्ष्म्याः सहितो जनार्द्दनः ।)

शालग्रामविशेषः । तस्य लक्षणं यथा, --
“एकद्वारे चतुश्चक्रं नवीननीरदोपमम् ।
पृष्ठ ४/२००
लक्ष्मीजनार्द्दनो ज्ञेयो रहितो वनमालया ॥”
इति ब्रहम्वैवर्त्ते प्रकृतिखण्डम् ॥
(तथा, देवीभागवते । ९ । २४ । ५९ ॥)

लक्ष्मीतालः, पुं, (लक्ष्मीयुक्तस्तालः ।) श्रीताल-

वृक्षः । इति राजनिर्घण्टः ॥ तौर्य्यत्रिकस्य
परिच्छेदविशेषः । तस्य द्रुतलघ्वणुविरामक्रमो
यथा, --
“दौ लो णू द्बौ विरामान्तौ दलौ णू दविरा-
मकः ।
विरामान्तौ द्रुतौ लश्च द्रुतौ लघुविरामकः ॥”
इति सङ्गीतरत्नाकरे लक्ष्मीतालः ॥

लक्ष्मीनारायणः, पुं, (लक्ष्म्यान्वितो नारायणः ।)

शालग्रामविशेषः । तस्य लक्षणं यथा, --
“एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥

लक्ष्मीनृसिंहः, पुं, (लक्ष्मीयुतो नृसिंहः ।) शाल-

ग्रामविशेषः । तस्य लक्षणं यथा, --
“द्बिचक्रं विस्तृतास्यञ्च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणाञ्च सुखप्रदम् ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥

लक्ष्मीपतिः, पुं, (लक्ष्म्याः पतिः ।) वासुदेवः ।

नरपतिः । इति मेदिनी । ते, २१५ ॥ (यथा,
किराते । १ । ४४ ।
“अथ क्षमामेव निरस्तविक्रम-
श्चिराय पर्य्येसि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्म्मुकं
जटाधरः सन् जुहुधीह पावकम् ॥”)
लवङ्गवृक्षः । पूगः । इति विश्वः ॥

लक्ष्मीपुत्त्रः, पुं, (लक्ष्म्याः पुत्त्रः ।) कामदेवः ।

घोटकः । इति मेदिनी । रे, २९३ ॥ कुशः ।
लवः । इति शब्दरत्नावली ॥

लक्ष्मीपुष्पः, पुं, (लक्ष्मीयुक्तं सौन्दर्य्यविशिष्टं पुष्प-

मिवास्य ।) पद्मरागमणिः । इति हेमचन्द्रः ॥

लक्ष्मीफलः, पुं, (लक्ष्म्यास्तनजं फलं यत्र ।) विल्व-

वृक्षः । इति राजनिर्घण्टः ॥

लक्ष्मीवान्, [त्] पुं, (लक्ष्मीः शोभास्त्यस्येति ।

मतुप् । मस्य वः ।) पनसवृक्षः । इति शब्द-
माला ॥ श्वेतरोहितवृक्षः । इति राजनिर्घण्टः ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ ।
“सर्व्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥”)

लक्ष्मीवान्, [त्] त्रि, (लक्ष्मीरस्त्यत्रेति ।) श्रीयुक्तः ।

धनवान् । तत्पर्य्यायः । लक्ष्मणः २ श्रीलः ३
श्रीमान् ४ । इत्यमरः ॥ (यथाह कश्चित् ।
“शेषे धराभराक्रान्ते शेषे विश्वम्भरः श्रिया ।
लक्ष्मीवन्तो न पश्यन्ति दुःसहां परवेदनाम् ॥”)

लक्ष्मीवेष्टः, पुं, (लक्ष्मीयुक्तो वेष्टः ।) श्रीवेष्टः ।

इति राजनिर्घण्टः ॥

लक्ष्मीशः, पुं, (लक्ष्म्या ईशः ।) विष्णुः । इति

मुग्धबोधव्याकरणम् ॥

लक्ष्मीसमाह्वया, स्त्री, (लक्ष्म्याः सम आह्वयो

यस्याः ।) सीता । इति शब्दरत्नावली ॥

लक्ष्मीसहजः, पुं, (लक्ष्म्या सह जातः इति । जन्

+ डः । क्षीराब्धिजातत्वादस्य तथात्वम् ।)
चन्द्रः । इति शब्दरत्नावली ॥

लक्ष्म्यारामः, पुं, (लक्ष्म्या आरामः ।) वनभेदः ।

इति शब्दमाला ॥

लक्ष्यं, क्ली, (लक्ष्यते यदिति । लक्ष् + ण्यत् ।)

शरवेधस्थानम् । तत्पर्य्यायः । लक्षम् २ शर-
व्यम् ३ । इत्यमरः । २ । ८ । ८६ ॥ प्रतिकायः ४
वेध्यम् ५ । इति जटाधरः ॥ वेधम् ६ । इति
शब्दरत्नावली ॥ (यथा, कुमारे । ३ । ६४ ।
“कामस्तु बाणावसरं प्रतीक्ष्य
पतङ्गवद्वह्निमुखं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः
शरासनज्यां मुहुराममर्श ॥”)

लक्ष्यः, त्रि, लक्षणया बोध्यः । इति साहित्य-

दर्पणम् ॥ (लक्ष्यते इति । लक्ष + ण्यत् ।)
दर्शनीयः । इति लक्षधात्वर्थदर्शनात् ॥ (व्याजः ।
इत्यमरः ॥ यथा, रघुः । ६ । ८१ ।
“रोमाञ्चलक्ष्येण स गात्रयष्टिं
भित्वा निराक्रामदरालकेश्याः ॥”
अनुमेयः । इति मल्लिनाथः ॥ यथा, कुमारे ।
५ । ७४ ।
“इति द्विजातौ प्रतिकूलवादिनि
प्रवेपमानाधरलक्ष्यकोपया ॥”
तथा च रघुः । ४ । ५ ।
“छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥”)

लख, सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) लखति । सृपि गतौ । इति
दुर्गादासः ॥

लख, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, लङ्ख्यते । सृपि गतौ । इति
दुर्गादासः ॥

लग, इ खञ्जे । गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-खञ्जे अक०-गतौ सक०-सेट् ।)
इ, लङ्ग्यते । खञ्जो गतिवैकल्यम् । इति दुर्गा-
दासः ॥

लग, क रके । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, लागयति । रके
स्वादाप्त्योः । रके इति रक क स्वाद आपने ।
इत्यस्य ञेरनित्यत्वे भावे अलि रूपम् । इति
दुर्गादासः ॥

लग, म ए सङ्गे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) म, लगयति । ए, अल-
गीत् । गलति अधर ओष्ठे । इति दुर्गादासः ॥

लगडं, त्रि, चारु । इति त्रिकाण्डशेषः ॥

लगितं, त्रि, सङ्गयुक्तम् । लागा इति भाषा । इति

लगधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥

लगुडः, पुं, दण्डः । लाठी इति भाषा । इत्यमरः ॥

लगुडो वंशादिमयो दण्डः । लोहमयोऽस्त्रभेदः ।
इति सुभूतिः । लगुडो लोहमयी यष्टिरन्यत्रो-
पचारादित्यन्ये । इति तट्टीकायां भरतः ॥
(अस्याकृतिपरिमाणादि यथा, शुक्रनीतौ ।
“लगुडः सूक्ष्मपादः स्यात् पृथ्वंशः स्थूलशीर्षकः ।
लौहबद्धाग्रभागश्च ह्नस्वदेहः सुपीवरः ॥
दण्डाकारो दृढाङ्गश्च तथा हस्तद्बयोन्नतः ।
उत्थानं पातनञ्चैव पेषणं पोथनं तथा ॥
चतस्रो गतयस्तस्य पञ्चमी नेह विद्यते ।
दृढकायः पत्तिवर्गो तेन युध्येत शत्रुभिः ॥”)

लग्नं, क्ली, (लगति फले इति । लग सङ्गे + “क्षुब्ध-

स्वान्तध्वान्तलग्नेति ।” ७ । २ । १८ । इति
निपातनात् साधु ।) राशीनामुदयः । इत्यमरः ॥
राति फलं राशिस्तालव्यशकारः । अहोरात्र-
मध्ये द्वादशराशय उदयन्ति । उदयः पूर्ब्बा-
चलसंयोगः । तेषां क्रमेण उदयाचलसंयोगो
लग्नं ओ लसजी व्रीडे ओदित्वान्नः निपातना-
ज्जस्य गः । इति तट्टीकायां भरतः ॥ तेषां
शून्यायनांशपरिमाणं यथा, --
“रामोऽगवेदै -३ । ४७ र्जलधिस्तु मैत्रै -४ । १७
र्व्वाणो रसैः ५ । ६ पञ्च खसागरैश्च ५ । ४० ।
वाणः कुवेदै -५ । ४१ र्विषयोऽङ्कयुग्मैः ५ । २९
क्रमोत्क्रमान्मेषतुलादिमानम् ॥”
तथा हि ।
मेषस्य ३ । ४७ ॥ तुलायाः ५ । २९ ॥
वृषस्य ४ । १७ ॥ वृश्चिकस्य ५ । ४१ ॥
मिथुनस्य ५ । ६ ॥ धनुषः ५ । ४० ॥
कर्क्कटस्य ५ । ४० ॥ मकरस्य ५ । ६ ॥
सिंहस्य ५ । ४१ ॥ कुम्भस्य ४ । १७ ॥
कन्यायाः ५ । २९ ॥ मीनस्य ३ । ४७ ॥
इति दीपिका ॥ * ॥ दशव्यङ्गुलाधिकपञ्चाङ्गुल-
प्रभे कलिकाताख्यदेशे वर्त्तमानोनविंशायनांशे
प्रामाणिककारिका यथा, --
“वेदोऽङ्गैः । ४ । ६ सोऽन्तवेदै ४ । ४८ रिषुरगन-
यनैः ५ । २७ सोऽन्तरीक्षाम्बुनाथैः ५ । ४० ।
पारावाराश्रयासै -५ । ३४ र्गगनगनयनैः ५ । २९
षट्त्रिभि -५ । ३६ श्चन्द्रवेदैः ५ । ४१ ।
अङ्कक्ष्माभिः ५ । १९ समुद्रोऽसुशुचिभि -४ । ३५
रनलोऽष्टेषुभिः ३ । ५८ सोऽगवेदै -३ । ४७ ।
र्मेषादेकोनविंशे गणितपरिगतं मानमत्रा-
यनांशे ॥” * ॥
उदयलग्नास्तलग्नयोर्दिनं प्रति रविभोग्यं यथा,
“लग्नदण्डपलं द्विघ्नं तत्संख्यं क्रमतः पलम् ।
विपलञ्च रवेर्भोग्यमेवं कल्पनमस्तभे ॥”
इति ज्योतिषम् ॥
एतयोर्विवरणं यथा, --
तत्र प्राचीनलग्नमानम् ।
लग्नाः दिनमुक्तम् । मासभुक्तम् ।
यथा पलम् । विपलम् । दण्डः । पलम् ।
१ मेषः । ७ । ३४ ॥ ३ । ४७ ॥
२ वृषः । ८ । ३४ ॥ ४ । १७ ॥
३ मिथुनम् । १० । १२ ॥ ५ । ६ ॥
४ कर्कटः । ११ । २० ॥ ५ । ४० ॥
५ सिंहः । ११ । २२ ॥ ५ । ४१ ॥
६ कन्या । १० । ५८ ॥ ५ । २९ ॥
पृष्ठ ४/२०१
लग्नाः दिनभुक्तम् । मासभुक्तम् ।
यथा पलम् । विपलम् । दण्डः । पलम् ।
७ तुला । १० । ५८ ॥ ५ । २९ ॥
८ वृश्चिकः । ११ । २२ ॥ ५ । ४१ ॥
९ धनुः । ११ । २० ॥ ५ । ४० ॥
१० मकरः । १० । १२ ॥ ५ । ६ ॥
११ कुम्भः । ८ । ३४ ॥ ४ । १७ ॥
१२ मीनः । ७ । ३४ ॥ ३ । ४७ ॥
तत्र स्वदेशाधुनिकलग्नमानम् ।
लग्नाः दिनभुक्तम् । मासभुक्तम् ।
यथा पलम् । विपलम् । दण्डः । पलम् ।
१ मेषः । ८ । १२ ॥ ४ । ६ ।
२ वृषः । ९ । ३६ ॥ ४ । ४८ ॥
३ मिथुनम् । १० । ५४ ॥ ५ । २७ ॥
४ कर्कटः । ११ । २० ॥ ५ । ४० ॥
५ सिंहः । ११ । ८ ॥ ५ । ३४ ॥
६ कन्या । १० । ५८ ॥ ५ । २९ ॥
७ तुला । ११ । १२ ॥ ५ । ३६ ॥
८ वृश्चिकः । ११ । २२ ॥ ५ । ४१ ॥
९ धनुः । १० । ३८ ॥ ५ । १९ ॥
१० मकरः । ९ । १० ॥ ४ । ३५ ॥
११ कुम्भः । ७ । ५६ ॥ ३ । ५८ ॥
१२ मीनः । ७ । ३४ ॥ ३ । ४७ ॥
अथ जन्मकालीनलग्नस्थग्रहसूचितफलम् ।
“लग्ने सूर्य्येऽक्षिरोगी शशिनि बलयुतो
रूपवान् वित्तयुक्तो
भौमे व्यङ्गः सुवाग्मी शशधरतनये सर्व्व-
शास्त्रार्थवेत्ता ।
जीवे दाता पवित्रः सुकविरथ गते भार्गवे
मण्डलेशः
सौरौ कण्डूतिगात्रस्तमसि च नियतं वञ्चितो
धर्म्महीनः ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
अपि च ।
हरिरुवाच ।
“उदयन्तु समारभ्य राशौ भानुः स्थितो हर ।
स्वराश्यादौ व्रजेदह्रि षड्भिः षड्भिस्तथा
निशाम् ॥
मीने मेषे च पञ्च स्युश्चतस्रो वृषकुम्भयोः ।
मकरे मिथुने तिस्रः पञ्च चापे च कर्कटे ॥
सिंहे च वृश्चिके षट् च सप्त कन्या तुले तथा ।
एता लग्नप्रमाणेन घटिकाः परिकीर्त्तिताः ॥
शरपूर्ब्बावशानेषुरसाब्धीष्वधिसागराः ।
लङ्कोदया हि है वस्तुं लग्ना मेषादयोऽथवा ॥
मेषलग्ने भवेद्वन्ध्या वृषे भवति कामिनी ।
मिथुने सुभगा कन्या वेश्या भवति कर्कटे ॥
सिंहे चैवाल्पपुत्त्रा च कन्यायां रूपसंयुता ।
तुलायां रूपमैश्वर्य्यं वृश्चिके कर्कशा भवेत् ॥
सौभाग्यं धनुषि स्याच्च मकरे नीचगामिनी ।
कुम्भे चैवाल्पपुत्त्रा स्यान्मीने वैराग्यसंयुता ॥
तुला कर्कटको मेषो मकरश्चैव राशयः ।
चरकार्य्याणि कुर्य्याच्च स्थिरकार्य्याणि चैव हि ॥
पञ्चाननो वृषः कुम्भो वृश्चिकः स्युः स्थिराणि हि ।
कन्या धनुश्च मीनश्च मिथुनं द्विस्वभावतः ॥
द्विस्वभावानि कर्म्माणि कुर्य्यादेषु विचक्षणः ।
यात्रा चरेण कर्त्तव्या प्रवेष्टव्यं स्थिरेण तु ।
देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ॥”
इति गारुडे ६२ अध्यायः ॥

लग्नः, पुं, (लग् + क्तः । निपातनात् साधुः । यद्वा,

लस्ज + क्तः । “ओ लस्जी । लग्नः लग्नवान् ।
लस्जेरोदनुबन्धबलादिडभावे नत्वं स्यात् ।”
इति कृत्षष्ठे दुर्गसिंहः ।) स्तुतिपाठकः ॥
तत्पर्य्यायः । प्रातर्गेयः २ स्तुतिव्रतः ३ । इति
त्रिकाण्डशेषः ॥ सूतः ४ । इति जटाधरः ॥

लग्नः, त्रि, (लस्ज + क्तप्रत्ययेन साधुः ।) सक्तः ।

लज्जितः । इति मेदिनी ॥

लग्नकः, पुं, (लग्न एव । स्वार्थे कन् ।) प्रतिभूः ।

इत्यमरः ॥ द्बे लागा इति जामिन इति च
ख्याते । तत्कार्य्ये लग्नकः । ओ लस्जी व्रीडे
क्तः । स्वार्थे कन् । प्रतिनिधिर्भवति प्रतिभूः
क्विप् । इति तट्टीकायां भरतः ॥

लग्निका, स्त्री, नग्निका । इत्यमरटीका ॥

लघ, इ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, लङ्घ्यते । शोष इह अल्पी-
करणम् ।
‘यं व्याधिरतिदीप्ताङ्गं कदाचित्तु न लङ्घति ॥’
इति हलायुधः ॥
गतावप्यन्ये । अन्ये चालङ्घिषुः शैलान् । इति
दुर्गादासः ॥

लघ, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इ क, लङ्घयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥

लघ, इ ङ अभुग्गत्योः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सक० च-सेट् ।) इ,
लङ्घ्यते । ङ, लङ्घते । अभुक् भोजनाभावः ।
तथा च ।
‘ये गुणा लङ्घने प्रोक्तास्ते गुणा लघुभोजने ॥’
इति वैद्यकम् ॥
लङ्घने उपवासे इत्यर्थः । इति दुर्गादासः ॥

लघट्, पुं, (लङ्घते मध्यस्थानमस्पृष्ट्वोत्तरस्थाने

पतति प्लुतं इतस्ततो गच्छतीति वा । लङ्घ +
“लङ्घेर्नलोपश्च ।” उणा० १ । १३४ । इति अटिः ।
नलोपश्च धातोः ।) वायुः । इत्युणादिकोषः ॥

लघटिः, पुं, (लघ गतौ + अटिः । इदभावः ।)

वायुः । इत्युणादिकोषः ॥

लघिमा, [न्] पुं, (लघोर्भावः । लघु + “पृथ्वादिभ्य

इमनिज्वा ।” ५ । १ । १२२ । इति इमनिच् ।)
लघुत्वम् । (यथा, रघुः । १३ । ३७ ।
“घ्रात्वा हविर्गन्धि रजोविमुक्तः
समश्नुते मे लघिमानमात्मा ॥”)
तत्तु शिवस्याष्टैश्वर्य्यान्तर्गत ऐश्वर्य्यविशेषः । यथा,
“लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा ।
यत्र कामावसायित्वं प्राप्तिरैश्वर्य्यमष्टधा ॥”
इति हेमचन्द्रः ॥
(अबहुमतत्वम् । ह्रस्वत्वम् । यथा, आर्य्यासप्त-
शत्याम् । ६० ।
“अग्रे लघिमा पश्चात् महतापि विधीयते नहि
महिम्ना ।
वामन इति त्रिविक्रममभिदधति दशावतार-
विदः ॥”)

लघिष्ठः, त्रि, अयमनयोरेषां वा अतिशयेन लघुः

इत्यर्थे इष्ठप्रत्ययेन निष्पन्नः । अतिशयलघुत्व-
युक्तः । इति व्याकरणम् ॥ (यथा, विदग्धमुख-
मण्डने ।
“भवित्री रम्भोरु त्रिदशवदनम्लानिरधुना
स रामोऽपि स्थाता न युधि पुरतो लक्षणयुतः ।
गमिष्यत्येवोच्चैर्व्विपदमधुना वानरचमू-
र्लघिष्ठेदं षष्ठाक्षरपरविलोपात् पठ पुनः ॥”
सीतारावणयोरुक्तिप्रत्युक्तिरियम् । सप्तमाक्षर-
लोपे त्वेवं वाक्यम् । यथा । “दशवदनम्लानिः ।”
“स्थाता युधि ।” “उच्चैः पदम् ॥”)

लघीयान् [स्] त्रि, अयमनयोरेषां वा अति-

शयेन लघुः इत्यर्थे ईयसुप्रत्ययेन निष्पन्नः ।
अतिशयलघुत्वयुक्तः । इति व्याकरणम् ॥
(यथा, महाभारते । २ । ६३ । १४ ।
“न वै समृद्धिं पालयते लघीयान्
यत्त्वां समानेष्यति राजपुत्त्रि ! ॥”)

लघु, क्ली, (लङ्घते अनेनेति । लङ्घ + “लङ्घिवंह्यो-

र्नलोपश्च ।” उणा० १ । ३० । इति कुः ।
धातोर्नलोपश्च ।) शीघ्रम् । इत्यमरः ॥
(यथा, रामायणे । २ । ४६ । २१ ।
“यावदेव तु संसुप्तास्तावदेव वयं लघु ।
रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥”)
कृष्णागुरु । इति मेदिनी । घे, ५ ॥ लामज्जकम् ।
इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“लामज्जकं सुनालं स्यादमृणालं लयं लघुः ।
इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
हस्ताश्विनीपुष्यनक्षत्राणि । यथा, बृहत्-
संहितायाम् । ९८ । ९ ।
“लघु हस्ताश्विनपुष्याः
पण्यरतिज्ञानभूषणकलासु ।
शिल्पौषधयानादिषु
सिद्धिकराणि प्रदिष्टानि ॥”
कालपरिमाणविशेषः । यथा, भागवते । ३ ।
११ । ७ ।
“क्षणान् पञ्च विदुः काष्ठां लघुता दश पञ्च च ।
लघूनि वै समाम्नाता दश पञ्च च नाडिकाः ॥”
पुं, प्राणायामविशेषः । यथा, मार्कण्डेये । ३९ ।
१३ -- १४ ।
“लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।
तस्य प्रमाणं वक्ष्यामि तदलर्क शृणुष्व मे ॥
लघुर्द्बादशमात्रस्तु द्विगुणः स तु मध्यमः ।
त्रिगुणाभिस्तु मात्राभिरुत्तमः परिकीर्त्तितः ॥”)

लघुः, स्त्री, पृक्का नाम औषधिः । इति मेदिनी ।

घे, ५ ॥ (तथास्याः पर्य्यायः ।
पृष्ठ ४/२०२
“स्पृक्कासृग्ब्राह्मणी देवी मरुन्माला लता लघुः ।
समुद्रान्ता वधूः कोटिवर्षालङ्कोपिकेत्यपि ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

लघुः, त्रि, (लङ्घ + कुः । नलोपश्च ।) अगुरुः ।

(यथा, --
“तृणादपि लघुस्तूलस्तूलादपि च भिक्षुकः ।
न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया ॥”
इत्युद्भटः ॥)
मनोज्ञः । (इष्टः । इत्यमरः ॥ यथा, रघुः ।
११ । १२ ।
“नाम्भसां कमलशोभिनां तथा
शाखिनाश्च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः
प्रीतिमापुरुभयोस्तपस्विनः ॥”)
निःसारः । इति मेदिनी । घे, ५ ॥ (यथा,
रघुः । १२ । ६६ ।
“श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥”)
ह्रस्वः । इति हेमचन्द्रः ॥ * ॥ द्याकरणोक्त-
लघुसंज्ञा यथा । ह्रस्वो लघुः दीर्घो गुरुरित्यु-
च्चारणवशाद्गम्यते । तथा संयोगे सति ह्रस्वो-
ऽपि गुरुर्गुरुमतोऽनृच्छ इति वर्ज्जनाच्च । इति
दुर्गसिंहकृतकलापवृत्तिः ॥ * ॥ छन्दःशास्त्रोक्तं
लघुलक्षणं यथा, --
“मस्त्रिगुरुस्त्रिलघुश्च नकारो
भादिगुरुः पुनरादिलघुर्यः ।
जो गुरुमध्यगतो रलमध्यः
सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥
गुरुरेको गकारस्तु लकारो लघुरेककः ॥”
इति छन्दोमञ्जरी ॥

लघुकायः, पुं, (लघुः कायो यस्य ।) छागः ।

इति त्रिकाण्डशेषः ॥ क्षुद्रशरीरश्च ॥

लघुकाश्मर्य्यः, पुं, (लघुः काश्मर्य्यः ।) कट्फल-

वृक्षः । इति राजनिर्घण्टः ॥

लघुखट्विका, स्त्री, (लघुः खट्विका ।) क्षुद्रखट्वा ।

तत्पर्य्यायः । आसन्दी २ । इति हारा-
वली । २०९ ॥

लघुगणः, पुं, (लघुर्गणः ।) अश्विनीपुष्यहस्तनक्ष-

त्राणि । यथा, --
“उग्रः पूर्व्वमघान्तका घ्रुवगणस्त्रीण्युत्तराणि
स्वभू-
र्व्वातादित्यहरित्रयं चरगणः पुष्याश्विहस्ता
लघुः ॥”
इति दीपिका ॥

लघुगर्गः, पुं, (लघुर्गर्ग इव ।) त्रिकण्टकमत्स्यः ।

इति हारावली । १९० ॥

लघुचिर्भिटा, स्त्री, (लघुश्चिर्भिटा ।) मृगेर्व्वारु ।

इति राजनिर्घण्टः ॥

लघुजङ्गलः, पुं, लावकपक्षी । इति त्रिकाण्ड-

शेषः ॥

लघुदन्ती, स्त्री, (लघुः क्षुद्रा दन्ती ।) क्षुद्रदन्ती-

वृक्षः । यथा, --
“लघ्वी दन्ती विशल्या च स्यादुडम्बरपर्ण्यपि ।
तथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया ।
वराहाङ्गी च कथिता निकुम्भश्च मकूलकः ॥”
अस्या गुणाः ।
“दन्तीद्वयं सरं पाके रसे च कटु दीपनम् ।
गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत् ॥
तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन् ॥”
इति भावप्रकाशः ॥
तत्फलगुणाः ।
“क्षुद्रदन्तीफलन्तु स्यान्मधुरं रसपाकयोः ।
शीतलं सृष्टविण्मूत्रं गलशोथकफापहम् ॥”
इति भावप्रकाशः ॥

लघुदुन्दुभिः, पुं, (लघुर्दुन्दुभिः ।) द्रगडवाद्यम् ।

इति शब्दरत्नावली ॥

लघुद्राक्षा, स्त्री, (लघुः क्षुद्रा द्राक्षा ।) काकली-

द्राक्षा । इति राजनिर्घण्टः ॥

लघुनाम, [न्] क्ली, (लघु लघुवर्णयुक्तं नाम

यस्य ।) अगुरु । इति शब्दचन्द्रिका ॥

लघुपञ्चमूलं, क्ली, (लघु क्षुद्रं पञ्चमूलम् ।) क्षुद्र-

पञ्चमूलपाचनम् । तत्तु शालपर्णीपृश्निपर्णी-
बृहतीकण्टकारीगोक्षुरसंयुक्तम् । यथा, --
“शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका ।
गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ॥”
अस्य गुणाः ।
“पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् ।
नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ॥”
इति भावप्रकाशः ॥

लघुपत्रकः, पुं, (लघूनि पत्राणि यस्य । कप् ।)

रोचनी । शुण्डारोचनी इति ख्यातः । इति
शब्दचन्द्रिका ॥

लघुपत्री, स्त्री, (लघूनि पत्राणि यस्याः । ङीष् ।)

अश्वत्थीवृक्षः । इति राजनिर्घण्टः ॥

लघुपिच्छिलः, पुं, (लघुः पिच्छिलः ।) भूकर्व्वु-

दारकः । इति राजनिर्घण्टः ॥

लघुपुष्पः, पुं, (लघुनि क्षुद्राणि पुष्पाणि यस्य ।)

भूमिकदम्बः । इति राजनिर्घण्टः ॥ (भूमि-
कदम्बशब्देऽस्य विशेषो ज्ञेयः ॥)

लघुबदरः, पुं, (लघुः क्षुद्रो बदरः ।) क्षुद्रकोलिः ।

तत्पर्य्यायः । सूक्ष्मफलः २ बहुकरः ३ सूक्ष्म-
पत्रः ४ दुस्मर्शः ५ मधुरः ६ दरहारः ७
शिखिप्रियः ८ । इति राजनिर्घण्टः ॥ अस्य
फलगुणाः ।
“कर्क्कन्धुः क्षुद्रबदरं कथितं पूर्ब्बसूरिभिः ।
अम्लं स्यात् क्षुद्रबदरं कषायं कथितं मनाक् ॥
स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् ।
शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमा-
स्रजित् ॥”
इति भावप्रकाशः ॥
अस्य पक्वफलगुणाः । मधुराम्लत्वम् । कफवात-
नाशित्वम् । रुच्यत्वम् । स्निग्धत्वम् । जन्तुकारक-
त्वम् । ईषत्पित्तार्त्तिदाहशाषघ्नत्वञ्च । इति
राजनिर्घण्टः ॥

लघुबदरी, स्त्री, (लघुः क्षुद्रा बदरी ।) भूब-

दरी । इति राजनिर्घण्टः ॥

लघुब्राह्मी, स्त्री, (लघुः क्षुद्रा ब्राह्मी ।) क्षुद्र-

ब्राह्मी । तत्पर्य्यायः । जलोद्भवा २ सूक्ष्मपत्रा ३ ।
इति राजनिर्घण्टः ॥

लघुमन्थः, पुं, (लघुः क्षुद्रो मन्थः) क्षुद्राग्नि-

मन्थः । इति राजनिर्घण्टः ॥

लघुमांसः, पुं, (लघु स्वल्पं मांसं यस्य ।) तित्तिरि-

पक्षी । इति त्रिकाण्डंशेषः ॥

लघुमांसी, स्त्री, गन्धमांसी । इति राजनिर्घण्टः ॥

लघुलयं, क्ली, (लघु शीघ्रं लीयते इति । ली +

अच् ।) वीरणमूलम् । इत्यमरः ॥

लघुसदाफला, स्त्री, (सदा फलं यस्याः सा ।

लघुः सदाफला ।) लघूदुम्बरिका । इति
राजनिर्घण्टः ॥

लघुहस्तः, पुं, (लघुः क्षिप्रकारी हस्तो यस्य ।)

शीघ्रवेधी । इति हेमचन्द्रः । ३ । ४३१ ॥
(वाच्यलिङ्गोऽपि । यथा, कथासरित्मागरे ।
४२ । १३३ ।
“स राजपुत्त्रश्छित्त्वैव रक्षसस्तस्य तच्छिरः ।
भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत् ॥”
यथा च ।
“तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती ।
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ।
सत्यधर्म्मपरो यश्च स भिषक् पाद उच्यते ॥”
इयि सुश्रुते सूत्रस्थाने ३४ अध्यायः ॥)

लघुहेमदुग्धा, स्त्री, (लघुर्हेमदुग्धा ।) लघूदुम्ब-

रिका । इति राजनिर्घण्टः ॥

लघूदुम्बरिका, स्त्री, (लघुः क्षुद्रा उदुम्बरिका ।)

क्षुद्रोडूम्बरिका । छोट डुमुर इति भाषा ।
तत्पर्य्यस्यः । लघुपत्रफला २ लघुहेमदुग्धा ३
लघुसदाफला ४ लघ्वाद्युडुम्बराह्वा ५ । रस-
वीर्य्यविपाकेषु उडुम्बरात् किञ्चिन्न्यूनगुणेयम् ।
इति राजनिर्घण्टः ॥

लघ्वी, स्त्री, (लघु + ङीष् ।) लाघवयुक्ता ।

(यथा, --
“गुर्व्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्य्ययात् ।
शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)
स्यन्दनप्रभेदः । इति मेदिनी । घे, ५ ॥ पृक्का ।
इति राजनिर्घण्टः ॥

लङ्का, स्त्री, (रमन्तेऽस्यामिति । रम् + बाहु-

लकात् कः । रस्य लत्वम् । इत्युज्ज्वलः । ३ ।
४० ।) रक्षःपुरी । (यथा, नैषधे । ३ । ६७ ।
“चेतो न लङ्कामयते मदीयं
नान्यत्र कुत्रापि च साभिलाषम् ॥”)
ज्योतिःशास्त्रमते सा च पृथिव्या मध्यभागे
तिष्ठति । लङ्कोदयात् चरखण्डेभ्यः स्वदेशे लग्न-
प्रमाणं भवति । यथा, --
“लङ्का कुमध्ये यमकोटिरस्याः
प्राक् पश्चिमे रोमकपत्तनञ्च ।
पृष्ठ ४/२०३
अधस्ततः सिद्धपुरं सुमेरुः
सौम्येऽथ याम्ये वडवानलश्च ।
कुवृत्तपादान्तरितानि तानि
स्थानानि षड्गोलविदो वदन्ति ॥”
अपि च ।
“यल्लङ्कोज्जयनीपुरोपरिकुरुक्षेत्रादिदेशान्
स्पृशन्
सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः ।
आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखो-
दयात्
स्यात्तस्मात् क्रियते तदन्तरभुवं खेटेष्वृणं स्वं
फलम् ॥”
इति सिद्धान्तशिरोमणिः ॥ * ॥
अथ लङ्कापुरीवर्णनम् ।
त्वष्टोवाच ।
“त्रिंशद्योजनविस्तीर्णां स्वर्णप्राकारतोरणाम् ।
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्व्वतः ।
शिखरे तस्य शैलस्य मध्यमम्बुधिसन्निधौ ॥
पतत्रिभिश्च दुष्प्रापां टङ्कच्छिन्नां चतुर्द्दिशम् ।
शक्रार्थं मत्कृता पूर्ब्बं प्रयत्नात् बहुवत्सरैः ॥
वसन्तु तत्र दुर्द्धर्षाः सुखं राक्षसपुङ्गवाः ।
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ॥
लङ्कादुर्गं समासाद्य शत्रूणां शक्रसूदनाः ।
दुराधर्षा भविष्यन्ति राक्षसैर्ब्बहुभिर्व्वृताः ॥”
इति वह्रिपुराणे कपिलदर्शननामाध्यायः ॥ * ॥
शाखा । शाकिनी । कुलटा । इति मेदिनी । के,
३३ ॥ धान्यविशेषः । तत्पर्य्यायः । करालत्रि-
पुटा २ काण्डिका ३ रूक्षणात्मिका ४ । अस्या
गुणाः । रुच्यव्यम् । हिमत्वम् । गौल्यत्वम् ।
पित्तनाशित्वम् । वातकारित्वम् । गुरुत्वञ्च ।
इति राजनिर्घण्टः ॥

लङ्कादाही, [न्] पुं, (लङ्कां दहति तच्छीलः ।

दह + णिनिः ।) हनूमान् । इति शब्दरत्ना-
वली ॥

लङ्काधिपतिः, पुं, (लङ्काया अधिपतिः ।)

रावणः । इति जटाधरभूरिप्रयोगौ ॥ (यथा,
रघुः । ६ । ६२ ।
“पुरा जनस्थानविमर्द्दशङ्की
सन्धाय लङ्घाधिपतिः प्रतस्थे ॥”)

लङ्कापतिः, पुं, (लङ्कायाः पतिः ।) रावणः ।

इति भूरिप्रयोगः ॥

लङ्कापिका स्त्री, पृक्का । इति शब्दरत्ना-

वली ॥ पिडिंशाक इति भाषा ॥

लङ्कायिका स्त्री, पृक्का । इति शब्दरत्ना-

वली ॥ पिडिंशाक इति भाषा ॥

लङ्कारिका स्त्री, पृक्का । इति शब्दरत्ना-

वली ॥ पिडिंशाक इति भाषा ॥

लङ्कास्थायी, [न्] पुं, (लङ्कावत् तिष्ठतीति । स्था

+ णिनिः ।) वृक्षविशेषः । लङ्कासिज इति
भाषा । यथा, --
“लङ्कास्थायी राजवृक्षो भद्रचूडो विशायकः ।”
इति शब्दचन्द्रिका ॥
(लङ्कायां तिष्ठतीति ।) लङ्कावासिनि, त्रि ॥

लङ्केशः, पुं, (लङ्काया ईशः पतिः ।) रावणः ।

इति त्रिकाण्डशेषः ॥

लङ्कोपिका, स्त्री, पृक्का । इति शब्दरत्नावली ॥

लङ्कोयिका, स्त्री, पृक्का । इति शब्दरत्नावली ॥

लङ्गः, पुं, (लङ्गतीति । लङ्ग गतौ + अच् ।)

सङ्गः । षिड्गः । इति मेदिनी । गे, २३ ॥ नां
इति भाषा ॥

लङ्गूलं, क्ली, लाङ्गूलम् । इत्युणादिकोषः ॥

लङ्घनं, क्ली, (लङ्घ + ल्युट् ।) उपवासः । (यथा,

सुश्रुते । १ । ४६ ।
“तत्रामे लङ्घनं कार्य्यं विदग्धे वमनं हितम् ।
विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥”
यथा च ।
“लङ्घनं बृंहणं काले रूक्षणं स्नेहनन्तथा ।
स्वेदनं स्तम्भनञ्चैव जानीते यः स वै भिषक् ॥”
“तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् ।
यत्किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥”
“लघूष्णतीक्ष्णविषदं रूक्षं सूक्ष्मं खरं सरम् ।
कठिनञ्चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ॥”
“--पिपासा मारुतातपौ ।
पाचनान्युपवासाश्च व्यायामश्चेति लङ्घनम् ॥”
“प्रभूतश्लेष्मपित्तास्रमलाः सन्दुष्टमारुताः ।
बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥”
“त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहि-
नाम् ।
शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥”
इति चरके सूत्रस्थाने द्वाविंशेऽध्याये ॥
“ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् ।
क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥
आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-
पयन् ।
विदधाति ज्वरं दोषस्तदा लङ्घनमाचरेत् ॥
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ।
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् ।
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥
तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते ।
कार्य्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्ब्बले ॥
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ।
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ॥
स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये ॥
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥
पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च ।
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥
मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि ।
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
क्रमणम् । (यथा, कुमारे । ५ । ६४ ।
“यथा श्रुतं वेदविदांवर त्वया
जनोऽयमुच्चैः पदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥”)
प्लवनम् । इति मेदिनी । ने, १२० ॥ अग्नि-
लङ्घननिषेधो यथा, --
“न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वधः ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
(अतिक्रमः । यथा, महाभारते । १ । १५९ ।
३६ ।
“न चाप्यधर्म्मः कल्याण बहुपत्नीकता नृणाम् ।
स्त्रीणामधर्म्मः सुमहान् भर्त्तुः पूर्ब्बस्य लङ्घने ॥”)
अश्वतृतीयगतिः । यथा, --
“प्लुतन्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।”
इति हेमचन्द्रः ॥ * ॥
(स्त्री, अवमानना । यथा, मार्कण्डेये ।
१३५ । ३३ ।
“अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या ।
तां नालं क्षत्त्रियः सोढुं किं पुनः पितृमार-
णम् ॥”)

लछ, लक्ष्मणि । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) लछति वृषं चक्रेण गोपः ।
इति दुर्गादासः ॥

लज, भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) लजति । इति दुर्गादासः ॥

लज, इ भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, लञ्ज्यते । इति दुर्गादासः ॥

लज, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सक० च-सेट् ।) इ क,
लञ्जयति । भा दीप्तिः षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥

लज, क अन्तर्द्धौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) अन्तर्द्धिराच्छादनम् । क,
लाजयति चन्द्रं मेघः । इति दुर्गादासः ॥

लज, ङ व्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ङ, लजते । निष्ठायां
लग्न इत्यन्ये । इति दुर्गादासः ॥

लज, त् क भासने । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-अक०-सेट् ।) क, लजयति ।
भासनं दीप्तिः । इति दुर्गादासः ॥

लजकारिका, स्त्री, (लजं लज्जां करोतीव ।

कृ + ण्वुल् । टापि अत इत्वम् ।) लज्जालुलता ।
इति शब्दमाला ॥

लज्जा, स्त्री, (लज्जनमिति । लस्ज व्रीडने +

“गुरोञ्च हलः ।” ३ । ३ । १०३ । इति अः ।
टाप् ।) अन्तःकरणवृत्तिविशेषः । इति
नागोजीभट्टः ॥ अकर्त्तव्ये कर्म्मणि परज्ञान-
भयम् । लाज् इति भाषा । तत्पर्य्यायः ।
मन्दाक्षम् २ ह्रीः २ त्रपा ४ व्रीडा ५ । सा
अन्यतश्चेत् अपत्रपा ६ । इत्यमरः ॥ मन्दा-
स्यम् ७ लज्या ८ व्रीडः ९ व्रीडनम् १० । इति
शब्दरत्नावली ॥ (यथा, कुमारे । १ । ४८ ।
“लज्जा तिरश्चां यदि चेतसि स्या-
दसंशयं पर्व्वतराजपुत्त्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्य्यु-
र्बालप्रियत्वं शिथिलं चमर्य्यः ॥”)
लज्जालुः । इति राजनिर्घण्टः ॥
पृष्ठ ४/२०४

लज्जालुः, पुं, स्त्री, (लज्जेवास्या अस्तीत्यर्थे आलुः ।)

क्षुपविशेषः । तत्पर्य्यायः । रक्तपादी २ शमी-
पत्रा ३ स्पृक्का ४ खदिरपत्रिका ५ सङ्कोचिनी
६ समङ्गी ७ नमस्कारी ८ प्रसारिणी ९ सप्त-
पर्णी १० खदिरी ११ गण्डमालिका १२
लज्जा १३ लज्जिरी १४ स्पर्शलज्जा १५ अस्र-
रोधिनी १६ रक्तमूला १७ ताम्रमूला १८
स्वगुप्ता १९ अञ्जविकारिका २० । इति राज-
निर्घण्टः ॥ महाभीता २१ वशिनी २२ महौ-
षधिः २३ । इति शब्दचन्द्रिका ॥ अस्या
गुणाः । कटुत्वम् । शीतत्वम् । पित्तातिसार-
शोफदाहश्रमश्वासव्रणकुष्ठ-कफार्त्तिनाशित्वञ्च ॥
तद्भेदो यथा, --
“लज्जालुर्विपरीतान्या अल्पक्षुपबृहद्वला ।
वैपरीत्या च लज्जालुर्ह्याभिधाने प्रयोजयेत् ॥
लज्जालुर्वैपरीत्याहुः कटुरुष्णः कफापनुत् ।
रसे नियामकश्चैव नानाविज्ञानकारकः ॥”
इति राजनिर्घण्टः ॥
अन्या हंसपादीशब्दे द्रष्टव्या ॥ * ॥ अपि च ।
“लज्जालुः स्यात् शमीपत्रा समङ्गाञ्जलि-
कारिका ।
रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि ॥
लज्जालुः शीलता तिक्ता कषाया कफपित्त-
जित् ।
रक्तपित्तमतीसारं योनिरोगान् विनाशयेत् ॥”
अत लज्जालुभेदः ।
“अलम्बुषा खरत्वक् च तथा मेदोगला स्मृता ।
अलम्बुषा लघुः स्वादुः कृमिपित्तकफापहा ॥”
इति भावप्रकाशः ॥
अन्या दुग्धिकाशब्दे द्रष्टव्या ॥

लज्जाशीलः, त्रि, (लज्जा शीलं स्वभावो यस्य ।)

लज्जाविशिष्टः । तत्पर्य्यायः । अपत्रपिष्णुः २ ।
इत्यमरः ॥ लज्जितः ३ । इति शब्दरत्नावली ॥

लज्जितः, त्रि, (लज्जा सञ्जातास्य । लज्जा + तार-

कादित्वात् इतच् ।) लज्जायुक्तः । तत्पर्य्यायः ।
ह्रीणः २ ह्रीतः ३ । इत्यमरः ॥ (यथा, रघुः ।
१२ । ७५ ।
“कामं जीवति मे नाथः इति सा विजहौ
शुचम् ।
प्राक् मत्वा सत्यमस्यान्तं जीवितास्मीत्रि
लज्जिता ॥”)

लज्जिरी, स्त्री, लज्जालुः । इति राजनिर्घण्टः ॥

लज्या, स्त्री, लज्जा । इति शब्दरत्नावली ॥

लञ्ज, त् क भासने । इति कविकल्पद्रुमः ॥

(अदन्त-चुरा०-पर०-अक०-सेट् ।) क, लञ्ज-
यति । भासनं दीप्तिः । इति दुर्गादासः ॥

लञ्जः, पुं, (लञ्जयति शोभते इति । लञ्ज + अच् ।)

पदः । कच्छः । इति हेमचन्द्रः ॥ पुच्छः ।
इति जटाधरः ॥

लञ्जिका, स्त्री, (लञ्जयति शोभते इति । लञ्ज +

ण्वुल् । टापि अत इत्वम् ।) वेश्या । इति
हेमचन्द्रः ॥

लट, बाल्योक्त्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सक० च-सेट् ।) बालोऽज्ञः तस्य
भावो बाल्यं व्यामोह इति यावत् । लटति लोकः
शिशुः स्यात् । किञ्चिद्वदति वेत्यर्थः । इति
दुर्गादासः ॥

लटः, पुं, (लटति यथेच्छया वदतीति । लट +

अच् ।) प्रमादवचनम् । दोषः । इति
विश्वः ॥

लटकः, पुं, (लटतीति । लट् + “क्वुन् शिल्पि-

संज्ञयोरपूर्ब्बस्यापि ।” उणा० २ । ३२ । इति
क्वुन् ।) दुर्जनः । इत्युणादिकोषः ॥

लटपर्णं, क्ली, (लटमुग्रं पर्णमस्य ।) त्वचम् ।

इति राजनिर्घण्टः ॥

लट्टः, पुं, दुर्जनः । इति शब्दरत्नावली ॥

लट्वः, पुं, (लटतीति । लट + “अशूप्रूषिलटीति ।”

उणा० १ । १५१ । इति क्वन् ।) जातिविशेषः ।
नेटुया इति भाषा ॥ रागभेदः । तुरङ्गमः ।
इत्युणादिकोषः ॥

लट्वा, स्त्री, (लट् + क्वन् । टाप् ।) करञ्जमेदः ।

नाटाकरञ्जा इति भाषा । वाद्यभेदः । पक्षि-
विशेषः । ग्रामचटक इति ख्यातः । इति
मेदिनी । वे, २२ ॥ कुसुम्भम् । इति हेमचन्द्रः ॥
भ्रमरकः । भोङरी इति ख्यातः । इत्यमर-
भरतौ ॥ (शिली । इति हारावली । २५६ ॥
तूलिका । द्यूतम् । यथा, --
“लट्वा तु तूलिका ख्याता लट्वा द्यूतेऽपि
दृश्यते ॥”
इति व्याडिरभसौ ।” इति उणादिवृत्तौ
उज्ज्वलः । १ । १५१ ॥)

लड, विलासे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) लडति बाला । इति दुर्गा-
दासः ॥

लड, इ कि भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) इ, लण्ड्यते ।
कि, लण्डयति लण्डति । भाषणं कथनम् । अयं
कैश्चिन्न मन्यते । इति दुर्गादासः ॥

लड, ओ इ कि उत्क्षेपणे । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) ओ,
लण्डिनः । अनुबन्धबलादिम्व्यवधानेऽपि निष्ठा-
तस्य नत्वम् । अस्मात् निष्ठायामिम् न स्यादि-
त्येके । लड्न इति । इ, लण्ड्यते । कि, लण्डयति
लण्डति तण्डुलं लोकः । इति दुर्गादासः ॥

लड, क उपसेवे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) उपसेव इह अत्यन्तपाल-
नम् । क, लालयेत् पञ्चवर्षाणि पुत्त्रमिति अत्र
डलयोरेकत्वाल्लत्वम् । कल्पनायामस्य प्रयोगः ।
इति रमानाथः । लाडयति लतां वायुः । इति
दुर्गादासः ॥

लड, क ङ वीप्से । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् । क ङ, लाडयते । लाभ
एव इत्यन्य । विशेषेण आप्तुमिच्छा व्रीप्सा ।
इति दुर्गादासः ॥

लड, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-सक०-सेट् ।) लडयति । अल-
लाडत् । इति दुर्गादासः ॥

लड, म उन्मन्थनजिह्वयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-क्वचित् पीडनादौ सक०-
सेट् ।) उन्मन्थनं पीडितीभावः उत्क्षिप्ती-
भावश्च । लडति लता वायुना पीडिता उत्-
क्षिप्ता वा स्यादित्यर्थः । जिह्वा तद्बिषयक्रिया ।
लडति जिह्वा स्पन्दनवती स्यादित्यर्थः । म,
लडयति । लडयति त्वचमुल्ललयत्यमूनिति
श्रीहर्षः । पीडयतीत्यर्थः । कवाटघ्नीमिन्दुः
किरणलहरीमुल्ललयतीति मुरारिः । उत्-
क्षिपतीत्यर्थः । उभयत्र डलयोरेकत्वाल्लत्वम् ।
केचित्तु जिह्वोन्मन्थने इति पठित्वा जिह्वाया
उन्मन्थनं उत्क्षेपणमिति व्याख्याय लडति
जिह्वां सर्प इत्येवोदाहरन्ति । इति दुर्गा-
दासः ॥

लडहः, त्रि, मनोज्ञः । इति त्रिकाण्डशेषः ॥

लड्डः, त्रि, दुर्ज्जनः । इति शब्दरत्नावली ॥

लड्डुकः, पुं, पिष्टकविशेषः । लाडु इति भाषा ॥

यथा । लड्डुको दुर्ज्जरो गुरुः । इति राज-
वल्लभः ॥ अपि च ।
“तैलेन हविषा पक्वं भवेत् चूर्णञ्च लड्डुकः ॥”
इति शब्दचन्द्रिका ॥

लण्डं, क्ली, (लण्ड्यते उत्क्षिप्यते इति । लण्ड +

घञ् ।) पुरीषम् । ल्याड् इति भाषा । यथा, --
“समेधमानेन स कृष्णबाहुना
निरुद्धवायुश्चरणांश्च निक्षिपन् ।
प्रस्विन्नगात्रः परिवृत्तलोचनः
पपात लण्डं विसृजन् क्षितौ व्यसुः ॥”
इति श्रीभागवते १० स्कन्धे ३७ अध्याये
८ श्लोकः ॥ लण्डं पुरीषमुत्सृजन् । इति तट्टी-
कायां श्रीधरस्वामी ॥

लण्ड्रजः, त्रि, (लण्ड्रे तदाख्यदेशे जायते इति ।

जन् + डः ।) लण्ड्रदेशजातः । यथा, --
“पूर्ब्बाम्नाये नवशत्तं षडशीतिः प्रकीर्त्तिताः ।
फिरङ्गभाषया तन्त्रास्तेषां संसाधनात् भुवि ॥
अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः ।
इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥”
इति मेरुतन्त्रे २३ प्रकाशः ॥ * ॥
लण्डस्तु अधुना लण्डन् इति ख्यातः । इंरेजानां
राजधानी च ॥

लत, घाते । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) लता । इति दुर्गा-
दासः ॥

लता, स्त्री, (लतति वेष्टयते यान्यमिति । लत + पचा-

द्यच् । टाप् ।) शाखादिरहिता गुडूच्यादिः ।
तत्पर्य्यायः । वल्ली २ व्रततिः ३ । इत्यमरः ॥
वल्लिः ४ वेल्लिः ५ प्रततिः ६ । सा शाखापत्र-
समायुक्ता चेत्प्रतानिनी । इति शब्दरत्नावली ॥
तत्पर्य्यायः । वीरुत् २ गुल्मिनी ३ उलपः ४ ।
इत्यमरः ॥ * ॥ अमायां वीरुधां छेदकर्त्तुर्निन्दा
पृष्ठ ४/२०५
यथा, --
“अप्सु तस्मिन्नहोरात्रे पूर्ब्बं विशति चन्द्रमाः
ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥
छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे ।
पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥”
इति श्रीविष्णुपुराणे २ अंशे १२ अध्यायः ॥ * ॥
आश्रमे रोपणीया शुभदा लतादिर्यथा, --
“अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः ।
खर्ज्जुरी कर्कटी चापि शिविरे मङ्गलप्रदा ॥
वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदा ।
लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥”
इति व्रह्मवैवर्त्ते श्रींकृष्णजन्मखण्डे १०२ अध्यायः ॥
शाखा । प्रियङ्गुः । (अस्याः पर्य्यायो यथा, --
“प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ।
गुन्द्रा गुन्द्रफला श्यामा विष्वक् सेनाङ्गना-
प्रिया ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पृक्का । (यथास्याः पर्य्यायः ।
“तस्करोच्चारकश्चण्डो देवी पृक्का लता लघुः ॥”
इति वैद्यकरत्नमालायाम् ॥)
अशनपर्णी । इत्यमरः ॥ ज्योतिष्मती । (अस्याः
पर्य्यायो यथा, --
“ज्योतिष्मती स्यात् कटभी ज्योतिष्का कङ्गीनी-
ति च ।
पारावतपदी पण्या लता प्रोक्ता ककुन्दनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
लताकस्तूरिका । माधवी । दूर्व्वा । इति मेदिनी ।
ते, ५१-५२ ॥ कैवर्त्तिका । सारिवा । इति राज-
निर्घण्टः ॥ (बृहती । तत्पर्य्यायो यथा, --
“भण्डाकी बृहती सिंही वार्त्ताकी राष्ट्रिका-
कुली ।
प्रसहा रक्तपाका च लता वृहतिका परा ॥”)
नारी । यथा, --
“नग्नां परलतां पश्यन् अयुतं यस्तु साधकः ।
प्रजपेत् स भवेत् शीघ्रं विद्याया वल्लभः स्वयम् ॥”
इति तन्त्रसारे श्यामासाधनम् ॥
(तथा च नैषधे । १ । ८५ ।
“नवा लता गन्धवहेन चुम्बिता
करम्बिताङ्गी मकरन्दशीकरैः ।
दृशा नृपेण स्मितशोभिकुड्मला
दरादराभ्यां दरकम्पिनी पपे ॥”
“नवा नवीना तला माधवीलता पक्षे नवा
रम्या लता स्त्री ।” इति तट्टीका ॥ * ॥ अप्सरो-
विशेषः । यथा, महाभारते । १ । २१७ । २० ।
“अहञ्च सौरभेयी च समीची वुद्वुदा लता ।
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ! ॥”)

लताकरञ्जः, पुं, (लतारूपः करञ्जः ।) करञ्ज-

विशेषः । कण्टकरेज इति हिन्दी भाषा ।
तत्पर्य्यायः । दुष्पर्शः २ वीराख्यः ३ वज्र-
बीजकः ४ धनदाक्षी ५ कण्टफलः ६ कुबे-
राक्षी ७ । अस्य पत्रगुणाः । कटुत्वम् ।
उष्णत्वम् । कफवातनाशित्वञ्च । तद्बीजगुणाः ।
दीपनत्वम् । पथ्यत्वम् । शूलगुल्मविषापहत्वञ्च ।
इति राजनिर्घण्टः ॥

लताकस्तूरिका, स्त्री, (लतारूपा कस्तूरी तद्बद्-

गन्धत्वात् । ततः स्वार्थे कन् ।) लताकस्तूरी ।
तत्पर्य्यायः । कटुः २ दक्षिणदेशजा ३ । अस्या
गुणाः । तिक्तत्वम् । स्वादुत्वम् । वृष्यत्वम् ।
हिमत्वम् । लघुत्वम् । चक्षुष्यत्वम् । छेदनीत्वम् ।
श्लेष्मतृष्णावस्त्यास्यरोगनाशित्वञ्च । इति पथ्या-
पथ्यविवेकः ॥ अपि च ।
“लताकस्तूरिका तिक्ता हृद्या शीतास्य-
रोगनुत् ॥”
इति राजवल्लभः ॥

लताजिह्वः, पुं, (लतेव जिह्वा यस्य ।) सर्पः ।

इति शब्दमाला ॥

लतातरुः, पुं, (लतेव दीर्घस्तरुः ।) नारङ्गवृक्षः ।

तालवृक्षः । इति शब्दमाला ॥ शालवृक्षः ।
इति त्रिकाण्डशेषः ॥

लताद्रुमः, (लतेव द्रुमः दीर्घत्वात् ।) लताशालः ।

तत्पर्य्यायः । तार्क्षः २ अश्वकर्णः ३ कुशिकः ४
वन्यः ५ दीर्घः ६ । इति रत्नमाला ॥

लतापनसः, पुं, (लतायां पनसमिव फलमस्य ।)

फललताविशेषः । तरमुज् इति ख्यातः ।
तत्पर्य्यायः । चेलालः २ चित्रफलः ३ सुखाशः ४
राजतेमिषः ५ नाटाम्रः ६ सेदुः ७ । इति
त्रिकाण्डशेषः ॥

लतापृक्का, स्त्री, (लताप्रधाना पृक्का ।) समु-

द्रान्ता । इति शब्दरत्नावली ॥ पिडिंशाक
इति भाषा ॥

लताप्रतानिनी, स्त्री, (लताप्रतानोऽस्त्यस्येति ।

इनिः ।) शाखाप्रचयवती लता । तत्पर्य्यायः ।
वीरुत् २ गुल्मिनी ३ उलपः ४ । इत्यमर-
भरतौ ॥ वीरुधा ५ वरुत् ६ । इति शब्दरत्ना-
वली ॥ प्रताना ७ कक्षः ८ । इति जटाधरः ॥

लताफलं, क्ली, (लतायां फलमस्य ।) पटोलः ।

यथा, --
“वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदा ।
लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥

लताभद्रा, स्त्री, (लतया भद्रा यस्याः ।) भद्राली-

वृक्षः । इति शब्दमाला ॥

लतामणिः, पुं, (लतासदृशो मणिः ।) प्रवालः ।

इति त्रिकाण्डशेषः राजनिर्घण्टश्च ॥ (प्रवाल-
शब्देऽस्य विवरणं ज्ञातव्यम् ॥)

लतामरुत्, स्त्री, (लतायां मरुत् यस्याः ।) पृक्का ।

इति शब्दरत्नावली ॥

लतामाधवी, स्त्री, (लताप्रधाना माधवी ।)

माधवीलता । इति शब्दरत्नावली ॥

लतायष्टिः, स्त्री, (लता यष्टिरिव ।) मञ्जिष्ठा ।

इति शब्दमाला ॥

लतायावकं, क्ली, (लतायां याव इव यस्य । कन् ।)

प्रवालम् । इति हारावली । ९१ ॥ (गुणादयो-
ऽस्य प्रवालशब्दे ज्ञेयाः ॥)

लतारसनः, पुं, (लतेव रसना यस्य ।) सर्पः ।

इति हारावली । १५ ॥

लतार्कः, पुं, (लता अर्क इव तीव्रा यस्य ।)

हरित्पलाण्डुः । तत्पर्य्यायः । दुद्रुमः २ ।
इत्यमरः ॥

लतालकः, पुं, हस्ती । इति त्रिकाण्डशेषः ॥

लतावेष्टः, पुं, (लतयेव आवेष्टो वेष्टनं यत्र ।)

षोडशरतिबन्धान्तर्गततृतीयबन्धः । यथा, --
“बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा स्त्रियं रमेत् ।
लघुलिङ्गताडनं योनौ लतावेष्टोऽयमुच्यते ॥”
इति रतिमञ्जरी ॥ * ॥
पर्व्वतविशेषः । यथा, --
“अन्वेषणे निरुद्धस्य चरान् व्यादिष्टवान् तदा ।
अभ्यन्तरञ्च मार्गध्वं बाह्यतश्च समन्ततः ॥
वेणुमन्तं लतावेष्टं तथा रैवतकं गिरिम् ।
ऋक्षवन्तं गिरिञ्चैव मार्गध्वं त्वरिता हयैः ॥”
इति हरिवंशे वाणयुद्धम् ॥
(पर्व्वतोऽयं द्वारकाया दक्षिणस्यां दिशि
स्थितः । यथा, तत्रैव । १५५ । १६ ।
“दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते ।
इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः ॥”)

लतावेष्टितकं, क्ली, (लतयेव वेष्टितं वेष्टनं यत्र ।

कन् ।) आलिङ्गनभेदः । यथा, शब्दमालायाम् ।
“उद्धट्टकं पीडितकं लतावेष्टितकं तथा ॥”

लताशङ्खः, पुं, शालवृक्षः । इति शब्दरत्नावली ॥

लतासाधनं, क्ली, (लतया स्त्रिया साधनम् ।)

योषिदधिकरणकेष्टदेवताराधनम् । तद्यथा, --
“लतायाः साधनं वक्ष्ये शृणुष्व हरवल्लभे ।
शतं केशे शतं भाले शतं सिन्दूरमण्डले ॥
स्तनन्द्वन्द्वे शतद्बन्द्वं शतं नाभौ महेश्वरि ।
शतं योनौ महेशानि उत्थाय च शतत्रयम् ॥
एवं दशशतं जप्त्वा सर्व्वसिद्धीश्वरो भवेत् ।
अथान्यत् संप्रवक्ष्यामि साधनं भुवि दुर्लभम् ॥
रजोऽवस्थां समानीय तद्योनौ स्वेष्टदेवताम् ।
पूजयित्वा महारात्रौ त्रिदिनं पूजयेन्मनुम् ॥
शतत्रयञ्च षट्त्रिंशदधिकं प्रत्यहं जपन् ।
अष्टोत्तरशतं पूर्ब्बं चक्रवक्त्रे जपेद्बुधः ॥
ततस्तां नवभिः पुष्पैर्यजेदष्टोत्तरं शतम् ।
ततः पूर्णाहुतिं दत्त्वा जपेदष्टोत्तरं शतम् ॥
धनवान् बलवान् वाग्मी सर्व्वयोषित्प्रियङ्करः ।
षोडशाहेन च भवेत् सत्यं सत्यं न संशयः ॥”
इति मायातन्त्रे १२ पटलः ॥
अन्यत् अन्नदाकल्पे १६ पटले गुप्तसाधनतन्त्रे
४ पटले च द्रष्टव्यम् ॥

लतिका, स्त्री, लता । इति लताशब्दात् स्वार्थे

कन्प्रत्ययेन ष्णिकप्रत्ययेन वा निष्पन्नम् ॥
(यथा, --
“इयं सन्ध्या दूरादहमुपगतो हन्त मलयात्
तदेकां तद्गेहे विनयवति ! नेष्यामि रजनीम् ।
समीरेणोक्तैवं नवकुसुमिता चूतलतिका
धुनाना मूर्द्धानं नहि नहि नहीत्येव कुरुते ॥”
इत्युद्भटः ॥)
पृष्ठ ४/२०६

लतिका, स्त्री, (लत घाते + “कृतिभिदिलतिभ्यः

कित् ।” उणा० ३ । १४७ । इति तिकन् ।)
गोधा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

लप, ऋ भाषे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अलीलपत् अललापत् ।
भाषः कथनम् । इति दुर्गादासः ॥

लपनं, क्ली, (लप्यतेऽनेनेति । लप् + करणे ल्युट् ।)

मुखम् । इत्यमरः ॥ (भावे ल्युट् ।) भाष-
णम् । इति लपधात्वर्थदर्शनात् ॥ (यथा,
आर्य्यासप्तशत्याम् । ३८१ ।
“प्रकटयति रागमधिकं लपनमिदं वक्त्रिमाण-
मावहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयि-
तस्य ॥”
“शुकस्येव दयितस्य लपनं सम्भाषणम् । पक्षे
वदनम् ।” इति तट्टीका ॥)

लपितं, क्ली, (लप् + क्तः भावे ।) वचनम् । कथिते,

त्रि । इत्यमरः ॥ (लपितमस्यास्तीति । अच् ।
वचनयुक्ते च त्रि । यथा, अथर्व्ववेदे । ४ । ३६ । ९ ।
“ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
तानहं मन्ये दुर्हितां जने अल्पशयूनिव ॥”)

लप्सिका, स्त्री, खाद्यविशेषः । लप्सी । इति

ख्याता । यथा, --
“समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत् ।
तस्मिन् घनीकृते न्यस्येत् लवङ्गमरिचादिकम् ।
सिद्धैषा लप्सिका ख्याता गुणानस्या वदा-
म्यहम् ॥
लप्सिका बृं हणी वृष्या बल्या पित्तानिलापहा ।
स्निग्धा श्लेष्मकरी गुर्व्वी रोचनी तर्पणी
परम् ॥”
इति भावप्रकाशः ॥

लब, इ ङ स्रंसने । शब्दे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अवलम्बने सक०-शब्दे अक०-
सेट् ।) इ, लम्ब्यते । ङ, लम्बते । स्रंसनमिहा-
वलम्बनमिति गोविन्दभट्टः । ननाद चरणायुध-
स्तदपि मौनमालम्बसे । इति दुर्गादासः ॥

लब्धः, त्रि, (लभ् + क्तः ।) प्राप्तः । इत्यमरः ॥

(यथा, हितोपदेशे ।
“अलब्धञ्चैव लिप्सेत लब्धं रक्षेदपक्षयात् ।
रक्षितं वर्द्बयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥”)

लब्धवर्णः, पुं, (लब्धावर्णा यशांसि येन ।) पण्डितः ।

इत्यमरः ॥ (यथा, रघुः । ११ । २ ।
“कृच्छ्रलब्धमपि लब्धवर्णभाक्
तं दिदेश मुनये सलक्षणम् ॥”)

लब्धा, स्त्री, (लभ् + क्तः । टाप ।) नायिका-

भेदः । यथा, --
“खण्डितोत्कण्ठिता लब्धा तथा प्रोषितभर्त्तृका ।
कलहान्तरिता वाससज्जा स्वाधीनभर्त्तृका ॥”
इति जटाधरः ॥

लभ, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) इ, लम्भ्यते । ङ, लभते ।
इति द्र्गादासः ॥

लभ, डु औ ङ ष प्राप्तौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-अनिट् ।) डु, लब्ध्रिमम् ।
औ, लब्धा । ङ, लभते । ष, लभा । लभन्ति
पुनरुत्थानमिति गणकृतानित्यत्वादिति रमा-
नाथः । वस्तुतस्तु लभते लभः पचादित्वादन्
ततो लभ इवाचरतीति क्वौ साध्यम् । इति
दुर्गादासः ॥

लभसः, पुं, (लभ् + “अत्यविचमीति ।” उणा०

३ । ११७ । इति असच् ।) वाजिबन्धनरज्जुः ।
इत्युणादिकोषः ॥ धनम् । याचकः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

लभ्यं, त्रि, (लभ्यते इति । लभ् + पोरदुपधात् ।”

३ । १ । ९८ । इति यत् ।) न्याय्यम् । इत्यमरः ॥
लब्धव्यम् । इति मेदिनी । ये, ४३ ॥ (यथा,
मुण्डकोपनिषदि । ३ । २ । ३ ।
“नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुधा श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)

लमकः, पुं, (रमते इति । रम् + “रमेरश्च लो

वा ।” उणा० २ । ३३ । इति क्वुन् रस्य
लत्वञ्च ।) षिड्गः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ (तीर्थशोधकः । इत्युज्ज्वलः ॥
विलासिनि, त्रि । इति केचित् ॥)

लम्पटः, पुं, षिड्गः । इति लम्पाकशब्दार्थे

मेदिनी । के, १४९ ॥ (यथा, कथासरित्सागरे ।
४७ । १०१ ।
“अथेतराब्रवीन्मैवं यद्यपि स्त्रीषु लम्पटः ।
तथापि न स दुःखेऽस्मिन्नीदृशः स्यात्तथा-
विधः ॥”)
आसक्तः । यथा, --
“यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद्-
यस्तस्य यत्नः श्रम एव केवलम् ॥”
इति श्रीभागवते ५ स्कन्धे १९ अध्यायः ॥

लम्पाकः, पुं, लम्पटः । देशभेदः । इति मेदिनी ।

के, १४९ ॥ (यथा, मार्कण्डेये । ५७ । ४० ।
“लम्पाकाः शूलकाराश्च चुलिका जागुडैः सह ।
औपधाश्चानिभद्राश्च किरातानाञ्च जातयः ॥”)

लम्पाटहः, पुं, पटहवाद्यम् । इति हारावली ॥

लम्फः, पुं, प्लुतगतिः । लाफ इति भाषा । इति

प्रसिद्धः ॥ उल्लस्फनं प्रलम्फनञ्चात्र ॥

लम्बः, पुं, (लम्बते इति । लबि अवस्रंसने +

अच् ।) नर्त्तकः । अङ्गम् । कान्तः । इति
संक्षिप्तसारोणादिवृत्तिः ॥ उत्कोचः । यथा,
“प्राभृतं ढौकनं लम्बोत्कोचः कोशलिकामिषे ।
उपाच्चारः प्रदानन्दा हारो ग्राह्यायने अपि ॥”
इति हेमचन्द्रः ॥
अक्षभेदः । यथा, --
“चरलम्बगमा भेदाः पाटकोऽक्षादिचालने ॥”
इति शब्दमाला ॥
क्षेत्रादौ लम्बमानरेखा सूत्रं वा । यथा, --
“त्रिभुजे भुजयोर्योगस्तदनन्तरगुणो भुवाहृतो
लब्ध्या ।
द्विस्था भूरूनयुता दलितावाधे तयोः
स्याताम् ॥
स्वावाधाभुजकृत्योरन्तरमूलं प्रजांयते लम्बः ।
लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे फलं भवति ॥”
उदाहरणम् ।
“क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु
यत्र त्रयोदशतिथिप्रमितौ हि यस्य ।
तत्रावलम्बकमथो कथयाववाधे
क्षिप्रं तथा च समकोष्ठमितिं फलाख्याम् ॥”
न्यासः । भूः १४ भुजौ १३ । १५ लब्धे
आवाधे ५ । ९ । लब्धो लम्बश्च १२ क्षेत्र-
फलञ्च ८४ । इति लीलावती ॥ (दैत्यविशेषः ।
यथा, हरिवंशे । ४३ । २२ ।
“लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥”)
त्रि, दीर्घः । लम्बा इति भाषा । यथा, --
“दूरतः शोभते मूर्खो लम्बशाटपटावृतः ।
तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते ॥”
इति चाणक्यशतकम् ॥
(लम्बमानः । यथा, रघुः । ६ । ६० ।
“पाण्ड्योऽयमंसार्पितलम्बहारः
कॢप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः
सनिर्झरोद्गार इवाद्रिराजः ॥”)

लम्बकर्णः, पुं, (लम्बौ कर्णा यस्य ।) छागः ।

अङ्कोठवृक्षः । इति मेदिनी । णे, १०७ ॥
राक्षसः । हस्ती । इति शब्दरत्नावली ॥ श्येन-
पक्षी । इति राजनिर्घण्टः ॥ (शशः । तद्यथा,
अथ विलेशयेषु तत्र शशः स्यात् ।
“लम्बकर्णः शशः शूली लोमकर्णो विले-
शयः ॥”
इति वैद्यकम् ॥
लम्बःकर्णः इति कर्म्मधारये ।) दीर्घश्रोत्रम् ॥
तद्युक्ते, त्रि । (यथा, महाभारते । ९ । ४६ ।
३४ ।
“लम्बोदर्य्यो लम्बकर्णास्तथा लम्बपयोधराः ॥”)

लम्बकेशः, पुं, (लम्बः केश इवाग्रभागो यस्य ।)

विष्टरः । स तु विवाहकाले वरोपवेशनार्थं
सार्द्धद्वितयवामावर्त्तवलिताधोमुखा असंख्यात-
दर्भाः । यथा, --
“ऊर्द्धकेशो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः ।
दक्षिणावर्त्तको ब्रह्मा वामार्त्तस्तु विष्टरः ॥”
इति संस्कारतत्त्वम् ॥
केशोऽत्राग्रम् । इति प्रायश्चित्ततत्त्वे गङ्गा-
माहात्म्ये प्रतिनिहतदर्भवटुस्नानप्रकरणे लिखि-
तम् ॥ * ॥ दीर्घकेशयुक्ते, त्रि ॥

लम्बदन्ता, स्त्री, (लम्बा दन्ता इव फलानि

यस्याः ।) सैंहलीपिप्पली । इति राज-
निर्घण्टः । बृहद्दशनविशिष्टे, त्रि ॥
पृष्ठ ४/२०७

लम्बनं, क्ली, (लम्बते इति । लम्ब + ल्युः ।)

नाभिलम्बितकण्ठिकादिः । तत्पर्य्यायः । लल-
न्तिका २ । इत्यमरः ॥ लम्बते लम्बनं नन्द्यादि-
त्वादनः । इति तट्टीकायां भरतः ॥ (लम्ब +
भावे ल्युट् ।) लम्बशब्दार्थाश्चात्र ॥

लम्बनः, पुं, (लम्बते इति । लम्ब + ल्युः ।) कफः ।

इति शब्दचन्द्रिका ॥

लम्बबीजा, स्त्री, (लम्बानि बीजानि यस्याः ।)

सैंहलीपिप्पली । इति राजनिर्घण्टः ॥

लम्बमानं, त्रि, लम्बायमानवस्तु । लम्बधातोः

कर्त्तरि शानच्प्रत्ययेन निष्पन्नम् ॥

लम्बा, स्त्री, लक्ष्मीः । गौरी । तिक्ततुम्बी । इति

मेदिनी । वे, ६ ॥ दक्षकन्याविशेषः । यथा, --
“अरून्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् ।
सङ्कल्पाञ्च मुहूर्त्ताञ्च साध्यां विश्वाञ्च भारत ।
मनवे दक्षपुत्त्राय दक्ष एता ददौ प्रभुः ॥”
इति हरिवंशे अधिपतिस्थापनम् ॥
हिमालयकन्याविशेषः । यथा, --
“ततस्त्र्यक्षवचः श्रुत्वा देवीलम्बामथाब्रवीत् ।
गच्छस्व लम्बे शीघ्रं त्वं वाणसंरक्षणं कुरु ॥
ततो योगं समाधाय अदृश्या हिमवत्सुता ।
कृष्णस्यैकस्य तद्रूपं दर्शयत् पार्श्वमागता ॥
सान्तर्द्धानमुपागम्य त्यक्त्वा सा वाससी पुनः ।
परित्राणाय वाणस्य विजयाधिष्ठिता ततः ॥
प्रमुखे वासुदेवस्य दिग्वासाः कोट्टवी स्थिता ।”
इति महाभारते हरिवंशे बाणयुद्धम् ॥

लम्बिका, स्त्री, (लम्बते या । लम्ब + ण्वुल् । टापि

अत इत्वम् ।) तालूर्द्ध्वसूक्ष्मजिह्वा । तत्पर्य्यायः ।
घण्टिका २ । इति राजनिर्घण्टः ॥ सुधास्रवा ३
गलशुण्डिका ४ । इति हेमचन्द्रः ॥ अलि-
जिह्वा ५ अलिजिह्विका ६ । इति शब्दरत्ना
वली ॥

लम्बितः, त्रि, (लम्ब + क्तः ।) स्रंसितः । (यथा,

गीतगोविन्दे । १२ । १८ ।
“त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय
लोचने ॥”)
शब्दितः । इति लबधातोः कर्म्मणि क्तप्रत्ययेन
निष्पन्नम् । लम्बमानमाल्यादिश्च ॥ (यथा,
महाभारते । ३ । १५७ । ४२ ।
“वडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः ॥”)

लम्बोदरः, पुं, (लम्बमुदरं यस्य ।) गणेशः ।

इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । १९८ ।
“गतिगञ्जितवरयुवतिः करी कपोलौ करोतु
मदमलिनौ ।
मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥”
नृपविशेषः । इति भागवतम् । १२ । १ । २२ ॥)
औदरिके, त्रि । इति हेमचन्द्रः ॥ (यथा,
कथासरित्सागरे । ७० । १०२ ।
“ततो लम्बोदरेणेत्य पुंसारोपितबाहुकः ।
सम्पादितः स यातस्तद्वनं केशरिणीकृते ॥”)

लम्बोष्ठः पुं, (लम्ब ओष्ठो यस्य । ओत्त्वोष्ठयोः

समासे वा । इति साधुः ।) उष्ट्रः । इति
राजनिर्घण्टः ॥ लम्बमानौष्ठयुक्ते, त्रि । (क्षेत्र-
पालदेवताविशेषः । यथा, प्रयोगसारे क्षेत्र-
पालप्रकरणे ।
“युगान्तो वाह्यकश्चाथ लम्बोष्ठो वसवस्तथा ॥”)

लम्बौष्ठः, पुं, (लम्ब ओष्ठो यस्य ।) उष्ट्रः । इति

त्रिकाण्डशेषः ॥ दीर्घोष्ठविशिष्टे, त्रि ॥

लम्भनं, क्ली, प्रतिलम्भः । इति हेमचन्द्रः ॥ ध्वनिः ।

लभि ङ शब्दे इत्यस्मात् भावेऽनट् (ल्युट्)
प्रत्ययेन निष्पन्नमिति ॥

लम्भा, स्त्री, (लभते इति । लभ इ ङ शब्दे +

अच् । टाप् ।) वाटशृङ्खला । इति हारावली ॥

लय, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, लयते । इति दुर्गादासः ॥

लयः, पुं, (ली + अच् ।) विनाशः । संश्लेषः । तौर्य्य-

त्रिकस्य साम्यम् । इति मेदिनी । ये, ५२ ॥ प्रलयः ।
इति शब्दरत्नावली ॥ * ॥ अखण्डवस्त्वनवलम्ब-
नेन चित्तवृत्तेर्निद्रा । इति श्रीपरमहंससदानन्द-
योगीन्द्रकृतवेदान्तसारः ॥ तत्राद्यं विघ्नं लक्ष-
यति लयस्तावदिति । लयो द्विविधः । चिरकाल-
मुक्ताष्टाङ्गसहितनिर्विकल्पकसमाध्यभ्यासपाटवे-
नातितप्तलोहतलक्षिप्तजलबिन्दुवत् तैलरहित-
दीपकलिकावच्च प्रत्यगभिन्ने परमानन्दे चित्त-
वृत्तेर्लयः प्रथमः । द्बितीयस्तु मूर्च्छावस्थावत् आल-
स्येन चित्तवृत्तेर्व्वाह्यशब्दादिविषयग्रहणानादरे
सतिप्रत्यगात्मस्वरूपानवभासनात् वृत्तेस्तब्धीभाव-
लक्षणनिद्रारूपः । इति श्रीनृसिंहसरस्वतीकृत-
सुबोधिन्याख्या तट्टीका ॥ गीतवाद्यपादन्यासानां
क्रियाकालयोः परस्परं समता लयः । लीयन्ते
श्लिष्यन्तेऽनेनेति लयन्ति व्रजन्ति साम्यं गीता-
दयोऽत्रेति वा लयः । ली ङ य ओ श्लिषि लय
गत्यां वा अल् । इत्यमरटीकायां भरतः ॥ * ॥
लयस्थानविवर्ज्जणं गायकस्य चतुर्द्दशदोषान्त-
र्गतदोषविशेषो यथा, --
“लज्जितं भीतमुक्तेषु अव्यक्तमनुनासिकम् ।
काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥
विस्वरं विरमञ्चैव विश्लिष्ठं विषमाहतम् ।
व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्दश ॥” * ॥
अथ लयाः । हृदि स्थितिः कण्ठस्थितिः कपाल-
स्थितिरिति लयत्रयम् । अपरे तु ।
“द्विपदी स्याद्वलतिका झल्लिका छिन्नखण्डिका ।
वामभ्रुवस्ततश्छिन्ना खण्डधावा फडक्ककः ॥
जम्भट्टिका कलतिकः खण्डकः खुरिकस्तथा ।
कथितश्चतुरस्रोऽर्द्धश्चतुरस्रोऽथ नर्त्तकः ॥
त्र्यस्रः षष्ट्युन्दालनावकृष्टा नन्दघटीत्यपि ।
कादम्बश्चर्व्वरी घट्टा मिश्रोऽर्द्धवनिता ततः ॥
अतिचित्रः समयश्च वलितोऽर्द्धदलस्तथा ।
आविद्धस्तु टङ्कवकस्ततश्चित्रविचित्रकौ ॥
आन्त्री विकृतधावा च मुकुलोऽथ विलोलकः ।
रमणीयस्ततश्चैव करकण्टकसंज्ञकः ॥
चत्वारिंशदिमे प्रोक्ता लया लयविशारदैः ।
लयेन वश्यो भगवान् लये लीनो जनार्द्दनः ॥”
इति संगीतदामोदरः ॥
(त्रि, आवरणात्सकम् । इति श्रीधरस्वामी
यथा, भागवते । ११ । २५ । १५ ।
“यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् ।
युज्येत शोकमोहाभ्यां निद्रया हिंसया शया ॥”
क्ली, लामज्जकम् । यथा, --
“लामज्जकं सुनालं स्यादमृणालं लयं लघुः ।
इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लयपुत्त्री, स्त्री, (लयस्य पुत्त्रीव ।) नर्त्तकी । इति

शब्दरत्नावली ॥

लयारम्भः, पुं, (लयस्यारम्भो यस्मात् ।) नटः ।

इति त्रिकाण्डशेषः ॥

लयालम्बः, पुं, (लयमालम्बते इति । लम्ब + अण् ।)

नटः । इति शब्दरत्नावली ॥

लर्व्व, गतौ । (भ्वा०-पर०-सक०-सेट् ।) लर्व्वति ।

इति सिद्धान्तकौमुदी ॥

लल, ङ क ईप्सायाम् । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-सेट् ।) क ङ, लालयते ।
ईप्सा आप्तुमिच्छा । इति दुर्गादासः ॥

लल, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) ईप्सा इति आप-
धातोः सनन्तस्य रूपम् । शंस्त्याद इत्यकारेण
सरूपोऽपि अल् कथं न बाध्यते इति चेन्न
स्त्रीविहितप्रत्ययैः क्वचित् सरूपोऽपि न वाध्यते
इत्यस्य वाच्यत्वात् अन्यथा कारणाकारण-
मित्यादयोऽपि न स्युः । एवं वक्ष्यमाणेषु व्रीड
लज्जे इत्यादिष्वपि बोध्यम् । ललयति धनं
लोकः । इति दुर्गादासः ॥

ललज्जिह्वः, पुं, (ललन्ती जिह्वा यस्य ।) उष्ट्रः ।

कुक्कुरः । हिंस्रे, त्रि । इति मेदिनी । वे, १६ ॥
(चलद्रसनायुक्ते च त्रि । यथा, कथासरित्-
सागरे । १०६ । १२७ ।
“तावच्च प्रकटीभूय भगवान् भैरवाकृतिः ।
उद्धृतासिर्ललज्जिह्वः कृत्वा हुंकारमभ्यधात् ॥”)

ललत्, त्रि, विलासयुक्तः । उन्मन्थनविशिष्टः ।

जिह्वाक्रियाविशिष्टः । क्षेपविशिष्टः । वीप्सा-
विशिष्टः । उपसेवाविशिष्टः । भाषणविशिष्टः ।
ऊत्क्षेपविशिष्टः । इति लडधातोः कर्त्तरि
शतृप्रत्ययेन डस्य लकारादेशेन च निष्पन्नम् ॥

ललदम्बुः, पुं, (ललत् चलदम्बु यत्र ।) लिम्पाकः ।

इति जटाधरः ॥ (विषयोऽस्य लिम्पाकशब्दे-
ज्ञेयः ॥)

ललनं, क्ली, (लल + ल्युट् ।) केलिः । इति हेम-

चन्द्रः ॥ चालनम् । इति नागोजीभट्टः ॥ यथा, --
“काली करालवदना विनिष्क्रान्तासिपाशिनी ।
विचित्रखट्टाङ्गधरा नरमालाविभूषणा ॥
द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा ।
अतिविस्तारवदना जिह्वाललनमीषणा ॥”
इति देवीमाहात्म्यम् ॥

ललनः, पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि

ल्युट् ।) बालः । सालः । प्रियालः । इति
राजनिर्घण्टः ॥
पृष्ठ ४/२०८

ललना, स्त्री, (ललयति ईप्सति कामानिति ।

लल + ल्युः । टाप् ।) कामिनी । (यथा, कला-
विलासे । १ । ५ ।
“रतिलुलित ललित ललनाक्लमजल लववाहिन
मुहुर्यत्र ।
श्लथ केशकुसुम परिमल वासितदेहा वहन्त्य-
निलाः ॥”)
नारीभेदः । जिह्वा । इति मेदिनी । ने, १२१ ॥

ललनाप्रियं, क्ली, (ललंनानां प्रियम् ।) ह्रीवेरम् ।

इति राजनिर्घण्टः ॥

ललनाप्रियः, पुं, (ललनानां प्रियः ।) कदम्बः ।

इति राजनिर्घण्टः ॥ कामिनीवल्लभश्च ॥

ललन्तिका, स्त्री, (ललन्त्येव । स्वार्थे कन् ।)

नाभिलम्बकण्ठिकादिः । तत्पर्य्यायः । लम्बनम् २ ।
इत्यमरः ॥ गोधा । इति शब्दमाला ॥

ललाकः, पुं, मेहनम् । इति शब्दचन्द्रिका ।

ललाटं, क्ली, (ललं ईप्सामटति ज्ञापयतीति ।

अट् + अण् ।) अवयवविशेषः । कपाल इति
ख्यातम् । तत्पर्य्यायः । अलिकम् २ गोधिः ३ ।
इत्यमरः ॥ महाशङ्खः ४ शङ्खः ५ भालः ६
कपालकः ७ अलीकम् ८ । इति शब्दरत्नावली ॥
ललाटकम् ९ । इति धनञ्जयः ॥ तस्य शुभाशुभ-
लक्षणम् । यथा, --
“उन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा ।
निर्द्धना धनवन्तश्च अर्द्धेन्दुसदृशैर्नराः ॥
आचार्य्याः शुक्तिविशालैः शिरालैः पापकारिणः ।
उन्नताभिः शिराभिस्तु स्वस्तिकाभिर्धनेश्वराः ॥
निम्नैर्ललाटैर्वधार्हाः क्रूरकर्म्मरतास्तथा ।
संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः ॥
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ।
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥
अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः ।
केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् ॥
पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्बहुभिस्तथा ।
चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः ॥
विंशतिर्व्वामवक्राभिरायुः क्षुद्राभिरल्पकम् ।
न पृथु बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् ॥
शुभमर्द्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥”
इति गारुडे ६५ अध्यायः ॥
(“अतःपरं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदरपृष्ठ-
नाभिललाटनासाचिवुकवस्तिग्रीवा इत्येता एकै-
काः ।” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

ललाटकं, क्ली, (ललाटमेव । कन् ।) प्रशस्त-

ललाटम् । इति शब्दरत्नावली ॥ ललाट-
मात्रम् । इति धनञ्जयः ॥

ललाटन्तपः, त्रि, (ललाटं तपतीति । ललाट +

तप + “असूर्य्यललाटयोर्दृशितपोः ।” ३ । २ ।
३६ । इति खश् । मुम् ।) ललाटतापकः ।
“ललाटन्तपः सूर्य्यः ।” इति सिद्धान्तकौमुदी ॥
(यथा, रघुः । १३ । ४१ ।
“हविर्भुजामेधवतां चतुर्णां
मध्ये ललाटन्तपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी
नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥”
यथा च, नैषधे । १ । १३८ ।
“कथं विधातर्म्मयि पाणिपङ्कजात्
तव प्रिया शैत्यमृदुत्वशिल्पिनः ।
वियोक्ष्यसे वल्लभयेति निर्गता
लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥”)

ललाटिका, स्त्री, (ललाटे भवोऽलङ्कारः । “कर्ण-

ललाटात् कनलङ्कारे ।” ४ । ३ । ६५ । इति
कन् ।) स्वर्णादिरचितललाटाभरणम् । टिका
इति ख्याता । तत्पर्य्यायः । पत्रपाश्या २ ।
इत्यमरः ॥ लालटस्थचन्दनम् । तत्पर्य्यायः ।
शङ्खचर्च्ची २ । इति शब्दरत्नावली ॥ (तिलकः ।
इति मल्लिनाथः ॥ यथा, कुमारे । ५ । ५५ ।
“तदा प्रभृत्युन्मदना पितुर्गृहे
ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं
तुषारसङ्घातशिलातलेष्वपि ॥”)

ललाम, [न्] क्ली, ललामम् । यथाह रुद्रः ।

“प्रधानध्वजशृङ्गेषु पुण्ड्रबालधिलक्ष्मसु ।
भूषावाजिप्रभावेषु ललामं स्यात् ललाम च ॥”
(प्रधाने । यथा, रघुः । ५ । ६४ ।
“तत्र स्वयंवरसमाहृतराजलोकं
कन्याललाम कमनीयमजस्य लिप्सोः ॥”
पुरुषः । इति रघुटीकायां मल्लिनाथधृत-
यादवः । ५ । ६४ ॥)

ललामं, क्ली, (लड विलासे + क्विप् । तं अमति

प्राप्नोतीति । अम गतौ + अण् । डस्य लत्वम् ।)
चिह्रम् । ध्वजः । शृङ्गम् । प्रधानम् । भूषा ।
(यथा, भागवते । ३ । १४ । ४८ ।
“पौत्त्रस्तव श्रीललनाललामं
द्रष्टास्फुरत् कुन्तलमण्डिताननम् ॥”)
बालधिः । पुण्ड्रम् । तुरङ्गः । प्रभावः । इति
मेदिनी । मे ५१ ॥ अश्वललाटे अन्यवर्णचिह्नम् ।
गवादीनां ललाटचित्रम् । अश्वस्य भूषा ।
इत्यमरटीकायां भरतः ॥ (पुंनपुंसकलिङ्गमपि ।
यथा, --
“ललामोऽस्त्री ललामापि प्रभाबे पुरुषे ध्वजे ।
श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥”
इति रघुटीकायां मल्लिनाथधृतयादव्रः ॥
रम्ये श्रेष्ठे च त्रि । यथा, महाभारते । ७ ।
२२ । १३ ।
“ललामैर्हरिभिर्युक्तः सर्व्वशब्दसहैर्युधि ।
राज्ञां मघ्ये महेष्वासः शान्तभीरभ्यवर्त्तत ॥”)

ललामकं, क्ली, पुरोन्यस्तमाल्यम् । इत्यमरः ॥ तदेव

माल्यं पुरः संमुखभागे न्यस्तं ललाटपर्य्यन्त-
मागतं ललामकं ललामं तिलकमिव इति
इवार्थे कः । इति भरतः ॥

ललामी, स्त्री कर्णभूषणविशेषः । तत्पर्य्यायः ।

उत्क्षिप्तिका २ । इति शब्दमाला ॥

ललितं, क्ली, (लल + क्तः ।) शृङ्गारभावजक्रिया-

विशेषः । इत्यमरः ॥ सुकुमारविधानेन भ्रू-
नेत्रादिक्रियासचिवकरचरणाङ्गविन्यासो ललि-
तम् । तथा च ।
“सुकुमाराङ्गविन्यासे मसृणा ललितं भवेत् ॥”
तथा, --
“सभ्रूभङ्गं करकिशलयावर्त्तनैरापतन्ती
सा लिम्पन्ती ललितललिता लोचनस्याञ्जनेन ।
विन्यस्यन्ती चरणकमले लीलया स्वैरयाते
निःशङ्का च प्रथमवयसा नर्त्तिता पङ्कजाक्षी ॥
भ्रूनेत्रादिक्रियाशालिसुकुमारविधानतः ।
हस्तपादाङ्गविन्यासस्तरुण्या ललितं विदुः ॥”
इत्यन्येऽपि ॥
“अनाचार्य्योपदिष्टं स्याल्ललितं रतिचेष्टितम् ।”
इत्यन्ये ।
ललत् केप्से भावे क्तः । लड विलासे इत्यस्य
मनीषादित्वात् डस्य लत्वं वा । इति भरतः ॥
अपि च ।
“विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहरा ।
सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥”
इत्युज्ज्वलनीलमणिः ॥

ललितः, पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि

क्तः ।) रागविशेषः । तस्य स्वरूपं यथा, --
“प्रफुल्लसप्तच्छदमाल्यधारी
युवातिगौरोऽलसलोचनश्रीः ।
विनिःसरन् वासगृहात् प्रभाते
विलासिवेशो ललितः प्रदिष्टः ॥”
तस्य गानसमयो यथा, --
“प्रातर्गेयास्तु देशागो ललितः पठमञ्जरी ।
विभाषा भैरवी चैव कामोदो गोण्डकीर्य्यपि ॥”
इति सङ्गीतदामोदरः ॥

ललितः, त्रि, (लल + क्तः ।) सुन्दरः । (यथा,

रघुः । ८ । १ ।
“अथ तस्य विवाहकौतुकं
ललितं विभ्रत एव पार्थिवः ॥”)
ईप्सितः । इति मेदिनी । ते, १४७ ॥ चलितः ।
इति बिश्वशब्दरत्नावल्यौ ॥

ललितकान्ता, स्त्री, (ललिता कान्ता च ।) मङ्गल-

चण्डिका । तस्या ध्यानं यथा, --
“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका ।
वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥
रत्नकौषेयवस्त्रा च स्मितवक्त्रा शुभानना ।
नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ॥”
इति तिथ्यादितत्त्वम् ॥

ललिता, स्त्री, (ललित + टाप् ।) कस्तूरी । दारी ।

इति राजनिर्घण्टः ॥ नदीविशेषः । यथा, --
“निमिनाम्नस्तु राजर्षेः शापाद्ब्रह्मसुतः पुरा ।
वशिष्टो ह्यशरीरोऽभूत् शापाच्च निमिनस्तथा ॥
ततो ब्रह्मोपदेशेन निर्जने कामरूपके ।
सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत्तदा ॥
प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः ।
अमृतान्यवतार्य्याशु कुण्डं कृत्वा गिरेस्तटे ।
तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् ॥
तस्मादमृतकुण्डात्तु सन्ध्या नाम नदी वरा ।
पृष्ठ ४/२०९
निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् ॥
तस्मात् पूर्व्वन्तु कुण्डात्तु ललिताख्या सरिद्वरा ।
सागराद्दक्षिणात् पूर्ब्बं महादेवावतारिता ॥
वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः ।
कुर्य्याद्वै ललितास्नानं स शम्भुसदनं व्रजेत् ॥
ललितायाः पूर्व्वतीरे भगवान्नाम पर्व्वतः ।
स्वयं विष्णुर्लिङ्गरूपी तत्रास्ते भगवान् हरिः ॥
ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके ।
भगवन्तं समारुह्य यो यजेत् परमेश्वरम् ।
स याति विष्णुभवनं शरीरेण विराजता ॥”
इति कालिकापुराणे ८१ अध्यायः ॥ * ॥
गोपीविशेषः । यथा, --
“अखिलरसामृतमूर्त्तिः
प्रसृमररुचिरुद्धतारका पालिः ।
कलितश्यामा ललितो
राधाप्रेयान् विधुर्जयति ॥
इति भक्तिरसामृतसिन्धुः ॥
ललिता श्यामला शैव्या पद्मा भद्राश्च श्रूयन्ते ॥
इति तट्टीकायां जीवगोस्वामी ॥ तस्याः स्वरूपं
यथा, --
“या दुर्गा सैव ललिता ललिता सैव राधिका ।
एतासामन्तरं नास्ति सत्यं सत्यं हि नारद ! ॥”
इति पाद्मे पातालखण्डे रासलीलायां नारदं
प्रति श्रीकृष्णवाक्यम् ॥ रागिणीविशेषः । सा च
मेघरागस्य पत्नी । यथा, सङ्गीतदामोदरे ।
“ललिता मालसी गौडी नाटी देवकिरी तथा ।
मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥”
(सा तु हनूमन्मते हिन्दोलरागस्य पत्नी । सोमे-
श्वरमते वसन्तस्य पत्नी । यथा, संगीतदर्पणे ।
“वेलावली रामकिरी देशाख्या पटमञ्जरी ।
ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥”
“देशी देवकिरी चैव वराटी तोडिका तथा ।
ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥”
अस्या ध्यानादिकमाह तत्रैव । अथ ललिता ।
रि-प-वर्ज्या च ललिता औडवा सत्रया मता ।
मूर्च्छना शुद्धमध्या स्यात् सम्पूर्णां केचिदूचिरे ।
धैवतत्रयसंयुक्ता द्वितीया ललिता मता ॥”
ध्यानम् । यथा, --
“प्रफुल्लसप्तच्छदमाल्यकण्ठा
सुगौरकान्तिर्युवती सुदृष्टिः ।
विनिश्वसन्ती सहसा प्रभाते
विलासवेशा ललिता प्रदिष्टा ॥”
उदाहरणम् । स ग म ध नि स ।
अथवा, --
स रि ग म प ध नि स । इति प्रथमा ॥
ध नि स ग म ध । इति द्वितीया ॥
इति ललिता ॥)

ललितासप्तमी, स्त्री, (ललिताख्या सप्तमी ।)

भाद्रशुक्लसप्तमी । तत्र कुक्कुटीव्रतं कार्य्यम् ।
यथा भविष्ये ।
“भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या ।
स्नात्वा शिवं लेस्वयित्वा मण्डले च सहाम्बिकम् ।
पूजयेच्च तदा तस्यां दुष्प्रापं नैव विद्यते ॥”
इति कुक्कुटीव्रतत्वेन ख्यातम् । इति तिथ्यादि-
तत्त्वम् ॥ * ॥
तद्विधिर्यथा । तत्रादौ स्वस्तिवाचनपूर्ब्बकं
सङ्कल्पं कुर्य्यात् । ॐ अद्येत्यादि भाद्रे मासि
शुक्ले पक्षे सप्तम्यान्तिथौ यावज्जीवनपर्य्यन्तं
अमुकगोत्रा श्रीमदमुकी शिवदुर्गाप्रीतिकामा
प्रतिवर्षीयभाद्रशुक्लसप्तम्यां गणेशादिदेवता-
पूजापूर्ब्बकशिवपार्व्वतीपूजायावज्जीवनडोरक-
धारणभविष्यपुराणोक्तव्रतकथाश्रवणरूपललि-
तासप्तमीव्रतमहं करिष्ये । ततः सङ्कल्प-
सूक्तं पठित्वा सामान्यार्घ्यं विधाय गणेशादीन्
संपूज्य भूतशुद्ध्यादिकं विधाय मण्डलादिषु
पूजामारभेत । ततो ध्यात्वा स्वशिरसि पुष्पं
दत्त्वा मानसोपचारैः संपूज्य अर्घ्यं संस्थाप्य
पुनर्ध्यात्वा आवाहयेत् । शिवपूजाविधिना
शिवं दुर्गापूजाविधिना दुर्गाञ्च यथाशक्त्युप-
चारैः संपूज्य आवरणदेवान् पूजयेत् । ततो
ऽष्टग्रन्थियुक्तडोरकं दुग्धेन सिक्तं शिवदुर्गाभ्यां
अर्पयित्वा तत् डोरकं वामकरे बद्ध्वा भोज्य-
मुत्सृज्य कथां शृणुयात् । अष्टफलानि दद्यात् ।
ततो दक्षिणां दद्यात् ॥ * ॥ अथ कथा ।
श्रीकृष्ण उवाच ।
“लोमशो नांम देवर्षिर्मथुरामागतः पुरा ।
सोऽर्च्चितो वसुदेवेन देवक्या च युधिष्ठिर ! ॥
उपविष्टः कथाः पुण्याः कथयामास वै तदा ।
ततः कथयितुं भूयः कथामेतां प्रचक्रमे ॥
कंसेन निहताः पुत्त्रा जाता जाताः पुनः पुनः ।
मृतवत्सा देवकि ! त्वं पुत्त्रदुःखेन दुःखिता ॥
यथा चन्द्रमुखी दीना बभूव नहुषप्रिया ।
तथा त्वं देवकी भद्रे पुत्त्रदुःखेन दुःखिता ॥
पश्चाच्चीर्णव्रता सा तु बभूवाक्षयपुत्त्रिका ।
त्वमेव देवकी देवि ! भविष्यसि न संशयः ॥
देवक्युवाच ।
का सा चन्द्रमुखी दीना बभूव नहुषप्रिया ।
कथं चीर्णव्रतं सम्यक् तस्याः सन्ततिकारणम् ॥
लोमश उवाच ।
अयोध्यायां पुरा राजा नहुषो नाम विश्रुतः ।
तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी प्रिया ॥
पुरोहितस्य तस्यैव पत्नी माला च नामिका ।
तयोरासीद्दृढप्रीतिः स्पृहणीया परस्परम् ॥
अथ तेऽपि च मित्रिण्यौ स्नानार्थं सरयूजले ।
प्राप्ते प्राप्तास्तु तत्रैव बहुशो नगराङ्गनाः ॥
स्नातास्ता मण्डलं चक्रुस्तन्मध्ये व्यक्तरूपिणम् ।
लेखयित्वा शिवं शान्तमुमया सह शङ्करम् ॥
गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि ।
प्रणन्य शिरसा भक्त्या दृष्टास्ताभ्यां वरस्त्रियः ॥
किमिदं क्रियते साध्व्यः कथ्यतां यदि रोचते ।
कदा वा क्रियते किं वा फलं सम्यक् तदुच्यताम् ॥
स्त्रिय ऊचुः ।
पूजितोऽस्माभिरेतल्तिन् पार्व्वत्या सह शङ्करः ।
बद्ध्वा सूत्रमिदं शुभ्रं शिवस्यात्मा निवेदितः ॥
धारणीयमिदं तावद्यावत् प्राणस्य धारणम् ।
तासान्तु तद्वचः श्रुत्वा ते कृत्वा मानसं तथा ॥
कृत्वा च सम्मतिं तत्र बद्ध्वा दोर्भ्यां सुडोरकम् ।
ततस्ताः स्वगृहं जग्मुः सखीभिः परिवारिताः ॥
कालेन महता तत्र विस्मृतं तद्व्रतं नृप ! ।
प्रमत्तया चन्द्रमुख्या विस्मृतञ्च सुडोरकम् ॥
मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी ।
माला च कुक्कुटी जाता त्वसम्यग्व्रतपालनात् ॥
तथैव ते च मित्रिण्यौ जाते जातिस्मरे कुले ।
सम्भूय भूयस्तत्रैव प्राप्तश्च समयः पुनः ॥
तद्दिने तद्दिने प्राप्ते पुनः काले च ते मृते ।
अदैवमातृके देशे जाते गोकुलसङ्कुले ॥
राज्ञो जाया बभूवाथ पृथ्वीनाथस्य सा पुनः ।
ईश्वरी नाम विख्याता सा तु राज्ञोऽतिवल्लभा ॥
अग्निमीलद्विजस्यासीद्भार्य्या भूषणनामिका ।
पुरोहितस्य कालेन कुक्कुटी बहुपुत्त्रिणी ॥
जातिस्मरा चाष्टपुत्त्रा तथैव चामृतप्रजा ।
पुनर्निरन्तरा प्रीतिर्बभूवाथ तयोर्द्विज ॥
तत्रेश्वरी पुत्त्रमेकं प्रसूता तञ्च रोगिणम् ।
नववर्षे तु पञ्चत्वमगात्तत्र युधिष्ठिर ! ॥
तत्र तां भूषणा द्रष्टुमाजगामातिदुःखिता ।
सखीभावादतिस्नेहादष्टपुत्त्रसमन्विता ॥
अयुक्ताभरणा नित्यं स्वभावेनैव भूषिता ।
तां दृष्ट्वा पुत्त्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ॥
ततो गृहं प्रेषयित्वा तां सखीं तीव्रमत्सरा ।
चिन्तयामास सा राज्ञी तस्याः पुत्त्रवधं प्रति ॥
हता हताश्च ये पुत्त्राः पुनर्ज्जीवन्त्यनामयाः ।
बहुपुत्त्रा जीववत्सा प्रयुक्ताभरणा कथम् ।
शोभसे ह्यधिकं भद्रे तडित् सौदामिनी यथा ॥
भूषणोवाच ।
भाद्रे मासि सिते पक्षे सप्तम्यां ललितालये ।
स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बि-
कम् ॥
संपूज्य विधिवत् प्राप्तं त्रैलोक्ये यच्च विद्यते ।
तदेव हि व्रतं पूर्ब्बं त्वया सह मया कृतम् ॥
तन्मयाचरितं भक्त्या तेनाहं सुस्थिरा सखि ।
त्वया नाचरितं सम्यक् दपैध्मातशरीरया ॥
तेन ते सन्ततिश्छिन्ना राज्येऽपि सति दुःखिता ।
प्रभाव एष कथितो ब्रतस्यास्य मया सखि ! ॥
अर्द्धं तुभ्यं प्रदास्यामि तस्य धर्म्मस्य सुव्रते ।
सखीभावात् प्रतीच्छ त्वं नात्र कार्य्या विचा-
रणा ॥
संपूज्य शङ्करं भक्त्या करे बद्ध्वा सुडोरकम् ।
यावज्जीवं मया तावत् शिवस्यात्मा निवेदितः ॥
इत्येवं समयं कृत्वा ततः प्रभृति डोरकम् ।
स्वर्णरूप्यमयं वापि करशाखासु धारणम् ॥
शङ्करञ्चोमया सार्द्धं सौवर्णं राजतन्तथा ।
ताम्रपात्रे प्रतिष्ठाप्य ब्राह्मणायोपपादयेत् ॥
पायसं पिष्टकञ्चैव भक्ष्यं भोज्यं प्रयत्नतः ।
सगोत्रान् भोजयित्वा तु स्वयं भुञ्जीत तत्परम् ॥
मण्डलं सोमसदृशं शिवस्यात्मनिवेदितम् ।
इत्येवं प्रतिजग्राह व्रतदानफलं ततः ॥
पृष्ठ ४/२१०
बभूव सुप्रजा साध्वी ईश्वरी भुवनेश्वरी ।
व्रतस्यास्य प्रभावेन सुपुत्त्रा त्वञ्च देवकि ! ॥
भविष्यसि त्रिलोकेशं पुत्त्रञ्च जनयिष्यसि ।
इत्येवं श्रावयित्वा च विरराम मुनिस्तदा ॥
जगाम स्वपुरं पार्थ मयाप्येवं तवोदितम् ।
याः स्त्रियः स्वाचरिष्यन्ति व्रतमेतद्युधिष्ठिर ॥
कुक्वुटाख्यं प्लवङ्गाख्यं देवक्याचरितं शुभम् ।
तासां सन्ततिविच्छेदो न कदाचिद्भविष्यति ॥
स्त्रियश्चैवाचरिष्यन्ति व्रतमेतत् सुखप्रदम् ।
अस्मिन् लोके सुखं भुक्त्वा यास्यन्ति शिवमन्दि-
रम् ॥
या कुक्कुटीव्रतमिदं प्लवगीसमेतं
देवं विभाव्य हृदये च गुरुं निधाय ।
भक्त्या करोति कलुषौधविघातदक्षं
साध्वी सदा भवति शोभनजीववत्सा ॥”
इति भविष्यपुराणे कुक्कुटीव्रतकथा समाप्ता ॥

लवं, क्ली, (लू + अप् ।) जातीफलम् । इति

शब्दचन्द्रिका ॥ लवङ्गम् । लामज्जकम् । ईषत् ।
इति राजनिर्घण्टः ॥

लवः, पुं, (लवणमिति । लू + अप् ।) लेशः ।

(यथा, रघुः । १६ । ६६ ।
“वक्रेतराग्रैरलकैस्तरुण्य-
श्चूर्णारुणान् वारिलवान् वमन्ति ॥”)
विनाशः । छेदनम् । रामपुत्त्रः । इति मेदिनी ।
वे, २२ ॥ अत्र विनाशस्थाने विलासः । इति विश्वः
हेमचन्द्रश्च ॥ (रामपुत्त्रस्य जन्मविवरणादिकं
रामायणे उत्तरकाण्डतो द्रष्टव्यम् ॥) काल-
भेदः । यथा, --
“अष्टादशनिमेषास्तु काष्ठा काष्ठाद्वयं लवः ॥”
इति हेमचन्द्रः ॥
(यथा, भागवते । १ । १८ । १३ ।
“तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्त्यानां किमुताशिषः ॥”)
लावानामा पक्षी । इति राजनिर्घण्टः ॥
(किञ्जल्कः । पक्षः । गोपुच्छलोम । इति रघु-
टीकायां मल्लिनाथधृतवैजयन्ती ॥ यथा, रघुः ।
१५ । ३२ ।
“स तौ कुशलवोम्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः ॥”)

लवङ्गं, क्ली, (लुनाति श्लेष्मादिकमिति । लू +

“तरत्यादिभ्यश्च ।” उणा० १ । ११९ । इति
अङ्गच् ।) स्वनामख्यातबणिग्द्रव्यभेदः । तत्-
पर्य्यायः । देवकुसुमम् २ श्रीसंज्ञम् ३ । इत्य-
मरः ॥ श्रीप्रसूनम् ४ । इति भावप्रकाशः ॥
लवङ्गकम् ५ । इति शब्दरत्नावली ॥ लवङ्ग-
कलिका ६ दिव्यम् ७ शेखरम् ८ लवम् ९
श्रीपुष्पम् १० रुचिरम् ११ वारिसम्भवम् १३
भृङ्गारम् १४ गीर्व्वाणकुसुमम् १५ चन्दन-
पुष्पम् १६ । अस्य गुणाः । शीतलत्वम् । तिक्त-
त्वम् । चक्षुष्यत्वम् । भुक्तरोचनत्वम् । वात-
पित्तकफनाशित्वम् । ताक्ष्णत्वम् । मूर्द्धरुजा-
पहत्वञ्च । इति राजनिर्घण्टः ॥ आध्मानानाह-
शूलघ्नत्वम् । दीपनत्वम् । लघुत्वञ्च । इति राज-
वल्लभः ॥ अपि च ।
“लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम् ।
दीपनं पाचनं रुच्यं कफपित्तास्ननाशकृत् ॥
तृष्णां छर्द्दिं तथाध्मानं शूलमाशु विनाशयेत् ।
कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम् ॥”
इति भावप्रकाशः ॥
(यथा, --
“विरहानलसन्तप्ता तापिनी कापि कामिनी ।
लवङ्गानि समुत्सृज्य ग्रहणे राहवे ददौ ॥”
इत्युद्भटः ॥)

लवङ्गकं, क्ली, (लवङ्ग + स्वार्थे कन् ।) लवङ्गम् ।

इति शब्दरत्नावली ॥ (लवङ्गशब्देऽस्य विव-
रणं विज्ञेयम् ॥)

लवङ्गकलिका, स्त्री, लवङ्गम् । इति राज-

निर्घण्टः ॥

लवङ्गलता, स्त्री, (लवङ्गस्य लता ।) पुष्पलता-

विशेषः । यथा, जयदेवः ।
“ललितलवङ्गलतापरिशीलनकोमलमलय-
समीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्ज-
कुटीरे ॥
विहरति हरिरिह सरसवसन्ते ।
नृत्यति युवतिजनेन समं सखि विरहिजनस्य
दुरन्ते ॥”
(यथा च ।
“अयि ! प्लवङ्ग ! लवङ्गलतालये
पिब मधूनि विधूय मधुव्रतान् ।
इह वने हि वनेचरसङ्कुले
नहि सतामसताञ्च विवेचना ॥”)
राधायाः सखीविशेषश्च ॥

लवणं, क्ली, (लुनाति जाड्यमिति । लू + नन्द्यादि-

त्वात् ल्युः । पृषोदरादित्वात् णत्वम् ।) क्षार-
रसयुक्तद्रव्यम् । तत्तु पञ्चविधं यथा । सौव-
र्च्चलम् १ सैन्धवम् २ विटम् ३ औद्भिदम् ४
सामुद्रम् ५ । तथा हि ।
“सामुद्रं यत्तु लवणमक्षीवं वसिरञ्च तत् ।
सैन्धवोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धुजे ॥
रौमकं वमुकं पाक्यं विडञ्च कृतके द्वयम् ॥”
सौवर्च्चलेऽक्षरुचके । इत्यमरः ॥ (अस्य विवरणं
यथा । “सैन्धवसामुद्रविडसौवर्च्चलरोमकोद्भिद-
प्रभृतीनि लवणानि यथोत्तरमुष्णानि वात-
हराणि कफपित्तकराणि यथापूर्ब्बं स्निग्धानि
स्वादूनि सृष्टमूत्रपुरीषाणि चेति ॥
“चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् ।
स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ॥
सामुद्रं मधुरं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥
सक्षारं दीपनं रूक्षं शूलहृद्रोगनाशनम् ।
रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम् ॥
लघुसौवर्च्चलं पाके वीर्य्योष्णं विशदं कटु ।
गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ॥
रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च ।
वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥
लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् ।
सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ॥
कफवातक्रिमिहरं लेखनं पित्तकोपनम् ।
दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ॥
ऊषसूतं बालुकेलं शैलमूलाकरोद्भवम् ।
लवणं कटुकं छेदि विहितं कटु चोच्यते ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ * ॥
लू + भावे ल्युट् ।) छेदनम् । यथा । लवोऽभि-
लावो लवणे । इति चामरः (खड्गयुद्ध-
प्रकारविशेषः । यथा, हरिवंशे भविष्य-
पर्व्वणि । ५३ । १७ ।
“आहितं चित्रकं क्षिप्तं कुद्रवं लवणं धृतम् ॥”)

लवणः, पुं, (लुनातीति । लू + ल्युः ।) सिन्धु-

भेदः । (यथा, महाभारते । ६ । ५ । १५ ।
“लवणेन समुद्रेण समन्तात् परिबारितः ॥”)
राक्षसविशेषः । रसविशेषः । इति मेदिनी ।
णे, ७४ ॥ (यथा, भागवते । ३ । ३१ । ७ ।
“कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्वणैः ।
मातृभुक्तैरुपस्पृष्टः सर्व्वाङ्गोत्थितवेदनः ॥”)
पृथिव्यग्निगुणबाहुल्याल्लवणः । इति चक्रपाणि-
दत्तकृतद्रव्यगुणोपरि शिवदासीयटीका ॥ तत्-
पर्य्यायः । पटुः २ । तस्य गुणाः ।
“लवणो रुचिकृद्रसोऽग्निदायी
पचनः स्वादुकरश्च सारकश्च ।
रसितो नितरां जराञ्च पित्तं
शितिमानञ्च ददात्रि कुष्ठकारी ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“लवणः क्लेदनस्तीक्ष्णः पाचनो दीपनः सरः ।
स्निग्धो रुचिकरः स्यन्दी दृष्टिशुक्रहरो लघुः ॥”
अन्यच्च ।
“लवणः शोधनो रुच्यः पाचनः कफपित्तदः ।
पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः ।
सोऽतियुक्तोऽक्षिपाकास्रपित्तकुष्ठक्षयापकृत् ॥”
इति राजवल्लभः ॥ * ॥
(“लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् ।”
“लवणः स्तम्भसङ्घातबन्धविध्मापनोऽग्निकृत् ॥
स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् ।
सोऽतियुक्तोऽस्रवपनं खलतिं पलितं वलिम् ॥
तृट्कुष्ठविषवीसर्पान् जनयेत् क्षपयेद्बलम् ॥”
इति वाग्भटे सूत्रस्थाने दशमेऽध्याये ॥
“लवणो रसः पाचनः क्लेदनः दीपनः च्यावनः
छेदनः भेदनस्तीक्ष्णः सरो विकास्यधःस्रं स्यव-
काशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः
सर्व्वरसप्रत्यनीकभूत आस्यं विस्रावयति कफं
विस्यन्दयति मार्गान् शोधयति सर्व्वशरीरा-
वयवान् मृदूकरोति रोचयत्याहारमाहार-
योगी नात्यर्थगुरुः स्निग्ध उष्णश्च ।
स एवं गुणोऽप्येक एवात्यर्थमुपयुज्यमानः
पित्तं कोपयति रक्तं वर्द्धयति तर्पयति मूर्च्छ-
पृष्ठ ४/२११
यति तापयति दाहयति कुष्णाति मांसानि
प्रगालयति कुष्ठानि विषं वर्द्धयति शोफान्
स्फोटयति दन्तान् श्यावयति पुंस्त्वमुपहन्ति
इन्द्रियाण्युपरुणद्धि वलीपलित्यखालित्यमापा-
दयति च लोहितपित्ताम्लपित्तवीसर्पवातरक्त-
विचर्च्चिकेन्द्रलुमप्रभृतीन् विकारानुपजनयति ।”
“प्रलीयन् क्लेशविष्यन्दलाघवं कुरुते मुखे ।
यः शीघ्रं लवणो ज्ञेयः सविदाहन्मुखस्य च ॥”
इति चरके सूत्रस्थाने २६ अध्यायः ॥
“लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः
शैथिल्यकृदुष्णः सर्व्वरसप्रत्यनीको मार्गविशो-
धनः सर्व्वशरीरावयवमार्द्दवकरश्चेति स एवं-
गुणोऽप्येकत्र वात्यर्थमासेव्यमानो गात्रकण्डूकोठ-
शोफवैवर्ण्यपुंस्त्वोपघातेन्द्रियोपतापान् तथा-
मुखाक्षिपाकं रक्तपित्तवातशोणिताम्लीका-
प्रभृतीनापादयति ॥”
“यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति
मार्द्दवञ्चापादयति स लवणः ।” इति सुश्रुते
सूत्रस्थाने ४२ अध्यायः ॥ * ॥)
लवणासुरस्य विवरणं यथा, --
“पूर्व्वं कृतयुगे राजन् ! दैतेयः सुमहामतिः ।
लोलापुत्त्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥
स मधुर्व्वीर्य्यसम्पन्नो धर्म्मे च सुसमाहितः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥
शूलं शूलाद्विनिष्कृष्य महावीर्य्यं महाप्रभम् ।
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥
यावत् सुरैश्च विप्रैश्च न विरुध्येर्म्महासुर ! ।
तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति ॥
यश्च त्वामभियुञ्जीत युद्धाग विगतज्वरः ।
तं शूलो भस्मसात् कृत्वा पुनरेष्यति ते करम् ॥
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥
तं ब्रुवाणं मधुं देवः सर्व्वभूतपतिः शिवः ।
प्रत्युवाच महादेवो नैतदेवं भविष्यसि ॥
माभूत्ते विफला वाणी मत्प्रसादकृता शुभा ।
भवतः पुत्त्रमेकन्तु शूलमेतद्भविष्यति ॥
यावत् करस्थः शूलोऽयं भविष्यति सुतस्य ते ।
अवध्यः सर्व्वभूतानां शूलहस्तो भविष्यति ॥
एवं मधुर्व्वरं लब्ध्वा देवात् सुमहदद्भुतम् ।
भवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।
विश्वावसोरपत्यं साप्यनलायां महाप्रभा ॥
तस्याः पुत्त्रो महावीर्य्यो लवणो नाम दारुणः ।
वाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥
तं पुत्त्रं दुर्व्विनीतन्तु दृष्ट्वा क्रोधसमन्वितः ।
मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥
स विहाय इमं लोकं प्रविष्टो वरुणालयम् ।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।
सन्तापयति लोकांस्त्रीन् विशेषेण च तापसान् ॥
आहारः सर्व्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डजान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम् ॥
प्रतिज्ञाय तदा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातॄन् सहितान् सर्व्वानुवाच रघुनन्दनः ॥
को हन्ता लवणं वीरः कस्यांशः स विधी-
यताम् ।
भरतस्य महाबाहो शत्रुघ्नस्य च धीमतः ॥
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥
भरतस्य वचः श्रुत्वा धैर्य्यशौर्य्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥
शत्रुघ्नस्त्वब्रवीद्बाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्म्मा महाबाहुर्मध्यमो रघुनन्दन ! ॥
आर्य्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्य्यस्यागमनं प्रति ।
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।
राज्यं प्रशाधि धर्म्मेण वाक्यं मे यद्यवेक्षसे ॥
यदा तु युद्धमाकाङ्क्षन् यदि कश्चित् समाह्वयेत् ।
तदा शूलं गृहीत्वा तु भस्म रक्षः करोति हि ॥
स त्वं पुरुषशार्द्दूल ! तमायुधविनाकृतम् ।
अप्रविष्टं पुरं पूर्ब्बं द्बारि तिष्ठ धृतायुधः ।
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ॥
ततः प्रभाते विमले तस्मिन् काले स राक्षसः ।
निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः ॥
एतस्मिन्नन्तरे वीर उत्तीर्य्य यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥
ततोऽर्द्धदिवसे प्राप्ते क्रूरधर्म्मा स राक्षसः ।
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्य्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥
उवाच च सुसंक्रुद्धः शत्रुघ्नः स निशाचरम् ।
योद्धुमिच्छामि दुर्ब्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥
आहूतस्तु पुनस्तेन शत्रुघ्नेन महात्मना ।
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥
आकर्णात् स विकृष्याथ तद्धनुर्धन्विनां वरः ।
स मुमोच महावाणं लवणस्य महोरसि ॥
उरस्तस्य विदार्य्याशु प्रविवेश रसातलम् ।
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ॥
तच्च शूलं महद्दिव्यं हते लवणराक्षसे ।
पश्यतां सर्व्वदेवानां रुद्रस्य वशमन्वगात् ॥
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥
वरदास्तु महाबाहो सर्व्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥
देवानां भाषितं श्रुत्वा शूरो मूर्द्ध्नि कृताञ्जलिः ॥
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥
इयं मधुपुरी रम्या मधुरा देवनिर्म्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेव मेऽस्तु वरः परः ॥
तं देवाः प्रीतमनसो वाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः ॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयेत् ॥
सा सेना शीघ्रमागच्छत् श्रुत्वा शत्रुघ्नशासनम् ।
निवेशनञ्च शत्रुघ्नः श्रावणेन समारभत् ॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्ष्येऽहं वर्षे द्वादश आगते ॥”
इति श्रीरामायणे उत्तरकाण्डे एकषष्ट्यादिसप्त-
त्यन्ताध्यायेभ्यः सङ्कलितम् ॥ * ॥ लवणसमुद्र-
स्योत्पत्तिर्यथा, --
“विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् ।
सद्यो बभूव तत्रैव धन्या गर्भवती सती ।
तस्थौ तत्र सुखासीना सार्द्धं पुत्त्रैश्च सप्तभिः ॥
एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्जने ।
विजहार पुनः साध्वी शृङ्गारासक्तमानसा ॥
एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ह ।
कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ।
क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ॥
प्रबोध्य बालं सा साध्वी न ददर्शान्तिके प्रियम् ।
विललाप भृशं तत्र शृङ्गारातृप्तमानसा ॥
शशाप स्वसुतं कोपात् लवणोदो भविष्यति ॥
कदापि ते जलं केचित् न खादिष्यन्ति जीविनः ॥
शशाप सर्व्वान् बालांश्च यान्तु मूढा मही-
तलम् ।
गच्छध्वं च महीं मूढा जम्बुद्बीपं मनोहरम् ॥
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक् पृथक् ।
द्वीपे द्वीपे स्थितिं कृत्वा तिष्ठन्तु सुखिनः सुताः ॥
द्वीपस्थाभिर्नदीभिश्च सह क्रीडन्तु निर्जने ।
कनिष्ठो मातृशापाच्च लवणोदो बभूव ह ॥
कनिष्ठः कथयामास मातृशापञ्च बालकान् ।
आजग्मुर्दुःखिताः सर्व्वे मातृस्थानञ्च बालकाः ॥
श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम् ।
प्रणम्य मातुश्चरणं भक्तिनम्रात्मकन्धराः ॥
सप्तद्वीपे समुद्राश्च सप्त तस्थुर्विभागशः ।
कनिष्ठाद्वृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।
एतेषाञ्च जलं पृथ्य्वां शस्यार्थञ्च भविष्यति ।
व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुन्धराम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३ अध्यायः ॥
पृष्ठ ४/२१२

लवणः, त्रि, (लवणेन संसृष्टः । लवण + ठक् ।

“लवणात् लुक् ।” ४ । ४ । २४ । इति ठको
लुक् । यद्वा, लवणो रसोऽस्त्यस्मिन्निति । अर्श
आद्यच् ।) लवणरसयुक्तः । इति मेदिनी ।
णे, ७५ ॥ (यथा, सुश्रुते । १ । २१ ।
“मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः ॥”)
लावण्ययुक्तश्च ॥

लवणकिंशुका, स्त्री, महाज्योतिष्मती । इति

राजनिर्घण्टः ॥

लवणक्षारः पुं, (लवणस्य क्षारः ।) लोणारक्षारः ।

इति राजनिर्घण्टः ॥

लवणखानिः, स्त्री, (लवणस्य खानिः खनिः ।)

शाम्भरिलवणोत्पत्तिस्थानम् । तत्पर्य्यायः ।
रुमा २ । इति हेमचन्द्रः । ४ । ७ ॥ लवणा-
करमात्रञ्च ॥

लवणतृणं, क्ली, (लवणरसविशिष्टं तृणम् ।) तृण-

विशेषः । तत्पर्य्यायः । लोमतृणम् २ तृणाम्लम् ३
पटुतृणकम् ४ अम्लकाण्डम् ५ । अस्य गुणाः ।
सक्षीरत्वम् । अम्लत्वम् । कषायत्वम् । अस्तन्य-
त्वम् । अश्ववृद्धिकरत्वञ्च । इति राजनिर्घण्टः ॥

लवणत्रयं, क्ली, (लवणानां त्रयम् ।) सैन्धवं विडं

रुचकञ्च । इति राजनिर्घण्टः ॥

लवणधेनुः, स्त्री, (लवणनिर्म्मिता धेनुः ।) दानार्थ-

लवणादिनिर्म्मितधेनुः । तद्विवरणं यथा, --
होतोवाच ।
“लवणधेनुं वक्ष्यामि तां निबोध महीपते ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
धेनुं लवणमयीं कृत्वा षोडशप्रस्थसंयुताम् ।
वत्सं चतुर्भी राजेन्द्र इक्षुपादांश्च कारयेत् ॥
सौवर्णमुखशृङ्गाणि खुरा रौप्यमयास्तथा ।
मुखं गुडमयं तस्या दन्ताः फलमया नृप ! ॥
जिह्वां शर्करया राजन् घ्राणं गन्धमयन्तथा ।
नेत्रे रत्नमये कुर्य्यात् कर्णौ पत्रमयौ तथा ॥
श्रीखण्डं शृङ्गकोटौ च नवनीतमयाः स्तनाः ।
सूत्रपुच्छां ताम्रपृष्ठां दर्भरोम्णीं पयस्विनीम् ॥
कांस्योपदोहां राजेन्द्र घण्टाभरणभूषिताम् ।
सुगन्धपुष्पधूपैश्च पूजयित्वा विधानतः ।
आच्छाद्य वस्त्रयुग्मेन ब्राह्मणाय निवेदयेत् ॥
ग्रहणे वाथ संक्रान्तौ व्यतीपाते तथायने ।
नक्षत्रग्रहपीडासु सर्व्वकालं प्रदापयेत् ॥
द्विजाय साधुवृत्ताय कुलीनाय च धीमते ।
वेदवेदाङ्गविदुषे श्रोत्रियायाहिताग्नये ॥
ईदृशाय प्रदातव्या तथामत्मरिणे नृप ! ।
जमव्यमेव मन्त्रन्तु पुच्छदेशोपरिस्थितः ॥
छत्रकोपानहौ देयौ मुद्रिकापर्णपत्रके ।
आच्छाद्य वस्त्रयुग्मेन दक्षिणां कनकं ददेत् ॥
पूर्ब्बोक्तेन विधार्नन स्वशक्त्या कनकेन तु ।
इमां गृहाण भो विप्र रुद्ररूपे नमोऽस्तु ते ॥
रसज्ञा सर्व्वभूतानां सर्व्वदेवनमस्कृता ।
कामं कामदुघे कामा क्षारधेनो नमोऽस्तु ते ॥
दत्त्वा धेनुं लवणेन एकाहश्चैव तिष्ठति ।
स्वयं त्रिरात्रं विप्रेण तथैव लवणाशिना ॥
सहस्रेण शतेनाथ स्वशक्त्या कनकेन तु ।
दत्त्वेमां स्वर्गमाप्नोति यत्र देवो वृषध्वजः ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।
मुच्यते सर्व्वपापेभ्यो रुद्रलोकञ्च गच्छति ॥”
इत्यादि वाराहपुराणे श्वेतोपाख्याने लवणधेनु-
माहात्म्यम् ॥

लवणमदः, पुं, (लवणस्य मदः ।) लोणारक्षारः ।

इति राजनिर्घण्टः ॥

लवणा, स्त्री, (लुनाति या । लू + ल्युः । टाप् ।)

नदीभेदः । दीप्तिः । इति मेदिनीशब्दरत्ना-
वल्यौ ॥ महाज्योतिष्मती । इति राजनिर्घण्टः ॥

लवणाचलः, पुं, (लवणनिर्म्मितः अचलः ।) दानार्थ-

लवणादिनिर्म्मितपर्व्वतः । यथा, --
“अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ।
यत्प्रदाता नरो लोकं प्राप्नोति शिवसंयुतम् ॥
उत्तमः षोडशद्रोणः कर्त्तव्यो लवणाचलः ।
मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः ॥
वित्तहीनो यथाशक्त्या द्रोणादूर्द्धन्तु कारयेत् ।
चतुर्थांशेन विष्कम्भान् पर्व्वतान् कारयेत् पृथक् ॥
विधानं पूर्ब्बवत् कुर्य्यात् ब्रह्मादीनाञ्च सर्व्वदा ।
तद्बद्धेमतनून् सर्व्वान् लोकपालान्निवेशयेत् ॥
सरांसि कामदेवादींस्तद्बच्चात्र निवेशयेत् ।
कुर्य्याज्जागरमत्रापि दानमत्र निबोधत ॥
सौभाग्यरससम्भूतो यतोऽयं लवणो रसः ।
तदात्मकत्वेन च मां पाहि पापान्नगोत्तम ॥
यस्मादन्नरसाः सर्व्वे नोत्कटा लवणं विना ।
प्रियञ्च शिवयोर्नित्यं तस्मात् शान्तिप्रदो भव ॥
विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्द्धनम् ।
तस्मात् पर्व्वतरूपेण पाहि संसारसागरात् ॥
अनेन विधिना यस्तु दद्याल्लवणपर्व्वतम् ।
उमालोके वसेत् कल्पं ततो याति परां गतिम् ॥”
इति मात्स्ये ७७ अध्यायः ॥

लवणाब्धिजं, क्ली, (लवणाब्धौ लवणसमुद्रे जायते

इति । जन् + डः ।) सामुद्रलवणम् । इति
राजनिर्घण्टः ॥

लवणारजं, क्ली, लोणारक्षारः । इति राज-

निर्घण्टः ॥

लवणोत्तमं, क्ली, (लवणेषु उत्तमम् ।) सैन्धवम् ।

इति रत्नमाला ॥

लवणोत्थं, क्ली, (लवणादुत्तिष्ठतीति । उत् + स्था +

कः ।) लोणारक्षारः । इति राजनिर्घण्टः ॥

लवणोदः, पुं, (लवणं उदकं यस्य । उत्तरपदंस्य

चेत्युदकस्योदादेशः ।) लवणसमुद्रः । इत्य-
मरः ॥

लवनं, क्ली, (लू + भावे ल्युट् ।) छेदनम् । इत्य-

मरः ॥

लवनी, स्त्री, फलवृक्षविशेषः । लोना इति भाषा ॥

तत्पर्य्यायः । ग्रीष्मजा २ अग्रिमा ३ । इति
शब्दचन्द्रिका ॥

लवली, स्त्री, (लवं लेशं लातीति । ला + कः ।

गौरादित्वात् ङीष् ।) फलवृक्षविशेषः ।
नोयाडि इति भाषा । तत्पर्य्यायः । सुगन्ध-
मूला २ शन्दुः ३ कोमलवल्कला ४ । इति
राजनिर्घण्टः ॥ तस्य फलगुणाः । हृद्यत्वम् ।
सुगन्धित्वम् । कफवातनाशित्वञ्च । इति राज-
वल्लभः ॥
“लवलीफलमस्रार्शोवातपित्तहरं लघु ॥”
इति केचित् ॥
(यथा, राजेन्द्रकर्णपूरे । ४७ ।
“कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं
दिङ्मातङ्गाः सममथ सरिन्नाथपाथः
पिबन्ति ॥”)

लवाकः, पुं, (लवार्थं छेदनार्थं अकतीति । अक +

अच् ।) छेदनद्रव्यम् । इत्युणादिकोषः ॥

लवाणकः, पुं, (लूयतेऽनेनेति । लू + “आणको

लूधूशिन्धिधाञ्भ्यः ।” उणा० ३ । ८३ । इति
आणकः ।) दात्रादिः । इत्युणादिकोषः ॥

लविः, त्रि, (लूयतेऽनेनेति । लू + “अच इः ।”

उणा० ४ । १३८ । इति इः ।) छिदुरः ।
इत्युणादिकोषः ॥

लवित्रं, क्ली, (लूयतेऽनेनेति । लू + “अर्त्तिलूधू-

सूखनसहचर इत्रः ।” ३ । २ । १८४ । इति
इत्रः ।) दात्रम् । इत्यमरः ॥

लश, क शिल्पयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, लाशयति कुशलो
नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गादासः ॥

लशुनं, क्ली, (अश्यते भुज्यते इति । अश् +

“अशेर्लश च ।” उणा० ३ । ५७ इति उनन् ।
लशादेशश्च धातोः ।) रसुनः । तत्पर्य्यायः ।
महौषधम् २ गृञ्जनः ३ अरिष्टः ४ महा-
कन्दः ५ रसोनकः ६ । इत्यमरः ॥ रसोनः ७
म्लेच्छकन्दः ८ भूतघ्नः ९ उग्रगन्धः १० । अस्य
गुणाः । अम्लरसेन ऊनत्वम् । गुरुत्वम् ।
उष्णत्वम् । कफवातनाशित्वम् । अशुचित्वम् ।
क्रिमिहृद्रोगशोफघ्नत्वम् । रसायनत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ अपि च ।
“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥
यदामृतं वैनतेयो जहार सुरसत्तमात् ।
तदा ततोऽपतद्विन्दुः सुरसोनोऽपतद्भुवि ॥
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः ।
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ।
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ।
रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः
सरः ॥
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ।
भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥
हृद्रोगजीर्णज्वरकुक्षिशूलं
विबन्धगुल्मारुचिकासशोफान् ।
दुर्नामकुष्ठानलसादजन्तु-
समीरणश्वासकफांश्च हन्ति ॥
पृष्ठ ४/२१३
मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥
व्यायाममातपं रोषमतिनीरं पयो गुडम् ।
रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥”
इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः ।
भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥”
इति राजवल्लभः ॥
(तथाचास्य गुणादिविषयो यथा, --
“कट्वम्लवीर्य्यो लशुनो हितश्च
स्निग्धो गुरुः स्वादुरसोऽथ बल्यः ।
वृद्धस्य मेधास्वरवर्णचक्षु-
र्भग्नास्थिसन्धानकरः सुतीक्षणः ॥
हृद्रोगजीर्णज्वरकुक्षिशूल-
प्रमेहहिक्कारुचिगुल्मशोफान् ।
दुर्नामकुष्ठानलमान्द्यजन्तु-
समीरणं श्वासकफान्निहन्ति ॥”
इति हारीते कल्पस्थाने तृतीयाध्याये ॥
“शीतवातहिमदग्धतनूनां
स्तब्धभुग्नकुटिलव्यथितास्थ्नाम् ।
भेषजस्य पवनोपहतानां
वक्ष्यते विधिरतो लशुनस्य ॥”
“शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्वणः ।
घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया ॥”
इति वाग्भटे उत्तरस्थाने ३९ अध्यायः ॥
“क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः ।
स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥”
इति चरके सूत्रस्थाने २७ अध्यायः ॥)

लशूनः, पुं, (रसेन ऊनः रस्य लत्वम् । पृषो-

दरादित्वात् सस्य शः अकारलोपश्च ।) लशुनः ।
इति शब्दरत्नावली ॥

लष, क शिल्पयोगे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सेट् ।) क, लाषयति
कुशलो नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गा-
दासः ॥

लष, ञ स्पृहि । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) ञ, लषति लषते । इति
दुर्गादासः ॥

लष, य ञ स्पृहि । इति कविकल्पद्रुमः ॥ (दिवा०-

उभ०-सक०-सेट् ।) य ञ, लष्यति लष्यते ।
इति दुर्गादासः ॥

लष्वः, पुं, (लाषयति नृत्ये शिल्पं युनक्तीति ।

लष् + “सर्व्वनिघृष्वरिष्वेति ।” उणा० १ । १५३ ।
इति वन्प्रत्ययेन साधुः ।) नर्त्तकः । इत्यु-
णादिकोषः ॥

लस, श्लिषि । क्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) लसति । इति दुर्गादासः ॥

लस, क शिल्पयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, लासयति कुशलो
नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गादासः ॥

लसा, स्त्री, (लसतीति । लस् + अच् ।)

हरिद्रा । इति हारावली । ९३ ॥

लसिका, स्त्री, (लसतीति । लस् + अच् । ततः

कन् ततष्टापि अत इत्वम् ।) लाला । यथा, --
“लालायां पिच्छला ख्याता लसिका लासिका
तथा ॥”
इति शब्दचन्द्रिका ॥

लसीका, स्त्री, इक्षुरसः । त्वङ्मांसमध्यगरसः ।

इति केचित् ॥ (यथा । “लसीका उदक-
विशेषः । यथाह चरकः । यत्तु मांसत्वगन्तरे
उदकं तल्लसीकाशब्दं लभते ।” इति विजय-
रक्षितकृतप्रमेहरोगव्याख्याने ॥
“यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते ।”
इति चरके शारीरस्थाने सप्तमेऽध्याये ॥)

लस्ज, ई ओ ङ व्रीडे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
क्विपि संयोगादिलोपे लक् । ई ओ, लग्नः । ङ,
लज्जते । इति दुर्गादासः ॥

लस्तः, त्रि, श्लिष्टः । क्रीडितः । शिल्पयुक्तः । लस-

धातोः क्तप्रत्ययेन निष्पन्नः । इति लस्तकशब्द-
व्युत्पत्तौ भरतश्च ॥

लस्तकः, पुं, धनुषो मध्यभागः । इत्यमरः ॥

लस्तकी, [न्] पुं, (लस्तकोऽस्त्यस्येति । लस्तक +

इनिः ।) धनुः । इति शब्दमाला ॥

लहरिः, स्त्री, महातरङ्गः । तत्पर्य्यायः ।

उल्लोलः २ कल्लोलः ३ । इति हेम-
चन्द्रः शब्दरत्नावली च ॥ (यथा, आर्य्या-
सप्तशत्याम् । ६१४ ।

लहरी, स्त्री, महातरङ्गः । तत्पर्य्यायः ।

उल्लोलः २ कल्लोलः ३ । इति हेम-
चन्द्रः शब्दरत्नावली च ॥ (यथा, आर्य्या-
सप्तशत्याम् । ६१४ ।
“सरित इव यस्य गेहे शुष्यन्ति विशाल-
गोत्रजा नार्य्यः ।
क्षारास्वेव स तृप्यति जलनिधिलहरिषु जलद
इव ॥”)

ला, ल ग्रहे । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-सक०-अनिट् ।) ल, लाति । ग्रहो ग्रह-
णम् । इति दुर्गादासः ॥

ला, स्त्री, ग्रहणम् । दानम् । इति मेदिनी । ले, १ ॥

लाक्षकी, स्त्री, सीता । यथा, --

“राघव ते इयं सीता द्वारकेशस्य रुक्मिणी ।
विष्णोऽवतारमात्रस्य लक्ष्मीर्य्या कमलालया ॥
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
वैकुण्ठे तु महालक्ष्मी राधा वृन्दावने वने ॥
लक्षशः कमला दास्यो यस्याः सा लाक्षकी
मता ।
एवं शतसहस्राणामीश्वरी राधिकाधिका ॥”
इति पाद्मोत्तरखण्डे ५५ अध्यायः ॥

लाक्षणिकः, पुं, लक्षणया प्रतिपादकः । इति

साहित्यदर्पणम् ॥ लक्षणात्मकवृत्तिमत्पदत्वं
लाक्षणिकत्वम् । इति सारमञ्जरी ॥ (यथा,
विभक्तितत्त्वार्थवादे ।
“शक्तो लाक्षणिको रूढो योगरूढश्च यौगिकः ।
क्वचित् यौगिकरूढश्च शब्दः षोढा निगद्यते ॥”
(लक्षणमधीते वेद वा । लक्षण + “कतूक्थादि-
सूत्रान्तात् ठक् ।” ४ । २ । ६० । इति ठक् ।
लक्षणाभिज्ञे, त्रि ॥)

लाक्षा, स्त्री, (लक्ष्यतेऽनयेति । लक्ष् + “गुरोश्च

हलः ।” ३ । ३ । १०३ । इति अः । टाप् । यद्बा,
“बाहुलकात् राजतेरपि सः । कपिलिकादित्वात्
वा लत्वम् ।” इत्युज्ज्वलः । ३ । ६२ ।) रक्त-
वर्णवृक्षनिर्यासविशेषः । लाहा इति भाषा ॥
तत्पर्य्यायः । राक्षा २ जतु ३ यावः ४ अलक्तः ५
द्रुमामयः ६ । इत्यमरः ॥ खदिरिका ७ रक्ता ८
रङ्गमाता ९ पलङ्कषा १० क्रिमिहा ११ द्रुम-
व्याधिः १२ अलक्तकः १३ पलाशी १४ मुद्रिणी
१५ दीप्तिः १६ जन्तुका १७ गन्धमादिनी १८
नीला १९ द्रवरसा २० पित्तारिः २१ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । कषायत्वम् ।
श्लेष्मपित्तार्त्तिशोफविषरक्तविषमज्वरनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ भग्नविसर्पत्वग्दोषनाशि-
त्वम् । बल्यत्वञ्च । इति राजवल्लभः ॥ अपि च ।
“लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा
लघुः ।
अनुष्णा कफपित्ताम्रहिक्काकासज्वरप्रणुत् ॥
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा ।
अलक्तको गुणैस्तद्बद्विशेषाद्ब्यङ्ग्यनाशनः ॥”
इति भावप्रकाशः ॥
(शतपत्री । सेवती । गुलाव इति च । तत्-
पर्य्यायो यथा, --
“शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा ।
महाकुमारी गन्धाढ्या लाक्षा कृष्णाति-
मङ्गुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लाक्षातरुः, पुं, (लाक्षोत्पादकस्तरुः ।) पलाश-

वृक्षः । इति शब्दमाला ॥ (पलाशब्देऽस्य
विशेष ज्ञेयः ॥)

लाक्षातैलं क्ली, (लाक्षादिभिः पक्वं तैलम् ।)

पक्वतैलविशेषः । लाक्षादितैलमिति ख्यातम् ।
तद्द्विविधं स्वल्पं बृहच्च । यथाक्रमं तत्प्रकारं
तद्गुणञ्चाह ।
“लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचितम् ।
सद्गुणेनारनालेन दाहशीतज्वरापहम् ॥”
इति स्वल्पलाक्षातैलम् ॥
बृहद्यथा, --
“लाक्षारसाढके प्रस्थं तैलस्य विपचेद्भिषक् ।
मस्त्वाढकसमायुक्तं पिष्ट्वा चात्र समावपेत् ॥
शतपुष्पां हरिद्राञ्च मूर्व्वां कुष्ठं हरेणुकाम् ।
कटुकां मधुकां रास्नामश्वगन्धाञ्च दारु च ॥
मुस्तकं चन्दनञ्चैव पृथगक्षसमानकैः ।
द्रव्यैरेतैश्च तत् सिद्धं अभ्यङ्गान्मारुतापहम् ॥
विषमाख्यान् ज्वरान् सर्व्वानाश्वेव प्रशमं
नयेत् ।
कासं श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम् ॥
त्रिकपृष्ठग्रहं शूलं गात्राणां स्फुटनन्तथा ।
पापालक्ष्मीप्रशमनं सर्व्वग्रहनिवारणम् ।
अश्विभ्यां निर्म्मितं सम्यक् तैलं लाक्षादिकं
महत ॥”
इति बृहल्लाक्षातैलम् । इति मुखबोधः ॥
पृष्ठ ४/२१४

लाक्षाप्रसादः, पुं, (लाक्षायाः प्रसादो यस्मात् ।)

पट्टिकालोध्रः । इति राजनिर्घण्टः ॥

लाक्षाप्रसादनः, पुं, (लाक्षां प्रसादयतीति । प्र +

सद् + णिच् + ल्युः ।) रक्तलोध्रः । तत्पर्य्यायः ।
क्रमुकः २ पट्टिका ३ पट्टी ४ । इत्यमरः ॥
(तथास्य पर्य्यायः ।
“द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः ।
जीर्णपत्रो बृहत्पत्रः पट्टी लाक्षाप्रसादनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लाक्षावृक्षः, पुं, (लक्षोत्पादको वृक्षः ।)

कोशाम्रः । इति राजनिर्घण्टः ॥ पलाशवृक्षः ।
इति हारावली ॥

लाख, ऋ शोषालमर्थयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) ऋ, अललाखत् ।
इति दुर्गादासः ॥

लाघ, ऋ ङ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऋ, अललाघत् । ङ,
लाघते । शक्तिः सामर्थ्यम् । इति दुर्गादासः ॥

लाघवं, क्ली, (लघोर्भावः कर्म्म वा । लघु + “इग-

न्ताच्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इति
अण् ।) आरोग्यम् । इति राजनिर्घण्टः ॥ लघु-
त्वम् । लघोर्भाव इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥
(शीघ्रत्वम् । यथा, महाभारते । ५ । १८३ । ७ ।
“तासां रूपं भारत नोत शक्यं
तेजस्वित्वात् लाघवाच्चैव वक्तुम् ॥”
अल्पत्वम् । यथा, मार्कण्डेये । ४१ । १७ ।
“अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ॥”
क्लैव्यम् । यथा, कुमारे । २ । २३ ।
“यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघेऽपि निर्व्वाणालातलाघवम् ॥”)

लाङ्गलं, क्ली, (लङ्गतीति । लगि गतौ + बाहु-

लकात् कलच् । वृद्धिश्च धातोः । इति उणादि-
वृत्तौ उज्ज्वलदत्तः । १ । १०८ ।) स्वनामख्यात-
भूमिकर्षणयन्त्रम् । तत्पर्य्यायः । हलम् २ गोदा-
रणम् ३ सीरः ४ । इत्यमरः ॥ हलः ५ हालम् ६
हालः ७ शीरः ८ । इति भरतः ॥ (यथा,
वाजसनेयसंहितायाम् । १२ । ७१ ।
“लाङ्गलं पवीरवत्सुशेवं£सोमपित्सरु ॥”)
लिङ्गः । इति त्रिकाण्डशेषः ॥ पुष्पविशेषः ।
तालवृक्षः । गृहदारु । इति मेदिनी । ले, १२८ ॥

लाङ्गलग्रहः, पुं, कृषकः । लाङ्गलं गृह्णाति य

इत्यर्थे अन्प्रत्ययेन निष्पन्नः ॥ (“शक्तिलाङ्गला-
ङ्कुशयष्टितोमरघटघटीधनुःषु ग्रहेरुपसंख्या-
नम् ।” ३ । २ । ९ । इत्यस्य वार्त्तिकोक्त्या अच् ॥)

लाङ्गलचक्रं, क्ली, (लाङ्गलाकारं चक्रम् ।) कृषि-

कर्म्मणि शुभाशुभगणन हलाकारचक्रविशेषः ।
यथा । अथ लाङ्गलचक्रं स्वरोदये ।
“लाङ्गलं दण्डिकायूपयोक्त्रद्वयसमन्वितम् ।
दण्डिकादि लिखेत् भानि दिनेशाक्रान्तभादितः ॥
दण्डिकाहलयूपानां द्बिद्विस्थाने त्रिकं त्रिकम् ।
योक्त्रयोश्च त्रिकञ्चैव मध्ये पञ्चाग्रके द्विकम् ॥
दण्डस्थे च गवां हानिर्यपस्थे स्वामिनो भयम् ।
लक्ष्मीर्लाङ्गलयोक्त्रे स्यात् क्षेत्रारम्भदिनर्क्षके ॥”
इति ज्योतिस्तत्त्वम् ॥

लाङ्गलदण्डः, पुं, (लाङ्गलस्य दण्डः ।) लाङ्गल-

मध्यस्थकाष्ठम् । लाङ्गलेर ईश इति भाषा ।
तत्पर्य्यायः । ईशा २ । इत्यमरः ॥ ईषा ३ ।
इति शब्दरत्नावली ॥

लाङ्गलपद्धतिः, स्त्री, (लाङ्गलस्य पद्धतिः ।) लाङ्गल-

रेखा । सिराल इति भाषा । तत्पर्य्यायः ।
शीता २ । इत्यमरः ॥ सीता ३ । इति शब्द-
रत्नावली ॥

लाङ्गलिकः, पुं, (लाङ्गलवत् आकृतिरस्त्यस्येति ।

लाङ्गल + ठन् ।) स्थावरविषभेदः । इति हेम-
चन्द्रः ॥

लाङ्गलिका, स्त्री, (लाङ्गलमिवाकारोऽस्त्यस्या इति ।

लाङ्गल + ठन् । टाप् ।) लाङ्गलीवृक्षः । इति
शब्दरत्नावली ॥ (यथा, गारुडे १९२ अध्याये ।
“रुद्रलाङ्गलिकामूलं हिज्जलस्य तथैव च ।
तेन व्रणमुखं लिप्तं शल्यो निःसरति क्षणात् ॥”)

लाङ्गलिकी, स्त्री, (लाङ्गल + ठन् । ङीष् ।) वृक्ष-

विशेषः । लाङ्गलिया इति विषलाङ्गलिया इति
च भाषा । तत्पर्य्यायः । अग्निशिखा २ ।
इत्यमरः ॥ अग्निज्वाला ३ लाङ्गलिका ४
लाङ्गली ५ । इति शब्दरत्नावली ॥ गैरी ६
दीप्ता ७ हलिनी ८ गर्भघातिनी ९ अग्नि-
जिह्वा १० इन्द्रपुष्पा ११ अग्निमुखी १२ वह्नि-
शिखा १३ । इति रत्नमाला ॥ अस्या गुणः ।
कुष्ठदुष्टव्रणनाशित्वम् । इति राजवल्लभः ॥
राजनिर्घण्टोक्तगुणपर्य्यायः कलिकारीशब्दे
द्रष्टव्याः ॥

लाङ्गली, [न्] पुं, (लाङ्गलमस्त्यस्येति । लाङ्गल +

इनिः ।) बलरामः । इति शब्दरत्नावली ॥
(यथा, हरिवंशे । ३८ । ३८ ।
“स्थापयित्वा विलद्वारि यदून् लाङ्गलिना सह ।
शार्ङ्गधन्वा विलस्थन्तु जाम्बवन्तं ददर्श ह ॥”)
नारिकेलः । इत्यमरः ॥ (यथा, --
“नारिकेलो दृढफलो लाङ्गली कूर्च्चशीर्षकः ।
तुङ्गस्कन्धफलश्चैव तृणराजः सदाफलः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सर्पः । इति शब्दचन्द्रिका ॥ (लाङ्गलविशिष्टे,
त्रि । यथा, रामायणे । २ । ३२ । ३० ।
“तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटोंनामवै द्बिजः ।
क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥”
तथा, महाभारते । १ । २२२ । ५३ ।
“रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ॥”
स्त्रियां ङीष् । नदीविशेषः । यथा, मार्कण्डेये ।
५७ । २९ ।
“लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ॥”)

लाङ्गली, स्त्री, (लाङ्गलाकारोऽस्त्यस्या इति ।

लाङ्गल + अच् । ङीष् ।) लाङ्गलाकारपुष्प-
जलजशाकविशेषः । काँचडा इति भाषा ।
तत्पर्य्यायः । शारदी २ तोयपिप्पली ३ शकुला-
दनी ४ । इत्यमरः ॥ जलाक्षी ५ जलपिप्पलिः
६ । इति शब्दरत्नावली ॥ पित्तला ७ श्यामा-
दिनी ८ मत्स्यगन्धा ९ । इति जटाधरः ॥ कलि-
कारी १० । इति राजनिर्घण्टः ॥ (शालपर्णी ।
तत्पर्य्यायो यथा, --
“स्थिरा विदारिगन्धा च शालपर्ण्यस्तमत्यपि ।
लाङ्गली कलसी चैवक्रोष्टुपुच्छा गुहा मता ॥”
इति गारुडे २०८ अध्यायः ॥)

लाङ्गुलं, क्ली, पुच्छम् । इत्यमरटीकासारसुन्दरी ॥

लाङ्गूलं, क्ली, (लङ्ग + “खर्जिपिञ्जाद्यिभ्य ऊरो-

लचौ ।” उणा० ४ । ९० । इति ऊलच् ।
बाहुलकात् वृद्धिश्च ।) पशुपश्चाद्वर्त्तिलम्बमान-
लोमाग्रावयवविशेषः । ल्याज इति भाषा ।
तत्पर्य्यायः । पुच्छम् २ लूम ३ वालहस्तः ४
बालधिः ५ । इत्यमरः ॥ लङ्गूलम् ६ लाङ्गुलम् ७
लुलामः ८ अवालः ९ । इति शब्दरत्नावली ॥
लञ्जः १० पिच्छः ११ बालः १२ । इति जटा-
धरः ॥ (यथा, कुमारे । १ । १३ ।
“लाङ्गूलविक्षेपविसर्पिशोभै-
रितस्ततश्चन्द्रमरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं
कुर्ब्बन्ति बालव्यजनैश्चमर्य्यः ॥”)
गोलाङ्गूलजलमाहात्म्यं यथा, --
“लाङ्गूलेनोद्धृतं तोयं मूर्द्ध्ना गृह्णाति यो नरः ।
सर्व्वतीर्थफलं प्राप्य सर्व्वपापैः प्रमुच्यते ॥”
इति वाराहपुराणम् ॥
शेफः । इति मेदिनी । ले, १२७ ॥ कुशूलः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

लाङ्गूलिका, स्त्री, (लाङ्गूलाकृतिरस्त्यस्या इति ।

लाङ्गूल् + ठन् ।) पृश्निपर्णी । इति राज-
निर्घण्टः ॥

लाङ्गूली, [न्] पुं, (प्रशस्तं लाङ्गूलमस्त्यस्येति ।

लाङ्गूल + इनिः ।) वानरः । इति शब्दचन्द्रिका ॥
ऋषभनामौषधम् । इति राजनिर्घण्टः ॥

लाछ, इ लक्ष्मणि । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, लाञ्छ्यते । लाञ्छति ।
इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ल&oldid=44056" इत्यस्माद् प्रतिप्राप्तम्