शब्दकल्पद्रुमः/र

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/०69

, रेफः । यथा । वर्णात् कारतकारौ रादेफः ।

इति कलापसंक्षिप्तसारव्याकरणे ॥ रेफात्
कारश्च । रकारः । इति प्रक्रियाकौमुदी ॥ स तु
सप्तविंशहलवर्णः । तस्योच्चारणस्थानं मूर्द्धा ।
इति मुग्धबोधव्याकरणम् ॥ * ॥ (तथा च
शिक्षायाम् । १७ ।
“स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः
स्मृताः ॥”)
तस्य स्वरूपं यथा, --
“रेफञ्च चञ्चलापाङ्गि ! कुण्डलीद्वयसंयुतम् ।
रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा ।
पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा ॥”
इति कामधेनुतन्त्रे ६ पटलः ॥ * ॥
तस्य लेखनप्रकारो यथा, --
“दक्षतः कुण्डली रेखा वामाद्दक्षगताप्यधः ।
पुनर्द्दक्षगता द्बेधा ततोऽधोगत्य चोर्द्ध्वतः ॥
भवानी शङ्करो वह्निस्तासु तिष्ठन्ति नित्यशः ।
अर्द्धमात्रा ब्रह्मरूपा महाशक्तिः प्रकीर्त्तिता ॥”
अपि च ।
“ऊर्द्ध्वाधःक्रमतो रेखा त्रिकोणाधोगता हि सा ।
विधिरीशः केशवश्च तासु तिष्ठन्ति नित्यशः ॥
ऊर्द्ध्वस्थिता तु या मात्रा सा शक्तिः परि-
कीर्त्तिता ।
तस्य मध्यगता रेखा वह्निरूपा हि सा स्मृता ।
निर्गुणोऽसौ सदा वर्णो न कदाचित् गुणीभवेत् ॥”
अस्य ध्यानं यथा, --
“ललज्जिह्वां महारौद्रीं रक्तास्यां रक्तलोच-
नाम् ।
रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम् ॥
रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् ।
महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिकाम् ॥
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
तत्प्रणाममन्त्रो यथा, --
“त्रिशक्तिसहितं देवि ! आत्मादितत्त्वसंयुतम् ।
सर्व्वतेजोमयं वर्णं सततं प्रणमाम्यहम् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
तस्य नामानि यथा, --
“रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः ।
प्रकाशादर्शनो दीपो रतकृष्णापरं बली ॥
भुजङ्गेशो मतिः सूर्य्यो धातुरक्तः प्रकाशकः ।
व्यापको रेवतीदासं कुक्ष्यंशो वह्निमण्डलम् ॥
उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा ।
प्रकृतिः सुगलो ब्रह्मशब्दश्च गायको धनम् ॥
श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी ।
सबिन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतो-
मुखी ॥”
इति नानातन्त्रशास्त्राणि ॥
(छब्दःशास्त्रोक्तगणविशेषः । यथा, छन्दो-
मञ्जर्य्याम् । १ । ८ । “र-लमध्यः ।” लघुवर्णमध्यो
रः भवति । तस्येदं साङ्केतिकं चिह्नम् ऽ।ऽ
पद्यादौ अस्याक्षरस्य प्रयोगे दाहो भवति ।
यदुक्तं वृत्तरत्नाकरटीकायाम् ।
“यो लक्ष्मीं रस्तु दाहं व्यसनमथ लवौ शः सुखं
षस्तु खेदम् ॥”
धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे ।
“--क्षो जक्षादि र वैदिकः ।”
“वैदिको वेदेष्वेव प्रयुक्तो न तु भाषाया-
मित्यर्थः । यथा, गार्लि स्तुतौ जगाति ॥”)

रः, पुं, (राति ऊर्द्ध्वं गतच्छीति । रा + डः ।)

पावकः । तीक्ष्णः । इति मेदिनी । रे, १ ॥
कामवह्निः । इति शब्दरत्नावली ॥

रंहः, [स्] क्ली, (रमते येन इति । रम् +

“रमेश्च ।” उणा० ४ । २१३ । इति असुन् ।
हुगागमश्च धातोः । “अहिरहिभ्यामसुन्
इति अंहो रहः । इति धातुप्रदीपः ।” इत्यु-
ज्ज्वलदत्तः ।) वेगः । इत्यमरः । १ । १ । ६७ ॥
(यथा, रघुवंशे । २ । ३४ ।
“अलं महीपाल ! तव श्रमेण
प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्तिरंहः
शिलोच्चये मूर्च्छति मारुतस्य ॥”
महादेवः । यथा, महाभारते । १४ । ८ । १५ ।
“हरिनेत्राय मुण्डाय कृशायोत्तरणाय च ।
भास्वराय सुतीर्थाय देवदेवाय रंहसे ॥”
विष्णुः । यथा, महाभारते हरिवंशपर्व्वणि
२५२ । १८ ।
“नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ।
प्रयाताः प्राग्दिशं पुण्यां विपुलं कश्यपाश्र-
मम् ॥”)

रक, क स्वादे । आपने । इति कविकल्पद्रुमः ॥

स्वादो रसोपादनम् । क, राकयति मोदकं
बालकः । इति दुर्गादासः ॥

रक्तं, क्ली, (रज्यत अङ्गमनेनेति । रन्ज् + क्तः ।)

कुङ्कुमम् । ताम्रम् । (अस्य पर्य्यायो यथा, --
“रक्तंवरिष्ठं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥”
इति वैद्यकरत्नमालायाम् ॥)
प्राचीनामलकम् । इति मेदिनी । ते, ४८ ॥
पद्मकम् । (अस्य पर्य्यायो यथा, --
पृष्ठ ४/०७०
“रक्तं कोकनदं पद्ममल्पमन्यदलोहितम् ॥”
इति रत्नमाला ॥)
सिन्दूरम् । हिङ्गुलम् । इति राजनिर्घण्टः ॥
(अस्य पर्य्यायो यथा, --
“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥”
इति रत्नमाला ॥)
(रक्तचन्दनभेदः । तत्पर्य्यायो यथा, --
“पतङ्गं रञ्जनं रक्तं पत्राङ्गञ्च कुचन्दनम् ॥”
इति रत्नमाला ॥)
शरीरस्थसप्तधात्वन्तर्गतधातुविशेषः । तत्-
पर्य्यायः । रुधिरम् २ असृक् ३ लोहितम् ४
अस्रम् ५ क्षतजम् ६ शोणितम् ७ । इत्य-
मरः । २ । ६ । ६४ ॥ पलङ्कारम् ८ रोहितम् ९
रङ्गकम् १० । इति शब्दरत्नावली ॥ कीला-
लम् ११ अङ्गजम् १२ रोधिरम् १३ स्वजम् १४ ।
इति जटाधरः ॥ त्वग्जम् १५ शोणम् १६
लोहम् १७ चर्म्मजम् १८ । इति राज-
निर्घण्टः ॥ * ॥ अथ रक्तस्य स्वरूपमाह ।
“यदा रसो यकृद्याति तत्र रञ्जकपित्ततः ।
रागं पाकञ्च संप्राप्य स भवेद्रक्तसंज्ञकः ॥
रक्तं सर्व्वशरीरस्थं जीवस्याधार उत्तमः ।
स्निग्धं गुरु चलं स्वादु विदग्धं पित्तवद्भवेत् ॥
जीवस्याधार उत्तम इति । यत आह ।
जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः ।
वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणा-
दिति ॥
वीर्य्ये रक्ते मले च शरीरारम्भके । वाग्भटोक्त-
परिमाणमिते शुद्धे जीवो वसति न तु दुष्टे
प्रवृद्धे रक्तस्रावणोपदेशस्य वैयर्थ्यप्रसङ्गात् ।
पित्तवद्भवेत् । अम्लं भवेदित्यर्थः ॥ * ॥ अथ
रक्तस्य स्थानमाह ।
यकृत् प्लीहा च रक्तस्य मुखं स्थानं तयोः
स्थितम् ।
अन्यत्रापि स्थितवतां रक्तानां पोषकं भवेत् ॥”
इति भावप्रकाशः ॥
रक्तदोषनाशकौषधं यथा, --
“ब्रह्मयष्टिफलं पिष्टं वारिणा तनु लेपतः ।
तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥”
इति गारुडे १९२ अध्यायः ॥
(“स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य राग
मुपैति ॥ भवतश्चात्र ।
रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ।
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते ।
तद्बर्षाद्द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥”
“रसाद्रक्तं ततो मांसम् ॥”
“तत्र फेनिलमरुणं कृष्णं परुषं तनु शीघ्र-
गमस्कन्दि च वातेन दुष्टम् । नीलं पीतं
हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षि-
काणामस्कन्दि च पित्तदुष्टम् । गैरिकोदक-
प्रतीकाशं स्निग्धं शीतलं वहलं पिच्छिलं चिर-
सावि मांसपेशीप्रभं श्लेष्मदुष्टञ्च । सर्व्वलक्षण-
संयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्नि-
पातदुष्टम् । पित्तवद्रक्तेनातिकृष्णञ्च । द्विदोष-
लिङ्गं संसृष्टम् ॥”
“इन्द्रगोपप्रतीकाशमसंहतमविवर्णञ्च प्रकृतिस्थं
जानीयात् ॥”
“त्वग्दोषा ग्रन्थयः शोफाः रोगाः शोणित-
जाश्च ये ।
रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥”
“देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते ।
तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥
इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ * ॥
“शीतोष्णस्निग्धरुक्षद्यैरुपक्रान्ताश्च ये गदाः ।
सम्यक्साध्या न सिद्धन्ति रक्तजांस्तान् विभा-
वयेत् ॥”
अरुणाभं भवेद्बातात् फेणिलं विषदं तनु ।
पित्तात्पीतासितं रक्तं सौष्ण्यात्स्त्यायति वै
चिरात् ॥
ईषत् पाण्डुकफाद्दुष्टं पिच्छिलं तन्तुमद्घनम् ।
द्विदोषलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥”
“नात्युष्णशीतं लघुदीपनीयं
रक्तेऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनवस्थितासृ-
गग्निर्व्विशेषेण च रक्षितव्यः ॥
प्रसन्नवर्णेन्द्रियमिन्द्रियार्था
निच्छन्तमव्याहतपक्तिवेगम् ।
सुखान्वितं पुष्टिबलोपपन्नं
विशुद्बरक्तं पुरुषं वदन्ति ॥”
इति चरके सूत्रस्थाने २४ अध्यायः ॥)

रक्तः, पुं, लोहितवर्णः । इत्यमरः । १ । ५ । १५ ॥

कुसुम्भः । हिज्जलः । इति राजनिर्घण्टः ॥
(बन्धूकः ॥ तत्पर्य्यायो यथा, --
“बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि
च ॥”
इति भावप्रकाशष्य पूर्ब्बखण्डे प्रथभे भागे ॥)

रक्तः, त्रि, अनुरक्तः । नील्यादिरञ्जितः । लोहितः ।

इति मेदिनी । ते, ४८ ॥ क्रीडारतः । इति
धरणिः ॥ * ॥ रक्तवर्णवस्तुनि यथा, --
“शोणानि भौमतीक्ष्णांशुताम्रकुङ्कुमतक्षकाः ।
गुञ्जेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ॥
दृगन्ताधरजिह्वासृङ्मांससिन्दूरधातवः ।
हिङ्गुलं कुक्कुटशिखा तेजः सारसमस्तकम् ॥
माणिक्यं हंसचञ्च्वङ्घ्री शुकमर्कटयोर्मुखम् ।
चकोरकोकिलपारावतनेत्रनखाग्नयः ॥
कुसुम्भकिंशुकाशोकजवाबन्धूकपाटलाः ।
कमलं दाडिमीपुष्पं विम्बकिम्पाकपल्लवौ ॥
ताम्बूलरागो मञ्जिष्ठालक्तकं रक्तचन्दनम् ।
त्रेता नखक्षतक्षेत्रधर्म्मरौद्ररसादयः ॥” * ॥
रक्तनीलवाचकानि यथा, --
“लोहितनीलौ पुष्करहरिविद्रुमकमलकृष्ण-
रत्नानि ।
सिन्दूरभूषणोत्पलधनञ्जयाम्भोजिनीदलानि ॥”
यथा । पुष्करं पद्माकाशयोः । हरिः सूर्य्य-
कृष्णयोः । विद्रुमः प्रवालविशिष्टवृक्षयोः ।
कमलं पद्मपाणीयामलयोः कृष्णरत्नं कौस्तु-
भेन्द्रनीलयोः । सिन्दूरभूषणं सिन्दूरालङ्कार-
गजयोः । उत्पलमुत्कृष्टमांसेन्दीवरयोः । धन-
ञ्जयोऽग्निपार्थयोः । अम्भोजिनीदलं पद्मपत्रपु-
टकिन्योः ।
“कमलाधिपपद्मेशौ नागजित्कान्तसूर्य्यभूः ।
रत्नाकरवरश्रीकः सदाधिकमलद्युतिः ॥”
कमलाधिपपद्मेशौ सूर्य्यकृष्णौ । नागजित्
गरुडो नागस्पर्द्धी च । कान्तः कमनीयः कं
जलं तस्यान्तश्च । सूर्य्यभूः सूर्य्योद्भवो यमश्च ।
“सदा सिन्दूरमुज्जेता कलयन् कमलश्रियम् ।
स्फुटशोभनताम्रश्रीर्व्वराहस्वामिदीधितिः ॥
एवं सुसम्पन्नखप्रभः विदूरमणिदीधितिः ।
प्रबालप्रबलच्छायः कलभानुमितच्छविः ॥” * ॥
रक्तश्वेतवाचकानि यथा, --
“रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्यका-
न्ताब्जः ।
नवहंसमहापद्मार्कसोदराः कमलकीलाले ॥”
हरिञ्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः ।
पुष्करं जलपद्मयोः । शतपत्रं हंसपद्मयोः । सूर्य्य-
कान्तः स्फटिके सूर्य्यवत्कान्ते च । अब्जः शङ्खाम्बु-
जयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महा-
पद्मः श्वेतनागे पद्मे च । अर्कः स्फटिकसूर्य्ययोः ।
कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः ।
“सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः ।
जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥”
भानोः परस्मात् सुहृद्रत्नादिभिः ॥ * ॥
सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च ।
भानुरत्नं सूर्य्यकान्तः रविपद्मरागौ च । अग्नि-
रत्नं सूर्य्यकान्तोऽग्निपद्मरागौ च । रदांशुकं
दन्तवस्त्रे अधरश्च । जलजशोभा जलजा चासौ
शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारि-
शोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः ।
कुमुदारिशोभा कुमुदस्पर्द्धिशोभा पक्षे कुमु-
दारिरादित्यः । इति कविकल्पलतायाम् २
श्लेषस्तवके उद्दिष्टवर्णनं नाम १ कुसुमम् ॥

रक्तकः, पुं, (रक्तं रक्तवर्णं कायति प्राप्नोतीति ।

कै + कः ।) अम्लानवृक्षः । बन्धूकवृक्षः । रक्त-
वस्त्रम् । अनुरागी । इति मेदिनी । के, १४५ ॥
विनोदी । इति शब्दरत्नावली ॥ रक्तशिग्रुः ।
रक्तैरण्डः । इति राजनिर्घण्टः ॥ (अश्व-
विशेषः । यथा, अश्ववैद्यके । ३ । १०० ।
“पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृतः ।
पक्वतालनिभो वाजी कयाहः परिकीर्त्तितः ॥”
रक्त एव स्वार्थे कन् । लोहितवर्णे, त्रि ।
यथा, बृहत्संहितायाम् । ८ । ४६ ।
“अलसस्तु जनः प्रमादिसंज्ञे
डमरं रक्तकपुष्पबीजनाशः ॥”)

रक्तकन्दः, पुं, (रक्तः रक्तवर्णः कन्दोऽस्य ।) विद्रुमः ।

इति हेमचन्द्रः । ४ । १३२ ॥ राजपलाण्हुः ।
रक्तालुः । इति राजनिर्घण्टः ॥
पृष्ठ ४/०७१

रक्तकन्दलः, पुं, (रक्तं रक्तवर्णं कन्दलं नवाङ्कुरो

यस्य ।) प्रवालम् । इति त्रिकाण्डशेषः ॥
(गुणादयोऽस्य प्रवालशब्दे विज्ञेयाः ॥)

रक्तकमलं, क्ली, (रक्तं रक्तवर्णं कमलम् ।) रक्त-

वर्णोत्पलम् । तत्पर्य्यायः । कोकनदम् २ रक्ताम्भो-
जम् ३ अरुणकमलम् ४ शोणपद्मम् ५ रक्तोत्-
पलम् ६ अरविन्दम् ७ रविप्रियम् ८ रक्त-
वारिजम् ९ । (रक्तकम्बलम् १० । इति पाद्मो
त्तरखण्डे १३ अध्यायः ॥) अस्य गुणाः । कटु-
त्वम् । तिक्तत्वम् । मधुरत्वम् । शिशिरत्वम् ।
रक्तदोषहरत्वम् । पित्तकफवातशमनत्वम् ।
सन्तर्पणकारणत्वम् । वृष्यत्वञ्च । इति राज-
निर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् ।
रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥
धवलं कमलं शीतं मधुरं कफपित्तजित् ।
तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम् ॥”
इति भावप्रकाशः ॥

रक्तकम्बलं, क्ली, (कम्बलं जलमाश्रयत्वेनास्त्यस्येति ।

अर्श आद्यच् । रक्तं रक्तवर्णं कम्बलमुत्पल-
मिति ।) रक्तोत्पलम् । यथा, --
“चन्दनागुरुकर्पूरकुङ्कुमैश्च सुगन्धिभिः ।
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकम्बलैः ॥
फलैर्धूपैरपूपैश्च शोभनैर्गुडमिश्रितैः ।
अर्च्चयेद्बलिराजानं मन्त्रेण द्विजसत्तमः ॥”
इति पाद्मोत्तरखण्डे १३ अध्यायः ॥

रक्तकरवीरकः, पुं, (करवीर + स्वार्थे कन् । ततो

रक्तः रक्तवर्णः करवीरकः ।) लोहितवर्णकर-
वीरपुष्पवृक्षः । लाल् कनेल् इति हिन्दी
भाषा । तत्पर्य्यायः । रक्तप्रसवः २ गणेश-
कुसुमः ३ चण्डीकुसुमः ४ क्रूरः ५ भूतद्रावी ६ रवि-
प्रियः ७ । अस्य गुणाः । कुटुत्वम् । तीक्ष्णत्वम् ।
विशोधनत्वम् । त्वद्गोषव्रणकण्डूतिकुष्ठविषहर-
त्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः ।
द्बितीयो रक्तपुष्पश्च चण्डलो लगुडस्तथा ॥
करवीरद्बयं तिक्तं कषायं कटुकञ्च तत् ।
व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् ।
वीर्य्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम् ॥”
इति भावप्रकाशः ॥

रक्तकाञ्चनः, पुं, (रक्तः रक्तवर्णः काञ्चनः ।)

स्वनामख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः ।
विदलः २ चमरिकः ३ । इति शब्दरत्नावली ॥
काञ्चनालः ४ ताम्रपुष्पः ५ कुदारः ६ । इति
जटाधरः ॥

रक्तकाण्डा, स्त्री, (रक्तः रक्तवर्णः काण्डः दण्डो-

ऽस्याः ।) रक्तपुनर्नवा । इति राजनिर्घण्टः ॥
(विवरणमस्या रक्तपुनर्नवाशब्दे विज्ञेयम् ॥)

रक्तकाष्ठं, क्ली, (रक्तं काष्ठं यस्य ।) पत्तङ्गम् ।

इति राजनिर्घण्टः ॥ लोहितवर्णदारु च ॥

रक्तकुमुदं, क्ली, (रक्तं रक्तवर्णं कुमुदम् ।) रक्त-

कैरवम् । इति जटाधरः ॥

रक्तकुसुमः, पुं, (रक्तानि रक्तवर्णानि कुसुमा-

न्यस्य ।) पारिभद्रः । धन्वनवृक्षः । इति राज-
निर्घण्टः ॥

रक्तकेशरः, पुं, (रक्ताः केशराः किञ्जल्काः अस्य ।)

पारिभद्रः । इति रत्नमाला ॥

रक्तकैरवं, क्ली, (रक्तं रक्तवर्णं कैरवम् ।) रक्त-

कुमुदम् । इति जटाघरः ॥ (यथास्य पर्य्यायः ।
“तदल्पगन्धं सोमाख्यं हल्लुकं रक्तकैरवम् ॥”
इति वैद्यकरत्नमाला ॥)

रक्तकोकनदं, क्ली, (रक्तं रक्तवर्णं कोकनदम् ।)

रक्तोत्पलम् । इति जटाधरः ॥ (विशेषोऽस्य
रक्तोत्पलशब्दे ज्ञातव्यः ॥)

रक्तखदिरः, पुं, (रक्तः रक्तवर्णः खदिरः ।)

रक्तवर्णखदिरवृक्षः । तत्पर्य्यायः । रक्तसारः २
सुसारः ३ ताम्रसारकः ४ बहुशल्यः ५ याज्ञिकः ६
कुष्ठनोदनः ७ यूपद्रुमः ८ अस्रखदिरः ९
अरुः १० । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
कषायत्वम् । गुरुत्वम् । तिक्तत्वम् । आमवाता-
स्रवातव्रणभूतज्वरनाशित्वञ्च । इति राज-
निर्घण्टः ॥ तत्पर्य्यायगुणाश्च ।
“खदिरो रक्तसारश्च गायत्त्री दन्तधावनः ।
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥
खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् ।
तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् ।
श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ॥”
इति भावप्रकाशः ॥

रक्तगन्धकं, क्ली, (रक्तं रक्तवर्णं गन्धकम् ।)

वोलम् । इति राजनिर्घण्टः ॥

रक्तगुल्मः, पुं, (रक्तजो गुल्मः इति मध्यपदलोपी

कर्म्मधारयः ।) स्त्रीणां रक्तजगुल्मरोगः । तस्यौ-
षधं यथा, --
“द्विजयष्टीत्रिकटुकं चूर्णं षीतं हरेच्छिव ! ।
तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ! ॥”
इति गारुडे १९६ अध्यायः ॥
(तथास्य निदानादिकं यथा, --
“शोणितगुल्मस्तु खलु स्त्रिया एव भवति न
पुरुषस्य गर्भकोष्ठार्त्तवागमनवैशेष्यात् । पार-
तन्त्र्यादवैशारद्यात् सततमपचारानुरोधा-
द्वेगानुदीर्णानुपरुन्धन्त्या आमगर्भे वाप्यचिरात्
पतिते तथाप्यचिरप्रजाताया ऋतौ वा वात-
प्रकोपनान्यासेवमानाया वातः प्रकोपमाप-
द्यते । स प्रकुपितो योन्या मुखमनुप्रविश्यार्त्तव-
मुपरुणद्धि मासि मासि तदार्त्तवमुपरुध्यमानं
कुक्षि वर्द्धयति । तस्याः शूलकासातीसार-
च्छर्द्यरोचकाविपाकाङ्गमर्द्दनिद्रालस्यकफप्रसेकाः
समुपजायन्ते स्तनयोश्च स्तन्यमोष्ठयोः स्तनमण्ड-
लयोश्च कार्ष्ण्यं म्लानिः चक्षुषोर्मूच्छा हृल्लासो
दोहदः श्वयथुः पादयोरीषच्चोद्गमो रोमराज्या
योन्याश्चाजालत्वमपिच योन्या दौर्गन्ध्यमास्राव-
श्चोपजायते । केवलश्चास्या गुल्मः स्यन्दते
तामगर्भाङ्गर्भिणीमित्याहुर्मूढाः ॥” इति चरके
निदानस्थाने तृतीयेऽध्याये ॥ यथा च ।
“न स्पन्दते नोदरमेति वृद्धिं
भवन्ति लिङ्गानि च गर्भिणीनाम् ।
तं गर्भकालातिगमे चिकित्म्य-
मसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ॥”
इति सुश्रुते उत्तरतन्त्रे ४२ अध्यायः ॥
तथा च । रक्तगुल्मस्तु स्त्रिया एव प्रजायते ।
यथा, --
“ऋतौ वा नवसूता वा यदि वा योनिरोगिणी ।
सेवते वातलानिस्त्री क्रुद्धस्तस्याः समीरणः ॥
निरुणद्ध्यार्त्तवं योन्यां प्रतिमासमवस्थितम् ।
कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च ॥
हृल्लासदौर्हृदस्तन्यदर्शनं क्षामतादिकम् ।
क्रमेण वायुसंसर्गात् पित्तयोनितया च तत् ॥
शोणितं कुरुते तस्या वातपित्तोत्यगुल्मजान् ।
रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान् ॥
गर्भाशये च सुतरां शूल दुष्टासृगाश्रये ।
योन्याश्च स्रावदौर्गन्ध्यतोदस्यन्दनवेदनाः ॥
न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान् ।
पिण्डीभूतः स एवस्याः कदाचित् स्पन्दते
चिरात् ॥
न चास्या वर्द्धते कुक्षिर्गुल्म एव तु वर्द्धते ।
स्वदोषसंश्रयो गुल्मः सर्व्वो भवति तेन सः ॥’
पाकं चिरेण भजते नैव वा -- ॥”
इति वाभटे निदानस्थाने एकादशेऽध्याये ॥ * ॥
तथास्य चिकित्सा ।
“सरक्तगुल्मे न च पाचनन्तु
न हिङ्गुपानं कटिचालनञ्च ।
न चैव संस्वेदनमर्द्दनञ्च
न वा क्रमेन्नोत्प्लवनं हितञ्च ॥
रोध्रार्ज्जुनं खदिरमागधिका समङ्गा
क्वाथोऽम्रवेतससमं घृतसंप्रयुक्तम् ।
गुल्मं सरक्तमपि चाथ निहन्ति शीघ्रं
हृत्क्लेदनञ्च विनिहन्ति च क्रुद्धरक्तम् ॥
क्षीरपानं प्रदातव्यं घृतसौवर्च्चलान्वितम् ।
रक्तगुल्मविनाशाय यकृद्बिक्षतजेऽपि वा ॥
न हिङ्गुसंयुतं पथ्यं न चोष्णं न विदाहि च ।
रक्तजे क्षतजे गुल्मे मांसानि जाङ्गलानि च ॥”
इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥)
अन्यत् गुल्मशब्दे द्रष्टव्यम् ॥ * ॥

रक्तघ्नः, पुं, (रक्तं हन्तीति । हन् + “अमनुष्य-

कर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।)
रोहितकवृक्षः । इति जटाधरः ॥ (रहितक-
शब्देऽस्य विशेषो ज्ञेयः ॥)

रक्तघ्नी, स्त्री, (रक्तं हन्तीति । इन् + टक् । ङीष् ।)

दूर्व्वाविशेषः । गाँठिया दूर्वा इति भाषा ॥ यथा,
“महौषधिश्च गोलोम्यां रक्तघ्नी रक्तपित्तहा ॥”
इति शब्दचन्द्रिका ॥

रक्तचन्दनं, क्ली, (रक्तं रक्तवर्णं चन्दनम् ।) रक्त

वर्णचन्दनकाष्ठम् । (यथा, रामायणे । २ । ३३ । ९ ।
“पद्मरागोचितां सीतां रक्तचन्दनसेविनीम् ।
वर्षमुष्णञ्च शीतञ्च नेष्यत्याशु विवर्णताम् ॥”)
तत्पर्य्यायः । तिलपर्णो २ पत्राङ्गम् ३ रञ्ज-
पृष्ठ ४/०७२
नम् ४ कुचन्दनम् ५ । इत्यमरः । १ । ६ ।
१३२ ॥ ताम्रसारम् ६ ताम्रवृक्षः ७ चन्द-
नम् ८ । इति रत्नमाला ॥ लोहितम् ९
शोणितचन्दनम् १० रक्तसारम् ११ ताम्र-
सारकम् १२ क्षुद्रचन्दनम् १३ अर्कचन्द-
नम् १४ । इति राजनिर्घण्टः ॥ रक्ताङ्गम् १५
प्रवालफलम् १६ । इति भावप्रकाशः ॥ पत्त-
ङ्गम् १७ पत्तगम् १८ रक्तबीजम् १९ । इति
शब्दरत्नावली ॥ अस्य गुणाः । अतिशीतल-
त्वम् । तिक्तत्वम् । ईक्षणगतास्रदोषभूतपित्त-
कफकासज्वरभ्रान्तिजन्तुवमथुतृषानाशित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“रक्तं शीतं गुरु स्वादु च्छर्द्दितृष्णास्रपित्तहृत् ।
तिक्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम् ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“रक्तपित्तहरं बल्यं चक्षुष्यं रक्तचन्दनम् ॥”
इति राजवल्लभः ॥

रक्तचित्रकः, पुं, (रक्तो रक्तवर्णश्चित्रकः ।)

क्षुपविशेषः । राङ्गचिता इति भाषा ॥ तत्-
पर्य्यायः । कालः २ अत्यालः ३ कालमूलः ४
अतिदीप्यः ५ मार्ज्जारः ६ अग्निः ७ दाहकः ८
पावकः ९ चित्राङ्गः १० महाङ्गः ११ । अस्य
गुणाः । प्रत्नकायकरत्वम् । रुच्यत्वम् । कुष्ठ-
घ्नत्वम् । लोहवेधकत्वम् । रसनियामकत्वम् ।
रसायनत्वञ्च । इति राजनिर्घण्टः ॥

रक्तचूर्णं, क्ली, (रक्तं रक्तवर्णं चूर्णम् ।) सिन्दू-

रम् । इति हारावली । ४४ ॥ रक्तवर्णचूर्ण-
मात्रञ्च ॥

रक्तजन्तुकः, पुं, (रक्तः रक्तवर्णो जन्तुः । ततः स्वार्थे

कन् । अथवा रक्ता आसक्ता जन्तवोऽस्मिन् ।)
भूनागः । इति राजनिर्घण्टः ॥ रक्तवर्णजन्तु-
मात्रञ्च ॥

रक्तजिह्वः, पुं, (रक्ता रक्तवर्णा शोणितपानादौ

आसक्ता वा जिह्वा यस्य ।) सिंहः । इति
शब्दमाला ॥ रक्तवर्णजिह्वायुक्ते, त्रि ॥

रक्तझिण्टी, स्त्री, (रक्ता रक्तवर्णा झिण्टी ।)

रक्तवर्णझिण्टीपुष्पवृक्षः । तत्पर्य्यायः । कुरु-
वकः २ । इत्यमरः ॥ (विशेषोऽस्याः कुरुवक
शब्द ज्ञातव्यः ॥)

रक्ततुण्डः, पुं, (रक्तौ तुण्डौ यस्य ।) शुकपक्षी ।

इति राजनिर्घण्टः ॥ लोहितमुखयुक्ते, त्रि ॥

रक्ततुण्डकः, पुं, (रक्तस्तुण्डो यस्य । कन् ।

भूनागः ।) इति राजनिर्घण्टः ॥

रक्ततृणा, स्त्री, (रक्तानि तृणान्यस्याम् ।) गोमू-

त्रिका । इति राजनिर्घण्टः ॥

रक्तत्रिवृत्, स्त्री, (रक्ता त्रिवृत् ।) रक्तवर्ण-

त्रिवृता । लाल तेउडी । इति भाषा ॥ तत्
पर्य्यायः । कालिन्दी २ त्रिपुटा ३ ताम्रपुष्पिका ४
कुलवर्णा ५ मसूरी ६ अमृता ७ काक
नासिका ८ । अस्या गुणाः । तिक्तत्वम् । कटु
त्वम् । उष्णत्वम् । रेचनत्वम् । ग्रहणीमल-
विष्टम्भहारित्वम् । हितकारित्वञ्च । इति राज-
निर्घण्टः ॥ (अस्या विशेषो यथा, --
“तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् ।
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तत् शुभम् ॥”
इति चरके कल्पस्थाने सप्तमेऽध्याये ॥
“अरुणाभं तृवृन्मूलं श्रेष्ठं मूलविरेचने ॥”
इति सुश्रुते सूत्रस्थाने ४४ अध्यायः ॥)

रक्तदन्तिका, स्त्री, (रक्ता दन्ताः अस्याः)

रक्तदन्ता + स्वार्थे कन् । टापि अत इत्वम् ।)
चण्डिका । यथा, --
“भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महा-
सुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ९१ । ४० ॥

रक्तदला, स्त्री, (रक्तानि दलान्यस्याः ।) नलिका ।

चिविल्लिका । इति राजनिर्घण्टः ॥

रक्तदृक्, [श्] पुं स्त्री, (रक्ता दृक् दृष्टिर्यस्य ।)

कपोतः । इति केचित् ॥ रक्त वर्णचक्षुर्व्वि-
शिष्टे, त्रि ॥

रक्तधातुः, पुं, (रक्तो रक्तवर्णो धातुः ।) गैरि

कम् । इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो
यथा, --
“गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा ।
सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
ताम्रम् । इति राजनिर्घण्टः ॥ रक्तवर्णधातु
मात्रञ्च ॥

रक्तनालः, पुं, (रक्तो नालोऽस्य ।) जीवशाकः

इति राजनिर्घण्टः ॥ (विवरणमस्य जीव
शाकशब्दे विज्ञेयम् ॥)

रक्तनासिकः, पुं, (रक्ता नासिकास्य ।) पेचकः ।

इति शब्दरत्नावली ॥ लोहितनासायुक्ते, त्रि ॥

रक्तपः, पुं, (रक्तं पिबतीति । पा + कः ।)

राक्षसः । इति मेदिनी । पे, २१ ॥ रक्तपान-
कर्त्तरि, त्रि ॥

रक्तपक्षः, पुं, (रक्तौ पक्षौ अस्य ।) गरुडः । इति

केचित् ॥

रक्तपत्रिका, स्त्री, (रक्तानि पत्राण्यस्याः । स्वार्थे

कन् । टापि अत इत्वञ्च ।) नाकुली । रक्त-
पुनर्नवा । इति राजनिर्घण्टः ॥ लोहितपत्रञ्च ।

रक्तपदी, स्त्री, क्षुद्रवृक्षविशेषः । यथा, --

“शमीपत्रा रक्तपदी समङ्गाञ्जलिकारिका ॥”
इति जटाधरः ॥

रक्तपद्मः, पुं क्ली, (रक्तो रक्तवर्णो पद्मः ।) रक्त-

वर्णकमलम् । तत्पर्य्यायः । रक्तसरोरुहम् २
रक्तोत्पलम् ३ कोकनदम् ४ । इत्यमरः । १ ।
१० । ४२ ॥ अस्य प्रमाणं यथा, --
“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका ।
वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥
रक्तपद्मासनस्था च जटामुकुटमण्डिता ॥
रक्तकौषेयवस्त्रा च स्मितवक्त्रा शुभानना ।
नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ॥”
इति तिथ्यादितत्त्वम् ॥

रक्तपल्लवः, पुं, (रक्ताः षल्लवा अस्य ।) अशोक-

वृक्षः । इति राजनिर्घण्टः ॥ लोहितपत्रञ्च ॥

रक्तपा, स्त्री, (रक्तं पिबतीति । पा + कः +

स्त्रियां टाप् ।) जलौका । डाकिनी । इति
मेदिनी । गे, २१ ॥ शोणितपानकर्त्तरि, त्रि ॥

रक्तपाकी, स्त्री, (पच्यते इति । पच् + घञ् ।

रक्तः रक्तवर्णः पाके यस्याः ।) बृहती । इति
राजनिर्घण्टः ॥

रक्तपाता, स्त्री, (रक्तं पातयतीति । पत + णिच्

+ अच् । स्त्रियां टाप् ।) जलौका । इति
शब्दरत्नावली ॥

रक्तपादः, पुं, (रक्तौ पादावस्य ।) शुकपक्षी ।

इति हेमचन्द्रः ॥ (यथा, रामायणे । ७ । ६ । ५७ ।
“रक्षोगणस्योपरिष्टात् परिभ्रमति कालवत् ।
कपोता रक्तपादाश्च सारिका विद्रुता ययुः ॥”
तथा च याज्ञवल्क्यः । १ । १७५ ।
“चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं
चरेत् ॥”)
लोहितचरणयुक्ते, त्रि ॥

रक्तपादी, स्त्री, (रक्ताः पादा अस्याः ।)

लज्जालुः । (अस्याः पर्य्यायो यथा, --
“लज्जालुः स्यात् शमीपत्रा समङ्गा जल-
कारिका ।
रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
हंसपदी । इति राजनिर्घण्टः ॥

रक्तपायिनी, स्त्री, (रक्तं पातुं शीलमस्याः ।

पा + णिनि । स्त्रियां ङीष् ।) जलौका । इति
राजनिर्घण्टः ॥

रक्तपायी, [न्] त्रि, (रक्तं पातुं शीलमस्य ।

पा + णिनिः ।) रक्तपानशीलः । इति व्याकर-
णम् ॥

रक्तपारदं, क्ली, (रक्तं रक्तवर्णं पारदम् ।) हिङ्गु-

लम् । इति हारावली । १५५ ॥ जटाधरे, पुं ॥

रक्तपिण्डं, क्ली, (रक्तं रक्तवर्णं पिण्डमिव ।)

जवापुष्पम् । इति शब्दरत्नावली ॥

रक्तपिण्डकः, पुं, (रक्तपिण्डमिवेति । रक्तपिण्ड +

इवार्थे कन् ।) रक्तालुः । इति राजनिर्घण्टः ॥

रक्तपित्तं, क्ली, (रक्तदूषकं पित्तमिति । मध्यपदलोपी

कर्म्मधारयः । “रक्तञ्च पित्तञ्च रक्तपित्त-
मिति द्वन्द्ब इति सुश्रुतः । रक्तञ्च तत् पित्तञ्चेति
रक्तपित्तं रागप्राप्तं पित्तमिति कर्म्मधारय इति
चरकः ।”) रोगविशेषः । तस्य निदानं यथा,
धन्वन्तरिरुवाच ।
“अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् ।
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥
कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरतिसेवितैः ।
कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छयेत् ॥
पृष्ठ ४/०७३
ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् ।
पित्तरक्तस्य विकृतेः संसर्गाद्दूषणादपि ॥
गन्धवर्णानुवृत्तेषु रक्ते न व्यपदिश्यते ।
प्रभवत्यसृजस्तस्मात् प्लीहतो यकृतश्च तत् ॥
शिरोगुरुत्वमरुचिः शीतेच्छा मधुकोत्कफः ।
छर्द्दितृट्छर्द्दिवैभत्स्यं काशः श्वासो भ्रमः क्लमः ॥
लोहितोऽलोहितो मत्स्यामगन्ध्यास्यञ्च विज्वरः ।
रक्तहारिद्रहरितवर्णता नयनादिषु ॥
नीललोहितपीतानां वर्णानामविचेतनम् ।
स्वप्ने तदर्थधर्म्मित्वं भवत्यस्मिन् भविष्यति ॥
ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते ॥
ऊर्द्ध्वं साध्यं कफाद्यस्मात् तद्बिरेचनसाधितम् ।
बह्वौषधञ्च पित्तस्य विरेको हि वरौषधम् ॥
अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् ।
कषायाः स्वादवो यस्य विशुद्धे श्लेष्मलोहिताः ॥
कटुतिक्तकषाया वा ये निसर्गात् कफावहाः ।
अधो याप्यञ्च नामुष्मात् तत् प्रवर्द्धनसाधनम् ॥
अल्पौषधञ्च पित्तस्य वमनं ननु चौषधम् ।
अनुबन्धि च लोपस्य शान्तपित्तनरस्य तत् ॥
कषायाश्च हितास्तस्य मधुरा एव केवलम् ।
कफमारुतसंस्पृष्टमसाध्यमुपनायनम् ॥
असह्यप्रतिलोमत्वादसाध्यादौषधस्य च ।
नहि संशोधनं किञ्चिदस्य च प्रतिलोमनम् ॥
शोधनं प्रतिलोमञ्च रक्तपित्ते विनिर्ज्जितम् ।
एवमेवोपशमनं सर्व्वशोधनमिष्यते ॥
संसृष्टेष्वाह दोषेषु सर्व्वथा छर्द्दनं हितम् ।
तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते ।
उपद्रवाश्च विकृतं फलतस्तेषु चाधिकम् ॥”
इति गारुडे १५३ अध्यायः ॥ * ॥
तस्यौषधं यथा, --
“त्रिवृता त्रिफला श्यामा पिप्पली शर्क्करा मधु ।
मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥
वाशायां विद्यमानायामाशायां जीवितस्य च ।
रक्तपित्ती क्षयी कासी किमर्थमव्रसीदति ॥
अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः ।
क्षौद्राढ्यः कासनश्वासरक्तपित्तनिवर्हणः ॥”
इति गारुडे १७४ अध्यायः ॥ * ॥
अपि च । “तत्र रक्तपित्तस्य निदानपूर्व्विकां
संप्राप्तिमाह ।
‘घर्म्मव्यायामशोकाध्वव्यवायैरतिसेवितैः ।
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च ।
पित्तं विदग्धं स्वगुणैर्व्विदहत्याशु शोणितम् ॥’
तीक्ष्णं मरिचादि । उष्णोऽग्नितापादिः । क्षारो
यवक्षारादिः । विदग्धं दूषितम् । स्वगुणैः
स्वकारणैर्गुणैस्तीक्ष्णादिभिः । गुणैरिति बहु-
त्वेन तीक्ष्णाम्ललवणकटूष्णघर्म्मादयो गृह्यन्ते ।
विदहति दूषयति ॥ * ॥ रक्तपित्तस्य सामान्य-
लक्षणमाह ।
‘ततः प्रवर्त्तते रक्तमूर्द्ध्वं वाधो द्बिधापि वा ।’
रक्तमित्युपलक्षणम् । तत्संसर्गि पित्तञ्च । अत-
एव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्बन्द्व इति
सुश्रुतः ॥ रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं राग-
प्राप्तं पित्तमिति कर्म्मधारय इति चरकः ॥
मार्गानाह ।
‘ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः ।
कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते ॥’
कुपितमतिकुपितम् ॥ * ॥ पूर्ब्बरूपमाह ।
‘सदनं शीतकामित्वं कण्ठधूमायनं वमिः ।
लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति ॥’
विशिष्टं रूपमाह ।
‘सान्द्रं सपाण्डु सस्नेहं पिच्छिलञ्च कफान्वितम् ।
श्यावारुणं सफेणञ्च तनुरूक्षञ्च वातिकम् ॥
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् ।
मेचकागारधूमाभमञ्जनाभञ्च पैत्तिकम् ।
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥’
सपाण्डु ईषत्पाण्डु । पिच्छिलं मयूरपिच्छच्छवि-
युक्तम् । कृष्णं कज्जलाभम् । मेचकं चिक्कण-
कृष्णवर्णम् । अञ्जनं श्रोतोऽञ्जनं तदाभम् ॥ * ॥
संसर्गाविशेषेण मार्गभेदमाह ।
‘ऊर्द्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् ।
द्बिमार्गं कफवाताभ्यां उभाभ्यां तत्प्रवर्त्तते ॥’ * ॥
उपद्रवानाह ।
‘दौर्ब्बल्यश्वासकासज्वरवमथुमदाः पाण्डुता
दाहमूर्च्छा
भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्य-
तुल्या च पीडा ।
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूति-
निष्ठीवनञ्च
द्बेषो भुक्तेऽविपाको विकृतिरपि भवेद्रक्तपि-
त्तोपसर्गाः ॥’
उपसर्गा उपद्रवाः । विकृतिर्मांसप्रक्षालनाभ-
त्वादिः ॥ * ॥ साध्यत्वादिकमाह ।
‘एकदोषानुगं साध्यं द्बिदोषं याप्यमुच्यते ।
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् ॥
ऊर्द्धं साध्यमधो याप्यमसाध्यं युर्गपद्गतम् ।
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ॥’
साध्यमाह ।
‘एकमार्गं बलवतो नातिवेगं न चोत्थितम् ।
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् ॥’
सुखे काले हिमशिशिरयोः ॥ * ॥ असाध्यमाह ।
‘मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भो-
निभं बा
मेदः पूयास्रकल्पं यकृदिव यदि वा पङ्कजं वा
कफाभम् ।
यत् कृष्णं यच्च नीलं भृशमपि कुणपं यत्र
चोक्ता विकारा-
स्तद्धर्ज्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं
विभाति ॥’
उक्ता विकारा दौर्ब्बल्यादयः । सुरपतिधनुषा
तुल्यं नानावर्णम् ।
‘येन चोपहतो रक्तं रक्तपित्तन मानवः ।
पश्येद्दृश्यं वियच्चापि तच्चासाध्यमसंशयम् ॥’
येन रक्तपित्तेन उपहतो मनुष्यः दृश्यं घटपटा-
दिकं वियच्च रक्तं पश्यति स नश्यति वियच्चापि
अदृश्यमपीत्यर्थः ॥ * ॥ अरिष्टमाह ।
‘लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः ।
लोहितोद्गारदर्शी च म्रियते रक्तपित्तकः ॥’
लोहितोद्गारदर्शी व्याधिमहिम्नोद्गारमपि
लोहितं पश्यति इत्यर्थः ॥ * ॥ अथ रक्तपित्तस्य
चिकित्सा ।
‘पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनोऽन्नतः ।
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् ॥
शालिषष्टिकनीवारकोरदूषप्रसाधिकाः
श्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥’
प्रियङ्गुः कङ्गुः ।
‘मसूरमुद्गचणकाः समकुष्ठाढकीफलाः ।
प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ।
दाडिमामलकं विद्बानम्लार्थे चापि दापयेत् ।
पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः ॥
शाकार्थे शाकसात्म्यानां तण्डुलीयादयो हिताः ।
पारावतान् कपोतांश्च लावान्रक्ताक्षवर्त्तकान् ॥
शशान् कपिञ्जलानेणान् हरिणान् कालपुच्छ-
कान् ।
रक्तपित्तहरान् विद्याद्रसांस्तेषां प्रयोजयेत् ॥
ईषदम्लाननम्लांश्च घृतभृष्टान् ससैन्धवान् ।
कफानुग्रे यूषशाके दद्याद्बातानुगे रसम् ॥
पथ्यं सतिलयूषेण ससितालाजशक्तुभिः ।
धान्याकधात्रीवासानां द्राक्षापर्पटयोर्हिमः ।
रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत् ॥’
धान्याकादेर्हिमः ॥ * ॥
‘ह्रीवेरमुत्पलं ध्यान्यं चन्दनं यष्टिकामृता ।
उषीरञ्च वृषश्चैषां क्वाथं समधुशर्करम् ॥
पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति ।
रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा ॥ * ॥
पुराणं पीनमानीय कुष्माण्डस्य फलं दृढम् ।
तद्बीजाधारबीजत्वक्शिराशून्यं समाचरेत् ॥
ततस्तस्य तुलां नीत्वा पचेज्जलतुलाह्वये ।
तस्मिन्नीरेऽर्द्धशिष्टे तु यत्नतः शीतलीकृते ॥
तानि कुष्माण्डखण्डानि पीडयेद्दृढवाससा ।
यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत् ॥
कुष्माण्डं शोषयेद्घर्म्मे ताम्रपात्रे ततः क्षिपेत् ।
क्षिप्त्वा तत्र घृतप्रस्थं कुष्माण्डं तेन भर्ज्जयेत् ॥
मधुवर्णं तदालोक्य तज्जलं तत्र निःक्षिपेत् ।
सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत् पचेत् ॥
सुपक्वे पिप्पलीशुण्ठीजीराणां द्वे पले पृथक् ।
पृथक् पलार्द्धं धन्याकपत्रैलामरिचं त्वचम् ॥
चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्रमावपेत् ।
एतत् पलमितं खादेदथवाग्निबलं यथा ॥
खण्डकुष्माण्डलेहोऽयं रक्तपित्तं विनाशयेत् ।
पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम् ॥
स्वरभेदं सहृद्रोगं कासं श्वासं क्षतं क्षयम् ।
नाशयत्येव वृष्योऽयं बृंहणो बलवर्द्धनः ॥’
इति खण्डकुष्माण्डावलेहः ॥ * ॥
‘शतावरीमूलकल्कं कल्कात् क्षीरं चतुर्गुणम् ।
क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया ॥
पृष्ठ ४/०७४
घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत् सदा ।
रक्तपित्तं ह्मम्लपित्तं क्षयं श्वासञ्च नाशयेत् ॥’
शतावरीपाकः । इति रक्तपित्ताधिकारः ॥”
इति भावप्रकाशः ॥
(तथास्य सनिदानपूर्ब्बरूपलक्षणं सम्प्राप्तिश्च ।
“पित्तं यथा भूतं लोहितपित्तसंज्ञां लभते
तत्तथानुव्याख्यास्यामः । यदा यस्तु जन्तुर्यव-
कोद्दालककोरदूषकप्रायाण्यन्नानि नित्यं भुङ्क्ते
भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाष-
कुलत्थक्षारसूपोपहितं दधिमण्डोदश्वित् कट्वम्ल-
काञ्जिकोपहितं वाराहमाहिषाविकमत्स्यगव्य-
पिशितं पिण्याकं पिण्डालकशाकोपहितं
मूलक-सर्षपलशुनकरञ्जशिग्रुकखरयूषभूस्तृणक-
सुमुखसुरसकुठेरकण्डीरकालक-पर्णासक्षवक-
फणिज्झकोपदंशं सुरासौवीरतुषोदकभैरेय-
मेदकमधूलककुवरवदराम्लप्रायानुपानं पिष्टान्नो-
त्तरभूयिष्ठमुष्णाभितप्तो चातिमात्रमतिवेलं वा
पयसा समश्नाति रौहिणीकलकङ्कापोतं वा
सर्षपतैलक्षारसिद्धं कुलत्थमाषपिण्याकजाम्बव-
लकुचपक्वैः शौक्तिकैर्वा सह क्षीरमाममतिमात्र-
मथवा पिबत्युष्णाभितप्तस्तस्यैवमाचरतः पित्तं
प्रकोपमापद्यते । लोहितञ्च स्वप्रमाणमतिवर्त्तते ।
तस्मिन् प्रमाणातिप्रवृत्ते पित्तं प्रकुपितं शरीर-
मनुसर्पद्यदैव यकृत्प्लीहप्रभवानां लोहित-
वहानां श्रोतसां लोहिताभिष्यन्दगुरूणि मुखा-
न्यासाद्य प्रतिपद्यते तदैव लोहितं दूषयति ।
संसर्गान्तर्लोहितप्रदूषणाल्लोहितगन्धवर्णानु-
विधानाच्च पित्तं लोहितमित्याचक्षते । तस्ये-
मानि पूर्ब्बरूपाणि । तद्यथा । अनन्नाभि-
लाषो भुक्तस्य विदाहः शुक्ताम्लरसगन्ध उद्-
जरच्छन्दषोऽभीक्ष्णागमनं छर्द्दितस्य वीभत्सता
स्वरभेदो गात्राणां सदनं परिदाहश्च मुखा-
द्धूमागम इव लोहलोहितमत्स्यामगन्धित्व-
मपि चास्यस्य रक्तहरितहारिद्रवत्त्वमङ्गावयव-
शकृन्मूत्र-स्वेदलालाशिङ्घानकास्यकर्णमलपिड-
कोलिकापिडकारामसंवेदनालोहितनीलपीत-
श्यावानामर्च्चिष्मताञ्च रूपाणां स्वप्नदर्शन-
मभीक्ष्णमिति लोहितपित्तपूर्ब्बरूपाणि । उप-
द्रवास्तु खलु दौर्ब्बल्यारोचकाविपाकश्वास-
कासज्वरातीसारशोफशोषपाण्डुरोगस्वरभेदाः ।
मार्गौ पुनरस्य द्बौ ऊर्द्ध्वञ्चाधश्च तद्बहुश्लेष्मणि
शरीरे श्लेष्मसंसर्गादूर्द्ध्वं प्रपद्यमानं कर्णनासिका-
नेत्रास्येभ्यः प्रच्यवते । बहुवाते तु शरीरे वात-
संसर्गादधः प्रपद्यमानं मूत्रपुरीषमार्गाभ्यां
प्रच्यवते । बहुवातश्लेष्मणि तु शरीरे श्लेष्मवात-
संसर्गादद्बावपि मार्गौ प्रपद्यते । तौ मार्गौ
प्रपद्यमानं सर्व्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्य-
वते शरीरस्य । तत्र यदूर्द्ध्वभागं तत्साध्यं विरे-
चनोपक्रमणीयत्वात् बह्वौषधत्वाच्च । यदधो-
भागं तदयाप्यं वमनोपक्रमणीयत्वात् अल्पौषध-
त्याच्च । यदुभयभागं तदसाध्यं वसनविरेचना
योगित्वादनौषधत्वाच्च । रक्तपित्तप्रकोपस्तु खलु
पुरा दक्षयज्ञोद्ध्वंसे रुद्रकोपामर्शाग्निना प्राणिनां
परिगतशरीरप्राणानामनुज्वरमभवत् । तस्या-
शुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशु
प्रशान्तौ यतितव्यं मात्रां देशं कालञ्चाभि-
समीक्ष्य सन्तर्पणेनापतर्पणेन वा मृदुमधुर-
शिशिरतिक्तकषायैरभ्यवहार्य्य प्रदेहपरिषेका-
वगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति ॥”
संक्षेपतोऽस्योपशमनोपायो यथा, --
“साध्यं लोहितपित्तं तद्यदूर्द्ध्वं प्रतिपद्यते ।
विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च ॥
वमनं नहि पित्तस्य हरणे श्रेष्ठमुच्यते ।
यश्च तत्रानुगो वायुस्तच्छान्त्यै चावरं मतम् ॥
स्याच्च योगावहन्तत्र कषायं तिक्तकानि च ।
तस्माद्याप्यं समाख्यातं यद्रक्तमनुलोमगम् ॥
रक्तपित्तन्तु यन्मार्गौ द्वावपि प्रतिपद्यते ।
असाध्यमपि तज्ज्ञेयं पूर्ब्बोक्तादपि कारणात् ॥
नहि संशोधनं किञ्चिदस्त्यस्य प्रतिमार्गगम् ।
प्रतिमार्गञ्च हरणं रक्तपित्ते विधीयते ॥
एवमेवोपशमनं सर्व्वशो नास्य विद्यते ।
संसृष्टेषु च दोषेषु सर्व्वजिच्छमनं मतम् ॥
इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषता ॥
एभ्यस्तु खलु हेतुभ्यः किञ्चित् साध्यं न सिध्यति ।
प्रेष्योपकरणाभावात् दौरात्म्याद्बैद्यदोषतः ॥
अकर्म्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्त्तते ।
तत्र साध्यत्वमेकं स्यात् साध्ययाप्यपरि-
क्रमात् ॥
रक्तपित्तस्य विज्ञानमिदं तस्योपदेक्ष्यते ।
यत् कृष्णमथवा नीलं यद्बा शक्रधनुष्प्रभम् ॥
रक्तपित्तमसाध्यन्तद्वाससो रञ्जनञ्च यत् ।
भृशं पूत्यतिमात्रञ्च सर्व्वोपद्रववच्च यत् ॥
बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत् ॥
येन चोपहतो रक्तं रक्तपित्तेन मानवः ।
पश्येद्दृश्यं वियच्चैव तच्चासाध्यमसंशयम् ॥
तत्रासाध्यं परित्यज्यं याप्यं यत्नेन यापयेत् ।
साध्यञ्चावहितः सिद्धैर्भेषजैः साधयेद्भिषक् ॥
कारणं नाम निर्व्वृत्तिं पूर्ब्बरूपाण्युपद्रवान् ।
मार्गो दोषानुबन्धञ्च साध्यत्वं न च हेतुमत् ॥
निदाने रक्तपित्तस्य व्याजहार पुनर्व्वसुः ।
वीतमोहरजोदोषलोभमानमदस्पृहः ॥”
इति चरके निदानस्थाने द्वितीयेऽध्याये ॥ * ॥
अथास्य चिकित्सायां रसाः ।
“सूतं गन्धं माक्षिकञ्चैव लौहं
सर्व्वं घृष्टं त्रैफलेनोदकेन ।
लोहे पात्रे गोमयैः पाचयित्वा
रात्रौ दह्यात् रक्तपित्तप्रशान्त्यै ॥
इति सुधानिधीरसः ॥
मृताभ्रमुण्डतीक्ष्णञ्च माक्षिकं रसतालकम् ।
गन्धकञ्च भवेत्तुल्यं यष्टिद्राक्षामृताद्रवैः ॥
दिनैकं मर्द्दयेत् खल्वे सिताक्षौद्रयुतावटी ।
माषामात्रा निहन्त्याशु रक्तपित्तं सुदारुणम् ।
ज्वरं दाहं तृषां वान्तिं शीषं पित्तान्तको रसः ॥
इति रक्तपित्तान्तको रसः ॥
शर्करातिलसंयुक्तं त्रिकत्रययुतन्त्वयः ।
रक्तपित्तं निहन्त्याशु अम्लपित्तहरं परम् ॥
इति शर्कराद्यं लौहम् ॥”
इति वैव्यकरसेन्द्रसारसंग्रहे रक्तपित्ताधिकारे ॥
अथास्य पथ्यापथ्यविधिः ।
“अधोगते छर्दनमूर्द्ध्वनिर्गमे
विरेचनं स्यादुभयत्र लङ्घनम् ।
पुरातनाः षष्टिकशालिकोद्रव-
प्रियङ्गुनीवारयवप्रसातिकाः ॥
मुद्गा मसूराश्चणकास्तु वर्य्यो-
मुकुष्टकाश्चिङ्गटवर्म्मिमत्स्याः ।
शशः कपोतो हरिणैनलाव-
शरालिपारावंतवर्त्तकाश्च ॥
वका उरभ्राश्च सकालपुच्छाः
कपिञ्जलाश्चापि कषायवर्गः ।
गवामजायाश्च पयो घृतञ्च
घृतं महिष्याः पनसं पियालम् ॥
रम्भाफलं कञ्चटतण्डुलीय-
पटोलवेत्राग्रमहार्द्रकाणि ।
पुराणकुष्माण्डफलञ्च पक्व-
फलानि तद्बीजजलानि वासा ॥
स्वादूनि विम्बानि च दाडिमानि
खर्ज्जूरधात्रीमिषिनारिकेलम् ।
कशेरुशृङ्गाटमरुष्कराणि
कपित्थशालूकपरूषकाणि ॥
भूनिम्बशाकं पिचुमर्द्दपत्रं
तुम्बीकलिङ्गानि च लाजसक्तुः ।
द्राक्षा सिता माक्षिकमैक्षवश्च
शीतोदकञ्चौद्भिदवारि चापि ॥
सेकोऽवगाहः शतधौतसर्पि-
रभ्यङ्गयोगः शिशिरप्रदेहः ।
हिमानिलश्चन्दनमिन्दुपादाः
कथा विचित्राश्च मनोऽनुकूलाः ॥
धारागृहं भूमिगृहं सुशीतं
वैदूर्य्यमुक्तामणिधारणञ्च ।
रम्भोत्पलाम्भोरुहपत्रशय्या
क्षौमाम्बरञ्चोपवनं सुशीतम् ॥
प्रियङ्गुकाचन्दनरूषिताना-
मालिङ्गनञ्चापि वराङ्गनानाम् ।
पद्माकराणां सरितां ह्रदानां
चन्द्रोदयानां हिमवद्दरीणाम् ॥
सुशीतलानां गिरिनिर्झराणां
स्रुतिः प्रशस्तानि च कीर्त्तितानि ।
प्रणीरनीरं हिमवालुका च
मित्रं नृणां शोणितपित्तरोगे ॥”
अथापथ्यानि ।
“व्यायामाध्वनिषेवणं रविकरस्तीक्ष्णानि
कर्म्माणि च ।
क्षोभो वेगविधारणञ्चपलता हस्त्यश्वयानानि च ॥
स्वेदास्रस्रुतिधूमपानसुरतक्रोधाः कुलत्थो गुडो
वार्त्ताकं तिलमाषसर्षपदधिक्षाराणि कौपं मयः ॥”
इति वैद्यकपथ्यापथ्यविधौ रक्तपित्ताधिकारः ॥)
पृष्ठ ४/०७५

रक्तपिक्तहा, स्त्री, (रक्तपित्तं हन्तीति । हन् +

डः । स्त्रियां टाप् ।) रक्तघ्नी । इति शब्द-
चन्द्रिका ॥ गाँठिया दूर्व्वा इति भाषा ॥
(विवृतिरस्याः रक्तघ्नीशब्दे ज्ञातव्या ॥)

रक्तपुनर्नवा, स्त्री, (रक्ता रक्तवर्णा पुनर्नवा ।)

रक्तवर्णपुनर्नवाशाकः । तत्पर्य्यायः । क्रूरा २
मण्डलपत्रिका ३ रक्तकाण्डा ४ वर्षकेतुः ५
लोहिता ६ रक्तपत्रिका ७ वैशाखी ८ रक्त-
वर्षाभूः ९ शोफघ्नी १० पुष्पिका ११ विकस्वरा १२
विषघ्नी १३ प्रावृषेण्या १४ सारिणी १५ वर्षा-
भवः १६ शोणपत्रः १७ भौमः १८ पुनर्भवः १९
नवः २० नब्यः २१ । अस्य गुणाः । तिक्तत्वम् ।
सारकत्वम् । शोफरक्तप्रदरदोषपाण्डुपित्तनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

रक्तपुष्पः, पुं, (रक्तं पुष्पमस्य ।) करवीरः । इति

जटाधरः ॥ (अस्य पर्य्यायो यथा, --
“करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः ।
द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
रौहितवृक्षः । इति शब्दमाला ॥ रक्तकाञ्चन-
वृक्षः । दाडिमवृक्षः । वकवृक्षः । इति रत्न-
माला ॥ बन्धूकवृक्षः । पुन्नागवृक्षः । इति
राजनिर्घण्टः ॥ (रक्तवर्णपुष्पविशिष्टे, त्रि ।)
यथा, बृहत्संहितायाम् । १५ । १४ ।
“इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिल-
मुद्गाः ।
कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥”)

रक्तपुष्पकः, पुं, (रक्तं पुष्पमस्य । कन् ।) पलाश-

वृक्षः । (अस्य पर्य्यायो यथा, --
“पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः ।
क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
रौहितकवृक्षः । इति जटाधरः ॥ पर्प्पटः ।
शाल्मलिवृक्षः । इति राजनिर्घण्टः ॥

रक्तपुष्पा, स्त्री, (रक्तं पुष्पं अस्याः ।) शाल्मलि-

वृक्षः । इति जटाधरः ॥ (अस्याः पर्य्यायो
यथा, --
“शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च ।
रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पुनर्नवा । तत्पर्य्यायो यथा, --
“पुनर्नवा परारक्ता रक्तपुष्पा शिलाटिका ॥”
सिन्दूरी । तत्पर्य्यायो यथा, --
“सिन्दूरी रक्तबीजा च रक्तपुष्पा सुकोमला ॥”
इति भावप्रकाशः ॥)

रक्तपुष्पिका, स्त्री, (रक्तपुष्पा + कन् । टापि अत

इत्वम् ।) लज्जालुः । इति शब्दचन्द्रिका ॥
रक्तपुनर्नवा । भूपाटलिः । इति राजनिर्घण्टः ॥

रक्तपुष्पी, स्त्री, (रक्तं पुष्पं अस्याः । ङीष् ।)

पाटलीवृक्षः । इति जटाधरः ॥ जवा । आवर्त्त-
कीलता । नागदमनी । करुणीवृक्षः । उष्ट्र-
काण्डी । इति राजनिर्घण्टः ॥ (धातकी ।
तत्पर्य्यायो यथा, --
“धातकी रक्तपुष्पी स्यात् कुञ्जरा मध्यवासिनी ॥”
इति वैद्यकरत्नमालायाम् ॥)

रक्तपूरकं, क्ली, (रक्लं पूरयतीति । पूर् + ण्वुल् ।)

वृक्षाम्लम् । इति राजनिर्घण्टः ॥ (विवणमस्य
बृक्षाम्लशब्दे ज्ञातव्यम् ॥)

रक्तप्रसवः, पुं, (रक्तः रक्तवर्णः प्रसवः पुष्पमस्य ।)

रक्तकरवीरः । रक्ताम्लानः । इति राज-
निर्घण्टः ॥

रक्तफलः, पुं, (रक्तं लोहितवर्णं फलमस्य ।)

वटवृक्षः । इति जटाधरः ॥ (अस्य पर्य्यायो
यथा, --
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्दजो ध्रुवः ।
क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तफला, स्त्री, (रक्तं पक्वदशायां लोहितवर्णं

फलमस्याः ।) विम्बिका । इत्यमरः । २ । ४ ।
१३९ ॥ (अस्याः पर्य्यायो यथा, --
“तुष्टी रक्तफला विम्बी तुण्डिकेरी च विम्बिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
स्वर्णवल्ली । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्यायो यथा, --
“स्वर्णवल्ली रक्तफला काकायुः काकवल्लरी ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

रक्तफेनजः, पुं, (रक्तफेनात् जायते इति । जन् +

डः ।) वामपार्श्वस्थक्लोम । तत्पर्य्यायः ।
पुस्फुषः २ । इति हेमचन्द्रः । ३ । २६९ ॥

रक्तबिन्दुः, पु, (रक्तानां बिन्दुः ।) रक्तकणा ।

यथा, --
“रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः ॥”
इति मार्कण्डेये देवीमाहात्म्यम् ॥)

रक्तबीजः, पुं, (रक्तवर्णं बीजमस्य ।) दाडिमः ।

इति राजनिर्घण्टः ॥ (अरिष्टकफलः । रीटा
इति ख्यातः । तत्पर्य्यायो यथा, --
“अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः ।
रक्तबीजः पीतफेनः फेनिलो गर्भपातनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
रक्तं शोणितं बीजं कारणमस्य ।) असुर-
विशेषः । स च शुम्भनिशुम्भसेनापतिः देव्या
हतश्च । यथा, --
“पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः ।
समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः ॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः ।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥
कुलिशेनाहतस्याशु तस्य सुस्राव शोणितम् ।
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः ।
तावन्तः पुरुषा जातास्तद्बीर्य्यबलविक्रमाः ॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।
पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह-
सत्वरा ।
उवाच कालीं चामुण्डे ! विस्तरं वदनं कुरु ॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् ।
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता ॥
भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् ।
एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥
मुखेन काली जगृहे रक्तबीजस्य शोणितम् ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥
यतस्ततस्तद्वक्त्रेण चामुण्डा संप्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः ।
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥
देवी शूलेन वज्रेण वाणैरसिभिरृष्टिभिः ।
जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥
स पपात महीपृष्ठे शस्त्रसंघसमाहतः ।
नीरक्तश्च महीपाल ! रक्तबीजो महासुरः ॥
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ! ।
तेषां मातृगणो जातो ननर्त्तासृङ्मदोद्धतः ॥”
इति मार्कण्डेये देवीमाहात्म्यम् ॥
(महिषासुरपिता दानवो रम्भ एव जन्मान्तरे
रक्तबीजो जातः । यथा, देवीभागवते । ५ ।
२ । ४४ -- ४९ ।
“मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।
चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।
प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥
वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।
ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥
महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः ।
रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्त्रवत्सलः ॥
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।
अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥
एवं स महिषो जातो रक्तबीजश्च वीर्य्यवान् ।
अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम ! ॥”)

रक्तबीजका, स्त्री, (रक्तो रक्तवर्णो बीजोऽस्याः । कन्

+ टप् ।) तरदीवृक्षः । इति राजनिर्घण्टः ॥

रक्तमञ्जरः, पुं, (रक्ता रक्तवर्णा मञ्जरी । सा विद्यते-

ऽस्येति । “अर्शआदिभ्यः अच् ।” ५ । २ । १२७ ।
इत्यच् ।) निचुलवृक्षः । इति त्रिकाण्डशेषः ॥
(गुणादयोऽस्य निचुलशब्दे ज्ञातव्याः ॥)

रक्तमत्स्यः, पुं, (रक्तो रक्तवर्णो मत्स्यः ।) रक्त-

वर्णो मस्त्यविशेषः । यथा, --
“यो रक्ताङ्गो नातिदीर्घो न चाल्पो
नातिस्थूलो रक्तमत्स्यः स तूक्तः ।
शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ
नाशं धत्ते किञ्च दोषत्रयस्य ॥”
इति राजनिर्घण्टः ॥
पृष्ठ ४/०७६

रक्तमूलकः, पुं, (रक्तं रक्तवर्णं मूलमस्य । कन् ।)

देवसर्षपवृक्षः । इति राजनिर्घण्टः ॥

रक्तमूला, स्त्री, (रक्तं मूलं अस्याः । टाप् ।)

लज्जालुवृक्षः । इति राजनिर्घण्टः ॥

रक्तमेहः, पुं, (मेहनं मेहः रक्तस्य मेहः ।)

प्रमेहरोगविशेषः । तस्य लक्षणं यथा, --
“विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः ॥”
मूत्रं मूत्रयेदिति योजनीयम् । अस्यौषधम् ।
यथा, --
“चन्द्रप्रभावचामुस्ताभूनिम्बसुरदारवः ।
हरिद्रातिविषादार्व्वीपिप्पलीमूत्रचित्रकम् ॥
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्लली ।
सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम् ॥
एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् ।
द्विकर्षहतलोहं स्याच्चतुष्कर्षा सिता भवेत् ॥
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः ।
विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा ॥
चन्द्रप्रभेति विख्याता सर्व्वरोगप्रणाशिनी ।
निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा ॥
चतस्रश्चाश्मरीस्तद्वत् मूत्राधातांस्त्रयोदश ।
अण्डवृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम् ॥
कासं श्वासं तथा कुष्ठमग्निमान्द्यमरोचकम् ।
वातपित्तकफव्याधीन् बल्या वृष्या रसायनी ॥
समाराध्य शियं तस्मात् प्रयत्नात् गुटिकामिमाम् ।
प्राप्तवांश्चन्द्रमा यस्मात् तस्माच्चन्द्रप्रभा स्मृता ॥”
इति भावप्रकाशः ॥
(तथास्य लक्षणम् । यथा, --
“विस्रं लवणमुष्णञ्च रक्तं मेहति यो नरः ।
पित्तस्य परिकोपेन तं विद्याद्रक्तमेहिनम् ॥”
इति चरके निदानस्थाने चतुर्थेऽध्याये ॥)

रक्तमोक्षणं, क्ली, (रक्तस्य मोक्षणम् ।) शोणित-

स्रावः । यथा, --
“वेदनोपशमार्थाय तथा पाकशमाय च ।
अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥
चरेत् कुर्य्यात् ।
एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः ।
रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥
विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने ।
सविशेषे विशेषेण जलौकोभिः पदैरपि ॥
शोणितस्रावणञ्चरेदित्यनेनान्वयः ।” इति भाव-
प्रकाशः ॥ (तथा च ।
“रक्तावसेचनं चतुर्भिः प्रकारैर्भवति ।
शिराविरेचनेनापि अलावूभिस्तथैव च ॥
श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद्बुधः ।
पूर्ब्बाह्ने चापराह्णे च नात्युष्णे नातिशीतले ॥
यवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् ।
शिरोरोगेषु सर्व्वेषु नासामध्यपुटे तथा ।
अमृजं रेचयेद्यत्नात् सर्व्वदा भिषगुत्तमः ॥”
एति हारीते शारीरस्थाने पञ्चमेऽध्याये ॥)

रक्तयष्टिः, स्त्री, (रक्ता यष्टिरिव । यद्वा रक्ता

रक्तवर्णा ग्रष्टिः शाखास्याः ।) मञ्जिष्ठा ।
इति जटाधरः ॥

रक्तयष्टिका, स्त्री, (रक्तयष्टि + कन् । टाप् ।)

मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्यायो यथा, --
“मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यपि ।
ताम्रवल्ली चित्रपर्णी काण्डारी रक्तयष्टिका ॥”
इति वैद्यकरत्नमालायाम् ॥
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा काल-
मेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ।
भण्डीतकी च गण्डीरी मञ्जषा वस्त्ररञ्जिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तयावनालः, पुं, (रक्तवर्णः यावनालः ।) तुघर-

यावनालः । इति राजनिर्घण्टः ॥

रक्तरेणुः, पुं, (रक्ताः रेणवोऽस्मिन्निति ।) सिन्दू-

रम् । (अस्य पर्य्यायो यथा, --
“सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पलाशकलिका । इति मेदिनी । ने, १०५ ॥
पुन्नागः । इति राजनिर्घण्टः ॥

रक्तरेणुकां, स्त्री, (रक्ताः रेणवः परागा अस्याम् ।

कन् । टाप् च ।) पलाशकलिका । तत्पर्य्यायः ।
अङ्गारिका २ । इति शब्दमाला ॥

रक्तरैवतकं, क्ली, (रक्तवर्णं रैवतकम् ।) महा-

पारेवतम् । इति राजनिर्घण्टः ॥

रक्तलशुनः, पुं, (रक्तवर्णो लशुनः ।) रक्तवर्ण-

मूलविशेषः । तत्पपर्य्यायः । महाकन्दः २
गृञ्जनः ३ दीर्घपत्रकः ४ पृथुपत्रः ५ स्थूल-
कन्दः ६ यवनेष्टः ७ । अस्य गुणाः ।
“गृञ्जनस्य मधुरं कटु कन्दं
नालमप्युपदिशन्ति कषायम् ।
पत्रसञ्चयमुशन्ति सतिक्तं
सूरयो लवणमस्थि वदन्ति ॥”
इति राजनिर्घण्टः ॥

रक्तला, स्त्री, (रक्तं लाति गृह्णातीति । ला +

कः । टाप् ।) काकतुण्डी । इति राजनिर्घण्टः ॥
(विशेषोऽस्याः काकतुण्डीशब्दे ज्ञातव्यः ॥)

रक्तलोचनः, पुं, (रक्ते लोहिते लोचने अस्य ।)

कपोतः । इति हेमचन्द्रः । ४ । ४०५ ॥ लोहित-
लोचनयुक्ते, त्रि ॥

रक्तवटी, स्त्री, (रक्ता वटी वटिकेव ।) मसूरिका ।

इति त्रिकाण्डशेषः ॥

रक्तवरटी, स्त्री (रक्ता वरटीव ।) मसूरिका ।

इति जटाधरः ॥ (मसूरिकाशब्देऽस्या गुणा-
दयो ज्ञेयाः ॥)

रक्तवर्गः पुं, (रक्तानां लोहितवर्णानां वर्गः

समूहोऽत्र ।) दाडिमः । किंशुकम् । लाक्षा ।
बन्धूकम् । निशाद्बयम् । कुसुम्भपुष्पम् । मञ्जिष्ठा ।
इति राजनिर्घण्टः ॥

रक्तवर्णः, पुं, (रक्तः लोहितः वर्णोऽस्य ।) इन्द्र-

गोपः । इति राजनिर्घण्टः ॥ (रक्तवर्णविशिष्टे,
त्रि । यथा, सुश्रुते सूत्रस्थाने । ४६ अध्याये ।
“सितासिताः पीतकरक्तवर्णा
भवन्ति येऽनेकविधास्तु शिम्बाः ॥”)

रक्तवर्द्धनः, पुं, (रक्तं शोणितं वर्द्धयतीति । वृध् +

णिच् + ल्युः ।) वार्त्ताकुः । इति शब्दचन्द्रिका ॥
(पारावतः । तत्पर्य्यायो यथा, --
“पारावतः कलरवः कपोतो रक्तवर्द्धनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तवर्षाभूः, स्त्री, (रक्तवर्णा वर्षाभूः ।) रक्त-

पुनर्नवा । इति राजनिर्घण्टः ॥

रक्तवसनः, पुं, (रक्तं वसनमस्य ।) सन्न्यासी ।

इति हेमचन्द्रः । ३ । ४७३ ॥

रक्तवातः, पुं, (रक्तप्रधानो वातः ।) रोगविशेषः ।

अस्यौषधम् । यथा, गारुडे १९३ अध्याये ।
“नारिकेलस्य वै मूलं छागक्षीरेण संयुतम् ।
पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥”

रक्तवालुकं, क्ली, (रक्ता वालुका चूर्णमत्र ।) सिन्दू-

रम् । इति हारावली ॥

रक्तवालुका, स्त्री, (रक्ता वालुकेव ।) सिन्दू-

रम् । इति शब्दरत्नावली ॥

रक्तवृन्ता, स्त्री, (रक्तवर्णं वृन्तं प्रसवबन्धन-

मस्याः ।) शेफालिका । इति शब्दचन्द्रिका ॥
(शेफालिकाशब्देऽस्या गुणादयो विज्ञेयाः ॥)

रक्तवृष्टिः, स्त्री, (रक्तानां वृष्टिः ।) रुधिरवर्ष-

णम् । तत्तु उत्पातविशेषः । तत्फलं शस्त्रोद्-
योगः । यथा । कृत्यचिन्तामणौ ।
“रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्म्मरकः ।
धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं
विद्यात् ॥”
इति ज्योतिस्तत्त्वम् ॥

रक्तशालिः, पुं, (रक्तवर्णः शालिः ।) रक्तवर्ण-

धान्यविशेषः । (यथा, सुश्रुते सूत्रस्थाने । २०
अध्याये । “रक्तशालिषष्टिकगङ्गुकमुकुन्दकपाण्डु
कपीतकप्रमोदककालकेत्यादि ॥”) तत्पर्य्यायः ।
ताम्रशालिः २ शोणशालिः ३ लोहितः ४ ।
अस्य गुणाः । मधुरत्वम् । लघुत्वम् । स्निग्ध-
त्वम् । बलावहत्वम् । रुचिकारित्वम् । दीप-
नत्वम् । पथ्यत्वम् । पित्तदाहानिलास्रनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ (तथा च ।
“रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् ।
चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृट् ज्वरापहः ।
विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तशासनं, क्ली (रक्तं रक्तवर्णं शास्ति वशीकरो-

तीति । शास् + ल्युः ।) सिन्दूरम् । इति हारा-
वली ॥

रक्तशिग्रुः, पुं, (रक्तवर्णः शिग्रुः ।) रक्तशोभा-

ञ्जनवृक्षः । तत्पर्य्यायः । रक्तकः २ मधुरः ३
बहुलच्छदः ४ सुगन्धः ५ केशरी ६ सिंहः ७
मृगारिः ८ । अस्य गुणाः । महावीर्य्यत्वम् ।
मधुरत्वम् । रसायनत्वम् । शोफाध्मानसमी-
रार्त्तिपित्तश्लेष्मनाशित्वम् । सारकत्वञ्च । इति
राजनिर्घण्टः ॥
पृष्ठ ४/०७७

रक्तशीर्षकः, पुं, (रक्तं रक्तवर्णं शीर्षं अग्रमस्य ।

कन् ।) सरलद्रवः । इति रत्नमाला ॥

रक्तशृङ्गिकं, क्ली, विषम् । इति राजनिर्घण्टः ॥

रक्तसंज्ञं, क्ली, (रक्तमिति संज्ञास्य ।) कुङ्कुमम् ।

इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य कुङ्कुम-
शब्दे विज्ञेयाः ॥)

रक्तसन्दशिका, स्त्री, (रक्ताय रक्तपानाय सम्यक्

दशतीति । दन्श + ण्वुल् । टापि अत इत्वञ्च ।)
जलौका । इति राजनिर्घण्टः ॥

रक्तसन्ध्यकं, क्ली, (“रक्तं सन्ध्येवेति रघुनाथः ।

रक्तान् सन्धीन् अकति गच्छति व्याप्नोतीति ।
कः । इति रायमुकुटभरतमल्लिकौ ।”) रक्त-
कह्लारम् । तत्पर्य्यायः । हल्लकम् २ । इत्य-
मरः । १ । १० । ३६ ॥

रक्तसरोरुहं, क्ली, (रक्तं सरोरुहम् ।) रक्त-

पद्मम् । इत्यमरः । १ । १० । ४१ ॥

रक्तसर्षपः, पुं, (रक्तवर्णः सर्षपः ।) राजिका ।

इति राजनिर्घण्टः ॥

रक्तसहा, स्त्री, (रक्तं सहते इति । सह् +

अच् + टाप् ।) रक्ताम्लानः । इति राज-
निर्घण्टः ॥

रक्तसारं, क्ली, (रक्तवर्णः सारोऽस्य ।) रक्त-

चन्दनम् । (यथास्य पर्य्यायः ।
“रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् ।
तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पत्तङ्गम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो
यथा, --
“पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा ।
पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् ॥”)
इति भावप्रक्राशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तसारः, पुं, (रक्तः सारो यस्य ।) अम्लवेतसः ।

रक्तखदिरः । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो यथा, --
“खदिरो रक्तसारश्च गायत्त्री दन्तधावनः ।
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
रक्ते सारो यस्येति । शोणितसारयुक्ते, त्रि ।
यथा, बृहत्संहितायाम् । ६८ । ९७ ।
“ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकर-
चरणैः ।
रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः ॥”)

रक्तसौगन्धिकं, क्ली, (रक्तवर्णं सौगन्धिकम् ।)

रक्तकह्लारम् । इति जटाधरः ॥

रक्तस्रावः, पुं, (रक्तं स्रावयतीति । स्रु + णिच् +

अच् ।) वेतसाम्लः । इति जटाधरः ॥ (रक्तस्य
स्रावः ।) रक्तपतनम् । (यथा, बृहत्संहिता-
याम् । ८७ । ३५ ।
“कलहो नैरृतभागे रक्तस्रावोऽथ शस्त्रकोपश्च ।
अपराद्येचर्मकृतं विनश्यते चर्मकारभयम् ॥”)

रक्तहंसा, स्त्री, (रक्ताः वशीभूताः हंसा अत्र ।)

रागिणीविशेषः । इति हलायुधः ॥

रक्ता, स्त्री, (रक्त + टाप् ।) गुञ्जा । (अस्याः

पर्य्यायो यथा, --
“रक्ता सा काकचिञ्ची स्यात् काकानन्ती च
रक्तिका ।
काकादनी काकपीलुः सा स्मृता काकवल्लरी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
लाक्षा । मञ्जिष्ठा । उष्ट्रकाण्डी । इति राज-
निर्घण्टः ॥

रक्ताकारः, पुं, (रक्तवर्ण आकारः अवयवोऽस्य ।)

प्रबालः । इति राजनिर्घण्टः ॥ (विशेषोऽस्य
प्रबालशब्दे विज्ञेयः ॥)

रक्ताक्तं, क्ली, (रक्तेन रक्तवर्णेन अक्तं म्रक्षितम् ।)

रक्तचन्दनम् । इति जटाधरः ॥ शोणित-
मिश्रिते, त्रि ॥

रक्ताक्षः, पुं, (रक्ते लोहिते अक्षिणी अस्य ।

“अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति
अच् ।) महिषः । पारावतः । चकोरः ।
क्रूरः । इति मेदिनी । षे, ४४ ॥ सारसः । इति
राजनिर्घण्टः ॥ (अब्दविशेषः । यथा, बृहत्-
संहितायाम् । ८ । ५१ ।
“रक्ताक्षमब्दं कथितं तृतीयं
यस्मिन् भयं दंष्ट्रिकृतं गदाश्च ॥”)
रक्तवर्णचक्षुर्युक्ते, त्रि । (यथा, रामायणे ।
२ । ८८ । १९ ।
“कथमिन्द्रीवरश्यामो रक्ताक्षः प्रियदर्शनः ।
सुखभागी न दुःखार्हो शयितो भुवि राघवः ॥”
अयन्तु सदा लक्ष्मीयुक्तो भवेत् । यथा, ज्योतिः-
सागरे ।
“न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् ।
न दीर्घबाहुमैश्वर्य्यं न सौख्यं प्रहसन्मुखम् ॥”)

रक्ताङ्गं, क्ली, (रक्तवर्णमङ्गमस्य ।) विद्रुमः ।

कुङ्कुमम् । इति मेदिनी । गे, ४८ ॥ (रक्तचन्द-
नम् । यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ।
“रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् ।
तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥”)

रक्ताङ्गः, पुं, (रक्तमङ्गं यस्य ।) मङ्गलग्रहः ।

कम्पिल्लः । इति मेदिनी । गे, ४७ ॥ (अस्य
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“कम्पिल्लकस्तु रक्ताङ्गो गुण्डारोचनिकेति सा ॥”
“कम्पिल्लः कर्क्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
प्रबालः । मत्कुणः । इति राजनिर्घण्टः ॥
मण्डलम् । इति शब्दरत्नावली ॥ (नागविशेषः ।
यथा, महाभारते । १ । ५७ । १७ ।
“ऋषभो वेगवान्नागः पिण्डारकमहाहनू ।
रक्ताङ्गः सर्व्वसारङ्गः समृद्धः पटवासकौ ॥”)

रक्ताङ्गी, स्त्री, (रक्ताङ्ग + ङीष् ।) जीवन्ती ।

इति मेदिनी । गे, ४९ ॥ मञ्जिष्ठा । इति भाव-
प्रकाशः ॥

रक्तातिसारः, पुं, (रक्तं अत्यन्तं सरत्यस्मात् । सृ

+ घञ् ।) रोगविशेषः । “तस्य संप्राप्तिमाह ।
‘पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति पैत्तिके ।
तद्दोषाज्जायते शीध्रं रक्तातीसार उल्वणः ॥’
तस्य चिकित्सा ।
‘वत्सकतरुत्वगार्द्रा दाडिमफलसम्भवा त्वक् ।
त्वग्युगलं पलमानं विपचेदष्टाङ्गसम्मिते तोये ॥
अष्टमभागं शेषं क्वाथं मधुना पिबेत् पुरुषः ।
रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम् ॥
इति कुटजदाडिमक्वाथः ॥ * ॥
‘गोदुग्धनवनीतन्तु मधुना सितया सह ।
लीढं रक्तातिसारे तु ग्राहकं परमं महत् ॥’
इति नवनीतावलेहः ॥ * ॥
‘पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना ।
रक्तातिसारजिद्रक्तपित्ततृड्दाहमेहनुत् ॥’
चन्दनमत्र श्वेतम् । इति चन्दनकल्कः ॥” इति
भावप्रकाशः ॥ (तथा च ।
“यस्तु रक्तशुद्धविरेचने शोषदाहमतिरिच्यते ।
रक्तातिसार इति विज्ञेयो वैद्यैर्महामतिभिः ॥
धन्वनागरमुस्ता च बालकं बालविल्वकम् ।
वलानागवला चेति क्वाथो रक्तातिसारिणाम् ॥
दाडिमञ्च कपित्थञ्च पथ्याजम्ब्वाम्रपल्लवान् ।
पिष्ट्वा देया मस्तुयुक्ता रक्तातिसारवारणाः ॥
गुडेन पक्वं दातव्यं विल्वं रक्तातिसारिणे ।
मनुजे मधुयुक्ता वा दध्ना रक्तातिसारहाः ॥
वत्सकातिविषनागराभया
पेषितञ्च मधुमस्तुसंयुतम् ।
लेह एव मधुना च मानुषे
रक्तवाहमति वारयत्यपि ॥
कुटजत्वक् च पाठा च विश्वं विल्वञ्च धातकी ।
मधुना सहितं चूर्णं देयं रक्तातिसारहम् ॥
इति रक्तातिसारः ।” इति हारीते चिकित्-
सितस्थाने तृतीयेऽध्याये ॥)

रक्ताधारः, पुं, (रक्तस्याधारः ।) चर्म्म । इति

राजनिर्घण्टः ॥

रक्तापहं, क्ली, (रक्तमपहन्तीति । हन् + डः ।)

वोलम् । इति राजनिर्घण्टः ॥

रक्तापामार्गः, पुं, (रक्तवर्णः अपामार्गः ।)

रक्तवर्णापामार्गक्षुपः । राङ्गा आपाङ् इति
वङ्गभाषा । लाल चिरचिरी इति हिन्दी भाषा ।
तत्पर्य्यायः । क्षुद्रापामार्गः २ आघट्टकः ३
दुग्धिनिका ४ रक्तविट् ५ कल्यपत्रिका ६ ।
अस्य गुणाः । शीतत्वम् । कटुत्वम् । कफवात-
व्रणकण्डूविषनाशित्वम् । संग्राहित्वम् । वान्ति-
कारित्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्याय-
गुणाः । अथ आरक्तचिरचिरा ।
“रक्तोऽन्यो वशिरो वृत्तफलो धामार्गवोऽपि च ।
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥
अपामार्गोऽरुणो वातविष्टम्भी कफकृद्धिमः ।
रूक्षः पूर्ब्बगुणैर्न्यूनः कथितो गुणवेदिभिः ॥
अपामार्गफलं स्वादु रसे पाके च दुर्ज्जरम् ।
विष्टम्भि वातलं रूक्षं वातपित्तप्रसादनम् ॥”
इति भावप्रकाशः ॥

रक्ताम्बरं, क्ली, (रक्तं रञ्जितमम्बरम् ।) काषाय-

वस्त्रम् । यथा, --
पृष्ठ ४/०७८
“शवोपरिसमासीनां रक्ताम्बरपरिच्छदाम् ।
रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ॥”
इति तन्त्रसारधृतमुच्छिष्टचाण्डालिनीध्यानम् ॥
तद्युक्ते, त्रि ॥

रक्ताम्रः, पुं, (रक्तवर्णः आम्रः ।) कोशाम्रः ।

इति राजनिर्घण्टः ॥ (विवरणमस्य कोशाम्र-
शब्द ज्ञातव्यम् ॥)

रक्ताम्लानः, पुं, (रक्तेन रक्तवणन आ सम्यक्

म्लायते इति । म्ला + क्तः । समधिकरक्तवर्णत्वा-
त्तथात्वम् ।) रक्तवर्णपुष्पविशेषः । तत्पर्य्यायः ।
रक्तसहा २ अपरिम्लानः ३ रक्ताम्लानकः ४ राग-
प्रसवः ५ रक्तप्रसवः ६ कुरुवकः ७ रामालिङ्गन-
कामः ८ बधूत्सवप्रसवः ९ सुभगः १० भ्रमरा-
नन्दः ११ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
वातामयशोफज्वराध्मानशूलकाशश्वासार्त्तिप्रश-
मनत्वम् । वर्ण्यत्वञ्च । इति राजनिर्घण्टः ॥

रक्तार्म्म, [न्] क्ली, (रक्तं ऋच्छतीति । ऋ + मन् ।)

नेत्ररोगभेदः । तस्य लक्षणं यथा, --
“पद्माभं मृदु रक्तार्म्म यन्मासं चीयते सिते ॥”
इति माधवकरः ॥

रक्तार्व्वुदः, पुं, क्ली, (रक्तानामर्व्वुदमत्र ।) रोग-

विशेषः । यथा, शातातपीयकर्म्मविपाके ।
“जलोदरयकृत्प्लीहशूलरोगव्रणानि च ।
श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः ।
रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥”
इति मलमासतत्त्वम् ॥ * ॥
रक्तार्व्वुदमाह ।
‘दोषप्रदुष्टा रुधिरं शिराश्च
सङ्कोच्य संपीड्य ततस्त्वपाकम् ।
सस्रावमुन्नह्यति मांसपिण्डं
मांसाङ्कुरैरावृतमाशु वृद्धिम् ॥
स्रवत्यजस्रं रुधिरं प्रदुष्ट-
मसाध्यमेतद्रुधिरात्मकन्तु ।
रक्तक्षयोपद्रवपीडितत्वात्
पाण्डुर्भवेदर्व्वुदपीडितश्च ॥’
दोषोऽत्र पित्तं रुधिरं शिराश्च सङ्कोच्य संपीड्य
संहतीकृत्य मांसासृजोः सर्व्वेष्वर्व्वुदेषु दूष्यत्वं
रक्तजे तु विशेषतो रक्तदुष्टिः एवं मांसार्व्वुदे
विशेषतो मांसदुष्टिर्बोद्धव्या । ततो मांसपिण्ड-
मुन्नह्यति उद्गतं करोति । अपाकं ईषत्पाकं
यथा स्यादेवमिति क्रियाविशेषणम् । ईषत्-
पाकश्चैकदेशपाकेन । रक्तक्षयोपद्रवपीडित-
त्वात् रक्तक्षयोपद्रवाः सुश्रुतेनोक्ताः । तैः
पीडितत्वात् अर्व्वुदपीडितः ॥ * ॥ अथार्व्वुदस्य
चिकित्सा ।
‘ग्रन्थ्यर्व्वुदानां न यतो विशेषः
प्रदेशहेत्वाकृतिदोषदूष्यैः ।
अतश्चिकित्सेद्भिषगर्व्वुदानि
विधानविद्ग्रन्थिचिकित्सितेन ॥
हरिद्रालोध्रपत्तङ्गगृहधूममनःशिलाः ।
मधुप्रगाढो लेपोऽयं मेदोऽर्व्वुदहरः परः ॥
मूलकस्य कृतः क्षारो हरिद्रायास्तथैव च ।
शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽर्व्वुदापहः ॥
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण ।
अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्व्वुदं
गच्छेत् ॥
शिग्रुमूलकयोर्ब्बीजं रक्षोघ्नं सुरसा यवम् ।
तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्व्वुदशान्तये ॥’
रक्षोघ्नं सर्षपम् । सुरसा तुलसी । यवं इन्द्रयवम् ।
अश्वरिपुं करवीरम् ।” इति भावप्रकाशः ॥

रक्तार्शः, [स्] क्ली, (रक्तजनितमर्शः ।) अर्शो-

रोगविशेषः । तस्य लक्षणमाह ।
“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः ।
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः ॥
तेऽत्यर्थं दुष्टमुष्णञ्च गाढविड्भिः प्रपीडिताः ।
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ॥
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ।
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः ॥
विट्श्यावं कठिनं रूक्षमधो वायुर्न वर्त्तते ।
तनु चारुणवर्णञ्च फेणिलञ्चासृगर्शसाम् ॥
कट्यूरुगुदशूलञ्च दौर्ब्बल्यं यदि वाधिकम् ।
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम् ॥
शिथिलं श्वेतपीतञ्च विट्स्निग्धं गुरु शीतलम् ।
यद्यर्शसां घनञ्चासृक् तत्तु सत्पाण्डु पिच्छिलम् ॥
गुदं सपिच्छं स्तिमितं गुरु स्निग्धञ्च कारणम् ।
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ॥
गुदे कीला अर्शंसि । पित्ताकृतिसमन्विताः
पित्तार्शोलक्षणयुक्ताः । आकारेण च वटप्ररो-
हादिसदृशाः । दुःखैः रोगैः । त्वक्पारुष्याम्बु-
शीतप्रार्थनादिभिः कलुषेन्द्रियः व्याकुलसर्व्वे-
न्द्रियः । रक्तजस्यापि वातोल्वणस्य लक्षण-
माह । तत्र रक्तार्शसि अनुबन्धः उल्वणत्वम् ।
रूक्षणं रूक्षयतीति रूक्षणं रूक्षं द्रव्यम् ।
पित्तोल्वणस्य लक्षणं रक्तोल्वणा गुदे कीला
पित्ताकृतिसमन्विता इत्यादिनैवोक्तम् । रक्त-
पित्तयोः समानलिङ्गत्वात् ॥ * ॥ कफोल्वणस्य
लक्षणमाह । सपिच्छं पिच्छिलार्द्रस्तिमित-
मार्द्रञ्चर्म्मावगुण्ठितमिव । तस्य चिकित्सा ।
रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् ।
दुष्टाश्रेणिगृहीते स्युः शूलानाहासृगामयाः ॥
चन्दनकिराततिक्तकधन्वयवासाः सनागराः
कथिताः ।
रक्तार्शसां प्रशमना दार्व्वीत्वगुशीरनिम्बा वा ॥
चन्दनमत्र रक्तचन्दनम् । इति चन्दनादिक्वाथः ॥
नवनीततिलाभ्यासात्
केशरनवनीतशर्कराभ्यासात् ।
दधिसरमथिताभ्यासात्
गुदजाः शाम्यन्ति रक्तवहाः ॥
दध्नस्तूपरि यो भागो घनः स्नेहयुतः सरः ।
मथितं सररहितम् । निर्ज्जलं वस्त्रपूतं दधि ।
सपद्मकेशरं क्षौद्रं नवनीतं नवं लिहन् ।
सिताकेशरसंयुक्तं रक्तार्शःसु सुखी भवेत् ॥
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम् ।
ओदनमद्यादम्लैर्मधुरैरीषत्सुगन्धैश्च ॥
समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ।
सिद्धं छागीपयो दद्याद्गुदजे शोणितात्मके ॥
समङ्गा लज्जालुः । मोचाह्वो मोचरसः ।
तिरीटो लोध्रः । चन्दनमत्र रक्तचन्दनम् । सम-
ङ्गादिदुग्धम् ।
भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः ।
बन्धनात् सुदृडं सूत्रं छिनत्त्यर्शो भगन्दरम् ॥
क्षारसूत्रम् ॥
नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि ।
क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदिताम् ॥
चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना ।
वेगावरोधन्त्रीपृष्ठयानान्युत्कटकासनम् ।
यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत् ॥”
इति भावप्रकाशः ॥
(यथा चास्य लक्षणानि ।
“रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिका-
फलसदृशानि पित्तलक्षणानि च यदावगाढ-
पुरीषप्रपीडितानि भवन्ति तदात्यर्थं दुष्टमनल्प-
मसृक् सहसा विमृजन्ति तस्यैवातिप्रवृत्तौ शोणि-
तातियोगोपद्रवा भवन्ति ।” इति सुश्रुते निदान-
स्थाने द्वितीयेऽध्याये ॥ अथास्य चिकित्सा ।
“रक्तार्शसामुपचारं वक्ष्यामि शृणु पुत्त्रक ! ।
प्रातस्तिलान् भक्षयेच्च नवनीतविमिश्रितान् ॥
सितानागरसंयुक्तं नवनीतं सशर्करम् ।
केशरं मातुलुङ्गस्य विडङ्गशर्करायुतम् ॥
भक्षेत् कुष्माण्डाषलेहं नवनीतेन शर्कराम् ।
एतेन रक्तगुदजान् शमयन्ति विचक्षणाः ॥
समङ्गा शाल्मलीपुष्पं चन्दनं ककुभत्वचम् ।
नीलोत्पलमजाक्षीरं पिष्ट्वा पानमसृग्गदान् ॥
कुटजमूलसकेशरमुत्पलं
खदिरधातकिमूलशृतं पयः ।
पिबति म्रक्षणयोगमसृग्भवं
गुदजवैकृतसङ्घविनाशनम् ॥”
इति रक्तार्शश्चिकित्
इति हारीते चिकित्सितस्थाने १२ अध्यायः ॥)

रक्तालुः, पुं, (रक्तः रक्तवर्णः आलुः ।) रक्त-

वर्णालुविशेषः । शकरकन्द आलु इति भाषा ॥
तत्पर्य्यायः । रक्तपिण्डालुः २ रक्तपिण्डकः ३
लोहितः ४ रक्तकन्दः ५ लोहितालुः ६ । अस्य
गुणाः । शीतत्वम् । मधुराम्लत्वम् । भ्रमपित्त-
दाहापहत्वम् । वृष्यत्वम् । बलपुष्टिकारित्वम् ।
गुरुत्वञ्च । इति राजनिर्घण्टः ॥

रक्तिका, स्त्री, (रक्तो रक्तवर्णोऽस्त्यस्याः । रक्त

+ “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
गुञ्जा । (अस्याः पर्य्यायो यथा, --
“साङ्गुष्ठा कृष्णला गुञ्जा रक्तिका काकणन्तिका ।
काकादनी काकतिक्ता काकजङ्घा शिखण्डनी ॥”
इति वैद्यकरत्नमालायाम् ॥
“रक्ता सा काकचिञ्ची स्यात् काकणन्ती च
रक्तिका ।
काकादनी काकपीलुः सा स्मृता काकवल्लरी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पृष्ठ ४/०७९
राजिका । इति राजनिर्घण्टः ॥ रक्तिका-
परिमाणञ्च ॥

रक्तेक्षुः, पुं, (रक्तो रक्तवर्ण इक्षुः ।) रक्त-

वर्णेक्षुः । लाल आक् इति भाषा ॥ तत्पर्य्यायः ।
सूक्ष्मपत्रः २ शोणः ३ लोहितः ४ उत्कटः ५
मधुरः ६ ह्रस्वमूलः ७ लोहितेक्षुः ८ । अस्य
गुणाः । मधुरत्वम् । पाके शीतलत्वम् । मृदु-
त्वम् । पित्तदाहहरत्वम् । वृष्यत्वम् । तेजो-
बलविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥

रक्तैरण्डः, पुं, (रक्तवर्णः एरण्डः ।) वृक्षविशेषः ।

लाल भेरण्डा इति भाषा ॥ तत्पर्य्यायः । व्याघ्रः २
हस्तिकर्णः ३ रुवुः ४ उरुवूकः ५ नाग-
वर्णः ६ चञ्चुः ७ उत्तानपत्रकः ८ करपर्णः ९
पाचनः १० स्निग्धः ११ व्याघ्रतलः १२ रक्तकः
१३ चित्रवीर्य्यः १४ ह्रस्वैरण्डः १५ । अस्य
गुणाः श्वयथुपवनश्रान्तिरक्तार्त्तिपाण्डुभ्रान्ति-
श्वासज्वरारोचकनाशित्वम् । लघुत्वञ्च । इति
राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“शुक्ल एरण्ड आमण्डश्चित्रो गन्धर्व्वहस्तकः ।
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डो व्यडम्बकः ॥
रक्तोऽपरोरुवूकः स्यादूरुवूको रुवुस्तथा ।
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् ।
शूलशोथकटीवस्तिशिरःपीडोदरज्वरान् ॥
ब्रध्नश्वासकफानाहकासकुष्ठाममारुतान् ॥
एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् ।
मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपणम् ॥
वातार्य्यग्रदलं गुल्मवस्तिशूलहरं परम् ।
कफवातकृमीन् हन्ति वृद्धिं सप्तविधामपि ॥
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ।
यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् ।
तद्वन्मज्जा च विड्भेदी वातश्लेष्मोदयापहः ॥”
इति भावप्रकाशः ॥

रक्तैर्व्वारुः, पुं, (रक्तः रक्तवर्णः एर्व्वारुः ।) इन्द्र-

वारुणी । इति राजनिर्घण्टः ॥ (विशेषो-
ऽस्येन्द्रवारुणीशब्दे विज्ञेयः ॥)

रक्तोत्पलं, क्ली, (रक्तं रक्तवर्णमुत्पलम् ।) रक्त-

पद्मम् । तत्पर्य्यायः । रक्तसरोरुहम् २ कोक-
नदम् ३ । इत्यमरः । १ । १० । ४२ ॥ (यथा,
बृहत्संहितायाम् । २९ । ९ ।
“विन्द्याच्च सिन्दुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन ।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥”
तथास्य गुणाः ।
“धवलं कमलं शीतं मधुरं कफपित्तजित् ।
तस्मादल्पगुणं किञ्चिदन्यत् रक्तोत्पलादिकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तोत्पलः, पुं, (रक्तोत्पलमिव पुष्पमस्त्यस्य ।

अर्शआद्यच् ।) शाल्मलिवृक्षः । इति राज-
निर्घण्टः ॥

रक्तोत्पलाभः, पुं, (रक्तोत्पलस्य आभेव

आभास्य ।) शोणवर्णः । इति जटाधरः । तद्-
युक्ते, त्रि ॥

रक्तोपलं, क्ली, (रक्तमुपलम् ।) गैरिकम् । इति

हारावली । ११५ ॥ (गुणादयोऽस्य गैरिक-
शब्दे ज्ञेयाः ॥)

रक्ष, ञि पालने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ञि, रक्षितोऽस्ति । इति
दुर्गादासः ॥

रक्षः, [स्] क्ली, (रक्षत्यस्मादिति । रक्ष +

“सर्व्वधातुऽभ्योसुन् ।” उणा० ४ । १८८ । इति
असुन् ।) राक्षसः । इत्यमरः । १ । १ । ६२ ॥
तद्विशेषो यथा, --
“दृष्ट्वा तु विकलान् व्यङ्गाननाथान् रोगिणस्तथा
दया न जायते यस्य स रक्ष इति मे मतिः ॥”
इत्याग्नेये यमशर्म्मिलोपाख्याननामाध्यायः ॥
रक्षोघ्नौषधं यथा, --
मनुरुवाच ।
“रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा ।
अगदानि समाचक्ष्व तानि धर्म्मभृतांवर ॥
मत्स्य उवाच ।
पत्रिका रोहिणी चैव रक्तमाला महौषधी ।
तथामलकवन्दारं या च चित्रपटोलिका ॥
काकोली क्षीरकाकोली पीलुपर्णी तथैव च ।
केशिनी वृश्चिकाली च महानागा शतावरी ॥
तथा गरुडवेगा च स्थले कुमुदिनी तथा ।
स्थले चोत्पलिनी या च महाभूमिलता च या ।
उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव ।
विशेषान्मरकतान्यत्र कीटपक्ष्यविशेषतः ॥
जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः ।
रक्षोघ्नाञ्च यशस्याश्च कृत्या वेतालनाशनाः ॥”
इति मात्स्ये १९२ अध्यायः ॥

रक्षःसभं, क्ली, (रक्षसां राक्षसानां सभा । क्लीव-

त्वमभिधानात् ।) रक्षःसमूहः । इत्यमरः ।
३ । ५ । २३ ॥

रक्षकः, त्रि, (रक्षतीति । रक्ष + ण्वुल् ।) रक्षा-

कर्त्ता । यथा, --
“गोरक्षः सहदेवश्च नकुलो हयरक्षकः ।
वैराटे कुरुदायादो नराणां मातुलक्रमः ॥”
इति पुराणम् ॥

रक्षणं, क्ली, (रक्ष + भावे ल्युट् ।) रक्षा । यथा,

“इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् ।
पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥”
इति श्रीभागवते १० स्कन्धे ६ अध्यायः ॥

रक्षणारकः, पुं, मूत्रकृच्छ्ररोगः । इति शब्द-

रत्नावली ॥ क्वचित् पुस्तके रक्षणीरकोऽपि
पाठः ॥

रक्षणिः, स्त्री, त्रायमाणा लता । इति राज-

निर्घण्टः ॥

रक्षा, स्त्री, (रक्षणमिति । रक्ष + “गुरोश्च हलः ।”

३ । ३ । १०३ । इति अः । स्त्रियां टाप् ।)
रक्षणम् । (यथा, कुमारे । २ । २८ ।
“मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥”)
जतु । इति मेदिनी । षे, २३ ॥ भस्म । इति
शब्दरत्नावली ॥ यशोदाकृता रक्षा यथा, --
“रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः ।
गोभूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् ॥
रक्षां च चक्रुः शकृता द्बादशाङ्गेषु नामभिः ।
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ॥
न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्व्वत ॥
अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहा जनश्च ।
कोणेषु शंख उरुगाय उपर्य्युपेन्द्र-
स्तार्क्षः क्षितौ हलधरः पुरुषः समन्तात् ॥
इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु ।
श्वेतद्बीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥
पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः ।
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥
व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः ।
भुञ्जानं यज्ञभुक् पातु सर्व्वग्रहभयङ्करः ॥
डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ॥
भूतमातृपिशाचाश्च यक्षरक्षोविनायकाः ॥
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥
स्वप्नदृष्टमहोत्पाता वृद्धबालग्रहाश्च ये ।
सर्व्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥”
इति श्रीभागवते १० स्कन्धे ६ अध्यायः ॥ * ॥
अथ पौर्णमास्यां रक्षाबन्धनम् । राखीबाँधा
इति भाषा । यथा, --
“पौर्णमास्यां हरे रक्षाबन्धनं विधिपूर्व्वकम् ।
व्रजराजकुमारत्वात् केचिदिच्छन्ति साधवः ॥”
तत्र भद्रादिसद्भावे तामतिक्रम्यैव कुर्य्यात् ।
तथा च स्मृत्यन्तरे ।
“भद्रायां द्वे न कर्त्तव्ये श्रावणी फाल्गुनी तथा ।
श्रावणी नृपतिं हन्ति ग्रामान् दहति फाल-
गुनीति ॥”
विधिश्च भविष्योत्तरे ।
“उपाकर्म्मदिने प्रोक्तमृषीणाञ्चैव तर्पणम् ।
ततोऽपराह्णसमये रक्षापोटलिकां शुभाम् ॥
कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषिताम् ।
वस्त्रैर्व्विचित्रैः कार्पासैः क्षौमैर्व्वा मलवर्ज्जितैः ।
विचित्रं ग्रथितं सूत्रं स्थापयेद्भाजनोपरि ॥
उपलगृहमध्ये दण्डचतुष्के न्यसेच्छुभं पीठम् ।
तत्रोपविशेद्राजा सामात्यः सपुरोहितः ससुहृत् ॥
तदनु पुरोधा नृपते रक्षां बध्नीत मन्त्रेण ।
येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वां प्रतिबध्रामि रक्षे मा चल मा चल ॥”
वैदिकश्च । यदा वघ्न दाक्षपणा हित्ययः
शतानीका मनष्य माना तन्मया बध्नामि
शतं शारदाया युष्मन् जरदिष्टिर्यथा सम् ।
“ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः ।
कर्त्तव्यो रक्षणाचारो विप्रान् शंपूज्य शक्तितः ॥
अनेन विधिना यस्तु रक्षिकाबन्धमाचरेत् ।
पृष्ठ ४/०८०
स सर्व्वदोषरहितः सुखं संवत्सरं वसेदिति ॥”
अथ तद्दिननिर्णयार्थं उपाकर्म्मदिननिर्णयः
क्रियते । यदाह स्मृत्यन्तरे ।
“उपाकर्म्म तु कुर्व्वन्ति ते सामऋग्यजुर्व्विदः ।
ग्रहसंक्रान्तियुक्तेषु हस्तश्रवणपर्व्वसु ॥”
तथा च । सामवेदिनां भाद्रस्य हस्तानक्षत्रं
ऋग्वेदिनां श्रावणस्य श्रवणनक्षत्रं यजुर्व्वेदिनां
श्रावणी पूर्णिमोपाकर्म्मकालः । उपक्रमकण्डिका-
कीर्त्तनरूपं कर्म्म उपाकर्म्म । अत्र करणाभावे
भाद्रे श्रावणेऽपि विधेयम् ।
“अवृष्ट्योषधयस्तस्मिन् मासे न हि भवन्ति तेत् ।
तदा भाद्रपदे मासि श्रावणेऽपि तदिष्यते ॥”
इति बह्वृच्परिशिष्टवचनात् ॥
श्रावणपञ्चम्यनुकल्पः । तदाह गर्गः ।
“यदि स्यात् श्रावणं पर्व्व ग्रहसंक्रान्तिदूषितम् ।
स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य च ॥” इति ॥
अत्र भूतविद्धा पूर्णिमा च निषिद्धा । तथा च
कालिकापूराणे ।
“चतुर्द्दश्यां समुत्पन्नावसुरौ मधुकैटभौ ।
वेदान् स्वीकुर्व्वतः पद्मयोनेस्तौ जघ्नतुः श्रुतीः ॥
हत्वा तावसुरौ देवः पातालतलवासिनौ ।
आहृत्य ताः श्रुतीस्तस्मै ददौ लोकगुरुः स्वयम् ॥
संप्राप्तवान् श्रुतीर्ब्रह्मा पर्व्वण्यौदयिके पुनः ।
अतो भूतयुते तस्मिन्नोपाकरणमिष्यते ।
आसुरं वर्ज्जयेत् कालं वेदाहरणशङ्कयेति ॥”
व्यासोऽपि ।
“श्रवणेन तु यत् कर्म्म उत्तराषाढसंयुतम् ।
संवत्सरकृतोऽध्यायस्तत्क्षणादेव नश्यति ॥
धनिष्ठासंयतं कुर्य्याच्छ्रावणं कर्म्म यद्भवेत् ।
तत् कर्म्म सफलं विद्यादुपाकरणसंज्ञकमिति ॥”
इति श्रीहरिभक्तिविलासे ५१ विलासः ॥
(रक्षाकर्म्म यथा । उदकुम्भाच्चापो गृहीत्वा
प्रोक्षयन् रक्षाकर्म्म कुर्य्यात् तद्बक्ष्यामः ।
“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च ।
रक्षाकर्म्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥
नागाः पिशाचा गन्धर्व्वाः पितरो यक्षराक्षसाः ।
अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥
पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः ।
दिक्षु वास्तुनिवासाश्च पान्तु त्वान्ते नमस्कृताः ॥
पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा ।
पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ।
सोमो व्यानमपानन्ते पर्जन्यः परिरक्षतु ॥
उदानं विद्युतः पान्तु समानं स्तनयित्नवः ।
बलमिन्द्रो बलपतिर्मंनुर्मन्ये मतिन्तथा ॥
कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु ।
प्रज्ञान्ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥
चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः ।
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।
आकाशं खानि ते पातु देहन्तव वसुन्धरा ॥
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् ।
पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥
एता देहे विशेषेण तव नित्या हि देवताः ।
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥
स्वस्ति ते भगवान् ब्रह्म स्वस्ति देवाश्च कुर्व्वताम् ।
स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥
स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ।
पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव ॥
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥”
इति स्वाहा ॥
एतैर्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः ।
मयैवं कृतरक्षस्त्वं दीर्घर्मायुरवाप्नुहि ॥”
इति सुश्रुते सूत्रस्थाने पञ्चमेऽध्याये ॥)

रक्षापत्रः, पुं, (रक्षार्थं पत्रमस्य ।) भूर्जवृक्षः ।

इति राजनिर्घण्टः ॥ भूर्जत्यचि, क्ली ॥

रक्षिका, स्त्री, (रक्षैव । रक्षा + स्वार्थे कन् ।

टापि अत इत्वम् ।) रक्षा । यथा, --
“अनेन विधना यस्तु रक्षिकाबन्धमाचरेत् ।
स सर्व्वदोषरहितः सुखं संवत्सरं वसेत् ॥”
इति हरिभक्तिविलासे ५१ विलासः ॥

रक्षितं, त्रि, (रक्ष + क्तः ।) कृतरक्षम् । तत्-

पर्य्यायः । त्रातम् २ त्राणम् ३ अवितम् ४
गोपायितम् ५ गुप्तम् ६ । इत्यमरः । ३ । १ । १०६ ॥
(यथा, मनुः । ११ । २३ ।
“कल्पयित्वास्य वृत्तिञ्च रक्षेदेनं समन्ततः ।
राजा हि धर्म्मषड्भागं तस्मात् पाप्नोति
रक्षितात् ॥”
क्ली, भावे क्तः । रक्षा ॥ * ॥ स्त्रियां टाप् ।
अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५० ।
“अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा ।
अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥”)

रक्षिता, [ऋ] पुं, (रक्षतीति । रक्ष + तृच् ।)

रक्षाकर्त्ता । यथा, --
“आयव्यवज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।
कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादेष रक्षिता ॥”
इति मात्स्ये १८९ अध्यायः ॥

रक्षिवर्गः, पुं, (रक्षिणां वर्गः समूहः ।) राजाङ्ग-

रक्षकगणः । तत्पर्य्यायः । अनीकस्थः २ । इत्य-
मरः । २ । ८ । ६ ॥

रक्षोघ्नं, क्ली, (रक्षो राक्षसं हन्तीति । हन् +

टक् ।) काञ्जिकम् । इति हेमचन्द्रः ॥ हिङ्गु ।
इति राजनिर्घण्टः ॥

रक्षोघ्नः, पुं, (रक्षो हन्तीति । हन् + टक् ।)

भल्लातकवृक्षः । इति त्रिकाण्डशेषः ॥ श्वेत-
सर्षपः । इति रत्नमाला ॥ रक्षोघ्नमन्त्रो यथा, --
“स्थाने हृषीकेश तव प्रकीर्त्त्या
जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्व्वे नमस्यन्ति च सिद्धसंघाः ॥”
इति भगवद्गीतायाम् । ११ । ३६ ॥
“स्थाने इत्यव्ययं युक्तमित्यर्थे । हे हृषीकेश
सर्व्वेन्द्रियप्रवर्त्तक यतस्त्वमेवात्यन्ताद्भुतप्रभावो
भक्तवत्सलश्च ततस्तव प्रकीर्त्त्या प्रकृष्टया
कीर्त्त्या निरतिशयप्राशस्त्यस्य कीर्त्तनेन श्रव-
णेन च न केवलमहमेव प्रहृष्यामि किन्तु सर्व्व-
मेव जगच्चेतनमात्रं रक्षोविरोधि प्रहृष्यति
प्रकृष्टं हर्षमाप्नोति इति यत् तत् स्थाने युक्त-
मित्यर्थः । तथा सर्व्वं जगत् अनुरज्यते च त्वद्बि-
षयमनुरागमुपैति इति च यत्तदपि युक्तमेव ।
यथा रक्षांसि भीतानि सन्ति दिशो द्रवन्ति
सर्व्वासु दिक्षु पलायन्त इति यत्तदपि युक्तमेव ।
यथा सर्व्वेषां सिद्धानां कपिलादीनां संघा
नमस्यन्ति चेति यत्तदपि युक्तमेव । सर्व्वत्र तव
प्रकीर्त्त्या इत्यस्यान्वयः स्थाने इत्यस्य च ।
अयं श्लोको रक्षोघ्नमन्त्रः शास्त्रप्रसिद्धः ।” इति
तट्टीकायां मधुसूदनसरस्वती ॥ (रक्षोविनाशके,
त्रि । यथा सुश्रुते । १ । ५ । “वेदनारक्षोघ्नैर्धूपै-
र्धूपयेद्रक्षोध्नैश्च मन्त्रै रक्षां कुर्व्वीत ॥”)

रक्षोघ्नी, स्त्री, (रक्षो हन्तीति । हन + टक् ।

ङीप् ।) वचा । इति रत्नमाला ॥

रक्षोजननी, स्त्री, (रक्षसां जननीव ।) रात्रिः ।

इति त्रिकाण्डशेषः ॥ राक्षसमाता च ॥

रक्षोहा, [न्] पुं, (रक्षो हन्तीति । हन् + क्विप् ।)

गुग्गुलुः । इति राजनिर्घण्टः ॥ (ऋषिविशेषः ।
स तु ऋग्वेदस्य १० मण्डलस्य १६२ सूक्तस्य
ऋषिः ॥ राक्षसहन्तरि, त्रि । यथा, ऋग्वेदे ।
१० । ९७ । ६ ।
“विप्रः स उच्यते भिषग्रक्षोहा मीवचातनः ॥”
“रक्षोहा रक्षोहन्ता ।” तद्भाष्ये सायणः ॥)

रक्ष्णः, पुं, (रक्ष + “यजयाचयतविच्छप्रच्छरक्षो

नङ् ।” ३ । ३ । ९० । इति नङ् ।) त्राणम् ।
इत्यमरः । ३ । २ । ८ ॥

रख, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रखति । इति दुर्गादासः ॥

रख, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, रङ्ख्यते । इति दुर्गादासः ॥

रग, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, रङ्ग्यते । इति दुर्गादासः ॥

रग, क स्वाद आपने । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-अक० च-सेट् ।) क,
रागयति । इति दुर्गादासः ॥

रग, म ए शङ्के । इति कविकल्पद्रुमः ॥ (भ्वा०

पर०-अक०-सेट् ।) म, रगयति । ए, अरगीत् ।
शङ्कः शङ्का । रगति रोगी कुपथ्येभ्यः । इति
दुर्गादासः ॥

रघ, इ क भासि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इ क, रङ्घयति । भासि
दीप्तौ । इति दुर्गादासः ॥

रघ, इ ङ गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) इ, रङ्क्ष्यते । ङ, रङ्घते ।
इति दुर्गादासः ॥

रघुः, पुं, (लङ्घति ज्ञानसीमां प्राप्नोतीति । लङ्घि

+ “लङ्घिबंह्योर्नलोपश्च ।” उणा० १ । ३० ।
इति कुः नलोपश्च । “बालमूललघ्वसुराल-
मङ्गुलीनां वा लो रत्वमापद्यते इति वक्त्यवम् ।”
पृष्ठ ४/०८१
८ । २ । १८ । इति काशिकोक्त्या लस्य रत्वम् ।
इत्युज्ज्वलदत्तः ।) सूर्य्यवंशीयदिलीपराजपुत्त्रः ।
स तु अयोध्याधिपतिः । श्रीरामचन्द्रस्य प्रपिता-
महः । यथा, रघुः । ३ । १८ ।
“स जातकर्म्मण्यखिले तपस्विना
तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्म्मणिराकरोद्भवः
प्रयुक्तसंस्कार इवाधिकं बभौ ॥”
तन्नामव्युत्पत्तिर्यथा, --
“श्रुतस्य यायादयमन्तमर्भक-
स्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थ-वि-
च्चकार नाम्ना रघुमात्मसम्भवम् ॥”
इति रघुवंशे महाकाव्ये । ३ । २१ ॥
(अस्य पिता दिलीपः माता सुदक्षिणा । अयं
हि अश्वमेधयज्ञदीक्षितस्य पितुर्यज्ञीयाश्वरक्षणे
नियुक्तस्तदश्वहारिणं देवराजं जितवान् । अथ
बहुकालं राज्यसुखमनुभूय विश्वजिन्नामाध्वरे
सर्व्वं वित्तं ब्राह्मणसात् कृतवानपि गुरुदक्षिणा-
र्थिना वरतन्तुशिष्येण कौत्सेनाभ्यर्थितः कुबेरं
विजित्य धनान्यादाय तस्मै प्रदत्तवान् । अथ
स्वपुत्त्रमजं यौवराज्येऽभिषिच्य विगतविषयाभि-
लाषो योगसमाधिना भगवत्-सायुज्यमाप्तवान् ।
तथा च रघुवंशे । ८ सर्गे ।
“अथ वीक्ष्य रघुः प्रतिष्ठितं
प्रकृतिष्वात्मजमात्मवत्तथा ।
विषयेषु विनाशधर्म्मसु
त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥”
“अथ काश्चिदजव्यपेक्षया
गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं
पुरुषं योगसभाधिना रघुः ॥” * ॥
भीमादिवदेकदेशग्रहणे रघुवंशकाव्यम् । यथा,
“रघुरपि काव्यं तदपि च पाठ्यम्
तस्य च टीका सापि च पाठ्या ॥”
एवं “रघोः काव्यं पदे पदे ॥” एतावुद्भटौ ॥
अपि च ।
“रञ्जयतीति । राजा प्रभुः । तेन ‘राजा
प्रकृतिरञ्जनात् ।’ इति रघुः ।” इति उणादि-
वृत्तौ उज्ज्वलदत्तः । १ । १५६ ॥ * ॥ रघु-
वंशीयमात्रम् । तत्र बहुवचनान्तः । यथा,
रघुवंशे । १ । ९ ।
“रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ॥”
लङ्घति द्रुतं गच्छतीति । शीघ्रगामिनि, त्रि ।
यथा, ऋग्वेदे । ५ । ३० । १४ ।
“अत्यो न वाजी रघुरज्यमानः ॥”
“रघुः शीघ्रगामी ।” इति तद्भाष्ये सायणः ॥”)

रघुकारः, पुं, (रघुं तदाख्यं काव्यं करोतीति ।

कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।)
कालिदासः । इति त्रिकाण्डशेषः ॥ (यथा,
आर्य्यासप्तशत्याम् । ६९७ ।
“पूर्ब्बैर्व्विभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः ।
वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥”
यथा च ।
“सीमन्तिनी च नलिनी च कुमुद्बती च
चन्द्रप्रभा च रघुकारसरस्वती च ।
कान्तोज्झिता हिमहता रविरश्मितप्ता
मेघावृता जडधियाभिहता न भाति ॥”
इत्युद्भटः ॥)

रघुनन्दनः, पुं, (रघून् रघुवंशसम्भूतान् नन्दय-

तीति । नन्दि + ल्युः ।) श्रीरामः । इति शब्द-
रत्नावली ॥ (यथा, रायायणे । १ । ५२ । १२ ।
“ततो वशिष्ठो भगवान् कथान्ते रघुनन्दन ! ।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥”
वङ्गदेशीयनवद्वीपनिवासी स्मार्त्तः पण्डित-
विशेषः । स च प्राचीनस्मृतिसंग्रहकर्त्ता ।
मलमासतत्त्वाद्यष्टाविंशतितत्त्वप्रणेता वन्द्य-
घटीयश्रीहरिहरभट्टाचार्य्यात्मजः । यथा, --
“प्रणम्य सच्चिदानन्दं परमात्मानमीश्वरम् ।
मुनीन्द्राणां स्मृतेस्तत्त्वं वक्ति श्रीरघुनन्दनः ।
मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये ।
प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥
दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये ।
तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते ॥
प्रतिष्ठायां परीक्षायां ज्जोतिषे वास्तुयज्ञके ।
दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ॥
सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे ।
इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥”
इति मलमासतत्त्वम् ॥
अपरः पण्डितविशेषः । स च वर्द्धमानप्रदेशान्त-
र्गतमाडग्रामनिवासिचरः । राढीयश्रेणीभुक्तः
किशोरीमोहनगोस्वामि सूनुः श्रीमन्नित्यानन्द-
वंशीयगोस्वामी । भागवतसिद्धान्तव्रजरमापरि-
णयछन्दोमञ्जरीटीकाव्याख्यानकौमुदीरामरसा-
यणप्रभृतयो बहवो ग्रन्थास्तत्प्रणीताः सन्ति ॥)

रघुनाथः, पुं, (रघूणां नाथः । क्षुभ्नादित्वात् णत्वा-

भावः ।) श्रीरामः । इति शब्दरत्नावली ॥
(यथा, रघुः । १५ । ५४ ।
“रघुनाथोऽप्यगस्त्येन मार्गसन्दर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना ॥”)

रघुपतिः, पुं, (रघूणां पतिः ।) श्रीरामः । यथा,

“यदुपतेः क्व गता मथुरा पुरी
रघुपतेः क्व गतोत्तरकोशला ।
इति विचिन्त्य कुरुष्व मनः स्थिरं
न सदिदं जगदित्यवधारय ॥”
इति रूपगोस्वामी ॥
(केषाञ्चित् पण्डितानां नाम । यथा, रघुनाथ-
शिरोमणिः अयन्तु नैयायिकः गाङ्गेशोपाध्याय-
कृतव्याप्तिपञ्चकादेष्टीकाकारः । रघुनाथ चक्र-
वर्त्ती अयममरकोषस्य टीकाकारः । रघुनाथ
तर्कवागीशः । रघुनाथ सरस्वती । रघुनाथ
दासगोस्वामी । अयं हि श्रीचैतन्यदेवस्य
प्रियभक्तः आसीत् । स्तवावल्यादिभक्तिग्रन्थ-
प्रणेता । अयं खलु अशेषवैराग्यसम्पन्नः यशो-
हरनिवासिचरः कायस्थकुलभूषणं मथुरान्त-
र्व्वर्त्तिगोवर्द्ध्वनगिरितटे राधाकुण्डे मर्त्त्यदेहं
विहाय स्वर्धामागमत् । तत्समाधिरधुनापि
तत्रैवास्ते सेव्यतेऽद्यापि बहुभिर्वैष्णवैः ॥)

रघुवंशः, पुं, क्ली, (रघोर्वंशः सन्ततिर्वर्णनीयो

यस्मिन् । यद्बा रघूणां वंशमधिकृत्य कृतमिति
अण् लुक् च ।) कालिदासकृतरघुराजान्वय-
वर्णनमहाकाव्यग्रन्थविशेषः । यथा, --
“रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥”
इति रघुवंशे महाकाव्ये । १ । ९ ॥
(अयं हि ऊनविंशसर्गात्मको ग्रन्थः । अत्र
दिलीपादारभ्य अग्निवर्णपर्य्यन्तं वस्तु वर्णि-
तम् ॥ पुं, रघोर्वंशः । यथा, --
“जयति रघुवंशतिलकः कौशल्यानन्दिवर्द्धनो
रामः ॥”
इति रामायणम् ॥)

रघुवंशतिलकः, पुं, (रघुवंशे तिलक इव शोभा-

जनकत्वात् ।) श्रीरामः । यथा, --
“जयति रघुवंशतिलकः कौशल्यानन्दिवर्द्धनो
रामः ।
दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः ॥”
इति रामायणम् ॥

रघुवरः, त्रि, (रघुषु वरः श्रेष्ठः ।) रघुवंशीयश्रेष्ठः ।

यथा, रामायणे ।
“रामं लक्ष्मणपूर्ब्बजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं
धार्म्मिकम् ॥”

रघूद्वहः, पुं, (उद्वहतीति । उत् + वह् + अच् ।

रघूणां उद्वहः रक्षाभारधारकः ।) श्रीरामः ।
इति शब्दरत्नावली ॥

रङ्कः, पुं, (रमते तुष्यतीति । रम् + “बाहुलकात्

रमेरपि कः ।” इति कः । इत्युज्ज्वलदत्तः । ३ ।
४० ।) कृपणः । मन्दः । इति मेदिनी ।
के, ३१ ॥

रङ्कुः, पुं, (रमते इति । रम् + बाहुलकात् कुः ।)

मृगविशेषः । इत्यमरः । २ । ५ । १० ॥ स
तु शब्दलपृष्ठहरिणः । इति राजनिर्घण्टः ॥

रङ्गं, क्ली पुं, (रङ्गतीति । रङ्ग + अच् । रज्यते

अस्मिन् । रन्ज् + अधिकरणे घञ् वा ।)
धातुविशेषः । राङ्ग इति भाषा ॥ तत्पर्य्यायः ।
त्रपुः २ त्रपुषम् ३ आपूषम् ४ वङ्गम् ५ मधु-
रम् ६ हिमम् ७ कुरूप्यम् ८ पिच्चटम् ९ पूति-
गन्धम् १० । अस्य गुणाः । कटुत्वम् । तिक्त-
त्वम् । हिमत्वम् । कषायत्वम् । लवणरसत्वम् ।
मेहघ्नत्वम् । कृमिपाण्डुदाहशमनत्वम् । कान्ति-
करत्वम् । रसायनत्वञ्च । तद्विशेषो यथा, --
“श्वेतं मृदु लघु स्वच्छं स्निग्धमुष्णसहं हिमम् ।
सूत्रपत्रकरं कान्तं त्रपुश्रेष्ठमुदाहृतम् ॥
क्षुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते ।
उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम् ॥”
इति राजनिर्घण्टः ॥
पृष्ठ ४/०८२
तस्याशुद्धस्य दोषमाह ।
“वङ्गो विधत्ते खलु शुद्धिहीन-
स्तथा ह्यपक्वश्च किलासगुल्मौ ।
कुष्ठानि शूलं किल वातशोथं
पाण्डुं प्रमेहञ्च भगन्दरञ्च ॥
विषोपमं रक्तविकारवृन्दं
क्षयञ्च कृच्छ्राणि कफज्वरञ्च ।
मेहाश्मरीविद्रुधिमुख्यरोगान्
नागोऽपि कुर्य्यात् कथितान् विकारान् ॥”
तस्य शोधनमभिधीयते ।
“वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत् ।
त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेऽपि च
त्रिधा ॥
तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु प्रत्येकं त्रिधा
त्रिधा । ततोऽर्कदुग्धे त्रिधा ॥ * ॥
अथ वङ्गस्य मारणविधिः ।
“मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः ।
क्षिप्त्वा वङ्गचतुर्थांशमयोदर्व्व्या प्रचालयेत् ॥”
चिञ्चा अमिली । रजञ्चूर्णम् । अग्रोदर्व्वी कर-
छुली ।
“ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते ।
अथ भस्मसमं तालं क्षिप्त्वाम्लेन विवर्द्धयेत् ॥
ततो गजपुटे पक्त्वा पुनरम्लेन मर्द्दयेत् ।
तालेन दशमांशेन याममेकं ततः पुटेत् ।
एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥”
एवं मारितस्य वङ्गस्य गुणाः ।
“वङ्गं लघु सरं रूक्षं कुष्ठमेहकफकृमीन् ।
निहन्ति पाण्डुं सश्वासं नेत्र्यमीषत्तु पित्तलम् ॥
सिंहो गजौघन्तु यथा निहन्ति
तथैव रङ्गोऽखिलहेमवर्गम् ।
देहस्य सौख्यं प्रबलेन्द्रियत्वं
नरस्य पुष्टिं विदधाति नूनम् ॥”
इति भावप्रकाशः ॥
(यथाच ।
“वङ्गं तिक्ताम्लकं रूक्षं किञ्चिद्वातप्रकोपणम् ।
मेदः श्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे
जारणमारणाधिकारे ॥)

रङ्गः, पुं, (रन्ज् + घञ् ।) रागः । (यथा, महा-

भारते । ५ । ३६ । १० ।
“वासो यथा रङ्गवशं प्रयाति
तथा स तेषां वशमभ्युपैति ॥”)
नृत्यम् । (यथा विष्णुपुराणे । २ । ६ । २० ।
“रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा ।
सूचीमाहिषिकश्चैव पर्व्वकारी च यो द्बिजः ॥”
रजति आसज्जति मल्लोऽत्र । रन्ज् + अधि-
करणे घञ् ।) रणभूमिः । इति मेदिनी । गे,
२१ ॥ (यथा, श्रीमद्भागवते । १० । ४३ । १७ ।
“वृष्णीनां परदेवतेति विदितो रङ्गं गतः
साग्रजः ॥”)
नाट्यस्थानम् । इति हेमचन्द्रः ॥ (यथा,
मृच्छकटिकप्रकरणे । १ ।
“इयं रङ्गप्रवेशेन कलानाञ्चोपशिक्षया ।
वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥”
लक्षणया नाट्यस्थानस्थितो जनः । यथा, अभि-
ज्ञानशकुन्तले १ प्रस्तावनायाम् ।
“सूत्रधारः । आर्य्ये ! साधु गीतम् । अहो
रागापहृतचित्तवृत्तिरालिखित इव विभाति
सर्व्वतो रङ्गः । तदिदानीं कतमं प्रयोगमाश्रित्यै-
नमाराधयामः ॥” राजमार्गः । यथा, देवी-
भागवते । ७ । २२ । ३ ।
“अवतार्य्य तदा रङ्गे तां भार्य्यां नृपसत्तमः ॥”)
टङ्कणः । खादिरसारः । इति राजनिर्घण्टः ॥

रङ्गकाष्ठं, क्ली, (रङ्गं रञ्जितं काष्ठमस्य ।) पत्त-

ङ्गम् । इति राजनिर्घण्टः ॥

रङ्गजं, क्ली, (रङ्गात् जायते इति । जन् + डः ।)

सिन्दूरम् । इति रत्नमाला ॥

रङ्गजीवकः, पुं, (रङ्गेण रञ्जनकार्य्येण जीवतीति ।

जीव् + ण्वुल् ।) चित्रकारः । इति शब्द-
रत्नावली ॥ नाट्यकारश्च ॥

रङ्गदः, पुं, (रङ्गं द्यति छिनत्तीति । दो + कः ।)

टङ्कणः । खादिरसारः । इति राजनिर्घण्टः ॥

रङ्गदा, स्त्री, (रङ्गद + टाप् ।) स्फटी । इति

राजनिर्घण्टः ॥ (तथास्याः पर्य्यायः ।
“स्फटी च स्फटिका प्रोक्ता श्वेता शुभ्रा च रङ्गदा ।
रङ्गदृढा रङ्गदा च दृढा रङ्गापि कथ्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रङ्गदायकं, क्ली, (रङ्गस्य दायकम् ।) कङ्कुष्टम् ।

इति राजनिर्घण्टः ॥

रङ्गदृढा, स्त्री, (रङ्गवत् दृढा ।) स्फटी । इति

राजनिर्घण्टः ॥

रङ्गपत्री, स्त्री, (रङ्गं रङ्गार्थं पत्रमस्याः । ङीष् ।)

नीलीवृक्षः । इति राजनिर्घण्टः ॥

रङ्गपुष्पी, स्त्री, (रङ्गं रञ्जितं पुष्पमस्याः ।)

नीलीवृक्षः । इति राजनिर्घण्टः ॥

रङ्गबीजं, क्ली, (रङ्गं बीजं उत्पत्तिकारणमस्य ।)

रूप्यम् । इति शब्दरत्नावली ॥

रङ्गभूतिः, स्त्री, (रङ्गस्य रागस्य गौरिम्णः भूतिः

शोभात्र ।) कोजागरपूर्णिमा । इति शब्द-
रत्नावली ॥

रङ्गभूमिः, स्त्री, (रङ्गस्य भूमिः ।) मल्लभूमिः । इति

शब्दरत्नावली ॥ (यथा, महाभारते । १ । १३५ । ९ ।
“अवघुष्टे समाजे च तदर्थं वदतां वरः ।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥”
रङ्गभूमिविवरणं यथा, अश्ववैद्यके । ७ । ११-१२ ।
“सान्द्रां सुकठिनाञ्चैव पाषाणोदकसंयुताम् ।
तृणकाष्ठसमायुक्तां रङ्गभूमिन्तु वर्ज्जयेत् ॥
समाञ्च विपुलाञ्चैव किञ्चित् पांशुसमन्विताम् ।
एकान्ते विजने रम्ये रङ्गभूमिन्तु कारयेत् ॥”)
नाट्यभूमिश्च ॥

रङ्गमल्ली, स्त्री, (रङ्गाय रागाय मल्ली ।) वीणा ।

इति शब्दरत्नावली ॥

रङ्गमाणिक्यं, क्ली, (रङ्गं रञ्जितं माणिक्यम् ।)

माणिक्यरत्नम् । इति राजनिर्घण्टः ॥

रङ्गमाता, [ऋ] स्त्री, (रङ्गस्य माता जनिका ।)

कुट्टनी । लाक्षा । इति मेदिनी । ते, २१५ ॥

रङ्गमातृका, स्त्री, (रङ्गमातृ + स्वार्थे कन् । टाप् ।)

लाक्षा । इति त्रिकाण्डशेषः ॥

रङ्गलासिनी, स्त्री, (रङ्गेण रागेण लसितुं शील-

मस्याः इति । लस + णिनिः ।) शेफालिका ।
इति शब्दचन्द्रिका ॥

रङ्गशाला, स्त्री, (रङ्गस्य शाला ।) नाट्यगृहम् ।

इति शब्दरत्नावली ॥ नाचघर इति भाषा ॥

रङ्गाङ्गा, स्त्री, (रङ्गं रङ्गार्हमङ्गमस्याः ।) स्फटी ।

इति राजनिर्घण्टः ॥

रङ्गाजीवः, पुं, (रङ्गो हरितालादिस्तेनाजीव-

तीति । जीव् + अण् । यद्वा, रङ्ग आजी-
वोऽस्य ।) चित्रकरः । इत्यमरः । २ । १० । ७ ॥
नटः । इति हेमचन्द्रः । ३ । ५८५ ॥

रङ्गावतारकः, पुं, (रङ्गे सङ्गीतभवने अवतर-

तीति । तॄ + ण्वुल् । यद्बा रङ्गं नृत्यादिकमव-
तारयतीति । तॄ + णिच् + ण्वुल् ।) रङ्गाव-
तारी । तत्पपर्य्यायः । शैलूषः २ भरतः ३ सर्व्व-
वेशी ४ भरतपुत्त्रकः ५ धात्रीपुत्त्रः ६ रङ्ग-
जीवः ७ जायाजीवः ८ नटः ९ कृशाश्वी १०
शैलाली ११ । इति हेमचन्द्रः ॥ नृत्यगीतस्थाने
गीतवाद्यादिना तदनुगुणतया प्रसङ्गी । इति
प्रायश्चित्तविवेकः ॥ नटगायनव्यतिरिक्तरङ्गाव-
तरणजीवी । इति कुल्लूकभट्टः ॥ तस्यान्नभक्षण-
प्रायश्चित्तं यथा, --
“मत्तक्रुद्धातुराणाञ्च न भुञ्जीत कदाचन ।
केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः ॥”
इत्युपक्रम्य, --
“कर्म्मारस्य निषादस्य रङ्गावतारकस्य च ।
सुवर्णकर्त्तुर्व्वेणस्य शस्त्रविक्रयिणस्तथा ॥”
इत्याद्युक्त्वा, --
“य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्त्तिताः ।
तेषान्त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥
भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ॥”
इति मानवे ४ अध्यायः ॥

रङ्गावतारी, [न्] पुं, (रङ्गमवतरतीति । तॄ +

णिनिः ।) नटः । इति जटाधरः ॥ (यथा,
याज्ञवल्क्यसंहितायाम् । २ । ७२ ।
“स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिसप्तकः ।
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ॥”)

रङ्गारिः, पुं, (रङ्गस्य तदाख्यधातोररिरिव ।)

करवीरः । इति रत्नमाला ॥

रङ्गिणी, स्त्री, (रङ्गोऽस्त्यस्या इति । रङ्ग +

इनिः । स्त्रियां ङीष् ।) शतमूली । इति
जटाधरः ॥ कैवर्त्तिका । इति राजनिर्घण्टः ॥
रङ्गविशिष्टे, त्रि ॥

रङ्घः, [स्] क्ली, (रंघ्यते प्राप्यते इति । रघि

+ “अघिरघिभ्यामसुन् ।” इति असुन् । इत्यु-
ज्ज्वलदत्तः । ४ । २१३ ।) रंहः । वेगः । इति
भरतद्बिरूपकोषः ॥ (यथा, सूर्य्यशतके । ७१ ।
पृष्ठ ४/०८३
“रंघः संघो सुराणां जगदुपकृतये नित्यमुक्तस्य
यस्य ॥”)

रच, त् क कृत्याम् । इति कविकल्पद्रुमः ॥

(अदन्त चुरा०-पर०-सक०-सेट् ।) रचयति ।
इति दुर्गादासः ॥

रचनं, क्ली, (रचि + भावे ल्युट् ।) निर्म्माणम् ।

ग्रन्थनम् । यथा, जयदेवः । १ । ४ ।
“वाचः पजवय त्युमापतिधरः सन्दर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य्यगोवर्द्धनः
स्पर्द्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविः
क्ष्मापतिः ॥”

रचना, स्त्री, (रच्यते इति । रच + णिच् + “ण्यास-

श्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।)
कुसुमप्रकारादेः पत्रावल्यादेश्च रचनम् । तत्-
र्य्यायः । परिस्पन्दः २ । इत्यमरः । २ । ६ ।
१३७ ॥ परिस्यन्दः ३ । इति भरतः ॥ (यथा,
साहित्यदर्पणे । ३ । १४९ ।
“भूषाणामर्द्धरचना वृथा विश्वगवेक्षणम् ।
रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥”)
यथाक्रमेण स्थापनम् । तत्पर्य्यायः । निवेशः २
स्थितिः ३ । इति हेमचन्द्रः । ३ । ४११ ॥
(यथा, महाभारते । ८ । ४६ । १० ।
“शृणु व्यूहस्य रचनामर्ज्जुनश्च यथागतः ॥”)
निर्म्मितिः । कृतिः । यथा, --
“असाधारणचमत्कारकारिणी रचना हि
निर्म्मितिः ॥” इत्यलङ्कारकौस्तुभे १ किरणः ॥
तत्पर्य्यायः । सन्दर्भः २ गुम्फः ३ स्रन्थनम् ४ ।
ग्रन्थनम् ५ । इति हेमचन्द्रः । ३ । ३१७ ॥
(उद्यमः । यथा, श्रीमद्भागवते । ३ । ९ । १० ।
“दैवाहतार्थरचना ऋषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥”
“दैवेनाहताः सर्व्वतः प्रतिहताः अर्थानां
रचनाः अर्थार्थोद्यमाः येषाम् ।” इति तट्टी-
कायां श्रीधरस्वामी ॥ रचयतीति । रचि + ल्युः ।
टाप् । विश्वकर्म्मणो भार्य्या । यथा, श्रीमद्भाग-
वते । ६ । ६ । ४४ ।
“त्वष्टुर्दैत्यात्मजा भार्य्या रचना नाम कन्यका ।
सन्निवेशस्तयोर्ज्जज्ञे विश्वरूपश्च वीर्य्यवान् ॥”)

रचितः, त्रि, कृतः । रचधातोः कर्म्मणि क्तप्रत्य-

येन निष्पन्नः । यथा, --
“शिरः पद्मश्रेणीरचितचरणाम्भोरुहवलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्ज्जितमिदम् ॥”
इति पुष्पदन्तकृतस्तुतिः ॥

रजं, क्ली, (रञ्जयतीति । रञ्ज + अच् । निपा-

तनात् सिद्धम् ।) स्त्रीकुसुमम् । इति शब्द-
रत्नावली ॥

रजः, पुं, (रञ्जयतीति । रन्ज् + अच् । निपातना-

न्नलोपः ।) परागः । (यथा, गो० रामायणे ।
३ । ७९ । २९ ।
“पद्मपुष्परजोन्मिश्रो वृक्षान्तरविनिःसृतः ।
निश्वास इव सीताया वायुर्वाति मनोरमः ॥”)
रेणुः । (“अर्थाः पादरजोपमाः ॥” इति
उज्ज्वलदत्तः । ४ । २१६ ॥) गुणभेदः ।
आर्त्तवम् । इति जान्तवर्गे शब्दरत्नावली ॥
(स्कन्दस्य सेनाविशेषः । यथा, महाभारते ।
९ । ४५ । ७१ ।
“दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥”
विरजपुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ४० ।
“त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ॥”
वशिष्ठपुत्त्रः ऋषिभेदः । यथा, विष्णुपुराणे ।
१ । १० । १३ ।
“ऊर्ज्जायान्तु वशिष्ठस्य सप्ताजायन्त वै सुताः ।
रजो गात्रोर्द्ध्वबाहुश्च वसनश्चानघस्तथा ॥”)

रजः [स्] क्ली, (रज्यते रजतीति । रन्ज् + “भू-

रञ्जिभ्यां कित् ।” उणा० ४ । २१६ । इत्यसुन् ।)
स्त्रीणां मासि मासि योनिनिःसृतरक्तम् । तत्-
पर्य्यायः । पुष्पम् २ आर्त्तवम् ३ । इत्यमरः ।
२ । ६ । २१ ॥ ऋतुः ४ कुसुमम् ५ रजम् ६ ।
इति शब्दरत्नावली ॥ (यथा, मनौ । ५ । १०८ ।
“रजसा स्त्री मनोदुष्टा सन्न्यासेन द्बिजोत्तमः ॥”
अस्य लक्षणं यथा, --
“रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ।
अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥
रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते ।
तद्बर्षाद्बादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥”
“नारीणां रजसि चोपचीयमाने शनैः शनैः
स्तनगर्भाशययोन्यभिवृद्धिर्भवति ।” इति सुश्रुते
सूत्रस्थाने १४ अध्यायः ॥
“मासि मासि रजःस्त्रीणां रसजं स्रवति त्र्यहम् ।
वत्सराद्द्वादशादूर्द्धं याति पञ्चाशतः क्षयम् ॥”
इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥)
प्रकृतेर्गुणविशेषः । तत्तु रागद्वेषात्मकं दुःख-
हेतुः । रजोऽदन्तः पुंलिङ्गोऽपि । यथा, --
“रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु ।”
इत्यमरदत्तः । इति भरतः ॥
महाभारतमते दुःखजनकगुणः । तस्य धर्म्मः
कामः क्रोधः लोभः मानः दर्पश्च । इति मोक्ष-
धर्म्मः ॥
“तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः
स्मृताः ॥”
अभिसंरम्भो द्बेषाभिनिवेशः । इत्याश्वमेधिक-
पर्व्व ॥ अपि च ।
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥”
इति श्रीभगवद्गीतायाम् । २ अध्यायः ॥
अपि च ।
“सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥”
“रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम् ॥”
“सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥”
“लोभः प्रवृत्तिरारम्भः कर्म्मणामसमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्ध भरतर्षभ ! ॥”
“कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मघ्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥”
इति श्रीभगवद्गीतायाम् । १४ अध्यायः ॥
“सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।
कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥
प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥
यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् ।
तदा त्रेता रजोवृद्धिरिति जानीहि शौनक ॥
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।
कर्म्मणाञ्चापि काम्यानां द्बापरं तद्रजस्तमः ॥
यदा सदानृतं तन्द्री निद्रा हिंसादिसाधनम् ।
शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥”
इति गारुडे २२७ अध्यायः ॥
परागः । इति मेदिनी । से, ३२ ॥ (यथा,
भागवते । ४ । २४ । २२ ।
“पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥”)
रेणुः । अस्य पर्य्यायः धूलिशब्दे द्रष्टव्यः ॥
(यथा, माघे । २ । ४६ ।
“पादाहतं यदुत्थाय मूर्द्धानमधिरोहति ।
स्वस्थादेवापमानेऽपि देहिनस्तद्बसं रजः ॥”)
निषिद्धानिषिद्धरजो यथा, --
“आयुष्कामो न सेवेत तथा सम्मार्ज्जनीरजः ।
तथाश्वरथधान्यानां गवाञ्चैव रजः शुभम् ॥
अशुभञ्च विजानीयात् खरोष्ट्राजाव्रिकेषु च ।
गवां रजो धान्यरजः पुत्त्रस्याङ्गभवं रजः ॥
एतद्रजो महाशस्तं महापातकनाशनम् ।
अजारजः खररजो यत्तु सम्मार्ज्जनीरजः ॥
एतद्रजो महापापं महाकिल्विषकारणम् ॥”
इति गारुडे ११४ अध्यायः ॥
(रात्रिः । इति निघण्टुः । १ । ७ ॥ उदकम् ।
यथा, ऋग्वेदे । १ । ५६ । ५ ।
“वियत्तिरोधरुणमच्युतं रजोतिष्ठिपो दिव
आतासु बर्हणा ।”
‘रज उदकम् ।’ इति तद्भाष्ये सायणः ॥
भुवनम् । यथा, तत्रैव । १० । ८२ । ४ ।
“असूर्त्ते सूर्त्ते रजसि निषत्ते ये भूतानि सम-
कृण्वन्निमानि ।”
“रजसि लोके ।” इति तद्भाष्ये सायणः ॥
ज्योतिः । यथा, तत्रैव । १० । ३२ । २ ।
“वीन्द्र यासि दिव्यानि रोचना विपार्थिवानि
रजसा पुरुष्टुत ।”
“रजसा आत्मीयेन ज्योतिषा । विद्युल्लक्षणेन
यद्वा रजःशब्दाच्छस आकारः पार्थिवान्
लोकान् ।” इति तद्भाष्ये सायणः ॥)
पृष्ठ ४/०८४

रजःशयः, पुं, (रजसि शेते । शी + “अधिकरणे

शेतेः ।” ३ । २ । १५ । इति अच् ।) कुक्कुरः ।
इति शब्दमाला ॥ (धूलिशायिनि, त्रि ।
रजतमयी । यथा, वाजसनेयसंहितायाम् ।
५ । ८ ।
“या तेऽग्ने रजःशया तनूर्वर्षिष्ठा ॥”
“रजःशयारजतमयीति ।” तद्भाष्ये महीधरः ॥)

रजःसारथिः, पुं, (रजसां सारथिरिव ।) वायुः ।

इति शब्दरत्नावली ॥

रजकः, पुं, (रजति निर्णेजनेन श्वेतिमानमापा-

दयति वस्त्रादीनामिति । रन्ज + “नृतिखनि-
रञ्जिभ्यः परिगणनं कर्त्तव्यम् ।” ३ । १ । १४५ ।
इति ष्वुन् ।) वर्णसङ्करजातिविशेषः । धोवा
इति भाषा ॥ (यथा, भागवते । १० । ४१ । ३२ ।
“रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः ।
दृष्ट्वायाचत वासांसि विधौतान्युत्तमानि च ॥”)
स च तीवरपत्न्यां धीवराज्जातः । इति ब्रह्म-
वैवर्त्तपुराणम् ॥ तत्पर्य्यायः । निर्णेजकः २ ।
इत्यमरः । २ । १० । १० ॥ शौचेयः ३ कर्म्म-
कीलकः ४ । इति शब्दरत्नावली ॥ धावकः ५ ।
इति हेमचन्द्रः । ३ । ५ । ७८ ॥ रजकस्य वस्त्र-
निर्णेजनप्रकारो यथा, --
“वासांसि फलकैः श्लक्ष्णैर्निर्णिज्याद्रजकः शनैः ।
अतोऽन्यथा हि कुर्व्वीत दण्ड्यः स्याद्रुक्ममा-
षकम् ॥”
इति मात्स्ये २०१ अध्यायः ॥
(रजकान्नभक्षणप्रायश्चित्तं यथाह आपस्तम्बः ।
“रजके चैव शैलूषे वेणुचर्म्मोपजीविनि ।
एतेषां यस्तु भूञ्जीत द्बिजश्चान्द्रायणञ्चरेत् ॥”
इति प्रायश्चित्तविवेकः ॥ विशेषस्तत्रैव द्रष्टव्यः ॥)
अंशुकः । इति विश्वः ॥

रजकी, स्त्री, रजकपत्नी । रन्जधातोः षकप्रत्य-

यान्तादीपि कृते सिद्धा । इति मुग्धबोधव्याकर-
णम् ॥ (यथा, आर्य्यासप्तशत्याम् । ४०२ ।
“परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्द्दयं
ताभिः ।
अर्थग्रहणेन विना जघन्य ! मुक्तोऽसि कुल-
टाभिः ॥)

रजतं, क्ली, (रजति प्रियं भवति रज्यत इति

वा । रन्ज + “पृषिरञ्जिभ्यां कित् ।” उणा० ।
३ । १११ । इति अतच् कित्कार्य्यञ्च ।) रूप्यम् ।
इत्यमरः । २ । ९ । ९६ ॥ हस्तिदन्तः । धवलः
शोणितम् । हारः । ह्रदः । शैलः । (स तु
शाकद्बीपस्थ एव । यथा, मात्स्ये १२१ । १४ ।
“रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् ।
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥”)
स्वर्णम् । इति हेमचन्द्रः । ४ । १०९ ॥ शुक्ल-
वर्णविशिष्ठे, त्रि । इत्यमरटीकायां भरतः ॥
पितृकार्य्ये रजतपात्रादीनां प्राशस्त्यादि यथा,
“सौरर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।
रजतस्य कथा वापि दर्शनं दानमेव वा ॥
राजतैर्भाजनैरेषामथवा रजतान्वितैः ।
वार्य्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते ॥
यथार्घ्यपिण्डभोज्यादौ पितणां राजतं मतम् ।
शिवनेत्रोद्भवं तस्माद्दत्तं तत् पितृवल्लभम् ।
अमङ्गलं तद्यज्ञेषु देवकार्य्येषु वर्ज्जितम् ॥”
इति मात्स्ये १७ अध्यायः ॥

रजतद्युतिः, पुं, (रजतस्येव द्युतिरस्य ।) हनूमान् ।

इति शब्दरत्नावली ॥

रजतप्रस्थः, पुं, (रजतस्तन्मयः तद्वत् शुभ्रो वा

प्रस्थः सानुरस्य ।) कैलासपर्व्वतः । इति
त्रिकाण्डशेषः ॥

रजताचलः, पुं, (रजतप्रधानोऽचल इव । शाक-

पार्थिवादिवत्समासः ।) रौप्यपर्व्वतः । तस्य
परिमाणं दानविधिश्च यथा, --
“राजतो नवमस्तद्बद्दशमः शर्क्कराचलः ।
वक्ष्ये विधानमेतेषां यथावदनुपूर्व्वशः ॥
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।
यत्प्रसादान्नरो याति सोमलोकं द्बिजोत्तम ॥
दशभिः पलसाहस्रैरुत्तमो रजताचलः ।
पञ्चभिर्म्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः ॥
अशक्तौ विंशतेरूर्द्धं कारयेत् शक्तितः सदा ।
विष्कम्भपर्व्वतांस्तद्बत् तुरीयांशेन कल्पयेत् ॥
पूर्ब्बवद्राजतान् कुर्य्यान्मन्दरादीन् विधानतः ॥”
पूर्व्ववत् रत्नाचलवत् ।
“कलधौतमयांस्तत्र लोकेशान् रचयेद्बुधः ॥
ब्रह्मविष्ण्वर्कवत् कार्य्यो नितम्बोऽत्र हिरण्मयः ।
राजतं स्याद्यदन्येषां समन्तादिह काञ्चनम् ॥
शेषञ्च पूर्ब्बवत् कुर्य्यात् होमजागरणादिकम् ।
प्रदद्यात्तु प्रभाते तु गुरवे रौप्यपर्व्वतम् ॥
विष्कम्भशैलान्नृत्विग्भ्यः पूज्य वस्त्रविभूषणैः ।
इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्व्विमत्सरः ॥
पितणां वल्लभं यस्मात् विष्णोर्व्वा शङ्करस्य च ।
रजतं पाहि तस्मान्नः शोकसंसारसागरात् ॥
इत्थं निवेद्य वो दद्यात् रजताचलमुत्तमम् ।
गवामयुतदानस्य फलं प्राप्नोति सानवः ॥
सोमलोके सगन्धर्व्वैः किन्नराप्सरसाङ्गणैः ।
पूज्यमानो वसेद्बिद्वान् यावदाहूतसंप्लवम् ॥”
इति मात्स्ये ७ अध्यायः ॥
(कैलासपर्व्वतः । यथा, महालिङ्गार्च्चनतन्त्रे ।
“रजताचलमध्ये तु कुबेरेश्वर ईरितः ॥”)

रजताद्रिः, पुं, (रजतमयस्तद्वत् शुभ्रो वा अद्रिः ।

शाकपार्थिववत् समासः ।) कैलासपर्व्वतः ।
इति हेमचन्द्रः । ४ । ९४ ॥

रजनं, क्ली, (रज्यत इति । रन्ज् + “रञ्जेः क्युन् ।”

उणा० २ । ७९ । इति क्युन् । “रजकरजन-
रजःसूपसंख्यानम् ।” ६ । ४ । २४ । इति
वार्त्तिकोक्तेर्नलोपश्च ।) रागः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (यथा, महाभारते ।
८ । ५२ । ९ ।
“यथा वा वाससी शुक्ले महारजनरञ्जिते ।
विभृयाद् युवती श्यामा तद्वदासीद्वसुन्धरा ॥”)
ऋषिविशेषे, पुं । यथा, तैत्तिरीयसंहितायाम् ।
२ । ३ । ८ । १ ।
“रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्व्वन्
यमयात् ॥”)

रजनिः, स्त्री, (रजन्ति लोका यत्र । रन्ज् +

बाहुलकादनिः । इत्युज्ज्वलदत्तः । २ । १०३ ।)
रात्रिः । इत्यमरटीका ॥ (यथा, कथा-
सरित्सागरे । १८ । १४५ ॥
“इत्येवं ख्याप्य समयं प्राप्तायां रजनौ च तान् ।
आमन्त्र्य विप्रान् प्रययौ श्मशानं स विदूषकः ॥”)

रजनी, स्त्री, (रजनि + कृदिकारादिति ङीष् ।)

रात्रिः । (यथा, महाभारते । ३ । ६९ । २८ ।
“सा व्युष्ट्वा रजनीन्तत्र पितुर्वेश्मनि भाविनी ।
विश्रान्ता मातरं राजन् ! इदं वचनमब्रवीत् ॥”)
हरिद्रा ॥ (अस्याः पर्य्यायो यथा, --
“हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा ।
मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥”
इति वैद्यकरत्नमालायाम् ॥
यथा, नषधे । २२ । ४९ ।
“अस्याः सुराधीशदिशः पुरासीत्
यदम्बरं पीतमिदं रजन्या ।
चन्द्रांशुचूर्णव्यतिचुम्बितेन
तेनाधुना नूनमलोहितायि ॥”)
जतुका । इत्यमरः । २ । ४ । १५३ ॥ (यथा,
बृहत्संहितायाम् । ४४ । ९ ।
“दन्त्यमृताञ्जनरजनीसुवर्णपूष्पाग्निमन्थाश्च ॥”)
नीलिनी । इति मेदिनी । ने, ११६ ॥ (शाल्मली-
द्वीपस्थनदीभेदः । यथा, भागवते । ५ । २० । १०
“अनुमती सिनीवाली सरस्वती कुहू रजनी
नन्दा राकेति ॥”)

रजनीकरः, पुं, (रजनीं करोतीति । कृ + टः ।)

चन्द्रः । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । ४ । २८ । ३४ ।
“हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरे-
क्षणा ।
अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥”)

रजनीगन्धा, स्त्री, (रजन्यां गन्धोऽस्याः । रात्रौ

विकाशात् तथात्वम् ।) स्वनामख्यातश्वेतवर्ण-
पुष्पविशेषः । इति लोकप्रसिद्धिः ॥

रजनीचरः, पुं, (रजन्यां चरतीति । चर +

“चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः ।
इति शब्दरत्नावली ॥ (यथा, रामायणे । ७ । ५ । ४ ।
“स तया सह संयुक्तो वराज रजनीचरः ॥”
तथा च ।
“ओजोऽशनानां रजनीचराणां
आहारहेतोर्न शरीरमिष्टम् ।
गर्भं हरेयुर्यदि तेन मातु-
र्लब्धावकाशं न हरेयुरोजः ॥”
इति चरके शारीरस्थाने द्वितीयेऽध्याये ॥)
चौरः ॥ यामिकभटः ॥ (रात्रिविहारके, त्रि ।
यथा, हरिवंशे । २०२ । १८ ।
“ब्राह्मणानाञ्च राजानं शाश्वतं रजनीचरम् ॥”

रजनीजलं, क्ली, (रजन्या जलम् ।) नीहारः ।

इति हारावली । ६७ ॥
पृष्ठ ४/०८५

रजनीपुष्पः, पुं, (रजन्या हरिद्रायाः पुष्पमिव

पुष्पमस्य ।) पूतिकरञ्जः । इति राजनिर्घण्टः ॥
(पूतिकरञ्जशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

रजनीमुखं, क्ली, (रजन्या मुखम् ।) प्रदोषः ।

इत्यमरः । १ । ४ । ६ ॥ (यथा, राजतरङ्गि-
ण्याम् । ४ । ४३३ ।
“ततः शशाङ्कधवले सञ्जाते रजनीमुखे ।
पाणिनालभ्य भूपालं शय्यावेश्म विवेश सा ॥”)

रजनीहासा, स्त्री, (रजन्यां हासो विकाशो

यस्याः ।) शेफालिकापुष्पम् । इति शब्दरत्नावली ॥

रजसानुः, पुं, (रज्यतेऽस्मिन्निति । रन्ज् +

“असानुः सहिमन्दिभ्यां वृधिरञ्जिभ्यां तु किदर्त्ते-
रर्शश्च ।” इत्युणादिकोषटीकाकृत्सूत्रोक्तिः
असानुप्रत्ययः ।) मेघः । चित्तम् । इत्यणादि-
कोषः । १ । १७४ ॥

रजस्वलः, पुं, (रजोऽत्रास्तीति । रजस् + “रजः-

कृष्यासुतिपरिषदो वलच् ।” ५ । २ । ११२ ।
इति वलच् ।) महिषः । इति मेदिनी । ले,
१६३ ॥ (अस्य पर्य्यायो यथा, --
“महिषो घोटकारिः स्यात् कासरश्च रजस्वलः ।
पीनस्कः कृष्णकायोऽथ लुलापो यमवाहनः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे ॥
त्रि, रजोयुक्तः । यथा, भागवते । ७ । १३ । १२ ।
“तं शयानं धरोपस्थे कावेर्य्यां सह्यसानुनि ।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥”
रजोगुणयुक्तः । स्पृहयालुः । यथा, मनुः ।
६ । ७७ ।
“जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥”)

रजस्वला, स्त्री, (रजोऽस्त्यस्याः । “रजःकृष्या-

सुतीति ।” ५ । २ । ११२ । इति वलच् । टाप् ।)
रजोयुक्ता । तत्पर्य्यायः । स्त्रीधर्म्मिणी २
अवी ३ आत्रेयी ४ मलिनी ५ पुष्पवती ६
ऋतुमती ७ उदक्या ८ । इत्यमरः । २ । ६ । २० ॥
दुरिः ९ पुष्पहासा १० । इति शब्दरत्ना-
वली ॥ पुष्पिता ११ अवीरा १२ विफली १३
निष्फली १४ । इति जटाधरः ॥ म्लाना १५
पांशुला १६ । इति राजनिर्घण्टः ॥ * ॥ अथ
रजस्वलास्पर्शप्रायश्चित्तम् । “काश्यपः ।
‘रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
रजस्वला तु संस्पृष्टा राजन्या ब्राह्मणी तु या ।
त्रिरात्रेण विशुद्धिः स्यात् व्याघ्रस्य वचनं यथा ॥
रजस्वला तु संस्पृष्टा वैश्यया ब्राह्मणी च या ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
रजस्वला तु संस्पृष्टा शूद्रया ब्राह्मणी यदि ।
बड्रात्रेण विशुध्येत्तु ब्राह्मणी कामचारतः ॥
अकामतश्चरेदर्द्धं ब्राह्मणी सर्व्वजातिषु ॥’
एतेन रजस्वलाया ब्राह्मण्याः सवर्णरजस्वला-
स्पर्शे एकरात्रोपवासः पञ्चगव्यपानं कामतः ।
अकामतस्तदर्द्धम् । नक्तव्रतम् । असवर्णरज-
स्वलास्पर्शे त्रिरात्रपञ्चरात्रषड् रात्रोपवासाः ।
अकामतस्तदर्द्धम् । एतत् चतुर्थाहानन्तरं
कर्त्तव्यम् ।
‘चाण्डालेन श्वपाकेन संस्पृष्टा चेद्रजस्वला ।
अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥
त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति ।
तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्तु कारयेत् ॥’
इति वचनान्तरदर्शनात् एतत् कामतः ॥
अत्र दिनभेदोऽपि नास्ति । अज्ञाने बृहस्पतिः ।
‘पतितान्त्यश्वपाकैश्च संस्पृष्टा स्त्री रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रं तु द्वितीये द्ब्यहमाचरेत् ।
अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमाचरेत् ॥’
चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्ब्बम् । व्याघ्रः ।
‘रजस्वला यदा स्पृष्टा श्वजम्बूकखरैः क्वचित् ।
निराहारा भवेत्तावत् यावत् स्नानेन शुध्यति ॥’
अत्रापि बृहस्पत्युक्तदिनभेदव्यवस्था । वृद्ध-
शातातपः ।
‘रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि ।
सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतः परम् ॥’
पञ्चगव्यपानं व्रतरूपम् । तेनोपवासः । ब्रह्म-
कूर्च्चमाह जावालः ।
‘अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः ।
पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥’
तदशक्तौ पुराणैकं दातव्यम् ।” इति प्रायश्चित्त-
तत्त्वम् ॥ * ॥ अन्यच्च ।
‘शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः ।
दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुध्यति ॥’
इति शुद्धितत्त्वम् ॥
तस्यां गमने पापं यथा, --
“प्रथमे दिवसे कान्तां यो हि गच्छेद्रजस्वलाम् ।
ब्रह्महत्याचतुर्थांशं लभते नात्र संशयः ॥
स पुमान्न हि कर्म्मार्हो दैवे पैत्रे च कर्म्मणि ।
अधमः स च सर्व्वेषां निन्दितश्चायशस्करः ॥
द्वितीयदिवसे नारीं यो व्रजेच्च रजस्वलाम् ।
कामतः परिपूर्णाञ्च ब्रह्महत्यां लभेद्ध्रुवम् ॥
आजीवनं नाधिकारी पितृविप्रसुरार्च्चने ॥
अमनुष्योऽयशस्यः स्यादित्याङ्गिरसभाषितम् ॥
तृतीयदिवसे जायां यो हि गच्छेद्रजस्वलाम् ।
स मूढो ब्रह्महत्याञ्च लभते नात्र संशयः ॥
पूर्ब्बवत् पतितः सोऽपि न चार्हः सर्व्वकर्म्मसु ।
असत्पुत्त्रा चतुर्थेऽह्नि न गच्छेत्तां विचक्षणः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजंन्मखण्डे ५९ अध्यायः ॥
अपि च ।
“अपूर्णे ऋतुकाले तु योऽभिगच्छेद्रजस्वलाम् ।
रेतपाः पितरस्तस्य एवमेतन्न संशयः ॥
एकस्तु पुरुषो याति द्बितीयां काममोहितः ।
तृतीयां वा चतुर्थीञ्च तदा स पुरुषाधमः ॥
ऋतुकाले तु सर्व्वासां पित्रर्थं भोग इष्यते ।
ऋतुकालाभिगामी यो ब्रह्मचार्य्येव सम्मतः ॥
न गच्छति च यः क्रोधात् मोहाद्वा पुरुषाधमः ।
ऋतौ ऋतौ भ्रूणहत्यां प्राप्नोति पुरुषश्चरन् ॥”
इति वाराहे गुह्यकर्म्मवर्णनं नामाध्यायः ॥
(अपि च ।
“रजस्वलास्त्रीगमनमेतन्नरककारणम् ।
रजस्वलावीरान्नञ्च पुंश्चल्यन्नञ्च भक्षणम् ।
अभक्ष्यान्नञ्च विप्रर्षे यदन्नं वृषलीपतेः ॥”
तथा च ।
“रजस्वलामकामाञ्च मलिनामप्रियान्तथा ।
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ॥
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ।
सगोत्रां गुरुपुत्त्रीञ्च तथा प्रव्रजितामपि ॥
सन्ध्यापर्व्वस्वगम्याञ्च नोपेयात् प्रमदां नरः ॥
रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ।
दृष्ट्यायुस्तेजसां हानि-रधर्म्मश्च ततो भवेत् ॥”
इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः ॥)

रजिः, पुं, चन्द्रवंशीयराजविशेषः । यथा । “पुरू-

रवसो ज्येष्ठपुत्त्रश्चायुर्नामा । स राहोर्दुहितर-
मुपयेमे । तस्यां पञ्च पुत्त्रानुत्पादयामास ।
नहुषक्षत्त्रवृद्धरम्भरजिसंज्ञाः । रजेः पञ्च
पुत्त्रशतान्यतुलवीर्य्यसाराण्यासन् ।” इति विष्णु-
पुराणे ४ अंशे । ८ । ९ । अध्यायौ ॥ (राज्यम् ।
कन्याविशेषे, स्त्री । यथा, ऋग्वेदे । ६ । २६ । ६ ।
“त्वं रजिं पिठीनसे दशस्यन् षष्ठिं सहस्रा
शच्या सचाहन् ।”
“रजिं एतदाख्यां कन्यां वा राज्यं वा ।” इति
तद्भाष्ये सायणः ॥ रज्जुः । यथा, ऋग्वेदे । १० ।
१०० । १२ । “रजिष्ठया रज्या पश्व आ
गोस्तुतूर्षति पर्य्यग्रं दुवस्युः ॥”
“रजिष्ठया ऋजुतमया रज्या रज्ज्वा ।” इति
तद्भाष्ये सायणः ॥)

रजोबलं, क्ली, (रज इव बलति संवृणोतीति ।

बल् + अच् ।) अन्धकारः । इति त्रिकाण्डशेषः ॥

रजोरसं, क्ली, अन्धकारः । इति शब्दरत्नावली ॥

रजोहरः, पुं, (रजो हरतीति । हृ + “हरते-

ऽनुद्यमनेऽच् ।” ३ । २ । ९ । इति अच् ।) रजकः ।
इति शब्दमाला ॥

रज्जुः, स्त्री, (सृज्यते रच्यते इति । सृज् + “सृजे-

रसुश्च ।” उणा० १ । १६ । इति उः ।
असुगागमश्च । धातुसकारलोपश्च । आगम-
सकारस्य जश्त्वम् । दकारः । तस्यापि चुत्वम् ।
जकारः । इत्युज्ज्वलः । अप्राणिजातेश्चार-
ज्ज्वादीनामिति कथनात् न ऊङ् ।) बन्धन-
साधनवस्तु । दडी इति भाषा ॥ तत्-
पर्य्यायः । शुंल्लम् २ वराटकः ३ वटी ४ गुणः ५
इत्यमरः । २ । १० । २७ ॥ शुल्ला ६ । इति
भरतधृतरत्नकोषः ॥ शुल्वम् ७ शुल्वः ८ शुल्वा ९
शुल्वी १० सुष्मम् ११ वराटः १२ वटाकरः १३
वटीगुणः १४ । इति टीकान्तरम् ॥ (तस्या
अपहरणे दोषो यथा, मनौ । ११ । १६९ ।
“कार्पासकीटजीर्णानां द्बिशफैकशफस्य च ।
पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ॥”)
वेणी । इति मेदिनी । जे, १४ ॥ (प्रत्यङ्ग-
विशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये ।
“रज्जवः सेवन्यः सङ्घाताः ॥”)
पृष्ठ ४/०८६

रञ्जकं, क्ली, (रञ्जयतीति । रन्ज् + णिच् +

ण्वुल् ।) हिङ्गुलम् । इति राजनिर्घण्टः ॥
(गुणादयोऽस्य हिङ्गुलशब्दे विज्ञेयाः ॥)

रञ्जकः, पुं, (रञ्जयतीति । रन्ज् + णिच् +

ण्वुल् ।) कम्विल्लकः । इति राजनिर्घण्टः ॥
प्रीतिजनकः । वस्त्रादिरागकर्त्ता च ॥ (अस्य
गृहे भोजनं निषिद्धं यथा, मनौ । ४ । २१६ ।
“श्ववतां शौण्डिकानाञ्च चेलनिर्णेजकस्य च ।
रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥”
नाद्यादिति शेषः ॥ पित्तान्तर्गतोऽग्निविशेषः ।
यथा, --
“यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति
संज्ञा सरसस्य रागकृदुक्तः ।” इति सुश्रुते
सूत्रस्थाने २१ अध्यायः ॥)

रञ्जनं, क्ली, (रज्यतेऽनेनेति । रन्ज् + करणे

ल्युट् ।) रक्तचन्दनम् । इति मेदिनी । ने, ११५ ॥
(अस्य पर्य्यायो यथा, --
“पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा ।
पट्टरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
हिङ्गुलम् । इति राजनिर्घण्टः ॥ (रन्ज् +
णिच् । भावे ल्युट् । प्रीतिजननम् । यथा,
रघौ । ४ । १२ ।
“तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”)

रञ्जनः, पुं, (रञ्जयतीति । रन्ज् + णिच् + ल्युः ।)

रागजनकः । इति मेदिनी । ने, ११५ ॥ मुञ्ज
तृणम् । इति राजनिर्घण्टः ॥

रञ्जनकः, पुं, (रञ्जन + कन् ।) कट्फलः । इति

राजनिर्घण्टः ॥ (गुणादिविशेषोऽस्य कट्फल-
शब्दे विज्ञेयः ॥)

रञ्जनदुः, पुं, (रञ्जयतीति । रन्ज् + णिच् + ल्युः ।

रञ्जनश्चासौ द्रुश्चेति ।) अच्छुकवृक्षः । आच्-
गाछ इति भाषा ॥

रञ्जनी, स्त्री, (रञ्जन + ङीष् ।) शुण्डारोचनिका ।

नीली । (अस्याः पर्य्यायो यथा, --
“नीली तु नीलिनी तूली कालदोला च नीलिका ।
रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥
क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मञ्जिष्ठा । इति मेदिनी । ने, ११५ ॥ शेफा-
लिका । इति शब्दचन्द्रिका ॥ हरिद्रा ।
(अस्याः पर्य्यायो यथा, --
“हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा ।
मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
पर्प्पटी । इति राजनिर्घण्टः ॥

रट, वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रटति । इति दुर्गादासः ॥

रटन्ती, स्त्री, (रट्यते पुण्यजनकत्वेन कथ्यते इति ।

रट् + बहुलकात् झच् । ङीप् ।) गौणचान्द्र-
माघीयकृष्णचतुर्द्दशी । तत्र अरुणोदयकाले
स्नानं कर्त्तव्यम् । यथा । यमः ।
“माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी ।
तस्यामुदयवेलायां स्नाता नावेक्षते यमम् ॥”
उदयवेलायामरुणोदयवेलायाम् ।
“अनर्काभ्युदिते काले माघे कृष्णचतुर्द्दशी ।
सतारव्योमकाले तु तत्र स्नानं महाफलम् ।
स्नात्वा सन्तर्प्य तु यमान् सर्व्वपापैः प्रमुच्यते ॥”
अत्र तिथिकृत्यत्वात् गौणचान्द्रादरः । अत्रा-
रुणोदयकाल एव स्नानं पूर्ब्बोक्तचतुर्द्दशयम-
तर्पणञ्च । यत्तु उदयवेलायां सूर्य्योदयवेलायां
अनर्काभ्युदित इति ईषदर्थे नञिति व्याख्यानं
तत् समुद्रकरभाष्यधृतसतारव्योम इति इत्यु-
त्तरार्द्धानवलोकनेनेति । इति तिथ्यादितत्त्वम् ॥
किञ्च ।
“अनर्काभ्युदिते काले स्नानं कुर्य्यात् सरिज्जले ।
शतजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
रटन्ती नाम विख्याता सर्व्वपापहरा शिवा ॥”
इति मत्स्यसूक्ते ५५ पटलः ॥
क्वचित् पुस्तके सरिज्जले इत्यत्र वहिर्ज्जले इति
पाठः ॥ * ॥ तत्र श्यामापूजाविधिर्यथा, --
“माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी ।
तस्यां संपूजयेत्तारां महाविभवविस्तरैः ।
चक्रवर्त्ती महाराजो भवत्येव न संशयः ॥”
इति बृहन्नीलतन्त्रे ७ पटलः ॥
अपि च ।
“माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी ।
तद्रात्रौ कालिकापूजा सर्व्वविघ्नोपशान्तये ॥”
इति कालिकापुराणम् ॥ * ॥
अपरञ्च ।
“माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी ।
तस्यां प्रदोषसमये पूजयेन्मुण्डमालिनीम् ॥”
इत्याचार्य्यचूडामणिकृतकृत्यतत्त्वार्णवधृतवच-
नम् ॥ अन्यत् श्यामाशब्दे द्रष्टव्यम् ॥

रटितं, त्रि, कथितम् । रटधातोः कर्म्मणि क्तप्रत्य-

येन निष्पन्नम् । (भावे क्तः ।) कथनमात्रे,
क्ली ॥ (यथा, राजतरङ्गिण्याम् । २ । १७४ ।
“वनहरिरसितैः पदे पदे
स प्रतिभटतां पटहध्वनेर्द्दधानैः ।
अमनुत रटितैश्च कर्करेटोः
परिगलितां गमनोन्तुखस्त्रियामाम् ॥”)

रठ, भाषणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) भाषणं कथनम् । रठति । इति
दुर्गादासः ॥

रण, रुति । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) रणति । रुति शब्दे । इति
दुर्गादासः ॥

रण, म गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, रणयति । इति दुर्गा-
दासः ॥

रणं, क्ली पुं, (रणन्ति शब्दायन्तेऽत्रेति । रण् +

“ग्रहेति ।” ३ । ३ । ५८ । इत्यत्र । “वशिरण्यो-
रुपसंख्यानम् ।” इति काशिकोक्त्या अप् ।)
युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा,
मनौ । ७ । ९० ।
“न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥”
रमणम् । यथा, ऋग्वेदे । ८ । १७ । १२ ।
“शाचिगो शाचि पूजनायं रणाय ते सुतः ॥”
“रणाय रमणाय ।” इति तद्भाष्ये सायणः ॥
रमणीये, त्रि । यथा, तत्रैव । १ । ११६ । २१ ।
“एकस्यावन्त्यो रावतं रणाय वशमश्विनासनये
सहस्रा ।”
“रणाय रमणीयाय ।” इति तद्बाष्ये सायणः ॥)

रणः, पुं, (रण् + अप् ।) शब्दः । कणः ।

इति मेदिनी ॥ गतिः । इति शब्दरत्नावली ॥

रणतूर्य्यं, क्ली, (रणस्य तूर्य्यम् ।) युद्धवाद्यम् ।

तत्पर्य्यायः । संग्रामपटहः २ अभयडिण्डिमः ३ ।
इति त्रिकाण्डशेषः ॥

रणप्रियं, क्ली, (रणे प्रियम् ।) उशीरम् । इति

राजनिर्घण्टः ॥

रणप्रियः, पुं, (रणः प्रियोऽस्य । तत्र मांसभक्षणा-

त्तथात्वम् ।) श्येनकपक्षी । इति राजनिर्घण्टः ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ८६ ।
“स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ॥”
युद्धप्रियमात्रे, त्रि । यथा, कामन्दकीये । १७ । ३३ ।
“रणप्रियः साहसिक आत्मसम्भावितस्तथा ।
विच्छिन्नधर्म्मकामार्थः क्रुद्धो मानी विमा-
नितः ॥”)

रणमत्तः, पुं, (रणे रणं प्राप्य वा मत्तः ।)

हस्ती । इति शब्दमाला ॥

रणमुष्टिः, पुं, विषमुष्टिक्षुपः । इति राजनिर्घण्टः ॥

रणरङ्कः, पुं, (रणेषु रङ्को मन्दः ।) रणकातर-

हस्ती । तत्पर्य्यायः । प्रतिमः २ । इति हारा
वली । २०४ ॥

रणरणं, क्ली, उद्वाहनम् । इति त्रिकाण्डशेषः ॥

रणरणः, पुं, (रणरण इति शब्दोऽस्त्यस्येति ।

अर्श आदित्वादच् ।) मशकः । इति त्रिकाण्ड-
शेषः ॥ (रणे रणः शब्दो यस्य । रणगर्ज्जन-
शीले, त्रि । यथा, --
“अव्याद्वः करणो रणो रणरणो राणो रणो
रावणो
धृत्वा येन रमा रमा रमरमा रामा रमा
सा रमा ।
सश्रीमानदयो दयो दयदयो दायो दयो वेदयो
विष्णुर्ज्जिष्णुरभीरभीरभरभीराभीरभी-
सौरभिः ॥”
इत्युद्भटः ॥)

रणरणकः, पुं, उत्कण्ठा । इति हेमचन्द्रः । २ ।

२२९ ॥ (यथा, उत्तररामचरिते प्रथमाङ्के ।
“अये सैवेयं रणरणकदायिणी चित्रदर्शना-
द्विरहभावना देव्याः स्वप्नोद्बेगं करोति ॥”)

रणसङ्कुलं, क्ली, (रणस्य सङ्कुलम् ।) तुमुलम् ।

इत्यमरः । २ । ८ । १०६ ॥

रणालङ्करणः, पुं, (रणस्य अलङ्करणः ।) कङ्क-

पक्षी । इति राजनिर्घण्टः ॥
पृष्ठ ४/०८७

रण्डः, त्रि, (रम् + “ञमन्तात् डः ।” उणा०

१ । ११३ । इति डः ।) अर्द्धचर्म्मावच्छिन्नाव-
यवः । धूर्त्तः । इति संक्षिप्तसारोणदिवृत्तिः ॥

रण्डकः, पुं, (रण्ड इवेति । रण्ड + कन् ।) अफल-

वृक्षः । इति शब्दचन्द्रिका ॥

रण्डा, स्त्री, (रमन्तेऽत्रेति । रम् + “ञमन्तात्

डः ।” उणा० १ । ११३ । इति डः । टाप् ।)
मूषिकपर्णी । इत्यमरः । २ । ४ । ८८ ॥ (यथा,
“हिङ्गुलात् सम्भवं सूतं पालिधारसमर्द्दितम् ।
रण्डाशोधितगन्धञ्च तेनैव कज्जलीकृतम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे बृहत्सोमनाथरसे ॥)
विधवा । राँड् इति भाषा ॥ यथा । तिष्ठते
रण्डा विकर्म्मस्थेभ्यः स्वहृदयं व्यनक्तीत्यर्थः ।
इति संक्षिप्तसारे तिङन्तपादः ॥

रण्डाश्रमी [न्] पुं, (रण्डो विफल आश्रमः

सोऽस्त्यस्य । रण्डाश्रम + इनिः ।) अष्टचत्वा-
रिंशद्वत्सरोपरिभार्य्याविहीनः । यथा, भवि-
ष्यपूराणम् ।
“चत्वारिंशद्बत्सराणां साष्टानाञ्च परे यदि ।
स्त्रिया वियुज्यते कश्चित् स तु रण्डाश्रमी मतः ॥”
इत्युद्बाहतत्त्वम् ॥

रतं, क्ली, (रमणमिलि । रम् + भावे क्तः ।)

मैथुनम् । इत्यमरः । २ । ७ । ५७ ॥ (यथा,
आर्य्यासप्तशत्याम् । ५४९ ।
“विपरीतमपि रतं ते स्रोतो नद्या इवानुकूल-
मिदम् ।
तटतरुमिव मम हृदयं समूलमपि वेगतो
हरति ॥”
तत्तु द्बिविधम् । यथा, कामशास्त्रम् ।
“बाह्यमाभ्यन्तरञ्चेति द्बिविधं रतमुच्यते ।
तत्राद्यं चुम्बनाश्लेषनखदन्त क्षतादिकम् ॥
द्बितीयं सुरतं साक्षान्नानाकारेण कल्पितम् ॥”)
गुह्यम् । इति मेदिनी । ते, ४९ ॥ अनुरक्ते, त्रि ॥
(यथा, राजतरङ्गिण्याम् । ३ । ५०५ ।
“तत्तुल्यगुणनिर्व्विण्णा तद्बिपक्षस्तुतौ रता ॥”
नियुक्तः । यथा, मनुः । २ । २३५ ।
“यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।
तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः ॥”)

रतकीलः, पुं, (रते मैथुने कीलति परस्परं संबध्ना-

तीति । कील् + कः ।) कुक्कुरः । इति हेम-
चन्द्रः । ४ । ३४६ ॥ (रतस्य कीलः ।) सुरत-
कण्टकश्च ॥

रतकूजितं, क्ली, (रतस्य कूजितम् ।) मैथुन-

कालीनवाक् । तत्पर्य्यायः । मणितम् २ । इति
हेमचन्द्रः ॥

रतगुरुः, पुं, (रतस्य रते वा गुरुः ।) पतिः ।

इति त्रिकाण्डशेषः । ६ । ४४ ॥

रतज्वरः, पुं, (रतेन ज्वरोऽस्य ।) काकः ।

इति त्रिकाण्डशेषः ॥

रतताली, [न्] पुं, (रते तलति प्रतिष्ठां लभते

इति । तल + णिनिः ।) षिड्गः । इति शब्द-
माला ॥

रतताली, स्त्री, (रते तालः प्रतिष्ठास्याः । ङीष् ।)

कुट्टनी । इति त्रिकाण्डशेषः ॥

रतनारीचः, पुं, (रते नार्य्यां चिनोतीति ।

चि + डः ।) नारीणां शीत्कारः । कुक्कुरः ।
स्मरः । इति मेदिनी । चे, २१ ॥ षिड्गः ।
इति शब्दमाला ॥

रतनिधिः, पुं, (रतमेव निधिवत् गोप्यं यस्य ।)

खञ्जनः । इति शब्दरत्नावली ॥

रतर्द्धिकं, क्ली, (रतस्य ऋद्धिरत्र । शेषाद्विभाषेति

कप् ।) दिवसः । सुखस्नानम् । अष्टमङ्गलम् ।
इति मेदिनी । के, २१० ॥

रतव्रणः, पुं, (रतेन व्रणोऽस्य । रतं व्रण इव कष्ट-

दायकं यस्येति वा ।) कुक्कुरः । इति हेम-
चन्द्रः । ४ । ३४६ ॥

रतशायी, [न्] पुं (रतेन श्यति तनूकरोत्यात्मान-

मिति । शो + णिनिः ।) कुक्कुरः । इति हेम-
चन्द्रः । ४ । ३५६ ॥

रतहिण्डकः, पुं, (रते रतार्थं वा हिण्डते इति ।

हिण्ड् + ण्वुल् ।) स्त्रीचौरः । इति त्रिकाण्ड-
शेषः ॥ लम्पटः । लोच्चा इति भाषा । तत्-
पर्य्यायः । षिड्गः २ व्यलीकः ३ पल्लवः ४
द्रावकः ५ भुजङ्गः ६ चुम्बकः ७ लङ्गः ८
भृङ्गः ९ नारीतरङ्गकः १० स्वस्तिकः ११
रतनारीचः १२ बन्धकः १३ रतताली १४
कटारः १५ कामी १६ खेटी १७ नागरः १८
दासीप्रियः १९ कुण्डकीटः २० । इति शब्द-
माला ॥

रतान्दुकः, पुं, (रतार्थमन्दुक इव ।) कुक्कुरः ।

इति हेमचन्द्रः । ४ । ३४६ ॥

रतान्ध्री, स्त्री, (रते अन्ध्रीव ।) कुज्झटिः ।

इति त्रिकाण्डशेषः ॥

रतामर्द्दः, पुं, (रते रतकाले आमर्द्दोऽस्य ।)

कुक्कुरः । इति शब्दमाला ॥

रतायनी, स्त्री, (रतमेवायनं जीवनगतिर्यस्याः ।)

वेश्या । इति शब्दमाला ॥

रतार्थिनी, स्त्री, (रतमर्थयत इति । अर्थ + णिनिः ।

ङीप् ।) मैथुनाभिलाषिणी । इति हलायुधः ॥

रतिः, स्त्री, (रम्यतेऽनया इति । रम् + क्तिन् ।)

कामदेवपत्नी ॥ (अस्याः नामनिरुक्तिर्यथा,
ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ४ । ९ ।
“मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनीम् ।
तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥
तस्य पुंसो वामपार्श्वात् कामस्य कामिनी वरा ।
बभूवातीव ललिता सर्व्वेषां मोहकारिणी ॥
रतिर्बभूव सर्व्वेषां तां दृष्ट्वा सस्मितां सतीम् ।
रतीति तेन तन्नाम प्रवदन्ति मनीषिणः ॥”)
तस्य उत्पत्तिः नामकारणं कामपत्नीत्वञ्च यथा,
दक्ष उवाच ।
“मद्देहजेयं कन्दर्प मद्रूपगुणशालिनी ।
एनां गृह्णीष्व भार्य्यार्थे भवतः सदृशी गुणैः ॥
एषा तव महातेजाः सर्व्वदा सहचारिणी ।
भविष्यति यथाकामं धर्म्मतो वशवर्त्तिनी ॥
मार्कण्डेय उवाच ।
इत्युक्त्वा प्रददौ दक्षो देहस्वेदजलोद्भवाम् ।
कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति
ताम् ॥
तां वीक्ष्य मदनो रामां रत्याख्यां सुमनोहराम् ।
आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥”
इति कालिकापुराणे ३ अध्यायः ॥
अनुरागः । (यथा, भागवते । १ । २ । ८ ।
“नोत्पादयेद् यदि रतिं श्रम एव हि केव-
लम् ॥”)
रतम् । (यथा, बृहत्संहितायाम् । ७४ । १८ ।
“कामिनीं प्रथमयौवनान्वितां
मन्दवल्गुमृदुपीडितस्वनाम् ।
उत्स्तनीं समवलम्ब्य या रतिः
सा न धातृभवनेऽस्ति मे मतिः ॥”)
गुह्यम् । इति मेदिनी । ते । ४९ ॥ (अप्सरो-
विशेषः । यथा, महाभारते । १३ । १९ । ४५ ।
“विद्युता प्रशमी दान्ता विद्योता रतिरेव च ।
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ॥”
प्रीतिः । यथा, रामायणे । १ । १८ । २४ ।
“तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥”
‘रतिः प्रीतिः ।’ इति तट्टीकायां रामानुजः ॥)
रतिबन्धा यथा, --
“न भवन्ति यदा नार्य्यस्तुष्टा वाद्यरते मताः ।
नानाविधैस्तथाबन्धै रन्तव्याः कामिभिः स्त्रियः ॥
पद्मासनो नागपाशो लतावेष्टोऽर्द्धसंपुटम् ।
कुलिशं सुन्दरश्चैव तथा केशर एव च ॥
हिल्लोलो नरसिं होऽपि विपरीतस्तथापरः ।
क्षुब्धो वै धेनुकश्चैवमुत्कण्ठस्तु ततः परम् ।
सिंहासनो रतिनागो विद्याधरस्तु षोडशः ॥”
इति रतिमञ्जरी ॥
एतेषां लक्षणानि तत्तच्छब्दे द्रष्टव्यानि ॥

रतिकुहरं, क्ली, (रत्याः कुहरम् ।) योनिः ।

इति त्रिकाण्डशेषः ॥

रतिक्रिया, स्त्री, (रत्याः क्रिया ।) मैथुनम् ।

तत्पर्य्यायः । संवेशनम् २ । इति त्रिकाण्डशेषः ॥
(यथा, कामन्दकीये नीतिसारे । २ । २५ ।
“अग्निहोत्रोपचरणं जीवनञ्च स्वकर्म्मभिः ।
धर्म्मोऽयं गृहिणां काले पर्व्ववर्ज्जं रतिक्रिया ॥”)

रतिगृहं, क्ली, (रत्याः गृहम् ।) योनिः । इति

त्रिकाण्डशेषः ॥ रमणमन्दिरञ्च ॥ (यथा, बृहत्-
संहितायाम् । ५३ । १६ ।
“पश्वाश्रमिणाममित धान्यायुधवह्निरतिगृहा-
णाञ्च ।
नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितंपरतः ॥”)

रतिनागः, पुं, षोडशरतिबन्धान्तर्गतपञ्चदशबन्धः ।

तस्य लक्षणं यथा, --
“पीडयेदूरुयुग्मेन कामुकं कामिनी यदि ।
रतिनागः समाख्यातः कामिनीनां मनोरमः ॥
इति रतिमञ्जरी ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/र&oldid=44048" इत्यस्माद् प्रतिप्राप्तम्