शब्दकल्पद्रुमः/युज

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/०४६

युज, इर् ध ञ औ युतौ । इति कविकल्पद्रुमः ॥

(रुधा०-उभ०-सक०-अनिट् ।) इर्, अयुजत्
अयौक्षीत् । ध, युनक्ति युङ्क्ते घृतेनान्नं लोकः ।
औ, योक्ता । इति दुर्गादासः ॥

युज, कि संयमे । युतौ । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) अन्तः-
स्थाद्यादिः । कि, योजयति योजति । संयमो
बन्धनम् । इति दुर्गादासः ॥

युज, ङ क निन्दे । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) ङ क, योजयते । इति
दुर्गादासः ॥

युज, य औ ङ समाधौ । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-अनिट् ।) समाधि-
र्योग्यभावः । य ङ, स्वयमर्थे नियुज्यते । इति
हलायुधः । औ, योक्ता । इति दुर्गादासः ॥

युजानः, पुं, सारथिः । इति संक्षिप्तसारोणादि-

वृत्तिः ॥

युजौ, [ज्] पुं, (युज् + क्विप् ।) अश्विनीकुमारौ ।

इति त्रिकाण्डशेषः ॥ नित्यद्बिवचनान्तोऽयम् ॥

युञ्जानः, पुं, (युज् + शानच् ।) सारथिः । विप्रः ।

इति मेदिनी । ने, ११३ ॥ भावनासहकारेण
सर्व्वज्ञः । यथा, --
“योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ।
युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥”
इति भाषापरिच्छेदे । ६५ ॥
“युक्तस्यति । योगाभ्यासावगत्या वशीकृतसमाधि-
समासादितो विविधसिद्धयुक्त इत्युच्यते अयमेव
विशिष्टयोगवत्त्वात् युक्त इत्युच्यते । सर्व्वदेति
चिन्तासहकारं विनेत्यर्थः । भानं सर्व्वविषयाणां
प्रत्यक्षम् । अपरो युञ्जानः । विषयव्यावृत्त्या
मानससमाधिस्थः । अयञ्च युञ्जान उच्यते ।
चिन्ता ध्यानं तदेव कारणं तत्सहकारात्
स्थूलसूक्ष्मव्यवहितविप्रकृष्टान् अर्थान् मनः
प्रत्यक्षीकरोतीत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥

युत्, क्ली, निन्दा । यु ङ क निन्दे इत्यस्माद्भावे

क्विप्प्रत्ययेन निष्पन्नम् ॥

युत्, [ध्] स्त्री, (योधनमिति । युध् + क्विप् ।)

युद्धम् । इत्यमरः । ३ । ८ । १०६ ॥ (त्रि, युद्धकर्त्ता ।
यथा, भागवते । ६ । १२ । २३ ।
“इति ब्रुवाणावन्योन्यं धर्म्मजिज्ञासया नृप ! ।
युयुधाते महावीर्य्याविन्द्रवृत्रौ युधां पती ॥”)

युत, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऋ, अयुयोतत् । ङ,
योतते । इति दुर्गादासः ॥

युतं, क्ली, (यु + क्तः ।) हस्तचतुष्टयम् । इति

मेदिनी । ते, ४७ ॥

युतः, त्रि, (यु + क्तः ।) युक्तः । अपृथग्-

भूतः । इति मेदिनी । ते, ४७ ॥ (यथा,
भट्टिकाव्ये । १ । ७ ।
“स्त्रीभिर्युतान्यप्सरसामिवौघै-
र्मरोः शिरांसीव गृहाणि यस्याम् ॥”)

युतकं, क्ली, संशयः । युगम् । नारीवस्त्राञ्चलम् ।

युक्तम् । चलनाग्रम् । यौतुकम् । इति विश्व-
मेदिन्यौ । के, १४३ ॥ मैत्रीकरणम् । इति
शन्दरत्नावली ॥ स्त्रीवस्त्रभेदः । इति हेमचन्द्रः ॥
संश्रयः । शूर्पाग्रम् । इति नानार्थरत्नमाला ॥

युद्, [ध्] स्त्री, (योधनमिति । युध् + क्विप् ।)

युद्धम् । इत्यमरः । २ । ८ । १०६ ॥ (यथा,
रामायणे । २ । ५१ । १० ।
“यो न देवासुरैः सर्व्वैः शक्यः प्रसहितुं युधि ।
तं पश्य सुखसंसुप्तं तृणेषु सह सीतया ॥”)

युद्धं, क्ली, (युध्यते इति । युध् + भावे क्तः ।) योध-

नम् । लडाइ इति भाषा । तत्पर्य्यायः । आयो-
धनम् २ जन्यम् ३ प्रधनम् ४ प्रविदारणम् ५ मृधम् ६
आस्कन्दनम् ७ संख्यम् ८ समीकम् ९ साम्प-
रायिकम् १० समरम् ११ अनीकम् १२
रणः १३ कलहः १४ विग्रहः १५ संप्रहारः १६
अभिसम्पातः १७ कलिः १८ संस्फोटः १९
संयुगः २० अभ्यामर्द्दः २१ समाघातः २२
संग्रामः २३ अभ्यागमः २४ आहवः २५ समु-
दायः २६ संयत् २७ समितिः २८ आजिः २९
समित् ३० युत् ३१ । इत्यमरः । २ । ८ । १०३-१०६ ॥
संरावः ३२ आनाहः ३३ सम्परायकः ३४
विदारः ३५ दारणम् ३६ संवित् ३७ सम्परायः
३८ । इति शब्दरत्नावली ॥ तीक्ष्णम् ३९
अम्बरीषम् ४० बलजम् ४१ आनर्त्तः ४२ अभि-
मरः ४३ समुदयः ४४ । इति जटाधरः ॥ * ॥
युद्धे वर्णनीयानि यथा । चर्म्म १ वर्म्म २ बलम् ३
चरः ४ धूलिः ५ तूर्य्यस्वनः ६ सिंहनादः ७
शवमण्डलम् ८ रक्तनदी ९ छिन्नच्छत्रम् १०
रथः ११ चामरः १२ हस्ती १३ अश्वः १४
केतुः १५ विदीर्णकुम्भकहस्तिकुम्भमुक्ता १६
व्यूहरचनावस्थितसेना १७ सुरपुष्पवृष्टिः १८ ।
इति कविकल्पलता ॥ * ॥ अथ युद्धफलम् ।
“अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
ब तत् फलमवाप्नोति संग्रामे यदवाप्नुयात् ॥
इति यज्ञविदः प्राहुर्यज्ञकर्म्मविशारदाः ।
तस्मात्तत्ते प्रवक्ष्यामि यत् फलं शस्त्रजीविनाम् ॥”
युद्धे मरणफलं यथा, --
“धर्म्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।
यः शूरो वध्यते युद्धे विमृदन् परवाहिनीम् ॥
यस्य धर्म्मार्थकामौ च यज्ञश्चैव सदक्षिणः ।
परं ह्यभिमुखे हत्वा तयोः पन्थाधिरोहति ॥
विष्णोः स्थानमवप्नोति एवं युध्यन् रणाजिरे ।
अश्वमेधानवाप्नोति चतुरस्तेन कर्म्मणा ॥
यस्तु शस्त्रं समुत्सृज्य वीर्य्यवान् वाहिनीमुखे ।
सम्मुखो वर्त्तते शूरः स स्वर्गान्न निवर्त्तते ॥
राजा वा राजपुत्त्रो वा सेनापतिरथापि वा ।
हतः क्षत्त्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥
यावन्ति तस्य गात्राणि भिन्दन्ति शस्त्रमाहवे ।
तावता लभते लोकान् सर्व्वकामदुहोऽक्षयान् ॥
बीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा ।
गवार्थे ब्राह्मणस्यार्थे गोस्वाम्यर्थे च ये हताः ।
ते गच्छन्त्यमरस्थानं ये स्युः सुकृतिनस्तथा ॥
अभग्नो यः परं सैन्यं भग्नञ्च परिरक्षति ।
पृष्ठस्थितः पालयति सोऽपि गच्छति तद्गतिम् ॥
अनुत्तीर्णस्तथा सद्यः प्राणान् यस्त्यजते युधि ।
हतश्च स्वपते युद्धे स स्वर्गान्न निवर्त्तते ॥
दंष्ट्रिभिः शृङ्गिभिर्व्वापि तथा म्नेच्छैश्च तस्करैः ।
स्वाम्यर्थे ये हता राजंस्तेषां स्वर्गो न संशयः ॥
शस्त्राग्निना सुनिर्द्दग्धः स्वगृहे च च्युतो यदि ।
संग्रामान्म्रियते राजंस्तस्य स्वर्गो न संशयः ॥
भयेन लज्जया वापि स्नेहेन च रणाजिरे ।
सम्मुखो म्रियते राजंस्तदा स्वर्गो न संशयः ॥
यन्नु भिन्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः ।
देवकन्यास्तु तं वीरं रामयन्ति रमन्ति च ॥
वराप्सरःसहस्राणि शूरमायोधने हतम् ।
त्वरितान्यभिधावन्ति मम भर्त्ता भवेति च ॥
यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयान् लभते लोकान् यदि क्लीवं न भाषते ॥
जितेन लभ्यते लक्ष्मीर्मृतेनापि सुराङ्गनाः ।
क्षणविघ्वंसिनि काये का चिन्ता मरणे रणे ॥
हतस्याभिमुखस्थस्य ये लोका न निवर्त्तिनः ।
हते गोस्वामिविप्रार्थे नरमेधफलं हि तत् ॥
स्थानाभिघाते शरणागते च
राज्ञो विपत्तौ द्विजसार्थघाते ।
स्त्रीबालवृद्धाजनगोग्रहे च
शस्त्रं मुनीनामपि धारणीयम् ॥
यां यज्ञसंघैस्तपसा च विप्राः
स्वर्गैषिणो यत्र न वै प्रयान्ति ।
क्षणेन तामेव गतिं प्रयान्ति
महाहवे स्वां तनुं संत्यजन्तः ॥
सर्व्वांश्च वेदान् सुमहद्भिरङ्गैः
सांख्यञ्च योगञ्च वने विवासम् ।
कृते गुणा एकपदे प्रविष्टा
महाहवे स्वां तनुं संत्यजेद्यः ॥
इमां गिरं वेदविदः शुभाक्षरां
सुभाषितां वृत्रभिदा दिवौकसाम् ।
चमूमुखे यः स्मरते दृढस्मृति-
र्न हन्यते हन्ति च सोऽपि वैरिणः ॥
सदा पुण्यतमः स्वर्ग्यः सुयज्ञः सर्व्वतो मुखः ।
सर्व्वेषामेव वर्णानां क्षत्त्रियस्य विशेषतः ॥
भूयश्चैव तु वक्ष्यामि रणधर्म्मं सनातनम् ।
यादृशाय प्रवर्त्तव्यं यादृशं परिवर्जयेत् ॥
आततायिनमायान्तमपि वेदान्तगं द्बिजम् ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
कोदण्डशस्त्रपाणिन्तु प्रहरन्तं द्विजं यदि ।
हन्यात्तमासुरं भावं हत्वा न ब्रह्महा भवेत् ॥
ब्रह्महा जायते यैस्तु हतैस्तत्त्वं शृणुष्व मे ॥
वचःसंख्ये नृपश्रेष्ठ ! काययज्ञे सनानने ।
विरथं विगतं व्यश्वं विवर्णं विमुखस्थितम् ।
युद्धोत्साहहतं हत्वा ब्रह्महा जायते नरः ॥
विशस्त्रं विधनुष्कञ्च तं भीतोऽस्मीतिवादिनम् ।
वर्णशाखायुतांस्तांस्तु हत्वा स ब्रह्महा भवेत् ॥
अन्याहतो ब हन्तव्यो बालो वृद्धो नपुंसकः ।
तवाहं प्रवदन्मूत्रशकृत्कृतोऽथ भीरवः ॥
तस्मादेतान् परिहरेच्छूरो धर्म्मभृतां वरः ।
सम्यग्यज्ञफलन्त्वीहन् हत्वासौ ब्रह्महा भवेत् ॥
शक्यन्त्विह समृद्धैस्तु यज्ञैः क्रतुशतैर्नृपाः ।
आत्मदेहपरित्यागः कर्त्तं युद्धे सुद्रष्करः ॥
पृष्ठ ४/०४७
ब्रह्महा शुध्यतेऽशुद्धो देहं त्यक्त्वा रणाजिरे ।
न शुद्धी रणभग्नानां ऋते क्वचिन्महापथात् ॥
संग्रामे युध्यतो लक्ष्मीः कीर्त्तिः स्यात् स्वर्गति-
स्तथा ।
भग्नस्य तेऽपि नश्यन्ति महासत्यान्महारणात् ॥
तस्मात् सत्येन यत्किञ्चित् क्रियते तच्छुभप्रदम् ।
यज्ञं दानं व्रतं वापि संग्रामे नृपसत्तम ! ॥”
इत्याद्ये वह्निपुराणे संग्रामप्रशंसा ॥ * ॥
अथ युद्धनिर्णयः ।
“यत्रायुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः ।
तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥
आत्मोदये विगृह्णीयात् क्षोभो नात्मबले यदि ।
व्यसने च प्रहर्त्तव्यं शत्रौ न तु विपर्य्यये ॥
स्वयं राज्ञा न योद्धव्यं येऽपि शस्त्रास्त्रको-
विदाः ।
मृता युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥
रथयुद्धं समे देशे विषमे हस्तिसङ्गरः ।
अश्वयुद्धं मरौ देशे पत्तियुद्धञ्च दुर्गमे ॥
अत्यये सर्व्वयुद्धं स्यान्नौकायुद्धं जलप्लुते ।
संहत्य योधयेदन्यान् कामं विस्तारयेद्बहून् ॥
सूचीमुखमनीकं स्यादल्पं हि बहुभिः सह ।
अपि पञ्चाशतः शूरान् निघ्नन्ति परवाहिनीम् ।
येऽपि वा पञ्चषट्सप्तसहिताः कृतनिश्चयाः ॥”
अथ युद्धासननिर्णयः ।
“अन्यद्बारा विपक्षन्तु विगृह्यासनमुच्यते ।
अरिं विगृह्य वा स्थानं विग्रहासनमुच्यते ॥
अरेश्च विजिगीषोश्च विग्रहे हीयमानयोः ।
सन्धाय यदवस्थानं सन्धायासनमुच्यते ॥
उदासीने मध्यमे वा समाने प्रतिशङ्कया ।
एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥
सर्व्वेषां प्रीतिजननं निजराष्ट्रस्य लक्षणम् ।
एतत् प्रीत्यासनं नाम सर्व्वासनमहत्तरम् ॥”
अथ द्वन्द्बयुक्तिः ।
“राज्ञो बलं नहि बलं द्वन्द्बमेव बलं बलम् ।
अप्यल्पबलवान् राजा स्थिरो द्वन्द्बबलाद्भवेत् ॥”
तथा च ।
“एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि तस्माद्दुर्गं विशिष्यते ॥
अकृत्रिमं कृत्रिमञ्च तत् पुनर्द्विविधं भवेत् ॥
यद्दैवमुचितं द्बन्द्बं गिरिनद्यादिसंश्रियम् ।
अकृत्रिममियं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम् ॥
प्राकारपरिखारण्यसंश्रयं यद्भवेदिह ।
कृत्रिमं नाम विज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम् ॥”
अथाकृत्रिमद्वन्द्बयुक्तिः ।
“अत्युच्चविस्तीर्णशिरा दुरारोहः सकाननः ।
सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः ॥
सुखनिःसरणो द्वन्द्बः पर्व्वताख्यो महीभुजाम् ।
नद्यो गभीरविस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः ॥
तन्मध्ये भूप्रदेशो यो नदीद्वन्द्बः स उच्यते ।
यद्यन्यच्चिरकालीनं दुर्लङ्घ्यविपिनादिकम् ।
तन्मध्यरचिता भूमिर्द्वन्द्बत्वेनोपतिष्ठते ।
वनद्वन्द्बमिति ख्यातं यथापूर्ब्बं महत्तरम् ॥”
कृत्रिमद्वन्द्बयुक्तिर्यथा, --
“यस्मिन्राज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः ।
तस्य मध्ये महीपालः कृत्रिमं द्वन्द्बमारभेत् ॥
गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः ।
द्बन्द्वत्वेन समादिष्टाः परिखा बहुयादसः ॥
विशालशालं सुघनं बहुकण्टकि सङ्कटम् ।
द्वन्द्वत्वेन समादिष्टं विस्तीर्णं विषमं वनम् ॥
अधोऽधो वध्यमानोऽपि कन्दरोऽल्पजलं स्रवन् ।
द्बन्द्बत्वेन समुद्दिष्टः स दुर्लङ्घ्यो हि भूभुजाम् ॥
सर्व्वतः परिखां कृत्वा निवन्धोपरि कन्दरम् ।
तज्जलप्लुतदेशत्वाज्जलद्वन्द्वं तदुच्यते ॥
एषामभावे निम्नस्य भूप्रदेशस्य बन्धना ।
वर्षासूपगते वारि जलद्वन्द्बं ततो भवेत् ॥
एतयोरपि संमिश्रात् संमिश्रं द्वन्द्वमाचरेत् ।
आश्रित्य कृत्रिमं द्वन्द्बं बलवद्वैरिणी दिशि ॥
अन्यत्र कृत्रिमं द्वन्द्वं कृत्वा नरपतिर्विशेत् ।
रथपतिर्यदा वैरी स्थलद्बन्द्वं तदाचरेत् ॥
गजाश्वनाथश्चेद्बैरी जलद्वन्द्बं तदाचरेत् ।
गिरिद्बन्द्वं नृपः सेवेत् यस्य स्याद्द्विविधो रिपुः ॥
सर्व्वं हि त्रिविधं युद्धं समासादुपादिक्ष्यते ।
प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव च ॥
राज्यान्ते सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् ।
गुप्ते स्त्रीकोषसम्भारं संरक्षेदिति निश्चयः ॥”
अथ सामान्यतो गुणाः । तथा हि नीति-
शास्त्रम् ।
“सप्रवेशापसरणं द्वन्द्रमुत्तममुच्यत ।
अन्यत्र वन्दिशालेव न तादृग्बद्धमाश्रयेत् ॥
धनुर्द्बन्द्बं महीद्वन्द्बं गिरिद्वन्द्बं तथैव च ।
मनुष्यद्बन्द्वसंसर्गं वनद्बन्द्वञ्च तानि षट् ॥”
अन्ये तु ।
“न द्वन्द्वं द्बन्द्वमित्याहुर्योद्धृद्वन्द्वं प्रकीर्त्तितम् ।
योद्धृशून्यं हि यद्युद्धं मृतकायसमं हि तत् ॥”
अथान्यत्रापि ।
“यावत्प्रमाणं नगरं हि राज्ञां
ततो भवेदुत्तममध्यमान्त्यम् ।
त्रिंशज्जलक्ष्माष्टगुणोत्तरेण
त्रिदेशजानां धरणीपतीनाम् ॥”
गर्गस्तु ।
“यदन्यद्विविधं द्बन्द्बं प्रोच्यते धरणीभुजाम् ।
तेभ्य एवातिरिच्येत मन्त्रद्वन्द्बं विशेषतः ॥
अन्येषु दैवाद्भिन्नेषु मन्त्रद्वन्द्वाज्जयेन्नृपः ।
मन्त्रद्बन्द्बे हि भिन्ने हि न चान्यत् कार्य्यकारकम् ॥
यदैव वैरिदुर्लङ्घ्यं विस्तीर्णं विषमञ्च तत् ।
सप्रवेशापसरणं तद्युद्धमुत्तमं विदुः ॥”
इति युक्तिकल्पतरुः ॥
तद्वैदिकपर्य्यायः । रणः १ विवाक् २ विखादः ३
नदनुः ४ भरे ५ आक्रन्दे ६ आहवे ७ आजौ ८
पृतनाज्यम् ९ अभीके १० समीके ११ मम-
सत्यम् १२ नेमधिता १३ सङ्काः १४ समितिः १५
समनम् १६ मीळ् हे १७ पृतनाः १८ स्पृधः १९
मृधः २० पृत्सु २१ समत्सु २२ समर्य्ये २३
समरणे २४ समोहे २५ समिथे २६ सङ्खे २७
सङ्गे २८ संयुगे २९ सङ्गथे ३० सङ्गमे ३१ वृत्र-
तूर्य्ये ३२ पृक्षे ३३ आणौ ३४ शूरसातौ ३५
वाजसातौ ३६ समनीके ३७ खले ३८ खजे ३९
पौंस्ये ४० महाधने ४१ वाजे ४२ अज्म ४३
सद्म ४४ संयत् ४५ संवतः ४६ । इति षट्चत्वा-
रिंशत् संग्रामनामानि । इति वेदनिघण्टौ
२ । १७ ॥

युद्धरङ्गः, पुं, (युद्धे रङ्गो रागोऽस्य ।) कार्त्तिकेयः ।

इति शब्दचन्द्रिका ॥ (युद्धस्य रङ्गः । युद्ध-
स्थलम् । यथा, महाभारते । ७ । ९५ । १८ ।
“अन्योऽन्यं जघ्निरे क्रुद्धाः युद्धरङ्गगता नराः ॥”)

युद्धसारः, पुं, (युद्धस्य सारः ।) घोटकः । इति

शब्दचन्द्रिका ॥

युध, य औ ङ युद्धे । इति कविकल्पद्रुमः ॥ (दिवा०-

आत्म०-अक०-हनने सक०-अनिट् ।) य ङ,
युध्यते । औ, योद्धा । संमुखस्थितयोर्द्वयोः
सांग्रामिकरीत्या परस्पराभिभवेच्छा युद्धम् ।
युध्यते योधः कदाचिदेकस्य सह भावविव-
क्षायां युध्यते योधः परेण । कदाचिद्धननेऽपि
युध्यते चौरं राजा हन्तीत्यर्थः । यो भक्त-
पिण्डस्य कृते न युध्येदिति अस्माद्भावे क्विपि
तमिच्छतीति क्ये तं करोतीति कण्ड्वादित्वात्
क्ये वा साध्यम् । इति दुर्गादासः ॥

युधानः, पुं, (युध्यतेऽसौ । युध् + “युधिबुधिदृशः

किच्च ।” उणा० २ । ९० । इति आनच् । स च
कित् ।) क्षत्त्रियः । इत्युणादिकोषः ॥ (रिपुः ।
इत्युज्ज्वलदत्तः ॥)

युधिकः, त्रि, योद्धा । युधशब्दात् ष्णिकप्रत्ययेन

निष्पन्नः ॥

युधिष्ठिरः, पुं, (युधि संग्रामे स्थिरः । “गवि-

युधिभ्यां स्थिरः ।” ८ । ३ । ९५ । इति षत्वम् ।
“हलदन्तात् सप्तम्याः संज्ञायाम् ।” ६ । ३ । ९ ।
इति सप्तम्या अलुक् ।) पाण्डवराजः । स कुन्ती-
गर्भे धर्म्माज्जातः । तत्पर्य्यायः । अजातशत्रुः २
शल्यारिः ३ धर्म्मपुत्त्रः ४ अजमीढः ५ । इति
हेमचन्द्रः । ३ । ३७१ ॥ (मृगशापाभितप्तः
पाण्डुर्निरपत्यतया खिन्नचित्तः पुत्त्रार्थमेकदा
धर्म्मपत्नीं कुन्तीमुवाच । शुचिस्मिते ! अनपत्यो
हि न शुभलोकार्ह इति विचिन्त्य त्वं मदुपका-
रार्थं केनापि पुत्त्रमुत्पादयेति । एवमुक्ता कुन्ती
दृष्ट्वा च पत्युराग्रहातिशयं धार्म्मिकपुत्त्रलाभाय
दुर्व्वासः प्रदत्तमन्त्रबलेन धर्म्ममाहूय तेन सङ्गता
युधिष्ठिरं पुत्त्रमलभत । यदुक्तं महाभारते । १ ।
१२३ । ५ -- ८ ।
“संयुक्ता सा हि धर्म्मेण योगमूर्त्तिधरेण ह ।
लेभे पुत्त्रं वारारोहा सर्व्वप्राणभृतां हितम् ॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे ।
दिवा मध्यगते सूर्य्ये तिथौ पूर्णेऽतिपूजिते ॥
समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् ।
जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी ॥
एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ॥
विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति ।
पृष्ठ ४/०४८
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥”
अथ गच्छति काले धृतराष्ट्रेण यौवराज्ये
स्थापितोऽयं दयादाक्षिण्यादिगुणपरम्परया
प्रजासु लब्धकीर्त्तिरनुजैः सह सुखमुवास । अथ
जतुगृहदाहानन्तरं त्यक्तराज्यो द्रुपदराज्य-
मभिगम्य द्रौपदीं सानुजः परिणीय पुनः
स्वराज्यमागतवान् । ततः कृष्णसहायो राज-
सूययज्ञकरणाय दुर्जयान् जरासन्धप्रभृति-
नृपतीन् हत्वा राजसूयेष्टिं समापयामास ।
ततोऽसूयापरवशदुर्य्योधनमतानुसारिणा कैतव-
पटुना शकुनिना सह द्यूतं कृत्वा पराजितो-
ऽनुजैर्भीमादिभिः पत्न्या द्रौपद्यां च सहितो
द्बादशवर्षं वनवासाय एकवर्षमज्ञातवासाय च
प्रस्थितो द्बैतवनमध्युवास । ततो द्वादशवर्षैर्वन-
वासजातं महत् कष्टमनुभूय अज्ञातवासार्थं
त्रयोदशवर्षंविराटनगरमधिवसन् पुनः कृष्ण-
सहायः स्वराज्यप्राप्त्यर्थं महतीं चेष्टां कृतवान् ।
कृतेऽपि यत्ने यदा विगुणग्रहो दुर्य्योधनो
राज्यादिकं न दत्तवान् तदा लब्धसैन्यबलोऽसौ
कुरुक्षेत्र महत् युद्धं कृत्वा विनाश्य च दुर्य्यो-
धनादीन् हस्तिनाधिपतिः सम्राट् बभूव ।
अथाश्वमेधादिना सुरगणान् परितोष्य षट्-
त्रिंशद्बर्षं राज्यसुखमनुभूतवान् । ततः प्रभासे
विप्रशापात् यदुवंशक्षयमाकर्ण्यातिनिर्व्विण्णः
षट्त्रिंशवर्षवयस्कं अर्ज्जुनपौत्त्रं परीक्षितं
स्वराज्येऽभिषिच्य उत्तरामार्गेण स्वर्गारोहणं
कृतवानिति । तथाच देवीभागवते । २ । ८ ।
१५-१७ ।
“देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ।
गमनाय मतिं चक्रे राजा हैमाचलं प्रति ॥
षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ।
निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह ॥
षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ।
गत्वा हिमाचले षट् ते जहुः प्राणान्
पृथासुताः ॥”
अस्यान्यद्बिशेषविवरणन्तु महाभारतादौ विस्त-
रशो द्रष्टव्यम् ॥)

युधीयः, त्रि, योद्धा । युधधातोरीयप्रत्ययेन निष्पन्नः ॥

युध्मः, पुं, (युध्यते इति युध्यते येनेति वा । युध् +

“इषियुधीन्धिदसिश्याधूसूभ्यो मक् ।” उणा०
१ । १४४ । इति मक् । संग्रामः । धनुः । इति
मेदिनी ॥ वाणः । इत्युणादिकोषः ॥ योद्धा । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे ।
१ । ५५ । ५ ।
“स इन्महानि समिथानि मज्मना
कृणोति युघ्म ओजसा जनेभ्यः ॥”
“युध्मः योद्धा ।” इति तद्भाष्ये सायणः ॥) शेष-
संग्रामः । शरभः । इति संक्षिप्तसारोणादिवृत्तिः ॥

युप, य इर् विमोहे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) विमोह आकुली-
करणम् । य, युप्यति । इर्, अयुपत् अयोपीत् ।
पुषादित्वात् ङ इत्यन्ये । इति दुर्गादासः ॥

युयुक्खुरः, पुं, (युर्निन्दितः युक् योजनास्य । तादृशः

खुरो यस्य ।) क्षुद्रव्याघ्रः । इति शब्दचन्द्रिका ॥

युयुधानः, पुं, (युध्यतेऽसौ । युध + “मुचियुधिभ्यां

सन्वच्च ।” उणा० २ । ९१ । इत्यानच् कित्कार्य्यं
सन्वत्कार्य्यञ्च ।) सात्यकिः । यथा, --
“शैनेयस्तु शिनेर्नप्ता युयुधानश्च सात्यकिः ॥”
इति त्रिकाण्डशेषः ॥
इन्द्रः । क्षत्त्रियः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥ त्रि, योद्धा च ॥

युवकः, पुं, युवा । युवन्शब्दात् कन्प्रत्ययेन निष्पन्नः ॥

युवगण्डः, पुं, (यूणां गण्ड आश्रयत्वेनास्त्यस्य । युव-

गण्ड + अर्शआद्यच् ।) यूनो गण्डस्थव्रणविशेषः ।
वयस्फोडा इति भाषा । यथा, --
“युवगण्डो यवगण्डः स्यात् वयस्फोटाह्वये द्वयम् ॥”
इति शब्दरत्नावली ॥

युवजानिः, पुं, (युवतिर्जाया यस्येति । “जायया-

निङ् ।” ५ । ४ । १३४ । इति निङ् ।) युवतीपतिः । यथा,
“युवजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः ।
रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः ॥”
इति भट्टिः । ५ । १३ ॥

युवतिः, स्त्रि, (युवन् + “यूनस्तिः ।” ४ । १ । ७७ ।

इति तिः ।) प्राप्तयौवना ॥ (यथा, अभिज्ञान-
शाकुन्तले ४ अङ्के ।
“शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्त्तुर्विप्रकृतापि रोषणंतया मास्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिनीपदं युवतयो वामाः कुल-
स्याधयः ॥”)

युवती, स्त्री, (यु + शतृ + ङीप् । इति सिद्धान्त-

कौमुदी । ४ । १ । ७७ । कृदिति ङीष् । इत्यु-
ज्ज्वलदत्तः । १ । १५६ ।) प्राप्तयौवना । यथा,
बृहत्संहितायाम् । ७५ । ४ ।
“यो यं विचिन्तयति यानि स तन्मयत्वं
यस्मादतः सुभगयेव गता युवत्यः ॥”)
तत्पर्य्यायः । युवतिः २ यूनी ३ तरुणी ४ तलुनी
५ दिक्वरी ६ धनिका ७ धनीका ८ मध्यमा ९
दृष्टरजाः १० मध्यमिका ११ । इति शब्दरत्ना-
वली ॥ ईश्वरी १२ वर्य्या १३ । इति हेमचन्द्रः ।
३ । ५११ ॥ वयस्था १४ । इति राजनिर्घण्टः ॥
तस्या लक्षणादि यथा, --
“आषोडशाद्भवेद्वाला तरुणी त्रिंशता मता ।
पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम् ॥”
इति कालिदासः ॥
“बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥
निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः ।
हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥”
योग्या युवती । इति राजवल्लभः ॥ स्त्रीसा-
मान्यम् । यथा । प्रमदा चेति विज्ञेया युवतिश्च
तथा स्मृतेति भागुरिः । प्राग्यौवना युवति-
रिति वात्स्यायनः । इत्यमरटीकायां भरतः ।
२ । ६ । ८ ॥ * ॥ हरिद्रा । इति शब्दचन्द्रिका ॥

युवतीष्टा, स्त्री, (युवतीनामिष्टा ।) स्वर्णयूथिका ।

इति राजनिर्घण्टः ॥

युवनाश्वः, पुं, सूर्य्यवंशीयराजविशेषः । स च

गौरीगर्भे प्रसेनजितो जातः मान्धातृपिता च ।
यथा, --
“तस्याः प्रसेनजिज्जज्ञे लेभे भार्य्या पतिव्रता ।
गौरी नामाभिशप्ता सा नदीभूता तरङ्गिणी ।
तस्यां प्रसेनजिज्जज्ञे युवनाश्वं महीपतिम् ॥
यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति ।
सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥”
इति वह्निपुराणे सगरोपाख्यानाध्यायः ॥

युवनाश्वजः, पुं, (युवनाश्वात् जातः । जन् + डः ।)

मान्धातृराजः । इति हेमचन्द्रः । ३ । ४६४ ।

युवराजः, पुं, भाविबुद्धविशेषः । तत्पर्य्यायः ।

मैत्रेयः २ अजितः ३ । इति त्रिकाण्डशेषः ॥
राजपुत्त्रः । तत्पर्य्यायः । कुमारः २ भर्त्तृ-
दारकः ३ । इत्यमरः । १ । ७ । १२ ॥ युवा
बालो राजा यूनां वा राजा युवराजः । सख्य-
होराज्ञ इति षः । कुमारयति कुमारः ।
स्यात् कुमार कुमाल त् क केलौ अन् ।
भर्त्तुर्दारकः पुत्त्रः भर्त्ता चासौ दारकश्चेति
वा भर्त्तृदारकः । दारको भेदके शिशाविति
निगमः । इति भरतः ॥ (यथा, महाभारते ।
१ । ७३ । १६ ।
“मयि जायेत यः पुत्त्रः स भवेत्त्वदनन्तरम् ।
युवराजो महाराज ! सत्यमेतद्ब्रवीमि ते ॥”)

युवा, [न्] त्रि, (यौतीति । यु + “कनिन्

युवृषितक्षिराजिधन्विद्युप्रतिदिवः ।” उणा०
१ । १५६ । इति कनिन् ।) तरुणः । (यथा,
मनौ । २ । १२० ।
“ऊर्द्धं प्राणा ह्युत्क्रामन्ति यूनः स्थविर
आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥”)
श्रेष्ठः । निसर्गबलशाली । इति मेदिनी । ने, ११३ ॥

युवा, [न्] पुं, (यौतीति । यु + कनिन् ।)

यौवनावस्थाविशिष्टः । षोडशवर्षात् त्रिंशद्वर्ष-
पर्य्यन्तवयस्कः । इति केचित् ॥ षोडशवर्षात्
सप्ततिवर्षपर्य्यन्तवयस्कः । यथा, --
“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।
वृद्धः स्यात् सप्ततेरूर्द्धं वर्षीयान् नवतेः परम् ॥”
इति भरतधृतस्मृतिः ॥
(“आषोडशाद्भवेद्बालः पञ्चत्रिंशत् युवा नरः ।”
इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥)
तत्पर्य्यायः । वयस्थः २ तरुणः ३ । इत्यमरः ।
२ । ६ । ४२ ॥ वयःस्थः ४ तलुनः ५ । इति शब्द-
रत्नावली ॥ गर्भरूपः ६ वेटकः ७ । इति जटा-
धरः ॥

युष, भजने । इति कविकल्पद्रुमः ॥ सौत्रधातु-

रयम् । (पर०-सक०-सेट् ।) योषित् युष्मद् ।
इति दुर्गादासः ॥

युष्मद्, (योषति भजतीति । युष् + “युष्यसिभ्यां

मदिक् ।” उणा० १ । १३८ । इति मदिक् ।)
पृष्ठ ४/०४९
सर्व्वनामयुष्मच्छब्दः । तस्य त्रिषु लिङ्गेषु
समानि रूपाणि । (एकविंशतिविभक्तिषु तस्य
रूपाणि ।) यथा । त्वम् १ युवाम् २ यूयम् ३ ।
त्वाम् ४ युवाम् ५ युष्मान् ६ । त्वया ७ युवाभ्याम्
८ युष्माभिः ९ । तुभ्यम् १० युवाभ्याम् ११
युष्मभ्यम् १२ । त्वत् १३ युवाभ्याम् १४ युष्मत् १५ ।
तव १६ युवयोः १७ युष्माकम् १८ । त्वयि १९
युवयोः २० युष्मासु २१ । (द्वितीयाचतुर्थी-
षष्ठीनामेकवचनद्विवचनबहुवचनविभक्तिषु तस्य
रूपान्तराणि यथा । द्बितीयैकवचने त्वा ।
चतुर्थीषष्ठ्योरेकवचने ते । आसां द्विवत्तने वाम् ।
आसां बहुवचने वः । श्लोकपादे वाक्यादौ
च-वा-हा-ह-एव-शब्दयोगे अदर्शनाथदृश्यर्थ-
धातुयोगे च न स्युः ।) इति व्याकरणम् ॥
यथा, --
“युष्मत्कृते खञ्जनगञ्जनाक्षि !
शिरो मदीयं यदि याति यातु ।
नीतानि नाशं जनकात्मजार्थं
दशाननेनापि दशाननानि ॥”
इति मुक्तिवादे गदाधरः ॥)

यूः, स्त्री, यूषः । इति हेमचन्द्रः । ३ । ६८ ॥

यूकः, पुं, (यौतीति । यु + “अजियुधूनीभ्यो

दीर्घश्च ।” उणा० ३ । ४७ । इति कन्
दीर्घश्च ।) मत्कुणः । इति जटाधरः ॥
(यथा, सुश्रुते सूत्रस्थाने ३१ अध्याये ।
“यूका ललाटमयान्ति बलिं नाश्नन्ति वायसाः ।
येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥”)

यूका, स्त्री, (यूक + स्त्रियां टाप् ।) मत्कुणः ।

यूञी इति उकुण इति च भाषा । तत्पर्य्यायः ।
केशकीटः २ स्वेदजः ३ षट्पदः ४ । इति
राजनिर्घण्टः ॥ पाली ५ बालकृमिः ६ । इति
जटाधरः ॥ (यथा, मनौ । १ । ४५ ।
“स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
उष्मणश्चोपजायन्ते यच्चान्यत् किञ्चिदीदृशम् ॥”
क्रिमिविशेषः । तद्यथा, --
“नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ।
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥
बहुपादाश्च सूक्ष्माश्च यूका लिख्याश्च नामतः ।
द्बिधा ते कोठपिडकाः कण्डूगण्डान् प्रकुर्व्वते ॥”
इति माधवकरसंग्रहीतरुग्विनिश्चये क्रिम्यधि-
कारे ॥
“क्रिमयो द्विविधाः प्रोक्ता बाह्याभ्यन्तरसम्भवाः ।
बाह्या यूकाः प्रसिद्धाः स्युः किञ्चुलूकास्तथा-
न्तराः ॥
सप्तधा हि भवेद्बाह्याः षड्धा चान्तःसमुद्भवाः ।
तेषां वक्ष्यामि संभूतिं बाह्यानाभ्यन्तरे नृणाम् ॥
रूक्षादति बलात् स्वेदाच्चिन्तया शोचनादपि ।
कफधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ॥
यूकाः कृष्णाः पराः श्वेतास्तृतीयाश्चर्म्मणि
स्थिताः ।
सूक्ष्मातिविकटा रूक्षाश्चर्म्माभाश्चर्म्मयूकिकाः ॥
चतुर्थी विन्दुकी नाम वर्त्तुला मूत्रसम्भवा ।
मत्कुणाद्याश्च पञ्चम्यो वाह्योपद्रवकारिणः ॥
यूका मस्तकसंस्थाने श्वेता वस्त्रनिवासिनी ।
चर्म्मयूका नेत्रचर्म्मे सूक्ष्मे रोमणि यष्टिका ॥”
इति हारीते चिकित्सितस्थाने पञ्चमेऽध्याये ॥
यूकानाशकौषधं यथा, कामरत्ने ।
“विडङ्गगन्धोत्पलकल्कयोगात्
गोमूत्रसिद्धं कटुतैलमेतत् ।
अभ्यङ्गयोगेन शिरोरुहाणां
यूकादिलीक्षाप्रचयं निहन्ति ॥
गोमूत्रेण बलामूललेपो यूकानिवारणः ।
पारदं मर्द्दयेन्निष्ककृष्णधुस्तूरजद्रवैः ॥
नागवल्लीद्रवैर्व्वाथ वस्त्रखण्डं प्रलेपयेत् ।
तद्द्वस्त्रं वेष्टयेन्मौलौ धार्य्यं यामत्रयं तथा ॥
यूका पतन्ति निःशेषान्मस्तकान्नात्र संशयः ।
द्विनिशानवनीतेन लेपान्मौलौ प्रकण्डुनुत् ॥
नीलोत्पलं तिलं यष्टि सर्षपं नागकेशरम् ।
धात्रीफलं समं पिष्ट्वा लेपो यूकाविनाशनः ॥
निशागन्धकगोमूत्रं विडङ्गकटुतैलकम् ।
पारदेन समं मर्द्द्यं लेपो यूकानिवारणः ॥”
इति केशस्य यूकादिनिवारणम् ॥
परिमाणभेदः । यथा, मार्कण्डेये । ४९ । ३७ ।
“परमाणुः परं सूक्ष्मं त्रसरेणुर्म्महीरजः ।
बालाग्रञ्चैव निष्काञ्च यूकां चाथ यवोदरम् ॥”)

यूतिः, स्त्री, (यु + “ऊतियूतिजूतिसातिहेतिकीर्त्त-

यश्च ।” ३ । ३ । ९७ । इति क्तिन् निपातनाद्दीर्घ-
त्वञ्च ।) मिश्रणम् । इति मुग्धबोधव्याकर-
णम् ॥ (यथा, भट्टिकाव्ये । ७ । ६९ ।
“करोमि वो बहिर्यूतीन् पिबध्वं पाणिभि-
र्दृशः ॥”)

यूथं, क्ली, (यु मिश्रणे + “तिथपृष्ठगूथयूथप्रोथाः ।”

उणा० २ । १२ । इति थक्प्रत्ययेन निपाति-
तम् ।) सजातीयसमूहः । इत्यमरः । २ । ५ । ४१ ॥
(यथा, रामायणे । २ । ५४ । ४१ ।
“तत्र कुञ्जरयूयानि मृगयूथानि चैव हि ।
विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव ! ॥”)

यूथनाथः, पुं, (यूथस्य नाथः ।) वन्यकरिणां

समूहस्य ईश्वरः । तत्पर्य्यायः । यूथपः २ ।
इत्यमरः । २ । ८ । ३५ ॥

यूथपः, पुं, (यूथं पातीति । पा + कः ।) अरण्य-

हस्तिनां प्रधानम् । इति शब्दरत्नावली ॥
(यथा, श्रीमद्भागवते । ९ । १५ । २८ ।
“घोरमादाय परशुं सतूणं वर्म्मकार्म्मुकम् ।
अन्वधावत दुर्म्मर्षो मृगेन्द्र इव यूथपम् ॥”
प्रधानमात्रे च । यथा, महाभारते । १ । १८ । ५ ।
“राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते ।
चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम् ॥”)

यूथभ्रष्टः, पुं, (यूथाद्भ्रष्टश्चलितः ।) यूथात्

पलायितहस्ती । इति शब्दमाला ॥ (यूथ-
भ्रष्टमात्रे, त्रि । यथा, श्रीमद्भागवते । ४ ।
२८ । ४६ ।
“यदा नोपलभेताङ्घ्रावुष्माणं पत्युरर्च्चती ।
आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥”)

यूथिका, स्त्री, (यूथं पुष्पवृन्दमस्या अस्तीति । यूथ

+ ठन् । टाप् ।) पाठा । इति राजनिर्घण्टः ।
अम्लानकः । इति मेदिनी । के, १४४ ॥ पुष्प-
विशेषः । युँइ फुल इति भाषा ॥ (यथा, मेघ-
दूते । १ । २८ ।
“विश्रान्तः सन् व्रजवननदीतीरजातानि सिञ्चन्
उद्यानानां नवजलकणैर्यूथिकाजालकानि ॥”)
तत्पर्य्यायः । गणिका २ अम्बष्ठा ३ मागधी ४ ।
सा पीता चेत् हेमपुष्पिका । इत्यमरः । २ ।
४ । ७१ ॥ यूथी ५ प्रहसन्ती ६ । इति त्रिकाण्ड-
शेषः ॥ शिखण्डिनी ७ वासन्ती ८ । इति
रत्नमाला ॥ बालपुष्पिका ९ बहुगन्धा १०
भृङ्गानन्दा ११ । अस्या गुणाः । स्वादुत्वम् ।
शिशिरत्वम् । शर्करार्त्तिपित्तदाहतृषानाना-
त्वग्दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“यूथीयुगं हिमं तिक्त कटुपाकं सरं लघु ।
मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम् ।
व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम् ॥”
इति भावप्रकाशः ॥
(तथा च सुश्रुते उत्तरतन्त्रे ४५ अध्यायः ।
“पटोलशेलूसुनिषण्णयूथिका
वटातिमुक्ताङ्कुरमिन्दुवारजम् ॥”)

यूथी, स्त्री, (यूथ + अर्श आद्यच् । ततो ङीष् ।)

यूथिका । इति शब्दरत्नावली ॥

यूथीनः, पुं, (यूथं पातीति । यूथ + खः ।)

यूथपः । इति शब्दचन्द्रिका ॥

यूनिः, स्त्री, योगम् । मिश्रणम् । इति सिद्धान्त-

कौमुदी ॥

यूनी, स्त्री, (युवन् + ङीष् । “श्वयुवमघोनाम-

तद्धिते ।” ६ । ४ । १३३ । इति वस्य उत्वम् ।)
युवती । इति शब्दरत्नावली ॥ (यथा, --
“यूनी काममयी दुनोति हृदयं वैध्यव्यभावा-
द्वधूः ।”
इति कलापे श्वयुवमधोनाञ्चेतिसूत्रे कुलचन्द्रः ॥)

यूपः, पुं क्ली, (यौति मिश्रयतीति । यूयते युज्यते-

ऽस्मिन्निति ऋग्भाष्ये सायणः । १ । ५१ । १४ ।
यद्वा, यु + “कुयुभ्यां च । उणा० ३ । २७ । इति
पः दीर्घत्वञ्च ।) यज्ञे पशुबन्धनकाष्ठम् । इत्य-
भरः । २ । ४ । ४१ ॥ तस्य परिमाणादिर्य्यथा ।
स्मृतौ ।
“चतुर्हस्तो भवेद्यूपो यज्ञवृक्षसमुद्भवः ।
वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो वृषमौलिकः ॥”
भविष्ये ।
“विल्वस्य वकुलस्यैव कलौ यूपः प्रशस्यते ।”
इति सामवेदिवृषोत्सर्गतत्त्वम् ॥

यूपः, पुं, (यु + पः । दीर्घश्च ।) जयस्तम्भः । याग-

स्तम्भः । इत्युणादिकोषः ॥ (यथा, रघुवंशे । ६ । ३८ ।
“संग्रामनिर्व्विष्टसहस्रबाहु-
रष्टादशद्बीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो
बभूव योगी किल कार्त्तवीर्य्यः ॥”)
पृष्ठ ४/०५०

यूपकटकः, पुं, (यूपस्य कटक इव ।) यज्ञसमाप्ति-

सूचकं पशुबन्धाद्यर्थं यज्ञभूमौ यत् काष्ठमारो-
प्यते स यूपः तस्य शिरसि वलयाकृतिर्डमरुका-
कृतिर्वा यः काष्ठविकारः सः । यूपमूले निहित-
लोहबलय इति केचित् । इति भरतः ॥ तत्-
पर्य्यायः । चषालः २ । इत्यमरः । २ । ७ । १८ ॥

यूपकर्णः, पुं, (यूपस्य कर्ण इव ।) यूपैकदेशः ।

तत्पर्य्यायः । घृतावनिः २ । इति हेमचन्द्रः ।
३ । ४८९ ॥

यूपद्रुः, पुं, (युपाय द्रुः ।) खरिदवृक्षः । इति

त्रिकाण्डशेषः ॥

यूपद्रुमः, पुं, (यूपाय द्रुमः ।) खदिरवृक्षः । इति

शब्दरत्नावली ॥ रक्तखदिरः । इति राज-
निर्घण्टः ॥

यूपलक्ष्यः पुं, (यूपो लक्ष्य उपवेशनार्थमस्य ।)

पक्षी । इति शब्दमाला ॥

यूपाग्रं, क्ली, (यूपस्याग्रम् ।) यूपस्याग्रभागः ।

तत्पर्य्यायः । तर्म्म २ । इत्यमरः । २ । ७ । १९ ॥

यूष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-

सेट् ।) षष्ठस्वरी । यूषति । इति दुर्गादासः ॥

यूषं, पुं, क्ली, (यूष् + कः ।) मुद्गादिक्वाथरसः ।

इत्यमरः । ३ । ५ । ३५ ॥ यूषोऽन्तःस्थादिः ।
चवर्गादिश्चेति मुकुटः । इति भरतः ॥ * ॥
अथ मुद्गयूषगुणाः ।
“मुद्गयषोऽग्निदो हृद्यः शुद्धानां व्रणिनामपि ।
पथ्यो बलाशपित्तघ्नो ज्वरहा च कृताकृतः ॥
अस्नेहलवणं सर्व्वमकृतं कटुकैर्विना ।
विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥
स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ।
रुचिकृल्लघुपाकश्च दोषाणामविरोधकृत् ॥” * ॥
मसूरयूषगुणाः ।
“मसूरयूषः संग्राही वृंही स्वादुः प्रमेहजित् ।
पित्तश्लेष्मज्वरहरस्तथातीसारनाशनः ॥” * ॥
कुलत्थयूषगुणाः ।
“कुलत्थयूषोऽनिलहा शर्कराश्मरिनाशनः ।
तूणीप्रतूणीकासार्शोगुल्ममेदःकफापहः ॥” * ॥
अम्लेन सह माषयूषगुणाः ।
“अम्लमाषो गुरुर्भेदी वातघ्नो दीपनो मतः ॥”
अथ खडयूषः ।
“तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः ।
सुपक्वं खडयूषोऽयमयं काम्बलिकोऽपरः ॥” * ॥
खडकाम्बलिकयूषगुणाः ।
“दध्यम्लो लवणस्नेहतिलमाषविपाचितः ॥
खडकाम्बलिकौ यूषौ ग्राहिवातकफापहौ ॥”
रति राजवल्लभः ॥ * ॥
अपि च । अथ यूषस्य विधिर्गुणाश्च ।
“अष्टादशगुणे नीरे शमीधान्यशृतो रसः ।
विरलान्ने घनः किञ्चित् पेषातो यूष उच्यते ।
उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः ॥”
यूषस्य प्रकारान्तरमाह ।
“कल्कद्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीम् ।
बारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते ॥”
अयमर्थः । यूषान्नं पलमितं तत् कल्कीकृतं
शुण्ठी पिप्पली च समुदितार्द्धकर्षमिता कल्की-
कृता उभयमपि प्रस्थमितेन वारिणा पचेत् ।
तद्भवो यूषः ।
“यूषो बल्यो लघुः पाके रुच्यः कण्ट्यः कफा-
पहः ॥”
अथ मुद्गयूषविधिः । वृन्दटीकायां तन्त्रान्तरे ।
“मुद्गानां द्बिपलं तोये शृतमर्द्धाढकोन्मिते ।
पादस्थं मर्द्दितं पूतं दाडिमस्य पलेन तत् ॥
युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः ।
कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम् ।
संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः ॥” * ॥
अथ मुद्गयूषगुणाः ।
“मुद्गानामुत्तमो यूषो दीपनः शीतलो लघुः ।
व्रणोर्द्ध्वयत्रुरुग्दाहकफपित्तज्वरास्नहृत् ॥” * ॥
अथ मुद्गामलकयूषगुणाः ।
“मुद्गामलकयूषस्तु भेदी पित्तानिलापहः ।
तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः ॥”
मसूरयूषगुणाः पूर्ब्बवत् । इति भावप्रकाशः ॥
(तथा च ।
“कुलत्थयूषो मधुरः कषायः
कफं सपित्तं विनिहन्ति शीघ्रम् ।
मेहाश्मरी पायुजमेदहन्ता
सन्दीपनो मूत्रविशोधनश्च ॥
आढक्ययूषं मधुरञ्च शीतं
विशेषतो वातनिवारणञ्च ।
श्लेष्मापहं पित्तहरं नराणां
कृमिं निहन्यादपि दारुणञ्च ॥
शीतलं मधुरं मौद्गं यूषं पित्तविकारजित् ।
वातदोषहरं प्रोक्तं ज्वराणां शमनं परम् ॥
मासूरो ग्राहको यूषो वृंही स्वादुः प्रमेह-
जित् ।
पित्तश्लेष्मज्जरघ्नः स्यात्तथातीसारनाशनः ॥
कषायं कटुकञ्चोष्णं वातघ्नं पुंस्त्वदोषकृत् ।
रक्तपित्तं निहन्त्याशु चणानां यूषमुच्यते ॥
घनं सवातं कफकृन्माषयूषं स पित्तकृत् ।
अम्लं पर्य्युषितं तच्च शस्यते तैलपाचने ॥
अन्यानि चैव शस्तानि कौलत्थान्युषितानि च ।
मसूरास्त्रिपुठा बल्याः कलायाद्याश्च वर्ज्जिताः ॥”
इति यूषविधिः ॥ * ॥
इति हारिते प्रथमस्थाने नवमेऽध्याये ॥
“ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ।
स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ॥”
“पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ ।
पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ ॥
श्वासकासप्रतिश्याय प्रसेकारोचकज्वरान् ।
हन्ति मूलकयूषस्तु कफमेदोगलामयान् ॥
कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः ।
तूणी प्रतूणी कासार्शोगुल्मोदावर्त्तनाशनः ॥
दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः ।
प्राणाग्निजननोमूर्च्छामेदोघ्नः पित्तवातजित् ॥
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः ।
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)

यूषः, पुं, (यूषतीति । यूष् + कः ।) ब्रह्मदारुवृक्षः ।

इति शब्दरत्नावली ॥

येष, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) अन्तःस्थादिः । ऋ,
अयियेषत् । ङ, येषते यियेषे । इति दुर्गा-
दासः ॥

योक्ता, [ऋ] त्रि, योगकर्त्ता । इति युजधातोः

कर्त्तरि तृन्प्रत्ययेन निष्पन्नम् ॥ (यथा, वाज-
सनेयसंहितायाम् । ३० । १४ ।
“मन्यवेऽयस्तापं क्रोधाय निसरं योगाय योक्तारं
शोकायाभिसर्त्तारम् ॥”
“योक्तारं योगकर्त्तारम् ।” इति तद्भाष्यम् ॥)

योक्त्रं, क्ली, (युज्यतेऽनेनेति । युज् + “दाम्नीशसयु-

युजस्तुतुदेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।)
युगेन सह ईशादण्ड आवध्यते अनेन तत् ।
योत् दडि इति भाषा । तत्पर्य्यायः । आबन्धः २
योत्रम् ३ । इत्यमरः । २ । ९ । १३ ॥ (यथा,
ऋग्वेदे । ५ । ३३ । २ ।
“स त्वं न इन्द्र धियमानो अर्कैर्हरीणां वृषन्
योक्त्रमश्रेः ॥”
“योक्त्रं नियोजनरज्जुं अश्रः आश्रयसि ।” इति
तद्भाष्ये सायणः ॥ मन्थनरज्जुः । यथा,
रामायणे । १ । ४५ । १८ ।
“ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासु-
किम् ।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥”)

योगः, पुं, (युज ममाधौ + भावादौ यथायथं घञ् ।)

सन्नहनः । उपायः । ध्यानम् । सङ्गतिः ।
युक्तिः । इत्यमरः । ३ । ३ । २२ ॥ (प्रेम ।
यथा, देवीभागवते । ३ । १५ । १३ ।
“स्वीयान् गुणान् प्रविततान् प्रवदंस्तदासौ
तां प्रेमदामनुचकार च योगयुक्तः ॥”
“योगयुक्तः प्रेमयुक्तः ।” इति तट्टीकायां नील-
कण्ठः ॥ छलम् । इति मनुः । ८ । ११५ ॥
अस्य प्रमाणं योगदानशब्दे द्रष्टव्यम् ॥) अपू-
र्व्वार्थसम्प्राप्तिः । वपुःस्थैर्य्यम् । प्रयोगः । विष्क-
म्भादिः । भेषजम् । विश्रब्धघातकः । द्रव्यम् ।
कार्म्मणम् । इति मेदिनी ॥ नैयायिकः । धनम् ।
इति हेमचन्द्रः ॥ चारः । सूत्रम् । इति
त्रिकाण्डशेषः ॥ * ॥ (येन वाक्यं युज्यंते स
योगः । यथा, --
“तैलं पिबेच्चामृतवल्लिनिम्ब-
हिंस्राभयावृक्षकपिप्पलीभिः ।
सिद्धं बलाभ्याञ्च सदेवदारु
हिताय नित्यं गलगण्डरोगी ॥
सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धं
प्रयुक्तमेवं दूरस्थानामपि पदानामेकीकरणं
योगः ।” इत्युत्तरतन्त्रे पञ्चषष्टितमेऽध्याये
सुश्रुतेनोक्तम् ॥) अथ सप्तविंशतियोगानां
नामानि । यथा, --
पृष्ठ ४/०५१
“विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभन-
स्तथा ।
अतिगण्डः सुकर्म्मा च धृतिः शूलस्तथैव च ॥
गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ।
वज्रश्चासृक् व्यतीपातो वरीयान् परिघः शिवः ।
सिध्यः साध्यः शुभः शुक्रो ब्रह्मेन्द्रो वैधृतिस्तथा ॥”
तेषां वर्ज्जनीयभागा यथा, --
“परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् ।
त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः ॥
गण्डव्याघातयोः षट् च नव हर्षणवजयोः ।
वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥
शेषा यथार्थनामानो योगाः कार्य्येषु शोभनाः ॥”
अथ विष्कम्भादियोगानयनक्रमः ।
“रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः ।
गतगम्याश्च षष्टिघ्ना नाड्यो भुक्त्यन्तरोद्धृताः ॥”
इति सूर्य्यसिद्धान्तः ॥
विष्कम्भादिसप्तविंशतिसङ्ख्यककालविशेषः । तत्-
साधनमाह ।
“ग्रहकलाः सरबीन्दुकलाहृताः
खखगजैश्च भयोगमिती क्रमात् ।
अथ हृता स्वगतैष्यविलिप्तिका
निजजवेन गतागत नाडिकाः ॥”
इति भास्करीयसिद्धान्तशिरोमणौगणिता-
ध्यायः ॥ * ॥ यस्य ग्रहस्य नक्षत्रं ज्ञातु-
मिष्यते तस्य कलाः कार्य्याः । तथा चन्द्रार्क्कयो-
र्योगस्य कलाः कार्य्याः । उभयत्र शताष्टकेन
हृते प्रथमस्थाने गतभानि । द्बितीयस्थाने गत-
योगाः । अथ यान्यवशिष्टानि गतानि स्वस्व-
हारच्युतानि गम्यानि स्युः तेषां गतानां सम्ब-
न्धिन्यो विकलाः स्वस्वगतिभिर्भाज्याः । यकृभ्यते
ता गतनाडिका भवन्ति । यद्येष्याणां विकला
भक्तास्तदैष्या घटिका भवन्ति । इति मिता-
क्षरानाम्नी तत्कृतटीका ॥ आनन्दयोगो
यथा । भीमपराक्रमे ।
“अश्विनी सह सूर्य्येण सोमे मृगशिरस्तथा ।
अश्लेषा भौमवारेण बुधे हस्तः प्रकीर्त्तितः ॥
अनुराधा गुरोर्वारे विश्वदेवस्तु भार्गवे ।
वारुणं शनिसंयुक्तमानन्दोऽयं प्रकीर्त्तितः ॥”
योगवरा यथा । दीपिकायाम् ।
“भूमिपुत्त्रार्कयोरह्नि नन्दा मरु-
द्बारुणार्द्रान्त्यचित्राहिमूलाग्निभिः ।
भार्गवैणाङ्कयोरह्नि भद्रा
भवेत् फल्गुयुग्मोडुसंयुता ॥
सोमपुत्त्रस्य वारे जया स्यान्मृगो-
पेन्द्रगुर्व्विन्द्रयाम्याभिजिद्बाजिभिः ।
गीष्पतेरह्नि रिक्ता च युक्ता यदा
विश्वशक्राग्नियुक्पित्रादित्यम्बुभिः ॥
सूर्य्यसुतस्य दिने यदि पूर्व्वा
ब्रह्मदिनाधिपतिद्रविणैः स्यात् ।
योगवरास्त्रिभिरेव समेताः
सर्व्वसमीहितसिद्धिनियुक्ताः ॥”
अयमेव त्र्यमृतयोगः ॥ * ॥ अथामृतयोगः ।
“ध्रुवगुरुकरमूलापौष्णभान्यर्कवारे
हरियुगविधियुग्मे फल्गुनी भाद्रयुग्मे ।
दिवसकरतुरङ्गौ सर्व्वरीनाथवारे
गुरुयुगनलवातोपान्त्यपौष्णानि कौजे
दहनविधिशताख्यामैत्रभं सौम्यवारे
मरुददितिभपुष्यामैत्रभं जीववारे ।
भगयुगजयुगश्वो विष्णुमैत्रे सिताहे
श्वसनकमलयोनी सौरिवारेऽमृतानि ॥
यदि विष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् ।
हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥
सर्व्वदेशाविशेषेण फलं स्याच्छुभयोगजम् ॥
अमृतं सिद्धियोगश्च यद्येकस्मिन् दिने भवेत् ।
तद्दिनन्तु भवेद्दुष्टं मधुसर्पिर्यथा विषम् ॥” * ॥
अथ सिद्धिदग्धपापयमघण्टयोगाः । यथा, --
“नन्दाद्याः सिद्धियोगा भृगुजबुधकुजार्कीज्य-
वारैः प्रशस्ताः ।
सूर्य्येशाशाग्निषड्दृङ्मुनिमिततिथयोऽर्कादि-
वारैः प्रदग्धाः ॥”
राजमार्त्तण्डे ।
“मासा रुद्रादिशो रामा षट्पक्षमुनयस्तथा ।
दह्यन्ते तिथयः सप्त रव्यादिसप्तभिर्ग्रहैः ॥”
अपि च ।
“द्बादश्यर्कषुता भवेदशुभदा सोमेन चैकादशी
भौमे चापि युता तथैव दशमी नेष्टा तृतीया
बुधे ।
षही नेष्टफलप्रदा सुरगुरौ शुक्रे द्बितीया तथा ।
सर्व्वारम्भविनाशविघ्नजननी सूर्य्यात्मजे सप्तमी ॥
पापोऽर्काहे विषाखात्रययममुडुपस्याह्नि
चित्राचतुष्कं
तोयं विश्वाभिजिद्भं त्वथ कुजदिवसे स्वत्रयं
विश्वरुद्रौ ।
ज्ञाहे मूला विशाखा यमधनतुरगान्त्यानि जैवे-
ऽह्नि पित्रं
रोहिण्यार्द्रा यमेन्दूशतभमथ भृगोरह्नि पुष्या-
त्रयेन्द्रौ ॥
सौराहे हस्तयुग्मार्य्यमयमजलयुक्पौष्णपुष्या-
धनानि
घण्टोऽखण्डर्क्षयुक्ते स्वगृहपतिदिने सौम्यवारे
ऽर्य्यमापि ॥” * ॥
अथोत्पाटादियोगाः ।
“रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः ।
उत्पाटा मृत्यवः काणा अमृतानि यथा-
क्रमम् ॥”
अथ करकचायोगः ।
“वाजिचित्रोत्तराषाढा मूलपाशीज्यभान्तकाः ।
सूर्य्यादिवारसंयुक्ता योगाः करकचाः स्मृताः ॥”
अथ मृत्युयोगः ।
“आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः ।
बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥”
अथ यमघण्टादीनां वर्ज्यकालनिर्णयः ।
“यमघण्टे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः ।
अन्येषां पापयोगानां भध्याह्नात् परतः शुभम् ॥”
अथ शुभचन्द्रेण करकचादिशान्तिः ।
“अयोगेषु च सर्व्वेषु पूर्ब्बयामं परित्यजेत् ।
अयोगाश्च विनश्यन्ति चन्द्रशुद्धिहता इमे ॥
करकचा मृत्युयोगाश्च दिनं दग्धं तथा परे ।
शुभे चन्द्रे प्रणश्यन्ति वृक्षा वज्रहता इव ॥” * ॥
विरुद्धयोगानां देशविशेषे प्रतिप्रसवो यथा ।
श्रीपतिः ।
“विरुद्धसंज्ञास्तिथिवारयोगा
नक्षत्रवारप्रभवाश्च ये वै ।
हूनाङ्गवङ्गेषु खशेषु वर्ज्याः
शेषेषु देशेषु न ते विरुद्धाः ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
अथ क्रियायोगः । मुनय ऊचुः ।
“दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महालयम् ।
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ॥
इत्युक्तः स तदा प्राह क्रियायोगं महात्मनाम् ।
नराणामुपकाराय दुःखविच्छित्तिकारकम् ॥
वह्निरुवाच ।
आराधयध्वं विश्वेशं जगतां कारणं परम् ।
केशवन्तन्निरापेक्षा एवमुक्तं प्रवास्यथ ॥
इष्ट्या पूजानमस्कारैः शुश्रूषाभिरहर्निशम् ।
व्रतोपवासैर्विविधैर्ब्राह्मणानाञ्च तर्पणैः ॥
तैस्तैश्चात्महितैः कामैर्ये स्वचेतसि तुष्टिदाः ।
भवेयुरपरिच्छेदादाराधयत केशवम् ॥
तन्निष्ठास्तद्गतधियस्तत्कर्म्माणस्तदाश्रयाः ।
तद्दृष्टयस्तन्मनसः सर्व्वस्मिन् स इति स्थितः ॥
समस्तान्यथ कर्म्माणि तत्र सर्व्वात्मनात्मनि ।
संन्यस्यध्यं स वः कर्त्ता समस्तावरणक्षयः ॥
परः पराणां परमः स एको
नरोत्तमो यस्य पदन्न भिन्नम् ।
चराचरं विश्वमिदं समन्ता-
दचिन्त्यरूपन्त्वपरिग्रहं यत् ॥
तमाराध्य जगन्नाथं क्रियायोगेन वाडवाः ।
अग्नौ मोक्षं परं जग्मुस्तस्मात्तन्मोक्षकारणम् ॥
संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् ।
विष्णुपोतं विना नान्यत् किञ्चिदस्ति परायणम् ॥
उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम् ।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ॥
यूयमेकाग्रचित्ता हि संश्रिता मधुसूदनम् ।
जन्ममृत्युजराग्राहं संसारं सन्तरिष्यथ ॥
क्रियायोगपराणीह मुक्तिकार्य्याण्यनेकशः ।
समाराध्य जगन्नाथं राजानो मोक्षमाप्नुयुः ॥”
इति वह्निपुराणम् ॥ * ॥
अथ योगसाधनम् । केशिध्वज उवाच ।
“योगस्वरूपं खाण्डिक्य ! श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धस्य विषयासङ्गि मुक्तेर्निर्व्विषयं तथा ॥
विषयेभ्यः समाहृत्य विज्ञानात्मा मनो मुने ।
चिन्तयेन्मुक्तये तेन ब्रह्मभूयं परेश्वरम् ॥
आत्मभावं नयत्येवं तद्ब्रह्मध्यायिनं मुने ।
विकार्य्यञ्चात्मनः शक्त्या लोहमाकर्षको यथा ॥
पृष्ठ ४/०५२
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥
एवमत्यन्तवैशिष्ट्ययुक्तधर्म्मोपलक्षणः ।
यस्य योगः स वै योगी मुमुक्षुरभिधीयते ॥
योगयुक् प्रथमं योगी युञ्जानः सोऽभिधीयते ।
विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिवान् ॥
यद्यन्तरायदोषेण दुष्यते चास्य मानसम् ।
जन्मान्तरैरभ्यसतो मुक्तिः पूर्व्वस्य जायते ॥
विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्म्मा च यो-
ऽचिरात् ॥
ब्रह्मचर्य्यमहिंसाञ्च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्वं मनो नयन् ॥
म्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् ।
कुर्व्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥
एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः ।
विशिष्टफलदाः काम्या निष्कामानां विमु-
क्तिदाः ॥
एकं भद्रासनादीनां समास्थाय गुणैर्युतः ॥
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥
प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यत् ।
प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥
परस्परेणाभिभवं प्राणापानौ यदानिलौ ।
कुरुतः सद्बिधानेन तृतीयः संयमात्तयोः ॥
तस्य चालम्बनवतः स्थूलरूपं द्विजोत्तम ! ।
आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्य्याच्चिन्तानुकारीणि प्रत्याहारपरायणः ॥
वश्यता परमा तेन जायतेऽतिचलात्मनाम् ।
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥
प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः ।
वशीकृतैस्ततः कुर्य्यात् स्थितं चेतः शुभाश्रये ॥
श्रीखाण्डिक्य उवाच ।
कथ्यतां मे महाभाग ! चेतसो यः शुभाश्रयः ।
यदाधारमशेषं तद्धन्ति दोषफलोद्भवम् ॥
श्रीकेशिध्वज उवाच ।
आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः ।
भूप ! मूर्त्तममूर्त्तञ्च परञ्चापरमेव च ॥
त्रिविधा भावना विप्र विश्वमेतन्निबोध मे ।
ब्रह्मख्या कर्म्मसंज्ञा च यथा चैवोभयात्मिका ॥
ब्रह्मभावात्मिका ह्येका कर्म्मभावात्मिका परा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥
सनन्दनादयो ब्रह्मभावभावनया युताः ।
कर्म्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥
हिरण्यगर्भादिषु च ब्रह्मकर्म्मात्मिका द्बिधा ।
बोधाधिकारयुक्तेषु विद्यते भावभावना ॥
अक्षीणेषु समस्तेषु विशेषज्ञानकर्म्मसु ।
विश्वमेतत् परं चान्यद्भेदभिन्नदृशां नृप ! ॥
प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥
तच्च विष्णोः परं रूपमरूपस्याजमक्षरम् ।
विश्वखरूपवैरूप्यलक्षणं परमात्मनः ॥
न तद्योगयुजा शक्यं नृप ! चिन्तयितुं यतः ।
ततः स्थूल हरे रूपं चिन्त्यं यद्बिश्वगोचरम् ॥
हिरण्यगर्भो भगवान् वासवोऽथ प्रजापतिः ।
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥
गन्धर्व्वयक्षदैत्याद्याः सकला देवयोनयः ।
मनुष्याः पशवः शैलाः समुद्राः सरितो द्रुमाः ॥
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।
प्रधानादि विशेषान्तं चेतनाचेतनात्मकम् ॥
एकपादं द्बिपादञ्च बहुपादमपादकम् ।
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥
एतत् सर्व्वमिदं विश्वं जगदेतच्चराचरम् ।
परं ब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्या कर्म्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥
यया क्षेत्रज्ञशक्तिः सा चेष्टिता नृप ! सर्व्वगा ।
संसारतापा खिलानवाप्नोत्यनुसन्ततान् ॥
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्व्वभूतेषु भूपाल ! तारतम्येन लक्ष्यते ॥
अप्राणवत्सु स्वल्पाल्पा स्थावरेषु ततोऽधिका ।
सरीसृपेऽपि तेभ्योऽपि अतिशक्त्या पतत्त्रिषु ॥
पतत्त्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवोऽधिकाः ।
पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥
एभ्योऽपि नागगन्धर्व्वा यक्षाद्या देवता नृप ! ।
शक्रः समस्तदेवेभ्यस्ततश्चापि प्रजापतिः ॥
हिणण्यगर्भोऽति ततः पुंसः शक्त्युपलक्षितः ।
एतान्यशेरूपस्य तस्य रूपाणि पार्थिव ! ॥
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ।
द्वितीयं विष्णुसंज्ञस्य गोगिध्येयं महामते ॥
अमूर्त्तं ब्रह्मणो रूपं यत् सदित्युच्यते बुधैः ।
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ॥
तद्बिश्वरूपरूपं वै रूपमन्यद्धरेर्महत् ।
समस्तशक्तिरूपाणि तत् करोति जनेश्वर ! ॥
देवतिर्य्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ।
जगतामुपकाराय न सा कर्म्म निमित्तजा ।
चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥
तद्रूपं विश्वरूपस्य तस्य योगयुजो नृप ! ।
चिन्त्यमात्मविशुद्ध्यर्थं सर्व्वकिल्विषनाशनम् ॥
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्ते स्थितो विष्णुर्योगिनां सर्व्वकिल्विषम् ।
तस्मात् समस्तशक्तीनामाधारे तत्र चेतसः ।
कुर्व्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥
शुभाश्रयः सचित्तस्य सर्व्वगस्य तथात्मनः ।
त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥
अन्ये च पुरुषव्याघ्र ! चेतसो ये व्यपाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्म्मयोनयः ॥
मूर्त्तं भगवतो रूपं सर्व्वापाश्रयनिस्पृहम् ।
एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्य्यते ॥
तच्च मूर्त्तं हरे रूपं यादृक्चिन्त्यं नराधिप ! ।
तच्छ्रूयतामनाधारा धारणा नोपपद्यते ॥
प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥
समकर्णान्तविन्यस्तचारुकर्णविभूषणम् ।
कम्बुग्रीवं मुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥
बलीत्रिभङ्गिना मग्ननाभिना चोदरेण वै ।
प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥
समस्थितोरुजङ्घञ्च सुस्थिराङ्ध्रिकराम्बुजम् ।
चिन्तयेद्ब्रह्मभूतं तं पीतनिर्म्मलवाससम् ॥
किरीटचारुकेयूरकटकादिविभूषितम् ।
शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ॥
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ॥
तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥
व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म्म कुर्व्वतः ।
नापयाति तदा चित्तात् सिद्धां मन्येत तां तदा ॥
ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः ।
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥
सा यदा धारणा तद्बदवस्थानवती ततः ।
किरीटकेयूरमुखैर्भुषणै रहितं स्मरेत् ॥
तदेकावयवं देवं चेतसापि पुनर्ब्बुधः ।
कुर्य्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥
तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिस्पृहा ।
तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् ।
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥
विज्ञानं प्रापकं प्राप्य परे ब्रह्मणि पार्थिव ! ।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥
क्षेत्रज्ञः करणी ज्ञानं करणं तेन तस्य तत् ।
निष्पाद्य मुक्तिकार्य्यं वै कृतकृत्यं निवर्त्तते ॥
तद्भावभावमापन्नस्ततोऽसौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणी भेदमसन्तं कः करिष्यति ॥
इत्युक्तस्ते मया योगः खाण्डिक्य ! परिपृच्छते ॥”
इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ * ॥
ब्रह्मकृतयोगो यथा ।
“सुखं योगासनं कृत्वा बभूव संपुटाञ्जलिः ।
पुलकाङ्कितसर्व्वाङ्गः सास्रु नेत्रोऽतिदीनवत् ॥
इडां सुषुम्नां मेध्याञ्च पिङ्गलां नलिनीं धुराम् ।
नाडीषट्कञ्च योगेन निरुध्य च प्रयत्नतः ॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धं परमाज्ञाख्यं षट्चक्रञ्च निरुध्य च ॥
लङ्घनं कारयित्वा च तं षट्चक्रं क्रमाद्विधिः ।
ब्रह्मरन्ध्रं समानीय वायुवद्धं चकार ह ॥
निरुध्य वायुं मेध्यान्तामानीय हृदयाम्बुजम् ।
तं वायुं भ्रामयित्वा च योजयामास मेध्यया ॥
एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा)
जजाप परमं मन्त्रं तं तस्यैकादशाक्षरम् ॥
मुहूर्त्तञ्च जपं कृत्वा ध्यायं ध्यायं पदाम्बुजम् ।
ददर्श हृदयाम्भोजे सर्व्वं तेजोमयं मुने ॥
तत्तेजसोऽन्तरे रूपमती पमुमनोहरम् ।
द्विभुजं मुरलीहस्तं भूषितं पीतवाससा ॥
श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम् ।
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम् ॥
नवीनजलदाकारश्यामसुन्दरविग्रहम् ।
स्थितं जन्तुषु सर्व्वेषु निर्लिप्तं साक्षिरूपिणम् ॥
पृष्ठ ४/०५३
स्वात्मारामं पूर्णकामं जगद्व्यापि जगत्परम् ।
सर्व्वस्वरूपं सर्व्वेषां बीजरूपं सनातनम् ॥
सर्व्वाधारं सर्व्ववरं सर्व्वशक्तिसमन्वितम् ।
सर्व्वाराध्यं सर्व्वगुरुं सर्व्वमङ्गलकारणम् ॥
सर्व्वमन्त्रस्वरूपञ्च सर्व्वसम्पत्करं वरम् ।
यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च ।
दृष्ट्वा च परमाश्चर्य्यं तुष्टाव परमेश्वरम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णखण्डे २० अध्यायः ॥ * ॥
अथ ध्यानयोगः । हरिरुवाच ।
“अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ।
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ॥
तत् शृणुष्व महेशान ! सर्व्वपापविनाशनम् ।
विष्णुः सर्व्वेश्वरोऽनन्तो यद्भूमिपरिवर्ज्जितः ॥
वासुदेवो जगन्नाथो ब्रह्मात्मा अहमेव तु ।
देहिदेहस्थितो नित्यः सर्व्वदेहविवर्ज्जितः ॥
देहधर्म्मविहीनश्च क्षराक्षरविवर्ज्जितः ।
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ॥
तद्धर्म्मरहितः स्रष्टा नामगोत्रविवर्ज्जितः ।
मन्ता मनःस्थितो देवो मनसा परिवर्ज्जितः ॥
मनोधर्म्मविहीनश्च विज्ञानाव्यय एव च ।
बोद्बा बुद्धिस्थितः साक्षी सर्व्वबोधविवर्ज्जितः ॥
बुद्धिधर्म्मविहीनश्च सर्व्वः सर्व्वगतोऽमलः ।
सर्व्वप्राणविनिर्मुक्तः प्राणधर्म्मविवज्जितः ॥
प्राणिप्राणो महाशान्तो भयेन परिवर्ज्जितः ।
अहङ्कारादिहीनश्च तद्धर्म्मपरिवर्ज्जितः ॥
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः ।
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्ज्जितः ॥
तुरीयः परमो धाता दृग्रूपो गुणवर्ज्जितः ।
मुक्तो बुद्धो जनव्यापी सत्य आत्मास्म्यहं शिवः ॥
एवं ये मानवा विज्ञा ध्यायन्तीशपरं पदम् ।
प्राप्नुयुस्ते च तद्रूपं नात्र कार्य्या विचारणा ॥
इति ध्यानं मया ख्यातं तव शङ्कर ! सुव्रत ! ।
पठेद्य एतत् सततं विष्णुलोकं स गच्छति ॥”
इति गारुडे १४ अध्यायः ॥
अथाष्टाङ्गयोगः ।
“मुक्तिरष्टाङ्गविज्ञानात् संक्षेपात्तद्वदे शृणु ।
वमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंस-
नम् ॥
सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् ।
अमैथुनं ब्रह्मचर्य्यं सर्व्वत्यागोऽपरिग्रहः ॥
नियमाः पञ्च सत्याद्या वाह्यमाभ्यन्तरं द्विधा ।
शौचं तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः ॥
स्वाध्यायः स्यान्मत्रजापः प्रणिधानं हरेर्यजिः ।
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥
मन्त्रध्यानयुतो गर्भो विपरीतो ह्यगर्भकः ।
अगर्भात्तु सगर्भस्थः प्राणायामस्ततोऽधिकः ॥
एवं द्बिधा त्रिधाप्युक्तः पूरणात् पूरकः स च ।
कुम्भको निश्चलत्वात् स रेचकाद्रेचकस्त्रिधा ॥
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ।
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ।
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ।
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ।
विज्ञानमानन्दो ब्रह्म सत्तत्त्वमसि केवलम् ॥
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमनिन्द्रियम् ।
अहं मनो बुद्धिमरुदहङ्कारादिवर्ज्जितम् ॥
जाग्रत्स्वप्नसुषुप्त्यादिमुक्तं ज्योतिस्तदीयकम् ।
नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् ॥
योऽसावादित्यपुरुषः सोऽसावहमखण्ड ॐ ।
इति ध्यायन् विमुच्येत ब्राह्मणो भवबन्धनात् ॥”
इति गारुडे ४९ अध्यायः ॥ * ॥
अपि च ।
“एतत्ते कथितं ज्ञानं योगञ्चेमं निंबोध मे ।
यं प्राप्य ब्रह्मणो योगी शाश्वतानन्यतां व्रजेत् ॥
प्रागात्मैवात्मना जेयो योगिनां स हि दुर्ज्जयः ।
कुर्व्वीत तज्जये यत्नं तस्योपायं शृणुष्व मे ॥
प्राणायामैर्दहेद्द्वोषान् धारणाभिश्च किल्विषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्
गुणान् ॥
यथा पर्व्वतधातूनां ध्मातानां दह्यते मलम् ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥
प्रथमं साधनं कुर्य्यात् प्राणायामस्य योगवित् ।
प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।
तस्य प्रमाणं वक्ष्यामि तदलर्क ! शृणुष्व मे ॥
लघुर्द्वादशमात्रस्तु द्बिगुणः स तु मध्यमः ।
त्रिगुणाभिश्च मात्राभिरुत्तरीय उदाहृतः ॥
निमेषोन्मेषणे मात्रा तालो लघ्वक्षरो मतः ।
प्राणायामस्य संख्यार्थं स्मृतो द्बादशमात्रकः ॥
प्रथमेन जयेत् स्वेदं मध्यमेन तु वेपथुम् ।
विषादं हि तृतीयेन जयेद्दोषानुक्रमात् ॥
मृदुत्वं सेव्यमानास्तु सिंहशार्द्दूलकुञ्जराः ।
यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥
वश्यं मत्तं यथेच्छातो नागं नयति हस्तिपः ।
तथैव योगी च्छन्देन प्राणं नयति साधितम् ॥
यथा हि साधितः सिंहो मृगान् हन्ति न
मानुषान् ।
तद्वन्निषिद्धः पवनः किल्विषं न नृणां तनुम् ॥
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।
श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥
ध्वस्तिः प्राप्तिस्तथा संवित् प्रसादश्च महीपते ।
स्वरूपं शृणु वै तेषां कथ्यमानमनुक्रमात् ॥
कर्म्मणामिष्टदुष्टानां जायते फलसंक्षयः ।
चेतसो विकषायत्वं यत्र सा ध्वस्तिरुच्यते ॥
ऐहिकामुष्मिकान् कामान् लोभमोहात्मकांश्च
यान् ।
निरुध्यास्ते सदा योगी प्राप्तिः सा सार्व्व-
कालिकी ॥
अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ।
विजानातीन्दुसूर्य्यर्क्षग्रहाणां ज्ञानसम्पदा ॥
तुल्यप्रभावस्तु यदा योगी प्राप्नोति संविदम् ।
तदा संविदिति ख्याता प्राणायामस्य सा
स्थितिः ॥
यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।
इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ।
शृणुष्व च महीपाल ! प्राणायामस्य लक्षणम् ।
युञ्जतश्च यथायोगं यादृग्विहितमासनम् ॥
पद्ममर्द्धासनं वापि तथा स्वस्तिकमासनम् ।
आस्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि ॥
समः समासनो भूत्वा संहृत्य चरणावुभौ ।
संवृतास्यस्तथा चोरू सम्यग्विष्टभ्य वाग्यतः ॥
पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः ।
किञ्चिदुन्नामितशिरा दन्तैर्द्दन्तान्न संस्पृशेत् ।
संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
रजसा तमसो वृत्तिं सत्वेन रजसस्तथा ।
संस्थाप्य निर्म्मले सत्वे स्थितो युञ्जीत योगवित् ॥
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च ।
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥
यस्तु प्रत्याहरेत् कामान् कूर्म्मोऽङ्गानीव सर्व्वशः ।
स त्वात्मरतिरेकस्थः पश्यन्नात्मानमात्मनि ॥
सवाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ।
पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥
प्राणायामा दश द्वौ च धारणा साभिधीयते ।
द्विधारणा स्मृतो योगो योगिमिस्तत्त्वदृष्टिभिः ॥
तथा वै योगयुक्तस्य योगिनो नियतात्मनः ।
सर्व्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥
वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक् ।
व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् ॥
इत्थं योगी जिताहारः प्राणायामपरायणः ।
जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ॥
दोषान् व्याधिं तथा मोहमाक्रान्ता भूरनि-
र्जिता ।
विवर्द्धयति नारोहेत्तस्माद्भूमिमनिर्ज्जिताम् ॥
प्राणानामुपसंरोधात् प्राणायाम इति स्मृतः ।
धारणेत्युच्यते चेयं धार्य्यते यन्मनोऽनया ॥
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि जितात्मभिः ।
प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ॥
उपायश्चात्र कथितो योगिभिः परमर्षिभिः ।
येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ॥
यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः ।
आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ॥
प्राग्नाभ्यां हृदये वाथ तृतीये च तथोरसि ।
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्द्धसु ॥
किञ्चित्तस्मात् परस्मिंश्च धारणा परमा स्मृता ।
दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥
नाध्मातः क्षुधितः श्रान्तो न च व्याकुललोचनः ।
युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमात्मनः ॥
नातिशीते न चैवोष्णे द्बन्द्बे नाम्ब्वनिलात्मके ।
कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ॥
सशब्देऽग्निजलाभ्यासे जीर्णे गोष्ठे चतुष्पथे ।
शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ॥
सभये कूपतीरे वा चैत्यबल्मीकसञ्चये ।
देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्ज्जयेत् ॥
सत्त्वस्यानुपपत्तौ च देशकालविवर्ज्जिते ।
नासतो दर्शनं योगे तस्मात्तं परिवर्ज्जयेत् ॥
दोषानेताननादृत्य मूढत्वाद्यो युनक्ति वै ।
पृष्ठ ४/०५४
विघ्नाय तस्य ये दोषा जायन्ते तान्निबोध मे ॥
वाधिर्य्यं जडतालोपः स्मृतेर्मू कत्वमन्धता ।
ज्वरश्च जायते सद्यस्तद्बदज्ञानयोगिनः ॥
प्रमादाद्योगिनो दोषा यथैते स्युश्चिकित्सितम् ।
तेषां नाशाय कर्त्तव्यं योगिनां तं निबोध मे ॥
स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् ।
वातगुल्मप्रशान्त्यर्थं गुदावर्त्ते ततो दधि ॥
यवागूर्व्वापि पवने वायुग्रन्थीन् परिक्षिपेत् ।
तद्वत् कम्पे महाशैलं स्थिरं मनसि धारयेत् ॥
विघाते वचसो वापि वाधिर्य्ये श्रवणेन्द्रिये ।
तथैवाम्लफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये ॥
यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारि-
णीम् ।
धारयेद्धारणामुष्णे शीतां शीते विदाहिनीम् ॥
कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताड-
येत् ।
लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥
द्यावापृथिव्यौ वाय्वग्नी व्यापिनावनुधारयेत् ।
अमानुषात् सत्त्वजाताद्वाधास्थितिचिकित्-
सितम् ॥
अमानुषं सत्त्वमन्तर्योगिनं प्रविशेत् यदि ।
वाय्वग्निधारणा चैवं देहसंस्थं विनिर्दहेत् ॥
एवं सर्व्वात्मना कार्य्या रक्षा योगविदा नृप ! ।
धर्म्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥
प्रवृत्तिलक्षणा ख्याता योगिनो विस्मयात्तथा ।
विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥
अलौल्यमारोग्यमनिष्ठुरत्वं
गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वरसौम्यता च
योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥
अनुरागं जनो याति परोक्षे गुणकीर्त्तनम् ।
न विभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥
शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न जायते ।
न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥”
इति मार्कण्डेयपुराणे योगिचिकित्सानाम ३९
अध्यायः ॥ (तथा च ।
ईश्वर उवाच ।
“मय्येकचित्तता योग इति पूर्ब्बं निरूपितम् ।
साधनान्यष्टधा तस्य प्रवक्ष्याम्यधुना शृणु ॥
यमाश्च नियमास्तावदासनान्यपि षण्मुख ! ।
प्राणायामस्ततः प्रोक्तः प्रायाहारश्च धारणा ॥
ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते ।
अहिंसा सत्यमस्तेयं द्रह्मचर्य्यापरिग्रहौ ॥
यमाः संक्षेपतः प्रोक्ता नियमाः शृणु पुत्त्रक ! ।
तपः स्वाध्यायसन्तोषः शौचमीश्वरपूजनम् ॥
नियमाः कथिता तत्स ! योगसिद्धिप्रदायिनः ।
सर्व्वेषामेव भूतानामक्लेशजननं हि यत् ॥
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी ।
यथार्थकथनं सत्यमस्तेयमधुना शृणु ॥
चौर्य्येण वा बलेनापि परस्वहरणं च यत् ।
स्तेयमित्युच्यते सद्भिरस्तेयं तस्य वर्ज्जनम् ॥
सर्व्वत्र मैथुनत्यागो ब्रह्मचर्य्यमिहोच्यते ।
द्रव्याणामप्यनादानमापद्यपि यथेच्छया ॥
अपरिग्रह इत्युक्तो योगसिद्धैस्तु साधनम् ।
चान्द्रायणादिना यत्तु शरीरस्य च शोषणम् ॥
तत्तपः कथितं पुत्त्र ! साध्यायमधुना शृणु ।
प्रणवः शतरुद्रीयं तथाथर्व्वशिरःशिखा ॥
एतेषां यो जपः पुत्त्र ! स्वाध्याय इति कीर्त्तितः ।
यदृच्छालाभसन्तुष्टः सन्तोष इति पठ्यते ॥
बाह्ये चाभ्यन्तरे चापि शुद्धिः शौचं विधीयते ।
स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्म्मभिः ॥
मयि भक्तिर्दृढा पुत्त्र एतदीश्वरपूजनम् ।
यमाश्च नियमाः प्रोक्ताः संक्षेपान्न तु विस्तरात् ॥
यमैश्च नियमैर्य्युक्तो योगी मोक्षाय संस्तुतः ।
स्थिरबुद्धिरसंमूढः पूर्ब्बमासनमभ्यसेत् ॥
पद्मकं स्वस्तिकं पीठं सैंहं कौक्कुटकौञ्जरम् ।
कौर्म्मं वज्रासनं चैव वैयाघ्रं चार्द्धचन्द्रकम् ॥
दण्डं तार्क्ष्यासनं शूलं खड्गं मुद्गरमेव च ।
मकरं त्रिपथं काष्ठं स्थाणुर्वा हस्तिकर्णिकम् ।
भीमं वीरासनं चापि वाराहं मृगवैणिकम् ॥
क्रौञ्चं चानालिकं चापि सर्व्वतोभद्रमेव च ।
इत्येतान्यासनान्यत्र सप्तविंशतिसंख्यया ॥
योगसंसिद्धिहेतोस्तु कथितानि तवानघ ! ॥
एषामेकतरं बद्ध्वा गुरुभक्तिपरायणः ।
द्बन्द्वातीतो जयेत्प्राणानभ्यासक्रमयोगतः ॥
अन्तश्चराणां वायूनां बाह्याभ्यररोधनम् ।
प्राणायाम इति प्रोक्तो द्विविधः स च कथ्यते ॥
अगर्भश्च सगर्भश्च तयोराद्योऽजयः स्मृतः ।
द्बितीयः सजयः प्रोक्तो ध्रुवं व्याहृतिमातृभिः ॥
रेचकः शून्यकश्चैव पूरकः कुम्भकस्तथा ।
एवं चतुर्व्विधो भेदः प्राणायामेऽत्र सूरिभिः ॥
असूनां नाडयः प्रोक्ता गमागमलयाश्रयाः ।
रेचनाद्रेचकः प्रोक्तः शून्यकस्तु यथास्थितः ॥
पूरकः पूरणाद्बायोस्तन्निरोधाच्च कुम्भकः ।
देहिनो दक्षिणे भागे पिङ्गला नाडिका
स्मृता ॥
पितृयोनिरिति ख्याता भानुस्तत्राधिदैवतम् ।
दक्षिणेतरगा या च इडा सा नाडिका स्मृता ।
देवयोनिरिति ख्याता चन्द्रस्तत्राधिदैवतम् ॥
एतयोरुभयोर्म्मध्ये सुषुम्ना नाम विश्रुता ॥
पद्मसूत्रनिभा नाडी कार्य्याख्या ब्रह्मदैवतम् ।
ततः शून्यं निरालम्बं मध्ये स्वात्मनि योजयेत् ॥
बाह्यस्थाद्रोधनाद्बायोः शून्यकत्वं विनिर्द्दिशेत् ।
चन्द्रदैवतया भूयः पिबेदमृतमुत्तमम् ॥
आप्यायनं भवेत्तेन प्लावनं कल्मषस्य तु ।
आपूर्य्योदरसंस्थं तु उच्चैर्वायुं निरोधयेत् ॥
कुम्भकः कुम्भवत्स स्याद्रेचको वर्त्तितस्य च ।
उत्क्षिप्य प्रयतो वायुमजदैवत्यमानयेत् ॥
अङ्गुष्ठाग्रान्तमारभ्य ब्रह्मरन्ध्रेण मोचयेत् ।
सङ्कोच्य कूचिकाचक्रमूर्द्धं नीत्वा रसात्रयम् ॥
संक्षोभ्य शङ्खिनीं सम्यक्ततो ब्रह्मगुहां नयेत् ।
अनेन शोधयेन्मार्गमैश्वरं विमलं मुनिः ॥
क्रमेणाभ्यासयोगेन योगसंसिद्धिभाग्भवेत् ।
मुमुक्षूणां सदा वत्स ! योगाङ्गं योगसिद्धये ॥
विहाय वह्निमार्गं तु अङ्गुल्यास्तु शनैः शनैः ।
सौम्येनाकर्षयेद्बायुं नाभावाकृष्य धारयेत् ॥
धारयन्नियतप्राणो योगैश्वर्य्यममन्वितः ।
जायते वत्सराद्योगी जरामरणवर्ज्जितः ॥
वायुमाकर्षयेद्बाह्यं वामया चोदरं भवेत् ।
नाभिनासान्तराध्यायं स्त्रिः प्राणांश्च जयेद्-
ध्रुवम् ॥
मनःस्थैर्य्यं भवेद्वत्स ! त्रिषु स्थानेषु धारणात् ।
अङ्गुष्ठनाभिनासाग्रे वायुं योगी जितासनः ॥
अपानं कटिदेशे तु पृष्ठतो वै विनिर्द्दिशेत् ।
सदा तत्रैव सन्धेय एष वायुजयक्रमः ॥
रेचकः पूरकश्चैव कुम्भकश्च न विद्यते ।
निरालम्बे मनः कृत्वा क्षणात्प्राणजितो भवेत् ॥
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।
निग्रहः प्रोच्यते यस्तु प्रत्याहारः स उच्यते ॥
यद्यत् पश्यति तत्सर्व्वं पश्येदात्मवदात्मनि ।
प्रत्याहारः स वै प्रोक्तो योगसाधनमुत्तमम् ॥
कर्म्मेन्द्रियाणां पञ्चाणां पञ्चमाद्येतरे जने ।
यदि तत्र स्थिरो लोको मनो याति तदालयम् ॥
उद्वातान् दश पञ्चैव कारयेद्धारणां बुधः ।
प्राणवायुं निवार्य्यैव मनः सूर्य्येऽन्तरे क्षिपेत् ॥
देवांश्च सिद्धान् गन्धर्व्वांश्चारणान् खेचरान्
गणान् ।
षण्मासाभ्यासयोगेन सूक्ष्मज्योतिः प्रपश्यति ॥
दृष्टे न स्याज्जरा मृत्युः सर्व्वज्ञश्च प्रजायते ।
स्फोटाख्या नाडिका प्रोक्ता कूर्म्मलोकस्तदा-
न्तरे ॥
उच्चार्य्य बिन्दुतत्त्वं तु तस्यान्ते गुणवत् स्मरेत् ।
भूतं भव्यं भविष्यञ्च वर्त्तमानञ्च दूरतः ॥
ज्ञानं यत्तद्भवेन्नूनं स्फोटाख्ये ज्ञानमभ्यसेत् ।
ललाटे मूर्ध्निहृदये सदाशिवमनुस्मरेत् ॥
शुद्धस्फटिकसङ्काशं जटाजूटेन्दुशेखरम् ।
पञ्चवक्त्रं दशभुजं सर्पयज्ञोपवीतिनम् ॥
ध्यात्वैवमात्मनि विभुं ध्यानं तत् सूरयो विदुः ।
ततोन्मनस्त्वं भवति न शृणोति न पश्यति ॥
न जिघ्रति न स्पृशति न किञ्चिद्वा समीक्षते ।
गुह्योदरादिस्थानेषु वायुं नासां विचिन्तयेत् ॥
ईशोऽहमिति योगीन्द्रः परानन्दैकविग्रहः ।
जरामरणनिर्म्मुक्तः शिव एव भवेन्मुनिः ॥
गमनागमनाभ्यां यो हीनो वै विषयोज्झितः ।
एकान्त्ररोन्मनीभावः समाधिरभिधीयते ॥
न बृहद्बस्तुनश्चिन्ता न सूक्ष्मस्यापि चिन्तनम् ।
न बहिर्नान्तरं पुत्त्र ! ब्रह्मग्रन्थिविभेदनम् ॥
न स्थूलं न कृशं वापि न ह्रस्वं नापि लोपितम् ।
न शुक्लं नापि वा पीतं न कृष्णं नापि कर्बुरम् ॥
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् ।
आत्मानं सर्व्वभूतानां परस्तात्तमसं स्थितम् ॥
सर्व्वस्याधारमव्यक्तमानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहरं शिवम् ॥
तदन्तः सर्व्वभूतानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ॥
महान्तं पुरुषं ब्रह्म ब्रह्माणं ब्रह्म चाव्ययम् ।
पृष्ठ ४/०५५
ओङ्कारान्ते तथात्मानं संस्थाप्य परमात्मनि ॥
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ।
कारणं सर्व्वभावानामानन्दैकरसाश्रयम् ॥
पुराणं पुरुषं शम्भुं ध्यायेन्मुच्येत बन्धनात् ।
शिवभक्तिं विना यस्तु संसारं तर्त्तुमिच्छति ॥
मूढो यथा श्वलाङ्गूलैः समुद्रं तर्त्तुमिच्छति ।
तथा विना शम्भुसेवां संसारतरणं न हि ॥
सर्व्वसौख्यप्रदः शम्भुर्नान्या काचन देवता ।
तस्मात् सर्व्वप्रयत्नेन महादेवं प्रपूजयेत् ॥
यद्वा गुहायां प्रकृतं जगत्संमोहनालये ।
विचिन्त्य परमं व्योम सर्व्वभूतैककारणम् ॥
जीवनं सर्व्वमूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षवः ॥
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
पातुं तिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥
नैकलक्षं द्बिलक्षं वा त्रिलक्षं न नवात्मकम् ।
सर्व्वोपाधिविनिर्म्मुक्तं समाधिरभिधीयते ॥
बाह्ये चाभ्यन्तरे पुत्र ! यत्र यत्र मनः क्षिपेत् ।
तत्र तत्रात्मनो रूपमानन्दमनुभूयते ॥
संस्थाप्य मयि चात्मानं परं ज्योतिषि निर्गुणे ।
मुहूर्त्तं तिष्ठतः साक्षात्तस्य चानुभवो भवेत् ॥
सर्व्वज्ञः प्ररिपूर्णश्च जरामरणवर्ज्जितः ।
मत्प्रसादाद्भवेद्योगी नान्यथा क्रौञ्चसूदन ! ॥
तस्मात् सर्व्वं परित्यज्य कर्म्मजातं सुदुष्करम् ।
मामेकं शरणं गच्छेदज्ञानं नाशयाम्यहम् ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च
सङ्कराः ।
मद्भक्तिभावना पूता यान्ति मत्परमं पदम् ॥
जगतः प्रलये प्राप्ते नष्टे च कमलोद्भवे ।
मद्भक्ता नैव नश्यन्ति स्वेच्छाविग्रहधारिणः ॥
योगिनां कर्म्मिणां चैव तापसानां यतात्मनाम् ।
अहमेव गतिस्तेषां नान्यदस्तीति निश्चयः ॥”
इति ब्रह्मपुराणोपपुराणे श्रीसौरे शिवस्कन्द-
संवादे यमनियमप्राणायामादिकथनं १२ अः ॥
अथ योगान्तराया यथा, --
“योगान्तरायास्तस्याथ जायन्ते युञ्जतः पुनः ।
नश्यन्तेऽभ्यासतस्तेऽपि प्रणिधानेन वै गुरोः ॥”
सूत उवाच ।
“आलस्यं प्रथमं पश्चाद्बाधिपीडा प्रजायते ।
प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ॥
अश्रद्धादर्शनं भ्रान्तिदुःखञ्च त्रिविधं ततः ।
दौर्म्मनस्यमयोग्येषु विषयेषु च योग्यता ॥
दशधाभिप्रजायन्ते मुनेर्य्योगान्तरायकाः ।
आलस्यञ्च प्रवृत्तिश्च गुरुत्वात् कायचित्तयोः ॥
व्याधयो धातुवैषम्यात् कर्म्मजा दोषजास्तथा ।
प्रमादस्तु समाधेस्तु साधनानामभावनम् ॥
इदं वेत्युभयस्पृक्तं विज्ञानं स्थानसंशयः ।
अनवस्थितचित्तत्वमप्रतिष्ठा हि योगिनः ॥
लब्धायामपि भूमौ च चित्तस्य भवबन्धनात् ।
अश्रद्धाभावरहिता वृत्तिर्वै साधनेषु च ॥
साध्ये चित्तस्य हि गुरौ ज्ञानाचारशिवादिषु ।
विपर्य्ययज्ञानमिति भ्रान्तिदर्शनमुच्यते ॥
अनात्मन्यात्मविज्ञानमज्ञानात् तस्य सन्निधौ ।
दुःखमाध्यात्मिकं प्रोक्तं तथा चैवाधिभौतिकम् ॥
आधिदैविकमित्युक्तं त्रिविधं सहजं पुनः ।
इच्छाविघातात् सङ्क्षोभश्चेतसस्तदुदाहृतम् ॥
दौर्म्मनस्यं निरोद्धव्यं वैराग्येण परेण तु ।
तमसा रजसा चैव संस्पृष्टं दुर्म्मनः स्मृतम् ॥
तदा मनसि सञ्जातं दौर्म्मनस्यमिति स्मृतम् ।
हटात् स्वीकरणं कृत्वा योग्यायोग्यविवेकतः ॥
विषयेषु विचित्रेषु जन्तोर्व्विषयलोलता ।
अन्तराया इति ख्याता योगस्यैते हि योगि-
नाम् ॥
अत्यन्तोत्साहयुक्तस्य नश्यन्ति न च शंसयः ।
प्रनष्टेष्वन्तरायेषु द्विजा पश्चाद्धि योगिनः ॥
उपसर्गाः प्रवर्त्तन्ते सर्व्वे ते सिद्धिसूचकाः ।
प्रतिभा प्रथमा सिद्धिर्द्बितीया श्रवणा स्मृता ॥
वार्त्ता तृतीया विप्रेन्द्रास्तुरीया चेह दर्शना ।
आस्वादा पञ्चमी प्रोक्ता वेदना षष्ठिका स्मृता ।
स्वल्पषट्सिद्धिसन्त्यागात् सिद्धिदाः सिद्धयो
मुनेः ।
प्रतिभा प्रतिभावृत्तिः प्रतिर्भाव इति स्थितिः ॥
बुद्धिर्व्विवेचना वेद्यं बुध्यते बुद्धिरुच्यते ।
सूक्ष्मे व्यवहितेऽतीते विप्रकृष्टे त्वनागते ॥
सर्व्वत्र सर्व्वदा ज्ञानं प्रतिभानुक्रमेण तु ।
श्रवणात् सर्व्वशब्दानामप्रयत्नेन योगिनः ॥
ह्रस्वदीर्घप्लुतादीनां गुह्यानां श्रवणादपि ।
स्पर्शस्याधिगमो यस्तु वेदना तूपपादिता ॥
दर्शना दिव्यरूपाणां दर्शनञ्चाप्रयत्नतः ।
संविद्दिव्यरसे तस्मिन्नास्वादो ह्यप्रयत्नतः ॥
वार्त्ता च दिव्यगन्धानां तन्मात्रा बुद्धिसंविदा ।
विन्दन्ते योगिनस्तस्मादाब्रह्मभुवनं द्बिजाः ॥
जगत्यस्मिन् हि देहस्थं चतुःषष्टिगुणं समम् ।
औपसर्गिकमेतेषु गुणेषु गुणितं द्बिजाः ॥
सन्त्याज्यं सर्व्वथा सर्व्वमौपसर्गिकमात्मनः ।
पैशाचे पार्थिवञ्चाप्यं राक्षसानां पुरे द्विजाः ॥
याक्षे तु तैजसं प्रोक्रं गान्धर्व्वे श्वसनात्मकम् ।
ऐन्द्रे व्योमात्मकं सर्व्वं सौम्ये चैव तु मानसम् ॥
प्राजापत्ये त्वहङ्कारं ब्राह्मे बोधमनुत्तमम् ।
आद्ये चाष्टौ द्वितीये च तथा शोडशरूपकम् ॥
चतुर्व्वशत् तृतीये तु द्बात्रिंशश्च चतुर्थके ।
चत्वारिंशत् पञ्चमे तु भूतमात्रात्मकं स्मृतम् ॥
गन्धो रसस्तथा रूपं शब्दः स्पर्शस्तथैव च ।
प्रत्येकमष्टधा सिद्धं पञ्चमे तच्छतक्रतोः ॥
तथाष्टचत्वारिंशच्च षट्पञ्चाशत् तथैव च ।
चतुःषष्टिगुणं ब्राह्मं लभते द्बिजसत्तमाः ॥
औपसर्गिकमाब्रह्म भुवनेषु परियजेत् ।
लोकेष्वालोक्ययोगेन योगवितं परमं सुखम् ॥
स्थूलता ह्रस्वता बाल्यं वार्द्धक्यं यौवनं तथा ।
नानाजातिस्वरूपञ्च चतुर्भिर्द्देहधारणम् ॥
पाथिवांशं विना नित्य सुरभिर्गन्धसंयुतः ।
एतदष्टगुणं प्रोक्तमैश्वर्य्यं पार्थिवं महत् ॥
जले निवसनं यद्वद्भूम्यामिव विनिर्गमः ।
इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः ॥
यत्रेच्छति जगत्यस्मिन् तत्रास्य जलदर्शनम् ।
यद्यद्वस्तु समादाय भोक्तुमिच्छति कामतः ॥
तत्तद्रसान्वितं तस्य त्रयाणां देहधारणम् ।
भाण्डं विनाथ हस्तेन जलपिण्डस्य धारणम् ॥
अव्रणत्वं शरीरस्य पार्थिवेन समन्वितम् ।
एतत् षोडशक प्रोक्तमाप्यमैश्वर्य्यमुत्तमम् ॥
देहादग्निविनिर्म्माणं तत्तापभयवर्ज्जितम् ।
लोकं दग्धमपीहान्यददग्धं स्वविधानतः ॥
जलमध्ये हुतवहञ्चाधाय परिरक्षणम् ।
अग्निनिग्रहणं हस्ते स्मृतिमात्रेण चागमः ॥
भस्मीभूतविनिर्म्माणं यथापूर्ब्बं स्वकामतः ।
द्बाभ्यां रूपविनिष्पत्तिर्विना तैस्त्रिभिरात्मनः ॥
चतुर्व्विंशात्मकं ह्येतत् तैजसं मुनिपुङ्गवाः ।
मनोगतित्वं भूतानामन्तर्निवसनं तथा ॥
पर्व्वतादिमहाभारस्कन्धेनोद्बहनं पुनः ।
लघुत्वञ्च गुरुत्वञ्च पाणिभ्यां वायुधारणम् ॥
अङ्गुल्यग्रनिपातेन भूमेः सर्व्वत्र कम्पनम् ।
एकेन देहनिष्पत्तिर्वातैश्वर्य्यं स्मृतं बुधैः ॥
छायाविहीननिष्पत्तिरिन्द्रियाणाञ्च दर्शनम् ।
आकाशगमनं नित्यमिन्द्रियार्थैः समन्वितम् ॥
दूरे च शब्दग्रहणं सर्व्वशब्दावगाहनम् ।
तन्मात्रलिङ्गग्रहणं सर्व्वप्राणिनिदर्शनम् ॥
ऐन्द्रमैश्वर्य्यमित्युक्तमेतैरुक्तः पुरातनः ।
यथाकामोपलब्धिश्च यथाकामविनिर्गमः ॥
सर्व्वत्राभिभवश्चैव सर्व्वगुह्यनिदर्शनम् ।
कामानुरूपनिर्म्माणं वशित्वं प्रियदर्शनम् ॥
संसारदशनञ्चैव मानसं गुणलक्षणम् ।
छेदनं ताडनं बन्धं संसारपरिवर्त्तनम् ॥
सर्व्वभूतप्रसादश्च मृत्युकालजयस्तथा ।
प्राजाप्रत्यमिदं प्रोक्तमाहङ्कारिकमुत्तमम् ॥
अकारणजगत्सृष्टिस्तथानुग्रह एव च ।
प्रलयश्चाधिकारश्च लोकवृत्तप्रवर्त्तनम् ॥
असादृश्यमिदं व्यक्तं निर्म्माणञ्च पृथक् पृथक् ।
संसारस्य च कर्त्तृत्वं ब्राह्ममेतदनुत्तमम् ॥
एतावत् तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम् ।
ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते ॥
विद्यते तत् परं शैवं विष्णुना नावगम्यते ।
असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम् ॥
बुत्थाने सिद्धयश्चैता ह्युपसर्गाश्च कीर्त्तिताः ।
निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु ॥
नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च ।
अश्रद्धया त्यजेत् सर्व्वं विरक्त इति कीर्त्तितः ॥
वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते ।
वैराग्येणैव सन्त्याज्याः सिद्धयश्चौपसर्गिकाः ॥
औपसर्गिकमाब्रह्म भुवनेषु परित्यजेत् ।
निरुध्यैव त्यजेत् सर्व्वं प्रसीदति महेश्वरः ॥
प्रसन्ने विमला मुक्तिर्वैराग्येण परेण वै ।
अथवानुग्रहार्थञ्च लीलार्थं वा तदा मुनिः ॥
अनिरुध्य विचेष्टेदयः सोऽप्येवं हि सुखी भवेत् ।
क्वचिद्भूमिं परित्यज्य आकाशे क्रीडते श्रिया ॥
उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः ।
क्वचिच्छ्रुते तदर्थेन श्लोकबन्धं करोति सः ॥
पृष्ठ ४/०५६
क्वचिद्दण्डकबन्धन्तु कुर्य्याद्बन्धं सहस्रशः ।
मृगपक्षिसमूहस्य रुतज्ञानञ्च विन्दति ॥
ब्रह्माद्यं स्थावरान्तञ्च हस्तामलकवद्भवेत् ।
बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः ॥
उत्पद्यन्ते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः ।
अभ्यासेनैव विज्ञानं विशुद्धञ्च स्थिरं भवेत् ॥
तेजोरूपाणि सर्व्वाणि सर्व्वं पश्यति योगवित् ।
देवविम्बान्यनेकानि विमानानि सहस्रशः ॥
पश्यति ब्रह्मविष्ण्विन्द्रयमाग्निवरुणादिकान् ।
ग्रहनक्षत्रताराश्च भुवनानि सहस्रशः ॥
पातालतलसंस्थाश्च समाधिस्थः स पश्यति ।
आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु ॥
प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु ।
तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम् ॥
तस्य प्रसादाद्भर्म्मश्च ऐश्वर्य्यं ज्ञानमेव च ।
वैराग्यमपवर्गश्च नात्र कार्य्या विचारणा ॥
न शक्यो विस्तराद्बक्तुं वर्षाणामयुतैरपि ।
योगे पाशुपते निष्ठा स्थातव्यञ्च मुनीश्वराः ! ॥”
इति लिङ्गपुराणे ९ अध्यायः ॥)
अथ त्रिविधयोगः ।
श्रीभगवानुवाच ।
“योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्मया ।
ज्ञानं कर्म्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्र-
चित् ॥
निर्व्विण्णानां ज्ञानयोगो न्यासिनामिह कर्म्मसु ।
तेष्वनिर्व्विण्णचित्तानां कर्म्मयोगश्च कामिनाम् ॥
यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्व्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥
तावत् कर्म्माणि कुर्व्वीत न निर्व्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥
स्वधर्म्मस्थो यजन् यज्ञैरनाशीः काम उद्धव ! ।
न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥
अस्मिँल्लोके वर्त्तमानः स्वधर्म्मस्थोऽनघः शुचिः ।
ज्ञानं विशुद्धमाप्नोति मद्भक्तिञ्च यदृच्छया ॥”
इति श्रीभागवते । ११ । २० । ६ -- ११ ॥ * ॥
सांख्ययोगः २ कर्म्मयोगः ३ ज्ञानकर्म्मन्यास-
योगः ४ सन्न्यासयोगः ५ ज्ञानयोगः ६ विज्ञान-
योगः ७ ब्रह्मयोगः ८ राजगुह्ययोगः ९ विभूति-
योगः १० भक्तियोगः ११ प्रकृतिपुरुषविवेक-
योगः १२ गुणत्रययोगः १३ पुरुषोत्तमयोगः १४
आचारविवेकयोगः १५ मोक्षयोगः १६ एते
योगा एतेष्वध्यायेषु भगवद्गीतायां द्रष्टव्याः ॥ * ॥
(कलौ योगसिद्धिर्नास्ति । यदुक्तं काशीखण्डे ।
३२ अध्याये ।
“न सिध्यति कलौ योगो न सिध्यति कलौ
तपः ॥
तथा च तत्रैव ४२ अध्याये ।
“चञ्चलेन्द्रियवृत्तिः स्यात् कलिकल्मषजृम्भणात् ।
अल्पायुः स्यात्तथा नॄणां क्वेह योगमहोदयः ॥”)

योगक्षेमं, क्ली, (योगश्च क्षेमश्च तयोः समाहारः ।)

अनागताननागतरक्षणे । यथा मनुः ।
“दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥”
बृहदङ्गिराः ।
“अनागतस्य चानेता आगतस्य च रक्षकः ।
रात्रावपि यदान्योऽस्ति तदा स्वामी न दोष-
भाक् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(तथा च गीतायाम् । ९ । २२ ।
“अनन्याश्चिन्तयन्तो मां ये जनाः पर्य्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥”
“योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयं
वहामि ।” इति शङ्कराचार्य्यः ॥ “योगं धनादि-
लाभं क्षेमञ्च तत्पालनं मोक्षं वा तैरप्रार्थित-
मपि अहमेव वहामि प्रापयामि ।” इति
श्रीधरस्वामी ॥ योगश्च क्षेमश्च इतीतरेतरद्वन्द्बे
पुंलिङ्गद्बिवचनप्रयोगो भवति ।) यथा, --
“योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः ।
मृगस्यानुपदी रामो जगाम गजविक्रमः ॥”
इति भट्टिकाव्ये । ५ । ५० ॥
“फलपुष्पादेरलब्धस्य साधनं योगः शरीरादे-
र्लब्धस्य पालनं क्षेमः ।” इति तट्टीकायां
भरतः ॥ “योगक्षेमौ शरीरस्थितिपालने ।”
इति तत्रैव जयमङ्गलः ॥

योगचरः, पुं, (योगेषु चरतीति । चर + “चरेष्टः ।”

३ । २ । १६ । इति टः ।) हनूमान् । इति
शब्दरत्नावली ॥

योगजं, क्ली, (योगात् जायते इति । जन् + डः ।)

अगुरु । इति भावप्रकाशः ॥ योगजाते,
त्रि ॥

योगजः, पुं, (योगेभ्यो जायते इति । जन् + डः ।)

अलौकिकसन्निकर्षविशेषः । स च युक्तयुञ्जान-
भेदतो द्विविधः । यथा, --
“अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ।
सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥
आसत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते ।
तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्ष्यते ॥
विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ।
योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ॥
युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥”
इति भाषापरिच्छेदे । ६३ -- ६६ ॥ * ॥
“योगज इति । योगाभ्यासजनितधर्म्मविशेषः ।
श्रुतिपुराणादिप्रमाणक इत्यर्थः । युक्तेति ।
युक्तयुञ्जानरूपयोगिद्वैविध्यात् धर्म्मस्य द्बैविध्य-
मिति भावः । युक्तस्येति । योगाभ्यासावगत्या
वशीकृत-समाधि-समासादित-विविधसिद्धियुक्त
इत्युच्यते । अयमेव विशेष्टयोगवत्त्वात् युक्त इत्यु-
च्यते । सर्व्वदेतिं । चिन्तासहकारं विनेत्यर्थः ।
भानं सर्व्वविषयाणां प्रत्यक्षम् । अपरो युञ्जानः ।
विषयव्यावृत्त्या मानससमाधिस्थः अयञ्च
युञ्जान उच्यते । चिन्ता ध्यानं तदेव कारणं
तत्सहकारात् स्थूलसूक्ष्मव्यवहितविप्रकृष्टा-
नर्थान् मनः प्रत्यक्षीकरोतीत्यर्थः ।” इति
सिद्धान्तमुक्तावली ॥

योगदानं, क्ली, (योगेन दानम् ।) छलेन दानम् ।

यथा, --
“योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्युपधिं पश्येत्तत् सर्व्वं विनिवर्त्तयेत् ॥”
इति मानवे ८ अध्यायः ॥
“योगाधमनेति । योगशब्दश्छलवाची छलेन ये
बन्धकविक्रयदानप्रतिग्रहाः क्रियन्ते न तत्त्वतो-
ऽन्यत्रापि निःक्षेपादौ यत्र छद्म जानीयात्
वस्तुतो निक्षेपादि न कृतं तत् सर्व्वं निवर्त्त-
येत् ।” इति तट्टीकायां कुल्लूकभट्टः ॥

योगनाविकः, पुं, मत्स्यविशेषः । तत्पर्य्यायः ।

गर्गाटः २ । इति हारावली ॥

योगनिद्रा, स्त्री, (योगश्चित्तवृत्तिनिरोधलक्षणः

समाधिस्तद्रूपा निद्रा ।) दुर्गा । यथा, --
“या निम्नान्तःस्थलाधस्था जगदण्डकपालतः ।
विभज्य पुरुषं याति योगनिद्रेति सोच्यते ॥”
इति कालिकापुराणे ६ अध्यायः ॥
(अपि च मार्कण्डेये देवीमाहात्म्ये । ८१ । ४९ ।
“योगनिद्रां यदा विष्णुर्ज्जगत्येकार्णवीकृते ।
आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥”
योगेन सन्नहनोपायादिना साध्या निद्रा ।
वीराणां निद्रा । यथा, कामन्दकीयनीति-
सारे । १५ । ४४ ।
“मार्गे च दुर्गे विनिविष्टसैन्यो
विधाय रक्षां विधिवद्विधिज्ञः ।
सन्नद्धपार्श्वस्थितिवीरयोधः
सेवेत साध्वीं सुखयोगनिद्राम् ॥”)

योगपट्टं, क्ली, (योगस्य पट्टं वसनविशेषः ।

योगार्थं पट्टमिति वा ।) यद्बस्त्रेण पृष्ठजानुबन्धनं
भवति तत् । यथा, --
“पादुके योगपट्टञ्च तर्ज्जन्यां रौप्यधारणम् ।
न जीवत्पितृकः कुर्य्यात् ज्येष्ठे भ्रातरि
जीवति ॥”
तल्लक्षणं यथा, --
“पृष्ठजान्वोः समायोगे वस्त्रं वलयवद्दृढम् ।
परिवेष्ट्य यदूर्द्ध्वज्ञुस्तिष्ठेत्तद्योगपट्टकम् ॥”
इति पाद्मे कार्त्तिकर्माहात्म्ये २ अध्यायः ॥
(योगपदकम् । उत्तरीयचिशेषः । यथा, याज्ञ-
वल्क्यः ।
“अभावे घौतवस्त्राणां शाणक्षौमाविकानि च ।
कुतपो योगपट्टं वा द्विर्व्वासा येन वा भवेत् ॥”)
इत्याह्निकतत्त्वम् ॥)

योगपदकं, क्ली, (योगस्य पदकम् ।) पूजादौ

धार्य्योत्तरीयविशेषः । योगपाटा इति भाषा ॥
यथा, --
“त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम् ।
द्बितीयं मृगचर्म्माढ्यं तृतीयं तन्तुनिर्म्मितम् ।
चतुर्म्मात्रप्रविस्तारं दैर्घेण यज्ञसूत्रवत् ॥
चतुर्म्मात्रं चतुरङ्गुलमात्रम् ॥” इति वीर-
मित्रोदयधृतसिद्धान्तशेखरः ॥

योगपीठं, क्ली, (योगस्य योगार्थं वा पीठमास-

नम् ।) देवानां योगासनम् । यथा, --
पृष्ठ ४/०५७
“मण्डलं योगपीठन्तु पद्मं पद्मे विचिन्तयेत् ।
शावादीन्यासनानीह चत्वार्य्यपि विचिन्तयेत् ॥
योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम् ।
पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः ॥
ध्यानेन योगपीठस्य ध्यात्वा यद्दीयते जलम् ।
नैवेद्यपुष्पधूपादि तत् स्वयञ्चोपतिष्ठते ॥
सर्व्वे देवाः सगन्धर्व्वाः सचराचरगुह्यकाः ।
चिन्तिताः पूजिताश्च स्युर्य्योगपीठस्य पूजने ॥”
इति कालिकापुराणे ५६ अध्यायः ॥

योगमाया, स्त्री, (योग एव माया ।) भगवती ।

सा च विष्णुमाया । यथा, --
“ततश्च शौरिर्भगवत्प्रचोदितः
सुतं समादाय स सूतिकागृहात् ।
यदा बहिर्गन्तुमियेष तर्ह्यजा
या योगमायाजनिनन्दजायया ॥”
इति श्रीभागवते १० स्कन्धे ३ अध्यायः ॥

योगरङ्गः, पुं, (योगेन रङ्गो रागो यस्य ।) नारङ्गः ।

इति राजनिर्घण्टः ॥ (नारङ्गशब्देऽस्य विशेषो
ज्ञेयः ॥)

योगराजगुग्गुलुः, पुं, (योगराजाख्यो गुग्गुलुः ।)

वातरोगादीनामौषधविशेषः । यथा, --
“नागरं पिप्पलीमूलं चर्व्य मूषणचित्रकम् ।
भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्बयम् ॥
रेणुकेन्द्रयवौ पाठा विडङ्गं गजपिप्पली ।
कटुकातिविषा भार्गी वचा मूर्व्वा च पत्रकम् ॥
देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम् ।
एला त्रिकण्टकः पथ्या धान्यकञ्च विभीतकम् ॥
धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि ।
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥
यावन्त्येतानि चूर्णानि तावदेवात्र गुग्गुलुः ।
संमर्द्य सर्पिषा पश्चात् सर्व्वं संमिश्रयेच्च तत् ॥
एकं पिण्डं ततः कुर्य्यात् धारयेत् घृतभाजने ।
गुटिकाष्टकमात्रास्तु खादेत्ताश्च यथोचितम् ॥
यथोचितमिति दोषकालानलाद्यपेक्षया ॥
परिभाषा च ।
आदौ शाणोन्मितं खादेत् ततः कर्षार्द्ध-
मात्रकम् ।
ततः कर्षमितं खादेत् गुग्गुलुं क्रमतो नरः ॥
दिनानां सप्तके पूर्ब्बे गुग्गुलोः शाणमाहरेत् ।
द्बितीये कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ॥
गुग्गुलुर्योगराजोऽयं महान्मुख्यो रसायनः ।
मैथुनाहारपानानां नियमो नात्र विद्यते ॥
सर्व्वान् वातामयान् हन्यात् आमवातमप-
स्मृतिम् ।
वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि ॥
अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदराण्यपि ।
आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ॥
प्रमेहं नाभिशूलञ्च कृमिं क्षयमुरोग्रहम् ।
शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ॥ * ॥
रास्नादिक्वाथसंयुक्तः सर्व्ववातामयान् हरेत् ।
काकोल्यादिश्रितात् पित्तं कफमारखधादिना ॥
दार्व्वीश्रितेन मोहांश्च गोमूत्रेण च पाण्डुताम् ।
मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ॥
छिन्नाक्वाथेन वातास्रं शोफं मूलकजात्
शृतात् ।
पाटलाक्वाथसहितो विषं मूष्कसम्भवम् ॥
त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम् ।
पुनर्नवादेः क्वाथेन हन्ति सर्व्वोदरानपि ॥ * ॥
अत्र रास्नादिक्वाथो यथा, --
रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम् ।
सप्तधातुगते वाते सामे सर्व्वाङ्गगे पिबेत् ॥
इति योगराजो गुग्गुलुः ॥” इति भावप्रकाशः ॥

योगरूढः, पुं, (योगार्थप्रतिपादको रूढः ।)

योगार्थसहभावेन रूढ्यर्थबोधकशब्दः । यथा,
“योगरूढाश्च रूढाश्च यौगिकाश्चेति ते त्रिधा ॥”
“ते शब्दाः पुनस्त्रिधा भवन्ति । योगरूढाः
पङ्कजादयः । पङ्कजनिडप्रत्ययैः पङ्कजनिकर्त्रभि-
धाय केन योगेनापि पदार्थ एव प्रतिपाद्यते
न कुमुमाद्यर्थ इति । योगार्थपुरस्कारेणापि
रूढ्यर्थ एवेति योगरूढः । एवं ईश्वरसङ्केत-
महिम्ना झटिति पद्मस्यैव स्मृतेः ।” इत्यलङ्कार-
कौस्तुभे २ किरणः ॥ (“योगरूढं नाम लक्षयति ।
‘स्वान्तर्निविष्टशब्दार्थस्वार्थयोर्बोधकृम्मिथः ।
योगरूढं न यत्रैकं विनान्यस्यास्ति शाब्दधीः ॥’
यन्नाम स्वावयववृत्तिलभ्यार्थेन ममं स्वार्थस्या-
न्वयबोधकृत् तन्नाम योगरूढं यथा पङ्कजकृष्ण-
सर्पाधर्म्मादि तद्धि शान्तर्निविष्टानां पङ्कादि-
शब्दानां वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समं
स्वशक्यस्य पद्मादेरन्वयानुभावकं पङ्कजमित्या-
दितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्य सर्व्वसिद्ध-
त्वात् । इयांस्तु विशेषो यद्रूढमपि मण्डपरथ-
कारादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येव
रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं मण्डपे
शेते इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव
मण्डपं भोजयेदित्यादौ समुदितार्थस्य गृहादेर-
योग्यत्वेनान्वयाबोधात् । योगरूढन्तु पङ्कजादि-
पदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या
चावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्युत्पत्ति-
वैचित्र्यात्तथैव साकाङ्क्षत्वात् । अतएव पङ्कजं
कुनुदमित्यत्र पङ्कजनिकर्तृत्वेन भूमौ पङ्कज-
मुत्पन्नमित्यादौ च पद्मत्वेन पङ्कजपदस्य लक्षण-
यैव कुमुदस्थलपद्मयोर्बोध इति वार्त्तिकम् । ननु
पुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वयस्याबोधात्
बोधाच्च पङ्कजपुष्पमित्यादौ निर्विभक्तिकेन पङ्क-
जादिपदेनोपस्थाप्यार्थस्यान्वयधीसामान्यं प्रत्येव
तादृशपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम्
एवं पुष्पं पङ्कजमित्यादौ अन्वयबोधदर्शनात्तदनु-
रोधेन सविभक्तिकपङ्कजादिपदोपस्थाप्यार्थान्वय-
बोधं प्रति स्वसमानविभक्तिकपदोपस्थाप्यत्वञ्च
अतस्तदुपस्थापितस्य पङ्कजातादेः कथं पदा-
न्तरानुपस्थापितं पद्मादावन्वय इति चेदपङ्कज-
वृत्तिः सत्तेत्यादौ च व्यभिचारादुक्तव्युत्पत्तेः
‘स्खलदक्षरसंशीभि तरुण्यामुखपङ्कजम् ।’
इत्यादौ सङ्गोचेनेनि गृहाण । नच धेनुपदस्य
धानकर्म्मत्वविशिष्टायां गवीवपङ्कजादिपदस्यापि
पङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु नतु
योगरूढिरिति साम्प्रतं अन्यत्र कॢप्तशक्तिभ्यः
पङ्कजन्यादिपदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कज-
निकर्तृ त्वादेर्लाभसम्भवे तद्बिशिष्टस्य पद्मस्य
गुरोः समुदायाशक्यत्वादनन्यलभ्यस्यैव शब्दार्थ-
त्वात् । यद्यपि कर्तृवाचकडप्रत्यये एव पद्मत्व-
विशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कज-
भागस्य तत्र शक्तिरुचिता प्रकारान्तरालभ्यस्यैव
शब्दशक्यत्वमित्युक्तत्वात् कृतिवर्त्तमानत्वयोरि-
वैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽन्वयस्य
सम्भवित्वात् तथाप्यवयवानां शक्तेरग्रहे ग्रहेऽपि
वा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायां
पङ्कजमस्तीत्यादितः पद्ममस्तीत्याद्यनुभवार्थ-
मवश्यं पद्मत्वादिविशिष्टे पङ्कजादिभागस्य
रूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य-
यार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्र
त्ययोपस्थापितस्यापि पद्मस्यास्तित्वादिना सहा-
न्वयानुपपत्तेः । अतएव पङ्कजादिपदागृहीत-
शक्तिकस्य पुंसः पङ्कजमस्तीत्यादितो जात्वपि
कर्त्तास्तीत्याकारको नान्वयबोधः प्रत्ययमात्रोप-
स्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाङ्क्षत्वादिति
वक्ष्यते । किञ्चैवमेकाक्षरकोषावधृतशक्तिकानां
कखादिप्रत्येकवर्णानामेव निरूढलक्षणया तत्त-
दर्थानुभावकत्वसम्भवाद्बकनखादिसमुदायस्यापि
तत्तदर्थे शक्तिर्व्विलीयेत कादिप्रत्येकवर्णस्य शक्ति-
ग्रहं विनापि वकादिशब्दाद्वकादेरनुभवार्थं तत्र
समुदाये शक्तिरिति तु प्रकृतेऽपि समानं डादि-
प्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वग्रहेऽपि पङ्क-
जादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्ध-
त्वात् । नचैवं चित्रगुरित्यादावपि चित्रगोस्वा-
म्यादौ समुदायस्य शक्तिप्रसङ्गः समासत्वस्या-
विशिष्टत्वादिति वाच्यम् अगृहीतावयववृत्तिकस्य
पुंसस्ततोऽर्थानधिगमेनावयवानां कृत्तेरवश्या-
पेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्य
वक्ष्यमाणत्वादिति ।
पङ्कजादिपदेभ्यः केवलस्यैव योगार्थस्य रूढ्य-
र्थस्य वा बोधव्युदासार्थन्तादृशार्थयोर्मिथः
साकाङ्क्षत्वनियमो न कल्प्यते परन्तु रूढ्यर्थभिन्ने
योगार्थस्य बोधं प्रति रूढिधियः प्रतिबन्धकत्वं
तेन रूढेरप्रतिसन्घानदशायामवयवशक्त्यैव
पङ्कजं कुमुदमित्यादौ पङ्कजनिकर्तृत्वादिना
कैरवादेरवगमस्तथावयवशक्तेरनुपस्थितौ समु-
दायशक्त्यैव भूमौ पङ्कजमुत्पन्नमित्यादौ पङ्कत्व-
प्रकारेण स्थलपद्मादेरतएव च तैलपदं योगेन
तिलप्रभवं रूढ्या विलक्षणद्रव्यपर्य्यवसितं स्नेहं
बोधयेद्योगरूढमपि तैलं पत्रमित्यादौ सर्षपस्य
तैलमित्यादौ च शक्त्यैव प्रत्येकस्य बोधकमिति
मीमांसकानान्मत्मुपन्यस्यति ।
‘रूढ्यर्थभिन्ने योगार्थबुद्धौ रूढेर्विरोधिताम् ।
वदन्ति केचिदेकैकबुद्धिस्तैः क्वचिदिष्यते ॥’
क्वचित्समुदायावयवयोरेकमात्रस्य शक्तिप्रति-
पृष्ठ ४/०५८
सन्धानस्थले यद्यपि पद्मान्यधर्म्मिकपङ्कजातत्वा-
न्वयधीसामान्यं प्रति पङ्कजपदं पद्मशक्तमित्येवं
रूढिज्ञानत्वेन न विरोधित्वं तादृशधीसत्त्वेऽपि
कर्दमजादिशब्देभ्यस्ताद्रूप्येण कैरवादेरवगमात्
नापि पङ्कजपदजन्यतादृशबोधं प्रत्येव तथा विरो-
धित्वं रूढिज्ञानदशायामपि समुदायस्य लक्षणया
शक्तिभ्रमेण वा पङ्कजपदात् पङ्कजातत्वेन कुमुद-
बोधस्य सर्व्वैरुपगमात् तथाप्यवयवशक्त्या पङ्कज-
पदजन्यपद्मान्यधर्म्मिकपङ्कजातत्वान्वयबोधं प्रत्येव
रूढिज्ञानत्वेन प्रतिबन्धकत्वम् । नच कुमुद
एव पद्मत्वेन रूढिभ्रमदशायां ताद्रूप्येण कुमुदस्य
बोधो न स्याद्बिरोधिन्या रूढिधियः सत्त्वादिति
वाच्यं पद्मान्यधर्म्मिकेत्यनेन पद्मत्वानवच्छिन्नविशे-
ष्यताकत्वस्योक्तत्वात् । पद्मस्येव कुमुदस्यापि
समुदायशक्यत्वधीदशायामवयवशक्त्या पङ्कजातं
कुमुदमित्याकारकधीस्वीकारे तु कुमुदादिशक्तत्व
ज्ञानाजन्यत्वे नापि प्रतिवध्यं विशेषणीयम् । नच
यत्र तात्पर्य्यादिधीविलम्बादयोग्यताभ्रमादिना-
प्रतिवन्धाद्बा रूढ्योपस्थिते पद्मे योगार्थस्य
पङ्कजनिकर्त्तुरनन्वयस्तत्रावयवशक्त्या पङ्कजा-
तत्वेन कुमुदादिवोधो न स्यात् विरोधिनो
रूढिज्ञानस्य सत्त्वादिति वाच्यं मीमांसकाना-
मिष्टत्वात् ते हि मण्डपं भोजयेत्यादावपि
गृहादौ रूढिधीसत्त्वे मण्डपादिपदानामवयव-
शक्त्या मण्डपानकर्त्तादेन मन्यन्ते वोधं भ्रमत्वा
ग्रहानास्कन्दितस्येव रूढ्यर्थगोचरतत्तदयोग्य-
ताज्ञानाद्यभावविशिष्टस्यैव रूढिज्ञानस्य विरो-
धितायाः सुवचत्वाच्च । यदि च समुदाय एव
पद्मत्वेन पङ्कजनिकर्तृत्वेन च शक्तेः प्रमाम्रमाभ्यां
पङ्कजातं पद्ममित्याकारको बोधः प्रामाणिक-
स्तदानीं च पङ्कजनिकर्तृत्वेन कुमुदस्य नान्व-
यधीः तदावयवशक्त्येत्यपहाय पङ्कजपदघटक-
शब्दशक्त्येति प्रतिबध्यकुक्षौ निक्षेपणीयं तद्घट-
कत्वञ्चेह तद्विषयिताव्यापकविषयिताकत्वमात्रं
तदवयव इव तत्राप्यविशिष्टम् । यत्तु स्वावयव-
शक्त्या पङ्कजपदजन्यं पङ्कजकर्त्तृत्वेनान्वयबाधं
प्रति पद्मत्वं हेतुस्तत्र कार्य्यस्य विशेष्यत्वं तदव-
च्छेदकत्वं वा कारणस्य तु समवायस्तादात्म्यं
वा प्रत्यासत्तिरित्येतावतैव योगार्थमर्य्यादया
कुमुदादेर्बोधव्युदाससम्भवात् उक्तक्रमेण प्रति-
बन्धकतायां मानाभाव पद्मत्वं पङ्कजप्रयो-
गोपाधिरिति प्राचीनप्रवादस्याप्युक्तार्थ एव
पर्य्यवसानादिति तत्तुच्छं पद्मागृहीतशक्तिक-
स्यापि पुंसः पङ्कजनिकर्तृत्वेनावयवशक्त्या कुमु
दस्य बोधानुदयप्रसङ्गात् नचेष्टापत्तिरनुभव-
विरोधात् नच रूढिज्ञानकालीनमेव योगार्थस्य
बोधं प्रत्युक्तरीत्या पद्मत्वस्य हेतुत्वं तथा
सति रूढिधीदशायामपि तदसमानकालीनस्य
पङ्कजातत्वेन कुमुदबोधस्य सामान्यसामग्री-
महिम्रा दुर्व्वारतापत्तेः रूढिज्ञानासमानका-
लीनतादृशबोधं प्रति विशेषतो हेत्वन्तरस्या-
कॢप्तत्वात् तत्कल्पने चातिगौरवात् । यदपि
पङ्कजननकर्तृषु पङ्कादिपदानां शक्तिसत्त्वेऽपि
पङ्कजपदान्न ताद्रूप्येण बोधः परन्तु पद्मत्वमात्रेण
योगार्थमर्य्यादया पङ्कजातत्वप्रकारकबोधसा-
मान्यं प्रत्येव पद्मत्वविशेष्टे रूढिज्ञानस्य लाघ-
वेन विरोधित्वात् पद्मान्यधर्म्मिकत्वादेर्गौरवेण
प्रतिबध्यकोट्यप्रविष्टत्वादतो योगरूढं नामैव
नास्ति युधिष्ठिरादिशब्दादपि रणस्थिरत्वादिकं
योगार्थं परित्यज्यैव वैजात्वादिप्रकारेण कुन्ती-
पुत्त्राद्यवगमात् । यदुक्तमभियुक्तैः ।
या वृत्तिरजहत्स्वार्था सेयमत्रोपपादिता ।
जहत्स्वार्था तु तत्रैव यत्र रूढिर्व्विरोधिनी ।
पङ्कजं मनसादेवी पद्मनाभो युधिष्ठिरः ॥
इति । तदेतद्वैयाकरणमतं पङ्कजमस्तीत्यादितः
पङ्कजातं पद्ममस्तीत्याद्यनुभवस्य न्यायमीमां-
सादिसकलतन्त्रसिद्धत्वेन गौरवस्य प्रामाणि-
कत्वादनादेयमन्यथा अवयवशक्तेरपि प्रतिवध्य-
तायामप्रवेशापत्तेर्लाघवे पङ्कजातत्वप्रकारक-
शाब्दसामान्यं प्रत्येव रूढिधियः प्रतिबन्धकत्वस्य
सुवचत्वात् । नन्वेवं द्रव्ये सरसिजमस्तीत्यादितो
द्रव्यनिष्ठं सरोजमिव द्रव्याभिन्ने सरसि जातं
पद्ममपि प्रतीयेत नामार्थयोरभेदान्वये तन्त्रस्य
नाम्नोः समानविभक्तिकत्वस्यानयादिति चेत्
सत्यं सविभक्तिकनामार्थस्य नामान्तरार्थान्वये
वृत्तिशब्दैकदेशान्यैनैव समानविभक्तिकनामा-
न्तरेण स्मारितत्वस्य तन्त्रतायाः स्वीकार्य्यत्वा-
दिति ।
यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।
तेन तेनान्वितः स्वार्थः पदैः समधिगम्यते ॥
इति रूढ्यर्थयोगार्थयोर्युगपदुपस्थितौ तयो-
राकाङ्क्षादिसाचिव्यादाहत्यान्वयबुद्धिस्थल एव
योगार्थस्य रूढ्यर्थस्य वा नान्यत्रान्वयो नतु
तयोरेव मिथः साकाङ्क्षत्वं अन्यत्र योगार्थस्य
बोधने रूढिधियः प्रतिबन्धकत्वं वा प्रमाणा-
भावात् एवञ्च यत्र योगरूढिलभ्यार्थयोस्तात्-
पर्य्याद्यग्रहाद्बिरोधिसमवधानाद्बा न प्रथममन्व-
यधीस्तत्र योगार्थमर्य्यादया पङ्कजातत्वेन कुमु-
दादेः समुदायशक्त्या च पद्मत्वेन स्थलकमलस्य
बोधो भवत्येवेति मणिकृन्मतं दर्शयति ।
‘रूढ्यर्थेऽन्यत्र या यत्र यदाकाङ्क्षादिनिश्चयः ।
तदैव तत्र योगार्थस्यान्वयो मणिकृन्मतः ॥’
समुदायशक्त्युपस्थापिते पदान्तरवृत्त्युपस्थापिते
वा यत्र धर्म्मिण्यवान्तरवृत्तिलभ्यार्थस्य यदा-
काङ्क्षानिश्चयादिस्तदैव तत्र तथान्वयबोध उत्प-
द्यते सम्भूतसामग्रीकत्वात् रूढ्यर्थभिन्ने योगार्थ-
स्यान्वयबोधव्युदासाय तु रूढेर्योगापहारिता-
प्रवादोरूढ्यर्थमात्रे योगार्थस्यान्वयबोधसामग्री-
स्थलाभिप्रायक इति चिन्तामणिकृताम्मतम् ।
योगरूढं विभजते ।
‘सामासिकं तद्धिताक्तमिति तत् द्बिविधं भवेत् ।
योगरूढं कृदन्तस्य समासत्वव्यवस्थितेः ॥’
तत् योगरूढं सामासिकं समासात्मकं कृष्ण-
सर्पादि तद्धिताक्तं वासुदेवादि । कृदन्तस्य
पङ्कजादियोगरूढस्य सामासिक एवान्तर्भाव
इति नाधिक्यम् ॥ * ॥)

योगवाहः, पुं, (योगस्य वाहः । योगं वाहय-

तीति । वह् + णिच् + अण् वा ।) अनुस्वारः ।
विसर्गः । जिह्वामूलीयः । उपाध्मानीयः । इति
व्याकरणम् ॥

योगवाही, स्त्री, (योगं वाहयतीति । वह + णिच्

+ अण् । ततो ङीष् ।) क्षारविशेषः । यथा, --
“स्वर्ज्जिस्तु स्वर्ज्जिकास्रुघ्नी योगवाही सुवर्च्चिका ।”
इति हेमचन्द्रः ॥
पारदश्च ॥ (पुं, रोगविशेषे मिलितानामौषधानां
प्रयोगः । यथा, --
“योगवाहिरसाः सर्व्वे सर्व्वरोगगलग्रहे ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे रक्तपित्ताधिकारे ॥)

योगसारः, पुं, (योगस्यौषधप्रयोगस्य सारः ।)

सर्व्वरोगहरणोपायः । यथा, --
धन्वन्तरिरुवाच ।
“सर्व्वरोगहरं सिद्ध्वं योगसारं वदाम्यहम् ।
शृणु सुश्रुत ! संक्षेपात् प्राणिनां जीवहेतवे ॥
निमेषादिर्हविःकालश्चिन्ताभिः षड्विधो भवेत् ॥
कषायकटुतिक्ताम्लरूक्षाहारादभोजनात् ।
चिन्ताव्यवायव्यायामभयशोकप्रजागरात् ॥
उच्चैर्भाष्यतिभावाच्च कर्म्मयोगातिकर्षणात् ।
वायुः कुप्यति पर्य्यन्ते जीर्णान्ने दिनसंक्षये ॥
उष्णाम्ललवणक्षारकटुकाजीर्णभोजनात् ।
तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥
विदाहकाले भुक्तस्य मध्याह्ने जलदागमे ।
ग्रीष्मकालेऽर्द्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥
स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् ।
नवान्नपिच्छलानूपमाषाभिस्यन्दिसेवनात् ॥
अव्यवायो दिवास्वप्नशय्यासनसुखादिभिः ।
कफः प्रदोषे भुक्ते च वसन्ते च प्रकुप्यति ॥
पारुष्यमूलसङ्कोचतोदविष्टम्भभोजनात् ।
खरता सुप्तता हर्षरौक्षस्तम्भनशोषणम् ॥
श्यावत्वमङ्गविश्लेषवलनाशामवर्त्तनम् ।
वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥
दाहोष्मपादसक्लेदकोपरागपरिस्रवाः ।
कट्वम्लशववैगन्ध्यस्वेदमूर्च्छातितृट्श्रमाः ॥
हारिद्रं हरितत्वञ्च पित्तलिङ्गानि तैर्लयः ।
स्नेहोपदेहमाधुर्य्यचिरकारित्ववन्धनम् ॥
स्तैमित्यदृष्टिसं घातशोथशीतत्वगौरवम् ।
कण्डुनिद्राभियोगश्च लक्षणं कक्षसम्भवम् ॥
हेतुलक्षणसंसर्गाद्बिद्याद्ब्याधिं द्विदोषजम् ।
सर्व्वहेतुसमुत्पन्नं त्रिलिङ्ग सान्निपातिकम् ॥
दोषधातुमलाधारो देहिनां देह उच्यते ।
तेषां समत्वमारोग्यं क्षयवृद्धी विपर्य्ययः ॥
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
वातपित्तकफा दोषा विण्मूत्रद्या मलाः स्मृताः ।
वायुः शीतो लघुः सूक्ष्मः खरो रूक्षोऽस्थिरो
बली ।
पित्तमम्लकटूष्णञ्च पक्त्योजोरोमकारणम् ॥
मधुरो लवणः स्निग्धो गुरुः श्लेष्मातिपिच्छिलः ।
पृष्ठ ४/०५९
गुदश्रोण्याश्रयो वायुः पिक्तं पक्वाशयस्थितम् ॥
कफस्यामाशयं स्थानं कण्ठोरुमूर्द्धसन्धयः ।
कटुतिक्तकषायाश्च कफपित्तादिसंश्रयः ।
कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् ॥
एत एव विपर्य्यस्ताः समायैषां प्रयोजिताः ।
भवन्ति रोगिणां शान्त्यै सुस्थानां सुखहेतवः ॥”
इत्यादि गारुडे १७२ अध्यायः ॥
(योगस्य सारः । शिवस्तवात्मको ग्रन्थविशेषः ॥)

योगाधमनं, क्ली, (योगेनाधमनम् ।) छलेन बन्ध-

कम् । यथा, --
“योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्युपधिं पश्येत् तत् सर्व्वं विनिवर्त्तयेत् ॥”
इति मनुः ॥
अस्य विवरणं योगदानशब्दे द्रष्टव्यम् ॥

योगारङ्गः, पुं, (योगेन ऋतुयोगेन आरङ्गः ।)

नारङ्गः । इति राजनिर्घण्टः ॥

योगारूढः, त्रि, (योगं विषयनिवृत्तिं यमादिकं वा

आरूढः ।) इन्द्रियभोग्येषु शब्दादिषु तत्साधन-
कर्म्मसु चानासक्तः । तस्य लक्षणं यथा, --
“यदा हि नेन्द्रियार्थेषु न कर्म्मस्वनुषज्जते ।
सर्व्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥”
इति श्रीभगवद्गीतायाम् । ६ । ४ ॥ * ॥
“कीदृशोऽयं योगारूढो यस्य शमः कारण-
मुच्यते इत्यत्राह यदेति । इन्द्रियार्थेषु इन्द्रिय-
भोग्येषु शब्दादिषु तत्साधनेषु च कर्म्मसु यदा
नानुषज्जते आसक्तिं न करोति । तत्र हेतुः
आसक्तिमूलभूतान् सर्व्वान् भोगविषयान्
कर्म्मविषयांश्च सङ्कल्पान् संन्यसितुं त्यक्तुं शीलं
यस्य सः । तदा योगारूढ उच्यते ।” इति तट्टी-
कायां श्रीधरस्वामी ॥

योगासनं, क्ली, (योगस्यासनं योगसाधनमासन-

मिति वा ।) ब्रह्मासनम् । ध्यानासनम् । इति
हेमचन्द्रः । ३ । ५०३ ॥ (तत्तु पद्मासनादि ।
यथा, भट्टिकाव्ये । ७ । ७७ ।
“इत्युक्त्वा सर्व्व एवास्थुर्बद्ध्वा योगासनानि ते ॥”
“योगासनानि पद्मासनानि ।” इति तट्टीकायां
जयमङ्गलभरलमल्लिकौ ॥)

योगिदण्डः, पुं, (योगिनां दण्डोऽवलम्बनयष्टिः ।)

वेत्रः । इति राजनिर्घण्टः ॥

योगिनी, स्त्री, (योगोऽस्त्यस्या इति । योग + इनिः ।

ङीप् ।) योगयुक्ता नारी । (यथा, मार्कण्डेये ।
५२ । ३१ ।
“ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥”)
भगवत्याः सखीरूपा आवरणदेवता । सा
कोटिविधा । तासां मध्ये चतुःषष्टिः प्रधानाः ।
यथा । नारायणी १ गौरी २ शाकम्भरी ३
भीमा ४ रक्तदन्तिका ५ भ्रामरी ६ पार्व्वती ७
दुर्गा ८ कात्यायनी ९ महादेवी १० चण्डघण्टा
११ महाविद्या १२ महातपा १३ सावित्री १४
ब्रह्मवादिनी १५ भद्रकाली १६ विशालाक्षी १७
रुद्राणी १८ कृष्णपिङ्गला १९ अग्निज्वाला २०
रौद्रमुखी २१ कालरात्रिः २२ तपस्विनी २३
मेघस्वना २४ सहस्राक्षी २५ विष्णुमाया २६
जलोदरी २७ महोदरी २८ मुक्तकेशी २९
धोररूपा ३० महाबला ३१ श्रुतिः ३२ स्मृतिः
३३ धृतिः ३४ तुष्टिः ३५ पुष्टिः ३६ मेधा ३७
विद्या ३८ लक्ष्मीः ३९ सरस्वती ४० अपर्णा ४१
अम्बिका ४२ योगिनी ४३ डाकिनी ४४
शाकिनी ४५ हारिणी ४६ हाकिनी ४७
लाकिनी ४८ त्रिदशेश्वरी ४९ महाषष्ठी ५०
सर्व्वमङ्गला ५१ लज्जा ५२ कौशिकी ५३
ब्रह्माणी ५४ माहेश्वरी ५५ कौमारी ५६
वैष्णवी ५७ ऐन्द्री ५८ नारसिंही ५९ वाराही
६० चामुण्डा ६१ शिवदूती ६२ विष्णुमाया ६३
मातृका ६४ । इति बृहन्नन्दिकेश्वरपुराणोक्त-
दुर्गापूजापद्धतिः ॥ अपि च ।
“ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च ।
कौमारी वैष्णवी दुर्गा नारसिंही च कालिका ॥
चामुण्डा शिवदूती च वाराही कौशिकी तथा ।
माहेश्वरी शाङ्करी च जयन्ती सर्व्वमङ्गला ॥
काली कपालिनी मेधा शिवा शाकम्भरी तथा ।
भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका
तथा ॥
क्षमा धात्री तथा स्वाहा स्वधापर्णा महो-
दरी ।
घोररूपा महाकाली भद्रकाली भयङ्करी ॥
क्षेमङ्करी चोग्रचण्डा चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चण्डी महामोहा प्रियङ्करी ॥
बलविकरिणी देवी बलप्रमथिनी तथा ।
मनोन्मथिनी देवी च सर्व्वभूतस्य दामिनी ॥
उमा तारा महानिद्रा विजया च जया तथा ।
पूर्ब्बोक्ताः शैलपुत्त्र्याद्या योगिन्यष्टौ च याः
क्रमात् ॥
ताभिराभिश्च सहिताश्चतुःषष्टीश्च योगिनीः ।
पूजयेन्मण्डलस्यान्तः सर्व्वकामार्थसिद्धये ॥”
इति कालिकापुराणे ६२ अध्यायः ॥ * ॥
अष्टयोगिन्यो यथा, --
“ततोऽष्टपत्रेष्वब्जस्य पूजयेदष्टयोगिनीः ॥
शैलपुत्त्रीं चण्डघण्टां स्कन्दमातरमेव च ।
कालरात्रिञ्च पूर्ब्बादिचतुर्दिक्षु प्रपूजयेत् ॥
चण्डिकामथ कुष्माण्डीं तथा कात्यायनीं शुभाम् ।
महागौरीं चाग्निकोणे नैऋत्यादिषु पूजयेत् ॥”
इति तत्रैव ५३ अध्यायः ॥ * ॥
तिथिविशेषे दिग्विशेषावस्थितयोगिन्यो यथा, --
“ब्रह्माणी संस्थिता पूर्व्वे प्रतिपन्नवमीतिथौ ।
माहेश्वरी चोत्तरे च द्बितीयादशमीतिथौ ॥
स्थिताग्नेये च कौमारी तृतीयैकादशीतिथौ ।
नारायणी च नैरृत्ये चतुर्थीद्बादशीतिथौ ॥
पञ्चम्याञ्च त्रयोदश्यां वाराही दक्षिणे तथा ।
षष्ठ्याञ्चैव चतुर्द्दश्यामिन्द्राणी पश्चिमे स्थिता ॥
सप्तम्यां पौर्णमास्याञ्च चामुण्डा वायुगोचरे ।
अष्टम्यमावास्ययोश्च महालक्ष्मीशगोचरे ॥
योगिनीसंमुखे नैव गमनादि प्रकारयेत् ॥”
इति गारुडे ५९ अध्यायः ॥ * ॥
अपि च ।
“प्रतिपन्नवमी पूर्व्वे रामा रुद्राश्च पावके ।
शरत्रयोदशी याम्ये वेदा मासाश्च नैरृते ॥
षष्ठी चतुर्द्दशी पश्चात् वायव्यां मुनिपूर्णिमा ।
द्बितीया दशमी यक्षे ऐश्यानां चाष्टमी कुहूः ॥
वामे शुभकरी देवी मृत्युदा दक्षिणे स्थिता ।
वधबन्धकरी चाग्रे पृष्ठे सर्व्वार्थसाधनी ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्कालयोगिनी यथा, --
“यस्यां दिश्युदयं याति ततो यामार्द्धभुक्तिका ।
भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥
प्राची धनेश्वरहुताशनकौणपेय-
वायव्यवारुणयमाधिपशङ्करेषु ।
एषु क्रमान्निवसति प्रतिपन्नवम्योः
पृष्ठे स्थिता शुभकरी गिरिराजपुत्त्री ॥”
इति समयामृतम् ॥ * ॥
अथ योगिनीसाधनम् । भूतडामरे ।
“अथातः संप्रवक्ष्यामि योगिनीसाधनोत्तमम् ।
सर्व्वार्थसाधनं नाम देहिनां सर्व्वसिद्धिदम् ॥
अतिगुह्या महाविद्या देवानामपि दुर्लभा ।
यासामभ्यर्च्चनं कृत्वा यक्षेशोऽभूद्धनाधिपः ॥
तासामाद्यां प्रवक्ष्यामि सुराणां सुन्दरीं प्रिये ।
अस्या अभ्यर्च्चनेनैव राजत्वं लभते नरः ॥
अथ प्रातः समुत्थाय कृत्वा स्नानादिकं शुभम् ।
प्रासादञ्च समासाद्य कुर्य्यादाचमनं ततः ॥
प्राणवान्ते सहस्रारे हूँं फट् दिग्बन्धनं चरेत् ॥
प्राणायामं ततः कुर्य्यात् मूलमन्त्रेण मन्त्रवित् ।
षडङ्गं मायया कुर्य्यात् पद्ममष्टदलं लिखेत् ॥
तस्मिन् पद्मे महामन्त्रं जीवन्यासं समाचरेत् ।
पीठे देवीं समावाह्य ध्यायेद्देवीं जगत्प्रियाम् ॥
पूर्णचन्द्रनिभां गौरीं विचित्राम्बरधारिणीम् ।
पीनोत्तुङ्गकुचां रामां सर्व्वेषामभयप्रदाम् ॥
इति ध्यात्वा च मूलेन दद्यात् पाद्यादिकं शुभम् ।
पुनर्धूपं निवेद्यैव नैवेद्यं मूलमन्त्रतः ।
गन्धचन्दनताम्बूलं सकर्पूरं सुशोभनम् ॥
प्रणवान्ते भुवनेशी आगच्छ सुरसुन्दरि ! ।
वह्नेर्भार्य्या जपेन्मन्त्रं त्रिसन्ध्यञ्च दिने दिने ॥
सहस्रैकप्रमाणेन ध्यात्वा देवीं सदा बुधः ।
मासान्ते व्याप्य दिवसं वलिपूजां सुशोभनाम् ॥
कृत्वा च प्रजपेन्मन्त्रं निशीथे याति सुन्दरी ।
सुदृढं साधकं मत्वा याति सा साधकालये ॥
सुप्रसन्ना साधकाग्रे सदा स्मेरमुखी ततः ।
दृष्ट्वा देवीं साधकेन्द्रो दद्यात् पाद्यादिकं शुभम् ॥
सुचन्दनं मुमनसो ज्ञात्वाभिलषितं वदेत् ।
मातरं भगिनीं वापि भार्य्यां वा भक्तिभावतः ॥
यदि माता तदा वित्तं द्रव्यञ्च मुमनोहरम् ।
भूपतित्वं प्रार्थितं यत्तद्ददाति दिने दिने ।
पुत्त्रवत् पाति तं लोके सत्यं सत्यं सुनिश्चितम् ॥
स्वसा ददाति द्रव्यञ्च दिव्यवस्त्रं तथैव च ।
दिव्यां कन्यां समानीय नागकन्यां दिने दिने ॥
यद्यद्भवति भूतञ्च भविष्यतीति यत् पुनः ।
तत् सर्व्वं साधकेन्द्राय निवेदयति निश्चितम् ॥
पृष्ठ ४/०६०
यत् यत् प्रार्थयते सर्व्वं ददाति सा दिने दिने ।
भ्रातृवत् पाति तं लोके कामनाभिर्मनीगतैः ॥
भार्य्या स्याद्यदि सा देवी साधकस्य मनोहरा ।
राजेन्द्रः सर्व्वराजानां संसारे साधकोत्तमः ॥
स्वर्गे मर्त्ये च पाताले गतिः सर्व्वत्र निश्चितम् ।
यद्यद्ददाति सा देवी कथितुं नैव शक्यते ॥
तया सार्द्धञ्च संभोगं करोति साधकोत्तमः ।
अन्यस्त्रीगमनं त्यक्त्वा अन्यथा नश्यति ध्रुवम् ॥ १ * ॥
ततोऽन्यत् साधनं वक्ष्ये निर्म्मितं ब्रह्मणा पुरा ।
नदीतीरं समासाद्य कुर्य्यात् स्नानादिकं ततः ॥
पूर्ब्बवत् सकलं कार्य्यं चन्दनैर्मण्डलं लिखेत् ।
स्वमन्त्रं तत्र संलिख्यावाह्य ध्यायेन्मनोहराम् ॥
कुरङ्गनेत्रां शरदिन्दुवक्त्रां
विम्बाधरां चन्दनगन्धलिप्ताम् ।
चीनांशुकां पीनकुचां मनोज्ञां
श्यामां सदा कामदुघां विचित्राम् ॥
एवं ध्यात्वा जपेद्देवीमगुरुधूपदीपकैः ।
गन्धं पुष्परसञ्चैव ताम्बुलादींश्च मूलतः ॥
तारं माया गच्छ मनोहरे पावकवल्लभा ।
कृत्वायुतं प्रतिदिनं जपेन्मन्त्रं प्रसन्नधीः ॥
मासान्ते व्याप्य दिवसं कुर्य्याच्च जपमुत्तमम् ।
आनिशीथं जपेन्मन्त्रं ज्ञात्वा च साधकं दृढम् ॥
गत्वा च साधकाभ्यासे सुप्रसन्ना मनोहरा ।
ततोऽर्च्चिता प्रसन्ना सा पुष्णाति प्रार्थिञ्च यत् ॥
स्वर्णशतं साधकाय ददाति सा दिने दिने ।
सावशेषं व्ययं कुर्य्यात् स्थिते तत्तु न दास्यति ॥
अन्यस्त्रीगमनं तस्य न भवेत् सत्यमीरितम् ।
अव्याहतगतिस्तस्य भवतीति न संशयः ॥
इयं ते कथिता विद्या सुगोप्या या सुरासुरैः ।
तव स्नेहेन भक्त्या च वक्ष्येऽहं परमेश्वरि ! ॥ २ ॥
ततोऽन्यत् साधनं वक्ष्ये शृणुष्वैकमनाः प्रिये ।
गत्वा वटतलं देवीं पृजयेत् साधकोत्तमः ॥
प्राणायामं षडङ्गञ्च माययाथ समाचरेत् ।
सद्योमांसं वलिं दत्त्वा पूजयेत्तां समाहितः ॥
अर्घ्यमुच्छिष्टरक्तेन दद्यात्तस्यै दिने दिने ।
प्रचण्डवदनां गौरीं पक्वविम्बाधरां प्रिये ॥
रक्ताम्बरधरां बालां सर्व्वकामप्रदां शुभाम् ।
एवं ध्यात्वा जपेन्मन्त्रमयुतं साधकोत्तमः ॥
सप्तदिनं समभ्यर्च्च्य चाष्टमे विधिवच्चरेत् ।
कायेन मनसा वाचा पूजयेच्च दिने दिने ॥
तारं माया तथा कूर्च्चं रक्ष कर्म्मणि तद्बहिः ।
आगच्छ कनकान्ते तु वतिः स्वाहा महामनुः ।
आनिशीथं जपेन्मन्त्रं बलिं दत्त्वा मनोहरम् ॥
साधकेन्द्रं दृढं मत्वा आयाति साधकालये ।
साधकेन्द्रोऽपि तां दृष्ट्वा दद्यादर्घ्यादिकं ततः ॥
ततः सपरिवारेण भार्य्या स्यात् कामभोजनैः ।
वस्त्रभूषादिकं त्यक्त्वा याति सा निजमन्दिरम् ॥
एवंभार्य्या भवेन्नित्यं साधकाज्ञानुरूपतः ।
आत्मभार्य्यां परित्यज्य भजेत्ताञ्च विचेक्षणः ॥ ३ ॥
ततः कामेश्वरीं वक्ष्ये सर्व्वकामफलप्रदाम् ।
प्रणवं भुवनेशानी चागच्छ कामेश्वरि ततः ॥
वह्नेर्भार्य्या महामन्त्रं साधकानां सुखावहम् ।
पूर्व्ववत् सकलं कृत्वा भूर्जपत्रे सुशोभने ॥
गोरोचनाभिः प्रतिमां विनिर्म्माय स्वलङ्कृताम् ।
शय्यामारुह्य प्रजपेन्मन्त्रमेकमनास्ततः ॥
सहस्रैकप्रमाणेन मासमेकं जपेद्बुधः ।
घृतेन मधुना दीपं दद्याच्च सुसमाहितः ॥
कामेश्वरीं शशाङ्कास्यां चलत्खञ्जनलोचनाम् ।
सदा लोलगतिं कान्तां कुसुमास्त्रशिलीमुखीम् ॥
एवं ध्यात्वा जपेन्मन्त्रं निशीथे याति सा तदा ।
दृष्ट्वा तु साधकः श्रेष्ठामाज्ञां देहीति तां वदेत् ॥
स्त्रीभावेन मुदा तस्यै दद्यात् पाद्यादिकं ततः ।
सुप्रसन्ना तदा देवी साधकं तोषयेत् सदा ॥
अन्नाद्यैरतिभोगेन पतिवत् पालयेत् सदा ।
नीत्वा रात्रौ सुखैश्वर्य्यैर्दत्त्वा च विपुलं धनम् ॥
वस्त्रालङ्कारद्रव्यावीन् प्रभाते याति निश्चितम् ।
एवं प्रतिदिनं तस्य सिद्धिः स्यात् कामरूपतः ॥ ४ ॥
ततः पटे विनिर्म्म य पुत्तलिं ध्यानरूपतः ।
सुवर्णवर्णां गौराङ्गीं सर्व्वालङ्कारभूषिताम् ॥
नूपुराङ्गदहाराढ्यां रम्याञ्च पुष्करेक्षणाम् ।
एवं ध्यात्वा जपेन्मन्त्रं दत्त्वा च पाद्यमुत्तमम् ॥
सचन्दनेन पुष्पेण जातीपुष्पेण यत्नतः ।
गुग्गुलुं धूपदीपौ च दद्यान्मूलेन साधकः ॥
मन्त्रस्तु ।
तारं मायां तथागच्छ रतिसुन्दरिपदं ततः ।
वह्निजाया चाष्टसहस्रं जपेन्मन्त्रं दिने दिने ॥
मासान्ते दिवसं प्राप्य कुर्य्यात् पूजादिकं शुभम् ।
घृतदीपं तथा गन्धं पुष्पं ताम्बूलमेव च ॥
तावन्मन्त्रं जपेद्विद्वान् यावदायाति सुन्दरी ।
ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम् ॥
ततस्तामर्च्चयेद्भक्त्या जातीकुसुममालया ।
सुसन्तुष्टा साधकेन्द्रं तोषयेद्रतिभोजनैः ॥
भूत्वा भार्य्या च सा तस्मै ददाति वाञ्छितं वरम् ।
भूषादिकं परित्यज्य प्रभाते याति सा ध्रुवम् ॥
साध्यकाज्ञानुरूपेण प्रयाति सा दिने दिने ।
निर्ज्जने प्रान्तरे देवि ! सिद्धिः स्यान्नात्र संशयः ॥
त्यक्त्वा भार्य्यां भजेत्ताञ्च अन्यथा नश्यति ध्रुवम् ॥ ५ ॥
ततोऽन्यत् साधनं वक्ष्ये स्वगृहे शिवसन्निधौ ।
वेदाद्यं भुवनेशीञ्चागच्छ पद्मिनि वल्लभा ॥
पावकस्य महामन्त्रं पूर्ब्बवत् सकलं ततः ।
मण्डलं चन्दनैः कृत्वा मूलमन्त्रं लिखेत्ततः ॥
पद्माननां श्यामवर्णां पीनोत्तुङ्गपयोधराम् ।
कोमलाङ्गीं स्मेरमुखीं रक्तोत्पलदलेक्षणाम् ॥
एवं ध्यात्वा जपेन्मन्त्रं सहस्रञ्च दिने दिने ।
मासान्ते पूर्णिमां प्राप्य विधिवत् पूजयेत् सदा ॥
आनिशीथं जपेन्मन्त्रं दृढाभ्यासेन साधकः ।
सर्व्वत्र कुशलं ज्ञात्वा सा याति साधकालयम् ॥
भूत्वा भार्य्या साधकं हि साधयेद्विविधैरपि ।
भोगैर्दिर्व्यैर्भूषणाद्यैः पद्मिनी सा दिने दिने ॥
पतिवत् पाति तं लोके नित्यं स्वर्गे च सर्व्वदा ।
त्यक्त्वा भार्य्यां भजेत् ताञ्च साधकेन्द्रः सदा प्रिये ॥ ६ ॥
ततो वक्ष्ये महाविद्यां विश्वामित्रेण धीमता ।
ज्ञात्वा दृढं साधिता विद्या बला चातिबला प्रिये ॥
मन्त्रस्तु ।
प्रणवान्ते महामाया नटिनि पावकप्रिया ।
महाविद्येह कथिता गोपनीया प्रयत्नतः ॥
अशोकस्य तलं गत्वा स्नानं पूर्ब्बवदाचरेत् ।
मूलमन्त्रेण सकलं कुर्य्याच्च सुसमाहितः ॥
त्रैलोक्यमोहिनीं गौरीं विचित्राम्बरधारिणीम् ।
विचित्रालङ्कृतां रम्यां नर्त्तकीवेशंधारिणीम् ॥
एवं ध्यात्वा जपेन्मन्त्रं सहस्रञ्च दिने दिने ।
मांसोपहारैः संपूज्य धूपं दीपं निवेदयेत् ॥
गन्धचन्दनताम्बूलं दद्यात्तस्यै मुदा बुधः ।
मासमेकञ्च तां भक्त्या पूजयेत् साधकोत्तमः ॥
मासान्ते दिवसं प्राप्य कुर्य्याच्च पूजनं महत् ।
अर्द्धरात्रौ भयं दत्त्वा किञ्चित् साधकसत्तमे ।
सुदृढं साधकं मत्वा याति सा साधकालयम् ॥
विद्याभिः सकलाभिश्च किञ्चित्स्मेरमुखी ततः ।
वरं वरय शीघ्रं त्वं यत्ते मनसि वर्त्तते ॥
तत् श्रुत्वा साधकश्रेष्ठो भावयेन्मनसा धिया ।
मातरं भगिनीं वापि भार्य्यां वा प्रीतिभावतः ।
कृत्वा सन्तोषयेद्भक्त्या नटिनी तत् करोत्यलम् ॥
माता स्याद्यदि सा देवी पुत्त्रवत् पातितं मुदा ।
स्वर्णशतं सिद्धिद्रव्यं ददाति सा दिने दिने ॥
भगिनी यदि सा कन्यां देवस्य नागकन्यकाम् ।
राजकन्यां समानीय ददाति सा दिने दिने ।
अतीतानागतां वार्त्तां सर्व्वां जानाति साधकः ॥
भार्य्या स्यात् यदि सा देवी ददाति विपुलं धनम् ।
अन्नाद्यैरुपचारैश्च ददाति कामभोजनम् ॥
स्वर्णशतं सदा तस्मै ददाति सा ध्रुवं प्रिये ।
यत् यत् वाञ्छति तत् सर्व्वं ददाति नात्र संशयः ॥ ७
महाविद्यां प्रवक्ष्यामि सावधानावधारय ।
कुङ्कुमेन समालिख्य भूर्ज्जपत्रे स्त्रियं मुदा ॥
ततोऽष्टदलमालिख्य कुर्य्यान्न्यासादिकं प्रिये ।
जीवन्यासादिकं कृत्वा ध्यायेत् तत्र प्रसन्नधीः ॥
शुद्धस्फटिकसङ्काशां नानारत्नविभूषिताम् ।
मञ्जीरहारकेयूररत्नकुण्डलमण्डिताम् ।
एवं ध्यात्वा जपेन्मन्त्रं सहस्रन्तु दिने दिने ॥
प्रतिपद्दिनमारभ्य पूजयेत् कुसुमादिभिः ।
धूपदीपविधानैश्च त्रिसन्ध्यं पूजयेन्मुदा ॥
पूर्णिमां प्राप्य गन्धाद्यैः पूजयेत् साधकोत्तमः ।
घृतदीपं तथा धूपं नैवेद्यञ्च मनोरमम् ॥
रात्रौ च दिवसे जप्यं कुर्य्याच्च सुसमाहितः ।
प्रभातसमये याति साधकस्यान्तिकं ध्रुवम् ॥
प्रसन्नवदना भूत्वा तोषयेद्रतिभोजनैः ।
देवदानवगन्धर्व्वविद्याधृग्यक्षरक्षसाम् ॥
कन्याभी रत्नभूषाभिः साधकेन्द्रं मुहुर्मुहुः ।
चर्व्यं चोष्यादिकं द्रव्यं दिव्यं ददाति सा ध्रुवम् ॥
स्वर्गे मर्त्ये च पाताले यद्बस्तु विद्यते प्रिये ।
आनीय दीयते सत्यं साधकाज्ञानुरूपतः ॥
स्वर्णशतं सदा तस्मै ददाति सा दिने दिने ।
साधकाय वरं दत्त्वा याति सा निजमन्दिरम् ॥
तस्या वरप्रसादेन चिरजीवी निरामयः ।
सर्व्वज्ञः सुन्दरः श्रीमान् सर्व्वगो भवति ध्रुवम् ।
रेमे सार्द्धं तया देवि साधकेन्द्रो दिने दिने ॥
मन्त्रस्तु ।
पृष्ठ ४/०६१
तारं मायां तथागच्छानुरागिणि मैथुनप्रिये ।
वह्निभार्य्या मनुः प्रोक्तः सर्व्वसिद्धिप्रदायकः ॥
एषा मधुमती तु स्यात् सर्व्वसिद्धिप्रदा प्रिये ।
गुह्यात् गुह्यतरा विद्या तव स्नेहात प्रकी-
र्त्तिता ॥ ८ ॥
देव्युवाच ।
श्रुतञ्च साधनं पुण्यं यक्षिणीनां सुखप्रदम् ।
यस्मिन् काले प्रकर्त्तव्यं विधिना केन वा प्रभो ।
अत्राधिकारिणः के वा समासेन वदस्व मे ॥
ईश्वर उवाच ।
वसन्ते साधयेद्धीमान् हविष्याशी जितेन्द्रियः ।
सदा ध्यानपरो भूत्वा तद्दर्शनमहोत्सुकः ॥
उज्जटे प्रान्तरे वापि कामरूपे विशेषतः ।
स्थानेष्वेकतमं प्राप्य साधयेत् सुसमाहितः ।
अनेन विधिना साक्षात् भविष्यति न संशयः ॥
देव्याश्च सेवकाः सर्व्वे परं चात्राधिकारिणः ।
तारकब्रह्मणो भृत्यं विनाप्यत्राधिकारिणः ॥”
इति तन्त्रसारे योगिनीसाधनप्रकरणं समाप्तम् ॥
दशविधदशान्तर्गतदशाविशेषः । यथा, --
“स्वनक्षत्रं ध्रुवं कृत्वा पञ्च तत्र विमिश्रयेत् ।
मङ्गलेन हृतः शेषो मङ्गलादिविनिश्चयः ॥
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धा सङ्कटा च योगिन्यष्टौ प्रकीर्त्तिताः ॥
अब्दैकं मङ्गला धत्ते शेषास्त्वेकैकवर्द्धिकाः ।
पुनस्त्र्यर्कान्निवर्त्तन्ते चक्रवत् परिवर्त्तनात् ॥”
अपि च ।
“रोहिण्यादौ त्रिरावृत्त्या मङ्गलादौ यथाक्रमम् ।
उल्का सिद्धा सङ्कटा च अश्विन्यादित्रये पुनः ॥”
एतासामन्तर्दशा ।
“दशावर्षन्तु षट्त्रिंशद्भागं कृत्वा विनिर्द्दिशेत् ।
यन्तु यस्या हि यद्बर्षं तत्तद्भागं प्रकीर्त्तितम् ॥”
फलं यथा, --
“मङ्गला मङ्गलं धत्तेऽतुलभोगं सुखं तथा ।
गोगजाश्वसहस्राणि गृहे तस्य दिने दिने ॥
पिङ्गला विविधं दुःखमन्नचिन्तादिसम्भवम् ।
ददाति नाशं शत्रुभ्यो धनधान्यगजादिकम् ॥
धन्या च सततं दत्ते सर्व्वत्र विजयादिकम् ।
शत्रुभ्यो रक्षते नित्यं मातृवत् परिपालयेत् ॥
भ्रामरी विविधं दुःखमन्तःसम्भ्र मसम्भवम् ।
अकस्मात्तस्य दुर्द्दैवं विधिना प्रेरितं भवेत् ॥
भद्रिका विविधान् धत्ते सम्मानादिमनोरथान् ।
तुष्टा चेद्भद्रिका नित्यं दुर्ग्रहः सुग्रहायते ॥
उल्का व्याधिकरी प्रोक्ता नित्यं नानाभयप्रदा ।
उल्का यदि समायाति सुग्रहो दुर्ग्रहायते ॥
सिद्धा च साधयेत् सर्व्वं मन्त्रारम्भधनादिकम् ।
यस्य तुष्टा भवेत् सिद्धा लक्ष्मीस्तस्य करे स्थिता ॥
सङ्कटा सङ्कटं दत्ते भुङ्क्ते धान्यधनादिकम् ।
सैव भाव्या सदा नित्यं गृही कृष्णः फणी यथा ॥”
इत्युद्बोधचन्द्रिका ॥

योगी, [न्] पुं, (योगः अस्त्यस्येति । योग +

इनिः । यद्बा, युज समाधौ । युजिर् योगे वा +
“संपृचानुरुधोत ।” ३ । २ । १४२ । इति घिनुण् ।)
योगयुक्तः । तस्य लक्षणादि यथा, --
“स्वर्णे लोष्टे गृहेऽरण्ये सुस्निग्धे चन्दने तथा ।
समता भावना यस्य स योगी परिकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥
अपि च ।
“आत्मौपम्येन सर्व्वत्र सभं पश्यति योऽर्ज्जुन ! ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥”
इति श्रीभगवद्गीतायाम् ७ अध्यायः ॥
अन्यच्च ।
ऋषय ऊचुः ।
“भगवन् ! देवतारिघ्न ! हिरण्यादिनिसूदन ! ।
चत्वारो ह्याश्रमाः प्रोक्ता योगी नाम क
उच्यते ॥
सर्व्वकर्म्माणि संन्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥
सर्व्वेषामाश्रमाणान्तु द्बैविध्यं श्रुतिदर्शितम् ।
ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥
उदासीनसाधकश्च गृहस्थो द्विविधो भवेत् ।
ऋणानि त्रीण्युपाहृत्य त्यक्त्वा भार्य्याधनादिकम् ॥
एकाकी यस्तु विचरेदुदासीनः स मोक्षिकः ।
कुटुम्बभरणायत्तः साधकोऽसौ गृही भवेत् ॥
तपस्तप्यति योऽन्येन यजेद्देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥
तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सन्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्ज्जितेन्द्रियः ।
ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते परमेष्ठिकः ॥
यश्चात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग्दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥
ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनः परे ।
कर्म्मसन्न्यासिनः केचिद्विविधाः परमेष्ठिकाः ॥
योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च ।
तृतीयोऽन्याश्रमी प्रोक्तो योगमुत्तममास्थितः ॥”
इति कौर्म्मे २ अध्यायः ॥
(तेषां स्त्रीसङ्गनिषेधो यथा, --
“यदि सङ्गं करोत्येव बिन्दुस्तस्य विनश्यति ।
आयुःक्षयो बिन्दुहीनादसामर्थ्यञ्च जायते ॥
तस्मात् स्त्रीणां सङ्गवर्ज्यं कुर्य्यादभ्यासमाद-
रात् ।
योगिनोऽङ्गस्य सिद्धिः स्यात् सततं बिन्दुधार-
णात् ॥”
इति दत्तात्रेयसंहिता ॥
तेषां पथ्यं यथा, हठयोगप्रदीपिकायाम् ।
“गोधूमशालियवषष्टिकशोभनान्नं
क्षीराद्यखण्डनवनीतसितामधूनि ।
शूण्ठीकपोलकफलादिकपञ्चशाकं
मुद्गादिदिव्यमुदकञ्च यमीन्द्रपथ्यम् ॥”
तेषामपथ्यं यथा, तत्रैव ।
“कट्वम्लतिक्तलवणोष्णहरीतशाव
सौवीरतैलतिलसर्षपमत्स्यमद्यम् ।
आजादिमांसदधितक्रकुलत्थकोल-
पिन्याकहिङ्गुलसुनाद्यमपथ्यमाहुः ॥”)

योगीश्वरः, पुं, (योगिनामीश्वरः ।) याज्ञवल्क्य-

मुनिः । (इति हेमचन्द्रे योगेशशब्ददर्शनात् ।
३ । ८५१ ॥) यथा, --
“योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्म्मानशेषतः ॥”
“योगिनां सनकादीनां ईश्वरः श्रेष्ठस्तं याज्ञ-
वल्क्यं संपूज्य ।” इति मिताक्षरा ॥ त्रि,
यगिनां श्रेष्ठः । (यथा, मार्कण्डेये । ९६ । २८ ।
“यजन्ति यानस्तमलैर्मनोभि-
र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥”)

योगीश्वरी, स्त्री, (योगिनामीश्वरी ।) दुर्गा ।

यथा, --
“योगिशक्रादयो देवाः सनकान्तास्तपोधनाः ।
तेषां स्वामी तथा योगी ईश्वरी प्रभुपालना ॥
आत्मेन्द्रियमनादीनां संयोगो योग उच्यते ।
तेषां वा योजनाद्योगी योगैश्वर्य्यविबोधना ॥”
इति देवीपुराणे ४५ अध्यायः ॥

योगेशः, पुं, (योगस्य ईशः ईश्वरः ।) याज्ञ-

वल्क्यः । इति हेमचन्द्रः । ३ । ८५१ ॥ (योगे-
श्वरे, त्रि । यथा, भागवते । ४ । १९ । ६ ।
“कपिलो नारदो दत्तो यगेशाः सनकादयः ।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥”)

योगेश्वरः, पुं, (योगानां ईश्वरः ।) श्रीकृष्णः ।

यथा, --
“ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म्मवर्म्मणि ।
स्वां काष्ठामधुनोपेते धर्म्मः कं शरणं गतः ॥”
इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥
(शिवः । यथा, महाभारते । १३ । १४ । ३२३ ।
“नमस्ते भगवन् देव ! नमस्ते भक्तवत्सल ! ।
योगेश्वर ! नमस्तेऽस्तु नमस्ते विश्वसम्भव ! ॥”
देवहोत्रतनयः । यथा, भागवते । ८ । १३ । ३२ ।
“देवहोत्रस्य तनय उपहर्त्ता दिवस्पतेः ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥”

योगेश्वरी, स्त्री, बन्ध्याकर्कोटकी । इति भाव-

प्रकाशः ॥ (योगानामीश्वरी । दुर्गा । यथा, --
“त्वचं योगेश्वरी तथा -- ।” इति चण्डीकव-
चम् ॥ योगयुक्ते, त्रि । यथा, मार्कण्डेये । ९७ । ८ ।
“प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥”)

योगेष्टं, क्ली, (योगे सन्धिच्छिद्रादिपूरणे इष्टम् ।)

सीसकम् । इत्यमरः । २ । ९ । १०५ ॥ (तथास्य
पर्य्यायः ।
“नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

योग्यं, क्ली, (योज्यत इति । युज् + णिच् + ण्यत् ।)

ऋद्धिनामौषधम् । वृद्धिनामौषधम् । इत्य-
मरः । २ । ४ । ११२ ॥

योग्यः, त्रि, (योगाय प्रभवति । योग् + “योगाद्-

यच्च ।” ५ । १ । १०२ । इति यत् ।) प्रवीणः ।
योगार्हः । (यथा, रघुः । ६ । २९ ।
पृष्ठ ४/०६२
“कान्त्या गिरा सूनृतया च योग्या
त्वमेव कल्याणि ! तयोस्तृतीया ॥”)
उपायी । शक्तः । इति मेदिनी हेमचन्द्रश्च ॥
(यथा, मार्कण्डेये । ७१ । १० ।
“अपत्नीको नरो भूप न योग्यो निजकर्म्म-
णाम् ॥”
योजनसाधनभूतः । यथा, ऋग्वेदे । ३ । ६ । ६ ।
“ऋतस्य वा केशिना योग्याभिः ।”
“योग्याभिर्योजनसाधनभूताभी रज्जुभिः ।” इति
सायणः ॥ शकटादियोजनीयः । यथा, शत-
पथब्राह्मणे । १ । ३ । १ । १३ ।
“योक्त्रण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या
अमेध्यं यदवाचीनम् ।”
“योग्यं योजनीयमनडुदश्वादिकम् ।” इति
तद्भाष्यम् ॥) पुष्यनक्षत्रे, पुं । इति मेदिनी ।
ये, ४९ ॥

योग्यता, स्त्री, (योग्यस्य भावः । योग्य + तल् ।

टाप् ।) क्षमता । इति लोकप्रसिद्धिः ॥ (यथा,
मार्कण्डेये । ११३ । ९ ।
“तथान्यानप्ययोग्यानि योग्यतां यान्ति कालतः ।
योग्यान्ययोग्यतां यान्ति कालवश्या हि
योग्यता ॥”)
शाब्दबोधकारणविशेषः । स तु पादार्थानां
परस्परसम्बन्धे वाधाभावः । इति साहित्य-
दर्पणम् ॥ न्यायमते तत्पदार्थे तत्पदार्थवत्ता ।
यथा, --
“पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता ।”
इति भाषापरिच्छेदः ॥
“योग्यतां निरूपयति पदार्थ इत्यादिना ।
एकपदार्थेऽपरपदार्थसम्बन्धो योग्यता इत्यर्थः ।
तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादौ न
शाब्दबोधः । नन्वेतस्या योग्यताया ज्ञानं
शाब्दबोधात् प्राक् सर्व्वत्र न सम्भवति वाक्यार्थ-
स्यापूर्ब्बत्वादिति चेन्न तत्तत्पदार्थस्मरणे सति
क्वचित् संशयरूपस्य क्वचिन्निश्चयरूपस्यापि
योग्यताया ज्ञानस्य सम्भवात् । नव्यास्तु
योग्यताज्ञानं न शब्दज्ञाने कारणं वह्निना
सिञ्चति इत्यादौ सेके वह्निकरणकत्वाभाव-
रूपायोग्यताया निश्चयेन प्रतिबन्धान्न ज्ञाब्द-
बोधः । तदभावनिश्चयस्य लौकिकसन्निकर्षा-
जन्यदोषविशेषाजन्यज्ञानपात्रे प्रतिबन्धकत्वात्
शाब्दे प्रतिबन्धकत्वं सिद्धं योग्यताज्ञान-
विलम्बाच्च शाब्दविलम्बोऽसिद्ध इति वदन्ति ।”
इति सिद्धान्तमुक्तावली ॥

योग्या, स्त्री, (योग्य + टाप् ।) अभ्यासः । (यथा,

रघुः । ८ । १९ ।
“अपरः प्रणिधानयोग्यया
मरुतः पञ्च शरीरगोचरान् ॥”
“अपरो रघुः प्रणिधानयोग्यया समाध्य-
भ्यासेन ।” इति मल्लिनाथः ॥) अर्कयोषित् ।
इति मेदिनी । ये, ४९ ॥ शस्त्रा भ्यासः । तत्-
पर्य्यायः । खुरली २ श्रमः ३ अभ्यासः ४ ।
तद्भूः खलूरिका । इति हेमचन्द्रः । ३ । ४५२ ॥
(यथा, सुश्रुते सूत्रस्थाने ९ अध्याये ।
“अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः ।
अधिगतसर्व्वशास्त्रार्थमपि शिष्यं योग्याङ्कार-
येत् । छेद्यादिषु स्नेहादिषु च कर्म्मपथमुप-
दिशेत् । सुबहुश्रुतोऽप्यकृतयोग्यः कर्म्मस्वयोग्यो
भवति । तत्र पुष्पफलालावूकालिन्दकत्रपुषै-
र्व्वारुककर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शये-
दुत्कर्त्तनपरिकर्त्तनानि चोपदिशेत् । दृतिवस्ति-
प्रसेकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्याम् ।
सरोम्नि चर्म्मण्यातते लेख्यस्य । मृतपशुसिरा-
सूत्पलनालेषु च वेध्यस्य । घुणोपहतकाष्ठवेणु-
नलनालीशुष्कालावुमुखेव्वे ष्यस्य । पनसविम्बी-
विल्वफलमज्जमृतपशुदन्तेष्वाहार्य्यस्य । मधु-
च्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य । सूक्ष्म-
घनवस्त्रान्तयोर्मृदुचर्म्मान्तयोश्च सीव्यस्य । पुस्त-
मयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धयोग्याम् । मृदु-
मांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम् ।
मृदुषु मांसखण्डेष्वग्निक्षारयोग्याम् । उदक-
पूर्णघटपार्श्वस्रोतस्यलावूमुखादिषु च नेत्रप्रणि-
धानवस्तिव्रणवस्तिपीडनयोग्यामिति । भवत-
श्चात्र ।
एवमादिषु मेधावी योग्यार्हेषु यथाविधि ।
द्रव्येषु योग्यां कुर्व्वाणो न प्रमुह्यति कर्म्मसु ॥
तस्मात् कौशलमन्विच्छन् शस्त्ररक्षाग्निकर्म्मसु ।
यस्य यत्रेह साधर्म्म्यं तत्र योग्यां समा-
चरेत् ॥”
(युवती । यथा, --
“निदाघशरदोर्बाला प्रौडा वर्षावसन्तयोः ।
हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥”
योग्या युवती । इति राजवल्लभः ॥)

योजनं, क्ली, (युज्यते मनो यस्मिन्निति । युज् +

ल्युट् ।) परमात्मा । चतुःक्रोशी । योगः । इति
मेदिनी । ने, ११३ ॥ * ॥ (यथा, हरि-
वंशे । १४६ । १३ ।
“गान्धारकन्या वहने नृपाणां
रथे तथा योजनमूर्ज्जितानाम् ॥”)
चतुःक्रोश्यर्थे यथा, --
“द्वादशाङ्गुलिकः शङ्कुस्तद्द्बयन्तु शयः स्मृतः ।
तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥
तच्चतुष्कं योजनं स्यादित्यादि मानशास्त्रम् ॥
एतन्मते षोडशसहस्रहस्तैर्य्योजनं भवति ।
द्बात्रिंशत्सहस्रहस्तैरपि योजनम् । यथा, --
यवोदरैरङ्गुलमष्टसंख्यै-
र्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः ।
हस्तैश्चतुर्भिर्भवतीह दण्डः
क्रोशः सहस्रद्वितयेन तेषाम् ।
स्याद्योजनं क्रोशचतुष्टयेन
तथा कराणां दशकेन वंशः ॥”
इति लीलावती ॥

योजनगन्धः, स्त्री, (योजनं गन्धोऽस्याः । योज-

नात् गन्धोऽस्या इति वा ।) कस्तूरी । सीता ।
सत्यवती । इति मेदिनी । धे, ४८ ॥ (यथा
देवीभागवते । २ । २ । १८ ।
“इत्युक्तन तु सा कन्या क्षणमात्रेण भाविनी ।
कृता योजनगन्धा तु सुरूपा च वरानना ॥”)

योजनगन्धिका, स्त्री, सत्यवती । इति जटाधरः ॥

कस्तूरी । इत्यजयपालः ॥ सीता । योजनगन्धा-
शब्दात् स्वार्थे कप्रत्ययेन जातत्वात् ॥

योजनपर्णी, स्त्री, (योजनाय सन्धिस्थानादेर्म्मेलनार्थं

पर्णं यस्याः ।) मञ्जिष्ठा । इति रत्नमाला ॥

योजनवल्लिका, स्त्री (योजनवल्ली + स्वार्थे कन् ।

टाप् ।) मञ्जिष्ठा । इति राजनिर्घण्टः ॥

योजना, स्त्री, योगकारणा । इति ञ्यन्तयुज-

धातोरनप्रत्ययेन सिद्धम् ॥

योजनवल्ली, स्त्री, (योजनगामिनी अतिदीर्घा

वल्ली यस्याः सा ।) मञ्जिष्ठा । इत्यमरः । २ ।
४ । ९१ ॥ (तथास्याः पर्य्यायः ।
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ।
भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

योजितं, त्रि, कारितयोजनम् । ञ्यन्तयुजधातोः

कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, भाग-
वते । ४ । २१ । २२ ।
“अहं दण्डधरो राजा प्रजानामिह
योजितः ॥”)

योटकः, पुं, योटनम् । मेलनमिति यावत् । विवाहे

राशियोटक-ग्रहयोटक-नक्षत्रयोटक-गणयोटक-
वर्णयोटक-योनियोटक-वर्गयोटकभेदेन सप्तविधो
योटकः । तत्र राशियोटके षडष्टकनवपञ्च-
मद्विद्वादशविषमसप्तकयोगा निषिद्धाः । तदाह
श्रीपतिसंहितायाम् ।
“षडष्टकं त्रिकोणञ्च द्बिद्बादशकमेव च ।
परस्परं जन्मराशेस्त्यक्त्वा कन्याकुमारयोः ॥
षडष्टके भवेद्दोषो वैधव्यं मृत्युरेव वा ।
त्रिकोणे पुत्त्रहानिः स्यात् धनहानिर्धनव्यये ॥
पुरुषस्याष्टमे कन्या कन्यायाः षष्ठके पुमान् ।
शुभं षडष्टकं ज्ञेयं नोद्बाहे दूषणं भवेत् ॥
नवपञ्चमे ।
पुंसो गृहात् सुतगृहे सुतहा च कन्या
धर्म्मे स्थिता सुतवती पतिवल्लभा च ।
द्बिद्वादशे धनगृहे धनहा च कन्या
रिप्फे स्थिता धनवती पतिवल्लभा च ॥
योटके सप्तके मेषतुलौ युग्महयौ तथा ।
सिंहघटौ सदा वर्ज्यौ मृतिस्तत्राब्रवीच्छिवः ॥
राजयोटकमाह दीपिकायाम् ।
एकराशौ च दम्पत्योः शुभं स्यात् समसप्तके ।
चतुर्थदशके चैव तृतीयैकादशे तथा ॥”
इति राशियोटकविचारः ॥ * ॥
ग्रहयोटके ग्रहशत्रुयोगो निषिद्धः । कन्यावर-
राश्यधिपग्रहयोः शत्रुत्वे ग्रहशत्रुयोगः । तत्र
विवाहे रोगादिः फलम् । तदाह गर्गः । मरणं
पृष्ठ ४/०६३
भावविरोधे ग्रहरिपुभावे चाचिरेण रोगादिः ।
इति ग्रहयोटकविचारः ॥ * ॥ अन्ये योटकाः
प्रपञ्चभयान्न लिखिताः । इति ज्योतिषम् ॥
ग्रन्थान्तरे जोटकशब्दश्चवर्गतृतीयादिश्च ॥

योतुः, पुं, (यूयते ज्ञायते अनेनेति । यु + बाहु-

लकात् तुः ।) परिमाणम् । इत्युणादिकोषः ॥

योत्रं, क्ली, (यूयते अनेनेति । यु + “दाम्नीशस यु

युजस्तु तुद सि सिच मिह-पतदंश-नहः करणे ।”
३ । २ । १८२ । इति ष्ट्रन् ।) योक्त्वम् । इत्यमरः ।
२ । ९ । १३ ॥ (यथा, गो० रामायणे । २ ।
४५ । २९ ।
“भरतायाभिसृष्टाः स्म योत्राय पशवो यथा ॥”)

योद्धा, [ऋ] पुं, (युध्यतीति । युध् + तृच् ।) युद्ध-

कर्त्ता । तत्पर्य्यायः । भटः २ योधः ३ । इत्य-
मरः । २ । ८ । ६१ ॥ (यथा, हरिवंशे भविष्य-
पर्व्वणि । २ । १८ ।
“वाधिष्यते पुरीं योद्धा छिद्रं यदि लभेत सः ॥”)

योधः, पुं, (युध्यतीति । युध् + अच् ।) योद्धा ।

इत्यमरः । २ । ८ । ६१ ॥ (यथा, कथासरित्
सागरे । १२ । २२ ।
“सङ्केतमिलितैश्चान्यैर्योधास्तैः सैनिकैः सह ।
नित्युर्वत्सेश्वरं चण्डमहासेनान्तिकञ्च तत् ॥”)

योधनं, क्ली, युद्धम् । (यथा, मार्कण्डेये । १३५ । १७ ।

“योधनेषु स्वरूपेण दमो यस्य दुरात्मनः ।
स दमो वारयत्येष हन्मि तस्य रिपोर्गुरुम् ॥”)
अस्त्रम् ॥ युधधातोर्भावे करणे चानट् (ल्युट्)
प्रत्ययेन निष्पन्नम् ।

योधसंरावः, पुं, (योधानां संरावः ।) अन्योन्यं

योधानां युद्धायाह्वानम् । तत्पर्य्यायः । क्रन्द-
नम् २ । इत्यमरभरतौ ॥

योधेयः, पुं, (युध् + भावे घञ् । योधं युद्धं करो-

तीति । योध + खः ।) योद्धा । योधशब्दात्
ष्णेयप्रत्ययेन निष्पन्नः ॥

योनलः, पुं, (यवस्य नल इव नलः काण्डोऽस्य ।

पृषोदरादिः ।) शस्यविशेषः । तत्पर्य्यायः ।
यवनालः २ जूर्णाह्वयः ३ देवधान्यम् ४
जोन्ताला ५ बीजपुष्पिका ६ । इति हेमचन्द्रः ।
४ । २४४ ॥

योनिः, पुं, स्त्री, (यौति संयोजयतीति । यु +

“वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा०
४ । ५१ । इति निः ।) आकरः । इति मेदिनी ।
ने, १६ ॥ कारणम् । (यथा, उत्तरराम-
चरिते । ६ ।
“ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्व्ववैराणां सा हि लोकस्य
निरृतिः ॥”)
जलम् । इति हेमचन्द्रः । ३ । २४९ ॥ (कुश-
द्बीपस्थनदीविशेषः । यथा, मार्कण्डेये । १२१ । ७१ ।
“धूतपापा नदी नाम योनिश्चैव पुनः स्मृता ।
सीता द्वितीया विज्ञेया सा चैव हि निशा-
स्मृता ॥”
तन्त्रशास्त्रविशेषः । यथा, महासिद्धिसारस्वते ।
“सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् ।
तन्त्रान्तरञ्च देवेशि ! नवरत्नेश्वरं तथा ॥”)
प्राणिनामुत्पत्तिस्थानम् । इति त्रिकाण्डशेषः ॥
तत्तु चतुरशीतिलक्षप्रकारम् । यथा, --
“चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः ।
अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जरायुजाः ॥
एकविंशतिलक्षाणि ह्यण्डजाः परिकीर्त्तिताः ।
स्वेदजाश्च तथैवोक्ता उद्भिज्जास्तत्प्रमाणतः ॥
जरायुजाश्च तावन्तो मनुष्याद्याश्च जन्तवः ।
सर्व्वेषामेव जन्तूनां मानुषत्वं सुदुर्लभम् ॥”
इति श्रीगरुडपुराणे प्रेतकल्पे धर्म्मप्रकटनो नाम
२ अध्यायः ॥ * ॥ अन्यच्च ।
“जलजा नव लक्षाणि स्थावरा लक्षविंशतिः ।
कृमयो रुद्रसङ्ख्याकाः पक्षिणां दशलक्षकम् ॥
त्रिंशल्लक्षाणि पशवश्चतुर्लक्षाणि मानुषाः ।
सर्व्वयोनिं परित्यज्य ब्रह्मयोनिं ततोऽभ्यगात् ॥”
इति बृहद्विष्णुपुराणम् ॥ * ॥
अपि च ।
“स्थावरास्त्रिंशल्लक्षश्च जलजो नवलक्षकः ।
कृमिजा दशलक्षश्च रुद्रलक्षश्च पक्षिणः ॥
पशवो विंशलक्षश्च चतुर्लक्षश्च मानवाः ।
एतेषु भ्रमणं कृत्वा द्बिजत्वमुपजायते ॥”
इति कर्म्मविपाकः ॥
(“भूतानाञ्चतुर्व्विधा योनिर्भवति जराय्वण्ड-
स्वेदोद्भिदः । तासां खलु चतसृणामपि योनीना-
मेकैका योनिरपरिसङ्ख्येयभेदा भवति भूता-
नामाकृतिविशेषापरिसङ्ख्येयत्वात् । तत्र जरा-
युजानामण्डजानां प्राणिनामेते गर्भकरा भावा
यां यां योनिमापद्यन्ते तस्यां तस्यां योनौ तथा
तथा रूपा भवन्ति । तद्यथा कनकरजतताम्र-
त्रपुसीसा आसिच्यमानास्तेषु तेषु “मधूच्छिष्ट-
विम्वेषु । ते यदा मनुष्यविम्बमापद्यन्ते तदा
मनुष्यविग्रहेण जायन्ते । तस्मात् समुदाया-
त्मकः सन् गर्भो मनुष्यविग्रहेण जायते मनुष्यो
मनुष्यप्रभव इत्युच्यते तद्योनित्वात् ।” इति
चरके शारीरस्थाने तृतीयेऽध्याये ॥ * ॥)
भगम् । इत्यमरः । २ । ६ । ७६ ॥ तत्पर्य्यायः । वरा-
ङ्गम् २ उपस्थः ३ स्मरमन्दिरम् ४ । इति राज-
निर्घण्टः ॥ रतिगृहम् ५ जन्मवर्त्म ६ अधरम् ७
अवाच्यदेशः ८ प्रकृतिः ९ अपथम् १० स्मर-
कूपकः ११ अप्रदेशः १२ प्रकूतिः १३ पुष्पी १४
संसारमार्गकः १५ संसारमार्गः १६ गुह्यम् १७
स्मरागारम् १८ स्मरध्वजम् १९ रत्यङ्गम् २०
रतिकुहरम् २१ कलत्रम् २२ अघः २३ ।
इति शब्दरत्नावली ॥ रतिमन्दिरम् २४ स्मर-
गृहम् २५ कन्दर्पकूपः २६ कन्दर्पसम्बाधः २७
कन्दर्पसन्धिः २८ स्त्रीचिह्नम् २९ । इति जटा-
धरः ॥ स तु गर्भस्थायाः सप्तभिर्मासैर्भवति ।
इति सुखबोधः ॥ * ॥ तस्य लक्षणं यथा, --
“शुभः क्रमठपृष्ठाभो गजस्कन्धोपमो भगः ।
वामोन्नतश्चेत् कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ।
तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥
कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः ।
रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥
शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति ।
चिपिटः कर्पराकारः किङ्करीपददो भगः ॥
वंशवेतसपत्राभो गजरोमोच्चनासिकः ।
विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥”
इति काशीखण्डे ३७ अध्यायः ॥ * ॥
अपि च ।
“शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च
कीर्त्तिता ।
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥” * ॥
अथ योनिरोगाधिकारः ।
“तत्र योनिरोगाणां निदानान्याह ।
‘मिथ्याहारविहाराभ्यां दृष्टैर्दोषैः प्रदूषितात् ।
आर्त्तवाद्वीर्य्यतश्चापि दैवाद्वा स्युर्भगे गदाः ॥’
रोगिणीनां योनीनां नामान्याह ।
‘उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता ।
वातला योनयो रुग्ना वातदोषेण पञ्चधा ॥
पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा ।
प्रस्रंसिनी वामिनी च पुत्त्रघ्नी पित्तला तथा ॥
अत्यानन्दा कर्णिनी च चरणानन्दपूर्व्विका ।
अतिपूर्व्वापि सा ज्ञेया श्लेष्मला च कफादिमाः ॥
खण्ड्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी ।
पञ्चैता योनयः प्रोक्ताः सर्व्वदोषप्रकोपतः ॥’
अथ तासां लक्षणान्याह ।
‘सा फेणिलमुदावर्त्ता रजःकृच्छ्रेण मुञ्चति ।
बन्ध्या नष्टार्त्तवा ज्ञेया विप्लुता नित्यवेदना ॥
परिप्लुता या भवति ग्राम्यधर्म्मे रुजा भृशम् ।
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता ॥
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ॥’
अनिलवेदनास्तोदादयः ॥ वातलायां त्वति-
शयिता वातवेदना बोद्धव्या । वातला इत्य-
न्वयात् ॥ * ॥
‘सदाहं क्षरते रक्तं यस्याः साः लोहितक्षरा ।
प्रस्रंसिनी स्रंसते च क्षोभिता दुःप्रजायिनी ॥’
क्षोभिता विमर्द्दिता स्रंसते स्वस्थानात् च्यवते
दुःप्रजायिनी दुष्टप्रजननशीला ।
‘सवातमुद्गिरेद्बीर्य्यं वामिनी रजसा युतम् ।
स्थितं स्थितं हन्ति गर्भं पुत्त्रघ्नी रक्तसंस्रवात् ॥’
पुत्त्रशब्दोऽत्रापत्योपलक्षकः ।
‘अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता ।
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ॥’
अत्यानन्दानसन्तोषं ग्राम्यधर्म्मेण विन्दति ।
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ॥’
कर्णिका मांसस्थ कर्णिकारो ग्रन्थिः ॥
‘मैथुने चरणापूर्ब्बं पुरुषादतिरिच्यते ।’
अतिरिच्यते रजो मुञ्चति इत्यर्थः ।
‘बहुशश्चातिचरणा तयोर्व्वीजं न तिष्ठति ॥’
बहुशः वारं वारं अतिरिच्यते तयोः चर-
णातिचरणयोः ।
‘श्लेष्मला पिच्छिला योनिः कण्डयुक्तातिशीतला ।
पृष्ठ ४/०६४
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गाच्छ्रयो भवेत् ॥
अनार्त्तवास्तनी खण्डी खरस्पर्शा च मैथुने ॥’
अस्तनी ईषत् स्तनौ यस्यां सा अत्र लक्ष्या
खण्डी । अण्डिनीमाह ।
‘महामेढ्रग्रहीताया वालाया अण्डिनी भवेत् ॥’
महामेढ्रः पुरुषः तेन ग्रहीताया बालायाः
सूक्ष्मयोनिच्छिद्राया अण्डिनी अण्डवल्लम्बमाना
योनिर्भवति ।
‘विवृतातिमहायोनिः सूचीवक्त्रातिसंवृता ।
सर्व्वलिङ्गसमुत्थानात् सर्व्वदोषप्रकोपजा ।
चतसृष्वपि चाद्यासु सर्व्वलिङ्गनिदर्शनम् ॥’
असाध्या योनीराह ।
‘पञ्चासाध्या भवन्तीह योनयः सर्व्वदोषजाः ॥’
पञ्च खण्डीप्रभृतयः ॥ * ॥
अथ योनिकन्दस्य निदानमाह ।
‘दिवास्वप्नादतिक्रोधाद्ब्यायामादतिमैथुनात् ।
क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा ॥’
वाताद्याः कुपिता यथा यथा निदानकुपिता
वाताद्याः ॥ * ॥ रूपमाह ।
“पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् ।
जनयन्ति यदा योनौ नाम्ना कब्दः स योनिजः ॥”
लकुचाकृतिसन्निभं लकुचाकाराकारम् । गुड-
कमत्र विशेष्यं बोद्धव्यम् ॥ * ॥ वातजादिभेदेन
रूपभेदमाह ।
“रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत् ।
दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम् ॥
तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् ।
सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं भवेत् ॥” * ॥
अथ योनिरोगाणां चिकित्सा । तत्र बन्ध्या-
चिकित्सा । तस्या लक्षणमाह । बन्ध्या नष्टार्त्तवा
ज्ञेयेति । ततः प्रथमतो नष्टार्त्तवाचिकित्सा ।
‘आर्त्तवादर्शने नारी मत्स्यान् सेवेत नित्यशः ।
काञ्जिकञ्च तिलान् माषानुदश्विच्च तथा दधि ॥
इक्ष्वाकुवीजदन्तीचपलागुडदमनकिण्वयवशूकैः ।
सस्नुक्क्षीरैर्व्वर्त्तिर्योनिगता कुसुमसञ्जननी ॥’
इक्ष्वाकुः कटुतुम्बी । चपला पिप्पली । दमनो
मदनफलम् । किण्वं सुराबीजम् ।
‘पीतं ज्योतिष्मतीपत्रं राजिकोग्रासनं त्र्यहम् ।
शीतेन पयसा पिष्टं कुसुमं जनयेद्ध्रुवम् ॥’
ज्योतिष्मती कटभीवृक्षविशेषः करही इति
लोके । पयसा दुग्धेन ॥ * ॥ अथ बन्ध्या-
चिकित्सा ।
‘वला सिता सातिबला मधूकं
वटस्य शुङ्गं गजकेशरञ्च ।
एतन्मधुक्षीरघृतैर्निपीय
बन्ध्या सुपुत्त्रं नियतं प्रसूते ॥
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम् ।
ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भं दधाति हि ॥
पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया ।
पिष्ट्वा पीत्वा ऋतुस्नाता गर्भं धत्ते न संशयः ॥
कुरण्टमूलं धातक्या कुसुमानि वटाङ्कुराः ।
नालोत्पलं पयोयुक्तमेतद्गर्भप्रदं ध्रुवम् ॥
यावला पिबति पाश्वपिप्पलं
जीरकेण सहितं हिताशना ।
श्वेतया विशिखपुङ्खया युतं
सा सुतं जनयतीह नान्यथा ॥”
श्वेतकुसुभया शरपुंखया सह ।
“पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी ।
पीत्वा पुत्त्रमवाप्नोति वीर्य्यवन्तं न संशयः ॥
शूकरशिम्बीमूलं मध्यं वा दधि फलस्य सपयस्कम्
पीत्वाथोभयलिङ्गीवीजं कन्यां न सूते स्त्री ॥
पुत्त्रमजारीमूलं विष्णुक्रान्तेशालिङ्गिनीसहिता ।
एतत् गर्भेऽष्टदिनं पीत्वा कन्यां न सर्व्वथा सूते ॥
पुत्त्रमजारी पतजिया तस्या मूलम् । इशालि-
ङ्गिनी पचगुरिया ॥ * ॥ गर्भप्रदरभेषजकथना-
वसरे गर्भाजनकमपि भेषजमाह ।
‘पिप्यलीविडङ्गटङ्कणसमचूर्णं या पिबेत् पयसा ।
ऋतुसमये नहि तस्या गर्भः संजायते क्वापि ॥
आरनालपरिपेषितं त्र्यहं
या जयाकुसुममत्ति पुष्पिणी ।
सत्पुराणगुडमुष्टिसेविनी
सा दधाति नहि गर्भमङ्गना ॥ * ॥
तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते ।
वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥’
वस्तिरत्रोत्तरवस्तिः । क्रमश्चिकित्सा ।
‘नतवार्त्ताकिनीकुष्ठसैन्धवामरदारुभिः ।
तिलतैलं पचेन्नारी पिचुं तस्य विधारयेत् ॥
विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति ॥’
नतं तगरम् ।
‘वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च ।
कुम्भीस्वेदैरुपचरेदन्तर्व्वेश्मनि संवृते ॥
धारयेद्बा पिचुं योनौ तिलतैलस्य सा सदा ।
पित्तलानाञ्च योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥
शीताः पित्तहराः कार्य्याः स्नेहनार्थं घृतानि च ।
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् ॥
पिधाय वेशवारेण ततो बन्धं समाचरेत् ।
शुण्ठीमरिचकृष्णाभिर्धान्यकाजाजिदाडिमैः ॥
पिप्पलीमूलसंयुक्तैर्व्वेशवारः स्मृतो बुधैः ॥
धात्रीरसं सितायुक्तं योनिदाहे पिबेत् सदा ।
सूर्य्यक्रान्ताभवं मूलं पिबेद्वा तण्डुलाम्बुना ॥
योन्यान्तु पूयस्राविण्यां शोधनद्रव्यनिर्म्मितैः ।
सगोमूत्रैः सलवणैः पिण्डैः संपूरणं हितम् ॥’
शोधनद्रव्याणि निम्बपत्रादीनि ।
‘दुर्गन्धां पिच्छिलां वापि चूर्णैः पञ्चकषायजैः ।
पूरयेद्धारयेद्राजवृक्षादिक्वथिताम्बुना ॥”
पञ्च कषायाः । वचावासापटोलप्रियङ्गुनिम्बाः ।
राजवृक्षादि धनवहेरा ।
“पिप्पल्यामरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ।
वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी ॥
तुल्या प्रदेशिन्या दैर्घ्येण परिणाहेन च ।
कर्णिन्यां वर्त्तयो देयाः शोधनद्रव्यनिर्म्मिताः ॥
गुडूचीत्रिफलादन्तीक्वथितोदकधारया ।
योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति ॥
मुद्गपुष्पं सखदिरं पथ्यां जातीफलं तथा ।
विम्बीं पूगञ्च संचूर्ण्य वस्त्रपूतं क्षिपेद्भगे ।
योनिर्भवति संकीर्णा न स्रवेच्च जलं ततः ॥
कपिकच्छुभवं मूलं क्वाथयेद्बिधिना भिषक् ।
योनिः सङ्कीर्णतां याति क्वाथेनानेन धावनात् ॥
जीरकद्वितयं कृष्णा सुषुवी सुरभिर्व्वचा ।
वासकः सैन्धवश्चापि यवक्षारो यवानिका ॥
एषां चूर्णं घृते किश्चित् भृष्ट्वा खण्डेन मोदकम् ।
कृत्वा खादेद्यथावह्नि योनिरोगाद्बिमुच्यते ॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।
मेदे पयस्या काकोली मूलञ्चैवाश्वगन्धजम् ॥
अजमोदा हरिद्रे द्वे प्रियङ्गुकटुरोहिणी ।
उत्पलं कुमुदं द्राक्षा काकोल्यौ चन्दनद्वयम्
एतेषां कार्षिकैर्भार्गैर्घृतप्रस्थं विपाचयेत् ॥
शतावरीरसं क्षीरं घृताज्ज्ञेयं चतुर्गुणम् ।
सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते ।
पुत्त्रान् जनयते वीरान् मेधाढ्यान् प्रियदर्श-
नान् ॥
या चैवास्थिरगर्भा स्यात् पुत्त्रं वा जनयेन्मृतम् ।
अल्पायुषं वा जनयेत् या च कन्यां प्रसूयते ॥
योनिरोगे रजोदोषे परिस्रावे च शस्यते ।
प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम् ।
नाम्ना फलघृतं ह्येतदश्विभ्यां परिवर्त्तितम् ॥
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ।
जीवद्वत्सैकवर्णाया घृतञ्चात्र प्रयुज्यते ।
अरण्यगोमयेनेह वह्निज्वाला च दीयते ॥’
मेदे मेदा महामेदा तयोरभावे शतावरी
द्बिगुणा देया । पयस्यात्र क्षीरकाकोली
काकोलीयुगलाभावे अश्वगन्धा द्विगुणा देया ।
प्रियङ्गुस्थाने केचिद्धिङ्गु पठन्ति । पयस्या
काकोलीत्युक्त्वा पुनः काकोल्याविति काकोली-
क्षीरकाकोल्यौ द्वैगुण्यार्थं एतस्य फलघृतस्य
पाठो नानातन्त्रेषु नानाविधः । तत्र हिङ्गुवचा-
तगरजीवकर्षभका एवाधिकाः । तत्र जीवकर्ष-
भयोरभावे विदारीकन्दो द्विगुणो देयः । फल-
घृतं सकलयोनिरोगेषु ॥ * ॥
अथ योनिकन्दस्य चिकित्सा ।
‘गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलम् ।
पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः ॥
त्रिफलायाः कषायेण सक्षौद्रेण च सेचयेत् ।
प्रमदा योनिकन्देन व्याधिना परिमुच्यते ॥’
अथ प्रसङ्गात् गुर्व्विण्या रोगाणां चिकित्सा ।
‘ह्नीवेरातिविषामुस्तमोचशक्रैः शृतं जलम् ।
दद्याद्गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि ॥’
कुक्षिरुक् उदरव्यथा । चलितगर्भस्थापने ह्नीवे-
रादिक्वाथः ॥ * ॥
अथ गर्भस्रावपातयोर्निदानम् ।
‘ग्राम्यधर्म्माध्वगमनयानासनप्रपीडनैः ।
ज्वरोपवासोत्पतनप्रहाराजीर्णधावनैः ॥
वमनाच्च विरेकाच्च कुन्थनाद्गर्धपातनात् ।
तीक्ष्णधारोष्णकटुकतिक्तरूक्षनिषेवणात् ॥
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात् ।
गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥’
पृष्ठ ४/०६५
गर्भपातनात् नियमे गर्भे पातनशीलं द्रव्यं तस्मात् ।
गर्भस्य स्रावपातयोः पूर्ब्बरूपमाह । गर्भे पत-
तीत्यादि । पतति स्रावेण पातेन वा पतिष्यति
स्रावपातयोरवधिमाह ।
‘आचतुर्थात्ततो मासात् प्रस्रवेद्गभविद्रवः ।
ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥’
आचतुर्थात् मासात् चतुर्थमासपर्य्यन्तम् ।
गर्भस्य विद्रवः । शोणितरूपगर्भः । स्रवति
शोणितमिति भोजवचनात् । स्थिरशरीरस्य
कटिनशरीरस्य गर्भस्य । गर्भपातस्य दृष्टान्तं
दर्शयति ।
‘गर्भोऽभिघातविषमासनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ॥’
यथा वृन्तलग्नं पक्वं फलमभिघातेनाकाल एव
पतति तथा गर्भोऽप्यभिघातादिना अकालेऽपि
पतति ॥ * ॥ अथ गर्भस्रावस्य चिकित्सा ।
‘गुर्व्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः ।
तन्निरोधाय सुस्निग्धमुत्पलादिशृतं पिबेत् ॥’
उत्पलादिगणमाह ।
‘उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा ।
श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ॥
संशीलितो हरत्येव दाहं तृष्णां हृदामयम् ।
रक्तपित्तञ्च मूर्च्छाञ्च तथा छर्द्दिमरोचकम् ॥’
अथ गर्भपातस्य उपद्रवानाह ।
‘प्रस्रंशमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः ।
पृष्ठरुक् प्रदरानाहौ मूत्रसङ्गश्च जायते ॥’
प्रस्रंशमाने पतति ॥ * ॥ अथ गर्भस्य स्थाना-
न्तरगमने चोपद्रवानाह ।
‘स्थानात् स्थानान्तरं तस्मिन् प्रयात्यपि च
जायते ।
आमपक्वाशयादौ तु क्षोभः पूर्ब्बेऽप्युपद्रवाः ॥’
पूर्ब्बेऽप्युपद्रवाः पार्श्वशूलादयः ॥ * ॥
तञ्चिकित्सामाह ।
‘स्निग्धशीताः क्रियास्तेषु दाहादिषु समाचरेत् ।
कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च ॥
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत् परम् ।
श्वदंष्ट्रामधुकक्षुद्राम्लानैः सिद्धं पयः पिबेत् ।
शर्करामधुसंयुक्तं गुर्व्विणीवेदनापहम् ॥’
अम्लानः पुष्पजातिः । अयं बाणपुष्प इति
गौडादौ प्रसिद्धः ।
‘मृत्कोष्ठागारिका गेहसम्भवात्र च मृत्तिका ।
समङ्गा धातकीपुष्पं गैरिकञ्च रसाञ्जनम् ॥
तथा सर्ज्जरसश्चैतान् यथालाभं विचूर्णयेत् ।
तच्चूर्णं मधुना लिह्यान्नारी प्रदरशान्तये ॥’
मृत्कोष्ठागारिकासम्भवा मृत्कोष्ठागारिका
वरटी तन्निर्म्मितगृहभवा मृत्तिका । समङ्गा
लज्जालुः ।
‘कसेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत् ।
पक्वं वचारसोनाभ्यां हिङ्गुसौवर्च्चलान्वितम् ।
आनाहे तु पिवेत् दुग्धं गुर्व्विणी सुखिनी
भवेत् ॥
सौवर्च्चलं चौहार इति लोके ।
‘तृणपञ्चकमूलानां कल्केन विपचेत् पयः ।
तत् पयो गुर्व्विणी पीत्वा मूत्रसङ्गाद्बिमुच्यते ॥
शालीक्षुकुशकाशैः स्यात् शरेण तृणपञ्चकम् ।
एषां मूलं तृषादाहपित्ताशृङ्मूत्रसङ्गहृत् ॥’ * ॥
अथ प्रसूताया योनेः क्षतादेश्चिकित्सा ।
‘तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत् ।
तेन लेपो भगे कार्य्यः शीघ्रं स्याद्योनिरक्षता ॥
पलाशोडुम्बरफलं तिलतैलसमन्वितम् ।
योनौ विलिप्तं विधिना गाढीकरणमुत्तमम् ॥”
इति भावप्रकाशः ॥ * ॥
अथ कुयोनिप्राप्तिकारणानि ।
“हविर्ज्जुह्वति नाग्नौ ये गोविन्दं नार्च्चयन्ति ये ।
लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये ॥
सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् ।
आर्त्तेभ्यो न प्रयच्छन्ति सर्व्वे सुकृतदारकाः ॥
ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति ये ।
बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः ॥
नास्तिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः ।
बालवृद्धातुरस्त्रीषु निर्द्दयाः सत्यवर्ज्जिताः ॥
अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः ।
अगम्यागामिनः सर्व्वे ये चान्ये ग्रामयाजिनः ॥
व्याधाचरणसम्पन्ना वर्णादिधर्म्मवर्जिताः ।
देवोपदेवदनुजरक्षोयक्षादिसेविनः ॥
सर्व्वदा मादकद्रव्यपानमत्ता हरिद्विषः ।
देवतोच्छिष्टपतितनृपश्राद्धान्नभोजिनः ॥
असत्कर्म्मरता नित्यं सर्व्वपातकपापिनः ।
पाषण्डधर्म्माचरणाः पुरोधोवृत्तिजीविनः ॥
पितृमातृस्वसापत्यस्वदारत्यागिनश्च ये ।
ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्म्मदूषकाः ॥
त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् ।
गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः ॥
महाक्षेत्रेषु सर्व्वेषु प्रतिग्रहरताश्च ये ।
परद्रोहरता ये च तथा ये प्राणिहिंसकाः ॥
परापवादिनः पापा देवतागुरुनिन्दकाः ॥
कुप्रतिग्राहिणः सर्व्वे सम्भवन्ति पुनः पुनः ॥
प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु ।
न तेषां सुखलेशोऽस्ति इह लोके परत्र च ॥
तस्मात् त्यक्ता निषिद्धार्थं विहितं कर्म्म कारयेत् ।
यज्ञं दानं तपस्तीर्थं मन्त्रं देवं गुरुं भरेत् ॥
नाचरेत् कुत्सितं कर्म्म मनसा च कदाचन ।
विपाकं कर्म्मणां दृष्ट्वा योनिकोटिषु दुःसहम् ॥
चतुर्भिरपि वर्णैस्तु सेव्यो धर्म्मो निरन्तरम् ॥”
इति पाद्मोत्तरखण्डे १८ अध्यायः ॥ * ॥
योनिदुष्टाया असाध्वीत्वं यथा, --
“साध्वी स्त्री मातृतुल्या च सर्व्वथा हितकारिणी ।
असाध्वी वैरतुल्या च शश्वत्सन्तापदायिका ।
मुखदुष्टा योनिदुष्टा चैवासाध्वीति विश्रुता ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे २ अध्यायः ॥ * ॥
पापपुण्यफलं अधमोत्तमयोनिप्राप्तिर्यथा, --
“पापपुण्यफलं लोके प्रत्यक्षं खलु दृश्यते ।
देवदानवमानुष्यतिर्य्यक्त्वं कृमियोनिता ॥
नानायोनिषु जन्मानि नानाव्याधिप्रपीडिताः ।
मरणं बालवृद्धानामन्धत्वं कुब्जता तथा ॥
ऐश्वर्य्यं सुदरिद्रत्वं पाण्डित्यं मूर्खता तथा ।
एताश्चराचरे लोके भवन्ति कथमन्यथा ॥”
इति पाद्मोत्तरखण्डे २१ अध्यायः ॥ * ॥
पक्षियोनिप्राप्तिकारणं यथा, --
“इति श्रुतकथो विप्र ! सारसं प्राह वानरः ।
सम्यग्वेत्ति भवान् नूनं त्वं कथं पक्षितां गतः ।
वृत्तान्तमेतं कथय श्रोतुमिच्छामि सारस ! ॥
सारस उवाच ।
कथयिष्यामि तत् कर्म्म येनाहं दुर्गतिं गतः ।
पक्षियोनिं गतो येन तत् सर्व्वं श्रोतुमर्हसि ॥
धान्यखारीशतं साग्रमुत्सृष्टं हि त्वया पुरा ।
बहुभ्यो ब्राह्मणेभ्यश्च नर्म्मदायाः परिग्रहे ॥
पौरोहित्यमदाल्लोभाद्बञ्चयित्वा द्विजांस्तथा ।
किश्चिद्दत्त्वां तु तेभ्यश्च गृहीतमखिलं मया ॥
विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् ।
पतितः कालसूत्रेऽहं नरके रक्तकर्द्दमे ॥
वक्तुमत्र न शक्नोमि दुःखं वानर ! नारकम् ।
दैवात् कथमपि प्राप्त उत्तारो नरकाम्बुधेः ॥
मया यदि तथापीह शकुनत्वमुपस्थितम् ।
अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात् ॥
द्यूतकर्त्रे मया दत्तं तेन मे सारसी गतिः ॥
इयञ्च ब्राह्मणी पूर्व्वं कांस्यचौरी सुदारुणा ।
तेनेह सारसी जाता मद्भार्य्या सहधर्म्मिणी ॥”
इति तत्रैव १९ । २० अध्यायौ ॥ * ॥
पापिनां नरकभोगानन्तरं स्थावरादियोनिप्राप्ति-
र्यथा, --
“स्थावराः कृमयोऽज्ञाश्च पक्षिणः पशवो नराः ।
धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥
सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा ।
सर्व्वे ह्येते महाभाग यावन्मुक्तिसमाश्रयाः ॥”
इति विष्णुपुराणे २ अंशे ५ अध्यायः ॥
“पापिनां नरकभोगानन्तरं स्थावराद्यासूत्तरो-
त्तरमुत्कृष्टासु नवधा भिन्नासु योनिषु जन्मक्रम-
माह । स्थावरा इति । अज्ञा मत्स्यादयः ।
धार्म्मिका नरेष्वेव पुण्यविशेषेण केचिन्मोक्षि-
णश्च मुमुक्षवश्च यथाक्रमं भवन्तीति शेषः ।
तेषाञ्च पूर्ब्बबाहुल्यमुत्तरोत्तराल्पत्वञ्चाह सह-
स्रेति । द्बितीयानुक्रमाः द्बितीयोऽनुक्रम उद्देशो
येषां द्बितीयस्थानेऽनुक्रान्ता ये क्रमयस्ते सहस्र-
भागप्रथमाः सहस्रभागाः सहस्रगुणाः प्रथमाः
प्रथमनिर्द्दिष्टाः स्थावरा येषां ते । कृमिभ्यः
सहस्रगुणमधिकाः स्थावराः । तत्सहस्रतम-
भागाः कृमयः इत्यर्थः । पञ्चम्यन्तपाठेऽपि
द्वितीयस्थानेऽनुक्रान्तात् कृमिवर्गात् सहस्रगुणाः
स्थावरा इत्येवार्थः । तथा सर्व्वे ह्येत इति ।
यथा स्थावराः स्थानान्तरनिर्द्दिष्टेभ्यः कृमिभ्यः
सहस्रगुणमधिकाः । तथा कृमयः स्थानान्तर-
निर्द्दिष्टेभ्योऽज्ञेभ्यः सहस्रगुणमधिकाः । एवं
पक्ष्यादिष्वपि द्रष्टव्यम् । मोक्षं सम्यगाश्रयन्ते
इति मोक्षसमाश्रया मुमुक्षवो ज्ञाननिष्ठास्तत्-
पर्य्यन्तमेवं पूर्ब्बपूर्ब्बादुत्तरोत्तरन्यूनत्वेन जन्म-
पृष्ठ ४/०६६
क्रमः । ततः परं मुक्तिः । एतञ्च संसारिजीव-
बाहुल्यकथनं मोक्षस्य दुर्लभतासूचनार्थम् ।
अयञ्च नवधा निर्द्दिष्टो जन्मक्रमः प्रायिक एव ।
तदुक्तमादित्यपुराणे ।
व्युत्क्रमेणापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् ।
विचित्रा गतयः पुंसां कर्म्मणां गुरुलाघवैः ॥”
इति तट्टीका ॥
कुयोनिमोक्षणं यथा, --
वाराह उवाच ।
“येन गर्भं न गच्छेत तन्मे शृणु हि माधवि ! ।
कथयिष्यामि ते ह्येवं सर्व्वधर्म्मविनिश्चयम् ॥
कृत्वापि विपुलं कर्म्म आत्मानं न प्रशंसति ।
कुर्व्वते बहुकर्म्माणि शुद्धेनैवान्तरात्मना ॥
कृत्वापि मम कर्म्माणि मत्प्रियाणि वसुन्धरे ! ।
नैव कुर्व्वन्त्यहङ्कारं क्रोधञ्चैव न गृह्णति ॥
समं पश्यति चित्तेन लाभालाभविवर्जितः ।
पञ्चानामिन्द्रियाणाञ्च समर्थो निग्रहे रतः ॥
कार्य्याकार्य्ये विजानाति सर्व्वधर्म्मेषु निष्ठितः ।
शीतोष्णवातवर्षादिक्षुत्पिपासासहश्च यः ॥
यो दरिद्रो निरालस्यः सत्यवागनसूयकः ।
स्वदारनिरतो नित्यं परदारविवर्जितः ॥
सत्यवादी विशुद्धात्मा नित्यं भागवतप्रियः ।
संविभागी विशेषज्ञो नित्यं ब्राह्मणवत्सलः ॥
प्रियवादी द्बिजानाञ्च मम कर्म्मपरायणः ।
कुयोनिन्तु न गच्छेत मम लोकाय गच्छति ॥”
वियोनिमोक्षणं यथा, --
“अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।
यो वियोनिं न गच्छेत मम कर्म्मपरायणः ॥
जीवहिंसानिवृत्तस्तु सर्व्वभूतहितः शुचिः ।
सर्व्वत्र समतायुक्तः समलोष्टाश्मकाञ्चनः ॥
बाल्ये स्थितोऽपि वयसि क्षान्तो दान्तः शुभे रतः ।
कृत्यं नैव विजानाति परेणापकृतं क्वचित् ॥
कृत्यञ्च संस्मरेत् ह्येतदसत्यञ्च न जल्पति ।
व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः ॥
नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि न च
क्षिपेत् ।
ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम् ॥
डेदृशास्तु नरा भद्रे ! मम कर्म्मपरायणाः ।
ते वियोनिं न गच्छन्ति मम गच्छन्ति सुन्दरि ॥”
तिर्य्यग्योनिमोक्षणं यथा, --
वाराह उवाच ।
“गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे ! ।
तिर्य्यग्योनिगताश्चापि यो न गच्छन्ति किल्वि-
षम् ॥
अष्टम्याञ्च चतुर्द्दश्यां मैथुनं यो न गच्छति ।
भुक्त्वा परस्य चान्नानि यश्चैव न विकुत्सति ॥
व्याल्ये वयस्यपि च यो मम नित्यमनुव्रतः ।
येन केनापि सन्तुष्टः पितृमातृप्रपूजकः ॥
प्राप्तेन जीवति च यः प्रविभागी गुणान्वितः ।
अलुब्धः सर्व्वकार्य्येषु स्वतन्त्रो नित्यसंयतः ॥
विकर्म्म नाभिकुर्व्वीत कौमारव्रतसंस्थितः ।
सर्व्वभूतदयायुक्तः सत्त्वेन च समन्वितः ॥
मतिमान्नैव तप्येत परार्थेषु कदाचन ।
ईदृशीं बुद्धिमास्थाय मम कर्म्माणि कुर्व्वते ।
तिर्य्यग्योनिं न गच्छेत मम लोकाय गच्छति ॥”
इति वराहपुराणे योनिगर्भमोक्षणनामाध्यायः ॥

योनिकन्दः, पुं, (योनौ कन्द इव ।) योनिरोग-

विशेषः । तस्य निदानं यथा, --
“दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् ।
क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा ॥
वाताद्याः कुपिता यथा । यथा निदानकुपिता
वाताद्याः । रूपमाह ।
‘पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् ।
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ॥’
लकुचाकृतिसन्निभं लकुचाकाराकारम् ।
गुडकमत्र विशेष्यं बोद्धव्यम् ॥ * ॥ वातजादि-
भेदेन रूपभेदमाह ।
‘रूक्षं विघर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् ।
दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तत् ॥
तिलपुष्पप्रतीकाशं कण्डूयन्तं कफात्मकम् ।
सर्व्वलिङ्गसमायुक्तं सान्निपातात्मकं भवेत् ॥’
अस्य चिकित्सा । योनिशब्दे द्रष्टव्या ।” इति
भावप्रकांशः ॥

योनिजं, त्रि, (योनेर्ज्जायते इति । जन् + डः ।)

योनिनिःसृतशरीरादिकम् । यथा, --
“सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा ।
योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् ॥”
इति भाषापरिच्छेदः ॥
“योनिजादीति । योनिजमयोनिजञ्चेत्यर्थः ।
योनिजमपि जरायुजमण्डजञ्च । जरायुजं मानु-
षादीनां अण्डजं सर्पादीनाम् । अयोनिजं
स्वेदजोद्भिदादिकम् । स्वेदजाः कृमिदंशाद्याः ।
उद्भिदस्तरुगुल्माद्याः । नारकिणां शरीरमप्य-
योनिजम् ।” इति सिद्धान्तमुक्तावली ॥

योनिदेवता, स्त्री, (योनेर्देवता ।) पूर्ब्बफल्गुणी-

नक्षत्रम् । इति हेमचन्द्रः ॥

योनिमुद्रा, स्त्री, (योन्याकृतिर्मुद्रा हस्तभङ्गी ।)

भगवत्याः पूजायां प्रदर्शनीयाङ्गुलीरचितयोन्या-
कारमुद्राविशेषः । यथा, --
“पञ्च प्रणामान् कृत्वाथ ॐ ह्रीँ श्रीमितिंमन्त्रकैः ।
अन्येषां पुरतश्चैव अधिकाल्पा यथेच्छया ।
योनिमुद्रां ततः पश्चात् दर्शयित्वा विसर्ज्जयेत् ॥
द्वौ पाणी प्रसृतीकृत्य कृत्वा तूत्तानमञ्जलिम् ।
अङ्गुष्ठाग्रद्बयं न्यस्य कनिष्ठाग्रद्बयोस्ततः ॥
अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् ।
दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च ॥
अनामिकायाः पृष्ठे तु मध्यमे विनियोजयेत् ।
द्बे तर्ज्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत् ॥
योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता ॥
त्रिवारं दर्शयेदग्रे मूलमन्त्रेण साधकः ।
तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत्ततः ॥”
इति कालिकापुराणे ५३ अध्यायः ॥ * ॥
पारिभाषिकयोनिमुद्र यथा । मन्त्रमुक्ता-
वल्याम् ।
“उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।
षट्चक्रं चिन्तयेद्देवि ! प्राणायामपुरःसरम् ॥
चतुर्द्दलं स्यादाधारं स्वाधिष्ठानन्तु षड्दलम् ।
नाभौ दशदलं पद्मं सूर्य्यसंख्यदलं हृदि ॥
कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्बिदलन्तथा ।
सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे ॥
आधारे कन्दमध्यस्थं त्रिकोणमतिसुन्दरम् ।
त्रिकोणमध्ये देवेशि ! कामबीजं सुलक्षणम् ॥
कामबीजोद्भवं तत्र स्वयम्भुलिङ्गमुत्तमम् ।
तस्योपरि पुनर्ध्यायेत् चित्कलां हंसमाश्रिताम् ॥
ध्यायेत् कुण्डलिनीं देवीं स्वयम्भुलिङ्गवेष्टिताम् ।
चित्कलया कुण्डलिनीं तेजोरूपां जगन्मयीम् ॥
आधारादीनि पद्मानि भित्त्वा तेजःस्वरू-
पिणीम् ।
हंसेन मनुना देवीं ब्रह्मरन्ध्रं नयेत् सुधीः ॥
सदाशिवेन देवेशि ! क्षणमात्रं रमेत् प्रिये ! ।
अमृतं जायते देवि ! तत्क्षणात् परमेश्वरि ! ॥
तदुद्भवामृतं देवि ! लाक्षारससमोपमम् ।
तेनामृतेन देवेशि ! तर्पयेत् परदेवताम् ॥
षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं पुनः सुधीः ॥
ततस्तु परमेशानि ! अक्षमालां विचिन्तयेत् ।
चित्रिणी विशतन्त्वाभा ब्रह्मनाडीगतान्तरा ॥
तया संग्रथिता ध्येया साक्षाज्जाग्रत्स्वरूपिणी ।
अनुलोमविलोमेन मन्त्रवर्णविभेदतः ॥
मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुम् ।
कुर्य्याद्वर्णमयीं मालां सर्व्वमन्त्रप्रकाशिनीम् ॥
चरमार्णं मेरुरूपं लङ्घनं नैव कारयेत् ।
सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेत् सुधीः ॥
अष्टोत्तरशतं मूलमन्त्रं ज्ञानेन संजपेत् ।
वर्गाणामष्टवर्गेण अष्टवारं जपेत् सुधीः ॥
अ क च ट त प य शा इत्येवञ्चाष्टवर्गकाः ।
योनिमुद्रा महेशानि ! तव स्नेहात् प्रकाशिता ॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥”
इति शाक्तानन्दतरङ्गिणी ॥

योनिरोगः, पुं, (योनेः रोगः ।) भगगदः ॥ (यथा,

सुश्रुते । १ । ४५ ।
“शूलोदावर्त्तातिसारप्रवाहिकायोनिरोगगर्भ-
स्रावरक्तपित्तश्रमक्लमहरम् ॥” * ॥) अस्य
निदानादिर्योनिशब्दे द्रष्टव्यः ॥

योन्यर्शः, [स्] क्ली, (योनिजातमर्शः ।) योनि-

जातरोगविशेषः । तत्पर्य्यायः । कन्दसंज्ञम् २ ।
इति त्रिकाण्डशेषः ॥ (यथा, --
“केचित्तु भूयांसमेव देशमुपदिशन्त्यर्शसां शिश्न-
मपथ्यपथं गलमुखनासिकाकर्णाक्षिवर्त्मानि
त्वक्च ।” इति चरके चिकित्सास्थाने अष्टमे
अध्याये ॥)

योषा, स्त्री, (यौति मिश्रीभवतीति । यु मिश्रणे +

बाहुलकात् सः । इत्युज्ज्वलदत्तः । ३ । ६२ ।
स्त्रियां टाप् ।) नारी । इत्यमरः । २ । ६ । २ ॥
(यथा, देवीभागवते । ३ । २५ । ९ ।
पृष्ठ ४/०६७
“यथा दारुमयी योषा नटादीनां प्रचेष्ठते ।
तथा स्वकर्म्मवशगो देही सर्व्वत्र वर्त्तते ॥”)

योषित्, स्त्री, (योषति पुमांसं युष्यते पुंभिरिति

वा । युष् + “हृसृरुहियुषिभ्य इतिः ।” उणा०
१ । ९९ । इति इतिः ।) नारी । इत्यमरः । १ ।
६ । २ ॥ (यथा, मेघदूते । १ । ३९ ।
“गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥”)
तस्या अवध्यत्वं यथा, वह्निपुराणे ।
“तं प्रेक्ष्य भरतं श्रेष्टं शत्रुघ्नो वाक्यमब्रवीत् ।
अवध्याः सर्व्वभूतानां योषितः क्षम्यतामिति ॥”

योषित्प्रिया, स्त्री, (योषितां प्रिया ।) हरिद्रा ।

इति भावप्रकाशः ॥

योषिता, स्त्री, (योषित् + टाप् ।) नारी । यथा,

“स्त्री वधूरबला नारी प्रिया रामा जनिर्ज्जनी ।
योषा योषिद्योषिता च जोषिज्जोषा च
जोषिता ॥”
इति शब्दरत्नावली ॥
(यथा, मुण्डकोपनिषदि । २ । १ । ५ ।
“तस्मादग्निः समिधो यस्य सूर्य्यः
सोमात् पर्जन्य ओषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां
बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥”)

यौक्तिकः, पुं, (युक्तिं करोतीति । युक्ति + ठञ् ।)

नर्म्मसचिवः । इति शब्दरत्नावली ॥ युक्ति-
योग्ये, त्रि ॥

यौगकः, त्रि, (योगस्यायमिति । योग + अण् +

स्वार्थे कन् ।) योगसम्बन्धी । इति सिद्धान्त-
कौमुदी ॥

यौगिकः, त्रि, (योगाय प्रभवतीति । योग +

“योगाद्यच्च ।” ५ । १ । १२९ । इति ठञ् ।)
प्रकृतिप्रत्यययोगलभ्यार्थवाचकः । यथा । योगाय
प्रभवति । इति योग्यः यौगिकः । इति सिद्धान्त-
कौमुदी ॥ “योगरूढाश्च रूढाश्च यौगिका-
श्चेति ते त्रिधा । आदितेयादिशब्दा यौगिकाः
अदितेरपत्यानीति ढक्प्रत्ययेन केवलं योगार्थ
एव ।” इत्यलङ्कारकौस्तुभे २ किरणः ॥ * ॥
(“यौगिकं नाम लक्षयति विभजते च ।
‘योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम् ।
समासस्तद्धिताक्तञ्च कृदन्तञ्चेति तत्त्रिधा ॥’
यन्नाम स्वान्तर्न्निविष्टशब्दानां योगलभ्यस्यैव
यादृशार्थस्यान्वयबोधं प्रतिहेतुस्तन्नाम तादृ-
शार्थे यौगिकम् । योगरूढन्तु कृष्णसर्पादिपदं
योगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं न तु
तन्मात्रस्य । तच्च यौगिकं त्रिविधं समास-
स्तद्धिताक्तं कृदन्तञ्चेति । द्वन्द्बोऽपि समासः स्वघ-
टकशब्दानामाकाङ्क्षया लभ्यस्य धवखदिरा-
द्यर्थस्यान्वयकोधकतया यौगिक एव । सर्व्वञ्चेदं
रूढान्यत्वेन विशेषणीयं नातः कृष्णसर्पादौ
वासुदेवादौ पङ्कजादौ च योगरूढेऽतिप्रसङ्गः ।
ब्राह्मणी श्वश्रूः शूद्रेत्यादौ ङीबादेः स्त्रीत्व-
वाचित्वे तादृशं नाम यौगिकमेव अन्यथा तु
स्त्रीत्वादिमति तत्तदर्थे रूढमेव नातो विभा-
गस्य व्याघातः ॥ यौगिकेषु समासं लक्षयति ।
‘यादृशस्य महावाक्यस्यान्तस्त्वादिर्न्निजार्थके ।
यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥’
यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृ-
शार्थावच्छिन्नविषयताशालिबोघे हेतुस्तादृशं
तद्वाक्यं तथाविधार्थे समासः । पाचकादिकन्तु
पाककर्त्ताद्यर्थकं वाक्यमपि स्वघटकानेकनाम
लभ्यतादृशार्थकत्वविरहान्न महावाक्यम् । प्रकृ-
त्यर्थमात्रावच्छिन्नप्रत्ययार्थस्यान्वयबोधं प्रत्ययो-
ग्यत्वं वा प्रकृते वाक्यस्य महत्त्वं वाच्यम् । तेन
उपकुम्भादौ नाव्याप्तिर्न्नवा नीलघटत्वत्वमित्यादौ
नीलघटत्वादिभागेऽतिप्रसङ्गः । क्षीरपायीत्यादि-
कस्तु प्रकृत्यर्थावच्छिन्नकृदर्थस्यान्वयबोधे समर्थो-
ऽपि न प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पान
शीलसामान्यस्याप्रत्ययात् । राज्ञः पुरुषत्वमित्या-
दितो राजन्येव पुरुषभावः प्रतीयते न तु राज-
पुरुषस्य भावः तद्धितानां प्रकृत्यर्थमात्रान्वित
स्वार्थबोधकत्वादतो राज्ञः पुरुषेत्यादिभागे न
प्रसङ्गः । पायंपायमित्यादिणमन्तभागस्तु स्वार्था-
वच्छिन्नस्य धात्वन्तरार्थस्यैवान्वयबोधको न तु
त्वादिप्रत्ययार्थस्य प्रस्थायेत्यादौ समासव्यप-
देशोल्यवादिशब्दसंस्कारप्रयोजनको गौणः ॥”
  • * * * * *
“यौगिकेषु क्रमप्राप्तं तद्धिताक्तं नाम लक्षयति ।
‘यन्नाम तद्धितं यच्च यत्क्रमं सद्यदर्थकम् ।
यद्द्बयं यम्क्रमं तत्र तद्धिताक्तं निगद्यते ॥’
यद्यपि नामोत्तरतद्धितत्वं तद्धितोत्तरनामत्वं
वा प्रत्येकं बहुगुडो द्राक्षेत्यादौ दाक्षिरित्यादौ
चाव्यापकमेव तद्धिताक्ते नाम्नि तथापि यादृशं
नाम यच्च तद्धितं यादृशानुपूर्ब्यवच्छिन्नं सद्या-
दृशार्थस्यान्वयबोधे समर्थं तादृशानुपूर्ब्यवच्छिन्नं
तद्द्बयमपि तादृशार्थे तद्धिताक्तं नामेत्यर्थः
पचतितरामित्यादिकन्तु नामैव न प्रागेव तु
तद्धिताक्तं तस्यापि लक्ष्यत्वे यः शब्दस्तद्धितं
यच्चेति पठनीयं टाबादेरपि तद्धितत्वोपगमा-
दजाब्राह्मणीत्यादेर्नासंग्रह इति वदन्ति ।
कृदन्तं नाम लक्षयति ।
‘यद्धात्वर्थान्वितस्वार्थधीकृत् कृद्यादृशं भवेत् ।
तद्धातूत्तरगं तत् कृत् कृदन्तं नाम तादृशम् ॥’
यद्धात्वर्थान्वितस्वार्थान्वयबोधं प्रति यादृशानु-
पूर्ब्यवच्छिन्नस्य यत्कृतो निश्चयः कारणं तद्धा-
तूत्तरगं तत् कृदेव तादृशानुपूर्ब्यवच्छिन्नं सत्
कृदन्तं नाम । यथा पाठकपाठ्यमानादि तद्धि
धात्वर्थेनान्वितस्य स्वार्थकर्त्तादेः कर्म्मत्वादा-
वन्वयबोधं प्रति द्वितीयाद्यंशे तादृशानुपूर्ब्बि-
कत्वेनं निश्चीयमानं हेतुः चैत्रेण ग्रामस्य
गन्तव्यमित्यादौ धात्वर्थे स्वार्थमिष्टसाधनत्वादिकं
बोधयदपि तव्यादिकं धात्वर्थनिष्ठविषयतानिरू-
पितस्वार्थविषयताकबोधजनकत्वेन धात्वर्था-
न्वितस्वार्थकमेव भावकृतामपि स्वरूपार्थकत्वं
व्युत्पादितमेव ॥” इति शब्दशक्तिप्रकाशिका ॥
अगुरुः । तत्पर्य्यायो यथा, --
“अयोगुरुः समुद्दिष्टो यौगिको लोहनामभिः ॥”
इति गारुडे २०५ अध्यायः ॥)

यौजनशतिकः, त्रि, (योजनशतं गच्छतीति ।

योजनशत + “क्रोशशतयोजनशतयोरुपसंख्या-
नम् ।” ५ । १ । ७४ । इत्यस्य वार्त्ति० इति । ठञ् ।)
योजनशतगमनकर्त्ता । इति सिद्धान्तकौमुदी ॥
(योजनशतादभिगमनमर्हतीति वाक्ये योजन-
शताभिगमनकर्त्ता । इति काशिका ॥)

यौजनिकः, त्रि, (योजनं गच्छतीति । योजन +

“योजनं गच्छति ।” ५ । १ । ७४ । इति ठञ् ।)
एकयोजनगमनकर्त्ता । इति सिद्धान्तकौमुदी ॥

यौट, ऋ सम्बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अयु-
यौटत् । यौटति काष्ठं तक्षा । इति दुर्गादासः ॥

यौड, ऋ सम्बन्धे । इति कविकल्पद्रुमः । (भ्वा०-

पर०-सक०-सेट् ।) चतुर्द्दशस्वरी । ऋ, अयु-
यौडत् । यौडति काष्ठं तक्षा । इति दुर्गादासः ॥

यौतकं, क्ली, (युतकयोर्बधूवरयोरिदम् । युतक +

अण् । युतकमेवेति । स्वार्थे अण् वा ।) यौतु-
कम् । इति हलायुधरायमुकुटौ । २ । ८ । २८ ॥
(यथा, मनुः । ९ । १३१ ।
“मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव
सः ॥”
अस्य विशेषविवरणन्तु यौतुकशब्दे द्रष्टव्यम् ॥)

यौतवं, क्ली, परिमाणम् । इत्यमरः । २ । ९ । ८५ ॥

यौतुकं, क्ली, यौतकम् । विवाहकाले दम्पत्योर्लब्धं

धनम् । उपचारात् अन्नप्राशनादिसंस्कारकाल-
लब्धमपि । युतकं योनिसम्बन्धः तत्र भवमिति
ष्णे यौतकम् । युतयोर्बधूवरयोरिदमिति वा
कणि यौतकम् ॥ यौतकमुकारमध्यमपि ।
यौतकं यौतुकञ्च तत् । इति वाचस्पतिः ॥ यौत-
कादि तु यद्देयं स दायो हरणञ्च तदित्यत्रामर-
टीकायां भरतः ॥ * ॥ स्त्रिया यौतकधनस्याधि-
कारक्रमो यथा, --
“यत्त दुहितृमात्राधिकारार्थं गोतमवचनम् ।
‘स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्च ।’
यच्च नारदस्य ।
‘मातुर्द्दुहितरोऽभावे दुहितॄणां तदन्वयः ॥’
यच्च कात्यायनस्यापि ।
‘दुहितॄणामभावे तु रिक्थं पुत्त्रेषु तद्भवेत् ॥’
यच्च याज्ञवल्क्यस्य ।
‘मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः ॥’
तानि पूर्ब्बोक्तदेवलवचनविरोधेन यौतकधन-
मात्रविषयाणि । अतएव मनुः । ९ । १३१ ॥
‘मातुश्च यौतकंयत् स्यात् कुमारीभाग एव सः ॥’
यौतकं परिणयनलब्धम् । यु मिश्रण इति धातो-
र्युत इति पदम् । मिश्रता च स्त्रीपुंसयोरेकशरी-
रता तच्च विवाहाद्भवति । अस्थिभिरस्थीनि
मांसैर्म्मांसानि त्वचा त्वचमिति श्रुतेः । अतो
विवाहकाललब्धं यौतकम् । ततश्च परिणयन-
लब्धं स्त्रीधनं दुहितुरेव न पुत्त्राणाम् । तत्रैव
पृष्ठ ४/०६८
क्रमार्थं गोतमवचनम् । स्त्रीधनं दुहितॄणाम-
प्रत्तानामप्रतिष्ठितानाञ्च । प्रथममप्रत्तानां तद-
भावे प्रत्तानां तदभावे समूढानाम् । स्त्रीधनं
दुहितॄणामितिसामान्यतः प्राप्तत्वात् । अप्रत्ता-
नामित्यादेस्तु क्रमार्थत्वात् । तथा, याज्ञ-
बल्क्यः ।
‘अप्रजःस्त्रीधनं भर्त्तुर्ब्राह्म्यादिषु चतुष्वपि ।
दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥’
तत्र ब्राह्म्यादिषु विवाहेषु यल्लब्धमध्यग्निधनं
स्त्रिया तत् तस्यां मृतायां प्रथमं दुहितॄणामेव
तत्रापि प्रथमं कन्यायास्तदभावे प्रत्तायास्तद-
भावे परिणीतायाः सर्व्वदुहित्रभावे च पुत्त्र-
स्याधिकारः अप्रजःस्त्रीधने भर्त्तुरधिकारात् ।
बृहस्पतिना अप्रत्तापदेन अप्रत्ताद्यभावे समू-
ढाया अप्यधिकारः सूचितः ।
‘ब्राह्म्यदैवार्षगान्धर्व्वप्राजापत्येषु यद्धनम् ।
अप्रजायामतीतायां भर्त्तुरेव तदिष्यते ॥
यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु ।
अतीतायामप्रजायां मातापित्रोस्तदिष्यते ॥’
अस्याः स्याद्दत्तमिति पराचीनं पूर्ब्बत्रानुषज्यते ।
तेन विवाहेषु यद्धनं दत्तमिति सम्बन्धात्
वैवाहिकधनमात्रप्रतीतेर्न यावद्धनविषयत्वम् ।
तथा यमः ।
‘आसुरादिषु यद्द्रव्यं विवाहेषु प्रदीयते ॥’
विवाहक्रियायां पूर्ब्बापरीभूतायां यद्द्रव्यं प्रदी-
यते इति यौतकधनमात्रगोचरत्वमेव प्रतीयते ।”
इति दायभागः ॥ * ॥ “ऊढाया यौतकधने प्रथमं
कुमारी तदभावे वाग्दत्ता अधिकारिणी ।
एतयोरभावे ऊढयोः पुत्त्रवतीसम्भावितपुत्त्रयो-
र्युगपदधिकारः । एकाभावे चापरायाः । एतयो-
रभावे बन्ध्याविधवयोस्तुल्याधिकारः । एकाभावे
चापरायाः । ततः पुत्त्रदौहित्रपौत्त्रप्रपौत्त्रस-
पत्नीपुत्त्रपौत्त्रप्रपौत्त्राणां क्रमेणाधिकारः । ग्रन्थ-
कृन्मते सपत्नीपुत्त्रानन्तरं दौहित्रस्याधिकार
इति विशेषः । ततो ब्राह्म्यादिविवाहपञ्चक-
समयलब्धयौतकधने भर्त्ता भ्राता माता पिता
चेति क्रमः । आसुरादिविवाहत्रयसमयलब्ध-
यौतकधने माता पिता भ्राता भर्त्ता चेति क्रमः ।
ततो देवरः ततो देवरपुत्त्रभर्त्तृश्वशुरपुत्त्रौ
भगिनीपुत्त्रः ततो भर्त्तृभागिनेयः ततो भ्रातृपुत्त्रः
ततो जामाता ततः श्वशुरः ततो भ्रातृश्वशुरः
तत आनन्तर्य्यक्रमेण सपिण्डाः ततः सकुल्याः
ततः समानोदकाः ।” इति तट्टीकायां श्रीकृष्ण-
तर्कालङ्कारः ॥

यौधिष्ठिरं, त्रि, (युधिष्ठिरस्य इदमिति । युधिष्ठिर

+ अण् ।) युधिष्ठिरसम्बन्धि । यथा, --
“सा च यौधिष्ठिरी सेना गाङ्गेयशरताडिता ।
प्रतिपत्पाठशीलानां विद्येव तनुतां गता ॥”
इति महाभारतम् ॥
(युधिष्ठिरस्यापत्ये, पुं । यथा, महाभारते ।
६ । ५० । ५९ ।
“यौधिष्ठिरः सुसंक्रुद्धः सौवलं निशितैः शरैः ।
व्यदारयत संग्रामे मघवा इव दानवम् ॥”
वासुदेवस्य पत्नीविशेषे, स्त्री । यथा, हरिवंशे ।
१६० । २० -- २१ ।
“कौशिक्यां सुतसोमायां यौधिष्ठिर्य्यां युधिष्ठिरः ।
कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ॥
एवमादीनि पुत्त्राणां सहस्राणि निबोध मे ।
दशायुतं समाख्याता वासुदेवस्य ते सुताः ॥”)

यौधेयः, पुं, (योधमर्हतीति । योध + ढञ् ।

यद्बा, “पार्श्वादियौधेयादिभ्यामणञौ ।” ५ ।
३ । ११७ । इति स्वार्थे अञ् ।) योद्धा । इति
सिद्धान्तकौमुकी ॥ (युधिष्ठिरपुत्त्रः । स च शैव्य-
राजदौत्रित्रः । यथा, महाभारते । १ । ९५ । ७६ ।
“युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां
नाम कन्यां स्वयम्बरां लेभे । तस्यां पुत्त्रं
जनयामास यौधेयं नाम ॥” नृगराजपुत्त्राः
यौधेया इति ख्याताः । यथा, हरिवंशे । ३१ । २५ ।
“दृषद्बत्यास्तु संजज्ञे शिविरौशीनरो नृपः ।
शिवेस्तु शिवयस्तात ! यौधेयास्तु नृगस्य ह ॥”)

यौनं, क्ली, (योनेरिदमिति । योनि + अण् ।)

योनिसम्बन्धाधीनपापम् । यथा । बौधायनः ।
“संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्यौनात् सद्यो हि शयना-
शनात् ॥”
सुमन्तुः । यश्चैतैर्यौनमौखश्रौवादीनां सम्बन्धा-
नामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव
प्रायश्चित्तं विदध्यादिति । इयात् कुर्य्यात् ।
एतदेवेति द्वादशवार्षिकमित्यर्थः । अत्र याज-
नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते ।
इति प्रायश्चित्तविवेकः ॥ (उत्पत्तिकारणम् ।
यथा, महाभारते । १३ । १०२ । २५ ।
“यत्राग्नियौनाश्च वसन्ति लोका
अब्योनयः पर्व्वतयोनयश्च ॥”
उत्तरापथजातजातिविशेषे, पुं । यथा, महा-
भारते । १२ । २०७ । ४३ ।
“उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि ।
यौनकाम्भोजगान्धराः किराता वर्व्वरैः सह ॥”)

यौवतं, क्ली, (युवतीनां समूहः । युवति +

“भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।
पुंवद्भावाभावश्च ।) युवतिसमूहः । इत्यमरः । २ ।
६ । २२ ॥ (यथा, गीतगोविन्दे । १० । १५ ।
“रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-
वहो विबुधयौवतं वहसि तन्वि ! पृथ्वीगता ॥”
युवतिभिः कृतमिति । नृत्यविशेषः । यथा,
सङ्गीतदामोदरे ।
“मधुरं बहुलीलाभिर्नटीभिर्यत्र नृत्यते ।
वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥”)
परिमाणम् । इति अमरटीकायां भरतः ॥

यौवनं, क्ली, (युवन् + “हायनान्तयुवादिभ्योऽण् ।”

५ । १ । १३० । इति अण् ।) यूनो भावः ।
तत्पर्य्यायः । तारु ण्यम् २ । इत्यमरः ॥ वयः ३
इति जटाधरः ॥ तत्तु षोडशवर्षमारभ्य सप्तति-।
वर्षपर्य्यन्तम । यथा, --
“आषोडशाद्भवेद्वालस्तरुणस्तत उच्यते ।
बृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥”
इति स्मृतिः ॥
नवयौवनलक्षणं यथा, --
“दरोद्भिन्नस्तनं किञ्चित् चलाक्षं मेदुरस्मितम् ।
मनागभिस्फूरद्भावं नव्यं यौवनमुच्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
(“गर्भेश्वरत्वम् अभिनवयौवनत्वमप्रतिरूपत्वम-
मानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा ।
सर्व्वाविनयानामेकैकमप्येषामायतनम् । किमुत
समवायः । यौवनारम्भे च प्रायः शास्त्रजल-
प्रक्षालननिर्म्मलापि कालुष्यमुपयाति बुद्धिः ।
अनुज्झितधवलतापि सरागैव भवति यूनां
दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समु-
द्भूतरजोभ्रान्तिरदूरमात्मेच्छया यौवनसमये
पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च
सततमतिदुरन्तेयमुपभोगमृगतृष्णिका । नव-
यौवनकषायितात्मनश्च सलिलानीव तान्येव
विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्या-
पतन्ति मनसः । नाशयति च दिङ्मोह इवो-
न्मार्गप्रवर्त्तकः पुरुषमत्यासङ्गो विषयेषु ।” इति
कादम्बर्य्यां चन्द्रापीडं प्रतिशुकनाशोपदेशः ॥)
नवयौवनकारकमौषधं यथा, --
“अश्वगन्धानागबलागुडमांसनिषेविणाम् ।
रूपं भवेद्यथा तद्वत् नवयौवनचारिणाम् ॥”
इति गारुडे १८९ अध्यायः ॥

यौवनकण्टकं, पुं, क्ली, (यौवने कण्टकमिव

दुःखदत्वात् ।) युवगण्डः । इति शब्दमाला
वयस्फोडा इति भाषा ॥

यौवनपिडका, स्त्री, (यौवने पिडका ।) युवकाले

मुखे जातः क्षुद्रस्फोटकः । वयस्फोडा इति
भाषा ॥ (यथा, सुश्रुते निदानस्थाने । १३ ।
“यौवनपिडका पद्मिणी कण्टका जतुमणिरि-
त्यादि ॥”) तल्लक्षणं यथा, --
“शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः ।
जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ॥”
इति सुश्रुते । १ । १४ अध्यायः ॥
अस्याश्चिकित्सा मुखदूषिकाशब्दे द्रष्टव्या ॥

यौवनलक्षणं, क्ली, (यौवनस्य लक्षणं चिह्नम् ।)

लावण्यम् । स्तनः । इति मेदिनी । ने, ११७ ॥
तारुण्यचिह्नम् ॥

यौवनाश्वः, पुं, (युवनाश्वस्यापत्यमिति । युवनाश्व +

अण् ।) मान्धातृराजः । इति त्रिकाण्डशेषः ॥
अपि च ।
“यौवनाश्वोऽथ मान्धाता चक्रवर्त्त्यवनीप्रभुः ।
सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥
ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः ॥
सर्व्वदेवमयं देवं सर्व्वात्मकमतीन्द्रियम् ॥
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः ।
धर्म्मो देशश्च कालश्च सर्व्वमेतद्यदात्मकम् ॥
यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति ।
तत् सर्व्वं बौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥
पृष्ठ ४/०६९
शशविन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः ।
पुरुकुत्समम्बरीषं मुचुकुन्दञ्च योगिनम् ॥
तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥”
इति श्रीभागवते ९ स्कन्धे ६ अध्यायः ॥

यौवनाश्वकः, पुं, (यौवनाश्व + स्वार्थे कन् ।)

मान्धातृराजः । इति जटाधरः ॥

यौष्माकं, त्रि, (युष्मद् + अण् । “तस्मिन्नणि च

युष्माकास्माकौ ।” ४ । ३ । २ । इति प्रकृते-
र्युष्मकादेशः ।) युष्मत्सम्बन्धि । युष्माकमिदं
इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, कथासरित्सागरे । ११२ ।
२०५ ।
“इत्याद्यस्मासु जल्पत्सु मिलितेष्वत्र तत्क्षणम् ।
विद्याधरो धूमशिखो यौष्माकोऽवातरद्दिवः ॥”)

यौष्माकीनं, त्रि, (युष्मद् + “युष्मदस्मदोरन्यतरस्यां

खञ्च ।” ४ । ३ । १ । इति खञ् । “तस्मिन्नणि चेति ।”
४ । ३ । २ । इति युष्माकादेशः ।) युष्मत्सम्बन्धि ।
युष्माकमिदं इत्यर्थे णीन् प्रत्ययेन निष्पन्नम् । इति
मुग्धबोधव्याकरणम् ॥ युष्मच्छब्दे अलिखित-
त्वादवसरसङ्गत्या गौणयुष्मदस्मच्छब्दप्रयोगोऽत्र
लिख्यते । युष्मदस्मदोर्मुख्यत्वे गौणत्वे च सिजस्
ङेङसां स्वरूपग्रहणात् तेषु परेषु त्वाहयूयवय-
तुभ्यमह्यतवममाः स्युरेव । सिजसांदेरन्यत्र युष्म-
दस्मदोर्मुख्यत्वे एकवचने परे त्वन्मदौ द्बिवचने
परे युवावौ बहुवचने परे स्वरूपेणावस्थानम् ।
गौणत्वे तु परविभक्तिमनादृत्य युष्मदस्मदोरेकत्वे
त्वन्मदौ द्वित्वे युवावौ बहुत्वे स्वरूपेणावस्थान-
मिति ॥ * ॥ यथा त्वामतिक्रान्तः अतित्वं अतित्वां
अतियूयम् । अतित्वां अतित्वां अतित्वान् ।
अतित्वया अतित्वाभ्यां अतित्वाभिः । अति-
तुभ्यं अतित्वाभ्यां अतित्वभ्यम् । अतित्वत् अति
त्वाभ्यां अतित्वत् । अतितव अतित्वयोः अति-
त्वयाम् । अतित्वयि अतित्वयोः अतित्वासु ॥ * ॥
युवामतिक्रान्तः अतित्वं अतियुवां अतियूयम् ।
अतियुवां अतियुवां अतियुवान् । अतियुवया
अतियुवाभ्यां अतियुवाभिः । अतितुभ्यं अति-
युवाभ्यां अतियुवभ्यम् । अतियुवत् अतियुवाभ्यां
अतियुवत् । अतितव अतियुवयोः अतियुवयाम् ।
अतियुवयि अतियुवयोः अतियुवासु ॥ * ॥
युष्मानतिक्रान्तः अतित्वं अतियुष्मां अतियूयम् ।
अतियुष्मां अतियुष्मां अतियुष्मान् । अतियुष्मया
अतियुष्माभ्यां अतियुष्माभिः । अतितुभ्यं अति-
युष्माभ्यां अतियुष्मभ्यम् । अतियुष्मत् अति-
युष्माभ्यां अतियुष्मत् । अतितव अतियुष्मयोः
अतियुष्मयाम् । अतियुष्मयि अतियुष्मयोः अति-
युष्मासु ॥ * ॥ मामतिक्रान्तः अत्यहं अतिमां
अतिवयम् । अतिमां अतिमां अतिमान् ।
अतिमया अतिमाभ्यां अतिमाभिः । अतिमह्यं
अतिमाभ्यां अतिमभ्यम् । अतिमत् अति-
माभ्यां अतिमत् । अतिमम अतिमयोः
अतिमयाम् । अतिमयि अतिमयोः अति-
मासु ॥ * ॥ आवामतिक्रान्तः अत्यहं अत्यावां
अतिवयम् । अत्यावां अत्यावां अत्यावान् ।
अत्यावया अत्यावाभ्यां अत्यावाभिः । अति-
मह्यं अत्यावाभ्यां अत्यावभ्यम् । अत्यावत्
अत्यावाभ्यां अत्यावत् । अतिमम अत्यावयोः
अत्यावयाम् । अत्यावयि अत्यावयोः अत्या-
वासु ॥ * ॥ अस्मानतिक्रान्तः अत्यहं अत्यस्मां
अतिवयम् । अत्यस्मां अत्यस्मां अत्यस्मान् ।
अत्यस्मया अत्यस्माभ्यां अत्यस्माभिः । अतिमह्यं
अत्यस्माभ्यां अत्यस्मत् । अत्यस्मत् अत्यस्माभ्यां
अत्यस्मत् । अतिमम अत्यस्मयोः अत्यस्मयाम् ।
अत्यस्मयि अत्यस्मयोः अत्यस्मासु । इति
दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/युज&oldid=196480" इत्यस्माद् पुनः प्राप्तिः