शब्दकल्पद्रुमः/यवकः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/०२४

यवकः, पुं, (यवप्रकारः । यव + “स्थूलादिभ्यः

प्रकारवचने कन् ।” ५ । ४ । ३ । इति कन् ।) यवः ।
इत्यमरटीकायां रामाश्रमः ॥ (यथा, --
“यवका हायनाः पांशुवाप्यनैषधकादयः ।
शालीनं शालयः कुर्व्वन्त्यनुकारं गुणा गुणैः ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)

यवक्यं, त्रि, (यवकानां भवनं क्षेत्रमिति । यवक +

“यवयवकषष्टिकाद् यत् ।” ५ । २ । ३ । इति
यत् ।) यवभवनोचितक्षेत्रम् । इत्यमरः । २ ।
९ । ७ ॥

यवक्षारः, पुं, (यवजातः क्षारः । शाकपार्थिव-

वत् समासः ।) क्षारविशेषः । यथा, --
“नरसारयवक्षारस्फटिकारित एव काचवक-
यन्त्रैः ।
बहुशः पात्यं सत्त्वं तद्धि महाद्रावकन्नाम ॥”
इति रत्नावली ॥
तत्पर्य्यायः । यवाग्रजः २ पाक्यम् ३ । इत्यमरः ।
२ । ९ । १०८ ॥ यवलासः ४ यवशूकः ५ सारकः ६
रेचकः ७ यवनालकः ८ । इति शब्दरत्नावली ॥
यावशूकः ९ क्षारः १० तर्क्ष्यः ११ तीक्ष्णरसः
१२ यवनालजः १३ इति रत्नमाला ॥ यवजः १४
यवशूकजः १५ यवाह्वः १६ यवापत्यम् १७ ।
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातो-
दरार्त्तिनाशित्वम् । आमशूलाश्मरुक्कृत्स्नविष-
दोषहरत्वम् । सरत्वञ्च । इति राजनिर्घण्टः ॥
अर्शःश्वासगुल्मग्रहणीपाण्डुप्लीहानाहगलामय-
नाशित्वञ्च । इति राजवल्लभः ॥ (तथा च ।
“पाक्यः क्षारो यवक्षारो यवशूको यवाग्रजः ।
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥
निहन्ति शूलवातामश्लेष्मस्वासगलामयान् ।
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

यवक्षोदः, पुं, (यवानां क्षोदः ।) यवचूर्णम् ।

तत्पर्य्यायः । चिक्वसः २ । इति हेमचन्द्रः ॥

यवगण्डः, पुं, (यूनो गण्डः स्फोटकः । पृषोदरादि-

त्वात् यवादेशः ।) युवगण्डः । इति शब्दरत्ना-
वली ॥ वयस्फोडा इति भाषा ॥

यवजः, पुं, (यवाज्जायते इति । जन् + डः ।)

यवक्षारः । इति रत्नमाला ॥ (यथास्य पर्य्यायः ।
“यावशूको यवक्षारो यवशूको यवाग्रजः ।
क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥”
इति वैद्यकरत्नमालायाम् ॥)
यवानी । इति राजनिर्घण्टः ॥

यवजोद्भवं, क्ली, (यवजादुद्भवोऽस्य ।) तवक्षीरम् ।

इति राजनिर्घण्टः ॥

यवतिक्ता, स्त्री, लताप्रभेदः । शङ्खिनीति यवेची

इति च ख्याता । (यथा, सुश्रुते सूत्रस्थाने ४५ अः ।
“यवतिक्तातैलं सर्व्वदोषप्रशमनमीषत्तिक्तम् ।
अग्निदीपनं लेखनं मेध्यं पथ्यं रसायनञ्च ॥”)
तत्पर्य्यायः । महातिक्ता २ दृढपादविसर्पिणी ३
नाकुली ४ नेत्रमीना ५ शङ्खिनी ६ पत्रतण्डुली
७ तण्डली ८ अक्षपीडा ९ सूक्ष्मपुष्पी १०
यशस्विनी ११ माहेश्वरी १२ तिक्तफला १३
यावी १४ तिक्ता १५ । अस्या गुणाः । सतिक्ता-
म्लत्वम् । दीपनत्वम् । रुचिकारित्वम् । कृमि-
कुष्ठविवर्णास्रदोषनाशित्वम् । रेचनत्वञ्च । इति
राजनिर्घण्टः ॥

यवतैलं, क्ली, (यवनिर्म्मितं तैलम् ।) यवचूर्णादि-

युक्तपक्वतैलविशेषः । तत्प्रकारं गुणञ्चाह ।
“यवचूर्णार्द्धकुडवं मञ्जिष्ठार्द्धपलेन तु ।
तैलप्रस्थः शतगुणे काञ्जिके साधितो जयेत् ।
ज्वरं दाहं महावेगमङ्गानाञ्च प्रहर्षणम् ॥”
इति सुखबोधः ॥

यवद्वीपः, पुं, (यवनामा द्वीपः इति मध्यपद-

लोपिकर्म्मधारयः ।) उपद्बीपविशेषः । यावा
इति भाषा । यथा, --
“यत्नवन्तो यवद्वीपं सप्तराज्योपशोभितम् ।
सुवर्णरूप्यकं द्बीपं सुवर्णकरमण्डितम् ॥”
इति वाल्मीकीये रामायणे किष्किन्ध्याकाण्डे
४० सर्गः ॥ * ॥ “अतः परं यत्नवन्तो भूत्वा सप्त-
राज्योपशोभितं यवद्वीपं तथा सुवर्णद्बीपं
विचेतव्यमिति शेषः । सुवर्णकरमण्डितमिति
सुवर्णं कुर्व्वन्ति ये तैः शोभितम् ।” इति
रामायणतिलकनामतट्टीका ॥

यवनः, पुं, देशविशेषः । (यथा, मात्स्ये । १२० । ४३ ।

“तान् देशान् प्लावयन्ति स्मम्लेच्छप्रायांश्च सर्व्वशः ।
सशैलान् कुकुरान् रौध्रान् वर्वरान् यवनान्
खसान् ॥”)
वेगः । वेगाधिकाश्वः । इति मेदिनी ॥ गोधूमः ।
गर्जरतृणम् । तुरुष्कः । इति राजनिर्घण्टः ॥
(यौति मिश्रीभवतीति । यु + “सुयुरुवृञो
युच् ।” उणा० २ । ७४ । इति युच् ।) जाति-
विशेषः । इति शब्दरत्नावली ॥ स तु यवन-
देशोद्भवययातिराजपुत्त्रतुर्व्वसुवंशः । यथा, --
“यदोस्तु जाता यदवस्तुर्व्वसोर्यवनाः सुताः ।
द्रुह्योस्तु तनया भोजा अनोस्तु म्लेच्छजातयः ।
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ! ॥”
इति मात्स्ये ३४ अध्यायः ॥ * ॥
सगरराजेनैषां सर्व्वशिरोमुण्डनं सर्व्वधर्म्मराहि-
त्यञ्च कृतं ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वं
ययुरिति विष्णुपुराणोक्तत्वात् यवनः मोसल-
मानेङ्गरेजोभयजातिवाचकः । यवनशब्दश्चवर्ग-
तृतीयादिरिति रघुनन्दनभट्टाचार्य्येण लिखि-
तम् ॥ जवनादीनान्तु सर्व्वधर्म्मराहित्यमुक्तं
हरिवंशे । यथा, --
“सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च ।
धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
जवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥
पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥
शका जवनकाम्बोजाः पारदाः पह्नवास्तथा ।
कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः ॥
वशिष्ठवचनाद्राजन् ! सगरेण महात्मना ।
शकानां शकदेशोद्भवानां क्षत्त्रियाणां एवं जव-
नादीनामिति । अत्र जवनशब्दस्तद्देशोद्भव-
वाची चवर्गतृतीयादिः । जवनो देशवेगिनो-
रिति त्रिकाण्डशेषाभिधानदर्शनात् । तेषां
म्लेच्छत्वमप्युक्तं विष्णुपुराणे । तथा कृतान्
जवनादीनुपक्रम्य । ते चात्मधर्म्मपरित्यागात्
म्लेच्छत्वं ययुरिति । बौधायनः ।
“गोमांसखादको यश्च विरुद्धं वहु भाषते ।
धर्म्माचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
यवनादीनां राज्यकालो यथा, --
“सप्त गर्द्दभिनश्चापि शकाश्चाष्टादश स्मृताः ।
यवनाष्टौ भविष्यन्ति तुखारश्च भविष्यति ॥
अष्टौ ते यवना राज्यं वर्षाणां परिसङ्ख्यया ।
भोक्ष्यन्त्यशीति तद्वच्च येऽपि गर्द्दभिनः स्मृताः ॥
शतानि त्रीणि वर्षाणां द्व्यशीतीनि शतानि वै ।
शकानां राज्यकालः स्याद्भविष्यो निश्चयो
गतः ॥
शतस्यार्द्धं चतुर्थानि वर्षाणां राज्यभागिनः ।
मरुत्तानां सुताः काला यस्मिन् भोक्ष्यन्ति ते
महीम् ॥
मरुत्ता वृषलैः सार्द्धं तथान्ये म्लेच्छसम्भवाः ।
भोक्ष्यन्ति राज्यं प्राच्येषु भविष्ये तद्बिधारितम् ॥
शतानि त्रीणि वर्षाणां पौण्ड्रा राज्यभुजः
स्मृताः ।
अश्नन्ति पार्व्वतेयास्तु द्वे शते परिसङ्ख्यया ॥
शतार्द्धमन्यच्च तथा राज्यं भोक्ष्यन्ति ते नृपाः ।
सप्तषष्टिस्तु वर्षाणि दशातीवाह्यतः स्मृताः ॥
तेषु च्छन्नेषु कालेषु ततः किलकिला नराः ।
भविष्यन्तीह यवना धर्म्मतः कामतोऽर्थतः ॥
तैविमिश्रा जनपदा आर्य्या म्लेच्छाश्च सर्व्वशः ।
विपर्य्ययेण वर्त्तन्ते जनयिष्यन्ति वै प्रजाः ॥
लब्ध्वानिष्टवरञ्चैव भवितारस्तदा नृपाः ।
तेषां व्यतीते पर्य्याये बहुवर्षयुगांस्तदा ॥
राजानः संप्रणश्यन्ति कालेन महता ततः ।
कल्किना ताडिताः सर्व्वे आर्य्या म्लेच्छाश्च
सर्व्वशः ॥
अधार्म्मिकाश्च ये सर्व्वे पाषण्डाश्चैव सर्व्वशः ।
व्युष्टे नृपतिशब्दे वै सन्ध्याशिष्टे च वै कलौ ॥”
इति ब्रह्माण्डपुराणे ३९ अध्यायः ॥
मुनिविशेषः । यथा, --
“जातं दिनं दूषयते वशिष्ठ-
श्चाष्टौ च गर्गो यवनो दशाहम् ।
जन्माख्यमासं किल भागुरिश्च
व्रते विवाहे क्षुरकर्णवेधे ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
कालयवनोत्पत्तिर्यथा, --
श्रीपराशर उवाच ।
“गार्ग्यं गोष्ठे द्विजं श्यालः षण्ढैत्युक्तवान् द्विज ।
यदूनां सन्निधौ सर्व्वे जहसुर्यादवास्ततः ॥
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
सुतमिच्छं स्तपस्तेपे यदुचक्रभयावहम् ॥
पृष्ठ ४/०२५
आराधयन्महादेवं सोऽयश्चूर्णमभक्षयत् ।
ददौ वरञ्च तुष्टोऽस्मै वर्षे द्वादशमे हरः ॥
सभाजयामास च तं यवनेशो ह्यनात्मजः ।
तद्योषित्सङ्गमाच्चास्य पुत्त्रोऽभूदलिसन्निभः ॥
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥
स च वीर्य्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।
गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥
प्रययौ चाव्यवच्छिन्नं छिन्नयानो दिने दिने ।
यादवान् प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥
कृष्णोऽपि चिन्तयामास क्षयितं यादवं कुलम् ।
यवनेन रणे गम्यं मागधस्य भविष्यति ॥
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्ता तदिदमायातं यदूनां व्यसनं द्विधा ॥
तस्माद्दूर्गं करिष्यामि यदूनामतिदुर्जयम् ।
स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णिपुङ्गवाः ॥”
“इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् ।
ययाचे द्वादशपुरीं द्वारकां तत्र निर्म्ममे ॥
मथुरावासिनो लोकांस्तत्रानीय जनार्द्दनः ।
आसन्ने कालयवने मथुराञ्च स्वयं ययौ ॥
वहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम स गोविन्दो ददृशे यवनश्च तम् ॥
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः ।
अनुयातो महायोगिचेतोभिः प्राप्यते न यः ॥
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
तत्र शेते महावीर्य्यो मुचुकुन्दो नरेश्वरः ॥
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् ।
पादेन ताडयामास कृष्णं मत्वा सुदुर्म्मतिः ॥
दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निबा ।
तत्क्रोधजेन मैत्रेय ! भस्मीभूतश्च तत्क्षणात् ॥”
इति विष्णुपुराणे ५ अंशे २३ अध्यायः ॥

यवनः, त्रि, (यौतीति । यु + “नन्दिग्रहीति ।” ३ ।

१ । १३४ । इति ल्युः ।) वेगी । इति मेदिनी ।
ने, १११ ॥ (यथा, नैषधचरिते । १ । ६५ ।
“तमश्ववारा यवनाश्वयायिनं
प्रकाशरूपा मनुजेशमन्वयुः ॥”)

यवनद्विष्टः, पुं, (यवनैर्द्विष्टः । हिन्दुप्रियत्वात्

तथात्वम् ।) गुग्गुलुः । इति राजनिर्घण्टः ॥

यवनप्रियं, क्ली, (यवनानां प्रियम् ।) मरिचम् ।

इति हेमचन्द्रः । ३ । ४८ ॥ (विवरणमस्य
मरिचशब्दे ज्ञातव्यम् ॥)

यवनाचार्य्यः, पुं, (यवनो नामाचार्य्यः ।) ज्योतिः-

शास्त्रकर्त्तृमुनिविशेषः । इति वराहमिहिरौ ॥

यवनानी, स्त्री, (यवनानां लिपिः । “यवनाल्लि-

प्याम् ।” ४ । १ । ४९ । इति वार्त्तिकोक्त्या
ङीष् आनुगागमश्च ।) यवनस्य लिपिः । इति
मुग्धबोधटीकायां दुर्गादासः ॥

यवनारिः, पुं, (यवनानामरिः । यवनः कालयवनो-

ऽरिर्यस्येति वा ।) श्रीकृष्णः । इति त्रिकाण्ड-
शेषः ॥

यवनालः, पुं, (यवानां नाला इव नाला यस्य ।)

धान्यविशेषः । देधान् इति भाषा । तत्पर्य्यायः ।
योनालः २ जूर्णह्वयः ३ देवधान्यम् ४
जोन्ताला ५ बीजपुष्पिका ६ । इति हेम-
चन्द्रः । ४ । २४४ ॥ (यथा, सुश्रुते उत्तरतन्त्रे
१५ अध्याये ।
“यवनालस्य चूर्णेन त्रिकटोर्लवणस्य च ।
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् ॥”)

यवनालजः, पुं, (यवानां नालेभ्यो जायते इति ।

जन् + डः ।) यवक्षारः । इति हेमचन्द्रः । ४ ।
१० ॥ (यथा, वैद्यकरत्नमालायाम् ।
“क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥”)

यवनिका, स्त्री, (युनात्यावृणोत्यनया । यु + ल्युट् ।

ङीष् । स्वार्थे कन् । टाप् ।) जवनिका । इत्य-
मरटीका ॥ कानात् इति भाषा । (यथा,
भागवते । १ । ८ । १९ ।
“मायायवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥”)

यवनी, स्त्री, (यूयते पच्यते भुक्तमनया । यु +

ल्युट् । ङीप् ।) यवानीनामकौषधिभेदः ।
इति मेदिनी । ने, ११२ ॥ (यवनस्य स्त्रीति ।
यवन + ङीष् ।) यवनभार्य्या ॥ (यथा, रघुः ।
४ । ६१ ।
“यवनीमुखपद्मानां सेहे मधुमदं न सः ।
वालातपमिवाब्जानामकालजलदोदयः ॥”)

यवनेष्टं, क्ली, (यवनानां इष्टम् ।) सीसकम् ।

इति हेमचन्द्रः । ४ । १०७ ॥ मरीचम् ।
गृञ्जनम् । इति राजनिर्घण्टः ॥

यवनेष्टः, पुं, (यवनानामिष्टः ।) लशुनः । राज-

पलाण्डुः । निम्बः । पलाण्डुः । इति राजनिर्घण्टः ॥
(तथास्य पर्य्यायः ।
“पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

यवप्रख्या, स्त्री, (यव इति प्रख्या यस्याः ।)

क्षुद्ररोगविशेषः । तल्लक्षणं यथा, भावप्रकाशे ।
“यवाकारा सुकठिना ग्रथिता मांसमिश्रिता ।
पीडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥”
यवाकारा मध्ये स्थूला प्रान्ते कृशा ॥ तच्चि-
कित्सा यथा, --
“अन्त्रालजीं यवप्रख्यां पूर्ब्बं स्वेदैरुपाचरेत् ।
मनःशिलादेवदारुकुष्ठकल्कैः प्रलेपयेत् ।
पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ॥”

यवफलः, पुं, (यववत् फलमस्य ।) वंशः । इत्य-

मरः । २ । ४ । १६१ ॥ जटामांसी । कुटजः ।
इति मेदिनी । ले, १६२ ॥ (अस्य पर्य्यायो यथा,
“कुटजः कूटजः कौटो वत्सको गिरिमल्लिका ।
कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि ।
इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
प्लक्षवृक्षः । इति शब्दरत्नावली ॥

यवमध्यं, क्ली, (यववत् मध्यं यस्य ।) चान्द्रायण-

प्रभेदः । यथा, --
“शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणन्तथा ।
यवमध्यं तथा प्रोक्तं तथा पिपीलिकाकृति ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(पुं, यज्ञभेदः । यथा, शतपथब्राह्मणे । १३ । ६ ।
१ । ९ ।
“यवमध्यः पञ्चरात्रो भवति ॥”
यवाकारमध्ये, त्रि । यथा, सुश्रुते चिकित्सा-
स्थाने १ अध्याये ।
“शरावनिम्नमध्याश्च यवमध्यास्तथापरे ।
एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः ॥”)

यवमयः, त्रि, (यवस्य विकारोऽवयवो वा । यव +

“असंज्ञायां तिलयवाभ्याम् ।” ४ । ३ । १४९ । इति
मयट् ।) यवनिर्म्मितः । यवशब्दात् मयट्-
प्रत्ययेन निष्पन्नः ॥ (यथा, शतपथब्राह्मणे । २ ।
२ । ३ । १३ ।
“अर्कपलाशाभ्यां यवमयमपूपं कृत्वा यत्रा-
हवनीयमाधास्य न भवति तन्निदधाति ॥”)

यवलासः, पुं, (यवात् लासो यस्य ।) यवक्षारः ।

इति शब्दरत्नावली ॥ (विशेषोऽस्य यवक्षार-
शब्दे ज्ञातव्यः ॥)

यवशूकः, पुं, (यवानां शूकः कारणत्वेनास्त्यस्य ।

अर्शआद्यच् ।) यवक्षारः । इति त्रिकाण्ड-
शेषः ॥ (यथास्य पर्य्यायः ।
“यावशूको यवक्षारो यवशूको यवाग्रजः ।
क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥”
इति वैद्यकरत्नमालायाम् ॥)

यवशूकजः, पुं, (यवशूकात् जायते इति । जन् +

डः ।) यवक्षारः । इति राजनिर्घण्टः ॥
(विवरणमस्य यवक्षारशब्दे ज्ञातव्यम् ॥)

यवसं, क्ली, (यौतीति । यु + “वहियुभ्यां णित् ।”

उणा० ३ । ११९ । इत्यसच् । संज्ञापूर्व्वकत्वान्न
वृद्धिः ।) तृणम् । घासः । इत्यमरः । २ । ४ । १६७ ॥
(यथा, मनौ । ७ । ७५ ।
“तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”)

यवसुरं, क्ली, (यवनिर्म्मिता सुरा । “सुरासेना-

च्छायाशालानिशा स्त्रियाञ्च ।” लिङ्गानुशासने
नपुंसकाधिकारे १२ । इति क्लीवत्वम् ।) यव-
जातसुरा । इति सिद्धान्तकौमुदी ॥

यवागूः, स्त्री, (यूयते मिश्र्यते इति । यु + “सृयु-

वचिभ्योऽन्युजागूजक्नुचः ।” उणा० ३ । ८१ । इति
आगूच् ।) षड्गुणजलपक्वघनद्रवद्रव्यविशेषः ।
याउ इति भाषा ॥ तत्पर्य्यायः । उष्णिका २
श्राणा ३ विलेपी ४ तरला ५ । इत्यमरः । २ ।
९ । ५० ॥ “यूयते मिश्र्यते यावागूः यु ल मिश्रणे
नाम्नीति आगूः गुणः । ओषति हिनस्ति
ज्वरादिरोगं उष्णिका उषू ष वाधे दहि पूर्व्वेण
निक् । श्रायते पच्यते स्म श्राणा श्रा ल पाके क्तः
सुल्वाद्योदिति नः । विलिम्पति विलेपी ञि
लिपौ शप ञ लेपे पचादित्वादन् । नदादित्वा-
दीप् । तरति प्लवति तरला त तरेऽभिभवे
प्लुत्यां नाम्नीति अलः ।
पृष्ठ ४/०२६
‘अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे ।
मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि ॥’
इति वैद्यकोक्तो भेद इह नादृतः ॥” इति तट्टी-
कायां भरतः ॥ अस्या गुणाः ।
“यवागूर्ज्वरतृष्णाघ्नी लघ्वी वस्तिविशोधनी ।
अतीसारे ज्वरे दाहे हिता वह्निप्रदीपनी ॥”
इति राजवल्लभः ॥
(अथास्या गुणा लक्षणञ्च ।
“सन्दीपनी स्वेदकरी यवागूः
सम्पाचनी दोषमलामयानाम् ।
सन्तर्पणी धातु बलेन्द्रियाणां
शस्ता भवेत् सा ज्वररोगिणाञ्च ॥”
भागैकञ्च भवेत्तत्र द्बिभागेन जलं क्षिपेत् ।
चित्रकं पिप्पलीमूलं पिप्पलीचव्यनागरम् ॥
धान्यकस्य समांशानि पिष्ट्वा श्वेतांश्च तण्डुलान् ।
संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ॥
यवागूमुपभुञ्जानो जनो नारुचिमाचरेत् ।
शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्ज्जरा ॥”
इति हारीते प्रथमस्थाने १२ अध्याये ॥
“यावागूः षड्गुणजले सिद्धा स्यात् कृशरा घना ।
यवागूर्ग्राहिणी वल्या तर्पणी वातनाशिनी ॥”
इति मध्यखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

यवाग्रजः, पुं, (यवाग्रात् जावते इति । जन् + डः ।)

यवक्षारः । इत्यमरः । २ । ९ । १०८ ॥
(यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“पाक्यः क्षारो यवक्षारो यावशूको यवा-
ग्रजः ॥”)
यवानी । इति राजनिर्घण्टः ॥

यवानः, त्रि, (यवेन वेगेन अनिति जीवतीति ।

अन् + अच् ।) वेगी । इति मेदिनी । ने, १११ ॥

यवानिका, स्त्री, (दुष्टो यवः । “यवाद्दोषे ।”

४ । १ । ४९ । इत्यस्य वर्त्तिकोक्त्या
ङीष् आनुगागमश्च । पक्षे स्वार्थे कन् ।)
ओषधिभेदः । योयानि इति भाषा । तत्पर्य्यायः ।
दीप्यकः २ दीप्यः ३ यवसाह्वः ४ यवाग्रजः ५
दीपनी ६ उग्रगन्धा ७ वातारिः ८ भूकद-
म्बकः ९ यवजः १० दीपनीयः ११ शूलहन्त्री १२
यवानिका १३ उग्रा १४ तीव्रगन्धा १५ ।
अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण-
त्वम् । वातार्शःश्लेष्मशूलाध्मानकृमिच्छर्द्दिनाशि-
त्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अपि
च । अथ यवान्या नामगुणाः ।

यावानी, स्त्री, (दुष्टो यवः । “यवाद्दोषे ।”

४ । १ । ४९ । इत्यस्य वर्त्तिकोक्त्या
ङीष् आनुगागमश्च । पक्षे स्वार्थे कन् ।)
ओषधिभेदः । योयानि इति भाषा । तत्पर्य्यायः ।
दीप्यकः २ दीप्यः ३ यवसाह्वः ४ यवाग्रजः ५
दीपनी ६ उग्रगन्धा ७ वातारिः ८ भूकद-
म्बकः ९ यवजः १० दीपनीयः ११ शूलहन्त्री १२
यवानिका १३ उग्रा १४ तीव्रगन्धा १५ ।
अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण-
त्वम् । वातार्शःश्लेष्मशूलाध्मानकृमिच्छर्द्दिनाशि-
त्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अपि
च । अथ यवान्या नामगुणाः ।
“यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका ।
सवोक्ता दीप्यका दीप्या तथा स्याद्यवसाह्वया ॥
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः ।
दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् ।
वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ॥
अथ अजमोदाया नामानि गुणाश्च ।
अजमोदा खराश्वा च मायूरी दीप्यकस्तथा ।
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥
अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् ।
उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः ॥
नेत्रामयकृमिच्छर्द्दिहिक्कावस्तिरुजो हरेत् ॥
अथ खुरासानीयवानीनामगुणाः ।
पारसीकयवानी तु यवानीसदृशी गुणः ।
विशेषात् पाचनी रुच्या ग्राहिणी मादिनी
गुरुः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥

यवापत्यं, क्ली, (यवस्यापत्यम् । तज्जातत्वात्तथा-

त्वम् ।) यव्क्षारः । रति राजनिर्घण्टः ॥

यवाम्लजं, क्ली, (यवाम्लाभ्यां जायते इति । जन् +

डः ।) सौवीरम् । इति राजनिर्घण्टः ॥

यवासः, पुं, (यौतीति । यु + “ऋतन्यञ्जीति ।”

उणा० ४ । २ । इत्यादिना आसः ।) दुरालभा ।
यथा, --
“यासो यवासो दुष्पर्शो धनुर्यासो दुरालभा ॥”
इति रत्नमाला ॥
खदिरभेदः । यथा, --
“कण्टकी वासपत्रश्च यवासः खदिरस्तथा ॥”
इति शब्दमाला ॥
यवासा इति ख्याता कण्टकीक्षुपविशेषः । तत्-
पर्य्यायः । यासः २ बहुकण्टकः ३ अल्पकः ४
क्षुद्रेङ्गुदी ५ रोदनिका ६ कच्छुरा ७ बाल-
पत्रः ८ विषघ्नः ९ कण्टकालुकः १० त्रिक-
र्णिका ११ गान्धारी १२ अनन्ता १३ । अस्य
गुणाः । मधुरतिक्तत्वम् । शीतत्वम् । पित्तार्त्ति-
दाहनाशित्वम् । बलदीपनकारित्वम् । तृष्णा-
कफच्छर्द्दिविसर्पजित्त्वञ्च । इति राजनिर्घण्टः ॥

यवासकः, पुं, (यवास + स्वार्थे कन् ।) दुरालभा ।

इति शब्दरत्नावली ॥ (यथा, सुश्रुते उत्तर-
तन्त्रे ३९ अध्याये ।
“क्षयकासं ससन्तापं पार्श्वशूलानपास्यति ।
गुडचीत्रिफलावासात्रायमाणायवासकैः ॥”)

यवासशर्करा, स्त्री, (यवासेन तद्रसेन कृता शर्करा ।

शाकपार्थिववत् समासः ।) यवासरसघटित-
शर्करा । तत्पर्य्यायः । सुधामोदकः २ मोदकः ३
तवराजः ४ खण्डसरः ५ खण्डजः ६ खण्ड-
मोदकः ७ । अस्या गुणाः । अतिमधुरत्वम् ।
पित्तश्रमतृषापहत्वम् । वृष्यत्वम् । विदाह-
मूर्च्छार्त्तिभ्रान्तिशान्तिकरत्वम् । सरत्वञ्च । इति
राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६
अध्याये ।
“यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्म-
हरी सरा चेति ॥”)

यवासा, स्त्री, (यवास + टाप् ।) गुण्डासिनीतृणम् ।

इति राजनिर्घण्टः ॥

यवाह्वः, पुं, (यवमाह्वयति स्वकारणत्वादिति । आ

+ ह्वे + कः ।) यवक्षारः । इति राजनिर्घण्टः ॥
(यथा, सुश्रुते चिकित्सितस्थाने २० अध्याये ।
“यवाह्वगौरिकोन्मिश्रैः पादलेपः प्रशस्यते ॥”
गुणादिविशेषोऽस्य यवक्षारशब्दे विज्ञेयः ॥)

यविष्ठः, त्रि, (अयमेषामतिशयेन युवा इति ।

युवन् + इष्ठन् । “स्थूलदूरेति ।” यणादिलोपगुणौ ।)
अतिशययुवा । (यथा, ऋग्वेदे । १ । १४७ । २ ।
“वोधा मे अस्य वचसो यविष्ठ ।”)
कनिष्ठभ्रातरि, पुं, । इति हेमचन्द्रः । ३ । ११६ ॥
(त्रिष्वपि । यथा, भागवते । ३ । १ । ५ ।
“भ्रातुर्य्यविष्ठस्य सुतान् विबन्धून्
प्रवेश्य लाक्षाभवने ददाह ॥”)

यवीयान्, [स्] त्रि, (अयमनयोरतिशयेन युवा ।

युवन् + “द्विवचनविभज्योपपदे तरबीयसुनौ ।”
५ । ३ । ५७ । इति ईयसुन् ।) कनिष्ठः । (यथा,
मनौ । २ । १२८ ।
“अवाच्यो दीक्षितो नाम्ना यवीयानपि यो
भवेत् ॥”
अतिशय युवा । इति मेदिनी । से, ६१ ॥

यवोत्थं, क्ली, (यवेभ्य उत्तिष्ठतीति । उद् + स्था

कः ।) सौवीरकम् । इति राजनिर्घण्टः ॥

यव्यं, त्रि, (यवानां भवनं क्षेत्रम् । यव + “यव-

यवकषष्टिकाद् यत् ।” ५ । २ । ३ । इति यत् ।)
यवादिभवनोचितक्षेत्रम् । तत्पर्य्यायः । यव-
क्यम् २ षष्टिक्यम् ३ । इत्यमरः । २ । ९ । ७ ॥
यवोचितम् ४ यवकोचितम् ५ । इति शब्द-
रत्नावली ॥ (यवेभ्यो हितम् । यव + “खल-
यवमाषतिलवृषब्रह्मणश्च ।” ५ । १ । ७ । इति
यत् । यवहितः । इति व्याकरणम् ॥)

यव्यः, पुं, (यवेभ्यो हितः । यव + यत् ।) मासः ।

यथा, --
“यव्यद्बयं श्रावणादि सर्व्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्व्वीत वर्ज्जयित्बा समुद्रगाः ॥”
इति प्रायश्चित्ततत्त्वे गङ्गामाहात्म्यम् ॥
(स्त्री, नदीभेदः । यथा, ऋग्वेदे । ८ । ८७ । ८ ।
“वार्णत्वा यव्याभिर्व्वर्द्धन्ति शूरब्रह्माणि ।”
“यव्याभिः नदीभिः । अवनयः यव्याः इति
नदीनामसु पाठात् ।” इति तद्भाष्ये सायणः ॥)

यशः, [स्] क्ली, (अश्नुते व्याप्नोतीति । अश +

“अशेर्देवने युट् च ।” उणा० ४ । १९० । इत्य-
सुन् युट्च ।) सुख्यातिः । तत्पर्य्यायः । कीर्त्तिः
२ समज्ञा ३ । इत्यमरः । १ । ६ । ११ ॥ समाख्या ४
कीर्त्तना ५ अभिख्यानम् ६ आज्ञा ७ समज्या
८ । इति शब्दरत्नावली ॥
“दानादिपभवा कीर्त्तिः शौर्य्यादिप्रभवं यशः ।
इति माधवी ॥
अतएव यशःकीर्त्त्योर्भेदस्यापि दर्शनात् यशः-
कीर्त्तिपरिभ्रष्टो जीवन्नपि न जीवति । इति
कस्यचित् प्रयोगः । जीवतः ख्यातिर्यशो मृतस्य
स्वातिः कीर्त्तिरिति केचित् । तन्न साधु कीर्त्तिस्ते
नृप दूतिकेति प्रयोगदर्शनात् ।” इत्यमरटीकायां
भरतः ॥ कीर्त्तिनाशे दोषो यथा, --
“हन्ति यः परकीर्त्तिञ्च स्वकीर्त्तिं मानवाधमः ।
स कृतघ्न इति ख्यातस्तत्फलञ्च निशामय ॥
अन्धकूपे वसेत् सोऽपि यावदिन्द्राश्चतुर्द्दश ।
कीटैर्नकुलमानैश्च भक्षितः सततं नृप ! ॥
तप्तक्षारोदकं पापी नित्यं पिबति खादति ।
ततः सर्पो जन्म सप्त काकः पञ्च ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥
पृष्ठ ४/०२७
(अन्नम् । यथा, ऋग्वेदे । ४ । ५२ । ११ ।
“वयं स्याम यशसो जनेषु ।”
“यशसः कीर्त्तेरन्नस्य वा ।” इति तद्भाष्ये
सायणः ॥ त्रि, यशस्वी । यथा, ऋग्वेदे । ८ ।
७९ । ५ ।
“त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।”
“त्वं यशाः यशस्व्यसि भवसि ।” इति तद्भाष्ये
सायणः ॥)

यशःपटहः, पुं, (यशःसूचकः पटहः । शाकपार्थिव-

वत् समासः ।) ढक्वा । इत्यमरः । १ । ७ । ६ ॥

यशःशेषः, त्रि, (यश एव शेषोऽस्य ।) मृतः ।

इति हेमचन्द्रः । ३ । ३८ ॥ (यथा, कथासरित्-
सागरे । ९१ । ४४ ।
“ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा ।
प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥”)
मरणे, पुं ॥

यशदं, क्ली, धातुविशेषः । दस्ता इति भाषा । यथा,

“यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम् ।
यशदं तुवरं तिक्तं शीतलं कफपित्तहृत् ।
चक्षुष्यं परमं मेहान् पाण्डुं श्वासञ्च नाशयेत् ॥”
इति भावप्रकाशः ॥

यशस्करः, त्रि, कीर्त्तिकारकः । सुख्यातिजनकः ।

यशस्करोति य इत्यर्थे (“कृञो हेतुताच्छील्यानु-
लोम्येषु ।” ३ । २ । २० ।) इति टप्रत्ययेन निष्पन्नः ।
यशस्करी विद्या इति व्याकरणम् ॥ (यथा,
मनौ । ८ । ३८३ ।
“एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥”
विष्णुक्षेत्रविशेषे, क्ली । यथा, नारसिंहे ६२ अः ।
“विरजं पुष्पवत्यायां बालञ्चामीकरे विदुः ।
यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥”
शोभावतीपुर्य्यां जाते ब्राह्मणविशेषे, पुं । यथा,
कथासरित्सागरे । १०४ । १९ ।
“तस्यां यशस्करो नाम विद्वानाढ्यो बहुक्रतुः ।
ब्राह्मणोऽभूदभूत्तस्य सत्पत्नी मेखलेति च ॥”)

यशस्या, स्त्री, (यशसे हिता । यशस् + यत् ।)

जीवन्ती । ऋद्धिनामौषधिः । इति राज-
निर्घण्टः ॥

यशस्वान्, [त्] त्रि, (यशोऽस्त्यस्य । यशस् + मतुप् ।

मस्य वः ।) कीर्त्तिविशिष्टः । इति व्याकरणम् ॥
(यथा, अथर्व्ववेदे । ६ । ५८ । २ ।
“यथेन्द्रो द्यावापृथिव्योर्यशस्वान्
यथाप ओषधीषु यशस्वतीः ॥”)

यशस्विनी, स्त्री, (यशस्विन् + ङीष् ।) वनका-

र्पासी । इति शब्दरत्नावली ॥ यवतिक्ता । महा-
ज्योतिष्मती । इति राजनिर्घण्टः ॥ (सत्यव्रतस्य
पत्नी । यथा, कथासरित्सागरे । ७३ । २५७ ।
“अहं यशस्वती नाम राजसेवानुजीविनः ।
भार्य्या सत्यव्रताख्यस्य विप्रस्येहामलान्वया ॥”
गङ्गा । यथा, काशीखण्डे तत्सहस्रनामकथने ।
२९ । १४१ ।
“यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥”)

यशस्वी, [न्] त्रि, (यशोऽस्त्यस्येति । यशस् +

“अस्मायेति ।” ५ । २ । १२१ । इति विनिः ।)
यशोविशिष्टः । कीर्त्तिमान् । इति व्याकरणम् ॥
(यथा, मनौ । ९ । ३३४ ।
“विप्राणां वेदविदुषां गृहस्थानां यशस्वि-
नाम् ।
शुश्रूषैव तु शूद्रस्य धर्म्मो नैःश्रेयसः परः ॥”)

यशोदः, पुं, (यशो ददातीति । दा + कः ।)

पारदः । इति राजनिर्घण्टः ॥ (क्लीवेऽपि-
दृश्यते । यथा, वाराहे ।
“सुवर्णं रजतं ताम्रं रङ्गं यशोदमेव च ।
सीसं लौहञ्च सप्तैते धातवो गिरिसम्भवाः ॥”)
यशोदातरि, त्रि ॥

यशोदा, स्त्री, (यशो ददातीति । दा + कः । टाप् ।)

नन्दपत्नी । यथा, श्रीभागवते १० स्कन्धे ।
“नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा वा महाभागा पपौ यस्यास्तनं
हरिः ॥”
(दिलीपमाता । यथा, हरिवंशे । १८ । ६० ।
“तेषान्तु मानसी कन्या यशोदा नाम विश्रुता ।
पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्म्मणः ।
राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥”
यशोदातरि, त्रि । यथा, तैत्तिरीयसंहिता-
याम् । ४ । ४ । ६ । २ ।
“यशोदां त्वा यशसि तेजोदां त्वा तेजसीति ॥”)

यष्टा, [ऋ] पुं, (यजते इति । यज् + तृच् ।) याग-

कर्त्ता । तत्पर्य्यायः । यजमानः २ । इत्यमरः । २ ।
७ । ८ ॥ (यथा, मार्कण्डेये । १२० । २ ।
“स दानशीलो यष्टा च यज्ञानामवनीपतिः ॥”)

यष्टिः, पुं, (इज्यते इति । यज् + बाहुलकात्

तिः । इति उणादिवृत्तौ उज्ज्वलदत्तः । ४ । १७९ ।)
ध्वजदण्डः । इति विश्वशब्दरत्नावल्यौ ॥ भुज-
दण्डः । इति मेदिनी । टे, २६ ॥

यष्टिः, पुं, स्त्री, (यजते सङ्गच्छते । यज् + तिः ।)

तन्तुः । इति शब्दमाला ॥ हारलता । (हारा-
वलिः । यथा, रघौ । १३ । ५४ ।
“क्वचित्प्रभालेपिभिरिन्द्रनीलै-
र्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानां
इन्दीवरैरुत्खचितान्तरेव ॥”
“यष्टिः हारावलिः ।” इति मल्लिनाथः ॥ * ॥)
भार्गी । मधुका । शस्त्रभेदः । इति मेदिनी ।
टे, २६ ॥ शेषस्य पर्य्यायः । दण्डः २ । लगुडः ३
इति हेमचन्द्रः । ३ । ४४९ ॥ तद्दानफलं यथा,
वह्निपुराणे ।
“यष्टिं ये तु प्रयच्छन्ति नेत्रहीने सुदुर्ब्बले ।
तेषान्तु विपुलः पुंसां सन्तानो मोहवर्ज्जितः ॥”
(स्त्री, शाखा । यथा, कुमारे । ६ । २ ।
“चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥”
“चूतयष्टिः चूतशाखा इव ।” इति तत्र मल्लि-
नाथः ॥ यष्टिमधु । तत्पर्य्यायः । यथा,
“यष्ट्याह्वं मधुकं यष्टिः क्लीतकं मधुयष्टिका ।
यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥”
इति वैद्यकरत्नमालायाम् ॥)

यष्टिकः, पुं, (यष्टिरिव । कन् ।) जलकुक्कुटः ।

इति शब्दरत्नावली ॥ (यष्टि + स्वार्थे कन् ।)
दण्डश्च ॥

यष्टिका, स्त्री, (यष्टि + स्वार्थे कन् । टाप् ।) हार-

भेदः । यथा, --
“यष्टिका दण्डिका चैव तिलका सारिकेत्यपि ॥”
इति जटाधरः ॥
वापी । यथा, --
“पल्वलं दीर्घिका वापी यष्टिका मीनगोधिका ॥”
इति त्रिकाण्डशेषः ॥
यष्ठिमधुका । यथा, --
“अथ यष्टीमधुकं स्यान्मधुयष्टी तु यष्टिका ।”
इति शब्दरत्नावली ॥
लगुडः । यथा, --
“अथ शक्तिश्च शक्ती च यष्टिर्य्यष्टी च यष्टिका ।
दण्डः काण्डोऽपि लगुडः पशुघ्नो दण्डको-
ऽपि च ॥”
इति शब्दरत्नावली ॥

यष्टिग्रहः, पुं, (यष्टिं गृह्णातीति । यष्टि + ग्रह +

“शक्तिलाङ्गलाङ्कुशयष्टितोमरेति ।” ३ । २ । ९ ।
इत्यस्य वार्त्ति० अच् ।) यष्टिधारकः । लगुड-
ग्राही । इति मुग्धबोधटीकायां दुर्गादासः ॥

यष्टिमधु, क्ली, (यष्ट्यां मधु माधुर्य्यमस्य ।) यष्टि-

मधुका । इति हलायुधः ॥ (यथास्य पर्य्यायः ।
“यष्ट्याह्नं मधुकं यष्टिः क्लीतकं मधुयष्टिका ।
यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥”
इति वैद्यकरत्नमालायाम् ॥)

यष्टिमधुका, स्त्री, (यष्टिमधुवत् कायतीति । कै +

कः ।) यष्टिमधु । तत्पर्य्यायः । क्लीतेकम् २ मधु-
कम् ३ मधुयष्टिका ४ । इत्यमरः । २ । ४ । १०९ ॥
यष्ट्याह्वम् ५ यष्टिः ६ स्थलेजातं चेत् यष्टिमधु ७
जलजा चेत् अतिरसा ८ । इति रत्नमाला ॥
अपि च ।
“ज्यैष्ठीमधु तथा यष्टीमधुकं क्लीतकं तथा ।
अन्यक्लीतनकं तत्तु भवेत्तोये मघूलिका ॥”
अस्या गुणाः ।
“यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्ण-
कृत् ।
सुस्निग्धा शुक्रला केश्या स्वर्य्या पित्तानिला-
स्रजित् ।
व्रणशोथविषच्छर्द्दितृष्णाग्लानिक्षयापहा ॥”
इति भावप्रकाशः ॥

यष्टी, स्त्री, (यष्टि + “कृदिकारादक्तिनः ।” इति

ङीष् ।) यष्टिमधु । इति भावप्रकाशः ॥
(यथास्याः पर्य्यायः ।
“यष्टी यष्ट्याह्वयं प्रोक्तं मधुकं मधुयष्टिका ।”
इति गारुडे २०८ अध्यायः ॥
तथास्या गुणाः । भावप्रकाशस्य पूर्ब्बग्वण्डे १ ।
“यष्टी हिमा गुरुः साद्वी चक्षुष्या बलवर्ण-
कृत् ।
पृष्ठ ४/०२८
सुस्निग्धा शुक्रला केश्या स्वर्य्या पित्तानिला-
स्रजित् ।
व्रणशोथविषच्छर्द्दितृष्णाग्लानिक्षयापहा ॥”
(हारभेदः । तल्लक्षणं यथा, बृहत्संहिता-
याम् । ८१ । ३६ ।
“संयोजिता या मणिना तु मध्ये
यष्टीति सा भूषणविद्भिरुक्ता ॥”)

यष्टीकं, क्ली, (यष्टी + कन् ।) यष्टिमधु । इति

राजनिर्घण्टः ॥

यष्टीपुष्पः, पुं, (यष्टीपुष्पमिव पुष्पं यस्य ।) पुत्त्र

जीववृक्षः । इति भावप्रकाशः ॥

यष्टीमधु, क्ली, (यष्ट्यां मधु माधुर्य्यमस्य ।) मिष्ट-

मूलविशेषः । जेठीमधु इति मूलहटी इति च
हिन्दी भाषा । तत्पर्य्यायः । मधुयष्टी २ मधु-
वल्ली ३ मधुस्रवा ४ मधूकम् ५ मधु ६ यष्टी-
कम् ७ यष्ट्याह्वम् ८ ॥ (तथा च ।
“यष्टीमधु तथा यष्टी मधुकं क्लीतकन्तथा ।
अन्यत् क्लीतनकन्तत्तु भवेत्तोये मधूलिका ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
अस्य गुणाः । मधुरत्वम् । किञ्चित्तिक्तत्वम् ।
शीतलत्वम् । चक्षुष्यत्वम् । पित्तहरत्वम् । रुच्य-
त्वम् । शोषतृष्णाव्रणापहत्वञ्च । इति राज-
निर्घण्टः ॥ (यथा, सुश्रुते चिकित्सास्थाने
२७ अध्याये । “तत्र विडङ्गतण्डूलचूर्णमाहृत्य
यष्टीमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत ॥”)

यष्ट्याह्वं, क्ली, (यष्टीत्याह्वा यस्य ।) यष्टिमधु ।

इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने
१६ अध्याये ।
“यवाश्वगन्धा यष्ट्याह्वैस्तिलैश्चोद्बर्त्तनं
हितम् ॥”)

यस, इर् य उ यतने । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।) इर्,
अयसत् अयासीत् अयसीत् । अस्मात् पुषा-
दित्वान्नित्यं ङ इत्यन्ये । य, प्रयस्यति । क्रम
क्लम इत्यादिना केवलात् संपूर्ब्बाच्च अस्मात्
श्यन् विकल्पात् यसति यस्यति संयस्यति
संयसति । उ, यसित्वा यस्त्वा । यतनं यत्नः ।
इति दुर्गादासः ॥

यस्कः, पुं, (यसति मोक्षायेति । यस् + क्विप् ।

संज्ञायां कन् ।) मुनिविशेषः । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, आश्वलायनश्रौतसूत्रे उत्त-
रार्द्धे । ६ । १० । १० । “यस्कवाधौलमौनमौकशार्क-
राक्षिसार्ष्टिसावर्णिशालङ्कायनजैमिनिदैवन्त्याय-
नानां भार्गववैतहव्यसावेतसेति ॥”)

यह्वः, पुं, (यजतीति । यज + “शेवायह्वजिह्वा-

ग्रीवाप्वामीवाः ।” उणा० १ । १५४ । इति
वन्प्रत्ययेन निपातितः ।) यक्षमानः । इत्यु-
णादिकोषः ॥ (त्रि, महान् । यथा, ऋग्वेदे ।
३ । १ । १२ ।
“उदुस्रिया जनिता यो जजानापां गर्भो नृतमो
यह्वो अग्निः ।”
“यह्वो महान् ।” इति तद्भाष्ये सायणः ॥)

या, ल गतौ । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-सक०-अनिट् ।) ल, याति । इति दुर्गा-
दासः ॥

यागः, पुं, (इज्यते इति । यज् + घञ् ।) यज्ञः ।

इत्यमरः । २ । ७ । १३ ॥ तत्र श्रौताग्निकृत्य-
हविर्यज्ञाः सप्त । यथा । आग्न्याधानं तदे
वाग्निहोत्रम् १ दर्शपौर्णमासौ २ पिण्डपितृ-
यज्ञः ३ आग्रयणम् ४ चातुर्म्मास्यः ५ निरूढ-
पशुबन्धः ६ सौत्रामणिः ७ । स्मार्त्ताग्निकृत्य-
पाकयज्ञाः सप्त । यथा । औपासनम् १ वैश्व-
देवः २ स्थालीपाकः ३ आग्रयणम् ४ सर्प-
वलिः ५ ईशानवलिः ६ अष्टकान्यष्टका ७ ।
श्रौताग्निसप्तसंस्थाः । यथा । सोमयागः स
एवाग्निष्टोमः १ अत्यग्निष्टोमः २ उक्थ्यः ३
षोडशी ४ वाजपेयः ५ स द्बिविधः संस्था
कुरुश्च । अतिरात्रः ६ अप्तूर्य्यामः ७ । उत्तर-
क्रतवो बहवः । यथा । महाव्रतम् १ सर्व्वतो-
मुखम् २ राजसूयः ३ पौण्डरीकम् ४ अभि-
जित् ५ विश्वजित् ६ अश्वमेधः ७ बृहस्पतिसवः
८ आङ्गिरसः ९ चयनान्यष्टादश २७ । इत्यादि
श्रौतसूत्रम् ॥ * ॥ सर्व्वदेवानां यागकालो यथा,
शुक्र उवाच ।
“स्वल्पेनैव तु द्रव्येण महापुण्यं यथा भदेत् ।
तदहं श्रोतुमिच्छामि ग्रहयागं सुरेश्वर ! ॥
ब्रह्मोवाच ।
शृणु वत्स प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।
अल्पकेन महापुण्यं ग्रहर्क्षतिथियौगिकम् ॥
भृगुपूर्णाष्टमीयोगं शिवयागेषु चोत्तमम् ।
मृदुवर्गञ्च भाग्यञ्च उमाया भृगुवासरे ॥
दैवयोगात् यदा षष्ठी पुष्यर्क्षरविवासरम् ।
स्कन्दयागस्तदा कार्य्यः सर्व्वकामप्रसाधकः ॥
वारेण वा यदा सूर्य्यः सप्तमी विजया मता ।
तदा तु भवते भानोर्यागः सर्व्वगुणावहः ॥
शशिरिक्तानुसंयोगे अर्कर्क्षे सोत्तरासु च ।
नवम्यां मङ्गलायोगो भानुमूलदिनं यदा ॥
अष्टम्यां वाथ चन्द्राहे श्रवणेन शुभावहम् ।
अहिव्रध्ने कुजाहे तु गणेशे तस्य वाहनि ॥
पुनर्व्वसौ गुरोर्व्वारे द्बादश्यां श्रवणेन वा ।
सोमग्रस्तं यदा योगं विष्णोः सर्व्वार्थसाधकम् ॥
द्बितीयायां यदा सौम्ये कृत्तिकर्क्षं भवेत् क्वचित् ।
ग्रहयागस्तदा कार्य्यः सर्व्वशान्तिप्रदायकः ॥
स्वातीसौमी चतुर्थी च उमायागे वरा स्मृता ॥
उत्तरासु च सर्व्वासु भानुपौर्णाष्टमीषु च ।
शान्त्यभिषेकयागेयु सर्व्वकामार्थदाष्टमी ॥
गुरावेकादशी पुष्ये रोहिण्या वा यदा शनिः ।
सुतसौगाग्यकामाय यागो रुद्रविनायके ॥
पूर्णिमासु च सर्व्वासु अष्टमीद्वादशीषु च ।
चतुर्द्दश्यां तृतीयासु ग्रह ऋक्षे शुभेषु च ।
सर्व्वेषां भवते यागो भक्तिपूर्व्वो महामुने ! ॥
मन्त्रसाधनद्रव्यायो रुद्रयागादवाप्यते ।
श्रीमेधाज्ञानवात्सल्यमुमायागाज्महामुने ॥
योगज्ञानयशःसिद्धिं महादेवादवाप्नुयात् ।
आरोग्यं सप्रतापत्वं भास्करात् प्राप्यते ध्रुवम् ॥
गतिमिष्टां यथाकामं प्रयच्छति त्रिविक्रमः ।
विघ्नो न भवते तस्य यस्तु पश्येद्विनायकम् ॥
विगतारिर्भवेत् षष्ठ्यां दृष्ट्वा स्कन्दं मखे क्षणात् ।
मातृयागान्महासिद्धिः सर्व्वेषामपि जायते ॥
भवते धनवान् पुंसः प्रथमाहे हुताशनात् ।
स्वर्गापवर्गसंसिद्धिर्दुर्गायागात् प्रजायते ॥
माघाद्यैर्मङ्गलांशोत्था ज्यैष्ठाद्यैर्ब्रह्म जायते ।
ईशाद्यैः कालिकाद्यास्तु यष्टव्या विधिना मुने ॥”
इत्याद्ये देव्यवतारे उदयतिथ्यृक्षयोगमाहात्म्य-
कीर्त्तनम् ॥ * ॥
अथ ग्रहयागविधिः ।
“प्रणम्य नव रव्यादीन् शुभाशुभफलप्रदान् ।
ग्रहयागविधिं सम्यक् वक्ति श्रीरघुनन्दनः ॥
अथ ग्रहयागप्रयोगः ।
तत्र रविसोमबुधगुरुशुक्रवारेषु चित्रानुराधा-
मृगशिरोरेवतीपुष्याश्विनीहस्तारोहिण्युत्तरा-
त्रयेषु चन्द्रतारानुकूले शुभलग्ने यागः कार्य्यः ।
अत्र बालग्रहभूतग्रहप्रबलतरनराधिपशत्र-
दुःसहरोगाभिभवाद्भूतदुःस्वप्नावलोकनग्रहदौ-
स्थ्यादिनिमित्तकं शान्तिकं मलमासादावपि
कर्त्तव्यम् । अवग्रहं विना केवलवृष्ट्यायुःपुष्टिपुत्त्र-
श्रीकामादिपौष्टिकन्तु मलमासादीतरकाल एव
कार्य्यम् ॥ * ॥ तत्र यजमानः कृतस्नानादिः
गोमयोपलिप्ते देशे सदर्भासनोपविष्ट उदङ्मुखः
स्वस्तिवाच्यः सूर्य्यः सोम इति पठित्वा फलपुष्प-
तिलदर्भत्रयसहितजलपूर्णताम्रपात्रं गृहीत्वा,
ॐ तद्विष्णोरिति विष्णुं संस्मृत्य ॐ तत् सदि-
त्युच्चार्य्य ॐ अद्येतादि अमुकगोत्रः श्रीअमुक-
देवशर्म्मा अमुककामो ग्रहयज्ञमहं करिष्ये
इति सङ्कल्प्य तज्जलमेवैशान्यां निःक्षिपेत् ।
अन्यार्थत्वे गोत्रनाम्नोः षष्ठ्यन्तता । करिष्ये
इत्यत्र करिष्यामीति विशेषः । ततः श्वेतसर्षपा-
नादाय ।
ॐ वेतालाश्च पिशाचाश्च राक्षसाश्च सरी-
सृपाः ।
अपसर्पन्तु ते सर्व्वे ये चान्ये विघ्नकारकाः ॥
ॐ विनायका विघ्नकरा महोग्रा
यज्ञद्बिषो ये पिशिताशनाश्च ।
सिद्धार्थकैर्वज्रसमानकल्पै-
र्मया निरस्ता विदिशः प्रयान्तु ॥
इत्येताभ्यां मन्त्राभ्यां श्वेतसर्षपप्रक्षेपैर्व्विघ्नका-
रकानपसारयेत् । ततः सगणाधिपषोडश-
मातृकापूजा वसोर्धारा आयुष्यजपं तदज्ञाने
गायत्त्रीजपं वृद्धिश्राद्धञ्च कृत्वा तदशक्तौ भोज्य-
मुत्सृज्य ब्राह्मणान् परितोष्य ततः स्वय-
मशक्तौ कर्त्ता प्राडमुखं गुरुम् ॐ साधु भवा-
नास्तामिति वदेत् ॐ साध्वहमासे इति प्रति-
वचनम् । ततो गन्धपुष्पवस्त्राङ्गुरीयकादिना
गुरुमलङ्कृत्य दक्षिणं जानु स्पृष्ट्वा ॐ अद्ये-
त्यादि मत्सङ्कल्पितग्रहयागकर्म्मणि ग्रहपूजा-
होमकर्म्मकरणाय अमुकगोत्रं अमुकदेव-
पृष्ठ ४/०२९
शर्म्माणं गन्धादिभिरभ्यर्च्य भवन्तमहं वृणे । ॐ
वृतोऽस्मीति प्रतिवचनम् । ॐ यथाविहितं
पूजादिकर्म्म कुरु । ॐ यथाज्ञानं करवाणीति
प्रतिवचनम् ॥ * ॥ ततो मण्डपोत्तरपूर्ब्बभागे
वितस्तिद्वयविस्तृतायां वितस्त्युच्छ्रितायां उदक्-
प्लवायां वेद्यां गोमयेनोपलिप्तायां रक्तचन्दना-
दिना मध्ये वर्त्तुलं सूर्य्यम् । आग्नेय्यां श्वेतमर्द्ध-
चन्द्राकारं सोमम् । दक्षिणस्यां त्रिकोणं रक्तं
मङ्गलम् । ऐशान्यां पीतं धनुराकारं बुधम् ।
उत्तरस्यां पीतं पद्माकारं बृहस्पतिम् । प्राच्यां
श्वेतं चतुष्कोणं शुक्रम् । प्रतीच्यां श्यामं सर्पा-
कारं शनिम् । नैरृत्यां श्यामं मकराकारं
राहुम् । वायव्यां धूम्रवर्णान् खड्गाकारान्
केतून् विलिख्य स्वगृह्योक्तविधिना अग्निस्थाप-
नादिब्रह्मस्थापनपर्य्यन्तं कर्म्म कृत्वा मण्डले
ग्रहानावाहयेत् ॥ * ॥ तत्र क्रमः । मध्ये ।
ॐ क्षत्त्रियं काश्यपं रक्तं कालिङ्गं द्बादशा-
ङ्गुलम् ।
पद्महस्तद्वयं पूर्ब्बाननं सप्ताश्ववाहनम् ।
शिवाधिदैवतं ध्यायेद्बह्निप्रत्यधिदैवतम् ॥
सप्तम्यां जायमानं विशाखानक्षत्रं रक्तमाल्या-
म्बरधरम् । इति ध्यात्वा ॐभूर्भुवः स्वः सूर्य्यग्रह
इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इति
शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ १ ॥ आग्नेये ।
ॐसामुद्रं वैश्यमात्रेयं हस्तमात्रं सिताम्बरम् ।
श्वेतं द्बिबाहुं वरदं दक्षिणं सगदेतरम् ॥
दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् ।
जलप्रत्यधिदैवञ्च सूर्य्यास्यमाह्वयेत्तथा ॥
चतुर्द्दश्यां जातं कृत्तिकानक्षत्रमिति ध्यात्वा
ॐभूर्भवः स्वः सोमग्रह इहागच्छ इहागच्छ
इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य
स्थापयेत् ॥ २ ॥ दक्षिणस्याम् ।
ॐ आवन्त्यं क्षत्त्रियं रक्तं मेषस्थं चतुरङ्गुलम् ।
आरक्तमाल्यवसनं भारद्बाजं चतुर्भुजम् ॥
दक्षिणोर्द्ध्वक्रमात् शक्तिवराभयगदाकरम् ।
आदित्याभिमुखं देवं तद्वदेव समाह्वयेत् ।
स्कन्दाधिदैवतं भौमं क्षितिप्रत्यधिदैवतम् ॥
दशम्यां जातं पूर्ब्बाषाढानक्षत्रमिति ध्यात्वा
ॐ भूर्भुवः स्वः मङ्गलग्रह इहागच्छ इहागच्छ
इह तिष्ठ इह तिष्ठ इति शुक्लतण्डलैरावाह्य
स्थापयेत् ॥ ३ ॥ ऐशान्याम् ।
ॐ मागधं द्ब्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम् ।
वामोर्द्ध्वक्रमतश्चर्म्मगदावरदखड्गिनम् ॥
सूर्य्यास्यं सिंहगं सौम्यं पीतवस्त्रं तथाह्वयेत् ।
नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतम् ॥
द्बादश्यां जातं धनिष्ठानक्षत्रमिति ध्यात्वा
ॐ भूर्भुवः स्वः बुधग्रह इहागच्छ इहागच्छ
इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य
स्थापयेत् ॥ ४ ॥ उत्तरस्याम् ।
द्बिजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम् ।
ध्यात्वा पीताम्बरं जीवं सरोजस्थं चतुर्भुजम् ॥
दक्षोर्द्ध्वादक्षवरदकरकादण्डमाह्वयेत् ।
ब्रह्माधिदैवं सूर्य्यास्यमिन्द्रप्रत्यधिदैवतम् ॥
एकादश्यां जातं उत्तरफल्गुनीनक्षत्रमिति-
ध्यात्वा ॐ भूर्भुवः स्वः बृहस्पते इहागच्छ
इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्ल-
तण्डुलैरावाह्य स्थापयेत् ॥ ५ ॥ ततः प्राच्याम् ।
ॐ शुक्रं भोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् ।
पद्मस्थमाह्वयेत् सूर्य्यमुखं श्वेतं चतुर्भुजम् ॥
सदाक्षवरकरकादण्डहस्तं सिताम्बरम् ।
शक्राधिदैवतं ध्यायेत् शचीप्रत्यधिदैवतम् ॥
नवम्यां जातं पुष्यनक्षत्रमिति ध्यात्वा ॐ भूर्भुवः
स्वः शुक्र इहागच्छ इहागच्छ इह तिष्ठ इह
तिष्ठ इति शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ ६ ॥
पश्चिमायाम् ।
सौराष्ट्रं काश्यपं शूद्रं सूर्य्यास्यं चतुरङ्गुलम् ।
कृष्णं कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम् ॥
तद्बद्वाणवरशूलधनुर्हस्तं समाह्वयेत् ।
यमाधिदैवतं प्रजापतिप्रत्यधिदैवतम् ॥
कृष्णचतुर्द्दश्यां जातं रोहिणीनक्षत्रमिति ध्यात्वा
ॐ भूर्भुवः स्वः शनैश्चर इहागच्छ इहागच्छ
इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलैरावाह्य
स्थापयेत् ॥ ७ ॥ नैरृत्याम् ।
राहुं मलयजं शूद्रं पैठीनं द्बादशाङ्गुलम् ।
कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ॥
चतुर्ब्बाहुं खड्गवरशूलचर्म्मकरं तथा ।
कालाधिदैवं सूर्य्यास्यं सर्पप्रत्यधिदैवतम् ॥
पौर्णमास्यां जातं भरणीनक्षत्रमिति ध्यात्वा
ॐ भूर्भुवः स्वः भगवन् राहो इहागच्छ
इहागच्छ इह तिष्ठ इह तिष्ठ इति शुक्लतण्डुलै-
रावाह्य स्थापयेत् ॥ ८ ॥ वायव्याम् ।
कौशद्बीपं केतुगणं जैमिनीयं षडङ्गुलम् ।
धूम्रं गृध्रगतं शूद्रमाह्वयेत् विकृताननम् ॥
सूर्य्यास्यं धूम्रवसनं वरदं गदिनं तथा ।
चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधिदैवतम् ॥
अमावास्यायां जातं अश्लेषानक्षत्रमिति ध्यात्वा
ॐ भूर्भुवः स्वः भगवन्तः केतव इहागच्छत
इहागच्छत इह तिष्ठत इह तिष्ठत इति
शुक्लतण्डुलैरावाह्य स्थापयेत् ॥ ९ ॥ अधिदैवत-
प्रत्यधिदैवतपूजनञ्च अयुतहोमादौ । तत-
स्तत्तद्वर्णवस्त्रतत्तद्बर्णगन्धतत्तद्बर्णपुष्पं दद्यात् ॥
धूपे विशेषः । रवये गुग्गुलुधूपम् । सोमाय
सरलम् । मङ्गलाय देवदारुम् । बुधाय घृत-
मिश्रितदेवदारुम् । बृहस्पतये दशाङ्गम् ।
शुक्राय अगुरु । शणैश्चराय कालागुरु । राहवे
गुडत्वचम् । केतुभ्यो मधुमिश्रितगुडत्वचम् ।
अभावे षोडशाङ्गं वा ॥ * ॥ गन्धे विशेषः ।
सूर्य्याय रक्तचन्दनम् । सोमाय श्वेतचन्दनम् ।
मङ्गलाय कुङ्कुमम् । बुधाय सरलम् । गुरवे
रक्तचन्दनश्वेतचन्दनकुङ्कुमसरलं मिश्रितसम-
भागत्वेन दद्यात् । शनैश्चराय कस्तूरीम् ।
राहवे पद्मकाष्ठम् । केतुभ्यश्च पद्मकाष्ठम् ।
अधिदेवताप्रत्यधिदेवताः पूजयेत् ॥ * ॥ अधि-
देवता प्रत्यधिदेवता यथा । सूर्य्यस्य शिववह्नी ।
सोमस्य उमा जलम् । मङ्गलस्य स्कन्दः क्षितिः ।
बुधस्य नारायणविष्णू । बृहस्पतेः ब्रह्मा
इन्द्रश्च । शुक्रस्य शक्रः शची । शनैश्चरस्य यमः
प्रजापतिश्च । राहोः कालः सर्पश्च । केतूनां
चित्रगुप्तः ब्रह्मा च । एतत्तु अयुतादिहोमे
ज्ञेयम् ॥ * ॥ सूर्य्याय गुडौदनबलिः । एवं
सोमादीनामपि । सति सामर्थ्ये षोडशोपचारा-
दिना । वलौ तु । सूर्य्याय गुडौदनम् । सोमाय
घृतपायसम् । मङ्गलाय पक्वयवचूर्णात्मकयाव-
कम् । बुधाय क्षीरान्नम् । गुरवे दध्योदनम् ।
शुक्राय घृतौदनम् । शनैश्चराय कृशरम् ।
राहवे छागमांसम् । केतुभ्यः अजाक्षीर-
साधिताजकर्णरक्तमिश्रित-यव-तिल-तण्डुलरूपं
चित्रौदनम् तत्तद्द्रव्यालाभे भक्ष्यान्तरं
दद्यात् ॥ * ॥ ततश्चरुं श्रपयेत् । तत्र साम-
गानां क्रमः । अग्नेः पश्चिमायां दिशि प्राग-
ग्रान् कुशानास्तीर्य्य तदुपरि प्रक्षालितवारुण-
मुदूखलं वैणवञ्च सूर्पं वारुणचमसस्थजल-
प्रोक्षितं संस्थाप्य व्रीहीन् यवान् वा अशक्तौ
शालितण्डुलान् सूर्पे निधाय ॐ सूर्य्याय त्वा
जुष्टं निर्व्वपामि इति गृहीत्वा उदूखले
स्थापयेत् । एवं सोमाय । एवं मङ्गलादीनामपि
निर्व्वपणं कृत्वा उदूखले स्थापयेत् । द्विस्तूष्णीम् ।
ततो दक्षिणहस्तमुपरि कृत्वा मुषलेनावहत्य
सूर्पेण प्रस्फोटयेत् । इत्थमेव वारत्रयम् । तत-
श्चरुस्थाल्याममन्त्रकं कृतोत्तराग्रं पवित्रं
निःक्षिप्य तत्र प्रक्षालिततण्डुलान् निधाय
तदुपरि दुग्धं दत्त्वा यथा पायसचरुर्भवति
तथा स्तोकं स्तोकमुदकं दत्त्वा तन्मध्ये खदिर-
पलाशोडुम्बराणामन्यतमस्य प्रादेशप्रमाणं
उभयथा सार्द्धाङ्गुष्ठप्रमाणं चतुष्कोणपुष्कलं
मेक्षणं दक्षिणावर्त्तेन भ्रामयित्वा तथा पचेत्
यथा अन्तरोष्मणा सम्यक् पाको भवति मण्ड-
गालनं दाहश्च न भवति । सम्यक्पाके भूते
चरुमध्ये घृतस्रुवं दत्त्वा प्रागादिदिक्चिह्नितं
कृत्वा चरुमवतार्य्य अग्नेरुत्तरतः कुशोपरि
स्थापयित्वा पुनर्मध्ये घृतस्रुवं दद्यात् । ततो
भूमिजपादिस्रुवसंस्कारपर्य्यन्तं कर्म्म कृत्वा
अग्नेः पश्चिमतः स्तरणकुशोपरि पूर्ब्बमाज्यं
पश्चाच्चरुं निधाय उदकाञ्जलिसेकं कृत्वा
विरूपाक्षजपान्तां कुशण्डिकां समापयेत् ॥ * ॥
यजुर्व्वेदिनान्तु आज्यस्थाल्यामाज्यनिर्वपणा-
नन्तरं सूर्पं पुरतो दक्षिणभागे संस्थाप्य तत्रो-
दूखलं विन्यस्य व्रीह्याद्यन्यतमं तत्र निघाय
ॐ सूर्य्याय त्वा जुष्टं गृह्णामि इत्येकां मुष्टिं
गृहीत्वा ॐ सूर्य्याय त्वा जुष्टं निर्व्वपामीति
डदूखले स्थापयित्वा ॐ सूर्य्याय त्वा जुष्ठं
प्रोक्षामीति प्रोक्षणीजलेन प्रोक्षयेत् । एवं
सोमाय त्वा इत्यादि । तत ॐ अग्नये स्विष्टि-
कृते त्वा इत्यादिना ग्रहणनिर्व्वपणप्रोक्षणानि
कृत्वा द्बिस्तूष्णीं कुर्य्यात् । ततः पूर्ब्बवत्
श्रपणम् । पक्वं ज्ञात्वा ज्वलदग्निं गृहीत्वा
पृष्ठ ४/०३०
चरुमध्ये दक्षिणावर्त्तेन भ्रामयित्वा तमग्निं
तत्रैवाग्नौ क्षिपेत् । तत आघाराज्यभागान्तं
कर्म्म कुर्य्यात् ॥ * ॥ ऋग्वेदिनान्तु प्रोक्षणी-
पात्रस्थापनानन्तरं पवित्रान्तर्हिते ॐ सूर्य्याय
त्वा जुष्टं निर्व्वपामीति व्रीह्याद्यन्यतममुष्टिं
प्रक्षिप्य ॐ सूर्य्याय त्वा जुष्टं प्रोक्षामीति
प्रणीताजलेन प्रोक्षयेत् । एवं सोमाय त्वा
इत्यादि । ततः स्विष्टिकृदर्थकिञ्चिदधिकं तूष्णीं
तथा कृत्वा पवित्रान्तर्हितं कृत्वा पूर्ब्बग्रीवोर्द्ध्व-
लोमकृष्णाजिने उदूखलं निधाय तत्र सूर्पस्थ-
व्रीह्याद्यन्यतमं प्रक्षिप्य मुषलेनावहत्य सूर्पेण
वितुषीकृत्य प्रस्फोट्य त्रिः प्रक्षाल्य पवित्रं
चरुस्थाल्यां प्रक्षिप्य तथैव श्रापयित्वा उदीच्यां
दक्षिणभागे ॐ सोमाय स्वाहेति होमपर्य्यन्तं
कुर्य्यात् । ततः शान्तिकर्म्मणि अग्ने त्वं वरद-
नामासीति नाम कृत्वा ।
ॐ पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः ।
छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्तिधा-
रकः ॥
इत्यादिपुराणीयं ध्यात्वा ॐ वरदनामन्नग्ने
इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ
इत्यावाह्य पाद्यादिना पूजयेत् ॥ * ॥ पौष्टिक-
कर्म्मणि तु वलदनामाग्निः । ग्रहहोमे अग्नी-
नाह गोभिलः ।
आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते ।
धूमकेतुस्तथा भौमे जठरोऽग्निर्ब्बुधे स्मृतः ॥
बृहस्पतौ शिखी नाम शुक्रे भवति हाटकः ।
शनैश्चरे महातेजा राहौ चैव हुताशनः ।
केतुषु लोहितोऽग्निः स्यादिति वह्निविनिर्णयः ॥
ततः स्वगृह्योक्तविधिनानेन चरुणा सूर्य्यादि-
ग्रहेभ्यः प्रत्यकाहुतिं दद्यात् ॥ * ॥ अत्र मन्त्राः ।
सूर्य्यस्य आकृष्णेनेतिमन्त्रस्य हिरण्यस्तूपाङ्गिरा
ऋषिस्तृष्टुप् छन्दः सविता देवता आदित्यस्य
पूजाहोमकर्म्मणि विनियोगः । ॐ आकृष्णेन
रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यञ्च हिर-
ण्ययेन सविता रथेना देवो याति भुवनानि
पश्यन् स्वाहा । इदं सूर्ध्याय इति देवतोद्देशः
सामगेतरैः कार्य्यः ॥ १ ॥ सोमस्य इमन्देवेति-
मन्त्रस्य वरुण ऋषिरग्निर्देवता सोमस्य पूजा-
होमकर्म्मणि विनियोगः । ॐ इमन्देवा अस-
पत्नं सुवद्धं महते क्षत्त्राय महते ज्येष्ठाय ।
इमममुष्य पुत्त्रममुष्यै पुत्त्रमस्यै विशे स्वाहा ।
इदं सोमाय ॥ २ ॥ मङ्गलस्य अग्निर्मूर्द्धेति-
मन्त्रस्य अपाङ्गिरा ऋषिर्गायत्त्री च्छन्दोऽग्नि-
र्देवता मङ्गलस्य पूजाहोमकर्म्मणि विनि-
योगः । ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या
अयमपां रेतांसि जिन्वति स्वाहा । इदं
मङ्गलाय ॥ ३ ॥ बुधस्य उद्बुध्यस्वेतिमन्त्रस्य पर-
मेष्ठिरृषिस्तृष्टुप् छन्दोऽग्निर्देवता बुधस्य पूजा-
होमकर्म्मणि विनियोगः । ॐ उद्बुध्यस्वाग्ने
प्रतिजागृहि त्वमिष्टापूर्त्ते संसृजेथामयञ्चास्मिन्
सधस्ये अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च
सीदत स्वाहा । इदं बुधाय ॥ ४ ॥ बृहस्पतेः बृह-
स्पते अतीतिमन्त्रस्य गृत्समद ऋषिस्तृष्टुप् छन्दो
ब्रह्मा देवता जीवस्य पूजाहोमकर्म्मणि विनि-
योगः । ॐ बृहस्पते अतियदर्य्योऽर्हाद्युमद्बिभाति
क्रतुमज्जनेषु । यद्दीदयत्सरस ऋतु प्रजात तद-
स्मासु द्रविणं धेहि चित्रं स्वाहा । इदं बृह-
स्पतये ॥ ५ ॥ शुक्रस्य अन्नात् परिश्रुत इति मन्त्रस्य
प्रजापतिरृषिरतिजगतीच्छन्दोऽग्निसरस्वतीन्द्रा
देवताः शुक्रस्य पूजाहोमकर्म्मणि विनियोगः ।
ॐ अन्नात् परिश्रुतो रसं ब्रह्मणा व्यपिवत् क्षत्त्रं
पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं
विपानं शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं
मधु स्वाहा । इदं शुक्राय ॥ ६ ॥ शनैश्चरस्य
शन्नो देवीतिमन्त्रस्य दध्यङ्गाथर्व्वण ऋषिर्गायत्त्री
च्छन्द आपो देवता शनैश्चरस्य पूजाहोम-
कर्म्मणि विनियोगः । ॐ शन्नो देवीरभीष्टये
आपो भवन्तु पीतये संयोरभिस्रवन्तु नः स्वाहा ।
इदं शनैश्चराय ॥ ७ ॥ राहोः काण्डात् काण्डा-
दिति मन्त्रस्य अग्निरृषिर्गायत्त्री च्छन्दो दूर्व्वे-
ष्टका देवता राहोः पूजाहोमकर्म्मणि विनि-
योगः । ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः
परुषः परि एवानो दूर्व्वे प्रतनु सहस्रेण शतेन
च स्वाहा । इदं राहवे ॥ ८ ॥ केतूनां केतुं
कृण्वन्नितिमन्त्रस्य मधुच्छन्द ऋषिरनिरुद्गायत्त्री-
च्छन्दोऽग्निर्देवता केतूनां पूजाहोमकर्म्मणि
विनियोगः । ॐ केतुं कृण्वन्न केतवे पेषो मर्य्या
अपेषसे । समुषद्भिरजायथा स्वाहा । इदं
केतुभ्यः ॥ ९ ॥ ततो मधुघृताक्तां घृताक्तां
क्षीराक्तां वा प्रादेशप्रमाणां साग्रामर्कसमिध-
मादाय ॐ आकृष्णेन इत्यादिमन्त्रेण सूर्य्याया-
ष्टोत्तरशतं अष्टाविंशतिमष्टौ वा अशक्त्या ।
शक्त्या ग्रहस्यातिपीडाकरत्वाद्वा अष्टोत्तर-
सहस्रं जुहुयात् ॥ * ॥ समिधमाह याज्ञ-
वल्क्यः ।
अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।
उडुम्बरः शमी दूर्व्वा कुशाश्च समिघः क्रमात् ॥
होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।
अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ।
अतिपीडाकरो यस्तु तन्तु यत्नेन पूजयेत् ॥
ततो होमानन्तरं उदीच्यं कर्म्म कुर्य्यात् । ततो
गुडौदनादीन् ऋत्विजे भोजयेत् । तत्तद्द्रव्या-
लाभे भोज्यान्तराणि वा दद्यात् । भोजना-
सामर्थ्ये तत्तद्द्रव्याणि पाणिना प्रतिग्राहयेत् ।
ततो मत्स्यपुराणोक्तैर्मन्त्रैर्दक्षिणां दद्यात् ।
धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः
क्रमात् ॥
तत्र ।
कपिले सर्व्वदेवानां पूजनीयासि रीहिणी ।
तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छ मे ॥
इति पठित्वा ॐ अद्येत्यादि कृतैतत्सूर्य्यग्रह-
यज्ञकर्म्मणः प्रतिष्ठार्थं दक्षिणां कपिलां धेनुं
रुद्रदेवताकां अमुकगोत्राय अमुकदेवशर्म्मणे
ब्राह्मणाय ऋत्विजे तुभ्यमहं संप्रददे । अन्यार्थ-
ञ्चेत् ददानीति ब्रूयात् । कपिलाभावे गोमात्रं
वा । तदभावे काञ्चनम् । तदभावे रजतादिकं
वा दद्यात् । काञ्चनादिकन्तु शङ्खादि दक्षिणा-
भवेऽपि दद्यात् ॥ १ ॥ एवम् ।
पुण्यस्त्वं शङ्खपुण्यानां मङ्गलानाञ्च मङ्गलम् ।
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य पूर्ब्बोक्तक्रमेण सोमग्रहयज्ञे शङ्खं
दद्यात् ॥ २ ॥
ॐ धर्म्मस्त्वं वृषरूपेण जगदानन्दकारकः ।
अष्टमूर्त्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य मङ्गलयज्ञे वृषं दद्यात् ॥ ३ ॥
ॐ हिरण्यगर्भगर्भस्त्वं हेमरूपं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य बुधयज्ञे काञ्चनं दद्यात् ॥ ४ ॥
ॐ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् ।
वरप्रदानात्तद्विष्णोरतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य गुरुयज्ञे पीतवस्त्रयुगं दद्यात् तद-
भावेऽन्यवर्णवासोयुगमपि दद्यात् ॥ ५ ॥
ॐ विष्णुस्त्वमश्वरूपेण यस्मादर्णवसम्भवः ।
चन्द्रार्कवाहनस्त्वं वै अतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य शुक्रयज्ञे अश्वं दद्यात् ॥ ६ ॥
ॐ यस्मात्त्वं पृथिवी सर्व्वा धेनुः केशवसम्भवा ।
सर्व्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य शनैश्चरयज्ञे कृष्णां धेनुं अन्यवर्णां वा
दद्यात् ॥ ७ ॥
ॐ यस्मादायुधकर्म्माणि त्वदधीनानि सर्व्वदा ।
लाङ्गलाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य राहुयज्ञे लौहं दद्यात् ॥ ८ ॥
ॐ यस्मात्त्वं सर्व्वभूतानां मङ्गलाय व्यव-
स्थितः ।
यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥
इत्युच्चार्य्य केतुयज्ञे छागं दद्यात् ॥ ९ ॥ दक्षिणाजलं
शान्तिकुम्भजलेन संमिश्र्य शान्तिं कुर्य्यात् ।
ततः कृताञ्जलिः ।
ॐ गच्छध्वममराः सर्व्वे गृहीत्वार्च्चां स्वमा-
लयम् ।
सन्तुष्टा वरमस्माकं दत्त्वेदानीं सुपूजिताः ॥
इति विष्णुधर्म्मोत्तरीयं पठित्वा ग्रहान् विस-
र्जयेत् । दक्षिणा च प्रदातव्या ग्रहाणाञ्च विस-
र्जनमिति वशिष्ठवचनात् ।” इति रघुनन्दन-
भट्टाचार्य्यविरचितग्रहयागप्रयोगः समाप्तः ॥

याच, टु डु ऋ ञ याचने । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-द्विक०-सेट् ।) याचनमात्मने
दानार्थं प्रेरणम् । टु, याचथुः । डु, याचि-
त्रिमम् । ऋ, अययाचत् । ञ, याचति याचते
नृपं विप्रः । ग्रहणार्थं प्रेरणेऽपि याचति वित्तं
गुरवे शिष्यः । इति दुर्गादासः ॥

याचकः, त्रि, (याचत इति । याच् + ण्वुल् ।)

याच्ञाकर्त्ता । तत्पपर्य्यायः । वनीयकः २
याचनकः ३ मार्गणः ४ अर्थी ५ । इत्यमगः ।
पृष्ठ ४/०३१
३ । १ । १९ ॥ वनीपकः ६ भिक्षुकः ७ भिक्षा-
करः ८ । इति शब्दरत्नावली ॥ तस्य लघुत्वं
यथा, --
“तृणादपि लघुस्तूलस्तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ किञ्चित्प्रार्थनशङ्कया ॥”
इति प्राचीनाः ॥
अपि च ।
“कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च ।
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥
जगत्पतिर्हि याचित्वा विष्णुर्वामनतां गतः ।
कोऽन्योऽधिकतरस्तस्य योऽर्थी याति न लाघ-
वम् ॥”
इति गारुडे नीतिसारे ११५ अध्यायः ॥

याचन्, [त्] त्रि, (याचतीति । याच् + शतृ ।)

याचकः । यथा, --
“मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचतः ॥”
इति गारुडे नीतिसारे ११५ अध्यायः ॥

याचनं, क्ली, (याच् + भावे ल्युट् ।) याच्ञा ।

(यथा, नैषधे । ५ । ११२ ।
“भीमजार्थयाचनवाचे
यूयमेव गुरवः करणीयाः ॥”)

याचनकः, त्रि, (याचन + स्वार्थे कन् ।) याचकः ।

इत्यमरः । ३ । १ । ४९ ॥ (यथा, मनौ । ३ । १६५ ।
“आचारहीनः क्लीवश्च नित्यं याचनकस्तथा ॥”)

याचना, स्त्री, (याच् + स्वार्थे णिच् + युच् ।

टाप् ।) याच्ञा । इत्यमरः । २ । ७ । ३२ ॥
(यथा, रामायणे । २ । २७ । २३ ।
“नयस्व मां साघु कुरुष्व याचनाम् ॥”)

याचमानः, त्रि, (याचते इति । याच् + शानच् ।)

याचकः । यथा, --
“नवीनदीनभावस्य याचमानस्य मानिनः ।
वचोजीवितयोरासीत् पुरोनिःसरणे रणः ॥”
इति वररुचिः ॥
अपि च ।
“द्विजेभ्यो याचमानेभ्यो यजमानः प्रयच्छति ।
स याति चाक्षयान् लोकान् येभ्यो नावर्त्तते
पुनः ॥
षष्टिवर्षसहस्राणां सहस्राणि वसेद्दिवि ।
योऽनुमन्तापि भवति निरये प्रतिषेधकः ॥”
इति वह्निपुराणे वामनप्रादुर्भावो नामाध्यायः ॥

याचितं, क्ली, (याच् + क्तः ।) याचनवृत्तिः ।

तत्पर्य्यायः । मृतम् २ । यथा, --
“द्वे याचितायाचितयोर्यथासंख्यं मृतामृते ॥”
इत्यमरः । २ । ७ । ३२ ॥
“द्वे । याचनवृत्तिर्मरणमिव दुःखजनकत्वात्
मृतम् । अयाचितं अमृतमिव अमृतम् ।
याचितायाचितयोर्मावे कर्म्मणि वा क्तः ।” इति
भरतः ॥ प्रार्थितवस्तुनि, त्रि ॥ (यथा, देवी-
भागवते । ३ । २८ । ६७ ।
“पिता ते याचितः पूर्ब्बं मया वै त्वत्कृते-
ऽबले ! ॥”)

याचितकं, क्ली, (याचितेन निर्वृत्तम् । याचित +

“अपमित्ययाचिताभ्यां कक्कनौ ।” ४ । ४ । २१ ।
इति कन् ।) याच्ञाप्राप्तम् । इत्यमरः । २ । ९ । ४ ॥
“याच्ञया । प्रत्यर्पणीयत्वेन याच्ञया यत्
प्राप्तमलङ्कारादिवस्तु तत् याचितकम् । कार्य्या-
नन्तरं वस्तुस्वामी यत् पुनर्गृह्णाति तदित्यर्थः ।
याचितेन प्राप्तमिति ढघे कादिति कः ।” इति
भरतः ॥

याच्ञा, स्त्री, (याचनमिति । याच् + “यजयाच्-

यतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति
नङ् ।) याचनम् । तत्पर्य्यायः । अभिशस्तिः २
याचना ३ अर्थना ४ भिक्षा ५ अर्दना ६ ।
इत्यमरः । २ । ७ । ३२ ॥ लालसा ७ । इति
जटाधरः ॥ (यथा, भागवते । २ । ७ । १७ ।
“ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां
लोकान् विचक्रम इमान् यदथाधियज्ञः ।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन
याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः ॥”)
तद्वैदिकपर्य्यायः । ईमहे १ यामि २ मन्महे ३
दद्धि ४ शग्धि ५ पूर्द्धि ६ मिमिढ्ढि ७ मिमीहि
८ रिरिढ्ढि ९ रिरीहि १० पीपरत् ११
यन्तारः १२ यन्धि १३ इषुध्यति १४ मदेमहि
१५ मनामहे १६ मायते १७ । इति सप्तदश
याच्ञाकर्म्माणः । इति वेदनिघण्टौ ३ अः ॥

याजः, पुं, अन्नम् । इति हेमचन्द्रः । ३ । ५९ ॥

(ऋषिभेदः । यथा, महाभारते । १ । १६८ । ७ ।
“याजोपयाजौ ब्रह्मर्षी शाम्यन्तां परमेष्ठिनौ ।
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥”)

याजकः, पुं, (यजतीति । यज् + ण्वुल् ।) याज्ञिकः ।

राज्ञो गजः । इति मेदिनी । के, १४२ ॥
मत्तहस्ती । इति जटाधरः ॥ ऋत्विक् । यथा,
“अग्नीध्राद्या धनैर्व्वार्य्या ऋत्विजो याज-
काश्च ते ॥”
इत्यमरः । २ । ७ । १७ ॥
“यजमानेन धनैर्व्वार्य्याः धनानि दत्त्वा इष्टसम्पा-
दनाय व्रियन्ते प्रार्थ्यन्ते ये अग्नीध्रप्रभृतयस्ते
ऋत्विजो याचकाश्च कथ्यन्ते । अग्निं इन्धयन्ति
दीपयन्ति अग्नीध्राः इन्धी ञि ध ङ द्युतौ ञिः
नाम्नीति रः मनीषादित्वान्नलोपः । आदिना
ब्रह्मोद्गातृहोत्रध्वर्य्युब्राह्मणाच्छंसिप्रभृतयः षो-
डश गृह्यन्ते । वार्य्या इति हसृय्वासोरिति घ्यण्
दृभृजुषेत्यादौ वृ ञ इति ञानुबन्धनिर्द्देशात्
अन्यवृधातोर्न क्यप् ऋतौ यजन्ति ऋत्विजः
क्विप् । यजन्ति याचकाः णकः ।” इति
भरतः ॥ * ॥ बहुयाजकग्रामयाजकयोर्निन्दा
यथा, --
“अब्राह्मणास्तु षट् प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः ।
आद्यो राजभृतस्तेषां द्बितीयः क्रयविक्रयी ॥
तृतीयो बहुयाज्यः स्याच्चतुर्थो ग्रामयाजकः ।
पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च ॥
अनादित्वाञ्च यः पूर्ब्बां सादित्याञ्चैव पश्चि-
माम् ।
नोपासीत द्बिजः सन्ध्यां स षष्ठोऽब्राह्मणः
स्मृतः ॥”
इत्याह्निकतत्त्वे सन्ध्योपासनम् ॥
अपि च ।
“शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः ।
शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ॥
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

याजनं, क्ली, (याज्यते इति । यज् + णिच् + ल्युट् ।)

यागक्रियाकारणा । याग कराण इति भाषा ।
तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः ।
यथा, --
“अध्यापनमध्ययनं यजनं याजनन्तथा ।
दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥”
इति मानवे १ अध्यायः ॥

याजिः, पुं, (यज् + “वसिंवपियजिराजीति ।”

उणा० ४ । १२४ । इति इञ् ।) यज्ञः । इति
संक्षिप्तसारोणादिवृत्तिः ॥ यागकर्त्ता । इत्यु-
णादिकोषः ॥

याजुषं, त्रि, (यजुष इदमिति । यजुष् + अण् ।)

यजुर्व्वेदसम्बन्धि । इति सिद्धान्तकौमुदी ॥

याज्ञवल्क्यः, पुं, (वल्कयतीति । वल्क + अच् ।

यज्ञस्य वल्को वक्ता । तस्य गोत्रापत्यम् ।
यज्ञवल्क + “गर्गादिभ्यो यञ् ।” ४ । २ । १०५ ।
इति यञ् ।) धर्म्मशास्त्रप्रयोजकमुनिविशेषः ।
तत्पर्य्यायः । ब्रह्मरात्रिः २ योगेशः ३ । इति
हेमचन्द्रः ॥ योगीश्वरः ४ । इति मिताक्षरा ॥
(महर्षिरयं याज्ञवल्क्यः सूर्य्यात् शुक्लयजुर्व्वेदं
प्राप्तवान् । तत्रादौ ब्रह्मपरम्परया प्राप्तं वेदं
वेदव्यासो मन्दमतीन् मनुष्यान् विचिन्त्य तेषु
कृपापरः चतुर्धा व्यस्य ऋग्यजुःसामाथर्व्वाख्यां-
श्चतुरो वेदान् पैलवैशम्पायनजैमिनिसुमन्तुभ्यः
क्रमादुपदिदेश ते च स्वशिष्येभ्यः । तत्र व्यास-
शिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशि-
ष्येभ्यो यजुर्व्वेदमध्यापयत् । तत्र दैवात् केनापि
हेतुना क्रुद्धो गुरुः शिष्यं याज्ञवल्क्यं अधीतवेद-
परित्यागार्थमादिष्टवान् । याज्ञवल्क्योऽपि योग-
बलेन अधीतयजुर्विद्यां मूर्त्तिमतीं विधायोद्व-
वाम । वान्तानि यजूंषि गृह्णीतेति गुरूक्ता
अन्ये शिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षयन् ।
तान्येव यजूंषि बुद्धिमालिन्यात् कृष्णानि
जातानि । ततो वेदहीनोऽतिदुःखितो याज्ञ-
वल्क्यः सूर्य्यमाराध्य शुक्लानि यजूंषि प्राप्तवान्
तानि च जाबालगौधेयकाण्वमाध्यन्दिनादीन्
पञ्चदशशिष्यानध्यापयामास । तथाहि भागवते
द्बादशस्कन्धे ६ अध्याये ।
“तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः ।
सव्याहृतिकान् सोङ्कारांश्चातुर्होत्रविवक्षया ॥
पुत्त्रानध्यापयत् तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् ।
ते तु धर्म्मोपदेष्टारः स्वपुत्त्रेभ्यः समादिशन् ॥
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः ।
पृष्ठ ४/०३२
चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥
क्षीणायुषः क्षीणसत्त्वान्दुर्म्मेधान् वीक्ष्य कालतः ।
वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः ॥
अस्मिन्नप्यन्तरे ब्रह्मन् भगवान् लोकभावनः ।
ब्रह्मेशाद्यैर्लोकपालैर्याचियो धर्म्मगुप्तये ॥
पराशरात् सत्यवत्यामंशांशकलया विभुः ।
अवतीर्णो महाभाग वेदं चक्रे चतुर्व्विधम् ॥
ऋगथर्व्वयजुःसाम्नां राशीनुद्धृत्य वर्गशः ।
चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥
तासां स चतुरः शिष्यानुपाहूय महामतिः ।
एकैकां संहितां ब्रह्मन्नैकैकस्मै ददौ विभुः ॥
पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह ।
वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।
अथर्व्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥”
“वैशम्पायनशिष्या वै चरकाध्वर्य्यवोऽभवन् ।
यच्चेरुर्ब्रह्महत्यांहःक्षपणं स्वगुरोर्व्रतम् ॥
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्
कियत् ।
चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।
विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥
देवरातसुतः सोऽपि च्छर्द्दित्वा यजुषां गणम् ।
ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः ।
तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् ।
गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥”
“एवं स्तुतः स भगवान् वाजिरूपधरो रविः ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥
यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः ।
जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ॥”
अयमेव महर्षिर्मिथिलास्थ एव सामश्रवःप्रभृ-
तिभिः ऋषिभिर्वणाश्रमेतरधर्म्मज्ञानार्थमादिष्ट
आचारव्यवहारप्रायश्चित्ताख्यकाण्डत्रयात्मकं
धर्म्मशास्त्रं प्रणीय तेभ्यः श्रावितवान् । यदुक्तं
याज्ञवल्क्यसंहितायां ग्रन्थारम्भे ।
“योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्म्मानशेषतः ।
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्-
मुनीन् ॥”)
क्ली, उपनिषत्विशेषः । यथा, मुक्तिकोपनिषदि ।
“गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ॥”)

याज्ञसेनी, स्त्री, यज्ञसेनस्य स्त्र्यपत्यम् ॥ (यज्ञ-

सेन् + अण् । ङीप् ।) सा च द्रौपदी । इति हेम-
चन्द्रः । ३ । ३७५ ॥ (यथा, महाभारते । ४ ।
४ । ५६ ।
“याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥”
अस्या विवरणं द्रौपदीशब्दे द्रष्टव्यम् ॥)

याज्ञिकः, पुं, (यज्ञमर्हति यज्ञाय हितो वा ।

यज्ञ + ठक् ।) दर्भमेदः ॥ (यज्ञं यज्ञविद्यामधीते
वेद वा । वज्ञ + ठक् ।) याजकः । यज्ञकर्त्ता ।
इति शब्दरत्नावली ॥ (यथा, भागवते । ११ ।
१० । २३ ।
“इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः ॥”)
रक्तखदिरः । पलाशः । अश्वत्थः । इति राज-
निर्घण्टः ॥

याज्ञिक्यं, क्ली, (याज्ञिकानां धर्म्म आम्नायो वा ।

याज्ञिक + “छन्दोगौक्थिकयाज्ञिकबह्वृच नटा-
ञ्ञ्यः ।” ४ । ३ । १२९ । इति ञ्यः ।) यज्ञः ।
इति सिद्धान्तकौमुदी ॥

याज्यं, क्ली, (इज्यत इति । यज् + ण्यत् । “यज-

याचरुचप्रवचर्चश्च ।” ७ । ३ । ६६ । इति कुत्व-
निषेधः ।) यागलब्धधनादि । इति सिद्धान्त-
कौमुदी ॥ यजनीये, त्रि ॥ (यथा, मनौ । ८ । ३१७ ।
“अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी ।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्वि-
षात् ॥”
शिष्यः । शासनार्हः । यथा, देवीभागवते । १ ।
१८ । ९ ।
“याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः ।
विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥”)

याज्या, स्त्री, (यजन्त्यनया । यज् + ण्यत् + टाप् ।)

ऋक् । इति मुग्धबोधव्याकरणम् ॥ (गङ्गा ।
यथा, काशीखण्डे सहस्रनामकीर्त्तने । २९ । १४२ ।
“योगसिद्धिप्रदा याज्या यज्ञेशपरिपूजिता ॥”)

यात्, व्य, आख्यातप्रत्ययविशेषः । स च विधिलिङा-

शीर्लिङः परस्मैपदप्रथमपुरुषैकवचनम् । स तु
विध्याद्यर्थक आशीर्व्वादार्थकश्च । इति व्याक
रणम् ॥ मुग्धबोधमते विध्याद्यर्थे अस्य स्वीसंज्ञा ।
आशीरर्थे ढीसंज्ञा ॥

यातं, क्ली, (या + क्तः ।) निषादिनां पादकर्म्म ।

इति हेमचन्द्रः । ४ । १९७ ॥ पुस्तकान्तरे यत-
मिति पाठः । यथा, --
“अपष्टन्त्वङ्कुशस्याग्रं घातमङ्कुशवारणम् ।
निषादिनां पादकर्म्म या(य)तं वीतन्तु तद्द्वयम् ॥”

यातः त्रि, गतः । याधातोः क्तप्रत्ययेन निष्पन्नः ॥

(यथा, मनुः । ४ । १७८ ।
“येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न
रिष्यते ॥”)

यातना, स्त्री, (यत् + णिच् + “न्यासश्रन्थो युच् ।”

३ । ३ । १०७ । इति युच् । टाप् ।) गाढवेदना ।
तत्पर्य्यायः । कारणा २ तीव्रवेदना ३ । इत्य-
मरः । २ । ८ । ३ ॥ अतिव्यथा ४ । इति शब्द-
रत्नावली ॥ (यथा, भागवते । ७ । १ । ४१ ।
“हिरण्यकशिपुः पुत्त्रं प्रह्रादं केशवप्रियम् ।
जिघांसुरकरोन्नानायातना मृत्युहेतवे ॥”)
नरकरुजा । इति केचिदिति भरतः ॥

यातयामं, त्रि, (यातो गतो याम उपभोगकालो

वीर्य्यं वा यस्य ।) जीर्णम् । (यथा, भट्टि-
काव्ये । ५ । ३९ ।
“तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत ।
यातयामं विजितवान् स रामं यदि किन्ततः ॥”)
परिभुक्तम् । इत्यमरः । ३ । ३ । १४५ ॥ उज्झि-
तम् । इति मेदिनी । मे, ६२ ॥ (प्राप्तशैत्या-
वस्थम् । यथा, गीतायाम् । १७ । १० ।
“यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥”
गतरसः । यथा, ताण्ड्यमहाब्राह्मणे । ४ । ३ । १३ ।
“ब्रह्मवादिनो वदन्ति यातयामाः संवत्मरा
अयातयामा इति ते नायातयामेति वक्तव्यम् ।”
“यातयामः गतरसः ।” इति सायणः ॥)

याता, [ऋ] स्त्री, (यततेऽन्योन्यभेदायेति । यत् +

“तृन् ।” उणा० २ । ९८ । इति तृन् ।)
पतिभ्रातृपत्नी । इत्यमरः । १ । ६ । ३० ॥ या
इति भाषा । (यथा, साहित्यदर्पणे । ३ । ७८ ।
“स्वामी निश्वसितेऽप्यसूयति मनो जिघ्रः सपत्नीजनः
श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ॥”
या + तृच् । गमनकर्त्तरि, त्रि ॥ (यथा, बृहत्-
संहितायाम् । ३३ । १३ ।
“उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥”
सारथ्यादिः । यथा, मनौ । ८ । २९० ।
“यानस्य चैव यातुश्च यानस्वामिन एव च ।
दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥”
“यातुः सारथ्यादेः ।” इति कुल्लूकः ॥ हन्ता ।
यथा, ऋग्वेदे । १ । ३२ । १४ ।
“अहेर्यातारं कमपश्य इन्द्र ।”
“यातारं हन्तारम् ।” इति तद्भाष्ये सायणः ॥)

यातायातं, क्ली, गमनागमनम् । यथा, --

“पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः
पान्तु वः ।
यत्संस्कारकलानुवर्त्तनवशाद्बेलानिभेनाम्भसां
यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्रा-
म्यति ॥”
इति श्रीभागवते १२ स्कन्धे १३ अध्यायः ॥

यातिकः, पुं, (यातं गमनं प्राशस्त्येनास्त्यस्येति ।

यात + ठन् ।) पान्थः । इति शब्दरत्नावली ॥

यातु, क्ली, (सर्व्वेषामन्तं यातीति । या + “कमि-

मनिजनीति ।” उणा० १ । ७३ । इति तुः ।)
राक्षसः । इत्यमरः । १ । १ । ६३ ॥ (यथा, --
“यातु यातुप्रवीराणां प्रणम्य चरणानसौ ॥”
इत्यमरटीकायां रघुनाथचक्रवर्त्ती ॥
(पुंलिङ्गेऽपि दृश्यते । यथा, ऋग्वेदे । ७ । २१ । ५ ।
“न यातव इन्द्र जूजुवुर्नो न ।”
“यातवो राक्षसाः ।” इति तद्भाष्ये सायणः ॥)

यातुः, पुं, (सर्वान्तं याति गच्छतीति । या + “कमि-

मनिजनिगाभायाहिभ्यश्च ।” उणा० १ । ७३ ।
इति तुः ।) कालः । अध्वगः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ वायुः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥ (स्त्री, यातना । यथा,
ऋग्वेदे । ८ । ४९ । २० ।
“मा नो रक्ष आवेशीदाघृणीवसो मायातुर्यातु
मावताम् ॥”
पृष्ठ ४/०३३
“यातुर्यातना पीडा ।” इति सायणः ॥ कर्म्म-
नाशकरी हिंसा । यथा, तत्रैव । ५ । १२ । २ ।
“नाहं यातुं सहसा न द्बयेन ऋतं शपाम्य-
रुषस्य वृष्णः ।”
“यातुं कर्म्मणां नाशकरीं हिंसाम् ।” इति
तद्भाष्ये सायणः ॥)

यातु, त्रि, (यातीति । या + “कमिमनीति ।”

उणा० १ । ७३ । इति तुः ।) गन्ता । इत्यु-
णादिकोषः ॥ क्रियापदं चेत् गच्छतु ॥

यातुघ्नः, पुं, (यातु हन्तीति । हन् + “अमनुष्य-

कर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।) गुग्-
गुलुः । इति राजनिर्घण्टः ॥

यातुधानः, पुं, (यातूनि रक्षांसि दधाति पुष्णा-

तीति । धा + बहुलमन्यत्रापीति युच् । स्वजाति-
पोषकत्वात्तथात्वम् ।) राक्षसः । इत्यमरः । १ ।
१ । ६३ ॥ (यथा, भट्टिकाव्ये । २ । २९ ।
“दक्षिण्यदिष्टां कृतमार्त्विजीनै-
स्तद्यातुधानैश्चिचिते प्रसर्पत् ॥”)

यातृकः, पुं, (यातैवेति । यातृ + स्वार्थे कन् ।)

पान्थः । इति शब्दरत्नावली ॥

यात्यं, त्रि, यतितव्यम् । यतनीयम् । यतधातोः

कर्म्मणि घ्यण्प्रत्ययेन निष्पन्नम् ॥

यात्रा, स्त्री, (या + “हुयामाश्रुभसिभ्यस्त्रन् ।”

उणा० ४ । १६७ । इति त्रन् । टाप् ।)
विजिगीषोः प्रयाणम् । तत्पर्य्यायः । व्रज्या १
अभिनिर्याणम् ३ प्रस्थानम् ४ गमनम् ५
गमः ६ । इत्यमरः । २ । ८ । ९५ ॥ प्रस्थितिः ७
यानम् ८ प्राणनम् ९ । इति शब्दरत्नावली ॥
यापनम् ॥ (यथा, भागवते । १० । ८६ । १५ ।
“यात्रामात्रं त्वहरहर्दैवादुपनमत्युत ॥”)
उत्सवः । इति मेदिनी । रे, ७८ ॥ (यथा, कथा-
सरित्सागरे । १० । ८७ ।
“यात्रामुपवने द्रष्टुं जगाम सखिभिः सह ॥”
व्यवहारः । यथा, गीतायाम् । ३ । ८ ।
“शरीरयात्रापि च ते न प्रसिद्ध्येदकर्म्मणः ॥”
“शरीरयात्रा देहव्यवहारः ।” इति तत्र नील-
कण्ठः ॥) उपायः । इति विश्वः ॥ * ॥ अथ यात्रा-
दिनम् । भाद्रपौषचैत्रेतरमासेषु दूरयात्रा
कर्त्तव्या । पूर्ब्बस्यां दिशि रविशुक्रवारस्य प्राश-
स्त्यम् । दक्षिणस्यां मङ्गलवारस्य प्राशस्त्यम् ।
पश्चिमायां सोमशनिवारस्य प्राशस्त्यम् । उत्त-
रस्यां बृहस्पतिवारस्य प्राशस्त्यम् । पूर्व्वस्यां
दिशि सोमशनिवारे न गन्तव्यम् । दक्षिणस्यां
बृहस्पतिवारे केषाञ्चिन्मते बुधवारे च न गन्त-
व्यम् । पश्चिमायां रविशुक्रवारे । एवं उत्तरस्यां
बुधमङ्गलवारे न गन्तव्यम् । द्वितीया तृतीया
सप्तमी पञ्चमी दशमी एकादशी त्रयोदशी च
एता यात्रायां प्रशस्ताः । अत्रोत्तमनक्षत्राणि ।
अश्विनी अनुराधा रेवती मृगशिरा मूला पुन-
र्व्वसु पुष्या हस्ता ज्येष्ठा । मध्यमनक्षत्राणि ।
रोहिणी पूर्ब्बात्रयं चित्रा स्वाती शतभिषा
श्रवणा धनिष्ठा । अधमनक्षत्राणि । उत्तरात्रयं
विशाखा मघा आर्द्रा भरणी कृत्तिका अश्लेषा ।
तत्र नक्षत्रशूलकथनम् । स्वात्यां जेष्ठायाञ्च
पूर्ब्बदिग्गमनं निषिद्धम् । एवं पूर्ब्बभाद्रपदे
अश्विन्याञ्च दक्षिणदिग्गमनं पुष्ये रोहिण्याञ्च
पश्चिमदिग्गमनं उत्तरफल्गुन्यां हस्तायाञ्च
उत्तरदिग्गमनं निषिद्धम् । तत्रानुक्तकरणानि ।
गरं बणिजं विष्टिः । गरमपि कैश्चिच्छस्तं
मन्यते । अत्र उत्तमलग्नानि । सिंहवृषकुम्भ-
कन्यामिथुनानि । तत्र योगिनीनिर्णयः । प्रति-
पदि नवम्याञ्च प्राच्यां योगिनी । तृतीयायां
एकादश्याञ्चाग्निकोणे । पञ्चम्यां त्रयोदश्याञ्च
दक्षिणे । द्वादश्यां चतुर्थ्याञ्च नैरृतकोणे ।
षष्ठ्यां चतुर्द्दश्याञ्च पश्चिमे । सप्तम्यां पूर्णिमा-
याञ्च वायुकोणे । द्वितीयायां दशम्याञ्च उत्तर-
दिशि । अष्टम्याममावास्यायाञ्च ईशानकोणे ।
तां दक्षिणे सम्मुखे च कृत्वा न गन्तव्यम् ।
पापयोगत्र्यहस्पर्शमासदग्धादिषु यात्रा न
कर्त्तव्या । वारवेलाकालवेलाकुलिकवेलावृष्टि-
भद्रादिषु च यात्रा न कर्त्तव्या । द्विरागमनदिनं
नववधूशब्दे द्रष्टव्यम् ॥ * ॥ अथ गोयात्राप्रवेश-
विक्रयाः । तत्र तिथयः । अमावस्याष्टमी-
चतुर्द्दशीविष्टिभिन्नाः । तत्र नक्षत्राणि ।
रोहिणी पूर्ब्बफल्गुनी पूर्व्वाषाढा पूर्व्वभाद्रपत्
उत्तरफल्गुनी उत्तराषाढा उत्ररभाद्रपत्
श्रवणा भरणी चित्रा एतद्व्यतिरिक्तानि ।
योगाः । व्यतीपातभिन्नाः । वाराः । क्रूर-
भिन्नाः ॥ * ॥ अथ नौकायात्रा । तत्र विहित-
नक्षत्राणि । अश्विनीहस्तापुष्यमृगशिरःपूर्ब्ब-
फल्गुनी-पूर्ब्बाषाढा-पूर्ब्बभाद्रपदनुराधाधनिष्ठा-
श्रवणाः । वाराः शुभग्रहाणाम् । तत्र लग्नं
शोभनम् । तत्र शोभनश्चन्द्रः । तारा च शोभना
विहिता । इति ज्योतिस्तत्त्वम् ॥ * ॥
अथ यात्रायां शुभजनकद्रव्यदर्शनादि यथा, --
“धेनुर्व्वत्सप्रयुक्ता वृषगजतुरगा दक्षिणावर्त्तवह्नि-
र्दिव्यस्त्रीपूर्णकुम्भा द्बिजनृपगणिकाः पुष्पमाला
पताका ।
सद्योमांसं घृतं वा दधि मधु रजतं काञ्चनं
शुक्लधान्यं
दृष्ट्वा श्रुत्वा पठित्वा फलमिह लभते मानवो
गन्तुकामः ॥”
इति समयप्रदीपः ॥
तत्राशुभजनकदर्शनं यथा, --
“सम्मुखे रजकं पश्चात् क्षुरिणं यदि पश्यति ।
न गन्तव्यं तदा तस्मात् तैलवाप्यग्रगोऽशुभः ॥
अजो लुण्ठति गौः कासी क्षुतं वा कुरुते नरः ।
पश्यन् यात्रा न कर्त्तव्या क्लीवं पश्यति वाग्रतः ॥”
इति ज्योतिराकरः ॥
यात्राकाले विशेषदर्शनफलं यथा, --
“मृगाहिकपिमार्ज्जारश्वानः शूकरपक्षिणः ।
नकुलो मूषिकश्चैव यात्रायां दक्षिणे शुभाः ॥
विप्रकन्या शवो रुद्रशङ्खभेरीवसुन्धराः ।
जम्बुकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ॥
वेणुस्त्रीपूर्णकुम्भानां यात्रायां दर्शनं शुभम् ॥”
यात्राकाले अशुभलक्षणं यथा, --
“कार्पासौषधतैलञ्च पङ्काङ्गारभुजङ्गमाः ।
मुक्तकेशो रक्तमाल्यं नग्नाद्यशुभलक्षणम् ॥” * ॥
यात्राकाले छिक्कायाः फलं यथा, --
“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्ब्बे महाफलम् ।
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥
नैरृत्ये शोकसन्तापौ मिष्टान्नञ्चैव पश्चिमे ।
अन्नं प्राप्नोति वायव्ये उत्तरे कलहो भवेत् ।
ईशाने मरणं प्रोक्तं प्रोक्तं छिक्काफलाफलम् ॥”
अथ यात्रायां दिग्विशेषे विशेषनक्षत्राणि ।
“कृत्तिकादौ तु पूर्ब्बेण सप्त ऋक्षाणि वै व्रजेत् ।
मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे ॥
प्रशस्ता चोत्तरे यात्रा धनिष्ठादिषु सप्तसु ।
अश्विनीरेवतीचित्राधनिष्ठाः सदलङ्कृताः ।
मृगाश्विचित्रापुष्याश्च मूलहस्तौ शुभौ सदा ॥”
यात्रादौ लग्नादिषु ग्रहस्थितिफलं यथा, --
“कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्म्मसु ।
शुक्रचन्द्रौ च जन्मस्थौ शुभदौ च द्बितीयगौ ॥
शशिज्ञशुक्रजीवाश्च राशौ चाथ तृतीयके ।
भौममन्दशशाङ्कार्का बुधः श्रेष्ठश्चतुर्थके ॥
शुक्रजीवौ पञ्चमौ च श्रेष्ठौ सद्भिरुदाहृतौ ।
मन्दार्केन्दुकुजाः षष्ठे गुरुचन्द्रौ च सप्तमे ॥
शुक्रज्ञावष्टमे श्रेष्ठौ नवमस्थौ गुरुः शुभः ।
अर्कार्किचन्द्रा दशमे एकादशेऽखिला ग्रहाः ॥
बुधोऽथ द्बादशे चैव भार्गवः सुखदो भवेत् ॥”
इति गारुडे ६० । ६१ अध्यायौ ॥ * ॥
अथ राजयात्रा ।
“इदानीं सर्व्वधर्म्मज्ञ धर्म्मशास्त्रविशारद ! ।
यात्राकालविधानं मे कथयस्व महीक्षिताम् ॥
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहाभिभूतोऽरिस्तदा यात्रां प्रयोजयेत् ॥
योधान्मत्वा प्रभूतांश्च प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥
अशुद्धपार्ष्णिर्नृपतिर्न तु यात्रां प्रयोजयेत् ।
पार्ष्णिग्राहाधिकं सैन्यं मूले निःक्षिप्य वा व्रजेत् ॥
चैत्रं वा मार्गशीर्षं वा यात्रां यायान्नराधिपः ।
चैत्री नश्यति नैदाघं हन्ति पुष्टिञ्च शारदी ॥
एतदेव विपर्य्यस्तं मार्गशीर्षं नराधिपः ।
शत्रोर्व्वा व्यसने यायात् कालः स तु सुदुर्लभः ॥
दिव्यान्तरीक्षक्षितिजैरुत्पातैः पीड्२इतं परम् ।
सदृक्षपीडासंतप्तं पीडितञ्च तथा ग्रहैः ॥
ज्वलन्तीव तथैवोल्का दिशं यस्य प्रपद्यते ।
भूकम्पोल्का दिशं यान्ति याञ्च केतुः प्रसूयते ॥
निर्घातश्च पतेद्यत्र तं यायाद्वसुधाधिपः ।
सबलव्यसनोपेतं तथा दुर्भिक्षपीडितम् ॥
सम्भूतान्तरकोपञ्च क्षिप्रं यायादरिं नृपः ।
यूकमाक्षीकबहुलं बहुपङ्कं तथाविलम् ॥
नास्तिकं भिन्नमर्य्यादं तथामङ्गलवादिनम् ।
अपेतप्रकृतिञ्चैव निरापञ्च तथा जयेत् ॥
विद्विष्टनायकां सेनां तथा भिन्नां परस्परम् ।
व्यसनासक्तनृपतिं बलं राजाभियोजयेत् ॥
पृष्ठ ४/०३४
सैनिकानामशस्त्राणि स्फूरन्त्यङ्गानि यत्र च ।
दुःस्वप्नान्यपि पश्यन्ति बलन्तदभियोजयेत् ॥
उत्साहबलसम्पन्नश्चानुरक्तबलस्तथा ।
तुष्टपुष्टबलो राजा परानभिमुखो व्रजेत् ॥
शरीरस्फुरणे धन्ये तथा दुःस्वप्ननाशने ।
निमित्ते सङ्कुले धन्ये जाते शत्रुपुरं व्रजेत् ॥
ऋक्षेषु षट्सु शुद्धेषु ग्रहेष्वनुगुणेषु च ।
प्रश्नकाले शुभे जाते परान् यायान्नराधिपः ॥
एवन्तु दैवसम्पन्नस्तथा पौरुषसंयुतः ।
देशकालोपपन्नान्तु यात्रां यायान्नराधिपः ॥
उलूकस्य निशि ध्वाङ्क्षः स च तस्य दिवा वशे ।
एवं देशञ्च कालञ्च ज्ञात्वा यात्रां प्रयोजयेत् ॥
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ।
हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥
खरोष्ट्रबहुलां सेनां तथा ग्रीपे नराधिपः ।
चतुरङ्गबलोपेतां वसन्ते वा शरद्यथ ॥
सेना पदातिबहुला यस्य स्यात् पृथिवीपतेः ।
अभियोज्यो भवेत्तेन शत्रुर्विषयमाश्रितः ॥
गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च ।
किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥
रथाश्वबहुलो यायात् शत्रुं समपथाश्रितम् ।
तदाश्रयन्तो बहुलास्तथा राजाभिपूजयेत् ॥
खरोष्ट्रबहुलो राजा शत्रुं बन्धनसंस्थितम् ।
बन्धनस्थोऽपि योज्योऽरिस्तदा प्रावृषि भूभुजा ॥
हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् ।
शरद्वसन्तौ धर्म्मज्ञ कालौ साधारणौ स्मृतौ ॥
विज्ञाय राजा द्विजदेशकालौ
दैवं त्रिकालञ्च तथैव बुद्ध्वा ।
प्रायात् परं कालविदां मतेन
सञ्चिन्त्य सार्द्धं द्विजमन्त्रविद्भिः ॥”
इति मात्स्ये २१४ अध्यायः ॥ * ॥
यात्राकाले माङ्गल्यद्रव्याणि यथा, --
“पौर्व्वापर्य्यं स्ववृत्तान्तं तानुक्त्वा च शुभक्षणे ।
तैरेव सार्द्धं बलवान् बभूव गमनोन्मुखः ॥
ददर्श मङ्गलं रामः शुश्राव जयसूचकम् ।
बुबुधे मनसा सर्व्वं विजयं वैरिसंक्षयम् ॥
यात्राकाले च पुरतः शुश्राव सहसा मुनिः ।
हरिशब्दं शङ्खरवं घण्टादुन्दुभिवादनम् ॥
आकाशवाणीं सङ्गीतां जयस्ते भवितेति च ।
नरोक्तं तञ्च कल्याणं मेघशब्दं जयावहम् ॥
चकार यात्रां भगवान् श्रुत्वेत्येवंविधं शुभम् ।
ददर्श पुरतो विप्रवन्दिदैवज्ञभिक्षुकान् ॥
जलत्प्रदीपं विभ्रन्तीं पतिपुत्त्रवतीं सतीम् ।
पुरो ददर्श स्मेरास्यां नानाभूषणभूषिताम् ॥
शिवं शिवां पूर्णकुम्भं चासञ्च नकुलन्तथा ।
गच्छन् ददर्श रामेशो यात्रामङ्गलसूचकम् ॥
कृष्णसारं गजं सिंहं तुरगं गण्डकं द्विपम् ।
चमरीं राजहंसञ्च चक्रवाकं शुकं पिकम् ॥
मयूरं खञ्जनञ्चैव शङ्खचिल्लञ्चकोरकम् ।
पारावतं वलाकाञ्च कारण्डं चातकं चटम् ॥
सौदामिनीं शक्रचापं सूर्य्यं सूर्य्यसभां शुभाम् ।
सद्योमांसं सजीवञ्च मत्स्यं शङ्खं सुवर्णकम् ॥
माणिक्यं रजतं मुक्तां मणीन्द्रञ्च प्रबालकम् ।
दधि लाजं शुक्लधान्यं शुक्लपुष्पञ्च कुङ्कुमम् ॥
शुक्लच्छत्रं पताकाञ्च दर्पणं श्वेतचामरम् ।
धेनुं वत्सप्रयुक्ताञ्च रथस्थं भूमिपं तथा ॥
दुग्धञ्च रोचनामाज्यममृतं पायसं तथा ।
शालग्रामं पक्वफलं स्वस्तिकं शर्करां मधु ॥
मार्ज्जारञ्च वृषेन्द्रञ्च मेघपर्व्वतमूषिकम् ।
मेघाच्छन्नस्य च रवेरुदयं चन्द्रमण्डलम् ॥
कस्तूरीं कज्जलं तोयं हरिद्रां तीर्थमृत्तिकाम् ।
सिद्धार्थं सर्षपं दूर्व्वां विप्रबालञ्च बालिकाम् ॥
मृगं वेश्याञ्च भ्रमरं कर्पूरं पीतवाससम् ।
गोमूत्रं गोपुरीषञ्च गोधूलिं गोपदाङ्कितम् ॥
गोष्ठं गवां वर्त्म रम्यं गोशालं गोरतिं शुभाम् ।
भूषणं देवप्रतिमां ज्वलदग्निं महोत्सवम् ॥
ताम्रं स्फटिकं रैत्यञ्च सिन्दूरं माल्यचन्दनम् ।
गन्धञ्च हीरकं रत्नं ददर्श दक्षिणे शुभम् ॥
सुगन्धि वायोराघ्राणं प्राप विप्राशिषं शुभम् ।
इत्येवं मङ्गलं ज्ञात्वा प्रययौ स मुदान्वितः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३३ अध्यायः ॥ * ॥
यात्राकाले अमङ्गलसूचकानि यथा, --
“राजा जगाम समरं हृदयेन विदूयता ।
सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसंख्यकैः ॥
ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ।
ययौ तथापि समरं न जगाम गृहं पुनः ॥
मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरीम् ।
कृष्णवस्त्रपरीधानामपरां विधवामपि ॥
मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टनीम् ।
पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ॥
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ।
कुचेलमपि रूक्षाङ्गं नग्नं काषायवासिनम् ॥
वत्सविक्रयिणञ्चैव कन्याविक्रयिणं तथा ।
चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च ॥
सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषम् ।
श्राद्धपाकञ्च पिण्डञ्च मोदकञ्च तिलांस्तथा ॥
देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनम् ।
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम् ॥
कुशपुत्तलिकाञ्चैव शवदाहनकारिणम् ।
शून्यकुम्भं चूर्णकुम्भं तैलं लवणमस्थि च ॥
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ।
दक्षिणे च शृगालाञ्च कुर्व्वन्तं भरवं रवम् ॥
कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलम् ।
कलहञ्च विलापञ्च विलापकारिणं जनम् ॥
अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणम् ।
मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनम् ॥
पुंश्चलीपतिपुत्त्रौ च पुंश्चल्योदनभोजिनम् ।
देवतागुरुविप्राणां वस्तुवित्तापहारिणम् ॥
दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ।
पितृमातृविरक्तञ्च द्विजाश्वत्थविघातिनम् ॥
सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनम् ।
मित्रद्रुहं मित्रघ्नञ्च क्षतं विश्वासघातिनम् ॥
गुरुदेवद्बिजानाञ्च निन्दकं स्वाङ्गघातकम् ।
जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्दयम् ॥
व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकम् ।
गलितव्याधिगात्रञ्च गुरुलङ्घनमेव च ॥
पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा ।
क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा ॥
मूत्रं पुरीषं श्लष्माणं कन्थिनं नृकपालिनम् ।
झञ्झावातं रक्तवृष्टिं वाद्यञ्च नृपघातकम् ॥
वृद्धञ्च शूकरं गृध्रं श्येनं कङ्कञ्च भल्लुकम् ।
पाशञ्च शुष्ककाष्ठञ्च वायसं गन्धकं तथा ॥
अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रीपजीविनम् ।
वैद्यञ्च रक्तपुष्पञ्चैवौषधन्तुषमेव च ॥
कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणम् ।
दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि ॥
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम् ।
वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ह ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥
श्रीकृष्णस्य मथुरायात्रा यथा, --
“राधिकायाञ्च सुप्तायां सुप्तासु गोपिकासु च ।
पुष्पचन्दनतल्पे च वायुना सुरभीकृते ॥
तृतीयप्रहरेऽतीते निशायाश्च शुभक्षणे ।
शुभचन्द्रक्षयोगे चामृतयोगसमन्विते ॥
सौम्यस्वामियुते लग्ने सौम्यग्रहविलोकने ।
पापग्रहसमासक्तदृष्टिदोषादिवर्ज्जिते ॥
यशोदां बोधयामास कारयामास मङ्गलम् ।
बन्धूनाश्वासयामास समुत्थाय हरिः स्वयम् ॥
वाद्यं निषेधयामास राधिकाभयभीतवत् ।
स्वतन्त्रो विश्वकर्त्ता च पाता भर्त्ता स्वतन्त्रवत् ॥
प्रक्षाल्य पादयुगलं धृत्वा धौते च वाससी ।
उवास संस्कृते स्थाने विलिप्ते चन्दनादिना ॥
फलपल्लवसंयुक्तं संस्कृतं चन्दनादिभिः ।
वामे कृत्वा पूर्णकुम्भं वह्निं विप्रं स्वदक्षिणे ।
पतिपुत्त्रवतीं दीपं दर्पणं पुरतस्तथा ॥
दूर्व्वाकाण्डञ्च सुस्निग्धं पुष्पं धान्यं सितं शुभम् ।
गुरुदत्तं गृहीत्वा च प्रददौ मस्तकोपरि ॥
घृतं ददर्श माध्वीकं रजतं काञ्चनं दधि ।
चन्दनं लेपनं कृत्वा पुष्पमालां गले ददौ ॥
गुरुवर्गं ब्राह्मणश्च वन्दयामास भक्तितः ।
शङ्खध्वनिं वेदपाठं सङ्गीतं मङ्गलाष्टकम् ॥
विप्राशीर्व्वचनं रम्यं शुश्राव परमादरम् ।
ध्यात्वा मङ्गलरूपञ्च सर्व्वत्रं मङ्गलप्रदम् ॥
चिक्षेप दक्षिणं पादं सुन्दरं स्वात्मविग्रहम् ।
विधृत्यं नासिकावामभागं मध्यमया विभुः ॥
विसृज्य वायुमिष्टञ्च नासादक्षिणरन्ध्रतः ।
ततो ययौ नन्दनन्दो नन्दस्य प्राङ्गणं वरम् ॥”
इति ब्रह्मवैवत्तै श्रीकृष्णजन्मखण्डे ७१ अध्यायः ॥
अथ यात्रायुक्तिः । तत्र समयः ।
“यात्रायां द्विविधः कालो वैकारः सहजस्तथा ।
प्रोक्त आत्ययिके कार्य्ये विकारो नात्र निर्णयः ।
सहजः स्वेच्छया राज्ञां तस्य निर्णय उच्यते ॥
यात्राजसिंहमध्या शनैश्चरबुधोशनसां गृहेषु ।
भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घा
शस्तस्तु देवलमतेऽध्वनि पृष्ठतोऽर्कः ॥
अश्विनी रेवती ज्येष्ठा तथा पुष्यपुनर्वसू ।
पृष्ठ ४/०३५
मैत्रं मृगशिरो मुला यात्रायामुत्तमाः स्मृताः ॥
भरणी कृत्तिकाश्लेषा विशाखा चोत्तरात्रयम् ।
मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥
पूर्ब्बे कुवेरे दहने निशाटे
यमे जलेशे पवने महेशे ।
त्याज्यं नरस्य प्रतिपत्क्रमेण
युग्मं तिथीनां प्रवदन्ति तज्ज्ञाः ।
स्यात् संमुखे यानमसुक्षयाय
पश्चाद्भवेत् सर्व्वशुभाय पुंसाम् ॥
सूर्य्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्ब्बुधः ।
अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥
पूर्ब्बेणेन्द्रं दक्षिणे यानपादं
रोहिण्ये तच्चार्य्यमाख्याञ्च शूलम् ।
कामं यायात् साम्परायेषु कार्य्ये-
ष्वन्यद्वापि प्रेक्ष्य शूलानि भानि ॥”
तत्र दिक्शूलम् ।
“षष्ठ्यष्टमी चतुर्थी च नवमी द्वादशी तथा ।
चतुर्द्दशी कुहूस्त्याज्या यात्रायामशुभप्रदाः ॥
प्रायो जगुः सहजशत्रुदशाय संस्थाः
पापाः शुभाः सवितृजं परिमुच्य खस्थम् ।
सर्व्वत्रगाः शुभफलं जनयन्ति सौम्या-
स्त्यक्त्वारिसंस्थममरारिगुरुं जिगीषोः ॥
नाकालवर्षविद्युत्स्तनितेष्विष्टं कथञ्चिदपि यानम् ।
आसप्ताहात् दिव्यान्तरीक्षभौमैस्तथोत्पातैः ॥”
तत्र क्रमः ।
“राज्ञां यात्राविधिं वक्ष्ये जिगीषूणां परावनीम् ।
नीराजनाविधिं कृत्वा सैनिकाश्चानयेत्ततः ।
गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥”
तत्र नीराजनाविधिः ।
“वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे ।
अश्वनीराजनं कुर्य्यात् यथोक्तमृषिसत्तमैः ॥
उदीचीं प्रस्थिते भानौ संक्रान्त्यां वा शुभे दिने ।
गजनीराजनं कुर्य्यात् महीपालो जिगीर्षिवान् ॥
वृश्चिकस्थे रवौ कुर्य्यात् पत्तिनीराजनाविधिम् ।
नौकानीराजनं कुर्य्यात् दक्षिणाशां प्रतिष्ठति ॥
अन्येषाञ्चैव यानानां विजयादशमीतिथिम् ।
ध्वजादीनाञ्च सर्व्वेषां शक्रोत्थाने नीराजनम् ॥
छत्रस्य नवदण्डस्य तथा सिंहासनस्य च ।
गृहस्य नगरस्यापि महाविषुवसंक्रमे ॥
आत्मनो युवराजस्य महिष्या मन्त्रिणान्तथा ।
स्वजन्मदिवसे राजा कुर्य्यान्नीराजनाविधिम् ॥
अभिषेकदिनं प्रोक्तमेषां जन्मदिनं मया ॥”
तद्यथा, --
“अश्वानां भास्करो देवो रेवन्तमिति संज्ञया ।
गजानां देवता शक्रः पत्तीनां कालिका मता ॥
नौकानां वरुणो देवो यानानान्तु जयन्तकः ।
अस्त्राणां देवता रामो यमः खड्गस्य पूज्यते ॥
ध्वजानां हनुमान् पूज्यो बृहस्पतिरिति क्रमात् ।
तान् पूजयित्वा विधिवदेतान्नीराजयेन्नृपः ॥
द्बादशमहिषैःपुष्टैश्चामरघण्टास्वनादिभूषाढ्यैः ।
छागलैर्महिषद्विगुणैः पुरुषैस्तद्द्विगुणैश्चारुदीपि-
काभिः ॥
भव्यं वा सहस्रांशुदिने नीराजयेद्राजा ।
द्वादशवाहै रुचिरैः साङ्गोपाङ्गैरतोर्द्धतश्चोष्ट्रैः ॥
तस्यार्द्धतो व्याघ्रैर्गजशतनीराजनं सम्भवति ।
छागलशतं वृषभशतं शतञ्च मेषाणाम् ॥
तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च द्बिपश्चैकः ।
भल्लुका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य ॥
नौकाशतकं साङ्गं नवदशकं काञ्चनादिभि-
र्घटितम् ।
बहुशतमपि जन्तूनां नौकानीराजने राज्ञाम् ॥
यद्वा द्विपदं यानं सर्व्वेषामिष्यते तुरगैः ।
सुदशावत्सरवसितैर्योग्याङ्गैर्योग्यवर्णैश्च ॥
अष्टाभिर्धातुभिः कुर्य्यादस्त्रनीराजनाविधिम् ।
गजाश्वनरनौकाभिर्द्विगुणाभिर्यथोत्तरम् ।
रत्नैर्नानाविधैरस्त्रैर्धातुभिर्वसनैस्तथा ॥
सिंहासनैश्च योग्यैश्व कुर्य्यान्नीराजनाविधिम्
गृहनीराजनाप्येवं नरस्याथ निगद्यते ॥
श्वभिः खरैः शृगालैश्च व्याघ्रैरुष्ट्रैस्तथोद्धतैः ।
पुरं नीराजयेद्राजा चिरसम्पत्तिहेतवे ॥
श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः ।
व्याघ्रादीनां तथैवैकं रत्नं नानाविधन्तथा ॥
अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च ।
वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥
नवग्रहाश्च सूर्य्याद्याः शैलाः सप्त घटास्तथा ।
योग्यधातुसमुद्भूता नौकाखण्डत्रयन्तथा ॥
निजदेहमितं स्वर्णं रजतं ताम्रमेव वा ।
आत्मनीराजने दद्याद्यदिच्छेच्चिरसंस्थितिम् ॥
अस्त्रैर्नानाविधैः कुर्य्याद्युवराजनीराजनम् ।
अलङ्कारैश्च विविधैर्द्देवीनीराजनं मतम् ॥
मन्त्रिनीराजनं राजा हयेनैव समाचरेत् ॥
अमात्यानां सैनिकानां विप्राणां धनिनान्तथा ।
वस्त्रैर्नीराजनं कुर्य्यादिति भोजस्य सम्मतम् ॥
नीराजनाया वस्तूनि न पश्येन्न पुनः स्पृशेत् ।
सप्तकृत्वः परिभ्राम्य कुर्य्यान्नीराजनाविधिम् ॥
न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा ।
दैवज्ञवैद्यदीनेभ्यः प्रयच्छेद्वा यथायथम् ॥
इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः ।
अनेन विधिना राजा सुचिरं सुखमश्नुते ॥”
तथा हि गर्गः ।
“नीराजना महीन्द्राणां निहन्ति विपदोऽखिलाः ।
सैव सन्नहनं राज्ञां कञ्चुकेनेव संयतः ॥
नीराजनावन्दितानां न भयं विद्यते क्वचित् ।
नीराजनाविहीनानां नश्येयुः सर्व्वसम्पदः ॥”
तथा च वात्स्यः ।
“ये भूमिपालाः प्रतिवत्सरान्त
कुर्व्वन्ति नीराजनकर्म्म सम्यक् ।
तेषां न लक्ष्मीः क्षयतामुपैति
साम्राज्यलक्ष्मीः करगैव तेषाम् ॥
एवं नीराजनं कृत्वा राजा प्रस्थानमाचरेत् ॥”
इति नीराजनाविधिः ॥ * ॥
अथ यात्रा ।
“गुणातिशयसम्पन्नः शत्रुं यायाज्जिगीषया ।
यदि पश्चात् प्रकोपो न यदि राष्ट्रे न कण्टकाः ॥
संज्ञायान्यत्र यायाद्वा पार्ष्णिग्राहेण शत्रुणा ॥
रात्रावुलुको विनिहन्ति काकान्
काकोऽप्युलूकान् रजनीव्यपाये ।
इति स्वकालं समुदीक्ष्य यायात्
काले फलन्तीह समीहितानि ॥
प्रबलव्यसनोपेतं दुर्भिक्षादिप्रपीडितम् ।
सम्भूतान्तरकोपेतं न यायात् पृथिवीपतिः ॥
निजदैवानुकूल्ये हि प्रातिकूल्ये परस्य च ।
यायाद्भूपो यतो दैवं बलमेतत् परं मतम् ॥”
अन्यत्र तु ।
“निरातङ्के निरुत्पाते निरुद्विग्ने निरामये ।
विपक्षे जयमिच्छन्ति राजानो विजिगीषवः ॥”
इति युक्तिकल्पतरुः ॥
युद्धयात्रायाममङ्गलदर्शनं यथा, --
“तस्य निर्गच्छतो गेहात् श्वानोऽस्थि मुखतो-
ऽभवत् ।
ध्वजे रुरोह कापोतः शिवा श्यामा च
दक्षिणा ॥
पिङ्गला चञ्चुगोधा च शूकरी केवली तथा ।
गजवानरसेनाजशिखिच्छिक्काश्च वामतः ॥
पथं विभिन्दते सर्पः कुम्भोदकं व्यशीर्य्यत ।
रुराव वानरो ऋक्षो मार्जारो ह्यतिभैरवम् ॥
तैलतक्रतृणकेशयुक्ताभ्यक्तादिदर्शनम् ।
वान्तोन्मत्तजडमूकक्षुत्क्षामनक्रजं रवम् ॥
तुषकार्पासलवणानां निन्दितानाञ्च दर्शनम् ।
रक्ताम्बरधरो मुण्डः पङ्कामिषं तथा वसा ॥
ललाटं शक्रजश्चाप उल्कापातध्वजारुणाः ।
दिशां दाहमहीकम्पाः सरजः कलुषं नभः ॥
निस्तेजस्तेपते भानुर्नद्यः प्रतिमुखावहाः ।
उष्णोदकं महाकूपं दरणं दीर्घिकासु च ॥
अकालविकृतिः पुष्पफलानामन्वभूत्तदा ।
शीत उष्णविपर्य्यासा मेघनादाश्च दारुणाः ॥
आरण्यसत्त्वा ग्रामेषु ग्रामजारण्यवासिनः ।
क्रोष्टृसर्पसमूहाश्च शशश्वानः पिपीलिकाः ॥
ऋक्षाणां महती सेना मृगाणाञ्च तथैव च ।
एते च पुरप्राकारे निपतन्त्युत्पतन्ति च ॥
दुर्गन्धः शार्करो वायुर्दीनां योधा हतप्रभाः ।
शकृन्मूत्राश्रुपातानि गजा अश्वाः प्रचक्रिरे ।
ध्वजच्छत्रपताकानां स्फुटनं दण्डभिन्दनम् ।
कलङ्कमसि चक्रे च हता दुन्दुभिरेव च ॥
ज्यातलाकूटनश्चापि नाराचानाञ्च कुञ्चता ।
गदानां मुद्गराणाञ्च शीर्णता ह्यनुभिन्दता ॥
शुष्कप्ररोहणञ्चार्कसार्द्रपातस्तथैव च ।
प्रतिमारुदितं स्वेदो मृतकानाञ्च जल्पनम् ॥
गवां रासभमारोहः स्त्रीणाञ्च बह्वपत्यता ।
स्त्रीसूते अविच्छागादि ह्यजावि शिशुशोभनम् ।
बालानां घातनं युद्धे निस्त्रिंशाः सकलाः प्रजाः ।
मक्षिकादंशमण्डूकबहुगोनासदर्शनम् ॥
निस्तेजा न वहेद्बह्निः सधूमः स्फुटते मुहुः ॥
एवंविधान् तथोत्पातान् दृष्टान् घोरेण वासव ।
पप्रच्छ नारदं सोऽथ किमेतद्विकृतं द्विज ! ॥”
इत्याद्ये देव्यवतारे घोरवधाध्यायः ॥
पृष्ठ ४/०३६
अथ द्बादश यात्रा ।
“प्रणम्य जगतां नाथं कलिकल्मषनाशनम् ।
द्बादशयात्रातत्त्वानि वक्ति श्रीरघुनन्दनः ॥”
तत्रादौ द्बादशयात्राकालस्य मुख्योपादेयत्वात्
आदौ स एव निरूप्यते । तद्यथा स्कन्दपुराणे ।
इन्द्रद्युम्न उवाच ।
“वैशाखादिषु मासेषु यात्रापूजाविधिं मुने ! ।
श्रोतुमिच्छामि देवेशे यथावद्वक्तुमर्हसि ॥
जैमिनिरुवाच ।
वैशाखादिषु मासेषु देवदेवस्य शार्ङ्गिणः ।
या या द्वादश यात्राः स्युस्ता हि वक्ष्यामि ते
शृणु ॥
वैशाखे चान्दनी यात्रा ज्यैष्ठे स्नापन्युदीरिता ।
आषाढे रथयात्रा स्यात् श्रावणे शयनी तथा ॥
भाद्रे दक्षिणपार्श्वीया आश्विने वामपार्श्विका ।
उत्थानी कार्त्तिके मासि छादनी मार्गशीर्षके ॥
पौषे पुष्याभिषेकः स्यान्माघे शाल्योदनी तथा ।
फाल्गुने दोलयात्रा स्याच्चैत्रे मदनभञ्जिका ॥
एकैका मुक्तिदा सर्व्वा धर्म्मकामार्थसाधनाः ॥”
अथ यात्राविधिः । स्कान्दे ।
“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता
तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः ॥
वैशाखस्यामले पक्षे तृतीया पापनाशिनी ।
स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता ॥
यः पश्यति तृतीयायां कृष्णं चन्दनभूषितम्
वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम् ॥
वैष्णवा जयशब्दैश्च पूजयित्वा तदा हरिम् ।
नानासूक्तोपनिषदैर्व्विश्वेशं संस्तुवन्ति च ॥
वेणुवीणादिवाद्यैश्च तथा नानोपहारकैः ।
सन्तोषयन् जगन्नाथं तृतीयादौ विलेपयेत् ॥
वैशाखस्य तृतीयायां जलमध्ये विशेषतः ।
लेपनं मण्डपे कुर्य्यान्मण्डले वा बृहद्वने ॥
चन्दनागुरुह्रीवेरं कुष्ठकुङ्कुमरोचनाः ।
जटामांसी मुरा चैव विष्णोर्गन्धाष्टकं विदुः ॥
एतैर्गन्धैस्तथान्यैश्च विष्णोर्गात्राणि लेपयेत् ।
घृतञ्च तुलसीकाष्ठं कुर्य्याल्लेपनकर्म्मणि ॥” १ ॥
अथ स्नानयात्रा । स्कन्दपुराणे ।
“ज्यैष्ठ्यामहञ्चावतीर्णस्तत् पूण्यं जन्मवासरम् ।
तस्याञ्च स्नापणं कार्य्यं महास्नानविधानतः ।
तस्यां प्रातःस्नानकाले ब्रह्मणा सहितञ्च माम् ।
रामं मुभद्रां सुस्नाप्य मम लोकमवाप्नयात् ॥”
तथा ।
“मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदेवते ।
पौर्णमास्यां हरेः स्नानं सर्व्वकामफलप्रदम् ॥
सर्व्वतीर्थसमः कूपस्तदास्ते निर्म्मलः शुचिः ।
तदा भोगवती तत्र प्रत्यक्षं भवति द्विजाः ॥
तस्मात् ज्यैष्ठ्यां समुद्धृत्य होमाज्यैः कलसैर्ज्जलैः ।
स्नापयन्ति तदा कृष्णं सततं तं हलायुधम् ॥
जन्माहनि हरेः स्नानमुत्सवं परमाद्भुतम् ।
उत्सवो वै न हीयेत तस्मात्तद्यत्नतश्चरेत् ॥
जन्मनां क्षयकारित्वाज्जन्मयात्रा प्रतिष्ठिता ।
ज्यैष्ठस्नानं भगवतो ये पश्यन्ति मुदान्विताः ॥
न ते भवाब्धौ मज्जन्ति यात्रायां यतमानसाः ।
ज्यैष्ठे च स्नपनं कुर्य्यात् श्रीविष्णोर्जन्मवासरे ॥
दैनन्दिनन्तु दुरितं पक्षमासर्त्तुवर्षजम् ।
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ॥
स्वर्णस्तेयसुरापानगुरुतल्पयुतानि च ।
कोटिकोटिसहस्राणि क्षुद्रपापानि यानि च ॥
सर्व्वाण्येव प्रणश्यति पौर्णमास्यान्तु वासरे ।
पुरुषसूक्तमन्त्रेण पावमान्या तथैव च ॥
नारिकेलोदकेनाथ तथा तालफलाम्बुना ।
पञ्चामृतैः शीततोयैर्द्दूर्व्वाकर्पूरवासितैः ॥
यवोदकेन शुद्धेन तथा पुष्पोदकेन च ।
स्नापयित्वा जगन्नाथं पूजयेत् परमेश्वरम् ॥
ॐ घं घण्टायै नमः इति घण्टावाद्यं निवेदयेत् ।
य एवं कुरुते विद्बान् ब्राह्मणः क्षत्त्रियः शुचिः ।
सर्व्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति ।
चतुर्द्दश्यां दृढं मञ्चं कारयित्वा सुशोभनम् ॥
सुगन्धिधूपसुरभिं चन्दनाम्भःसमुक्षितम् ।
एवं मञ्चं प्रतिष्ठाप्य कलसानधिवासयेत् ॥
सुवासितं जलपूर्णं पावकं कलसं न्यसेत् ।
जयशब्दैश्च स्तुतिभिर्नीयते जगदीश्वरः ॥
जयस्व राम कृष्णेति जयभद्रेति चोदिते ।
नीयते मञ्चदेशन्तु निशीथे ब्राह्मणादिभिः ॥”
अथ रथयात्रा । स्कन्दपुराणे ।
“गुण्डिकाख्यां महायात्रां प्रकुर्व्वीथाः क्षिती-
श्वर ! ।
आषाढस्य सिते पक्षे द्बितीया पुष्यसंयुता ॥
तस्यां रथे समारोप्य रामं मां भद्रया सह ।
यात्रोत्सवं प्रवृत्त्याथ प्रीणयेच्च द्विजान् बहून् ॥
ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम ।
सप्ताहं सरितस्तीरे मम यात्रा भविष्यति ॥
अष्टमे दिवसे सर्व्वान् रथान् माल्यैर्व्विभूषयेत् ।
नवम्यामानयेद्देवांस्तेषु प्रीतः समृद्धिदान् ॥
दक्षिणाभिमुखी यात्रा विष्णोरेषा सुदुर्लभा ।
यथा पूर्ब्बा तथा चेयं ते द्वे मुक्तिप्रदायिके ॥
अष्टाहे विसृजेच्छक्रं तदर्द्धेन तु पार्व्वतीम् ॥”
इतिवत् तिथिना एकाहो बोद्धव्यः ।
“तिथिनैकेन दिवसश्चान्द्रमानेन कीर्त्तितः ॥”
इति विष्णुधर्म्मोत्तरात् ॥
यत्तु ।
“आषाढस्य सिते पक्षे भद्रा सा पुष्यसंयुता ।
यात्रोत्सवं प्रकुर्व्वीथास्त्वभावे पुष्य एव हि ॥”
इति ईश्वरसंहितायां वचनान्तरम् ॥
तद्वैकल्पिकप्रयोगान्तरविधायकम् । पाद्मे ।
“आषाढस्य द्वितीयायां रथं कुर्य्याद्बिशेषतः ।
आषाढशुक्लैकादश्यां जपहोममहोत्सवम् ॥
नातः परं हि कृष्णस्य यात्रान्तरमपेक्षते ।
अत्र स्वयं त्रिलोकेशः स्यन्दनेन कुतूहलात् ॥
नाशयन् सर्व्वपापानि वर्षे वर्षे व्रजेदसौ ।
रथस्थितं व्रजन्तं तं महावेदीमहोत्सवे ॥
ये पश्यन्ति मुदा भक्त्या वासस्तेषां हरेः पदे ।
सत्यं सत्यं पुनः सत्यं प्रतिज्ञातं द्बिजोत्तमाः ॥
नातः श्रेयःपदो विष्णोरुत्सवः शास्त्रसम्मतः ।
रथयात्रैव यात्राणां मुख्येत्याह प्रजापतिः ॥
महावेदीं व्रजन्तं तं रथस्थं पुरुषोत्तमम् ।
बलभद्रं सुभद्राञ्च दृष्ट्वा मुक्तिर्न चान्यथा ॥
आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे ।
प्रतिष्ठाप्य समृद्धेन विधिना पूर्ब्बवद्द्विजाः ॥
रथं नरो हरेः कुर्य्यात् स्वासनं सुपरिष्कृतम् ।
भूषयेद्विविधैर्भक्त्या वस्त्रालङ्कारमाल्यकैः ॥
मृदङ्गपणबाद्यैश्च भेरीढक्कादयस्तथा ।
नटनर्त्तकमुख्याश्च गायना बहवस्तथा ॥
वेश्या यौवनदर्पाढ्या रूपालङ्कारभूषिताः ।
ध्वजाश्च बहवस्तत्र पताकाधिष्ठितान्तराः ॥
गरुडञ्च ध्वजं कुर्य्यात् रक्तचन्दनमिश्रितम् ।
दीर्घनासं पीतदेहं कुण्डलाभ्यां विभूषितम् ॥
चञ्च्वग्रदष्टभुजगं सर्व्वालङ्कारभूषितम् ।
देव्याः पद्मध्वजं कुर्य्यात् पद्मकाष्ठविनिर्म्मितम् ॥
सप्तच्छदमयं कुर्य्याच्छीरिणो लाङ्गलध्वजम् ।
सारथिं वाजिनञ्चैव बलं बलमुदान्वितम् ॥
हीरकैर्मङ्गलैर्दान्तैर्व्वलिवर्गैः सुशोभनम् ।
इत्थं सुघटितं तन्तु रथं देवत्रयस्य च ॥
अरुणोदयवेलायां देवं तस्मात् प्रपूजयेत् ।
ब्राह्मणैर्व्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः ॥
विज्ञापयेद्देवदेवं यात्रायै स कृताञ्जलिः ।
ततः कर्पूरपर्णैश्च सुमनोभिरवाकिरत् ॥
पथि शोभनसूक्तानि प्रपठन्ति द्विजातयः ।
केचिन्मङ्गलगाथाश्च केचिज्जय जयेति च ॥
जितन्तु इति मन्त्रं वै केचित् पुष्पे जपन्ति च ।
सूतमागधमुख्याश्च कीर्त्तिं कार्ष्णीं मुदा जगुः ॥
चर्च्चरीझर्झरीवेणुवीणामाधुरिकादयः ।
शब्दायन्ते सुमधुरं गोविन्दविजयान्तरे ॥
एवं प्रवृत्ते समये कृष्णं रामपुरःसरम् ।
नयन्ति विप्रा भद्राञ्च क्षत्त्रियाश्च विशस्तथा ॥
करे धृत्वा जगन्नाथं भ्रामयित्वा रथत्रयम् ।
रामं भद्राञ्च कृष्णञ्च रथमध्ये निवेशयेत् ॥
पूजयेदुपत्तारैस्तैः श्रद्धाभक्तिसुसंयतः ।
रथच्छायां समाक्रम्य ब्रह्महत्यां व्यपोहति ॥
तद्रेणुसं सक्ततनुस्त्यजेद्वै पापसंहतिम् ।
घनाम्बुवृष्टिसिक्तेन स्वर्गङ्गास्नानजं फलम् ॥
ये प्रणामं प्रकुर्व्वन्ति तेऽपि मोक्षमवाप्नुयुः ।
अनुगच्छन्ति ये कृष्णं ते देवतुल्यविग्रहाः ॥
वेदैः स्तुवन्ति वेदानां वक्तारो मोक्षभागिनः ।
इतिहासपुराणाद्यैः स्तोत्रैर्व्वापि सुसंस्कृतैः ॥
स्तुवन्ति पुण्डरीकाक्षं ये वै विगतकल्मषाः ।
ते वै जयन्ति पापानि जयशब्दैः स्तुवन्ति ये ॥
नर्त्तनं कुरुते वापि गायन्त्यथ नरोत्तमाः ।
वैष्णवोत्तमसंसर्गान्मुक्तिं प्राप्नोत्यसंशयम् ॥
नामानि कीर्त्तयिष्यन्ति न ते यान्ति यमालयम् ॥
जयस्व रामकृष्णेति जयभद्रेति यो वदेत् ।
न मातृगर्भे वासोऽस्य स च देवत्वमाप्नुयात् ॥
चामरैर्व्यजनैः पुष्पैः स्तवकैश्चीनचेलकैः ।
रथस्याग्रे स्थितो यो वै वीजयेत् पुरुषोत्तमम् ॥
संवीज्यमानोऽप्सरोभिर्देवगन्धर्व्वयोजितान् ।
भुङ्क्ते तु भोगानखिलान् यावदाहूतसंप्लवम् ॥
पृष्ठ ४/०३७
नातः परतरो लोके महावेदीमहोत्सवात् ।
सर्व्वपापहरो योगः सर्व्वतीर्थफलप्रदः ॥
कृष्णमुद्दिश्य ये तत्र दानं ददति वै नराः ।
यत्किञ्चिदक्षयफलं मेरुदानेन संमितम् ॥
गुण्डिकामण्डपे यान्तं भद्राकृष्णं सहाग्रजम् ।
तत्रातपश्रान्तगात्रं दर्पणेष्वभिषेचयेत् ॥
पञ्चामृतैः शीततोयैः पुष्पकर्पूरवासितैः ।
नारिकेलजलेनाथ तथा तालफलाम्बुना ॥
रत्नोदकेन शुद्धेन तथा पुष्पोदकेन च ।
सर्व्वाङ्गमनुलिप्येच्च चन्दनेन्दुमृदुद्रवैः ॥
सुगन्धिमाल्याभरणैश्चीनचेलैः सुशोभनैः ।
चामरैश्च जलाभैश्च शीतलैर्व्यजनैस्तथा ॥
वीजयेत् पुण्डरीकाक्षं सुभद्रां बलमेव च ।
सिताभिः पानकैर्हृद्यैस्तथा खण्डविकारकैः ॥
खर्ज्जुरैर्नारिकेलैश्च नानारम्भाफलादिभिः ।
तथा क्षीरविकारैश्च पनसैरिक्षुभिस्तथा ॥
वासितैः शीततोयैश्च गन्धताम्बूलपत्रकैः ।
सकर्पूरलवङ्गाद्यैः पूजयेत् परमेश्वरम् ॥
रथत्रयस्थितं देवत्रयं ये पुरुषर्षभाः ।
प्रदक्षिणं प्रकुर्व्वन्ति त्रिचतुःसप्त एव च ॥
ततोऽपराह्णे देवेशं दक्षिणानिलवीजितम् ।
शनैः शनैर्नयेद्विष्णुं मञ्चकस्य च मध्यमे ॥
एवं व्रजति देवेशे सूर्य्यश्चास्तं गतोऽभवत् ।
दीपकानां सहस्राणि ज्जालितानि नरैस्ततः ॥
मण्डपे वासयेद्देवान् गुण्डिकाख्ये मनोहरे ।
चारुचन्द्रातपे चारुमाल्यचामरभूषिते ॥
पूजयित्वा जगन्नाथं तोषयेत् गीतनृत्यकैः ।
उपहारादिभिस्तत्र सप्ताहानि जनार्द्दनम् ॥
सप्ताहं ये प्रपश्यन्ति गुण्डिकामण्डपे स्थितम् ।
माञ्च रामं सुभद्राञ्च विष्णुसायुज्यमाप्नुयात् ॥
दिवा तद्दर्शनं पुण्यं रात्रौ दशगुणं भवेत् ।
यत्किञ्चित् कुरुते कर्म्म कोटिकोटिगुणं भवेत् ॥
सर्व्वं मेरुसमं दानं सर्व्वे व्याससमा द्बिजाः ।
महावेद्यां गते कृष्णे योगोऽयं खलु दुर्लभः ॥
अर्द्धोदयादयो योगाः स्कन्देन परिभाषिताः ।
महावेद्याख्ययोगस्य कलां नार्हन्ति षोडशीम् ॥
अष्टाहे च पुनः कृत्वा दक्षिणाभिमुखान्रथान् ।
दक्षिणाभिमुखी यात्रा विष्णोरेषा प्रकीर्त्तिता ॥
कार्य्या प्रयत्नतः सा हि भुक्तिमुक्तिप्रदा भवेत् ।
दक्षिणाभिमुखं यान्तं कृष्णं पश्यति ये नराः ॥
न तेषां पुनरावृत्तिः सत्यमेतन्न संशयः ।
पुराविदो वदन्त्येतां यात्रां नवदिनात्मिकाम् ॥
तस्याः संकीर्त्तनादेव निर्म्मलो जायते नरः ।
तावतीयं महायात्रा यो यथा कर्त्तुमिच्छति ॥
सोऽपि विष्णुप्रभावेन वैकुण्ठभवनं व्रजेत् ।
उद्धृत्य सप्तपुरुषान् पापाबलिसमन्वितान् ॥” ४ ॥
अथ शयनयात्रा । स्कान्दे ।
“आषाढे शुक्लद्वादश्यां कुर्य्यात् स्वापमहोत्सवम् ।
मण्डले रचयेत्तत्र शयनागारमुत्तमम् ॥
देवस्य पुरतः शय्यां रत्नादिनिर्म्मितोपरि ।
आस्तीर्य्य मृदुचेलादि मृदुचीनोत्तरच्छदाम् ॥
कर्पूरधूलिविक्षिप्तां साधुचन्द्रातपां शुभाम् ।
पुष्पगन्धयुतां मुक्तारञ्जितां चन्दनाङ्किताम् ॥
साधुद्वारां शुभां स्निग्धां नानाचित्रोपशोभिताम् ।
एवं स्वापगृहं कृत्वा निशीथे स्वापयेद्बिभुम् ॥
संपूज्य भावयेदैक्यं तेषां कृष्णादिभिः सह ।
एह्येहीति च संप्रार्थ्य स्वापार्थं परमेश्वरम् ॥
नयेच्छय्यागृहद्वारं वासयेत् घटिकात्रयम् ।
पञ्चामृतैः स्नापयेत्तान् पृथक्पलशताधिकैः ॥
सुगन्धिचन्दनैर्लिप्तान् वस्त्रालङ्करणादिभिः ।
पूजयित्वा यथान्यायं प्राञ्जलिर्मन्त्रमुच्चरेत् ॥”
जगद्वन्द्य इत्यादि ।
“सुदृढं कारयेद्द्वारं विष्णोः शयनवेश्मनः ।
स्वापयित्वा जगन्नाथं लभते सुखमुत्तमम् ॥” ५ ॥
अथ पार्श्वपरिवर्त्तनयात्रा ।
“अथ ते संप्रवक्ष्यामि पार्श्वस्य परिवर्त्तनम् ।
नभस्यविमले पक्षे संप्राप्ते हरिवासरे ॥
विष्णोः स्वापगृहद्बारं शनैर्गत्वा प्रविश्य च ।
नमस्कृत्य जगन्नाथं पर्य्यङ्कशयितं मुदा ॥
अवघाट्य शनैर्द्बारं पूजयेदुपचारकैः ।
प्रणम्य भक्त्या तत्पादौ स्वापयेदुत्तरामुखम् ॥”
मन्त्रञ्चेमं पठेत् ।
“ॐ देवदेव ! जगन्नाथ ! कल्याणं परिकल्पय ।
परिवृत्तमिदं सर्व्वं यथा स्थावरजङ्गमम् ॥
यत् दृष्ट्वा चेष्टितैरेव जाग्रत्स्वप्नसुषुप्तिभिः ।
जगद्धिताय सुप्तोऽसि पार्श्वेन परिवर्त्तय ॥
परिवर्त्तनकालोऽयं जगतः पालनाय ते ।
त्वदग्रजोऽयं शक्रोऽपि ध्वजे तिष्ठेत् समुत्सुकः ।
दृष्टं त्वत्पादकमलं विमुञ्च मूर्द्ध्नि तज्जलम् ।
महीं जलं प्लावयति प्रजापालनहेतुकम् ॥
इति संप्रार्थ्य देवेशं विनयात्तोषयेत्ततः ।
व्यजनैश्चामरैश्चैव वीजयेत् परमेश्वरम् ॥
सुगन्धिचन्दनैरस्य सर्व्वाङ्गं परिलेपयेत् ।
स्वादूनि भक्ष्यद्रव्याणि पायसादीनि दापयेत् ॥
शय्यागृहद्बारि विभोः शनैर्भक्त्या निवेदयेत् ।
देवमुद्दिश्य यत् कुर्य्यात् सर्व्वमक्षयतां व्रजेत् ॥
पार्श्वे च जन्मदिवसे उपवासपरो भवेत् ॥”
एवं आश्विनशुक्लैकादश्यां पूर्व्वोक्तविधानेन
श्रीकृष्णस्य वामपार्श्वपरिवर्त्तनं कार्य्यम् ॥
मतान्तरे ।
“शुभे चैवाश्विने मासि महामायां प्रपूजयेत् ।
सौवर्णीं राजतीं मार्त्तीं विष्णुमायां महेश्वरीम् ।
हिंसा चैव न कर्त्तव्या कदाचिद्बिष्णुपूजकैः ॥” ६ ॥
अथोत्थानयात्रा ।
“एकादश्यान्तु कार्त्तिक्यां शुक्लायां पृथिवीपते ।
कृष्णमुत्थापयेद्भक्त्या पूजयित्वा जगद्गुरुम् ।
पूर्ब्बवत् पूजयित्वा तु प्रातर्मन्त्रं समुच्चरेत् ॥”
मन्त्रस्तु ।
“ॐ उत्तिष्ठ देवदेवेश ! तेजोराशे जगत्पते ! ।
वीक्ष्यैतत् सकलं देव ! प्रसुप्तं तव मायया ॥
प्रफुल्लपुण्डरीकाक्ष ! श्रीहरे ! शयनेन वै ।
त्वया दृष्टं जगदिदं परमं सुखमेष्यति ॥
ये ते स्मार्त्ताः क्रियाः सर्व्वाः प्रवर्त्तन्ते ततो ध्रुवम् ।
इत्युत्थाप्य जगन्नाथं वेणुवीणादिनिःस्वनैः ॥
जयशब्दैस्तथा देवं नयेयुर्नृत्यमण्डपम् ॥
तैलेनाभ्यज्य तोयेन स्नापयेत् पूरुषोत्तमम् ।
पञ्चामृतैर्नारिकेलरसैः फलरसैस्तथा ॥
सुगन्धामलकेनाथ यवकल्केन लेपयेत् ।
घर्षयेत्तुलसीचूर्णैर्लेपयेद्गन्धचन्दनैः ॥
पुष्पवासिततोयैश्च कुशरत्नोदकैस्तथा ।
स्नापयित्वा क्षयेत् पापं बहुजन्मोपपादितम् ॥
महोपचारैः संपूज्य विष्णुं नीराजयेत्ततः ।
कृताञ्जलिपुटो भूत्वा प्रार्थयेत् परया मुदा ॥” ७ ॥
अथ प्रावरणयात्रा ।
“मार्गशीर्षे सिते पक्षे कुर्य्यात् प्रावरणोत्सवम् ।
कृत्वा दृष्ट्वा नरो भक्त्या वैष्णवं लोकमाप्नुयात् ॥
वासोऽधिवासं कुर्व्वीत पञ्चम्यां निशि कर्म्म-
वित् ।
प्रभाते मण्डलं कुर्य्यात् पद्ममष्टदलान्वितम् ॥
दिक्पालान् पूजयेद्दिक्षु क्षेत्रपालं गणाधिपम् ।
चण्डप्रचण्डौ च बहिश्चतुर्द्दिक्षु प्रपूजयेत् ॥
तन्मध्ये स्थापयेद्यन्त्रं क्षालयेदुष्णवारिणा ।
पूजयित्वा जगन्नाथं गन्धतैलेन दीपकम् ॥
दत्त्वा कृष्णाय भक्त्या तु गीतवाद्यैर्नयेन्निशाम् ।
प्रातः प्रपूजयेद्देयं नानाद्रव्यैः सुशोभनैः ॥
सप्तभिः सप्तभिर्द्देवान् वासोभिः परिवेष्टयेत् ।
मुखवर्जञ्च सर्व्वाङ्गे शीतप्रावरणैर्द्बिजाः ॥
दूर्व्वाक्षतैः प्रपूज्याथ कुर्य्यान्नीराजनां विभोः ।
भगवन्तं समुद्दिश्य ब्राह्मणेभ्यः प्रदापयेत् ॥
गुरुभ्यश्चान्यदेवेभ्यो दीनानाथेभ्य एव च ।
शीतप्रावरणं दद्यात् स्रकृत् परमया मुदा ॥
ददाति भगवान् प्रीतस्तस्मै वरमनुत्तमम् ॥” ८ ॥
अथ पुष्यस्नानयात्रा ।
“पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा ।
पुष्यर्क्षेण च संयुक्ता पौर्णमासी यदा भवेत् ।
पौषे मासि तु तत् कुर्य्यात् पुष्यस्नानोत्सवं हरेः ॥
चतुर्द्दशीनिशायान्तु कुम्भानामधिवासनम् ।
रात्रौ जागरणं कृत्वा प्रातर्वह्निं प्रकीरयेत् ॥
ब्रह्मविष्णुशिवेभ्यश्च प्रत्येकं समिधं क्रमात् ।
जुहुयात् पूजयित्वा तु तदन्ते पुरुषोत्तमम् ॥
पूजयेदुपचारैस्तु आदर्शे प्रतिविम्बितम् ।
ततः पुरुषसूक्तेन कुम्भांस्तानभिमन्त्रयेत् ।
क्रमात् देवस्य शिरसि स्नापयेद्विधिवत्ततः ॥”
सूक्तमुच्चरन् ।
“ततः पञ्चामृतेनैव वासुदेवञ्च क्षालयेत् ।
लक्ष्म्या युक्तं पुनविप्र उपचारैः प्रपूजयेत् ॥
दूर्व्वाङ्कुराद्यैः स्तुतिभिर्वाद्यैः संपूज्य केशवम् ।
समन्ताद्विकिरेदेवं कर्पूराद्यैः सुतण्डुलान् ॥
नीराजयेज्जगन्नाथं कर्पूरयुतवर्त्तिभिः ।
ततः प्रदक्षिणं कृत्वा दण्डवत् प्रणमेत् क्षितौ ॥
पुष्यस्नानोत्सवं पुण्यं ये पश्यन्ति मुदान्विताः ।
सर्व्वसम्पन्नकामास्ते व्रजेयुर्व्वैष्णवं पदम् ॥” ९ ॥
अथ नवशस्ययात्रा ।
“कुर्य्यादयनसंक्रान्त्यां नवशस्यमहोत्सवम् ।
संक्रान्तेः पूर्व्वदिवसे नवं शालिं सुकुट्टिमम् ।
प्रासादपूर्ब्बदेशे तु स्थापयित्वाधिवासयेत् ॥”
पृष्ठ ४/०३८
तथा च पाद्मे ।
“संक्रान्त्यां माघमासस्य साधिवासिततण्डुलान् ।
निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत् ॥
त्वयि तुष्टे जगत् सर्व्वमन्नेन प्रभविष्यति ।
रक्ष सर्व्वं जगन्नाथ ! गृह्यतां पिष्टकं शुभम् ॥
ब्राह्मणान् भोजयेत् भक्त्या देवदेवपुरःस्थितान् ॥”
अभ्यर्च्च्य भगवद्भक्तानित्यादि ॥
“नवेन वाससावेष्ट्य दूर्व्वासर्षपपुष्पकैः ।
पूजयित्वाभिमन्त्रेण कृष्णस्त्वामभिरक्षतु ॥
पुनः प्रभाते देवेशं प्रलिपेद्गन्धचन्दनैः ।
वस्त्रालङ्कारमाल्यैश्च पूजयित्वा यथाविधि ॥
नीराजयित्वा देवेशं तण्डुलानधिवासितान् ।
स्थालीषु पाकपात्रेषु मधुखण्डाज्यमिश्रितान् ॥
पङ्क्तिशः स्थापयेदग्रे गन्धपुष्पाक्षतान्वितान् ।
सपूपं पायसं कृत्वा दद्याद्वै चक्रपाणये ।
दशवर्णकपिष्टञ्च विष्णोः प्रियतरं परम् ॥
ॐ जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! ।
तन्मयाः शालिनो ह्येते त्वयैव जनिताः प्रभो ! ॥
लोकानुग्रहणार्थाय गृहीत्वा चित्रविग्रहम् ।
तव प्रीत्यै कृतानेतान् गृहाण परमेश्वर ! ॥
त्वयि तुष्टे जगत् सर्व्वमनेन प्रभविष्यति ।
स्वाहाकारस्वधाकारवषट्कारा दिवौकसाम् ॥
आप्यायना भविष्यन्ति तेनैवाप्यायितं जगत् ।
रक्ष सर्व्वं जगन्नाथ ! तन्मयं सचराचरम् ॥
इति संप्रार्थ्य देवेशं शालींस्तान् विनिवेदयेत् ॥” १० ॥
अथ दोलयात्रा ।
“फाल्गुने मासि कुर्व्वीत दोलारोहणमुत्तमम् ।
यत्र क्रीडति गोविन्दो लोकानुग्रहणाय वै ॥
प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत् ।
फल्गूत्सवं प्रकुर्व्वीत पञ्चाहानि त्र्यहानि वा ॥
फाल्गुन्याः पूर्ब्बतो विप्राश्चतुर्द्दश्यां निशामुखे ।
वह्न्यत्सवं प्रकुर्व्वीत दोलमण्डपपूर्ब्बतः ॥”
पाद्मे ।
“पौर्णमास्यां समारभ्य पञ्चम्याञ्च समाप-
येत् ॥” ११ ॥
अथ मदनभञ्जिका यात्रा ।
“वासन्तिकां समाख्यास्ये यात्रां मदनभञ्जि-
काम् ।
यस्यां कृतायां दृष्टायां प्रीणाति पुरुषोत्तमः ॥
चैत्रशुक्लत्रयोदश्यामाहरेत्तत् समूलकम् ।
देवस्याग्रे विरचिते मण्डपे साधिवासिते ॥” १२ ॥
इति यात्रातत्त्वम् ॥
देव्याः षोडशप्रकारोत्सवः । यथा, --
“वैशाखे मञ्चयात्रा च चन्दनागुरुकल्पना ।
ज्यैष्ठे महास्नानयात्रा अम्बुवाचीदिनत्रयम् ॥
आषाढे रथयात्रा च दिग्दिनव्यापिनी परा ।
श्रावणे जलयात्रा च वस्त्रभूषणचामरैः ॥
भाद्रे यात्रा धूननाख्या चण्डिकाया दिनत्रयम् ।
आश्विने च महापूजा यात्रा यज्ञवलिप्रिया ॥
कार्त्तिके दोपयात्रा च नवान्नमग्रहायणे ।
पौषे चाङ्गरागयात्रा वस्त्रालङ्कारभूषणैः ॥
माथे मासि महादेवी रटन्ती च चतुर्द्दशी ।
दोलाकेलिः फाल्गुने च चैत्रे यात्रा चतुष्टयी ।
दूतीयात्रा रासयात्रा वासन्ती नीलयात्रिका ।
एवं यात्रा मया प्रोक्ता षोडशी भवमोचनी ॥”
इति वामकेश्वरतन्त्रे ५४ पटलः ॥
(रोगिदर्शनार्थं भिषजां यात्राविवरणम् । यथा,
“इदानीं निर्गमे पुत्त्र ! प्रवेशे वा गृहस्य च ।
शुभाशुभाणि सर्व्वाणि वक्ष्यामि शकुनानि च ॥
राजा गजो द्विजमयूरकखञ्जरीटा-
श्चाषः शकुन्तरजकः सितवस्त्रयुक्तः ।
पुत्त्रान्विता च युवती गणिका च कन्या
श्रेयः सुखाय यशसां प्रतिदर्शयन्ति ॥
नटाश्चाषो भासहारीतचक्रो
भारद्वाजोच्छिक्करश्छागसंज्ञः ।
एते श्रेष्ठा दक्षिणे वाथ सव्ये
वैद्यावेशो निर्गमे श्रेयसे च ॥
सर्पोलूको वानरः शूकरश्च
गोधा ऋक्षः कृकलाशः शशश्च ।
एते रिष्टानिर्गमे वा प्रवेशे
कार्य्याघातो नोपकारेषु शस्ताः ॥
मृगो वा पिङ्गलो वापि प्रशस्ता दक्षिणे सदा ।
निर्गमे वा प्रवेशे च दक्षिणाः शुभदायकाः ॥
एको वा त्रीणि वा पञ्च सप्त वा नवसंख्यया ।
भाग्यकाले नराणान्तु मृगा यान्ति प्रदक्षिणाः ॥
शिखिहयगजगोधारासभो भृङ्गराजो
मुखरपिककपोतो पोतकी शूकरी वा ।
तदनुविहगराजो मङ्गलाशंसिनः स्यु-
र्वदति शकुनवेत्ता वामतो निर्गमे वः ॥
तित्तिरिः कुररः क्रौञ्चः सारसाभासशूकरः ।
वामे तु शुभशंसी च निर्गमे कार्य्यसिद्धये ॥
काको दक्षिणतः श्रेष्ठो निर्गमे शुभदायकः ।
प्रवेशे गदितः श्रेष्ठो वामतः कृष्णवायसः ॥
जालको हि शशकोऽपि कर्कटो-
कीर्त्तनञ्च गदितं न सुखाय ।
न शुभदर्शना अमी भवेयुः
सर्पगोधाकृकलाशविडालाः ॥
दर्शनं हितकरं प्रवदन्ति
खञ्जरीटमरालछिक्कराणाम् ।
वामतः शुभकराः प्रवदन्ति
दार्व्वाघाटवराटकशुकश्च ॥
इति शुभाशुभशकुनानि ॥”
इति हारीते द्वितीयस्थाने सप्तमेऽध्याये ॥ * ॥
तथा च ।
“शवकाष्ठपलाशानां शुष्कानां पथि सङ्गमाः ।
नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ॥
मृदुशीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः ।
खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ।
ग्रन्थ्यर्व्वुदादिषु सदा छेदशब्दश्च पूजितः ।
विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ॥
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते ।
एवं व्याधिविशेषेण निमित्तमुपधारयेत् ॥
तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः ।
छर्द्द्यां वातपुरीषाणां शब्दो वै गर्द्दभोष्ट्रयोः ॥
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् ।
दौर्म्मनस्यञ्च वैद्यस्य यात्रायां न प्रशस्यते ॥”
इति सुश्रुते सूत्रस्थाने २९ अध्यायः ॥)

यादईशः, पुं, (यादसां जलानां जलजन्तूनां वा

ईशः ।) समुद्रः । इति हेमचन्द्रः । ४ । १३९ ॥

यादः, [स्] क्ली, (यान्ति वेगेनेति । या + असुन् ।

बाहुलकात् दागमश्च ।) जलजन्तुः । इत्यमरः ।
१ । १० । २० ॥ (यथा, भगवद्गीतायाम् । १० । २९ ।
“अनन्तश्चास्मि नागानां वरुणो यादसा-
महम् ॥”
जलम् । इति निघण्टुः । १ । १२ ॥)

यादःपतिः, पुं, (यादसां पतिः ।) समुद्रः । इत्य-

मरः । १ । १९ । २० ॥ वरुणः । इत्यजयपालः ॥

यादवः, पुं, (यदोरपत्यम् । यदु + अण् ।)

श्रीकृष्णः । इति शब्दरत्नावली ॥ (यथा, भग-
वद्गीतायाम् । ११ । ४१ ।
“सखेति मत्वा प्रसभं यदृक्तं
हे कृष्ण ! हे यादव ! हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि ॥”)
ययातेर्ज्येष्ठपुत्त्रो यदुस्तस्य वंशः । यथा, --
“ययातेर्ज्येष्ठपुत्त्रस्य यदोर्वंशं नरर्षभ ! ।”
इत्युपक्रम्य ।
“माधवा वृष्णयो राजन् यादवाश्चेतिसंज्ञितम् ॥”
इति श्रीभागवते ९ स्कन्धे २३ अध्यायः ॥
(यदुसम्बन्धिनि, त्रि । यथा, भागवते । ११ । १ । ३ ।
“मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं
यद्यादवं कुलमहो अविसह्यमास्ते ॥”)

यादवी, स्त्री, (यदोरियमिति । यदु + अण् । ङीप् ।)

दुर्गा । इति त्रिकाण्डशेषः ॥ (यदुवंशीयस्त्री-
सामान्ये । यथा, महाभारते । १ । ९५ । १३ ।
“प्राचीन्वान् खल्वश्मकीमुपयेमे यादवीं तस्या-
मस्य जज्ञे संयातिः ॥”)

यादसांनाथः, पुं, (यादसां जलजन्तूनां नाथः ।

षष्ठ्या अलुक् ।) वरुणः । इति हलायुधः ॥

यादसांपतिः, पुं, (यादसां जलजन्तूनां पतिः ।

षष्ठ्या अलुक् ।) समुद्रः । इत्यमरः । १ । १ । ६४ ॥
वरुणः । इति मेदिनी । ते, २३२ ॥ (यथा,
देवीभागवते । ३ । ९ । ३५ ।
“अश्विनौ वसवस्त्वष्टा कुवेरो यादसांपतिः ॥”
क्वचित् विशेषणमपि । यथा, मार्कण्डेये । २२ । ११ ।
“यावदन्तर्जले देवं वरुणं यादसांपतिम् ॥”)

यादृक्, [श्] त्रि, (य इव दृश्यते । दृश् + “त्यदा-

दिषु दृशोऽनालोचने कञ्च् ।” ३ । २ । ६० । इति
चकारात् क्विन् । “आ सर्व्वनाम्नः ।” ६ । ३ । ९१ ।
इत्याकारादेशः ।) य इव दृश्यते सः । इति
मुग्धबोधव्याकरणम् ॥ येमन इति भाषा ।
(यथा, भागवते । ४ । २९ । ६४ ।
“नानुभूतं क्वचानेन देहेनादृष्टमश्रुतम् ।
कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥”)

यादृक्षः, त्रि, (य इव दृश्यते यमिव पश्यति वा ।

दृश् + “दृशेः क्सश्च वक्तव्यः ।” ३ । २ । ६० । इति
पृष्ठ ४/०३९
वार्त्तिकोक्तेः क्सः । “आसर्व्वनाम्नः ।” ६ । ३ । ९१ ।
इत्यत्र “दृक्षे चेति वक्तव्यम् ।” इत्यात्वम् ।)
य इव दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥
येमन इति भाषा ॥

यादृशः, त्रि, (य इव दृश्यते । दृश् + “त्यदादिषु

दृशः इति ।” ३ । २ । ६० । इति कञ् । “आसर्व्व-
नाम्नः ।” ६ । ३ । ९१ । इत्याकारादेशः ।) य इव
दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥ येमन
इति भाषा । (यथा, मनुः । ४ । २५४ ।
“यादृशोऽस्य भवेदात्मा यादृशञ्च चिकीर्षितम् ।
यथा चोपचरेदेनं तथात्मानं निवेदयेत् ॥”
स्त्रियां यादृशी ॥)

यादोनाथः, पुं, (यादसां नाथः ।) समुद्रः ।

इति राजनिर्घण्टः ॥ (वरुणः । इति यादसां-
नाथशब्ददर्शनात् ॥)

यादोनिवासः, पुं, (यादसां निवासः ।) जलम् ।

इति हेमचन्द्रः । ४ । १३५ ॥

यानं, क्ली, (या + ल्युट् । अर्द्धर्च्चादित्वात् पुंलिङ्ग-

मपि ।) राज्ञां सन्ध्यादिषड्गुणान्तर्गतगुण-
विशेषः । तत्तु उपचितशक्तेः कृतमूलराष्ट्र-
रक्षस्य शत्रोरास्कन्दनाय यात्रा । इति भरतः ॥
(यथा, देवीभागवते । ५ । ४ । ११ ।
“यानमप्यधुना नैव कर्त्तव्यं सहसा पुनः ॥”
यान्त्यनेनेति । या + ल्युट् ।) हस्त्यश्वरथदोलादि ।
तत्पर्य्यायः । वाहनम् २ युग्यम् ३ पत्रम् ४ धोर-
णम् ५ । इत्यमरः । २ । ८ । ५८ ॥ विमानम् ६ चङ्कु-
रम् ७ यापनम् ८ गतिमित्रकम् ९ । इति शब्द-
रत्नावली ॥ * ॥ (यथा, मनुः । ३ । ६४-६५ ।
“शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥
अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम् ।
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥”)
अथ चतुष्पदयानीद्देशः ।
“ये ब्रह्मजात्यादिविभेदतोऽमी
मया निरुक्ता इह वाजिमुख्याः ।
दिशानया सर्व्वचतुष्पदानां
भेदो विधेयो विदुषादरेण ॥
तथा यथाश्वादिकपोषणेन
यानेन वा दोषगुणौ भवेताम् ।
तथा तथैवान्यचतुष्पदानां
प्रकीर्त्तितौ दोषगुणौ बुधेन ॥
वरमयानमपोषणमेव वा
वरमिवान्यशरीरमपोषणम् ।
न खलु दोषयुतं च चतुष्पदं
स्तृशति पश्यति शोभनचेतनः ॥
सुराविन्दुर्दूषयति पयोघटशतं यथा ।
तथा सर्व्वं दूषयति दोषदुष्टश्चतुष्पदः ॥”
इति चतुष्पदयानोद्देशः ॥ * ॥
अथ द्बिपदयानोद्देशः ।
“मानुषैः पक्षिभिर्व्वापि तथान्यैर्द्विपदैरपि ।
यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥
सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥”
तत्र सामान्यं यथा, --
“यानं यद्द्विपदाभ्यां सत् तद्दोलादिकमुच्यते ।
चतुर्भिर्युक्तिसंयुक्तैर्दण्डधातुगुणाम्बरैः ।
दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥”
तत्र समयः ।
“उपेन्द्रमूलाहिशिवाग्निवर्जं
शस्तेन्दुतारातिथियोगलग्ने ।
वृष्टिक्षमापुत्त्रयमाहवर्जं
दोलादिकारोहणमाद्यमिष्टम् ॥
दण्डकाष्ठस्य नियमे नियमश्छत्रदण्डवत् ।
कनकं रजतं ताम्रं लौहं धातुचतुष्टयम् ॥
चतुर्विधानामुद्दिष्टं ब्रह्मादीनां यथाक्रमम् ।
सुराणामसुराणाञ्च चातुर्व्वर्ण्यमुदाहृतम् ॥
त्रिहस्तसम्मितो मध्ये तदर्द्धं पार्श्वयोर्द्वयोः ।
विजया नाम दोलेयं विजयाय महीक्षिताम् ॥
विजया मङ्गला क्रूरा शिवा क्लेशा शुभा क्रमात् ।
वितस्त्येकैकसंवृद्ध्या दोलाः षट् स्युः सुखान्नदाः ॥
कुम्भश्च पद्मकोषश्च शङ्खः पर्व्वत एव च ।
चतुर्विधानां दोलासु कल्याणाय चतुष्टयम् ॥
हंसः केकी शुको भृङ्गश्चतुष्टयमिदं क्रमात् ।
कुम्भाद्यग्रे निधातव्यं चतुर्विधमहीक्षिताम् ॥
अत्रापि वर्त्मविन्यासो विज्ञेयो नवदण्डवत् ॥”
भोजस्तु ।
“गजः प्रस्थानदोलायां रणदोलासु केशरी ।
मृगो भ्रमणदोलायां क्रीडादोलासु षट्पदः ॥
भुजङ्गमः शत्रुराज्ये वृषभो दानकर्म्मणि ।
दोलोपर्य्युपरि न्यस्यो बहुभिर्मुनिशासनम् ॥
यद्वक्रदण्डं यानं स्यात् तत् पर्य्यङ्कमिति स्मृतम् ।
त्रिहस्तसम्मितो यानस्तदर्द्धपरिणाहवान् ।
पर्य्यङ्कः क्षेमनामायं भर्त्तुः सर्व्वार्थसाधकः ॥
क्षेमो मृत्युर्जयो दुःखश्चत्वारस्ते यथाक्रमम् ।
वितस्त्येकैकसंवृद्ध्या यथा चाणुर्न सङ्गिनः ॥
मणिधातुगुणादीनां नियमः पूर्ब्बवन्मतः ।
विशेषमथ वक्ष्यामि पर्य्यङ्कस्य यथाक्रमम् ॥
शुक्तिश्च गजदन्तश्च मृगशृङ्गन्तथैव च ।
अनूपादिकजातानां पर्य्यङ्केषु न्यसेत् क्रमात् ॥
पद्मशङ्खगजाश्वालिहंसकोकशुकान् क्रमात् ।
आदित्यादिदशाजानां मणिरूपेण विन्यसेत् ॥
महीन्द्राणां विशेषेण सिंहमानेव शस्यते ।
निर्म्माणे शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः ॥
तदेवावक्रदण्डन्तु खट्टायानमिति स्मृतम् ।
अस्यापि पूर्ब्बवन्मानमणिधात्वादिनिर्णयः ॥
विशेषश्चरणोच्छ्रायः परिणाहार्द्धसम्मितः ।
तदेव चेन्निश्चरणं पीठयानमिति स्मृतम् ॥
तस्य भेदो द्विधा दण्डवक्रावक्रप्रभेदतः ।
मानादिकं पूर्ब्बतुल्यं विशेषाच्चतुरस्रता ॥
एवमन्यानि मिश्राणि यानानि विविधानि च ।
सामान्याख्यानि जानीयात् शिल्पिभिर्निर्म्मि-
तानि वै ॥
मनोहरत्वं लघुता दृढतेति गुणत्रयम् ।
प्रोक्तं द्बिपदयानानां सहजं भोजभूभुजा ॥
इति सामान्यद्विपदयानकथनम् ॥”
इति युत्तिकल्पतरुः ॥ * ॥ विशेषद्विपदयानन्तु
चतुर्दालशब्दे निष्पदयानोद्देशस्तु नौकाशब्दे
द्रष्टव्यम् ॥ (फलप्राप्तिहेतौ, त्रि । यथा, ऋग्वेदे ।
१० । ११० । २ ।
“तनूनपात् पथ ऋतस्य यानान्
मध्वा समञ्जन् स्वदयासुजिह्व ॥”
“यानान् फलप्राप्तिहेतून् पथो मार्गान् ।” इति
तद्भाष्ये सायणः ॥ या + भावे ल्युट् । गतिः ।
यथा, वाभटे शारीरस्थाने षष्ठेऽध्याये ।
“यानं खरोष्ट्रमार्ज्जारकपिशार्द्दलशूकरैः ।
यस्य प्रतैः शृगालैर्वा स मृत्योर्वर्त्तते मुखे ॥”)

यानपात्रं, क्ली, (यानसाधनं पात्रम् । शाकपार्थिव-

वत् समासः ।) निष्पदयानविशेषः । जाहाज
इति भाषा ॥ तत्पर्य्यायः । वहित्रकम् २
वोहित्थम् ३ वहनम् ४ पोतः ५ । इति
हेमचन्द्रः । ३ । ५३९ ॥ समुद्रयानम् ६ । इति
वराहपुराणम् ॥ (यथा, हरिवंशे । १४५ । ६३ ।
“समुच्छ्रितैः सितै पोतैः यानपात्रैस्तथैव च ।
नौभिश्च झिल्लिकाभिञ्च शुशुभे वरुणालयः ॥”)

यानमुखं, क्ली, (यानस्य मुखम् पुरोभागः ।)

रथादेः पुरोभागः । तत्पर्य्यायः । धूः २ ।
इत्यमरः । २ । ८ । ५५ ॥

यापनं, क्ली, (या + णिच् + ल्युट् ।) वर्त्तनम् ।

कालक्षेपणम् ॥ (मथा, कामन्दकीये । १७ । ३१ ।
“पूर्ब्बसेनापतिर्नीचः कालयापनमाश्रितः ॥”)
निरशनम् । इति मेदिनी । ने, ११२ ॥ (यापय-
तीति । या + णिच् + ल्युः । प्रापके, त्रि । यथा,
भागवते । ३ । २२ । ३३ ।
“अयातयामास्तस्यासन् यामाः स्वान्तर-
यापनाः ॥”)

याप्ता, स्त्री, जटा । इति भूरिप्रयोगः ॥

याप्यः, त्रि, (यापि + यत् ।) अधमः । निन्दितः ।

इत्यमरः । ३ । १ । ५४ ॥ (यथा, बृहत्संहितायाम् ।
१९ । २२ ।
“यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
शुभफलमपि चैवं याप्यमन्योऽन्यतायाम् ॥”)
यापनीयः । (यथा, सुश्रुते निदानस्ताने प्रथमे
अध्याये ।
“शोणितं तदसाध्यं स्यात् याप्यं संवत्सरोत्थि-
तम् ॥”)
क्षेपणीयकालादिः । इति मेदिनी । ये, ४८ ॥
व्याधिविशेषः । यथा, --
“साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः
स्मृताः ।
सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते ॥
याप्यलक्षणमाह ।
यापनीयन्तु तं विद्यात् क्रियां धारयते हिताम् ।
क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति ॥
प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम् ।
प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः ॥
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा ।
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥
पृष्ठ ४/०४०
अक्रियावतां चिकित्सारहितानाम् ।” इति
भावप्रकाशः ॥

याप्ययानं, क्ली, (याप्यं अधमं यानम् ।) शिविका ।

इत्यमरः । २ । ८ । ५३ ॥

याभः, पुं, (यभ्यते इति । यभ + घञ् ।) मैथु-

नम् । यथा । वृषाश्वयोर्याभेऽर्थे सन् । इति
लिधुपादे वोपदेवः । ८४६ ॥ (यथा, भागवते ।
९ । १९ । ६ ।
“पीबानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् ।
स एकोऽजवृषस्तासां वह्वीनां रतिवर्द्धकः ।
रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥”)

यामः, पुं, (याति यायते वा । या + “अर्त्तिस्तु-

सुहुमृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ।”
उणा० १ । १४० । इति मन् । यम् + घञ् वा ।)
दिवारात्र्योश्चतुर्थभागैकभागः । तत्पर्य्यायः ।
प्रहरः २ । इत्यमरः । १ । ४ । ६ ॥ (यथा, मनौ ।
७ । १४५ ।
“उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर्ब्राह्मणांश्चार्च्च्य प्रविशेत् स शुभां
सभाम् ॥”)
संयमः । इति मेदिनी । मे, २४ ॥ (गमनम् ।
यथा, ऋग्वेदे । १ । ४८ । ४ ।
“उषो ये ते प्र यामेषु युञ्जते ।”
“यामेषु गमनेषु ।” इति तद्भाष्पे सायणः ॥ गमन-
साधनः । यथा, ऋग्वेदे । ४ । ५१ । ४ ।
“कुवित्स देवीः सनयो नवो वा
यामो बभूयादुषसो वो अद्य ॥”
“यामो गमनसाधनः स रथः ।” इति सायणः ॥
देवगणभेदः । यथा, मार्कण्डेयपुराणे । १५ । १८ ।
“यज्ञस्य दक्षिणायान्तु पुत्त्रा द्बादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे ॥”)

यामघोषः, पुं, (यामे प्रतियामे घोषः रवोऽस्य ।

प्रतिप्रहरं रवकरणादेवास्य तथात्वम् ।)
कुक्कटः । इति शब्दमाला ॥

यामघोषा, स्त्री, (यामे यामे घोषोऽस्याः । यामान्

प्रहरान् घोषति शब्दायत इति वा । घुष् +
अच् । टाप् ।) यन्त्रविशेषः । घडी इति भाषा ।
तत्पयार्य्यः । नाली २ घटी ३ यामनाली ४
यमेरुका ५ दण्डढक्का ६ । इति त्रिकाण्डशेषः ॥

यामनालीः, स्त्री, (यामस्य नालीव ।) याम-

घोषा । इति त्रिकाण्डशेषः ॥

यामनेमिः, पुं, इन्द्रः । इति त्रिकाण्डशेषः ॥

यामलं, क्ली, युगलम् । इति हेमचन्द्रः । ६ । ६० ॥

तन्त्रशास्त्रविशेषः । तस्य लक्षणं यथा, --
“सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम् ।
क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च ।
युगधर्म्मश्च संख्यान्तो यामलस्याष्टलक्षणम् ॥”
तत्तु षड्विधम् । आदियामलम् १ ब्रह्म-
यामलम् २ विष्णुयामलम् ३ रुद्रयामलम् ४
गणेशयामलम् ५ आदित्ययामलम् ६ । इति
वाराहीतन्त्रम् ॥ एषां श्लोकसंख्या तन्त्रशब्दे
द्रष्टव्या ॥

यामवती, स्त्री, (यामः प्रहरः अस्त्यस्यामिति ॥

याम + मतुप् । पस्य व ङीष् ।) रात्रिः । इति
राजनिर्घण्टः ॥

यामाता, [ऋ] पुं, (जामाता पृषोदरादित्वात् ।

जस्य यः ।) जामाता । दुहितुः पतिः । इत्य-
मरटीका शब्दरत्नावली च ॥ यामातुर्विष्णु-
तुल्यत्वं तस्य गृहे कन्यादातुर्दौहित्रजननात्
प्राक् भोजननिषेधश्च यथा, कामधेनावादित्य-
पुराणम् ।
“विष्णुं यामातरं मन्ये तस्य मन्युं न कारयेत् ।
अप्रजायान्तु कन्यायां नाश्नीयात्तस्य वै गृहे ॥”
इत्युद्वाहतत्त्वम् ॥

यामार्द्धं, क्ली, (यामस्यार्द्धम् ।) प्रहरस्यार्द्धम् ।

तस्याधिपा यथा, --
“वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च षट्क्रमात् ।
अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति हि ॥
रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि ।
रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः ॥
दिने तूह्याः परेष्वेवं तत्राध्यक्षाश्चतुर्ग्रहाः ।
पापदण्डे भवेद्रिष्टिः शुभदण्डे शुभं भवेत् ॥
शुभग्रहस्य दण्डे तु कर्म्मारम्भाच्छुभं भवेत् ।
आरम्भात् पापदण्डे तु कर्म्म निष्फलतां व्रजेत् ॥
यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः ।
षट् षट् परीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा ॥
यामार्द्धाधिपसंख्यातो द्बितीयस्तु तदर्द्धतः ।
तदर्द्धात्तु तृतीयः स्यात्तदर्द्धात्तु तुरीयकः ॥
अङ्काभावे तु राहुः स्यात्तदङ्को वसुसंख्यकः ।
भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा ॥”
इति ज्जोतिषतत्त्वम् ॥

यामिः, स्त्री, (याति कुलात् कुलान्तरमिति ।

या + बाहुलकात् मिः ।) स्वसा । कुलस्त्री ।
इत्यमरः । २ । ३ । १४२ ॥ “स्वसा भगिनी ।
कुलस्त्री कुलबधूः । प्रहरे संयमे यामो यामिः
स्वसृकुलस्त्रियोरित्यन्तःस्थादौ रभसः ॥ जिह्मस्तु
कुटिले निन्द्ये जामिः स्वसृकुलस्त्रियोरिति
चवर्गतृतीयादावजयः इति भरतमुकुटौ ॥ यथा,
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥
इनि स्वामी ॥ जै क्षये बाहुलकान्मिः । यद्वा
जमु अदने बाहुलकादिण् जामिरिति । अन्तः-
स्थादौ या प्रापणे धातुर्बोध्यः ।” इति रामा-
श्रमः ॥ (यथा, मनौ । ४ । १८३ ।
“यामयोऽप्सरसां लोके वैश्वदेवस्य वान्धवाः ॥”)
यामिनी । इति शब्दरत्नावली ॥ धर्म्मस्य पत्नी ।
तस्याः कन्या नागवीथी । यथा, --
“अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती ।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः ।
धर्म्मपत्न्यो दश त्वैतास्तास्वपत्यानि मे शृणु ।
लम्बायाश्चैव घोषोऽसौ नागवीथी तु यामिजा ॥”
इति वह्निपुराणे कश्यपीयप्रजासर्गः ॥

यामिकभटः, पुं, (यामे यामे नियुक्तः । याम +

ठक् । स चासौ भटश्चेति ।) प्रहरिकः । चौकी-
दार इति भाषा । यथा, --
“उन्नादाम्बुदवर्द्धितान्धतमसः प्रभ्रष्टदिङ्मण्डले
काले जाग्रदुदग्रयामिकभटप्रारब्धकोलाहले ।
कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुरा-
दायातासि यदम्बुजाक्षि ! कृतकं मन्ये भयं
योषिताम् ॥”
इति कर्णाटः ॥

यामित्रं, क्ली, लग्नात् सप्तमराशिः । यथा, --

“धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् ।
द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥”
यामित्रवेधो यथा, --
“पापात् सप्तमगः शशी यदि भवेत् पापेन
युक्तोऽथवा
यत्नेनाशु विवर्जयन्मुनिमतो दोषोऽप्ययं कथ्यते ।
यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्भवो-
ऽप्युद्वाहे विधवा व्रते तु मरणं शूलञ्च पुंस्कर्म्मणि ॥
रविमन्दकुजाक्रान्त्रं मृगाङ्कात् सप्तमं त्यजेत् ।
विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥”
इति यामित्रवेधः ॥ * ॥
अस्य प्रतिप्रसवो यथा ।
“मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो
मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा ।
यामित्रवेधविहितानपहृत्य दोषान्
दोषाकरः सुखमनेकविधं विधत्ते ॥”
इति ज्योतिस्तत्त्वम् ॥

यामिनी, स्त्री, (यामाः सन्त्यस्याम् । याम + इनिः ।

ङीप् ।) रात्रिः ॥ (यथा, महाभारते । १२ । ५३ । १ ।
“ततः शयनमाविश्य प्रसुप्तो मधुसूदनः ।
याममात्रार्द्धशेषायां यामिन्यां प्रत्यबुध्यत ॥”)
हरिद्रा । इत्यमरः । १ । ४ । ४ ॥ (कश्यपपत्नी ।
यथा, भागवते । ६ । ६ । २१ ।
“तार्क्षस्य विनता कद्रुः पतङ्गी यामिनीति च ।
पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥”
प्रह्लादस्य द्वितीया तनया । यथा, कथासरित्-
सागरे । ४६ । २२ ।
“प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥”)

यामिनीपतिः, पुं, (यामिन्याः पतिः ।) चन्द्रः ।

इति शब्दरत्नावली ॥ (यथा, भागवते । १० ।
३५ । २५ ।
“यदुपतिर्द्बिजराजविहारो
यामिनीपतिरिवैष दिनान्ते ।
मुदितवक्त्र उपयाति दुरन्तं
मोचयन् व्रजगवां दिनतापम् ॥”)
कर्पूरम् । इत्यमरः ॥

यामी, स्त्री, (यमस्येयम् । यमो देवतास्याः इति

वा । यम + अण् । ङीप् ।) दक्षिणदिक् । इति
राजनिर्घण्टः ॥ (यथा, ज्योतिषे ।
“--याम्यां गुरौ न व्रजेत् ।”
यामि + ङीष् ।) कुलस्त्री । इति शब्दरत्ना-
वली ॥ (यथा, मनौ । ४ । १८० ।
“मातापितृभ्यां यामीभिर्भ्रात्रा पुत्त्रेण भार्य्यया ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥”
पृष्ठ ४/०४१
धर्म्मपत्नी । यथा, विष्णुपुराणे । १ । १५ । १०५ ।
“अरुन्धती वसुर्यामी लम्बा भानुमरुत्वती ।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च
ता दश ॥”)

यामुनं, क्ली, (यमुनायां भवम् । यमुना + अण् ।

यमुनाया इदमित्यण् वा ।) श्रोतोऽञ्जनम् । इत्य-
मरः । २ । ९ । १०० ॥ (अस्य पर्य्यायो यथा, --
“अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि ।
तत्तु श्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पुं, जनपदभेदः । यथा, भागवते । १ । १० । ३४ ।
“कुरुजाङ्गलपाञ्चालान् शूरसेनान् स यामुनान् ।
ब्रह्मावर्त्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥”
पर्व्वतविशेषः । यथा, रामायणे । ४ । ४० । २१ ।
“कालिन्दीं यमुनां रम्यां यामुनञ्च महा-
गिरिम् ।”
तीर्थभेदः । यथा, महाभारते । ३ । ८४ । ४१ ।
“यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् ।
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥”)
यमुनासम्बन्धिनि, त्रि । (यथा, प्रायश्चित्ततत्त्वे ।
“त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।
नार्म्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्य्यति ॥”)

यामुनेष्टकं, क्ली, (यामुनमिवेष्टकम् ।) सीसकम् ।

इति जटाधरः ॥ (विशेषोऽस्य सीसकशब्दे
विज्ञेयः ॥)

यामेयः, पुं, भागिनेयः । यामिः स्वसृकुलस्त्रियो-

रित्यनुशासनात् यामेरपत्यमित्यर्थे ष्णेय-(ढक्)
प्रत्ययनिष्पन्नः ॥ (याम्या धर्म्मपत्न्या अपत्य-
मिति । यामिपुत्त्रः । यथा, भागवते । ६ । ६ । ६ ।
“ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ।
भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत् ॥”)

याम्यः, पुं, (यामी निवासोऽस्य । यामी + यत् ।)

अगस्त्यमुनिः । चन्दनवृक्षः । इति मेदिनी । ये,
४८ ॥ (यमस्यायमिति । यम + ण्यः । यमदूतः ।
यथा, मार्कण्डेये । ११ । ३० ।
“कृष्यमाणस्य याम्यैश्च नरकेषु च पात्यतः ।
पूनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥”)

याम्या, स्त्री, (यमस्येयं यमो देवतास्या इति वा ।

यम + “यमाच्चेति वक्तव्यम् ।” ४ । १ । ८५ । इति
वार्त्तिकोक्त्या ण्यः । टाप् ।) दक्षिणदिक् । (यथा,
रामायणे । २ । १०३ । २६ ।
“प्रगृह्य तु महीपालो जलपूरितमञ्जलिम् ।
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥”)
भरणीनक्षत्रम् । इति मेदिनी । ये, ४८ ॥
(यमसम्बन्धिनि, त्रि । यथा, महाभारते । २ । ८ । १ ।
“कथयिष्ये सभां याम्यां युधिष्ठिर ! निबोध ताम् ।
वैवस्वतस्य यां पार्थ ! विश्वकर्म्मा चकार ह ॥”)

याम्यायनं, क्ली, (याम्यायामयनं याम्यं अयन-

मिति वा ।) दक्षिणायनम् । यथा, मलमासतत्त्वे ।
“याम्यायने हरौ सुप्ते सर्व्वकर्म्माणि वर्ज्जयेत् ॥”

याम्योद्भूतः, पुं, (याम्यायामुद्भूतः ।) श्रीतालवृक्षः ।

इति राजनिर्घण्टः ॥

यायजूकः, पुं, (पुनः पुनर्यजति । यज् + यङ् ।

“यजजपदशां यङः ।” ३ । २ । १६६ । इति
ऊकः ।) पुनःपुनर्यागकर्त्ता । तत्पर्य्यायः ।
इज्याशीलः । इत्यमरः । २ । ७ । ८ ॥ (यथा,
रामायणे । २ । ७२ । १५ ।
“या गतिः सर्व्वभूतानां तां गतिं ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥”)

यायावरः, पुं, (पुनःपुनरतिशयेन वा याति देशा-

द्देशान्तरं गच्छतीति । या + यङ् । “यश्च यङः ।”
३ । २ । १७६ । इति वरच् ।) अश्वमेधीयाश्वः । इति
जटाधरः ॥ जरत्कारुमुनिः । इति त्रिकाण्ड-
शेषः ॥ (ऋषीणां गणविशेषः । यथा, महा-
भारते । १२ । २४३ । १७ ।
“तात प्रत्यक्षधर्म्माणस्तथा यायावरा गणाः ॥”
जरत्कारुमुनिरेवैतद्बंशीयः । यथा, महाभारते ।
१ । १३ । ११ ।
“जरत्कारुरिति ख्यात ऊर्द्ध्वरेता महातपाः ।
यायावराणां प्रवरो धर्म्मज्ञः संशितव्रतः ॥”)
त्रि, पुनःपुनर्गमनशीलः । यथा, --
“यायावराः पुष्पफलेन चान्ये
प्रानर्च्चुरर्च्या जगदर्च्चनीयम् ॥”
इति भट्टिः । २ । २० ॥
(क्ली, याच्ञा । यथा, भागवते । ७ । ११ । १६ ।
“वार्त्ता विचित्रा शालीनयायावरशिलोञ्छनम् ।
विप्रवृत्तिश्चतुर्द्धेयं श्रेयसी चोत्तरोत्तरा ॥”
“यायावरं प्रत्यहं धान्ययाच्ञा ।” इति तत्र
श्रीधरस्वामी ॥)

यावः, पुं, (यौति यूयते वा । यु + अच् अप् वा ।

ततः प्रज्ञाद्यण् ।) अलक्तः । इत्यमरः । २ ।
६ । २२५ ॥ (तथास्य पर्य्यायः ।
“लाक्षा पलङ्कषालक्तो यावो वृक्षामयो जतु ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
यथा, नैषधे । २२ । ४६ ।
“ततस्तदीयाधरयावयोगा-
दुदेति विम्बारुणविम्ब एषः ॥”
यव एव । स्वार्थेऽण् । यावः । यथा, तैत्तिरीय-
संहितायाम् । ४ । ३ । ९ । २ ।
“यावानां भागोऽस्य यावानामाधिपत्यमिति ॥”)

यावकः, पुं, (यव एव यावः स इवेति इवार्थे कन् ।

यद्बा, याव एव । याव + “यावादिद्यः कन् ।”
५ । ४ । २९ । इति स्वार्थे कन् ।) कुल्मासः ।
इत्यमरः । २ । ९ । १९ ॥ “द्वे वोरोध्यान्ये ।
कुलत्थ इत्यन्ये माषाकृतिपत्रे काश्मीरेषु तुल-
सीति ख्याते । इति सुभूतिः ॥ यव इव गुणेन
इति यवकः विकारसंघेति कः । यवक एव
यावकः स्वार्थे ष्णः । कुलेन मस्यति परिणमति
कुल्मासः मसीर्य ई परिमाणे परीणामे घञ्
मनीषादित्वादलुक् । कुल्मासो दन्त्यसकारवान्
मूर्द्ध्वन्यषकारवांश्च । कुल्मासो रभसश्चेति
दन्त्यान्ते रक्षित इति मधुः ॥ कुल्माषो यावके
पुंसि काञ्जिके तु नपुंसकमिति, मूर्द्धन्यान्ते
रभसः ।” इति भरतः ॥
“यवकः स्यात्तु कुल्माषः कुल्मासो यावकोऽपि च
वोरवाख्ये षष्टिके वा कुल्मे काश्मीरदेशजे ।
शालिधान्येषु चत्वार इति केचित् प्रचक्षते ॥”
इति शब्दरत्नावली ॥ * ॥
यावान्नम् । इति हेमचन्द्रः ॥ (यथा, मनौ । ११ ।
१२६ ।
“सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ।
मलिनी करणीयेषु तप्तः स्याद्यावकैस्त्र्यहम् ॥”)
अलक्तकः । इति शब्दरत्नावली ॥ (यथा,
किराते । ५ । ३९ ।
“इह सनियमयोः सुरापगाया-
मुषसि सयावकसव्यपादलेखा ।
कथयति शिवयोः शरीरयोगं
विषमपदा पदवी विवर्त्तनेषु ॥”)

यावज्जीवं, व्य, क्ली, (यावत् जीवतीति । जीव +

“यावति विन्दजीवोः ।” ३ । ४ । ३० । इति
णमुल् ।) यावदायुः । जीवनपर्य्यन्तम् । यथा,
“यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता ।
माता च मम बन्ध्यासीदपुत्त्रश्च पिता मम ॥”
इति आहतशब्दटीकायां भरतः ॥

यावत्, व्य, (यद् + डावतुः ।) साकल्यम् ।

अवधिः । मानम् । अवधारणम् । इत्यमरः ।
३ । ३ । २४५ ॥ “साकल्ये निरवशेषे । यथा ।
यावद्दत्तं तावद्भुङ्क्ते ॥ अवधौ मर्य्यादायाम् ।
मूलात् शाखां यावत् प्रकाण्डः ॥ मानं प्रमा-
णम् । यावद्गृहाणि तावद्भिक्षवः ॥ अवधारण-
मियत्तापरिच्छेदः । इयतो भाव इयत्ता परि-
माणं तस्य परिच्छेदो निश्चयः । यथा यावत्
पात्रं तावद्ब्राह्मणानामन्त्रयस्व । यावत् कार्त्स्ने-
ऽवधारणे प्रशंसायां परिच्छेदे मानाधिकार-
सम्भ्रमे पक्षान्तरे चेति मेदिनी ।” इति भरतः ॥
(यत्परिमाणमस्य इत्यर्थे । यत् + “यत्तदेतेभ्यः
परिमाणे वतुप् ।” ५ । २ । ३९ । इति वतुप् ।
“आसर्व्वनाम्नः ।” ६ । ३ । ९१ । इत्यात्वम् ।)
यत्परिमिते, त्रि । तत्र यावान् यावती यावत्
इति रूपत्रयं भवति । यच्छब्दात् निपातनाद्वतु-
प्रत्ययनिष्पन्नः । इति तद्धितपादे वोपदेवः ॥
(यथा, भागवते । २ । ९ । ३१ ।
“यावानहं यथा भावो यद्रूपगुणकर्म्मकः ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥”
यथाच मनुः । ८ । १५५ ।
“यावती सम्भवेद्दृयद्धस्तावतीं दातुमर्हसि ॥”
तथाच याज्ञवल्क्यः । २ । २६४ ।
“यावत् शस्यं विनश्येत्तु तावत् स्यात् क्षेत्रिणः
फलम् ॥”)

यावतिथः, त्रि, (यावतां पूरणः । यावत् + “तस्य

पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “वतोरि-
थुक् ।” ५ । २ । ५३ । इति इथुगागमश्च ।) यावत्परि-
माणम् । इति मुग्धबोधव्याकरणम् ॥ (यथा,
मनुः । १ । २० ।
“आद्याद्यस्य गुणस्त्वेषामवाप्नोति परः परः ।
यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥”)
पृष्ठ ४/०४२

यावनः, पुं, (यवने यवनदेशे भवः । यवन +

अण् ।) सिह्लाख्यगन्धद्रव्यम् । इत्यमरः । २ । ६ ।
१२८ ॥ (विवृतिरस्य सिह्लकशब्दे ज्ञातव्या ॥)

यावनालः, पुं, (यवनाल एवेति । यवनाल + स्वार्थे

अण् ।) धान्यविशेषः । जोयार इति भाषा ।
तत्पर्य्यायः । यवनालः २ शिखरी ३ वृत्त-
तण्डूलः ४ दीर्घनालः ५ दीर्घशरः ६ क्षेत्रेक्षुः ७
इक्षुपत्रकः ८ । तस्य गुणाः । धवलत्वम् ।
गौल्यत्वम् । बल्यत्वम् । त्रिदोषजित्त्वम् । वृष्य-
त्वम् । रुच्यत्वम् । अर्शो यक्ष्मगुल्मव्रणनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

यावनालशरः, पुं, (यावनाल इव शरः ।) शर-

मेदः । जोहुरली इति हिन्दी भाषा । तत्प-
र्य्यायः । नदीजः २ दृढत्वव् ३ वारिसम्भवः ४
यावनालनिभः ५ खरपत्रः ६ । अस्य मूल-
गुणाः । ईषन्मधुरत्वम् । रुच्यत्वम् । शीतत्वम् ।
पित्ततृषानाशित्वम् । पशूनामबलप्रदत्वञ्च । इति
राजनिर्घण्टः ॥

यावनाली, स्त्री, (यवनालस्य विकारः । यव-

नाल + अण् । ततो ङीप् ।) यावनालशर्करा ।
तत्पर्य्यायः । हिमोत्पन्ना २ हिमानी ३ हिम-
शर्करा ४ क्षुद्रशर्करिका ५ क्षुद्रा ६ गडभा ७
जलविन्दुजा ८ । अस्या गुणाः । गौल्यत्वम् ।
उष्णत्वम् । तिक्तत्वम् । अतिपिच्छिलत्वम् ।
वातघ्नत्वम् । सारकत्वम् । रुच्यत्वम् । दाह-
पित्तास्रदायित्वञ्च । इति राजनिर्घण्टः ॥

यावशूकः, पुं, (यवशूक एव । यवशूक + स्वार्थे-

ऽण् । यद्बा, यावस्य यवस्य शूकः कारणत्वेना-
स्त्यस्येति । अर्शआद्यच् ।) यवक्षारः । इति
रत्नमाला ॥ (यथा, सुश्रुते चिकित्सास्थाने
१ अध्याये ।
“क्षौमं प्लोतं पिचुं फेनं यावशूकं ससन्धवम् ।
कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ॥”)

यावसः, पुं, (यूयते इति । यु + “वहियुभ्यां णित् ।”)

उणा० ३ । ११९ । इति असच् । तस्य णित्त्वञ्च ।
यद्बा, यवसानां समूहः । यवस + “तस्य
समूहः ।” ४ । २ । ३७ । इत्यण् ।) यवससमूहः ।
इति सिद्धान्तकौमुदी ॥

याव्यं, त्रि, (यूयते इति । यु + “आसुयुवपिरपि-

लपित्रपिचमश्च ।” ३ । १ । १२६ । इति ण्यत् ।)
मिश्रणीयम् । यूयते यत् । इति मुग्धबोध-
व्याकरणम् ॥

याशोधरेयः, पुं, (यशोधरस्यापत्यं पुमान् । यशो-

धर + ढ ।) शाक्यमुनिपुत्त्रः । इति हेम-
चन्द्रः ॥

याष्टीकः, पुं, (यष्टिः प्रहरणमस्य । यष्टि + “शक्ति-

यष्ट्योरीकक् ।” ४ । ४ । ५९ । इति ईकक् ।)
यष्टिधारियोद्धा । लेठेरा इति भाषा । तत्-
पर्य्यायः । यष्टिहेतिकः २ । इत्यमरः । २ । ८ । ७० ॥
(यथा, राजतरङ्गिण्याम् । ६ । २०३ ।
“आकलप्य द्रुतं दिष्ठ्या सन्त्यज्य प्रार्थनादिकम् ।
पृष्ठे प्रत्युत याष्ठीकांस्तस्य हन्तुं व्यसर्जयत् ॥”)

यासः, पुं, (यस + घञ् ।) दुरालभा । इत्यमरः ।

२ । ४ । ९१ ॥ (यथा, --
“यासो यवासो दुःष्पर्शो धन्वयासः कुनाशकः ।
दुरालभा दुरालम्भा समुद्रान्ता च रोदिनी ॥
गान्धारी कच्छुरानन्ता कषाया दुरभिग्रहा ।
यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः ॥
कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् ।
तृष्णाविसर्पवातास्रवमिज्वरहरः परः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

यासा, स्त्री, (यासः प्रयत्नोऽस्त्यस्या इति अर्श-

आद्यच् । टाप् ।) मदनशलाकापक्षी । इति
शब्दमाला ॥

यु, ङ क निन्दने । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) ङ क, यावयते । इति
दुर्गादासः ॥ (“यावयते बाला वृद्धम् ।” इति
मनोरमा ॥)

यु, ञ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-उभ०-

सक०-सेट् ।) ञ ग, युनाति यो वयस्थोऽपि
न वेश्यावन्धकीजनैरिति हलायुधः । इति
दुर्गादासः ॥

यु, ल मिश्रणे । अमिश्रणे । इति कविकल्पद्रुमः ॥

(अदा०-पर०-अक०-सेट् ।) ल, यौति ।
मिश्रणे यथा, --
“यौति काले कुलस्त्रीभिः क्षत्त्रसन्तानवृद्धये ॥”
इति हलायुधः ॥
अमिश्रणे समवायलक्षणे । अयुतसिद्धानामिति
मिलितसिंद्धानामित्यर्थः । इति दुर्गादासः ॥

युक्, [ज्] त्रि, (युज्यते समाधत्ते इति । युज्यौ ङ्

समाधौ + क्विप् ।) समाधिमान् । इति मुग्ध-
बोधव्याकरणम् ॥ (युज्यते परस्परमिति ।)
युग्मम् । इति शब्दरत्नावली ॥ (यथा, मनुः ।
३ । २७७ ।
“युक्षु कुर्व्वन् दिनर्क्षेषु सर्व्वान् कामान् समश्नुते ।
अयुक्षु तु पितॄन् सर्व्वान् प्रजां प्राप्नोति पुष्क-
लाम् ॥”)

युक्, व्य, निन्दा । युज क ङ, निन्दे इत्यस्माद्भावे

क्विप्प्रत्ययेन निष्पन्नम् ॥ (एतच्चिन्त्यम् ॥)

युक्तं, त्रि, (युज्यत स्म इति । युज् + क्तः ।)

न्याय्यम् । तत्तु न्यायागतद्रव्यादिकम् । इत्यमरः ।
२ । ८ । २४ ॥ (यथा, शाकुन्तले । १ अङ्के ।
“जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”)
अपृथग्भूतम् । मिलितमित्यर्थः । इति मेदिनी ।
ते, ४७ ॥ (यथा, आनन्दलहर्य्याम् । १ ।
“शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥”)

युक्तं, क्ली, (युज् + क्तः ।) हस्तचतुष्टयम् । इति

मेदिनी । ते, ४७ ॥

युक्तः, पुं, (युज्यते स्म योगेनेति । युज् + क्तः ।)

अभ्यस्तयोगः । यथा, --
“योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ।
युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥”
इति भाषापरिच्छेदे । ६६ ॥
तस्य लक्षणं यथा, गीतायाम् । ६ । ८ ।
“ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥”
“योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तमुपसंहरति
ज्ञानेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानु-
भवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं
यस्य । अतः कूटस्थो निर्व्विकारः । अतएव
विजितानि इन्द्रियाणि येन । अतएव समानि
लोष्टादीनि यस्य । मृत्खण्डपाषाणसुवर्णेषु
हेयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्यु-
च्यते ॥” इति तट्टीकायां श्रीधरस्वामी ॥
(रैवतमनोः पुत्त्रः । यथा, हरिवंशे । ७ । २८ ।
“अथ पुत्त्रानिमांस्तस्य निबोध गदतो मम ।
धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥”)

युक्तरसा, स्त्री, (युक्तः रसोऽस्याः ।) रास्ना ।

इत्यमरभरतौ । २ । ४ । १४० ॥ काँटा आमरुली
इति भाषा । (तथास्याः पर्य्यायः ।
“रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

युक्ता, स्त्री, (युक्त + टाप् ।) वृक्षविशेषः ।

इति रत्नमाला ॥ एलानी इति भाषा ॥

युक्तिः, स्त्री, (युज्यते इति । युज् + क्तिन् ।)

न्यायः । इति मेदिनी । ते, ४७ ॥ (यथा,
पञ्चतन्त्रे । ३ । १६३ ।
“तस्य तद्बचनं श्रुत्वा धर्म्मयुक्तिसमन्वितम् ।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥”)
लोकव्यवहारः । इति व्यवहारमातृका ॥
“धर्म्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मतः ॥”
इति स्मृतिश्च ॥
अनुमानम् । यथा, --
“युक्तिष्वप्यवसन्नासु सपथेनैनमर्द्दयेत् ॥
युक्तिरनुमानम् ।
अनुमानेन विज्ञेयं न स्यातां पत्रसाक्षिणौ ।
इत्येकवाक्यत्वादिति विवरणम् ॥ अथ युक्तिः ।
नारदः ।
उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः ।
केशाकेशिगृहीतश्च युगपत् पारदारिकः ॥
कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः ॥
प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यता ह्येते पारुष्ये तु परीक्षणम् ॥
प्रत्यक्षचिह्नैः रुधिराक्तखड्गादिभिः । पारुष्ये
वाक्पारुष्ये । शङ्खः । लोप्तहस्तश्च चौर इति ।
नारदः ।
अभीक्ष्णं दिश्यमानोऽपि प्रतिहन्यान्न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तमावहेत् ॥
यदा धनिकेनाधमर्णिकस्त्रिचतुःपञ्चकृत्वो वा
त्वं मे ऋणं धारयसीति पुनःपुनर्दिश्यमानोऽपि
पृष्ठ ४/०४३
न तद्बाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युप-
गतोऽयमर्थ इत्यवधार्य्य तमर्थमृणिकाय दापये-
दित्यर्थः ।” इति व्यवहारतत्त्वम् ॥ * ॥ नाट्या-
लङ्कारविशेषः । तस्य लक्षणम् । यथा । “युक्ति-
रर्थावधारणम् । उदाहरणं यथा, --
‘यदिसमरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः कुरुध्वम् ॥’
इति वेणीसंहारः ।” इति साहित्यदर्पणम् ॥
(उपायः । यथा, कथासरित्सागरे । ३९ । ५६ ।
“तत्स शृङ्गभुजो देशान्निर्व्वास्येताचिरात् यथा ।
तां पुत्त्र ! चिन्तयेर्युक्तिं त्वमन्यैर्भ्रातृभिः सह ॥”
भोगः । यथा, सूर्य्यसिद्धान्ते । ७ । २४ ।
“त्रिचतुःकर्णयुक्त्याप्तास्ते द्बिघ्नास्त्रिज्यया हताः ।
स्फुटाः स्वकर्णस्तिथ्याप्ता भवेयुर्मानलिप्तिकाः ॥”
प्रमाणविशेषः । तद्यथा, --
“अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते
वाक्ययोजनमर्थयोजनञ्च ।”
“असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् ।
स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ॥
व्यक्ता नोक्ताश्च ये ह्यर्था लीना ये चाप्य-
निर्म्मलाः ।
लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसाधनम् ॥
यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा ।
प्रबोध्यस्य प्रकाशार्थास्तथा तन्त्रस्य युक्तयः ॥”
इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)

युग, इ वर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) अन्तःस्थादिः । इ, युङ्ग्यते ।
इति दुर्गादासः ॥

युगं, क्ली, (युज्यत इति । युज् + घञ् । कुत्वम् ।

न गुणः । “युजेर्घञन्तस्य निपातनादगुणत्वं
विशिष्टविषये च निपातनमिदमिष्यते । काल-
विशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगो-
ऽन्यत्र योग एव भवति ।” इति काशिका । ६ ।
१ । १६० ।) युग्मम् । (यथा, शिशुपालवधे ।
९ । ७२ ।
“उपनेतुमुन्नतिमतेव दिवं
कुचयोर्युगेन तरसा कलिताम् ।
रभसोत्थितामुपगतः सहसा
परिरंभ्य कश्चन बधूमरुधत् ॥”)
कृतादिकालचतुष्टयम् । (यथा, गीतायाम् । ४ । ८ ।
“परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥”)
वृद्धिनामौषधम् । हस्तचतुष्कम् । इति मेदिनी ।
गे, १९ ॥ (यथा, मार्कण्डेये । ४९ । ३९ ।
“द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्यादिवेष्टयन् ।
चतुर्हस्तं धनुर्दण्डो नाडिका युगमेव च ॥”)
देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति ।
मनुष्यमानेन चतुर्युगपरिमाणं विंशतिसहस्रा-
धिकत्रिचत्वारिंशल्लक्षम् । तत्र सत्ययुगस्य मानम्
१७२८००० वर्षाः । त्रेतायुगस्य १२९६०००
वर्षाः । द्वापरयुगस्य ८६४००० वर्षाः । कलि-
युगस्य ४३२००० वर्षाः । इति श्रीभागवतमतम् ॥
तेषां भारतवर्षवर्त्तित्वं विवरणञ्च यथा, --
“चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ।
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् ॥
पूर्व्वं कृतयुगं नाम ततस्त्रेता विधीयते ।
द्वापरञ्च कलिश्चैव युगानि परिकल्पयन् ॥
चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।
तस्य तावत् शती सन्ध्या सन्ध्यां शश्च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥
त्रेतां त्रीणि सहस्राणि युगसंख्याविदो विदुः ।
तस्यापि त्रिशती सन्ध्या सन्ध्यांशः सन्ध्यया समः ॥
द्बे सहस्रे द्बापरे तु सन्ध्यांशौ तु चतुःशते ।
सहस्रमेकं वर्षाणां दिव्यं कलौ प्रकीर्त्तितम् ॥
द्बे शते च तथान्ये वै संख्यातञ्च मनीषिभिः ।
एषा द्बादशसाहस्री युगसंख्या तु संज्ञिता ॥
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम् ।
तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत ॥
चत्वारिंशत्तथा त्रीणि कृतं युगमथोच्यते ।
विंशतिश्च सहस्राणि कालो ह्येष चतुर्युगः ॥
पृथक्त्वेनेह वक्ष्यामि युगानि तु निबोधत ।
नियुतानि दश द्वे च पञ्च चैवात्र संख्यया ॥
अष्टाविंशसहस्राणि कृतं युगमथोच्यते ।
अयुतन्तु तथा पूर्णं द्वे चान्ये नियुते पुनः ॥
षट्त्रिंशच्च सहस्राणि संख्यातानि तु संख्यया ।
त्रेतायुगस्य संख्यैषा मानुषेण तु कीर्त्तिता ॥
अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु ।
चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥
चत्वारि नियुतानि स्युर्वर्षाणान्तु चतुर्युगम् ।
द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया ॥
एतत् कलियुगं प्रोक्तं मानुषेण प्रमाणतः ।
एषा चतुर्युगावस्था मानुषेण प्रकीर्त्तिता ॥
चतुर्युगस्य संख्याता सन्ध्या सन्ध्यांशकेन च । ।
एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः ।
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥”
इति मात्स्ये ११८ अध्यायः ॥ * ॥
युगधर्म्मो यथा, --
“ध्यानं परं कृतयुगे त्रेतायां ज्ञानमध्वरः ।
द्बापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥
ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः ।
द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥
ब्रह्मा विष्णुस्तथा सूर्य्यः सर्व्व एव कलिष्वपि ।
पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥
आद्ये कृतयुगे धर्म्मश्चतुष्पादः सनातनः ।
त्रेतायुगे त्रिपादः स्याद्द्विपादो द्बापरे स्थितः ।
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति ॥”
इति कूर्म्मपुराणे युगधर्म्मकीर्त्तनं नाम २८
अध्यायः ॥ * ॥ युगावतारा यथा, --
“कृते युगे परं ज्ञानं कपिलादिस्वरूपभृत् ।
ददाति सर्व्वभूतात्मा सर्व्वभूतहिते रत्रः ॥
चक्रवर्त्तिस्वरूपेण त्रेतायामपि स प्रभुः ।
दुष्टानां निग्रहं कुर्व्वन् परिपाति जगत्त्रयम् ॥
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥
वेदांस्तु द्बापरे व्यस्य कलेरन्ते पुनर्हरिः ।
कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः ॥
एवमेष जगत् सर्व्वं परिपाति करोति च ।
हन्ति चान्येष्वनन्तात्मा नास्त्यस्माद्ब्यतिरेकि
यत् ॥”
इति विष्णुपुराणे ३ अंशे २ अध्यायः ॥ * ॥
युगधर्म्मान्तरं यथा, --
जैमिनिरुवाच ।
“कलौ युगे महाभाग ! समायाते सुदारुणे ।
भविष्यन्ति जनाः सर्व्वे कीदृशास्तद्बदस्व मे ॥
व्यास उवाच ।
आद्यं सत्ययुगं प्राहुस्ततस्त्रेताह्वयं युगम् ।
ततश्च द्बापरं विप्र ! कलिमन्त्यं विदुर्बुधाः ॥
कृते धर्म्मश्चतुष्पादः सर्व्वधर्म्मरता जनाः ।
वर्णाश्रमाचाररतास्तपोव्रतपरायणाः ॥
नारायणार्च्चनपराः शोकव्याधिविवर्जिताः ।
सत्योक्तिभाषिणः सर्व्वे सदया दीर्घजीविनः ॥
धनधान्यादिसम्पन्ना हिंसादम्भविवर्ज्जिताः ।
परोपकारिणश्चैव सर्व्वशास्त्रविदस्तथा ॥
एवंविधाः सत्ययुगे सर्व्वे लोका द्विजोत्तम ! ।
राजधर्म्मग्राहिणश्च भूपाला जनपालिनः ॥
अहो सत्ययुगस्यास्ति कः संख्यातुं गुणान् क्षमः ॥
अधर्म्माचरणं तत्र जनाः केचिन्न कुर्व्वते ॥ * ॥
त्रेतायुगे समायाते धर्म्मः पादोनतां गतः ।
अल्पक्लेशान्विता लोकाःकेचित् केचिद्दयाशयाः ।
विष्णुध्यानरता लोका यज्ञदानपरायणाः ।
वर्णाश्रमाचाररताः सुखिनः सुस्थचेतसः ॥
क्षत्त्रा भूमिस्पृशः शूद्राः सर्व्वे ब्राह्मणसेविनः ।
ब्राह्मणाश्च महात्मानो वेदवेदाङ्गपारगाः ॥
प्रतिग्रहनिवृत्ताश्च सत्यसन्धा जितेन्द्रियाः ।
तपोव्रतरता नित्यं दातारो विष्णुसेविनः ॥
कालवर्षी तडित्वांश्च स्त्रियः सर्व्वाः पतिव्रताः ।
वसुन्धरा च शस्याढ्या पुत्त्राश्च पितृसेविनः ॥ * ॥
त्रेतायुगस्यावसाने द्वापरे युग आगते ।
द्विपादो भूतवान् धर्म्मः सुखदुःखान्विता नराः ॥
केचित् केचित् पापरताः केचिद्धर्म्मरतास्तथा ।
केचित् केचित् गुणैर्हीनाः केचित् केचिन्महा-
गुणाः ॥
अत्यन्तदुःखिनः केचित् केचित् चातिधनास्तथा ।
प्रतिग्रहे ब्राह्मणाश्च कदाचित् कुर्व्वते स्पृहाम् ।
भूभुजा धनलोभेन कदाचिद्दण्ड्यते प्रजाः ।
विष्णुपूजापरा विप्राः शूद्राश्च द्बिजसेविनः ॥
तदा विष्णुर्व्यासरूपी वेदभागं चकार ह ॥ * ॥
कलौ युगे च विप्रेन्द्र ! सर्व्वपापैकमन्दिरे ।
एकपादोऽभवद्धर्म्मः सर्व्वे पापरता जनाः ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राः पापपरायणाः ।
निजाचारविहीनाश्च भविष्यन्ति कलौ युगे ॥
विप्रा वेदविहीनाश्च प्रतिग्रहपरायणाः ।
अत्यन्तकामिनः क्रूरा भविष्यन्ति कलौ युगे ॥
पृष्ठ ४/०४४
परान्नलोलुपा नित्यं तपोव्रतपराङ्मुखाः ।
पाषण्डसङ्गलुब्धाश्च भविष्यन्ति कलौ युगे ॥
वित्तार्थं ब्राह्मणाः केचिन्महाकपटधर्म्मिणः ।
बल्काधरा भविष्यन्ति जटिलाः श्मश्रुधारिणः ।
कलौ युगे भविष्यन्ति ब्राह्मणाः शूद्रधर्म्मिणः ॥
शूद्राश्च दीक्षागुरवो नित्यं ब्राह्मणधर्म्मिणः ।
कलौ यास्यन्ति निर्वृत्ता उत्तमा अपि नीचताम् ॥
नीचाश्च धनसम्पन्ना यास्यन्त्युच्चपदं प्रति ।
प्रदास्यन्त्युपकारिभ्यो दानानि सकला जनाः ॥
यत्नादपि च नेष्यन्ति वृषला विप्रवर्त्तनम् ।
मित्रस्नेहाद्वदिष्यन्ति कुसाक्ष्यञ्च कलौ जनाः ॥
अधर्म्मबुद्धिदातारो धर्म्मबुद्धिविलोपिनः ।
परोक्षनिन्दकाः क्रूराः संमुखप्रियवादिनः ॥
परश्रीहिंसकाश्चैव मिथ्यावचनभाषिणः ।
भविष्यन्ति कलौ विप्राः परवित्ताभिलाषिणः ॥
गृहमायान्तमतिथिं समाराध्य विधानतः ।
धनलोभाद्धनिष्यन्ति नरा नरकभागिनः ।
ऋणोपजीविनश्चैव भविष्यन्ति कलौ युगे ॥
स्त्रीजिताः पुरुषाः सर्व्वे स्त्रियोऽप्यत्यन्तचञ्चलाः ।
दुर्नीतिर्व्वाधते तासां स्वामिनञ्च न संशयः ॥
जैमिनिरुवाच ।
मनःशुद्धिविहीनत्वात् सर्व्वेषां प्राणिनां मुने ! ।
अतः सर्व्वं त्वया प्रोक्तं मनो विस्मयदं मम ॥
कलौ सर्व्वे भविष्यन्ति मनःशुद्धिविवर्जिताः ।
तेषां यथा भवेत् कर्म्म सफलं ब्रूहि तद्गुरो ! ॥
व्यास उवाच ।
अनर्पितन्तु यत् कर्म्म तद्भवेन्निष्फलं खलु ।
एकेन मनसा विप्र ! सुदृढं कथ्यते मया ॥
विष्णुभक्तिमतां पुंसां न किञ्चिद्विफलं भवेत् ।
इति ते कथितं सर्व्वं व्यक्तं ब्राह्मणसत्तम ! ।
यत् श्रुत्वा भक्तिभावेन नरो मोक्षमवाप्नुयात् ॥”
इति पाद्मे क्रियायोगसारे २५ अध्यायः ॥ * ॥
अपि च ।
“कृते धर्म्मश्चतुष्पाच्च सत्यं दानं तपो दया ।
धर्म्मपाता हरिः श्वेतः सन्तुष्टा ज्ञानिनो नराः ।
चतुर्व्वर्षसहस्राणि नरा जीवन्ति वै तदा ॥
कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्बिजैः ।
शूरस्य प्रणतिः पुत्त्रो विष्णुः क्षत्त्रं जघान ह ॥ * ॥
त्रेतायुगे त्रिपाद्धर्म्मः सत्यदानदयात्मकः ।
नरा यज्ञपरास्तस्मिंस्तथा क्षत्त्रोद्भवं जगत् ॥
रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः ।
तत्र विष्णुर्भीमरथः क्षत्त्रियो राक्षसानहन् ॥ * ॥
द्विपाच्च द्बापरे धर्म्मः पीतताञ्चाच्युते गते ।
चतुःशतायुषो लोका द्बिजक्षत्त्रोत्तराः प्रजाः ॥
तदा दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक् ।
तदेकन्तु यजुर्व्वेदं चतुर्धा विभजत् पुनः ॥
शिष्यानध्यापयामास नामतस्तान्निबोध मे ।
ऋग्वेदमथ पौलस्त्यं सामवेदञ्च जैमिनिम् ॥
अथर्व्वाणं सुमन्तुन्तु यजुर्व्वेदं महामुनिम् ।
वैशम्पायनसंज्ञन्तु पुराणं सूतमेव च ॥
अष्टादश पुराणानि येषु वै हरिरेव हि ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा ।
भविष्यं नारदीयञ्च पुराणञ्चेति विस्तरम् ॥
मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्त्तमेव च ।
कौर्म्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम् ॥
अष्टादशं समुदितं ब्रह्माण्डमिति संज्ञितम् ।
अन्यान्युपपुराणानि मुनिभिः कथितानि तु ॥
आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ।
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥
चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्व्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥
कापिलं वामनञ्चैव तथैवोशनसेरितम् ।
ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च ॥
माहेश्वरं तथा शाम्बं सौरसर्व्वार्थसञ्चयम् ।
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥
पुराणं धर्म्मशास्त्रञ्च वेदा अङ्गानि यन्मुने ! ।
न्यायः शौनक ! मीमांसा आयुर्व्वेदार्थशास्त्रकम् ।
गान्धर्व्वश्च धनुर्व्वेदो विद्या ह्यष्टादश स्मृताः ।
द्बापरान्ते स च हरिर्भुवो भारमपाहरत् ॥ * ॥
एकपादस्थिते धर्म्मे कृष्णताञ्चाच्युते गते ।
जनास्तदा दुराचारा भविष्यन्ति च निर्द्दयाः ॥
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।
कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥
प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥
यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् ।
तदा त्रेता रजीवृत्तिरिति जानीहि शौनक ! ॥
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।
कर्म्मणाञ्चापि काम्यानां द्वापरन्तद्रजस्तमः ॥
यदा सदानृतं तन्द्रीनिद्राहिंसादिसाधनम् ।
शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥
यस्मिन् जनाः कामिनोपि शश्वत्कटुकभाषिणः ।
दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥
राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ।
अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥
तपस्विनो ग्रामवासा न्यासिनो नित्यलोलुपाः ।
ह्रस्वकाया महाहाराश्चौर्य्यमायोरुसाहसाः ॥
त्यक्ष्यन्ति भृत्याश्च पतिं भृत्यं भर्त्तार एव च ।
शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ॥
उद्बिग्नाश्चानलङ्काराः पिशाचसदृशाः प्रजाः ।
अस्नातभोजनेनाग्निदेवतातिथिपूजनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥
स्त्रीपराश्च जनाः सर्व्वे शूद्रप्रायाश्च शौनक ! ।
बहुप्रजाल्पभाम्याश्च भविष्यन्ति कलौ स्त्रियः ॥
शिरःकण्डूयनपरा आज्ञां मेत्स्यन्ति सत्पतेः ।
विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ॥
कलेर्दोषनिधेर्विप्र अस्ति ह्येको महान् गुणः ।
कीर्त्तनदेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतः फलम् ।
द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात् ॥
तस्माज्ज्ञेयो हरिर्नित्यं ध्येयः पूज्यश्च शौनक ॥”
इति गारुडे युगधर्म्माः । २२७ अध्यायः ॥

युगः, पुं, (युज्येते वलीवर्द्धौ अस्मिन्निति ।

युज् + घञ् । युजेर्घञन्तस्य निपातनादगुणत्वम् ।
इति काशिका । ६ । १ । १६० ।) रथहला-
द्यङ्गम् । इति मेदिनी । गे, १९ ॥ जोयालि
इति भाषा । (यथा, --
“नावेव नः पारयतं युगेव
नभ्येव न उपधीव प्रधीव ॥”
इति ऋग्वेदे । २ । ३९ । ४ ॥
“युगा इव यथा रथस्य युगे नभ्या इव ।” इति
तद्भाष्ये सायणः ॥ तथा च कथासरित्सागरे ।
६० । १२ ।
“तस्यैकदा बणिज्यार्थं गच्छतो मथुरां पुरीम् ।
भारवोढा युगं कर्षन् भारेण युगभग्नतः ॥”)

युगकीलकः, पुं, (युगस्य कीलकः ।) युगकाष्ठस्य

कीलकः । जोयालेर खिल इति भाषा ।
तत्पर्य्यायः । शम्या २ । इत्यमरः । २ । ९ । १४ ॥

युगन्धरः, पुं, (युगं धारयतीति । धारि + “संज्ञायां

भृतॄवृजिधारिसहितपिदमः ।” ३ । २ । ४६ । इति
खच् । “अरुर्द्विषदन्तस्य मुम् ।” ६ । ३ । ६७ । इति
मुम् ।) यत्र रथस्य युगकाष्ठमासज्यते तत्र ।
रथस्याश्वा यत्र वध्यन्ते तद्युगकाष्ठं तद्युगं
धरति युगन्धरः । इति भरतः ॥ तत्पर्य्यायः ।
कूवरः २ । इत्यमरः । २ । ८ । ५७ ॥ पर्व्वत-
विशेषः । यथा, --
“निषधो माल्यवान् विन्ध्यो हेमकूटो युगन्धरः ॥”
इति शब्दरत्नावली ॥
(तूणिपुत्त्रः । स च सात्यकेः पौत्त्रः । यथा,
हरिवंशे । १६० । ३१ ।
“तूणेर्युगन्धरः पुत्त्र इति वंशः समाप्यते ॥”)

युगपत्, व्य, एकदा । एककालीनम् । इत्यमरः । ३ ।

४ । २२ ॥ (यथा, भागवते । ३ । ६ । २ ।
“कालसंज्ञां तदा देवीं विभ्रच्छक्तिमुरुक्रमः ।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥”)

युगपत्रः, पुं, (युगं पत्रमस्य ।) कोविदारवृक्षः ।

इति हेमचन्द्रः । ४ । ११८ ॥ युग्मपर्णवृक्षमात्रञ्च ॥

युगपत्रकः, पुं, (युगपत्र + स्वार्थे कन् ।) कोविदार-

वृक्षः । इत्यमरः । २ । ४ । २२ ॥ (यथास्य पर्य्यायः ।
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डली ताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

युगपत्रिका, स्त्री, (युगं पत्रमस्याः । कप् । टाप् ।

अकारस्येत्वञ्च ।) शिंशपावृक्षः । इति त्रिकाण्ड-
शेषः ॥ (विवरणमस्याः शिंशपाशब्दे ज्ञातव्यम् ॥)

युगपार्श्वगः, पुं, (युगस्य पार्श्वं गच्छतीति ।

गम् + डः ।) अभ्यासार्थं लाङ्गलपार्श्वबद्धो गौः ।
पाँटे वाँधा गरु इति भाषा । तत्पर्य्यायः । प्रष्ठ-
वाट् २ । इत्यमरः । २ । ९ । ६३ ॥

युगलं, क्ली, (युज्यते परस्परं संगच्छत इति । युज्

+ वृषादिभ्यः कलच् । न्यङ्क्वादित्वात् कुत्वम् ।)
युग्मम् । इत्यमरः । २ । ५ । ३८ ॥ (यथा, भागवते ।
४ । २६ । २० ।
“पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥”)
पृष्ठ ४/०४५

युगलमन्त्रः, पुं, (युगलाख्यो मन्त्रः । शाकपार्थिववत्

समासः ।) लक्ष्मीनारायणमन्त्रः । यथा, --
“इदं रहस्यं परमं लक्ष्मीनारायणाह्वयम् ।
राजंस्तवापि वक्ष्यामि प्रपत्तिं शरणागतिम् ॥
द्बयात् परतरो मन्त्रो नास्ति सत्यं ब्रवीमि ते ।
द्वयात् परतरो धर्म्मो नास्ति लोकेषु कश्चन ॥
सर्व्वेषां कृष्णमन्त्राणां मध्ये युगलसंज्ञकम् ।
मन्त्रं हि सर्व्वतः श्रेष्ठं कृष्णजप्यमनुत्तमम् ॥
सर्व्वतो युगलं मन्त्रं कार्ष्णं परतरं नृप ! ।
गुह्याद्गुह्यतमं जातु ज्ञेयं तत्तदुपासकैः ॥”
इति पाद्मोत्तरखण्डे २५ अध्यायः ॥

युगलाख्यः, पुं, (युगलमित्याख्या यस्य ।) वर्व्वूर-

वृक्षः । इति राजनिर्घण्टः ॥ त्रि, युग्मनामकः ॥

युगांशकः, पुं, (युगस्य अंशकः क्षुद्रांशः इति ।)

वत्सरः । इति हारावली । २८ ॥ युगविभाजकश्च ॥

युगाद्या, स्त्री, (युगस्याद्यादिभूता ।) युगारम्भ-

तिथिः । यथा । “अथ युगाद्याः । तासु च ।
‘युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।
रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥’
इत्यनेन व्यवस्था ॥
ब्रह्मपुराणे ।
‘वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् ।
कार्त्तिके शुक्लपक्षे तु त्रेताथ नवमेऽहनि ॥
अथ भाद्रपदे कृष्णत्रयोदश्यान्तु द्वापरम् ।
माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम् ॥
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ॥’
अत्र वैशाखादयः पौर्णमास्यन्ता एव । ब्रह्म-
पुराणे तथैव तिथिकृत्याभिधानात् । मुख्य-
वाचित्वे कार्त्तिके नवमेऽहनीत्यनैवेष्टसिद्धौ शुक्ल-
पक्ष इति व्यर्थं स्यात् । तेन भाद्रकृष्णत्रयोदशी
अश्वयुक्कृष्णपक्षीयेति मैथिलोक्तं निरस्तम् ॥ * ॥
आसां प्रशंसामाह विष्णुपुराणम् ।
‘वैशाखमासस्य सिता तृतीया
नवम्यसौ कार्त्तिकशुक्लपक्षे ।
नभस्यमासस्य तमिस्रपक्षे
त्रयोदशी पञ्चदशी च माघे ॥
एता युगाद्याः कथिताः पुराणै-
रनन्तपुण्यास्तिथयश्चतस्रः ।
उपप्लवे चन्द्रमसो रवेश्च
त्रिष्वष्टकास्वप्ययनद्वये च ॥’
उपप्लवे ग्रहणे ।
‘पानीयमप्यत्र तिलैर्व्विमिश्रं
दद्यात् पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं
रहस्यमेतत् पितरो वदन्ति ॥’
स्नानमधिकृत्य भविष्ये ।
संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा ।
मन्वादौ च युगादौ च माषत्रयफलं लभेत् ॥”
इति तिथ्यादितत्त्वम् ॥

युगान्तः, पुं, (युगानामन्तो यत्र । युगानामन्तो

वा ।) प्रलयः । इति हलायुधः ॥ (यथा, महा-
भारते । ५ । ४८ । ६५ ।
“उद्वर्त्तयन् दस्युसंघान् समेतान्
प्रवर्त्तयन् युगमन्यद्युगान्ते ।
यदा धक्ष्याम्यग्निवत् कौरवेयां-
स्तदा तप्ता धार्त्तराष्ट्रः सपुत्त्रः ॥)
युगशेषश्च ॥

युग्मं, क्ली, (युज्यते इति । युज् + “युजिरुचि-

तिजां कुश्च ।” उणा० १ । १४५ । इति मक् ।)
द्वयम् । योडा इति भाषा । तत्पर्य्यायः । द्बन्द्वम् २
युगलम् ३ युगम् ४ । इत्यमरः । २ । ५ । ३८ ॥
(यथा, रामायणे । २ । ९१ । ७६ ।
“पादुकोपानहाञ्चैव युगान्यत्र सहस्रशः ॥”)
द्बितीयचतुर्थषष्ठाष्टमदशमद्वादशराशयः । यथा
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरस्थिरद्ब्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
इति ज्योतिस्तत्त्वम् ॥
(द्बितीया ।) मेलनम् । यथा, --
“युग्माग्निकृतभूतानि षण्मून्योर्व्वसुरन्ध्रयोः ।
रुद्रेण द्बादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥
प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् ।
एतद्ब्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥
द्बितीयातृतीययोश्चतुर्थीपञ्चम्योः षष्ठीसप्तम्यो-
रष्टमीनवम्योरेकादशीद्बादश्योः चतुर्द्दशीपौर्ण-
मास्योः प्रतिपदमावास्ययोर्युग्मं मेलनम् । तत्त-
त्तिथिमात्रनिमित्तके कर्म्मणि महाफलम् ।
एतत् प्रयोजनन्तु तिथिविशेषविहिते कर्म्मणि
तिथिखण्डविशेषनियमनम् । स्वतिथ्या कर्म्मानि-
र्व्वाहे सहायभावेनान्यतिथ्यनुप्रवेशादुपवासा-
द्याचरणञ्च ।” इति तिथ्यादितत्त्वम् ॥ (द्बय-
विशिष्टे, त्रि । यथा, मनुः । ३ । ४८ ।
“युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्मात् युग्मासु पुत्त्रार्थीसंविशेदार्त्तवे स्त्रियम् ॥”)

युग्मपत्रः, पुं, (युग्मं पत्रमस्य ।) रक्तकाञ्चनवृक्षः ।

इति रत्नमाला ॥ (युग्मं पत्रम् ।) युगलपर्णे, क्ली ॥

युग्मपत्रिका, स्त्री, (युग्मं पत्रमस्याः । “शेषाद्वि-

भाषा ।” ५ । ४ । १५४ । इति कप् । टापि अत
इत्वम् ।) शिंशपावृक्षः । इति शब्दरत्नावली ॥
(विषयोऽस्याः शिंशपाशब्दे ज्ञातव्यः ॥)

युग्मपर्णः पुं, (युग्मं पर्णमस्य ।) कोविदारवृक्षः

सप्तपर्णवृक्षः । इति राजनिर्घण्टः ॥

युग्मफला, स्त्री, (युग्मं फलमस्याः ।) इन्द्रचिर्भिटी ।

वृश्चिकाली । इति राजनिर्घण्टः ॥ गन्धिका ।
इति रत्नमाला ॥

युग्मादरः, पुं, (युग्मस्यादरः ।) तिथिविशेषयोगेन

तिथिखण्डविशेषस्यादरणम् । यथा । “पञ्चमी
सप्तमी चैवेत्यादिना विशेषतः सायाह्नव्यापि-
तिथेर्ग्रहणादुपवासेऽपि न रात्रियुग्मादरः ।”
इति तिथ्यादितत्त्वम् ॥ अस्य विवरणं युग्मशब्दे
द्रष्टव्यम् ॥

युग्मादरणं, क्ली, (युग्मस्यादरणम् ।) युग्मतिथि-

पूज्यता । यथा, --
“त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।
न तत्र युग्मादरणमन्यत्र हरिवासरात् ॥”
इति तिथ्यादितत्त्वम् ॥

युग्यं, क्ली, (युगाय हितम् । युग + “उगवादिभ्यो

यत् ।” ५ । १ । २ । इति यत् । युगमर्हतीति
वा । दण्डादित्वात् यत् । यद्वा, युज्यत इति ।
युज् + “युग्यं च पत्त्रे ।” ३ । १ । १२१ । इति
क्यबन्तो निपातितः ।) वाहनम् । यानम्
इत्यमरः । २ । ८ । ५८ ॥ (यथा, महाभारते । ३ ।
५९ । ९ ।
“हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् ।
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥”
यथा च मनौ । ८ । २९३ ।
“यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥”
वाच्यलिङ्गेऽपि दृश्यते । यथा, “युग्यो गौः ।
युग्योऽश्वः । युग्यो हस्ती ।” इति काशिका ।
३ । १ । १२१ ॥)

युग्यः, पुं, (युगं वहतीति । युग + “तद्बहति रथ-

युगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत्प्रत्ययः ।)
युगवोढा । इत्यमरः । २ । ९ । ६४ ॥ (“रथं वहतीति
रथ्यः युग्यः प्रासङ्ग्यः ।” इति काशिका ॥)

युङ् [ज्] त्रि, (युजिर् योगे + क्विन् । “युजेर-

समासे ।” ७ । १ । ७१ । इति नुमागमः ।)
योगकर्त्ता । मेलनकर्त्ता । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, भट्टिकाव्ये । ६ । ११८ ।
“गुहाया निरगाद्वाली सिंहो मृगमिव द्युवन् ।
भ्रातरं युङ्भियः संख्ये घोषेणापूरयन्दिशः ॥”
युग्मम् । यथा, मनौ । ३ । २७७ ।
“युक्षु कुर्व्वन् दिनर्क्षेषु सर्व्वान् कामान् समश्नुते ।
अयुक्षु तु पितॄन् सर्व्वान् प्रजां प्राप्नोति पुष्क-
लाम् ॥”
समः । स च छन्दसि द्वितीयचतुर्थपादरूपः ।
यथा, छन्दोमञ्जर्य्याम् । ३ । १ ।
“विषमे यदि सौ सलगा दले
भौ युजि भाद्गुरुकावुपचित्रम् ॥”)

युङ्गी, [न्] पुं, वर्णसङ्करजातिविशेषः । स तु

गङ्गापुत्त्रकन्यायां वेशधारिणो जातः । यथा, --
“गङ्गापुत्त्रस्य कन्यायां वीर्य्येण वेशधारिणः ।
बभूव वेशधारी च पुत्त्रो युङ्गी प्रकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥

युच्छ, प्रमादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) अन्तःस्थाद्यादिः पञ्चम-
स्वरी । प्रमादोऽनवधानता । युच्छति पापे
साधुः । ओष्ठ्यवर्गाद्यादिरिति रमानाथः ।
पचादित्वादनि पुच्छो लाङ्गूलम् । ओष्ठ्यवर्ग-
शेषादिरिति त्रिलोचनः । मुच्छति । इति
दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/यवकः&oldid=44045" इत्यस्माद् पुनः प्राप्तिः