सामग्री पर जाएँ

शब्दकल्पद्रुमः/रसालसा

विकिस्रोतः तः
पृष्ठ ४/१०८

रसालसा, स्त्री, (रसेन अलसा ।) नाडी । इति

शब्दचन्द्रिका ॥

रसाला, स्त्री, (रसान् आलातीति । आ + ला

+ कः । टाप् ।) रसना । दूर्व्वा । विदारी । इति
मेदिनी ॥ द्राक्षा । इति शब्दरत्नावली ॥ शिख-
रिणी । तत्पर्य्यायः । मार्ज्जिता २ । इत्यमरः ॥
तस्याः करणप्रकारो यथा, --
“आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां
शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किंञ्चिच्च
कञ्चित् क्षिपेत् ।
दुग्धेनाद्धघनेन मृण्मयनवस्थाल्यां दृढं स्रावये-
देलाबीजलवङ्गचन्द्रमरिचैर्योग्यैश्च तद्योजयेत् ॥
भीमेन प्रियभोजनेन रचिता नाम्ना रसाला
स्वयं
श्रीकृष्णेन पुरा पुनःपुनरियं प्रीत्या समा-
स्वादिता ।
एषा येन वसन्तवर्ज्जितदिने सेव्या परं नित्यश-
स्तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्व्वेन्द्रियाणां
बलम् ॥
ग्रीष्मे तथा शरदि ये रविशोषिताङ्गा
ये च प्रमत्तवनितासुरतातिखिन्नाः ।
ये चापि मार्गपरिसर्पणशीर्णगात्रा-
स्तेषामियं वपुषि पोषणमाशु कुर्य्यात् ॥
रसाला शुक्रला बल्या रोचनी वातपित्तजित् ।
दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा ।
रक्तपित्तं तृषां दाहं प्रतिश्यायं विनाशयेत् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“दध्नोऽर्द्धाढकमीषदम्लमधुरं खण्डस्य चन्द्रद्युतेः
प्रस्थं क्षौद्रपलञ्च पञ्च हविषः शुण्ठ्याश्चतुर्म्माष-
कान् ।
एलामाषचतुष्टयं मरिचतः कर्षं लवङ्गं तथा
धृत्वा शुक्लपटे शनैः करतलेनोन्मथ्य विस्रा-
वयेत् ॥
मृद्भाण्डे मृगनाभिचन्दनरससृष्टेऽगुरूद्धूपिते
कर्पूरेण सुगन्धितं तदखिलं संलोड्य संस्थाप-
येत् ।
स्वस्वार्थे मथुरेश्वरेण रचिता ह्येषा रसाला
स्वयं
भोक्तुर्म्मन्मथदीपनी सुखकरी कान्तेव नित्यं
प्रिया ॥”
इति भावप्रकाशः ॥

रसालिहा, स्त्री, शीर्णनाला । इति शब्दचन्द्रिका ॥

चाकुलिया इति भाषा ॥

रसाली, स्त्री, (रसान् आलाति या । आ +

ला + कः । ङीप् ।) पुण्ड्रकेक्षुः । इति राज-
निर्घण्टः ॥

रसाश्वासा, स्त्री, पलाशीलता । इति राज-

निर्घण्टः ॥

रसास्वादः, पुं, (रसस्य आस्वादः ।) अखण्ड-

वस्तनवलम्बनेनापि चित्तवृत्तेः सविकल्पा-
नन्दास्वादनम् । समाध्यारम्भसमये सवि-
कल्पानन्दास्वादनं वा । इति वेदान्तसारः ॥ * ॥
“चतुर्थं विघ्नमाह अखण्डेति । उक्तसविकल्पक-
समाध्योर्म्मध्ये द्वितीयः शब्दाननुविद्धस्त्रिपुटी-
विशिष्टस्तस्मिन् य आनन्दो वाह्यशब्दादि-
विषयप्रपञ्चभारत्यागप्रयुक्तो न तु चैतन्यप्रयुक्तः ।
यथा निधिग्रहणाय प्रवृत्तस्य निधिपरि-
पालकभूतप्रेताद्यावृतस्य निधिप्राप्तेः अभावेऽपि
भूताद्यनिष्टनिवृत्तिमात्रेण कोऽपि महानानन्दो
भवति तथा सविकल्पकसमाधावखण्डवस्त्वनव-
लम्बनेन नित्यानन्दरसास्वादनाभावेऽपि अनिष्ट-
वाह्यप्रपञ्चनिवृत्तिजन्यानन्दं सविकल्पकरूपं
ब्रह्मानन्दभ्रमेण स्वादयति तद्रसास्वादनमित्यर्थः ।
लक्षणान्तरमाह समाधीत्यादि । निर्व्विकल्पक-
समध्यारम्भकाले अनुभूय मानसविकल्प-
का दत्यागासहिष्णुतया पुनस्तस्यैवास्वादनं
रसास्वाद इत्यर्थः ।” इति सुबोधन्याख्या
तट्टीका ॥

रसास्वादी, [न्] पुं, (रसं मधु आस्वादयितुं

शीलमस्य । आ + स्वद् + णिनिः ।) भ्रमरः ।
इति शब्दमाला ॥ रसास्वादविशिष्टे, त्रि ॥

रसाह्वः, पुं, (रसः आह्वा आख्या यस्य ।)

सरलद्रवः । इति रत्नमाला ॥

रसिकः, पुं, (रसोऽस्त्यस्यात्रेति वा । रस् + ठन् ।)

सारसपक्षी । इति राजनिर्घण्टः ॥ तुरङ्गः ।
हस्ती । इति सारस्वतः ॥ सरसे, त्रि । इति
मेदिनी ॥ (यथा, भागवते । १ । १ । ३ ।
“पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः ॥”)

रसिका, स्त्री, (रसिक + टाप् ।) रसाला ।

इक्षुरसः । इति मेदिनी ॥ काञ्ची । रसना । इति
विश्वः ॥

रसिकेश्वरः, पुं, (रसिकानां रसज्ञानामीश्वरः ।)

श्रीकृष्णः । यथा, --
“वृन्दावनान्तरे रम्ये रासोत्सवसमुत्सुकम् ।
रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३२ अध्यायः ॥
(रसिकश्रेष्ठश्च ॥)

रसितं, क्ली, (रस शब्दे + भावे क्तः ।) मेघ-

निर्घोषः । इत्यमरः ॥ रुतम् । स्वर्णादिस्वचिते,
त्रि । इति मेदिनी ॥

रसुनः, पुं, (रस + उनन् ।) लशुनः । इति शब्द-

चन्द्रिका ॥ (विवरणमस्य रसोनशब्दे ज्ञातव्यम् ॥)

रसेन्द्रः, पुं, (रसानां धातुरसानामिन्द्रः श्रेष्ठः ।)

पारदः । इति राजनिर्घण्टः ॥ (यथा, भाव-
प्रकाशे । १ । १ ।
“असाध्यो यो भवेद्रोगो यस्य नास्ति चिकितु-
सितम् ।
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥”
अस्य पर्य्यायादिकं रसशब्दे द्रष्टव्यम् ॥)

रसोत्तमः, पुं, (रसेषु उत्तमः । यद्वा, रसः

उत्तमोऽस्य ।) मुद्गः । इति राजनिर्घण्टः ॥
श्रेष्ठरसश्च ॥

रसोद्भवं, क्ली, (रसात् पारदधातोरुद्भवतीति ।

उत् + भू + अच् ।) हिङ्गुलम् । इति राज-
निर्घण्टः ॥ रसजाते, त्रि ॥

रसोनः, पुं, (रसेनैकेनोनः ।) रसुनः । इति राज-

निर्घण्टः ॥ (तस्योत्पत्तिर्यथा, --
“राहोरमृतचौर्य्येण लूनात् ये पतिता मलात् ।
अमृतस्य कणा भूमौ ते रसोनत्वमागताः ॥
द्बिजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम् ।
साक्षादमृतसम्भूतेर्ग्रामणीः सरसायनम् ॥”
इति वाभटे उत्तरस्थाने ३९ अध्यायः ॥
“अथ वीर्य्यञ्च वक्ष्यामि रसोनस्य महामते ।
रसैश्च पञ्चभिर्युक्तो रसोनस्तेन वर्जितः ॥”
“दध्ना वातादिशमनो रसोनो विहितो बुधैः ।
जाङ्गलानि रसान्येव भोजनार्थे प्रदापयेत् ॥”
इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥
अथास्यगुणाः ।
“रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः
सरः ।
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥”
इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अन्यद्विवरणमस्य रसोनकशब्दे लशुनशब्दे च
द्रष्टव्यम् ॥)

रसोनकः, पुं, (रसोन + स्वार्थे कन् ।) रसुनः ।

तत्पर्य्यायः ।
“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥”
तस्योत्पत्तिर्यथा, --
“यदामृतं वैनतेयो जहार सुरसत्तमात् ।
तदा ततोऽपतद्बिन्दुः भुरसोनोऽभवद्भुवि ॥
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः ।
तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥”
अस्यावयवगुणाः ।
“कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ।
नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ।
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ॥”
अस्य भक्षणगुणाः ।
“रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः सरः ।
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥
भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।
बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥
हृद्रोगजीर्णज्वरकुक्षिशूल-
विबन्धगुल्मारुचिकासशोफान् ।
दुर्नामकुष्ठानलसादजन्तु-
समीरणश्वासकफांश्च हन्ति ॥
मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥
व्यायाममातपं रोषमतिनीरपयो गुडम् ।
रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥”
इति भावप्रकाशः ॥
(तथास्यान्या विवृतिर्यथा, --
“अमृतमथने जातः सुरासुरग्रहो महान् ।
पृष्ठ ४/१०९
जहार वैनतेयश्च चञ्चुना त्रिदिवं गतः ॥
संग्रामश्रमसम्प्राप्ते श्रमवेगप्रधाविते ।
आरूढे वैक्लवं प्राप्ते च्युता ह्यमृतबिन्दवः ॥
सकृत् सन्दूषिते देहे पतितास्तत्र संस्थिताः ।
तस्मात् कालवशाज्जातं दुर्भिक्षं द्बादशाब्दि-
कम् ॥
विशुष्काः कानने सर्व्वा वृक्षकाण्डप्रतानिकाः ।
तस्माच्च कानने सर्व्वे प्रकृष्टं गहनं गताः ॥
तेषां मध्ये जराग्रस्तो गतिहीनोऽतिजर्ज्जरः ।
सयष्टिः सरणिक्षुण्णः शीर्णदन्तावलीमुखः ॥
सव्यक्तस्थैः क्षुधापन्नैः ऋषिभिस्तत्र विश्रुतः ।
सोऽपि क्षुधातुरः सर्व्वां पर्य्यट्त्युर्व्वरां महीम् ॥
कुत्रचित् पुण्ययोगेन दृष्टवान् विटपान् शुभान् ।
नीलशैवालसङ्काशान् शाद्बलान् बहुलान्
भुवि ।
क्षुधासंपीडनेनापि भुक्तवान् साद्वलानपि ॥
षण्मासानन्तरे शुष्कान् विटपान् तदनन्तरम् ।
भुक्तवान् कन्दकान् सोऽपि मासमेकं तथा
ऋषिः ॥
पश्चात् सुभिक्षे सञ्जाते सर्व्वे चैकत्र संस्थिताः ।
सोऽपि वृद्धो युवा भूत्वा गतस्तत्र च यत्र ते ॥
तं दृष्ट्वा विस्मयापन्नाः पप्रच्छुः किं कृतं त्वया ।
नोक्तवान् सोऽपि किञ्चिच्च रुषा तैः शापित-
स्ततः ॥
यत्त्वया स्वादितं द्रव्यं तदभक्ष्यं द्बिजातिभिः ।
दुर्गन्धमपि चित्रञ्च तस्माज्जातं रसोनकम् ॥”
“तेन रसोनकं नाम विख्यातं भुवनत्रये ।
कुक्कुटाण्डनिभं ग्रीष्मे शीर्णपर्णं समुद्धरेत् ॥
बद्ध्वा पुटे सुनिर्गुप्तं धारयेत्तन्महामते ।
दीप्ताग्निदर्शनात्तेन म्रियते दीर्य्यते भुवि ॥
वर्षासु शिशिरे चैव कारयेन्मात्रया युतम् ।
रामठं जीरके द्वे च अजमोदाकटुत्रयम् ॥
घृतसौवर्च्चलोपेतं वातरोगे विशेषतः ।
मातुलुङ्गरसेनापि शूलानाहे प्रकीर्त्तितः ॥”
इति हारीते कल्पस्थाने तृतीयेऽध्याये ॥
अस्यान्यत् द्विजाभक्ष्यत्वकारणादिकं रसोनशब्दे
द्रष्टव्यम् ॥)

रसोपलं, क्ली, (रसवत् पारद इव उपलम् ।)

मौक्तिकम् । इति त्रिकाण्डशेषः ॥

रस्नं, क्ली, (रस + “तृषिशुषिरसिभ्यः कित् ।”

उणा० ३ । १२ । इति नप्रत्ययः ।) द्रव्यम् ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रस्यं, क्ली, (रसात् भुक्तान्नादिपरिपाकात् आगत-

मिति । रस + यत् ।) रक्तम् । इति शब्द-
चन्द्रिका ॥ (यथा, महाभारते । १४ । ५० । ३२ ।
“यन्नैव गन्धिनो रस्यं नरूपं स्पर्शशब्दवत् ॥”
रसयुक्ते, त्रि । यथा, भगवद्गीतायाम् । १७ । ८ ।
“रस्याः स्निग्धाः स्थिरा हृद्या आहाराः
सात्त्विकप्रियाः ॥”)

रस्या, स्त्री, (रसाय हिता । रस् + यत् । टाप् ।)

रास्ना । (अस्याः पर्य्यायो यथा, --
“रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पाठा । इति राजनिर्घण्टः ॥

रंह, त् क गतौ । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) रंहयति रंहा-
पयति । इति दुर्गादासः ॥

रंहः, [स्] क्ली, (रम + “रमेश्च ।” उणा०

४ । २१३ । इति असुन् हुगागमश्च । “अहि
रहिभ्यामसुन् इत्यहो रंह इति धातुप्रदीपः ।”
इत्युज्ज्वलः ।) वेगः । तत्पर्य्यायः । तरः २
रयः ३ स्यदः ४ यवः ५ । इत्यमरः ॥ रंघः ६
यवनः ७ । इति तट्टीका ॥ (यथा, रघुः ।
२ । ३४ ।
“न पादपोन्मूलनशक्ति रंहः
शिलोच्चये मूर्च्छति मारुतस्य ॥”)

रह, त्यजि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रहति सुखं दीनः । इति दुर्गा-
दासः ॥

रह, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) इ, रंह्यते । इति दुर्गा-
दासः ॥

रह, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) रहयति शोकं
धीरः । इति दुर्गादासः ॥

रहः, [स्] क्ली, (रमन्तेऽस्मिन् । रह + “देशे ह

च ।” उणा० ४ । २१४ । इति असुन्प्रत्ययः ।
हकारश्चान्तादेशः । “रह त्यागे अस्मादसुनि
रह इति यातुप्रदीपः ।” इत्युज्ज्वलः ।)
निर्ज्जनम् । तत्पर्य्यायः । विविक्तः २ विजनः ३
छन्नः ४ निःशलाकः ५ रहः ६ उपांशुः ७
इत्यमरः ॥ (यथा, रघौ । ३ । ३ ।
“तदाननं मृत्सुरभि क्षितीश्वरः
रहस्युपाघ्राय न तृप्तिमाययौ ॥”)
तत्त्वम् । रतिः । गुह्यम् । इति मेदिनी ॥

रहः, [स्] व्य, विजनम् । इत्यमरः ॥

“रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥”
इति रभसश्च ॥
“देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति सुरत-
वाचकम् ।” इत्युज्ज्वलः । ४ । २१४ ॥)

रहस्यं, त्रि, (रहसि भवम् । रहस् + दिगादि-

न्वात् यत् । इत्युज्ज्वलः । ४ । २१४ ।) गोप-
नीयम् । रहसि भवम् । इति मेदिनी अमरश्च ॥
रहस्यरोमस्पर्शनिषेधो यथा, --
“न सर्पशस्त्रैः क्रीडेत स्वानि स्वानि न संस्पृशेत् ।
रोसाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥”
इति कौर्म्मे १५ अध्यायः ॥

रहस्या, स्त्री, (रहस्य + टाप् ।) नदीभेदः ।

इति मेदिनी ॥ (यथा, महाभारते । ६ । ९ । १८ ।
“रहस्यां शतकुम्भां च सरयूं च नरेश्वर ! ॥”)
रास्ना । पाठा । इति राजनिर्घण्टः ॥

रहितं, त्रि, (रह + क्तः ।) वर्ज्जितम् । यथा, --

“जातसूतकमादौ च अन्ते च मृतसूतकम् ।
गुरोस्तद्रहितं कृत्वा जपकर्म्म समाचरेत् ॥”
इति तन्त्रसारः ॥
अपि च ।
“दिग्घ्नोऽब्दश्चाश्विरहितो जन्मर्क्षाढ्यो भशे-
षितः ।
भं भवेदब्दवेशेऽत्र योगेऽप्येवं विचिन्तयेत् ॥”
इति जातकपद्धतिः ॥

रा, ल दाने । ग्रहणे । इति कविकल्पद्रुमः ॥

(अदा०-पर०-सक०-अनिट् ।) ल, राति ।
इति दुर्गादासः ॥

राः, स्त्री, (रा + सम्पदादित्वात् क्विप् ।) विभ्रमः ।

दानम् । इत्येकाक्षरकोषः ॥ काञ्चनम् । इति
शब्दरत्नावली ॥

राः, [ऐ] पुं, (रा दाने + “राते र्डैः ।” उणा०

२ । ६६ । इति डैः ।) धनम् । (यथा, भाग-
वते । ३ । २५ । ३८ ।
“आत्मानमनु ये चेह ये रायः पशवो
गृहाः ॥”)
स्वर्णम् । इत्यमरः ॥ शब्दः । इति शब्दरत्ना-
वली ॥ (स्त्री, श्रीः । यथा, ऋग्वेदे । १० ।
१११ । ७ ।
“स चन्तयदुषसः सूर्य्येण चित्रामस्य केतवो
रामविन्दन् ॥”)
“चित्रां नानावर्णां रां रायं श्रियमविन्दन् अल-
भन्त ।” इति तद्भाष्ये सायणः ॥)

राका, स्त्री, (रा दाने + “कृदाधारार्च्चिकलिभ्यः

कः ।” उणा० ३ । ४० । इति कः । वहुल-
वचनादेव न ह्नस्वः ।) नदीविशेषः । (सा च
शाल्मलीद्वीपस्थानां नदीनामन्यतमा । यथा,
भागवते । ५ । २० । १० ।
“तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः । सुरसः
शतशृङ्गो वामदेवः कुन्दः कुमुदः पुष्पा-
वर्षः सहस्रश्रुतिरिति । अनुमती सिनीवाली
सरस्वती कुहू रजनी नन्दा राकेति ॥”)
कच्छूरोगः । नवजातरजःस्त्री । (रायते दीयते
देवेभ्य हविर्यस्याम् । इति निघण्टुटीकायां देव-
राजयज्वा । ५ । ५ । २१ ।) सम्पूर्णेन्दुतिथिः ।
इति मेदिनी ॥ (यथा, ऋग्वेदे । २ । ३२ । ४ ।
“राकामहं सुहवां सुष्टुतीहुवे
शृणोतु नः सुभगा बोधतुत्मना ॥”
“संपूर्णचन्द्रा पौर्णमासी राका ।” इति सायणः ॥
राक्षसीविशेषः । सा च खरस्य शूर्पणखायाश्च
जननी । यथा, महाभारते । ३ । २७४ । १-८ ।
मार्कण्डेय उवाच ।
“पुलस्त्यस्य तु यः क्रोधादर्द्धदेहोऽभवन्मुनिः ।
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥
बुबुधे तन्तु सक्रोधं पितरं राक्षमेश्वरः ।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ! ॥
स राजराजो लङ्कायां निवसन्नरवाहनः ।
राक्षसीः प्रददौ तिसः पितुर्वै परिचारिकाः ॥
ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः ।
ऋषिं भरतशार्दूल ! नृत्यगीतविशारदाः ॥
पृष्ठ ४/११०
पुष्पोत्कटा च राका च मालिनी च विशां
पते ।
अन्योऽन्यस्पर्द्धया राजन् ! श्रेयस्कामाः सुम-
ध्यमाः ॥
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान् पुत्त्रानेकैकस्या यथेप्सितान् ॥
पुष्पोत्कटायां जज्ञाते द्वौ पुत्त्रौ राक्षसेश्वरौ ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥
मालिनी जनयामास पुत्त्रमेकं विभीषणम् ।
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥”)

राक्षसः, पुं, रक्षन्त्यस्मात् रक्षः रक्ष एव राक्षसः ।

तत्पर्य्यायः । कौणपः २ क्रव्यात् ३ क्रव्यादः ४
अस्रपः ५ आशरः ६ रात्रिञ्चरः ७ रात्रि-
चरः ८ कर्व्वूरः ९ निकषात्मजः १० यातु-
धानः ११ पुण्यजनः १२ नैरृतः १३ यातु १४
रक्षः १५ । इत्यमरः ॥ सन्ध्यावलः १६ क्षपाटः १७
रजनीचरः १८ कीलापाः १९ नृचक्षाः २०
नक्तञ्चरः २१ पलाशी २२ पलाशः २३ भूतः
२४ । इति शब्दरत्नावली ॥ नीलाम्बरः २५
कल्माषः २६ कटप्रूः २७ अगिरः २८ कीला-
लपाः २९ नरधिष्मणः ३० । इति जटाधरः ॥
तस्योत्पत्तिर्यथा, --
“रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद्ब्रह्मणो जाता जज्ञे कोपाश्रयात्ततः ॥
क्षुत्क्षामानन्याकारांश्च सोऽसृजद्भगवांस्ततः ।
विरूपाः श्मश्रुला जातास्तेऽभ्यधावन्त तं
प्रभुम् ॥
नैवं भो रक्ष्यतामेष तैरुक्तं राक्षसास्तु ते ॥”
इति वह्निपुराणम् ॥ * ॥
अपि च ।
“रक्षोगणं क्रोधवशात् स्वनामानमजीजनत् ।
दंष्ट्रिणां नियुतं तेषां भीमसेनाद्गतं क्षयम् ॥”
इति मात्स्ये आदिसर्गे कश्यपान्वयनाम ६
अध्यायः ॥ * ॥ राक्षसभोज्यान्नानि यथा, --
“क्षुत्कीटाद्युपपन्नञ्च यच्चोच्छिष्टान्वितं भवेत् ।
केशावपन्नमाधूतं मारुतश्वासवद्भवेत् ॥
एभिः संस्पृष्टमन्नञ्च भागो वै रक्षसो भवेत् ।
तस्माज्ज्ञात्वा सदा विद्वानन्नान्येतानि वर्ज्जयेत् ॥
राक्षसा नाम ये प्रोक्तास्ते भुञ्जन्त्यन्नमीदृशम् ॥”
इति वामणपुराणे ३९ अध्यायः ॥ * ॥
तेषां विहारः सूर्य्यलोकादधः । यथा, --
“अन्तीक्षचरा ये च भूतप्रेतपिशाचकाः ।
वर्ज्जयित्वा रुद्रगणांस्ते तत्रैव चरन्ति हि ॥
नोर्द्धं विक्रमणे शक्तिस्तेषां सम्भूतपाप्मनाम् ।
अत ऊर्द्ध्वं हि विप्रेन्द्र राक्षसा ये कृतैनसः ।
ते तु सूर्य्यादधः सर्व्वे विहरन्त्यूर्द्धवर्ज्जिताः ॥”
इति पाद्मे स्वर्गखण्डे १५ अध्यायः ॥ * ॥
(अनेनाधिष्ठितस्य रोगिनो लक्षणं यथा, --
“सक्रोधदृष्टिं भ्रुकुटीमुद्वहन्तं ससंभ्रमम् ।
प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् ॥
अन्नाद्विनापि बलिनं नष्टनिद्रं निशाचरम् ।
निर्ल्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम् ॥
रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम् ।
दृष्ट्वा च रक्तं मांसं वा लिहानं दशनच्छदौ ।
हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत् ॥”
इति वाग्भटे उत्तरस्थाने चतुर्थेऽध्याये ॥)
अष्टप्रकारविवाहान्तर्गतविवाहविशेषः । यथा,
“आसुरो द्रविणादानाद्गान्धर्व्वः समयान्मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥”
इत्युद्वाहतत्त्वम् ॥
(एतल्लक्षणान्तरञ्च यथा, मनुः । ३ । ३३ ।
“हत्वा च्छित्वा च भित्त्वा च क्रोशन्तीं रुदतीं
गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥”
राक्षसविवाहस्तु क्षत्त्रियस्यैव प्रशस्तः । यथा,
तत्रैव । ३ । २४ ।
“चतुरो ब्रह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्त्रियस्यैकं आसुरं वैश्यशूद्रयोः ॥”
निन्द्यप्रजोत्पतिजनकतया तु ब्राह्माद्यपेक्षया
राक्षसादिविवाहस्य गर्हितत्वमाह तत्रैव ।
३ । ४१ -- ४२ ।
“इतरेषु च शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्व्विवाहेषु ब्रह्मधर्म्मद्बिषः सुताः ॥
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विव-
र्ज्जयेत् ॥” * ॥
अब्दविशेषे, पुं, क्ली । यथा, बृहत्संहिता-
याम् । ८ । ४५ ।
“इन्द्राग्निदैवं दशमं युगं यत्
तत्राद्यमब्दं परिधाविसंज्ञम् ।
प्रमाद्ययानन्दमतःपरं यत्
स्याद्राक्षसं चानलसंज्ञितञ्च ॥”)
रक्षःसम्बन्धिनि, त्रि ॥

राक्षसी, स्त्री, (राक्षस + ङीप् ।) कौणपी ।

राक्षसपत्नी । यथा, रघुः । १२ । ६१ ।
“दृष्ट्वा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परीतेव महौषधिः ॥”)
दंष्ट्रा । बृहद्दन्तेति यावत् । इति हेमचन्द्रः ॥
चण्डा चोरनामगन्धद्रव्यमिति यावत् । इति
मेदिनी ॥ सायाह्नवेला । यथा, --
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।
मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततः परम् ॥
सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कार-
येत् ।
राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥”
इति तिथ्यादितत्त्वम् ॥

राक्षसेन्द्रः, पुं, (राक्षसानामिन्द्रः ।) रावणः ।

इति त्रिकाण्डशेषः ॥ (राक्षसपतिमात्रे च ।
यथा, महाभारते । १ । १५४ । १८ ।
“धिक् ! त्वामसति पुंस्कामे मम विप्रिय-
कारिणि ।
पूर्ब्बेषां राक्षसेन्द्राणां सर्व्वेषामयशस्करि ॥”)

राक्षा, स्त्री, (लाक्षा । रलयोरैक्यात् लस्य

रत्वम् ।) लाक्षा । इत्यमरः ॥

राख, ऋ शोषालमर्थयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सक० च-सेट् ।) शोषः
स्नेहरहितीभावः । अलमर्थो भूषणं सामर्थ्यं
निवारणञ्च । ऋ, अरराखत् । इति दुर्गा-
दासः ॥

रागः, पुं, (रञ्जनमिति रज्यतेऽनेनेति वा । रञ्ज

+ भावे करणे वा घञ् । “घञि च भाव-
करणयोः ।” ६ । ४ । २७ । इति नलोपः ।)
मात्स्यर्य्यम् । लोहितादिः । (यथा, कुमारे ।
३ । ३० ।
“रागेण बालारुणकोमलेन
चूतप्रबालोष्ठमलञ्चकार ॥”)
क्लेशादिः । अनुरागः । (यथा, आर्य्यासप्त-
शत्याम् । २७० ।
“तानवमेत्य छिन्नः परोपहितरागमदन-
सङ्घटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥”)
गान्धारादिः । नृपः । इति मेदिनी ॥ चन्द्रः ॥
सूर्य्यः । इति शब्दरत्नावली ॥ लाक्षादिः ।
(यथा, कुमारे । ४ । १९ ।
“तमिमं कुरु दक्षिणेतरं
चरणं निर्म्मितरागमेहि मे ॥”)
रक्तिमत्विट् । रञ्जनम् । इति नानार्थरत्न-
माला ॥ प्रीतिः । यथा, --
“वीतरागभयक्रोधस्थितधीर्म्मुनिरुच्यते ॥”
इति भगवद्गीताश्लोकटीकायां श्रीधरस्वामी ॥
तस्य लक्षणं यथा, --
“सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते ।
यतस्तु प्रणयोत्कर्षात् स राग इति कीर्त्त्यते ॥”
इत्युज्ज्वलनीलमणिः ॥ * ॥
(अभिमतविषयाभिलाषः । स तु पञ्चक्लशान्त-
र्गतः । यथा, --
“अविद्यास्मितारागद्वेशाभिनिवेशाः पञ्च-
क्लेशाः । रागोऽभिमतविषयाभिलाषः ।” इति
शिशुपालवधटीकायां मल्लिनाथः । ४ । ५६ ॥
“सुखानुशयी रागः ।” इति पतञ्जलिः । गान-
शास्त्रीयरागा यथा । भरतमते हनूमन्मते
च रागः षड्विधः । तेषां नामानि यथा ।
भैरवः १ कौशिकः २ हिन्दोलः ३ दीपकः ४
श्रीरागः ५ मेघः ६ । हनूमद्भरतयोर्म्मते प्रत्येक-
मेषां पञ्च रागिण्यः । सोमेश्वरकल्लिनाथयोर्म्मते
प्रत्येकमेतेषां षट् रागिण्यः । एतेषां प्रत्येक-
मष्टौ पुत्त्राः एकैकपुत्त्रभार्य्या च । कल्लिनाथ-
सोमेश्वरमते षड्रागा यथा । श्रीरागः १
वसन्तः २ पञ्चमः ३ भैरवः ४ मेघः ५ नट-
नारायणः ६ । इति नानासंगीतशास्त्रम् ॥ * ॥
अथ रागस्य व्युत्पत्तिसंख्यास्थानानि ।
“यैस्तु चेतांसि रज्यन्ते जगत्त्रितयवर्त्तिनाम् ।
ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥
गोपीभिर्गीतमारब्धमेकैकं कृष्णसन्निधौ ।
तेन जातानि रागाणां सहस्राणि तु षोडश ॥
रागेषु तेषु षट्त्रिंशद्रागा जगति विश्रुताः ।
पृष्ठ ४/१११
कालक्रमेण तत्रापि ह्नास एव तु दृश्यते ।
केचिद्वदन्ति ते रागाः सर्व्वे सन्तीति निश्चितम् ॥
मेरोरुत्तरतः पूर्ब्बे पश्चिमे दक्षिणे तथा ।
समुद्रकण्ठे ये देशास्तत्रामीषां प्रचारणा ॥”
तथा च । अङ्गवङ्गकलिङ्गतेलङ्गभूलिङ्गहावङ्ग-
सुरङ्गयूपलङ्गखेलाङ्गसौवीरकीरकाश्मीरनाभी-
रनाहीरसिन्धुजालन्धरमगमगधनिषधमलयही-
हयगजाह्वयमालवजालवमरुमूरुचोलोत्कलकु-
न्तलसिंहलहरिकेलकेरल-कोशलमल्लिवालमल्ल-
भल्लसौविदल्लवातकिञ्जातगुजूरातगुञ्जरकालञ्जर-
गौडद्रविडौड्रान्तर्व्वेदिकाञ्चीपाञ्चालसौराष्ट्रश-
वरलौहावरखशकीकशवरूपकामरूपहरिगर्भ-
विदर्भदुर्मटवाटकीकटदेवेङ्गनटङ्गननाटभोटक-
वाटकरहाटकर्णाटकुन्तिकावन्तिककनकाब्ज-
कान्यकुब्जभोजकाम्बोजतोजतुखारविहारवली-
हारवाजगेहविदेहवाह्लीकचञ्चरीकत्रिगर्त्तान-
र्त्तादिदेशेषु रागाः प्रचरन्तीति ।
“यस्य श्रवणमात्रेण रञ्जन्ते सकलाः प्रजाः ।
सर्व्वाघरञ्जनाद्धेतोस्तेन राग इति स्मृतः ॥” * ॥
अथ रागाः ।
“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः ।
श्रीरागश्च ततः पश्चाद्वसन्तस्तदनन्तरम् ॥
हिन्दोलश्चाथ कर्णाट एते रागाः षडेव तु । ६ ।
षट्त्रिंशद्रागिणी तत्र क्रमशः कथिता मया ॥
धानसी मालसी चैव रामकिरी च सिन्धुडा ।
आशावरी भैरवी च मालवस्य प्रिया इमाः ॥ ६
वेलावली च पुरवी कानडा माधवी तथा ।
कोडा केदारिका चापि मल्लारदयिता इमाः ॥ ६
गान्धारी शुभगा चैव गौरी कौमारिका तथा ।
वेलोयारी च वैरागी श्रीरागस्य प्रिया इमाः ॥ ६
तुडी च पञ्चमी चैव ललिता पठमञ्जरी ।
गुज्जरी च विभाषा च वसन्तस्य प्रिया इमाः ॥ ६
मायूरी दीपिका चैव देशकारी च पाहिडा ।
वराडी भोरहाटी च हिन्दोलस्य प्रिया
इमाः ॥ ६ ॥
नाटिका चाथ भूपाली रामकेली गडा तथा ।
कामोदा चापि कल्याणी कर्णाटस्य प्रिया
इमाः ॥ ६ ॥ ३६ ॥ * ॥
अथ कालनियमः ।
“विभाषा ललिता चैव कामोदा पठमञ्जरी ।
रामकीरी रामकेली वेलोयारी च गुज्जरी ॥
देशकारी च शुभगा पञ्चमी च गडा तुडी ।
भैरवी चाथ कौमारी रागिण्यो दश पञ्च च ।
एताः पूर्व्वाह्णकाले तु गीयन्ते गायनोत्तमैः ॥
वराडी मायूरो कोडा वैरागी चाथ धानसी ।
वेलावली मोरहाटी सप्तैता रागयोषितः ।
गेया मध्याह्नकाले तु यथा भारतभाषितम् ॥
गान्धारी दीपिका चैव कल्याणी पुरवी तथा ।
कानडा शारवी चैव गौरी केदारपाहिडा ॥
मायूरी मालसी नाटी भूपाली सिन्धुडा तथा ।
सायाह्ने ताश्च रागिण्यः प्रगायन्ति चतुर्द्दश ॥
पुरुषा वस्तुभूषाढ्या रागास्ते मालवादयः ।
प्रदोषे चापराह्णे च रजन्यां गानगोचराः ॥
दशदण्डात् परं रात्रौ सर्व्वेषां गानमीरितम् ।
मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा ॥
श्रीपञ्चम्यां समारभ्य यावत् जन्मोत्सवं हरेः ।
तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥
शक्रोत्थानं समारभ्य यावद्दुर्गामहोत्सवम् ।
गीयते तद्बुधैर्नित्यं मालसी सा मनोहरा ॥
सर्व्वेषामिह रागाणां रागिणीनाञ्च सर्व्वशः ।
रङ्गभूमौ नृपाज्ञायां कालदोषो न विद्यते ॥
रागञ्चालापयेदादौ तत्पत्न्यस्तदनन्तरम् ।
नान्यपत्नी प्रगातव्या नृपाज्ञायां न दूषणम् ॥
रागाः षडथ रागिण्यः षट्त्रिंशच्चारु-
विग्रहाः ।
आगता ब्रह्मसदनात् ब्रह्माणं समुपासते ॥” * ॥
अथ ध्यानम् ।
“नितम्बिनीचुम्बितवक्त्रपद्मः
शुकद्युतिः कुण्डलवान् प्रमत्तः ।
सङ्गीतशालां प्रविशन् प्रदोषे
मालाधरो मालवरागराजः ॥ १ ॥
नीलोत्पलं कर्णयुगे वहन्ती
श्यामा सुकेशी च सुमध्यभागा ।
ईषत्सहासाम्बुजरम्यवक्त्रा
सा धानसी पद्मसुचारुनेत्रा ॥ १ ॥
करे युता चाम्बुजयुग्मरम्या
इतस्ततश्चारु विलोकयन्ती ।
कण्ठस्फरन्मौक्तिकरत्नहारा
सा मालसी संकथिता विचित्रा ॥ २ ॥
प्रतप्तचामीकरचारुवक्त्रा
कर्णावतंसं कमलं वहन्ती ।
पुष्पं धनुः पुष्पशरैर्दधाना
चन्द्रानना रामकिरी प्रदिष्टा ॥ ३ ॥
महेन्द्रनीलद्युतिरम्बुजाक्षी
प्रवादयन्ती कपिलाशयन्त्रम् ।
विचित्ररत्नाभरणा सुकेशी
सा सिन्धुडा कान्तसमीपसंस्था ॥ ४ ॥
जवाप्रसूनद्युतिविम्बवक्त्रा
सकञ्चुपद्मं करयोर्दधाना ।
क्षौमांशुकाच्छादितगात्रयष्टि-
राशावरी रङ्गकिला विदग्धा ॥ ५ ॥
सरोवरस्था स्फटिकस्य मन्दिरे
सरोरुहैः शङ्करमर्च्चयन्ती ।
तालप्रयोगप्रतिरङ्गगीतै-
र्गौरीतनुर्भैरविका सतीयम् ॥” ६ ॥ * ॥
अथ मल्लारः ।
“विहारशीलोऽतिसुकान्तदेहः
कान्ताप्रियो धार्म्मिकशीलयुक्तः ।
कामातुरः पिङ्गलनेत्रयुग्मो
मल्लाररागः प्रियकृत् सुवेशः ॥ १ ॥
सङ्केतितोत्फुल्ललतानिकुञ्जे
कृतस्थितिः कान्तसमागमाय ।
वेलावली चम्पकमौलिनी सा
बाला विचित्राभरणा निरुक्ता ॥ १ ॥
रहःसु कान्तप्रियमाणपत्रं
रम्यं वहन्ती कुचकुम्भयुग्मे ।
दूर्व्वादलश्यामतनुः सकामा
पुरातनैः सा पुरवी निरुक्ता ॥ २ ॥
अशोकवृक्षस्य तले निषण्णा
वियोगिनी वास्पकणाञ्चिताङ्गी ।
विभूषिताङ्गी जटिलेव बाला
सा कानडा हेमलतेव तन्वी ॥ ३ ॥
संगृथ्य संगृथ्य गले दधाना
प्रसूनमाला दयितेन बाला ।
गौरी स्वकान्ताननचुम्बितास्या
सा सुन्दरी माधविका निकुञ्जे ॥ ४ ॥
सुकच्छपीं वादयति स्वभर्त्तु-
र्गानार्थमभ्यस्यति सम्मुखेन ।
सदैव ताला विहिता च माला
कोडा कला तानवती मता सा ॥ ५ ॥
स्नात्वा समुत्तीर्णवती सुदेहा
केशप्रणिष्यन्दितवारिबिन्दुः ।
निष्पीडयन्ती तिमिरांशुकान्तं
केदारिका रक्तपरोधरश्रीः ॥” ६ ॥ * ॥
अथ श्रीरागः ।
“लीलावतारेण वनान्तराणि
चिन्वन् प्रसूनानि बधूसहायः ।
विलासवेशो ह्यतिदिव्यमूर्त्तिः
श्रीराग एष प्रथितः पृथिव्याम् ॥ १ ॥
सन्ध्यासुकाले गृहमध्यदेशे
प्रवादयन्ती ह पिनाकयन्त्रम् ।
धाराधराधातुविचित्रिताङ्गी
गान्धारिका गन्धस्रजं निधत्ते ॥ १ ॥
रसनया सुविचारकौतुकं
विदधती कविकोविदकौतुकम् ।
सुकवितामृतभावनतत्परा
भगवती सुभगा समुदाहृता ॥ २ ॥
पुष्पोद्याने सार्द्धमालीकलापैः
क्रीडन्त्येवं कोकिलाकाकलीषु ।
रामा श्यामा सद्गुणानाञ्च सीमा
गौरी गौरी गौरवालोकदिष्टा ॥ ३ ॥
अट्टालिकायां स्फुटकौमुदीभिः
प्रकाशितायां रजनीविहारम् ।
अह्नाय कान्तेन समं वसन्ती
कौमारिका कामकला वहन्ती ॥ ४ ॥
गौरीपादाम्भोजमभ्यर्च्चयन्ती
गन्धोद्धूतं गन्धमाल्यं दधाना ।
नानारत्नोपायनैर्भक्तिभावै-
र्वेलोयारी कथ्यते बालिकेयम् ॥ ५ ॥
उल्लासयन्ती धम्मिल्ले रहःस्थान् प्राणबन्धुना ।
मालतीकुसुमस्रग्भिर्व्वैरागी रागिनी स्मृता ॥” ६
अथ वसन्तः ।
“चूताङ्कुरेणैव कृतावतंसो
विघूर्णमानारुणनेत्रपद्मः ।
पीताम्बरः काञ्चनचारुदेहो
वसन्तरागो युवतिप्रियश्च ॥ १ ॥
पृष्ठ ४/११२
सुनृत्यमानातिसुशीलयुक्ता
मुक्तालताकल्पितहारयष्टिः ।
चूताङ्कुरं पाणियुगे वहन्ती
जवारुणाङ्गी तुडिकेरितेयम् ॥ १ ॥
संगीतगोष्ठीषु गरिष्ठभावं
समाश्रिता गायनसम्प्रदायैः ।
खर्व्वाङ्गिनी नूपुरपादपद्मा
सा पञ्चमी पञ्चमवेदवेत्त्री ॥ २ ॥
उरसि केशचयस्य सुभारं
विदधती शयनोत्थितचारुवेशम् ।
विलुलितालकवल्लिकृशाङ्गी
भासुरा ललिता कथिता बुधैः ॥ ३ ॥
सखीकलापैः परिहास्यमाना
वियोगिनी कान्तवियोगदेहा ।
पीनस्तनी चैव धराप्रसुप्ता
श्यामा सुकेशी पठमञ्जरीयम् ॥ ४ ॥
कर्णोत्पलालम्बिमधुव्रताली
शृणोति सा मञ्जुलकूजितानि ।
कान्तान्तिकं गन्तुमनाः प्रदोषे
सा गुज्जरी वेशकलोचिताङ्गी ॥ ५ ॥
अध्यापयन्ती निजशिष्यवृन्दं
सङ्गीतशास्त्राणि विवेचनाभिः ।
मनोहरा हारलताभिरामा
समस्तभाषाकुशला विशेषा ॥” ६ ॥ * ॥
अथ हिन्दोलः ।
“हासाभिलासेन पतन् पृथिव्यां
उत्थापितस्तत्क्षणमालिवृन्दैः ।
उल्लोलसङ्गीतरसैर्विदग्धो
हिन्दोलरागः कथितो रसज्ञैः ॥ १ ॥
मयूरकेकाश्रवणोल्लसन्ती
मयूरिकानृत्यततं किरन्ती ।
मयूरकान्तीव सितिं दधाना
मायूरिका संकथिता गुणज्ञैः ॥ १ ॥
प्रदोषकाले गृहसंप्रविष्टा
प्रदीपहस्तारुणगात्रवस्त्रा ।
सीमन्तसिन्दूरविराजमाना
सुरक्तमाल्या किल दीपिकेयम् ॥ २ ॥
सार्द्धं सखीभिर्विजने वसन्ती
विचित्रवक्षोजनितम्बसङ्गा ।
निरीक्ष्यमाणाननदर्पणा या
सा देशकारी कथिता गुणज्ञैः ॥ ३ ॥
भर्त्तुर्दधाना चरणारविन्दं
निषेधयन्ती परदेशयानम् ।
प्रकामदाम्पत्यसुखे निमग्ना
सा पाहिडा संकथिता कवीन्द्रैः ॥ ४ ॥
कर्णे दधाना सुरपुष्पयुग्मं
स्फुरत्सुवक्षोजमनोहराङ्गी ।
स्मेरानना चारुविलोलनेत्रा
वराङ्गनेयं कथिता वडारी ॥ ५ ॥
उत्पन्नमात्रे प्रथमापराधे
मानं पुनः कर्त्तमनाश्चीरेण ।
ऋजुस्वभावान्नियतं रुदन्ती
सा मोरहाटी हठकेलिरुष्टा ॥” ६ ॥ * ॥
अथ कर्णाटः ।
“कृपाणपाणिस्तुरगाधिरूढो
मयूरकण्ठातिसुकण्ठकान्तिः ।
स्फुरत्सितस्निग्धरसः प्रशान्तः
कर्णाटरागो हरितालवर्णः ॥ १ ॥
चिरं नटन्ती शुभरङ्गमध्ये
संप्रार्थयन्ती नटिनं वसन्तम् ।
सुगीततालेषु कृतावधाना
नटी सुशाटीपरिधानदेहा ॥ १ ॥
स्वनायकं पुष्पलताधिरूढा
हसन्मुखी सर्व्वमुदं वहन्ती ।
स्वनानि शश्वद्वितनोति मुग्धा
भूपालिका सा स्खलदुत्तरीया ॥ २ ॥
अध्यापयन्ती शुकसारसारोः
श्रीराम रामेति सुवेशलक्ष्मीः ।
वामस्तनार्द्धस्खलितांशुकश्रीः
श्रीरामकेली कथिता कवीन्द्रैः ॥ ३ ॥
विशेषवैदग्ध्यवती समस्तान्
कलाविलासेन विमोहयन्ती ।
बृहन्नितम्बा परिपुष्टदेहा
वडा प्रलम्बस्तनभारभव्या ॥ ४ ॥
भर्त्तुः समं पाथसि सन्तरन्ती
पयोविहारेण सरोरुहाणि ।
विचिन्वती सौरभमोदमाना
कामोदरागिण्युदिता गुणज्ञैः ॥ ५ ॥
व्याधूता नटनृत्यपरिश्रमेण
बाला लीलाभिः सुदती कृतादरा ।
नटीनां कल्याणी कलयति मत्तहस्ती
एणप्रस्थानं मुखरिता किङ्किणीकलापम् ॥” ६ ॥
अथ रागरागिणीनां भावनिरूपणम् ।
“मालवः श्रीश्च हिन्दोलो मल्लारस्तदनन्तरम् ।
गायन्ति गायका धीर सानन्देन चतुष्टयम् ॥
वसन्तो रागः कर्णाटो द्वौ वीरौ भवतः क्रमात् ॥
धानसी मालसी चैव भैरवी माधवी तथा ।
सुभगा पञ्चमी नाटी वेलोयारी च गुज्जरी ॥
कामोदा चापि कल्याणी कोडा केदारिका
तुडी ।
कौमारी मायूरी चैव देशकारी च सिन्धुडा ॥
रामकेली च भूपाली रागिण्यश्चेति विंशतिः ।
आनन्दांशा इति प्रोक्ता गीयन्ते गानकोविदैः ॥
पुरवी कानडा गौरी रामकिरी च दीपिका ।
आशावरी विभाषा च वडारी च गडा तथा ।
एताश्च नव रागिण्यो वीरांशे गानमुत्तमम् ॥
वेलावली च गान्धारी ललिता पठमञ्जरी ।
वैरागी रागिणी चापि मोरहाटी च पाहिडा ।
करुणांशा विजानीयात् सप्तैता रागयोषितः ॥
रागेण रसभागेन षट्त्रिंशद्रागिणीषु च ।
करुणानन्दवीरेषु ज्ञापनार्थं मतत्रयम् ॥”
इति संगीतदामोदरे शिवनारदसंवादे १ । ३
अध्यायौ ॥ (तथा च संगीतदर्पणे ।
अथ रागाणामुद्भवं दर्शयति ।
“शिवशक्तिसमायोगाद्रागाणां सम्भवो भवेत् ।
पञ्चास्यात् पञ्च रागाः स्युः षष्ठस्तु गिरिजा-
मुखात् ॥
सद्योवक्त्रात्तु श्रीरागो वामदेवाद् वसन्तकः ।
अघोराद् भैरवोऽभूत् तत्पुरुषात् पञ्चमो-
ऽभवत् ॥
ईशानाख्यान्मेघरागो नाट्यारम्भे शिवादभूत् ।
गिरिजाया मुखाल्लास्ये नट्टनारायणोऽभवत् ॥”
अथ रागवेला ।
“मधुमाधवी च देशाख्या भूपाली भैरवी
तथा ।
वेलावली च मल्लारी वल्लारी सोमगुर्ज्जरी ॥
धनाश्रीर्मालवश्रीश्च मेघरागश्च पञ्चमः ।
देशकारी भैरवश्च ललिता च वसन्तकः ॥
एते रागाः प्रगीयन्ते प्रातरारभ्य नित्यशः ।
गुर्ज्जरी कौशिकश्चैव सावेरी पठमञ्जरी ॥
रेवा गुणकिरी चैव भैरवी रामकिर्य्यपि ।
सौराटी च तथा गेया प्रथमप्रहरोत्तरम् ॥
वैराटी तोडिका चैव कामोदी च कुडायिका ।
गान्धारी नागशब्दी च तथा देशी विशेषतः ।
शङ्कराभरणो गेयो द्बितीयप्रहरात् परम् ॥
श्रीरागो मालवाख्यश्च गौरी त्रिवणसंज्ञिका ।
नट्टकल्याणसंज्ञश्च सारङ्गनट्टकौ तथा ॥
सर्व्वे नाटाश्च केदारी कर्णाट्याभीरिका तथा ।
वडहंसी पहाढी च तृतीयप्रहरात् परम् ।
अर्द्धरात्रावधि ज्ञेया एते रागाः सुखप्रदाः ॥
यथोक्तकाल एवैते गेयाः पूर्व्वविधानतः ।
राजाज्ञया सदा गेया न तु कालं विचारयेत् ॥”
इति रागवेला ।
अथ ऋतवः ।
“श्रीरागो रागिणीयुक्तः शिशिरे गीयते
बुधैः ।
वसन्तः ससहायस्तु वसन्तर्त्तौ प्रगीयते ॥
भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते ।
पञ्चमस्तु तथा गेयो रागिण्या सह शारदे ॥
मेघरागो रागिणीभिर्युक्तो वर्षासु गीयते ।
नट्टनारायणो रागो रागिण्या सह हेमके ॥
यथेच्छया वा गातव्याः सर्व्वर्त्तुषु सुखप्रदाः ॥”
इति रायाणां ऋतुनिर्णयः । इति सोमेश्वर-
मतम् ॥ * ॥)

रागचूर्णः, पुं, कामदेवः । खदिरवृक्षः । इति

मेदिनी । ने, १०६ ॥ फल्गुचूर्णम् । इति शब्द-
रत्नावली ॥ लाक्षारसः । इति राजनिर्घण्टः ॥

रागच्छन्नः, पुं, (रागेण च्छन्नः ।) कामदेवः ।

इति शब्दरत्नावली ॥ रागेणाच्छन्ने, त्रि ॥

रागदः, पुं, (रागं ददातीति । दा + कः ।)

तैरणीक्षुपः । इति राजनिर्घण्टः ॥ रागदातरि,
त्रि ॥

रागदालिः, पुं, (रागदा रागप्रदा आलिः पङ्क्ति-

र्यत्र ।) मसूरः । इति राजनिर्घण्टः ॥ (विवरण-
मस्य मसूरशब्दे विज्ञेयम् ॥)
पृष्ठ ४/११३

रागपुष्पः, पुं, (रागविशिष्टं रक्तवर्णं पुष्पं यस्य ।)

बन्धूकः । रक्ताम्लानः । इति राजनिर्घण्टः ॥

रागपुष्पी, स्त्री, (रागयुक्तं पुष्पं यस्याः । ङीप् ।)

जवा । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य
जवाशब्दे ज्ञातव्याः ॥)

रागप्रसवः, पुं, (रागयुक्तो रक्तवर्णः प्रसवः पुष्पं

यस्य ।) बन्धूकः । रक्ताम्लानः । इति राज-
निर्घण्टः ॥

रागयुक्, [ज्] पुं, (रागेण युज्यते इति । युज् +

क्विप् ।) माणिक्यम् । इति राजनिर्घण्टः । कस्मिं-
श्चित् पुस्तके रागदृक् इति पाठोऽपि विद्यते ॥

रागरज्जुः, पुं, (रागो रज्जुरिव यस्य । नायकयोः

परस्परानुरागबद्धत्वात्तथात्वम् ।) कामदेवः ।
इति शब्दरत्नावली ॥

रागलता, स्त्री, (रागस्य जनिका लतेव ।) काम-

देवपत्नी । इति जटाधरः ॥

रागवृन्तः, पुं, (रागस्य वृन्त इव ।) कामदेवः ।

इति शब्दमाला ॥

रागषाडवः, पुं, दाडिमद्राक्षायुक्तमुद्गयूषः । अस्य

गुणाः । रुचिकारित्वम् । लघुपाकित्वम् । वात-
पित्तकफाविरोधित्वञ्च । इति राजवल्लभः ॥
(यथा, सुश्रुते । १ । ४६ अध्याये कृतान्नवर्गे ।
“ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ।
स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ।
रुचिष्यो लघुपाकश्च दोषाणामविरोधकृत् ॥”
तथास्य गुणाः ।
“लघवो वृंहणा वृष्याः हृद्या रोचनदीपनाः ।
तृष्णामूर्च्छाभ्रमच्छर्द्दिश्रमघ्ना रागषाडवाः ॥”
इति च सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

रागसूत्रं, क्ली, (रागयुक्तं रक्तवर्णं सूत्रम् ।) तुला-

सूत्रम् । पट्टसूत्रम् । इति मेदिनी । रे, २९४ ॥

रागाङ्गी, स्त्री, (रागविशिष्टमङ्गं यस्याः । ङीप् ।)

मञ्जिष्ठा । इति राजनिर्घण्टः ॥

रागाढ्या, स्त्री, (रागेण आढ्या ।) मञ्जिष्ठा ।

इति राजनिर्घण्टः ॥

रागारुः, त्रि, आशां दत्त्वा दानविमुखः । यथा,

“आशां बलवतीं दत्त्वा यो हन्ति पिशुनो जनः ।
स जीवासोऽपि रागारुर्द्रणो दालस्तु दातरि ॥”
इति शब्दमाला ॥

रागाशनिः, पुं, (रागेषु विषयवासनासु अशनि-

रिव ।) बुद्धः । इति त्रिकाण्डशेषः ॥

रागिणी, स्त्री, (रागोऽस्त्यस्या इति । राग +

इनिः । ङीप् ।) विदग्धा नारी । इति जटा-
घरः ॥ मेनकाया ज्येष्ठकन्या । यथा, --
“रागिणी नाम संजाता ज्येष्ठा मेनासुता मुने ।
शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्द्धजा ॥”
इति वामनपुराणे ४८ अध्यायः ॥
जयश्रीनाम्नी लक्ष्मीः । इति पुराणम् ॥ षड्-
रागाणां पत्नी । इति हलायुधः ॥ सा तु
हनूमन्मते भरतमते च त्रिंशत्प्रकारा । सोमे-
श्वरमते कल्लिनाथमते च षट्त्रिंशत्प्रकारा ॥
आसां विवरणं रागशब्दे द्रष्टव्यम् ॥

रागी, [न्] त्रि, (रन्ज + “संपृचानुरुधेति ।”

३ । २ । १४२ । इति तच्छीलादिषु घिणुन् ।
यद्वा, रागोऽस्यास्तीति । राग + इनिः ।) अनु-
रक्तः । (यथा, मार्कण्डेये । २१ । ४१ ।
“त्वय्यस्या हृदयं रागि भर्त्ता चान्यो भविष्यति ।
यावज्जीवमतो दुःखं सुरभ्या नान्यथा वचः ॥”)
कामुकः । इति विश्वः ॥ रङ्क्ता । इति मेदिनी ॥
(विषयानुरागयुक्तः । स च द्बिविधः । यथा,
देवीभागवते । १ । १७ । ३७ -- ३८ । ४१ ।
“द्वैविध्यं सर्व्वलोकेषु सर्व्वत्र द्बिविधो जनः ।
रागी चैव विरागी च तयोश्चित्तं द्बिधा पुनः ॥
विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः ।
रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तया ॥”
“रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् ।
दुःखं बहुविधं तस्य सुखञ्च विविधं पुनः ॥”
रक्तवर्णविशिष्टः । यथा, कथासरित्सागरे ।
२१ । ९ ।
“ईर्ष्यारुषामभावेऽपि भङ्गुरभ्रुणि रागिणि ।
न मुखे तत्तयो राज्ञ्योस्तद्दृष्टिस्तृप्तिमाययौ ॥”)
पुं, तृणधान्यविशेषः । तत्पर्य्यायः । लाञ्छनः २
बहुतरकणिशः ३ गुच्छकणिशः ४ । अस्य
गुणाः । तिक्तत्वम् । मधुरत्वम् । कषायत्वम् ।
शीतत्वम् । पित्तास्रनाशित्वम् । बल्यत्वञ्च ।
इति राजनिर्घण्टः ॥

राघ, ऋ ङ शक्तौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) ऋ, अरराघत् ।
ङ, राघते । शक्तिः सामर्थ्यम् । इति दुर्गा-
दासः ॥

राघवः, पुं, (रघोरपत्यमिति । रघु + अण् ।)

रामचन्द्रः । (यथा, रघुः । १२ । ३२ ।
“रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥”
अजः । यथा, रघुः । ८ । १६ ।
“यतिपार्थिवलिङ्गधारिणौ
ददृशाते रघुराघवौ जनैः ॥”
दशरथः । यथा, रामायणे । २ । ६४ । १ ।
“वधमप्रतिरूपं तु महर्षेस्तस्य राघवः ।
विलपन्नेव धर्म्मात्मा कौशल्यामिदमब्रवीत् ॥”
रघुवंशीयमात्रम् । यथा, तत्रैव । २ । ६४ । २५ ।
“अपि ह्यद्य कुलं न स्याद्राघवाणां कुतो
भवान् ॥”)
समुद्र-महामत्स्यविशेषः । इति मेदिनी ॥ वे,
४८ ॥ (यथा, कृद्वृत्तौ प्रथमपादे दुर्गसिंहः ।
“अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः ।
तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति
राघवः ॥”)

राघवायनं, क्ली, (राघवस्य रामस्य चरितान्वितं

अयनं शास्त्रम् ।) रामायणम् । यथा, --
“सेतिहासपुराणानि राघवायनभारतम् ।
समाप्तिरहितान्येव सन्ति तानि श्रुतानि ते ॥”
इत्यग्निपुराणे वामनप्रादुर्भावनामाध्यायः ॥

राङ्कलः, पुं, वृक्षकण्टकः । इति हारावली । ९१ ॥

राङ्कवं, क्ली, (रङ्कौ भवम् । रङ्कु + “रङ्कोरमनुष्ये-

ऽण् च ।” ४ । २ । १०० । इति अण् ।)
मृगलोमजातवस्त्रादि । तत्पर्य्यायः । मृग-
रोमजम् २ । इत्यमरः । २ । ६ । १११ ॥ रङ्कु-
र्मृगभेदः ततो जाताद्यर्थे ष्णः पशवोऽपि मृगा
इति रूढ्या मेषादिलोमजमपि कम्बलादि राङ्क-
वम् । इति तट्टीकायां भरतः ॥ (यथा, महा-
भारते । २ । ५० । २३ ।
“और्णञ्च राङ्कवञ्चैव पट्टजं कीटजन्तथा ॥”
पुं, गौः । इति काशिका ॥ राङ्कवाकृतौ, त्रि ।
यथा, महाभारते । ९ । ४४ । २६ ।
“क्रौञ्चपारावतनिभैर्व्वदनैराङ्कवैरपि ॥”)

राङ्गणं, क्ली, पुष्पविशेषः । रङ्गन् इति भाषा ।

अस्य गुणः । रक्तपित्तनाशित्वम् । इति द्रव्य-
गुणः ॥

राज, ऋ ञ ण दीप्तौ । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-अक०-सेट् ।) ऋ, अरराजत् ।
ञ, राजति राजते । ण, रेजतुः । इति दुर्गा-
दासः ॥

राजकं, क्ली, (राज्ञां समूहः । राजन् + “गोत्रोक्षो-

ष्ट्रोरभ्रराजेति ।” ४ । २ । ३९ । इति वुञ् ।) नृप-
समूहः । इत्यमरः । २ । ८ । ३ ॥ यथा, मार्क-
ण्डेये । १०९ । ६ ।
“हृष्टपुष्टमतीवासीत् तस्मिन् राजन्यशेषतः ।
राजकं सकलं चोर्व्व्यां पौरजानपदो जनः ॥”
राजन् + स्वार्थे कन् ।) राजनि, पुं, । (यथा,
हरिवंशे भविष्यपर्व्वणि । २४ । ९ ।
“तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ॥”
राज् + ण्वुल् ।) दीप्तिकारके, त्रि ॥

राजकदम्बः, पुं, (कदम्बानां राजा । राजदन्तादि-

त्वात् परनिपातः ।) कदम्बविशेषः । यथा, --
“कादम्बर्य्यः प्रावृषेण्यो नीपो धूलीकदम्बकः ।
कदम्बप्रियकौ राजकदम्बोऽरुष्करोऽग्निकः ॥”
इति जटाधरः ॥

राजकन्या, स्त्री, (राज्ञः कन्येव ।) केविकापुष्पम् ।

इति राजनिर्घण्टः ॥ नृपसुता च ॥ (यथा, भाग-
वते । ९ । ६ । ४३ ।
“वृतः स राजकन्याभिरेकः पञ्चाशता वरः ॥”)

राजकर्कटी, स्त्री, चीनाकर्क्कटी । इति राज-

निर्घण्टः ॥

राजकशेरुः, पुं, (कशेरूणां राजा । राजदन्तादि-

त्वात् परनिपातः ।) भद्रमुस्ता । इति राज-
निर्घण्टः ॥

राजकीयः, त्रि, (राज्ञ इदम् । राजन् + “राज्ञः

कच ।” ४ । २ । १४० । इति छः ककारश्चान्ता-
देशः ।) राजसम्बन्धी । राजकस्यायं इत्यर्थे
णीयप्रत्ययेन सिद्धः ॥ (यथा, कथासरित्सागरे ॥
६२ । २२८ ।
“ततस्तदर्थं रात्रौ स राजकीयं सरो ययौ ॥”)

राजकुमारः, पुं, (राज्ञः कुमारः ।) राजपुत्त्रः ।

तत्र वर्णनीयानि यथा, --
“कुमारे शस्त्रशास्त्रश्रीकलाबलगुणोच्छ्रयाः ।
पृष्ठ ४/११४
वाद्याली खुरली राजभक्तिः शुभगतादयः ॥”
इति कविकल्पलतायाम् १ स्तवकः ॥

राजकुष्माण्डः, पुं, वार्त्ताकी । इति जटा-

धरः ॥

राजकोषातकी, स्त्री, (राजप्रिया कोषातकी ।)

झिङ्गाकविशेषः । घिया तोरै इति हिन्दी-
भाषा ॥ तत्पर्य्यायः । हस्तिपर्णिका २ पीत-
पुष्पिका ३ धामार्गवः ४ केशफला ५ महाजाली
६ सपीतकः ७ । अस्या गुणाः । शीतत्वम् ।
ज्वरघ्नत्वम् । कफवातलत्वञ्च । इति मदनविनोदः ॥

राजखर्ज्जूरी, स्त्री, (राजप्रिया खर्ज्जूरी ।)

श्रेष्ठखर्ज्जूरी । पिण्डखर्ज्जूरिका । तत्पर्य्यायः ।
राजपिण्डा २ नृपपिण्डा ३ । अस्या गुणाः ।
गौल्यत्वम् । स्वादे हिमत्वम् । गुरुत्वम् । पित्त-
दाहार्त्तिश्वासभ्रमनाशित्वम् । वीर्य्यवृद्धिदत्वञ्च ।
इति राजनिर्घण्टः

राजगामि, [न्] त्रि, (राजानं गच्छतीति । गम्

+ णिनिः ।) राजसम्बन्धि । यथा, --
“अनृतञ्च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्ब्बन्धः समानि ब्रह्महत्यया ॥”
इति मानवे ११ अध्यायः ॥
“राजनि वा स्तेनादीनां परेषां मरणफलदोषा-
भिधानम् ।” इति कुल्लूकभट्टः ॥ अपि च ।
“अपुत्त्रस्य धनं पत्न्यभिगामि तदभावे मातृगामि
तदभावे भ्रातृगामि तदभावे भ्रातृपुत्त्रगामि
तदभावे सकुल्यगामि तदभावे बन्धुगामि तद-
भावे शिष्यगामि तदभावे सहाध्यायिगामि
तदभावे ब्राह्मणधनवर्ज्जं राजगामि ।” इति
दायभागग्रन्थधृतविष्णुवचनम् ॥

राजगिरिः, पुं, शाकभेदः । तत्पर्य्यायः । राजाद्रिः

२ राजशाकिनी ३ राजशाकनिका ४ । अस्य
गुणाः । रुच्यत्वम् । पित्तनाशित्वम् । शीतल-
त्वम् । स्थूलस्य तु अतिशीतलत्वम् । अतिरुच्य-
त्वञ्च । इति राजनिर्घण्टः ॥ (मगधदेशस्थः
पर्व्वतविशेषश्च ॥)

राजग्रीवः, पुं, (राजते इति । राज् + अच् ।

राजा दीप्तिशालिनी ग्रीवा यस्य ।) मत्स्य-
विशेषः । फलुइ इति भाषा । यथा, --
“फलकी स्याच्चित्रफली राजग्रीवो मदार्मदः ॥”
इति त्रिकाण्डशेषः ॥

राजघः, त्रि, तीक्ष्णः । इति त्रिकाण्डशेषः ॥

(राजानं हन्तीति । हन् + “राजघ उप-
संख्यानम् ।” ३ । २ । ५५ । इत्यस्य वार्त्तिकोक्त्या
कप्रत्ययेन साधु ।) राजहन्ता । यथा, --
“अनल्पदग्धारिपुरानलोज्ज्वलै-
र्निजप्रतापैर्व्वलयं ज्वलद्भुवः ।
प्रदक्षिणीकृत्य जयाय सृष्टया
रराज नीराजनया स राजघः ॥”
इति नैवधे । १ । १० ॥

राजचिह्नकं, क्ली, उपस्थः । इति शब्दचन्द्रिका ।

चिह्नानां स्त्रीपुंविभाजकानां राजा इति व्युत्-
पत्त्या सिद्वम् ॥

राजजम्बूः, स्त्री, (जम्बूनां राजा । राजदन्ता-

दित्वात् परनिपातः ।) पिण्डखर्ज्जूरम् । इति
मेदिनी ॥ महाजम्बूः । इति राजनिर्घण्टः ॥

राजजक्ष्मा [न्] पुं, क्षयरोगः । “यक्ष्यते पूज्यते

रोगराजत्वात् यक्ष्मा यक्ष क ङ महि अन्तः-
स्थादिः त्रासुसिसिति मन् चवर्गतृतीयादिरित्येके
तदा जक्ष भक्षहसनयोरित्यस्य रूपं राजयक्ष्म-
शब्दोऽप्यत्र ।” इत्यमरटीकायां भरतः ॥ (अस्य
विवरणन्तु राजयक्ष्मशब्दे द्रष्टव्यम् ॥)

राजतं, त्रि, (रजतस्य विकारः । रजत + “प्राणि-

रजतादिभ्योऽञ् ।” ४ । ३ । १५४ । इति
अञ् ।) रजतनिर्म्मितम् । यथा, --
“सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।
रजतस्य कथा वापि दर्शनं दानमेव वा ॥”
इति मात्स्ये १७ अध्यायः ॥
रजते, क्ली ॥ (यथा, गो० रामायणे । ३ । ४९ । १ ।
“तं तु सीता मृगं दृष्ट्वा वने काञ्चनसुप्रभम् ।
हेमराजतचित्राभ्यां पार्श्वाभ्यां समलङ्कृतम् ॥”)

राजतरुः, पुं, (तरूणां राजा । राजदन्तादित्वात्

परनिपातः ।) कर्णिकारवृक्षः । आरग्वधः ।
इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ६ । ५७ ।
“मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः
क्वाथैर्जयेन्मधुयुतैर्व्विविधैश्च लेहैः ॥”)

राजतरुणी, स्त्री, (राज्ञस्तरुणीव । सौन्दर्य्याति-

शय्यवत्त्वात् ।) पुष्पविशेषः । तत्पर्य्यायः ।
महासहा २ वर्णपुष्पः ३ अम्लानः ४ अम्लातकः
५ सुपुष्पः ६ सुवर्णपुष्पः ७ । अस्या गुणाः ।
कषायत्वम् । कफकारित्वम् । चक्षुष्यत्वम् ।
हर्षदत्वम् । हृद्यत्वम् । सुरभित्वम् । सुखवल्लभ-
त्वञ्च । इति राजनिर्घण्टः ॥

राजता, स्त्री, राजत्वम् । राज्ञो भाव इत्यर्थे राजन्

शब्दात् तल्प्रत्ययेन सिद्धा ॥ (यथा, कथासरि-
त्सागरे । ३६ । ६८ ।
“तेन मत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ ।
रत्नकूटं स्वकार्य्यार्थं नित्यस्निग्धा हि राजता ॥”)

राजतालः, पुं, (राज्ञस्ताल इव ।) गुवाकवृक्षः ।

इति शब्दरत्नावली ॥

राजतिमिशः, पुं, सुखाशः । इति हारावली । १८१ ॥

राजत्वं, क्ली, राजता । राज्ञो भाव इत्यर्थे राजन्

शब्दात् त्वप्रत्ययेन निष्पन्नम् ॥ (यथा, कथा-
सरित्सागरे । २० । १९१ ।
“क्वच राजत्वमित्युक्त्रा स राजा निषिषेध तत् ॥”)

राजदण्डः, पुं, (राज्ञो दण्डः ।) राजशासनम् ।

यथा, --
“ऊनैकादशवर्षस्य पञ्चवर्षाधिकस्य च ।
चरेद्गुरुः सुहृद्वापि प्रायश्चित्तं विशुद्धये ॥
ततो न्यूनतरस्यास्य नापराधो न पातकम् ।
न चास्य राजदण्डोऽपि प्रायश्चित्तं न विद्यते ॥”
इति प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् ॥

राजदन्तः, पुं, दन्तानां राजा । (“राजदन्तादिषु

परम् ।” २ । २ । ३१ । इति परनिपातः ।)
उपरिश्रेणीस्थमध्यवर्त्तिदन्तद्वयम् । यथा, --
“राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् ॥”
इति हेमचन्द्रः ॥

राजदेशीयः, पुं, (ईषदूनो राजा । राजन् +

“ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।” ५ । ३ । ६७ ।
इति देशीयर् ।) राजदेश्यः । राजकल्पः ।
इति व्याकरणम् ॥

राजधत्तूरकः, पुं, (धत्तूरकाणां राजा । राज-

दन्तादित्वात् परनिपातः ।) बृहद्धुस्तूरः । इति
कश्चित् राजनिर्घण्टः ॥ तस्य पर्य्यायः राज-
धुस्तूरशब्दे द्रष्टव्यः ॥

राजधर्म्मः, पुं, (राज्ञो धर्म्मः ।) राज्ञः कर्त्तव्यं

कर्म्म । यथा, --
“राजधर्म्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्त्रियेण यथाविधि ।
सर्व्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥
अराजके हि लोकेऽस्मिन् सर्व्वतो विद्रुते भयात् ।
रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः ॥
इन्द्रानिलयमार्क्काणामग्नेश्च वरुणस्य च ।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्म्मितो नृपः ।
तस्मादभिभवत्येष सर्व्वभूतानि तेजसा ॥
तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च ।
न चैनं भूवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥
सोऽग्निर्भवति वायुश्च सोऽर्क्कः सोमः स धर्म्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥
कार्य्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ च तत्त्वतः ।
कुरुते धर्म्मसिद्ध्यर्थं विश्वरूपं पुनःपुनः ॥
यस्य प्रसादे पद्मा श्रीर्व्विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्व्वतेजोमयो हि सः ॥
तं यस्तु द्वेष्टि संमोहात् स विनश्यत्यसंशयम् ।
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥
तस्माद्धर्म्मं यमिष्टेषु स व्यवस्येन्नराधिपः ।
अनिष्टञ्चाप्यनिष्टेषु तं धर्म्मं न विचालयेत् ॥
तस्यार्थे सर्व्वभूतानां गोप्तारं धर्म्ममात्मजम् ।
ब्रह्मतेजोमयं दण्डमसृजत् पूर्व्वमीश्वरः ॥
तस्य सर्व्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते स्वधर्म्मान्न चलन्ति च ॥
तं देशकालौ शक्तिञ्च विद्याञ्चावेक्ष्य तत्त्वतः ।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्त्तिषु ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णामाश्रमाणाञ्च धर्म्मस्य प्रतिभूः स्मृतः ॥
दण्डः शास्ति प्रजाः सर्व्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्त्ति दण्डं धर्म्मं विदुर्ब्बुधाः ॥
समीक्ष्य स धृतः सम्यक् सर्व्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्व्वतः ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
शूले मत्स्यानिवापक्ष्यन् दुर्ब्बलान् बलवत्तराः ॥
पृष्ठ ४/११५
अद्यात् काकः पुरोडाशं श्वावलिह्याद्धविस्तथा ।
स्वाम्यञ्च न स्यात् कस्मिंश्चित् प्रवर्त्तेताधरोत्तरम् ॥
सर्व्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
दण्डस्य हि भयात् सर्व्वं जगद्भोगाय कल्पते ॥
देवदानवगन्धर्व्वा रक्षांसि पतगोरगाः ।
तेऽपि भोगाय कल्पन्ते दण्डेणैव निपीडिताः ॥
दुष्येयुः सर्व्ववर्णाश्च भिद्येरन् सर्व्वसेतवः ।
सर्व्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्य कारिणं प्राज्ञं धर्म्मकामार्थकोविदम् ॥
तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते ।
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥
दण्डो हि सुमहत्तेजो दुर्द्धरश्चाकृतात्मभिः ।
धर्म्माद्बिचलितं हन्ति नृपमेव सबान्धवम् ॥
ततो दुर्गञ्च राष्ट्रञ्च लोकञ्च सचराचरम् ।
अन्तरीक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥
शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा ।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्य्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥
अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥
स्वे स्वे धर्म्मे निविष्टानां सर्व्वेषामनुपूर्ब्बशः ।
वर्णानामाश्रमाणाञ्च राजा सृष्टोऽभिरक्षिता ॥
तेन यद्यत् सभृत्येन कर्त्तव्यं रक्षता प्रजाः ।
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥
ब्राह्मणान् पर्य्युपासीत प्रातरुत्थाय पार्थिवः ।
त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषाञ्च शासने ॥
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥
वेणो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ।
सुदासो यवनश्चैव सुमुखो निमिरेव च ॥
पृथुस्तु विनयाद्राज्यं प्राप्तवान् मनुरेव च ।
कुवेरञ्च धनैश्वर्य्यं ब्राह्मण्यञ्चैव गाधिजः ॥
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीम् ।
आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः ॥
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्ज्जयेत् ॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यतेऽर्थधर्म्माभ्यां क्रोधजेष्वात्मनैव तु ॥
मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः ।
तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥
पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम् ।
वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥
द्वयोरप्येतयोर्म्मूलं यं सर्व्वे कवयो विदुः ।
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥
पानमक्षास्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥
दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा ॥
सप्तकस्यास्य वर्गस्य सर्व्वत्रैवानुषङ्गिणः ।
पूर्ब्बं पूर्ब्बं गुरुतरं विद्याद्ब्यसनमात्मवान् ॥
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोऽधो व्रजति स्वर्य्यात्यव्यसनी मृतः ॥
मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्-
गतान् ।
सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षितान् ॥
अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् ।
विशेषतोऽसहायेन किन्तु राज्यं महोदयम् ॥
तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥
तेषां स्वं समभिप्रायमुपलभ्य पृथक् पृथक् ।
समस्तानाञ्च कार्य्येषु विदध्याद्धृतमात्मनः ॥
सर्व्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥
नित्यं तस्मिन् समाश्वस्तः सर्व्वकार्य्याणि निःक्षि-
पेत् ।
तेन सार्द्धं विनिश्चित्य ततः कर्म्म समारभेत् ॥
अन्यानपि प्रकुर्व्वीत शुचीन् प्राज्ञानवस्थितान् ।
सम्यगर्थसमाहर्त्तॄनमात्यान् सुपरीक्षितान् ॥
निर्व्वर्त्तेतास्य यावद्भिरिति कर्त्तव्यता नृभिः ।
तावतोऽतन्द्रितान् दक्षान् प्रकुर्व्वीत विचक्ष-
णान् ॥
तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीनाकरकर्म्मान्ते भीरूनन्तर्न्निवेशने ॥
दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥
अनुरक्तः शुचिर्द्दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर्व्वाग्मी दूतो राज्ञः प्रशस्यते ॥
आमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोषराष्ट्रे च दूते सन्धिविपर्य्ययौ ॥
दूत एव हि सन्धत्ते भिनत्त्येव च संहतान् ॥
दूतस्तत् कुरुते कर्म्म भिद्यन्ते येन वा न वा ॥
स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
आकारमिङ्गितं चेष्टा भृत्येषु च चिकीर्षितम् ॥
बुद्ध्वा च सर्व्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥
जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम् ।
रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥
सर्व्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बहुगुण्येन गिरिदुर्गं विशिष्यते ॥
त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्त्ताश्रयाप्सराः ।
त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः ।
शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥
तत् स्यादायुधसम्पन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥
तस्य मध्ये सुपर्य्याप्तं कारयेद्गृहमात्मनः ।
गुप्तं सर्व्वर्त्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ * ॥
तदध्यास्योद्वहेद्भार्य्यां सवर्णां लक्षणान्विताम् ।
कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥
पुरोहितञ्च कुर्व्वीत वृणुयादेव चर्त्विजम् ।
तेऽस्य गृह्याणि कर्म्माणि कुर्य्युर्व्वैतानिकानि च ॥
यजेत राजा क्रतुभिर्व्विविधैराप्तदक्षिणैः ।
धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ।
स्याच्चाम्नायपरो लोके वर्त्तेत पितृवन् नृषु ॥
अध्यक्षान् विविधान् कुर्य्यात् तत्र तत्र विप-
श्चितः ।
तेऽस्य सर्व्वाण्यवेक्षेरन् नृणां कार्य्याणि कुर्ष्व-
ताम् ॥
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् ।
नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥
न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥
न स्कन्दते न व्यथते न विनश्यति कर्हिचित् ।
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥
पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥
समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः ।
न निवर्त्तेत संग्रामात् क्षात्त्रं धर्म्ममनुस्मरन् ॥
संग्रामेष्वनिवर्त्तित्वं प्रजानाञ्चैव पालनम् ।
शुश्रूषा ब्राह्मणानाञ्च राज्ञां श्रेयस्करं परम् ॥
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥
न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥
न च हन्यात् स्थलारूढं न क्लीवं न कृता-
ञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षतम् ।
न भीतं न परावृत्तं सतां धर्म्ममनुस्मरन् ॥
यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्त्तुर्यद्दष्कृतं किञ्चित्तत् सर्व्वं प्रतिपद्यते ॥
यच्चास्य सुकृतं किञ्चिदमुत्रार्थमुपार्ज्जितम् ।
भर्त्ता तत् सर्व्वमादत्ते परावृत्तहतस्य तु ॥ * ॥
पृष्ठ ४/११६
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।
सर्व्वद्रव्याणि कुप्यञ्च यो यज्जयति तस्य तत् ॥
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः ।
राज्ञा च सर्व्वयोधेभ्यो दातव्यमपृथग्जितम् ॥
एषोऽनुपस्कृतः प्रोक्तो योधधर्म्मः सनातनः ।
अस्माद्धर्म्मान्न च्यवेत क्षत्त्रियो घ्नन् रणे रिपून् ॥
अलब्धञ्चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निःक्षिपेत् ॥
एतच्चतुर्व्विधं विद्यात् पुरुषार्थप्रयोजनम् ।
अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्द्रितः ॥
अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
रक्षितं वर्द्धयेद्वृद्ध्या वृद्धं दानेन निःक्षिपेत् ॥ *
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्य्यो नित्यं छिद्रानुसार्य्यरेः ॥
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
तस्मात् सर्व्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥
अमाययैव वर्त्तेत न कथञ्चन मायया ।
बुद्ध्येतारिप्रयुक्ताञ्च मायां नित्यं स्वसंवृतः ॥
नास्य च्छिद्रं परो विद्याद्बिद्याच्छ्रिद्रं परस्य तु ।
गूहेत् कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
वकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
तानानयेद्बशं सर्व्वान् सामादिभिरुपक्रमैः ॥
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
द्दण्डेनैव प्रसह्यैताञ्छनकैर्व्वशमानयेत् ॥
सामादीनामुपायानां चतुर्णामपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥
यथोद्धरति निर्द्दाता कक्षं धान्यञ्च रक्षति ।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥
राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् ।
सुसंगृहोतराष्ट्रो हि पार्थिवः सुखमेधते ॥
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।
तथा ग्रामशतानाञ्च कुर्य्याद्राष्ट्रस्य संग्रहम् ॥
ग्रामस्याधिपतिं कुर्य्याद्दशग्रामपतिं तथा ।
विंशतीशं शतेशञ्च सहस्रपतिमेव च ॥
ग्रामे दोषान् समुत्पन्नान् ग्रामिकः शनकैः
स्वयम् ।
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिनम् ॥
विंशतीशस्तु तत्सर्व्वं शतेशाय निवेदयेत् ।
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥
दशो कुलन्तु भुञ्जीत विंशी पञ्च कुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥
तेषां ग्राम्याणि कार्य्याणि पृथक् कार्य्याणि चैव
हि ।
राज्ञोऽन्यः सचिवः स्निग्धस्तानिपश्येदतन्द्रितः ॥
नगरे नगरे चैकं कुर्य्यात् सर्व्वार्थचिन्तकम् ।
उच्चैः स्थानं घोररूपं नक्षत्राणामिव ग्रहम् ।
सताननुपरिक्रामेत् सर्व्वानेव सदा स्वयम् ।
तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः ॥
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥
ये कार्य्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ।
तेषां सर्व्वस्वमादाय राजा कुर्य्यात् प्रवासनम् ॥
राजकर्म्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्म्मानुरूपतः ॥
पणो देयोऽवकृष्टस्य षडूत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु
मासिकः ॥ * ॥
क्रयविक्रयमध्वानं भक्तञ्च सपरिव्ययम् ।
योगक्षेमञ्च संप्रेक्ष्य बणिजो दापयेत् करान् ॥
यथा फलेन युज्येत राजा कर्त्ता च कर्म्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥
यथाल्पाल्पमदन्त्याद्यं वार्य्योको वत्स षट्पदाः ।
तथाल्पाल्पो गृहीतव्यो राष्ट्राद्राज्ञाब्दिकः
करः ॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानाञ्च मूलपुष्पफलस्य च ॥
पत्रशाकतृणानाञ्च वैदलस्य च चर्म्मणाम् ।
मृण्मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य च ॥
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।
न च क्षुधास्य संसीदेत् श्रोत्रियो विषये वसन् ॥
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥
श्रुतवित्ते विदित्वास्य वृत्तिं धर्म्म्यां प्रकल्पयेत् ।
संरक्षेत् सर्व्वतश्चैनं पिता पुत्त्रमिवौरसम् ॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्म्ममन्वहम् ।
तेनायुर्व्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥
यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥
कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः ।
एकैकं कारयेत् कर्म्म मासि मासि महीपतिः ॥
नोच्छिन्द्यादात्मनो मूलं परेषाञ्चातितृष्णया ।
उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीड-
येत् ॥
तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य मही-
पतिः ।
तीक्ष्णश्चैव मृदुश्चैव राजा भवति सम्मतः ॥
अमात्यमुख्यं धर्म्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेदासने तस्मिन खिन्नः कार्य्येक्षणे नृणाम् ॥
एवं सर्व्वं विधायेदमिति कर्त्तव्यमात्मनः ।
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥
विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥
क्षित्त्रियस्य परो धर्म्मः प्रजानामेव पालनम् ।
निर्द्दिष्टफलभोक्ता हि राजा धर्म्मेण युज्यते ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत् स शुभां सभाम् ॥
तत्र स्थितः प्रजाः सर्व्वाः प्रतिनन्द्य विसर्ज्जयेत् ।
विसृज्य च प्रजाः सर्व्वा मन्त्रयेत् सह मन्त्रिभिः ॥
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
सकृत्स्नां पृथिवीं भुङ्क्ते कोषहीनोऽपि
पार्थिवः ॥
जडमूकान्धवधिरांस्तिर्य्यग्योनान् वयोगतान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥
भिन्दन्त्यवमता मन्त्रं तैर्य्यग्योनास्तथैव च ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥
मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्म्मकामार्थान् सार्द्धं तैरेक एव वा ॥
परस्परविरुद्धानां तेषाञ्च समुपार्ज्जनम् ।
कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम् ॥
दूतसंप्रेषणञ्चैव कार्य्यशेषं तथैव च ।
अन्तःपुरप्रचारञ्च प्रणिधीनाञ्च चेष्टितम् ॥
कृत्स्नं चाष्टबिधं कर्म्म पञ्चवर्गञ्च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥
मध्यमस्य प्रचारञ्च विजिगीषोश्च चेष्टितम् ।
उदासीनप्रचारञ्च शत्रोश्चैव प्रयत्नतः ॥ * ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः
स्मृताः ॥
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥
अनन्तरमरिं विद्यादरिसेविनमेव च ।
अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥
तान् सर्व्वानभिसन्दध्यात् सामादिभिरुपक्रमैः ।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥
सन्धिञ्च विग्रहञ्चैव यानमासनमेव च ।
द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥
आसनञ्चैव यानञ्च सन्धिं विग्रहमेव च ।
कार्य्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥
सन्धिन्तु द्विविधं विद्याद्राजा विग्रहमेव च ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥
समानयानकर्म्मा च विपरीतस्तथैव च ।
तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः ॥
स्वयंकृतश्च कार्य्यार्थमकाले काल एव वा ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥
एकाकिनश्चात्ययिके कार्य्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्बिविधं यानमुच्यते ॥
क्षीणस्य चैव क्रमशो दैवात् पूर्ब्बकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥
बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये ।
द्विविधं कीर्त्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥
अथसम्पादनार्थञ्च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ * ॥
यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥”
पृष्ठ ४/११७
तदात्वे तत्काले ।
“यदा प्रहृष्टा मन्येत सर्व्वास्तु प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतञ्च तदा यायाद्रिपुं प्रति ॥
यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥
मन्येतारिं यदा राजा सर्व्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत् कार्य्यमात्मनः ॥
यदा परबलानान्तु गभनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं धार्म्मिकं बलिनं नृपम् ॥
निग्रहं प्रकृतीनाञ्च कुर्य्याद्योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्व्वयत्नैर्गुरुं यथा ॥
यदि तत्रापि संपश्येत् दोषं संश्रयकारितम् ।
सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥
सर्व्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥
आयतिं सर्व्वकार्य्याणां तदात्वञ्च विचारयेत् ।
अतीतानाञ्च सर्व्वेषां गुणदोषौ च तत्त्वतः ॥
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्य्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥
यथैनं नाभिसन्दध्युर्म्मित्रोदासीनशत्रवः ।
तथा सर्व्वं संविदध्यादेष सामासिको नयः ॥
यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायादरिपुरं शनैः ॥
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः ।
फालगुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् ।
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥
कृत्वा विधानं मूले तु यात्रिकञ्च यथाविधि ।
उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय च ॥
संशोध्य त्रिविधं मार्गं षड्विधञ्च बलं स्वकम् ।
साम्परायिककल्पेन यायादरिपुरं शनैः ॥
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥
यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥
सेनापतिबलाध्यक्षौ सर्व्वदिक्षु निवेशयेत् ।
यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद्दिशम् ॥
गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ * ॥
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥
स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।
वृक्षनुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥
कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालान् शूरसेनजान् ।
दीर्घान् लघूंश्चैव नरानग्रानीकेषु योधयेत् ॥
प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक् परीक्षयेत् ।
चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥
उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥
साम्ना दानेन भेदेन समस्तैरथवा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्ज्जयेत् ॥
त्रयाणामप्युपायानां पूर्व्वोक्तानामसम्भवे ।
तथा युध्येत संयत्तो विजयेत रिपून् यथा ॥ * ॥
जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्म्मिकान् ।
प्रदद्यात् परिहारांश्च ख्यापयेदभयानि च ॥
सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत्तत्र तद्बश्यं कुर्य्याच्च समयक्रियाम् ॥
प्रमाणानि च कुर्व्वीत तेषां धर्म्म्यान् यथो-
दितान् ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥
आदानमप्रियकरं दानञ्च प्रियकारकम् ।
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥
सर्व्वं कर्म्मेदमायत्तं विधाने दैवमानुषे ।
तयोर्द्दैवमचिन्त्यन्तु मानुषे विद्यते क्रिया ॥
सह वापि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥
पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले ।
मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥”
आक्रन्दः पार्ष्णिग्राहस्य नियामको राजा ।
“हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ * ॥
धर्म्मज्ञञ्च कृतज्ञञ्च तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥
प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च ।
कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः ॥
आर्य्यता पुरुषज्ञानं शौर्य्यं करुणवेदिता ।
स्थौललक्ष्यञ्च सततमुदासीनगुणोदयः ॥”
स्थौललक्ष्यं बहुप्रदत्वम् ।
“क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
सह सर्व्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांञ्च वियुक्तांश्च सर्व्वोपायान् सृजेद्बुधः ॥
उपेतारमुपेयञ्च सर्व्वोपायांश्च कृत्स्नशः ।
एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥”
उपेतारं आत्मानम् । उपेयं प्राप्तव्यम् ॥ * ॥
“एवं सर्व्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।
व्यायामाप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥
तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः ।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्व्विषापहेः ॥
विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेशाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥
एवं प्रयत्नं कुर्व्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्व्वालङ्कारकेषु च ॥
भुक्तवात् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्य्याणि चिन्तयेत् ॥
अलङ्कृतश्च संपश्येदायुधीयं पुनर्ज्जनम् ।
वाहनानि च सर्व्वाणि शस्त्राण्याभरणानि च ॥
सन्ध्याञ्चोपास्य शृणुयादन्तर्व्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनाञ्चैव प्रणिधीनाञ्च चेष्टितम् ॥
गत्वा कक्षान्तरं त्वन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद्भोजनार्थञ्च स्त्रीवृतोऽन्तःपुरं पुनः ॥
तत्र भुक्त्वा पुनः किञ्चित्तूर्य्यघोषैः प्रहर्षितः ।
संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्व्वमेतत्तु भृत्येषु विनियोजयेत् ॥”
इति मानवे ७ अध्यायः ॥ * ॥
कालीकापुराणोक्तराजधर्म्मः ८५ । ८६ अध्या-
ययोः द्रष्टव्यः । महाभारतोक्तराजधर्म्मः शान्ति-
पर्व्वणि द्रष्टव्यः । पद्मपुराणोक्तराजधर्म्मः स्वर्ग-
खण्डे १३८ अध्याये द्रष्टव्यः ॥

राजधानकं, क्ली, (धीयतेऽत्रेति । धा + ल्युट् ।

ततः कन् । राज्ञां धानकं नगरम् ।) राज-
पुरम् । इति शब्दरत्नावली ॥

राजधानी, स्त्री, (धीयतेऽस्यामिति । धा + अधि-

करणे ल्युट् । ङीप् । राज्ञां धानी नगरी ।)
राजधानिका । तत्पर्य्यायः । कोट्टः २ राज-
धानकम् ३ । इति शब्दरत्नावली ॥ स्कन्धा-
वारः ४ । इति हेमचन्द्रः ॥ (यथा, रघुः । २ । ७० ।
“तौ दम्पती स्वां प्रति राजधानीं
प्रस्थापयामास वशी वशिष्ठः ॥”)

राजधान्यं, क्ली, (राजप्रियं धान्यम् ।) श्यामाकः ।

इति राजनिर्घण्टः ॥ (यथा, बृहत्संहिता-
याम् । १५ । १२ ।
“त्वाष्ट्रेभूषणमणिरागलेख्यगान्धर्व्वगन्धयुक्तिज्ञाः ।
गणितपटुतन्तुवायाः शालाक्या राजधान्यानि ॥”)

राजधुस्तूरकः, पुं, (धुस्तूरकाणां राजा । राजदन्ता-

दित्वात् परनिपातः ।) बृहद्धुस्तूरः । तत्पर्य्यायः ।
राजधूर्त्तः २ महाशठः ३ निस्त्रैणपुष्पकः ४
भ्रान्तः ५ राजस्वर्णः ६ । इति राजनिर्घण्टः ॥
अस्य गुणाः धुस्तूरशब्दे द्रष्टव्याः ॥

राजनामा, [न्] पुं, (राज्ञो नाम नाम यस्य ।)

पटोलः । इति राजनिर्घण्टः ॥

राजनीतिः, स्त्री, (राज्ञां नीतिः ।) राज्ञां नयः ।

यथा, चाणक्यपण्डितकृतप्रथमः श्लोकः ।
“नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।
सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥”
सा यथा, --
“गदितं वलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः ।
प्राह धर्म्मार्थसंयुक्तं प्रह्नादो वाक्यमुत्तमम् ॥
यदायत्यां क्षमं राजन् ! यद्धितं भुवनस्य ह ।
अविरोधेन धर्म्मस्य अर्थस्योपार्ज्जनञ्च यत् ॥
सर्व्वसत्वानुगमनं कामवर्गफलञ्च यत् ।
पृष्ठ ४/११८
परत्रेह च थच्छ्रेयः पुत्त्र तत् कर्म्म आचर ॥
यथा श्लाघां प्रयास्यद्य यथा कीर्त्तिर्भवेत्तव ।
यथा नापयशोयोगस्तथा कुरु महामते ॥
एतदर्थं श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः ।
येनैति हि गृहेऽस्माकं निवसन्ति सुनिर्व्वृताः ।
वृद्धो ज्ञातिर्गुणा विप्रः कीर्त्तिश्च यशसा सह ॥
तस्माद्यथा ते निवसन्ति पुत्त्र-
राज्यस्थितस्येह कुलोत्तमाद्याः ।
तथा यतस्वामलसत्त्वचेष्टया
यथा यशस्वी भवितासि लोके ॥
भूम्यां सदा ब्राह्मणभूषितायां
क्षेत्रान्वितायां दृढवापितायाम् ।
शुश्रूषणासक्तसमुद्भवायां
ऋद्धिं प्रयान्तीह नराधिपेन्द्राः ॥
तस्माद्द्बिजाग्र्याः श्रुतिशास्त्रयुक्ता
नराधिपांस्ते प्रतियाजयन्ते ।
दिव्यैर्यजन्तु क्रतुभिर्द्विजेन्द्रा
यज्ञाग्निधूमो न नृपस्य शान्तिः ॥
तपोऽध्ययनसम्पन्ना याजनाध्यापने रताः ।
सन्तु विप्रा बले पूज्यास्त्वत्तोऽनुज्ञामवाप्य हि ॥
स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः ।
क्षत्त्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्म्मिणः ॥
यज्ञाध्ययनसम्पन्ना दातारः कृषिकारिणः ।
पाशुपाल्यं प्रकुर्व्वन्तु वैश्या विपिनजीविनः ॥
ब्राह्मणक्षत्त्रियविशां सदा शुश्रूषणे रताः ।
शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥
यदा वर्णाः स्वधर्म्मस्था भवन्ति दितिजेश्वर ! ।
धर्म्मवृद्धिस्तदा स्याद्बै धर्म्मवृद्धौ नृपोदयः ॥
तस्माद्वर्णा सधर्म्मस्थास्त्वया कार्य्याः सदा बले ! ।
तद्वृद्धौ भवतो वृद्धिस्तद्धानौ हानिरुच्यते ॥
इत्थं वचः श्राव्य महासुरेन्द्रो
बलिं महात्मा स बभूव तूष्णीम् ।
ततो यदाज्ञापयसे करिष्ये
इत्थं बलिः प्राह वचो महर्षे ॥”
इति वामने ७१ अध्यायः ॥ * ॥
अपि च ।
“एवं दत्त्वा ततो राज्यं मूर्द्ध्नि चाघ्राय धर्म्मवित् ।
उवाच मधुरं वाक्यं पुत्त्रं पुत्त्रवतां वरः ॥
राज्यस्थेनापि ते पुत्त्र कर्त्तव्यं शृणु तन्मम ।
यदीच्छेत् परमं धर्म्मं पितॄणां तारणं तथा ॥
दातव्योऽर्त्तिर्न कर्त्तव्या हन्तव्या परदारिकाः ।
बालवाताश्च हन्तव्या हन्तव्या स्त्रीविघातकाः ॥
मा लोभं परद्रव्येषु अन्यायोपार्ज्जितेषु च ।
न चिरं तिष्ठते क्वापि सर्व्वे मान्याः कदाचन ॥
रक्षणीयश्च ते देशः कुलन्यायवशार्ज्जितः ।
नित्योद्युक्तेन स्थातव्यममात्यवचनं कुरु ॥
अमात्यो यद्वचो ब्रूयात् पुत्त्र कार्य्यविमर्शनम् ।
अवश्यमेव कर्त्तव्यं शरीरपरिरक्षणम् ॥
प्रजा येन प्रमोदन्ति येन तुष्यन्ति ब्राह्मणाः ।
एवं ते पुत्त्र कर्त्तव्यं मम प्रियहितैषिणा ॥
सप्त व्यसनं वर्ज्ज्येत दोषो राज्ञस्तु तन्महत् ।
येषु राजा विनश्येत सम्पन्नोऽपि महाद्युतिः ॥
वज्जयेत सुरापानं मृगया वर्ज्जयेत् सदा ।
वाक्यं रूक्षं न वक्तव्यं वृथा यावत् कदाचन ॥
राजगुह्यं न वक्तव्यं दूतभेदं विवर्ज्जयेत् ।
वर्ज्जयेदतिपारुष्यं असद्भिश्च समागमम् ॥
अर्थदूषणकञ्चैव न कर्त्तव्यं कदाचन ।
अमात्यं नाप्रियं ब्रूयाद्यदीच्छेद्राजकर्म्मणि ॥
नाहं निवारणीयस्ते गमनाय पथे स्थितः ।
एतन्मे क्रियतां शीघ्रं यदीच्छसि मम प्रियम् ॥
ततः पितुर्व्वचः श्रुत्वा राजपुत्त्रो यशस्विनः ।
उभौ तु पादौ संगृह्य कारुण्यं प्रत्युवाच तम् ॥”
इत्यादि श्रीवराहपुराणे भगवच्छ्रास्त्रे शौकरवे
तीर्थमाहात्म्ये आदित्यवरप्रदानमृगजम्बुको-
पाख्यानं नामाध्यायः ॥ * ॥
अन्यच्च ।
मनुरुवाच ।
“राज्ञोऽभिषिक्तमात्रस्य किंनु कृत्यतमं भवेत् ।
एतत्ं सर्व्वं समाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥
मत्स्य उवाच ।
अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन ।
सहायावरणं कार्य्यं तत्र राज्यं प्रतिष्ठितम् ॥
यदस्याल्पतरं कर्म्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किन्नु राज्यं महत् पदम् ॥
तस्मात् सहायान् वरयेत् कुलीनान् नृपतिः
स्वयम् ।
शूरान् कुलीनान् जातीयान् बलयुक्तान् श्रिया-
न्वितान् ॥
रूपसत्त्वगुणोपेतान् सम्मतान क्षमया युतान् ।
क्लेशक्षमान् महोत्साहान् धर्म्मज्ञांश्च प्रियं-
वदान् ॥
हितोपदेशकालज्ञान् स्वामिभक्तान् यशो-
ऽर्थिनः ।
एवंविधान् सहायांश्च शुभकर्म्मसु योजयेत् ॥
गुणहीनानपि सदा विज्ञाय नृपतिः स्वयम् ॥
कर्म्मस्वेव नियुञ्जीत यथायोग्येषु भारत ! ।
कुलीनः शीलसम्पन्नो धनुर्व्वेदविशारदः ।
हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषणः ॥
निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते ।
कृतज्ञः कर्म्मणा शूरस्तथा क्लेशसहो ऋजुः ॥
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ।
राज्ञा सेनापतिः कार्य्यो ब्राह्मणः क्षत्त्रियो
यथा ॥
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।
चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥
यथोक्तवादी दूतः स्याद्देशभाषाविशारदः ।
शक्तः क्लेशसहो वाग्मी देशकालविभाषितः ॥
विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः ।
वक्ता नयस्य यः काले स दूतो भूपतेर्भवेत् ॥
प्रांशवो व्यायताः शूराः दृढभक्ता निराकुलाः ।
राज्ञा तु रक्षिणः कार्य्याः सदा क्लेशसहा
हिताः ॥
अनाहार्य्योऽनृशंसश्च दृढभक्तिश्च पार्थिवे ।
ताम्बूलधारी भवति नारी वाव्यथ तद्गुणा ॥
षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः ।
सन्धिविग्रहिकः कार्य्यो राज्ञा नयविशारदः ॥
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।
कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादेष रक्षिता ॥
सुरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः ।
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्त्तितः ॥
शूरश्च बलयुक्तश्च गजाश्वरथकोविदः ।
धनुर्धारी भवेद्राज्ञः सर्व्वक्लेशसहः शुचिः ॥
निमित्तशकुनज्ञानहयशिक्षाविशारदः ।
हयायुर्व्वेदतत्त्वज्ञो भूवि भागविशेषवित् ॥
स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः ।
बलाबलज्ञो रथिकः स्थिरदृष्टिः प्रियंवदः ॥
शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ।
अनाहार्य्यः शुचिर्दक्षश्चिकित्सितविदांवरः ॥
सूदशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ।
सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।
सर्व्वे महानसे धार्य्या लुप्तकेशनखा जनाः ॥
समः शत्रौ च मित्रे च धर्म्मशास्त्रविशारदः ।
विप्रमुख्यः कुलीनश्च धर्म्माधिकरणो भवेत् ॥
कार्य्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ।
सर्व्वदेशाक्षराभिज्ञः सर्व्वशास्त्रविशारदः ॥
लेखकः कथितो राज्ञः सर्व्वाधिकरणेषु वै ।
शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान्
समान् ।
अक्षरान् वै लिखेत् यस्तु लेखकः स वरःस्मृतः ॥
उपायवाक्यकुशलः सर्व्वशास्त्रविशारदः ।
बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥
वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् ।
अनाहार्य्यो नृपे भक्तो लेखकः स्याद्भृगूत्तम ॥
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ।
धर्म्माधिकरणे कार्य्या जनाह्वानकरा नराः ।
एवंविधास्तथा कार्य्या राज्ञा दौवारिका जनाः ।
लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् ॥
विज्ञाता फल्गुसाराणामनाहार्य्यः शुचिः सदा ।
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥
आयद्वारेषु सर्व्वेषु धनान्यक्षसमा नराः ।
व्ययद्वारेषु च तथा कर्त्तव्या पृथिवीक्षिता ॥
परम्परागतो यः स्यादष्टाङ्गे तु चिकित्सिते ।
अनाहार्य्यः स वैद्यः स्याद्धर्म्मात्मा च कुलोद्गतः ॥
प्राणाचार्य्यः स विज्ञेयो वचनं तस्य भूभुजः ।
राजन् राज्ञा सदा कार्य्यं यथाकार्य्यं पृथग्-
जनैः ॥
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ।
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥
एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः ।
गजारोहो नरेन्द्रस्य सर्व्वकर्म्मणि शस्यते ॥
हयशिक्षाविधानज्ञस्तच्चिकित्सितपारगः ।
अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ॥
अनाहार्य्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ।
दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्व्वकर्म्मसु ॥
वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ।
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः ॥
पृष्ठ ४/११९
यन्त्रमुक्त पाणिमुक्ते अमुक्ते मुक्तधारिते ।
अस्त्राचार्य्यो निरुद्बेगः कुलशश्च विशिष्यते ॥
वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः ।
राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥
एवं सप्ताधिकारेषु पुरुषाः सप्त तेऽपरे ।
पञ्च शब्दाधिकरणाः पुरुषाः सप्त तेऽपरम् ॥
अन्तःपुरचराः कार्य्या राज्ञा सर्व्वेषु कर्म्मसु ।
स्थापनाजातितत्त्वज्ञः सततं प्रतिजाग्रता ॥
राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ।
कर्म्माण्यपरिमेयाणि राज्ञां भृगुकुलोद्भव ॥
उत्तमाधममध्यानि बुद्ध्वा कर्म्माणि पार्थिवः ।
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥
नरकर्म्मविपर्य्यासाद्राजा नाशमवाप्नुयात् ।
नियोगं पौरुषं भक्तिं श्रुतं शौर्य्यं कुलं नयम् ॥
ज्ञात्वा वृत्तिर्व्विधातव्या पुरुषाणां महीक्षिता ।
पुरुषान्तरविज्ञाने तत्त्वसारनिबन्धनात् ॥
बहुभिर्म्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक् ।
मंन्त्रिणामपि नो कुर्य्यान्मन्त्रिमन्त्रप्रकाशनम् ॥
क्वचित् कस्यचिद्बिश्वासो भवतीह सदा नृणाम् ।
निश्चयश्च सदा मन्त्रे कार्य्य एकेन शूरिणा ॥
भवेद्वा निश्चयावाप्तिः परबुद्ध्यनुजीवनात् ।
एकस्यैव महीभर्त्तुर्भूयः कार्य्यो विनिश्चयः ॥
ब्राह्मणान् पर्य्युपासीत त्रयीं नाम सुनिश्चिताम् ।
नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः ।
समग्रां वशगां कुर्य्यात् पृथिवीं नात्र संशयः ॥
बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः ।
वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥
त्रैविद्येभ्यस्त्रयीविद्यां दण्डनीतिञ्च शाश्वतीम् ।
आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः ॥
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ।
यजेत राजा क्रतुभिर्व्वहुभिश्चाप्तदक्षिणैः ।
धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ।
स्यात् स्वाध्यायपरो लोके वर्त्तेत पितृबन्धुषु ॥
आवृत्तानां गुरुकुलात् द्विजानां पूजको भवेत् ।
नृपाणामक्षयो ह्येष विधिर्ब्राह्मो विधीयते ॥
ततः स्तेनानवामित्रा हरन्ति न च नश्यति ।
तस्माद्राज्ञा विधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥
समोत्तमाधमै राजा ह्याहूय पालयेत् प्रजाः ।
न निवर्त्तेत संग्रामामात् क्षत्त्रव्रतमनुस्मरन् ॥
संग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनम् ।
शुश्रूषा ब्राह्मणानाञ्च राजा निश्रेयसं परम् ॥
कृपणानाञ्च वृद्धानामातुराणाञ्च रोगिणाम् ।
योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ॥
वर्णाश्रमव्यवस्थानं तथा कार्य्यं विशेषतः ।
स्वधर्म्मप्रच्युतान् राजा स्वधर्म्म स्थापयेत्तथा ॥
आश्रमे च यथाकार्य्यं तैलभाजनभोजनम् ।
स्वयमेवानयेद्राजा सत्कृतान्नावमानयेत् ॥
तापसे सर्व्वकार्य्याणि राज्यमात्मानमेव च ।
निवेदयेत् प्रयत्नेन देववच्चिरमर्च्चयेत् ॥
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ।
वक्रां ज्ञात्वा न सेवेत प्रतिबाधेत चागताम् ॥
नास्य च्छिद्रं परो विद्यात् विद्याच्छिद्रं परस्य तु ।
गूहेत् कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
विश्वासयेच्चाप्यपरं तत्त्वभूतेन हेतुना ।
वकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ॥
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।
दृढप्रहारी च भवेत् तथा शूकरवन्नृपः ॥
चित्राकारश्च शिखिवद्दृढभक्तस्तथाश्ववत् ।
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥
काकशङ्की भवेन्नित्यं नाज्ञातवसतिं वसेत् ।
नापरीक्षितपूर्ब्बञ्च भोजनं शयणं व्रजेत् ॥
वस्त्रं पूष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ! ।
न गाहेज्जलसम्बाधं न चाज्ञातजलाशयम् ॥
अपरीक्षितपूर्व्वन्तु पुरुषैराप्तकारिभिः ।
नारोहेत् कुञ्जरं व्यालं न जातु तुरगं तथा ॥
नाविज्ञातस्त्रियं गच्छेत् नैव देवोत्सवे वसेत् ।
नरेन्द्रलक्ष्म्या धर्म्मक्ष त्राता यत्तो भवेन्नृपः ।
सद्वृत्ताश्च तथा पुष्टा सततं प्रतिमानिताः ।
राज्ञा सहायाः कर्त्तव्याः पृथिवीं जेतुमिच्छता ।
यथार्हञ्चाथ सुभृतान् राजा कर्म्मसु योजयेत् ।
धर्म्मिष्ठान् धर्म्मकार्य्येषु शूरान् संग्रामकर्म्मसु ॥
निपुणानर्थकृत्येषु सर्व्वत्र च तथा शुचीन् ।
स्त्रीषु षण्डान् नियुञ्जीत तीक्ष्णान् दारुणकर्म्मसु ।
धर्म्मे चार्थे च कामे च भये च रविनन्दन ।
राजा यथार्हञ्च कुर्य्यादुपधाभिः परीक्षणम् ॥
समतीतोपधान् भृत्यान् कुर्य्याद्धस्तिवनेचरान् ।
तत्पादान्वेषणे यत्नांस्तदध्यक्षांश्च कारयेत् ॥
एवमादीनि कर्म्माणि नृपैः कर्य्याणि भार्गव ।
सर्व्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः ॥
पापसाध्यानि कर्म्माणि यानि राज्ञां नृपोत्तम ।
सन्तस्तानि न कुर्व्वन्ति तस्मात्तान् विभृयान्नृपः ।
नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्रिया ।
यस्मिन् कर्म्मणि यस्य स्यात् विशेषेण च कौश-
लम् ।
तस्मिन् कर्म्मणि तं राजा परीक्ष्य विनियोजयेत् ॥
पितृपैतामहान् भृत्यान् सर्व्वकर्म्मसु योजयेत् ।
विना दायादकृत्येषु परीक्ष्य स्वकृतान्नरान् ।
नियुञ्जीत महाभाग तस्य ते हितकारिणः ॥
परराजगृहात् प्राज्ञ जनसंग्रहकाम्यया ।
दुष्टान् वाप्यथवादुष्टानाश्रयीत प्रयत्नतः ॥
दुष्टं विज्ञाय विश्वासं न कुर्य्यात्तत्र भूमिपः ।
वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरं प्राप्तं पुरुषं पूजयेद्भृशम् ।
ममायं देशसंप्राप्तो बहुमानेन चिन्तितः ॥
तेषाञ्चारेण चारित्रं राजा विज्ञाय नित्यशः ।
गुणिनां पूजनं कुर्य्यात् निर्गुणानाञ्च शासनम् ॥
कथिताः सततं राजन् राजानश्चारचक्षुषः ।
स्वके देशे परे देशे ज्ञातशीलान् विचक्षणान् ॥
अनाहार्य्यान् क्लेशसहान् नियुञ्जीत सदा चरान् ।
जनस्याविदितान् सौम्यांस्तथाज्ञातान् परस्परम् ॥
बणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ।
तथा प्रव्रजिताकारान् चारान् राजा नियो-
जयेत् ॥
नैकस्य राजा श्रद्दध्यात् चारस्यापि च भाषिते ।
द्वयोः सम्बन्धमाज्ञाय श्रद्दध्यान्नृपतिस्ततः ॥
परस्परस्याविदितौ यदि स्याताञ्चरावुभौ ।
तस्माद्राजा प्रयत्नेन गूढांश्चारान्नियोजयेत् ॥
राज्यस्य मूलमेतावत् या राज्ञश्चारदृष्टिता ।
चाराणामपि यत्नेन राज्ञा कार्य्यं परीक्षणम् ॥
विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ।
अनुरागात् कथं लोके कर्म्म कार्य्यं महीक्षिता ॥
लोकरागापरागौ च भृत्यानाञ्च गुणागुणान् ।
सर्व्वं राज्ञां चरायत्तं तेषु यत्नपरो भवेत् ॥
कर्म्मणा केन मे लोके जनः सर्व्वोऽनुरज्यते ।
विरज्यते केन तथा विज्ञेयं तन्महीक्षिता ।
विरोधजनकं लोके वर्ज्जनीयं विशेषतः ॥
जनानुरागप्रभवा हि लक्ष्मी
राज्ञां मता भार्गववंशचन्द्र ।
तस्मात् प्रयत्नेन नरेन्द्रमुख्यैः
कार्य्योऽनुरागो भुवि मानवेषु ॥”
इति मात्स्ये २१५ अध्यायः ॥ * ॥
अपरञ्च ।
राजोवाच ।
“बहवो भूपतेर्धर्म्मास्तान् वक्तुं नहि शक्यते ।
तस्मात् समासतो वच्मि महाभाग निशामय ॥
पृथिवी वैष्णवी पुण्या सदा प्रियतमा हरेः ।
नारायणादृते नान्यो वसुमत्याः पतिर्भवेत् ॥
नारायणांशजो राजा मनुष्यो न कदाचन ।
अतस्तु दुर्नयं त्यक्त्वा सर्व्वां नीतिं समाचरेत् ॥
नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै ।
चिरं भुनक्ति पृथिवीं कण्टकैः परिवर्ज्जितः ॥
यस्मै न रोचते नीतिर्भूपालाय दुरात्मने ।
भ्रष्टश्रीरचिरेणैव स भवेन्नात्र संशयः ॥
आयुर्ब्बलं यशो वित्तं विजयं सुखमिच्छता ।
मन्त्रित्वे पण्डितो राज्ञा नियोज्यः सर्व्वदैव हि ॥
अवज्ञया महीभर्त्तुस्त्यजन्ति सदसीं बुधाः ।
सभायां बुधहीनायां नीतिर्ब्बलवती न हि ॥
ततो नीतौ विपन्नायां सहसा धरणीपतेः ।
राजश्रियो विनश्यन्ति सकोषबलवाहनाः ॥
ब्राह्मणान् गणकांश्चैव वैद्यांश्च बान्धवांस्तथा ।
नृपाः कल्याणमिच्छन्तो न द्विषन्ति कदाचन ॥
गतश्रीर्गणकद्बेष्टा वैद्यद्वेष्टायुर्व्वर्ज्जितः ।
ज्ञातिद्वेष्टा निष्कुलः स्यात् द्विजद्वेष्टास्विलार्त्ति-
भाक् ॥
राजानः पितरः प्रोक्ताः पुत्त्रा जनपदास्तथा ।
अतो भूपाः पालयन्ति प्रजाः पुत्त्रानिवौरसान्
पौरलोकबधूं राजा पश्येत् पुत्त्रबधूमिव ।
पौरलोके तथा कुर्य्यात् यथा स्नेहो निजात्मजे ॥
प्रजापीडाकरा ये च भूपाला अतिपापिनः ।
शिरस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः ॥
पृष्ठ ४/१२०
विवेकिनो महीपालाः पालयन्ति यथा प्रजाः ।
तथा तानपि देवेशः पालयत्यनिशं हरिः ॥
प्रजानां पालनं दानं द्वेऽपि राज्ञां शुभावहे ।
द्वाभ्यां ये वर्जिता भूपास्ते विज्ञेया नृपाधमाः ॥
दुष्टानां शासनञ्चैव शिष्टानां प्रतिपालनम् ।
प्रकुर्व्वन्तो महीपालाश्चिरं नन्दन्ति भूतले ॥
न्यायेनोपार्ज्जितं वित्तं यत्नाद्रक्षेन्महीपतिः ।
निर्व्वित्तो हि महीपालो विपत्त्यां न हि निस्त-
रेत् ॥
नृपाः कल्याणमिच्छन्तो निजराज्यशुभाशुभम् ।
पश्यन्ति नित्यं विप्रेन्द्र ! सत्वराश्चारचक्षुषः ॥
परचक्रभयं यावत् नायाति चिन्तयेद्भयम् ।
आगते तु भये भूप आचरेन्निर्भयो यथा ॥
ज्ञातौ वापि च मित्रे वा पुत्ते वापि च मन्त्रिणि ।
कुर्य्यान्मुखेन गाम्भीर्य्यं मनसा प्रेम केवलम् ॥
मन्त्रिणो ज्ञातयः पुत्त्राः प्रजाश्च भ्रातरस्तथा ।
गाम्भीर्य्यहीनं भूपालं मन्यन्ते न हि भूपवत् ॥
तिष्ठन्ति प्रथमं दूरे वसन्ति पुरतस्तदा ।
लोकाः श्रियं यदिच्छन्ति त्यक्तगाम्भीर्य्यभूपतेः ।
एकस्य मन्त्रिणो राज्ञा चिरं राजत्वमिच्छता ।
कर्त्तव्याः सकले राज्ये वृद्धयो नैव भूसुर ॥
अत्यन्तलब्धवृद्धीनां भृत्यानां सम्पदं हरेत् ।
तस्यां सम्पदि भूपालो भृत्यमन्यं नियोजयेत् ॥
मूर्खः स्त्रीविजितो राजा गीतवाद्यरतः सदा ।
चतुरङ्गबलैर्हीनः सहसा विपदं व्रजेत् ॥
स्वाचारग्रहणं सत्त्वं स्ववाक्यप्रतिपालनम् ।
गाम्भीर्य्यञ्चेति भूपानां लक्षणानि द्बिजोत्तम ! ॥
स कथं नृपतिर्यस्तु प्रतापेन विवर्ज्जितः ।
स कथं नृपतिर्येन न जिता परमेदिनी ॥
जितायां परमेदिन्यां यावत् पादं व्रजेन्नृपः ।
प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ॥
परभूमिजयाकाङ्क्षी हतो वा नृपतिर्युधि ।
तदा गच्छेत् परं धाम वियुक्तः सर्व्वपातकैः ॥
युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् ।
स साहसप्राप्तमृत्युर्द्दिवीन्द्रसम्पदं लभेत् ॥
त्यक्तसत्त्वं त्यक्तशस्त्रं पलायनपरायणम् ।
योद्धारं युधि यो हन्यात् स भूपो यात्यधो-
गतिम् ॥
पलायनपरो युद्धे तद्धन्ता च द्बिजोत्तम ! ।
तावुभावपि तिष्ठेतां नरकेऽत्यन्तदुःसहे ॥
युधि साहसवान् योद्धा तद्धन्ता च महीसुर ।
तिष्ठेतां द्वावपि स्वर्गे यावच्चन्द्रदिवाकरौ ॥
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ।
प्रजापालनकृद्राजा कदाचिन्नावसीदति ॥”
इति पाद्मे क्रियायोगसारे २० अध्यायः ॥

राजनीलं, क्ली, मरकतमणिः । इति शब्दरत्ना-

वली ॥

राजन्यः, पुं, (राज्ञोऽपत्यमिति । राजन् +

“राजश्वशुरात् यत् ।” ४ । १ । १३७ । इति
यत् ।) क्षत्त्रियः । इत्यमरः ॥ (यथा, ऋग्वेदे ।
१० । ९० । १२ ।
“ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥”)
राजपुत्त्रः । (राजति दीप्यते इति । राज् +
“राजेरन्यः ।” उणा० ३ । १०० । इति अन्यः ।)
अग्निः । इत्युणादिकोषः ॥ क्षीरिकावृक्षः ।
इति जटाधरः ॥

राजन्यकं, क्ली, (राजन्यानां क्षत्त्रियाणां समूहः ।

राजन्य + “गोत्रोक्षोष्ट्रोरभ्रराजराजन्येति ।”
४ । २ । ३९ । इति वुञ् ।) क्षत्त्रियसमूहः । इत्य-
मरः ॥ (यथा, रघुः । ७ । ५६ ।
“रथी निषङ्गी कवची धनुष्मान्
दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः
कल्पक्षयोवृत्तमिवार्णवाम्भः ॥” * ॥
राजन्यानां विषये देशे च पुं । इति काशिका ॥
अत्र “राजन्यादिभ्यो वुञ् ।” ४ । २ । ५३ ।
इति वुञ्प्रत्ययः ॥)

राजन्वान्, त्रि, (राजास्त्यस्यास्मिन्निति वा । राजन्

+ प्रशंसायां मतुप् । “राजन्वान् सौराज्ये ।”
८ । २ । १४ । इति निपातनात् नलोपाभावः ।)
सुराजयुक्तदेशः । इत्यमरः ॥ “प्रजापालनादि-
स्वधर्म्मपरायणराजयुक्ते देशे राजन्वात् राजा
विद्यतेऽस्येति मोङ्मझपादिति प्रशंसायां वतुः ।
यदुक्तं तन्त्रान्तरे ।
‘भूम्नि निन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥’ इति
स्वमते अस्त्यर्थे भमादयोऽमी अर्था अर्थात्तु
लभ्यन्त एव । निपातनान्नलोपाभावः । न
सौराज्ये राज्ञो नस्य लुङ्मताविति परे । सुराज्ञि
स्वधर्म्मपरत्वात् शोभना राजानोऽत्रेति
नार्च्चायां स्वतेरिति अनिषेधः । देशो लोकोप-
लक्षणं सुराज्ञि लोके इत्यर्थः ।” इति तट्टीकायां
भरतः ॥ (यथा, रघुः । ६ । २२ ।
“कामं नृपाः सन्तु सहस्रशोऽन्ये
राजन्वतीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसङ्कुलापि
ज्योतिष्मती चन्द्रमसैव रात्रिः ॥”)

राजपटोलः, पुं, (पटोलानां राजा । पर-

निपातः ।) मधुरपटोलः । इति रत्नमाला ॥

राजपटोली, स्त्री, (राजप्रिया पटोली ।) मधुर-

पटोली । इति राजनिर्घण्टः ॥

राजपट्टः, पुं, (राजप्रियः पट्ट इव ।) मणि-

विशेषः । तत्पर्य्यायः । विराटजः २ । इति
त्रिकाण्डशेषः ॥

राजपट्टिका, स्त्री, चातकपक्षी । इति हारा-

वली ॥

राजपथः, पुं, (राज्ञां पन्थाः । “ऋक्पूरब्धुःपथा-

मानक्षे ।” ५ । ४ । ७४ । इत्यः ।) राजमार्गः ।
तस्य लक्षणं यथा, --
“धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः ।
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥”
इति देवीपुराणम् ॥
(यथा, कुमारसम्भवे । ७ । ६३ ।
“तावत्पताकाकुलमिन्दुमौलि-
रुत्तोरणं राजपथं प्रपेदे ॥”)

राजपर्णी, स्त्री, प्रसारिणी लता । इति राज-

निर्घण्टः ॥

राजपलाण्डुः, पुं, (पलाण्डूनां राजा । राज-

दन्तादित्वात् परनिपातः ।) रक्तवर्णपलाण्डुः ।
लाल प्याँज इति भाषा ॥ तत्पर्य्यायः । जव-
नेष्टः २ नृपाह्वयः ३ राजप्रियः ४ महामूलः ५
दीर्घपत्रः ६ रोकः ७ नृपेष्टः ८ नृपकन्दः ९
महाकन्दः १० नृपप्रियः ११ रक्तकन्दः १२
राजेष्टः १३ । अस्य गुणाः । शिशिरत्वम् ।
पित्तकफनाशित्वम् । दीपनत्वम् । बहुनिद्राकर-
त्वञ्च । इति राजनिर्घण्टः ॥

राजपीलुः, पुं, (राजप्रियः पीलुः ।) महापीलु-

वृक्षः । इति राजनिर्घण्टः ॥

राजपुत्त्रः, पुं, (राज्ञश्चन्द्रस्य पुत्त्रः ।) बुधग्रहः ।

इति शब्दरत्नावली ॥ महाराजचूतः । इति
राजनिर्घण्टः ॥ वर्णसङ्करजातिविशेषः । रंज-
पुत इति भाषा ॥ यथा, --
“वैश्यादम्बष्ठकन्यायां राजपुत्त्रस्य सम्भवः ॥”
इति पराशरपद्धतिः ॥
करणकन्यायां क्षत्त्रियाज्जातश्च । इति पुरा-
णम् ॥ राजनन्दनः । तत्पर्य्यायः । युवराजः २
कुमारः ३ भर्त्तृदारकः ४ । इत्यमरः ॥ (यथा, --
“राजपुत्त्र ! चिरं जीव माजीव मुनिपुत्त्रक ! ।
जीव वा मर वा साधो व्याध माजीव मा मर ॥”
इत्युद्भटः ॥)
तस्य रक्षणं यथा, --
“राजपुत्त्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता ।
आचार्य्यैश्चास्य कर्त्तव्यं नित्यमुक्तैश्च रक्षणम् ॥
धर्म्मकामार्थशास्त्राणि धनुर्व्वेदञ्च शिक्षयेत् ।
रथे च कुञ्जरे चैनं व्यायामं कारयेत् सदा ॥
शिल्पानि शिक्षयेच्चैव नाप्तैर्मिथ्याप्रियं वदेत् ॥
गुणाधानमशक्यन्तु यस्य कर्त्तुं स्वभावतः ।
बन्धनं तस्य कर्त्तव्यं गुप्ते देशे सुखान्वितम् ॥
अविनीतकुमारं हि कुलमाशु विशीर्य्यते ।
अधिकारेषु सर्व्वेषु विनीतं हि नियोजयेत् ।
आदौ स्वल्पेषु तत्पश्चात् क्रमेणाथ महत्स्वपि ॥
मृगयापानमक्षांश्च वर्ज्जयेत् पृथिवीपतिः ।
एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः ॥
बहवो नृपशार्दू ला येषां संख्या न विद्यते ॥
वृथाटनदिवास्वप्नं विशेषेण विवर्ज्जयेत् ।
वाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च ॥
परोक्षनिन्दा च तथा वर्ज्जनीया महीक्षिता ।
अर्थस्य दूषणं राजा द्बिःप्रकारं विवर्ज्जयेत् ॥
अर्थानां दूषणञ्चैव तथा चार्थेषु दूषणम् ।
अकारणात् समुच्छेदं दुर्गादीनामसत्क्रिया ॥
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।
अदेशकाले यद्दानमपात्रे दानमेव च ॥
अर्थस्य दूषणं प्रोक्तमसत्कर्म्मप्रवर्त्तनम् ।
कामं क्रोधं मदं मानं लोभं हर्षन्तथैव च ।
जेतव्यमरिषड्वर्गं सादरं पृथिवीक्षिता ॥
पृष्ठ ४/१२१
एतेषां विजयं कृत्वा कार्य्यं भृत्यजयं ततः ।
कृत्वा भृत्यजयं सर्व्वं राजा जनपदं जयेत् ॥
कृत्वा तु विजयं तेषां शत्रून् बाह्यांस्ततो जयेत् ।
बाह्याश्च त्रिविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥
गुरवस्ते यथापूर्ब्बं तेषु यत्नपरो भवेत् ।
पितृपैतामहं मित्रममित्रञ्च तथा रिपोः ॥
कृत्रिमञ्च महाभाग मित्रं त्रिविधमुच्यते ।
तथापि च गुरुः पूर्ब्बं भवेत्तत्रापि चादृतः ॥
स्वाम्यमात्यो जनपदो दुर्गं सैन्यन्तथैव च ।
कोषो मित्रञ्च धर्म्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्त्तितः ।
तन्मूलत्वात्तथाङ्गानां राजा रक्ष्यः प्रयत्नतः ।
षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः ॥
अङ्गेभ्यो यस्तथैकस्य द्रोहमाचरतेऽल्पधीः ।
वधस्तस्य तु कर्त्तव्यः शीघ्रमेव महीक्षिता ॥
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।
न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥
भृत्यैः सह महीपालः परिहासं विवर्ज्जयेत् ।
भृत्याः परिभवन्तीह नृपं हर्षवशं गतम् ॥
व्यसनानि च सर्व्वाणि भूपतिः परिवर्ज्जयेत् ।
लोकसंग्रहणार्थाय कृतकव्यसनो भवेत् ॥
शौटीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ।
जना विरागमायान्ति सदा दुःसेव्यभावतः ॥
स्मितपूर्ब्बाभिभाषी स्यात् सर्व्वस्यैव महीपतिः ।
वध्येष्वपि महाभाग भ्रुकुटीं न समाचरेत् ॥
भाव्यं धर्म्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ।
स्थूललक्ष्यस्य वशगा सर्व्वा भवति मेदिनी ॥
अदीर्घसूत्रश्च भवेत् सर्व्वकर्म्मसु पार्थिवः ।
दीर्घसूत्रस्य नृपतेः कर्म्महानिर्ध्रुवं भवेत् ॥
रागे द्वेषे च कामे च द्रोहे पापे च कर्म्मणि ।
अप्रिये चैव कर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥
राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम ।
तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्व्वापदो ध्रुवाः ॥
कृतान्धेव तु कर्म्माणि जायन्ते यस्य भूपतेः ।
नारब्धानि महाभाग तस्य स्वाद्बसुधा वशे ॥
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रं सुरक्षितम् ।
कर्त्तव्यं पृथिवीपालैर्मन्त्रभेदभयात् सदा ॥
मन्त्रवित् साधितो मन्त्रः संयतानां सुखावहः ।
मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥
नयस्य कुशलस्तस्य वशे सर्व्वा वसुन्धरा ।
भवतीह महीभर्त्तुः सदा पार्थिननन्दन ॥
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ।
नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ॥
ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः ।
तानानयेद्वशे सर्व्वान् सामादिभिरुपक्रमैः ॥
यथा न स्यात् कृषीभावः प्रजानामनपेक्षया ।
तथा राज्ञा प्रकर्त्तव्यं स्वराष्ट्रपरिरक्षता ॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनपेक्षया ।
सोऽचिराद्भ्रश्यते राज्यात् जीविताच्च सबा-
न्धवः ॥
भृतो वत्सो जातबलः कर्म्मयोग्यो यथा भवेत् ।
तथा राष्ट्रं महाभाग भृतं कर्म्मसहं भवेत् ॥
यो राष्ट्रमनुगृह्णाति राज्यं स्वं परिरक्षति ।
संघातमुपयाचेत्तु विन्दते स महत् फलम् ॥
राष्ट्राद्धिरण्यं धान्यञ्च महीं राजा सुरक्षिताम् ।
महता तु प्रयत्नेन स्वराष्ट्रस्य च रक्षिता ॥
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ।
गोपितानि सदा कुर्य्यात् स विभागी प्रियाणि
च ॥
अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च ।
धर्म्मकर्म्मेदमायत्तं विधाने दैवमानुषे ।
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥
एवं महीं पालयतोऽस्य भर्त्तु-
र्लोकानुरागः परमो भवेच्च ।
लोकानुरागप्रभवा च लक्ष्मी-
र्लक्ष्मीवतश्चैव परा च कीर्त्तिः ॥”
इति मात्स्ये २०० अध्यायः ॥

राजपुत्त्रिका, स्त्री, (राजपुत्त्री + संज्ञायां कन् ।)

शरारिपक्षी । शराली इति भाषा ॥ यथा, --
“शरारिराटिराडिश्च हापुत्त्री राजपुत्त्रिका ॥”
इति जटाधरः ॥
राजकन्या च ॥ (यथा, हरिवंशे । २५ । ४६ ।
“उत्पादयामास ततः पुत्त्रं वै राजपुत्त्रिका ॥”)

राजपुत्त्री, स्त्री, (राज्ञः पुत्त्रीव ।) कटुतुम्बी ।

रेणुका । जाती । राजरीतिः । छुछुन्दरी ।
इति राजनिर्घण्टः ॥ मालती । यथा, --
“अतिमुक्तश्चाथ जातिर्मालती सुमना अपि ॥”
राजपुत्त्री मनोज्ञा -- ॥” इति जटाधरः ॥
राजकन्या च ॥ (यथा, महाभारते । १ । ७३ । १ ।
“सुव्यक्तं राजपुत्त्री त्वं यथा कल्याणि ! भाषसे ।
भार्य्या मे भव शुश्रोणि ! ब्रूहि किं करवाणि
ते ॥”)

राजपुष्पः, पुं, (पुष्पाणां राजा । राजदन्तादित्वात्

परनिपातः ।) नागकेशरपुष्पवृक्षः । यथा, --
“चाम्पेयः केशरो नागकेशरः कनकाह्वयः ।
महौषधं राजपुष्पः फलकः खरघातनः ॥”
इति शब्दचन्द्रिका ॥

राजपुष्पी, स्त्री, (राजप्रियं पुष्पमस्याः । ङीप् ।)

करुणीवृक्षः । इति राजनिर्घण्टः ॥

राजप्रिया, स्त्री, (राज्ञः प्रिया ।) करुणीवृक्षः ।

इति राजनिर्घण्टः ॥

राजफणिजझकः, पुं, (राजते इति । राज् + अच् ।

राजो दीप्तिशाली फणिज्झकः ।) नागरङ्ग-
वृक्षः । इति शब्दमाला ॥

राजफलं, क्ली, (राजाभिधेयं फलम् ।) पटोलम् ।

इति त्रिकाण्डशेषः ॥

राजफला, स्त्री, (राजप्रियं फलमस्याः ।) जम्बूः ।

इति राजनिर्घण्टः ॥

राजबदरं, क्ली, (राज्ञो बदरमिव प्रियत्वात् ।)

रक्तामलकम् । लवणम् । इति मेदिनी ॥

राजबदरः, पुं, (बदराणां राजा । राजदन्ता-

दित्वात् परनिपातः ।) उत्तमकोलिः । तत्प-
र्य्यायः । नृपश्रेष्ठः २ नृपबदरः ३ राजवल्लभः ४
पृथुकोलः ५ तनुबीजः ६ मधुरफलः ७ राज-
कोलः ८ । अस्य गुणाः । सुमधुरत्वम् । शिशि-
रत्वम् । दाहार्त्तिपित्तवातहरत्वम् । वृष्यत्वम् ।
वीर्य्यवृद्धिकरत्वत् । शोषश्रमनाशित्वञ्च । इति
राजनिर्घण्टः ॥

राजबीजी, [न्] त्रि, (राजा बीजी कारणं यस्य ।)

राजवंश्यः । इत्यमरः । २ । ७ । २ ॥

राजभट्टिका, स्त्री, हापुत्त्रीपक्षी । यथा, --

“गोभण्डीरः पङ्ककीरो हापुत्त्री राजभट्टिका ॥”
इति जटाधरः ॥

राजभद्रकः, पुं, कुष्ठम् । निम्बः । इति राज-

निर्घण्टः ॥ पारिभद्रकः । इति साधुपाठः ॥

राजभूयं, क्ली, (राज्ञो भावः । राजन् + भू +

क्यप् ।) राजत्वम् । यथा, --
“स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।
देवभूयादिकं तद्वत् ।” इत्यमरकोषदर्शनात् ॥

राजभोग्यं, क्ली, (राज्ञा भोक्तुं योग्यम् । भुज् +

ण्यत् । कुत्वञ्च ।) जातीकोषम् । प्रियालवृक्षे, पुं ।
इति शब्दचन्द्रिका ॥

राजमण्डूकः, पुं, (भण्डूकानां राजा । राजदन्ता-

दित्वात् परनिपातः ।) बृहद्भेकः । वड वेङ् इति
भाषा । तत्पर्य्यायः । महामण्डूकः २ पीताङ्गः ३
पीतमण्डूकः ४ वर्षाघोषः ५ महारवः ६ ।
इति राजनिर्घण्टः ॥

राजमल्लः, पुं, राज्ञां मल्लः । राजार माल् इति

भाषा । तत्पर्य्यायः । उत्सिक्तः २ उद्धतः ३ ।
इति त्रिकाण्डशेषः ॥

राजमार्गः, पुं, (राज्ञो मार्गः ।) राजपथः ।

तद्विवरणं यथा, --
“राजमार्गं सौधयुक्तं यः करोति पतिव्रते ।
वर्षाणामयुतं सोऽपि शक्रलोके महीयते ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥
अपि च ।
“त्रिंशद्धनूंषि विस्तीर्णो देषमार्गस्तु तैः कृतः ।
विंशं धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥
धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः ।
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥
धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ।
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यका ॥
जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् ।
वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ।
अवकरः परिवारः पादमात्रः समन्ततः ॥”
इति देवीपुराणे गोपुरद्वारलक्षणं नामाध्यायः ॥
(अत्रामेध्योत्सर्गे दण्डविधानं कर्त्तव्यम् । यथा,
मनुः । ९ । २८२ ।
“समुत्सृजेत् राजमार्गे यस्त्वमेध्यमनापदि ।
स द्वौ कार्षापणौ दद्यादमेध्याञ्चाशु शोघयेत् ॥”
नीतिः । यथा, हरिवंशे भविष्यपर्व्वणि ।
५४ । २ ।
पृष्ठ ४/१२२
“ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ ।
युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥”)

राजमाषः, पुं, (माषाणां राजा श्रेष्ठत्वात् ।

राजदन्तादित्वात् परनिपातः ।) वर्व्वटः ।
वरवटी कडाइ इति भाषा । तत्पर्य्यायः ।
नीलमाषः २ नृपमाषः ३ नृपोचितः ४ । अस्य
गुणाः । कफपित्तहरत्वम् । रुच्यत्वम् । वात-
कारित्वम् । बलदायकत्वञ्च । इति राज-
निर्घण्टः ॥ सारकत्वम् । शुक्राम्लपित्तहरत्वम् ।
सुस्वादुत्वम् । रूक्षत्वम् । कषायत्वम् । विषदत्वम् ।
लघुत्वञ्च । इति राजवल्लभः ॥ अन्यच्च ।
“राजमाषो महामाषश्चपलश्च बलः स्मृतः ।
राजमाषो गुरुः स्वादुस्तुवरस्तर्पणो रसः ।
रूक्षो वातकरो रुच्यः स्तन्यो भूरिमलप्रदः ॥”
इति भावप्रकाशः ॥ * ॥
कालविशेषे अस्याभक्षत्वं यथा । नारदीये ।
“निष्पावान् राजमाषांश्च सुप्ते देवे जनार्द्दने ।
यो भक्षयति राजेन्द्र चाण्डालादधिको हि सः ॥
कार्त्तिके तु विशेषेण राजमाषांश्च वर्ज्जयेत् ।
निष्पावान् मुनिशार्द्दूल यावदाहूतनारकी ॥”
इति तिथ्यादितत्त्वम् ॥

राजमुद्गः, पुं, (मुद्गानां राजा । राजदन्तादि-

त्वात् परनिपातः ।) मुकुष्टकः । इति हेम-
चन्द्रः । ४ । २४० ॥

राजयक्ष्मा, [न्] पुं, (राज्ञश्चन्द्रस्य क्षयकारको

यक्ष्मा । राजा चासौ यक्ष्मा चेति वा ।)
क्षयरोगः । इति हेमचन्द्रः ॥ अस्य पर्य्याय-
निदानौषधादयो यक्ष्मशब्दे द्रष्टव्याः ॥ * ॥
(असौ हि सर्व्वरोगाणामाकरः । यथा,
माघे । २ । ९६ ।
“मावेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥”
“तथाह वाग्भटः ।
अनेकरोगानुगतो बहुरोगपुरःसरः ।
राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥
नक्षत्राणां द्विजानाञ्च राज्ञोऽभूत् यदयं पुरा ।
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥”
इति तट्टीकायां मल्लिनाथः ॥)
महापातकजचिह्नमप्ययम् । यथा, विष्णुः ।
अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां
मानुष्ये लक्षणानि भवन्ति । कुष्ठ्यतिपातकी
ब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः सुवर्ण-
हारी कुनखी गुरुतल्पगो दुश्चर्म्मा । इत्यादि
कूर्म्मपुराणम् ॥
“क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥”
महारोगिणः पापरोगाष्टकान्यतमरोगवतः ।
ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधु-
मेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पाप-
रोगा नारदोक्ताः । इति शुद्धितत्त्वम् ॥ * ॥
तस्योत्पत्तिरूपस्थानानि यथा, --
“अथ कोपवतस्तस्य दक्षस्य सुमहात्मनः ।
निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः ॥
दंष्ट्राकरालवदनः कृष्णाङ्गारसमप्रभः ।
अतिदीर्घः स्वल्पकेशः कृशो धमनिसन्ततः ॥
अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् ।
कुर्व्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः ॥
स चोवाच तदा दक्षं कुत्र स्थास्याम्यहं मुने ! ।
किंवा चाहं करिष्यामि तन्मे वद महामते ॥
ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् ।
सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया ॥
मार्कण्डेय उवाच ।
इति तस्य वचः श्रुत्वा दक्षस्याथ महात्मनः ।
शनैः शनैस्ततः सोममाससाद स च द्रुतम् ॥
असाद्य स तदा सोमं वल्मीकं पन्नगो यथा ।
प्रविवेशेन्दुहृदये छिद्रं प्राप्य महागदः ॥
तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि ।
शुशोच चन्द्रस्तन्द्रीञ्च विषमां प्राप्तवांस्ततः ॥
उत्पत्य प्रथमं यस्माल्लीनो राजन्यसौ गदः ।
राजयक्ष्मेति लोकेऽस्मिंस्तस्य ख्यातिरभूत्
द्विजाः ॥
ततस्तेनाभिभूतश्च यक्ष्मणा रोहिणीपतिः ।
क्षयं जगामानुदिनं ग्रीष्मे शुष्का नदी यथा ॥
तथा चन्द्रे क्षीयमाणे सर्व्वौषध्यः क्षयं गताः ।
क्षयं जातास्वोषधीषु न यज्ञः संप्रवर्त्तते ॥
यज्ञाभावात्तु देवानामन्नं सर्व्वं क्षयं गतम् ।
पर्य्यण्याश्च ततो नष्टास्ततो वृष्टिर्न चाभवत् ।
वृष्ट्यभावे तु लोकानामाहारो क्षीणताङ्गतः ॥
दुर्भिक्षव्यसनोपेते सर्व्वलोके द्विजोत्तमाः ।
दानधर्म्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते ॥
सत्त्वहीनाः प्रजाः सर्व्वा लोभेनोपहतेन्द्रियाः ।
पापमेव तदा चक्रुर्न धर्म्मरुचयस्तथा ॥
एतद्दृष्ट्वा तदा भावं दिक्पालाः सपुरन्दराः ।
जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा ॥
ततो दृष्ट्वा जगत् सर्व्वं व्याकुलं दस्युपीडितम् ।
ब्रह्माणमगमन्देवाः सर्व्वे शक्रपुरोगमाः ॥
उपसङ्गम्य लोकेशं स्रष्टारं जगतां पतिम् ।
प्रणम्याथ यथायोग्यमुपविष्टास्ततः सुराः ॥
तान् म्लानवदनान् वीक्ष्य ब्रह्मा लोकपितामहः ।
अभिभूतान् परेणैव हृतस्वविषयानिव ।
पप्रच्छ सुमुखीकृत्य गुरुमिन्द्रं हुताशनम् ॥
ब्रह्मोवाच ।
स्वागतं भोः सुरगणाः किमर्थं यूयमागताः ।
दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये ॥
निराधारान् निरातङ्कान् सुरान् सर्व्वांस्तु
कामगान् ।
कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुष्खि-
तान् ॥
यद्बभूवे दुष्खबीजं युष्मान् वा यस्तु बाधते ।
तत् कथ्यतामशेषेण सिद्धिं चाप्यवधार्य्यताम् ॥
मार्कण्डेय उवाच ।
ततो वृद्धश्रवा जीवः कृष्णवर्त्मा च लोककृत् ।
उवाचात्मभुवे तस्मै सुराणां दुष्खकारणम् ॥
शृणु सर्व्वं जगत्कर्त्तस्त्वां येन वयमागताः ।
यदस्माकं दुःखबीजं यतो म्लानश्रियो वयम् ।
न क्वचित् संप्रवर्त्तन्ते यज्ञा लोकपितामह ॥
देवा ऊचुः ।
निराधारा तिरातङ्काः प्रजाः सर्व्वाः क्षयं
गताः ।
न च दानादिधर्म्माश्च न तपांसि क्षितौ क्वचित् ॥
नैव वर्षति पर्य्यण्यः क्षीणतोयाभवत् क्षितिः ।
क्षीणाः सर्व्वास्तथौषध्यः शस्या लोकाः समा-
कुलाः ॥
दस्युभिः पीडिता विप्रा वेदवादान्न कुर्व्वते ।
अन्नवैकल्यमासाद्य म्रियन्ते बहवः प्रजाः ॥
क्षीणेषु यज्ञभागेषु भोगहीनास्तथा वयम् ।
दुर्ब्बलाश्च श्रिया हीना नैव शान्तिं लभामहे ॥
रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः ।
वृषराशौ स च क्षीणो ज्योत्स्नाहीनश्च वर्त्तते ॥
यदैवान्विष्यते देवैश्चन्द्रो नैषां पुरःसरः ।
कदाचिदपि देवानां समाजे वा भवद्विधे ॥
कदाचिद्रोहिणीं त्यक्त्वा नैव क्व च न गच्छति ।
यद्यन्यः कोऽपि न भवेत्तदा चन्द्रो बहिर्भवेत् ।
दृश्यते स कलाहीनः कलामात्रावशेषितः ॥
इति सर्व्वत्र लोकेश वृत्तः कर्म्मविपर्य्ययः ।
तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः ॥
पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः ।
नास्मान् लोकेषु बाधन्ते तावन्नः पाहि साध्व-
सात् ॥
स्वयं प्रवर्त्तते कस्माज्जगतां वा व्यतिक्रमः ।
न जानीमस्तु तत् सर्व्वं विप्लवे चापि कारणम् ॥
मार्कण्डेय उवाच ।
एतत् सुराणां वचनं दिव्यदर्शी पितामहः ।
श्रुत्वा क्षणमभिध्याय निजगाद सुरोत्तमान् ॥
ब्रह्मोवाच ।
शृण्वन्तु देवताः सर्व्वा यदर्थं लोकविप्लवः ।
प्रवर्त्ततेऽधुना येन शान्तिस्तस्य भविष्यति ॥
सोमो दाक्षायणीः कन्याः सप्तविंशतिसंख्यया ।
अश्विन्याद्या वरबधूर्भार्य्यार्थे परिणीतवान् ॥
परिणीय स ताः सर्व्वा रोहिण्यां सततं विधुः ।
प्रवर्त्तेतानुरागेण न सर्व्वासु प्रवर्त्तते ॥
अश्विन्याद्यास्ततः सर्व्वा दौर्भाग्यज्वरपीडिताः ।
षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम् ॥
प्रवर्त्तते निशानाथो रोहिण्यां रागतो यथा ।
तथा न तासु भजते तद्दक्षाय न्यवेदयन् ॥
अतो दक्षो महाबुद्धिः साम्ना संस्तूय विट्-
पतिम् ।
बहुसूनृतमाभाष्य पुत्त्र्यर्थेऽनुरुरोध तम् ॥
अनुरुद्धो यथाकामं दक्षेण सुमहात्मना ।
समं प्रवर्त्तितं तासु समयं कृतवान् विधुः ॥
सममङ्गीकृते भावं तासु कर्त्तुं हिमांशुना ।
स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः ॥
गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः ।
जहौ न भावं ताः शश्वत् कुपिताः पितरं
गताः ॥
ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे ।
पृष्ठ ४/१२३
समवृत्तिं प्रतिश्राव्य वचनञ्चेदमब्रवीत् ॥
न समं वर्त्तते चन्द्र सर्व्वास्वासु भवान् यदि ।
तदा शप्स्ये त्वहं तुभ्यं तस्माद् कुरु समञ्ज-
सम् ॥
ततो गते पुनर्द्दक्षे न समं वर्त्तते यदा ।
तासु चन्द्रस्तदा दक्षं पुनर्गत्वाब्रुवन् रुषा ॥
न ते वचः स कुरुते नैवास्मासु प्रवर्त्तते ।
वयं तपः करिष्यामः स्थास्यामश्च त्वदन्तिके ॥
तासामिति वचः श्रुत्वा कुपितस्य तदा मुनेः ।
क्षयाय चन्द्रस्य मनः शापायोत्सुकतां गतम् ॥
शापायोद्युक्तमनसः कुपितस्य महात्मनः ।
क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः ॥
प्रेषितः स च चन्द्राय दक्षेण मुनिना ततः ।
प्रविष्टवांस्तस्य देहे क्षयितस्तेन चन्द्रमाः ॥
क्षीणे चन्द्रे क्षयं याता ज्योत्स्रा तस्य महा-
त्मनः ।
क्षीणासु सर्व्वज्योत्स्नासु सर्व्वौषध्यः क्षयं गताः ॥
ओषध्यभावाल्लोकेऽस्मिन्न यज्ञः संप्रवर्त्तते ।
यज्ञाभावादनावृष्टिस्ततः सर्व्वप्रजाक्षयः ॥
यज्ञभागोपभोगेन हीनानां भवतां तथा ।
दुर्ब्बलत्वं ससुत्पन्नं विकारश्च स्वगोचरे ॥
इति वः कथितं सर्व्वं यथाभूल्लोकपिप्लवः ।
येनोपायेन तच्छान्तिस्तत्शृणुध्वं सुरोत्तमाः ॥”
इति कालिकापुराणे २० अध्यायः ॥ * ॥
ब्रह्मोवाच ।
“गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति ।
तं प्रसादय चन्द्रार्थे स च पूर्णो भवेद्यथा ॥
पूर्णे चन्द्रे जगत् सर्व्वं प्रकृतिस्थं भविष्यति ।
युष्माकञ्च भवेत् शान्तिरोषधीनाञ्च सम्भवः ॥
मार्कण्डेय उवाच ।
इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः ।
प्रययुर्हृष्टमनसस्तदा दक्षनिवेशनम् ॥
यथान्यायमुपस्थाय सर्व्वे मुनिवरं सुराः ।
प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा ॥
देवा ऊचुः ।
प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् ।
उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् ॥
यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत्परमात्मनः ।
तदंशस्त्वं परं ज्योतिर्विश्वरूपं नतोऽस्मि ते ॥
दक्षणात् सर्व्वजगतां प्रजापालनकारणात् ।
दक्षप्रजापतिश्चेति योगेशस्तन्नुमो वयम् ॥
दक्षाय सर्व्वजगतां दक्षाय कुशलात्मनाम् ।
दक्षायात्महितायाशु नमस्तुभ्यं महात्मने ॥
सततं चिन्त्यमानस्य योगिभिर्नियतात्मभिः ।
सारस्य सारभूतस्त्वं दक्षाय परमात्मने ॥
योगविद्भिरनाधृष्टः पारगाणां परायणः ।
आद्यन्तमुक्तः सहसा तस्मै नित्यं नमो नमः ॥
इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तदा ।
प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः ॥
दक्ष उवाच ।
कुतः शक्र महाभाग भवतां दुःखमागतम् ।
दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम् ॥
ममास्ति यदि कर्त्तव्यं भवतां दुःखहानये ।
तदहं यदि शक्नोमि करिष्यामि हितं समम् ॥
मार्कण्डेय उवाच ।
तत् श्रुत्वा वचनं तस्य ब्रह्मसूनोर्महर्षिणः ।
जगाद गीष्पतिः शक्रो वीतिहोत्रोऽथ तं
मुनिम् ॥
क्षयं यातो निशानाथस्तस्मिन् क्षीणे क्षयंगताः ।
सर्व्वौषध्यो द्बिजश्रेष्ठ तद्धानिर्यज्ञहानिकृत् ॥
यज्ञे विनष्टे सकलाः प्रजाः क्षुद्भयकातराः ।
वृष्ट्यभावान्महद्दुःखं प्राप्य नष्टाश्च काश्चन ॥
क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्त्तते ।
स सर्व्वजगतो ब्रह्मन्नभवार्थमुपस्थितः ॥
नाधुना तत्त्रिभुवने यन्न क्षुब्धन्तु किञ्चन ।
विप्लवं यान्ति विप्रेन्द्र सागराः स्थावराश्चराः ॥
न यज्ञाः संप्रवर्त्तन्ते न तपस्यन्ति तापसाः ।
आहारदुःखान्निन्द्रीकाः प्रजाः क्षीणा भया-
तुराः ॥
एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मान् रसातलात् ।
दैत्या न यावदुत्थाय बाधन्ते तावदुद्धर ॥
प्रसीद दक्ष सततं तं पूरय तपीबलात् ।
पूर्णे चन्द्रे जगत् सर्व्वं प्रकृतिस्थं भविष्यति ॥
मार्कण्डेय उवाच ।
इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा ।
उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् ॥
दक्ष उवाच ।
यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् ।
न केनापि निदानेन मिथ्यां कर्त्तुं तदुत्सहे ॥
किन्तु मद्बचनं यस्मान्नैकान्तेन मृषा भवेत् ।
चन्द्रोऽपि वर्द्धते यस्मात् तमुपायमपेक्षते ॥
तत्राप्ययमुपायोऽस्ति मासार्द्धं यातु चन्द्रमाः ।
क्षयं वृद्धिञ्च मासार्द्धं स्वयं भार्य्यासु वर्द्धताम् ॥
तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् ।
सर्व्वे सुरगणास्तत्र गता यत्रास्ति चन्द्रमाः ॥
एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः ।
अथ चन्द्रं समादाय भार्य्याभिः सहितं तदा ।
जग्मुस्ते ब्रह्मसदनं मुदिताः सुरसत्तमाः ॥
तत्र गत्वा महाभागा यथा दक्षेण भाषितम् ।
तत्सर्व्वं कथयामासुर्ब्रह्मणे परमात्मने ॥
ब्रह्मा दक्षवचः श्रुत्वा देवानां सदनं तदा ।
चन्द्रभागं महाशैलं जगाम सहितः सुरैः ॥
तत्र गत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया ।
स्नापयामास शुभ्रांशुं बृहल्लोहितपुष्करे ॥
भूतभव्यभवज्ज्ञानः पूर्ब्बमेव पितामहः ।
एतदर्थं चकारात्र सरः पूर्णं जगत्प्रभुः ॥
तत्र स्नातस्य लोकस्य नीरोगत्वं प्रजायते ।
चिरायुस्त्वञ्च सततं बृहल्लोहितसंज्ञके ॥
तत्र स्नातस्य चन्द्रस्य शरीरात् तत्क्षणं गदः ।
राजयक्ष्मा निःससार पूर्व्वरूपो यथोदितः ॥
निःसृत्य राजयक्ष्मा तु ब्रह्माणञ्च जगत्पतिम् ।
प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच ह ॥
स्थानं पत्नीञ्च लोकेश ! कृत्यं मम सदातनम् ।
निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः ॥
मार्कण्डेय उवाच ।
ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुशरीरगैः ।
अमृतैस्तेनातिभुक्तैः क्षीणञ्चापि निशापतिम् ॥
दोर्भिः स्वयं तं गृहीत्वा गिरौ निष्पिष्य वै
मुहुः ।
अमृतं गालयामास शरीराद्राजयक्ष्मणः ॥
अमृतानि च गाल्याशु तदपूतं तदा जले ।
क्षीरोदस्य च चिक्षेप मध्ये रहसि लोकभृत् ॥
तस्मादप्यमृतादिन्दोः कलाः क्षीणाः पुराथ
याः ।
तासां जग्राह लवशश्चूर्णान् क्षीरोदसागरात् ॥
कलामात्रावशेषस्य संसर्गाद्राजयक्ष्मणः ।
क्षीणाः कलाः पञ्चदश याः पूर्व्वममृतात्मिकाः ।
ता रागयक्ष्मगर्भस्थाश्चूर्णीभूतास्तु पीडया ॥
तेजोज्योत्स्नाकलाभिस्तु निबद्वं यत् कला-
पतेः ।
शरीरं तत्त्रिधाभूतं गर्भस्थं राजयक्ष्मणः ॥
ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादि-
यक्ष्मणि ।
द्रवीभूताः सुधाः सर्व्वा गर्भे रोगस्य च स्थिताः ॥
यदा निर्गालयामास सुधां ब्रह्मा गदान्तरात् ।
तदा ज्योत्स्ना सुधा ज्योतिः सर्व्वं तस्माद्-
वहिर्गतम् ॥
क्षीरोदसागरे क्षिप्तं तत्सर्व्वं विधिना तदा ।
देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः ॥
ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिधेः ।
ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयं
गिरिम् ॥
क्षीरोदाद्गिरिमागम्य चन्द्रभागं तदा विधिः ।
देवमध्ये कलाचूर्णं सुधां ज्योत्स्नां न्यवीविशत् ॥
संस्थाप्य तत्त्रयं ब्रह्मा देवानां मध्यतस्ततः ।
जगाद राजयक्ष्माणं तत्स्थानादि निदेशयन् ॥
ब्रह्मोवाच ।
सर्व्वदा यो दिवा रात्रौ सन्ध्यायां वनितारतः ।
सेवते सुरतं तस्मिन् राजयक्ष्मन् वसिष्यसि ॥
प्रतिश्यायश्वासकासयुक्तो यो मैथुनं चरेत् ।
स ते प्रवेश्यः सततं श्लेष्मणश्च तथाविधः ॥
कृष्णाख्या मृत्युपुत्त्री या भवतः सदृशी गुणैः ।
सा तेऽस्तु भार्य्या सततं भवन्तमनुयास्यति ॥
क्षीणत्वं भवतः कृत्यं ततस्त्वं विषये कुरु ।
द्रुतं गच्छ यथाकामं चन्द्रे त्वं विमुखो भव ॥
मार्कण्डेय उवाच ।
एवं विसृष्टो विधिना राजयक्ष्मा महागदः ।
पश्यतां सर्व्वदेवानामन्तर्द्धानं जगाम ह ॥
अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः ।
चन्द्रं समग्रयामास कलापञ्चदशैधितम् ॥
तेन क्षीरोदधौतेन सुधापूगेन वात्मभूः ।
सज्योत्स्नैस्तु कलाचूर्णैः पूर्व्ववच्चाकरोद्विधुम् ॥
स षोडशकलापूर्णः पूर्व्ववद्विबभौ यदा ।
चन्द्रस्तदा सर्व्वदेवा मुमुदुस्तस्य दर्शनात् ॥
अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम् ॥
उवाचेदं सुरसदो मध्यगो नातिहर्षितः ॥
पृष्ठ ४/१२४
सोम उवाच ।
न स्थानं पूर्व्ववद्ब्रह्मन् शरीरे मम वर्त्तते ।
न वीर्य्यं वा तथोत्साहो विसीदन्त्यङ्गसन्धयः ॥
नोत्सहे पूर्व्ववच्चेष्टां विधातुं सुतरामहम् ।
चेष्टाहीनस्त्वनुदिनं वर्त्तेयं केन लोकभृत् ॥
ब्रह्मोवाच ।
ग्रस्तस्य यक्ष्मणा सोम यदभूदङ्गसन्धयः ।
पूर्व्वं विशीर्णा भवतस्तत्पूर्णमभवन्न हि ॥
अधुना भवतो देहचूर्णं निःसारितं मया ।
शरीरात् सामृतज्योत्स्ना अञ्जसा राज-
यक्ष्मणः ॥
तेषां प्रक्षालनविधौ लवशो यत् स्थितं जले ।
ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान्
यतः ।
ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम् ॥
अत्रोपायं विधास्यामि यथा नार्त्तिं लभेद्भवान् ।
प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे ॥
ऐन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्व्वतः क्रतौ ।
ततोऽनु भवतो भागः पुरोडाशो मया कृतः ॥
तेन भागेन भुक्तेन नित्यं यज्ञहुतेन हि ।
पूर्ब्बवत्ते समुत्साहः स्थानं वीर्य्यं भविष्यति ॥
यश्चामृतकणास्तोये क्षीरोदस्य स्थितास्तव ।
शरीरचूर्णं यावत्ते ज्योत्स्नायाश्चापि ये कणाः ।
वृद्धिं यास्यन्ति सततं क्षीरसागरमध्यगाः ॥
स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शङ्करांशजः ।
दुर्व्वासा भविता विप्रः प्रचण्डश्चण्डभास्वरः ॥
स महेन्द्रस्याविनयात् शापं दत्त्वा सुदारुणम् ।
करिष्यति त्रिभुवनं निःश्रीकं ससुरासुरम् ॥
श्रिया हीने ततो लोके भविता लोकविप्लवः ।
यथा तव क्षयात् सोम प्रवृत्तो लोकविप्लवः ॥
तन्मानुषप्रमाणेन तृतीये तु कृते युगे ।
भविष्यति स्थास्यति च यावद्युगचतुष्टयम् ॥
ततश्चतुर्थे सम्प्राप्ते सह देवैः कृते युगे ।
क्षीरोदं निर्म्मथिष्यामः शम्भुर्विष्णुरहं तथा ॥
मन्थानं मन्दरं कृत्वा सर्पराजं तथांशुकम् ॥
यज्ञभागेषु हीनेषु देवान्नार्थं वयं ततः ।
मथिष्यामः समं देवैः क्षीरोदं सह दानवैः ।
त्वच्छरीरामृतमिदं यत् स्थितं क्षीरसागरे ॥
तत्प्रमथ्य ग्रहीष्यामो राशीभूतं तथाक्षयम् ।
सर्व्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् ।
क्षेप्स्थामः सागरजले शरीरार्थं विधो तव ॥
निर्म्मथ्य सागरं पश्चात् समुद्धार्य्य यदामृतम् ।
तदा तव वपुस्तस्मिन्नपूर्ब्बं सम्भविष्यति ॥
ओजो वीर्य्यांशुकं कान्तमक्षयञ्च सुधात्मकम् ।
दृढाङ्गसन्धिकं चारु भविष्यति वपुस्तव ॥
मार्कण्डेय उवाच ।
सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः ।
विधोः क्षयाय मासार्द्धं वृद्धये यत्नवानभूत् ॥
यथा दक्षेण गदितं मासार्द्धं यातु चन्द्रमाः ।
क्षयं वृद्धिञ्च मासार्द्धं यत्नं तत्राकरोद्विधिः ॥
यतः षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् ।
विभज्य च सुरान् सर्व्वान् समुवाचेदमद्भुतम् ॥
कलाः षोडश चन्द्रस्य तत्रैका शम्भुमूर्द्धनि ।
तिष्ठत्यद्यावधि पराः क्षयं यान्तु क्षयं विना ॥
क्षयेण यदि रोगेण मासार्द्धं दक्षवाक्यतः ।
क्षयाय पीड्यते चन्द्रो नोपशान्तिः सदा भवेत् ॥
किन्त्वस्य या कला शम्भौ ज्योत्स्ना गच्छन्तु तां
प्रति ।
चतुर्द्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः ॥
चतुर्द्दशकलासंस्थान्यमृतानि पिबन्तु वै ।
प्रतिपत्तिथिमारभ्य भवन्तस्त्वाचतुर्द्दशीम् ॥
तेजोभागाः सूर्य्यविम्बं चतुर्द्दशतिथौ क्रमात् ।
प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत् ॥
यातु शषा कलादर्शे हरित्पत्रे पलायिता ।
तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः ॥
द्वितीये दर्शभ्रागे तु रोहिण्या यातु मन्दिरम् ।
तृती तु सरस्वत्यां स्नात्वा सन्धुक्षितो विधुः ॥
चतुर्थे बलसंपूर्णस्तिथिभागे विभावसोः ।
मण्डलं यातु चन्द्रोऽयं सविम्बरथघोटकः ॥
यावत्कालेन हि कला प्रथमा क्षयमाप्नुयात् ।
एवमेवं कृष्णपक्षे तावत्स्था प्रतिपत् भवेत् ॥
द्वितीयादौ कृष्णपक्षे वृद्धिर्ह्नासस्तथाविधः ।
तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत् ॥
ततः पुनः शुक्लपक्षे यावत् पूर्ब्बा कलोदिता ।
वृद्धिमैति भवेत्तावत् प्रतिपत्तिथिरादितः ॥
ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्द्धनि ।
स्थितायां वै कलायान्तु गता सा पुनरेष्यति ॥
युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने ।
तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि ॥
स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरो-
त्तमाः ।
यथा दिने दिने भागाः क्षयं यान्ति तथा
विधोः ॥
वृद्धिं गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः ।
तेजोभागः सूर्य्यविम्बात् पुनरेव समेष्यति ॥
प्रयास्यति कृष्णपक्षे यथाभागक्रमन्तथा ।
ज्योत्स्नाहरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति ॥
तेजोभागः सूर्य्यविम्बादमृतं वत्स्यते स्वयम् ।
एवं वृद्धिः शुक्लपक्षे सुधांशोः संभविष्यति ॥
पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् ।
यावत्कालेन यो भागं क्षयं वृद्धिञ्च यास्यति ॥
तावत्कालमभिव्याप्य तिथिः स्थास्यति सा पुनः ॥
चिरेण वृद्धिर्यदि वा क्षयो वा
द्रुतेन वृद्धिर्यदि वा क्षयो वा ।
द्रुतात्तिथीनां तु सदा क्षयः स्या-
च्चिरात्तु वृद्धिस्थितिषु प्रवेशे ॥
हव्यं कव्यञ्च चन्द्रेण विना न संभविष्यति ।
तस्मात् तयोः प्रवृद्ध्यर्थं चन्द्रं रक्षन्तु देवताः ॥
आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः ।
अमावास्यापराह्ने तु पितृभी रोहिणीगृहे ॥
तस्यैवास्वादनात् कव्यं वृद्धिं यास्यति चान्वहम् ।
तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् ॥
श्रीमार्कण्डेय उवाच ।
ततः सुरगणाः सर्व्वे यथोक्तं विधिना तथा ।
चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयवृद्धये ॥
महादेवोऽपि चन्द्रार्द्धं स्वरूपं परमात्मनः ।
जग्राह देवैर्विधिना शिरसाभ्युदितो भृशम् ॥
यत्तेजः परमं नित्यमजमव्ययमक्षयम् ।
तत्स्वरूपाश्चन्द्रकलाः शापतस्तु क्षयं गताः ॥
प्रविशन्ति यदा ज्योतिरानन्दमजरं परम् ।
योगिनान्तु तदा तेषां चित्तं तल्लीनमेष्यति ॥
महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ ।
चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः ॥
एतज्ज्ञात्वा महादेवः क्षयवृद्ध्या विना कृतम् ।
हिताय सर्व्वलोकानां जग्राह शिरसा विधुम् ॥
चन्द्रज्योत्स्नासमायोगादोषध्यो यान्ति वृद्धये ।
सर्व्वौषधीषु वृद्धासु प्रवर्त्तन्ते ततोऽध्वराः ॥
अध्वरेषु प्रवृत्तेषु स्वान् स्वान भागांस्तु देवताः ।
परिगृह्णन्ति पितरस्तथा कव्यानि भूरि च ॥
अमृतं ब्रह्मणा सृष्टं यद्देवेभ्यः पूरातनम् ।
तेन तृप्यन्ति हीना ये हव्यभागेन दैवताः ॥
यज्ञेनाप्यायिते तच्च ज्योत्स्नाभिर्वृद्धिमेति वै ।
यज्ञज्योत्स्ना विना भूतं तच्च स्यात् क्षीण-
मन्यथा ॥
अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् ।
अतोऽस्य दक्षशापात्तु रक्षायै तच्चिकीर्षितम् ॥
अद्यापि कृष्णपक्षेऽपि सुधा संपीयते सुरैः ।
तेजः सूर्य्यं याति शम्भोश्चन्द्रार्द्धं ज्योत्स्निकातथा ।
पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः ।
ज्योत्स्नाद्वितीयो भागस्तु तेजोभागो द्वितीयकः ॥
अन्वेत्युग्रशिरश्चन्द्रात् सूर्य्यविम्बाद्यथाक्रमम् ।
कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे ॥
सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ ।
इति वः सर्व्वमाख्यातं विभक्तश्चन्द्रमा यथा ॥
ब्रह्मणा पर्व्वतश्रेष्ठे तथा तच्चन्द्रभागतः ।
यज्ञभागे स्थिते यस्माद्देवार्थमकरोद्धिधुम् ।
कव्ये स्थितेऽपि पित्रर्थं तिथिवृद्धिक्षयौ यथा ॥
इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः ।
राजयक्ष्मा तस्य कुले न कदाचिद्भविष्यति ॥
यक्ष्मणा परिभूतो यः शृणोति वचनं विधेः ।
अचिरात् यक्ष्मणा मुक्तः स भवेन्नरसत्तमः ॥
इदं स्वस्त्ययनं पुण्यं गुह्यात् गुह्यतरं परम् ।
यः शृणोत्येकचित्तः सन् स महापुण्यभाग्-
भवेत् ॥”
इति कालिकापुराणे २१ अध्यायः ॥

राजयोग्यः, त्रि, (राज्ञो योग्यः ।) राजार्हः ।

नृपोचितः । यथा, --
“त्रिकोणकण्टके सौम्ये पापे चोपचयस्थिते ।
राजयोग्या भवेन्नारी सुन्दरी कुलवर्द्धिनी ॥”
इति जातकामृतम् ॥

राजरङ्गं, क्ली, (राजयोग्यं रङ्गम् ।) रजतम् ।

इति शब्दरत्नावली ॥

राजराजः, पुं, (राज्ञामपि राजा धनाधिपत्वात् ।

“राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति
टच् ।) कुबेरः । इत्यमरः । १ । १ । ६३ ॥
(यथा, किरातार्ज्जुनीये । ५ । ५१ ।
पृष्ठ ४/१२५
“इत्युक्त्वा सपदि हितंप्रियं प्रियार्हे
धाम स्वं गतवति राजराजभृत्ये ।
सोत्कण्टं किमपि पृथासुतः प्रदध्यौ
सन्धत्ते भृशमरतिं हि सद्वियोगः ॥”)
सार्व्वभौमः । (यथा, रामायणे । २ । ९२ । १४ ।
“प्रयाणमिति च श्रुत्वा राजराजस्य योषितः ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥”)
सुधाकरः । इति मेदिनी । जे, ३६ ॥

राजरीतिः, स्त्री, पित्तलविशेषः । तत्पर्य्यायः ।

पाकतुण्डी २ राजपुत्त्री ३ महेश्वरी ४ ब्रह्माणी ५
ब्रह्मारीतिः ६ कपिला ७ पिङ्गला ८ । अस्य
गुणाः । तिक्तत्वम् । शीतलत्वम् । लवणत्वम् ।
शोधनत्वम् । पाण्डुवातक्रिमिप्लीहपित्तनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

राजर्षिः, पुं, (राजा ऋषिरिव श्रेष्ठत्वात् ।)

ऋतपर्णादिराजः । इति त्रिकाण्डशेषः ॥ तस्य
स्मरणं कलिनाशनम् । यथा, --
“कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम् ॥”
इति महाभारतम् ॥

राजलक्ष्मा, [न्] पुं, (राज्ञो लक्ष्म चिह्नं यत्र ।)

युधिष्ठिरः । इति धनञ्जयकोषः ॥ (राजचिह्न-
युक्ते, त्रि ॥)

राजलक्ष्मीः, स्त्री, (राज्ञो लक्ष्मीः ।) राजश्रीः ।

यथा, ज्योतिषतत्त्वे ।
“मन्त्रप्रभावनिपुणः प्रमदाविलासः
श्वेतातपत्रनृपपूजितदेशलाभः ।
हस्त्यश्वलाभधनपूर्णमनोरथः स्यात्
शौक्री दशा भवति निश्चलराजलक्ष्मीः ॥”

राजवंश्यः, त्रि, (राजवंशे भवः । राजवंश +

यत् ।) राजवंशोद्भवः । तत्पर्य्यायः । राज-
बीजी २ । इत्यमरः । २ । ७ । २ ॥

राजवर्त्म, [न्] क्ली, (राज्ञो वर्त्म पन्थाः ।) राज-

पथः । तत्पर्य्यायः । घण्टापथः २ संसरणम् ३
श्रीपथः ४ उपनिष्क्रमणम् ५ उपनिष्करम् ६
महापथः ७ । इति हेमचन्द्रः । ४ । ५३ ॥

राजवला, स्त्री, (राजते शोभते इति । राज् +

अच् । राजा वला इति कर्म्मधारयः ।)
भद्रवला । इत्यमरः । २ । ४ । १५३ ॥ गन्ध-
भादालिया इति भाषा ॥

राजवल्लभः, पुं, (राज्ञां वल्लभः ।) राजादनी ।

राजाम्रः । राजबदरः । इति राजनिर्घण्टः ॥
नारायणदासकविराजकृतद्रव्यगुणग्रन्थविशेषः ।
यथा, --
“श्रीनारायणदासेन कविराजेन धीमता ।
प्रतिसंस्क्रियते द्रव्यगुणोऽयं राजवल्लभः ॥”
इति तस्य द्वितीयश्लोकः ॥
नृपप्रिये, त्रि ॥ (यथा, मार्कण्डेये । ४९ । ४९ ।
“दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली ।
ग्राम एवाक्रिमीसंज्ञो राजवल्लभसंश्रयः ॥”)

राजवल्ली, स्त्री, (राजप्रिया वल्ली ।) तोयवल्ली ।

इति रत्नमाला ॥ उक्व्या इति भाषा ॥

राजवान्, [त्] त्रि, (राजास्त्यस्येति । राजन् +

मतुप् । मस्य वः ।) राजमात्रयुक्तदेशः ।
यथा, --
“सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राज-
वान् ॥”
इत्यमरः । २ । १ । १३ ॥
(नृपविशिष्टः । यथा, महाभारते । ५ । १ । ७ ।
“रराज सा राजवती समृद्धा
ग्रहैरिव द्यौर्व्विमलैरुपेता ॥”)

राजवाहः, पुं, (राजानं वहतीति । वह् + अण् ।)

घोटकः । इति शब्दचन्द्रिका ॥

राजवाह्यः, पुं, (राज्ञां वाह्यः ।) राजवाहक-

हस्ती । तत्पर्य्यायः । उपवाह्यः २ । इति
हेमचन्द्रः ॥ विजयकुञ्जरः ३ । इति त्रिकाण्ड-
शेषः ॥ राजवहनीये, त्रि ॥

राजवृक्षः, पुं, (वृक्षाणां राजा । राजदन्तादित्वात्

परनिपातः ।) आरग्वधवृक्षः । इत्यमरः ॥
पियालवृक्षः । इति मेदिनी ॥ लङ्कास्थायी वृक्षः ।
इति शब्दचन्द्रिका ॥ लङ्कासिज् इति भाषा ॥

राजशणः, पुं, (राजः शोभमानः शणः ।) पट्टः ।

इति शब्दमाला ॥ पाट् इति भाषा ॥

राजसफरः, पुं, इल्लिशमत्स्यः । इति हारावली ॥

राजशय्या, स्त्री, (राज्ञः शय्या ।) राज्ञः शय-

नीयम् । तत्पर्य्यायः । महाशय्या २ । इति
हेमचन्द्रः ॥

राजशाकः, पुं, (राजप्रियः शाकः । शाकानां

राजा इति वा ।) वास्तूकम् । इति राज-
निर्घण्टः ॥

राजशुकः, पुं, (शुकानां राजा । राजदन्तादित्वात्

परनिपातः ।) पक्षिविशेषः । राजा शूगा
इति हिन्दी भाषा । तत्पर्य्यायः । प्राज्ञः २
शतपत्रः ३ नृपप्रियः ४ । इति राजनिर्घण्टः ॥

राजशृङ्गं, क्ली, राजच्छत्रम् । तत्पर्य्यायः । कनक-

दण्डकम् २ । इति त्रिकाण्डशेषः ॥

राजशृङ्गः, पुं, मद्गुरमत्स्यः । इति हेमचन्द्रः ॥

राजसः, त्रि, (रजसो भवः । रजस् + अण् ।)

रजोगुणोद्भवः । लल्लक्षणं यथा, --
“आरम्भरुचिताधैर्य्यमसत्कार्य्यपरिग्रहः ।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥”
आरम्भरुचिता फलार्थं कर्म्मानुष्ठानशीलता ॥ * ॥
संक्षेपतस्तल्लक्षणं यथा, --
“येनास्मिन् कर्म्मणा लोके ख्यातिमिच्छति
पुष्कलाम् ।
न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम् ॥”
तस्माद्गतिर्यथा, --
“देवत्वं सात्त्विका यान्ति मनुष्यत्वञ्च राजसाः ।
तिर्य्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥”
तद्गतिप्रकारा यथा, --
“झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥
राजानः क्षत्त्रियाश्चैव राज्ञश्चैव पुरोहिताः ।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥
गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये ।
तथैवाप्सरसः सर्व्वा राजसीषूत्तमा गतिः ॥”
इति वामने १२ अध्यायः ॥
राजसाहारा यथा, --
“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥”
राजसयज्ञो यथा, --
“अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥”
राजसतपो यथा, --
“सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥” * ॥
राजसदानं यथा, --
“यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥”
इति श्रीभगवद्गीतायाम् १७ अध्यायः ॥
राजसत्यागो यथा, --
“दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् ।
स कृत्वा राजसत्यागं नैव त्यागफलं लभेत् ॥”
राजसज्ञानं यथा, --
“पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्-
विधान् ।
वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥”
राजसकर्म्म यथा, --
“यत्तु कामेप्सुना कर्म्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥” * ॥
राजसकर्त्ता यथा, --
“रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः ॥”
राजसी बुद्धिर्यथा, --
“यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥”
राजसी धृतिर्यथा, --
“यया तु धर्म्मकामार्थान् धृत्या धारयते-
ऽर्ज्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥”
राजससुखं यथा, --
“विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत् सुखं राजसं स्मृतम् ॥”
इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥ * ॥
राजसपुराणानि यथा, --
“ब्रह्माण्डं ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव च ।
भविष्यं वामनं ब्राह्मं राजसानि निबोधत ॥” ॥
राजसस्मृतयो यथा, --
“च्यावनं याज्ञवल्क्यञ्च आत्रेयं दाक्षमेव च ।
कात्यायनं वैष्णवञ्च राजसाः स्वर्गदा मताः ॥”
इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥

राजसदनं, क्ली, (राज्ञः सदनम् ।) राजगृहम् ।

तत्पर्य्यायः । सौधः २ । इत्यमरः । २ । २ । १० ॥
भूपालभवनम् ३ सुधामयम् ४ । इति शब्द-
रत्नावली ॥ तद्भेदा यथा, --
“सौधोऽस्त्री राजसदनमुपकार्य्योपकारिका ।
स्वस्तिकः सर्व्वतोभद्रो नन्द्यावर्त्तादयोऽपि च ।
विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् ॥”
इत्यमरः । २ । २ । १० ॥