शब्दकल्पद्रुमः/रामकर्पूरकः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/१५२

रामकर्पूरकः, पुं, (रामो रमणीयः कर्पूरः ।

ततः स्वार्थे संज्ञायां वा कन् ।) स्वामख्यात-
तृणम् । यथा, --
“सौगन्धिकञ्च सौगन्धं रामकर्पूरके तृणे ।”
इति शब्दरत्नावली ॥

रामगिरिः, पुं, (रामाश्रितो गिरिः । रामो

रमणीयो गिरिर्वा ।) पर्व्वतविशेषः । चित्र-
कूटपर्व्वतः । इति कश्चित् ॥ यथा, --
“कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तं गमितमहिमा वर्षभोग्येन भर्त्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु ॥”
इति मेघदूतः ॥ १ ॥

रामचन्द्रः, पुं, (रामश्चन्द्र इवाह्लादकत्वात् ।)

श्रीरामः । इति शब्दरत्नावली ॥ (लक्ष्मण-
भट्टसुतः स्वनामख्यातः कविविशेषः । स तु
अयोध्यानगरे वैराग्यशृङ्गारार्थद्वयोपेतं सटीकं
रसिकरञ्जनं नाम काव्यं प्रणीतवान् । तस्यादि-
मश्लोको यथा, --
“शुभारम्भेऽदम्भे महितमतिडिम्भे ङ्गितशतं
मणिस्तम्भेरम्भे क्षणसकुचकुम्भे परिणतम् ।
अनालम्बे लम्बे पथि पदविलम्बेऽमितसुखं
तमालम्बे स्तम्बेरमवदनमम्बेक्षितमुखम् ॥”
एतट्टीकान्तिमश्लोकौ यथा, --
“शृङ्गारवैराग्यशतं सपञ्च-
विंशत्ययोध्यानगरे व्यधत्त ।
अब्दे वियद्वारणबाणचन्द्रे
श्रीरामचन्द्रोऽनु च तस्य टीकाम् ॥
श्रीरामन्द्रकविना काव्यमिदं व्यरचि विरति-
बीजतया ।
रसिकानामपि रतये शृङ्गारार्थोऽपि संगृहीतो-
ऽत्र ॥”
एतत्कविप्रणीतानि रोमावलीशतकप्रभृतीन्य-
न्यान्यपि काव्यानि दृश्यन्ते ॥)

रामच्छर्द्दनकः, पुं, (रामं मनोज्ञत्वं छर्द्दयति ।

छर्द्दि + ल्युः । स्वार्थे कन् ।) मदनवृक्षः । इति
भावप्रकाशः ॥ क्वचित् पुस्तके रामाच्छर्दनकः
इति च पाठः ॥ (गुणादयोऽस्य मदनशब्दे
विज्ञेयाः ॥)

रामजननी, स्त्री, (रामस्य जननी ।) बलदेव-

माता । यथा, --
“रोहिणी रामजननी रोहिणिश्च बलप्रसूः ॥”
इति शब्दरत्नावली ॥
कौशल्या । रेणुका च ॥

रामठं, क्ली, (रम्यतेऽनेनेति । रम + “रमेर्वृद्धिश्च ।”

उणा० १ । १०३ । इति अठः वृद्धिश्च धातोः ।)
हिङ्गु । इत्यमरः । १ । १०३ ॥ (यथा, सुश्रुते ।
५ । १ ।
“तत्र नस्याञ्जने कुष्ठं रामठं नलदं मधु ।
कुर्य्यात् शिरीषरजनीचन्दनैश्च प्रलेपनम् ॥”)

रामठः, पुं, (रम् + अठः । वृद्धिश्च ।) अङ्कोठ-

वृक्षः । इति रत्नमाला ॥ (जनपदविशेषः ।
यथा, बृहत्संहितायाम् । १० । ५ ।
“रौद्रस्थे पारतरामठतैलिकरजकचौराश्च ॥”
तद्देशवासिनश्च । यथा, महाभारते । २ । ३२ । १२ ।
“रामठन् हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ।
तान् सर्व्वान् स वशे चक्रे शासनादेव पाण्डवः ॥”)

रामठी, स्त्री, (रामठ + स्त्रियां ङीष् ।) नाडी-

हिङ्गु । इति राजनिर्घण्टः ॥

रामणः, पुं, गिरिनिम्बः । तिन्दुकः । इति राज-

निर्घण्टः ॥

रामणीयकं, त्रि, रमणीयम् । इत्यमरटीका ॥

(यथा, महाभारते । १ । २६ । ८ ।
“रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः ॥”
रामणीयकं रमणीयं द्बीपमिति शेषः ॥
क्ली, रमणीयस्य भावः कर्म्म वा । रमणीय +
“योपधाद्गुरूपोत्तमाद्बुञ् ।” ५ । १ । १३२ ।
इति वुञ् । रमणीयत्वम् ॥ यथा, किराते ।
१ । ३९ ।
“पुरोपनीतं नृप ! रामणीयकं
द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं
परैति कार्श्यं यशसा समं वपुः ॥”)

रामतरुणी, स्त्री, (रामा मनोहरा तरुणीव ।)

तरुणीपुंष्पम् । इति राजनिर्घण्टः ॥ सेउती
इति भाषा ॥

रामदूतः, पुं, (रामस्य दूतः ।) हनूमान् । इति

शब्दरत्नावली ॥

रामदूती, स्त्री, (रामस्य दूतीव । विष्णुप्रियत्वात् ।)

तुलसीविशेषः । तत्पर्य्यायः । पर्व्वपुष्पी २
विशल्या ३ नागदन्तिका ४ काण्डली ५ सूक्ष्म-
पर्णी ६ भरण्याह्वा ७ फणिज्झका ७ । इति
शब्दचन्द्रिका ॥

रामनवमी, स्त्री, (रामस्य जन्मतिथिरूपा नवमी ।

मध्यपदलोपिकर्म्मधारयः ।) चैत्रशुक्लनवमी । सा
च श्रीरामचन्द्रस्य जन्मतिथिः । यथा, --
“अगस्त्यसंहितायाम् ।
‘चैत्रे मासि नवम्यान्तु जातो रामः स्वयं
हरिः ।
पुनर्व्वस्वृक्षसंयुक्ता सा तिथिः सर्व्वकामदा ॥
पुनर्व्वस्वृक्षसंयोगः स्वल्पोऽपि यदि लभ्यते ।
चैत्रशुक्लनवम्यान्तु सा तिथिः सर्व्वकामदा ॥
श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका ।
तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ।
यत्किञ्चित् क्रियते कर्म्म तद्भवक्षयकारकम् ॥
उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् ।
तस्मिन् दिने तु कर्त्तव्यं ब्रह्मप्राप्तिमभीप्सुभिः ॥’
चैत्रपदं चान्द्रपरम् ।
‘मेषं पूषणि संप्राप्ते लग्ने च कर्कटाह्वये ।
आविरासीत् सकलया कौशल्यायां परःपुमान् ॥’
अत्र मेषस्थसूर्य्ये चान्द्रचैत्रस्यैव सम्भवात् तिथि-
कृत्यत्वाच्च । तथा ।
‘तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ।
जपेदेकान्त आसीनो यावत् स्याद्दशमीदिनम् ॥
तेनैव स्यात् पुरश्चर्य्या दशम्यां भोजयेद्द्विजान् ।
भक्ष्यभोज्यैर्ब्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् ।
कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति ॥’
तथा ।
‘चैत्रशुक्ला तु नवमी पुनर्व्वसुयुता यदि ।
सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥
नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ।
उपोषणं नवम्यान्तु दशम्यामेव पारणम् ॥’
एतद्वचनद्बयं कालमाघवीयेऽपि । किन्तु महा-
पुण्या इत्यत्र महाफलेति पाठः । शुद्धेति-
श्रवणात् सर्व्वत्र शुद्धायामृक्षादरो न विद्धाया-
मिति । अतएवाष्टमीविद्धा नवमी सनक्षत्रापि
नोपोष्या । इति माधवाचार्य्यः ॥ सैव तादृश्येव
नतु विद्धा । यदा तु परदिने एकादश्यां दशमी
पारणयोग्या तदा दशमीयुक्ता नवम्युपोष्या ।
वैष्णवैर्विष्णुपरायणैरितिश्रवणात् । अवैष्णवैस्तु
अष्टमीविद्धैव ग्राह्या । यदा तु पूर्ब्बदिने अष्टमी-
विद्धा नवमी परत्र दशमीयुता नवमी एका-
दशीदिने च न पारणयोग्या दशमी तदा
नक्षत्रयोगायोगेऽप्यष्टमीविद्धैव ग्राह्या । परदिने
दशम्यामेव पारणमिति नियमात् । तथा च
रामार्च्चनचन्द्रिकायाम् ।
‘दशम्यादिषु वृद्धिश्चेत् त्याज्या विद्धैव वैष्णवैः ।
तदन्येषान्तु सर्व्वेषां व्रतं तत्रैव निश्चितम् ॥
दशम्यामेवशब्देन दशमीं नैव लङ्घयेत् ।
निश्चित्यैवं विचारेण नवमीव्रतमाचरेत् ॥’
इति कारिकाभ्यामगस्त्यसंहिताव्याख्यानम् ॥
वस्तुतस्तु दशमीपारणसत्त्वे सर्व्वैरेवाष्टमीबिद्धा
नोपोष्या । विष्णुपरायणैरिति तु विष्णुपरायण-
त्वेन भवितव्यमित्युपदेशपरं न तु कर्त्तृविशे-
षणम् । अगस्त्येनावैष्णवस्य विद्धोपवासानुप-
देशात् । कर्त्तृभेदे विधिद्बयकल्पनापत्तेश्च । अत-
एव माधवाचार्य्येण सामान्यत एव विद्धा
निषिद्धा । अगस्त्यसंहितायामस्य नित्यत्वमाह ।
‘प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः ।
उपोषणं न कुरुते कुम्भीपाकेषु पच्यते ॥
यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद्विमूढधीः ।
कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ॥’
अत्र मर्त्य इत्युपादानात् नरमात्रस्याधिकारः ।
एवञ्च ।
‘कुर्य्याद्रामनवम्यां य उपोषणमतन्द्रितः ।
मातुर्गर्भमवाप्नोति नैव रामो भवेत् खयम् ॥
तस्मात् सर्व्वात्मना सर्व्वे कृत्वैवं नवमीव्रतम् ।
मुच्यन्ते पातकैः सर्व्वैर्यान्ति ब्रह्म सनातनम् ॥’
इति फलकीर्त्तनं प्रागुक्तसंयोगपृथक्त्वन्यायात्
सिद्धम् । अगस्त्यसंहितायाम् ।
‘शालग्रामशिलायाञ्च तुलसीदलकल्पिता ।
पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका ॥’
पृष्ठ ४/१५३
तत्रानुष्ठानं अगस्त्यसंहितातः संक्षिप्य लिख्यते ।
कृतप्रातःस्नानादिः ।
‘उपोष्य नवमीन्त्वद्य यामेष्वष्टसु राघव ।
तेन प्रीतो भव त्वंभो संसारात्त्राहि मां हरे ॥’
इति निवेद्य ॥
‘कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम् ।
दक्षिणांशे दशरथं पुत्त्रावेक्षणतत्परम् ॥
पृष्ठतो लक्षणं देवं सच्छत्रं कनकप्रभम् ।
पार्श्वै भरतशत्रुघ्नौ तालवृन्तकरावुभौ ।
अग्रे व्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम् ॥’
एवं ध्यात्वा श्रीरामं पूजयेत् । स्नानमन्तस्तु ।
‘इन्द्रोऽग्निश्च यमश्चैव नैरृतो वरुणोऽनिलः ।
कुवेर ईशो ब्रह्माहिर्दिक्पालाः स्नापयन्तु ते ॥’
अहिरनन्तः । कौशल्यां पूजयेत् । मन्त्रस्तु ।
‘रामस्य जननी चासि राममयमिदं जगत् ।
अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥’
तथा ।
‘नमो दशरथायेति पूजयेत् पितरं ततः ।
ततोऽनुज्ञाप्य देवेशं परिवारान् समर्च्चयेत् ।
पूर्ब्बषट्कोणकोणेषु हृदयादीनि च क्रमात् ॥’
हृदयादीनि यथा । रां हृदयाय नमः । रीं
शिरसे स्वाहा । रूं शिखायै वषट् । रैं कव-
चाय हुम् । रौं नेत्राभ्यां वौषट् । रः अस्त्राय
फट् । तथा, --
‘हनूमन्तं ससुग्रीवं भरतं सविभीषणम् ।
लक्ष्मणाङ्गदशत्रुघ्नं जाम्बवन्तं दलादिषु ॥
धूम्रं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् ।
अकोपं धूम्रपालाख्यं सुमन्त्रं दलमध्यतः ।
दलाग्रे लोकपालांश्च तदस्त्राणि तदग्रतः ॥’
लोकपाला इन्द्रादयो दश । तदस्त्राणि वज्र-
शक्तिदण्डखड्गपाशाङ्कुशगदाशूलपद्मचक्राणि ।
मध्याह्ने जन्म भावयेत् ।
‘उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां
तिथौ
लग्ने कर्कटके पुनर्व्वसुदिन मेर्ष गते पूषणि ।
निर्दग्धुं निखिलाः पलाशसमिधो मध्याद-
योध्यारणे-
राविर्भूतमभूदपूर्ब्बविभवं यत्किञ्चिदेकं महः ॥’
पलाशा राक्षसाः ।
‘मत्वैवं वादयेद्वाद्यानर्घ्यं दद्याज्जगत्पतेः ।
फलपुष्पाम्बुसंपूर्णं गृहीत्वा शङ्खमुत्तमम् ।
अशोकरत्नकुसुमैर्युक्तञ्च तुलसीदलैः ॥’
मन्त्रस्तु ।
‘दशाननवधार्थाय धर्म्मसंस्थापनाय च ।
दानवानां विनाशाय दैत्यानां निधनाय च ॥
परित्राणाय साधूनां रामो जातः स्वयं हरिः ।
गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितो मम ॥
पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामेष्वतन्द्रितः ।
पूजयेद्विधिवद्भक्त्या दिवारात्रं नयेद्बुधः ॥’
तदयं संक्षेपः । शुद्धायां नक्षत्रयुक्तायां
विवादाभावः । विद्धायान्तु एकादशीदिने
दशमी पारणयोग्या न चेत् तदा नक्षत्रयोगा-
योगेऽपि अष्टमीविद्धायाम् । पारणयोग्या चेत्
तदा अष्टमीविद्धां त्यक्त्वा परेऽहनि उपवासः ।”
इति तिथ्यादितत्त्वम् ॥

रामपूगः, पुं, (रामो रमणीयः पूगः ।) गुवाक-

विशेषः । तत्पर्य्यायः । कामीनः २ मुनिपूगः ३
मुरेवटः ४ । इति त्रिकाण्डशेषः ॥

रामबाणः, पुं, (रामस्य बाण इव सफलत्वात् ।)

औषधविशेषः । यथा । रसेन्द्रचिन्तामणौ ।
“पारदामृतलवङ्गगन्धकं
भागयुग्ममरिचेन मिश्रितम् ।
तत्र जातिफलमर्द्धभागिकं
तित्तिलीफलरसेन मर्द्दितम् ॥
वह्निमान्द्यदशवक्त्रनाशनो
रामबाण इति विश्रुतो रसः ।
संग्रहग्रहणीकुम्भकर्णक-
मामवातखरदूषणं जयेत् ॥
दीयते तु चणकानुमानतः
सद्य एव जठराग्निदीपनः ।
रोचकः कफकुलान्तकारकः
श्वासकासवमिजन्तुनाशनः ॥”
पाराभागः १ विषभागः १ लवङ्गभागः १
गन्धकभागः १ मरिचभागः ८ जायफलभागः २ ।
रामबाणो रसोऽजीर्णे । इति भावप्रकाशः ॥
(शरवृक्षभेदः । इति राजनिर्घण्टः ॥ राम-
शरश्च ॥)

रामभद्रः, पुं, (राम एव भद्रो मङ्गलजनकत्वात् ।)

श्रीरामः । इति शब्दरत्नावली ॥ (यथा, कथा-
सरित्सागरे । ३४ । २३६ ।
“लोकश्च सर्व्वदा रक्ष्यस्तत्प्रवादेन किं पुरा ।
रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥”)

रामलवणं, क्ली, (रामं रमणीयं लवणम् ।)

शाम्भरिलवणम् । तत्पर्य्यायः । रोमकम् २
पाश्चात्याकरसम्भवम् ३ । इति रत्नमाला ॥

रामवल्लभं, क्ली, (रामं रमणीयं वल्लभञ्च ।)

त्वचम् । इति राजनिर्घण्टः ॥ (रामस्य वल्लभम् ।)
रामप्रिये, त्रि ॥

रामवीणा, स्त्री, (रामा रमणीया वीणा ।)

वीणाविशेषः । यथा, शब्दरत्नावली ॥
“कुञ्ची च कच्छपीवीणा वीणा तुम्बुरुनारदी ।
सारस्वती केलिकला रामवीणा बलाञ्चिता ॥”

रामशरः, पुं, (रामस्य शर इव ।) शरवृक्षभेदः ।

तत्पर्य्यायः । रामकाण्डः २ रामबाणः ३
रामेषुः ४ अपर्व्वदण्डः ५ दीर्घः ६ नृपप्रियः ७ ।
तस्य मूलगुणाः । ईषदुष्णत्वम् । रुचिप्रदत्वम् ।
रसे अम्लत्वम् । कषायत्वम् । पित्तकारित्वम् ।
कफवातनाशित्वञ्च । इति राजनिर्घण्टः ॥
(रामचन्द्रस्य बाणोऽपि ॥)

रामशीतला, स्त्री, आरामशीतला । इति राज-

निर्घण्टः ॥

रामसखः, पुं, (रामस्य सखा । “राजाहःसखि-

भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) सुग्रीवः ।
इति शब्दरत्नावली ॥

रामसेनकः, पुं, भूनिम्बः । (अस्य पर्य्यायो यथा, --

“किराततिक्तः कैरातः कटुतिक्तः किरातकः ।
काण्डतिक्तो नार्य्यतिक्तो भूनिम्बो रामसेनकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कट्फलः । इति राजनिर्घण्टः ॥

रामा, स्त्री, (रमते रमयतीति वा । रम +

ज्वलादित्वात् णः । टाप् । रमतेऽनयेति ।
करणे घञ् वा ।) उत्कृष्टस्त्रीविशेषः । इत्य-
मरः । २ । ६ । ४ ॥ गीतकलाभी रमते रामा ।
इति भरतः ॥ (यथा, भागवते । ३ । २३ । ४३ ।
“विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् ।
रामां निरमयन् रेमे वर्षपूगान् मुहूर्त्तवत् ॥”)
योषा । (यथा, रघुः । ५ । ४९ ।
“स च्छिन्नबन्धद्रुतयुग्यशून्यं
भग्नाक्षपर्य्यन्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं
सेनानिवेशं तुमुलं चकार ॥”)
हिङ्गु । नदी । इति मेदिनी ॥ हिङ्गुलम् । इति
शब्दरत्नावली ॥ श्वेतकण्टकारी । गृहकन्या ।
आरामशीतला । अशोकः । गोरोचना । इति
राजनिर्घण्टः ॥ वाला । गैरिकम् । इति शब्द-
चन्द्रिका ॥

रामायणं, क्ली, (रामस्य चरितान्वितं अयनं

शास्त्रम् ।) रामेण रावणवधकाव्यम् । इति
त्रिकाण्डशेषः ॥ तच्च शतकोटिसंख्यकम् । यथा ।
स्कान्दे पातालखण्डे अयोध्यामाहात्म्ये तत्रत्य-
तीर्थाश्रमवर्णनप्रस्तावे ।
“शापोक्त्या हृदि सन्तप्तं प्राचेतसमकल्मषम् ।
प्रोवाच वचनं ब्रह्मा तत्रागत्य सुसत्कृतः ॥
न निषादः स वै रामो मृगयाञ्चर्त्तुमागतः ।
तस्य संवर्णनेनैव सुश्लोक्यस्त्वं भविष्यसि ॥
इत्युक्त्वा तं जगामाशु ब्रह्मलोकं सनातनः ।
ततः संवर्णयामास राघवं ग्रन्थकोटिभिः ॥”
कोटिभिः शतकोटिभिः । चरितं रघुनाथस्य
शतकोटिप्रविस्तरमित्यन्यत्रोक्तेः । तच्च संपूर्णं
ब्रह्मलोके इत्यैतिह्यम् ॥ इह तु कुशलवोपदिष्टा
चतुर्विंशतिसाहस्रीत्यलम् । इति रामायण-
टीकायां नागोजीभट्टः ॥ * ॥ तथा हि ।
“प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवान् ऋषिः ।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवान् ऋषिः ।
तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम् ॥
इति रामायणे वाल्मीकीये बालकाण्डे ३ सर्गः ॥
संक्षिप्तरामचरित्रं यथा, --
“रामायणमथो वक्ष्ये श्रुतं पापविनाशनम् ।
विष्णुनाभ्यब्जजो ब्रह्मा मरीचिस्तत्सुतः स्मृतः ॥
मरीचेः कश्यपस्तस्मात् परस्तस्मात् मनुः सुतः ।
मनोरिक्षाकुवंश्योऽभूद्वंशे राजा रघुः स्मृतः ॥
रघोरजस्ततो जातो राजा दशरथो बली ।
तस्य पुत्त्रास्तु चत्वारो महाबलपराक्रमाः ॥
कौशल्यायामभूद्रामो भरतः केकयीसुतः ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः ॥
पृष्ठ ४/१५४
रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् ।
अस्त्रग्रामं यतो यक्षीं ताडकां प्रजघान ह ॥
विश्वामित्रस्य यज्ञे तु सुबाहुं न्यवधीद्बली ।
जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् ॥
उर्म्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् ।
शत्रुघ्नो वै कीर्त्तिमतीं कुशध्वजसुते च ते ॥
पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः ।
युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ ॥
गतयोर्नृपवर्य्येण राज्यं दातुं समुद्यतम् ।
रामाय ज्येष्ठपुत्त्राय कैकेय्या प्रार्थितं तदा ।
चतुर्द्दशसमा वासो वने रामस्य वाञ्छितः ॥
रामः पितृहितार्थन्तु लक्ष्मणेन च सीतया ।
राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः ।
रथं त्यक्त्वा प्रयागञ्च चित्रकूटं गिरिं गतः ॥
रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः ।
संस्कृत्य भरतश्चागात् रामं मातृबलान्वितः ॥
अयोध्यान्तु समागत्य राज्यं कुरु महामते ।
स नैच्छत् पादुके दत्त्वा राज्याय भरताय तु ॥
विसर्ज्जितोऽथ भरतो रामराज्यमपालयत् ।
नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥
रामोऽपि चित्रकूटाच्च अत्रेराश्रममाययौ ।
नत्वा अभीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥
तत्र सूर्पनखा नाम राक्षसीसार्द्धमागता ।
निकृत्य कर्णौ नासे च रामेणाथ पराहिता ॥
तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा ।
चतुर्द्दशसहसेण रक्षसान्तु बलेन च ॥
रामोऽपि प्रेषयामास वाणैर्यमपुरञ्च तान् ।
राक्षस्या प्रेरितोऽभ्यागात् रावणो हरणाय हि ॥
मृगरूपं स मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक् ।
सीतया प्रेरितो रामो मारीचं प्रजघान ह ॥
म्रियमाणः स च प्राह हा सीते लक्ष्मणेति च ।
सीतोक्तो लक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम् ॥
उवाच राक्षसी माया नूनं सीता हृतेति सा ।
रावणोऽन्तरमासाद्य अङ्केनादाय जानकीम् ॥
जटायुषं विनिर्ज्जित्य ययौ लङ्कां ततो बली ।
अशोकवृक्षच्छायायां रक्षितां तामधारयत् ॥
आगत्य रामः शून्यञ्च पर्णशालां ददर्श ह ।
शोकं कृत्वाथ जानक्या मार्गणं कृतवान् प्रभुः ॥
जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् ।
गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥
सप्ततालान् विनिर्भिद्य शरेणानतपर्व्वणा ।
वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥
सुग्रीवं कृतवान् रामो ऋष्यमूके स्वयं स्थितः ।
सुग्रीवः प्रेषयामास वानरान् पर्व्वतोपमान् ॥
सीताया मार्गणं कर्त्तुं पूर्ब्बाद्यैः सुमहाबलान् ।
प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥
दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम् ।
वनानि पर्व्वतान् द्वीपान् नदीनां पुलिनानि च ॥
जानकीं ते ह्यपश्यन्तो मरणे कृतनिश्चयाः ।
सम्पातिवचनात् ज्ञात्वा हनूमान् कपिकुञ्जरः ॥
शतयोजनविस्तीर्णं पुप्लुवे मकरालयम् ।
अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम् ॥
भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा ।
भव भार्य्येति वदता चिन्तयन्तीञ्च राघवम् ॥
अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् ।
रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि ॥
अभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति ।
तत् श्रुत्वा प्रददौ सीता वेणी रत्नं हनूमते ॥
यथा रामो नयेत् शीघ्रं तथा वाच्यं त्वया गते ।
तथेत्युक्त्वा तु हनुमान् वनं दिव्यं बभञ्ज तत् ॥
हत्वाक्षं राक्षसांञ्चान्यान् बन्धनं स्वयमागतः ।
सर्व्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥
रामदूतोऽस्मि हनुमान् देहि रामाय मैथि-
लीम् ।
एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥
कपिज्र्ज्वलितलाङ्गूलो लङ्कागेहे महाबलः ।
दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥
जग्ध्वा फलं मधुवने दृष्ट्वा सीतेत्यवेदयत् ।
मणिरत्नञ्च रामाय रामो लङ्कां ययौ पुरीम् ॥
ससुग्रीवः सहनुमानङ्गदाद्यः सलक्ष्मणः ।
विभीषणोऽपि संप्राप्तः शरणं राववं प्रति ॥
लङ्कैश्वर्य्येष्वभ्यसिञ्चद्रामस्तं रावणानुजम् ।
रामो नलेन सेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम् ॥
सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्श ह ।
अथ ये वानरा वीरा नीलाङ्गदनलादयः ॥
धूम्रधूम्राक्षधूम्रेन्द्रा जाम्बवत्प्रमुखास्तदा ।
मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां नभञ्जिरे ॥
राक्षसांश्च महाकायान् कालाञ्जनचयोपमान् ।
रामः सलक्ष्मणो हत्वा सकपिः सर्व्वराक्षसान् ॥
विद्युज्जिह्वञ्च घूभ्राक्षं वेदान्तकनरान्तकौ ।
महोदरमहापार्श्वावतिकायं महाबलम् ॥
कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् ।
प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥
रावणिं लक्ष्मणश्छित्त्वा ह्यस्त्राद्यै राघवो बली ।
निकृत्य बाहू वक्त्राणि रावणन्तु व्यपातयत् ॥
सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः ।
सवानरः समायातो ह्ययोध्याप्रवरं पुरम् ॥
तत्र राज्यं चकाराथ पुत्त्रवत् पालयन् प्रजाः ।
दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥
पिण्डानां विधिवत् कृत्वा दत्त्वा दानानि राघवः ।
पुत्त्रौ कुशलवौ सृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥
एकादशसहस्राणि रामो राज्यमकारयत् ।
शत्रुघ्नो लवणं हत्वा शैलूषं भरतः स्थितः ॥
अगस्त्यादीन् मुनीन् श्रुत्वा श्रुत्वोत्पत्तिञ्च रक्ष-
साम् ।
स्वर्गं गतो जनैः सार्द्धमयोध्यां वैकृतान्तकः ॥”
इति गारुडे १४८ अध्यायः ॥ * ॥
एतदतिरिक्तं वाल्मीकिप्रणीतं सप्तविंशतिसर्ग-
युक्तं सहस्रश्लोकात्मकं सीताकर्त्तृकसहस्रकन्ध-
रावणवधकाव्यरूपाद्भुतोत्तरकाण्डमस्ति । तस्य
प्रथमसर्गीयश्लोका यथा, --
“तमसातीरनिलयं सर्व्वेषां तपसां गुरुम् ।
वचसां प्रथमं स्थानं वाल्मीकं मुनिपुङ्गवम् ॥
विनयावनतो भूत्वा भारद्बाजो महामुनिः ।
पप्रच्छ सम्मतः शिष्यः कृताञ्जलिपुटो वशी ॥
रामायणमितिख्यातं शतकोटि प्रविस्तरम् ।
प्रणीतं भवता यच्च ब्रह्मलोके प्रतिष्ठितम् ॥
श्रूयते ब्रह्मणा नित्यमृषिभिः पितृभिः सुरैः ।
पञ्चविंशतिसाहस्रं रामायणमिदं भुवि ।
तदाकर्णितमस्ताभिः सावशेषं महामुने ॥
शतकोटिप्रविस्तारे रामायणमहार्णवे ।
किं गीतमिह यन्नास्ति तन्मे कथय सुव्रत ॥
आकर्ण्यादरिणः पृष्टं भरद्बाजस्य वै मुनिः ।
हस्तामलकवत् सर्व्वं सस्मार शतकोटिकम् ॥
ओमित्युक्त्वा मुनिः शिष्यं प्रोवाच वदतां वरः ।
भारद्वाज चिरं जीव साधु स्मारितमद्य नः ॥
शतकोटिप्रविस्तारे रामायणमहार्णवे ।
रामस्य चरितं सर्व्वमाश्चर्य्यं सम्यगीरितम् ॥
पञ्चविंशतिसाहस्रं नृलोके यत् प्रतिष्ठितम् ।
नृणां हि सदृशं रामचरितं वर्णितं मया ।
सीतामाहात्म्यसारं यत् विशेषादत्र नोक्त-
वान् ।
शृणुष्वावहितो ब्रह्मन् काकुत्स्थचरितं महत् ।
सीताया मूलभूतायाः प्रकृतेश्चरितञ्च यत् ॥”
इत्याद्यार्षे रामायणे वाल्मीकीये अद्भुतोत्तर-
काण्डे आदिकाव्ये प्रथमः सर्गः ॥ * ॥ अन्यत् ब्रह्माण्ड
पुराणीयोत्तरखण्डान्तर्गतैकषष्टितमाध्यायादिक-
हरपार्व्वती-संवादरूपाध्यात्म-रामायणमस्ति ।
तत्र अध्यात्मबालकाण्डे सर्गाः सप्तैव शम्भु-
नोद्दिष्टाः षष्ट्युत्तरत्रिशतश्लोकाः मोक्षप्रदा
नृणाम् १ । अध्यात्मरामचरिते अयोध्याकाण्डे
नवानां सर्गाणां सप्तशतानि श्लोकाः पुण्यमोक्ष-
प्रदाः २ । काण्डेऽरण्येऽध्यात्माख्ये सर्गा द्विपञ्च
परिक्षिप्ताः पञ्चशतानि श्लोकाः पापहराः
पार्व्वतीशोक्ताः ३ । श्रीमदध्यात्मरामायणे उमा-
महेश्वरसंवादे किष्किन्ध्याकाण्डे नवमः सर्गः
पञ्चशतानि श्लोकाः दुरितहरा पञ्चपञ्चाशत् ४ ।
सुन्दरकाण्डे सर्गाः पञ्चैवाध्यात्मिकशब्दिते
प्रोक्तास्त्रीणि शतानि श्लोकास्त्रिभुवनपाप-
हराः ५ । काण्डे युद्धात्मके सर्गा नवसप्त नील-
कण्डोक्ताः सार्द्धैकादशशतश्लोका मनुसंख्यायुता-
पुण्याः ६ । अध्यात्मोत्तरकाण्डे सर्गाः ग्रह-
संख्यया प्रक्षिप्ता ऋतुशतसंख्यश्लोकाः ७ ।
पुराणसंख्याश्च पुरा हरेणोक्ताः ।
“पार्व्वत्यै परमेश्वरेण गदिते ह्यध्यात्मरामायणे
काण्डैः सप्तभिरन्वितेऽतिशुभदे सर्गाश्चतुः-
षष्टिकाः ।
श्लोकानान्तु शतद्वयेन सहिता युक्तानि चत्वारि
सा-
हस्राण्येव समासतः श्रुतिशते सूक्तानि तत्त्वा-
र्थतः ॥”
इत्यध्यात्मरामायणम् ॥ * ॥
अपरं रामवशिष्ठसंवादरूपमोक्षोपायकदेव-
हूतोक्तवाशिष्ठनामकमहारामायणमस्ति । तत्र
प्रथमार्द्धे अष्टाविंशत्यूत्तरशतसर्गाः । तस्य
आद्यन्तश्लोकौ यथा, --
पृष्ठ ४/१५५
श्रीवाल्मीकिरुवाच ।
“उपशमप्रकरणादनन्तरमिदं शृणु ।
तन्निर्व्वाणप्रकरणं ज्ञातं निर्व्वाणदायि यत् ॥ १ ॥
य इमं शृणुयान्नित्यं विधिं रामवशिष्ठयोः ।
सर्व्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म ऋच्छति ॥ २ ॥
उत्तरार्द्धे षोडशोत्तरद्बिशतसर्गाः । तस्या-
द्यन्तश्लोकौ यथा, --
श्रीराम उवाच ।
“नैष्कर्म्म्यात् कल्पनात्यागात् तनुः पतति
रोहितः ।
कथमेतदता ब्रह्मन् सम्भवत्याशु जीवतः ॥ १ ॥
यत् तर्व्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् ।
श्रुत्या ह्युदीर्य्यते साम्नि तस्मै ब्रह्मात्मने नमः ॥” २ ॥
अत्रादौ वैराग्यप्रकरणग्रन्थः । द्वितीयो मुमुक्षु-
ग्रन्थः । तृतीय उत्पत्तिग्रन्थः । चतुर्थः स्थिति-
ग्रन्थः । पञ्चमः सकलोपशमग्रन्थः । षष्ठप्रक-
रणे निर्व्वाणग्रन्थः । पूर्ब्बार्द्धे सटीकग्रन्थ-
संख्या १३६०० । उत्तरार्द्धे सटीकग्रन्थसंख्या
२३९०० । इति श्रीमहारामायणे निर्व्वाणप्रक-
रणे बालकाण्डे मोक्षोपाये देवहूतोक्ते द्बात्रिं-
शत्साहस्र्यां संहितायां वाशिष्ठे ब्रह्मदर्शने
उत्तरार्द्धे षोडशोत्तरद्विशततमः सर्गः ॥

रामालिङ्गनकामः, पुं, (रामाणामालिङ्गनस्य

कामोऽभिलाषो यस्मात् ।) रक्ताम्लानः । इति
राजनिर्घण्टः ॥

रामावक्षोजोपमः, पुं, (रामावक्षोजयोः स्त्रीस्तनयो-

रुपमा यत्र ।) चक्रवाकः । इति राजनिर्घण्टः ।

रामिलः, पुं, रमणम् । कामः । इति मेदिनी ॥

ले, १२७ ॥

राम्भः, पुं, (रम्भस्य विकारः । रम्भ + “पला-

शादिभ्यो वा ।” ४ । ३ । १४१ । इत्यञ् ।)
व्रते वेणुकृतो दण्डः । रम्भो वेणुः तस्य
विकारः । इत्यमरभरतौ । २ । ७ । ४५ ॥

रायणं, क्ली, पीडा । इति काचित् शब्दरत्ना-

वली ॥

रायभाटी, स्त्री, नदीस्रोतोविशेषः । आओड्

इति भाषा । यथा, --
“पूरोढि पात्रसङ्कारो रायभाटी समाह्वरे ।”
इति शब्दरत्नावली ॥

रालः, पुं, सालवृक्षनिर्यासः । धुना इति भाषा ।

तत्पर्य्यायः । सर्ज्जरसः २ सालः ३ कनक-
लोद्भवः ४ ललनः ५ सालनिर्यासः ६ देवेष्टः ७
शीतलः ८ बहुरूपः ९ सालरसः १० सर्ज्ज-
निर्यासकः ११ सुरभिः १२ सुरधूपः १३ यक्ष-
धूपः १४ अग्निवल्लभः १५ कलः १६ कल-
लजः १७ । अस्य गुणाः । शिशिरत्वम् ।
स्निग्धत्वम् । कषायत्वम् । तिक्तत्वम् । संग्रह-
त्वम् । वातपित्तस्फोटकण्डूव्रणनाशित्वञ्च । अस्य
पानलेपगुणौ । शिशिरत्वम् । प्रदरामयशान्ति-
कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“रालस्तु सालनिर्यासस्तथा सर्ज्जरसः स्मृतः ।
देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥
रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् ।
दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः ।
ग्रहभग्नाग्निदग्धांश्चमूलातीसारनाशनः ॥”
इति भावप्रकाशः ॥

रालकार्य्यः, पुं, (रालस्य सालरसस्य कार्य्यं यत्र ।)

सालवृक्षः । इति राजनिर्घण्टः ॥

रावः, पुं, (रवणमिति । रु ल ध्वनौ + भावे

घञ् ।) शब्दः । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १ । २१ । १८ ।
“गम्भीरं तिमिमकरोग्रसंकुलं तं
गर्ज्जन्तं जलचररावरौद्रनादैः ।
विस्तीर्णं ददृशतुरम्बरप्रकाशं
तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥”)

रावणः, पुं, (रवणस्यापत्यमिति । रवण +

“शिवादिभ्योऽण् ।” ४ । १ । ११२ । इति
अण् । यद्वा, रावयति भीषयति सर्व्वानिति ।
रु + णिच् + ल्युः ।) लङ्काधिपतिः । तत्पर्य्यायः ।
पौलस्त्यः २ रक्षः ३ लङ्केशः ४ दशकन्धरः ५ ।
इति हेमचन्द्रः ॥ दशकण्ठः ६ निकषात्मजः ७
राक्षसेन्द्रः ८ लङ्केशः ९ पङ्क्तिग्रीवः १० दशा-
ननः ११ । इति शब्दरत्नावली ॥ लङ्कापतिः १२
दशास्यः १३ । इति जटाधरः ॥ (अस्य
निरुक्तिर्यथा, रामायणे ।
“यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना वीरो भवि-
ष्यसि ॥”)
तस्योत्पत्तिनाशौ यथा, --
सूत उवाच ।
“मानवस्य नरैष्यन्त आसीत् पुत्त्रो दमः किल ।
नवमस्तस्य दायादस्तृणबिन्दुरिति स्मृतः ॥
तस्य कन्या इडविडा रूपेणाप्रतिमा भुवि ।
पुलस्त्याय स राजर्षिस्तां कन्यां प्रव्यपादयत् ॥
ऋषिरैडविडो यस्यां विश्रवाः समपद्यत ।
तस्य पत्न्यश्चतस्रश्च पूर्ब्बा वै देववर्णिनी ॥
ज्येष्ठं वैश्रवणं यज्ञे कुरूपं देववर्णिनी ।
त्रिपादं सुमहाकायं स्थूलशीर्षं महाहनुम् ॥
अष्टदंष्ट्रं हरिश्मश्रुं शङ्कुकर्णविलोहितम् ।
पिङ्गलं नाम संदृश्य पिता तस्याब्रवीत्ततः ॥
कुत्सायान्तु कुशब्दोऽयं शरीरञ्चेदमुच्यते ।
कुशरीरत्वाच्च नाम्ना तेन वै स कुवेरकः ॥
ऋध्यां कुवेरो जनयद्विश्रुतं नलकूरम् ॥
रावणं कुम्भकर्णञ्च कन्यां सूर्पणखां तथा ।
विभीषणं चतुर्थन्तु नैकष्यजनयत् सुतम् ॥
शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूद्धजः ।
चतुष्पाद्विं शतिभुजो महाकायो महाबलः ॥
जात्यञ्जननिभो मर्द्दलोहितग्रीव एव च ।
निसर्गाद्दारुणः क्रूरः स रावण इति स्मृतः ॥
हिरण्यकशिपुस्त्वासीत् स राजा पूर्ब्बजन्मनि ॥
चतुर्युगानां राजा तु त्रयोदश स राक्षसः ॥
ताः पञ्चकोट्यो वर्षाणां संख्याताः संख्यया
द्बिजैः ।
नियुतानामेकषष्टिः संख्याविद्भिरुदाहृताः ॥
षष्टिश्चैव सहस्राणि वर्षाणां हि स रावणः ।
देवतानां पितॄणाञ्च घोरं कृत्वा प्रजागरम् ॥
त्रेतायुगे चतुर्थांशे रावणस्तपसः क्षयात् ।
रामं दाशरथं प्राप्य सगणः क्षयमीयिवान् ॥”
इति वह्निपुराणे वाराहप्रादुर्भावनामाध्यायः ॥

रावणगङ्गा, स्त्री, (रावणेन कृता गङ्गा ।) सिंहल-

देशस्थनदीविशेषः । यथा, --
सूत उवाच ।
“दिवाकरस्तस्य महामहिम्नो
महासुरस्योत्तमरत्नबीजम् ।
असृग्गृहीत्वा चरितं प्रतस्थे
निस्त्रिंशनीलेन नभस्तलेन ॥
जेत्रा सुराणां समरेष्वजस्रं
वीर्य्यावलेपोद्धतमानसेन ।
लङ्काधिपेनार्द्धपथं समेत्य
स्वर्भानुनेव प्रसभं निरुद्धम् ॥
तत् सिंहलीचारुनितम्बविम्ब-
विक्षोभितागाधमहाह्नदायाम् ।
पूगद्रुमाबद्धतटद्वयायां
मुमोच सूर्य्यः सरिदुत्तमायाम् ॥
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया ।
नाम्ना रावणगङ्गेति प्रथिमानगुपागता ॥
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।
पद्मरागा घनं रागं विभ्राणाः स्वस्फटार्च्चिषः ॥”
इति गारुडे ७० अध्यायः ॥

रावणारिः, पुं, (रावणस्य अरिः शत्रुः ।)

श्रीरामः । इति जटाधरः ॥ (यथा, --
“वन्दे लोकाभिरामं रघुकुलतिलकं राघवं
रावणारिम् ॥”
इति महानाटकम् ॥)

रावणिः, पुं, (रावणस्यापत्यमिति । वारण +

“अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
रावणज्येष्ठपुत्त्रः । स च इन्द्रजित् । यथा, --
“रावणिः शत्रुजिन्मेघनादो मन्दोदरीसुतः ॥”
इति हेमचन्दः । ३ । ३७० ॥
(यथा, महाभारते । ३ । २८७ । १२ ।
“रावणिस्तु यदा नैनं विशेषयति सायकैः ।
ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥”
रावणपुत्त्रमात्रे । यथा, भट्टिः । १४ । ७९ ।
“तस्याहारिषत प्राणा मुष्टिना वालिसूनुना ।
प्रादुद्रुवंस्ततः क्रुद्धाः सर्व्वे रावणयोऽङ्गदम् ॥”)

राश, ऋ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) दन्त्यान्तोऽयमिति गद-
सिंहः । रासभः स्वरः । दुर्गसिंहन्तु इमं
तालव्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मि-
शब्दं व्युत्पादितवान् । ऋ, अरराशत् । ङ,
राशते । इति दुर्गादासः ॥

राशिः, पुं, (राशते इति । राश शब्द + इण् ।

यद्वा, अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अशि-
पणाय्यो रुडायलुकौ च ।” उणा० ४ । १३२ ।
इति इण् रुडागमश्च ।) धान्यादिसमूहः ।
तत्पर्य्यायः । पुञ्जः २ उत्करः ३ कूटम् ४ ।
पृष्ठ ४/१५६
इत्यमरः । २ । ५ । ४२ ॥ समुच्चयः ५ समा-
हारः ६ । इति जटाधरः ॥ अश्नुते व्याप्नोति
इति राशिः । अशू ञ व्यप्तिसंहत्योरित्यस्मात्
नाम्नीति इञ् निपातनाद्रेफागमः । इति
भरतः ॥ * ॥ (यथा, शकुन्तलायाम् १ अङ्के ।
“न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे तुलराशाविवाग्निः ॥”)
ज्योतिश्चक्रस्य द्वादशांशः । तस्योत्पत्तिर्यथा, --
अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्त्तिभृत् ।
मनसश्चन्द्रमा जज्ञे सूर्य्योऽक्ष्णोस्तेजसां निधिः ॥
मनसः खं ततो वायुरग्निरापो धरा क्रमात् ।
गुणेकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥
अग्नीषोमौ भास्करेन्दू ततस्त्वङ्गारकादयः ।
तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे ॥
पुनर्द्वादशधात्मानं विभजेद्राशिशंज्ञकम् ।
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ॥”
इति सूर्य्यसिद्धान्ते गोलाध्यायः ॥ * ॥
तस्य संस्थानं यथा, --
“विषुवत्क्रान्तिवृत्त्यैक्यात् पूर्व्वभागस्थिताः
स्थिराः ।
मेषाद्या राशयः क्रान्तिवृत्तयः पूर्व्वदिक्क्रमात् ॥”
इति मुनीश्वरकृतसार्व्वभौमसिद्धान्तः ॥ * ॥
अथ राश्यादिनिर्णयः ।
“मेषवृषमिथुनकर्क्कटसिंहाः कन्या तुलाथ
वृश्चिकभम् ।
धनुरथ मकरः कुम्भो मीन इति च राशयः
कथिताः ॥”
इति राशिकथनम् ॥ * ॥
“अश्विन्या सह भरणी कृत्तिकापादश्च कीर्त्तितो
मेषः । १ ।
वृषभः कृत्तिकाशेषं रोहिण्यर्द्धश्च मृग-
शिरसः ॥ २ ॥
मृगशिरसोऽर्द्धं चार्द्रा पुनर्व्वसोस्त्रिपादो मिथु-
नम् । ३ ।
पादः पुनर्व्वसोरन्त्यः पुष्योऽश्लेषा च कर्कटः ॥ ४ ॥
सिंहोऽथ मघा पूर्व्वफल्गुणी पाद उत्तरायाः । ५ ।
तच्छेषं हस्ता चित्रार्द्धञ्च कन्यकाख्यः ॥ ६ ॥
तोलिनि चित्रार्द्धं स्वाती विशाखायाः पाद-
त्रयम् । ७ ।
अलिनि विशाखा पादस्तथानुराधान्विता
ज्येष्ठा ॥ ८ ॥
मूल पूव्वाषाढा प्रथमश्चाप्युत्तरांशको धन्वी । ९ ।
मकरस्तत्परिशेषं श्रवणा चांर्द्धं धनिष्ठायाः ॥ १० ॥
धनिष्ठार्द्धं शतभिषा पुर्व्वभाद्रपदपादत्रयं
कुम्भः । ११ ।
पूर्ब्बभाद्रपदाशेषस्तथोत्तरा रेवती मीनः ॥” ११ ॥
इति राशिनक्षत्रभेदकथनम् ॥ * ॥
“राशिनामानि च क्षेत्रं भमृक्षे गृहनाम च ।
मेषादीनाञ्च पर्य्यायं लोकादेव विचिन्तयेत् ॥”
इति राशिपर्य्यायकथनम् ॥ * ॥
“क्रियतावुरिजितुमकुलीरलेयपाथेययूककौ-
र्पाख्याः ।
तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम् ॥”
इति मेषादीनां विशेषनामकथनम् ॥ * ॥
“अरुणसितहरितपाटलपाण्डुविचित्राः सिते-
तरपिषङ्गौ ।
पिङ्गलकर्व्वुरवभ्रुमलिना रुचयो यथासंख्यम् ॥”
इति मेषादीनां वर्णभेदकथनम् ॥ * ॥
“मत्स्यौ घटी नृमिथुनं सगदं सवीणं
चापी नरोऽश्वजघनो मकरो मृगास्यः ।
तौली सशस्यदहना प्लवगा च कन्या
शेषाः स्वनामसदृशाः स्वचराश्च सर्व्वे ॥”
अश्वजघनोऽश्वाकारजघनो नतु अश्वारूढ-
इति जघनः । उत्तरत्र चतुश्चरणत्वकथनात् ।
राश्यधिष्ठातृदेवताकथनम् ॥ * ॥
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरास्थरद्ब्यात्मकनामघेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
इति राशीनां क्रूरसौम्यादिविवेकः ॥ * ॥
दैवज्ञमनोहरे ।
“पुण्यश्च पुष्करश्चैव आघानाख्यस्तथैव च ।
श्रुत्या वृत्त्या भवन्त्येते नित्यं द्बादश राशयः ॥”
इति पुण्यादिविवेकः ॥ * ॥
“मिथुनतुलाघटकन्या द्बिपादाख्याश्चापपूर्ब्ब-
भागश्च ।
मृगधनुराद्यन्तार्द्धे वृषाजसिंहाश्चरणाः ॥”
इति द्विपदचतुष्पदराशिकथनम् ॥ * ॥
“कर्कटवृश्चिकमीना मकरान्त्यार्द्धञ्च कीट-
संज्ञाः स्युः ।
वृश्चिकराशिर्मुनिभिः सरीसृपत्वेन निर्दिष्टः ॥”
इति कीटसरीसृपराशिकथनम् ॥ * ॥
“द्बिपदवशगाः सर्व्वे सिंहं विहाय चतु-
व्यदाः ।
सलिलनिलया भक्ष्या वश्याः सरीसृपजातयः ॥
मृगपतिवशे तिष्ठन्त्येते विहाय सरीसृपान् ।
अकथितगृहेषूह्यं वश्यं जनव्यवहारतः ॥”
सरीसृपजातय इति बहुवचनात् कीटस्यापि
परिग्रहः । राशीनां वश्यावश्यकथनम् ॥ * ॥
“ग्राम्या मिथुनतुलास्त्रीचापालिघटाः निशासु
वृषमेषौ ।
मकरादिमार्द्धसिंहौ वन्यौ दिवसेऽजवृषभौ च ॥
जलजौ कर्कटमीनौ मकरान्त्यार्द्धञ्च शिवमते
कुम्भः ॥
इति ग्राम्यारण्यजलजराशिकथनम् ॥ * ॥
“ह्नस्वास्तिमिगोऽविघटा मिथुनधनुःकर्किमृग-
मुखाश्च समाः ।
वृश्चिककन्यामृगपतिबणिजो दीर्घाः समा-
ख्याताः ॥”
इति राशीनां ह्नस्वदीर्घकथनम् ॥ * ॥
“प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम् ।
मेषाद्या राशयो ज्ञयास्त्रिरावृत्तिपरिभ्रमात् ॥”
इति दिगधिपलग्नकथनम् ॥ * ॥
“कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनीभुवाम् ।
जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः ॥
इति ग्रहाणां क्षेत्रकथनम् ॥ * ॥
“अजो गोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।
निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥
निशासंज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा ।
शेषाः शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः ॥”
इति निशादिसंज्ञाकथनम् ॥ * ॥
“रविर्मासं निशानाथः सपाददिवसद्वयम् ।
पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादशवासरान् ॥
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।
शनिः सार्द्धद्वयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥
एवं प्रमाणात् सकलाः स्वराशिं भुञ्जते ग्रहाः ॥”
इति राशिभोगकथनम् ॥
इति ज्योतिस्तत्त्वम् ॥ * ॥ द्बादशराश्यात्मक-
शिवरूपं यथा, --
पुलस्त्य उवाच ।
“स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः ।
अश्विनी भरणी चैव कृत्तिकाप्रथमांशकम् ॥
मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् ।
आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम् ॥
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् ।
मृगार्द्धमार्द्रादित्यां शास्त्रयः सौम्यगृहं त्विदम् ॥
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ।
आदित्यांशश्च पुष्यश्च अश्लेषा शशिनो गृहम् ॥
राशिः कर्कटको नाम पार्श्वे मखविनाशिनः ।
पित्र्यर्क्षं भगदैवत्यं उत्तरांशश्च केशरी ॥
सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् ।
उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्वियम् ।
सोमपुत्त्रस्य सद्मैतद्द्बितीयं जठरं विभोः ॥
चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम् ।
द्वितीयं शुक्रसदनं तुला नाभिरुदाहृता ॥
विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम् ।
द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः ॥
मूलं पूर्ब्बोत्तरांशश्च देवाचार्य्यगृहं धनुः ।
उरुयुगलमीशस्य अमरर्षे प्रगीयते ॥
उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ।
धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते ॥
धनिष्ठार्द्धं शतभिषा प्रोष्ठपदांशकत्रयम् ।
सौरं पद्मापरमिदं कुम्भो जङ्घे च विश्रुते ॥
प्रोष्ठपद्यंशमेकन्तु उत्तरा रेवती तथा ।
द्बितीयं जीवसदनं मीनन्तु चरणावुभौ ॥” * ॥
राशीनां लक्षणस्वरूपादि यथा, --
नारद उवाच ।
“राशयः कथिता ब्रह्मन् ! त्वया द्बादश वै मम ।
तेषां विशेशतो ब्रूहि लक्षणानि स्वरूपतः ॥
पुलस्त्य उवाच ।
स्वरूपं तत्र वक्ष्यामि राशीनां शृणु नारद ।
यादृशा यत्र सञ्चारा यस्मिन् स्थाने बसन्ति हि ॥
सञ्चारस्थानमेकस्य धान्यरत्नाकरादिषु ।
नवसाद्बलसंच्छन्नो वसुधायाञ्च सर्व्वशः ॥
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ।
मेषः समानमूर्त्तिश्च अजाविकधनादिषु ॥
पृष्ठ ४/१५७
वृषः सदृशरूपेषु चरते गोकुलादिषु ।
तस्याधिवासभूमिस्तु कृषीबलधराश्रया ॥
स्त्रीपुंसयोः समं भद्रशय्यासनपरिग्रहैः ।
बीणावाद्यधृङ्मिथुनं गीतनर्त्तकशिल्पिषु ॥
स्थितं क्रीडा रतिर्न्नित्यं विहारोऽवनिरस्य तु ।
मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्मृतः ॥
कर्किः कुलीरेण समः सलिलस्थः प्रकीर्त्तितः ।
केदारवापीपुलिनविविक्तावनिरेव च ॥
सिंहस्तु पर्व्वतारण्यदुर्गकन्दरभूमिषु ।
वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥
या हि प्रदीपककरा नावारूढा च कन्यका ।
चरते स्त्रीरतिस्थाने वसते तद्वनेषु च ॥
तुलापाणिश्च पुरुषो वीथ्यापणविचारकः ।
नगराध्वनि शालासु वसते तत्र नारद ॥
स्वभ्रवल्मीकसञ्चारी वृश्चिको वृश्चिकाकृतिः ।
वृषगोमयकीटोऽहिपाषाणादिषु संस्थितः ॥
धनुस्तुरङ्गजघनो दीप्यमानो धनुर्द्धरः ।
बाजिशूरोऽस्त्रविद्बीरः स्थायी युद्धबलादिषु ॥
मृगास्यो मकरो ब्रह्मन् ! वृषस्कन्धः फणाङ्गदः ।
मकरोऽसौ नदीचारी वसते च महोदधौ ॥
रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः ।
दूतशालाचरः कुम्भस्थायी शौण्डिकसद्मसु ॥
मीनरूपत्वमासक्तो मीनस्तीर्थाम्बुसञ्चरः ।
वसते पुण्यदेशेषु देवब्राह्मणपूजकः ॥
लक्षणं गदितं तुभ्यं मेषादीनां महामुने ।
न कस्यचित्त्वयाख्येयं गुह्यमेतत् पुरातनम् ॥
एतन्मया ते कथितं सुरर्षे
यथा त्रिनेत्रः प्रममाथ यज्ञे ।
पुण्यं पुराणं परमं पवित्रं
संशृण्वतां पापहरं शिवञ्च ॥”
इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे हर-
ललितः पञ्चमोऽध्यायः ॥

राशिचक्रं, क्ली, (राशीनां चक्रम् ।) मेषादि-

द्वादशराश्यादियुक्तवृत्तम् । तस्य नामान्तरं
भचक्रं ज्योतिषचक्रञ्च । यथा, --
“सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् ।
तदर्कांशो भवेदाशिर्नवर्क्षचरणाङ्कितः ॥”
इति दीपिका ॥ * ॥
तद्विवरणं यथा, --
“भचक्रं ध्रुवयोर्ब्बद्धमाक्षिप्तं प्रवहानिलैः ।
पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥
उपरिस्थस्य महतीकक्षाल्पाधःस्थितस्य च ।
महत्या कक्षया भागा महान्तोऽल्पास्तथा-
ल्पया ॥
कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः ।
ग्रहः कालेन महता मण्डले महति भ्रमन् ॥
खल्पया तु बहून् भुङ्क्ते भगणान् शीत-
दीधितिः ।
महत्या कक्षयागच्छन् ततः स्वल्पः शनैश्चरः ॥
मन्दादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः ।
वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्त्तिताः ॥
ऊर्द्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः ।
होरेशाः सूर्य्यतनयादधोधः क्रमशस्तथा ।
भवेद्भकक्षा तीग्मांशोर्भ्रमणं षष्टिताडितम् ।
सर्व्वोपरिष्टात् भ्रमति योजनैस्तैर्भमण्डलम् ॥”
तत्र कक्षाक्रममाह ।
“ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते ।
तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ॥
मन्दामरेज्यभूपुत्त्रसूर्य्यशुक्रेन्दुजेन्दवः ।
परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः ॥”
इति सूर्य्यसिद्धान्तः ॥ * ॥
ग्रहत्रयचन्द्रसंयोगे फलविशेषजनकं राशिचक्रं
यथा, --
“राशिचक्रं प्रवक्ष्यामि नृपाणां हितकाम्यया ॥
रविर्जीवस्तथा सौम्यस्तैश्च चन्द्रे समागते ।
जलपातो भवेत् सत्यमित्युक्तं विष्णुयामले ॥
रविर्जीवस्तथा शुक्रस्तैश्च चन्द्रे समागते ।
वायुपातो भवेत् सत्यमित्युक्तं विष्णुयामले ॥
रविर्ज्जीवस्तथा भौमस्तैश्च चन्द्रे समागते ।
अग्निपातो भवेत् सत्यमित्युक्तं ब्रह्मयामले ॥
रविर्भौमस्तथा राहुस्तैश्च चन्द्रे समागते ।
लोहपातो भवेत् सत्यमित्युक्तं रुद्रयामले ॥
रवी राहुस्तथा केतुस्तैश्च चन्द्रे सगागते ।
पाषाणपातोऽपि भवेदित्युक्तं भानुयामले ॥”
इति नरपतिजयचर्य्यायां तुम्बुरुचक्रे राशि-
चक्रम् ॥ * ॥ जातकराशिचक्रम् । यथा, --
“तन्वादिव्ययपर्य्यन्तं राशिचक्रे व्यवस्थितम् ।
तन्न बुद्ध्वाल्पमतयो जल्पयन्ति वृथा वृथा ॥”
इति पञ्चस्वरा ॥ * ॥
मन्त्रग्रहणोक्तराशिचक्रम् यथा । आगमकल्प-
द्रुमे ।
“रेखाद्वयं पूर्ब्बपरागतं स्यात्
तन्मध्यतो याम्यकुवेरभेदात् ।
एकैकमीशाननिशाचरे तु
हुताशवाय्वोर्विलिखेत्ततोऽर्णान् ॥
वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान्
पञ्चेषुवाणशरपञ्चचतुष्टयार्णान् ।
मेषादितः प्रविलिखेत् सकलांस्तु वर्णान्
कन्धागतान् प्रविलिखेदथ शादिवर्णान् ॥”
तथा, --
“बालं गौरं खुरं शोणं शमी शोभेति राशिषु ।
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः ॥”
तेन अ आ इ ई मेषः । उ ऊ ऋ वृषः ।
ॠ ऌ ॡ मिथुनम् । ए ऐ कर्कटः । ओ औ
सिंहः । अं अः श ष स ल क्षाः कन्याः ।
कवर्गस्तुला । चवर्गो वृश्चिकः । टवर्गो धनुः ।
तवर्गो मकरः । पवर्गः कुम्भः । यवर्गो मीनः ।
स्वराशीनामनुकूलं मन्त्रं भजेत् । तथा च ।
“स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥”
इति वचनात् ॥
“राशीनां शुद्धताज्ञेया त्यजेच्छत्रुं मृतिं व्ययम् ।
स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥”
यदा तु स्वराशेरज्ञानं तदा साधकनामाद्यक्षर-
सम्बन्धिनं राशिं गृहीत्वा गणयेत् ।
“साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरम् ।
इति रामार्च्चनचन्द्रिकाधृतवचनात् । तथा,
“अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥”
इति तन्त्रराजे ॥
“तेन मन्त्राद्यवर्णेन नाम्नश्चाद्यक्षरेण च ।
गणयेद्यदि षष्ठं वाप्यष्टमं द्बादशन्तु वा ।
रिपुर्मन्त्राद्यवर्णः स्यात् तेन तस्याहितं भवेत् ॥
एक पञ्च नव बान्धवाः स्मृताः
द्वौ च षट् च दशमाश्च सेवकाः ।
वह्निरुद्रमुनयस्तु पोषकाः
द्बादशाष्टचतुरस्तु घातकाः ॥”
इति विष्णुविषयम् ॥
रामाच्चनचन्द्रिकाधृतत्वात् । शक्त्यादौ तु षष्ठं
वर्ज्जनीयम् । तथा च ।
“षष्ठाष्टमद्बादशानि वर्ज्जनीयानि यत्नतः ॥”
इति वचनात् ॥
तन्त्रान्तरे ।
“लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः ।
मरणं धर्म्मकर्म्मायव्यया द्बादश राशयः ॥
नामानुरूपमेतेषां शुभाशुभफलं लभेत् ॥
लग्ने सिद्धिस्तथा नित्यं धने धनसमृद्धिदः ।
भ्रातरि भ्रातृवृद्धिश्च शत्रौ शत्रुविवर्द्धनः ॥
पुत्त्रे पुत्त्रविवृद्धिः स्यात् बन्धौ बान्धववत् प्रियः ।
कलत्रे मध्यमा प्रोक्ता मरणे मरणं भवेत् ॥
धर्म्मे धर्म्मविवृद्धिः स्यात् सिद्धिदः कर्म्मसंस्थितः ।
आये च धनसम्पत्तिर्व्यये च सञ्चितक्षयः ॥”
वैष्णवतन्त्रे तु शत्रुस्थाने बन्धुरिति पाठः । इति
तन्त्रसारः ॥

राशिव्यवहारः, पुं, (राशेर्व्यवहारः ।) शस्य-

राशिपरिमाणज्ञापकाङ्कः । तद्विवरणं यथा, --
अथ राशिव्यवहारे करणसूत्रं वृत्तम् ।
“अनणुषु दशमांशोऽणुष्वथैकादशांशः
परिधिनवमभागः शूकधान्येषु वेधः ।
भवति परिधिषष्ठे वर्गिते वेधनिघ्ने
घनगणितकराः स्युर्म्मागधास्ताश्च खार्य्यः ॥”
उदाहरणम् ।
“समभुवि किल राशिर्यः स्थितः स्थूलधान्यः
परिधिपरिमितिः स्याद्धस्तषष्टिर्यदीया ।
प्रवद गणक खार्य्यः किंमिताः सन्ति तस्मि-
न्नथ पृथगणुधान्यैः शूकधान्यैश्च शीघ्रम् ॥”
अथ स्थूलधान्यराशिमानावबोधनाय
६०
न्यासः अनणुधान्यराशिः
वेधः
परिधिः ६० । वेधः ६ । परिधेः षष्ठांशः १० ।
वर्गितः १०० । वेध ६ निघ्नः । लब्धाः
खार्य्यः ६०० ।
पृष्ठ ४/१५८
अथाणुधान्यराशिमानानयनाय
६०
न्यासः अणुधान्यराशिः
वेधः
६०११
परिधिः ६० । वेधः ६०११ । जातं
फलम् ५४५ ५११ ।
अथ शूकधान्यराशिमानानयनाय
६०
न्यासः शूकधान्यराशिः
वेधः
२०३
परिधिः ६० । वेधः २०३ । खार्य्यः ६६६ २३ ।
अथ भित्त्यन्तर्वाह्यकोणसंलग्नराशिप्रमाणानयने
करणसूत्रं वृत्तम् ।
“द्बिवेदसत्रिभागैकनिघ्नात्तु परिधेः फलम् ।
भित्त्यन्तर्वाह्यकोणस्थराशेः खगुणभाजितम् ॥”
उदाहरणम् ।
“परिधिर्भित्तिलग्नस्य राशेस्त्रिंशत्करः किल ।
अन्तःकोणस्थितस्यापि तिथितुल्यः करः सखे ॥
वहिः कोणस्थितस्यापि पञ्चघ्ननवसम्मितः ।
तेषामाचक्ष्वमेक्षिप्रं घनहस्तान् पृथक् पृथक् ॥”
अत्रापि स्थूलादिधान्यानां राशिमानाव-
बोधनाय स्पष्टक्षेत्रत्रयम् ।
तत्रादावनणुधान्यराशिमानबोधकं क्षेत्रम् ।
न्यासः
परिधिः ४५
नहिःकोणराशिः
वेधः
अनणुधान्यराशयः
परिधिः १५
वेधः
अन्तःकीणराशिः
परिधिः ३०
वेधः
मित्तिराशिः
अत्राद्यस्य परिधिः ३० । द्विनिघ्नः ६० ।
अन्यः १५ । चतुर्घ्नः ६० । अपरः ४५ । सत्रि-
भागैक ४३ निघ्नः ६० । एषा वधः ६ । एभ्यः
फलं तुल्यमेतावन्त्य एव खार्य्यः ६०० । एतत्-
खस्वगुणेन भक्तं जातं पृथक् पृथक् फलम् ३०० ।
१५० । ४५० ॥
अथाणुधान्यराशिमानानयनाय
न्यासः
परिधिः ४५
नहिःकोणरशिः
वेधः
६०११
अणुधान्यराशिः
परिधिः १५
वेधः
६०११
अन्तःकोणराशिः
परिधिः ३०
वेधः
६०११
मित्तिराशिः
पूर्ब्बवत्क्षेत्रत्रयाणां स्वगुणगुणितपरिधिः ६० ।
वेधः ६०११ । फलानि २७२ ८११ । १३६ ४११ ।
४०९ १११ ।
अथ शूकधान्यराशिमानानयनाय
न्यासः
परिधिः ४५
नहिःकोणराशिः
वेधः
२०३
शूकधान्यराशयः
परिधिः १५
वेधः
२०३
अन्तःकोणुराशिः
परिधिः ३०
वेधः
२०३
मित्तिराशिः
अत्रापि पूर्ब्बवत् क्षेत्रत्रयाणां स्वगुणगुणितः
परिधिः ६० । वेधः २०३ । फलानि ३३३ १३ ।
१६६ २३ । ५०० ।
इति लीलावत्यां राशिव्यवहारः समाप्तः ॥

राष्ट्रं, पुं, क्ली, (राजते इति । राज् + “सर्व्व-

धातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।
व्रश्चेति षः ।) विषयः । (यथा, मनुः । ९ ।
२५४ ।
“अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः ।
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥”)
उपद्रवः । इत्यमरः । ३ । ३ । १८३ ॥ विषयो
जनपदः । उपद्रवो मरकादिः । इति भरतः ॥
(राष्ट्रपालननियमादिकं महाभारते १२ ।
८७ अध्याये द्रष्टव्यम् ॥ * ॥ पुं, पुरूरवोवंश-
जातस्य काशेः पुत्त्रः । यथा, भागवते । ९ ।
१७ । ४ ।
“काश्यस्य काशिस्तत्पुत्त्रो राष्ट्रो दीर्घतमः
पिता ॥”)

राष्ट्रनिवासी, [न्] पुं, (राष्ट्रे निवसतीति ॥

नि + वस् + णिनिः ।) जानपदः । देशवासी ।
इति त्रिकाण्डशेषः ॥

राष्ट्रिका, स्त्री, (राष्ट्रं उत्पत्तिस्थानत्वनास्त्यस्या

इति । राष्ट्र + ठन् । टाप् ।) कण्टकारिका ।
इत्यमरः । २ । ४ । ९३ ॥ (पुं, राष्ट्रवासी ।
जानपदः । यथा, मनुः । १० । ६१ ।
“यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः ।
राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥”
राष्ट्रपतिः । यथा, हरिवंशे । १८३ । २७ -- २८ ।
“कुम्भाण्ड ! मन्त्रिणां श्रेष्ठ ! प्रीतोऽस्मि तव
सुव्रत ।
सुकृतन्ते विजानामि राष्ट्रिकोऽस्तु भवानिह ॥
सज्ञातिपक्षः सुसुखी निर्व्वृतोऽस्तु भवानिह ।
राज्यञ्च ते मया दत्तं चिरं जीव ममा-
श्रयात् ॥”)

राष्ट्रियः, पुं, (राष्ट्रेऽधिकृतः । राष्ट्र + “राष्ट्रा-

वारपाराद् घखौ ।” ४ । २ । ९३ । इति घः ।
यद्वा, राष्ट्रे जातः । “तत्र जातः ।” ४ । ३ ।
२५ । इति घः ।) नाट्योक्त्यौ राजश्यालः ।
इत्यमरः । १ । ७ । १४ ॥ (राष्ट्राध्यक्षः ।
यथा, महाभरते । १२ । ८५ । १२ ।
“ततः संप्रेषयेद्राष्ट्रे राष्ट्रियाय च दर्शयेत् ॥”)

राष्ट्रीयः, पुं, (राष्ट्रे भव इति । राष्ट्र + ढः ।)

नाट्योक्तौ राजश्यालः । इति हेमचन्द्रः । २ ।
२४ ॥ राष्ट्रसम्बन्धिनि, त्रि ॥ (यथा, महा-
भारते । १२ । ८७ । ९ ।
“धान्यं हिरण्यं भोगेन भोक्तुं राष्ट्रीयसङ्गतः ॥”)

रास, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) दन्त्यान्तोऽयमिति गद-
सिंहः । रासभः खरः । दुर्गसिंहस्त्विमं ताल-
व्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मिशब्दं
व्युत्पादितवान् । ऋ, अररासत् । ङ, रासते ।
इति दुर्गादासः ॥

रासः, पुं, (रासनमिति रासतेऽत्रेति वा । रास

शब्दे + भावे अधिकरणे वा घञ् ।) कोला-
हलः । ध्वानः । भाषाशृङ्खलकः । गोपानां
क्रीडाभेदः । इति मेदिनी । से, ११ ॥ तस्य
विधिर्यथा, --
“कार्त्तिकीपूर्णिमायाञ्च कृत्वा तु रासमण्डलम् ।
गोपानां शतकं कृत्त्वा गोपीनां शतकन्तथा ॥
शिलायां प्रतिमायां वा श्रीकृष्णं राघया सह ।
भारते पूजयेत् कृत्वा चोपहाराणि षोडश ॥
गोलोके च वसेत् सोऽपि यावद्वै ब्रह्मणो वयः ।
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुघम् ॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि ।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति च ॥
तत्र कृष्णस्य सारूप्यं संप्राप्य पार्श्वदो भवेत् ।
पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २५ अध्यायः ॥
विस्तारस्तु श्रीकृष्णजन्मखण्डे २८ अध्याये
श्रीमद्भागवतीयरासपञ्चाध्यायेषु च द्रष्टव्यः ॥ * ॥
कस्यचिन्मते कल्पतरुयात्रेयम् । अस्य विधि-
र्यथा, --
“कार्त्तिके पौर्णमास्यान्तु रासयात्रा महानिशि ।
नन्दसूनोः प्रकर्त्तव्या महाविभवविस्तरैः ॥
इह लोके सुखं प्राप्य अन्ते विष्णुपुरं व्रजेत् ॥
पूजा कार्य्यार्द्धरात्रे तु नयेत् शेषं महोत्सवैः ।
गीतैर्नानाविधैर्वाद्यैर्व्वेणुवीणामृदङ्गकैः ॥
नृत्यैर्वराङ्गनागीतैरङ्गनानाञ्च कीर्त्तनैः ।
पृष्ठ ४/१५९
चन्दनागुरुकस्तूरीपङ्कलेपैर्व्विराजितैः ॥
विहरद्भिर्विष्णुभक्तैः कार्य्य एष महोत्सवः ।
ध्यायेद्वृन्दावने रम्ये यमुनापुलिने वने ॥
निकुञ्जसदने कृष्णं गोपीमण्डलमण्डितम् ।
रासमण्डलयन्त्रस्य गोविन्दं कर्णिकागतम् ॥
द्बयोर्द्वयोर्गोपिकयोर्म्मध्ये सान्तमनेकधा ।
अपरं नटवेशेन मध्ये तं मुरलीधरम् ॥
गोपीगणमुखाम्भोजमधुपानमधुव्रतम् ।
कुलालचक्रप्रतिमं मण्डलं पङ्कजाङ्कितम् ॥
दलाष्टशोभितं कार्य्यं महिष्योऽष्टौ च सन्धिषु ।
मध्ये मध्ये च गोविन्दं पार्श्वयोरष्टरूपकम् ॥
मुकुन्दं माधवं कृष्णं नटनागरमेव च ।
हरिं दामोदरं विष्णुं पूजयेत् कामरूपिणम् ॥
तद्वाह्ये भूपुरे गोप्यः शतशोऽथ सहस्रशः ।
पूजनीयाः प्रयत्नेन नृत्यगीतपरायणाः ॥
असंख्या गोपिकास्तत्र मण्डलेऽष्टौ वराङ्गनाः ।
महिष्यस्ताः समाख्याताः सदासङ्गमुनिव्रताः ॥
भक्तोत्सवाभिलासेन कमला बहुरूपिणी ।
राधा विशाखा विमला सुमित्रा ललिता तथा ।
सुन्दरी कमला रम्भा महिष्योऽष्टौ प्रकीर्त्तिताः ॥
तारा राधा निरावाधा कृष्णा भेदमुपागताः ।
तासां ध्यानैर्व्वक्ष्यमाणैः पूजा कार्य्या विशेषतः ॥
उत्तीर्णे सायं समये गोप्यो वृन्दावनं ययुः ।
रासक्रीडां ततस्ताभिश्चक्रे च जगदीश्वरः ॥
गोप्यो रासक्रीडां चक्रुः पौर्णमास्यां महा-
निशि ।
न तत्र पक्षिनिनदो न झिल्लीनिनदस्तथा ॥
महानिशा द्वे घटिके रात्रेर्म्मध्यमयामयोः ।
तदप्राप्तौ च कर्त्तव्यं पौर्णमास्यां निशामुखे ॥
एवं रासक्रीडां यस्तु कारयेद्भुवि मानवः ।
स सर्व्वदुस्कृतं त्यक्त्वा निर्व्वाणमुक्तिमाप्नुयात् ॥”
इत्युत्कलकलिका ॥
(विलासः । यथा, भागवते । ५ । २ । १२ ।
“अस्मद्विधस्य मन उन्नयनौ बिभर्त्ति
बह्वद्भुतं सरसराससुधादिवक्त्रे ॥”
“बक्त्रे च बह्वद्भुतं बिभर्त्ति किं तदाह । रसो
मधुरालापः रासो विलासस्ताभ्यां सहिता सुधा
अधरामृतम् । आदिशब्दात् स्मितनर्म्मादि ।”
इति तत्र श्रीधरस्वामी ॥ क्रिया । यथा, भाग-
वते । ५ । १३ । १७ ।
“तैर्वञ्चितो हंसकुलं समाविशत्
नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्बीक्षणविस्मृतावधिः ॥”
“तैर्वञ्चितस्तत्र फलाभावं ज्ञात्वा हंसानां ब्राह्म-
णानां कुलं पुनः प्रविशन् तेषां शीलं प्राय-
श्चित्तपूर्ब्बकं पुनरुपनयनाद्याचारमरोचयन्
अप्रियं पश्यन् वानरतुल्यान् भ्रष्टाचारान्
शूद्रप्रायानुपैति । तज्जातिरासेन वानरजाति-
क्रियया स्त्रियां मिथुनीभूय परस्परमुखोद्वीक्ष-
णेन विस्मृतो जीवितावधिर्मरणकालो येन ।”
इति तट्टीकायां श्रीधरस्वामी ॥ * ॥)

रासभः, पुं, (रासते शब्दायते इति । रास +

“रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति
अभच् ।) गर्द्दभः । इत्यमरः । २ । ९ । ७८ ॥
(अयं हि ब्रह्मणः पद्भ्यां जातः । यथा, मार्क-
ण्डेये । ४८ । २६ ।
“पद्भ्याञ्चाश्वान् समातङ्गान् रासभान् शशकान्
मृगान् ।
उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ॥”
अश्वतरः । स्वच्चर इति भाषा । यथा, महा-
भारते । १ । १४५ । ७ ।
“स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना ।
वारणावतमद्यैव यथा यासि तथा कुरु ॥”)

रासभवन्दिनी, स्त्री, मल्लिका । इति शब्द-

चन्द्रिका ॥

रासभी, स्त्री, (रासभ + ङीप् ।) गर्द्दभी । इति

शब्दरत्नावली ॥ (यथा, महाभारते । १३ ।
२७ । १४ ।
“एतत् श्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।
अवतीर्य्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥”)

रासमण्डलं, क्ली, (रासस्य मण्डलम् ।) श्रीकृष्णस्य

रासक्रीडास्थलम् । तद्विवरणम् । यथा, --
“तस्मादुपरि गोलोकः पञ्चाशत्कोटियोजने ।
वायुना धार्य्यमाणश्च विचित्रपरमाश्रयः ॥
अतीवरम्यनिर्म्माणो नित्यरूपो मदीच्छया ।
शतशृङ्गेण शैलेन पुण्यवृन्दावनेन च ॥
सुरासमण्डलेनापि नद्या विरजयावृतः ।
कोटियोजनविस्तीर्णा प्रस्थेन विरजा व्रज ॥
दैर्घ्ये तस्य शतगुणा परितः परमा शुभा ।
अमूल्यरत्ननिकरा हीरामाणिक्ययोस्तथा ॥
मणीनां कौस्तुभादीनामसंख्यानां मनोहरा ।
अमूल्यरत्ननिर्म्माणं तत्रापि प्रतिमन्दिरम् ॥
मनोहरञ्च प्राकारमदृष्टं विश्वकर्म्मणा ।
गोपीभिर्गोपनिकरैर्वेष्टितं कामधेनुभिः ॥
कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः ।
पुष्पोद्यानैः सुकोटिभिः संवृतं रासमण्डलम् ॥
वेष्टितं चेष्टितैर्गोपैर्मन्दिरैः शतकोटिभिः ।
रत्नप्रदीपयुक्तैश्च पुष्पतल्पसमन्वितैः ॥
सुगन्धिचन्दनामोदैः कस्तूरीकुङ्कुमान्वितैः ।
क्रीडोपयुक्तैर्भोगैश्च ताम्बूलैर्वासितैर्जलैः ॥
धूपैः सुरभिरम्यैश्च माल्यैश्च रत्नदर्पणैः ।
रक्षकै रक्षितैः शश्वद्राधादासीत्रिकोटिभिः ॥
अमूल्यरत्नाभरणैर्व्वह्निशुद्धांशुकैरपि ।
लक्षमत्तगजेन्द्राणां वेष्टितैश्च बलैः क्रमात् ॥
नवयौवनसम्पन्नै रूपैर्निरुपमैरपि ।
रम्यञ्च वर्त्तुलाकारं चन्द्रविम्बं यथा व्रज ॥
अमूल्यरत्नरचितं दशयोजनविस्तृतम् ।
कस्तूरीकुङ्कुमै रम्यैः सुगन्धिचन्दनार्च्चितैः ॥
आवृतं मङ्गलघटैः फलपल्लवसंयुतैः ।
दधिलाजैश्च पर्णैश्च स्निग्धदूर्व्वाङ्कुरैः फलैः ॥
श्रीरामकदलीस्तम्भैरसंख्यैश्च मनोहरैः ।
पट्टसूत्रनिबद्धैश्च स्निग्धैश्चन्दनपल्लवैः ॥
चन्दनासक्तमाल्यैश्च भूषणैश्च विभूषितम् ।
अमूल्यरत्नरचितं शतशृङ्गं मनोहरम् ॥
कोटियोजनमूर्द्ध्वञ्च दैर्घ्यं दशगुणोत्तरम् ।
शैलप्रस्थं परिमितं पञ्चाशत्कोटियोजनम् ॥
अतीवकमनीयञ्च वेदेऽनिर्व्वचनीयकम् ।
प्राकारमिव तस्यापि गोलोकस्य मनोहरम् ॥
परितो वेष्टितं रम्यं हीराहारसमन्वितम् ।
तत्र वृन्दावनं रम्यं युक्तं चन्दनपादपैः ॥
कल्पवृक्षैश्च रम्यैश्च मन्दारैः कामधेनुभिः ।
शोभितं शोभनाढ्यञ्च पुष्पोद्यानैर्मनोहरैः ॥
क्रीडासरोवरै रम्यैः सुरम्यै रतिमन्दिरैः ।
अतीवरम्यं रहसि रासयोग्यस्थलान्वितम् ॥
रक्षितं रक्षकै रम्यैरसंख्यैर्गोपिकागणैः ।
परितो वर्त्तुलाकारं त्रिलक्षयोजनं वनम् ॥
षट्पदध्वनिसंयुक्तं पुंस्कोकिलरुतान्वितम् ।
तत्राक्षयवटो रम्यो रहस्येव हि विस्तृतः ॥
सहस्रयोजनोर्ड्घश्च परितश्च चतुर्गुणः ।
गोपीनां कल्पवृक्षैश्च सर्व्ववाञ्छाफलप्रदः ॥
क्रीडान्वितैरावृतश्च राधादासीत्रिलक्षकैः ।
विरजातीरनारीणां यमुनाशीतलेन च ॥
पुष्पान्वितेन मान्द्येन पवित्रश्च सुगन्धिना ।
दासीगणैरसंख्यैश्च वृन्दावनविनोदिनी ॥
तत्र क्रीडति सा राधा मम प्राणाधिदेवता ॥
सेयं श्रीदामशापेन वृषभानुसुताधुना ।
ब्रह्मादिदेवैः सिद्धेन्द्रैर्मुनीन्द्रैः पूजिता व्रज ॥”
इति ब्रह्मवैवर्त्ते भगवन्नन्दसंवादे श्रीकृष्णजन्म-
खण्डे ८४ अध्यायः ॥

रासयात्रा, स्त्री, (रासस्य यात्रा उत्सवः ।)

कार्त्तिकीपौर्णमासीकर्त्तव्यश्रीकृष्णस्योत्सवविशेषः ।
तद्बिवरणं यात्राशब्दे द्रष्टव्यम् ॥ * ॥ शक्ति-
विषयकरासयात्रा यथा, --
“पौर्णमास्यां रासयात्रां देव्याः कुर्य्यान्नि-
शार्द्धके ।
पूर्ब्बवन्मञ्चमास्थाप्य देवीं देव्यासनं यजेत् ॥”
पौर्णमास्यां चैत्रपौर्णमास्याम् ।
“संमुखे राससंस्थानं भैरवीभैरवान्वितम् ।
कृत्वा तान् पूजयित्वा च भ्रामयेत् कुम्भचक्रवत् ॥
कोलाहलं मृदङ्गादिवाद्यैर्नृत्यैः सुगीतकैः ।
कुर्य्यादानन्दहृदयः साधकः स्थिरमानसः ॥
वित्तशाठ्यं न कुर्व्वीत देवीयात्रा सुखप्रदा ॥”
इति वामकेश्वरतन्त्रे ५४ पटलः ॥

रासेरसः, पुं, (रासे क्रीडाविशेषे यो रसः ।

अलुक्समासः ।) गोष्ठी । रासः । शृङ्गारः ।
रससिद्धिः । रसावासः । षष्ठीजागरकः । इति
मेदिनी । से, ६० ॥ उत्सवः । इति शब्दरत्ना-
वली ॥ परिहासः । इति जटाधरः ॥

रासेश्वरी, स्त्री, (रासस्य ईश्वरी ।) राधा ।

यथा, --
“राधा रासेश्वरी रासवासिनी रसिकेश्वरी ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥

रास्ना, स्त्री, (रस्यते इति । रस आस्वादने +

“रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ ।
इति नप्रत्ययेन साधुः ।) स्वनामख्यातलता-
पृष्ठ ४/१६०
विशेषः । रासन इति हिन्दी भाषा । तत्-
पर्य्यायः । नाकुली २ सुरसा ३ सुगन्धा ४ गन्ध-
नाकुली ५ नकुलेष्टा ६ भुजङ्गाक्षी ७ छत्राकी ८
सुवहा ९ । इत्यमरः ॥ नाकुल्यादिपञ्चकं
रास्नायाम् । नकुलेष्टादिचतुष्कं सर्पाक्ष्यामि-
त्याहुः । इति तट्टीकायां भरतः ॥ रस्या १०
श्रेयसी ११ रसना १२ रसा १३ सुगन्धिमूला १४
रसाढ्या १५ अतिरसा १६ द्रोणगन्धिका १७
सर्पगन्धा १८ पलङ्कषा १९ । इति जटाधरः ॥
अस्या गुणाः । गुरुत्वम् । तिक्तत्वम् । उष्ण-
त्वम् । विषवातास्रकासशोफकम्पोदरश्लेष्मनाशि-
त्वम् । पाचनत्वञ्च ।
“रास्ना तु त्रिविधा प्रोक्ता मूलं पत्रं तृण-
न्तथा ।
ज्ञेयौ मूलदलौ श्लिष्टौ तृणा रास्ना तु मध्यमा ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी ॥
नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् ।
भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥”
इति भावप्रकाशः ॥
रास्ना शोथामवातघ्नी । इति राजवल्लभः ॥
औषधिविशेषः । काँटा आमरुली इति भाषा ।
तत्पर्य्यायः । एलापर्णी २ सुवहा ३ युक्त-
रसा ४ । इत्यमरः ॥ अपि च ।
“रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुस्निग्धा श्रेयसी तथा ॥
रास्नामपाचनी तिक्ता गुरूष्णा कफवातजित् ।
शोथश्वाससमीरास्रवातशूलोदरापहा ।
काशज्वरविषाशीतिवातिकामयहिध्महृत् ॥”
इति भावप्रकाशः ॥
(रशना । यथा, वाजसनेयसंहितायाम् । १ । ३० ।
“आदित्यै रास्नासि ।”
“हे योक्त्र आदित्यै अदित्या भूम्यास्त्वं रास्रासि
रशना असि ॥” इति तद्भाष्ये महीधरः ॥
रुद्रपत्नीनामन्यतमा । यथा, ब्रह्मवैवर्त्ते । १ ।
९ । १३ -- १४ ।
“नामानि रुद्रपत्नीनां सावधानं निबोध मे ।
कला कलावती काष्ठा कालिका कलहप्रिया ॥
कन्दली भीषणा रास्ना प्रम्लोचा भूषणा शुकी ।
एतासां बहवः पुत्त्रा बभूवुः शिवपार्षदाः ॥”)

राहुः, पुं, (रह त्यागे + बहुलवचनात् उण् ।)

त्यागः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (रहति
गृहीत्वा त्यजति चन्द्रभिति । रह त्यागे +
बहुलवचनात् उण् । इत्युज्ज्वलः । १ । १ ।)
ग्रहविशेषः । तत्पर्य्यायः । तमः २ स्वर्भानुः ३
सैंहिकेयः ४ विधुन्तुदः ५ । इत्यमरः ॥ अस्र-
पिशाचः ६ ग्रहकल्लोलः ७ सैंहिकः ८ उप-
प्लवः ९ शीर्षकः १० उपरागः ११ सिंहिका-
मूनुः १२ । इति शब्दरत्नावली ॥ कृष्णवर्णः १३
कवश्रः १४ । इति जटाधरः ॥ अगुः १५
असुरः १६ । इति ज्योतिस्तत्त्वम् ॥ तस्योत्-
पत्त्यादिर्यथा, --
“सिंहिकायामथोत्पन्ना विप्रचित्तेश्चतुर्द्दश ।
शम्बः शम्बलगात्रश्च व्यङ्गः शाल्वस्तथैव च ॥
इल्वलो नमुचिश्चैव वातापी हसृपो जिकः ।
हरकल्पकलिनाभौ भौमश्च नरकस्तथा ॥
राहुर्ज्येष्ठश्च तेषां वै चन्द्रसूर्य्यप्रमर्द्दनः ।
इत्येते सिंहिकापुत्त्रा देवैरपि दुरासदाः ॥
दारुणाभिजनाः क्रूराः सर्व्वे ब्रह्मद्बिषस्तु ते ।
दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥
निहतो यामदग्न्येन भार्गवेण बलीयसा ।
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥”
इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः ॥ * ॥
तस्य शिरश्छेदकारणं यथा, --
“देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।
प्रविष्टः सोममपिबत् चन्द्रार्काभ्याञ्च सूचितः ॥
चक्रेण क्षुरधारेण जहार पिबतः शिरः ।
हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥
शिरस्त्वमरतां नीतमजो ग्रहमचीक्सृपत् ।
यस्तु पर्ब्बणि चन्द्रार्कावभिधावति वैरधीः ॥”
इति श्रीभागवते ८ स्कन्धे ९ अध्यायः ॥
स च मलयपर्व्वतजातः । शूद्रवर्णः । द्बादशा-
ङ्गुलपरिमाणः । कृष्णवर्णः । कृष्णवस्त्रः । सिंह-
वाहनः । चतुर्भुजः । खड्गवरशूलचर्म्मधारी ।
सूर्य्यास्यः । अस्य अधिदेवता कालः । प्रत्यधि-
देवता सर्पः । इति ग्रहयज्ञतत्त्वम् ॥ अस्य
स्वरूपं शनिवत् । स च चण्डालजातिः ।
सर्पाकृतिः । अस्थिस्वामी नैरृतदिक्स्वामी
च । इति बृहज्जातकादयः ॥ (राहुचारस्य
फलाफलं बृहत्संहितायाः ५ अध्यायतो द्रष्ट-
व्यम् ॥)

राहुग्राहः, पुं, (राहोर्ग्राहो ग्रहणं यत्र ।)

चन्द्रसूर्य्ययोर्ग्रहणम् । यथा, --
“राहुग्राहोऽर्केन्दोर्ग्रह उपराग उपप्लवः ॥”
इति हेमचन्द्रः । २ । ३९ ॥
(अत्र राहुग्रास इत्यपि पाठो दृश्यते ॥)

राहुचक्रं, क्ली, (राहोश्चक्रम् ।) रव्यादिसप्त-

वारेषु अश्वगत्या वामावर्त्तेन यामार्द्धं प्राप्य
सप्तदिक्षु राहोर्गमनम् । यथा, --
“पश्चादर्के विधौ वह्नौ सौम्यां ज्ञे वायवे कुजे ।
रक्षोदिशि भृगौ याम्यां गुरावीशे शनौ दिने ।
राहुर्भ्रमति यामार्द्धादश्वगत्या च वामतः ॥
द्यूते युद्धे विवादे च यात्रायां सम्मुखं स्थितम् ।
राहुं विवर्ज्जयेद्यत्नाद्यदीच्छेत् कर्म्मणः फलम् ॥”
इति सत्कृत्यमुक्तावली ॥ * ॥
राहुकालानलचक्रं यथा, --
“तस्य चक्रं प्रवक्ष्यामि राहुकालानलाख्यकम् ।
शलाकासप्तकं चक्रं ईशादौ कृत्तिकादिकाः ॥
यत्र ऋक्षे स्थितो राहुर्वदनं तद्विनिर्द्दिशेत् ॥
मुखात् पञ्चदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ।
अष्टोत्तरशतं ख्याता जायन्ते यत्र केतवः ॥
व्याप्य तस्थुर्ज्जगत् सर्वं सहस्रार्कसमत्विषः ।
राहुभुक्तानि ऋक्षाणि जीवपक्षे त्रयोदश ॥
त्रयोदशैव भोग्यानि मृतपक्षे प्रकीर्त्तयेत् ।
मृतपक्षे मुखं तस्य गुदं जीवाङ्गमध्यगम् ॥
एवमङ्गद्वयो राहुर्ज्ञातव्यः स्वरपारगैः ।
जीवपक्षे क्षपानाथे मृतपक्षे रवौ स्थिते ।
तस्मिन् काले शुभा यात्रा विपरीते तु
हानिदा ॥”
इति स्वरोदयः ॥

राहुच्छत्रं, क्ली, आर्द्रकम् । इति राजनिर्घण्टः ॥

राहुदर्शनं, क्ली, (राहोर्दशनं यत्र ।) राहो-

श्चाक्षुषज्ञानम् । ग्रहणमिति यावत् । यथा, --
“चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते ।
तत्र कर्म्माणि कुर्व्वीत गणनामात्रतो नतु ॥
राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्ज्जितम् ॥”
इति तिथ्यादितत्त्वम् ॥

राहुभेदी, [न्] पुं, (राहुं भिनत्तीति । भिद् +

णिनिः ।) विष्णुः । इति जटाधरः ॥

राहुमूर्द्धभित्, पुं, (राहोर्मूर्द्धानं भिनत्ति छिन-

त्तीति । भिद् + क्विप् ।) विष्णुः । इति त्रिकाण्ड-
शेषः ॥

राहुरत्नं, क्ली, (राहुप्रियं रत्नम् । राहो रत्न-

मिति वा ।) गोमेदकः । इति राजनिर्घण्टः ॥

राहुलसूः, पुं, बुद्धः । इति हेमचन्द्रः । २ ।

१५१ ॥

राहुवृहस्पतियोगः, पुं, (राहुणा वृहस्पतेर्योगो

मेलनम् ।) एकराशिस्थितगुरुराहुः । गुरु-
चाण्डालियोग इति ख्यातः । तस्य काला-
शुद्धिजनकत्वं यथा, भोजदेवव्यवहारसमुच्चये ।
“सर्व्वं कार्य्यं न कर्त्तव्यं गुरौ सिंहेऽस्तगेऽपि च ।
व्रतदीक्षे न कुर्व्वीत तमोयुक्ते बृहस्पतौ ॥”
तमोयुक्ते राहुयुक्ते । व्रतदीक्षे इति नित्येतर-
वैदिककर्म्मोपलक्षणम् । तथा च स्मृतिसारे
ज्योतिषम् ।
“एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती ।
विवाहव्रतयज्ञादि सर्व्वं तत्र परित्यजेत् ॥”
मलमासाद्युपक्रम्य भविष्ये ।
“ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वानयोः ।
गुरो राहोरपि तथा त्यजेद्विद्बान्न संशयः ॥”
अत्र गुरोर्लज्जितत्वं हेतुः ।
“यत्र यत्र स्थितो जीवस्तमोयोगेन लज्जते ।
उपहासाय किं न स्यादसत्सङ्गो मनीषिणाम् ॥”
इति मलमासतत्त्वम् ॥ * ॥
अस्य प्रतिप्रसवो यथा, --
“कर्णाटनाटाङ्गकलिङ्गदेशे
बृहस्पती राहुयुतो विरुद्धः ।
शेषेषु देशेषु न चास्ति दोषः
सर्व्वत्र कार्य्यं मुनयो वदन्ति ॥”
इति बृहद्राजमार्त्तण्डधृतवचनमिति केचिद्-
वदन्ति ॥

राहुस्पर्शः, पुं, (राहोः स्पर्शो यत्र ।) उपरागः ।

इति हलायुधः ॥
पृष्ठ ४/१६१

राहुहा, [न्] पुं, (राहुं हन्तीति । हन् +

क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

राहूच्छिष्टः, पुं, (राहोरुच्छिष्टः ।) लशुनः ।

इति त्रिकाण्डशेषः ॥ (अस्य विवरणन्तु रसोन-
शब्दे द्रष्टव्यम् ॥)

राहूत्सृष्टः, पुं, (राहुणा उत्सृष्टः परित्यक्तः ।)

लशुनः । इति हारावली । २२३ ॥ (अस्य
विवरणं रसोनशब्दे द्रष्टव्यम् ॥)

रि, श गतौ । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) रेफादिः । श, रियति ।
इति दुर्गादासः ॥

रिक्तं, क्ली, (रिच् + क्तः ।) शून्यम् । वनम् । इति

मेदिनी । ते, ५० ॥

रिक्तं, त्रि, (रिच् + क्तः ।) निर्घनम् । इति शब्द-

रत्नावली ॥ (शून्यम् । यथा, मनुः । ८ । ४०५ ।
“भाण्डपूर्णानि यानानि तार्य्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत्किञ्चित् पुमांसश्चापरि-
च्छदाः ॥”)

रिक्तकं, त्रि, (रिक्त + कन् ।) शून्यम् । इत्य-

मरः । ३ । १ । ५६ ॥ (यथा, मनुः । ८ । ४०४ ।
“पणं यानं तरे दाप्यं पौरुषेऽर्द्धपणं तरे ।
पादं पशुश्च योषिश्च पादार्द्धं रिक्तकः पुमान् ॥”)

रिक्ता, स्त्री, (रिच् + क्तः । टाप् ।) तिथिभेदः ।

सा तु चतुर्थी नवमी चतुर्द्दशी च । यथा, --
“नन्दा भद्रा जया रिक्ता पूर्णा च तिथयः
क्रमात् ॥”
इति तिथ्यादितत्त्वम् ॥
कर्म्मसु तस्या निषेधविधी यथा, --
“नन्दा भद्रा जया रिक्ता पूर्णा नामसदृक्-
फलाः ।”
न रिक्ता सर्व्वकर्म्मसु । इति ज्योतिःसारः ॥
“चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः
त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्तां
तिथिम् ।
क्रूराहायनचैत्रपौषरहिते लग्नांशके मानुषे ॥
रिक्तासु विधवा कन्या दर्शेऽपि स्याद्विवाहिता ।
शनैश्चरदिने चैव यदि रिक्ता तिथिर्भवेत् ।
तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिनी ॥”
इति दीपिका ॥
“षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ
सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे ॥”
इति भुजबलभीमः ॥
“द्वादशी सप्तमी नन्दा रिक्तासु पञ्चपर्व्वसु ।
बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणम् ॥”
इति कृत्यचिन्तामणिः ॥
“पूर्ब्बेशान्तकसर्पमूलरहितेष्वृक्षेष्वरिक्ते तिथौ
षष्ठे मासि सितेन्दुजीवदिवसे गोज्ञर्क्ष मीनोदये ।
संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने ।
षष्ठीं प्रतिपदञ्चैव वर्जयित्वा तथाष्टमीम् ॥
रिक्तां पञ्चदशीञ्चैव सौरिभौमदिने तथा ।
एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत् ॥”
इति विष्णुधर्म्मोत्तरः ॥
“पूर्ब्बाग्नियाम्यफणिचित्रशिवान्यभेषु
रिक्ताष्टमीं विगतचन्द्रतिथिं विहाय ।
द्व्यङ्गालिगोसमुदये विकुजार्किवारे
शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥”
इति दीपिका ॥
“चन्द्रार्कयोर्भवेत् पूर्णा कुजे भद्रा जया गुरौ ।
बुधमन्दौ च नन्दायां शुक्रे रिक्तामृता तिथिः ॥”
इति भीमपराक्रमः ॥
“सर्व्वत्र कार्य्ये बुधजीवशुक्राः
केन्द्रत्रिकोणोपगताः प्रशस्ताः ।
तृतीयलाभारिगताश्च पापा-
स्तिथिर्विरिक्ता शुभदस्य चाहः ॥”
इति दीपिका ॥
“चतुर्थी नवमी चैव रिक्ता चैव चतुर्द्दशी ।
शुक्रे नन्दा बुधे भद्रा शनौ रिक्ता कुजे जया ।
गुरौ पूर्णा च संयुक्ता सिद्धियोगाः प्रकीर्त्तिताः ॥
बुधमन्दगता नन्दा कुजे भद्रा जया गुरौ ।
भृगुरिक्तामृतं प्रोक्तं पूर्णा च रविचन्द्रयोः ॥”
इति ज्योतिःसागरसारः ॥
“षष्ठ्यष्टमीद्बादशीषु न गच्छेत्त्रिदिनस्पशि ।
पूर्णिमाप्रतिपद्दर्शरिक्तावमदिनेषु च ।
तथा यमद्बितीयायां यात्रायां मरणं भवेत् ॥”
इति सत्कृत्यमुक्तावली ॥

रिक्थं, क्ली, (रिङ्क्ते वहिर्गच्छति नश्यतीति ।

रिच् + “पातॄतुदिवचिरिचिसिचिभ्यस्यक् ।”
उणा० २ । ७ । इति थक् ।) धनम् । इत्यमरः ।
२ । ९ । ९० ॥ (यथा, मनुः । ८ । २७ ।
“बालदायादिकं रिक्थं तावत् राजानुपालयेत् ।
यावत् स स्यात् समावृत्तो यावच्चातीतशैशवः ॥”)

रिक्थहारी, [न्] त्रि, (रिक्थं हरतीति ।

हृ + णिनिः ।) दायादः । धनहारी । यथा ।
“यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्त्रोऽपुत्त्रस्य
क्षेत्रे स्वपरपुत्त्रार्थं प्रवृत्तोऽयं जनयति स द्विपि-
तृको द्व्यामुष्यायणो द्बयोरपि रिक्थहारी
पिण्डदाता च ।” इति मिताक्षरायां दायभागः ॥

रिक्थी, [न्] त्रि, (रिक्थमस्यास्तीति । रिक्थ +

इनिः ।) धनहारी । धनी । (यथा, याज्ञ-
वल्क्यः । २ । २९ ।
“योऽभियुक्तः परेतः स्यात् तस्य रिक्थी तमु-
द्धरेत् ॥”)

रिक्षा, स्त्री, लिक्षा । यूका । इति हेमचन्द्रः । ४ ।

२७४ ॥

रिख, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, रिङ्ख्यते । इति दुर्गादासः ॥

रिग, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, रिङ्ग्यते । इति दुर्गादासः ॥

रिङ्खणं, क्ली, (रिङ्ख + ल्युट् ।) स्खलनम् । इति

हेमचन्द्रः । ६ । १५९ ॥ (यथा, --
“मुक्त्वाथ रिङ्खणविधिं पादचंक्रमणक्षमः ।
कुमारः पञ्चवर्षीयः कलाभ्यासं विधास्यति ॥”)

रिङ्गणं, क्ली, (रिङ्ग + ल्युट् ।) स्खलनम् । इत्य-

मरः ॥ “द्वे धर्म्माद्युपचिताद्प्रतिष्ठायां स्वकीय-
विधानादन्यथाभावे इत्यर्थः । औचित्यात्
पिच्छिलादेश्च स्खलने । इति रमानाथः ॥
धर्म्मविलङ्घनं रिङ्गणमिति स्वामी ॥ बालानां
हस्तपादाभ्यां चलनं रिङ्गणम् । पिच्छिलादौ
पतनं स्खलनमित्यन्ये । एतन्मते भेदेऽप्यभेदोप-
चारेण समे इत्युक्तम् । रग रिग लिगि गतौ
अनट् । रिङ्खणमिति पाठे रखि रख रिखि
सर्पणे इत्यस्य रूपम् ।” इति भरतः ॥

रिच, कि सम्पर्कवियोगयोः । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-पर०-अक०-सेट् ।) कि-
रेचयति रेचति । रिङ्क्ते रिपुर्यदाक्रान्तो धनैर्म-
न्त्रैश्च रेचति । रेचयन्ति च तन्नार्य्य इति
हलायुधः । इति दुर्गादासः ॥

रिच, इर् ध ञ औ विरेके । इति कविकल्पद्रुमः ॥

(रुधा०-उभ०-अक०-अनिट् ।) विरेकः पौनः-
पुन्येन पुरीषोत्सर्गः । इति चतुर्भुजः । इर्,
अरिचत् अरैक्षीत् । घ, ञ, रिणक्ति रिङ्क्ते
अतिसारकी । औ, रेक्ता । इति दुर्गादासः ॥

रिज, ङ ऋज्यर्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋज्यर्थे भर्जने । ङ,
रेजते । इति दुर्गादासः ॥

रिधमः, पुं, कामः । वसन्तः । इति विश्वः ॥

रिपुः, पुं, (अनिष्टं रपतीति । रप वाचि + “रपे-

रिच्चोपधायाः ।” उणा० १ । २७ । इति कुः
इकारश्चोपधायाः । “रिफ कत्थनयुद्धनिन्दा-
हिंसादानेषु । ‘ईषेः किञ्च ।’ उणा० १ । १४ ।
इति बाहुलकादुप्रत्ययः । रिपति केचित् पठन्ति ।
तत्र बाहुलकादेव ककारस्य पकारः । रिफति
मोषणार्थं युध्यते हिनस्ति वा निन्द्यते च सत्-
पुरुषैः ।” इति निघण्टुटीकायां देवराजयज्वा ।
३ । २४ । ४ ।) शत्रुः । इत्यमरः । २ । ८ । १० ॥
(यथा, हितोपदेशे ।
“नकश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥”)
शरीरस्थषड्रिपवो यथा । कामः क्रोधः लोभः
मोहः मदः मात्सर्य्यश्च । तथा हि ।
“आस्थाय योगमवजित्य च वैरिषट्क-
मावध्य चेन्द्रियगणं मनसि प्रसन्ने ॥”
इत्यादि तन्त्रसारे भुवनेश्वरीस्तोत्रम् ॥ * ॥
चोरकनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥
लग्नापेक्षया षष्ठलग्नम् । तत्पर्य्यायः । षट्-
कोणम् २ रिपुमन्दिरम् ३ । यथा, --
“धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् ।
द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दि-
रम् ॥”
अपि च ।
“सुनीचगेऽस्तगेऽपि वा रिपोर्गृहेस्थिता ग्रहाः ।
वृथा फलं प्रकीर्त्तितं समस्तमेव सूरिभिः ॥”
अन्यच्च ।
“अरातिव्रणयोः षष्ठे चाष्टमे मृत्युरन्ध्रयोः ।
व्ययस्य द्बादशस्थाने वैपरित्येन चिन्तनम् ॥”
इति ज्योतिस्तत्त्वम् ॥
पृष्ठ ४/१६२
(ध्रुवपुत्त्रस्य शिष्टेः पुत्त्रः । यथा, हरिवशे ।
२ । १४-१५ ।
“तस्मात्शिष्टिश्च भव्यश्च घ्रुवात् शम्भुर्व्यजायत ।
शिष्टेराधत्त सुच्छाया पञ्चपुत्त्रानकल्मषान् ॥
रिपुं रिपुञ्जयं पुष्पं वृकलं वृकतेजसम् ॥”
यदोः पुत्त्रः । यथा, भागवते । ९ । २३ । २० ।
“यदोः सहस्रजित् क्रोष्टानलोरिपुरितिश्रुताः ॥”)

रिपुघातिनी, स्त्री, (रिपुं हन्तीति । हन + णिनिः ।)

लताविशेषः । कुचुइ इति भाषा । यथा,
“कुचिका बहुविस्तीर्णा कुञ्चिका रिपुघातिनी ॥”
इति शब्दचन्द्रिका ॥

रिन्फ, प श वधे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) नोपधः । प श, रिम्फति
रिरिम्फ । सप्तमस्वरादिरयमित्यन्ये । इति
दुर्गादासः ॥

रिप्फं, क्ली, लग्नापेक्षया द्बादशराशिः । यथा, --

“कर्म्मस्थानञ्च दशमं खं मेशूरणमास्पदम् ।
छिद्राख्यमष्टमं स्थानं रिप्फाख्यं द्बादशं
स्मृतम् ॥”
तत्र चिन्तनीयं यथा, --
“प्राप्त्यायावथ चिन्तयेद्भवगृहे रिप्फेऽथ
मन्त्रिव्ययौ
सौम्यस्वामियुतीक्षितैरुपचितिस्तेषां क्षतिस्त्व-
न्यया ॥”
इति ज्योतिस्तत्त्वम् ॥

रिप्रः, त्रि, (रीङ् स्रवण + “लीङ्रीङो ह्रस्वश्च पुट्च

तरौ श्लेषणकुत्सितयोः ।” उणा० ५ । ५५ ।
इति रप्रत्ययः । धातोर्ह्नस्वः । प्रत्ययस्य पुट् च ।)
अधमः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(यथा, ऋग्वेदे । ९ । ७८ । १ ।
“गृभ्णाति रिप्रमविरस्य तान्वा ।”
“रिप्रं अनुपादेयत्वेन पापरूपम् ॥” इति
तद्भाष्ये सायणः ॥ क्ली, पापम् । यथा, ऋग्वेदे ।
१० । १७ । १० ।
“विश्वं हि रिप्रं प्रवहन्ति देवीः ॥”
“देवीर्देव्यः देवनशीला आपः विश्वं सर्व्वं विप्रं
पापं प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति
अपनयन्तीति यावत् ।” इति तद्भाष्ये सायणः ॥)

रिप्रवाहः, त्रि, पापवाहकः । यथा, --

“क्रव्यादमग्निं प्रहिणोमि दूरम् ।
यमराज्यं गच्छतु रिप्रवाहः ॥”
इति भवदेवभट्टोक्तकुशण्डिकापद्धतिः ॥
“रिप्रं पापं वहतीति रिप्रवाहः ।” इति तट्टी-
कायां गुणविष्णुः ॥ “स प्रहितः क्रव्यादग्निः
यमराज्यं गच्छतु यमस्य राज्यं प्रति व्रजतु ।
किम्भूतः रिप्रवाहः रिप्रमिति पापनाम । रिप्रं
पापं वहति नाशयति रिप्रवाहः ।” इति वाज-
मनेयसंहिताभाष्ये महोधरः । ३५ । १९ ॥
“रिप्रवाहः रिप्रं पापं तस्य वोढा सोऽग्निः
यमराज्ञः यमो राजा येषां तान् यमराजकान्
अन्यप्रदेशान् गच्छतु प्राप्नोतु ।” इति ऋक्भाष्ये
सापणः । १० । १६ । ९ ॥)

रिफ, कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सौत्रधातुरयम् । रिप्फः रेफः ।
इति दुर्गादासः ॥

रिफ, श अर्फे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) श, रिफति । अर्फो
दानश्लाघाहिंसानिन्दायुद्धानि । इति दुर्गा-
दासः ॥

रिब, इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, रिम्ब्यते । इति दुर्गा-
दासः ॥

रिभ, रवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) विरिब्धः । इति दुर्गादासः ॥

रिमेदः, पुं, अरिमेदः । इति राजनिर्घण्टः ॥

रिरी, स्त्री, पित्तलः । इति हेमचन्द्रः । ४ ।

११४ ॥

रिव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, रिण्व्यते । व्रजो गतिः । इति
दुर्गादासः ॥

रिश, औ श हिंसे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-अनिट् ।) औ, अरिक्षत् । श,
रिशति । रेक्ष्यति । इति दुर्गादासः ॥

रिश्यः, पुं, (रिश्यते हिंस्यते इति । रिश् +

क्यप् ।) मृगः । इति त्रिकाण्डशेषः ॥

रिष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेषति । इति दुर्गादासः ॥

रिषिः, पुं, ऋषिः । ऋषन्ति ज्ञानसंसारयोः पारं

गच्छन्ति ऋषयः । ऋषी श गतौ नाम्नीति
किः । रिषिर्हसादिश्च । विद्याविदग्धमतयो
रिषयः प्रसिद्धाः । इति प्रयोगात् । स्त्रियां
ऋषी च । इत्यमरटीकायां भरतः ॥

रिष्टं, क्ली, (रिष् + क्तः ।) क्षेमम् । कल्याणम् ।

अशुभम् । अमङ्गलम् । (यथा, मार्कण्डेये ।
५० । ८९ ।
“स्थालीपिधाने यत्राग्निर्दत्तो दर्व्वीफलेन वा ।
गृहे तत्र हि रिष्टानामशेषाणां समाश्रयः ॥”)
अभावः । नाशः । इत्यमरभरतौ ॥ अशुभस्या-
भावः । इति केचित् । इति भरतः ॥ पापम् ।
इत्यजयः ॥ तद्वति, त्रि ॥

रिष्टः, पुं, (रिष् + क्तः ।) खड्गः । फेणिलः ।

स तु रक्तशिग्रुः । इति मेदिनी । टे, २७ ॥

रिष्टकः, पुं, (रिष्ट एव । स्वार्थे कन् ।) रक्तशिग्रुः ।

इति शब्दरत्नावली ॥

रिष्टिः, पुं, (रेषति हिनस्तीति । रिष् + क्तिच् ।)

खड्गः । इति मेदिनी । टे, २७ ॥

रिष्टिः, स्त्री, (रिष् + क्तिन् ।) अशुभम् । इति

मेदिनी । टे, २७ ॥ शस्त्रभेदः । इति शब्द-
रत्नावली ॥

रिष्यः, पुं, (रिष्यते इति । रिष् + क्यप् ।) मृग-

विशेषः । यथा, --
“ऋष्य ऋश्यो रिश्यो रिष्य एणः स्यादेणकोऽपि
च ।”
इति शब्दरत्नावली ॥

रिष्वः, त्रि, (रिष वधे + “सर्व्वनिघृष्वरिष्वेति ।”

उणा० १ । १५३ । इति वन्प्रत्ययेन साधुः ।)
वधकः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रिह, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेहति । इति दुर्गादासः ॥

री, ओ ङ य क्षरणे । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-अनिट् ।) ओ, रीणः ।
ङ य, रीयते पयः । इति दुर्गादासः ॥

री, गि रवे । वधे । गतौ । इति कविकल्पद्रुमः ॥

(क्र्या० प्वा०-पर०-अक०-सक० च-अनिट् ।)
गि, रिणाति रीणः रिणिः । रवः शब्दः । तथा
च कातन्त्रादौ री गतिरेषणयोः । रेषणं वृक-
ध्वनिरिति रमानाथः । रिणाति रेषते वृकः ।
इति शब्दार्थे भट्टमल्लः । इति दुर्गादासः ॥

री, स्त्री, (री + क्विप् ।) गतिः । इति शब्दरत्ना-

वली ॥ रवः । वधः । इति रीधात्वर्थदर्शनात् ॥

रीज्या, स्त्री, घृणा । यथा । मोहो रीज्या

जुगुप्सा च हृणीया हृणिया घृणेति वाच-
स्पतिः । अयन्तु लज्जायां प्रसिद्धेः प्रमादात्
घृणायां प्रयुक्त इति कलिङ्गः । इत्यमरटीकायां
भरतः ॥

रीठा, स्त्री, रीठाकरञ्जः । इति राजनिर्घण्टः ॥

रीठाकरञ्जः, पुं, स्वनामख्यातवृक्षः । तत्पर्य्यायः ।

गुच्छकः २ गुच्छपुष्पकः ३ रीठा ४ गुच्छफलः ५
अरिष्टः ६ मङ्गल्यः ७ कुम्भबीजकः ८ प्रकीर्य्यः ९
सोमवल्कः १० फेणिलः ११ । अस्य फलगुणाः ।
तिक्तत्वम् । उष्णत्वम् । कटुत्वम् । स्निग्धत्वम् ।
वातकफकुष्ठकण्डूतिविषविष्फोटनाशित्वञ्च । इति
राजनिर्घण्टः ॥

रीढकः, पुं, पृष्ठवंशः । इति हेमचन्द्रः । ३ । २६५ ॥

रीढा, स्त्री, (रिह बन्धे + औणादिकः क्तः ।)

अवज्ञा । इत्यमरः । १ । ७ । २३ ॥

रीणं, त्रि, (री + क्तः । ओदितश्चेति नः ।) स्रुत-

जलादि । क्षरितम् । इत्यमरः । ३ । १ । ९२ ॥

रीतिः, स्त्री, (री + क्तिच् क्तिन् वा ।) आरकूटः ।

(तत्पर्य्यायगुणा यथा, --
“पित्तलन्त्वारकूटं स्यादरो रीतिश्च कथ्यते ।
राजरीतिर्ब्र ह्मरीतिः कपिला पिङ्गलापि च ॥
रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च ।
पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा जनैः ॥
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
प्रचारः । स्यन्दः । इत्यमरः । २ । ९ । ९७ ॥
३ । ३ । ६८ ॥ लोहकिट्टम् । इति मेदिनी । ते, ५० ॥
दग्धस्वर्णादिमलम् । इति धरणिः ॥ सीमा ।
स्रवणम् । गतिः । स्वभावः । शेषस्य पर्य्यायः ।
रूपम् २ लक्षणम् ३ भावः ४ आत्मा ५
प्रकृतिः ६ सहजः ७ रूपतत्त्वम् ८ धर्म्मः ९
सर्गः १० निसर्गः ११ शीलम् १२ सतत्त्वम् १३
संसिद्धिः १४ । इति हेमचन्द्रः ॥ (यथा,
कथासरित्सागरे । १४ । ६२ ।
“निशान्तक्लिष्टचक्राह्वरीतिहृद्यो रसक्रमः ॥”
पृष्ठ ४/१६३
स्तुतिः । यथा, ऋग्वेदे । २ । २४ । १४ ।
“महीव रीतिः शवसासरत् पृथक् ॥”
“महीव रीतिः महती स्तुतिरिव ।” इति
तद्भाष्ये सायणः ॥) काव्यस्यात्मा । इति वामन-
सूत्रम् ॥ गुणभेदेन तद्विभागमाह ।
“ओजः प्रसादमाधुर्य्यगुणत्रितयभेदतः ।
गौडवैदर्भ्यपाञ्चालरीतयः परिकीर्त्तिताः ॥”
प्रत्येकेनैषां लक्षणानि यथा, --
“ओजः समासभूयस्त्वं मांसलं पदडम्बरम् ।
व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥
शब्दार्थयोस्तु रसवन्मधुरं परिकीर्त्तितम् ।
सर्व्वलोकावगम्यं यद्ग्राम्यं तदभिधीयते ।
सुश्राव्यमपि गम्भीरं प्रसन्नमुपनागरम् ॥”
ग्राम्यं यथा, --
“कन्ये मन्येऽप्यसौ धन्यो यस्त्वामद्य विवाहयेत् ।
नाल्पेन तपसा लभ्यः सुन्दरस्त्रीसमागमः ॥”
उपनागरं यथा --
“तन्वि त्वदधरं स्वादु नाविदन्नविदो जनाः ।
वसुधायां सुधाभावान्मृषा स्वर्गं यियासवः ॥
शब्दालङ्करणं तत् स्याद्यदनुप्रासभास्वरम् ।
वर्णावृत्तिरनुप्रासः पदे पादे विधीयते ।
पदावृत्तिस्तु यमकमादिमध्यान्तसर्व्वगम् ॥” * ॥
क्रमेण रीतित्रयाणामुदाहरणानि ।
“गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि-
स्फूर्ज्जत्फुत्कृतिभीतिसम्भृतिचमत्कारस्फुरत्-
सम्भ्रमा ।
आनन्दामृतवापिकां विदधती चित्ते गिरीश-
प्रभो-
स्त्वां पायान्नवसङ्गमे भगवती लज्जावती
पार्व्वती ॥
भवतो विरहव्याधिमधिगम्य ससम्भ्रमा ।
कामिनी यामिनीकान्तं कृतान्तमिव पश्यति ॥
हन्तालि सन्तापनिवृत्तयेऽस्याः
किं तालवृन्तं तरलीकरोषि ।
उत्ताप एषोऽन्तरतापहेतु-
र्नतभ्रुवो नव्यजनापनेयः ॥”
इति काव्यचन्द्रिका ॥
(अस्या अन्यद्विवरणं साहित्यदर्पणे ९ परिच्छेदे
द्रष्टव्यम् ॥)

रीतिकं, क्ली, पुष्पाञ्जनम् । इति राजनिर्घण्टः ॥

रीतिका, स्त्री, कुसुमाञ्जनम् । इति शब्दचन्द्रिका

पित्तलञ्च ॥ (यथा, बृहत्संहितायाम् । ५७ । ८ ।
“अष्टौ सीसकभागाः कांसस्य द्बौ तु रीतिका-
भागः ।
मयकथितो योगोऽयं विज्ञेयो वज्रसंघातः ॥”)

रीतिपुष्पं, क्ली, (रीतेः पित्तलस्य पुष्पमिव । तदा-

कृतित्वात् ।) कुसुमाञ्जनम् । इत्यमरः । २ ।
९ । १०३ ॥

रीव, ऋ ञ चीवे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) ऋ, अरिरीवत् । ञ,
रीवति रीवते । चीवो ग्रहणसंवरणयोः । इति
दुर्गादासः ॥

रु, ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, रवते । इति दुर्गा-
दासः ॥

रु, ल ध्वनौ । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-अक०-सेट् ।) ल, रौति रवीति पक्षी ।
इति दुर्गादासः ॥

रुः, पुं, शब्दः । इत्येकाक्षरकोषः ॥

रुकः, त्रि, बहुप्रदः । इति शब्दमाला ॥

रुक्, [च्] स्त्री, (रुच् + भावे क्विप् ।) शोभा ।

(यथा, माघे । ४ । ६६ ।
“दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै-
र्व्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ॥”)
द्युतिः । (यथा, किराते । ५ । ४५ ।
“क्षिपति योऽनुवनं विततां बृहद्-
बृहतिकामिव रौचनिकीं रुचम् ॥”)
इच्छा । इति मेदिनी ॥ (यथा, महाभारते ।
१३ । १२४ । २८ ।
“नानाबुद्धिरुचो लोके मनुष्यान्नूनमिच्छसि ।
ग्रहीतुं स्वगुणैः सर्व्वांस्तेनासि हरिणः कृशः ॥”
तेजः । यथा, रघुः । ९ । ६ ।
“अनुययौ यमपुण्यजनेश्वरौ
सवरुणावरुणाग्रसरं रुचा ॥”)
शारिकाशुकवाक् । इति शब्दरत्नावली ॥

रुक्, [ज्] स्त्री, (रुज् + क्विप् ।) रोगः । इत्य-

मरः । २ । ६ । ५१ ॥ (यथा, भागवते । ६ । १ । ८ ।
“दोषस्य दृष्ट्वा गुरु लाघवं यथा
भिषक् चिकित्सेत रुजां निदानवित् ॥”
रुजति पीडयतीति । पीडादायके, त्रि । यथा,
महाभारते । ५ । ८४ । १ ।
“प्रयान्तं देवकीपुत्त्रं परवीररुजो दश ।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥”
अथवा परस्य वीराणां रुक् यैरिति ॥)

रुक्प्रतिक्रिया, स्त्री, (रुजः प्रतिक्रिया निर-

सनम् ।) चिकित्सा । इत्यमरः । २ । ३ । ५० ॥

रुक्मं, क्ली, (रोचते शोभते इति । रुच् + “युजि-

रुचितिजां कुश्च । उणा० १ । १४५ । इति
मक् कवर्गश्चान्तादेशः ।) काञ्चनम् । (यथा,
रामायणे । २ । ७० । २१ ।
“रुक्मनिष्कसहस्रे द्धे षोडशाश्वशतानि च ।
सत्कृत्य केकयीपुत्त्रं कैकेयो धनमादिशत् ॥”)
धुस्तूरम् । इत्यमरः ॥ लोहम् । इति मेदिनी ।
मे, २८ ॥ (अस्य पर्य्यायो यथा, --
“कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ ॥”
इति वैद्यकरत्नमालायाम् ॥)
नागकेशरम् । इति राजनिर्घण्टः ॥ (वर्णे,
पुं । इति उज्ज्वलदत्तः । १ । १४५ ॥ दीप्तिशीले,
त्रि । वथा, ऋग्वेदे । ५ । ६१ । १२ ।
“दिवि रुक्म इवोपरि ॥”
“दिवि द्युलोके रुक्मो रोचमान आदित्य इव ।”
इति तद्भाष्ये सायणः ॥)

रुक्मकारकः, पुं, (रुक्मं स्वर्णालङ्कारं करोतीति ।

कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
ततः स्वार्थे कन् ।) स्वर्णकारः । इत्यमरः । २ ।
१० । ८ ॥

रुक्माङ्गदः, पुं, राजविशेषः । यथा । अस्ति

कलिङ्गविषये रुक्माङ्गदो नाम नरपति-
र्दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदी-
तीरे समावेशितकटको वर्त्तते । इत्यादि हितो-
पदेशे १ परिच्छेदः ॥

रुक्मिणी, स्त्री, (रुक्मो वर्णोऽस्त्यस्या इति । रुक्म +

इनिः । ङीप् ।) कृष्णमहिषीविशेषः । तत्प-
र्य्यायः । ईः २ रमा ३ सिन्धुजा ४ सामा ५
चला ६ हीरा ७ चञ्चला ८ वृषाकपायी ९
चपला १० इन्दिरा ११ लक्ष्मीः १२ पद्मालया
१३ पद्मा १४ कमला १५ श्रीः १६ हरिप्रिया
१७ । इति जटाधरः ॥ अस्या विवरणं यथा,
“विदर्भराजो धर्म्मात्मा भीष्मको नाम धार्म्मिकः ।
बभूवुस्तस्य पुत्त्रास्तु नाम्ना रुक्म्यादयः शुभाः ॥
तेषामवरजा कन्या रुक्मिणी रुक्मवर्णिनी ।
कमलांशेन सम्भूता सर्व्वलक्षणशोभिता ॥
राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि ।
साक्षाल्लक्ष्मीस्तु विज्ञेया प्राकट्येनैव पार्व्वति ॥”
इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥ * ॥
(रुक्मिण्या सह शिशुपालस्य विवाहघोषणा
श्रीकृष्णस्य रुक्मिणीहरणं हृतायाञ्च तस्यां
यादवैः सह राज्ञां तुमुलयुद्धादिकं हरिवंशे ।
११६ अध्याये द्रष्टव्यम् ॥ * ॥ नारदस्य रुक्मिण्यै
पारिजातपुष्पप्रदानवृत्तान्तं तत्रैव च १२२
अध्याये द्रष्टव्यम् ॥ * ॥ अस्याः सन्ततिनामानि
यथा तत्रैव । १६० । ४ -- ६ ।
“ -- रुक्मिणीतनयान् शृणु ।
प्रद्युम्नः प्रथमं यज्ञे शम्बरान्तकरः सुतः ॥
द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ।
चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एवच ॥
सुषेणश्चारुगुप्तश्च चारुविन्दश्च वीर्य्यवान् ।
चारुवाहुः कनीयांश्च कन्या चारुमती तथा ॥”)
स्वर्णक्षीरी । इति राजनिर्घण्टः ॥

रुक्मिणीव्रतं, क्ली, (रुक्मिण्या व्रतम् ।) व्रत-

विशेषः । यथा, --
सूत उवाच ।
“जामदग्न्यः समाकर्ण्य रमां तां पुत्त्रगर्द्धिनीम्
कल्केरभिमतं बुद्ध्वा कारयद्रुक्मिणीव्रतम् ॥
व्रतेन तेन च रमा पुत्त्राढ्या सुभगा सती ।
सर्व्वभोगेन संयुक्ता बभूव स्थिरयौवना ॥
शौनक उवाच ।
विधानं ब्रूहि मे सूत व्रतस्यास्य च यत् फलम् ।
पुरा केन कृतं धर्म्म्यं रुक्मिणीव्रतमुत्तमम् ॥
सूत उवाच ।
शृणु ब्रह्मन् ! राजपुत्त्री शर्म्मिष्ठा वार्षपर्व्वणी ।
अवगाह्य सरोनीरं सोमं हरमपश्यत ॥
सा सखीभिः परिवृता देवयान्या च संगता ।
शम्भुभीत्या समुत्थाय पर्य्यधुर्व्वसनं द्रुतम् ॥
तत्र शुक्रस्य कन्या या वस्त्रव्यत्यासमात्मनः ।
संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि ! ॥
पृष्ठ ४/१६४
इति दानवकन्या सा दासीभिः परिवारिता ।
तां तस्या वाससा वद्ध्वा कूपे क्षिप्त्वा गता
गृहम् ॥
तां कूपमग्नां रुदतीं जलाथी नहुषात्मजः ।
करे स्पृश्य समुद्धृत्य प्राह का त्वं वरानने ॥
सा शुक्रपुत्त्री वसनं परिधाय ह्निया भिया ।
शर्म्मिष्ठया कृतं सर्व्वं प्राह राजानमीक्षती ॥
ययातिस्तदभिप्रायं ज्ञात्वानुव्रज्य शोभनाम् ।
आश्वास्य तां ययौ गेहं तस्याः परिणयादृतः ॥
सा गत्वा भवनं शुक्रं प्राह शर्म्मिष्ठया कृतम् ।
तच्छ्रुत्वा कुपितं विप्रं वृषपर्व्वाह सान्त्वयन् ॥
दण्ड्यं मां दण्डय विभो रोषो यद्यस्ति ते मयि ।
शर्म्मिष्ठां वाप्यपकृतां कुरु यन्मनसेप्सितम् ॥
राजानं प्रणतं पादे पितुर्दृष्ट्वा रुषाब्रवीत् ।
देवयानी त्वियं कन्या मम दासी भवत्विति ॥
समानीय तदा राजा दास्ये तां विनियुज्य सः ।
ययौ निजगृहं ज्ञानी दैवं परमकं स्मरन् ॥
ततः शुक्रस्तमानीय ययातिं प्रतिलोमकम् ।
तस्मै ददौ तां विधिवत् देवयानीं तया सह ॥
दत्त्वा प्राह नृपं विप्रोऽप्येनां राजसुतां यदि ।
शयने नयसे सद्यो जरा त्वामुपभोक्ष्यति ॥
शुक्रस्यैतद्वचः श्रुत्वा राजा तां वरवर्णिनीम् ।
अदृश्यां स्थापयामास देवयान्यनुगां भिया ॥
सा शर्म्मिष्ठा राजपुत्त्री दुःखशोकभयाकुला ।
नित्यं दासीशताकीर्णा देवयानीन्तु सेवते ॥
एकदा सा वनगता रुदती जाह्नवीतटे ।
विश्वामित्रं मुनिं सा तं ददृशे स्त्रीभिरावृतम् ॥
व्रजिनं पुण्यगन्धाभिः सुरूपाभिः सुवासितम् ।
कारयन्तं व्रतं भाल्यधूपदीपोपहारकैः ॥
निर्म्मायाष्टदलं पद्मं वेदिकायां सुचिह्नितम् ।
रम्भापोतैश्चतुर्भिस्तु चतुष्कोणं विराजितम् ॥
वाससा निर्म्मितगृहे स्वर्णपट्टैर्विचित्रिते ।
निर्म्मितश्रीवासुदेवं नानारत्नविघट्टितम् ॥
पौरुषेण च सूक्तेन नानागन्धोदकैः शुभैः ।
पञ्चामृतैः पञ्चगव्यैर्यथामन्त्रैर्द्विजेरितैः ॥
स्नापयित्वा भद्रपीठे कर्णिकायां प्रपूजयन् ।
पञ्चभिर्दशभिर्व्वापि षोडशैरुपचारकैः ॥
पाद्यमध्वश्रमहरं शीतलं सुमनोहरम् ।
परमानन्दजनकं गृहाण परमेश्वर ॥
दूर्व्वाचन्दनगन्धाढ्यमर्घ्ययुक्तं प्रयत्नतः ।
गृहाण रुक्मिणीकान्त प्रपन्नस्य मम प्रभो ॥
नानातीर्थोद्भवं वारि सुगन्धि सुमनोहरम् ।
गृहाणाचमनीयं त्वं श्रीनिवास श्रिया सह ॥
नानाकुसुमगन्धाढ्यं सूत्रग्रथितमुत्तमम् ।
वक्षःशोभाकरं चारु माल्य नय सुरेश्वर ॥
तन्तुसन्तानसन्धानरचितं वन्दनं हरे ।
गृहाणावरणं शुद्धं निरावरण सप्रिय ॥
यज्ञसूत्रमिदं देव प्रजापतिविनिर्म्मितम् ।
गृहाण वामुदेव त्वं रुक्मिण्या रमया सह ॥
नानारत्नसमायुक्तं स्वर्णमुक्तादिषट्टितम् ।
प्रियया सह देवेश गृहाणाभरणं मम ॥
दधिक्षीरगुडाम्नादिपूपलड्डुकखण्डकान् ।
गृहाण रुक्मिणीनाथ सनाथं कुरु मां प्रभो ॥
कर्पूरागुरुगन्धाढ्यं परमानन्ददायकम् ।
धूपं गृहाण वरद वैदर्भ्या प्रियया सह ॥
भक्तानां गेहसक्तानां संसारध्वान्तनाशनम् ।
दीपमालोकय विभो जगदालोकनादर ॥
श्यामसुन्दर पद्माक्ष पीताम्बर चतुर्भुज ।
प्रपन्नं पाहि देवेश रुक्मिण्या सहिताच्युत ॥
इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता ।
शर्म्मिष्ठा मिष्टवचना कृताञ्जलिरुवाच ताः ॥
शर्म्मिष्ठोवाच ।
राजपुत्त्रीं दुर्भगां मां स्वामिना परिवर्ज्जिताम् ।
त्रातुमर्हथ हे देव्यो व्रतेनानेन कर्म्मणा ॥
श्रुत्वा तु ता चस्तस्याः कारुण्याच्च कियत्
कियत् ।
पूजोपकरणं दत्त्वा कारयामासुरादरात् ॥
व्रतं कृत्वा तु शर्म्मिष्ठा लब्ध्वा स्वामिनमीश्वरम् ।
सूत्वा पुत्त्रान् सुसन्तुष्टा समभूत् स्थिरयौवना ॥
सीता चाशोकवनिकामध्ये सरमया सह ।
व्रतं कृत्वा पतिं लेभे रामं राक्षसनाशनम् ॥
बृहदश्वप्रसादेन कृत्वेदं द्रौपदी व्रतम् ।
पतियुक्ता दुःखमुक्ता बभूव स्थिरयौवना ॥
तथा रमा सिते पक्षे वैशाखे द्वादशीदिने ।
जामदग्न्याद्व्रतं चक्रे पूर्णं वर्षचतुष्टयम् ॥
पट्टसूत्रं करे बद्ध्वा भोजयित्वा द्बिजान् बहून् ।
भुक्त्वा हविष्यं क्षीराक्तं सुमिष्टं स्वामिना सह ॥
बुभुजे पृथिवीं सर्व्वामपूर्व्वां स्वजनैर्वृता ।
सा पुत्त्रौ सुषुवे साध्वी मेघमालवलाहकौ ॥
देवानामुपकर्त्तारौ यज्ञदानतपोव्रतौ ।
महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥
व्रतवरमिति कृत्वा सर्व्वसम्पत्समृद्धा
भवति विदिततत्त्वा पूजिता पूर्णकामा ।
हरिचरणसरोजद्बन्द्वभक्तैकताना
व्रजति गतिमपूर्ब्बां ब्रह्मविज्ञैरगम्याम् ॥”
इति कल्किपुराणे रुक्मिणीव्रतम् ३१ अध्यायः ॥

रुक्मिदर्पः, पुं, (रुक्मिणि भीष्मकपुत्रे दर्पो यस्य

सः । तस्य रुक्मिनाशकत्वात् ।) बलदेवः । इति
हलायुधः ॥

रुक्मिदारी, [न्] पुं, (रुक्मिणं दारयतीति ।

दॄ + णिच् + णिनिः ।) बलदेवः । इति
त्रिकाण्डशेषः ॥

रुक्मिभित्, [द्] पुं, (रुक्मिणं भिनत्तीति । भिद् +

क्विप् ।) बलदेवः । इति हेमचन्द्रः । २ । १३८ ॥

रुक्मी, [न्] पुं, (रुक्मो वर्णविशेषोऽस्यास्तीति ।

रुक्म + इनिः ।) भीष्मकराजज्येष्ठपुत्त्रः । यथा,
“राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन् पुत्त्राः कन्यैका रुचिरानना ॥
रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः ।
रुक्मकेशो रुक्ममाली रुक्मिण्येषां स्वसा सती ॥”
इति श्रीभागवते १० स्कन्धे ५२ अध्यायः ॥
(रुक्मिणीहरणानन्तरं कृष्णेन सहास्य युद्धा-
दिविवरणं हरिवंशे ११७ अध्याये तथा प्रद्यु-
म्नेन सहास्य कन्यापरिणयवृत्तान्तः अनिरुद्धेन
सहास्य पौत्र्याः परिणयस्तदा बलदेवादस्य
मृत्युविवरणञ्च ११८ अध्याये विस्तरशो द्रष्ट-
व्यम् ॥)

रुक्सद्म, [न्] क्ली, मलम् । इति केचित् ॥

रुक्षः, त्रि, अप्रेम । अचिक्वणः । रुहधातो-

रौणादिकसप्रत्ययेन निष्पन्नः । इत्युणादिकोषः ॥
(नीरसः । तद्यथा, वायुस्वरूपवर्णने ।
“दोषधातुमलादीनां नेता शीघ्रः समीरणः ।
रजोगुणमयः सूक्ष्मो रुक्षः शीतो लघुश्चलः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रुग्नः, त्रि, (रुज् + क्तः । ओदितश्चेति नः ।)

रोगादिना कुटिलीकृतः । तत्पर्य्यायः । भुग्नः २ ।
इत्यमरः ॥ (यथा, रामायणे । २ । १०२ । ९ ।
“त्वया विहीनस्तव शोकरुग्न-
स्त्वां संस्मरन्नेव गतः पिता ते ॥”)
रोगी । इति राजनिर्घण्टः ॥

रुच, ङ ऌ प्रीतिप्रकाशयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिरिह अनु-
रागविशेषः । तत्र यस्यानुरागस्तस्य सम्प्रदान-
त्वम् । ङ, रोचते अन्नं बुभुक्षवे । ऌ, अरुचत् ।
इति दुर्गादासः ॥

रुचकं, क्ली, (रोचतेऽनेनेति । रुच् + “बहुलमन्य-

त्रापि ।” उणा० २ । ३७ । इति क्वुन् ।) सर्जि-
काक्षारम् । अश्वाभरणम् । माल्यम् । सौव-
र्च्चलम् । (यथा, --
“सौवर्च्चलं स्याद्रुचकमन्यपाकञ्च तन्मतम् ॥”
तथास्य गुणाः ।
“रुचकं रोचनम्भेदि दीपनम्पाचनम्परम् ।
सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु ।
उद्गारशुद्धिदं सूक्ष्मं विवन्धानाहशूलजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
माङ्गल्यद्रव्यम् । (यथा, भागवते । ३ । २३ । ३१ ।
“हारेण च महार्हेण रुचकेन च भूषितम् ॥”
“रुचकेन मङ्गलद्रव्येण ।” इति श्रीधरः ॥) उत्कटः ।
इति मेदिनी । के, १४६ ॥ स्वाद्यरसः । इति
शब्दरत्नावली ॥ रोचना । विडङ्गम् । इति
हेमचन्द्रः ॥ लवणम् । इति हारावली ॥ (दक्षिण-
दिक् । यथा, बृहत्संहितायाम् । ५३ । ३५ ।
“प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ
शेषौ ।
रुचके द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥”
“रुचकं मातुलुङ्गकम् ।” इत्युज्ज्वलदत्तः ।
२ । ३७ ॥)

रुचकः, पुं, (रोचते इति । रुच् + क्वुन् ।) बीज-

पूरः । निष्कः । दन्तः । कपोतः । इति मेदिनी ॥
(यथा, बृहथंहितायाम् । ६९ । २ ।
“जीवेन भवति हंसः
सौरेण शशः कुजेन रुचकश्च ॥”
पर्व्वतविशेषः । यथा, विष्णुपुराणे । २ । २ । २६ ।
“त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ॥”
स्तम्भः । यथा, बृहत्संहितायात् । ५३ ।
२८ ।
पृष्ठ ४/१६५
“समचतुरस्रो रुचको
वज्रोऽष्टाश्रिर्द्विवज्रको द्विगुणः ॥”)

रुचा, स्त्री, (रुच् + क्विप् । पक्षे टाप् ।) दीप्तिः ।

शोभा । इच्छा । (यथा, महाभारते । ३ । ५ । १३ ।
“तद्वै तस्मै न रुचामभ्युपैति
ततश्चाहं क्षममन्यन्न मन्ये ॥”)
शारिकाशुकवाक् । इति शब्दरत्नावली ॥

रुचिः, स्त्री, (रुच्यते इति । रुच् + “इगुपधात्

कित् ।” उणा० ४ । ११९ । इति इन् । सच
कित् ।) अभिष्वङ्गः । अनुरागः । आशक्तिर्वा ।
स्पृहा । (यथा, किराते । १० । ६२ ।
“रुचिकरमपि नार्थवद्बभूव
स्तिमितसमाधिशुचौ पृथातनूजे ॥”
“अम्लो रुचिकरो हृद्यः प्रीणनो वह्निदीपनः ॥”
इति वैद्यकराजवल्लभे द्रव्यगुणव्याख्यायाम् ॥)
अभिलाषः । गभस्तिः । किरणः । इत्यमर-
भरतौ ॥ शोभा । इति मेदिनी ॥ (यथा,
रघुः । ५ । ६७ ।
“लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
सोऽयि त्वदाननरुचिं विजहाति चन्द्रः ॥”)
बुभुक्षा । इति हेमचन्द्रः ॥ गोरोचना । इति
राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्लक्षणं
यथा । नायिकाया नायकस्य संमुखे जान्वो-
रुपर्य्युपविश्य वक्षसि वक्षो दत्त्वा यदवस्थानम् ।
इति कामशास्त्रम् ॥

रुचिः, पुं, (रोचते शोभते इति । रुच् + इन् ।

सच कित् ।) प्रजापतिविशेषः । स च रौच्य-
मनुपिता । यथा, --
मार्कण्डेय उवाच ।
“रुचिः प्रजापतिः पूर्व्वं निर्म्ममो निरहङ्कृतिः ।
यत्रास्तमितशायी च चचार पृथिवीमिमाम् ॥
अनग्निमनिकेतन्तमेकाहावसथाश्रयम् ।
विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥
पितर ऊचुः ।
वत्स कस्मात् त्वया पुण्यो न कृतो दारसंग्रहः ।
स्वर्गापवर्गहेतुत्वाद्बन्धस्तेनानिशं विना ॥
गृही समस्तदेवानां पितॄणाञ्च तथार्हणाम् ।
ऋषीणामतिथीनाञ्च कुर्ब्बन् लोकानुपाश्नुते ॥
स्वाहोच्चारणतो देवान् स्वधोच्चारणतः पितॄन् ।
विभजन्नन्नदानेन भूताद्यानतिथीनपि ॥
स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि ।
आवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिने दिने ॥
अनुत्पाद्य सुतान् देवानसन्तर्प्य पितॄंस्तथा ।
भूतादींश्च कथं मौढ्यात् सुगतिं गन्तुमिच्छसि ॥
रुचिरुवाच ।
परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा ।
भवत्यतो मया पूर्ब्बं न कृतो दारसंग्रहः ॥
प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः ।
ममत्वपङ्कदिग्धोऽपि चिन्ताम्भोभिर्व्वरं हि तत् ॥”
इत्यादि ॥
पितर ऊचुः ।
“युक्तं प्रक्षालनं कर्त्तुमात्मनो नियतेन्द्रियैः ।
किन्तु लेपाय मार्गोऽयं यत्र त्वं पुत्त्र वर्त्तसे ॥”
इत्यादि ॥ * ॥
मार्कण्डेय उवाच ।
“स तेन पितृवाक्येन भृशमुद्बिग्नमानसः ।
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् ॥
कन्यामलभमानोऽसौ पितृवाक्याग्निदीपितः ।
चिन्तामवाप महतीमतीवोद्विग्नमानसः ॥
किं करोमि क्व गच्छामि कथं मे दारसंग्रहः ।
क्षिप्रं भवेत् पितॄणां यो ममाभ्युदयकारकः ॥
इति चिन्तयतस्तस्य मतिर्जाता महात्मनः ।
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् ॥
ततो वर्षशतं दिव्यं तपस्तेपे स वैधसम् ।
दिदृक्षुः सुचिरं कालं रुचिर्नियममास्थितः ॥
ततः स्वन्दर्शयामास ब्रह्मा लोकपितामहः ।
उवाच च प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् ॥
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतः पतिम् ।
पितॄणां वचनात्तेन यत् कर्त्तुमभिवाञ्छितम् ॥
ब्रह्मा चाह रुचिं विप्रं श्रुत्वा तस्याभिवाञ्छि-
तम् ।
प्रजापतिस्त्वं भविता सष्टव्या भवता प्रजाः ॥
सृष्ट्वा प्रजाः सुतान् विप्र समुत्पाद्य क्रियास्तथा ।
कृत्वा हृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि ॥
स त्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् ।
कामञ्चेममभिध्याय क्रियतां पितृपूजनम् ॥
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम् ।
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥
मार्कण्डेय उवाच ।
इत्यृषिर्व्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ।
नद्या विविक्ते पुलिने चकार पितृतर्पणम् ॥
तुष्टाव च पितॄन् विप्रः स्तवैरेभिरथादृतः ।
एकाग्रः प्रयतो भूत्वा भक्तिनम्रात्मको रुचिः ॥”
रुचिकृतपितृस्तोत्रं यथा, --
रुचिरुवाच ।
“नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम् ।
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ।
नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥
नमस्येऽहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥
नमस्येऽहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥
नमस्येऽहं पितॄन् विप्रैरर्च्यन्तऽरण्यवासिभिः ।
वन्यैः श्राद्धैयताहारैस्तपोनिर्द्धूतकल्मषैः ॥
नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकव्रतधारिभिः ।
ये संयतात्सभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ।
नमस्येऽहं पितॄन् श्राद्धेराजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥
नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्म्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥
नमस्येऽहं पितॄन् श्राद्धे ये शूद्रैरपि भक्तितः ।
सन्तर्प्यन्ते जगत्यस्मिन् नाम्ना ख्याताः सुका-
लिनः ॥
नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा ॥
नमस्येऽहं पितॄन् श्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विवि धैर्नागैः कामानभीप्सुभिः ॥
नमस्येऽहं पितॄन् श्राद्धे सर्पैः सन्तर्पितान् सदा
तत्रैव विविधैर्म्मन्त्रैर्भोगसम्पत्समन्वितैः ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्
ये देवलोकेऽथ महीतले वा ।
तथान्तरीक्षे च सुरादिपूज्या-
स्ते संप्रतीच्छन्तु मयोपनीतम् ॥
पितॄन्नमस्ये परमाणुभूता
ये वै विमाने निवसन्त्यमूर्त्ताः ।
यजन्ति यानस्तमला मनोभि-
र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥
पितॄन्नमस्ये दिवि ये च मूर्त्ताः
स्वधामुजः काभ्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां
विमुक्तिदा येऽनभिसंहितेषु ॥
तृप्यन्तु तेऽस्मिन् पितरः समस्ता
इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमतोऽधिकं वा
वस्वात्मजान् क्ष्मामवलां गृहाणि ॥
सूर्य्यस्य ये रश्मिषु चन्द्रविम्बे
शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयै-
र्गन्धादिना पुष्टिमतो व्रजन्तु ॥
येषां हुतेऽग्नौ हविषा च तृप्ति-
र्ये भुञ्जते विप्र शरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति
तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः ॥
ये खड्गमांसेन सुरैरभीष्टैः
कृष्णैस्तिलैर्दैत्यमहोरगैश्च ।
कालेन शाकेब महर्षिवर्य्यैः
संप्रीणितास्ते मुदमत्र यान्तु ॥
कव्यान्यशेषाणि च यान्यभीष्टा-
न्यतीव येषाममरार्च्चितानाम् ।
तेषान्तु सान्निध्यमिहास्तु पुष्प-
गन्धादिभोज्येषु मयाहृतेषु ॥
दिने दिने ये प्रतिगृह्णतेऽर्च्चां
मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः
प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥
पूज्या द्बिजानां कुमुदेन्दुभासो
ये क्षत्त्रियाणाञ्च नवार्कवर्णाः ।
तथा विशां ये कनकावदाता
नीलीनिभाः शूद्रजनस्य ये च ॥
तेऽस्मिन् समस्ता मम पुष्पगन्ध-
धूपान्नतोयादिनिवेदनेन ।
पृष्ठ ४/१६६
तथाग्निहोमेन च यान्तु तृप्तिं
सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥
ये देवपूर्व्वाण्यतितृप्तिहेतो-
रश्नन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति
तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥
रक्षांसि भूतान्यसुरांस्तथोग्रान्
विनाशयन्तस्त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या-
स्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पिता मया ॥
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे
दिशम् ।
तथा बहिषदः पान्तु याम्यां ये पितरःस्थिताः ॥
प्रतीचीमाज्यपास्तद्बदुदीचीमपि सोमपाः ।
ऊर्द्ध्वतस्त्वर्य्यमा रक्षेत् कव्यवालोऽनलोऽप्यधः ॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्व्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ॥
विश्वो विश्वभुगाराध्यो धन्यो धर्म्मः सनातनः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥
कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडित्येते गणाः स्मृताः ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्त चैते गणाः स्मृताः ॥
महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥
सुखदो धनदश्चान्यो धर्म्मदोऽन्यो विभूतिदः ।
पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ॥
एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत् ।
ते मेऽत्र तृप्तास्तुष्यन्तु यच्छन्तु च समीहितम् ॥”
इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवः ॥
मार्कण्डेय उवाच ।
“एवन्तु स्तुवतस्तस्य तेजसो राशिरुच्छिखः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनिं गत्वा रुचिः स्तोत्रमिदं जगौ ॥
अमूर्त्तानाञ्च मूर्त्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥
इन्द्रादीनाञ्च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणान्तथान्येषां तान् नमस्यामि काम-
दान् ॥
मन्वादीनाच्च नेतारः सूर्य्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्व्वान् पितॄनप्स्वर्णबेषु च ॥
नक्षत्राणां ग्रहाणाञ्च वाय्वग्निनभसां तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च तथा नमस्यामि कृताञ्जलिः ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥
सोमाधाराः पितृगणा योगमूर्त्तिधारा हि ते ।
नमस्यामि ततः सोमं पितरं जगतामहम् ॥
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषतः ॥
ये तु तेजसि ये वायौ सोमसूर्य्याग्निमूर्त्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥
श्रीमार्कण्डेय उवाच ।
एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः ।
निश्चक्रमुस्ते पितरो भासयन्तो दिशो दश ॥
निवेदितन्तु यत्तेन पुष्पगन्धानुलेपनम् ।
तद्भूषितानथ स तान् ददृशे पुरतः स्थितान् ॥
प्रणिषत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः ।
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ।
वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥
साम्प्रतं सर्गकर्त्तृत्वमादिष्टं ब्रह्मणा मम ।
सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजाव-
तीम् ॥
पितर ऊचुः ।
अद्यैव सद्यः पत्नी ते भविष्यति मनोरमा ।
तस्याञ्च पुत्त्रो भविता भवतो मुनिसत्तम ! ॥
मन्वन्तराधिपो धीमान् त्वन्नाम्नैवोपलक्षितः ।
रुचे रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये ॥
तस्यापि बहवः पुत्त्रा महाबलप्रराक्रमाः ।
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥
त्वञ्च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ।
क्षीणाधिकारो धर्म्मज्ञस्ततः सिद्धिमवाप्स्यसि ॥
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः ।
तस्य तुष्टा वयं भोगान् दास्यामो ज्ञानमुत्तमम् ॥
शरीरारोग्यमैश्वर्य्यं पुत्त्रपौत्त्रादिसन्ततिम् ।
प्रदास्यामो न सन्देहो यच्चान्यदभिवाञ्छितम् ॥
तस्मात् पुण्यफलं लोके वाञ्छद्भिः सततं नरैः ।
पितॄणाञ्चाक्षयां तृप्तिं स्तव्याः स्तोत्रेण मानवैः ॥
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् ।
पठिष्यन्ति द्बिजाग्र्याणां भुञ्जतां पुरतः स्थिताः ॥
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ।
अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ॥
यद्यप्यश्रोत्रियं श्रार्द्धं यद्यप्युपहतं भवेत् ।
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ॥
अश्राद्धार्हैरुपहतैरुपहारैस्तथा कृतम् ।
अकालेऽप्यथवा देशे विधिहीनमथापि वा ॥
अश्रद्धया वा पुरुषैर्द्दम्भमाश्रित्य वा कृतम् ।
अस्माकं प्रीतये श्राद्धं तथाप्य तदुदीरणात् ॥
यत्रैतत् पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् ।
अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी ॥
हेमन्ते द्बादशाब्दानि तृप्तिमेतत् प्रयच्छति ।
शिशिरे द्बिगुणाब्दानि तृप्तिं स्तीत्रमिदं श्रुतम् ॥
वसन्ते षोडशसमास्तृप्तये श्राद्धकर्म्मणि ।
ग्रीष्मे च षोडशैवैतत् पठितं तृप्तिकारकम् ॥
विकाले च कृते श्राद्धे स्तोत्रेणानेन साधिते ।
वर्षासु तृप्तिरस्माकमक्षया जायते रुचे ॥
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति ।
अस्माकमेतत् पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥
यस्मिन् गृहेऽपि लिखितमेतत्तिष्ठति नित्यदा ।
सन्निधातं कृते श्राद्धे तत्रास्माकं भविष्यति ॥
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः ।
श्रावणीयं महाभाग अस्माकं तुष्टिकारकम् ॥”
इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवे ॥ *
मार्कण्डेय उवाच ।
“ततस्तस्मान्नदीमध्यात् समुत्तस्थौ मनोरमा ।
प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥
प्रश्रयावनता सुभ्रूः प्रम्लोचा वै वराप्सराः ॥
अतीवरूपिणी कन्या मत्सुता तपतांवर ।
जाता वरुणपुत्त्रेण पुष्करेण महात्मना ॥
तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् ।
मनुर्म्महामतिस्तस्यां समुत्पस्यति ते सुतः ॥
मार्कण्डेय उवाच ।
तथति तेन चाप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ।
उज्जहार ततः कभ्यां मालिनीं नाम नामतः ॥
नद्याश्च पुलिने तस्मिन् स मुनिर्मुनिसत्तम ! ।
जग्राह पाणिं विधिवत् समानाय्य महामुनीन् ॥
तस्यां तस्य सुतो जज्ञे महावीर्य्यो महामतिः ।
रौच्योऽभवत् पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥
तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये ।
तनयाश्च नृपाश्चैव ते सम्यक् कथितास्तव ॥
धर्म्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः ।
नृणां भवत्यसन्दिग्धमस्मिन् मन्वन्तरे श्रुते ॥
पितृस्तवं तथा श्रुत्वा पितॄणाञ्च तथा गणान् ।
सर्व्वान् कामानवाप्नोति तत्प्रसादान्नरो मुने ॥”
इति मार्कण्डेयपुराणे रौच्येमन्वन्तरं समाप्तम् ॥
गारुडे ८९ । ९० अध्यायेऽप्येवमस्ति ॥

रुचितं, त्रि, (रोचते इति । रुच् + “रुचिवचि-

कुचिकुटिभ्यः कितच् ।” उणा० ४ । २८५ ।
इति कितच् ।) मिष्टवस्तु । इत्युणादिकोषः ॥
(रुच् + क्तः । अभिलषितः । यथा, महा-
भारते । ५ । १०० । १६ ।
“मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् ॥”
क्ली, रुच् + भावे क्तः । इच्छा । अभिताषः ।
यथा, महाभारते । ३ । २९६ । ७९ ।
“वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥”)

रुचिफलं, क्ली, (रुचिजनकं फलम् ।) अमृता-

ह्वम् । इति राजनिर्घण्टः ॥

रुचिरं, क्ली, (रोचते इति । रुच् + “इषिमदि-

मुदीति ।” उणा० १ । ५२ । इति किरच् ।)
मूलकम् । कुङ्कुमम् । लवङ्गम् । इति राज-
निर्घण्टः ॥ (पुं, सेनजित्पुत्त्रः । यथा, हरि-
वंशे । २० । २१ ।
“पुत्त्राः सेबजितश्चासंश्चत्वारो लोकसत्तमाः ।
रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ॥”)

रुचिरं, त्रि, (रुच् + किरच् ।) सुन्दरम् । इत्य-

मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ११७ ।
“उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि-
राङ्गि ।
पृष्ठ ४/१६७
अचला अपि न महान्तः के चञ्चलभाव-
मानीताः ॥”)
मिष्टम् । इत्युणादिकोषः ॥

रुचिरा, स्त्री, (रोचते इति । रुच् + किरच् ।

ततष्टाप् ।) गोरोचना । इति राजनिर्घण्टः ॥
(त्रयोदशाक्षरवृत्तिविशेषः । अस्य लक्षणोदा-
हरणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

रुचिराञ्जनः, पुं, (रुचिरः सुन्दरोऽञ्जनः ।)

शोभाञ्जनः । इति राजनिर्घण्टः ॥

रुचिराश्वः, पुं, (रुचिरः सुन्दरोऽश्वो यस्य ।)

राजविशेषः । स तु देवापेः श्वशुरः । यथा, --
“मरो भूपाललोकानां स्यस्तये कुरु मे वचः ।
रुचिराश्वसुतां शान्तां देवापे त्वं समुद्बह ॥”
इति कल्किपुराणे १८ अध्यायः ॥
सुन्दरघोटकश्च ॥

रुचिष्यं, त्रि, (रुच्यते इति । रुच् + “रुचि-

भुजिभ्यां किष्यन् ।” उणा० ४ । १७८ । इति
किष्यन् ।) मिष्टवस्तु । इत्युणादिकोषः ॥ (यथा,
सुश्रुते । १ । ४६ । पुष्पवर्गे ।
“सिण्डाकी वातला सान्द्रा रुचिष्यानल-
दीपनी ॥”)
अभिप्रेतम् । इति संक्षिप्तसारोणादिवृत्तिः ॥
(यथा, हरिवंशे । २५४ । ६० ।
“न पृथ्वीं कामये कृत्स्नां सन्तुष्टोऽस्मि पदै-
स्त्रिभिः ॥
एष एव रुचिष्यो मे वरो दानवसत्तम ! ॥”)

रुची, स्त्री, (रुचि + कृदिकारादिति ङीष् ।)

रुचिः । यथा । रुक् रुची रुचयः समाः ।
इत्येकार्थसंग्रहः ॥

रुव्यं, क्ली, (रोचते इति । रुच् + “राजसूयसूर्य्य-

मृषोद्येति ।” ३ । १ । ११४ । इति क्यप्प्रत्ययेन
निपातितम् ।) सौवर्च्चलम् । इति राजनिर्घण्टः ॥

रुव्यः, पुं, (रुच् + क्यप् ।) कतकवृक्षः । शालि-

धान्यम् । इति राजनिघण्टः ॥ पतिः । इति
हेमचन्द्रः । ३ । १९१ ॥ सुन्दरे, त्रि । इत्यमरः ॥
(रुचिकरः । यथा, --
“पक्वं वर्णकरं रुच्यं मांसशुक्रबलप्रदम् ।
पित्तावरोधि वातघ्नं हृद्यं गुर्व्वनुलोमनम् ॥”
इति वैद्यकराजवल्लभे द्रव्यगुणाख्यायाम् ॥)

रुव्यकन्दः, पुं, (रुच्यः कन्दो यस्य ।) शूरणः ।

इति राजनिर्घण्टः ॥

रुज, ओ श औ भङ्गे । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-अनिट् ।) ओ, रुग्नः । श,
रुजति रोगो हस्तम् । औ, रोक्ता । इति
दुर्गादासः ॥

रुज, क हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, रोजयति । इति दुर्गा-
दासः ॥

रुजा, स्त्री, (रुज् + क्विप् । पक्षे टाप् ।) रोगः ।

भङ्गः । इति मेदिनी । जे, १४ ॥ (पीडा ।
यथा, महाभारते । ८ । ३४ । १४९ ।
“निपातात् तव शस्त्राणां शरीरे याभवद्रुजा ।
तया ते मानुषं कर्म्म व्यपोढं भृगुनन्दन ! ॥”)
मेषी । इति हेमचन्द्रः । ४ । ३४३ ॥ कुष्ठम् ।
इति राजनिर्घण्टः ॥

रुजाकरं, क्ली, (रुजां रोगं करोतीति । कृ +

टः ।) कर्म्मरङ्गफलम् । इति शब्दचन्द्रिका ॥

रुजाकरः, पुं, (रुजां करोतीति । कृ + टः ।)

व्याधिः । यथा । व्याधिस्त्वाधी रुजाकरः । इति
हेमचन्द्रः । २ । २२६ ॥ (व्याधिकारके, त्रि ॥)

रुजासहः, पुं, (रुजां सहते इति । सह + अच् ।)

धन्वनवृक्षः । इति राजनिर्घण्टः ॥

रुट, इ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) पञ्चमस्वरी । इ, रुण्ट्यते धनं
चौरेण । इति दुर्गादासः ॥

रुट, ऌ ङ दीप्तिप्रतिहत्योः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-अक० च-सेट् ।) ऌ,
अरुटत् । ङ, रोटते । प्रतिहतिः शोकादिना
पातनं पुनर्हननं वा । इति दुर्गादासः ॥

रुट, क रुषि । द्युतौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सेट् ।) क, रोटयति ॥
इति दुर्गादासः ॥

रुट्, [ष्] स्त्री, (रुष् + क्विप् ।) क्रोधः । इत्य-

मरः । १ । ७ । २६ ॥ (यथा, भागवते । १ । १८ । ३० ।
“स तुं ब्रह्म ऋषेरंशे गतासुमुरगं रुषा ।
विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागतः ॥”)

रुठ, उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) रोठति लोकं शोकः ।
इति दुर्गादासः ॥

रुठ, इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-अक० च सेट् ।) पञ्चमस्वरी ।
इ, रुण्ठ्यते । आलस्यं मन्दीभावः । स्तेयं
चौर्य्यम् । खोटः खोडनम् । इति दुर्गादासः ॥

रुठ, ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऌ, अरुठत् ।
ङ, रोठते । प्रतीघातः शोकादिना पतनं
पुनर्हननं वा । इति दुर्गादासः ॥

रुड्, [ष्] स्त्री, (रुष क्रुधि + क्विप् ।) रुट् ।

इति व्याकरणम् ॥

रुणस्करा, स्त्री, सुखसन्दोह्या गौः । इति शब्द-

चन्द्रिका ॥

रुण्डः, पुं, कबन्धः । इति जटाधरः ॥ (छिन्नपाद-

हस्तः । यथा, कथासरित्सागरे । ६५ । ११ ।
“तेनारोप्य स्थलं पृष्ठः स रुण्डः पुरुषोऽभ्यधात् ।
निकृत्तहस्तचरणो नद्यां क्षिप्तोऽस्मि शत्रुभिः ॥”)

रुण्डिका, स्त्री, (रुण्डः कबन्धोऽस्त्यत्रेति । रुण्ड +

ठन् ।) युद्धभूमिः । द्वारपिण्डिका । विभूतिः ।
इति शब्दरत्नावली ॥

रुतं, क्ली, (रु + क्तः ।) पशुपक्ष्यादीनां शब्दः ।

तत्पर्य्यायः । वाशितम् २ । इत्यमरः ॥ वासि-
तम् ३ । इति शब्दरत्नावली ॥ (यथा, शिशु-
पालवधे । १६ । २५ ।
“अनुहुंकुरुते घनध्वनिं
न तु गोमायुरुतानि केशरी ॥”)

रुद, ल घ इर् रोदे । इति कविकल्पद्रुमः ॥

(अदा०-पर०-अक०-सेट् ।) रोदोऽश्रुविमो-
चनम् । ल घ, रोदिति लोकः शोकात् । इर्,
अरुदत् अरोदीत् । रोदिष्यमाणमात्मानमिति
भट्टौ । आह्वानविशिष्टरोदबक्रियाव्याप्यत्वात्
सकर्म्मकत्वमिति जयमङ्गला । इति दुर्गादासः ॥

रुदथः, पुं, (रोदितीति । रुद् रोदने + “रुदि-

विदिभ्यां ङित् ।” उणा० ३ । ११६ । इति
अथः । सच ङित् ।) कुक्कुरः । इत्युणादिकोषः ॥
शिशुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रुदन्तिका, स्त्री, (रोदनं रुत् । अति अदि

वन्धने + अच् + ङीप् । स्वार्थे कन्
च ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः । स्रवत्तोया २
सञ्जीवनी ३ अमृतस्रवा ४ रोमाञ्चिका ५
महामांसी ६ चणपत्री ७ सुधास्रवी ८ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कषा-
यत्वम् । कृमिरक्तपित्तकफश्वासमेहनाशित्वम् ।
रसायनत्वञ्च । अस्य स्वरूपं यथा, --
“चणपत्रसमं पत्रं क्षुपश्चैव तथाकृतिः ।
शैशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥”
इति राजनिर्घण्टः ॥

रुदन्ती स्त्री, (रोदनं रुत् । अति अदि

वन्धने + अच् + ङीप् । स्वार्थे कन्
च ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः । स्रवत्तोया २
सञ्जीवनी ३ अमृतस्रवा ४ रोमाञ्चिका ५
महामांसी ६ चणपत्री ७ सुधास्रवी ८ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कषा-
यत्वम् । कृमिरक्तपित्तकफश्वासमेहनाशित्वम् ।
रसायनत्वञ्च । अस्य स्वरूपं यथा, --
“चणपत्रसमं पत्रं क्षुपश्चैव तथाकृतिः ।
शैशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥”
इति राजनिर्घण्टः ॥
अस्य गुणाः ।
“रुदन्ती वह्निकृद्वृष्या पित्तघ्नी च रसायनी ॥”
इति राजवल्लभः ॥
(रोदनशीले, त्रि । यथा, --
“धरित्रि पुष्पाञ्जलिरेष तुभ्यं
सुता मदीयास्तव पालनीयाः ।
इतीव रम्भा नमिताग्रमौलिना
भृशं रुदन्ती मकरमृबिन्दुना ॥”
इति प्रसिद्धम् ॥)

रुदितं, क्ली, (रुद् + क्तः ।) क्रन्दनम् । इत्यमरः ॥

तद्बति, त्रि ॥ (यथा, महाभारते । १३ । २३ । ६ ।
“केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् ।
रुदितञ्चावधूतञ्च तं भागं रक्षसां विदुः ॥”)

रुद्धं, त्रि, (रुध् + क्तः ।) नदीप्राकारादिना

कृतवेष्टनम् । तत्पर्य्यायः । वेष्टितम् २ बल-
यितम् ३ संवीतम् ४ आवृतम् ५ । इत्यमरः ॥
(यथा, मेघदूते । ३९ ।
“रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥”)

रुद्रः, पुं, (रोदयतीति । रुद् + णिच् + “रोदेर्णि

लुक् च ।” उणा० २ । २२ । इति रक् । णेश्च
लुक् ।) आदित्यपत्रवृक्षः । इति राजनिर्घण्टः ॥
शिवः । (यथा, महाभारते । १३ । १७ । ४६ ।
“त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्व्विभुः ॥”)
गणदेवताविशेषः । इत्यमरः ॥ अयं अग्नि-
मूर्त्तिः । यथा रुद्राय अग्निमूर्त्तये नमः । इति
तिथ्यादितत्त्वे शिवपूजापद्धतिः ॥ स च ब्रह्मणः
क्रोधरूपः सृष्टिकाले भ्रूमध्याज्जातः । तत्-
सृष्टः भूतप्रेतपिशाचादिः । अयमेवान्ते संहार-
कर्त्ता । इति भागवतम् ॥ * ॥ अथैकादश-
रुद्रनामानि यथा । अजः १ एकपात् २ अहि-
ब्रघ्नः ३ पिणाकी ४ अपराजितः ५ त्र्यस्वकः ६
पृष्ठ ४/१६८
महेश्वरः ७ वृषाकपिः ८ शम्भुः ९ हरणः १०
ईश्वरः ११ । इति महाभारते दानधर्म्मः ॥ * ॥
अपि च ।
“अजैकपादहिब्रघ्नो विरूपाक्षः सुरेश्वरः ।
जयन्तो बहुरूपश्च त्र्यम्बकोऽप्यपराजितः ।
वैवस्वतश्च सावित्रो हरो रुद्रा इमे स्मृताः ॥”
इति जटाधरः ॥ * ॥
अन्यच्च ।
“अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च वीर्य्यवान् ।
त्वष्टुश्चाप्यात्मजः पुत्त्रो विश्वरूपो महातपाः ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्द्दो रैवतस्तथा ॥
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥”
इति गारुडे ६ अध्यायः ॥
अग्निपुराणे त्वष्टृस्थाने कृत्तिवासाः ॥ * ॥ अप-
रञ्च ।
“अजैकपदाहिब्रध्नो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥
सावित्र्यश्च जयन्तश्च पिणाकी चापराजितः ।
एते रुद्राः समाख्याता एकादश गणेश्वराः ॥
एतेषां मानसानान्तु त्रिशूलवरधारिणाम् ।
कोटयश्चतुरशीतिस्तत् पुत्त्राश्चाक्षमा मताः ॥
दिक्षु सर्व्वासु ये रक्षां प्रकुर्व्वन्ति गणेश्वराः ।
पुत्त्रपौत्त्रसुतास्त्वेते सुरभीगर्भसम्भवाः ॥”
इति मात्स्ये ५ अध्यायः ॥ * ॥
तस्य उत्पत्तिर्यथा, --
“प्रजाः स्रष्टुमनास्तेपे तपः परमदुश्चरम् ।
तस्यैवं तप्यमानस्य न किञ्चित् समवर्त्तत ॥
ततो दीर्घेण कालेन दुःखात् क्रोधो व्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥
ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ।
सर्व्वांस्तानग्रजान् दृष्ट्वा ब्रह्मात्मानमविन्दत ॥
तदा प्राणमयो रुद्रः प्रादुरासीत् प्रभोर्मुखात् ।
सहस्रादित्यसङ्काशो युगान्तदहनोपमः ॥
रुरोद सस्वरं घोरं देवदेवः स्वयं शिवः ।
रोदमानं तदा ब्रह्मा मारोदीरित्यभाषत ।
रोदनाद्रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥
अन्यानि सप्तनामाति पत्नीः पुत्त्रांश्च शाश्वतान् ।
स्थानानि चैषामष्टानां ददौ लोकपितामहः ॥
भवः शर्व्वस्तथेशानः पशूनाम्पतिरेव च ।
भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥
सूर्य्यो जलं मही वह्निर्व्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥
स्थानेषु तेषु ये रुद्रं ध्यायन्ति मनुजाधिप ।
तेषामष्टतनुर्द्देवो ददाति परमं पदम् ॥
सुवर्च्चला तथैवोमा विकेशा च शिवा तथा ।
स्वाहा दिशा च दीक्षा च रोहिणीति च
पत्नयः ॥
शनैश्चरस्तथा शुक्रो लोहिताक्षी मनोजवः ।
सन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः
स्मृताः ॥”
इति कौर्म्मे १० अध्यायः ॥ * ॥
विष्णुरुद्रयोरभेदो यथा, --
“सदैव देवो भगवात् महादेवो न संशयः ।
मन्यन्ते ये जग्द्योनिं विभिन्नं विष्णुमीश्वरात् ।
मोहादवेदनिष्ठाद्वा ते यान्ति नरकं नराः ॥
वेदानुवर्त्तिनं रुद्रं देवं नारायणन्तथा ।
एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ॥”
इति च तत्रैव १३ अध्यायः ॥ * ॥
कल्पभेदे तस्योत्पत्तिनामस्थानभार्य्यादीनि यथा,
“चुकोप च ततो ब्रह्मा ज्वलन्निव हुताशनः ।
ततः कोपं स्वपुत्त्रेभ्यः कृतमन्याय्यमित्यपि ॥
विचार्य्य परिवर्द्धन्तं नियन्तुमुपचक्रमे ।
यत्नान्नियम्यमानोऽपि स कोपः परमेष्ठिनः ॥
भ्रुवोर्म्मध्यादथोद्भूतः कुमारो नीललोहितः ।
जातमात्रः कुमारोऽसौ रुरोद भगवान् भवः ॥
ब्रह्मोवाच कथं पुत्त्ररोदिषि त्वं महाबल ।
तन्मे कथत कामन्ते सद्यः सम्पादयाम्यहम् ॥
रुद्र उवाच ।
नामानि कुरु मे ब्रह्मन् ! स्थानानि च जगद्-
गुरो ।
पत्नीश्च देहि भगवन् ततः शान्तिर्भविष्यति ॥
ब्रह्मोवाच ।
जानामि त्वां देवदेवं पूर्व्वं दत्तं वरं मम ।
सत्यं कर्त्तुं भबान् जातस्त्वं हि सर्व्वेश्वरेंश्वरः ॥
जातमात्रो रोदिषि त्वं ततो रुद्र इति स्मृतः ।
नामान्यन्यानि ते देव विधास्ये शृणु पुत्त्रक ॥
ऋतध्वजो मनुर्मन्युरुग्ररेता महान् शिवः ।
भवः कालो महिनसो वामदेवो धृतव्रतः ॥
एतानि तव नामानि ये स्मरन्ति नरा भुवि ।
तेषां सदैव कल्याणं करिष्यसि महामते ॥
स्थानानि च प्रवक्ष्यामि तेषु वासो विधीयताम् ॥
इन्द्रियाण्यसुहृद्ब्योम वायुरग्निर्जलं मही ।
तपश्चन्द्रश्च सूर्य्यश्च स्थानान्येतानि ते भव ॥
धृतिर्धीरसिलोमा च नियुत् सर्पिर्विलम्बिका ।
इरावती स्वधा दीक्षा योषितस्तव सुन्दरी ॥
प्रजाः सृज महाभाग जगदेतत् प्रपूरय ॥
इत्यादिष्टः स भगवान् ब्रह्मणा नीललोहितः ।
सृष्टवान् स प्रजा बह्वीर्भूतप्रेतपिशाचकान् ।
कुष्माण्डान् विकृताकारान् भैरवान् भीम-
नादिनः ॥
तान दृष्ट्वा तु तदा ब्रह्मा जगद्विद्रावकान्
बहून् ।
वारयामास पुत्त्र त्वं मा स्राक्षीरीदृशीः प्रजाः ॥
तपसा विष्णुमाराध्य विहरस्व यथासुखम् ।
इति ते कथितो राजन् ! रुद्रसर्गः प्रजापतेः ॥
यं श्रुत्वापि नरः सद्यो जह्याद्भूतकृतं भयम् ॥”
इति पाद्मे स्वर्गखण्डे रुद्रसर्गः ८ अध्यायः ॥ * ॥
प्रकारान्तरं यथा, --
“कथितस्तमसः सर्गो ब्रह्मंस्तेऽयं महामुने ।
रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत् प्रभोरङ्के कुमारो नीललोहितः ॥
रुदन् वै सस्वरं सोऽथ द्रवंश्च द्बिजसत्तम ! ।
किं करोषीति तं ब्रह्मा रुदन्तं प्रत्युवाच वै ॥
नाम धेहीति तं सोऽथ प्रत्युवाच प्रजापतिम् ।
रुद्रस्त्वं देव नामासि मारोदीर्घैर्य्यमाप्नुहि ॥
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ।
ततोऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः ॥
स्थानानि चैषामष्टानां पत्नीः पुत्त्रांश्च वै प्रभुः ॥
भवं शर्व्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥
चक्रे नामान्यथैतानिं स्थानान्येषां चकार सः ॥
मूर्य्यो जलं मही वह्निर्व्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥
सुवर्च्चला तथैवोषा सुकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथा-
क्रमम् ॥
सूर्य्यादीनां नरश्रेष्ठ रुद्राद्यैर्नामभिः सह ।
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥
येषां सूतिप्रसूतेश्च इदमापूरितं जगत् ।
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ॥
स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात् सुताः ।
एवंप्रकाररुद्रोऽसौ सतीं भार्य्यामविन्दत ॥
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम् ।
हिमवद्दुहिता साभून्मेनायां द्विजसत्तम ! ॥
उपयेमे पुनश्चोमामनन्यां भगवान् भवः ॥
देवौ धाता विधातारौ भृगोः ख्यातिरसूयत ।
श्रियञ्च देवदेवस्य पत्नी नारायणस्य या ॥”
इति विष्णुपुराणे १ अंशे ८ अध्यायः ॥ * ॥
(“द्बितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् ।
दिव्यं सहस्रवर्षाणामसुरा अभिदुद्रुवुः ॥
तपोविघ्नं शमीकर्त्तुन्तपोविघ्नं महात्मनाम् ।
पश्यन् समर्थश्चोपेक्षाश्चक्रे दक्षः प्रजापतिः ॥
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः ।
प्रायो न कल्पयामास प्रोच्यमानः सुरैरपि ॥
पाशुपत्य ऋचो याश्च शैव्यश्चाहुतयश्च याः ।
यज्ञसिद्धिकृतस्ताभिर्हीनञ्चैव स इष्टवान् ॥
अथोत्तीर्णव्रतो देवो बुद्धा दक्षव्यतिक्रमम् ।
रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः ॥
सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः ।
बाणं क्रोधाग्निसन्तप्तमसृजत् शत्रुनाशनम् ॥
ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः ।
दाहव्यथा परीताश्च भ्रान्ता भूतगणा दिशः ॥”
इति चरके चिकित्सास्थाने तृतीयेऽध्याये ॥)
रुद्रगीता वराहपुराणे द्रष्टव्या ॥ * ॥ (विश्व-
कर्म्मपुत्त्रविशेषः । यथा, विष्णुपुराणे । १ ।
१५ । १२२ ।
“तस्य पुत्त्रास्तु चत्वारस्तषां नामानि मे शृणु ।
अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च बुद्धिमान् ॥”)
स्वनामख्यातः कविविशेषः । स च विद्याविलास-
पुत्त्रः भावविलासप्रणेता । कविरयं मानसिंह-
पुत्त्रस्य भावसिंहमहीपतेः समये बभूव ।
स च भावसिंहमहीपतिर्व्वर्त्तमानजयपुरमहा-
राजस्य षोडशः पूर्ब्बपुरुषः । तथा च भाव-
विलासे । १३४ -- १३६ ।
पृष्ठ ४/१६९
“अन्यापदेशविनिवेशविदग्धबुद्धि-
श्रीभावसिंहनरसिंहनियोगयोगात् ।
सम्पादितो विविधभावविकासभाजां
प्रीत्यै भृशं भवतु भावविलास एषः ॥”
सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः ।
कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥
विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् ।
काव्यालापविदग्धानां मुदं निर्म्मातु निर्म्मितिः ॥”)

रुद्रकवचं, क्ली, (रुद्रस्य कवचम् ।) शिवनाम-

समूहेन सर्व्वाङ्गरक्षकम् । यथा, --
“वक्ष्यामि रुद्रकवचमाद्यं प्राणस्य रक्षणम् ।
अहोरात्रं महादेव रक्षार्थं देवनिर्म्मितम् ॥
ॐ रुद्रो मामग्रतः पातु पृष्ठतः पातु शङ्करः ।
कपर्द्दी दक्षिणे पातु वामपार्श्वे तथा हरः ॥
शिवः शिरो मे च पातु ललाटे नीललोहितः ।
नेत्रयोस्त्र्यम्बकः पातु मुखे पातु महेश्वरः ॥
कर्णयोर्नासिकायाञ्च जिह्वायां शम्भुरव्ययः ।
श्रीकण्ठस्तु गले पातु बाह्वोः पातु पिणाकधृक् ॥
हृदयं मे महादेव ईश्वरस्तु तथोदरम् ।
नाभौ कुक्षौ कटिस्थाने पातु सर्व्वं प्रजापतिः ॥
ऊरू जानू महादेवः पादौ पातु महेश्वरः ।
सर्व्वं रक्षतु भूतेशः सर्व्वगात्राणि यत्नतः ॥
परशुं शूलखट्टाङ्गं दिव्यास्त्रं रौद्रमेव च ।
नमस्काराय देवेशं रक्ष मां जगदीश्वरः ॥
रक्षोभ्यो ग्रहपीडाभ्यो रोगशोकार्णवेषु च ।
पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल ॥
जन्म मृत्युर्ज्जरा व्याधिः कामः क्रोधः शमो
दमः ।
लोभमोहमदाश्चापि त्यजन्तु भुवनेश्वर ॥
त्वं गतिस्त्वं मतिश्चैव त्वं वुद्धिस्त्वं परायणः ।
कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे ॥
इत्येतद्रुद्रकवचं पठतः पापनाशनम् ।
महादेवप्रसादेन दुर्व्वासःपरिकीर्त्तितम् ॥
न तस्य पापलेशोऽस्ति भयं तस्य न विद्यते ।
प्राप्नोति सुखमारोग्यं पुण्यमात्मप्रबन्धनम् ॥
पुत्त्रार्थी लभते पुत्त्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नु-
यात् ॥
देहे चेदं हृदि न्यस्य शिवकल्पो भवेन्नरः ।
मुच्यते सर्व्वपापेभ्यो रुद्रलोकं स गच्छति ॥”
इति स्कन्दपुराणे रुद्रकवचं समाप्तम् । इति
तन्त्रसारः ॥

रुद्रगणः, पुं, (रुद्रस्य गणः ।) शिवपार्षदसमूहः ।

यथा, --
“अपरे रुद्रनामानो जटाचन्द्रार्द्धमण्डिताः ।
देवेन्द्रस्य नियोगेन वर्त्तन्ते त्रिदिवे सदा ॥
तेषां संख्या चैककोटिस्ते सर्व्वे बलवत्तराः ।
कुर्व्वन्ति हि सदा सेवां हरस्य सततं गणाः ॥
विस्मयन्ति च पापिष्ठान् धर्म्मिष्ठान् पालयन्ति
च ।
अंनुगृह्णन्ति सततं धृतपाशुपतव्रतान् ॥
विघ्नांश्च सततं हन्ति योगिनां प्रयतात्मनाम् ।
षट्त्रिंशत्कोटयश्चैव हरस्य सकला गणाः ॥
वराहगणनाशार्थं हिताय जगतां तथा ।
शङ्करस्याथ सेवायै समुत्पन्ना इमे गणाः ॥”
इति कालिकापुराणे २९ अध्यायः ॥

रुद्रचण्डी, स्त्री, (रुद्रा चण्डी ।) रुद्रयामलोक्त-

देवीमाहात्म्यम् । यथा । “अस्य चण्डिका-
महामन्त्रस्य महारुद्र ऋषिरनुष्टुप् छन्द-
श्चण्डिका देवता रुद्रचण्डीजपे विनियोगः । ॐ
नमश्चण्डिकायै ।
श्रीशङ्कर उवाच ।
चण्डिकां हृदंये न्यस्य स्मरणं यः करोत्यपि ।
अनन्तफलमाप्नोति देवि चण्डीप्रसादतः ॥
रविवारे यदा चण्डीं पठेदागमसम्मताम् ।
नवावृत्तिफलं तस्य जायते नात्र संशयः ॥
सोमवारे यदा चण्डीं पठेद्यस्तु समाहितः ।
सहस्रावृत्तिपाटस्य फलं जानीहि सुव्रते ॥
कुजवारे जगद्धात्रि पठेद्यामलसम्मताम् ।
शतावृत्तिफलं तस्य बुधे लक्षफलं भवेत् ॥
गुरौ यदि महामाये लक्षयुग्मफलं ध्रुवम् ।
शुक्रे देवि जगद्धात्रि चण्डीपाठेन शङ्करि ॥
ज्ञेयं तुल्यफलं दुर्गे यदि चण्डीं समाहितः ।
शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम् ॥
अतएव जगद्धात्रीं यश्च चण्डीं समभ्यसेत् ।
स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत् ॥
आरोग्यं विजयं सौख्यं वस्त्ररत्नप्रवालकम् ।
पठनाच्छ्रवणाच्चैव जायते नात्र संशयः ॥
धनं धान्यं प्रवालञ्च वस्त्ररत्नविभूषितम् ।
चण्डीस्मरणमात्रेण कुर्य्यात् सर्व्वं महेश्वरि ॥
ॐ घोरचण्डी महाचण्डी चण्डमुण्डविखण्डिनी ।
चण्डवक्त्रा महामाया महादेवविभूषिता ॥
चतुर्वक्त्रा इत्यपि पाठः ।
रक्तदन्ता वरारोहा महासुरविमर्द्दिनी ।
तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा ॥
गुह्यकाली जगद्धात्री चण्डी च यामलोद्भवा ।
श्मशानवासिनी देवी घोरचण्डी भयानका ॥
शिवा घोरा रुद्रचण्डी महेशगणभूषिता ।
जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी ॥
विद्या श्रीपरमा विद्या चण्डी च वैरमर्द्दिनी ।
दुर्गे दुर्गा शिवा घोरा चण्डहन्त्री प्रचण्डिका ॥
महेशी वगला देवी भैरवी चण्डविक्रमा ।
प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्द्दिनी ॥
रणघण्टा चण्डघण्टा रणरामवरप्रदा ।
तारिणी भद्रकाली च शिवा घोरा भयानका ॥
विष्णुप्रिया महामाया नन्दगोपगृहोद्भवा ।
मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी ॥
विमला भैरवी निद्रा जातिरूपा मनोहरा ।
तृष्णा निद्रा क्षुधा माया शक्तिरूपा मनोहरा ॥
तस्यै देव्यै नमस्तस्यै सर्व्वरूपेण संस्थिता ।
प्राणप्रिया जातिमाया निद्रारूपा महेश्वरी ॥
या देवी सर्व्वभूतेषु सर्व्वरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
एतां चण्डीं जगद्धात्रीं ब्राह्मणस्तु सदा पठेत् ।
नान्यस्तु पाठको देवी पठने ब्रह्महा भवेत् ॥
नारदः पाठकश्चैव कैलासे रत्नभूषिते ।
वैकुण्ठे ब्रह्मलोके च देवराजपुरे शिवे ॥
यः शृणोति धरायाञ्च मुच्यते सर्व्वपातकैः ।
ब्रह्महत्या च गोहत्या स्त्रीवधोद्भवपातकम् ॥
तत् सर्व्वं पातकं दुर्गे मातुर्गमनपातकम् ।
श्वश्रूगमनपापञ्च यत् कन्यागमपातकम् ॥
सुतस्त्रीगमनञ्चैव यत् यत् पापं प्रजायते ।
परदारकृतं पापं तत्क्षणादेव नश्यति ॥
जन्मजन्मान्तरात् पापात् गुरुहत्यादिपातकात् ।
मुच्यते मुच्यते देवि गुरुपत्नीषु सङ्गमात् ॥
मनसा वचसा पापं यत् पापं ब्रह्महिंसने ।
मिथ्यायाञ्चैव यत् पापं तत् पापं नश्यति क्षणात् ॥
श्रवणं पठनञ्चैव यः करोति धरातले ।
स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत् ॥
यः करिष्यत्यवज्ञां वै रुद्रयामलचण्डिकाम् ।
पापैरेतैः समायुक्तो रौरवं नरकं व्रजेत् ॥
अश्रद्धां ये प्रकुर्व्वन्ति ते च पातकिनो नराः ।
रौरवं रक्तकुण्डञ्च कृमिकुण्डं मलस्य वै ॥
शुक्रस्य कुण्डं स्त्रीरक्तं यान्ति तेऽप्यचिरेण वै ।
ततः पितृगणैः सार्द्धं बिष्ठायां जायते कृमिः ॥
शृणु देवि महामाये पठेत् चण्डीं शृणोत्यपि ।
गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः ॥
प्रयागे मुण्डनञ्चैव हरिद्वारे हरेर्गृहे ।
तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे ॥
त्रिगयायां त्रिकाश्यां वै यच्च पुण्यं शृणु प्रिये ।
तच्च पुण्यं तच्च पुण्यं तच्च पुण्यं न संशयः ॥
भवानी च भवानी च भवानीत्युच्यते बुधैः ।
भकारस्तु भकारस्तु भकारः केवलः शिवः ॥
वानी चैव जगद्धात्री वरारोहे भकारकः ।
प्रेतवद्देवि विश्वेशि भकारः प्रेतवत् सदा ॥
आरोग्यञ्च जयं दुःखनाशनं सुखवर्द्धनम् ।
धनं पुत्त्रं जयारोग्यं कुष्ठं गलितनाशकम् ॥
अर्द्धाङ्गरोगान्मुच्येत दद्रुरोगाद्धि पार्व्वति ।
सत्यं सत्यं जगद्धात्रि महामाये शिवे रमे ॥
चण्डे चण्डे महाघोरे चण्डिके व्याधिनाशिनि ।
मन्दे दिने महेशानि विशेषफलदांयिनी ॥
सर्व्वदुःखात् प्रमुच्येत भक्त्या चण्डीं शृणोति यः ।
ब्राह्मणो हितकारी च पठेन्नियतमानसः ॥
मङ्गलं मङ्गलं ज्ञेयं मङ्गलं जयमङ्गलम् ।
भवेद्धि पुत्त्रपौत्त्रादिकन्यादासादिभिर्युतः ॥
तत्त्वज्ञानञ्च निधने काले निर्व्वाणमाप्नुयात् ।
महादानोद्भवं पुण्यं तुलाहिरण्यके यथा ॥
चण्डीश्रवणमात्रेण पठनाद्ब्राह्मणोऽपि सः ।
निर्व्वाणमेति देवेशि महास्वस्त्ययनं हि तत् ॥
सर्व्वत्र विजयं याति श्रवणाद्ग्रहदोषतः ।
मुच्यते सर्व्वपापेभ्यो राजराजाधिपो भवेत् ॥
महाचण्डी शिवा घोरा भयानकवरप्रदा ।
काली च कमला विद्या महोरगविमर्द्दिनी ॥
गुह्यचण्डी घोरचण्डी चण्डी त्रैलोक्यदुर्लभा ।
देवानां दुर्लभा चण्डी रुद्रयामलसम्भवा ॥
अप्रकाश्या महादेवप्रिया रावणमर्दिनी ।
पृष्ठ ४/१७०
मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया ॥
मदमत्ता सदा नित्या भूतप्रमथसङ्गता ।
मध्यभागा महारामा धान्यदा धनरत्नदा ॥
वस्त्रदा मणिदा राज्यप्रदा विषयवर्द्धिका ।
मुक्तिदा सर्व्वदा चण्डी महाविपदनाशिनी ॥
इमाञ्च चण्डीं पठते मनुष्यः
शृणोति भक्त्या परमां शिवस्य ।
चण्डीं धरण्यामतिपुण्ययुक्तः
पटेच्च गच्छेद्धरमन्दिरं शुभम् ॥
यद्यन्मनोरथान् दुर्गे करोति धरणीतले ।
रुद्रचण्डीप्रसादेन किं न सिध्यति भूतले ॥
रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा ।
रुद्रभक्ता रुद्ररूपा रुद्रभूषासमन्विता ॥
शिवचण्डी महारक्ता शिवप्रीतिगणान्विता ।
भैरवी परमा विद्या महाविद्या च षोडशी ॥
सुन्दरी परमा विद्या महात्रिपुरसुन्दरी ।
गुह्यकाली भद्रकाली महाकालविमर्द्दिनी ॥
कृष्णा कृष्णस्वरूपा सा जननी मोहकारिणी ।
अतितन्द्रा महालज्जा सर्व्वमङ्गलदायिनी ॥
घोरचण्डी भीमरूपा भीमा देवी मनोहरा ।
वगला वगला सिद्धिदायिका सर्व्वदा शिवा ॥
स्मृतिरूपा कीर्त्तिरूपा बुद्धिरूपा मनोहरा ।
विष्णुप्रिया शक्रपूज्या योगेन्द्रैरपि सेविता ॥
भयानका महासूक्ष्मा देवी भयविनाशिनी ।
चण्डिका शक्तिहस्ता च कौमारी सर्व्वकामदा ॥
वाराही च वराहस्य इन्द्राणी शक्रपूजिता ।
माहेश्वरी महेशस्य महेशगणभूषिता ॥
चामुण्डा नारसिंही च नृसिंहशत्रुनाशिनी ।
सर्व्वशत्रुप्रशमनी सर्व्वारोग्यप्रदायिनी ॥
नैव दुःखं भयं किञ्चित् पठनात् श्रवणाज्जनः ।
इति सत्यं महेशानि सत्यं सत्यं वदाम्यहम् ॥
नेव शोकं नैव रोगं नैव दुःखं भयन्तथा ।
आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम् ॥
महेशानि वरारोहे ब्रवीमि सत्यमुत्तमम् ।
अभक्ताय न दातव्यं मम प्राणाधिकं शुभम् ॥
मम भक्ताय शान्ताय शिवविष्णुप्रियाय च ।
दद्यात् कदाचिद्देवेशि सत्यं सत्यं न संशयः ॥
अनन्तफलमाप्नोति शिवचण्डीप्रसादतः ।
अश्वमेधवाजपेयराजसूयशतेन वै ।
तृप्ताः स्युः पितरो देवास्तथा च सर्व्वदेवताः ॥
दुर्गे त्वां मृण्मयीज्ञानं रुद्रयामलपुस्तकम् ।
मन्त्रमक्षरसंज्ञानं यः करोति नराधमः ॥
अतएव महेशानि किं वक्ष्ये तव सन्निधौ ॥
लम्बोदराधिकश्चण्डीपठनाच्छ्रवणात् जनः ।
तत्त्वमसीति वाक्येन मुक्तिमाप्नोति दुर्लभाम् ॥”
इति श्रीरुद्रयामले हरगौरीसंवादे रुद्रयामल-
चण्डी समाप्ता ॥

रुद्रजः, पुं, (रुद्रात् जात इति । जन् + डः ।)

पारदः । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य
पारदशब्दे विज्ञेयाः ॥)

रुद्रजटा, स्त्री, (रुद्रस्य जटेव ।) लताविशेषः ॥

तत्पर्य्यायः । रौद्री २ जटा ३ रुद्रा ४ सौम्या ५
सुगन्धा ६ सुवहा ७ घना ८ ईश्वरी ९ रुद्र-
लता १० सुपत्रा ११ सुगन्धपत्रा १२ सुरभिः १३
शिवाह्वा १४ पत्रवल्ली १५ जटावल्ली १६
रुद्राणी १७ नेत्रपुष्करा १८ महाजटा १९
जटारुद्रा २० । अस्या गुणाः । कटुरसत्वम् ।
श्वासकासहृद्रोगभूतरक्षोनाशित्वञ्च । इति
राजनिर्घण्टः ॥

रुद्रपत्नी, स्त्री, (रुद्रस्य पत्नी ।) दुर्गा । इत्युणादि-

कोषः ॥ (यथा, महाभारते । ३ । ८३ । १५८ ।
“सान्निध्यं तत्र राजेन्द्र रुद्रपत्न्या कुरूद्वह ।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥”)
अतसी । इति रत्नमाला ॥

रुद्रप्रिया, स्त्री, (रुद्रस्य प्रिया ।) हरीतकी ।

इति शब्दरत्नावली ॥ पार्व्वती च ॥

रुद्रभूः, स्त्री, (रुद्रस्य भूः स्थानम् ।) श्मशानम् ।

इति केचित् ॥

रुद्रविंशतिः, स्त्री, (रुद्रदेवताका विंशतिः ।) प्रभ-

वादिषष्टिवर्षान्तर्गतशेषविंशतिवर्षाणि । तेषां
नामानि फलानि च यथा, --
“आद्या तु विंशतिर्ब्राह्मी द्बितीया वैष्णवी
स्मृता ।
तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥
तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः ।
प्लवङ्गे पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते ॥ १ ॥
जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।
सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत् ॥ २ ॥
सुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् ।
सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम् ॥ ३ ॥
तोयपूर्णो भवेन्मेघो वर्षते च दिने दिने ।
निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये ॥ ४ ॥
वासवो वर्षते देवि देशे चाखण्डमण्डले ।
अहिच्छत्रे कान्यकुब्जे विरोधी कृषिनाशकृत् ॥ ५ ॥
अभिभूतं जगत् सर्व्वं क्लेशैर्ब्बहुविधैः प्रिये ।
मारुतैः फलदाहैश्च परिवारिणि शोभने ॥ ६ ॥
निष्पत्तिः सर्व्वशस्यानां सुभिक्षं भवति प्रिये ।
प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा ॥ ७ ॥
निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यमहार्घता ।
घृतं तैलसमं याति आनन्दे नन्दिनी प्रजा ॥ ८ ॥
कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्णिनि ।
सर्व्वौषधानि धान्यानि राक्षसे निष्ठुरा प्रजा ॥ ९ ॥
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।
अनले च समाख्यातं नात्र कार्य्या विचारणा ॥ १० ॥
देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम् ।
पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्म्मदातटे ॥ ११ ॥
गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः ।
वासवो वर्षते देवि शस्यञ्च नहि जायते ॥
तिलसर्षपमाषादिकार्पासानां महार्घता ।
गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः ॥
तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ।
तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्द्दिनम् ।
पार्थिवा मोषका दीनाः कामयुक्ते प्रपी-
डिताः ॥ १२ ॥
तोयपूर्णाः स्मृता मेघा बहुशस्या च मेदिनी ।
निष्ठुराः पार्थिवा देवि सिद्धार्थे च वरानने ॥ १३ ॥
अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः ।
विरुद्धाः पार्थिवा देवि रौद्रे वर्षे वरानने ॥ १४ ॥
दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते ।
भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ १५ ॥
सुभिक्षं जायते लोकः सर्व्वोपद्रववर्जितः ।
प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि ॥ १६ ॥
महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः ।
तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ॥
रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः ।
मानवाः क्रूरचेष्टाश्च संग्रामे न जयो भवेत् ॥ १७ ॥
दुर्भिक्षं मरणं रोगो धान्यौषधिनिपीडनम् ।
पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिते ॥ १८ ॥
रोगो मरणदुर्भिक्षं विविधोपद्रवाकुलम् ।
क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ॥ १९ ॥
मेदिनी चलते देवि सर्व्वभूतं चराचरम् ।
देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।
दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ॥
कौमुदीचर्म्मनद्योश्च यमुनानर्म्मदातटे ।
बिन्ध्यायां सैन्धवे चैव विनश्यति न संशयः ॥
सिंहलो मरुदेशश्च कालञ्जरं तथैव च ।
क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥” २०
इति ज्योतिस्तत्त्वम् ॥

रुद्रवीणा, स्त्री, (रुद्रस्य वीणा ।) वीणाभेदः ।

यथा, --
“दण्डः स्याद्रुद्रवीणाया मुष्ट्येकादशसम्मितः ।
भ्रमदङ्गुष्ठाग्रमितं शुषिरं तस्य कीर्त्तितम् ॥
दण्डस्योभयतो ज्ञेयं कांस्यसंवरकद्वयम् ।
पश्चात् संवरकञ्चात्र छत्रीकृतशिरो भवेत् ॥
दण्डस्य वेष्टनं सार्द्धं पञ्चाङ्गुलमिवोदितम् ।
तन्मिता लखरी तस्याः कर्त्तव्या सुन्दराकृतिः ॥
ककुभो रुद्रवीणायास्त्रिशिराः परिकीर्त्तितः ।
ऊर्द्ध्वे शिरसि दातव्या लोहपत्री समन्विता ॥
मूलतन्त्री तदुपरि तस्या लौही ततः परम् ।
दक्षिणे शिरसि न्यस्येत् श्रुतितन्त्रीद्बयं क्रमात् ॥
एवन्तु ककुभं तत्र वीणादण्डे निवेशयेत् ।
द्ब्यङ्गुलोच्चमूर्द्ध्वशिरोऽङ्गुष्ठमात्रन्तु पार्श्वकम् ॥
सप्ताङ्गुलान्तरं तस्मात्तन्मूलञ्च निवेशयेत् ।
अन्यं ततश्चतुस्त्रिंशदङ्गुलान्तरमाक्षिपेत् ॥
अष्टादशाङ्गुलमुखं चक्र वै चारुगर्भकम् ।
दण्डं समुन्नतं कान्तं वर्त्तुलं तुम्बयुग्मकम् ॥
औन्नत्ये किञ्चिदाधिक्यमलयश्च प्रशस्यते ।
अर्द्धाङ्गुलान्तरं पश्चात्तुम्बरं स्थापयेद्बुधः ॥
दण्डपृष्ठ रन्ध्रमेकं स्थापयेच्च समन्ततः ।
लोहाङ्कुशन्तु कर्त्तव्यं वर्त्तुलं पङ्कजाकृति ॥
तद्बन्धनं गुणं तस्मिन् वेष्टबन्धे निवेशयेत् ।
एतत्परायां मोटिन्यां वेष्टरन्ध्राङ्कुशं क्षिपेत् ॥
तन्मोटनीवृत्तरन्ध्रसदृशं दण्डरन्ध्रकम् ।
सुयन्त्रिते तु तत्रैव बध्नीयान्मुख्यतन्त्रिकाम् ॥
तावच्च भ्रामयेत् पूर्ब्बां मोटनीञ्च शनैः शनैः ।
पृष्ठ ४/१७१
न यावदेति स्वस्थानं तन्त्री यन्त्रविशारदः ॥
अस्यास्त्वष्टादश प्रोक्ताः शारिकाः पूर्ब्बसूरिभिः ।
तासां बृहत्तरा अष्टौ दश क्षुद्राः प्रकीर्त्तिताः ॥
एतास्तु तारवादिन्यस्तिष्ठन्ति पदिकोपरि ।
वितस्तिमात्रपदिकाङ्गुष्ठोच्चाप्यस्य गर्भकः ॥
तावत् शून्यस्तु कर्त्तव्यो यथा दण्डे स्थिरो भवेत् ।
मदनस्य च सिक्थस्य योगेन सुदृढीकृता ॥
बृहतीनाञ्च शारीणां स्वननोऽयं तलक्रमात् ।
एतास्तु सर्व्वावयवैः कथितास्त्र्यङ्गुला बुधैः ॥
स्थाप्य दण्डस्य ताः पृष्ठे यथारागस्वरं पुनः ।
मदनस्य च सिक्थस्य योगेन सुदृढीकृताः ॥
सर्व्वासां लोहकलिका मस्तके स्युः सुयन्त्रिताः ।
एकाङ्गुलोच्चाः क्षुद्राः स्युरिति शारीविनिर्णयः ॥
एवं विनिर्म्मिता रुद्रवीणा जनमनोहरा ।
अस्यां शिक्षा तु कर्त्तव्या दाक्षिणात्योपदेशतः ॥”
इति सङ्गीतनारायणः ॥

रुद्रसर्गः, पुं, (रुद्रकृतः सर्गः ।) रुद्रकर्त्तृकसृष्टिः ।

यथा, --
“इदानीं रुद्रसर्गं त्वं शृणु पार्थिवसत्तम ! ।
दशवर्षसहस्राणि तपश्चीर्त्वा महाजले ॥
प्रतिबुद्धो यदा रुद्रस्तदा चोर्वीं सकाननाम् ।
दृष्ट्वा शस्यवतीं रम्यां मनुष्यपशुसंकुलाम् ॥
शुश्राव च तदा शब्दानृत्विजां दक्षसद्मनि ।
आश्रमे यज्विनाञ्चोच्चैर्योगस्थैरिति कीर्त्तितान् ॥
ततः श्रुत्वा महातेजाः सर्व्वज्ञः परमेश्वरः ।
चुकोप सुभृशं देवो वाक्यञ्चेदमुवाच ह ॥
अहं पूर्ब्बन्तु कविना सृष्टः सर्व्वात्मना विभुः ।
प्रजाः सृजस्वेति तदा वाक्यमेतत्तथोक्तवान् ॥
इदानीं केन तत् कर्म्म कृतं सृष्ट्यादिवर्णनम् ।
एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः ॥
तस्य ता नदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा ।
तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः ॥
कुष्माण्डा यातुधानाश्च सर्व्वे प्रज्वलिताननाः ।
उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ॥”
इति वराहपुराणम् ॥

रुद्रसावर्णिः, पुं, द्वादशो मनुः । अस्मिन् मन्वन्तरे

सुधामाख्योऽवतारः । ऋतधामा इन्द्रः । हरि-
तादयो देवाः । तपोमूर्त्त्यादयः सप्तर्षयः । देव-
वदुपदेवादयो मनुपुत्त्रा भविष्यन्ति । इति
श्रीभागवतमतम् ॥ अपि च ।
“द्बादशे रुद्रपुत्त्रस्य प्राप्ते मन्वन्तरे मनोः ।
सावर्ण्याख्यस्य ये देवा मुनयश्च शृणुष्व तान् ॥
सुकर्म्माणः सुमनसो हरितो रौहितस्तथा ।
सुरापाश्च सुरास्तत्र पञ्चैते दशका गणाः ॥
त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः ।
तेषामिन्द्रो हि विज्ञेयो ऋतधामा महाबलः ॥
सर्व्वैरिन्द्रगुणैर्युक्तः सप्तर्षीनपि मे शृणु ।
द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ॥
तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः ।
देववान् वामदेवश्च देवश्रेष्ठो विदूरथः ।
मित्रवान्मित्रदूतश्च भाविनस्तत्सुता मनोः ॥”
इति मार्कण्डेयपुराणम् ॥

रुद्रसूः, स्त्री, (रुद्रं तत्परिमितपुत्त्रं सूते इति ।

सू + किप् ।) एकादशपुत्त्रजननी । यथा, --
“विल्वसूर्दशपुत्त्रा स्यादेकाधिका तु रुद्रसूः ॥”
इति शब्दरत्नावली ॥

रुद्राक्रीडः, पुं, (रुद्रस्य आक्रीडा देवनं यत्र ।)

श्मशानम् । इति त्रिकाण्डशेषः ॥

रुद्राक्षं, क्ली, (रुद्रस्य अक्षि कारणत्वेनास्त्य-

स्येति । अर्शआदित्वादच् ।) स्वनामख्यात-
वृक्षबीजम् । तस्य स्थूलत्वं प्रशस्तत्वञ्च यथा, --
“रुद्राक्षं शिवलिङ्गञ्च स्थूलं स्थूलं विशिष्यते ।
शालग्रामो नार्म्मदञ्च सूक्ष्मः सूक्ष्मो विशिष्यते ॥”
इति मेरुतन्त्रे ९ प्रकाशः ॥

रुद्राक्षः, पुं, स्वनामख्यातवृक्षः । तत्पर्य्यायः । तृण-

मेरुः २ अमरः ३ पुष्पचामरः ४ । इति शब्द-
रत्नावली ॥ तस्य फलपर्य्यायः । शिवाक्षम् १
सर्पाक्षम् २ भूतनाशनम् ३ पावनम् ४ नील-
कण्ठाक्षम् ५ हराक्षम् ६ शिवप्रियम् ७ ।
अस्य गुणाः । अम्लत्वम् । उष्णत्वम् । वात-
कृमिशिरोऽर्त्तिभूतग्रहविषनाशित्वम् । रुच्य-
त्वञ्च । इति राजनिर्घण्टः ॥ शिवपूजायां अस्य
मालाधारणमावश्यकम् । यथा, लिङ्गपुराणे ।
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥”
तस्योत्पत्तिर्यथा । संवत्सरप्रदीपे ।
“त्रिपुरस्य वधे काले रुद्रस्याक्ष्णोऽपतंस्तु ये ।
अश्रुणो बिन्दवस्ते तु रुद्राक्षा अभवन् भुवि ॥”
यद्यप्येकादिचतुर्द्दशमुखरुद्राक्षेषु मन्त्रफल-
विशेषाः सन्ति तथापि सुलभत्वात् पञ्च-
वक्त्रस्य फलमन्त्रावभिधीयेते । यथा, स्कान्दे ।
“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् ।
मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥
हूं नमः इति प्रत्येकमष्टोत्तरशतं जप्ता शिवा-
म्भसा प्रक्षाल्य धारणीयम् ।
“विणा मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवाः ।
स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दश ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
तस्य धारणे आवश्यकत्वं यथा, संवत्सर-
प्रदीपे ।
“अरुद्राक्षधरो भूत्वा यद्यत् कर्म्म च वैदिकम् ।
करोति जपहोमादि तत् सर्व्वं निष्फलं भवेत् ॥”
स्कान्दे ।
“ध्यानधारणहीनोऽपि रुद्राक्षं धारयेद्बुधः ।
सर्व्वपापविनिर्मुक्तः स याति परमां गतिम् ॥”
इत्येकादशीतत्त्वम् ॥
अथ रुद्राक्षमाहात्म्यम् ।
श्रीमहादेव उवाच ।
“इदानीं देवदेवेशि ! मालानां धारणं शुभम् ।
रुद्राक्षस्य च माहात्म्यं वद मे परमेश्वरि ! ॥
श्रीदेव्युवाच ।
“शिखायां हस्तयोः कण्ठे कर्णयोश्चापि यो
नरः ।
रुद्राक्षं धारयेद्भक्त्या शिवलोकमवाप्तुयात् ॥
नववक्त्रन्तु रुद्राक्षं धारयेद्वामबाहुना ।
दक्षबाहौ तथा वत्स ! धारयेद्यतमानसः ॥
शिखायां दशनं धार्य्यं कण्ठे च पञ्चविंशतिम् ।
कर्णयोः पञ्च संधृत्या हृदि चाष्टोत्तरं शतम् ॥
नाभौ सप्त च रुद्राक्षं धारणान्मोक्षभाग्भवेत् ।
रुद्राक्षधारणादेव नरो देवत्वमाप्नुयात् ॥”
शिखायां दशनं द्बात्रिंशत्परिमितम् ॥ तथा ।
“रुद्राक्षं धारयेन्नित्यं भद्राक्षञ्च सुरेश्वर ! ।
रुद्राक्षस्य महाबाहो माहात्म्यं शृणु यत्नम्ः ॥
एकवक्त्रः शिवः साक्षात् ब्रह्महत्यां व्यपोहति ।
अवध्यत्वं प्रतिश्रोतो बह्निस्तम्भं करोति च ॥
द्विवक्त्रे हरगौरी स्यात् गोवधाद्यघनाशकृत् ।
त्रिवक्त्रोऽग्निस्त्रिजन्मोत्थपापराशिं प्रणाशयेत् ॥
तुलाराशिं यथा वह्निर्भस्मसात् कुरुते हर ! ।
त्रिवक्त्रोऽपि चरुद्राक्षस्तथा दहति किल्विषम् ॥
चतुर्व्वक्त्रस्तु धाता स्यात् नरहत्यां व्यपोहति ।
पञ्चवक्त्रस्तु कालाग्निरगम्याभक्ष्यपापनुत् ॥
षड्वक्त्रो यो गुहः साक्षात् गर्भहत्यां शमेदयम् ।
सप्तवक्त्रो ह्यनन्तश्च स्वर्णस्तेयाघनुत् सदा ॥
विनायकोऽष्टवक्त्रः स्यात् सर्व्वानृतविनाशकृत् ।
भैरवो नववक्त्रः स्यात् शिवसायुज्यदायकः ॥
दशवक्त्रः स्वयं विष्णुर्भूतप्रेतपिशाचहा ।
एकादशमुखो रुद्रो नानायज्ञफलप्रदः ॥
द्वादशास्यो भवेदर्कः सर्व्वतीर्थफलप्रदः ।
त्रयोदशमुखः कामः सर्व्वकामफलप्रदः ॥
चतुर्द्दशास्यः श्रीकण्ठो वंशोद्धारकरः स्मृतः ।
यथोक्तन्तेऽपि रुद्राक्षे तथेन्द्राक्षे प्रकीर्त्तितम् ॥
भद्राक्षेऽपि सुरश्रेष्ठ तद्गुणं प्ररिकीर्त्तितम् ॥”
इति योगसारे २ परिच्छेदः ॥
अपि च ।
“निश्छिद्राश्च सुपक्वाश्च रुद्राक्षा धारणे स्मृताः ।
पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् ॥
रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा ।
त्र्यम्बकादिकमन्त्रञ्च तथा तत्र प्रयोजयेत् ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव वन्धनान्मृत्योर्मुक्षीयमामृतात् ॥
तथा ॐ हौं अघोरे हौं घोरे हूं घोरघोरतरे
ॐ ह्नैं ह्नीं श्रीं ऐं सर्व्वतः सर्व्वसर्व्वेभ्यो नमस्ते-
ऽस्तु रुद्ररूपिणे हूं हूं ।
अनेनापि च मन्त्रेण रुद्राक्षस्य द्विजोत्तमः ।
प्रतिष्ठां विधिवत् कुर्य्यात् ततोऽधिकफलं लभेत् ॥
ततो यथा स्वमन्त्रेण धारयेद्भक्तिसंयुतः ॥
एकादिचतुर्द्दशवक्त्राणां संस्कारे प्रत्येकं क्रमेण
मन्त्रा यथा । ॐ ॐ भृशं नमः । १ । ॐ ॐ
नमः । २ । ॐ ॐ नमः । ३ । ॐ ॐ ह्नीं नमः ।
४ । ॐ हूं नमः । ५ । ॐ हूं नमः । ६ । ॐ
ॐ हूं हूं नमः । ७ । ॐ नमः । ८ । हूं नमः ।
९ । ॐ हं नमः । १० । ॐ ह्नीं नमः । ११ । ॐ
ह्नीं नमः । १२ । ॐ क्षां क्षौं नमः । १३ । ॐ
नमो नमः । १४ ।
“रुद्राक्षे देहसंस्थे तु कुक्कुरो म्रियते यदि ।
पृष्ठ ४/१७२
सोऽपि रुद्रपदं याति किं पुनर्मानवा गुह ॥
सप्तविंशतिरुद्राक्षमालया देहसंस्थया ।
यः करोति नरः पुण्यं सर्व्वं कोटिगुणं भवेत् ॥
यो ददाति द्बिजातिभ्यो रुद्राक्षं भुवि षण्मुख ।
तस्य प्रीतो भवेद्रुद्रः स्वपदञ्च प्रयच्छति ॥
विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः ।
स याति नरकान् घोरान् यावदिन्द्राश्चतुर्द्दश ॥”
इति पद्मपुराणे रुद्राक्षमाहात्म्यम् । इति
तन्त्रसारः ॥

रुद्राणी, स्त्री, (रुद्रस्य पत्नी । “इन्द्रवरुणभव-

शर्व्वरुद्रेति ।” ४ । १ । ४९ । इति ङीष् ।)
दुर्गा । इत्यमरः ॥ तस्या व्युत्पत्तिर्यथा, --
“रुद्रस्येयन्तु रुद्राणी रौद्रं हन्ति करोति या ॥”
इति देवीपुराणे ४५ अध्यायः ॥
रुद्रजटा । इति राजनिर्घण्टः ॥

रुद्रावासः, पुं, (रुद्रस्य आवासः ।) काशी ।

इति केचित् ॥

रुद्रारिः, पुं, (रुद्रः अरिर्यस्य ।) कामदेवः । इति

केचित् ॥

रुद्री, स्त्री, वीणाभेदः । इति शब्दरत्नावली ॥

अस्या विवरणं रुद्रवीणाशब्दे द्रष्टव्यम् ॥

रुध, इर् ध ञ औ ञि आवृतौ । इति कविकल्प-

द्रुमः ॥ (रुधा०-उभ०-सक०-अनिट् ।) इर्,
अरुधत् अरौत्सीत् । ध ञ, रुणद्धि रुन्धे । औ,
रोद्धा । ञि, रुद्धोऽस्ति । इति दुर्गादासः ॥

रुध, य ङ औ कामे । अनुपूर्ब्बोऽयम् । इति कवि-

कल्पद्रुमः ॥ (दिवा०-आत्म०-सक०-अनिट् ।)
य ङ, अनुरुध्यते धनं लोकः । औ, अनुरोद्धा ।
इति दुर्गादासः ॥

रुधिरं, क्ली, (रुणद्धि रुध्यते इति वा । रुध +

“इषिमदिमुदीति ।” उणा० १ । ५२ । इति
किरच् ।) शरीरस्थरसभवधातुः । तत्पर्य्यायः ।
रक्तम् २ अस्रम् ३ त्वग्जम् ४ कीलालम् ५
क्षतजम् ६ शोणितम् ७ लोहितम् ८ असृक् ९
शोणम् १० लोहम् ११ चर्म्मजम् १२ । इति
राजनिर्घण्टः ॥ (यथा, --
“तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा ।
युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्त्तते ॥”
“वलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा ।
रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥”
इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥
“चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् ।
सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा ॥
वणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् ।
तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् शिराः ॥
अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् ।
सन्धाने स्रस्यमाने तु पाचनैः समुपाचरेत् ॥
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि ।
असिद्धिमत्सु चैतेषु दाहः परम इष्यते ॥
सशेयदोषे रुधिरे न व्याधिरतिवर्त्तते ।
सावशेवे ततः स्थेयं न तु कुर्य्यादतिक्रमम् ॥
देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते ।
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥”
इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥
रुधिरस्रावेऽनध्ययनमुक्तं यथा, मनौ । ४ । १२२ ।
“रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ।
सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥”)
कुङ्कुमम् । इत्यमरः ॥ (यथा, रघुः । ११ । २० ।
“राममन्मथशरेण ताडिता
दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता
जीवितेशवसतिं जगाम सा ॥”)

रुधिरः, पुं, (रुध + किरच् ।) मङ्गलग्रहः । इति

मेदिनी ॥

रुधिराख्यं, क्ली, (रुधिरमिति आख्या यस्य ।)

मणिभेदः । यथा, --
“हुतभुग्रूमादाय दानवस्य यथेप्सितम् ।
नर्म्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले ॥
तत्रेन्द्रगोपकलितं शुकवक्त्रवर्णं
संस्थानतः प्रकटपीलुसमानमात्रम् ।
नानाप्रकारविहितं रुधिराख्यरत्न-
मुद्धृत्य तस्य खलु सर्व्व समानमेव ॥
मध्येन्दुपाण्डरमतीवविशुद्धवर्णं
तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् ।
सैश्वर्य्यभृत्यजननं कथितं तदेव
पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम् ॥”
इति गारुडे ७८ अध्यायः ॥

रुप, य इर् विमोहे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) विमोह आकुली-
करणम् । य, रुप्यत्रि लोकं लोकः । इर्, अरु-
पत् अरोपीत् । अस्मात् पुषादित्वान्नित्यं ङ
इत्यन्ये । इति दुर्गादासः ॥

रुमा, स्त्री, सुग्रीवभार्य्या । विशिष्टलवणाकरः ।

इति मेदिनी । मे, २७ ॥

रुम्रः, पुं, (रम् + “चकिरम्योरुच्चोपधायाः ।”

उणा० २ । १४ । इति रक् उपधायाश्च उत्वम् ।)
अरुणः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रुरुः, पुं, (रौतीति । रु + “रुशातिभ्यां क्रुन् ।”

उणा० ४ । १०३ । इति क्रुन् ।) मृगविशेषः ।
इत्यमरः ॥ (यथा, महाभारते । ३ । ५० । ७ ।
“रुरून् कृष्णमृगांश्चैव मेध्यांश्चान्यान् वनेचरान् ।
वाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥”)
अस्य मांसगुणाः । स्निग्धत्वम् । गुरुत्वम् ।
मन्दाग्निबलप्रदत्वञ्च । इति राजनिर्घण्टः ॥
दैत्यभेदः । इति मेदिनी । रे, ७९ ॥ (यथा,
कथासरित्सागरे । ५३ । १७१ ।
“एकानंशे शिवे दुर्गे नारायणि सरस्वति ।
भद्रकालि महालक्ष्मि सिद्धिरुरुविदारिणि ॥”
क्रूरसत्त्वविशेषः । तस्य भारशृङ्ग इति नाम ।
इति भागवतटीकायां श्रीधरः । ५ । २६ । ११ ॥
यथा च देवीभागवते । ८ । २२ । १० -- ११ ।
“इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ।
त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ॥
तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः ।
रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ॥”
स्वनामख्यातमुनिविशेषः । स तु च्यवनस्य पौत्त्रः ।
अयमेव निजायुषोऽर्द्धं दत्त्वाप्रियां जीवयामास ।
अस्य विवरणं देवीभागवते २ स्कन्धे ८ अध्याय-
मारभ्य तथा महाभारते १ पर्व्वणि ५ अध्याय-
मारभ्य द्रष्टव्यम् ॥)

रुवुः, पुं, (रु + कुः ।) एरण्डवृक्षः । इति रत्न-

माला ॥ रक्तैरण्डः । इति राजनिर्घण्टः ॥
(एरण्डशब्देऽस्य विषयो ज्ञातव्यः ॥)

रुवुकः, पुं, (रुवुरेव । रुवु + स्वार्थे कन् ।) एरण्ड-

वृक्षः । इति रत्नमाला ॥ रक्तैरण्डः । इति
राजनिर्घण्टः ॥

रुवुक्, पुं, एरण्डवृक्षः । इति रत्नमाला ॥

रुवूकः, पुं, एरण्डवृक्षः । इत्यमरः ॥ (तथास्य

पर्य्यायः ।
“शुल्कएरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः ।
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ॥
वातारिस्तरुणश्चापि रुवूकश्च निगद्यते ।
रक्तोऽपरो रुवूकः स्यादुरुवूको रुवूस्तथा ॥
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपादकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रुश, औ श हिंसे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-अनिट् ।) औ, अरुक्षत् । श,
रुशति रोक्ष्यति । इति दुर्गादासः ॥

रुष, क क्रुधि । इति कविकल्कद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, रोषयति । इति दुर्गा-
दासः ॥

रुष, ञि वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) ञि, रुष्टः रुषितोऽस्ति । रुरोष ।
इति दुर्गादासः ॥

रुष, य इर् ञि क्रुधि । इति कविकल्कद्रुमः ॥

(दिवा०-पर०-अक०-सेट् ।) य, रुष्यति भृत्याय
भूपालः । इर्, अरुषत् अरोषीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । ञि, रुष्टः रुषितो-
ऽस्ति । इति दुर्गादासः ॥

रुषा, स्त्री, (रुष् + क्विप् । भागुरिमते टाप् ।)

अमर्षः । तत्पर्य्यायः । क्रोधः २ मन्युः ३ क्रुधा ४
क्रुत् ५ कोपः ६ प्रतिघः ७ रोषः ८ रुट् ९ ।
इति हेमचन्द्रः । २ । २१२ ॥

रुषितः, त्रि, (रुष्यति स्मेति । रुष + क्तः । “रुष्य-

मत्वरसंघुषास्वनाम् ।” ७ । २ । २८ । इति
पक्षे इट् ।) क्रोधयुक्तः । यथा, --
“तं नागपाशैर्वलिनन्दनो बली
घ्नन्तं स्वसैन्यं रुषितो वबन्ध ह ॥”
इति श्रीभागवते वाणयुद्धे ६२ अध्यायः ॥

रुष्टः, त्रि, (रुष्यते स्मेति । रुष + क्तः । “रुष्यमत्वर-

संघुषास्वनाम् ।” ७ । २ । २८ । इति इडभावः ।)
क्रोधयुक्तः । यथा, --
“शिवे ढष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥”
इति तन्त्रसारः ॥