शब्दकल्पद्रुमः/रुह

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/१७३

रुह, ञि ज औ जन्याम् । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-अनिट् ।) ञि, रूढोऽस्ति ।
ज, रोहः रुहः । औ, अरुक्षत् । जनिर्जन्म ।
रोहति जन्तुर्ज्जायते इत्यर्थः । रुह जन्मनि
प्रादुर्भावे इति प्राञ्चः । जन्मप्रादुर्भावयोरेको-
ऽर्थः । इति गोविन्दभट्टचतुर्भुजमिश्रौ । रमा-
नाथस्तु प्रादुर्भावः स्फूर्त्तिरिति भेदमाह । इति
दुर्गादासः ॥

रुहः, त्रि, (रोहतीति । रुह + “इगुपधज्ञेति ।

३ । १ । १३५ । इति कः ।) जातः । आरूढः ।
(यथा, मनुः । १ । ४८ ।
“बीजकाण्डरुहाण्येव प्रताना वल्ल्य एवच ॥”)

रुहकं, क्ली, छिद्रम् । इति शब्दचन्द्रिका ॥

रुहा, स्त्री, (रोहति छिन्नापि पुनरुत्पद्यते

इति । रुह + कः । टाप् ।) दूर्व्वा । इत्यमरः ॥
(अस्याः पर्य्यायो यथा, --
“सहस्रवीर्य्या दूर्व्वा तु मङ्गल्या भार्गवी
रुहा ॥”
इति वैद्यकरत्नमालायाम् ॥
“नीलदूर्व्वा रुहानन्ता भार्गवी शतपर्व्विका ।
शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
महासमङ्गा । इति राजनिर्घण्टः ॥

रुहिरुहिका, स्त्री, (रुह + इन् । रुहिरुत्पत्तिः ।

रुहिरुहिणा पुनः पुनरुद्भवेन कायतीति । कै +
कः । टाप् ।) उत्कण्ठा । इति पुराणम् ॥

रुह्वा, [न्] पुं, (रोहतीति । रुह + “शीङक्रुशि-

रुहीति ।” उणा० ४ । ११३ । इति क्वनिप् ।)
वृक्षः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रूक्ष, त् क पारुष्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-अक०-सेट् ।) “दीर्घी । तथा च ।
‘स पुनातु व्रजे यश्च गोरजःपातरूक्षितौ ।
शिशुरुच्छिद्य यमजौ निष्पिपेष तरू क्षितौ ॥’
इति कीचकयमकम् ॥
पारुष्यमस्निग्धीभावः । रूक्षयति रूक्षापयति
केशः तैलाभावादिति शेषः ।” इति दुर्गादासः ॥

रूक्षं, त्रि, (रूक्षयतीति । रूक्ष पारुष्ये + पचा-

द्यच् ।) अप्रेम । अचिक्वणम् । इत्यमरः । ३ ।
३ । २२४ ॥ (यथा, महाभारते । १ । १५३ । ६ ।
“ऊर्द्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षान् शिरो-
रुहान् ॥”)

रूक्षः, पुं, वृक्षः । इति हेमचन्द्रः ॥ वरकतृणम् ॥

इति राजनिर्घण्टः ॥

रूक्षगन्धकः, पुं, (रूक्षो गन्धो यस्य । कन् ।)

गुग्गुलुः । इति राजनिर्घण्टः ॥

रूक्षणात्मिका, स्त्री, (रूक्षण मात्मा यस्याः ।

कन् । टापि अत इत्वम् ।) लङ्काधान्यम् । इति
राजनिर्घण्टः ॥

रूक्षदर्भः, पुं, (रूक्षः कर्कशो दर्भः ।) हरिदर्भः ।

इति राजनिर्घण्टः ॥

रूक्षपत्रः, पुं, (रूक्षाणि पत्राणि यस्य ।) शाखोट-

वृक्षः । इति राजनिर्घण्टः ॥

रूक्षप्रियः, पुं, (रूक्षस्य प्रियः ।) ऋषभौषधम् ।

इति राजनिर्घण्टः ॥

रूक्षस्वादुफलः, पुं, (रूक्षं स्वादु च फलं यस्य ।)

धन्वनवृक्षः । इति राजनिर्घण्टः ॥

रूक्षा, स्त्री, (रूक्षयतीति । रूक्ष + अच् +

टाप् ।) दन्तीवृक्षः । इति राजनिर्घण्टः ॥

रूढं, त्रि, (रुह + क्तः ।) जातम् । (यथा,

रघुः । ६ । ४१ ।
“येन स्त्रियः संश्रयदोषरूढं
स्वभावलोलेत्ययशः प्रमृष्टम् ॥”)
प्रसिद्धम् । इति मेदिनी । ढे, ३ ॥ (यथा, रघुः ।
२ । ५३ ।
“क्षतात् किल त्रायत इत्युदग्रः
क्षत्त्रस्य शब्दो भुवनेषु रूढः ॥”)

रूढः, पुं, (रुह + क्तः ।) प्रकृतिप्रत्ययार्थमनपेक्ष्य

शाब्दबोधजनकः शब्दः । यथा, --
“मुख्यो लाक्षणिको गौणः शब्दः स्यादौपचा-
रिकः ।
यौगिको योगरूढो वा रूढो वा मुख्य एव सः ॥”
इति शाब्दिकाः ॥ * ॥
अपि च । रूढं नाम लक्षयति विभजते च ।
“रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते ।
नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥”
यन्नाम यादृशार्थे सङ्केतितमेव न तु यौगिकमपि
तद्रूढम् । योगरूढन्तु पङ्कजादिकं न तथा रूढा-
नामेव च संज्ञापदेनाभिलप्यते । न तु रूढा-
दिवत् संज्ञापि नाम्नोऽवान्तरभेदः । येन
विभागव्याघातः स्यात् । संज्ञायाश्च त्रयो भेदाः
नैमित्तिकी पारिभाषिकी औपाधिकी चेति ।
पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वा-
दिति वक्ष्यते ॥ ये तु रूढस्य नाम्नश्चतुर्विधत्व-
माहुस्तन्मतमुपन्यस्यति ।
“जातिद्रव्यगुणस्पन्दैर्धर्म्मैः सङ्केतवत्तया ।
जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः ॥”
गोगवयादीनां गोत्वादिजात्या । पश्वाढ्यादीनां
लाङ्गुलधनादिद्रव्येण । धन्यपिशुनादीनां पुण्य-
द्वेषादिगुणेन । चलचपलादीनाञ्च शब्दानां
कर्म्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यमेव रूढा-
नामिति । यदुक्तं दण्ड्याचार्य्यैः ।
“शब्दैरेभिः प्रतीयन्ते जातिद्रव्यगुणक्रियाः ।
चातुर्विध्यादमीषान्तु शब्द उक्तश्चतुर्विधः ॥” इति
तदेतज्जड-मूक-मूर्खादीनामन्यशून्यादीनाञ्च
शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः ॥ * ॥
नैमित्तिकसंज्ञां लक्षयति ।
“जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता ।
जातिमात्रे हि सङ्के ताद्व्यक्तेर्भाणं सुदुष्करम् ॥”
यन्नामजात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी
संज्ञा यथा गोचैत्रादिः । सा हि गोत्वचैत्रत्वादि-
जात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोत्वा-
दिजातिमात्रम् । गोपदं गोत्वे सङ्केतितमित्या-
कारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवा-
देरन्वयानुपपत्तेश्च एकशक्तत्वग्रहस्यान्यानुभाव-
कत्वेऽतिप्रसङ्गात् ॥ * ॥ पारिभाषिकीमौपाधि-
कीञ्च संज्ञां क्रमेण लक्षयति ।
“उभयावृत्तिधर्म्मेण संज्ञा स्यात् पारिभाषिकी ।
औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते ॥”
उभयावृत्तिधर्म्मावच्छिन्नसङ्केतवती संज्ञा पारि-
भाषिकी । यथाकाशडित्थादिः । या चानुगतो-
पाध्यवच्छिन्नसङ्केतवती संज्ञा सा त्वौपाधिकी ।
यथा भूतदूतादिः । सा हि सचेतनवृत्तिविशेष-
गुणवत्त्ववार्त्ताहारकत्वाद्यनुगतोपाधिपुरस्कारे-
णैव प्रवर्त्तते । इति शब्दशक्तिप्रकाशिका ॥

रूढिः, स्त्री, (रुह + क्तिन् ।) जन्म । प्रादुर्भावः ।

(प्रसिद्धिः । यथा, राजतरङ्गिण्याम् । ४ । २७१ ।
“रुढिः परम्परायाता सेयमस्मद्गृहे स्थिता ॥”
आरोहणम् । यथा, तत्रैव । १ । २८५ ।
“यात्याश्रितः किल समाश्रयणीयलभ्यां
निन्द्यां गतिं जगति सर्व्वजनार्च्चितां वा ।
गच्छत्यधस्तृणगुणः श्रितकूपयन्त्रः
पुष्पाश्रया सुरशिरोभुवि रूढिमेति ॥”)
रूढशब्दनिष्ठशक्तिः । यथा, --
“लब्धात्मिका सती रूढिर्भवेद्योगापहारिणी ।
कल्पनीया तु लभते नात्मानं योगवाधतः ॥”
इति कुमारभट्टकारिका ॥

रूप, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥

(अदन्त चुरा०-पर०-सक०-सेट् ।) तत्कृती
रूपकरणम् । अरुरूपत् प्रतिमां शिल्पी । प्रति-
माया रूपं करोतीत्यर्थः । निपूर्व्वः स्वरूप-
कथने । अनुमानं निरूप्यत इत्यनुमानखण्डम् ।
इति दुर्गादासः ॥

रूपं, क्ली, (रूयते कीर्त्त्यते रौतीति वा ।

रु + “खष्पशिल्पशष्पेति ।” उणा० ३ । २८ ।
इति पः दीर्घश्च । रूपयतीति । रुप् + अच्
वा ।) स्वभावः । सौन्दर्य्यम् । नामकम् ।
पशुः । शब्दः । ग्रन्थावृत्तिः । नाटकादिः ।
आकारः । (यथा, मनुः । ७ । ७७ ।
“तदध्यास्योद्बहेद्भार्य्यां सवर्णां लक्षणान्विताम् ।
कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥”)
श्लोकः । इति मेदिनीशब्दरत्नावलीभूरि-
प्रयोगाः ॥ (स्वरूपम् । यथा, मनुः । ८ । ४५ ।
“देशं रूपञ्च कालञ्च व्यवहारविधौ स्थितः ॥”)
शुक्लादिः । नामकस्थाने नाणकम् । इति
नानार्थरत्नमालाविश्वहेमचन्द्राः ॥ * ॥ रूपन्तु
षोडशविधम् । यथा । ह्रस्वम् १ दीर्घम् २
स्थूलम् ३ चतुरस्रम् ४ वृत्तम् ५ शुक्लम् ६
कृष्णम् ७ नीलारुणम् ८ रक्तम् ९ पीतम् १०
कठिनम् ११ चिक्कणम् १२ श्लक्ष्णम् १३ पिच्छि-
लम् १४ मृदु १५ दारुणम् १६ । इति महा-
भारते मोक्षधर्म्मः ॥ * ॥ तस्य लक्षणं यथा, --
“अङ्गान्यभूषितान्येव केनचिद्भूषणादिना ।
येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
न्यायमते तत् चक्षुरिन्द्रियग्राह्यम् । द्रव्यादि-
प्रत्यक्षकारणम् । चक्षुः सहकारि । शुक्लाद्य-
नेकप्रकारम् । जलादिपरमाणुरूपं नित्यम् ।
अन्यत्र अनित्यम् । यथा, --
पृष्ठ ४/१७४
“चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।
चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा ।
जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ॥”
इति भाषापरिच्छेदः ॥
उत्तरपदस्थरूपादिशब्दस्य उपमानवाचक-
त्वम् । यथा, --
“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।
भूतरूपोपमाः काशः सन्निभः प्रथितः परः ॥”
इति हेमचन्द्रः ॥
अतिशयरूपस्य दोषो यथा, --
उमोवाच ।
“रूपातिशयसम्पन्ना नानागुणसमन्विताः ।
किमर्थं दुःखिता जाताः कान्तसौख्यविवर्ज्जिताः ॥
ईश्वर उवाच ।
दमयन्ती तथा सीता रूपातिशयपारगा ।
दुःखिता तेन संजाता कान्तसौख्यविवर्ज्जिता ॥
अहल्या बन्धकी जाता कपिलस्य तु योषिता ।
रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥
तस्माद्रपञ्च नेच्छन्ति लक्षणज्ञास्तपोधनाः ।
अतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा ।
अथवा सौख्यहीनस्तु जायते तु महातपे ॥”
इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥
तद्बैदिकपर्य्यायः । निर्णिक् १ वव्रिः २ वर्पः ३
वपुः ४ अमतिः ५ अप्सः ६ प्सुः ७ अप्नः ८
पिष्टम् ९ पेशः १० कृशनम् ११ प्सरः १२
अर्ज्जुनम् १३ ताम्रम् १४ अरुषम् १५ शिल्पम्
१६ । इति षोडशरूपनामानि । इति वेद-
निघण्टौ ३ अध्यायः ॥

रूपकं, क्ली, (रूपयतीति । रूपि + ण्वुल् ।)

नाटकम् । (“तस्य रूपकसंज्ञाहेतुमाह । रूपा-
रोपात्तु रूपकम् । रूपकस्य भेदानाह ।
नाटकमथ प्रकरणं
भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः
प्रहसनमिति रूपकाणि दश ॥
किञ्च ।
नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।
प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥
संलापकं श्रीगदितं शिल्पकञ्च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥
अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।
विना विशेष सर्व्वेषां लक्ष्म नाटकवन्मतम् ॥”
इति साहित्यदर्पणे ६ परिच्छेदः ॥)
मूर्त्तम् । (यथा, कथासरित्सागरे । ५५ । ४३ ।
“आदिश्यताञ्च चित्रे किमालिखामीह रूप-
कम् ॥”)
काव्यालङ्करणम । इति मेदिनी । के, १४८ ॥
शेषस्य लक्षणं यथा, --
“रूपकं रूपितारोपात् विषये निरपह्नवे ।
तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥
यत्र कस्यचिदारोपः परारोपणकारणम् ।
तत् परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥
प्रत्येकं केवलं मालारूपञ्चेति चतुर्व्विधम् ।
अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥
समस्तवस्तुविषयमेकदेशविवर्त्ति च ।
आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥
यत्र कस्यचिदार्थत्वमेकदेशविवर्त्ति तत् ।
निरङ्गं केवलस्यैव रूपणं तदपि द्बिधा ॥
माला केवलरूपत्वात् तेनाष्टौ रूपके भिदाः ॥”
इति साहित्यदर्पणे १० परिच्छेदः ॥
अपि च ।
“अभेदो भासते यस्मिन्नुपमानोपमेययोः ।
रूपकं कथ्यते सद्भिरलङ्कारोत्तमं यथा ॥
तन्वि युष्मन्मखाम्भोजं लोलालकमधुव्रतम् ।
न कस्य हरते चेतो लसद्दशनकेशरम् ॥
अस्त्यनेकप्रकारत्वं रूपकोपमयोरपि ।
संक्षेपेणोक्तमन्यत्तु सुधीभिरवधीयताम् ॥”
इति काव्यचन्द्रिका ॥
संख्याविशेषः । यथा, --
“सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् ।
रूपकैर्द्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥”
इति युक्तिकल्पतरुः ॥
(उपमानम् । यथा, साहित्यदर्पणे १० परिच्छेदे
समासोक्त्यलङ्कारे ।
“यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटमिति ॥”
पुं, मुद्रा । यथा, कथासरित्सागरे । ७८ । १३ ।
“अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः ।
किमेष व्यसनं पुष्णात्यथ कञ्चन सद्ब्ययम् ॥”
तथाच बृहत्संहितायाम् । ८१ । १२ ।
“गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ॥”)

रूपतत्त्वं, क्ली, (रूपस्य तत्त्वम् ।) शीलम् ।

यथा, --
“स्याद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।
सहजो रूपतत्त्वञ्च धर्म्मसर्गो निसर्गवत् ॥”
इति हेमचन्द्रः । ६ । १२ ॥

रूपधारी, [न्] (रूपं धरतीति । धृ + णिनिः ।)

सौन्दर्य्यविशिष्टः । यथा, --
“ततो विकटरूपोऽसौ सर्व्वशास्त्रार्थपारगः ।
विवाहयद्द्विजसुतां रूपेणानुपमां द्विजः ॥
सावमेने च भर्त्तारं सुशीलमपि भाविनी ।
विरूपमिति मन्वाना ततः सोऽभूत् सुदुःखितः ॥
ततो निर्व्वेदसंयुक्तो गत्वाश्रमपदं महत् ।
इरावत्यास्तटे श्रीमान् रूपधारिणमासदत् ॥
तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि ।
सुरूपतामवाप्याग्र्यां तस्मिन्नेव च जन्मनि ॥”
इति वामनपुराणे ७६ अध्यायः ॥

रूपनाशनः, पुं, (रूपस्य नाशनं अदर्शनं यत्र ।)

पेचकः । इति शब्दरत्नावली ॥

रूपवान्, [त्] त्रि, (रूपमस्यास्तीति । रूप +

“रसादिभ्यश्च ।” ५ । २ । ९५ । इति मतुप् ।
मस्य वः ।) आकारविशिष्टः । (यथा, भाग-
वते । २ । ५ । २७ ।
“वायोरपि विकुर्व्वाणात् कालकर्म्मस्वभावतः ।
उदपद्यत वै तेजो रूपवत् स्पर्शशब्दवत् ॥”)
सौन्दर्य्ययुक्तः । (यथा, महाभारते । ३ ।
४५ । १२ ।
“सत्यवाक् पूजितो वक्ता रूपवाननहङ्कृतः ॥”)

रूपाजीवा, स्त्री, (रूपेण सौन्दर्य्येण आजीव-

तीति । आ + जीव् + अच् । टाप् ।) वेश्या ।
इत्यमरः । २ । ६ । १९ ॥ (यथा, रामायणे ।
२ । ३६ । ३ ।
“रूपाजीवाश्च वादिन्यो बणिजश्च महाधनाः ।
शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः ॥”)

रूपास्त्रः, पुं, (रूपमेव अस्त्रं यस्य ।) कामदेवः ।

इति त्रिकाण्डशेषः ॥

रूपिका, स्त्री, (रूपमस्या अस्तीति । रूप + ठन् ।)

श्वेतार्कवृक्षः । इति रत्नमाला ॥ (यथा,
सुश्रुते । ५ । ६ ।
“पललं तिलतैलञ्च रूपिकायाः पयो गुडः ॥”)

रूपेश्वरी, स्त्री, (रूपाणामीश्वरी ।) देवीविशेषः ।

सा तु प्रभवादिषष्टिवर्षान्तर्गतैकविंशवर्षे पूज्या ।
यथा, --
“रूपेश्वरी प्रकर्त्तव्या वृषयुग्मव्यवस्थिता ।
जटामुकुटभारेन्दुत्रिशूलोरगभूषणा ॥
मणिमौक्तिकशोभाढ्या सितचन्दनचर्च्चिता ।
पूजिता कुसुमैर्हृद्यैः सर्व्वकामफलप्रदा ॥”
इति देवीपुराणे संवत्सरदेवताविंशतिविधिः
प्रथमः ॥

रूप्यं, क्ली, (आहतं रूपं अस्यास्तीति । रूप् +

“रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति
यप् ।) आहतस्वर्णरजतम् । इत्यमरः । २ । ९ ।
९१ ॥ हेम रूप्यञ्च आहतं अश्ववराहपुरुषादि-
रूपमुत्थापयितुं निर्घातिकया ताडितं रूप्य-
मुच्यते रूपाय आहतं रूप्यं ढघे कादिति
ष्ण्यः । इति भरतः ॥ * ॥ धातुविशेषः । रूपा
इति भाषा ॥ (यथा, महाभारते । ५ ।
३९ । ७९ ।
“सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।
ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥”)
तत्पर्य्यायः । शुभ्रम् २ वसुश्रेष्ठम् ३ रुधिरम् ४
चन्द्रलोहकम् ५ श्वेतकम् ६ महाशुभ्रम् ७
रजतम् ८ तप्तरूपकम् ९ चन्द्रभूति १० सितम् ११
तारम् १२ कलधूतम् १३ इन्द्रलोहकम् १४
रौप्यम् १५ धौतम् १६ सौधम् १७ चन्द्र-
हासम् १८ । इति राजनिर्घण्टः ॥ खर्ज्जूरम् १९
दुर्व्वर्णम् २० श्वेतम् २१ रङ्गबीजम् २२ राज-
रङ्गम् २३ लोहराजकम् २४ । इति शब्दरत्ना-
वली ॥ कलधौतम् २५ । इति जटाधरः ॥ अस्य
गुणाः । स्निग्धत्वम् । कषायत्वम् । अम्लत्वम् ।
विपाके मधुरत्वम् । सरत्वम् । वातपित्तहरत्वम् ।
रुच्यत्वम् । वलीपलितनाशित्वञ्च । इति राज-
निर्घण्टः ॥ * ॥ अथ रूप्यस्योत्पत्तिनामलक्षण-
गुणाः ।
“त्रिपुरस्य वधार्थाय निर्निमेषैर्व्विलोकनैः ।
निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥
ततस्तूल्का समपतत्तस्यैकस्माद्विलोकनात् ।
पृष्ठ ४/१७५
अतो रुद्रः समभवद्बैश्वानर इव ज्वलन् ॥
द्वितीयादपतन्नेत्रादश्रुबिन्दुस्तु वामकात् ।
तस्माद्रजतमुत्पन्नमुक्तकर्म्मसु योजयेत् ॥
कृत्रिमञ्च भवेत्तद्धि रङ्गादिरसयोगतः ।
रूप्यन्तु रजतं तारं चन्द्रकान्ति सितं शुभम् ॥
गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षयम् ।
स्वर्णाद्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम् ॥
कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु ।
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ॥
रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् ।
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥
प्रमेहादिकरोगांश्च नाशयत्यचिरात् ध्रुवम् ।
तारं शरीरस्य करोति तापं
विध्वंसनं यच्छति शुक्रनाशम् ।
वीर्य्यं बलं हन्ति तनोश्च पुष्टिं
महागदान् पोषयति ह्यशुद्धम् ॥”
अथ मारणाय योग्यं रूप्यमाह ।
“गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षयम् ।
वर्णाढ्यं चन्द्रवत् स्वच्छं तारे नवगुणं स्मृतम् ॥”
अथायोग्यम् ।
“कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु ।
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ॥”
अथ शोधनविधिः ।
“पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत् ।
निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा ।
एवं रजतपत्राणां विशुद्धिः संप्रजायते ॥”
अथाशुद्धस्य रूप्यस्य दोषमाह ।
“रूप्यं ह्यशुद्धन्तु करोति तापं
विध्वंसनं वीर्य्यबलक्षयञ्च ।
देहस्य पुष्टिं हरते तनोति
रोगांस्ततः शोधनमस्य कुर्य्यात् ॥”
अथ रूप्यस्य मारणविधिः ।
“भागैकं तालकं मर्द्यं याममम्लेन केनचित् ।
तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥
धृत्वा मूषापुटे रुद्ध्वा पुटेत् त्रिंशद्वनोपलैः ।
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुनः पचेत् ।
एवं चतुर्द्दशपुटैस्तारं भस्म प्रजायते ॥”
अन्यप्रकारः ।
“स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेप-
येत् ।
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् ।
पुटे चतुर्द्दशपुटैस्तारं भस्म प्रजायते ॥”
एवं मारितस्य रूप्यस्य गुणाः ।
“रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् ।
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥
प्रमेहादिकरोगांश्च नाशयत्यचिरात् ध्रुवम् ॥”
इति भावप्रकाशः ॥
अथ रूप्यकरणम् ।
“मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् ।
धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥”
इति गारुडे १८८ अध्यायः ॥

रूप्यं, त्रि, (प्रशस्तं रूपं अस्यास्तीति । रूप +

“रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० ।
इति यप् ।) सुन्दरम् । इति मेदिनी । ये, ५० ॥
(क्ली, उपमेयम् । यथा, साहित्यदर्पणे १० परि-
च्छेदे समासोक्त्यलङ्कारे ।
“तत्र हि तिमिरांशुकयोर्रूप्यरूपकभावो द्बयो-
रावरकत्वेन स्फुटमिति ॥” * ॥ पुं, प्रत्ययविशेषः ।
स च तत आगत इत्येतस्मिन्विषये “हेतुमनुष्ये-
भ्योऽन्यतरस्यां रूप्यः ।” ४ । ३ । ८१ । इति
सूत्रेण हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां भवति ॥
यथा समादागतं समरूप्यम् । देवदत्तरूप्यम् ॥)

रूप्याध्यक्षः, पुं, (रूप्यस्य रूप्ये वा अध्यक्षः ।)

नैष्किकः । इत्यमरः ॥ रूप्यं रजतं तदेव निष्कं
पूर्ब्बवत् ष्णिकः रजताध्यक्षो नैष्किकः । टङ्कक-
पतिर्नैष्किक इत्यन्ये । पुरुषाश्वादिरूपं गठितं
रजतं रूप्यं तस्याध्यक्षो नैष्किक इति केचित् ।
इति भरतः ॥

रूवुकः, पुं, एरण्डः । इति शब्दमाला ॥ (यथास्य

पर्य्यायः ।
“शुक्लएरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः ।
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ॥
वातारिस्तरुणश्चापि रूवुकश्च निगद्यते ।
रक्तोऽपरो रुवुकः स्यादुरुवुको रुवुस्तथा ।
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपादकः ॥”
इति भापप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रूष, त् क विस्फुरणे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) दीर्घी ।
मूर्द्धन्योपधः । अरुरूषत् । इति दुर्गादासः ॥

रूषकः, पुं, (रूषयतीति । रूष + ण्वुल् ।)

वासकः । इति जटाधरः ॥

रूषितं, त्रि, (रूष + क्तः ।) गुण्डितम् । इत्यमरः ॥

द्वे धूलिगुण्डकेनैव म्रक्षिते । गुडि क वेष्टे रूष
त् क स्याद्बिस्फुरणे क्तः । इति भरतः ॥ (यथा,
रामायणे । २ । ४२ । १५ ।
“यः सुखेनोपधानेषु शेते चन्दनरूषितः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥”)

रे, व्य, सम्बोधनविशेषः । यथा, --

“सम्बोधनेऽङ्ग भोः पाट् प्याट् हे है हं होऽरे
रेऽपि च ।”
इति हेमचन्द्रः । ६ । १७३ ॥
(यथा, कथासरित्सागरे । ३२ । १५५ ।
“तत्र मन्दमिवालोक्य साभिप्रायः समां नृपः ।
पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यता-
मिति ॥”)

रेक, ऋ ङ शङ्कायाम् । इति कविकल्पद्रुमः ।

(भ्वा०-आत्म०-सक०-सेट् ।) शङ्का संशया-
रोपः । ऋ, अरिरेकत् । ङ, रेकते पुरुषत्वं
स्थाणौ । स्थाणुर्व्वा पुरुषो वेति संशयमारो-
पयतीत्यर्थः । रिरेके । इति दुर्गादासः ॥

रेकः, पुं, (रेक शङ्कायाम् अथवा रिच् + घञ् ।)

शङ्का । नीचः । विरेचनम् । इति मेदिनी ।
के, ३१ ॥ (यथा, --
“वस्तिर्वातविकारान् पैत्तान् रेकः कफोद्भवान्
वमनम् ।
क्षौद्रं जयति वलासं सर्पिः पित्तं समीरणं
तैलम् ॥”
इति वाभटे उत्तरस्थाने ४० अध्याये ॥)
भेकः । इति त्रिकाण्डशेषः ॥

रेकणः, [स्] क्ली, (रिणक्तीति । रिच् + “रिचेर्धने

घित् किच्च ।” उणा० ४ । १९८ । इति असुन् ।
चात् प्रत्ययस्य नुट् । घित्वात् कुत्वम् ।) स्वर्णम् ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रेका, स्त्री, (रेक शङ्कायाम् + अच् । स्त्रियां

टाप् ।) सन्देहः । इति हेमचन्द्रः ॥

रेखा, स्त्री, (लिख्यते इति । लिख विलेखने +

“षिद्भिदादिभ्योऽड् ।” ३ । ३ । १०४ । इति
भिदादित्वात् अङ् । टाप् । रलयोरैक्यात् लस्य
रत्वम् ।) अल्पकम् । छद्म । आभोगः ।
उल्लेखः । इति विश्वः ॥ उल्लेखस्त्वत्र दण्डाकार-
लिपिविशेषः । दाँडी इति कसी इति च भाषा ।
यथा, --
“यावती यावती रेखा ग्रहाणामष्टवर्गके ।
तावतीं द्बिगुणीकृत्य अष्टाभिः परिशोधयेत् ॥
अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरबिन्दवः ।
यत्र रेखा न बिन्दुश्च तत् समं परिकीर्त्तितम् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
शरीरस्थरेखया शुभाशुभलक्षणं यथा, --
“ललाटे यस्य दृश्यन्ते तिस्रो रेखाः समा हि ताः ।
सुखी पुत्त्रसमायुक्तः स षष्टिं जीवते नरः ॥
चत्वारिंशच्च वर्षाणि द्बिरेखादर्शनान्नरः ।
विंशत्यब्दमेकरेख आकर्णान्ताः शतायुषः ॥
आकर्णान्तरिता रेखास्तिस्रश्च स्युः शतायुषः ।
सप्तत्या मूर्द्ध्नि रेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ॥
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यब्दायुरेव हि ।
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ॥
भिन्नाभिश्चैव रेस्वाभिरपमृत्युर्नरस्य हि ॥
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ।
धनपुत्त्रसमायुक्तः स जीवेत् शरदः शतम् ॥
तर्जत्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः ।
सम्प्राप्ता या भवेद्रुद्र स जीवेत् शरदः शतम् ॥
कुलरेखा तु प्रथमा अङ्गुष्ठादनुवर्त्तते ।
मध्यमायाः करे रेखा आयूरेखा अतः परम् ॥
कनिष्ठिकां समाश्रित्य आयूरेखां समादिशेत् ।
अच्छिन्ना वाविभक्ता वा स जीवेच्छरदः शतम् ॥
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् ।
शतं वर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता ।
षष्टिं वर्षायुषं कुर्य्यात् आयूरेखा तु मानवम् ॥”
इति गारुडे ६३ अध्यायः ॥ * ॥
अपिच ।
“घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ।
नृपतेः करतलगा मणिबन्धे समुत्थिता ॥
युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः ।
वज्राकारश्च धनिनां मत्स्यपुच्छनिभो बुधे ॥
पृष्ठ ४/१७६
शङ्खातपत्रशिविकागजपद्मोपमा नृपे ।
कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे ॥
दामाभाश्च गजाढ्यानां स्वस्तिकाभा नृपेश्वरे ।
चक्रासितोमरधनुःकुन्ताभा नृपतेः करे ॥
उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि ।
वापीदेवकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके ॥
अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च कारिकाः ।
प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ॥
शतायुषञ्च कुरुते छिन्नया तरुतो भयम् ।
निःस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥”
इति गारुडे ६६ अध्यायः ॥

रेखागणितः, पुं, (रेखाया गणितं प्रमाणस्वरू-

पादि यत्र ।) श्रीजयसिंहमहाराजपण्डितद्विज-
सम्राड्जगन्नाथकृतगणितग्रन्थविशेषः । तस्य
संक्षिप्तविवरणम् । यथा, --
“येनेष्टं वाजपेयाद्यैर्म्महादानानि षोडश ।
दत्तानि द्बिजवर्य्येभ्यो गोग्रामगजवाजिनः ॥
तस्य श्रीजयसिंहस्य तुष्ट्यै रचयति स्फुटम् ।
द्विजः सम्राड् जगन्नाथो रेखागणितमुत्त-
मम् ॥
अपूर्ब्बं विहितं शास्त्रं यत्र कोणाववोधनात् ।
क्षेत्रेषु जायते सम्यक् व्युत्पत्तिर्गणिते तथा ॥
शिल्पशास्त्रमिदं प्रोक्तं ब्रह्मणा विश्वकर्म्मणे ।
पारम्पर्य्यवशादेतदागतं धरणीतले ॥
तदुच्छिन्नं महाराजजयसिंहाज्ञया पुनः ।
प्रकाशितं मया सम्यक् गणकानन्दहेतवे ॥” * ॥
अथ रेखागणिता । अत्र ग्रन्थे पञ्चदशा-
ध्यायाः सन्ति । अष्टसप्तोत्तरचतुःशतम् शक-
लानि सन्ति । तत्र प्रथमाध्याये अष्टचत्वारिंश-
च्छकलानि । तत्रादौ परिभाषा । यः पदार्थः
दर्शनयोग्यः विभागानर्हः स बिन्दुर्वाच्यः । यः
पदार्थः दीर्घः विस्ताररहितः विभागार्हः स
रेखाशब्दवाच्यः । विस्तारदैघ्ययोर्यद्भिद्यते तद्ध-
रातलं तदेव क्षेत्रम् । तद्द्विविधं एकं जलवत् समं
द्बितीयं विषमम् । अथ रेखापि द्विविधा । एका
वक्रा अन्या सरला । अथ सरलरेखालक्षणम् ।
यस्यां न्यस्ता बिन्दवः अवलोकिताः सन्त एक-
बिन्दुनाच्छाद्यन्ते सा सरला अन्यथा कुटला ।
धरातलमपि समं विषमञ्च ज्ञेयम् । समं य
आवृणोति । यत् रेखाद्बयं समं समानान्तरं न
भवति तस्य यस्मिन् प्रदेशे बह्वन्तरं भवति
तद्दिशि वर्द्धितयो रेखयोरन्तरमुत्तरोत्तरं अधिक-
मेव भवति यत्राल्पमन्तरं भवति तद्दिशि
वर्द्धितयो रेखयोरन्तरमुत्तरोत्तरमल्पमेव भवति
यावद्रेखासंयोगं तदनन्तरमन्तरं वर्द्धिष्णु भवति ।
यत्र कोणशब्दः तत्र सरलरेखाकृत एव कोणो
ज्ञेयः । यत्र रेखाशब्दः तत्र सरलैव रेखा
ज्ञेया । यत्र भूमितलशब्दः तत्र जलसमीकृत-
मेव भूतलं ज्ञेयम् । इति रेखागणितस्य परि-
भाषा ॥

रेखाभूमिः, स्त्री, (रेखास्थिता भूमिः ।) लङ्का-

सुमेरुपर्व्वतयोर्म्मध्यसूत्रगतदेशः । यथा, --
“यल्लङ्कोज्जयिनीपुरोपरिकुरुक्षेत्रादिदेशान्
स्पृशन्
सूत्रं मेरुगतं बुधैर्न्निगदिता सा मध्यरेखा
भुवः ।
आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखो-
दयात्
स्यात्तस्मात् क्रियते तदन्तरभुवं खेटेष्वृणं स्वं
फलम् ॥”
इति सिद्धान्तशिरोमणिः ॥ * ॥
अन्यच्च । रेखोक्ता सूर्य्यसिद्धान्ते । यथा रेखा-
मधिकृत्य ।
“राक्षसालयदेवौकः शैलयोर्म्मध्यसूत्रगाः ।
रौहितकमवन्ती च तथा सन्निहितं सरः ॥”
अस्यार्थः । लङ्कासुमेरुपर्व्वतयोर्म्मध्यसूत्रगा
देशा रेखासंज्ञिताः । तान् देशानाह । राहि-
तकदेशोऽवन्तीदेशः सन्निहितं सरः कुरुक्षेत्र-
ञ्चेत्यथः । रेखायाः पूर्ब्बदेशे परदेशे च यथा-
संख्यं सूर्य्योदयकालात् परकालं पूर्ब्बकालञ्च
वारप्रवृत्तिः स्यादित्यर्थः । एतेनैतदुक्तं भवति
रेखासंज्ञकदेशस्थलोका यदा सूर्य्यं पश्यन्ति
तदैव सर्व्वदेशे वारप्रवृत्तिरित्यर्थः । तत्र रेखा
पूर्ब्बस्थाः सन्निहितत्वादादौ सूर्य्यं पश्यन्ति तद-
नन्तरञ्च रेखास्थाः । अतो रेखापूर्ब्बे सूर्य्यो-
दयात् परं वारः । तथा रेखास्थैः सूर्य्ये दृष्टे
सति पश्चात् रेखापरस्थाः पश्यन्ति अतो रेखा-
परदेशे सूर्य्योदयात् पूर्ब्बं वार इत्यथः । तत्र
कालपरिमाणमाह । रेखातो यावन्ति देशा-
न्तरयोजनानि तत्सम्मिताभिर्व्विघटीभिः पलैः
पादहीनाभिः चतुर्थभागहीनाभिर्व्वारप्रवृत्तिः
स्यादित्यर्थः । देशान्तरसाधनप्रकारस्तु सूर्य्य-
सिद्धान्ते उक्तः । अत्र तु संक्षेपेण किञ्चित्
कथ्यते । गौडे पञ्चदशाधिकशतयोजनानि ११५ ।
दक्षिणराढे गङ्गातीरे दशाधिकशतम् ११० ।
भैरवीतीरे विंशत्यधिकशतम् १२० । वङ्गे सुवर्ण-
ग्रामादौ चत्वारिंशदधिकशतम् १४० । वारा-
णस्यामष्टोत्तरशतम् १०८ देशान्तरम् । एव-
मन्यत्राप्यूह्यम् । तन्मतन्तु लोकसंगृहीतमिति
किन्तु सूर्य्यसिद्धान्ते अर्द्धरात्रावेव वारप्रवृत्ति-
रुक्ता । यथा, --
“वारप्रवृत्तिः प्राग्देशे क्षपार्द्धेऽत्यधिके भवेत् ।
तद्देशान्तरनाडीभिः पश्चादूने विनिर्द्दिशेत् ॥”
इति दीपिकाटीकायामर्थकौमुद्यां गोविन्दा-
नन्दः ॥

रेचकं, क्ली, (रेचयतीति । रिच् + णिच् + ण्वुल् ।)

कङ्कुष्टमृत्तिका । इति राजनिर्घण्टः ॥ (भेदके,
त्रि ॥)

रेचकः, पुं, (रेचयतीति । रिच् + णिच् + ण्वुल् ।)

यवक्षारः । इति त्रिकाण्डशेषः ॥ जयपाल-
वृक्षः । इति राजनिर्घण्टः ॥ क्रीडार्थजल-
निःक्षेपयन्त्रम् । पिच्कारी इति भाषा । यथा,
“सिच्यमानोऽच्युतस्ताभिर्म्महिषीभिः स्म
रेचकैः ।
प्रतिषिञ्चन् विचिक्रीडे यक्षीमिर्यक्षराडिव ॥”
इति श्रीभागवते । १० । ९० । ९ ॥
(ध्यातृनासिकया प्राणायामाङ्गमुच्यमानवायुः ।
यथा, भागवते । ३ । २८ । ९ ।
“प्राणस्य शीधयेन्मार्गं पूरकुम्भकरेचकैः ॥”
अस्यान्यद्विवरणं प्राणायामशब्दे द्रष्टव्यम् ॥)

रेच्यः, पुं, ध्यातृनासिकया प्राणायामाङ्गमुच्यमान-

वायुः । यथा, --
“पूरकः कुम्भको रेच्यंः प्राणायामस्त्रिलक्षणः ।
नासिकाकृष्ट उच्छ्वासो ध्यातुः पूरक उच्यते ।
कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः ॥”
इत्याह्निकाचारतत्त्वम् ॥
भेदके, त्रि ॥

रेचनं, (रिच् + ल्युट् ।) मलभेदनम् । तत्प-

र्य्यायः । प्रस्कन्दनम् २ विरेकः ३ विरेचनम् ४ ।
इति रत्नमाला ॥ रेकः ५ रेचना ६ । इति
शब्दरत्नावली ॥ (यथा, सुश्रुते । १ । ३ ।
“रसज्ञानं वमनार्थमध्यायो रेचनाय च ॥”
रेचनद्रव्याणि तु सुश्रुते । १ । ४४ । अध्यायतो
ज्ञेयानि ॥)

रेचनकः, पुं, (रेचयतीति । रिच् + णिच् + ल्युः ।

ततः स्वार्थे कन् ।) कम्पिल्लकः । इति राज-
निर्घण्टः ॥

रेचना, स्त्री, (रिच् + णिच् + युच् । टाप् ।)

काम्पिल्लः । इति शब्दरत्नावली ॥

रेचनी, स्त्री, (रिच्यतेऽनयेति । रिच् + ल्युट् +

ङीप्) काम्पिल्लः । इति शब्दरत्नावली ॥
कालाञ्जनी । दन्तीवृक्षः । इति राजनिर्घण्टः ॥
श्वेतत्रिवृता । इति मेदिनी ॥ (अस्याः पर्य्यायो
यथा, --
“श्वेता त्रिवृत्ता भण्डी स्यात् त्रिवृता त्रिपुटापि च ।
सर्व्वानुभूतिः सरला निशोत्रा रेचनीति च ॥”
इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥
वटपत्री । तत्पर्य्यायो यथा, --
“वटपत्री तु कथिता मोहिनी रेचनी बुधैः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

रेची, स्त्री, (रेचयतीति । रिच् + णिच् + अच् ।

गौरादित्वात् ङीष् ।) कम्पिल्लकः । अङ्कोठः ।
इति राजनिर्घण्टः ॥

रेज, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऋ, अरिरेजत् । ङ,
रेजते रिरेजे । इति दुर्गादासः ॥

रेट, ऋ ञ याचे । वाचि । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-द्विक०-सेट् ।) ऋ, अरिरेटत् ।
ञ, रेटति रेटते । याचो याचनम् । इति दुर्गा-
दासः ॥

रेणुः, पुं, स्त्री, (रिणातीति । री गतिरेषणयोः

+ “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ ।
इति णुः ।) धूलिः । इत्यमरः ॥ (यथाह
कश्चित् ।
“मानुषीकरणरेणुरस्ति ते
पादयोरिति कथा प्रत्ःइयसी ।
पृष्ठ ४/१७७
क्षालयामि तव पादपङ्कजं
नाथ ! दारुदृशदोस्तु का भिदा ॥”)

रेणुः, पुं, (री + णुः ।) पर्पटः । रेणुका । पांशुः ।

इति राजनिर्घण्टः ॥ (यथा, रघुः । ९ । २३ ।
“दिनकराभिमुखा रणरेणवो
रुरुधिरे रुधिरेण सुरद्विषाम् ॥”
विडङ्गः । तत्पर्य्यायो यथा, --
“जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतरु लम् ।
क्रिमिशत्रुः विडङ्गश्च गर्द्दभं तच्च केवलम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

रेणुका, स्त्री, (रेणुना कायतीति । कै + कः ।

टाप् ।) मरिचाकृतिसुगन्धिद्रव्यविशेषः । तत्-
पर्य्यायः । द्विजा २ हरेणुः ३ कौन्ती ४
कपिला ५ भस्मगन्धिनी ६ । इत्यमरः ॥ कान्ता ७
नन्दिनी ८ महिला ९ राजपुत्त्री १० हिमा ११
रेणुः १२ पाण्डुपुत्त्री १३ हरेणुका १४ सुपर्णी १५
शिशिरा १६ शान्ता १७ वृन्ता १८ क्वचित्
पुस्तके वृत्ता इति च पाठः । धर्म्मिणी १९
कपिलोमा २० हैमवती २१ पाण्डुपत्नी २२ ।
अस्या गुणाः । कटुत्वम् । शीतत्वम् । खर्ज्जू-
कण्डूति-तृष्णा-दाह-विषनाशित्वम् । मुखवैमल्य-
कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
अथ रेणुका मरीचसदृशी ।
“रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा ।
भम्मगन्धा पाण्डुपुत्त्री स्मृता कौन्ती हरेणुका ॥
रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः ।
पित्तला दीपनी मेध्या पाचनी गर्भपातिनी ।
वलास-वात-वैक्लव्य-तृट्-कण्डू-विष-दाह-नुत् ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“रेणुका कफवातघ्नी दीपनी पित्तला लघुः ।”
इति राजवल्लभः ॥ * ॥
(“हरेणू रेणुका कौन्ती ब्राह्मणी हेमगन्धिनी ॥”
इति वैद्यकरत्नमालाम् ॥)
परशुराममाता । तद्विवरणं यथा, --
मार्कण्डेय उवाच ।
“अथ काले व्यतीते तु जमदग्निर्म्महातपाः ।
विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥
भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् ।
सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान् ॥
रुषण्वन्तं सुषेणञ्च विश्वं विश्वावसुं तथा ।
पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥
कार्त्तवीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः ।
याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः ॥
भारावतारणार्थाय जातः परशुना सह ।
सहजः परशुस्तस्य तं जहाति कदापि न ॥
अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् ।
ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्म-
कृत् ॥
स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वतः ।
स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः ॥
एकदा तस्य जननी स्नानार्थं रेणुका गता ।
गङ्गातोये तथापश्यन्नाम्ना चित्ररथं नृपम् ॥
भार्य्याभिः सदृशीभिश्च जलक्रीडारतं शुभम् ।
सुमालिनं सुकान्तञ्च तरुणं चन्द्रसन्निभम् ॥
तथाविधं नृपं दृष्ट्वा संजातमदना भृशम् ।
रेणुका स्पृहयामास तस्मै राज्ञे च मैथुनम् ॥
स्पृहायुतायास्तस्यास्तु संक्लेदः समजायत ।
विचेतना तथा क्लिन्ना त्रस्ता सा स्वाश्रमं ययौ ॥
अबोधि जमदग्निस्तां रेणुकां विकृतां तथा ।
धिक् धिक् पापरतेत्येवं निनिन्द च समन्ततः ॥
ततः स्वतनयान् प्राह चतुरः प्रथमं मुनिः ।
रुषण्वत्प्रमुखान् सर्व्वान् एकैकं क्रमतो रुतम् ॥
छिन्ध्येनां पापनिरतां रेणुकां व्यभिचारिणीम् ।
ते तद्वचो नैव चक्रुर्मूढाश्चासन् जडा इव ॥
कुपितो जमदग्निस्तान् शशापेति विचेतनान् ।
भवध्वं यूयं नचिरात् जडा गोवद्बिगर्हिताः ॥
अथाजगाम चरमो जामदग्न्योऽतिवीर्य्यवान् ।
तञ्च रामं पिता प्राह पापिष्ठां छिन्धि मात-
रम् ॥
स भ्रातॄंश्च तथाभूतान् दृष्ट्वा ज्ञानविवर्ज्जि-
तान् ।
पित्रा शप्तान् महातेजाः प्रसूं परशुना-
च्छिनत् ॥
रामेण रेणुकां छिन्नां दृष्ट्वा चाक्रोधनोऽभवत् ।
जमदग्निः प्रसन्नः सन्निति राममुवाच ह ॥
प्रीतोऽस्मि पुत्त्र भद्रं ते यस्त्वया मद्वचः कृतम् ।
तस्मादिष्टवरान् कामान् त्वं वै वरय साम्प्रतम् ॥
स तु रामो वरान् वव्रे मातुरुत्थानमादितः ।
वधस्यास्मरणं तस्या भ्रातॄणां शापमोचनम् ॥
मातृहत्याव्यपनयं युद्धे सर्व्वत्र वै जयम् ।
आयुः कल्पान्तपर्य्यन्तं क्रमाद्वै नृपसत्तम ! ॥
सर्व्वान् वरान् स प्रददौ जमदग्निर्म्महातपाः ।
सुप्तोत्थितेव जननी रेणुकाप्यभवत्तदा ॥
वधं न चापि सस्मार सहजप्रकृतिं तथा ।
युद्धे जयं चिरायुष्ट्वं लेभे रामस्तदैव हि ॥
मातृहत्याव्यपोहाय पिता तं वाक्यमब्रवीत् ।
न पुत्त्र वरदानेन मातृहत्यापगच्छति ॥
तस्मात्तं ब्रह्मकुण्डाय गच्छ स्नातुञ्च तज्जले ।
तत्र स्नात्वा मुक्तपापो नचिरात् पुनरेष्यसि ।
जगद्धिताय पुत्त्र त्वं ब्रह्मकुण्डं व्रज द्रुतम् ॥
स तस्य वचनं श्रुत्वा रामः परशुधृक् तदा ।
उपदेशात् पितुर्यातो ब्रह्मकुण्डं वृषोदकम् ॥
तत्र स्नानं स विधिवत्कृत्वा धौतपरश्वधः ।
शरीरान्निःसृतां सम्यक् मातृहत्यां व्यलोकयत् ॥
जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तं वरम् ।
वीथिं परशुना कृत्वा ब्रह्मपुत्त्रमबाहयत् ॥
ब्रह्मकुण्डात् सुतः सोऽथ कासारे लोहिताह्वये ।
कैलासोपत्यकायास्तु न्यपतद्ब्रह्मणः सुतः ॥
तस्यापि सरसस्तीरं समुत्थाय महाबलः ।
कुठारेण दिशं पूर्ब्बामनयद्ब्रह्मणः सुतम् ॥
ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च ।
कामरूपान्तरं पीठमवाहयदमुं हरिः ॥
तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् ।
लौहित्यात् सरसो जातो लौहित्याख्यस्ततो-
ऽभवत् ॥
स कामरूपमखिलं पीठमाप्लाव्य वारिणा ।
गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥
प्रागेव दिव्ययमुनां संत्यक्त्वा ब्रह्मणः सुतः ।
पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥
चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः ।
स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥
चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः ।
लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥
इति ते कथितं राजन् यदर्थं मातरं पुरा ।
हन्ति धीरो जामदग्न्यो यस्माद्बा क्रूरकर्म्मकृत् ॥
इदन्तु महदाख्यानं यः शृणोति दिने दिने ।
स दीर्घायुः प्रमुदितो धनवानभिजायते ॥”
इति कालिकापुराणे ८५ अध्यायः ॥

रेणुकासुतः, पुं, (रेणुकायाः सुतः ।) परशुरामः ।

इति हेमचन्द्रः । ३ । ५१२ ॥ (यथा, महा-
भारते । ३ । ९९ । ४३ ।
“आर्चीकनन्दनो रामो भार्गवो रेणुकासुतः ॥”)

रेणुरुषितः, पुं, (रेणुना रुषितः ।) गर्द्दभः । इति

त्रिकाण्डशेषः ॥ धूलिम्रक्षिते, त्रि ॥

रेणुवासः, पुं, (रेणौ परागे वासो यस्य ।) भ्रमरः ।

इति त्रिकाण्डशेषः ॥

रेणुसारः, पुं, (रेणुरेव सारो यस्य ।) कर्पूरः ।

इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य कर्पूरशब्दे-
विज्ञयाः ॥)

रेणुसारकः, पुं, (रेणुसार एव । स्वार्थे कन् ।)

कर्पूरः । इति शब्दरत्नावली ॥

रेतः, [स्] क्ली, (रीयते क्षरतीति । री य ङ

क्षरणे + “सुरीभ्यां तुट् च ।” उणा० ४ । २०१ ।
इति असुन् तस्य तुट् च ।) शुक्रम् । (यथा, --
“स्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे ।
तस्मात् संयोगतः पुत्त्रो जायते गर्भसम्भवः ।
प्रथमेऽहनि रेतश्च संयोगात् कलनञ्च यत् ॥”
इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥
“मातापित्रोर्बीजदोषादशुभैश्चावृतात्मनः ।
गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः शिराः ॥
शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपर्हन्यते ।
तत्र सम्पूर्णसर्व्वाङ्गः स भवत्यपुमान् पुमान् ।
एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात् ॥”
इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥)
अप्सु रेतःपातनिषेधो यथा, --
“न वामहस्तेनोद्धृत्य पिबेद्बक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
पारदम् । इति मेदिनी । से, ३३ ॥
(जलम् । इति निघण्टुः । १ । १२ ॥ “वृंष्टि-
लक्षणानां अपां देवानां रेतस्त्वाद्रेत उच्यते ।
तथाचोपनिषत् । देवानां रेतो वर्षमिति ।”
इति तट्टीकायां देवराजयज्वा ॥ यथा, ऋग्वेदे ।
६ । ७० । २ ।
“अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥”)
पृष्ठ ४/१७८

रेतजा, स्त्री, (रेतमिव जायते इति । जन् + डः ।

टाप् । सर्व्वे सान्ता अदन्ताश्च इति न्यायात्
अत्राकारान्तरेतशब्दः ।) बालुका । इति
भावप्रकाशः ॥

रेतनं, क्ली, शुक्रम् । इति शब्दचन्द्रिका ॥

रेत्यं, क्ली, पित्तलम् । इत्यमरटिकायां नीलकण्ठः ॥

रेत्रं, क्ली, (रीयते क्षरतीति । री + बाहुलकात्

त्रः ।) रेतः । पीयूषम् । पटवासः । सूतकम् ।
इति मेदिनी ॥

रेप, ङ ऋ शब्दे । गमने । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-शब्दे अक०-गमने सक०-सेट् ।)
ङ, रेपते रिरेपे । ऋ, अरिरेपत् । इति दुर्गा-
दासः ॥

रेपः, त्रि, (रेप्यते निन्द्यते इति । रेप + घञ् ।)

निन्दितः । क्रूरः । कृपणः । इति मेदिनी ।
पे, १० ॥

रेफः, पुं, (रिफ्यते इति । रिफ + घञ् । यद्वा,

“रादिफन् ।” इत्यनेन वर्णस्वरूपार्थे रशब्दादि-
फन्प्रत्ययः । तथाच “रेफ इत्यौणादिकः ।”
इति कृत्सु ५ पादे दुर्गः ।) रवर्णः । (यथा, --
“परैर्गतो यः शिरसापि धार्य्यते
समागते सद्मनि याति नम्रताम् ।
गुणैः परेषां द्बिगुणत्वमीहते ।
रेफेण तुल्या प्रकृतिर्म्महात्मनाम् ॥”
इत्युद्भटः ॥)
रागः । इति शब्दरत्नावली ॥ (शब्दः । यथा,
भागवते । ८ । २० । २५ ।
“श्रियञ्च वक्षस्यरविन्दहस्तां
कण्ठे च सामानि समस्तरेफान् ॥”)

रेफः, त्रि, (रिफ + “अवद्यावमाधमार्वरेफाः कुत्-

सिते ।” उणा० ५ । ५४ । इति अप्रत्ययेन
निपातितः ।) कुत्सितः । इत्यमरः ॥

रेफाः, [स्] त्रि, (रिफतीति । रिफ् + असुन् ।)

क्रूरः । अधमः । दुष्टः । कृपणः । इति शब्द-
रत्नावली ॥

रेभ, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ङ, रेभते रिरेभे । ऋ,
अरिरेभत् । इति दुर्गादासः ॥

रेभणं, क्ली, (रेभ शब्दे + भावे ल्युट् ।) गवां

ध्वनिः । इति त्रिकाण्डशेषः ॥

रेरिहाणः, पुं, शिवः । असुरः । इति मेदिनी ।

णे, १०६ ॥ चौरः । इति शब्दरत्नावली ॥

रेव, ऋ ङ प्लुतौ व्रजे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) प्लुतिः प्लवेन
गमनम् । ऋ, अरिरेवत् । ङ, रेवते कपिः
उत्प्लुत्य गच्छतीत्यर्थः । इति दुर्गादासः ॥

रेवटं, क्ली, दक्षिणावर्त्तशङ्खम् । इत्यजयपालः ॥

रेवटः, पुं, (रवते इति । रेव + बाहुलकात्

अटच् ।) शूकरः । वेणुः । वातुलः । विषवैद्यः ।
इत्यजयपालः ॥

रेवतः, पुं, जम्बीरः । इति जटाधरः ॥ (यथा,

मुश्रुते । ४ । ५ ।
“पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुक-
चन्दनकाश्मर्य्यकषायं शर्करामधुमधुरं पाय-
येत् ॥”) आरग्वधवृक्षः । इति शब्दरत्नावली ॥
राजविशेषः । स तु रेवतीपिता । बलरामश्वशु-
रश्च । इति महाभारतम् ॥ (अयं हि आनर्त्तपुत्त्रः
शर्य्यातिपौत्त्रः । स खलु स्वपुत्त्र्या रेवत्या वरं
प्रष्टुकामस्तया सह ब्रह्मलोकं गतवान् आज्ञप्तश्च
ब्रह्मणा बलदेवाय कन्यां दत्तवान् । एतद्विवरणं
देवीभागते ७ स्कन्धे ७ । ८ अध्यायतो द्रष्ट-
व्यम् ॥)

रेवतकं, क्ली, (रेवत इव कायतीति । कै + कः ।)

पारेवतम् । इति राजनिर्घण्टः ॥

रेवतिः, स्त्री, कामदेवपत्नी । इति त्रिकाण्डशेषः ॥

रेवती, स्त्री, (रेवतस्यापत्यं स्त्री । रेवत + अण् ।

न वृद्धिः । ङीष् ।) बलदेवपत्नी । नक्षत्रभेदः ।
मातृकाभेदः । इति मेदिनी ॥ स्त्रीगवी । इत्य-
जयपालः ॥ दुर्गा । यथा,
“रेवा तु नर्म्मदा देवी नदी वा रवती मता ।
अतिखण्डनबन्धा वा लोके देवी प्रकीर्त्तिता ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
रेवतीनक्षत्रन्तु अश्विन्यादिसप्तविंशतिनक्षत्रान्त-
र्गतशेषनक्षत्रम् । तस्य रूपं मत्स्याकृति द्वात्रिं-
शत्तारात्मकम् । तस्याधिष्ठातृदेवता पूषाख्यः
सूर्य्यः । यथा, --
“दन्तसंख्यभवने झसाकृता-
वन्तभे लसदनन्तमध्यगे ।
कोमलाङ्गि मिथुनोदयात् प्रिये
कालखानलकलाः प्रियेऽचलन् ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातफलं यथा, --
“चारुशीलविभवो जितेन्द्रियः
सत्कुलः स्वभवनैकमानसः ।
मानवो ननु भवेन्महीपती
रेवती भवति यस्य जन्मभम् ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
बालग्रहविशेषः । तज्जुष्टस्य चिकित्सा यथा, --
“अश्वगन्धाजशृङ्गी च शारिवाथ पुनर्नवा ।
सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ॥”
अजशृङ्गी मेढाशृङ्गी । सहा सेवतीपुष्प-
जातिः ।
“तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसे तथा ।
पलङ्कषायां नलदे तथा गौरकदम्बके ॥”
सर्जरसः रालः । पलङ्कषा गुग्गुलुः । नलदं
लामज्जकमुशीरवत् पीतच्छवि । गौरकदम्बको
हारिद्रकः । हरदुया कदम्ब इति लोके ।
“धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च ।
काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबे-
च्छिशुः ॥”
अश्वकर्णः सांखु इति लोके ।
“कुलत्थाः शङ्खचूर्णञ्च प्रदेहः साखगन्धिकः ।
गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम् ।
सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः ॥”
यवफलो वंशाङ्कुरः ।
“युक्ताः सुमनसो लाजाः पयः शाल्योदनं दधि ।
वलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ॥”
गोतीर्थे गोष्ठे ।
“स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक् ॥
नानाशस्त्रधरा देवी चित्रमाल्यानुलेपना ।
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ॥
उपासते यां सततं देव्यो विविधभूषणाः ।
लम्बा कराला विनता तथैव बहुपुत्त्रिका ।
रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ॥”
इति भावप्रकाशः ॥ * ॥
बलदेवपत्न्या विवरणं यथा, --
“रेवस्य रैवतः पुत्त्रः ककुद्मान्नाम धार्म्मिकः ।
श्रेष्ठः पुत्त्रशतस्यासीत्तस्यां पुर्य्यां नृपोऽभवत् ॥
स कन्यासहितः प्रायाद्रैवतो ब्रह्मणोऽन्तिकम् ॥
न जरा क्षुत् पिपासा वा न मृत्युस्तत्र कर्हि-
चित् ।
ऋतुचक्रञ्च भवति ब्रह्मलोके द्बिजोत्तमाः ॥
रैवतस्य गतस्याथ सा पुरी राक्षसैर्हृता ।
तस्य पुत्त्रशतं यच्च त्यक्त्वा तामगमद्दिशः ॥
तस्य वंशे तु ये तत्र स्वर्याता इति विश्रुताः ।
क्षत्त्रिया ह्यभवन् विप्रा दिक्षु सर्व्वासु
धार्म्मिकाः ॥
गते बहुयुगे काले आजगामाथ रैवतः ।
मुहूर्त्तमेकं मत्वासौ ददर्श यादवैर्वृताम् ॥
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः ॥
गत्वा तु रैवतः सम्यग्बलभद्राय रेवतीम् ।
प्रादाद्गुरुतरां तान्तु बलदेवो हलेन वै ।
समानां लघुतां नीत्वा उवाह स प्रहर्षतः ॥
दत्त्वा जगाम शिखरं मेरोस्तपसि रैवतः ।
रेमे रामोऽपि धर्म्मात्मा रेवत्या सहितः सुखी ॥”
इति वह्निपुराणम् ॥ * ॥
(ब्रह्मणो वाक्येनैव इयं रेवतेन बलदेवाय
प्रदत्ता । एतद्बिवरणन्तु देवीभागवते ७ स्कन्धे
८ अध्याये द्रष्टव्यम् ॥) रैवतमनुमाता । तद्-
विवरणं यथा, --
मार्कण्डेय उवाच ।
“पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः ।
तस्योत्पत्तिं विस्तरञ्च शृणुष्व कथयामि ते ॥
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ।
तस्यापुत्त्रस्य पुत्त्रोऽभूत् रेवत्यन्ते महात्मनः ॥
स तस्य विधिवच्चक्रे जातकर्म्मादिकाः क्रियाः ।
तथोपनयनादींश्च स चाशीलोऽभवन्मुने ॥
यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः ।
दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः ॥
माता चास्य परामार्त्तिं कुष्ठरोगादिपीडिता ।
जगाम स पिता चास्य चिन्तयामास दुःखितः ॥
किमेतदिति सोऽप्यस्य पुत्त्रोऽत्यन्तसुदुर्म्मतिः ।
जग्राह भार्य्यामन्यस्य मुनिपुत्त्रस्य मन्दधीः ॥
ततो विषण्णो मनसा ऋतवागिदमुक्तवान् ।
अपुत्त्रता मनुष्याणां श्रेयसे न कुपुत्त्रता ॥
पृष्ठ ४/१७९
कुपुत्त्रो हृदयायासं सर्व्वदा कुरुते पितुः ।
मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः ॥
सुहृदां नोपकाराय पितॄणां नापि तृप्तये ।
पित्रोर्दुःखाय धिक् जन्म तस्य दुष्कृतकर्म्मणः ॥
धन्यास्ते तनया येषां सर्व्वलोकाभिसम्मताः ।
परोपकारिणः शान्ताः साधुकर्म्मण्यनुव्रताः ॥
अनिर्वृत्तं तथा मूर्खं परलोकपराङ्मुखम् ।
नरकाय न सद्गत्यै कुपुत्त्रालम्बि यन्मनः ॥
करोति सुहृदां दैन्यमहितानां तथा मुदम् ।
अकाले च जरां पित्रोः कुपुत्त्रः कुरुते हि वै ॥
मार्कण्डेय उवाच ।
एवं सोऽत्यन्तदुष्टस्य पुत्त्रस्य चरितैर्मुनिः ।
दह्यमानमनोवृत्तिर्वृद्धं गर्गमपृच्छत ॥
ऋषिरुवाच ।
सुव्रतेन पुरा वेदा गृहीता विधिवन्मया ।
समाप्य वेदान् विधिवत् कृतो दारपरिग्रहः ॥
सदारेण यथा कार्य्याः श्रौताः स्मार्त्तास्तथा
क्रियाः ।
नानुन्यूनाः कृताः काश्चिद्यावदद्य महामुने ॥
गर्भाधानविधानेन न काममनुरुध्यता ।
पुत्त्रार्थं जनितश्चायं पुन्नाम्नो विभ्यता मुने ॥
सोऽयं किमात्मदोषेण मम दोषेण वा मुने ।
अस्मद्दुःखवहो जातो दौःशील्याद्बन्धुशोकदः ॥
गर्ग उवाच ।
रेवत्यन्ते मुनिश्रेष्ठ जातोऽयं तनयस्तव ।
तेन दुःखाय ते काले दुष्टे यस्मादजायत ॥
न तेऽपचारो नैवास्य मातुर्नापि कुलस्य ते ।
तस्य दौःशील्यहेतुत्वं रेवत्यन्तमुपागतम् ॥
ऋतवागुवाच
यस्मान्ममैकपुत्त्रस्य रेवत्यन्तसमुद्भवम् ।
दौःशील्यमेतत् सा तस्मात् पततामाशु रेवती ॥
मार्कण्डेय उवाच ।
तेनैव व्याहृते शापे रेवत्यृक्षं पपात ह ।
पश्यतः सर्व्वलोकस्य विस्मयाविष्टचेतसः ॥
रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः ।
भासयामास सहसा वनकन्दरनिर्झरान् ॥
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।
अतीवरम्यः सर्व्वस्यां पृथिव्यां पृथिवीधरः ॥
तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनीसरः ।
ततो जज्ञे तदा कन्या रूपेणातीव शोभना ॥
रेवतोकान्तिसंभूतां तां दृष्ट्वा प्रमुचो मुनिः ।
तस्या नाम चकारेत्थं रेवतीति हि भागुरे ॥
पोषयामास चैवैनां स्वाश्रमाभ्याससम्भवाम् ।
प्रमुचः स महाभागस्तस्मिन्नेव महाचले ॥
तान्तु यौवनिनीं दृष्ट्वा कन्यकां रूपशालिनीम् ।
स मुनिश्चिन्तयामास कोऽस्या भर्त्ता भवेदिति ॥
एवं चिन्तयतः कालो जगाम सुमहात्मनः ।
न चाससाद सदृशं वरं तस्या महामुनिः ॥
ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः ।
विवेश वह्निशालां वै पृष्टस्तं प्राह हव्यभुक् ॥
महाबलो महावीर्य्यः प्रियवाक् धर्म्मवत्सलः ।
दुर्द्दमो नाम भविता भर्त्ता ह्यस्या महीपतिः ॥
मार्कण्डेय उवाच ।
अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने ।
तस्याश्रमपदं धीमान् दुर्द्दमः स नराधिपः ॥
प्रियव्रतान्वयभवो महाबलपराक्रमः ।
पुत्त्रो विक्रमशीलस्य कान्दिनीजठरोद्भवः ॥
स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः ।
अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान् ॥
राजोवाच ।
क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः ।
तं प्रणन्तुमिहेच्छामि तत्त्वं प्रब्रूहि शोभने ॥
मार्कण्डेय उवाच ।
अग्निशालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषि-
तम् ।
प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः ॥
स ददर्श महात्मानं राजानं दुर्द्दमं मुनिः ।
नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः ॥
तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गोतमम् ।
गोतमानीयतां शीघ्रमर्घोऽस्य जगतां पतेः ॥
एष तावदयं भूपश्चिरकालादुपागतः ।
जामाता च विशेषेण योग्योऽर्घोऽस्य मतं मम ॥
मार्कण्डेय उवाच ।
ततः स चिन्तयामास राजा जामातृकारणम् ।
विवेद न च तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥
तमासनगतं विप्र गृहीतार्घं महामुनिः ।
प्रसृतं प्राह राजेन्द्रमपि ते कुशलं पुरे ॥
कोषे बलेऽथ मित्रेषु भृत्यामात्येषु चेश्वर ।
तथात्मनि महाबाहो यत्र सर्व्वं प्रतिष्ठितम् ॥
पत्नी च ते कुशलिनी यत एवात्र तिष्ठति ।
पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव ॥
राजोवाच ।
त्वत्प्रसादादकुशलं न क्वचिन्मुनिसत्तम ।
जातकौतूहलश्चास्मि मम भार्य्यात्र का मुने ॥
ऋषिरुवाच ।
रेवती तु महाभागा त्रैलोक्ये सापि सुन्दरी ।
तव भार्य्या वरारोहा मानवेन्द्र न वेत्सि किम् ॥
राजोवाच ।
सुभद्रां शान्ततनयां कावेरीतनयां विभो ।
शूरात्मजां सुजाताञ्च कदम्बाञ्च वरूथजाम् ॥
विपाठां नन्दिनीञ्चैव वेद्मि भार्य्या गृहे हि याः ।
तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि का त्वियम् ॥
ऋषिरुवाच ।
प्रियेति साम्पतं येयं त्वयोक्ता वरवर्णिनी ।
किं विस्मृतं ते भूपाल श्लाघ्येयं गृहिणी तव ॥
राजोवाच ।
सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने ।
नात्र कोपं भवान् कर्त्तुमर्हत्यस्मासु याचितः ॥
ऋषिरुवाच ।
सत्यं ब्रवीषि भूपाल न भावस्तव दूषितः ।
व्याजहार भवानेवं वह्निना नृप नोदितः ॥
मया पृष्टो हुतवहः कोऽस्या भर्त्तेति पार्थिव ।
भविता तेन चाप्युक्तो भवानेवाद्य चागतः ॥
तद्गृह्यतां मया दत्ता कन्या तुभ्यं नराधिप ।
प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम् ॥
श्रीमार्कण्डेय उवाच ।
ततश्च सोऽभवन्मौनी तेनोक्तः पृथिवीपतिः ।
ऋषिस्तथोद्यतः कर्त्तुं तस्या वैवाहिकं विधिम् ॥
समुद्यतञ्च पितरं विवाहाय महामुने ।
उवाच कन्या सा किञ्चित् प्रश्रयावनतानना ॥
यदि मे प्रीतिमांस्तात प्रसादं कर्त्तुमिच्छसि ।
रेवत्यृक्षे विवाहं मे तत् करोतु प्रसादितः ॥
ऋषिरुवाच ।
रेवत्यृक्षं न वै भद्रे चन्द्रयोगे दिवि स्थितम् ।
अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि
ते ॥
कन्योवाच ।
तात तेन विना कालो विकलः प्रतिभाति मे ।
विवाहो विकले काले मद्विधायाः कथं भवेत् ॥
ऋषिरुवाच ।
ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ।
चकार कोपं क्रोधेन तेनर्क्षं तन्निपातितम् ॥
मया चास्मै प्रतिज्ञाता भार्य्येति मदिरेक्षणे ।
न चेच्छसि विवाहं त्वं संकटं नः समागतम् ॥
कन्योवाच ।
ऋतवाक् स मुनिस्तात किं मे कस्तप्तवांस्तपः ।
न त्वया समता तेन ब्रह्मबन्धोः सुतास्मि किम् ॥
ऋषिरुवाच ।
ब्रह्मबन्धोः सुता न त्वं बाले नैवातपस्विनः ।
सुता त्वं मम यो देवान् कर्त्तुमन्यान् समुत्सहे ॥
कन्योवाच ।
तपस्वी यदि मे तातस्तत् किमृक्षमिदं दिवि ।
समारोप्य विवाहो मे नात्रर्क्षे क्रियते पितः ॥
ऋषिरुवाच ।
एवं भवतु भद्रं ते भद्रे प्रीतिमती भव ।
आरोपयामीन्दुमार्गं रेवत्यृक्षं कृते तव ॥
श्रीमार्कण्डेय उवाच ।
ततस्तपःप्रभावेन रेवत्यृक्षं महामुनिः ।
यथापूर्ब्बं तथा चक्रे सोमयोगे द्बिजोत्तमः ॥
विहाहञ्चैव दुहितुर्विधिवन्मन्त्रयोगजम् ।
निष्पाद्य प्रीतिमान् भूयो जामातरमथाब्रवीत् ॥
ऋषिरुवाच ।
औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम् ।
दुर्लभ्यमपि दास्यामि ममाप्रतिहतं तपः ॥
राजोवाच
मनोः स्वायम्भुवस्याहमुत्पपन्नः सन्ततौ मुने ।
मन्वन्तराधिपं पुत्त्रं त्वत्प्रसादाद्वृणोम्यहम् ॥
मुनिरुवाच ।
भविष्यत्येष ते कामो मनुस्तत्तनयो महान् ।
सकलां भोक्ष्यते भूमिं धर्म्मविच्च भविष्यति ॥
श्रीमार्कण्डेय उवाच ।
तामादाय ततो भूपस्तदैव नगरं ययौ ।
तस्याञ्चाजायत सुतो रेवत्यां रैवतो मनुः ॥
समेतः सकलैधर्म्मैर्मानवैरपराजिंतः ।
विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥”
इति मार्कण्डेयपुराणे रैवतमन्वन्तरं समाप्तम् ॥
पृष्ठ ४/१८०
(गौः । इति निघण्टुटीकायां देवराजयज्वा ।
१ । १० । १६ ॥)

रेवतीभवः, पुं, (रेवत्यां भव उत्पत्तिर्यस्य ।)

शनैश्चरः । इति हेमचन्द्रः । २ । ३४ ॥ (रैवत-
मनुः । इति मार्कण्डेयपुराणम् ॥)

रेवतीरमणः, पुं, (रेवत्या रमणः पतिः ।) बल-

देवः । इत्यमरः । १ । १ । २४ ॥

रेवतीशः, पुं, (रेवत्या ईशः ।) बलरामः । इति

हेमचन्द्रः । २ । १३८ ॥

रेवन्तः, पुं, सूर्य्यपुत्त्रविशेषः । स च गुह्यकाधि-

पतिः । तस्योत्पत्तिर्यथा, --
“ततोऽसौ योगमास्थाय स्वां भार्य्यां वडवां रविः ।
ददश नियमस्थान्तामश्वरूपमथाकरोत् ॥
मैथुनायोपचक्राम सूर्य्योऽसौ च त्वरान्वितः ।
नेच्छन्ती तेन संयोगं परपुंसोऽभिशङ्कया ॥
संग्रहात् संमुखी तजो मुखनासिकया रवेः ।
देवौ यतः प्रजायेतामश्विनौ भिषजां वरौ ।
नासत्यौ द्बौ तृतीयश्च रेवन्तोऽश्वप्रवाहकः ॥”
इति वह्निपुराणम् ॥
अपि च ।
“ततोऽश्वरूपधृक् भानुरुत्तरानगमत् कुरून् ।
ददृशे तत्र संज्ञान्तु वडवारूपधारिणीम् ॥
सा च दृष्ट्वा तमायान्तं परपुंसोऽभिशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा ॥
ततश्च नासिकायोगे तयोस्तत्र समेतयोः ।
नासत्यदसौ तनयावश्ववक्त्राद्बिनिर्गतौ ॥
रेतसोऽन्ते च रेवन्तः खड्गी धन्वी तनुत्रधृक् ।
अश्वारूढः समुत्पन्नो वाणतूणसमन्वितः ॥
ततः स्वं रूपममलं दर्शयामास भानुमान् ।
तस्यै सा च समालोक्य स्वरूपं मुदमाददे ॥
स्वरूपधारिणीञ्चेमामानिनाय निजाश्रमम् ।
संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥
ततः पूर्ब्बसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्बितीयश्च यमः शापाद्धर्म्मदृष्टिरभूत् सुतः ॥
कृमयो मांसमादाय पादतस्ते महीतलम् ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥
धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं यान्ये चकार तिमिरापहः ॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ।
गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः ॥”
इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ॥ * ॥
सप्तदिनकर्त्तव्यनीराजनविधौ रेवन्तस्य राज-
कर्त्तृकपूजाविधिर्यथा, --
“सप्तमे हि तु रेवन्तं पूजयेत्तोरणान्तरे ।
सूर्य्यपुत्त्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् ॥
ज्वलभ्तं शुक्लवस्त्रेण केशान् वितत्य वाससा ।
कशां वामकरे बिभ्रद्दक्षिणे तु करे पुनः ।
खड्गं न्यस्य महातीक्ष्णं सितसैन्धवसंस्थितम् ॥
एवंविधन्तु रेवन्तं प्रतिमायां घटेऽपि वा ।
सूर्य्यपूजाविधानेन पूजयेत्तोरणान्तरे ॥”
इति कालिकापुराणे नीराजनविधिः ८६
अध्यायः ॥ * ॥ कोजागरपूर्णिमारात्रौ द्वारो-
पान्ते तस्य पूजाविधिर्यथा, --
“द्वारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः ।
यवाक्षतघृतोपेतैस्तण्डुलैश्च सुतर्पितः ॥
संपूजितव्यः पूर्णेन्दुः पयसा पायसेन च ।
स्कन्दः सभार्य्यो रुद्रश्च तथा नन्दीश्वरो मुनिः ॥
गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः ।
उरभ्रवद्भिर्व्वरुणो गजवद्भिर्व्विनायकः ।
पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ॥”
इति तिथ्यादितत्त्वम् ॥
(रेवन्तदर्शनेन लक्ष्मों प्रति नारायणस्य शाप-
वृत्तान्तं देवीभागवते ६ स्कन्धे १७ अध्याये
द्रष्टव्यम् ॥)

रेवन्तमनुसूः, स्त्री, (रेवन्तं मनुञ्च सूते इति ।

सू + क्विप् ।) संज्ञा । इति त्रिकाण्डशेषः ॥

रेवा, स्त्री, (रेवते उत्प्लुत्य गच्छतीति । रेव +

अच् । टाप् ।) नर्म्मदा नदी । इत्यमरः । १ ।
१० । ३२ ॥ (यथा, मेवदूते । २० ।
“रेवां द्रक्ष्यस्युपलविषमे बिन्ध्यपादे विशीर्णाम् ॥”)
अस्यां शिवलिङ्गोत्पत्तिर्यथा, --
“रेवया च कृतं पूर्ब्बं तपः शिवसुतुष्टिदम् ।
मम त्वत्सदृशः पुत्त्रो भूयादिति विधो तथा ॥
अहं कस्यापि न सुतः किं करिष्यामि चिन्त-
यन् ।
रेवायास्तु वरो देयस्त्ववश्यं मृगलाञ्छन ॥
निश्चित्यैवं तदा प्रोक्तं प्रसन्नेनान्तरात्मना ।
लिङ्गरूपेण ते देवि ! गजाननपुरस्कृतः ।
गर्भे तव वसिष्यामि पुत्त्रो भूत्वा शिवप्रिये ! ॥
मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा ।
शिवशक्तिविभेदेन चावामेकत्र संस्थितौ ॥
एवं दत्तवरा रेवा मत्सान्निध्यमिहागता ।
रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ॥”
इति वाराहे सोमेश्वरादिलिङ्गमहिमाध्यायः ॥
रतिः । सा च कामपत्नी । नीलीवृक्षः । इति
मेदिनी । वे, २१ ॥ दुर्गा । यथा, --
“रेवा तु नर्म्मदा देवी नदी वा रेवती मता ।
अतिखण्डनबन्धा वा लोके देवी प्रकीर्त्तिता ॥”
इति देवीपुराणे ४५ अध्यायः ॥

रेष, ऋ ङ ह्नेषायाम् । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) ह्रेषा धोटक-
कर्त्तृकशब्दः । ऋ, अरिरेषत् । ङ, रेषते रिरेषे-
ऽश्वः । इति दुर्गादासः ॥

रै, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-अनिट् ।) रेफादिः । रावति । इति
दुर्गादासः ॥

रैवतः, पुं, स्वर्णालुवृक्षः । (यथा, गारुडे २०८ अः ।

“चतुरङ्गुलसम्पाको व्याधिघाताभिसंज्ञकः ।
विद्यादारग्वधं राजवृक्षं रैवतर्संज्ञकम् ॥”)
शैलभेदः । (अत्रैवार्ज्जुनः सुभद्रां हृतवान् ।
यथा, महाभारते । २२१ । ६ -- ८ ।
“सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्यैव हि रैवतम् ।
दैवतानि च सर्व्वाणि ब्राह्मणान् स्वस्ति वाच्य च ॥
प्रदक्षिणं गिरेः कृत्वा प्रययौ द्बारकां प्रति ॥
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ।
सुभद्रां चारुसर्व्वाङ्गीं कामबाणप्रपीडितः ॥
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् ।
रथेन काञ्चनाङ्गेन प्रययौ स्वपुरं प्रति ॥”)
शङ्करः । इति मेदिनी । ते ४५ ॥ दैत्यविशेषः ।
इति धरणिः ॥ (स तु बालग्रहाणामन्यतमः ।
यथा, महाभारते । ३ । २२९ । २९ ।
“अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।
सोऽपि बालान् महाघोरो वाघते वै महा-
ग्रहः ॥”
रेवत्यां भवः । रेवती + अण् ।) वर्त्तमान-
कल्पीयः पञ्चमो मनुः । स तु रेवतीगर्भे दुर्दम-
राजपुत्त्रः । अस्मिन् मन्वन्तरे विकुण्ठोऽव-
तारः । विभुरिन्द्रः । भूतरयादयो देवाः ।
हिरण्यरोमादयः सप्तर्षयः । बलिबिन्धादय-
स्तन्मनुसुताः । इति श्रीभागवतम् ॥ तद्बिवरणं
यथा, --
“पञ्चमस्य मनोस्तद्वत् रैवतस्यान्तर शृणु ।
देववाहुः सुबाहुश्च पर्य्यण्यः सोमपो मुनिः ॥
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः ।
देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः ॥
अरुणस्तत्त्वदर्शी च वित्तवान् हव्यपः कपिः ।
मुक्तो निरुत्सुकः सत्वो निर्म्मोहोऽथ प्रकाशकः ।
धर्म्मवीर्य्यबलोपेता दशैते रैवतात्मजाः ॥
भृगुः सुधामा विरजः सहिष्णुर्नाद एव च ।
विवस्वानतिनामा च षष्टिसप्तर्षयोऽपरे ॥”
इति मात्स्ये ९ अध्यायः ॥ * ॥
मार्कण्डेयपुराणोक्तरैवतमनुविवरणन्तु रेवती-
शब्दे द्रष्टव्यम् ॥ (रुद्राणामन्यतमः । यथा,
मात्स्ये । ५ । २९ ।
“अजैकपादहिब्रघ्नो विरूपाक्षोऽथ रैवतः ॥”
मेघः । इति निघण्टुः । १ । १० ॥
“रेवत्यो गावः ‘पशवो वै रेवतीः ।’ इति श्रुतेः
‘तस्येदम् ।’ ४ । ३ । १२० । इत्यण् । मेघो हि
सर्व्वत्र वर्षति यवसं पानीयं च जनयित्वा
तदीयो भवति पर्व्वतस्तद्वत्तया । यद्वा, रयि-
रस्यास्तीति मतुपि ‘रयेर्म्मतौ बहुलम् ।’ ६ । १ ।
३४ । इति सम्प्रसारणम् । ‘संज्ञायाम् ।’ ८ ।
२ । ११ । इति वत्वम् । सर्व्वस्य धनस्येशितृ-
त्वात् रेवान् इन्द्रः मघवेति हि तस्य नाम
तदीयो रैवतः पूर्ब्बवत् तदीयत्वं द्रष्टव्यम् ॥”
इति तत्र देवराजयज्वा ॥ * ॥ सोमलता-
विशेषः । यथा, सुश्रुते । ४ । २९ ।
“अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ॥”
ऋषिविशेषः । यथा, महाभारते । २ । ५ । ११ ।
“नारदः सुमहातेजा ऋषिभिः सहितस्तदा ।
पारिजातेन राजेन्द्र रैवतेन च धीमता ॥”
घनवति, त्रि । यथा, ऋग्वेदे । ५ । ६० । ४ ।
“वरा इवेद्रैवतासो हिरण्यै-
रभिस्वधाभिस्तन्वः पिपिश्रे ।”
“वैरतासो धनवन्तः ।” इति तद्भाष्ये सायणः ॥)
पृष्ठ ४/१८१

रैवतकं, क्ली, (रेवतकमेव । स्वार्थे अण् ।) पारे

वतवृक्षः । इति राजनिर्घण्टः ॥ (पारेवत-
शब्देऽस्य गुणादिकं ज्ञेयम् ॥)

रैवतकः, पुं, (रैवत एव । स्वार्थे कन् ।) रैवत-

पर्व्वतः । तत्पर्य्यायः । उज्जयन्तः २ । इति
हेमचन्द्रः ॥ (यथा, महाभारते । १ । २२० । १ ।
“ततः कतिपयाहस्य तस्मिन् रैवतके गिरौ ।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम ! ॥”)
तस्य नामकारणं रेवतीशब्दे द्रष्टव्यम् ॥

रैवतिकः, त्रि, (रेवती + “रेवत्यादिभ्यष्ठक् ।”

४ । १ । १४६ । इति ठक् ।) रेवत्या अपत्यम् ।
इति मुग्धबोधव्याकरणम् ॥

रोकं, क्ली, (रोचतेऽत्रेति । रुच् + घञ् । न्यङ्क्ना-

दित्वात् कुत्वम् ।) छिद्रम् । इत्यमरः । १ । ८ । २ ॥
नौका । चलम् । इति मेदिनी ॥ के, ३२ ॥

रोकः, पुं, (रुच् + घञ् ।) क्रयभेदः । दीप्तिः ।

इति मेदिनी । के, ३१ ॥ (यथा, ऋग्वेदे । ३ ।
६ । ७ ।
“दिवश्चिदाते रुचयन्त रोकाः ।”
“ते रोकास्त्वदीया दीप्तयः ।” इति तद्भाष्ये
सायणः ॥”)

रोगः, पुं, (रुज्यतेऽनेनेति । रोजनमिति वा ।

रुज + घञ् । यद्वा, रुजतीति । रुज् + “पद-
रुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति कर्त्तरि
घञ् ।) कुष्ठौषधम् । इति मेदिनी । गे, २३ ॥
देहभङ्गकारकः । तत्पर्य्यायः । रुक् २ रुजा ३
उपतापः ४ व्याधिः ५ गदः ६ आमयः ७ ।
इत्यमरः । २ । ६ । ५१ ॥ अपाटवः ८ आमः ९
आतङ्कः १० भयः ११ उपघातः १२ भङ्गः १३
अर्त्तिः १४ तमोविकारः १५ ग्नानिः १६ क्षयः
१७ अनार्ज्जवः १८ मृत्युभृत्यः १९ । इति राज-
निर्घण्टः ॥ अमः २० । इति जटाधरः ॥ मान्द्यम्
२१ आकल्पम् २२ । इति हेमचन्द्रः ॥ * ॥
अस्य निदानादिर्यथा, --
धन्वन्तरिरुवाच ।
“सर्व्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः ।
आत्रेयाद्यैर्मुनिवरैर्यथापूर्व्वमुदीरितम् ॥
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्टमामयः ।
यक्ष्मातङ्कगदावाधाः शब्दाः पर्य्यायवादिनः ॥
निदानं पूर्व्वरूपाणि रूपाण्युपशयस्तथा ।
संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः ।
निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते ।
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ॥
लिङ्गमव्यक्तमल्पत्वात् व्याधीनां तद्यथातथम् ।
तदेव व्यक्ततां यातं रूपमित्यभिधीयते ॥
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ।
हेतुव्याधिविप्रर्य्यस्तं विपर्य्यस्तार्थकारिणाम् ॥
औषधान्नविहाराणां उपयोगं सुखावहम् ।
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ॥
विपरीतोऽनुपशयो व्याधिसात्म्याभिसंज्ञितः ।
यथा दुष्टेन दोषेण तथा चात्मविसर्पता ॥
निवृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः ।
संख्याविकल्पप्राधान्यबलकालविशेषतः ॥
स भिद्यते यथात्रैव संख्यन्तेऽष्टौ ज्वरा इति ।
दोषाणां समवेतानां विकल्पांशांशकल्पना ॥
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ।
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम् ॥
नक्तं दिनर्त्तुभुक्तांशैर्व्याधिकालो यथा मलम् ।
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते ।
सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः ॥
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ।
अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥
तिक्तोषणकषायाम्लरूक्षाप्रमितभोजनैः ।
धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥
क्रियाभियोगभीशोकचिन्ताव्यायाममैथुनैः ।
ग्रीष्माहोरात्रभुक्तान्ते प्रकुप्यति समीरणः ॥
पित्तं कट्वम्लतीक्ष्णोष्णकटुक्रोधविदाहिभिः ।
शरन्मध्याह्नरात्र्यर्द्धविदाहसमयेषु च ॥
स्वाद्वम्ललवणस्निग्धगुर्व्वभिष्यन्दिशीतलैः ।
आस्यास्वप्नसुखाजीवदिवास्वप्नादिवृंहणैः ॥
प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसन्तयोः ।
पूर्व्वाह्णे पूर्व्वरात्रे च श्लेष्मा वक्ष्यामि शङ्करान् ॥
मिश्रीभावात् समस्तानां सन्निपातस्तथा पुनः ।
सङ्कीर्णाजीर्णविषमविरुद्धाध्यशनादिभिः ॥
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः ।
पिण्याकमृत्यवसरापूतिशुष्ककृषामिषैः ॥
दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्त्ततः ।
ऋतोर्दुष्टात् पुरोवातात् विग्रहावेशविप्लवात् ॥
दुष्टामान्नैरतिश्लेष्मग्रहैर्जन्मर्क्षपीडनात् ।
मिथ्यायोगाच्च विविधात् पापानाञ्च निषेव-
वणात् ॥
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः ।
प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः ।
रसायनीं प्रपद्याशु दोषा देहे विकुर्व्वते ॥”
इति गारुडे सर्व्वरोगनिदानं १५१ अध्यायः ॥
रोगविशेषाणां औषधानि गारुडे १८९ । १९० ।
१९१ । १९२ । १९३ । १९४ । १९५ । १९६ ।
१९७ । १९८ । १९९ अध्यायेषु द्रष्टव्यानि ॥
सर्व्वरोगहरवैष्णवकवचञ्च तत्रैव २०० अध्याये
द्रष्टव्यम् ॥ * ॥ अपि च ।
“जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ।
शिवभक्तश्च योगी च स एव विकृताकृतिः ॥
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥
मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ।
पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः ॥
वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च ।
ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ॥
पाण्डुकः कामलः कुष्ठः शोथः प्लीहा च शूलकः ।
ज्वरातिसारग्रहणीकाशव्रणहलीमकाः ॥
मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारकः ।
आरिशो मेहजः कुब्जो गोदश्च गलगण्डकः ॥
भ्रमरी सन्निपातश्च विसूची दारुणी सति ।
एषां भेदप्रभेदेन चतुःषष्टिरुजः स्मृताः ॥
मृत्युकन्यासुताश्चेते जरा तस्याश्च कन्यका ।
जरा च भ्रातृभिः सार्द्धं शश्वद्भ्रमति भूतलम् ॥
एते चोपायवेत्तारं न गच्छन्ति च संयुतम् ।
पलायन्ते च तं दृष्ट्वा वैनतेयमिवोरगाः ॥ * ॥
चक्षुर्जलञ्च व्यायामः पादाधस्तैलसेवनम् ।
कर्णतैलं मूर्द्ध्नितैलं जराव्याधिविनाशकम् ॥
वसन्ते भ्रमणं वह्निसेवास्वप्नं करोति यः ।
बालाञ्च सेवते काले जरा तं नोपगच्छति ॥
खातशीतोदकस्नायी सेवते चन्दनद्रवम् ।
नोपयाति जरा तञ्च निदाघेऽनिलसेविनम् ॥
प्रावृडुष्णोदकस्नायी घनतोयं न सेवते ।
समये च समाहारी जरा तं नोपगच्छति ॥
शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् ।
खातस्नायी समाहारी जरा तं नोपतिष्ठति ॥
खातस्नायी च हेमन्ते काले वह्निं निषेवते ।
भुङ्क्ते नवान्नमुष्णञ्च जरा तं नोपगच्छति ॥
शिशिरेऽंशुकवह्निञ्च नवोष्णान्नञ्च सेवते ।
य एवोष्णोदकस्नायी जरा तं नोपगच्छति ॥
सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् ।
घृतञ्च सेवते यो हि जरा तं नोपगच्छति ॥
भुङ्क्ते सदन्न क्षुत्काले तृष्णायां पीयते जलम् ।
नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपग्च्छति ॥
दधि हैयङ्गवीनञ्च नवनीतं तथा शुभम् ।
नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति ॥
शुष्कमांसं स्त्रियो वृद्धा बालार्कं तरुणं दधि ।
संसेवन्तं जरा याति प्रहृष्टा भ्रातृभिः सह ॥
रात्रौ ये दधि सेवन्ते पुंश्चलीञ्च रजस्वलाम् ।
तमुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि ! ॥
रजस्वला च कुलटा चावीरा जारदूतिका ।
शूद्रयाजकपत्नी या ऋतुहीना च या सति ! ॥
यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः ।
तेन पापेन सार्द्धं सा जरा तमुपगच्छति ॥
पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् ।
पापं व्याधिजराबीजं विघ्नबीजञ्च निश्चितम् ॥
पापेन जायते व्याधिः पापेन जायते जरा ।
पापेन जायते दैन्यं दुःखं शोकं भयं कलिः ॥
तस्मात् पापं महावैरं दोषबीजममङ्गलम् ।
भारते सन्ततं सन्तो नाचरन्ति भयातुराः ॥
स्वधर्म्माचारयुक्तञ्च दीक्षितं हरिसेवकम् ।
गुरुदेवातिथीनाञ्च भक्तं सक्तं तपःसु च ॥
व्रतोपवासयुक्तञ्च सदा तीर्थनिषेविणम् ।
पापा द्रवन्ति तं दृष्ट्वा वैनतेयमिवोरगाः ॥
एतान् जरा न सेवेत व्याधिसङ्घश्च दुर्ज्जयः ।
सर्व्वं बोध्यमसमये काले सर्व्वं ग्रहीष्यति ॥ * ॥
ज्वरश्च सर्व्वरोगाणां जनकः कथितः सति ।
पित्तश्लेष्मसमीराश्च ज्वरस्य जनकास्त्रयः ॥
एते यथा सञ्चरन्ति स्वयं यान्ति च देहिषु ।
तमेव विविधोपायं साध्वि मत्तो निशामय ॥
क्षुधि जाज्वल्यमानायामाहाराभाव एव च ।
प्राणिनां जायते पित्तं चक्रे च मणिपूरके ॥
तालं विल्वफलं भुक्त्वा जलपानञ्च तत्क्षणम् ।
पृष्ठ ४/१८२
तदेव तु भवेत् पित्तं सद्यःप्राणहरं परम् ॥
तप्तोदकञ्च शरदि भाद्रे तिक्तं विशेषतः ।
दैवग्रस्तश्च यो भुङ्क्ते पित्तं तस्य प्रजायते ॥
सशर्करञ्च धन्याकं पिष्टं शीतोदकान्वितम् ।
चणकं सर्व्वगव्यञ्च दधितक्रविवर्ज्जितम् ॥
विल्वतालफलं पक्वं सर्व्वमक्षारमेव च ॥
आर्द्रकं मुद्गयूषञ्च तिलपिष्टं सशर्करम् ॥”
अक्षारस्थाने ऐक्षवमिति च पाठः ।
“पित्तक्षयकरं सद्यो वलपुष्टिप्रदं परम् ।
पित्तनाशञ्च तद्बीजमुक्तमन्यं निबोध मे ॥
भोजनानन्तरं स्नानं जलपानं विना तृषा ।
तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ॥
पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि ।
छायाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम् ॥
नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम् ।
तरुमुञ्जपक्वफलं सुपक्वकर्कटीफलम् ॥
खातस्नानञ्च तर्षासु मूलकं श्लेष्मकारणम् ।
ब्रह्मरन्ध्रे च तज्जन्म महद्वीर्य्यविनाशनम् ॥
वह्निस्वेदं भृष्टिभङ्गं पक्वतैलं विशोषकम् ।
भ्रमणं शुष्कभक्षञ्च शुष्कपक्वहरीतकी ॥
पिण्डारकमपक्वञ्च रम्भाफलमपक्वकम् ।
वेशवारसिन्धुवारमनाहारमपानकम् ॥
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ।
मरीचं पिप्पलीशुष्कमार्द्रकं जीरकं मधु ॥
द्रव्याण्येतानि गन्धर्व्वि सद्यः श्लेष्महराणि च ।
बलपुष्टिकराण्येव वायुबीजं निशामय ॥
भीजनानन्तरं सद्यो गमनं धावनं तथा ।
छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् ॥
वृद्धस्त्रीगमनञ्चैव मनःसन्ताप एव च ।
अतिरूक्षमनाहारं युद्धं कलहमेव च ॥
कटुवाक्यं भयं शोकः केवलं वायुकारणम् ।
आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम् ॥
पक्वरम्भाफलञ्चैव सबीजं सर्करोदकम् ।
नारिकेलोदकञ्चैव सद्यस्तक्रं सुमिष्टकम् ॥
माहिषं दधि मिष्टञ्च केवलं वा सशर्करम् ।
सद्यःपर्य्युषितान्नञ्च सौवीरं शीतलोदकम् ॥
पक्वतैलविशेषश्च तिलतैलञ्च केवलम् ।
लाङ्गलीतालखर्ज्जूरमुस्तमामलकीद्रवम् ॥
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् ।
स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानिलः ॥
एतत्ते कथितं वत्से ! सद्यो वातप्रणाशनम् । * ।
वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ॥
व्याधिसंघश्च कथितस्तन्त्राणि विविधानि च ।
तानि व्याधिप्रणाशाय कृताति सद्भिरेव च ॥
तन्त्राण्येतानि सर्व्वाणि व्याधिक्षयकराणि च ।
रसायनादयो येषु चोपायश्च सुदुर्ल्लभः ॥
न शक्तः कथितुं साध्वि याथार्थ्यं वत्सरेण च ।
तेषाञ्च सर्व्वतन्त्राणां कृतार्थानां विचक्षणैः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥
अथ व्याधिलक्षणम् । तत्र वाग्भटः ।
“रोगस्तु दोषवैषम्यं दोषशाम्यमरोगता ।
रोगा दुःखस्य दातारो ज्वरप्रमृतयो हि ते ॥
ते च स्वाभाविकाः केचित् केचिदागन्तवः
स्मृताः ।
मानसाः केचिदाख्याताः कथिताः केऽपि
कायिकाः ॥”
तत्र स्वाभाविकाः शरीरस्वभावादेव जाताः ।
क्षुत्पिपासासुषुप्साजागरामृत्युप्रभृतयः ॥ अथवा
स्वस्य भावादुत्पत्तेर्जाताः स्वाभाविकाः सहजा
इति यावत् । ते च जन्मान्धादयः । आग-
न्तवोऽभिघातादिजनिताः । अथवा जन्मोत्तर-
भाविनः । मानसाः कामक्रोधलोभमोहभया-
भिमानदैन्यपैशुन्यविषादेर्षासूयामात्सर्य्यप्रभृ-
तयः । अथवा उन्मादापस्मारमूर्च्छाभ्रमतमः-
सन्न्यासप्रभृतयः । कायिकाः पाण्डुरोगप्रभृतयः ॥
“कर्म्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे ।
कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ॥”
तत्र कर्म्मजा व्याधयः । यत् प्राक्तनं दुष्कर्म्म-
प्रबलं व्याधिरूपं केवलं भोगनाश्यं प्रायश्चित्त-
नाश्यं वा ततो जाताः न तु दुष्टवातादिदोषेण
जनिताः । तथा ।
“यथाशास्त्रन्तु निर्णीता यथाव्याधि चिकित्-
सिताः ।
न शमं यान्ति ये रोगास्ते ज्ञेयाः कर्म्मजा बुधैः ॥”
दोषजाः मिथ्याहारविहारप्रकुपितवातपित्त-
कफजाः ॥ * ॥ ननु मिथ्याहारविहारिणामपि
प्राक्तनसुकृतेन नैरुज्यं दृश्यत एव ततो दोषजे-
ष्वपि प्राक्तनकर्म्मैव कारणं तत् कथं दोषजा
इति । उच्यते । दोषजेष्वपि वस्तुत आदिकारणं
दुष्कर्म्म वर्त्तत एव किन्तु तत्र मिथ्याहार-
विहारभूषिता दोषा हेतवो दृश्यत इति दोषजा
इत्युच्यत इति समाधिः ॥ * ॥ कर्म्मदोषोद्भवाः ।
“स्वल्पदोषो गरीयांसस्ते ज्ञेयाः कर्म्मदोषजाः ।”
अत्र कारणं दुष्कर्म्मप्रबलं यतो दोषाल्पत्वेऽपि
व्याधेर्गरीयस्त्वं तत्कर्म्मक्षयादेव क्षीणं भवति ।
दोषास्तु स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्त
एवेति । दोषाणां कारणन्तु मन्यत इति कर्म्म-
दोषोद्भवाः ।
“कर्म्मक्षयात् कर्म्मकृता दोषजाः स्वस्वभेषजैः ।
कर्म्मदोषोद्भवा यान्ति कर्म्मदोषक्षयात् क्षयम् ॥”
दोषजाः स्वस्वभेषजैरिति दोषजेष्वादिकारणं
दुष्कर्म्म तद्भेषजार्थद्रव्यक्षयादिजनितदुःखभोगेन
कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःखभो-
गेन च क्षयं याति । शेषादृष्टहेतवो दोषास्ते
स्वस्वभेषजैः क्षयं यान्तीत्यर्थः ।
“साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः
स्मृताः ।
सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते ॥”
याप्यलक्षणमाह ।
“यापनीयन्तु तं विद्यात् क्रियां धारयते हि तम् ।
क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति ॥
प्राप्ता क्रिया धारयति सुखिनं प्राप्यमातुरम् ।
प्रप्रतिष्यदिवागारं स्तम्भो यत्नेन योजितः ॥
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यातां तथा ।
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥”
अक्रियावतां चिकित्सारहितानाम् ॥ * ॥
अथोपद्रवलक्षणम् ।
“रोगारम्भकदोषस्य प्रकोपादुपजायते ।
योऽन्यो विकारः स बुधैरुपद्रव इहोदितः ॥”
अथारिष्टस्य लक्षणमाह ।
“रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते ।
तल्लक्षणमरिष्टं स्याद्रिष्टञ्चापि तदुच्यते ॥”
अथ रोगस्य चिकित्सालक्षणमाह ।
“या क्रिया व्याधिहरणी सा चिकित्सा निग-
द्यते ।
दोषधातुमलानां या साम्यकृत् सैव रोगहृत् ॥”
क्रियात्र कर्म्म । व्याधिर्ह्नियतेऽनयेति व्याधि-
हरणी । करणाधिकरणयोश्चेति सूत्रेण करणार्थे
ल्युट् । तथा च ।
“याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः ।
सा चिकित्सा विकाराणां कर्म्म तद्भिषजां
मतम् ॥
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च ।
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥”
क्रियात्र चिकित्सा । तथा चामरसिंहः ।
“आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ।
उपायः कर्म्म चेष्टा च चिकित्सा च नव क्रियाः ॥”
इति ॥ * ॥
अथ चिकित्साविध्युपदेशः ।
“जातमात्रश्चिकित्सः स्यान्नोपेक्ष्योऽल्पतया गदः ।
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ ॥
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म्म भिषक् पश्चात् ज्ञानपूर्ब्बं समाचरेत् ॥”
अयमर्थः । भिषक् आदौ रोगं परीक्षेत विचा-
रयेत् । ततोऽनन्तरं औषधं विचारयेत् । ततः
पश्चात् रोगौषधविचारानन्तरं ज्ञानपूर्ब्बं साव-
धानो न तु अवज्ञया कर्म्म चिकित्सामौषध-
दानादिरूपं समाचरेदित्यर्थः ॥ * ॥ रोगाज्ञाने
चिकित्साकरणे दोषमाह ।
“यस्तु रोगमविज्ञाय कर्म्माण्यारभते भिषक् ।
अपौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया ॥”
यदृच्छया स्वेरितया सिद्धिर्भवति नापि भवती-
त्यर्थः । अन्यच्च ।
“औषधं केवलं कर्त्तुं यो जानाति न चामयम् ।
वैद्यकर्म्म स चेत् कुय्याद्वधमर्हति राजतः ॥” * ॥
रोगज्ञाने भेषजाज्ञाने दोषमाह ।
“यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः ।
तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्न्नाविकं
विना ॥”
नाविकं कर्णधारं विना यथा नौः सङ्कटे पतति
तथा रोगीत्यर्थः । अन्यच्च ।
“यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक् ।
स मुह्यत्यातुरं प्राप्य भीरुः शस्त्रीव चाहवम् ॥”
रोगौषधयोर्ज्ञाने गुणमाह ।
“यस्तु रोगविशेषज्ञः सर्व्वभैषज्यकोविदः ।
देशकालविभागज्ञस्तस्य सिद्धिर्न संशयः ॥
पृष्ठ ४/१८३
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः ।
भेषजानां विधानेऽथ ततः कुर्य्याच्चिकित्सितम् ॥”
चिकित्सितमित्यत्र भावे क्तः । इति भाव-
प्रकाशे पूर्ब्बखण्डः ॥ * ॥ अथ येन रोगाणां
ज्ञानं स्यात्तत्तदाह ।
“हेतुस्तदनु संप्राप्तिः पूर्ब्बरूपञ्च लक्षणम् ।
तथैवोपशयः पञ्च रोगविज्ञानहेतवः ॥”
तत्र हेतोर्लक्षणमाह
“यत्तु न स्याद्बिना येन तस्य तद्धेतुरुच्यते ।
शास्त्रे संव्यवहाराय तत्पर्य्यायान् प्रवक्ष्महे ॥
निदानं कारणं हेतुर्न्निमित्तञ्च निबन्धनम् ।
मूलमायतनं तत्तु प्रत्ययोऽपि निगद्यते ॥”
तत्र हेतुर्व्याधीनां ज्ञानाय हेतुर्यथा । वर्षा-
रूक्षश्रमहिमानशनातिमैथुनशोकचिन्ताभ्रया-
दयो वातप्रकोपहेतवो वातजान् व्याधीन् बोध-
यन्ति । शरत्कट्वम्लोष्णतीक्ष्णक्रोधतृषाक्षुधाभि-
घातादयः पित्तप्रकोपहेतवः पित्तजान् व्याधीन्
बोधयन्ति । वसन्तमधुरस्निग्धशीतादयः कफ-
प्रकोपहेतवः कफजान् व्याधीन् बोधयन्ति ॥ * ॥
अथ संप्राप्तेर्लक्षणमाह
“यथा दुष्टेन दोषेण यथा चानुविसर्पता ।
उत्पत्तिर्यामयस्यासौ संप्राप्तिर्ज्जातिरागतिः ॥”
यथा दुष्टेन दोषेण यथा कारणभेदेन दुष्टेन
दोषेण । यथा चानुविसर्पता अनेकधा दोषाणां
विसर्पणमूर्द्ध्वाधस्तिर्य्यगादिगतिभेदेन । तथा च
विसर्पता आमयस्य या उत्पत्तिः असौ
संप्राप्तिः । शास्त्रे व्यवहाराय संप्राप्तेः पर्य्याया-
वाह जातिरागतिरिति । संप्राप्तेरौपाधिक-
भेदानाह ।
“संख्याविकल्पप्राधान्यबलकालविशेषतः ।
सा भिद्यते यथात्रेव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥”
संख्यादिरूपा ये विशेषास्तेभ्यः सा संप्राप्ति-
र्भिद्यते भेदवती क्रियते इत्यर्थः । तत्र संख्यां
विवृणोति । यथा ज्वरोऽष्टधा अतीसारः षड्-
विध इत्यादि । विकल्पं विवृणोति । दोषाणां
समवेतानां विकल्पोऽंशांशकल्पना । सम-
वेतानां समुदितानां दोषाणां अंशांशकल्पना
हीनमध्याधिकभेदैर्भागकल्पना विकल्पः ॥ * ॥
प्राधान्यं विवृणोति ।
“स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादि-
शेत् ।
व्याधेः स्वातन्त्र्येण प्राधान्यं पारतन्त्र्येणाप्राधा-
न्यञ्च वदेदित्यर्थः । यथा स्वतन्त्रस्य ज्वरस्य
प्राधान्यं ज्वराधीनानां श्वासादीनामप्राधा-
न्यम् ॥ * ॥ बलं विवृणोति ।
“हेत्वादिकार्त्स्न्यावयवैर्ब्बलाबलविशेषणम् ।”
अत्रापि व्याधेरित्यनुवर्त्तते । हेत्वादेः हेतुपूर्ब्ब-
रूपाणां कार्त्स्न्येन साकल्येन । अवयवैः एक-
देशेन । व्याधेर्ब्बलाबलयोर्व्विशेषणं विशेष-
बोधः ॥ * ॥ कालं विवृणोति ।
“नक्तं दिनर्त्तुभुक्तांशैर्व्याधिकालो यथाबलम् ।”
नक्तमत्राव्ययं रात्रिवाचकम् । एतेनैतदुक्तं
यस्मिन्नक्तादेरंशे यस्य दोषस्य प्रकोप उक्तोऽस्ति
सोऽंशस्तद्दोषजस्य व्याधेः काल इत्यर्थः ।
नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन ।
“ते व्यापिगोऽपि हृन्नाभ्योरधोमध्योर्द्ध्वसंश्रयाः ।
वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात् ॥”
इति ॥
ते वातपित्तकफाः । ऋतुषु वातादिकोपो यथा,
“वर्षासु शिशिरे वायुः पित्तं शरदि उष्मके ।
वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्त्तवी ॥” * ॥
संप्राप्तिर्व्याधीनां ज्ञानाय हेतुर्यथा । मिथ्या-
हारविहारकुपितवाताद्यामाशयगमनरसदूषण-
कोष्ठाग्निर्व्वहिर्निरसनरूपं ज्वरोत्पत्तिप्रकारं
बोधयति तथा व्याधीनां संख्यादोषांशांश-
कल्पनाप्राधान्यबलकालांश्च बोधयति । तेषु
ज्ञानेषु चिकित्साविशेषः स्यात् ॥ * ॥ अथ
पूर्ब्बरूपस्य लक्षणमाह ।
“पूर्व्वरूपन्तु तद्येन विद्याद्भाविनमामयम् ।
सामान्यञ्च विशिष्टञ्च द्विविधं तदुदाहृतम् ॥
सामान्यं तत्र दोषाणां विशेषैरनधिष्ठितम् ।
विशिष्टमीषद्ब्यक्तं स्यात् विशेषैश्च समन्वितम् ॥”
दोषाणां विशेषाः जृम्भातिशयनेत्रदाहाग्नि-
मान्द्यादयः । तत्र पूर्ब्बरूपं व्याधीनां ज्ञानाय
हेतुर्यथा । श्रमादयो भाविनं ज्वरं बोधयन्ति ।
अथ च त एव श्रमादयोऽतिशयितजृम्भायुक्ता
भाविनं वातज्वरं नेत्रदाहयुक्ता भाविनं पित्त-
ज्वरं वह्निमान्द्ययुक्ता भाविनं श्लेष्मज्वरं बोध-
यन्ति ॥ * ॥ अथ लक्षणस्य लक्षणमाह ।
“पूर्ब्बरूपं विशिष्टं यद्व्यक्तं तल्लक्षणं स्मृतम् ।
संस्थानं लिङ्गचिह्ने च व्यञ्जनं रूपमाकृतिः ॥”
विशिष्टं पूर्ब्बरूपं ईषद्व्यक्तं रूपं तदेव सम्य-
ग्व्यक्तं लक्षणं स्मृतम् । तत्र शास्त्रे व्यवहाराय
पर्य्यायानाह संस्थानमित्यादि । लक्षणं व्याधे-
र्ज्ञानाय हेतुर्यथा । स्वेदावरोधः सन्तापः
सर्व्वाङ्गग्रहणञ्च युगपदेतल्लक्षणं ज्वर बोध-
यति ॥ * ॥ अथोपशयस्यं लक्षणमाह ।
“औषधान्नविहाराणामुपयोगं सुखावहम् ।
नृणामुपशयं विद्यात् स हि सात्म्यमिति स्मृतः ॥”
तत्र वातस्योपशयमाह ।
“मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा-
गुरुरुचिकरवस्तिस्वेदसंमद्दनानि ।
दहनजलदशेषाभ्यङ्गसन्तर्पणानि
प्रकुपितपवमानं शान्तमेतानि कुर्य्युः ॥”
अथ पित्तस्योपशयमाह ।
“तिक्तस्वादुकषायशीतपवनच्छायानिशावीजन-
ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्प-
र्शनम् ।
सर्पिः क्षीरविंरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं
नयेत् ॥”
अथ कफस्योपशयमाह ।
“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमात्युष्णशिरोविरेकवमनं स्वेदोपवासादिकम् ।
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनं
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं हरेत् ॥”
जलक्रीडा कथं कफं हरति तदाह । जल-
क्रीडाजनितशैत्येनावरुद्धदेहोष्मा पङ्कलिप्त-
पाकाग्निरिवोग्रो भूत्वा कफं शोषयति इति
समाधिः ॥ * ॥ उपशयो व्याधेर्ज्ञानाय हेतुर्यदुक्तं
चरकेण । गूढलिङ्गं सङ्कीर्णलक्षणञ्च व्याधिमुप-
शयानुपशयाभ्यां परीक्षेतेति । तथा च सुश्रुते ।
“अभ्यङ्गस्वेदनस्नेहैर्विकारो वातिको न यः ।
शाम्येत्तत्र तु विज्ञेयं रक्तमात्रास्ति दूषितम् ॥
सर्व्वेषामेव रोगानां निदानं कुपिता मलाः ।
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥”
सर्व्वेषां रोगानां निदानं सन्निकृष्टं कारणम् ।
कुपिताः स्वहेतुदुष्टाः । मला वातपित्तकफा
एवेत्यन्वयः । तथा च वाग्भटः । दोषा एव हि
सर्व्वेषां रोगाणामेककारणमिति । नत्वागन्तुज-
व्याधिषु व्यभिचारः स्यात् । तन्न तत्राप्युत्पत्त्य-
नन्तरं दोषप्रकोपस्यावश्यं भावित्वात् । उत्पन्न-
द्रव्येषु गुणयोगस्येव । इति भावप्रकाशः ॥ * ॥
पापजरोगा यथा । शातातपीयकर्म्मविपाके ।
“कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा ।
मूत्रकृच्छ्राश्मरीकाशा अतिसारभगन्दरौ ॥
दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् ।
इत्येवमादयो रोगा महापापोद्भवाः स्मृताः ।
जलोदरयकृत्प्लीहशूलरोगव्रणानि च ।
श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः ।
रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥
दण्डावतानकश्चित्रवपुःकम्पविचर्च्चिकाः ।
वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ॥”
तथा ।
“अर्शआद्या नृणां रोगा अतिपापाद्भवन्ति हि ।
अन्ये च बहुधा रोगा जायन्ते रोगसङ्कराः ।
उच्यन्ते हि निदानानि प्रायश्चित्तानि च
क्रमात् ॥”
सर्व्वरोगनाशकदानं यथा । हेमाद्रिधृतदान-
खण्डे भगवद्वाक्यम् ।
“सुवर्णदानं सर्व्वेषां रोगाणां नाशकारणम् ।
तस्मात् सर्व्वप्रयत्नेन कर्त्तव्यं कमलोद्भव ॥”
इति मलमासतत्त्वम् ॥ * ॥
अथारोग्यस्नानदिनम् । तत्र तिथयो रिक्ताः
प्रशस्ताः । दशमीप्रतिपद्द्वितीयात्रयोदशी-
पञ्चमीभिन्ना मध्यमाः । तत्र नक्षत्राणि । स्वाती-
श्रवणाधनिष्ठाशतभिषाज्येष्ठाहस्तापुष्यपूर्ब्बा-
षाढापूर्ब्बफल्गुनीपूर्ब्बभाद्रपन्मघाभरणीमृग-
शिरांसि । तत्र वाराः क्रूराः । तत्र योगो व्यती-
पातः । अशोभनश्चन्द्रः । लग्नापेक्षया केन्द्रेषु
पापग्रहः । इति ज्योतिस्तत्त्वम् ॥ अपि च ।
“चन्द्राशुद्धौ व्यतीपाते भौमार्कशनिवासरे ।
व्रणमुक्तो व्याधिमुक्तः कृशः स्नानं समाचरेत् ॥
पूर्व्वात्रयमघाश्लेषा भरणी कृत्तिका तथा ।
आर्द्रायाञ्च तिथौ रिक्ते चारोग्यस्नानमाचरेत् ॥”
इति ज्योतिःसारसंग्रहः ॥
पृष्ठ ४/१८४

रोगघ्नं, क्ली, (रोगं हन्तीति । हन + टक् ।)

औषधम् । इति वैद्यकम् ॥ रोगनाशके, त्रि ॥
(स्त्रियां ङीप् । यथा, सुश्रुते । १ । ४४ ।
“त्रिफला सर्व्वरोगघ्नी त्रिभागघृतमूर्च्छिता ॥”)

रोगभूः स्त्री, (रोगाणां भूः स्थानं व्याधिमन्दिर-

त्वात् ।) शरीरम् । इति शब्दचन्द्रिका ॥

रोगराजः, पुं, (रोगाणां राजा । टच् ।) राज-

यक्ष्मा । इति राजनिर्घण्टः ॥ (यथा, --
“इति व्याधिसमूहस्य रोगराजस्य हेतुजम् ।
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः ॥”
इति चरके चिकित्सास्थाने ८ अध्यायः ॥)

रोगलक्षणं, क्ली, (रोगाणां लक्षणम् ।) निदानम् ।

इति राजनिर्घण्टः ॥

रोगशान्तकः, पुं, (रोगान् शान्तयतीति ।

शान्ति + ण्वुल् ।) वैद्यः । इति शब्दचन्द्रिका ॥

रोगशिला, स्त्री, (रोगाय रोगनिवृत्तये शिला ।)

मनःशिला । इति राजनिर्घण्टः ॥ (विवरण-
मस्या मनःशिलाशब्दे विज्ञेयम् ॥)

रोगशिल्पी, [न्] पुं, (रोगे शिल्पीव ।) वृक्ष-

विशेषः । इति जटाधरः ॥ शरालु इति
भाषा ॥

रोगश्रेष्ठः, पुं, (रोगेषु श्रेष्ठः ।) ज्वरः । इति

राजनिर्घण्टः

रोगहं, क्ली, (रोगान् हन्तीति । हन् + डः ।)

औषधम् । इति शब्दचन्द्रिका ॥

रोगहरद्रव्यं, क्ली, (रोगहरं रोगनाशकं द्रव्यम् ।)

रोगनाशकवस्तु । यथा, --
धन्वन्तरिरुवाच ।
“द्रव्याणि मधुरादीनि वक्ष्ये रोगहराण्यहम् ।
शालिषष्टिकगोधूमक्षीरञ्चैव तथा मधु ॥
मज्जाशृङ्गाटकयवकशेर्व्वारुकगोक्षुरम् ।
गम्भारी पौष्करं बीजं द्राक्षा खर्ज्जूरकं वला ॥
नारिकेलेक्ष्वात्मगुप्ता विदारी च पियालकम् ।
मधुकं तालकुष्माण्डं मुख्योऽयं मधुरो गणः ॥
मूर्च्छादाहप्रशमनः षडिन्द्रियप्रसादनः ।
कृमिकृत् कफकृत् वृष्य एकोऽत्यर्थं निषेवितः ॥
श्वासकाशास्यमाधुर्य्यस्वरघातार्व्वुदानि च ।
गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ * ॥
दाडिमामलकाम्रञ्च कपित्थकरमर्द्दकौ ।
मातुलुङ्गाम्रातकञ्च वदरं तित्तिरीफलम् ॥
दधितक्रं काञ्जिकञ्च लकुचं चाम्लवेतसम् ।
अम्ला दन्तशठायुक्तो जारणः पाचनो रसः ॥
क्लेदनो वातकृत् वृष्यो विदाही चानुलोमनः ।
अम्लोऽत्यर्थं सेव्यमानः कुर्य्याद्वे दन्तहर्षकम् ॥
शरीरस्य च शैथिल्यस्वरकुण्ठनकृद्भवेत् ।
छिन्नभिन्नव्रणादीनि पाचयत्यग्निभावतः ॥ * ॥
लवणादियवक्षारः सर्ज्जकादिश्च लावणः ।
शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥
मागरोधी मार्दवकृत् स एकः परिषेवितः ।
गात्रकण्डूकोठशोफवैवर्ण्यं जनयेद्रसः ।
रक्तवातं रक्तपित्तं पुंस्त्वेन्द्रियरु जादिकम् ॥ * ॥
व्योषशिग्रुं मूलकञ्च देवदारु च कुष्ठकम् ॥
लवणं जम्बुजफलं मुस्ता गुग्गुलुलाङ्गली ।
कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत् ॥
स्थौल्यालस्यकृमिहरः शुक्रमेदोविरोधनः ।
एकोऽत्यर्थं सेव्यमानो भ्रमदाहादिकृद्भवेत् ॥ * ॥
कृतमालः करीराणि हरिद्रेन्द्रयवास्तथा ।
स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी ॥
गुडूची च द्रवन्ती च त्रिवृन्मण्डूकपर्ण्यपि ।
कारवेल्लकवार्त्ताकुकरवीरकवासकाः ॥
रोहिणी शङ्खपुष्पी च कर्कोटो वैजयन्तिका ।
जाती वरुणकं निम्बो ज्योतिष्मती पुनर्न्नवा ॥
तिक्तो रसश्छेदनः स्याद्रोचनो दीपनस्तथा ।
शोधनो जरतृष्णाघ्नो मूर्च्छाकण्डूतिकादिजित् ॥
विण्मूत्रक्लेदसंशोषे अत्यर्थं स च सेवितः ।
मन्यास्तम्भक्षेपकार्त्तिशिरःशूलव्रणादिहृत् ॥ * ॥
त्रिफलाशल्लकीजम्बु आम्राम्रातवटादिकम् ।
तिन्दुकं वकुलं शाकं निष्पावं मुद्गचिल्लिका ॥”
निष्पावस्थाने पालङ्क्या इति क्वचित् पाठः ।
“कषायो ग्राहको रोपी स्तम्भनः क्लेदशोषणः ।
एकोऽत्यर्थं सेव्यमानो हृदयादथ पीडकृत् ॥
मुखशोषज्वराध्वानमन्यास्तम्भादिकारकः । * ।
हरिद्रा कुष्ठलवणमेषशृङ्गीवलाद्बयम् ॥
कच्छपी शल्लकी पन्नो पुनर्न्नवा शतावरी ।
अग्निमन्थो ब्रह्मदण्डी स्वदंष्ट्रैरण्डके तथा ॥
यवकोलकुलत्थादि कर्षासीदसमूलकम् ।
पृथक् समस्तो वातान्तो बंहुपित्तहरस्तथा ॥
शतावरी विदारी च वालकोशीरचन्दनम् ।
दूर्व्वा वटः पिप्पली च वदरी शल्लकी तथा ॥
कदली चोत्पलं पद्ममुडुम्बरपटोलकम् । * ।
अथ श्लेष्महरो वर्गो हरिद्रा गुडकुष्ठकम् ॥
शतपुष्पी च जाती च व्योषारग्वधनाकुली । * ।
सर्पिस्तैलवसामज्जा स्नेहेषु प्रवरं घृतम् ॥
तथाधीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् ।
केवलं पैत्तिके सर्पिर्व्वातिके लवणान्वितम् ॥
देयं बहुकफे वापि व्योषक्षारसमन्वितम् ।
ग्रन्थीनाडीक्रमिश्लेष्ममेदोमारुतरोगिषु ॥ * ॥
तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु ।
वातातपास्वभावातिव्यायामक्षीणधातुषु ॥
रूक्षे क्लेशक्षयात्यग्निवातावृतपथेषु च ।
तथा दग्धा हलभ्रष्टा योनिकर्म्मा शिरोरुजि ॥
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ।
जघन्यस्य पलार्द्धेन स्नेहक्वाथौषधेषु च ॥ * ॥
जलमुष्णं घृते देयं पृथक् तैले न शस्यते ।
स्नेहे पीते तु तृष्णायां पिबे दुष्णोदकं नरः ॥
वातानुलोमदीप्ताग्निवर्च्चास्निग्धसमं मतम् ।
रूक्षस्य स्नेहणं कार्य्यमतिस्निग्धस्य रूक्षणम् ॥
श्यामाककोरदूषान्नतक्रपिण्याकषष्टिभिः ।
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते ॥
न स्वेदयेदतिस्थूलरूक्षदुर्ब्बलमूर्च्छितान् ॥”
इति गारुडे योगसारे १७७ अध्यायः ॥ * ॥
धन्वन्तरिरुवाच ।
“घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् ।
शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला ॥
अभया गुडूची चैव अट्टरूषकवाकुची ।
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
कण्टकार्य्या रसप्रस्थः क्षीरप्रस्थसमन्वितः ।
एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ * ॥
त्रिफलाचित्रकवलानिर्गुण्डीनिम्बवासकाः ।
पुनर्नवा गुडूची च बृहती च शतावरी ॥
एतैर्घृतं यथालाभं सर्व्वरोगविमर्द्दनम् । * ।
वलाशतकषाये तु तैलस्यार्द्धाढकं पचेत् ॥
कल्कैर्म्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ।
सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेशरैः ॥
गन्धाश्वजीवनीयैश्च जीराढकसमाश्रितम् ।
एतन्मृद्वग्निना पक्वं स्थापयेद्रजते शुभे ॥
सर्व्ववातविकारांस्तु सर्व्वधात्वन्तराश्रयान् ।
तैलमेतत् प्रशमयेद्बलाख्यं राजवल्लभम् ॥ * ॥
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ।
शतपुष्पा देवदारु मांसी शैलेयकं वला ॥
चन्दनं तगरं कुष्ठं माला चांशुमती तथा ।
एतैः कर्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत् ॥
कुब्जवामनपङ्गूनां वधिरव्यङ्गकुष्ठिनाम् ।
वायुना भग्नगात्राणां ये च सीदन्ति मैथुने ॥
जराजर्ज्जरगात्राणां चाध्मानमुखशोषिणाम् ।
त्वग्गताश्चापि ये वाताः शिरास्नायुगताश्च ये ॥
स वस्तिर्नाशयत्याशु तैश्चैव स्याद्दशाङ्गकः ।
नारायणमिदं तैलं विष्णुनोक्तं रुगर्द्दनम् ॥ * ॥
पृथक् तैलं घृतं कुर्य्यात् समस्तैरौषधैः पृथक् ।
शतावर्य्या गुडूच्या वा चित्रकै रोचनायुतः ॥
निर्गण्ड्या वा प्रसारण्या कण्टकार्य्या रसा-
दिभिः ।
वर्षावानलया वापि वासकेन फलत्रिकैः ॥
ब्राह्म्या चैरण्डकेनापि भृङ्गराजेन मुण्डिना ।
मूषल्या दशमूलेन खदिरेण वटादिभिः ॥
वटिका मोदको वापि चूर्णं स्यात् सर्व्वगोग-
नुत् ।
घृतेन मधुना वापि युक्तं खण्डगुडादिभिः ।
लवणैः कटुकैर्युक्तं यथाभागञ्च रोगनुत् ॥
चित्रकर्कारुत्रिवृतामलघ्नहयमारकम् ।
स्वधा च वाला गणिका सप्तपर्णसुवर्च्चिकाम् ॥
ज्योतिष्मतीञ्च संभृज्य तैलं धीरो विपाचयेत् ।
एतन्निष्यन्दनं तैलं भृशं दद्यात् भगन्दरे ॥
शोधनं रोचनञ्चैव सर्व्ववर्णकरं परम् ।
चित्रकाद्यं महातैलं सर्व्वरोगप्रभञ्जनम् ॥
अजमोदः ससिन्दूरो हरितालनिशाद्वयम् ।
क्षारद्बयं फेनयुतमार्द्रकं सरलोद्भवम् ॥
इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः ।”
कन्दलैः स्थाने स्यन्दनैः इति च पाठः ।
“एमिः सर्षपजं तैलमजामूत्रैश्च योजितम् ।
मृद्वग्निना पचेदेतत् अकक्षीरेण संयुतम् ॥
अजमोदादिकं तैलं गण्डमालां व्यपोहति ।
विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत् ॥
रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ।
अजमोदादिकं तैलं महावीर्य्यञ्च रोगहृत् ॥”
इति गारुडे १७८ अध्यायः ॥
पृष्ठ ४/१८५

रोगहारी, [न्] पुं, (रोगं हरति तच्छीलः ।

हृ + णिनिः ।) वैद्यः । इत्यमरः । २ । ६ । ५७ ॥
रोगनाशके, त्रि ॥

रोगितरुः, पुं, (रोगिणां शोकनाशकस्तरुः ।)

अशोकवृक्षः । इति राजनिर्घण्टः ॥

रोगिवल्लभं, क्ली, (रोगिणां वल्लभं प्रियम् ।)

औषधम् । इति शब्दचन्द्रिका ॥ रोगिप्रिये, त्रि ॥

रोगी, [न्] त्रि, (रोगोऽस्यास्तीति । रोग +

इनिः ।) रोगयुक्तः । तत्पर्य्यायः । व्याधितः २
विकृतः ३ ग्लानः ४ म्लानः ५ मन्दः ६ आतुरः ७
अभ्यान्तः ८ अभ्यमितः ९ रुग्नः १० सामयः ११
अपटुः १२ । इति राजनिर्घण्टः ॥ आम-
यावी १३ ग्लास्नुः १४ । इत्यमरः ॥ * ॥ अथ
चिकित्सार्थं रोगिणः परीक्षा । तत्र वाग्-
भटः ।
“दर्शनस्पर्शनप्रश्नैः परीक्षेदथ रोगिणम् ।
आयुरादि दृशा स्पर्शाच्छीतादेः प्रश्नतोऽप-
रम् ॥”
आयुरादि । आदिशब्दात् साध्यत्वासाध्य-
त्वादि । दृशा दर्शनेन । अत्र सम्पदादिभ्य-
श्चेति भावे क्विप् । स्पर्शात् शीतादेः । शीतोष्ण-
मृदुकठिनत्वादिना परीक्षणञ्च । प्रश्नतः ।
उदरलाघवगौरवतृषाबुभुक्षाबलाबलादिना ॥
“मिथ्या दृष्टा विकारा हि दुराख्यातास्तथैव
च ।
तथा दुष्परिपृष्टाश्च मोहयेयुश्चिकित्सकान् ॥”
तत्र दर्शनं नेत्रजिह्वामूत्रादेः कर्त्तव्यम् ॥ * ॥
तत्र नेत्रपरीक्षा यथा, --
“नेत्रं स्यात् पवनाद्रूक्षं धूम्रवर्णं तथारुणम् ।
कोटरान्तःप्रविष्टञ्च तथास्तञ्च विलोकनम् ॥
हरिद्राखण्डवर्णञ्च रक्तंवा हरितं तथा ।
दीपद्वेषि सदाहञ्च नेत्रं स्यात् पित्तकोपतः ॥
चक्षुर्व्वलाशबाहुल्यात् स्निग्धं स्यात् सलिल-
प्लुतम् ।
तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम् ॥
नेत्रं द्बिदोषबाहुल्यात् स्याद्दोषद्वयलक्षणम् ।
त्रिदोषलिङ्कं सेवेत तन्मारयति रोगिणम् ॥
त्रिदोषदूषित नेत्रमन्तर्म्मग्नं भृशं भवेत् ।
त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि ॥” *
अथ जिह्वापरीक्षा ।
“शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् ।
रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला
कफात् ।
परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके ।
सैव दोषद्वयाधिक्ये दोषद्बितयलक्षणा ॥”
अथ मूत्रपरीक्षा ।
“वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः ।
रक्तमेव भवेद्रक्ताद्धवलं फेनिलं कफात् ॥”
अथ शरीरस्य उष्णत्वादिज्ञानार्थं स्पर्शनं
कार्य्यम् । तत्र नाडीपरीक्षामाह ।
“पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु ।
अङ्गुष्ठमूलगा नाडी परीक्ष्येत भिषग्वरैः ॥
अङ्गुलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत् ।
तच्चेष्टया सुखं दुःखं जानीयात् कुशलोऽखि-
लम् ॥
सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः ।
व्यायामश्रान्तदेहस्य सम्यक् नाडी न बुध्यते ॥
वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्ज्जनीतले ।
पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे ॥
तर्ज्जनीमध्यमामध्ये वातपित्तेऽधिके स्फुटा ।
अनामिकायां तर्ज्जन्यां व्यक्ता वातकफे भवेत् ॥
मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके ।
अङ्गुलित्रितयेऽपि स्यात् प्रव्यक्ता सन्निपातिनः ॥
वाताद्बक्रगतिर्न्नाडी पित्तादुत्प्लुत्य गामिनी ।
कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता ॥
वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः ।
वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिके ततः ॥
उत्प्लुत्य मन्दं चलति नाडी पित्तकफेऽधिके ।
कामात् क्रोधात् वेगवहा क्षीणा चिन्ताभया-
प्लुता ॥
स्थित्वा स्थित्वा चलेद्या सा हन्ति स्थानच्युता
तथा ।
अतिक्षीणा च शीता च प्राणान् हन्ति न
संशयः ॥
ज्वरकोपेन धमनी सोष्णा वेगवती भवेत् ।
मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता ॥
चपला क्षुधितस्य स्यात् तृप्तस्य भवति स्थिरा ।
सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती मता ॥”
इति भावप्रकाशः ॥
(लक्षणान्तरादिकमाह ।
“रोगो यस्यास्ति रोगी स स चिकित्स्यस्तु
यादृशः ।
यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्य-
ताम् ॥”
तत्र चिकित्स्यः ।
“निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा ।
चिकित्स्यो भिषजां रोगी वैद्यभक्तो जिते-
न्द्रियः ॥”
सत्त्वं व्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेन
युक्तः । चक्षुषा चक्षुरुपलक्षितेन । ततोऽन्ये-
नापीन्द्रियेण चिकित्स्यः रोगान् मोचयितव्यः ।
अन्यच्च ।
“आयुष्मान् सत्त्ववान् साध्यो द्रव्यवान् मित्र-
वानपि ।
चिकित्स्यो भिषजा रोगी वैद्यवाक्यकृदा-
स्तिकः ॥”
आयुर्व्वेदोऽस्तीति मतिर्यस्य स आस्तिकः ॥
अथाचिकित्स्यः ।
“चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च ।
शोकाकुलो मुमूर्षुश्च विहीनः करणैश्च यः ॥
वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः ।
भिषजामविधेयाः स्युर्नोपक्रम्या भिषग्विधाः ॥
एतानुपाचरन् वैद्यो बहून् दोषानवाप्नुयात् ॥”
चण्डोऽत्यन्तक्रोधशीलः । साहसिकः अविचार्य्य-
कारी । भीरुर्भयशीलः । कृतघ्नो वैद्यकृतोप-
कारलोपकः । व्यग्रो व्याकुलः । विहीनः कर-
णैश्च यः निजेन्द्रियशक्तिरहितः । वैरी न
चिकित्स्यः कदाचिद्रोगोद्रेके अपवादभयात् ।
वैद्यविदग्धो वैद्यधूर्त्तः । तथा च सुश्रुतः ।
“स न सिद्ध्यति वैद्यस्तु गृहे यस्य न पूज्यते ।”
शङ्कितो वैद्यविश्वासरहितः । भिषजामविधेयाः ॥
वैद्यवचनाविधायिनः । भिषग्विधा वैद्यतुल्याः ।
एते नोपक्रम्याः न चिकित्स्याः । अथ दूतस्य
लक्षणम् ।
“यश्चिकित्सकमानेतुं याति दूतः स कथ्यते ।
स च यादृक् समुचितस्तादृगत्र निगद्यते ॥
दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः ।
सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥
सजातयः सुचेष्टाश्च सजीवदिशिसङ्गताः ।
भिषजं समये प्राप्ता रोगिणः सुखहेतवे ॥”
सजातयः रोगिसमानजातयः ।
“यस्यां प्राणमरुद्बाति सा नाडी जीव-
संज्ञिता ॥”
अथ दूतस्य यात्रायां शकुनविचारः ।
“वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते ।
न शुभं सौम्य शकुनं प्रदीप्तन्तु सुखावहम् ॥”
प्रदीप्तमग्निं दूतो रोगी रिक्तहस्तो वैद्यं न
पश्येत् । तथा च ।
“रिक्तहस्तो न पश्येत्तु राजानं भिषर्जगुरुम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रोग्यं, त्रि, (रोगाय हितमिति । रोग + यत् ।)

अपथ्यम् । अहितम् । इति शब्दचन्द्रिका ॥
रोगसम्बन्धिनि च ॥

रोचकः, पुं, (रोचयतीति । रुच् + णिच् +

ण्वुल् ।) क्षुधा । तत्पर्य्यायः । बुभुक्षा २
अशना ३ जिघत्सा ४ रुचिः ५ । इति हेम-
चन्द्रः । ३ । ५७ ॥ कदली । इति शब्दरत्ना-
वली ॥ राजपलाण्डुः । अवदंशः । इति राज-
निर्घण्टः ॥ ग्रन्थिपर्णभेदः । भण्डिउर इति
नेपालदेशे ख्यातः । तत्पर्य्यायः । निशाचरः २
धनहरः ३ कितवः ४ गणहासकः ५ । अस्य
गुणाः । मधुरत्वम् । तिक्तत्वम् । कटुत्वम् ।
पाके कटुत्वम् । लघुत्वम् । तीक्ष्णत्वम् । हृद्य-
त्वम् । हिमत्वम् । कुष्ठकण्डूकफानिलरक्षोऽश्री
स्वेदमेदोऽस्रज्वरगन्धविषव्रणनाशित्वञ्च । इति
भावप्रकाशः ॥ (काचकूप्यादिकारकः । यथा,
रामायणे । २ । ८३ । १३ ।
“मायूरकाः क्राकचिका वेधका रोचका-
स्तथा ॥”
“रोचकाः काचकुप्यादिकर्त्तारः इति कतकः ।”
इति तट्टीका ॥) रुचिकारके, त्रि ॥ (यथा,
सुश्रुते । १ । ४६ । मांसवर्गे ।
“संग्राही रोचको बल्यस्तेषामेणो ज्वरापहः ॥”)

रोचनः, पुं, (रोचयतीति । रोचि + नन्द्यादित्वात्

ल्युः ।) कूटशाल्मलिः । इत्यमरः ॥ (तस्य
पर्य्यायो यथा, --
पृष्ठ ४/१८६
“कुत्सितः शाल्मलिः प्रोक्तो रोचनः कूट-
शाल्मलिः ॥”
इति भावप्रकाशे । १ । १ ॥
काम्पिल्लः । तत्पर्य्यायो यथा, --
“काम्पिल्लः कर्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि
च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
श्वेतशिग्रुः । पलाण्डुः । आरग्वधः । करञ्जः ।
अङ्कोठः । दाडिमः । इति राजनिर्घण्टः ॥
(देवयोनिविशेषः । यथा, हरिवंशे । १६६ । ७५ ।
“कुम्भाण्डः कुम्भमूर्द्धा च रोचनो वैकृतोग्रहः ॥”
दक्षिणापुत्त्राणामन्यतमः । स च स्वायम्भुवमन्व-
न्तरे देवविशेषः । इति भागवतम् । ४ । १ । ७ ॥
स्वारोचिषमन्वन्तरे इन्द्रः । इति च तत्रैव । ८ । १ ।
२० ॥ भारतवर्षान्तर्गतपर्व्वतविशेषः । यथा,
मार्कण्डेये । ५७ । १३ ।
“तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥”)
त्रि, रोचकः । इति मेदिनी । ने, ११६ ॥ (यथा,
सुश्रुते । १ । ४६ । शाकवर्गे ।
“वृष्योष्णं रोचनं हृद्यं सस्नेहं लघु दीपनम् ॥”
दीप्तिशाली । यथा, हरिवंशे । १२९ । ३५ ।
“अन्तश्चरं रोचनं चारुशाखं
महाबलं धर्म्मनेतारमीड्यम् ।
सहस्रनेत्रं शतवर्म्माणमुग्रं
महादेवं विश्वसृजं नमस्ये ॥”
शोभमानः । यथा, भट्टिः । ६ । ७३ ।
“भृङ्गालिकोकिलक्रुङ्भिर्वाशनैः पश्य लक्ष्मण ।
रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् ॥”
अनुरागकरः । यथा, भागवते । १ । १० । ११ ।
“सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥”)

रोचनकः, पुं, (रोचयतीति । रोचि + ल्युः । ततः

कन्) जम्बीरः । इति राजनिर्घण्टः ॥ (गुणा-
दयोऽस्य जम्बीरशब्दे ज्ञातव्याः ॥)

रोचनफलः, पुं, (रोचनं रुचिकरं फलमस्य ।)

बीजपूरकः ॥ इति राजनिर्घण्टः ॥

रोचनफला, स्त्री, (रोचनं रोचकं फलमस्याः ।)

चिर्भिटा । इति राजनिर्घण्टः ॥

रोचना, स्त्री, (रोचते या । रुच् + “बहुलमन्य-

त्रापि ।” उणा० २ । ७८ । इति युच् । टाप् ।)
रक्तकह्लारम् । गोपित्तम् । गोरोचना इति
ख्यातम् । (यथा, मनुः । ८ । २३४ ।
“कर्णौ चर्म्म च बालांश्च वस्तिं स्नायुञ्च रोच-
नाम् ।
पशुषु स्वामिनां दद्यात् मृतेष्वङानि दर्शयेत् ॥”)
वरयोषित् । इति मेदिनी । ने, ११८ ॥ (वसु-
देवपत्नी । यथा, भागवते । ९ । २४ । ४५ ।
“पौरवी रोहिणी भद्रा मदिरा रोचना इला ।
देवकी प्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥”)

रोचनिका, स्त्री, (रोचनैव । स्वार्थे कन् ।

टापि अत इत्वम् ।) वंशरोचना । इति राज-
निर्घण्टः ॥ शुण्डारोचनी । इति रत्नमाला ॥

रोचनी, स्त्री, (रोचते इति । रुच् + कृत्यल्युटो

बहुलमिति ल्युट् । ततो ङीष् ।) आमलकी ।
गोरोचना । इति राजनिर्घण्टः ॥ मनःशिला ।
इति हेमचन्द्रः ॥ श्वेतत्रिवृता । गुँडारोच-
नीतिख्यातबणिग्द्रव्यम् । तत्पर्य्यायः । काम्पिल्लः २
कर्कशः ३ चन्द्रः ४ रक्ताङ्गः ५ । इत्यमरः ॥
कम्पिल्लः ६ कम्पीलः ७ कम्पिलः ८ काम्पिल्यः ९
रेचनी १० । इति भरतः ॥ पर्य्यायान्तरं गुणाश्च
कम्पिल्लकशब्दे द्रष्टव्याः ॥

रोचमानः, पुं, (रोचते इति । रुच् + शानच् ।)

अश्वग्रीवास्थरोमावर्त्तः । यथा, --
“श्रीवृक्षो हृदयावर्त्तो रोचमानो गलोद्भवः ॥”
इति त्रिकाण्डशेषः ॥
(यथा, माधे । ५ । ४ ।
“अश्वाः ष्यधुर्वसुमतीमतिरोचमाना-
स्तूर्णं पयोधय इवोर्म्मिभिरापतन्तः ॥”
नृपविशेषः । यथा, महाभारते । १ । ६७ । १८ ।
“अश्वग्रीव इति ख्यातः सत्त्ववान् यो महा-
सुरः ।
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥”
दीप्यमाने, त्रि । यथा, कथासरित्सागरे ।
७४ । ७८ ।
“रोचमानैः समायुक्तचूडामण्यङ्गदादिभिः ।
गन्धर्व्वकुलसम्भूतिसंसिद्धैरिव भूषितम् ॥”)

रोचिः, [स्] क्ली, (रोचतेऽनेनेति । रुच् +

बाहुलकात् इसिन् । इत्युज्ज्वलः । २ । ११२ ।)
प्रभा । इत्यमरः ॥ (यथा, माघे । १ । २१ ।
“रथाङ्गपाणेः पटलेन रोचिषा-
मृषित्विषः संवलिता विरेजिरे ॥”)

रोचिष्णुः, त्रि, (रोचते तच्छीलः । रुच् + “अलं

कृञ् निराकृञिति ।” ३ । २ । १३६ । इति
इष्णुच् ।) अलङ्कारादिना दीप्तिशीलः । तत्-
पर्य्यायः । विभ्राट् २ भ्राजिष्णुः ३ । इत्यमरः ॥
(यथा, कथासरित्सागरे । ९४ । ९ ।
“तत्र शूकरवृन्दानि भिन्दन् बाणैर्निरन्तरम् ।
श्यामलाम्बररोचिष्णुस्तमांसीव रविः करैः ॥”
रोचकः । यथा, सुश्रुते । १ । ४५ । मद्यवर्गे ।
“सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ॥”)

रोची, स्त्री, (रोचते इति । रुच् + इन् । वा

ङीष् ।) हिलमोचिका । इति शब्दरत्नावली ॥

रोची, [न्] त्रि, (रोचते इति । रुच् + णिनिः ।)

रोचिष्णुः । इति हेमचन्द्रः ॥

रोच्यं, त्रि, (रुच् + ण्यः । “यजयाचरुचप्रवच-

र्च्चश्च ।” ७ । ३ । ६६ । इति कवर्गादेशो न ।)
प्रकाश्यम् । प्रीतिविषयः । रुचधातोः कर्म्मणि
यप्रत्ययेन निष्पन्नोऽयम् ॥

रोट्, [ष्] त्रि, (रुष् + “अन्येभ्योऽपि दृश्यन्ते ।”

३ । २ । ७५ । इति विच् ।) हिंस्रः । वधकः ।
रोषतीति विचि गुणः । इति मुग्धबोधटीकायां
दुर्गादासः ॥

रोटिका, स्त्री, पिष्टकविशेषः । रोटी इति रुटी

इति च भाषा । तत्करणप्रकारमाह ।
“शुष्कगोधूमचूर्णेन किञ्चित् पुष्टाञ्च पोलिकाम् ।
तप्तके स्वेदयेत् कृत्वा भूयोऽङ्गारेऽपि तां पचेत् ॥
सिद्धैषा रोटिका प्रोक्ता गुणानस्याः प्रचक्ष्महे ।
रोटिका बलकृद्रुच्या बृंहणी धातुवर्द्धनी ॥
वातघ्नी कफकृद्गुर्व्वी दीप्ताग्नीनां प्रपूजिता ॥”
अथ लेटी ।
“मुद्गगोधूमचूर्णन्तु साम्बुगाढं विमर्द्दयेत् ।
विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् ॥
अङ्गारकर्कटी ह्येषा बृंहणी शुक्रला लघुः ।
दीपनी कफहृद्बल्या पीनसश्वासकासजित् ॥”
अथ यवरोटिका ।
“यवजा रोटिका रुव्या मधुरा विषदा लघुः ।
मलशुक्रानिलकरी बल्या हन्ति कफामयान् ।
पीनसश्वासकासांश्च मेदोमेहगलामयान् ॥”
अथ माषरोटिका ।
“चूर्णं यच्छुष्कमाषाणां चमसी साभिधीयते ।
चमसीरचिता रोटी कथ्यते बलभद्रिका ॥
रूक्षोष्णा वातला बल्या दीप्ताग्नीनां प्रपूजिता ।
माषाणां दालयस्तोये स्थापितास्त्यक्तकञ्चुकाः ॥
आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता ।
धूमसीरचिता सैव प्रोक्ता झर्झरिका बुधैः ॥”
झर्झरिकास्थाने भुर्भुरिका इति गुर्गुरिका
इति वा पाठः ।
“झर्झरी कफपित्तघ्नी किञ्चिद्बातकरी स्मृता ॥”
अथ चणकरोटिका ।
“चाणक्या रोटिका रूक्षा श्लेष्मपित्तास्रनुद्गुरुः ।
विष्टम्भिनी न चक्षुष्या तद्गुणा तिलशष्कुली ॥”
इति भावप्रकाशः ॥

रोड, ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अरुरोडत् । इति
दुर्गादासः ॥

रोदः, [स्] क्ली (रुद् + असुन् ।) स्वर्गः । भूमिः ।

इति मेदिनी । से, ३३ ॥ (यथा, ऋग्वेदे । ९ ।
२२ । ५ ।
“एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ॥”)

रोदनं, क्ली, (रुद् + ल्युट् ।) क्रन्दनम् । (यथा,

चाणक्यशतके । ६२ ।
“दुर्ब्बलस्य बलं राजा बालानां रोदनं बलम् ।
बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥”)
अस्रु । इति मेदिनी । ने, ११९ ॥ तस्य शुभाशुभं
यथा, --
“अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् ।
प्रचुराश्रु दीनं रूक्षञ्च रुदितं न सुखावहम् ॥”
इति गारुडे ६६ अध्यायः ॥
कपिलाधेनूनां नेत्राम्बुना रत्नसमूहो जातः ।
यथा, --
“युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः ॥”
इत्युपक्रम्य ।
“तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव ह ॥”
रोदनाश्रुपतनेन मृतानां नरकं स्यात् । यथा, --
“ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्त्र साम्प्र-
तम् ।
पृष्ठ ४/१८७
रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे २७ अध्यायः ॥
मृतमुद्दिश्य रोदननिषेधो यथा, --
“श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्य्या विधानतः ॥”
इति शुद्धितत्त्वम् ॥

रोदनिका, स्त्री, (रोदनं अश्रु पात्यत्वेनास्त्यस्येति ।

रोदन + ठन् ।) यवासः । इति राजनिर्घण्टः ॥
(विषयोऽस्य यवासशब्दे ज्ञातव्यः ॥)

रोदनी, स्त्री, (रुद्यतेऽनयेति । रुद् + करणे ल्युट् ।

ङीप् ।) दुरालभा । इत्यमरः । २ । ४ । ९२ ॥

रोदसी, स्त्री, (रोदस् + गौरादित्वात् ङीष् ।)

स्वर्गः । भूमिः । इत्यमरः । ३ । ३ । २२८ ॥

रोदसी, व्य, स्वर्गः । भूमिः । यथा, --

“द्यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति च ॥”
इति भरतधृतकोषः ॥

रोदस्यौ, स्त्री, भूमिस्वर्गौ । यथा, --

“प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥”
इत्यमरः । ३ । ३ । २२८ ॥
“भूर्भूमिः द्यौराकाशं एते सहिते विगृहीते च
रोदसीरोदःशब्दयोर्वाच्येते इति भूद्यावौ परा-
मृष्येते एतेन ईवन्तसान्तशब्दद्वयेन एकवच-
नान्तेनापि भूद्यावौ समुदिते उच्येते ।
‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् ।
सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ॥’
इति विश्वः ॥
‘रोदसी रोदसा सार्द्धं पृथ्वीस्वर्गे दिवि क्षितौ ॥’
इत्यजयः ॥
रोदसीत्यव्ययमप्यस्ति । यथा । द्यावापृथिव्यौ
रोदस्यौ रोदसी रोदसीति चेति ।” इति
तट्टीकायां भरतः ॥

रोधः, पुं, (रुणद्धि जलमिति । रुध् + पचाद्यच् ।)

नदीतीरम् । इत्यमरटीकायां भरतः । १ । १० । ७ ॥
(रुध् + घञ् । रोधनम् । यथा, मार्कण्डेये ।
१३ । १ ।
“अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे ।
समतीते गवां रोधं निपाने कृतवान् पुरा ॥”)

रोधः, [स्] क्ली, (रुणद्धि वार्य्यादिकमिति । रुध +

“सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति
असुन् ।) नदीतीरम् । इत्यमरः । १ । १० । ७ ॥
(यथा, रघुः । ५ । ४२ ।
“स नर्म्मदारोधसि सीकरार्द्रै-
र्मरुद्भिरानर्त्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा
क्लान्तं रजोधूसरकेतु सैन्यम् ॥”)

रोधनः, त्रि, (रुणद्धीति । रुध + ल्युः ।) रोधकर्त्ता ।

(रुध् + भावे ल्युट् ।) रोधे, क्ली । इति व्याक-
रणम् ॥ (यथा, भागवते । ३ । ३० । २७ ।
“पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्त्तयोः ॥”)

रोधवक्रा, स्त्री, (रोधेन वक्रा ।) नदी । यथा ।

निम्नगा रोधवक्रा च स्रवन्ती सिन्धुरापगेति
नदीपर्य्याये भागुरिः । इति भरतः ॥

रोधोवक्रा, स्त्री, (रोधसा वक्रा ।) नदी । इति

त्रिकाण्डशेषः ॥

रोधोवती, स्त्री, (रोधोऽस्त्यस्या इति । रोधस् +

मतुप् । ङीप् ।) नदी । इति राजनिर्घण्टः ॥

रोध्रं, क्ली, (रुध्यतेऽनेन । रुध + बाहुलकात् रन् ।)

अपराधः । पापम् । इति मेदिनी । रे, ८१ ॥

रोध्रः, पुं, लोध्रः । इति मेदिनी राजनिर्घण्टश्च ॥

(यथा, सुश्रुते । १ । १२ ।
“मधूच्छिष्टं समधुकं रोध्रं सर्ज्जरसं तथा ।
मञ्जिष्ठां चन्दनं मूर्व्वां पिष्ट्वा सर्पिर्व्विपाचयेत् ॥”)

रोध्रपुष्पः, पुं, (रोध्रस्येव पुष्पमस्य ।) मधूकवृक्षः ।

इति राजनिर्घण्टः ॥ (मण्डलिसर्पजाति-
विशेषः । तद्यथा । “आदर्शमण्डलः श्वेतमण्डलो
रक्तमण्डलश्चित्रमण्डलः पृषतो रोध्रपुष्पो मिलि-
न्दको गोनसः इत्यादिषु ।” इति सुश्रुते कल्प-
स्थाने चतुर्थेऽध्याये ॥)

रोध्रपुष्पिणी, स्त्री, (रोध्र इव पुष्प्यतीति । पुष्प +

णिनि । ङीप् ।) धातकीवृक्षः । इति राज-
निर्घण्टः ॥

रोपः, पुं, (रुप्यतेऽनेनेति । रुप विमोहे + घञ् ।)

बाणः । इत्यमरः ॥ (रुह + णिच् + घञ् ।)
रोपणम् । इति मेदिनी । पे, २ ॥ (यथा, महा-
भारते । १३ । ५८ । २४ ।
“एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ॥”)
छिद्रे, क्ली । इति हेमचन्द्रः ॥

रोपणं, क्ली, विमोहनम् । रुपधातोर्भावेऽनट्प्रत्य-

येन निष्पन्नम् ॥ जननम् । प्रादुर्भावः । ञ्यन्त-
रुहधातोः पङादेशे अनट्प्रत्ययेन निष्पन्नम् ।
इति व्याकरणम् ॥ (यथा, सुश्रुते । १ । १५ ।
“सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत्श्लेष्मा
पञ्चधा प्रविभक्त उदकर्म्मानुग्रहं करोति ॥”)
अञ्जनविशेषः । यथा, --
“रोपणं रसकं पिष्ट्वा सम्यक् संप्लाव्य वारिणा ।
गृह्णीयात्तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥
शुष्कञ्च तज्जलं सर्व्वं पर्पटीसन्निभं भवेत् ।
विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥
कर्पूरस्य रसन्तत्र दशमांशेन निक्षिपेत् ।
अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः ॥”
इति भावप्रकाशः ॥
(त्रि, रोपकः । यथा, सुश्रुते । ६ । १८ ।
“लेखनात् त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः ॥”
व्रणरोगे मांसाङ्कुरजननार्थप्रक्रियादिकम् । तद्-
यथा, --
“आदौ विम्लापनं कुर्य्याद्द्वितीयमवसेचनम् ।
तृतीयमुपनाहञ्च चतुर्थीं पटलक्रियाम् ॥
पञ्चमं शोधनञ्चैव षष्ठं रोपणमिष्यते ।
एते क्रमा व्रणस्योक्ताः सप्तमो वै कृतापहः ॥
निम्बपत्रतिलैः कल्को मधुना क्षतशोधनः ।
रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः ॥”
इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)

रोपणचूर्णं, क्ली, (रोपणस्य चूर्णम् ।) नयनाञ्जन-

विशेषः । यथा, भावप्रकाशे ।
अथ रोपणचूर्णम् ।
“शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा ।
गृह्णीयात् तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥
शुष्कं तच्च जलं सर्व्वं पर्पटीसन्निभं भवेत् ।
विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत् ।
अञ्जयेन्नयनं तेन सर्व्वदोषोपशान्तये ॥
समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः ॥”

रोपणीवर्त्तिः, स्त्री, नेत्राञ्जनभेदः । यथा । अथ

रोपणीवर्त्तिः ।
“अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः ।
जातीपुष्पाणि पञ्चाशन्मरिचानि च षोडश ॥
सूक्ष्मं पिष्ट्वाम्बुना वर्त्तिः कृता कुसुमिकाभिधा ।
तिमिरार्ज्जुनशुक्राणां नाशिनी मांसवृद्धिनुत् ।
एतस्या अञ्जने प्रोक्ता मात्रा सार्द्धहरेणुका ॥”
कुसुमिकावटी रोपणी । इति भावप्रकाशः ॥

रोप्यातिरोप्यः, पुं, धान्यविशेषः । अस्य गुणाः ।

“रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः ।
अदाहिनो दोषहरा बल्या मूत्रविवर्द्धनाः ॥”
इति राजवल्लभः ॥

रोमं, क्ली, जलम् । इति शब्दचन्द्रिका ॥ (लोम ।

यथा, महाभारते । ३ । ११२ । ३ ।
“द्वौ चास्य पिण्डावधरेण कण्ठा-
दजातरोमौ सुमनोहरौ च ॥”
जनपदविशेषः । इति केचित् ॥)

रोम, [न्] क्ली, (रौतीति । रु + “नामन्-

सीमन्व्योमन्रोमन्निति ।” उणा० ४ । १५० ।
इति मनिन्प्रत्ययेन साधुः ।) शरीरजाताङ्कुरः ।
रोँया इति भाषा । तत्पर्य्यायः । लोम २
अङ्गजम् ३ त्वग्जम् ४ चर्म्मजम् ५ तनूरुहम्
६ । इति राजनिर्घण्टः ॥ स्थानविशेषे तस्य
शुभाशुभसूचकत्वं यथा, --
“अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा ।
रोमैकैकं कूपके स्यान्नृपाणान्तु महात्मनाम् ॥
द्वे द्वे रोमे पण्डितानां श्रोत्रियाणान्तथैव च ।
रोमत्रयं दरिद्राणां रोगी निर्म्मांसजानुकः ॥”
इति गारुडे ६३ अध्यायः ॥
रहस्यरोम्नोऽस्पृश्यत्वं यथा, --
“न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।
रोमाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
(जनपदविशेषः । तद्देशवासिनि । पुं भूम्नि ।
यथा, महाभारते । ६ । ९ । ५५ ।
“वानायवो दशाःपार्श्वा रोमाणः कुशविन्द्ववः ॥”)

रोमकं, क्ली, (रोमे कायतीति । कै + कः ।)

पांशुलवणम् । (यथा, सुश्रुते । १ । ४२ ।
“सैन्दवसौवर्च्चलविडपाक्यरोमकसामुद्रकपक्त्रिम-
यवक्षारोषप्रसूतसुवर्च्चिकाप्रभृतीनि समासेन
लवणो वर्गः ॥”) अयस्कान्तभेदः । इति राज-
निर्घण्टः ॥ (रोमैव । जनपदविशेषः । तद्देश-
वासिनि, पुं भूम्नि । यथा, महाभारते । २ । ५० । १५ ।
“औष्णीकानन्तवासांश्च रोमकान् पुरुषादकान् ॥”)
पृष्ठ ४/१८८

रोमकन्दः, पुं, (रोमयुक्तः कन्दो मूलमस्य ।)

पिण्डालुः । इति राजनिर्घण्टः ॥

रोमकपत्तनं, क्ली, (रोमकं पत्तनमिति कर्म्म-

धारयः ।) देशविशेषः । रुम् इति पारस्य-
भाषा । यथा, --
“लङ्काकुमध्ये यमकोटिरस्याः
प्राक् पश्चिमे रोमकपत्तनश्च ।
अधस्ततः सिद्धपुरं सुमेरुः
सौम्येऽथ याम्ये वडवानलश्च ।
कुवृत्तपादान्तरितानि तानि
स्थानानि षड्गोलविदो वदन्ति ॥”
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥

रोमकूपः, पुं, (रोम्णां कूपः ।) लोमविवरम् ।

यथा, --
“प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ।
समस्तरोमकूपेषु निजरश्मीन्दिवाकरः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
(तथा च ।
“ऊर्द्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते ॥”
इति वाभटे निदानस्थाने तृतीयेऽध्याये ॥)

रोमकेशरं, क्ली, (रोम्णां केशरमिव ।) चामरम् ।

इति त्रिकाण्डशेषः ॥

रोमगुच्छः, पुं, (रोम्णां गुच्छस्तवकः ।) चामरम् ।

इति हेमचन्द्रः । २ । ३८१ ॥ हारावली च । १७३ ॥

रोमगुच्छकः, पुं, (रोमगुच्छ एव । स्वार्थे कन् ।)

चामरम् । इति जटाधरः ॥

रोमन्थः, पुं, उद्गीर्य्य चर्व्वणम् । इत्यमरः ॥

जाओरकाटा इति भाषा ॥ (यथा, रघुः ।
१ । ५२ ।
“मृगैर्वर्त्तितरोमन्थमुटजाङ्गनभूमिषु ॥”)

रोमभूमिः, स्त्री, (रोम्णां भूमिरिव ।) चर्म्म ।

इति राजनिर्घण्टः ॥

रोमलता, स्त्री, (रोम्णां लतेव ।) लोमावलिः ।

इति हेमचन्द्रः । ३ । २७० ॥

रोमवान्, [त्] त्रि, लोमविशिष्टः । रोमशब्दा-

दस्त्यर्थे मतुप्प्रत्ययेन निष्पन्नः ॥

रोमविकारः, पुं, (रोम्णां विकारः ।) रोमाञ्चः ।

इति हलायुधः ॥

रोमशः, पुं, (रोमाणि सन्त्यस्येति । रोमन् +

“लोमादिपामादिपिच्छादिभ्यः शनेलचः ।” ५ ।
२ । १०० । इति शः ।) मेषः । इति हेम-
चन्द्रः ॥ पिण्डालुः । कुम्भी । शूकरः । इति
राजनिर्घण्टः ॥ (ऋषिविशेषः । यथा, भागवते ।
६ । १५ । १४ ।
“रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ॥”
अस्य ऋषेरेकलोमपतने एकेन्द्रपातो भवेत् एवं
सर्व्वलोमपतनकालस्तस्य परमायुः । एतादृशो-
ऽप्यसौ जीवामि वा कियन्ति दिनानीति चिन्त-
यन् निवस्तुं गृहं न निर्म्ममे केवलं वर्षासु धारा-
पातनिवृत्तये मस्तकविन्यस्तकटस्तपश्चरति ।
विशेवविवरणमस्य ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे
द्रष्टव्यम् ॥ क्ली, उपस्थम् । यथा, ऋग्वेदे । १० ।
८६ । १६ ।
“सेदीशे यस्य रोमशं निषेदुषो
विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥”
“निषेदुषः शयानस्य रोमशमुपस्थं विजृम्भते
विवृतं भवति ।” इति तद्भाष्ये सायणः ॥)
अतिशयलोमविशिष्टे, त्रि ॥ (यथा, मनुः । ३ । ७ ।
“हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ॥”)

रोमशफलः, पुं, (रोमशं फलमस्य । टिण्डिश-

वृक्षः । इति राजनिर्घण्टः ॥

रोमशा, स्त्री, (रोमाणि सन्त्यस्या इति । रोमन् +

शः । टाप् ।) दग्धावृक्षः । इति राजनिर्घण्टः ॥
लोमशा च ॥ (बृहस्पतिकन्या । यथा, ऋग्वेदे ।
१ । १२७ । ७ ।
“सर्व्वाहमस्मि रोमशा गन्धारीणामिवाधिका ॥”)

रोमशूकं, क्ली, (रोमयुक्तं शूकं यस्य ।) स्थौणे-

यकम् । इति भावप्रकाशः ॥

रोमहर्षः, पुं, (रोम्णां हर्षः ।) रोमाञ्चः । इति

हलायुधः ॥ (यथा, गीतायाम् । १ । २९ ।
“वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥”)

रोमहर्षणं, क्ली, (रोम्णां हर्षणम् ।) रोमाञ्चः ।

इत्यमरः ॥ (रोम्णां हर्षणं यस्मात् । रोमाञ्च-
करे, त्रि । यथा, गीतायाम् । १८ । ७४ ।
“संवादमिदमश्रौषमद्भुतं लोमहर्षणम् ॥”)

रोमहर्षणः, पुं, सूतः । अस्य व्युत्पत्तिर्यथा, --

“अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् ।
द्वैपायनस्य भगवंस्ततो वै रोमहर्षणः ।
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ॥”
इति कौर्म्मे १ अध्यायः ॥
(स तु व्यासशिष्यः । यथा, भागवते । १० ।
७८ । २२ ।
“सोऽर्च्चितः सपरीवारः कृतासनपरिग्रहः ।
रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥”
अस्यान्यद्बिवरणं लोमहर्षणशब्दे द्रष्टव्यम् ॥)
विभीतकवृक्षः ॥ इति मेदिनी । ने, ११६ ॥

रोमाञ्चः, पुं, (रोम्णां अञ्चः उद्गमः ।) रोम-

हर्षणम् । इत्यमरः ॥ पुलककण्टकरोमविक्रिया
रोमोद्गमरोमहर्षश्चात्र । इति भरतः ॥ (स तु
सात्त्विकभावानामन्यतमः । यथा, साहित्य-
दर्पणे । ३ । १६६ ।
“स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥”
“हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥”)

रोमाञ्चिका, स्त्री, (रोमाञ्च उत्पाद्यत्वेनास्त्यस्या

इति । रोमाञ्च + ठन् ।) रुदन्तीवृक्षः । इति
राजनिर्घण्टः ॥

रोमाञ्चितः, त्रि, (रोमाञ्चः सञ्जातोऽस्येति ।

रोमाञ्च + “तदस्य सञ्जातं तारकादिभ्य
इतच् ।” ५ । २ । ३६ । इति इतच् ।) जात-
पुलकः । रोमाञ्चविशिष्टः । तत्पर्य्यायः । हृष्ट-
रोमा २ । इति त्रिकाण्डशेषः ॥ (यथा,
मार्कण्डेये । १०० । २० ।
“स च शान्तिगते वह्नौ परितुष्टेन चेतसा ।
हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः ॥”)

रोमाली, स्त्री, (रोम्णां आली श्रेणिर्यत्र ।)

वयःसन्धिः । इति शब्दमाला ॥ (रोम्णां
आली ।) रोमावली । (यथा, आर्य्यासप्त-
शत्याम् । ३३८ ।
“निधिनिःक्षेपस्थानस्योपरि चिह्नार्थमिव
लता निहिता ।
लोभयति तव तनूदरि जघनतटादुपरि
रोमाली ॥”)

रोमालुः, पुं, (रोमविशिष्ट आलुः ।) पिण्डालुः ।

इति राजनिर्घण्टः ॥

रोमालुविटपी, [न्] पुं, (रोमालुरिव विटपी

वृक्षः ।) कुम्भीवृक्षः । इति राजनिर्घण्टः ॥

रोमावली, स्त्री, (रोम्णामावली ।) नाभेरूर्द्ध्व-

लोमश्रेणी । तत्पर्य्यायः । रोमलता २ । इति
हेमचन्द्रः । ३ । २७० ॥ रोमाली ३ । इति
शब्दमाला ॥ लोमराजी ४ । यथा, --
“तस्याः प्रविष्टा नतनाभिरन्ध्रं
रराज तन्वी नवलोमराजी ।
नीवीमतिक्रम्य सितेतरस्य
तन्मेखलामध्यमणेरिवार्च्चिः ॥”
इति कुमारसम्भवम् ॥
सा च यौवनारम्भे भवति । अज्ञातयौवना
यथा, --
“नीरात्तीरमुपागता श्रवणयोः सीम्नि स्फुर-
न्नेत्रयोः
श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं
न्यस्यति ।
सैवालाङ्कुरशङ्कया शशिमुखी रोमावलीं
प्रोञ्छति
श्रान्तास्मीति मुहुः सखीमविदितश्रोणीभरा
पृच्छति ॥”
इति रसमञ्जरी ॥

रोमाश्रयफला, स्त्री, (रोमाश्रयं फलमस्याः ।)

झिञ्झिरिष्टाक्षुपः । इति राजनिर्घण्टः ॥

रोमोद्गमः, पुं, (रोम्णामुद्गमः ।) रोमाञ्चः ।

इति हलायुधः ॥ (यथा, कुमारे । ७ । ७७ ।
“रोमोद्गमः प्रादुरभूदुमायाः
स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् ।
वृत्तिस्तयोः पानिसमागमेन
समं विभक्तेव मनोभवस्य ॥”)

रोमोद्भेदः, पुं, (रोम्णामुद्भेदः ।) रोमाञ्चः ।

इति त्रिकाण्डशेषः ॥ (यथा, प्रबोधचन्द्रोदये ।
१ अङ्के ।
“स्फुरद्रोमोद्भेदस्तरलरताराकुलदृशो
भयोत्कम्पोत्तुङ्गस्तनयुगभरासङ्गसुभगः ॥”)

रोलः, पुं, पानीयामलकम् । इति शब्दचन्द्रिका ॥

(पानीयामलकशब्देऽस्य गुणादयोऽभिहिताः ॥)

रोलम्बः, पुं, (रौतीति । रु + विच् । रौः कुजन्

सन् लम्बति स्थानात् स्थानान्तरं गच्छतीति ।
लम्ब + अच् ।) भ्रमरः । इति त्रिकाण्डशेषः ॥
पृष्ठ ४/१८९
(यथा, वक्रोक्तिपञ्चाशिकायाम् । ४० ।
“गण्डे दानवनाशिनो गणपतेः कुर्व्वन्ति
कोलाहलं
रोलम्बा दनुसूनुनाशनविधौ सक्ताः स्युरेते
कथम् ॥”)

रोषः, पुं, (रुष् + घञ् ।) क्रोधः । इत्यमरः ॥

(यथा, आर्य्यासप्तशत्याम् । ४४९ ।
“मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्यु-
वेगेति ।
स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मि-
षति ॥”)

रोषणः, पुं, (रोषति तच्छीलः । रुष् + “क्रुध-

मण्डार्थेभ्यश्च ।” ३ । २ । १५१ । इति युच् ।)
पारदः । हेमघर्षणोपलः । इति मेदिनी । ने,
७३ ॥ ऊषरभूमिः । क्रोधने, त्रि । इति हेम-
चन्द्रः ॥ (यथा, मार्कण्डेये । ११२ । १५ ।
“न धर्म्मः क्रोधशीलस्य नार्थञ्चाप्नोति रोषणः ।
नालं सुखाय कामाप्तिः कोपेनाविष्टचेत-
साम् ॥”)

रोहः, पुं, (रोहतीति । रुह् + अच् ।) अङ्कुरः ।

इति हेमचन्द्रः ॥ (यथा, महाभारते । १२ ।
१२० । ३८ ।
“अग्निः स्तोको वर्द्धतेऽप्याज्यसिक्तो
बीजञ्चैकं रोहसाहस्रमेति ।
आयव्ययौ विपुलौ सन्निशाम्य
तस्मादल्पं नावमन्येत वित्तम् ॥”
रोहणीये, त्रि । यथा, वाजसनेयसंहिता-
याम् । १३ । ५१ ।
“तेन रोहमायन्नुप मेध्यासः ।”
“रोहं रोहणीय स्वर्गम् ।” इति तद्भाष्ये मही-
घरः ॥)

रोहकः, पुं, (रुह् + ण्वुल् ।) प्रेतभेदः । वोढरि,

त्रि । इति मेदिनी । के, १४९ ॥ (यथा, महा-
भारते । ८ । ३४ । ३२ ।
“सिनीवालीमनुमतिं कुहूं राकाञ्च सुव्रताम् ।
योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्ट-
कान् ॥”)

रोहणं, क्ली, (रोहत्यनेनेति । रुह् + करणे

ल्युट् ।) शुक्रम् । इति राजनिर्घण्टः ॥ जन्म ।
प्रादुर्भावः । इति रुहधातोर्भावेऽनट्प्रत्ययेन
निष्पन्नम् ॥

रोहणः, पुं, (रोहत्यस्मिन्निति । रुह् + अधि-

करणे ल्युट् ।) पर्व्वतविशेषः । तत्पर्य्यायः ।
विदूराद्रिः २ । इति जटाधरः ॥ (यथा,
राजेन्द्रकर्णपूरे । ५२ ।
“अपारपुलिनस्थलीभुवि हिमालये मालये
निकामविकटोन्नते दुरधिरोहणे रोहणे ।
महत्यमरभूधरे गहनकन्दरे मन्दरे
भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्त्तयः ॥”)

रोहन्तः, पुं, (रुह्यादिति । रुह् + “रुहिनन्दि-

जीविप्राणिभ्यः षिदाशिषि ।” उणा० ३ ।
१२७ । इति झच् ।) वृक्षभेदः । इत्युणादि-
कोषः ॥ वृक्षमात्रम् । इति संक्षिप्तसारोणादि-
वृत्तिः ॥

रोहन्ती, पुं, (रुह् + झच् । षित्वात् ङीष् ।)

लताभेदः । इत्युणादिकोषः ॥ लतामात्रम् ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

रोहिः, पुं, (रोहतीति । रुह् + “हृपिषि-

रुहीति ।” उणा० ४ । ११८ । इति इन् ।)
बीजम् । वृक्षः । इत्युणादिकोषः ॥ धार्म्मिकः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रोहिणं, क्ली, (रुह् + “रुहेश्च ।” उणा० २ ।

५५ । इति इनन् ।) कालभेदः । इत्युणादि-
कोषः ॥ स तु दिवसीयनवममुहूर्त्तः । पूर्ब्बाह्ण-
श्राद्धस्य गौणकालत्वेनोत्तरावधिः । अपराह्ण-
श्राद्धस्य पूर्ब्बावधिः । एकोद्दिष्टश्राद्धस्य समा-
पनकालः । रौहिणञ्चास्य नामान्तरम् । यथा ।
अत्र पूर्ब्बाह्णे श्राद्धमभिधाय रौहिणन्तु न
लङ्घयेदित्यभिधानेन पूर्ब्बाह्णश्राद्धस्य सङ्गवात्
परो रौहिणपर्य्यन्तगौणपूर्व्वाह्णकालः प्रतीयते
तेन रौहिणं पूर्ब्बाह्णश्राद्धस्य गौणकालत्वेनो-
त्तरावधिः अपराह्णश्राद्धस्य पूर्ब्बावधिरित्यव-
गम्यते । रौहिणन्तु दिवसस्य नवममुहूर्त्तः ।
तस्य ज्योतिषोक्तरोहिणीदैवतत्वात् रौहिणत्व-
मिति । व्यासः ।
“आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत् ॥”
इति श्राद्धतत्त्वम् ॥

रोहिणः, पुं, (रोहतीति । रुह् + “रुहेश्च ।” उणा०

२ । ५५ । इति इनन् ।) भूतृणः । वटवृक्षः ।
रोहितकवृक्षः । इति राजनिर्घण्टः ॥ (शाल्मल-
द्वीपस्थपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ९६ ।
“रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः ॥”)

रोहिणिः, स्त्री, रोहिणीनक्षत्रम् । इति शब्द-

रत्नावली ॥ (यथा, बृहत्संहितायाम् । १०७ । ४ ।
“धारणवर्षणरोहिणि-
वायव्याषाढभाद्रपदयोगाः ।
क्षणवृष्टिः कुसुमलताः
सन्ध्याचिह्नं दिशां दाहः ॥”)

रोहिणिका, स्त्री, (रोहिण्येव स्वार्थे कन् । टाप्

ह्नस्वश्च ।) कोपादिना रक्तवर्णा स्त्री । इति
जटाधरः ॥

रोहिणी, स्त्री, (रुह् + इनन् । गौरादित्वात्

ङीष् ।) स्त्रीगवी । इत्यमरः ॥ (यथा, माघे ।
१२ । ४० ।
“प्रीत्या नियुक्ताल्लिहतीः स्तनन्धया-
न्निगृह्य पारीमुभयेन जानुनोः ।
वर्द्धिष्णुधाराध्वनि रोहिणीः पय-
श्चिरुं निदध्यौ दुहतः स गोदुहः ॥”)
तडित् । कटुम्भरा । (यथास्याः पर्य्यायः ।
“कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा ।
अशोका मन्द्यशकला चक्राङ्गी शकुलादनी ॥”
इति भावप्रकाशश्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सोमवल्कः । (यथास्याः पर्य्यायो रत्नमालायाम् ।
“कट्फलः सोमवल्काख्यः सोमवृक्षश्च रोहिणी ॥”
महाश्वेता । तत्पर्य्यायो यथा, --
“कटभी किनिही श्वेता महाश्वेता च रोहिणी ॥”
इति वैद्यकरत्नमालायाम् ॥)
लोहिता । इति मेदिनी । णे, ३७ ॥ जिनानां
विद्यादेवीविशेषः । इति हेमचन्द्रः ॥ काश्मरी ।
हरीतकी । मञ्जिष्ठा । इति राजनिर्घण्टः ॥
कपिलवर्णा वर्त्तुलाकारा विरेचने प्रशस्ता हरी-
तकी । इति राजवल्लभः ॥ * ॥ बलदेवमाता ॥
सा वसुदेवभार्य्या कश्यपपत्नीसुरभ्यंशजाता ।
यथा, --
“देवकी रोहिणी चेमे वसुदेवस्य धीमतः ।
रोहिणी सुरभिर्द्देवी अदितिर्देवकी ह्यभूत् ॥”
इति महाभारते हरिवंशः ॥ * ॥
सुरभिकन्या । यथा, --
श्रीमार्कण्डेय उवाच ।
“दक्षस्य तनया याभूत् सुरभिर्न्नाम नामतः ।
गवां माता महाभागागा सर्व्वलोकोपकारिणी ॥
तस्यान्तु तनया जज्ञे कश्यपात्तु प्रजापतेः ।
नाम्ना सा रोहिणी शुभ्रा सर्व्वकामदुघा
नृणाम् ॥
तस्यां यज्ञे शूरसेनाद्बसोरिति तपोज्जलात् ।
कामधेनुरिति ख्याता सर्व्वलक्षणसंयुता ॥”
इति कालिकापुराणे शेषाध्यायः ॥ * ॥
नववर्षीया कन्या । यथा, --
“अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
दशमे कन्यका प्रोक्ता अत ऊर्द्ध्वं रजस्वला ॥”
इत्युद्वाहतत्त्वम् ॥ * ॥
(पञ्चवर्षा कुमारी । यथा, देवीभागवते । ३ ।
२६ । ४२ ।
“रोहिणी पञ्चवर्षा च षड्वर्षा कालिका
स्मृता ॥”
रोगनाशायैवास्याः पूजा कर्त्तव्या । यथा, तत्रैव ।
३ । २६ । ४८ ।
“रोहिणीं रोगनाशाय पूजयेद्बिधिवन्नरः ॥”
अस्याः पूजामन्त्रो यथा, तत्रैव । ३ । २६ । ५६ ।
“रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि
वै ।
या देवी सर्व्वभूतानां रोहिणों पूजयाम्यहम् ॥”
हिरण्यकशिपुकन्या । यथा, महाभारते ।
३ । २२० । १८ ।
“कन्या सा रोहिणी नाम हिरण्यकशिपोः
सुता ॥” * ॥
रोहिणि + पक्षे ङीष् ।) अश्विन्यादिसप्त-
विंशतिनक्षत्रान्तर्गतचतुर्थनक्षत्रम् । तत्पर्य्यायः ।
रोहिणिः २ । इति शब्दरत्नावली ॥ ब्राह्मी ३ ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । १ ।
१४६ । ३३ ।
“अष्टमेऽहनि रीहिण्यां प्रयाताः फालगुणस्य
ते ।
वारणावतमासाद्य ददृशुर्नागरं जनम् ॥”)
तत्त शकुलाकृति पञ्चतारात्मकम् । तस्याधि-
पृष्ठ ४/१९०
ष्ठात्री देवता ब्रह्मा । गगनमध्ये उदिते सति
सिंहलग्नस्य अष्टत्रिंशत्पलाधिकदण्डत्रितयं गतं
भवति । यथा, --
“कम्बुकण्ठि ! शकुलाकृतौ नभो-
मध्यमागतवति प्रजापतौ ।
पञ्चभे गजकुपक्षलिप्तिका
निःसृताः सुमुखि ! सिंहलग्नतः ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातफलं यथा, --
“स्याद्धर्म्मकार्य्ये कुशलः कुलीनः
सुचारुदेहो विलसत्कलेवरः ।
स्मराग्निनाकुलिताखिलाशयो
यो रोहिणीजः स धनी स मानी ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
गलरोगविशेषः । यथा । रोहिणीनामकगल-
रोगाणां नामानि संख्याञ्चाह ।
“रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च ।
अधिजिह्वश्च वलयोऽलासनामैरवृन्दकः ॥
ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्रधिः ।
गलौघः प्रस्वरघ्नश्च मांसतालस्तथैव च ।
विदाही कण्ठदेशे तु रोगा अष्टादश स्भृताः ॥”
तत्र पञ्चानामपि रोहिनीनां सामान्यसंप्राप्ति-
माह ।
“गलेऽनिलः पित्तकफौ च मूर्च्छितौ
प्रदूष्य मांसञ्च तथैव शोणितम् ।
गलोपसंरोधकरैस्तथाङ्कुरै-
र्निहन्त्यसून् व्याधिरियं हि रोहिणी ॥”
अनिलः मूर्च्छितः प्रवृद्धः कफपित्तौ च मूर्च्छितौ
पित्तं वा मूर्च्छितं कफो वा मूर्च्छितः । ननु
त्रयोऽपि मूर्च्छिताः पृथग्दोषजाया अविवक्ष-
माणत्वात् ॥ तस्या वातजाया लक्षणमाह ।
“जिह्वासमन्ताद्भृशवेदनास्तु
मांसाङ्कुराः कण्ठविरोधनाः स्युः ।
सा रोहिणी वातकृता प्रदिष्टा
वातात्मकोपद्रवगाढजुष्टा ॥”
जिह्वासमन्तात् जिह्वायाः सर्व्वतः । वातात्मको-
पद्रवगाढजुष्टा स्तम्भादिभिरतिशयेन युक्ता ॥”
पित्तजामाह ।
“क्षिप्रोद्गमा क्षिप्रविदाहपाका
तीव्रज्वरा पित्तनिमित्तजाता ॥”
श्लेष्मजामाह ।
“स्रोतोनिरोधिन्यपि मन्दपाका
गुर्व्वी स्थिरा सा कफसम्भवा तु ॥”
स्रोतोऽत्र कण्ठस्रोतः ॥ * ॥ सन्निपातजामाह ।
“गम्भीरपाकिन्यनिवार्य्यवीर्य्या
त्रिदोषलिङ्गा त्रिभवा भवेत् सा ॥”
रक्तजामाह ।
“स्फोटैश्चिता पित्तसमानलिङ्गा
साध्या प्रदिष्टा रुधिरात्मिका तु ॥”
रक्तजेतरासंहारकत्वावधिमाह ।
“सद्यस्त्रिदोषजा हन्ति त्र्यहात् कफसमुद्भवा ।
पञ्चाहात् पित्तसम्भूता सप्ताहात् पवनोत्थिता ॥”
कण्ठशालूकमाह ।
“कोलास्थिमात्रः कफसम्भवो यो
ग्रन्थिर्गले कण्टकशूकभूतः ।
खरः स्थिरः शस्त्रनिपातसाध्य-
स्तं कण्ठशालूकमिति ब्रुवन्ति ॥”
कण्टकशूकभूतः कण्टकवच्छूकवद्वेदनाजनकः ॥
अधिजिह्वामाह ।
“जिह्वाग्ररूपः श्वयथुः कफात्तु
जिह्वोपरिष्टादसृजैव मिश्रात् ।
ज्ञेयोऽधिजिह्वः खलु रोग एष
विवर्ज्जयेदागतपाकमेनम् ॥”
असृजा मिश्रादेवेत्यन्वयः ॥ * ॥ बलयमाह ।
“वलाश एवायतमुन्नतञ्च
शोथं करोत्यन्नगतिं निवार्य्य ।
तं सर्व्वथैवाप्रतिवार्य्यवीर्य्यं
विवर्ज्जनीयं वलयं वदन्ति ॥”
अलासमाह ।
“गले तु शोथं कुरुतः प्रवृद्धौ
श्लेष्मानिलौ श्वासरुजोपपन्नम् ।
मर्म्मच्छिदं दुस्तरमेनमाहु-
रलाससंज्ञं भिषजो विकारम् ॥”
मर्म्मच्छिदं हृदयमर्म्मणि छेदेनेव वेदनाजनकम् ॥
एकवृन्दमाह ।
“वृत्तोन्नतोऽन्तः श्वयथुः सदाहः
सकण्डुरोऽपाक्यमृदुर्गुरुश्च ।
नाम्नैकवृन्दः परिकीर्त्त्यतेऽसौ
व्याधिर्ब्बलाशः क्षतजप्रसूतः ॥”
अन्तः गलमध्ये । अपाकी ईषत् पाकी । अमृदुः
ईषन्मृदुः ॥ * ॥ वृन्दमाह ।
“समुन्नतं वृत्तममन्ददाहं
तीव्रज्वरं वृन्दमुदाहरन्ति ।
तच्चापि पित्तक्षतजप्रकोपा-
द्विद्यात् सतोदं पवनात्मकन्तु ॥” * ॥
शतघ्नीमाह ।
“वर्त्तिर्घना कण्ठनिरोधिनी तु
चितातिमात्रं पिशितप्ररोहैः ।
अनेकरुक् प्राणहरी त्रिदोषा
ज्ञेया शतघ्नीसदृशी शतघ्नी ॥”
घना कठिना । अनेकरुक् वातपित्तकफज-
तोददाहकण्ड्वादियुक्ता । शतघ्नीसदृशी लोह-
कण्टकसंछन्ना शतघ्नी महती शिला । तत्तुल्या
यतः प्राणहरी ॥ * ॥ गिलायुमाह ।
“ग्रन्थिर्गले त्वामलकास्थिमात्रः
स्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः ।
संलक्ष्यते शक्तमिवासितञ्च
स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥”
गलविद्रधिमाह ।
“सर्व्वं गलं व्याप्य समुत्थितो यः
शोफो रुजः सन्ति च यत्र सर्व्वाः ।
स सर्व्वदोषैर्गलविद्रधिस्तु
तस्यैव तुल्यः खलु सर्व्वजस्य ॥” * ॥
गलौघमाह ।
“शोथो महान् यस्तु गलावरोधी
तीव्रज्वरो वायुगतेर्निहन्ता ।
कफेन जातो रुधिरान्वितेन
गले गलौघः परिकीर्त्त्यतेऽसौ ॥”
वायुगतेर्निहन्ता उदानवायुगतिरोधकः ॥ * ॥
स्वरघ्नमाह ।
“यस्ताम्यमानः श्वसिति प्रसक्तं
भिन्नस्वरः शुष्कविमुक्तकण्ठः ।
कफोपदुष्टेष्वनिलायनेषु
ज्ञेयः स रोगह् श्वसनात् स्वरघ्नः ॥”
ताम्यमानः तमः पश्यन् । शुष्कविमुक्तकण्ठः
शुष्को विमुक्तोऽस्वाधीनः कण्ठो यस्य सः ।
अस्वाधीनता भुक्तं गिलितुं अशक्यत्वात् ।
अनिलायनेषु वायुवर्त्मसु । श्वसनाद्वातात् ॥ * ॥
मांसतानमाह ।
“प्रतानवान् यः श्वयथुः सुकष्टो
गलोपरोधं कुरुते क्रमेण ।
स मांसतानः कथितोऽवलम्बी
प्राणप्रणुत् सर्व्वकृतो विकारः ॥”
प्रतानवान् विस्तारवान् । सुकष्टः अतिशयितं
कष्टं यत्र सः ॥ * ॥ विदारीमाह ।
“सदाहतोदं श्वयथुं सुताम्र-
मन्तर्गले पूतिविशीर्णमांसम् ।
पित्तेन विद्याद्बदने विदारीं
पार्श्वे विशेषात् स तु येन शेते ॥”
शार्श्वे विशेषात् स तु येन शेते स पुरुषो येन
पार्श्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे सा
विदारी भवति इत्यर्थः ॥ * ॥ अथ गलरोगाणां
चिकित्सा ।
“रोहिणीनान्तु साध्यानां हितं शोणितमोक्ष-
णम् ।
वमनं धूमपानञ्च गण्डूषो नस्यकर्म्म च ॥
वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत् ।
सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः ॥
विस्राव्य पित्तसंभूतां सिताक्षौद्रप्रियङ्गुभिः ।
घर्षयेत् कवलो द्राक्षापरूषैः कथितो हितः ॥
आगारधूमकटुकैः कफजां प्रतिसारयेत् ।
आगारधूमः झूल इति लोके । कटुकानि
शुण्ठीपिप्पलीमरिचानि ।
“श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् ।
नस्यकर्म्मणि दातव्यं कवलञ्च कफोच्छ्रये ॥”
श्वेता अपराजिता ।
“पित्तवत् साधयेद्बैद्यो रोहिणीं रक्तसम्भवाम् ।
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥
एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः ।
उपजिह्वकवच्चापि साधयेदधिजिह्वकम् ॥
एकवृन्दन्तु विस्राव्य विधिं शोधनमाचरेत् ।
एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् ॥
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत् ।
अमर्म्मस्थं सुसंपक्वं छेदयेद्गलविद्रधिम् ॥”
इति भावप्रकाशः ॥
(स्थूले, त्रि । यथा, महाभारते । २ । ६१ । ३३ ।
पृष्ठ ४/१९१
“नैव ह्नस्वा न महती न कृशा नापि रोहिणी ।
नीलकुञ्चितकेशी च तया दीव्याम्यहं त्वया ॥”)

रोहिणीपतिः, पुं, (रोहिण्याः पतिः ।) चन्द्रः ।

इति हेमचन्द्रः । २ । १८ ॥ (यथा, देवीभाग-
वते । १ । ११ । १८ ।
“इत्येवं भाषमाणं तमुवाच रोहिणीपतिः ।
गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥”
वसुदेवः । वृषभश्च ॥)

रोहिणीरमणः, पुं, (रीहिण्या रमणः ।) वृषभः ।

इति राजनिर्घण्टः ॥ वसुदेवश्च ॥ (चन्द्रः ।
यथा, गीतगोविन्दे । ३ । १० ।
“वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
केन्दुविल्वसमुद्रसम्भवरोहिणीरमणेन ॥”)

रोहिणीवल्लभः, पुं, (रोहिण्या वल्लभः ।) चन्द्रः ।

इति हलायुधः ॥ वसुदेवश्च ॥

रोहिणीशः, पुं, (रोहिण्या ईशः ।) चन्द्रः ।

इति हेमचन्द्रः ॥ (यथा, माधे । ३ । ६० ।
“यां रेवतीजानिरियेष हातुं
न रौहिणेयो न च रोहिणीशः ॥”)
वसुदेवश्च ॥

रोहिण्यष्टमी, स्त्री, (रोहिणीयुक्ता अष्टमी ।)

रोहिणीनक्षत्रयुक्तभाद्रकृष्णाष्टमी । यथा, --
“कृष्णाष्टम्याञ्च रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः ।
कार्य्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्म-
जम् ॥
उपीषितोऽर्च्चयेन्मन्त्रैस्तिथिभान्ते च पारणम् ॥
योगाय योगपतये योगेश्वराय योगसम्भवाय
गोविन्दाय नमो नमः ॥ स्नानमन्त्रः । यज्ञाय
यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय
नमो नमः ॥ अर्च्चनस्य । विश्वाय विश्वेश्वराय
विश्वपतये विश्वसम्भवाय गोविन्दाय नमो
नमः ॥ शयनस्य । सर्व्वाय सर्व्वेश्वराय सर्व्व-
पतये सर्व्वसम्भवाय गोविन्दाय नमो नमः ॥
पारणस्य ।
स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीन्तथा ।
शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ।
जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् ॥
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ।
गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम ॥
श्रियै वसुदेवाय बलदेवाय नन्दाय यशोदायै ।
अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् ।
वासुदेवं हृषीकेशं नृसिंहं दैत्यसूदनम् ॥
वाराहं पुण्डरीकाक्षं श्रीकान्तमजमव्ययम् ।
दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥
गोविन्दमच्युतं देवमनन्तमपराजितम् ।
अधोक्षजं जगद्बीजं सर्गस्थित्यन्तकारकम् ॥
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ।
नारायणञ्चतुर्बाहुं शङ्खचक्रगदाधरम् ॥
पीताम्बरधरं दिव्यं वनमालाविभूषितम् ।
श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् ॥
यं देवं देवकी देवी वसुदेवादजीजनत् ।
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।
नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत् पुनः ॥
त्राहि मां सर्व्वपापघ्न दुःखशोकार्णवात् प्रभो ।
देवकीनन्दन श्रीश हरे संसारसागरात् ॥
दुर्वृत्तांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत् ।
सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसाग-
रात् ॥
पुष्कराक्ष निमग्नोऽहं महत्यज्ञानसागरे ।
त्राहि मां देवदेवेश त्वामृतेऽन्यो न रक्षिता ॥
स्वजन्म वासुदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
शान्तिरस्तु शिवञ्चास्तु धनर्द्धिख्यातिराज्य-
भाक् ॥”
इति गारुडे १३२ अध्यायः ॥

रोहित्, पुं, (रोहतीति । रुह + “हृसृरुहियुषिभ्य

इतिः ।” उणा० १ । ९९ । इति इतिः ।)
सूर्य्यः । इति मेदिनी । टे, १४७ ॥ वर्णभेदः ।
मत्स्यभेदः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(ऋष्यमृगः । यथा, वाजसनेयसंहितायाम् ।
“२४ । ३० ॥ “मनुष्यराजाय मर्कटः शार्द्दू-
लाय रोहित् ।” “एको रोहित् ऋष्यः शार्द्दू-
लाय ।” इति तद्भाष्ये महीधरः ॥ रोहितवर्ण-
विशिष्टे, त्रि । (यथा, ऋग्वेदे । १ । १०० । १६ ।
“रोहित् श्यावा सुमदंशुर्ललामीः ।”
“रोहित् रोहितवर्णा श्यावा श्यामवर्णा ।”
इति तद्भाष्ये सायणः ॥)

रोहित्, स्त्री, (रुह + “हृसृरुहियुषिभ्यं इतिः ।”

उणा० १ । ९९ । इति इतिः ।) मृगी ।
(“ऋष्यस्य मृगस्य मृगी रोहिदुच्यते । तथाच
महिम्नः स्तवे । गतं रोहिद्भूतां रिरमयिषु-
मृष्यस्य वपुषा ।” इत्युज्ज्वलः । १ । ९९ ॥) लता-
भेदः । इति मेदिनी । टे, १४७ ॥ (वडवा ।
यथा, ऋग्वेदे । १ । १४ । १२ ।
“युक्ष्वाह्यरुषी रथे हरितो देवा रोहितः ॥”
“हे देवाग्ने रोहितः रोहिच्छब्दाभिधेयास्त्वदीया
वडवाः रथे युक्ष्व युज योजय ।” इति तद्भाष्ये
सायणः ॥ * ॥ रोहन्त्याभिर्बीजानि तज्जलेन हि
बीजानि प्ररोहन्तीति तथात्वम् । नदी । इति
निधण्टुः । १ । १३ । १८ ॥ निगमेषु बहुवच-
नान्तत्वेन प्रायशः श्रवणात् बहुवचनान्तत्वम् ॥)

रोहितं, क्ली, (रुह + “रुहे रश्च लो वा ।”

उणा० ३ । ९४ । इति इतन् ।) कुङ्कुमम् ।
रक्तम् । ऋजुशक्रशरासनम् । इति मेदिनी ।
ते, १४५ ॥ (यथा, मनुः । १ । ३८ ।
“विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।
उल्कानिर्घातकेतुंश्च ज्योतींष्युच्चावचानि च ॥”)

रोहितः, पुं, (रोहतीति । रुह + “रुहे रश्च लो

वा ।” उणा० ३ । ९४ । इति इतन् ।) मीन-
विशेषः । (यथाह कश्चित् ।
“ईलीशो जितपियूषो वाचा वाचामगोचरः ।
रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः
प्रियः ॥”)
रोहितमत्स्यस्य लक्षणं गुणाश्च यथा, --
“कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो
यः श्रेष्ठोऽसौ लोहितो वृत्तवक्त्रः ।
कोष्णं बल्यं रोहितस्यापि मांसं
वातं हन्ति स्निग्धमृध्नाति वीर्य्यम् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः ।
कृशपक्षो झसश्रेष्ठो रोहितः कथितो बुधैः ॥
रोहितः सर्व्वमत्स्यानां वरो वृष्योऽर्द्दितार्त्तिजित् ।
कषायानुरसः स्वादुर्व्वातघ्नो नातिपित्तकृत् ॥
ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम् ॥”
इति भावप्रकाशः ॥
(तथाच ।
“वातघ्नो नहि पित्तकृद्बलकरः स्याद्रोहितः
सर्व्वदा ॥”
इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥
“शैवलाहारभोजित्वात् स्वप्नस्य च विवर्ज्जनात् ।
रोहितो दीपनीयश्च लघुपाको महाबलः ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“कषायानुरसस्तेषां शष्पशैवालभोजनः ।
रोहितो मारुतहरो नात्यर्थं पित्तकोपणः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
स्वनामख्यातो हरिश्चन्द्रश्च नृपतेः पुत्त्रः । यथा
देवीभागवते । ७ । १५ । १५ ॥
“राजा पुत्त्रमुखं दृष्ट्वा सुखमाप महत्तरम् ।
नामास्य रोहितश्चेति चकार विधिपूर्ब्बकम् ॥”
अस्य विवरणन्तु तश्रैव द्रष्टव्यम् ॥) मृगभेदः ।
रोहितकवृक्षः । इति मेदिनी । ते, १४६ ॥
(रोहीतोऽपि पाठः । रोहीतकशब्ददर्शनात् ॥
यथा, सुश्रुते । ६ । १७ ।
“पलाशरोहीतमधूकजा रसाः
क्षौद्रेण युक्ता मदिराग्रमिश्रिताः ॥”
अग्निघोटकः । इति निघण्टुः । १ । १५ ॥
“रोहन्ति आरोहन्ति रथं वहन्त्यादिवमिति
रोहितः ।” इति तत्र देवराजयज्वा ॥ यथा,
ऋग्वेदे । १ । ९४ । १० ।
“यदयुक्था अरुषा रोहिता रथे ॥”
“रोहिता लोहितवर्णौ रोहित इत्यग्नेरश्वस्याख्या
रोहितोऽग्नेरितिदर्शनात् रोहितेनत्वाग्निर्द्देवतां
गमयत्वितिमन्त्रवर्णाच्च ।” इति तद्भाष्ये सायणः ॥)
रक्तवर्णः । रक्तवर्णविशिष्टे, त्रि । इत्यमरः ॥
(यथा, वाजसनेयसंहितायाम् । १६ । १९ ।
“नमो रोहिताय स्थपतये वृक्षाणां पतये नमो
नमः ॥”)

रोहितकः, पुं, (रोहित एव । स्वार्थे कन् ।)

वृक्षविशेषः । रोहडा इति भाषा । तत्पर्य्यायः ।
रोही २ प्लीहशत्रुः ३ दाडिमपुष्पकः ४ ।
इत्यमरः ॥ रोहीतकः ५ रोहितः ६ रोहिणः ७
कुशाल्मलिः ८ दाडिमपुष्पः ९ सदाप्रसूनः १०
कूटशाल्मलिः ११ विरोचनः १२ शाल्म-
लिकः १३ । अस्य गुणाः । कटुत्वम् । स्निग्ध-
त्वम् । कषायत्वम् । सुशीतलत्वम् । कृमिदोष-
पृष्ठ ४/१९२
व्रणप्लीहरक्तनेत्रामयापहत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“रोहितो लोहितो रोही लोही दाडिम-
पुष्पकः ।
रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“रोहीतको यकृत्प्लीहगुल्मोदरहरः स्मृतः ॥”
इति राजवल्लभः ॥
(गणविशेषः । यथा, महाभारते । ३ । २५३ । १९ ।
“भद्रान् रोहितकांश्चैव आग्नेयान्मालवानपि ।
गणान् सर्व्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव ।
शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः ॥”)

रोहिता, स्त्री, (रोहित + टाप् । “वर्णादनु-

दात्तात्तोपधातो नः ।” ४ । १ । ३९ । इति
पाक्षिको ङीष् तकारस्य नकारादेशश्च न ।)
रागादिना रक्तवर्णा । यथा, --
“रोहिणी रोहिता रक्ता लोहिनी लोहिता
च सा ।”
इति जटाधरः ॥

रोहिताश्वः, पुं, (रोहितः अश्वो यस्य ।) अग्निः ।

इत्यमरः ॥ हरिश्चन्द्रराजपुत्त्रः । इति मेदिनी ।
ते, ६३ ॥

रोहितिका, स्त्री, (रोहितो वर्णोऽस्त्यस्या इति ।

रोहित + ठन् ।) रागादिना रक्तवर्णा । इति
जटाधरः ॥

रोहितेयः, पुं, (रोहित एव । स्वार्थे ढः ।)

रोहितवृक्षः । यथा, --
“प्लीहारी रोहितेयः स्यात् रक्तपुष्पश्च
रोहितः ॥”
इति भरतधृतरत्नकोषः ॥
(विवरणमस्य रोहितकशब्दे ज्ञातव्यम् ॥)

रोही, [न्] पुं, (अवश्यं रोहतीति । रुह् +

आवश्यके णिनिः ।) रोहितकवृक्षः । (अस्य
पर्य्यायो यथा, --
“रोही रोहितकः प्लीहाशत्रुर्दाडिमपुष्पकः ॥”
इति वैद्यकरत्नमालायाम् ॥
“रोहीतको रोहितको रोही दाडिमपुष्पकः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
अश्वत्थवृक्षः । वटवृक्षः । इति मेदिनी । ने,
१२० ॥

रोहीतकः, पुं, (रोहीत एव । स्वार्थे कन् ।)

रोहितकवृक्षः । इति राजनिर्घण्टः ॥ (यथा,
बृहत्संहितायाम् । ५४ । ६८ ।
“रोहितकस्य पश्चादहिवासश्चेत्त्रिभिः करै-
र्याम्ये ॥”
तथास्य पर्य्यायः ।
“रोहीतको रोहितको रोही दाडिमपुष्पकः ।”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

रौक्ष्यं, क्ली, (रूक्षस्य भावः । रूक्ष + ष्यञ् ।)

रूक्षता । रूक्षस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन
निष्पन्नम् । तथा हि ।
“तैलं यद्रौक्ष्यदोषघ्नं तैलं यच्चार्द्रकं स्मृतम् ।
तेन त्वां स्नापयाम्यद्य जगन्मातरमम्बिकाम् ॥”
इति दुर्गापूजायां महाष्टमीमहानवम्योर्महा-
स्नानप्रकरणे देवीपुराणम् ॥ (तथा च ।
“ये रसा वातशमना भवन्ति यदि तेषु वै ।
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ॥”
इति सुश्रुते सूत्रस्थाने ४० अध्यायः ॥)

रौच्यः, पुं, (रुचेरपत्यमिति । रुचि + ष्यण् ।)

मनुविशेषः । यथा, --
“रौच्यादयस्तथान्येऽपि मनवः संप्रकीर्त्तिताः ।
रुचेः प्रजापतेः पुत्त्रो रौच्यो नाम भविष्यति ॥”
इति मात्स्ये ९ अध्यायः ॥
तन्मन्वन्तरे देवादयो यथा, --
“त्रयोदशस्य पर्य्याये ये रौच्यस्य मनोः सुराः ।
सप्तर्षींश्च नृपांश्चैव वदतो मे निशामय ॥
सुपर्व्वाणः सुरास्तत्र सुकर्म्माणस्तथापरे ।
सुशर्म्माणस्तथा ह्येते समस्ता मुनिसत्तम ॥
महाबलो महाबीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
भविष्यत्यथ सप्तर्षीन् गदतो मे निशामय ॥
धृतिमानव्ययश्चैव तत्त्वदर्त्ती निरुत्सुकः ।
निर्म्मोहः सुतपाश्चान्यो निष्मकम्पश्च सप्तमः ॥
चित्रसेनो विचित्रश्च नयकृन्निर्भयो दृढः ।
सुनेत्रः क्षत्त्रबुद्धिश्च सुरतश्चैव तत्सुताः ॥”
इति मार्कण्डेयपुराणम् ॥
अन्यद्विवरणं रुचिशब्दे द्रष्टव्यम् ॥ * ॥ विल्व-
काष्ठदण्डः । तत्पर्य्यायः । वैल्वः २ । इति हेम-
चन्द्रः ॥ (क्ली, रौच्यस्येदमिति । अण् । मन्वन्तर-
विशेषः । यथा, मार्कण्डेये । १०० । ३९ ।
“ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।
निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तमः ॥”)

रौट, ऋ नादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अरु-
रौटत् । नादरोऽनादरः । रौटति खलं लोकः ।
इति दुर्गादासः ॥

रौड, ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अरुरौडत् । इति
दुर्गादासः ॥

रौद्रं, क्ली, (रुद्रस्येदम् । रुद्र + अण् ।) शृङ्गा-

राद्यष्टरसान्तर्गतशेषरसः । तत्पर्य्यायः । उग्रम् २ ।
इत्यमरः ॥ द्वे क्रोधस्याश्रये । रुद्रो देवता यस्य
रौद्रम् । यदाह भरतः ।
“शृङ्गारो विष्णुदेवः स्याद्धासः प्रमथदैवतः ।
करुणो यमदेवः स्याद्रौद्रो रुद्राधिदैवतः ॥” इति
द्वे क्रोधस्याश्रये । उच्यति क्रुधा समवैति उग्रः ।
उचिर्य समवायने नाम्नीति रक् निपातनाच्चस्य
गः । सर्व्वाभिभाविता रौद्रः । यथा, रावण-
चरितादि । एषु वीभत्सरौद्रे क्लीवे रूपभेदात्
अन्ये पुंसि वीभत्सरौद्रौ चेति पुंलिङ्गपाठ इह
युक्तः । इति भरतः ॥ * ॥ अपि च ।
अथ रौद्रः ।
“रौद्रः क्रोधस्थायिभावौ रक्तो रुद्राधिदैवतः ।
आलम्बनं रिपुस्तत्र तच्चेष्टोद्दीपनं मतम् ॥
सुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥
भ्रूविभङ्गौष्ठनिर्दंशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेपणानि च ।
अनुभावास्तथा क्षेपक्रूरसन्दर्शनादयः ॥
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।
मोहाहर्षादयश्चात्र भावाः स्युर्व्यभिचारिणः ॥”
यथा, --
“कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं
मनुजपशुभिर्निर्मर्य्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना-
मयमहमसृङ्मेदोमांसैः करोमि दिशां वलिम् ॥”
अस्य युद्धवीराद्भेदमाह ।
“रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः ॥”
इति साहित्यदर्पणे ३ परिच्छेदः ॥

रौद्रः, पुं, (रुद्रस्यायमिति । रुद्र + अण् ।) सूर्य्य-

तेजः । तत्पर्य्यायः । घर्म्मः २ । इति मेदिनी ।
रे, ८० ॥ प्रकाशः ३ द्योतः ४ आतपः ५ ।
इत्यमरः ॥ तस्य गुणाः ।
“आतपः कटुको रूक्षः स्वेदमूर्च्छातृषावहः ।
दाहवैवर्ण्यजननो नेत्ररोगप्रकोपणः ॥”
इति राजवल्लभः ॥ * ॥
सप्तरौद्रा यथा, --
“जठरः पिङ्गलो रौद्रो घोराख्यः कालसंज्ञितः ।
अग्निनामा हतो रौद्रः सप्त रौद्राः प्रकी-
र्त्तिताः ॥”
ग्रन्थान्तरे सप्तमो रौद्रः प्राणदाहः ॥ तेषां
फलानि यथा, --
“पिङ्गलो रौद्रनामा च कालरूपः प्रजाक्षयम् ।
स्पर्शने बहुरोगः स्यात् सर्व्वजीवसमुद्भवः ॥
जठरो रौद्रनामा च घोरधूम्रञ्च कारयेत् ।
व्रणादिपित्तरोगञ्च नानाक्लेशकरो नृणाम् ॥
अग्निर्नाम्ना यदा वर्षे रौद्रो भवति नान्यथा ।
उत्तापेन क्षितिं शुष्येत् नराणां रोगदो भवेत् ।
रौद्रनामा महारौद्रो यत्राब्दे च भवेद्ध्रुवम् ।
चित्तोद्वेगं व्रणं कुर्य्यान्नानारोगसमन्वितम् ॥
घोरनामा महारौद्रो घोरधूम्रञ्च कारयेत् ।
उत्तापेन सदा दग्धं नानारोगसमन्वितम् ॥
कालनामा महारौव्र उत्तापे पीडनं सदा ।
नानारोगसमायुक्तं व्रणादिकण्डुकं भवेत् ॥”
इति ज्योतिषम् ॥
रसविशेषः । इति मेदिनी । रे, ८० ॥ तद्विवरणं
क्लीवलिङ्गरौद्रशब्दे द्रष्टव्यम् । हेमन्त ऋतुः ।
इति हेमचन्द्रः ॥ यमः । इति धरणिः ॥ (कार्त्ति-
केयः । यथा, महाभारते । १ । १३८ । १३ ।
“आग्नेयः कृत्तिकापुत्त्रो रौद्रो गाङ्गेय इत्यपि ।
श्रूयते भगवान् देवः सर्व्वदेवमयो गुहः ॥”)

रौद्रः, त्रि, (रुद्र + अण् ।) तीव्रः । (यथा, रुग्वि-

निश्चयव्याख्याने विजयरक्षितेन हरिवंशोक्त-
ज्वरवर्णनवचनमुक्तम् ।
“ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥”)
पृष्ठ ४/१९३
भीषणः । इति मेदिनी । रे, ८० ॥ (यथा, महा-
भारते । २ । ६४ । ५० ।
“तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ।
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥”)
रुद्रसम्बन्धिनि च ॥

रौद्री, स्त्री, (रौद्र + ङीप् ।) चण्डी । इति मेदिनी ।

रे, ८० ॥ रुद्रजटा । इति राजनिर्घण्टः ॥
रुरुदैत्यकृतमहारौद्री माया महारौद्रीनाम्नी
चामुण्डा च । यथा, --
“एक एव महादैत्यो रुरुस्तस्थौ महामृधे ।
स च मायां महारौद्रीं रौरवीं विससर्ज्ज ह ॥
सा माया ववृधे भीमा सर्व्वदेवप्रमोहिनी ।
तया तु मोहिता देवाः सद्यो निद्रां तु भेजिरे ॥
देवी च त्रिशिखेनाजौ तं दैत्यं समताडयत् ।
तया तु ताडितं तस्य दैत्यस्य शुभलोचने ।
चर्म्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः ॥
रुरोस्तु दानवेन्द्रस्य चर्म्ममुण्डे क्षणाद्यतः ।
अपहृत्य हरेद्देवी चामुण्डा तेन साभवत् ॥
सर्व्वभूतमहारौद्री या देवी परमेश्वरी ।
संहारिणी तु या चैव कालरात्रिः प्रकीर्त्तिता ॥”
इति वाराहे त्रिशक्तिमाहात्म्यम् ॥

रौप्यं, क्ली, (रूप्यमेव । अण् ।) रूप्यम् । इति

राजनिर्घण्टः ॥ (यथा, माधे । ४ । ६७ ।
“दर्पणनिर्म्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति
मुहुः ॥”)
तत्करणं यथा, --
“मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् ।
घमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥”
इति गारुडे १८८ अध्यायः ॥
(औषधादिषु अस्यालाभे यद्दातव्यं तद्तथा, --
“सुवर्णमथवा रौप्यं मृतं यत्र न लभ्यते ।
तत्र कान्तेन कर्म्माणि भिषक् कुर्य्याद्विचक्षणः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
तद्विशिष्टे, त्रि । यथा, भागवते । ४ । २५ । १४ ।
“स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्व्वतो गृहैः ॥”)

रौमं, क्ली, (रुमायां लवणाकरे भवम् । रुमा +

अण् ।) शाम्भरिलवणम् । इत्यमरटीकायां
रामाश्रमः ॥

रौमकं, क्ली, शाम्भरिलवणम् । तत्पर्य्यायः । वसु-

कम २ । इत्यमरः ॥ “रुमा नाम नदी लवणा-
करः तत्र भवं रौमकम् । ढधे कादिति ष्णः
रौमं ततः स्वार्थे कः रौमकम् ।” इति तट्टीकायां
भरतः ॥ (पर्य्यायोऽस्य यथा, --
“शाकम्भरीयं कथितं गुडाख्यं रौमकन्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रौमलवणं, क्ली, (रौमं लवणमिति ।) शाम्भरि-

लवणम् । इति रत्नमाला ॥

रौरवः, पुं, (रुरुर्ज्जन्तुविशेषस्तस्यायमिति । रुरु +

अण् ।) नरकविशेषः । घोरः । इति मेदिनी ।
वे, ४९ ॥ आद्यस्य विवरणं यथा, --
“रौरवे कूटसाक्षी तु याति यश्चानृती नरः ।
तस्य स्वरूपं वदतो रौरवस्य निशामय ॥
योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।
जानुमात्रप्रमाणन्तु तत्र श्वभ्रं सुदुस्तरम् ॥
तत्राङ्गारचयो येन कृतं तद्धरणीसमम् ।
जाज्वल्यतातितीव्रेण तापिताम्बरभूमिना ॥
तन्मध्ये पापकर्म्माणं विमुञ्चन्ति यमानुगाः ।
स दह्यमानस्तीव्रेण वह्निना तेन धावति ॥
पदे पदे च पादोऽस्य शीर्य्यते जायते पुनः ।
अहोरात्रेणोद्धरणं पादन्यासं स गच्छति ।
एवं सहस्रं विस्तीर्णे योजनानां विमुच्यते ॥”
इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा-
ध्यायः ॥ (तथाच देवीभागवते । ८ । २२ । ८-११ ।
“एतन्ममाहमिति यो भूतद्रोहेण केवलम् ।
पुष्णाति प्रत्यहं स्वीयकुटुम्बं कार्य्यलम्पटः ॥
एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ।
रौरवे नाम नरके सर्व्वसत्त्वभयावहे ॥
इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ।
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ॥
तस्माद्रौरवमित्याहुः पुराणज्ञा मनिषिणः ।
रुरुः सर्पादपि क्रूरो जन्तुरुक्तः पुरातनैः ॥”)

रौरवः, त्रि, चञ्चलः । धर्त्तः घोरः । इति शब्द-

रत्नावली ॥ (रुरोर्मृगस्येदमिति । अण् । मृग-
सम्बन्धिनि च । यथा, मनुः । २ । ४१ ।
“कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्वेण शाणक्षौमाविकानि च ॥”)

रौहिट्, [ष्] पुं, रौहिषमृगः । यथा । “स

एष रौहिषां मध्ये चरतीति भवभूतिः ।” इत्य-
मरटीकायां भरतः ॥

रौहिणं, क्ली, (रोहिणमेव । स्वार्थे अण् ।)

दिनस्य नवममुहूर्त्तः । यथा । अत्र पूर्ब्बाह्णे
श्राद्धमभिधाय रौहिणन्तु न लङ्घयेदित्यभि-
धानेन पूर्ब्बाह्णश्राद्धस्य सङ्गवात् परो रौहिण-
पर्य्यन्तगौणपूर्ब्बाह्णकालः प्रतीयते । तेन रौहिणं
पूर्ब्बाह्णश्राद्धस्य गौणकालत्वेनोत्तरावधिः अप-
राह्णश्राद्धस्य पूर्ब्बावधिरित्यवगम्यते ततश्च
पूर्ब्बदिने सङ्गवात् परं रौहिणपर्य्यन्तं तिथे-
र्लाभे परदिने मुहूर्त्तत्रयमात्रे तत्तिथिलाभे
पूर्ब्बदिने श्राद्धम् । रौहिणान्तरूपगौणपूर्ब्बाह्ण-
लाभात् न परदिने तथात्वाभावात् । उभय-
दिने सङ्गवलाभे परदिने शुक्लपक्षे तिथिर्ग्राह्या
इति वचनात् । रौहिणन्तु दिवसस्य नवम
मुहूर्त्तस्तस्य ज्योतिषोक्तरोहिणीदैवतत्वात्
रौहिणत्वमिति । इति श्राद्धतत्त्वम् ॥

रौहिणः, पुं, (रुह् + इनन् । स्वार्थे अण् ।)

चन्दनवृक्षः । इति त्रिकाण्डशेषः ॥

रौहिणेयं, क्ली, मरकतमणिः । इति राज-

निर्घण्टः ॥

रौहिणेयः, पुं, (रोहिण्या अपत्यमिति । रोहिणी

+ “शुभ्रादिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।)
बलदेवः । (यथा, महाभारते । १ । १९२ । १९ ।
“तत्रोपविष्टं पृथुदीर्घबाहुं
ददर्श कृष्णः सहरौहिणेयः ॥”)
बुधग्रहः । इत्यमरः ॥ (पुरुषोत्तमस्थतीर्थपञ्च-
कांन्यतमः । यथा, तीर्थतत्त्वे ।
“मार्कण्डेये वटे कृष्णे रौहिणेये महोदधौ ।
इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते ॥”)

रौहिणेयः, त्रि, (रोहिण्या अपत्यमिति । रोहिणी

+ ढक् ।) गोवत्सः । इति मेदिनी । ये, १२७ ॥

रौहिषं, क्ली, (रोहतीति । रुह् + “रुहेर्वृद्धिश्च ।”

उणा० १ । ४८ । इति टिषच् । वृद्धिश्च धातोः ।)
कत्तृणम् । इत्यमरः ॥ रोहिषतृणम् । इति
राजनिर्घण्टः ॥ तन्नामगुणाः ।
“कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा ।
भूतीकं ध्याम पौरञ्च श्यामकं धूपगन्धिकम् ॥
रौहिष तुवरं तिक्तं कटुपाकं व्यपोहति ।
हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान् ॥”
इति भावप्रकाशः ॥ * ॥
अन्यत् कत्तृणशब्दे द्रष्टव्यम् ॥

रौहिषः, पुं, (रुह् + टिषच् । वृद्धिश्च धातोः ।)

मृगविशेषः । इत्यमरः ॥ रोहितमत्स्यः । इत्य-
जयपालः ॥

रौहिषी, स्त्री, (रौहिष् + ङीप् ।) मृगी ।

दूर्व्वा । इति संक्षिप्तसारोणादिवृत्तिः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/रुह&oldid=44054" इत्यस्माद् पुनः प्राप्तिः