शब्दकल्पद्रुमः/य

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/००१
शब्दकल्पद्रुमः । चतुर्थकाण्डम् ।

, अन्तःस्थयकारः । स च षड्विंशहलवर्णः ॥

अस्योच्चारणस्थानं तालु । (यदुक्तं सिद्धान्त-
कौमुद्याम् । “इचुयशानां तालु ॥” तथा च
शिक्षायाम् । १७ ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
तस्य स्वरूपं यथा, --
“यकारं शृणु चार्व्वङ्गि ! चतुष्कोणमयं सदा ।
पलालधूमसङ्काशं स्वयं परमकुण्डली ॥
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं तथा ।
प्रणमामि सदा वर्णं मूर्त्तिमन्मोक्षमव्ययम् ॥”
इति कामधेनुतन्त्रे ५ पटलः ॥
वङ्गीयवर्णमालायामस्य लेखनप्रकारो यथा, --
“ऊर्द्ध्वाधःक्रमतो रेखा चतुष्कोणमयी शुभा ।
नारायणेशविधयस्तासु तिष्ठन्ति नित्यशः ॥
मात्रा कुण्डलिनी ज्ञेया ध्यानमस्य प्रचक्ष्यते ॥”
तस्य ध्यानं यथा, --
“धूम्रवर्णां महारौद्रीं षड्भुजां रक्तलोचनाम् ।
रक्ताम्बरपरीधानां नानालङ्कारभूषिताम् ॥
महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् ।
एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत् ॥” * ॥
तत्प्रणाममन्त्रो यथा, --
“त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
प्रणमामि सदा वर्णं शक्तिमामोक्षमव्ययम् ॥”
इति वर्णोद्धारतन्त्रम् ॥
अस्य नामानि यथा, --
“यो वाणी वसुधा वायुर्व्विकृतिः पुरुषोत्तमः ।
युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः ॥
शङ्खाभ्रमो जटी लोला वायुवेगी यशस्करी ।
सङ्कर्षणः क्षपा बालो हृदयं कपिलाप्रभा ॥
आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् ।
चण्डः सर्व्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ॥
त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः ।
तेनमः शोषको मीनो धनिष्ठानङ्गवेदिनी ।
मेष्ठः सोमः पक्तिनामा पापहा प्राणसंज्ञकः ॥”
इति नानातन्त्रशास्त्रम् ॥
(धात्वनुबन्धविशेषः । स तु दिवादिगणसूचकः ।
तथा च कविकल्पद्रुमे । “दिवाद्यो य्लादादिकः ॥”
छन्दःशास्त्रान्तर्गतगणविशेषः । तथा च छन्दो-
मञ्जर्य्याम् ।
“भादिगुरुः पुनरादिलघुर्यः ॥”
अस्य साङ्केतिकचिह्नं यथा, ।ऽऽ;
काव्यादौ अस्य प्रथमप्रयोगे लक्ष्मीलाभः फलम् ।
यथा, वृत्तरत्नाकरटीकायाम् ।
“यो लक्ष्मीं रस्तु दाहं व्यसनमथ लवौ शः सुखं
षस्तु खेदम् ॥”)

यः, पुं, (याति वातीति । या गतौ + डः ।) वायुः ।

यशः । योगः । यानम् । याता । इति शब्द-
रत्नावली ॥ सर्व्वनाम । यच्छब्दार्थ इति यावत् ।
इति विश्वः ॥

यकः, त्रि, यः । ये इति भाषा । यच्छब्दस्य टेरत्वे

टेः पूर्ब्बं अकागमेन निष्पन्नः ॥ (“अव्ययसर्व्व-
नाम्नामकच् प्राक् टेः ।” ५ । ३ । ७१ । इति
पाणिनिसूत्रम् । यथा, ऋग्वेदे । ८ । २१ । १८ ।
“चित्र इद्राजा राजका इदन्यके यके सरस्वती-
मनु ॥”)

यकृत्, क्ली, (यज् + “शकेरृतिन् ।” उणा०

४ । ५८ । इत्यत्र “बाहुलकात् यजेः कश्च ।”
इत्युज्ज्वलदत्तोक्त्या ऋतिन् जस्य च कः ।) कुक्षे-
र्दक्षिणभागस्थमांसखण्डम् । तत्पर्य्यायः । काल-
खण्डम् २ । इत्यमरः । २ । ६ । ६६ ॥ काल-
खञ्जम् ३ कालेयम् ४ कालकम् ५ । इति
हेमचन्द्रः ॥ करण्डा ६ महास्नायुः ७ । इति
रभसः ॥ * ॥ (यथा, ऋग्वेदे । १० । १६३ । ३ ।
“यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो विवृहामि ते ।”
“यक्नः हृदयसमीपे वर्त्तमानः कालमांसविशेषो
यकृत् तस्मात् ।” इति तद्भाष्ये सायणः ॥)
अथ शरीरावयवविशेषस्य यकृतः स्वरूपमाह ।
“अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः ।
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥”
अथ यकृद्रोगमाह ।
“प्लीहामयस्य हेत्वादि समस्तं यकृदामये ।
किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः ॥”
अथ यकृद्रोगचिकित्सा ।
“प्लीहोद्दिष्टाः क्रियाः सर्व्वा यकृत्यपि समा-
चरेत् ।
कार्य्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् ॥
क्षारञ्च विडकृष्णाभ्यां पूतिकस्याम्बु निस्रुतम् ।
पिबेत् प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये ॥”
इति भावप्रकाशः ॥
(तथा च ।
“वातेनोदीरितं रक्तं कफेन च घनीकृतम् ।
पित्तेन पाकतां प्राप्तं त्रिदोषसंश्रितं यकृत् ॥
लक्षणं तस्य वक्ष्यामि तेन तच्चापि लक्षयेत् ।
क्षीयते तेन मनुजो मृत्युराशु प्रवर्त्तते ॥
वमिक्लमस्तथोद्गारो हृल्लासः श्वसनं भ्रमः ।
दाहोऽरुचिस्तृषामूर्च्छा कण्ठे दाहः शिरो-
व्यथा ॥
हृच्छूलञ्च प्रतिश्यायः ष्ठीवनं कटुकासह ।
सशल्यं हृदि शूलञ्च निद्रानाशः प्रलापतः ॥
हृदये मन्यते जाड्यं उदरं गर्ज्जते भृशम् ।
एतैर्लिङ्गैर्विजानीयात् यकृत् कोष्ठे च वक्षसि ॥”
अथास्य चिकित्सा ।
“निम्बनीपधवचेतसं निशा
काश्मरी च तुलसी च सिंहिका ।
क्वाथ एव हृदयामयापह
आशु शूलयकृतश्च नाशकृत् ॥
सौराष्ट्रीकासीसमहौषधानि
दुरालभाजातिप्रबालकञ्च ।
दार्व्वी यमानी ककुभः समङ्गा
क्वाथः ससर्पिर्यकृदाशु हन्ति ॥”
इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥
“प्लीहवद्दक्षिणात् पार्श्वात् कुर्य्याद्यकृदपि
च्युतम् ॥”
इति वाभटे निदानस्थाने द्वादशेऽध्याये ॥)

यकृदात्मिका, स्त्री, (यकृत इवात्मा स्वरूपं यस्याः ।

बहुव्रीहौ कः । टापि अत इत्वम् ।) तैल-
पायिका । इति शब्दचन्द्रिका ॥
पृष्ठ ४/००२

यकृद्वैरी, [न्] पुं, (यकृतो वैरी नाशकः ।) रोहि-

तकवृक्षः । यथा, --
“प्लीहघ्नो मांसदलनो यकृद्वैरी चलच्छदः ॥”
इति शब्दचन्द्रिका ॥

यक्ष, क ङ महि । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) क ङ, यक्षयते । महि
पूजायाम् । इति दुर्गादासः ॥

यक्षः, पुं, (यक्ष्यते पूज्यत इति । यक्ष + घञ् ।

यद्वा, ईं लक्ष्मीमक्ष्णोतीति । अक्ष + अण् ।)
गुह्यकमात्रम् । गुह्यकेश्वरः । इति मेदिनी । षे,
२२ ॥ इन्द्रगृहम् । धनरक्षकः । इति सारस्वतः ॥
यक्षस्वरूपं यथा, --
“आजग्मुर्यक्षनिकराः कुबेरवरकिङ्कराः ।
शैलजप्रस्तरकरा अञ्जनाकारमूर्त्तयः ॥
विकृताकारवदनाः पिङ्गलाक्षा महोदराः ।
स्फटिका रक्तवेशाश्च दीर्घस्कन्धाश्च केचन ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥
यक्षगणो यथा, --
“प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु ।
केवलो हरिकेशश्च कपिलः काञ्चनस्तथा ।
मेघमाली च यक्षाणां गण एष उदाहृतः ॥”
तस्य व्युत्पत्तिर्यथा, --
“धातुर्यक्षत्यथोक्तस्त्वददने क्षपणे च सः ।
यद्यक्षत्युक्तवानेष तस्माद्यक्षो भवत्ययम् ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
(अपरा निरुक्तिर्यथा, विष्णुपुराणे । १ । ५ । ४१ ।
“मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते ।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥”
पुं, क्ली, पूजा । यथा, ऋग्वेदे । ७ । ६१ । ५ ।
“अमूरा विश्वा वृषणा विमा वां
न यामु चित्रं ददृशे न यक्षम् ॥”
“न यक्षं न पूजा दृश्यते ।” इति तद्भाष्ये
सायणः ॥ तथाच अथर्व्ववेदे । १६ । २ । २४ ।
“तव यक्षं पशुपते अप्स्वन्तः ॥”)

यक्षकर्द्दमः, पुं, (यक्षप्रियः कर्द्दमः ।) कर्पूरागुरु-

कस्तूरीकक्कोलानां मिश्रितसमभागः । इत्य-
मरः । २ । ६ । १३३ ॥ “कर्पूरादिभिर्गन्धद्रव्यैः
समभागैः साधितोऽनुलेपनभेदो यक्षकर्द्दम
उच्यते । यक्षप्रियः कर्द्दमो यक्षकर्द्दमः ।
‘कुङ्कुमागुरुकस्तूरीकर्पूरं चन्दनन्तथा ।
महासुगन्धमित्युक्तं न तो यक्षकर्द्दमः ॥’
इति धन्वन्तरिः ॥
अन्यत्रापि ।
कर्पूरागुरुकस्तूरीकक्कोलघर्षणादि च ।
एकीकृतमिदं सर्व्वं यक्षकर्द्दम इष्यते ॥”
इति तट्टीकायां भरतः ॥

यक्षतरुः, पुं, (यक्षप्रियो यक्षाश्रितो वा तरुः ।

शाकपार्थिवादिवत् समासः ।) वटवृक्षः । इति
राजनिर्धण्टः ॥ (विवरणमस्य वटशब्दे ज्ञात-
व्यम् ॥)

यक्षधूपः, पुं, (यक्षप्रियो धूपः ।) धूपसामान्यम् ।

धूनकधूपः । इति केचित् । धुना इति ख्यात
इति केचित् । इति भरतः ॥ तत्पर्य्यायः । सर्ज-
रसः २ अरालः ३ सर्व्वरसः ४ बहुरूपः ५ ।
इत्यमरः । २ । ६ । १२७ ॥ रालः ६ धूनकः ७
वह्निवल्लभः ८ । इति रभसः ॥ सालसारः ९
सालजः १० सालनिर्यासः ११ सर्ज्यः १२ ।
इति रत्नमाला ॥ (अस्य पर्य्यायान्तरं यथा, --
“रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः ।
देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
एतेन माधवपूजननिषेधो देवीपूजा चोक्ता यथा
कालिकापुराणे ६८ अध्याये ।
“न यक्षधूपं वितरेत् माधवाय कदाचन ।”
“यक्षधूपेन वा देवीं महामायां प्रपूजयेत् ॥”)
सरलवृक्षरसः । टारपिन तेल इति भाषा ।
तत्पर्य्यायः । पायसः २ श्रीवासः ३ सरलद्रवः ४ ।
इति हेमचन्द्रः । ३ । ३११ ॥

यक्षरसः, पुं, (यक्षप्रियो रसः । शाकपार्थिववत्

समासः ।) पुष्पमद्यम् । तत्पर्य्यायः । मध्वा-
सवः २ । इति त्रिकाण्डशेषः ॥

यक्षराजः, पुं, (यक्षाणां राजा । “राजाहः-

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति समासान्त-
ष्टच् ।) कुबेरः । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ५ । १९४ । ४९ ।
“इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः ।
प्रययौ सहितैः सर्व्वैर्निमेषान्तरचारिभिः ॥”)

यक्षराट्, [ज्] पुं, (यक्षेषु राजते इति । राज् +

“सत्सूद्विषद्रुहेति ।” ३ । २ । ६१ । इति क्विप् ।)
कुबेरः । (यथा, भागवते । ८ । १८ । १७ ।
“तस्मा इत्युपनीताय यक्षराट् पात्रिकाम-
दात् ॥”
यक्षराजमात्रम् । मणिभद्रः । यथा, महा-
भारते । ३ । ६४ । १२७ ।
“तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥” * ॥
यक्षा इव मल्ला राजन्तेऽत्र । राज् + क्विप् ।)
रङ्गमण्डपः । इति मेदिनी । जे, ३५ ॥

यक्षराट्पुरी, स्त्री, (यक्षराजः पुरी ।) अलका ।

सा च कैलासपर्व्वतस्थितकुबेरपुरी । इति जटा-
धरः ॥

यक्षरात्रिः, स्त्री, (यक्षप्रिया यक्षाणां वा रात्रिः ।)

कार्त्तिकी पूर्णिमा । तत्पर्य्यायः । दीपाली २ ।
इति त्रिकाण्डशेषः ॥

यक्षसाधनं, क्ली, (यक्षाणां साधनम् ।) यक्षो-

पासना । यथा, वाराहीतन्त्रे ।
“यक्षाणां यक्षिणीनाञ्च पैशाचीनाञ्च साधनम् ।
भूतवेतालगान्धर्व्वं मारणोच्चाटनानि च ।
अधोगमनमेतेषां साधने ऐहिकं हितम् ॥”

यक्षामलकं, क्ली, (यक्षाणामामलकम् ।) पिण्ड-

खर्ज्जूरफलम् । इति शब्दमाला ॥

यक्षावासः, पुं, (यक्षाणामावासो वासस्थानम् ।)

वटवृक्षः । इति राजनिर्घण्टः ॥

यक्षिणी, स्त्री, (यक्षः पूजा अस्त्यस्याः । यक्ष +

इनिः । ङीप् ।) कुबेरपत्नी । इति शब्दरत्ना-
वली ॥ यक्षभार्य्या च ॥ (यथा, कथासरित्-
सागरे । १० । १७८ ।
“सोऽपि मुक्त्वाशु विजने भ्रातुः पुत्रं तमभ्यधात् ।
अधृतिं मा कृथाः पुत्र ! मम सिद्धा हि
यक्षिणी ॥”)

यक्षी, स्त्री, (यक्षस्य भार्य्या । यक्ष + पुंयोगा-

दिति ङीष् ।) कुबेरपत्नी । इति शब्दरत्ना-
वली ॥ (यक्षभार्य्या । यथा, महाभारते । ३ ।
६४ । ११७ ।
“यक्षी वा राक्षसी वापि उताहोस्वित् सुरा-
ङ्गना ।
सर्व्वथा कुरु नः स्वस्ति रक्षस्वास्मान-
निन्दिते ! ॥”)

यक्षोडुम्बरकं, क्ली, (यक्षप्रियमुडुम्बरम् । ततः स्वार्थे

कन् ।) अश्वत्थफलम् । इति त्रिकाण्डशेषः ॥

यक्ष्मघ्नी, स्त्री, (यक्ष्माणं हन्ति । हन् + “अम-

नुष्यकर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।
ततो ङीप् ।) द्राक्षा । इति शब्दमाला ॥

यक्ष्मा, [न्] पुं, (यक्ष + “बाहुलकात् यक्षयते-

रपि ।” उणा० ४ । १५० । इत्यत्र उज्ज्वलदत्तोक्त्या
मनिन्प्रत्ययेन साधुः ।) रोगविशेषः । तत्पर्य्यायः ।
क्षयः २ शोषः ३ । इत्यमरः । २ । ६ । ५१ ॥
राजयक्ष्मा ४ रोगराट् ५ ॥ अथ राजयक्ष्माधि-
कारः । “तत्र राजयक्ष्मणो विप्रकृष्टं सन्निकृष्टञ्च
निदानमाह ।
‘वेगरोधात् क्षयाच्चैव साहसाद्बिषमाशनात् ।
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥’
वेगोऽत्र वातमूत्रपुरीषाणाम् ।
‘वातमूत्रपुरीषाणि निगृह्णाति यदा नरः ॥’
इति चरकवचनात् ॥
क्षथात् क्षीयतेऽनेनेति क्षयः तेनातिव्यवाया-
नशनेर्ष्यादयो धातुक्षयहेतवः क्षयशब्देनोच्यन्ते ।
साहसात् बलवता समं मल्लयुद्धादितः । विषमा-
शनात् बहु स्तोकमकाले वा भुक्तं तत् विषमा-
शनम् । तस्मात् । त्रिदोषः सान्निपातिकः ।
हेतुचतुष्टयात् अन्येऽपि हेतवः हेतुचतुष्टय
एवान्तर्भवन्ति । यक्ष्मणः पर्य्यायाः राजयक्ष्म-
क्षयशोषाः ॥ * ॥ यक्ष्मादीनां शब्दानां निरुक्ति-
माह ।
‘वैद्यो व्याधिमतां यस्मात् व्याधेर्यत्नेन यक्ष्यते ।
स यक्ष्मा प्रोच्यते लोके शब्दशास्त्रविशारदैः ॥’
यक्ष्यते पूज्यते ।
‘राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः ।
तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः ॥
क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः ।
संशोषणाद्रसादीनां शोष इत्यभिधीयते ॥’ * ॥
संप्राप्तिमाह ।
‘कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु ।
अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरा ।
क्षीयन्ते धातवः सर्व्वे ततः शुष्यति मानवः ॥’
कफप्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेषु अनन्तरा
सर्व्वे धातवः क्षीयन्ते ततो मानवः शुष्यति ।
पृष्ठ ४/००३
कारणभूतस्य रसस्य क्षये कार्य्याणां रक्तादी-
नामनुक्रमेण क्षीयमाणत्वात् ॥ * ॥ मार्गाव-
रोधे रसक्षयहेतुमाह चरकः ।
‘रसश्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते ।
स ऊर्द्ध्वं कासवेगेन बहुरूपः प्रवर्त्तते ॥’
स्वस्थानस्थः हृदयस्थः । कासं विनापि रसक्षयो
भवति मार्गावरोधकुपितवातेन रसस्य शोष-
णात् । उक्तञ्च ।
‘वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन च ।
अनुलोमक्षयं दृष्ट्वा प्रतिलोमक्षयावहः ॥’
अनुलोमक्षयं दर्शयित्वा प्रतिलोमक्षयमप्याह ।
अतिव्यवायिनो वा रेतसि क्षीणे प्रतिलोमक्रमे-
णानन्तरा सर्व्वे धातवो रसपर्य्यन्ताः क्षीयन्ते ।
तद्यथा । शुक्रे क्षीणे मज्जा क्षीयते मज्जनि
क्षीणेऽस्थि क्षीयते । एवं पूर्ब्बं पूर्ब्बं क्षीयते ।
ननु कार्य्यस्य शुक्रस्य क्षये कथं कारणभूतानां
मज्जादीनां क्षयः । उच्यते । शुक्रक्षयाद्बायुः
कुप्यति । यदुक्तम् ।
‘वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन चेति ।’
स वायुः सान्निध्यक्रमेण मज्जादीन् सर्व्वान्
धातून् संशोषयति । ततस्तदनन्तरं मानवः
शुष्यति ॥ * ॥ पूर्ब्बरूपमाह ।
‘श्वासाङ्गसादकफसंस्रवतालुशोष-
वम्यग्निसादमदपीनसकासनिद्राः ।
शोषे भविष्यति भवन्ति स चापि जन्तुः
शुक्लेक्षणो भवति मांसपरो रिरंसुः ॥
स्वप्नेषु काकशुकशल्लकिनीलकण्ठ-
गृध्रास्तथैव कपयः कृकलासकाश्च ।
तं वाहयन्ति स नदीर्विजलाश्च पश्येत्
शुष्कांस्तरून् पवनधूमदवार्द्दितांश्च ॥’ * ॥
यक्ष्मणो लक्षणमाह्न ।
‘अंसपार्श्वाभितापश्च सन्तापः करपादयोः ।
ज्वरः सर्व्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ॥’
अंसयोः पार्श्वयोः अभितापः पीडा अत्र
सकलधातुक्षयपूर्ब्बकः सकलशरीरशोषोऽपि
बोद्धव्यः । क्षीयन्ते धातवः सर्व्वे ततः शुष्यति
मानव इति संप्राप्तेः । एवं षड्रूपे एकादश-
रूपे च बोद्धव्यम् । एतानि त्रीणि लक्षणानि
प्रायोभावित्वेन चरकेणोक्तानि । सुश्रुतेन
यक्ष्मणि षट्लक्षणान्युक्तानि ।
‘भक्तद्वेषो ज्वरः कासः श्वासः शोणितदर्शनम् ।
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥’ * ॥
उल्वणतया दोषाणां भेदादेकादश लक्षणा-
न्याह ।
‘स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः ।
ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ॥
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च ।
कासः कण्ठस्य चोद्धंसो विज्ञेयः कफकोपतः ॥’
अनिलादुल्वणात् एवं पित्तात् कफाच्च । यत
आह सुश्रुतः ।
‘एक एवमतः शोषः सन्निपातात्मको गदः ।
उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति च ॥’
असाध्ययक्ष्मिणमाह ।
‘एकादशभिरेभिर्व्वा षड्भिर्वापि समन्वितम् ।
त्रिभिर्व्वा पीडितं लिङ्गैर्ज्ज्वरकासासृगामयैः ।
जह्याच्छोषार्द्दितं जन्तुमिच्छेत् सुविपुलं यशः ॥’
तत्र विशेषमाह ।
‘सर्व्वैरर्द्धैस्त्रिभिर्व्वापि लिङ्गैर्मांसबलक्षये ।
युक्तो वर्ज्यश्चिकित्स्यस्तु सर्व्वरूपोऽप्यतोऽन्यथा ॥’
सर्व्वैर्लिङ्गैरेकादशभिः । अर्द्धैः षड्भिः त्रिभि-
र्ज्ज्वरकासरुधिरवमनैः । अतोऽन्यथा मांसे बले
सति सर्व्वरूपोऽपि प्रत्याख्याय चिकित्स्यः ।
‘महाशनं क्षीयमाणमतीसारनिपीडितम् ।
शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवर्जयेत् ॥’
महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम् ।
अतीसारनिपीडितमिति द्बितीयम् । यत
उक्तम् ।
‘मलायत्तं बलं पुंसां शुक्रायत्तन्तु जीवनम् ।
तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ॥’
शूनमुष्कोदरमिति तृतीयम् ॥ * ॥ अरिष्ट-
माह ।
‘शुक्लाक्षमन्नद्वेष्टारमूर्द्ध्वश्वासनिपीडितम् ।
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥’
मेहन्तं शुक्रं क्षरन्तम् । शुक्लाक्षत्वादीनि
एकैकशोऽरिष्टलक्षणानि ॥ * ॥ अवधिमाह ।
‘परं दिनसहस्रन्तु यदि जीवति मानवः ।
सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः ॥’
शोषपीडितो मानवश्चेत्तरुणो भवति । सुभि-
षग्भिरुपक्रान्तो भवति । तदा परं दिनसह-
स्रम् । द्वितीयदिनसहस्रं यदि जीवति तत्र
जीवनविकल्प इत्यर्थः । एतेन शोषपीडितो
मानवश्चेत्तरुणो भवति । सद्वैद्यैश्चिकित्स्यो
भवति । तदा प्रथमदिनसहस्रं जीवेदेव इत्युक्त्वा
चिकित्सामाह ।
‘ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् ।
उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ॥’
आत्मवन्तं यत्नवन्तं धृतिमन्तं वा ॥ * ॥
अथ निदानविशेषैः शोषविशेषानाह ।
‘व्यवायशोकवार्द्धक्यव्यायामाध्वप्रशोषितान् ।
व्रणोरःक्षतसंज्ञौ च शोषिणौ लक्षणैः शृणु ॥’
व्रणोरःक्षतसंज्ञौ शोषिणौ । व्रणशोषी उरः-
क्षतशोषी च ॥ * ॥ तत्र व्यवायशोषिणो
लक्षणमाह ।
‘व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः ।
पाण्डुदेहो यथापूर्ब्बं क्षीयन्ते चास्य धातवः ॥’
शुक्रस्य क्षयलिङ्गैः सुश्रुतोक्तैः । तानि यथा,
शुक्रक्षये मेढ्रवृषणयोर्वेदना अशक्तिर्मैथुने
चिराद्वा प्रसेकः प्रसेके चाल्पशुक्रदर्शनमिति ।
यथापूर्ब्बं क्षीयन्ते चास्य धातवः प्रथमं शुक्रं
क्षीयते पश्चात् शुक्रक्षयजनितवायुना मज्जा-
दयोऽपि धातवो यथापूर्ब्बं क्षीयन्ते ॥ * ॥
शोकशोषिणो लक्षणमाह ।
‘प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः ।
विना शुक्रक्षयकृतैर्विकारैरुपलक्षितः ॥’
प्रध्यानशीलः यस्याभावेन शोको जनितस्त-
द्ध्यानपरः । स्रस्ताङ्गः शिथिलाङ्गः । तादृशः
व्यवायशोषिसदृशः । तेन शुक्रादिसर्व्वधातुक्षय-
युक्तो भवति । परं शुक्रक्षयकृतैर्विकारैर्मेढ्र-
वृषणवेदनादिभिर्वर्जितो भवति । व्याधिस्व-
भावात् ॥ * ॥ जराशोषिणो लक्षणमाह ।
‘जराशोषी कृषो मन्दवीर्य्यबुद्धिबलेन्द्रियः ।
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः ॥
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः ।
संप्रस्रुतास्यनासाक्षः शुष्करूक्षमलच्छविः ॥’
मन्दशब्दः स्वल्पार्थः । शुष्करूक्षमलच्छविः
शुष्करूक्षे मलच्छवी यस्य सः ॥ * ॥ अध्व-
शोषिणो लक्षणमाह ।
‘अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः ।
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः ॥’
संभृष्टस्येव परुषा छविर्यस्य सः । प्रसुप्तगात्रां-
वयवः प्रसुप्तः स्पर्शाज्ञः । क्लोमं तिलकं पिपासा-
स्थानम् ॥ * ॥ व्यायामशोषिणो लक्षणमाह ।
‘व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः ।
लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना ॥’
एभिरेव स्रस्ताङ्गत्वादिभिरध्वशोषिणो लक्षणै-
रेव । भूयिष्ठं अत्यर्थम् ॥ * ॥ सनिदानं व्रणशोष-
माह ।
‘रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् ।
व्रणितस्य भवेच्छोषो याप्योऽसाध्यश्च स स्मृतः ॥’
उरःक्षतस्य निदानमाह ।
‘धनुषायास्यतोऽत्यर्थं भारमुद्वहतो गुरुम् ।
युध्यमानस्य बलिभिः पततो विषमोच्चतः ॥
वृषं हयं वा धावन्तं दम्यं चान्यं निगृह्णतः ।
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः
परान् ॥
अधीयानस्य चात्युच्चैर्दूरं वा व्रजतो द्रुतम् ।
महानदीं वा तरतो हयैर्व्वा सह धावतः ॥
सहसोत्पततो दूरं तूर्णञ्चातिप्रनृत्यतः ।
अथान्यैः कर्म्मभिः क्रूरैर्भृशमप्याहतस्य वा ॥
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ।
विक्षते वक्षसि व्याधिर्ब्बलवान् समुदीर्य्यते ॥’
आयास्यतः आयासं कुर्व्वतः । दम्यं वृषादिकम् ।
अन्यञ्च गजोष्ट्रादिकम् । शिला दीर्घपाषाणः ।
अश्म प्रस्तरखण्डः । निर्घातोऽस्त्रविशेषः ।
व्याधिः उरःक्षताखाः ॥ * ॥ उरःक्षतस्य लक्षण-
माह ।
‘उरो विरुज्यतेऽत्यर्थं भिद्यते च विभज्यते ।
शूलं भवति तत्पादं शुष्यत्यङ्गं प्रवेपते ॥
प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रकम्पते ।
क्रमाद्वीर्य्यं बलं वर्णो रुचिरग्निश्च हीयते ॥
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा ॥
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहु ।
कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्त्तते ॥
स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् ।
अव्यक्तं लक्षणं तस्य पूर्ब्बरूपमिति स्मृतम् ॥’
विरुज्यते पीड्यते । भिद्यते विदार्य्यत इव ।
पृष्ठ ४/००४
विभज्यते द्बिधा क्रियत इव । स पुरुषः । क्षतः
उरःक्षतवान् । अत्यर्थं क्षीयते क्षीणो भवति ।
न केवलं सास्रकफक्षयादेव क्षीणो भवति ।
तथा शुक्रौजसोः क्षयात् । स्त्र्यतिसेवनादिना
शुक्रौजसोः क्षयादपि क्षीणो भवति ॥ * ॥ उरः-
क्षतस्य विशिष्टं लक्षणमाह ।
‘उरोरुक् शोणितच्छर्द्दिः कासो वैशेशिकः क्षते ।
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः ॥’
क्षते उरःक्षतवति । उरोरुक् शोणितच्छर्द्दिः
कासो वैशेषिकः विशेषतो भवत्येव । तस्मिन्ने-
वोरःक्षतवति सास्रकफशुक्रौजसां क्षयात् क्षीणे
सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहश्च भवति ॥ * ॥
निदानविशेषेणोरःक्षतस्य लक्षणविशेषमाह ।
‘व्रणारोधात् क्षयाच्चैव कोष्ठात् प्रतिमलात्तथा ।
क्षतोरस्कस्यान्नपाके निःश्वासो वाति पूतिकः ॥’
क्षयात् धातुक्षयहेतोरतिव्यवायादितः कोष्ठात्
प्रतिमलात् कोष्ठात् प्रतिमलवातेन प्रतिलोम-
मलात् पूतिकः पूतिगन्धः ॥ * ॥ उरःक्षतस्य
साध्ययाप्यासाध्यलक्षणमाह ।
‘अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः ।
परिसंवत्सरो याप्यः सर्व्वलिङ्गन्तु वर्जयेत् ॥’ * ॥
अथ राजयक्ष्मचिकित्सा ।
‘बलिनो बहुदोषस्य पञ्च कर्म्माणि कारयेत् ।
यक्ष्मिणः क्षीणदेहस्य तत्कृतं स्याद्विषोपमम् ॥
मलायत्तं बलं पुंसां शुक्रायत्तन्तु जीवनम् ।
तस्माद्यत्नेन संरक्षेत् यक्ष्मिणो मलरेतसी ॥
शालियष्टिकगोधूमयवमुद्गादयो हिताः ।
मद्यानि जाङ्गलाः पक्षिमृगाः शस्ता विशो-
षिणः ॥
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ।
दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत् ॥
तेन षड्विनिवर्त्तन्ते विकाराः पीनसादयः ॥
द्रव्यतो द्विगुणं मांसं सर्व्वतोऽष्टगुणं जलम् ।
पादस्थं संस्कृतञ्चाज्ये षडङ्गी यूष उच्यते ॥’
तद्यथा । यवपल १ कुलत्थपल १ छागमांस-
पल ४ जलपल ४८ शेषपल १२ ततः पलमिते
घृते संस्करणीयम् । तत्र कर्षमितं सैन्धवं देयं
सौरभार्थं हिङ्गु च देयम् । पिप्पली नागरञ्च
पृथक् माषमितं कल्कीकृत्य देयम् । दाडि-
मामलकाभ्यामम्लत्वं साध्यम् । षडङ्गयूषः ॥ * ॥
‘ककुभत्वक् नागवला वानरीबीजं विचूर्णितं
पयसा ।
पक्वं मधुघृतयुक्तं ससितं यक्ष्मादिकासहरम् ॥
छागमांसं पयश्छागं छागं सर्पिश्च नागरम् ।
छागोपसेवा शयनं छागमध्ये तु यक्ष्मनुत् ॥
मधुताप्यविडङ्गाश्मं जतुलोहघृताभयाः ।
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिनः ॥
ताप्यं सुवर्णमाक्षीकम् ।
‘शर्करामधुसंयुक्तं नवनीतं लिहन् क्षयी ।
क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ॥
सितीपलातुगाक्षीरीपिप्पलीबहुलात्वचः ।
अन्त्यादूर्द्ध्वं द्विगुणिताश्चूर्णिता मधुसर्पिषा ॥
लेहयेद्राजरोगार्त्तं कासश्वासक्षयातुरम् ।
पार्श्वशूलिनमल्पाग्निं सुप्तजिह्वं रुचिच्युतम् ।
हस्तपादाङ्गदाहे च ज्वरे रक्ते तथोर्द्ध्वगे ॥’
सितोपला मिश्री । बहुला सूक्ष्मैला । इति
सतोपलादिरवलेहः ॥ * ॥
‘जातीफलं विडङ्गानि चित्रकं तगरं तिला ।
तालीशं चन्दनं शुण्ठी लवङ्गमुपकुञ्चिका ॥
कर्पूरश्चाभया धात्री मरीचं पिप्पली तुगा ।
एषामक्षसमा भागाश्चातुर्जातकसंयुताः ।
पलानि सप्त भङ्गायाः सिता सर्व्वसमा मता ॥
चूर्णमेतत् क्षयं कासं श्वासञ्च ग्रहणीगदम् ।
अरोचकं प्रतिश्यायं तथा चानलमन्दताम् ।
एतान् रोगान् निहन्त्येव वृक्षमिन्द्राशनिर्यथा ॥
बालरोगाधिकारोक्तं तैलं लाक्षादि योजयेत् ।
अभ्यङ्गे यक्ष्मिणो नित्यं वृद्धवैद्योपदेशतः ॥’
इति जातीफलाद्यचूर्णम् ॥ * ॥
‘वासकस्य रसप्रस्थं माणिकासितशर्करा ।
पिप्पली द्बिपलं तावत् सर्पिषश्च शनैः पचेत् ॥
तस्मिन् लेहत्वमायाते शीते क्षौद्रपलाष्टकम् ।
दत्त्वावतारयेद्बैद्यो लीढो लेहोऽयमुत्तमः ॥
निहन्ति राजयक्ष्माणं कासं श्वासञ्च दारुणम् ।
पार्श्वशूलञ्च हृच्छलं रक्तपित्तं ज्वरन्तथा ॥’
इति वासावलेहः ॥ * ॥
अथ व्यवायादिहेतुकशोषचिकित्सा । तत्र
व्यवायशोषचिकित्सा ।
‘व्यवायशोषिणं क्षीररसमांसाज्यभोजनैः ।
सुकूलैर्मधुरैर्हृद्यैर्जीवनीयैरुपाचरेत् ॥’
रसो मांसरसः सुकूलैर्हितैः ॥ * ॥ शोकशोष-
चिकित्सा ।
‘हर्षणाश्वासनैः क्षीरैः स्निग्धैर्मधुरशीतलैः ।
दोपनैर्लघुभिश्चान्नैः शोकशोषमुपाचरेत् ॥’ * ॥
व्यायामशोषचिकित्सा ।
‘व्यायामशोषिणं स्निग्धैः क्षतक्षयहितैर्हिमै ।
उपाचरेज्वीवनीयैर्विधिना श्लैष्मिकेण तु ॥’ * ॥
अध्वशोषचिकित्सा ।
‘आस्यासुखैर्दिबास्वप्नैः शीतैर्मधुरवृंहणैः ।
अन्नमांसरसाहारैरध्वशोषमुपाचरेत् ॥’ * ॥
व्रणशोषचिकित्सा ।
‘व्रणशोषं जयेत् स्निग्धैर्दीपनैः स्वादुशीतलैः
ईषदम्लैरनम्लैर्व्वा यूषमांसरसादिभिः ॥’ * ॥
अथोरःक्षतचिकित्सा ।
‘बलाश्वगन्धा श्रीपर्णी बहुपुत्त्री पुनर्नवा ।
पयसा नित्यमभ्यस्ताः शमयन्ति क्षतक्षयम् ॥’
श्रीपर्णी गम्भारी । बहुपुत्त्री शतावरी । इति
बलादिचूर्णम् ॥ * ॥
‘एला पत्रत्वचो द्राक्षा पिप्पल्यर्द्धपलं पृथक् ।
सितामधुकखर्ज्जूरमृद्वीकाश्च पलोन्मिताः ॥
संचूर्ण्य मधुना युक्ता वटिका संप्रकल्पयेत् ।
अक्षमात्रा ततश्चैव भक्षयेच्च दिने दिने ॥
क्षतक्षयं ज्वरं कासं श्वासं हिक्कां वमिं
भ्रमम् ।
मूर्च्छां मदं तृषां शोषं पार्श्वशुलमरोचकम् ॥
प्लीहानमामवातञ्च रक्तपित्तं स्वरक्षयम् ।
एलादिगुटिका हन्ति वृष्या सन्तर्पणी परा ॥
द्राक्षायाः प्रस्थमेकन्तु मधूकस्य पलाष्टकम् ।
पचेत्तोयाष्टके शुद्धे पादशेषेण तेन तु ॥
पलिके मधुकद्राक्षे पिष्टे कृष्णापलद्वयम् ।
प्रदाय सर्पिषः प्रस्थं पचेत् क्षीरे चतुर्गुणे ॥
सिद्धे शीते पलान्यष्टौ शर्करायाः प्रदापयेत् ।
एतद्राक्षाघृतं सिद्धं क्षतक्षीणे सुखावहम् ॥
वातपित्तज्वरश्वासविस्फोटकहलीमकान् ।
प्रदरं रक्तपित्तञ्च हन्यान्मांसबलप्रदम् ॥’
इति द्राक्षादिघृतम् ॥ * ॥
‘क्षीरे धात्रीविदारीक्षुवरीणाञ्च तथा रसे ।
पचेत् समे घृतप्रस्थं मधुरैः कर्षसम्मितैः ॥
द्राक्षाद्बिचन्दनोशीरशर्करोत्पलपद्मकैः ।
मधूककुसुमानन्ताकाश्मरीतृणसंज्ञकैः ॥
प्रस्थार्द्धं मधुनः शीते शर्करार्द्धतुलान्तथा ।
पलार्द्धकांश्च संचूर्ण्य त्वगेलापत्रकेशरान् ॥
विनीय तत्र संलिह्यान्मात्रां नित्यं सुयन्त्रितः ।
अमृतप्राशमित्येतदश्विभ्यां परिकीर्त्तितम् ॥
क्षीरमांसाशिनां हन्ति रक्तपित्तक्षतक्षयम् ।
तृष्णारुचिश्वासकासच्छर्द्दिमूर्च्छाप्रमर्दनम् ।
मूत्रकृच्छ्रज्वरघ्नञ्च बल्यं स्त्रीरतिवर्द्धनम् ॥’
इति अमृतप्राशावलेहः ॥ * ॥
‘यद्यच्च तर्पणं शीतमविदाहि हितं लघु ।
अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः ॥
शोकं स्त्रियः क्रोधमसूयताञ्च
त्यजेदुदारान् विषयान् भजेच्च ।
तथा द्बिजातींस्त्रिदशान् गुरूंश्च
वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ॥’ * ॥
अथ राजयक्ष्मणि रसाः । अमृतेश्वरो रसो
राजयक्ष्मणि रसेन्द्रचिन्तामणौ ।
‘रसभस्मामृतासत्त्वं लौहं मधुघृतान्वितम् ।
अमृतेश्वरनामायं षड्भुजो राजयक्ष्मजित् ॥’
इति अमृतेश्वरो रसः ॥
रसभस्मः मारितो रसः । अमृतासत्त्वं गुडूची-
सत्त्वम् । लौहं मारितम् ॥ * ॥
‘त्रयोऽंशा मारितात् सूतादेकोऽंशो हेम-
भस्मतः ।
एकोऽंशो मृतताम्रस्य शिला गन्धश्च तालकम् ।
प्रत्येकं भागयुग्मं स्यादेतत् सर्व्वं विचूर्णयेत् ॥
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ।
पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे ताश्च पूरयेत् ॥
ततो गजपुटे पक्त्वा चूर्णयेत् स्वाङ्गशीतलम् ।
रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ॥
मरिचैरूनविंशत्या कणाभिर्दशभिस्तथा ।
मधुना सर्पिषा चापि दद्यादेतं रसं भिषक् ॥
अनेन नश्यति क्षिप्रं वातश्लेष्मभवक्षयः ॥’
इति राजमृगाङ्को रसो राजयक्ष्मणि रसेन्द्र-
चिन्तामणौ ॥ * ॥
‘शुद्धसूतं द्विधा गन्धं कुर्य्यात् खल्लेन कज्जलीम् ।
तयोः समं तीक्ष्णचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥
त्रियाममातपे गोलं ताम्रपात्रे विधारयेत् ।
पृष्ठ ४/००५
आच्छाद्यैरण्डपत्रेण स्यादुष्णं यामयुग्मतः ॥
धान्यराशौ न्यसेत् पश्चादहोरात्रात्तदुद्धरेत् ।
संचूर्ण्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ॥
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः ।
नवभागोन्मितैरेतैः सम एष रसो भवेत् ॥
निष्कद्वयमितं नित्यं मधुना सह लेहयेत् ।
अयमग्निरसो नाम्ना कासक्षयहरः परः ॥’
इति अग्निरसः शार्ङ्गधरे ॥”
इति भावप्रकाशस्य मध्यखण्डे द्वितीयभागे
राजयक्ष्माधिकारः ॥ * ॥ (अथास्य पौराणिकं
विवरणं यथा, --
“दिवौकसां कथयतामृषिभिर्वै श्रुता कथा ।
कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥
रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः ।
आजगामाल्पतामिन्दोर्देहः स्नेहपरिक्षयात् ॥
दुहितॄणामसम्भोगाच्छषाणाञ्च प्रजापतेः ।
क्रोधो निश्वासरूपेण मूर्त्तिमान्निःसृतो मुखात् ॥
प्रजापतेर्हि दुहितॄरष्टाविंशतिमंशुमान् ।
भार्य्यार्थं प्रतिजग्राह न च सर्व्वास्ववर्त्तत ॥
गुरुणा तमवध्यातं भार्य्यास्वसमवर्त्तिनम् ।
रजोऽन्धमबलं दीनं यक्ष्मा शशिनमाविशत् ॥
सोऽभिभूतोऽतिगुरुणा गुरुक्रोधेन निष्प्रभः ।
देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥
अथ चन्द्रमसः शुद्धां मतिं बुद्ध्वा प्रजापतिः ।
प्रसादं कृतवान् सोमस्ततोऽश्विभ्यां चिकित्-
सितः ॥
स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः ।
तेजसा वर्द्धितोऽश्विभ्यां शुद्धं सत्त्वमवाप च ॥
क्रोधो यक्ष्मा ज्वरो रोग एकोऽर्थो दुःखसंज्ञितः ।
यस्मात् स राज्ञः प्रागासीद्राजयक्ष्मा ततो
मतः ॥
स यक्ष्मा हुङ्कृतोऽश्विभ्यां मानुषं लोकमागतः ।
लब्ध्वा चतुर्व्विधं हेतुं समाविशति मानवान् ॥
अयथाबलमारम्भं वेगसन्धारणं क्षयम् ।
यक्ष्मणः कारणं विद्यात् चतुर्थं विषमाशनम् ॥”
अस्य विशेषहेतुर्यथा, --
“युद्धाध्ययनभाराध्वलङ्घनप्लवनादिभिः ।
पतनैरभिघातैर्वा साहसैर्वा तथापरैः ॥
अयथाबलमारम्भैर्जन्तोरुरसि विक्षते ।
वायुः प्रकुपितो दोषावुदीर्य्योभौ विधावति ॥”
तथास्य लक्षणादिकं यथा, --
“स शिरःस्थः शिरःशूलं करोति गलमाश्रितः ।
कण्ठोद्धंसञ्च कासञ्च स्वरभेदमरोचकम् ॥
पार्श्वशूलञ्च पार्श्वस्थो वर्च्चोभेदं गुदे स्थितः ।
जॄम्भां ज्वरञ्च सन्धिस्थ उरःस्थश्चोरसो रुजम् ॥
क्षणनाच्चोरसो रक्तं कासमानः कफानुगम् ।
जर्ज्जरेणोरसा कृच्छ्रमुरःशूली निरस्यति ॥
इति साहसिकं यक्ष्मा रूपैरेतैः प्रपद्यते ।
एकादशभिरात्मज्ञो भजेत्तस्मान्न साहसम् ॥
ह्नीमत्त्वाद्वा घृणित्वाद्वा भयाद्बा वेगमागतम् ।
वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥
तदा वेगप्रतीघातात् कफपित्ते समीरयन् ।
ऊर्द्ध्वं तिर्य्यगधः कुर्य्याद्विकारान् कुपितोऽनिलः ॥
प्रतिश्यायञ्च कासञ्च स्वरभेदमरोचकम् ।
पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्द्दनम् ॥
अङ्गिमर्द्दं मुहुश्छर्द्दिर्वर्च्चोभेदं त्रिलक्षणम् ।
रूपाण्येकादशैतानि यक्षा यैरुच्यते महान् ॥”
इति चरके चिकित्सास्थाने अष्टमेऽध्याये ॥
अस्य चिकित्सा यथा, --
“काञ्चनं रससिन्दूरं मौक्तिकं लौहमभ्र-
कम् ।
विद्रुमं मृतवैक्रान्तं तारं ताम्रञ्च वङ्गकम् ॥
कस्तूरिका लवङ्गञ्च जातिकोषैलवालुका ।
प्रत्येकं बिन्दुमात्रञ्च सर्व्वं मर्द्द्यं प्रयत्नतः ।
कन्यानीरेण संमर्द्द्यं केशराजरसेन च ।
अजाक्षीरेण संभाव्यं प्रत्येकं दिवसत्रयम् ॥
चतुर्गुञ्जाप्रमाणेन वटिकां कारयेद्भिषक् ।
अनुपानं प्रदातव्यं यथादोषानुसारतः ॥
नानारोगप्रशमनं सर्व्वोपद्रवसंयुतम् ।
क्षयं हन्ति तथा कासं यक्ष्माणं श्वासमेव च ॥
प्रमेहान् विंशतिञ्चैव दोषत्रयसमुत्थितान् ।
सर्व्वान् रोगान् निहन्त्याशु भास्करस्तिमिरं
यथा ॥”
इति बृहत्काञ्चनाभ्रवटी ॥
“शिलाजतुमधुव्योषताप्यलौहरजांसि च ।
क्षीरेणालोडितस्यासु यक्ष्मा क्षयमवाप्नुयात् ॥”
इति शिलाजत्वादिलौहम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे राजयक्ष्माधि-
कारे ॥ * ॥)

यच्छन्, [त्] त्रि, दानकर्त्ता । उपरमकर्त्ता ।

दानधातोर्यमधातोश्च शतृप्रत्ययेन निष्पन्नः ॥

यज, ऐ ञ औ देवार्च्चादानसङ्गकृतौ । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
सङ्गस्य कृतिः सङ्गकृतिः । ऐ, इज्यात् । ञ,
यजति यजते विष्णुं सुधीः पूजयतीत्यर्थः ।
पशुना रुद्रं यजते पशुं रुद्राय ददातीत्यर्थः ।
यजति सन्तं सन् सता सह सङ्गं करोतीत्यर्थः ।
औ, यष्टा । इति दुर्गादासः ॥

यजतः, पुं, (यजतीति । यज् + “भृमृदृशियजि-

पर्विपच्यमितमिनमिहर्य्यिभ्योऽतच् ।” उणा०
३ । ११० । इति अतच् ।) ऋत्विक् । इति सिद्धान्त-
कौमुदी ॥ (ऋषिविशेषः । स तु ऋग्वेदस्य ५
म० ६७ । ६८ । सूक्तयोः ऋषिः ॥ त्रि, यष्टव्यः ।
यथा, ऋग्वेदे । १ । १८१ । ३ ।
“अहंपूर्ब्बो यजतो धिष्ण्या यः ॥”
“यजतो यष्टव्यः ।” इति तद्भाष्ये सायणः ॥
तथा च तत्रैव । २ । ५ । ८ ।
“यथा विद्बाँ अरं करद्विश्वेभ्यो यजतेभ्यः ।”
“यजतेभ्यः सर्व्वेभ्यो यजनीयेभ्यो देवेभ्यः ।”
इति तद्भाष्ये सायणः ॥)

यजतिः, पुं, (यज् + बाहुलकात् अतिः ।) यागः ।

यथा, --
“यजतिषु येयजामहं कुर्य्यान्नानुयाजेषु ।”
इति मलमासतत्त्वधृता श्रुतिः ॥

यजत्रः, पुं, (यजतीति । यज् + “अमिनक्षियजि-

वधिपतिभ्योऽत्रन् ।” उणा० ३ । १०५ । इति
अत्रन् ।) अग्निहोत्री । इत्युणादिकोषः ॥
(यजनशीले, त्रि । यथा, ऋग्वेदे । ७ । ५२ । १९ ।
“पिता च तन्नो महान् यजत्रो
विश्वेदेवाः समनसो जुषन्त ॥”
“यजत्रः यजनशीलः ।” इति तद्भाष्ये सायणः ॥)

यजन्, [त्] पुं, यागकर्त्ता । यजधातोः शतृप्रत्ययेन

निष्पन्नः ॥

यजनं, क्ली, (इज्यते इति । यज् + ल्युट् ।) यागः ।

(यथा, महाभारते । ७ । ५३ । ३७ ।
“यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः ।
देवा विश्वसृजः सर्व्वे यजनान्ते समासते ॥”)
तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः ।
यथा, मानवे १ अध्याये ।
“अध्यापनं अध्ययनं यजनं याजनं यथा ।
दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥”
अस्य लक्षणं यथा । पशुक्षीराज्यपुरोडास-
सोमौषधिचरुप्रभृतिभिहविर्भिः खदिरपलाशा-
श्वत्थन्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवो-
दूखलमुषलकुठारखनित्रयूपदारुदर्भचर्म्मग्राव-
पवित्रभाजनादिभिर्द्रव्योपकरणैरुद्गातृहोत्रध्वर्य्यु-
ब्रह्मादिभिरृत्विग्भिः काम्यनैमित्तिकानां
पक्षादिपूर्ब्बकाणां यथोक्तदक्षिणानां समापनं
यजनम् । इति श्राद्धविवेकधृतदेवलवचनम् ॥
(इज्यतेऽत्रेति । यज् + अधिकरणे ल्युट् । यज्ञ-
स्थानम् । यथा, श्रीमद्भागवते । ४ । ४ । ६ ।
“नृद्दार्व्वयःकाञ्चनदर्भचर्म्मभि-
र्निसृष्टभाण्डं यजनं समाविशत् ॥”
“यजनं यज्ञस्थानम् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥)

यजन्तः, पुं, यागकर्त्ता । यजधातोर्झच् प्रत्ययेन

निष्पन्नः । इति सिद्धान्तकौमुदी ॥

यजमानः, पुं, (यजतीति । यज् + शनच् ।) अध्वरे

आदेष्टा । तत्पर्य्यायः । व्रती २ यष्टा ३ । इत्य-
मरः । २ । ७ । ८ ॥ (यथा, श्रीमद्भागवते । ३ । १६ । ८ ।
“नाहं तथाद्मि यजमानहविर्विताने
श्चोतद्घृतप्लुतमदन् हुतभुङ्मुखेन ॥”)
“व्रत्यादित्रयं यजमाने । अध्वरे यागविषये मम
इष्टसम्पादनाय यथार्थं कर्म्म कुरु इति ऋत्वि-
जामादेशको यागस्वामी व्रत्यादिशब्दत्रयवाच्य
इत्यर्थः । व्रतमणाजिनादिधारणं विद्यतेऽस्य
व्रती इन् । यजते इति तृनि यष्टा । शाने
यजमानः । स व्रती सोमपानवति अध्वरे यज-
मानः सन् दीक्षित उच्यते अन्यत्राप्युपचारात् ।
दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु क्तः दीक्षा-
शब्दादितो वा ।” इति भरतः ॥

यजाकः, त्रि, (यजतीति । यज् दाने + आकन् ।)

दानकर्त्ता । इत्युणादिकोषः ॥

यजिः, पुं, (यजतीति । यज् + “सर्व्वधातुभ्य इन् ।”

उणा० ४ । ११७ । इति इन् ।) यष्टा । इत्युणादि-
कोषः ॥
पृष्ठ ४/००६

यजुः, [स्] क्ली, (इज्यतेऽनेनेति । यज् + “अर्त्ति-

पॄवपियजीति ।” उणा० २ । ११८ । इति
उसिः ।) वेदविशेषः । इत्यमरः । १ । ६ । ३ ॥
“इज्यतेऽनेनेति यजुः । यजै ञौ देवार्च्चादानसङ्ग-
कृतौ । त्रासुसिस् इति उस् ।” इति भरतः ॥ * ॥
अपि च । यजुराह जैमिनिः । शेषे वा यजुः-
शब्दः । शेषे ऋक्सामभिन्ने मन्त्रजाते ततश्च
यन्मन्त्रजातं प्रश्लिष्य पठितं गानादिविच्छेद-
रहितं तत् यजुरिति । इति तिथ्यादितत्त्वम् ॥
यजुर्व्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका
नाम द्वादश भेदा भवन्ति । चरकाः १ आह्व-
रकाः २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५
औपमन्याः ६ आष्ठालकठाः ७ चाराय-
णीयाः ८ वारायणीयाः ९ वार्त्तान्तवेयाः १०
श्वेताश्वतराः ११ मैत्रायणीयाश्चेति १२ । तत्र
मैत्रायणीया नाम सप्त भेदा भवन्ति ।
मानवाः १ दुन्दुभाः २ चैकेयाः ३ वाराहाः ४
हारिद्रवेयाः ५ श्यामाः ६ श्यामायनीया-
श्चेति ७ । तेषामध्ययनमष्टौ शतम् । यजुः-
महस्राण्यधीत्य शाखापारो भवति । तान्येव
द्विगुणान्यधीत्य पदपारो भवति । तान्येव त्रिगु-
णान्यधीत्य क्रमपारो भवति । षडङ्गान्यधीत्य
षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं
च्छन्दो ज्योतिषमित्यङ्गानि । तत्र प्राच्योदीच्यां
नैरृत्यां निरृत्यः । तत्र वाजसनेया नाम सप्त-
दश भेदा भवन्ति । जाबालाः १ औधेघाः २
काण्वाः ३ माध्यन्दिनाः ४ शापीयाः ५
तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८
आवटिकाः ९ पामावटिकाः १० पारा-
शर्य्याः ११ वैधेयाः १२ वैनेयाः १३ औधेयाः १४
गालवाः १५ वैजवाः १६ कात्यायनीया-
श्चेति १७ । प्रतिपदमनुपदं छन्दो भाषा धर्म्मो
मीमांसा न्यायस्तर्क इत्युपाङ्गानि भवन्ति ।
उपज्योतिषम् १ साङ्गलक्षणम् २ प्रतिज्ञा ३
अनुवाक्यम् ४ परिसंख्या ५ चरणच्यूहम् ६
श्राद्धकल्पः ७ प्रवराध्यायश्च ८ शास्त्रम् ९
क्रतुः १० संख्या ११ अनुगमः १२ यज्ञम् १३
पाश्वानः १४ होत्रकम् १५ पशवः १५ उक्-
थानि १७ कूर्म्मलक्षणम् १८ । इत्यष्टादशपरि-
शिष्टानि ।
“द्बे सहस्रे शते न्यूने मन्त्रे वाजसनेयके ।
इत्युक्तं परिसंख्यातमेतत् सकलं सशुक्रियम् ॥
ग्रन्थांश्च परिसंख्यातं ब्राह्मणञ्च चतुर्गुणम् ।
आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्ब्बकम् ।
वेदमध्याय एतेषां होमान्ते तु समारभेत् ॥”
तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति ।
औख्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेया
नाम पञ्च भेदा भवन्ति । आपस्तम्बी १ बौधा-
यनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेया-
श्चेति ५ । तत्र कठानान्तूपगानविशेषः । चतु-
श्चत्वारिंशत्युपग्रन्थान् ।
“मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते ।
यजुर्व्वेदः स विज्ञेयोऽन्ये शाखान्तराः स्मृताः ॥”
यजुर्व्वेदस्य धनुर्व्वेद उपवेदः । यजुर्व्वेदस्य भार-
द्वाजगोत्रम् । रुद्रदैवत्यम् । त्रैष्टुभं छन्दः । यजु-
र्व्वेदः कृशः । दीर्घः । कपाली । ताम्रवर्णः ।
काञ्चननयनः । आदित्यवर्णः वर्णेन । पञ्चारत्नि-
मात्रः । अस्य ध्यानम् ।
“वन्दे रौद्रं त्रैष्टभं ताम्रवर्णं
भारद्वाजं रुक्मनेत्रं कृशाङ्गम् ।
यजुर्व्वेदं दीर्घमादित्यवर्णं
कापालीनं पञ्च चारत्निमात्रम् ॥”
य इदं दैवतं रूपं गोत्रं प्रमाणं छन्दो वर्णं
वर्णयति स विद्यां लभते स विद्यां लभते ।
जन्मजन्मनि वेदपारो भवति । जन्मजन्मनि
वेदधारो भवति । अव्रतो व्रती भवति ।
अप्रयतः प्रयतो भवति । अब्रह्मचारी ब्रह्म-
चारी भवति । जातिस्मरो जायते । इति
चरणव्यूहम् ॥ (ऋक्सामभिन्नो मन्त्रविशेषः ।
इति केचित् ॥)

यजुर्व्वेदः, पुं, (यजुरेव वेदः । यजुषां वेद इति

वा ।) वेदविशेषः । तस्याधिपतिर्यथा, --
“ऋग्वेदाधिपतिर्जीवः सामवेदाधिपः कुजः ।
यजुर्व्वेदाधिपः शुक्रः शशिजोऽथर्व्ववेदराट् ॥”
इति ज्योतिषम् ॥
अस्य वक्ता वैशम्पायनः । स तु आदावेक
एवासीत् । यथा, --
“ऋग्वेदंश्रावकं पैलं जग्राह स महामुनिः ।
यजुर्व्वेदप्रवक्तारं वैशम्पायनमेव च ॥
जैमिनं सामवेदस्य श्रावकं सोऽन्वपद्यत ।
तथैवाथर्व्ववेदस्य सुमन्तुमृषिसत्तमम् ॥
एक आसीद्यजुर्व्वेदस्तञ्चतुर्धा व्यकल्पयत् ।
चातुर्होत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥
अध्वर्यवं यजुर्भिः स्यादृग्भिर्होत्रं द्विजोत्तमाः ।
उद्गात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्व्वभिः ॥
ततः स ऋच उद्धृत्य ऋग्वेदं कृतावान् प्रभुः ।
यजूंषि च यजुर्व्वेदं सामवेदञ्च सामभिः ॥
एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानान्तु शतेनाथ यजुर्व्वेदमथाकरोत् ॥
सामवेदं सहस्रेण शाखानाञ्च विभेदतः ।
अथर्व्वाणमथो वेदं बिभेद नवकेन तु ॥”
इति कौर्म्म्ये ४९ अध्यायः ॥

यज्ञः, पुं, इज्यते हविर्दीयतेऽत्र । (इज्यन्ते देवता

अत्र इति वा । यज् + “यजयाचयतविच्छप्रच्छ-
रक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) यागः ।
तत्पर्य्यायः । सवः २ अध्वरः ३ यागः ४ सप्त-
तन्तुः ५ मखः ६ क्रतुः ७ । इत्यमरः । २ । ७ । १३ ॥
इष्टिः ८ इष्टम् ९ वितानम् १० मन्युः ११ आहवः
१२ सवनम् १३ हवः १४ अभिषवः १५ होमः
१६ हवनम् १७ महः १८ । इति शब्दरत्ना-
वली ॥ स त्रिविधः । सात्त्विको राजसिकस्ताम-
सिकश्च । सात्विकयज्ञो यथा, --
“अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥”
राजसिकयज्ञो यथा, --
“अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥”
तामसिकयज्ञो यथा, --
“विधिहीनमसृष्ठान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥”
इति श्रीभगवद्गीतायाम् १७ अध्यायः ॥ * ॥
स च नानाविधः । यथा, --
“द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः शंसितव्रताः ॥”
इति श्रीभगवद्गीतायाम् ४ अध्यायः ॥ * ॥
पञ्च यज्ञा यथा, --
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”
इति गारुडे ११५ अध्यायः ॥ * ॥
(तथाच मनुः । ४ । २१ -- २२ ।
“ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा ।
नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥
एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥”
अपरपञ्चयज्ञा उक्ता यथा, शिवपुराणे वायु-
संहितायामुत्तरभागे । १८ । ८९ -- १०६ ।
“कर्म्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ।
ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्त्तिताः ॥
कर्म्मयज्ञरताः केचित्तपोयज्ञरताः परे ।
जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ।
कर्म्मयज्ञो द्बिधा प्रोक्तः कामाकामविभेदतः ॥
कामान् कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ।
अकामो रुद्रभवने भोगान् भुक्त्वा ततश्चुतः ॥
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ।
तपस्वी च पुनस्तस्मिन् भोगान् भुक्त्वा ततश्चुतः ॥
जपध्यानरतो भूत्वा जायते भुवि मानवः ।
जपध्यानरतो मर्त्यस्तद्वैशिष्टवशादिह ॥
ज्ञानं लब्ध्वा चिरादेव शिवसायुज्यमाप्नुयात् ।
तस्मान्मुक्तौ शिवाज्ञप्तः कर्म्मयज्ञोऽपि देहिनाम् ॥
अकामः कामसंयुक्तो बन्धायैव भविष्यति ।
तस्मात् पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥
ध्यानं ज्ञानञ्च यस्यास्ति तीर्णस्तेन भवार्णवः ।
हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।
बहिः कर्म्मकरा यद्बन्नातीवफलभागिनः ॥
दृष्टा नरेन्द्रभवने तद्वदत्रापि कर्म्मिणः ।
ध्यानिनां हि वपुः सूक्ष्मं भवेत् प्रत्यक्षमैश्वरम् ॥
तथेह कर्म्मिणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ।
ध्यानयज्ञरतास्तस्माद्देवान् पाषाणमृन्मयान् ॥
नात्यन्तं प्रतिपद्यन्ते शिवयाथात्म्यवेदनात् ।
आत्मस्थं यः शिवन्त्यक्त्वा बहिरभ्यर्च्चयेन्नरः ॥
हस्तस्थं फलमुत्सृज्य लिहेत् कूर्परमात्मनः ।
ज्ञानात् ध्यानं भवेत् ध्यानाज्ज्ञानं भूयः प्रवर्त्तते ॥
तदुभाभ्यां भवेन्मक्तिस्तस्मात् ध्यानरतो भवेत् ।
द्वादशान्ते तथा मूर्द्ध्नि ललाटे भ्रूयुगान्तरे ॥
पृष्ठ ४/००७
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ।
नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥
बहिर्य्यागोपचारेण देवं देवीञ्च पूजयेत् ।
अथवा पूजयेन्नित्यं लिङ्गे वा कृतकेपि वा ॥
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥
अथवान्तर्ब्बहिश्चैव पूजयेत् परमेश्वरम् ।
अन्तर्य्यागरतः पूजां बहिः कुर्व्वीत वा न वा ॥”)
अस्योत्पत्तिर्यथा, --
ऋषय ऊचुः ।
“कथं यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् ।
त्रेतात्वमगमन् पुत्त्रा वराहस्य कथं त्रयः ।
तन्नोऽद्य श्रोष्यमाणानां कथयस्व महामते ! ॥
श्रीमार्कण्डेय उवाच ।
शृणुध्वं द्विजशार्दूला यत् पृष्टोऽहं महाद्भुतम् ।
यज्ञेषु देवास्तिष्ठन्ति यज्ञे सर्व्वं प्रतिष्ठितम् ॥
यज्ञेन ध्रियते पृथ्वी यज्ञस्तारयति प्रजाः ।
अन्नेन भूता जीवन्ति पर्जन्यादन्नसम्भवः ॥
पर्जन्यो जायते यज्ञात् सर्व्वं यज्ञमयं ततः ।
स यज्ञोऽभूद्बराहस्य कायात् शम्भुविदारितात् ॥
यथाहं कथये तद्वः शृण्वन्त्ववहिता द्विजाः ।
विदारिते वराहस्य काये भर्गेण तत्क्षणात् ॥
ब्रह्मविष्णुशिवा देवाः सर्व्वैश्च प्रमथः सह ।
निन्युर्जलात् समुद्धृत्य तच्छरीरं नभः प्रति ॥
तद्बिभेजुः शरीरन्ते विष्णोश्चक्रेण खण्डशः ।
तस्याङ्गसन्धयो यज्ञा जातास्ते वै पृथक् पृथक् ॥
यस्माद्यस्माच्च ये यज्ञास्तत् शृण्वन्तु महर्षयः ।
भ्रूनासासन्धिना जातो ज्योतिष्टोमो महाध्वरः ॥
हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत ।
चक्षुर्भ्रुवोः सन्धिना तु व्रात्यष्टोमो व्यजायत ॥
राजः पौनर्भवष्टोमस्तस्य पोत्रोष्ठसन्धिना ।
वृद्धष्टोमबृहष्टोमौ जिह्वामूलाद्व्यजायत ॥
अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥
स्नानं तर्पणपर्य्यन्तं नित्ययज्ञाश्च सर्व्वशः ।
कण्ठसन्धेः समुत्पन्ना जिह्वातो विधयस्तथा ॥ ॥
वाजिमेधो महामेधो नरमेधस्तथैव च ।
प्राणिहिंसाकरा येऽन्ये ते जाताः पादसन्धितः ॥
राजसूयोऽथ कारीषो वाजपेयस्तथैव च ॥
पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च ॥
प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा ।
हृत्सन्धितः समुत्पन्नाः सावित्रीयज्ञ एव च ॥
सर्व्वेषां साधका यज्ञाः प्रायश्चित्तकराश्च ये ।
ते मेढ्रसन्धितो जाता यज्ञास्तस्य महात्मनः ॥
रक्षःसत्रं सर्पसत्रं सर्व्वञ्चैवाभिचारिकम् ।
गोमेधो वृक्षजापश्च खुरेभ्यो ह्यभवन्निमे ॥
मायेष्टिः परमेष्टिश्च गीष्पतिर्भोगसम्भवः ।
लाङ्गूलसन्धौ संजाता अग्निष्टोमस्तथैव च ॥
नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकी-
र्त्तिताः ।
लाङ्गूलसन्धौ ते जातास्तथा द्बादशवार्षिकम् ॥
तीर्थप्रयोगसामौजयजुःसङ्कर्षणस्तथा ।
आर्कमाथर्व्वणञ्चैव नाभिसन्धेः समुद्गताः ॥
ऋचोत्कर्षः क्षेत्रयज्ञः पञ्चमार्गोऽतियोजनः ।
लिङ्गसंस्थानहैरम्बयज्ञा जाताश्च जानुनि ॥
एवमष्टाधिकं जातं सहस्रं द्बिजसत्तमाः ॥
यज्ञानां सततं लोका यैर्भाव्यन्तेऽधुनापि च ।
स्रुगस्य पोत्रात् संजाता नासिकायाः स्रुवो
ऽभवत् ॥
अन्ये स्रुक्स्रुवभेदा ये ते जाताः पोत्रनासयोः ।
ग्रीवाभागेन तस्याभूत् प्राग्वंशो मुनिसत्तमाः ॥
इष्टापूर्त्तं यजुर्धर्म्मो जाताः श्रवणरन्ध्रतः ।
दंष्ट्राभ्यो ह्यभवन् यूपाः कुशा रोमाणि चाभ-
वन् ॥
उद्गाता च तथाध्वर्य्युर्होता समिध एव च ।
अग्रदक्षिणवामाङ्गपश्चात्पादेषु सङ्गताः ॥
पुरोडाशाः सचरवो जाता मस्तिंष्कसञ्चयात् ।
कर्षुर्नेत्रयुगाज्जाता यज्ञकेतुस्तथा खुरात् ॥
मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजायत ।
रेतोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः ॥
यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च ।
तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः ॥
एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च ।
तानि यज्ञवराहस्य शरीरादेव चाभवन् ॥
एवं यज्ञवराहस्य शरीरं यज्ञतामगात् ।
यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ॥
एवं विधाय यज्ञन्तु ब्रह्मविष्णुमहेश्वराः ।
सुवृत्तं कनकं घोरमासेदुर्यत्नतत्पराः ॥
ततस्तेषां शरीराणि पिण्डीकृत्य पृथक् पृथक् ।
त्रिदेवास्त्रिशरीराणि व्यधमन्मुखवायुभिः ॥
सुवृत्तस्य शरीरन्तु व्यधमन्मुखवायुना ।
स्वयमेव जगत्म्रष्टा दक्षिणाग्निस्ततोऽभवत् ॥
कनकस्य शरीरन्तु ध्मापयामास केशवः ।
ततोऽभूद्गार्हपत्याग्निः पञ्चवैतानभोजनः ॥
घोरस्य तु वपुः शम्भुर्ध्मापयामास वै स्वयम् ।
तत आहवनीयोऽग्निस्तत्क्षणात् समजायत ॥
एतैस्त्रिभिर्जगत् व्याप्तं त्रिमूलं सकलं जगत् ।
एतत् यत्र त्रयं नित्यं तिष्ठति द्बिजसत्तमाः ।
समस्ता देवतास्तत्र वसन्तेऽनुचरैः सह ॥
एतद्भद्रप्रदं नित्यमेतदेव त्रयात्मकम् ।
एतत् त्रयीविधिस्नानमेतत् पुण्यकरं परम् ॥
यस्मिन् जनपदे चैते हूयन्ते अग्नयस्त्रयः ।
तस्मिन् जनपदे नित्यं चतुर्व्वर्गो विवर्द्धते ॥
एतद्वः कथितं सर्व्वं यत् पृष्टं द्बिजसत्तमाः ।
यथा यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् ।
तथा च तस्य पुत्त्राणां देहास्त्रेतात्वमागमन् ॥”
इति कालिकापुराणे ३० अध्यायः ॥ * ॥
ब्रह्मण आदियज्ञा यथा, --
पुलस्त्य उवाच ।
“पूर्ब्बमेव मया ख्यातं यदा स्वायम्भुवो मनुः ।
जातः परमधर्म्मात्मा शतरूपापतिः स्वयम् ॥
स्रष्टा प्रजापतिः पूर्ब्बं सृष्टिकर्म्मण्ययोजयत् ।
वत्स ! त्वमेव संकल्प्य स्वल्पां सृष्टिं कुरु ह्यथ ॥
स्वयं तु पुष्करं गत्वा कृत्वा यज्ञन्तु विस्तरम् ।
ब्रह्मोद्गाता होताध्वर्य्युश्चत्वारो यज्ञवाहकाः ।
एकैकस्य त्रयश्चान्ये परिवाराः स्वयं कृताः ॥
एते वै षोडश प्रोक्ता ऋत्विजो वेदचिन्तकाः ।
शतानि त्रीणि षड्भिश्च यज्ञाः सृष्टाः स्वय-
म्भुवा ॥
भीष्म उवाच ।
यज्ञस्य ब्रह्मणो विप्र ! समाप्तिं वद साम्प्रतम् ॥
पुलस्त्य उवाच ।
मन्वन्तरे व्यतीते तु यज्ञस्यावभृथोऽभवत् ।
दक्षिणा ब्रह्मणा दत्ता प्राची होतुस्तु दक्षिणा ॥
अध्वर्य्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा ।
त्रैलोक्यं सकलं ब्रह्मा ददौ तेषान्तु दक्षि-
णाम् ॥
धेनूनाञ्च शतं साष्टं दातव्यं यज्ञसिद्धये ।
अध्वर्य्यूणां सहस्राणि स्वेच्छया दानमिष्यते ॥”
इति पाद्मे सृष्टिखण्डे ३१ अध्यायः ॥ * ॥
ब्राह्मणादीनां स्वधर्म्मयज्ञा यथा, --
“आरम्भयज्ञाः क्षत्त्राः स्युर्हविर्यज्ञा विशः
स्मृताः ।
परिचारयज्ञाः शूद्रास्तु जपयज्ञास्तु ब्राह्मणाः ॥”
इति मात्स्ये ११८ अध्यायः ॥ * ॥
हिंसायज्ञस्य अधर्म्मजनकत्वं यथा, --
“तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्त्तयत् प्रभुः ।
दैवतैः सह संहृत्य सर्व्वसाधनसंभृतम् ॥
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ।
महर्षयश्च तान् दृष्ट्वा दीनान् पशुगणांस्तदा ॥
विश्वं भुजन्ते त्वपृच्छन् कोऽयं यज्ञविधिस्तब ।
अधर्म्मो बलवानेष हिंसाधर्म्मेप्सया तव ॥
न नः पशुबधस्त्विष्टस्तव यज्ञेश्वरोत्तम ! ।
अधर्म्मो धर्म्मघाताय प्रारब्धः पशुभिस्त्वया ॥
नायं धर्म्मो ह्यधर्म्मोऽयं न हिंसा धर्म्म उच्यते ।
आगमेन भवान् धर्म्मं प्रकरोतु यदीच्छति ॥
विधिदृष्टेन यज्ञेन धर्म्मेणाव्ययसेतुना ॥
एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः ।
उक्तो न प्रतिजग्राह मानमोहसमन्वितः ॥
तेषां विवादः सुमहान् जज्ञे इन्द्रमहर्षि-
णाम् ।
जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥
ते तु खिन्ना विवादेन तथ्यमुक्त्वा महर्षयः ।
सन्ध्याय वाक्यमिन्द्रेण पप्रच्छुः खचरं वसुम् ॥
ऋषय ऊचुः ।
महाप्राज्ञ कथं दृष्टस्तव यज्ञविधिर्नृप ! ।
उत्तानपादे ! प्रब्रूहि संशयं नो नुद प्रभो ! ॥
सूत उवाच ।
श्रुत्वा वाक्यं वसुस्तेषामविचार्य्य बलाबलम् ।
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥
यष्टव्यं पशुभिर्मेध्यैरथ मूलफलैरपि ।
हिंसा स्वभावो यज्ञस्य इति मे दर्शनागमः
एवं कृतोत्तरास्ते तु युक्त्वात्मानं ततो धिया ।
अवश्यं भाविनं दृष्ट्वा तमधो ह्यशपंस्तदा ॥
इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् ।
धर्म्माणां संशयच्छेत्ता राजा वसुरधो गतः ॥
पृष्ठ ४/००८
तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः ।
तस्मान्न हिंसा यज्ञस्य यदुक्तमृषिभिः पुरा ॥”
इति मात्स्ये ११९ अध्यायः ॥
तद्वैदिकपर्य्यायः । वेनः २ अध्वरः ३ मेधः ४
विदथः ५ नार्य्यः ६ सवनम् ७ होत्रा ८ इष्टिः
९ देवताता १० मखः ११ विष्णुः १२ इन्दुः १३
प्रजापतिः १४ धर्म्मः १५ । इति पञ्चदश यज्ञ-
नामानि । इति वेदनिघण्टौ । ३ । १७ ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ ।
“यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥”)

यज्ञकृत्, त्रि, (यज्ञं करोतीति । कृ + क्विप् ।

यागकर्त्ता । (यथा, श्रीमद्भागवते । ४ । ४ । ७ ।
“तामागतां तत्र न कश्चनाद्रियद्-
विमानितां यज्ञकृतो भयाज्जनः ।
ऋते स्वसॄर्वै जननीञ्च सादराः
प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥”
पुं, विष्णुः । यथा, महाभारते । १३ । १४९ ।
११८ ।
“यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग् यज्ञसाधनः ॥”)

यज्ञपशुः, पुं, (यज्ञार्थः पशुः ।) घोटकः । इति

शब्दमाला ॥ (यथा, श्रीमद्भागवते । ४ ।
१९ । ११ ।
“चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।
वैण्ये यज्ञपशुं स्पर्द्धन्नपोवाह तिरोहितः ॥”)
छागश्च ॥

यज्ञपुरुषः, पुं, (यज्ञरूपी पुरुषः ।) विष्णुः । इति

हेमचन्द्रः । २ । २३ ॥ (यथा, श्रीमद्भागवते ।
२ । ७ । ११ ।
“सत्रे ममास भगवान् हयशीरषाथो
साक्षात् स यज्ञपुरुषस्तपनीयवर्णः ।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥”)

यज्ञभाजनं, क्ली, (यज्ञस्य भाजनम् ।) यज्ञ-

पात्रम् । इति जटाधरः ॥

यज्ञभूषणः, पुं, (यज्ञं भूषयतीति । भूष + णिच् +

ल्युः ।) श्वेतदर्भः । इति राजनिर्घण्टः ॥ (कुश-
मात्रम् । यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे
भागे ।
“कुशो दर्भस्तथा वर्हिः सूच्यग्रो यज्ञभूषणः ।
ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च ॥”)

यज्ञयोग्यः, पुं, (यज्ञ योग्यः उचितः ।) उडु-

म्बरवृक्षः । इति राजनिर्घण्टः ॥ यागार्हे, त्रि ॥

यज्ञवल्ली, स्त्री, (यज्ञस्य वल्ली ।) सोमवल्ली ।

इति राजनिर्घण्टः ॥ (गुणादयोऽस्याः सोम-
लताशब्दे ज्ञातव्याः ॥)

यज्ञवाटः, पुं, (यज्ञस्य वाटो गृहम् ।) यज्ञस्थानम् ।

इति हेमचन्द्रः ॥ (यथा, श्रीमद्भागवते । १० ।
२३ । ३३ ।
“इत्युक्त्वा मुनिपत्न्यस्ता यज्ञवाटं पुनर्गताः ।
ते चानसूयवः स्वाभिः स्त्रीभिः सत्त्रमपारयन् ॥”)

यज्ञवृक्षः, पुं, (यज्ञस्य वृक्षः ।) वटीवृक्षः । इति

राजनिर्घण्टः ॥ (विकङ्कतः । तत्पर्य्यायो यथा,
“विकङ्कतः स्रुवावृक्षो ग्रन्थिला स्वादुकण्टकः ।
स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

यज्ञश्रेष्ठा, स्त्री, (यज्ञे श्रेष्ठा ।) सोमवल्ली । इति

राजनिर्घण्टः ॥

यज्ञसाधनः, पुं, (यज्ञं साधयतीति । सिध + णिच्

+ ल्युः ।) विष्णुः । इति महाभारते तस्य
सहस्रनामस्तोत्रम् । १३ । १४९ । ११८ ॥
(यज्ञसाधके, त्रि । यथा, ऋग्वेदे । १ । १४५ । ३ ।
“पुरुप्रैषस्ततुरिर्यज्ञसाधनः ।”
“यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वात् यज्ञस्य ।”
इति तद्भाष्ये सायणः ॥)

यज्ञसारः, पुं, (यज्ञे सारः उत्कृष्टः ।) यज्ञोडुम्बर-

वृक्षः । इति राजनिर्घण्टः ॥

यज्ञसूत्रं, क्ली, (यज्ञे धृतं सूत्रम् ।) यज्ञोपवीतम् ।

यथा, --
“पवित्रं यज्ञसूत्रञ्च यज्ञोपवीतमित्यपि ।
यज्ञसूत्रं तदेवोपवीतं स्याद्दक्षिणे भुजे ॥
उद्धृते वामवाहौ तु प्राचीनावीतमप्यदः ।
निवीतन्तु तदेव स्यादूर्द्ध्ववक्षसि लम्बितम् ॥”
इति जटाधरः ॥
तस्य प्रमाणं यथा, --
“ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः ।
तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्ब्बुधाः ॥
त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् ।
शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् ॥
यजुर्व्विदां नाभिमितं सामगानामयं विधिः ।
वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम् ॥”
इति कल्किपुराणे ४ अध्यायः ॥
अस्य धारणे मन्त्रो यथा, --
“यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपन-
ह्यामि ।”
इति संस्कारतत्त्वधृतभट्टभाष्यम् ॥
यजुषान्तु, --
“यज्ञोपवीतं परमं पवित्रं
बृहस्पतेर्यत् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं
यज्ञोपवीतं बलमस्तु तेजः ॥”
इति पशुपतिः ॥
युगभेदे तत्सूत्रनियमो यथा, --
“सत्ये स्वर्णमयं सूत्रं त्रेतायां राजतं तथा ।
द्वापरे ताम्रजं प्रोक्तं कलौ कार्पाससम्भवम् ॥”
इति बृहद्राजमार्त्तण्डः ॥
अन्यच्च ।
“यज्ञार्थं धार्य्यते सूत्रं यज्ञं ब्रह्मण्यमिष्यते ।
स्वर्णं रौप्यं ताम्रमूर्णं पट्टं कार्पासवार्हिषम् ॥
मृगाजिनं गुटं शङ्खी यथालब्धं निधाय च ।
यज्ञसूत्रं परिचरेद्ब्रह्मलिङ्गक्रियात्मकम् ॥
न तत्र नियमो ग्राह्यः सूत्रब्रह्मण्यशङ्कया ॥”
इति बृद्धादित्यसंहिता ॥

यज्ञस्थानं, क्ली, (यज्ञस्य स्थानम् ।) यज्ञवाटः ।

इति जटाधरः ॥

यज्ञाङ्गः, पुं, (यज्ञं अङ्गति प्राप्नोतीति । अङ्ग +

अण् ।) उडुम्बरः । इत्यमरः । २ । ४ । २२ ॥
(अस्य पर्य्यायो यथा, --
“यज्ञाङ्गो ब्रह्मवृक्षश्च हेमदुग्धोऽप्युडुम्बरः ॥”
इति वैद्यकरत्नमालायाम् ॥
“उडुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
खदिरवृक्षः । इति राजनिर्घण्टः ॥ ब्राह्मण-
यष्टिका । इति शब्दचन्द्रिका ॥ (यज्ञ एव अङ्गं
यस्य । विष्णुः । यथा, महाभारते । १३ । १४९ ।
११७ ।
“भूर्भुवःस्वस्तरुस्तारः स्वपिता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥” * ॥
यज्ञस्याङ्गमिति ।) यागावयवे यज्ञसाधने च
क्ली ॥ (यथा, कुमारसम्भवे । १ । १७ ।
“यज्ञाङ्गयोनित्वमवेक्ष्य यस्य
सारं धरित्रीधरणक्षमञ्च ॥”)

यज्ञाङ्गा, स्त्री, (यज्ञमङ्गति प्राप्नोति या । अङ्ग +

अण् । टाप् ।) सोमवल्ली । इति राजनिर्घण्टः ॥
(विषयोऽस्याः सोमवल्लीशब्दे ज्ञातव्यः ॥)

यज्ञान्तः, पुं, (यज्ञस्य अन्तोऽवसानं यस्मिन् ।)

अवभृथः । इति हेमचन्द्रः । ३ । ३९८ ॥ याग-
शेषश्च ॥ (यथा, महाभारते । १३ । १४९ ।
११८ ।
“यज्ञान्तकृत् यज्ञगुह्यमन्नमन्नाद एव च ॥”)

यज्ञारिः, पुं, (यज्ञस्य दक्षयज्ञस्य अरिर्नाशकः ।)

शिवः । इति धनञ्जयः ॥ राक्षसश्च ॥

यज्ञिकः, पुं, पलाशवृक्षः । इति जटाधरः ॥

(अनुकम्पितो यज्ञदत्तः । “बह्वचो मनुष्य-
नाम्नष्ठच् वा ।” ५ । ३ । ३८ । इति ठच् ।
“ठाजादावूर्द्ध्वं द्वितीयादचः ।” ५ । ३ । ८३ । इति
प्रकृतेर्द्वितीयादच ऊर्द्ध्वस्य लोपः । यज्ञदत्तकः ।
इति काशिका ॥)

यज्ञियं, त्रि, (यज्ञमर्हतीति । यज्ञ + “यज्ञर्त्विग्भ्यां

घखञौ ।” ५ । १ । ७१ । इति घः ।) यज्ञकर्म्मा-
र्हम् । इत्यमरः । २ । ७ । २७ ॥ (यथा, हरिवंशे ।
२९ । १६ ।
“कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ॥”)
यज्ञाय हितम् । इति मुग्धबोधव्याकरणम् ॥
(यथा, मनुः । २ । २३ ।
“कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥”)

यज्ञियः, पुं, (यज्ञाय हितः । यज्ञ + घः ।) द्वापर-

युगम् । इति त्रिकाण्डशेषः ॥ (खदिरवृक्षः ।
तत्पर्य्यायो यथा, --
“खदिरो रक्तसारश्च गायत्री दन्तधावनः ।
कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥”
इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥
पलाशः । तत्पर्य्यायो यथा, --
“पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः ।
क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षो सरिद्वरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पृष्ठ ४/००९

यज्ञियदेशः, पुं, (यज्ञियश्चासौ देशश्चेति ।)

यागकरणोपयुक्तदेशः । यथा, मनुः । २ । २३ ।
“कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥”

यज्ञियशाला, स्त्री, (यज्ञिया शाला ।) याग-

मण्डपम् । इति जटाधरः ॥

यज्ञीयः, पुं, (यज्ञे भवः इति । यज्ञ + “गहादि-

भ्यश्च ।” ४ । २ । १३८ । इति छः ।) उडुम्बर-
वृक्षः । इति राजनिर्घण्टः ॥ यागसम्बन्धिनि,
त्रि ॥ (यथा, महाभारते । ३ । १२४ । ६ ।
“प्रशस्तेऽहनि यज्ञीये सर्व्वकामसमृद्धिमत् ।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥”)

यज्ञीयब्रह्मपादपः, पुं, (यज्ञीयश्चासौ ब्रह्मपादप-

श्चेति ।) विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥

यज्ञेश्वरः, पुं, (यज्ञानामीश्वरः ।) विष्णुः । यथा,

“यज्ञेश्वरो हव्यसमस्तकव्य-
भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।
तत्सन्निधानादपयान्तु सद्यो
रक्षांस्यशेषाण्यसुराश्च सर्व्वे ॥”
इति श्राद्धतत्वम् ॥

यज्ञेष्टं, क्ली, (यज्ञे इष्टम् ।) दीर्घरोहिषकतृणम् ।

इति राजनिर्घण्टः ॥

यज्ञोडुम्बरः, पुं, (यज्ञोचितः उडुम्बरः ।) उडु-

म्बरवृक्षः । यज्ञडुमुर इति भाषा ॥ तत्पर्य्यायः ।
हेमदुग्धी २ यज्ञफलः ३ यज्ञाङ्गः ४ हेमदुग्धकः
५ उडुम्बरः ६ जन्तुफलः ७ । इति शब्दरत्ना-
वली ॥ अस्य गुणाः यथा, भावप्रकाशे ।
“उडुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रनुत् ।
मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः ॥”

यज्ञोपवीतं, क्ली, (यज्ञधृतं उपवीतम् ।) यज्ञ-

सूत्रम् । पैता इति भाषा । तत्पर्य्यायः । पवि-
त्रम् २ ब्रह्मसूत्रम् ३ द्विजायनी ४ । इति
त्रिकाण्डशेषः ॥ तस्य निरूपणं यथा । उप-
वीतमाह गोभिलः । यज्ञोपवीतं कुरुते सूत्रं
वस्तं वा अपि वा कुशरज्जुमेव । यज्ञोपवीतं
विशिष्टविन्यासधारणकर्म्मतया कुरुते । किं
तत् सूत्रम् । सूत्रं विशेषयति छन्दोगपरिशिष्टम् ।
“ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् ।
त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥”
वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा दक्षिणा-
वर्त्तवलितं कार्य्यं एवं त्रिवृतं त्रिसवं उपवीतं
स्यात् । एको ग्रन्थिरिति नानात्वनिषेधार्थम् ।
तथा बौधायनः ।
“कौषं सौत्रं त्रिस्त्रिवृतं यज्ञोपवीतमानाभेः ॥”
कौषं कृमिकोषोद्भवं पट्टसूत्रादिमयमित्यर्थः ।
सौत्रं कार्पासोद्भवम् । तथा मनुः ।
“कार्पासमुपवीतं स्यात् विप्रस्योर्द्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥”
त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि त्रिवृन्मात्रं
त्रिसवत्वेन विशेष्यम् । यत्तु पैठीनसिवचनम् ।
कार्पासमुपवीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य ।
क्षौमं राजन्यस्य । आविकं वैश्यस्य । तन्नव-
तन्त्वसम्भवे षट्तन्तुविधायकम् । नवतन्तुत्वं
व्यक्तमाह देवलः ।
“यज्ञोपवीतं कुर्व्वीत सूत्राणि नव तन्तवः ।
एकेन ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोऽथवा ॥”
एकेन ग्रन्थिना युक्त इति शेषः । द्विगुण-
स्त्रिगुणोऽथवेति । तन्तुबलेन द्बिसवस्त्रिसवो वा
कर्त्तव्यः । द्विसवत्वं त्रिसवत्वासम्भवे । गोभिले
वाशब्दो विकल्पार्थः । अपिशब्दो वस्त्रकुश-
रज्वोः सूत्रानुकल्पत्वप्रदर्शनार्थः । एवकार-
स्त्रिसवत्वव्यवच्छेदार्थः । द्बितीयो वाशब्दः
अनुक्तमौञ्जबालादिसमुच्चयार्थः । तथा निगम-
परिशिष्टम् । वाससा यज्ञोपवीतानि कुरुते तद-
भावे त्रिवृता सूत्रेण । कुशमुञ्जबालप्रतिसर-
रज्जुभिर्व्वा । बालोऽत्र गोबालः । यथा देवलः ।
“कार्पासक्षौमगोबालशररज्जुतृणोद्भवम् ।
सदा सम्भवतो धार्य्यमुपवीतं द्बिजातिभिः ॥”
तदभाव इति करणाद्वस्त्राभावे कुशरज्जुभिरिति
बोद्धव्यम् । इति श्राद्धविवेकः ॥ * ॥ अथोप-
नयनदिनम् । तत्र गर्भाष्टमेऽब्दे ब्राह्मणस्योप-
नयनं शस्तम् । क्षत्त्रियस्य गर्भैकादशे । गर्भ-
द्वादशे वैश्यस्य शस्तम् । अत्रासामर्थ्ये ब्राह्म-
णस्य षोडशवर्षपर्य्यन्तमेव । क्षत्त्रियस्य द्वाविं-
शतिवर्षपर्य्यन्तम् । वैश्यस्य चतुर्व्विंशतिवर्ष-
पर्य्यन्तं तदनुष्ठानकालः । तत्र मासाः माघ-
फाल्गुनचैत्रवैशाखज्यैष्ठाषाढा विहिताः । तत्र
तिथयः द्बितीयैकादशीद्वादशीपञ्चमीदशमी-
तृतीया विहिताः । तत्र वाराः बृहस्पति-
शुक्ररवीणां प्रशस्ताः । सामगानां मङ्गल-
वारोऽपि । तत्र नक्षत्राणि । स्वाती ज्येष्ठा
धनिष्ठा अश्विनी अनुराधा हस्ता रेवती पुष्या
चित्रा श्रवणा मृगशिरः शतभिषा पूर्ब्बफल्गुनी
उत्तरफल्गुनी पूर्ब्बभाद्रपदा उत्तरभाद्रपदा
रोहिणी पूर्ब्बाषाढा । तत्र लग्नानि वृषसिंह-
तुलाधनुर्मीनसंज्ञकानि । तत्र पक्षः शुक्लः ।
तच्चन्द्रादिशोभने अनध्यायादीन् परित्यज्य
कर्त्तव्यम् । इति ज्योतिषतत्त्वमतम् ॥ * ॥
अथोपनयनम् । तत्र गोभिलः । गर्भाष्टमेषु
ब्राह्मणमुपनयेत् गर्भैकादशेषु क्षत्त्रियं गर्भ-
द्वादशेषु वैश्यम् । आषोडशात् ब्राह्मणस्यान-
तीतः कालो भवति आद्वाविंशात् क्षत्त्रियस्य
आचतुर्व्विंशात् वैश्यस्य । अत ऊर्द्ध्वं पतित-
सावित्रीका भवन्ति । नैतानुपनयेयुर्नाध्याप-
येयु र्न एभिर्व्विवाहयेयुः ॥ आषोडशादित्यभि-
विधावाङ् । तथा च विष्णुधर्म्मोत्तरम् ।
“षोडशाब्दो हि विप्रस्य राजन्यस्य द्विविंशतिः ।
विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता ॥
सावित्री नातिवर्त्तेत अत ऊर्द्ध्वं निवर्त्तते ॥”
अत्र षोडशवर्षाणामुपनयनाङ्गता प्रतीयते ।
“पतिता यस्य सावित्री दश वर्षाणि पञ्च च ।
ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥
प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः ॥”
इति यमवचनेन तदनङ्गता प्रतीयते अनयोर्गर्म-
जन्मगणनाभ्यामविरुद्धता । तथा च माण्डव्यः ।
“व्रतबन्धविवाहे च वत्सरपरिगणनमाहुराचार्य्याः ।
आधानपूर्ब्बकमेके प्रसूतिपूर्ब्बं सदान्ये तु ॥”
यत्तु द्बिजानामित्युपक्रम्य पैठीनसिवचनम् ।
द्वादशषोडशविंशतिश्चेदतीता अवरुद्धकाला
भवन्ति । तद्द्वादशवर्षाद्युपरि ब्राह्मणादीनां महा-
व्याहृतिहोमप्रायश्चित्तार्थं षोडशवर्षोपरि गुरु-
प्रायश्चित्तमिति । तथा च शङ्खलिखितौ । व्रात्य-
श्चान्द्रायणं चरेत् गोप्रदानञ्च कुर्य्यात् । चान्द्रा-
यणाशक्तौ धेन्वष्टकं तन्मूल्यं वा सार्द्धद्बाविंशति-
कार्षापणाः गोमूल्यं कार्षापण एकः मिलित्वा
सार्द्धत्रयोविंशतिकार्षापणाः देयाः । पितृमातृ-
रहितस्य निःस्वस्य देशोपप्लवादिना पतित-
सावित्रीकस्य वा विषये तु मनुविष्णू ।
“येषां द्बिजानां सावित्री नानुतिष्ठेद् यथाविधि ।
तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपना-
ययेत् ॥
कृच्छ्रं प्राजापत्यम् । तदशक्तौ धेनुत्रयं तन्मूल्यं
वा नव कार्षापणाः । अकृतप्रायश्चित्तं प्रत्याह
नैतानित्यादि । तत्र बहुवचनं तत्कर्त्तृसंसर्गिणां
प्रायश्चित्तप्रदर्शनार्थम् । तथा च स्मृत्यन्तरम् ।
“व्रात्याचार्य्यस्य भुक्त्वान्नं कृच्छ्रपादेन शुध्यति ।
यश्चोपनयते व्रात्यान् त्रिभिः कृच्छ्रैः स शुध्यति ॥”
भुजबलभीमकृत्यचिन्तामण्योः ।
“स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरि-
ष्विन्दौ तोयपतौ भगेऽदितिसुते भाद्रद्बये सागरे ।
केन्द्रस्थे भृगुजेऽङ्गिरःशशिसुते चन्द्रे च तारे शुभे
कर्त्तव्यं व्रतकर्म्म मङ्गलतिथौ वाराः सितार्के-
ज्यकाः ॥”
अदितिसुत उत्तरफल्गुनी । सागरः पूर्ब्बा-
षाढा । दीपिकायाम् ।
“जीवार्केन्दूडुशुद्धौ हरिशयनबहिर्भास्करे
चोत्तरस्थे
स्वाध्याये वेदवर्णाधिप इह शुभदे क्षौरिभे
नादितौ च ।
शुक्रार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोज्झ्य
षष्ठाष्टमेन्दूं
नो जीवास्तातिचारेऽर्कसितगुरुदिने काल-
शुद्धौ व्रतं स्यात् ॥”
रविमदनतिथिं सप्तमीं त्रयोदशीम् । षष्ठाष्ट-
मेन्दुं लग्नापेक्षया । कृत्यचिन्तामणौ ।
“माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः ।
चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥
ज्यैष्ठे गहननीतिज्ञ आषाढे क्रतुभाजनः ।
शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं निशि च व्रतम् ॥”
राजमार्त्तण्डः ।
“पुनर्व्वसौ कृतो विप्रः पुनःसंस्कारमर्हति ॥”
आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षे
कल्याणे नक्षत्रे चूडोपनयनगोदानविवाहाः ।
विवाहः सार्व्वकालिक इत्येके । आपूर्य्यमाणे
पक्षे शुक्ले पक्षे । वृद्धगर्गः ।
पृष्ठ ४/०१०
“स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् ।
पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् ॥”
श्रीपतिव्यवहारसमुच्चये ।
“कार्त्तिकस्याश्विनस्यापि फाल्गुनाषाढयो-
रपि ।
कृष्णपक्षे द्बितीयायामनध्यायं विदुर्ब्बुधाः ॥”
भुजबलः ।
“चैत्रकृष्णद्बितीयायां तिसृष्वेवाष्टकासु च ।
मार्गे च फाल्गुने चैव आषाढे कार्त्तिके तथा ॥
पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् ।
नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभक्रियाम् ॥”
उपनयने उत्तरायणशुक्लपक्षयोर्विधानात् कार्त्ति-
कादौ कृष्णपक्षे च द्वितीयानिषेधः पुनः-
संस्कारमर्हति इत्युक्तप्रायश्चित्तरूपोपनयनपरः ।
वैश्योपनयनपरश्च । तथा च गर्गः ।
“विप्रस्य क्षत्त्रियस्यापि मौर्ञ्जा स्यादुत्तरायणे ।
दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे ।
अनध्यायेऽपि कुर्व्वीत यस्य नैमित्तिकं भवेत् ॥”
अपिना दक्षिणायनकृष्णपक्षयोः समुच्चयः ।
नैमित्तिकं प्रायश्चित्तरूपम् । चैत्रशुक्लतृतीया
आषाढशुक्लदशमी मन्वन्तरादित्वेन निषिद्धा ।
वैशाखशुक्लतृतीया युगादित्वेन निषिद्धा ।
षष्ठ्यामशुचिरुग्भार्य्यो रिक्तासु बहुदोषभाक् ।
सामगानां कुजवारेऽप्युपनयनम् । शाखाधि-
पत्वात् । यथा च ।
“शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन्
वारेऽस्य चोपनयनं कथितं द्बिजानाम् ।
मीचस्थितेऽरिगृहगेऽथ पराजिते वा
जीवे भृगावुपनयः स्मृतिकर्म्महीनः ॥”
अस्य शाखाधिपस्य । कृत्यचिन्तामणौ ।
“जन्मोदये जन्मसु तारकासु
मासेऽथवा जन्मनि जन्मभे वा ।
व्रतेन विप्रो न बहुश्रुतोऽपि
विद्याविशेषैः प्रथितः पृथिव्याम् ॥
अस्तं गते दैत्यगुरौ गुरौ वा
ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते ।
व्रतोपनीतो दिवसैः प्रणाशं
प्रयाति देवैरपि रक्षितो यः ॥”
उदये लग्ने । व्रतेन उपनयनेन । इति संस्कार-
तत्त्वम् ॥

यज्युः, त्रि, (यजतीति । यज् + “यजिमनिशुन्धि-

दसिलनिभ्यो युच् ।” उणा० ३ । २० । इति
युच् ।) यजुर्व्वेदवेत्ता ब्राह्मणः । इत्युणादि-
कोषः ॥ यजमानः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥ (यथा, ऋग्वेदे । १ । ३१ । १३ ।
“त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय ।”
“हे अग्ने त्वं यज्यवे यज्योर्यजमानस्य पायुः
पालकः ।” इति तद्भाष्ये सायणः ॥)

यज्वा, [न्] पुं, (यज् + “सुयजोर्ङ्वनिप् ।” ३ ।

२ । १०३ । इति ङ्वनिप् ।) विघिना इष्टवान् ।
वेदविधानेन कृतयागः । इत्यमरः । २ । ७ । ८ ॥
(यथा, नैषधचरिते । ३ । २४ ।
“राजा स यज्वा विबुधव्रजत्रा
कृत्वाध्वराज्योपमयैव राज्यम् ।
भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः
पूर्ब्बं त्वहो शेषमशेषमन्त्यम् ॥”)

यज्वनांपतिः, पुं, चन्द्रः । इति त्रिकाण्डशेषः ॥

यत्, ई ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् । अनिड्निष्ठः ।) ई, यत्तः ।
ङ, यतते पठितुं शिष्यः । इति दुर्गादासः ॥

यत्, क खेदोपस्करयोः । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) खेद इह ताडनम् ।
क, यातयति पुत्त्रं पिता ताडयति इत्यर्थः ।
यातयति गृहं गृहिणी उपस्करोति इत्यर्थः ।
निरः प्रत्यर्पणे । प्रत्यर्पणं परीवर्त्तः । निर्यात-
यति धान्येन माषान् लोकः धान्यं दत्त्वा माषान्
गृह्णाति इत्यर्थः । इति दुर्गादासः ॥

यत्, व्य, हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥

(यथा, उत्तररामचरिते ।
“अत्र स्थिता तृणमदात् बहुशो यदेभ्यः
सीता ततो हरिणकैर्न विमुच्यते स्म ॥”)

यत्, [द्] त्रि, (यजति सर्व्वैः पदार्थैः सह सङ्गतो

भवतीति । यज् + “त्यजितनियजिभ्यो डित् ।”
उणा० १ । १३१ । इति अदिः डित् ।) बुद्धिस्थ-
त्वोपलक्षितधर्म्मावच्छिन्नम् । इति न्यायमतं
सिद्धान्तकौमुद्युणादिवृत्तिश्च ॥ ये इति भाषा ॥
(एकविंशतिविभक्तिषु पुंलिङ्गे तस्य रूपाणि
यथा, यः १ यौ २ ये ३ । प्रथमा । यम् ४ यौ ५
यान् ६ । द्बितीया । येन ७ याभ्याम् ८ यैः ९ ।
तृतीया । यस्मै १० याभ्याम् ११ येभ्यः १२ ।
चतुर्थी । यस्मात् १३ याभ्याम् १४ येभ्यः १५ ।
पञ्चमी । यस्य १६ ययोः १७ येषाम् १८ ।
षष्ठी । यस्मिन् १९ ययोः २० येषु २१ ।
सप्तमी ॥ * ॥ स्त्रीलिङ्गे तस्य रूपाणि यथा,
या १ ये २ याः ३ । प्रथमा । याम् ४ ये ५
याः ६ । द्वितीया । यया ७ याभ्याम् ८
याभिः ९ । तृतीया । यस्यै १० याभ्याम् ११
याभ्यः १२ । चतुर्थी । यस्याः १३ याभ्याम् १४
याभ्यः १५ । पञ्चमी । यस्याः १६ ययोः १७
यासाम् १८ । षष्ठी । यस्याम् १९ ययोः २०
यासु २१ । सप्तमी ॥ * ॥ क्लीवलिङ्गे तस्य
रूपाणि । यत् १ ये २ यानि ३ । प्रथमा ।
यत् ४ ये ५ यानि ६ । द्बितीया । शेषः पुंवत् ॥)

यतः, व्य, (यद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ ।

इति तसिल् । “तद्धितश्चासर्व्वविभक्तिः ।” १ । १ ।
३८ । इति तसिल्प्रत्ययान्तस्याव्ययत्वम् ।)
हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा,
मनुः । २ । ११७ ।
“लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
अददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥”
यद् + “इतराभ्योऽपि दृश्यन्ते ।” ५ । ३ । १४ ।
इति तसिल्प्रत्ययेन । येन । यथा, भागवते ।
२ । ५ । २ ।
“यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ! ॥”
येभ्यः । यथा, भागवते । १ । १५ । २१ ।
“तद्वै धनुस्त इषवः सरथो हयास्ते
सोऽहं रथी नृपतयो यत आनमन्ति ॥”
यत्र । यथा, अभिज्ञानशकुन्तले ।
“यतो यतः षट्चरणोऽभिवर्त्तते
ततस्ततः प्रेरितवामलोचना ॥”)

यतमः, त्रि, (यत् + “वा बहूनां जातिपरिप्रश्ने

डतमच् ।” ५ । ३ । ९३ । इति डतमच् ।)
बहूनां मध्ये निर्द्धारिंत एकः । एषां मध्ये यः ।
यच्छब्दात् डतमप्रत्ययेन निष्पन्नः । इति मुग्ध-
बोधव्याकरणम् ॥ (“यतमो भवतां कठः ।”
इति काशिका ॥)

यतरः, त्रि, (यत् + “किं यत्तदो निर्द्धारणे द्बयो-

रेकस्य डतरच् ।” ९ । ३ । ९२ । इति डतरच् ।)
द्वयोर्मध्ये निर्द्धारित एकः । अनयोर्मध्ये यः ।
यच्छब्दात् डतरप्रत्ययेन निष्पन्नः । इति मुग्ध-
बोधव्याकरणम् ॥ (यथा, ऋग्वेदे । ७ । १०४ । १२ ।
“तयोर्यत् सत्यं यतरदृजीयस्तदित्सोमोवति
हन्त्यासत् ॥”)

यति, त्रि, बहुवचनान्तयावच्छब्दार्थकः । यतगुलि

इति भाषा । यच्छब्दात् निपातनात् डतिप्रत्य-
येन निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥
(यथा, ऋग्वेदे । १० । १५ । १३ ।
“त्वं वेत्थ यति ते जातवेदः ।”
“यति ते यावन्तस्ते भवन्ति ।” इति तद्भाष्ये
सायणः ॥)

यतिः, पुं, (यतते चेष्टते मोक्षार्थमिति । यत् +

“सर्व्वधातुभ्य इन् ।” उणा ० ४ । ११७ । इति
इन् ।) निर्ज्जितेन्द्रियग्रामः । तत्पर्य्यायः ।
यती २ । इत्यमरः । २ । ७ । ४४ ॥ भिक्षुः ३
संन्यासिकः ४ कर्म्मन्दी ५ रक्तवसनः ६ परि-
व्राजकः ७ तापसः ८ पराशरी ९ परिकाङ्क्षी
१० मस्करी ११ पारिरक्षकः १२ । इति हेम-
चन्द्रः ॥ निकारः । विरतिः । इति तत्रैव
नानार्थे ॥ * ॥ तस्य वाराणस्यां वासो यथा, --
“अष्टौ मासान् विहारस्य यतीनां संयतात्म-
नाम् ।
एकत्र चतुरो मासानब्दं वा निवसेत् पुनः ॥
अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते ।
यतिभिर्मोक्षकामैश्च अविमुक्तं निषेव्यते ॥”
इति मात्स्ये अविमुक्तमाहात्म्ये १५९ अध्यायः ॥
यतिधर्म्मो यथा, --
“अलावुं दारुपात्रञ्च मृण्मयं वैदलं तथा ।
एतानि यतिपात्राणि मनुः स्वायद्भुवोऽब्रवीत् ॥
एककालं चरेद्भैक्ष्यं न प्रसज्जत विस्तरे ।
भक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥
विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥
अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्बिनिर्गतः ॥
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्व्वशः ।
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि वध्यते ॥
पृष्ठ ४/०११
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्त्तयेत् ॥
इन्द्रियाणां निरोधेन रागद्बेषक्षयेण च ।
अहिंसया च भूतानाममृतत्वाय कल्पते ॥
अवेक्षेत गतीर्नॄणां कर्म्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनाश्च यमक्षये ॥
विप्रयोगं प्रियैश्चैव संयोगञ्च तथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥
देहादुत्क्रमणञ्चास्मात् पुनर्गर्भे च सम्भवम् ।
योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥
अधर्म्मप्रभवञ्चैव दुःखयोगं शरीरिणाम् ।
धर्म्मार्थप्रभवञ्चैव सुखसंयोगमक्षयम् ॥
सूक्ष्मताञ्चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥
दूषितोऽपि चरेद्धर्म्मं यत्र तत्राश्रमे रतः ।
समः सर्व्वेषु भूतेषु न लिङ्गं धर्म्मकारणम् ॥
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति ॥
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥
अह्ना रात्र्या च यान् जन्तून् हिनस्त्यज्ञानतो
यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् समाचरेत् ॥
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः ।
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥
प्राणायामैर्द्दहेद्दोषान् धारणाभिश्च किल्विषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ।
उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः ।
ध्यानयोगेन सम्पश्येत् गतिमस्यान्तरात्मनः ॥
सम्यग्दर्शनसम्पन्नः कर्म्मभिर्न निवध्यते ।
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्म्मभिः ।
तपसश्चरणैश्चोग्रैः साधयन्तीह तत् पदम् ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्म्मावनद्धं दुर्गन्धिपूर्णं मूत्रपुरीषयोः ॥
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।
तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्बिमुच्यते ॥
प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥
यदा भावेन भवति सर्व्वभावेषु निष्पृहः ।
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥
अनेन विधिना सर्व्वांस्त्यक्त्वा सङ्गान् शनैः शनैः ।
सर्व्वद्बन्द्बविनिर्म्मुक्तो ब्रह्मण्येवावतिष्ठते ॥
ध्यानिकं सर्व्वमेवैतत् यदेतदभिशब्दितम् ।
न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत् ॥
इदं शरणमज्ञानामिदमेव विजानताम् ।
इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
स विधूयेहपाप्मानं परं ब्रह्माधिगच्छति ॥”
इति मानवे ६ अध्यायः ॥
(ब्रह्मणः पुत्त्रविशेषः । यथा, श्रीमद्भागवते । ४ ।
८ । १ ।
“सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।
नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्द्ध्वरेतसः ॥”
नहुषपुत्त्रः । यथा, महाभारते । १ । ७५ । ३० ।
“यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ।
नहुषो जनयामास षट्सुतान् प्रियवाससि ॥”
विश्वामित्रपुत्त्रः । यथा, महाभारते । १३ । ४ । ५७ ।
“आराणिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा ।
नवतन्तुर्वकनखः सयनो यतिरेव च ॥”
त्रि । कर्म्मसूपरतोऽयष्टा । यथा, ऋग्वेदे ।
८ । ३ । ९ ।
“येनायतिभ्यो भृगवे धने हिते
येन प्रस्कण्वमाविथ ॥”
“येन सुवीर्य्येण यतिभ्यः कर्म्मसूपरतेभ्योऽयष्टृभ्यो
जनेभ्यः सकाशात् धनमाहृत्य भृगवे महर्षये
प्रयच्छसि ।” इति तद्भाष्ये सायणः ॥)

यतिः, स्त्री, (यम्यते रसनात्रेति । यम् + “स्त्रियां

क्तिन् ।” ३ । ३ । ९४ । इति क्तिन् । “अनु-
दात्तोपदेशवनतितनोत्यादीनामिति ।” । ६ । ४ ।
३७ । इति मकारलोपः ।) पाठविच्छेदः । इति
मेदिनी । ते, ४६ ॥ जिह्वेष्टविश्रामस्थानम् ।
यथा, --
“यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ।
सा विच्छेदविरामाद्यैः पदैर्व्वाच्या निजेच्छया ॥
क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्ब्बकृतिभिः
पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च ।
पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां
यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ॥
श्वेतमाण्डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ।
इत्याह भट्टः स्वग्रन्थे गुरुर्मे पुरुषोत्तमः ॥”
इति च्छन्दोमञ्जरी । १ । १६ -- १८ ॥
(नियम्यते इति । यम् + क्तिन् । यतते चेष्टते
व्रतादिरक्षार्थं इति वा । यत + “सर्व्वधातुभ्य
इन् ।” उणा० ४ । ११७ । इति इन् ।) विधवा ।
रागः । सन्धिः । इति शब्दरत्नावली ॥ वाद्याङ्ग-
प्रबन्धविशेषः । यथा, --
“यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् ।
गनपः सारिगोणी च नादश्च कथितं तथा ।
प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥”
यथा दं थातः । इत्येकताल्यां यतिः । इति
सङ्गीतदामोदरः ॥ (सा त्रिविधा । यथा,
मार्कण्डेयपुराणे । २३ । ५३ ।
“चतुर्विधं पदं तालं त्रिःप्रकारं लयत्रयम् ।
यतित्रयं तथा तोद्यं मया दत्तं चतुर्विधम् ॥”)

यतिचान्द्रायणं, क्ली, (यतिभिरनुष्ठेयं चान्द्रायणम् ।)

व्रतविशेषः । यथा, --
“अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने स्थिते ।
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥”
इति मानवे ११ अध्यायः ॥
यतिचान्द्रायणे पादोनधेनुचतुष्टयं तदशक्तौ
सपादैकादशकार्षापणाः । इति प्रायश्चित्त-
विवेकः ॥

यतिनी, स्त्री, (यतं संयमोऽस्या अस्तीति । यत +

इनिः । स्त्रियां ङीप् ।) विधवा । यथा, --
“विघवा जानिका रण्डा विश्वस्ता यतिनी
यतिः ॥”
इति शब्दरत्नावली ॥

यतिमैथुनं, क्ली, (यतीनां दुष्टयतीनामिव गोप-

नीयं मैथुनम् ।) यतिगोप्यरतिः । तत्पर्य्यायः ।
खञ्जनरतम् २ । इति त्रिकाण्डशेषः ॥

यती, स्त्री, (यतिः । कृदिकारादिति स्त्रियां ङीष् ।)

विधवा । इति शब्दरत्नावली ॥

यती, [न्] पुं, (यतं संयमोऽस्यास्तीति । यत् +

इनिः ।) यतिः । जितेन्द्रियः । इत्यमरः । २ ।
७ । ४४ ॥ (यथा, मुग्धबोधे कारकप्रकरणे ।
“सृष्ट्वा दधिं शारुकमेतदर्च्चका-
नुन्नीतवन्तं यतिभिः सुदर्शनम् ॥”)

यतुका, स्त्री, (यत् + बाहुलकात् उकन् पक्षे

ऊक । स्त्रियां टाप् ।) वृक्षविशेषः ।
यथा, --

यतूका, स्त्री, (यत् + बाहुलकात् उकन् पक्षे

ऊक । स्त्रियां टाप् ।) वृक्षविशेषः ।
यथा, --
“रजनी स्यात्तु यतुका यतूका जननीति च ॥”
इति शब्दरत्नावली ॥

यत्नः, पुं, (यत + “यजयाचयतविच्छप्रच्छरक्षो

नङ् ।” ३ । ३ । ९० । इति नङ् ।) रूपादि-
चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । स च
त्रिविधः । प्रवृत्तिः १ निवृत्तिः २ जीवन-
योनिः ३ । यथा, --
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनयोनयः ।
एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्त्तितम् ॥”
तेषां कारणं यथा, --
“चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ।
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥
निवृत्तिस्तु भवेद्द्वेषाद्द्विष्टसाधनताधियः ।
यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् ।
शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥”
इति भाषापरिच्छेदः ॥
उद्योगः । यथा, --
“उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥”
इति हितोपदेशः ॥

यत्नवान्, [त्] त्रि, यत्नविशिष्टः । यत्नशब्दात्

वतुप्रत्ययेन निष्पन्नः ॥ (यथा, हरिवंशे । ८६ । ९ ।
“कंसेनापि समाज्ञप्तश्चानूरः पूर्ब्बमेव तु ।
योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥”)

यत्र, इ क संकोचने । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) दन्त्यवर्गाद्योपधः ।
इ क, यन्त्रयति मन्त्रेण सर्पं जाङ्गलिकः । यन्त्र
पृष्ठ ४/०१२
इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
इति दुर्गादासः ॥

यत्र, व्य, यस्मिन् । येखाने इति भाषा । यच्छब्दात्

सप्तम्यास्त्रल्प्रत्ययेन निष्पन्नम् । इति सिद्धान्त-
कौमुदी ॥ (यथा, श्रीमद्भगवद्गीतायाम् ।
“यत्र यत्र मनो देही धारयेत् सकलं धिया ।
स्नेहाद्बा यदि वा लोभाद् याति तत्तत् सरूप-
ताम् ॥”)

यथा, व्य, सादृश्यम् । साम्यम् । तत्पर्य्यायः । वत् २

वा ३ तथा ४ एव ५ एवम् ६ । इत्यमरः । ३ ।
४ । ९ ॥ (यथा, उत्तररामचरिते । २ । ४ ।
“वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न च खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति च ।
भवति च तयोर्भूयान् भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्विम्बोद्ग्राहे मणिर्न मृदां चयः ॥”)

यथाकामी, [न्] त्रि, (यथा कामयते इति ।

कामि + णिनिः । यद्वा, काममनतिक्रम्य प्रवृत्ति-
रस्यास्तीति । यथाकाम + अत इनिठनाविति
इनिः ।) स्वेच्छाचारी ॥ तत्पर्य्यायः । स्वरुचिः २
स्वच्छन्दः ३ स्वैरी ४ अपावृतः ५ स्वतन्त्रः ६
निरवग्रहः ७ । इति हेमचन्द्रः । ३ । १९ ॥
निर्यन्त्रणः ८ । इति जटाधरः ॥ (यथा,
याज्ञ्यवल्क्यसंहितायाम् । १ । ८१ ।
“यथाकामी भवेद्बापि स्त्रीणां वरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥”)

यथाक्रमं, व्य, क्ली, क्रमानुरूपम् । क्रममनतिक्रम्येति

व्याकरणम् ॥ (यथा, रघुवंशे । ३ । १० ।
“यथाक्रमं पुंसवनादिकाः क्रियाः
धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥”)
अपि च ।
“यथाक्रमेण पुत्त्रण कार्य्या प्रेतक्रिया सदा ।
पतितापतिता वापि एकोद्दिष्टविधानतः ॥”
इति श्राद्धतत्त्वम् ॥

यथाजातः, त्रि, (यथा न जातः इति यथा-

जातः । जातोऽपि पुत्त्रादिरजात इव प्रतीयते
विद्यया शौर्य्येण वा न कैरपि विदितत्वात् ।)
मूर्खः । इत्यमरः । ३ । १ । ४८ ॥ नीचः । इति
जटाधरः ॥

यथातथं, व्य, क्ली, (यथा वर्त्तते तथानतिक्रम्य

इति अनतिवृत्तौ अव्ययीभावः । अव्ययीभावश्च ।
२ । ४ । १८ । इति नपुंसकत्वम् । “ह्रस्वो
नपुंसके प्रातिपदिकस्य ।” १ । २ । ४७ । इति
ह्रस्वः । “नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।” २ ।
४ । ८३ । इति प्रथमाविभक्तेरमादेशः ।)
यथार्थम् । इति हारावली ॥ (यथा, श्रीमद्भाग-
वते । ६ । १ । ४१ ।
“येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः ।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥”)

यथापूर्व्वं, व्य, क्ली, (पूर्व्वमनतिक्रम्य इत्यव्ययी-

भावः ।) पूर्ब्बदिग्देशकालानुरूपम् । यथा, --
“अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु
च ।
यथापूर्ब्बं यथा भावः स्वर्णादीनां न विष्णुता ॥”
इति तिथ्यादितत्त्वधृतकालिकापुराणवचनम् ॥

यथामुखीनः, त्रि, (यथामुख + “यथामुखसंमु-

खस्य दर्शनः खः ।” ५ । २ । ६ । इति खः ।)
मुखप्रतिविम्बाश्रयः । मुखस्य सदृशं यथामुखं
प्रतिविम्बं निपातनात् सादृश्येऽव्ययीभावः ।
यथामुखं दर्शनः यथामुखीनः । इति सिद्धान्त-
कौमुदी ॥ अपि च ।
“ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृगः ।
यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन् ॥”
इति भट्टिः ॥
मुखस्य सदृशं यथामुखं दर्पणादिस्थप्रतिविम्ब-
मुच्यते । सादृश्यार्थेऽव्ययीभावः । इति भरतः ॥
निर्म्मलत्वात् सीताया अग्रतो यथामुखीनः
प्रतिविम्बाश्रय इव भूत्वा पुप्लुवे भ्रमति स्म इव-
शब्दलोपो द्रष्टव्यः । इति जयमङ्गलः ॥

यथायथं, व्य, क्ली, (“यथास्वे यथायथम् ।” ८ ।

१ । १४ । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् ।
तस्मिन् यथाशब्दस्य द्बित्वं क्लीवत्वञ्च निपा-
त्यते । यथायथं ज्ञाता यथास्वभावमित्यर्थः यथा-
त्मीयमितिवेति । इति सिद्धान्तकौमुदी ।) यथा-
स्वम् । इत्यमरः । ३ । ४ । १५ ॥ (अनुरूपम् ।
यथा, श्रीमद्भागवते । १० । १८ । १९ ।
“तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-
वित् ।
हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥”
“यथायथं वयोवर्णाद्यनुरूपम् ।” इति तट्टी-
कायां श्रीधरस्वामी ॥ यथा च, --
“लिङ्गमव्यक्तमल्पत्वात् व्याघीनां तद्यथा
यथम् ॥”
इति वाग्भटे निदानस्थाने प्रथमेऽध्याये ॥
“यथायथं यस्य व्याधेर्यद्रूपं तदेवाव्यक्तम् ।”
इति तद्ब्याख्याने विजयरक्षितः ॥)

यथार्थं, व्य, क्ली, यथातथम् । इत्यमरः । ३ । ४ । १५ ॥

“द्बे अव्यभिचारिणि । अर्थमनतिक्रान्तं यथार्थं
यथास्वरूपं यथातथं उभयत्र अव्ययीभावः ।
यथार्थमेवेदम् । यथातथं वक्ति सभासु विद्बान् ।”
इति भरतः ॥ तत्पर्य्यायः ।
“सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् ।
यथास्थितञ्च सद्भूतेऽलीके तु वितथानृते ॥”
इति हेमचन्द्रः ॥
(यथा, महाभारते । १३ । ६ । १८ ।
“कृतञ्चापकृतं किञ्चित् कृते कर्म्मणि सिध्यति ।
सुकृतं दुष्कृतं कर्म्म न यथार्थं प्रपद्यते ॥”)

यथार्हं, व्य, क्ली, (अर्हं योग्यमनतिक्रम्य इत्य-

व्ययीभावः ।) यथायोग्यम् । यथा, --
“कृत्वा तु तौ यथान्यायं यथार्हन्तेन संविदम् ।
उपविष्टौ कथाः काश्चिच्चक्रतुर्व्वैश्यपार्थिवौ ॥”
इति देवीमाहात्म्यम् ॥

यथार्हवर्णः, पुं, (यथार्हं यथायोग्यं वर्णयतीति ।

वर्ण + अच् ।) चरः । इत्यमरः । २ । ८ । १३ ॥
यथायोग्यमक्षरं रूपं जातिश्च ॥

यथाशक्ति, व्य, क्ली, शक्त्यनुसारेण । शक्तिमनति-

क्रम्य । इति मुग्धबोधव्याकरणम् ॥ (यथा,
श्रीमद्भागवते । ६ । १२ । १६ ।
“पश्य मां निर्जितं शक्र ! वृक्णायुधभुजं मृधे ।
घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥”)

यथाशास्त्रं, व्य, क्ली, शास्त्रानुसारेण । शास्त्रमनति-

क्रम्य । यथा, मलमासतत्त्वे ।
“यथाशास्त्रञ्च निर्णीतो यथाव्याधि चिकित्-
सितः ।
न शमं याति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः ॥”

यथास्थितं, त्रि, सत्यम् । इति हेमचन्द्रः । २ । १७९ ॥

यथास्वं, व्य, क्ली, (स्वमनतिक्रम्येत्यव्ययीभावः ।)

यथावाञ्छितम् । इत्यमरः ॥ (यथा, सुश्रुते
चिकित्सास्थाने ८ अध्याये ।
“बन्धं ततोऽनुकुर्व्वीत परिषेकन्तु सर्पिषा ।
तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ॥”)

यथेप्सितं, व्य, क्ली, (ईप्सितमनतिक्रम्येति ।) यथा-

वाञ्छितम् । (यथा, भट्टिकाव्ये । २ । २८ ।
“तान् प्रत्यवादीदथ राघवोऽपि
यथेप्सितं प्रस्तुतकर्म्म धर्म्म्यम् ।
तपो मरुद्भिर्भवतां शराग्निः
सन्धुक्ष्यतां नोऽरिसमिन्धनेषु ॥”)
तत्पर्य्यायः । कामम् २ प्रकामम् ३ पर्य्याप्तम् ४
निकामम् ५ इष्टम् ६ । इत्यमरः । २ । ९ । ५७ ॥
षट् इष्टानतिक्रमे स्वच्छन्दप्रवृत्तौ कामादीनि
प्रायः क्रियाविशेषणानि क्रियाविशेषणत्वात्
क्लीवत्वमेषाम् । ईप्सितस्यानतिक्रमो यथेप्सित-
मित्यव्ययीभावः । इति भरतः ॥

यथेष्टं, व्य, क्ली, इष्टमनतिक्रम्य । यथेप्सितम् ।

यथा, --
“कुर्य्युर्यथेष्टं तत् सर्व्वमीशास्ते स्वधनस्य वै ॥”
इति दायभागः ॥

यथेष्टचारी, [न्] पुं, (यथेष्टं चरतीति । चर +

णिनिः ।) पक्षी । इति शब्दचन्द्रिका ॥

यथेष्टाचरणः, त्रि, (यथेष्टं आचरणं यस्य ।)

यथेष्टाचारी । यथा, --
“क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टारचणस्याहुर्मरणान्तमशौचकम् ॥”
यथेष्टाचरणस्य द्यूतवेश्याद्यासक्तस्य । इति
शुद्धितत्त्वम् ॥

यथेष्टाचारी, [न्] पुं, स्वेच्छाचारी । यथेष्ट-

माचरितुं शीलमस्य इत्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

यथोचितं, व्य, क्ली, (उचितमनतिक्रम्येति ।)

यथायोग्यम् । यथाप्राप्तम् । यथा । “भ्रेषो
भ्रंशो यथोचितात् ।” इत्यमरः । २ । ८ । २३ ॥
(यथा च श्रीमद्भागवते । ४ । २२ ५० ।
“कर्म्माणि च यथाकालं यथादेशं यथाबलम् ।
यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥”
त्रि, यथोचितमस्यास्तीति । अर्श आद्यच् ।
यथार्हः । यथा, मार्कण्डेये । १६ । ३८ ।
“वयमाप्यायिता मर्त्ययज्ञभागैर्यथोचितैः ।
वृष्ण्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥”)
पृष्ठ ४/०१३

यथोदितं, व्य, क्ली, (उदितं कथितमनतिक्रम्य

इत्यव्ययीभावः ।) यथोक्तम् । यथा, --
“यथोदितन्ते पितृभिः कुरु दारपरिग्रहम् ॥”
इति मार्कण्डेयपुराणे रुचिस्तोत्रम् ॥

यदा, व्य, (यस्मिन् काले इति । यद् + “सर्व्वै-

कान्यकिंयत्तदः काले दा ।” ५ । ३ । १५ । इति दा ।)
यस्मिन् काले । यथा, --
“यदा यदा सतां हानिर्व्वेदमार्गानुसारिणाम् ।
तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥”
इति तिथ्यादितत्त्वधृतवचनम् ॥

यदि, व्य, पक्षान्तरम् । सम्भावना । तत्पर्य्यायः ।

चेत् २ यद्युवा ३ । यथा, --
“यदीच्छेद्बिपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् ।
प्रातःस्नायी भवेन्नित्यं द्बौ मासौ माघफाल्गुनौ ॥”
इति मलमासतत्त्वम् ॥
“अपि चेत् सुदुराचारो भजते मामन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥”
इति श्रीभगवद्गीता ॥
“यद्युवाल्पतरसम्भारः स्यादपि पशुनैव कुर्य्यात्
इति । यद्युवेति निपातसमुदायो यद्यर्थे ।” इति
तिथ्यादितत्त्वम् ॥

यदीयं, त्रि, (यस्येदमिति । यद् + “वृद्धाच्छः ।”

९ । २ । ११४ । इति छः ।) यत्सम्बन्धि । यथा,
“यदीयहलतो विलोक्य विपदं
कलिन्दतनया जलोद्धतगतिः ।
विलासविपिनं विवेश सहसा
करोतु कुशलं हली स जगताम् ॥”
इति छन्दोमञ्जर्य्यां द्बितीयस्तवकः ॥

यदुः, पुं, (यजते इति । यज् + उः । पृषोदरादि-

त्वात् जस्थाने दकारः ।) देवयान्यां जातो
ययातेर्ज्येष्ठपुत्त्रः । तस्य वंशे पितृशापात् राजा-
चक्रवर्त्ती नासीत् । तद्वंशे द्वापरयुगस्यान्ते
श्रीकृष्णोऽवतीर्णः । इति श्रीभागवतमतम् ॥
तस्य मातुलकन्याविवाहकारणं यथा, --
“जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह ।
पुत्त्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः ॥
त्वं यदो ! प्रतिमद्यस्व पाप्मानं जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा संप्रतिपत्स्यामि पाप्मानं जरया सह ॥
यदुरुवाव ।
सितश्मश्रुधरो दीनो जरया शिथिलीकृतः ।
बलीसन्ततगात्रश्च दुर्द्धर्षो दुर्ब्बलः कृशः ॥
अशक्तः कार्य्यकरणे पापभूतश्च यौवने ।
सहोपजीविभिश्चैव तां जरां नैव कामये ॥
सन्ति ते बहवः पुत्त्रा मत्तः प्रियतरा नृप ! ।
जरां ग्रहीतुं धर्म्मज्ञ ! पुत्त्रमन्यं वृणीष्व वै ॥
ययातिरुवाच ।
यो मे त्वं हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
पापान्मातुलसम्बन्धात् प्रजा वै ते भविष्यति ॥”
इति मात्स्ये ३१ अध्यायः ॥ * ॥
(हर्य्यश्वराजपुत्त्रः । यथा, हरिवंशे । ९३ । ४४ ।
“तस्यैवं सुप्रवृत्तस्य पुत्त्रकामस्य धीमतः ।
मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ॥”)

यदुनाथः, पुं, (यदूनां नाथः ।) श्रीकृष्णः । इति

हेमचन्द्रः । २ । १३३ ॥

यदुपतिः, पुं, (यदूनां पतिः ।) श्रीकृष्णः । यथा --

“यदुपतेः क्व गता मथुरापुरी
रघुपतेः क्व गतोत्तरकोशला ।
इति विचिन्त्य कुरुष्व मनः स्थिरं
न सदिदं जगदित्यवधारय ॥”
इति रूपसनातनगोस्वामिनौ ॥

यदृच्छा, स्त्री, स्वातन्त्र्यम् । तत्पर्य्यायः । स्वैरिता २ ।

इत्यमरः । ३ । २ । २ ॥ स्वरिता ३ । इति तट्टीका ॥
(यथा, गीतायाम् । २ । ३२ ।
“यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्त्रियाः पार्थ ! लभन्ते युद्धमीदृशम् ॥”)

यद्युवा, व्य, यदि । यथा । “यद्युवाल्पतरसम्भारः

स्यादपि पशुनैव कुर्य्यात् । यद्युवेति निपातसमु-
दायो यद्यर्थे । अपि च । यद्युवा उभयं
चिकीर्षेद्धौत्रं ब्रह्मत्वञ्च इति तेनैव कल्पेन
छत्रमुत्तरासङ्गं सोदकं कमण्डलुं दर्भवटुं वा
ब्रह्मासने निधाय तेनैव प्रत्यावृत्यान्यच्चेष्टेत् ।”
इति तिथ्यादितत्त्वम् ॥

यद्वा, स्त्री, बुद्धिः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पक्षान्तरञ्च ॥

यन्ता, [ऋ] पुं, (यम् + तृच् ।) सारथिः । (यथा,

रघौ । ७ । ४४ ।
“प्रहारमूर्च्छापगमे रथस्था
यन्तॄनुपालभ्य निवर्त्तिताश्वान् ।
यैः सादिता लक्षितपूर्ब्बकेतून्
तानेव सामर्षतया निजघ्नुः ॥)
हस्तिपकः । इत्यमरः । ३ । ३ । ५९ ॥ (यथा,
माघे । ५ । ४२ ।
“सेव्योऽपि सानुनयमाकलनाय यन्त्रा
नीतेन वन्यकरिदानकृताधिवासः ।
नाभाजि केवलमभाजि गजेन शाखी
नान्यस्य गन्धमपि मानभृतः सहन्ते ॥”)
विरतिकारके, त्रि ॥

यन्त्रं, क्ली, (यच्छत्यत्रेति । यम + “गुधृवीपचिवचि-

यमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ । १६६ ।
इति त्रः ।) देवाद्यधिष्ठानम् ॥ (यथा, देवी-
भागवते । ३ । २६ । २१ ।
“अर्च्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।
स्थापयेत् पीठपूजार्थं कलसं तत्र पार्श्वतः ॥”)
पात्रभेदः । नियन्त्रणम् । इति हेमचन्द्रः ॥
अग्नियन्त्रम् । इति महाभारतटीकायां नील-
कण्ठः ॥ कामान् वन्दूक इत्यादि भाषा ॥ * ॥
वाद्यम् । यथा, --
“यन्त्रस्य गुणदोषौ न विचार्य्यौ मधुसूदन ! ।
अहं यन्त्रं भवान् यन्त्री न मे दोषा न मे गुणाः ॥”
इति महाभारतम् ॥
दारुयन्त्रादि । कल इति भाषा । यथा, --
“ईश्वरः सर्व्वभूतानां हृद्देशेऽर्ज्जुन ! तिष्ठति ।
भ्रामयन् सर्व्वभूतानि यन्त्रारूढानि मायया ॥”
इति श्रीभगवद्गीतायाम् । १८ । ६१ ॥
अस्यार्थः । “सर्व्वभूतानां हृन्मध्ये इश्वरोऽन्तर्यामी
तिष्ठति । किं कुर्व्वन् सर्व्वाणि भूतानि मायया
निजशक्त्या भ्रामयंस्तत्तत्कर्म्मसु प्रवर्त्तयन् यथा
दारुयन्त्रमारूढानि कृत्रिमाणि भूतानि सूत्र-
धारो लोके भ्रामयति तद्बदिति । यद्बा यन्त्राणि
शरीराणि आरूढानि भूतानि देहाभिभानिनो
जीवान् भ्रामयन्नित्यर्थः ।” इति श्रीधरस्वामी ॥
अथ पूजाधारयन्त्रम् । तत्र नारदीये ।
“आपोऽग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम् ।
यन्त्रञ्च प्रतिमास्थानमर्च्चने सर्व्वदा हरेः ॥”
गौतमीये ।
“शालग्रामे मणौ यन्त्रे प्रतिमामण्डलेषु च ।
नित्यं पूजा हरेः कार्य्या न तु केवलभूतले ॥”
योगिनीतन्त्रे ।
“लिङ्गस्थां पूजयेद्देवीं पुस्तकंस्थां तथैव च ।
मण्डलस्थां महामायां यन्त्रस्थां प्रतिमासु च ।
जलस्थां वा शिलास्थां वा पूजयेत् परमेश्वरीम् ॥”
एतत् सर्व्वं यन्त्राभावे । कौलावलीये ।
“यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते ।
करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठति ।
तत्र देवी वसेन्नित्यं तद्यन्त्रे चण्डिकार्च्चनम् ॥”
एतत् सर्व्वयन्त्राभावे । तथा च ।
“यन्त्रं मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतैव हि ।
देहात्मनोर्यथा भेदो यन्त्रदेवतयोस्तथा ॥”
तथा ।
“आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम् ।
कामक्रोधादिदोषोत्थसर्व्वदुःखनियन्त्रणात् ॥
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ।
विना यन्त्रेण पूजायां देवता न प्रसीदति ॥
दुःखनिर्यन्त्रणाद्यन्त्रमित्याहुस्तन्त्रवेदिनः ॥”
इति यन्त्रपूजाप्राधान्यम् ॥ * ॥
अथ धारणयन्त्राणि । तत्रादौ भुवनेश्वरी-
यन्त्रम् । शारदायाम् ।
“आलिख्याष्टदिगर्गलान्युदरगं पाशादिकं
त्र्यक्षरं
कोष्ठेष्वङ्गमनून् परेषु विलिखेदष्टार्णमन्त्रद्बयम् ।
अच्पूर्ब्बापरषट्कयुग् लयवरान् व्योमास-
नानर्गले-
ष्वालिख्येन्द्रजलाधिपादिगुणशः पंक्तिद्वयात्तत्-
परम् ॥
कोष्ठेष्वष्टयुगार्णमात्मसहितां युग्मस्वरान्तर्गतां
मायां केशरगां दलेषु विलिखेन्मलं त्रिपंक्ति-
क्रमात् ।
त्रिः पाशाङ्कुशवेष्टितञ्च लिपिभिर्व्वीतं क्रमाद्-
व्युत्क्रमात्
पद्मस्थेन घटेन पङ्कजमुखेनावेष्टितं तद्बहिः ॥”
घटार्गलमिदं यन्त्रं मन्त्रिणां श्रीप्रदं महत् ।
पाशश्रीशक्तिकन्दर्पकामशक्तीन्दिराङ्कुशाः ॥
प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनि रञ्जिनि ।
स्वाहान्तोऽष्टाक्षरः सद्भिरपरः परिकीर्त्तितः ॥
पृष्ठ ४/०१४
ह्रीं गौरि रुद्रदयिते योगेश्वरि सवर्म्मफट् ।
द्विठान्तः षोडशार्णोऽयं मन्त्रः सद्भिरुदीरितः ॥”
इति घटार्गलयन्त्रम् ॥ * ॥
“तारे हुँ विलिखेत् सरोजकुहरे साध्याभि-
धानान्वितं
मन्त्रार्णान् वसुसंख्यकान् वसुदलेष्वालिख्य
तद्बाह्यतः ।
शक्त्या त्रिः परिवेष्टितं घटगतं पद्मस्थमब्जाननं
यन्त्रं वश्यकरं ग्रहादिभयहृल्लक्ष्मीप्रदं
कीर्त्तिदम् ॥”
इति त्वरितायन्त्रम् ॥ * ॥
“पद्मं भानुदलान्वितं प्रविलिखेत् तत्कर्णिकायां
पुन-
स्तारं शक्तिगबीजसाध्यसहितं तत्केशरेषु
क्रमात् ।
मर्दिन्यामनुसम्भवान् युगलशो वर्णान् पुनः
पत्रगान्
मन्त्रार्णान् गुणशो विधाय विलिखेदन्त्यं
तदन्त्ये दले ॥”
मन्त्रस्तु ।
“उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं वा तन्मे भगवति शमय
स्वाहा ॥
मातृकार्णेन संवीतं भूपुरद्वयमध्यगम् ।
यन्त्रञ्च विन्ध्यवासिन्याः प्रोक्तं सर्व्वसमृद्धिदम् ॥
रक्षाकरं विशेषेण क्षुद्रभूतादिनाशनम् ।
राज्यदं भ्रष्टराज्यानां वश्यदं वश्यमिच्छताम् ॥
सुतार्थिनीनां सुतदं रोगिणां रोगशान्तिदम् ।
बहुना किमिहोक्तेन यन्त्रं यत् कामदो मणिः ॥”
इति वनदुर्गायन्त्रम् ॥ * ॥
अथ लक्ष्मीयन्त्रम् ।
“वेदादिस्थितसाध्यनामयुगशः श्रीशक्ति-
मारान्वितं
किञ्जल्केषु दिनेशपत्रविलसन्मन्त्राक्षरं तद्बहिः ।
पद्मं व्यञ्जनकेशरं स्वरलसत्पत्राष्टयुग्मं धरा-
विम्बाभ्यां वषडन्तया त्वरितया यन्त्रं लिखेद्-
बेष्टितम् ।
भूपुरद्वयकोणेषु हक्षौ लेख्यौ पुनः पुनः ।
महालक्ष्मीयन्त्रमिदं सर्व्वैश्वर्य्यफलप्रदम् ॥
सर्व्वदुःखप्रशमनं सर्व्वापद्बिनिवारकम् ।
बहुना किमिहोक्तेन परमस्मान्न विद्यते ॥” * ॥
अथ त्रिपुरभैरवीयन्त्रम् ।
“मध्याद्यं नवयोनिषु प्रविलिखेद्बीजानि वर्णांस्त्रिशो
गायत्त्र्याः पुनरष्टपत्रविवरेष्वालिख्य लिप्या-
वृतम् ।
भूविम्बद्वितयेन मन्मथयुजा कोणेषु संवेष्टितं
यन्त्रं त्रैपुरमीरितं त्रिभुवनप्रक्षोभणं श्रीप्रदम् ॥”
गायत्त्री तु ।
“मन्मथं त्रिपुरादेवि विद्महे पदमुद्धरेत् ।
उक्त्वा कामेश्वरिपदं प्रवदेदथ धीमहि ॥
अन्ते च प्रवदेद्भूयस्तन्नः क्लिन्ने प्रचोदयात् ।
गायत्त्र्यषा समाख्याता त्रैपुरी सर्व्वसिद्धिदा ॥”
यन्त्रान्तरम् ।
“वह्नेर्गेहयुगान्तरस्थमदने मायां लिखेद्वाग्भवं
षट्कोणेष्वथ सन्धिषु प्रविलिखेत् हुंकार-
मावेष्टितम् ।
स्त्रींबीजेन समीरितं त्रिभुवनप्रक्षोभणं त्रैपुरं
यन्त्रं पञ्चमनोभवात्मकमिदं सौन्दर्य्यसम्पत्-
करम् ॥”
इति त्रिपुरायन्त्रम् ॥ * ॥
अथ श्रीविद्यायन्त्रम् ।
“विशेषं धारणं यन्त्रं प्रसङ्गात् कथयामि ते ॥
रेफहकारयोर्मध्ये देवीनामभिमुख्यकम् ।
साध्यनाम द्वितीयान्तं तस्योर्द्धे विलिखेन्मनुम् ॥
तत्रैव मातृकां सर्व्वां विलिखेच्चक्रबाह्यतः ।
पञ्चगव्यामृतेनैव मूलेन परिवेष्टयेत् ॥
तत्र प्राणं प्रतिष्ठाप्य विद्यामष्टोत्तरं शतम् ।
तत् स्पृष्ट्वा प्रजपेन्मन्त्रं देवीध्यानपरायणः ॥
हेम्नो मध्यगतं कृत्वा रजतस्याथवा पुनः ।
करे धृत्वा जगद्बश्यं हृदये स्त्रीषु वल्लभम् ॥
कण्ठे धनं लभेद्भाले स्तम्भनं जम्भनं भवेत् ।
शिखायां मोक्षमाप्नोति तस्माद्यत्नेन धार-
येत् ॥” * ॥
अथ गणेशयन्त्रम् ।
“बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगं
दिक्षु लक्ष्मी-
मायाकन्दर्पभूमीस्तदनुरसपुटेष्वालिखेद्बीज-
षट्कम् ।
तत्सन्धिष्वङ्गमन्त्रान् वसुदलकमले मूलमन्त्रस्य
वर्णान्
शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चान्त्य-
मन्त्ये पलाशे ॥
आवीतं लिपिभिः क्रमोत्क्रमवशात् पाशा-
ङ्कुशाभ्यामपि
भूविम्बद्बितयेन विष्टितमिदं यन्त्रं गणाधीशितुः ।
लाक्षाकुङ्कुमरोचनामृगमदैर्भूर्जोदरे हेम्नि वा
संलिख्याभिवहन् लभेत सकलैः संप्रार्थनीयां
श्रियम् ॥
उक्तं महागणपतेर्व्विधानं सुरपूजितम् ।
सर्व्वसिद्धिकरं पुंसां समस्तपुरुषार्थदम् ॥” * ॥
अथ श्रीरामयन्त्रम् ।
“तारं मध्ये विलिखतु मनुं षट्सु कोणेषु सन्धि-
ष्वङ्गं मायां स्मरमपि लिखेत् कोणगण्डेषु
पश्चात् ।
किञ्जल्केषु स्वरगणमतो पत्रमध्येषु माला-
मन्त्रस्यार्णान् गुहमुखमितानष्टमे पञ्चवर्णान् ॥
दशाक्षरेण संवेष्ट्य कादिवर्णैश्च भूपुरे ।
दिग्विदिक्षु लिखेद्बीजे नरसिंहवराहयोः ॥
नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् ।
रक्षोघ्नविषदायान्ते मधुरादि समीरयेत् ॥
प्रसन्नवदनायेति पश्चादमिततेजसे ।
बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।
प्रणवादिनमोऽन्तोऽयं मालामन्त्रः प्रकीर्त्तितः ॥”
अथ नृसिंहयन्त्रम् ।
“बीजं साध्यसमन्वितं प्रविलिखेन्मध्येऽष्टपत्रेष्वथो
मन्त्रार्णान् श्रुतिशो विभज्य विलिखेल्लिप्या
बहिर्व्वेष्टयेत् ।
बाह्ये कोणगबीजबद्धवसुधागेहद्वयेनावृतं
यन्त्रं क्षुद्रविषग्रहामयरिपुप्रध्वंसनं श्रीप्रदम् ॥” * ॥
अय गोपालयन्त्रम् ।
“पिण्डं मूलेन वीतं दहनपुरयुगे कोणराजत्षडर्णं
कुर्य्यात् पद्मं दशार्णस्फुरितदशदलं कामबीजेन
वीतम् ।
पद्मं किञ्जल्कसंस्थस्वरविकृतिदलप्रोल्लसत्-
षोडशार्णं
किञ्जल्कव्यञ्जनाढ्यं विकृतियुगदलेष्वर्पितानष्ट-
वर्णान् ॥
पाशाङ्कुशाभ्यामावीतं क्षौणीपुरयुगास्रिषु ।
अष्टाक्षरेण लसितं यन्त्रं गोपालदैवतम् ॥
धर्म्मार्थकामफलदं सर्व्वरक्षाकरं स्मृतम् ।
पञ्चान्तको धरासंस्थो मनुर्बिन्दुविभूषितः ॥
पिण्डबीजमिदं प्रोक्तं सर्व्वसिद्धिकरं परम् ।
स्मरः कृष्णाय ठद्वन्द्वं षडर्णो मनुरीरितः ॥
गोपीजनान्ते प्रददेद्बल्लभायाग्निवल्लभा ।
अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ॥
प्रणवं हृदयं कृष्णं ङेऽन्तमुक्त्वा ततः परम् ।
तादृशं देवकीपुत्त्रं हुं फट्स्वाहासमन्वितम् ।
षोडशाक्षरमन्त्रोऽयं गोविन्दस्य जगत्पतेः ॥
पिण्डं रतिपतेर्ब्बीजं नमो भगवते ततः ।
नन्दपुत्त्राय बालादिवपुषे श्यामलाय च ॥
गोपीजनपदस्यान्ते वल्लभाय द्विठावधि ।
अनुष्टुप् मन्त्र आख्यातो गोपालस्य जगत्पतेः ॥
अनङ्गः कृष्णगोविन्दौ ङेऽन्तावष्टाक्षरो मनुः ॥”
इति गोपालयन्त्रम् ॥ * ॥
अथ गोपालस्य यन्त्रान्तरम् ।
“प्राक् प्रत्यक् दक्षिणोदक् विधिवदभिलिखेत्
स्पष्टरेखाचतुष्कं
कोणोद्यच्छूलयुक्तं बलययुगयुतं मध्यपूर्ब्बं
तदन्तम् ।
श्लोकस्यार्णान् पुरस्ताद्बसुपदविवरेष्वष्टवर्णं
लिखित्वा
तद्बाह्य द्वादशार्णैस्तदनुपरिवृतं देवकीपुत्त्र-
यन्त्रम् ॥
तं सुकी देव देवेतं तं वेदे वरतो वतम् ।
तं वतो रूढतो ख्यातं तं ख्यातो देवकीसुतम् ॥
लिखितं भूर्ज्जपत्रादौ यन्त्रमेतद्यथाविधि ।
विधृतं बाहुना नित्यं सर्व्वकामफलप्रदम् ॥
पलाशवृक्षफलके लिखितं साधु साधितम् ।
गोस्थाने निखनेदेतत् गवां बृद्धिर्भवेत्तदा ॥” * ॥
अथ शिवयन्त्रम् । तत्रादौ षट्कोणमण्डलं
कृत्वा तदन्तः साध्यनामयुक्तं प्रासादबीजं
विलिख्य षट्कोणेषु प्रणवसहितपञ्चाक्षरवर्णान्
विलिख्य विवरेषु षडङ्गमन्त्रान् तद्बहिः पञ्च-
दलानि विरचय्य तद्दलेषु ॐ ईशानाय नमः
ॐ तत्पुरुषाय नमः ॐ अघोराय नमः
पृष्ठ ४/०१५
ॐ सद्योजाताय नमः ॐ वामदेवाय नमः ।
इति पञ्चमन्त्रान् प्रागादिक्रमेण लिखेत् ।
तद्बहिरष्टदलानि रचयित्वा तद्दलेषु मातृका-
घर्णान् लिखेत् । तद्बहिर्वृत्तं त्र्यम्बकेन वेष्टयेत् ।
एतद्यन्त्रं जपहोमादिना सम्पूज्य धारयेत् ।
आयुरारोग्यैश्वर्य्यादिसिद्धिर्भवति ॥ * ॥ अथ
मृत्युञ्जयस्य यन्त्रम् ।
“मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमं
दिग्दलेषु
कोणेष्वन्त्यं मनोस्तत् क्षितिभुवनमथो दिक्षु
चन्द्रं विदिक्षु ।
टान्तं यन्त्रं तदुक्तं सकलभयहरं क्षेडभूतापमृत्यु-
व्याधिव्यामोहदुःखप्रशमनमुदितं श्रीप्रदं
कीर्त्तिदायि ॥” * ॥
अथकालीयन्त्रम् । यामले ।
“आद्यं बीजं ससाध्यं प्रथमवसुगृहे तद्वहि-
श्चाष्टकोणे
पूर्ब्बाद्यं चाष्टबीजं तदनु वसुगृहद्बन्द्बके
बीजषट्कम् ।
किञ्जल्कं तत् स्वराढ्यं वसुदलविवरे स्वाहया
बीजषट्कं
कूर्च्चाभ्यामेव वीतं क्षितिगृहयुगयोरन्तरे
यन्त्रराजम् ॥
देवीबीजत्रयं तत् प्रतिदिशमपरं शक्तिबीज-
द्बयं तत्
कोणे कोणे लिखेद्यस्त्रिजगति स गुरुः
शङ्करस्यापि विष्णोः ॥”
अथ शान्तिकादौ ताराधारणयन्त्रम् । तदुक्तं
फेत्कारीये ।
“योनियुग्मे लिखेन्मन्त्रं मन्त्री हेमशलाकया ।
क्लीवहीनान् दीर्घवर्णान् षट्कोणे विलिखेत्ततः ॥
अष्टपत्रेष्वष्टवर्णान् तद्बहिर्भूपुरद्वयम् ।
अष्टवज्रं भूपुरे च विलिख्य साधकोत्तमः ॥
सुवर्णपट्टे भूर्ज्जे वा रूप्ये वाप्यथ सुव्रते ।
विलिखेद्धेमलेखन्या गन्धाष्टकसमन्वितम् ॥
दूर्व्वाकाण्डेन वालिख्य कुशमूलेन वा पुनः ॥”
एकवीराकल्पे ।
“वेष्टितं पीतवस्त्रेण जतुना परिवेष्टयेत् ॥
बध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणम् ।
स्त्रीणां वामभुजे चैवमन्येषां दक्षिणे भुजे ।
बन्ध्यापि लभते पुत्त्रं निर्धनो धनवान् भवेत् ॥
इमां रक्षां पुरा बध्वा ज्ञानार्थं गौतमादिभिः ।
प्रीत्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्खिभिः ॥”
अस्यार्थः । योनियुग्मे षट्कोणे । तस्य मध्ये
हेमशलाकादिना भूर्ज्जपत्रादौ कुङ्कुमरोचना-
रक्तचन्दनजटामांसीनां समांशं विधाय पङ्क्ति
क्रमेण मूलमन्त्रं लिखित्वा तस्य हृल्लेखारेफ-
मध्ये अमुकस्य रक्षां कुरु कुरु अमुकीनां शुभं
पुत्त्रमुत्पादयेति वा अस्य ज्ञानं कुरु कुरु
इत्यादि वा साध्यसहितं विलिख्य षट्कोणे
क्लीवभिन्नान् दीर्घवर्णान् आ ई ऊ ऐ औ अः
इत्येकैकं लिखेत् । तदुक्तम् ।
“स्वराणां मध्यगं यच्च तच्चतुष्कं नपुंसकमिति ।”
अष्टपत्रेष्वष्टवर्णान् । ऐं ह्रीं ॐ ऐं ह्रीं फट्
स्वाहेति लिखेत् । तदुक्तम् ।
“वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ।
हृल्लेखा चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः ॥
अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः ॥”
अथ यन्त्रलिखनद्रव्यम् ।
“काश्मीररोचनालाक्षामृगेभमदचन्दनैः ।
विलिखेद्धेमलेखन्या यन्त्राण्येतानि देशिकः ॥
भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्म्माल्यसङ्गतम् ।
विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत् ॥
सौवर्णे राजते पात्रे भूर्जे वा सम्यगालिखेत् ।
अथवा ताम्रपट्टे वा गुटिकां कृत्य धारयेम् ॥
यावज्जीवं सुवर्णे स्यात् रौप्ये विंशतिवार्षिकम् ।
भूर्ज्जे द्बादश वर्षाणि तदर्द्ध्वं ताम्रपट्टके ॥”
इति तन्त्रसारः ॥ * ॥
अन्यत् कालिकापुराणे ७७ । ७८ । ७९ अध्यायेषु
द्रष्टव्यम् ॥ * ॥ अथ यन्त्रसंस्कारः । वामके-
श्वरतन्त्रे ।
“स्नात्वा संकल्पयेन्मन्त्री गुरोरर्च्चनमाचरेत् ।
पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण मन्त्रितम् ॥
तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् ।
तदुद्धृत्य ततश्चक्रं स्थापयेत् स्वर्णपात्रके ॥
पञ्चामृतेन दुग्धेन शीतलेन जलेन च ।
चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमेन च ॥
पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ।
तोयधूपान्तरैः कुर्य्यात् पञ्चामृतविधिं बुधः ॥
हाटकैः कलसैर्देवीमष्टभिर्व्वारिपूरितैः ।
कषायजलसम्पन्नैः कारयेत् स्नानमुत्तमम् ॥
स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपाठके ।
यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो
यन्त्रं प्रचोदयात् ॥
स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्त्र्या चाभिमन्त्रयेत् ।
अष्टोत्तरशतं देवि ! देवताभावसिद्धये ॥
आत्मशुद्धिं ततः कृत्वा षडङ्गैर्द्देवतां यजेत् ।
तत्रावाह्य महादेवीं जीवन्यासञ्च कारयेत् ॥
उपचारैः षोढशभिर्महामुद्रादिभिः सदा ।
फलताम्बूलनैवेद्यैर्देवीं तत्र समर्च्चयेत् ॥
पट्टसूत्रादिकं दद्यात् वस्त्रालङ्कारमेव च ।
अगुरुं चामरं घण्टां यथायोग्यं महेश्वरि ! ।
सर्व्वमेतत् प्रयत्नेन दद्यादात्महिते रतः ॥
ततो जपेत् सहस्रञ्च सकलेप्सितसिद्धये ।
बलिदानं ततः कृत्वा प्रणमेच्चक्रराजकम् ॥
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् ।
होमकर्म्मण्यशक्तश्चेत् द्बिगुणं जपमाचरेत् ॥
धेनुमेकां समानीय स्वर्णशृङ्गाद्यलङ्कृताम् ।
गुरवे दक्षिणां दद्यात् ततो देव्या विसर्ज्जनम् ॥”
अस्य प्रयोगः । कृतनित्यक्रियः स्वस्तिवाचन-
पूर्ब्बकं सङ्कल्पं कुर्य्यात् । आद्येत्यादि अमुक-
गोत्रः श्रीअमुकदेवशर्म्मा अमुकदेवतायाः
पूजार्थं अमुकयन्त्रसंस्कारमहं करिष्ये । इति
संकल्प्य पञ्चगव्यमानीय हौमितिमन्त्रेणाष्टोत्तर-
शतं अभिमन्त्र्य प्रणवेन यन्त्रं तत्र क्षिपेत् ।
तत उत्तोल्य स्थापयेत् । ततः शीतलजलचन्दन-
गन्धकस्तूकीकुङ्कुमैः स्नापयित्वा पञ्चगव्यमानीय
हौमिति मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य प्रणवेन
पूर्ब्बवत् शोधयित्वा स्नापयेत् । तत्र क्रमः ।
प्रथमं क्षीरेण स्नापयित्वा धूपं दद्यात् । एवं
दध्ना घृतेन मधुना शर्करया च । ततोऽष्टभिः
कलसैः कुङ्कुमगोरोचनाचन्दनमिश्रितैस्तोयैः
स्नापयेत् । सर्व्वत्र स्नानं मूलमन्त्रेण ततो
यन्त्रमुत्तोल्य कुशाग्रेण तत् स्पृष्ट्वा यन्त्रराजाय
विद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचो-
दयात् । इत्यष्टोत्तरशतमभिमन्त्र्य प्राणप्रतिष्ठां
कुर्य्यात् । अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णु-
महेश्वरा ऋषय ऋग्यजुःसामानि छन्दांसि
चैतन्यं देवता प्राणप्रतिष्ठायां विनियोगः ।
तद्यथा । आं ह्रीं क्रों यं रं लं वं शं षं सं हौं
हं सः अमुकदेवतायाः प्राणा इह प्राणाः ।
एवं आमित्यादि अमुकदेवतायाः जीव इह
स्थितः । एयं आमित्यादि अमुकदेवतायाः सर्व्वे-
न्द्रियाणि । एवं आमित्यादि अमुकदेवताया
वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं
तिष्ठन्तु स्वाहा । इति प्राणान् प्रतिष्ठाप्य तत्र
प्रकृतदेवतामावाह्य षोडशोपचारैः पञ्चोप-
चारैर्व्वा पूजयेत् । ततः पट्टसूत्रादिकं दत्त्वा
अष्ठोत्तरशतं अप्त्वा शक्तश्चेत् बलिं दद्यात् ।
ततोऽष्टोत्तरशतहोमं कृत्वा प्रत्याहुतिसम्पातं
दद्यात् । होमाभावे द्बिगुणजपः कार्य्यः । ततो
दक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्य्यात् ।
इति तन्त्रसारः ॥ * ॥ औषधपाकार्थयन्त्राणि
यथा, --
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके ।
कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते ॥
भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते ।
बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् ॥”
इति बालुकायन्त्रम् ॥
“निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे ।
रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥
सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् ।
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि ।
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥”
सन्धानं काञ्जिकादि । इति दोलायन्त्रम् ॥ * ॥
“साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च ।
पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥”
इति स्वेदनयन्त्रम् ॥
“अधःस्थाल्यां रसं क्षिप्त्वा निदध्यात्तन्मुखोपरि ।
स्थालीमूर्द्ध्वमुखीं सम्यक् निरुध्य मृदुमृत्सया ॥
ऊर्द्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः ॥
अधस्ताज्ज्वालयेदग्निं यावत् प्रहरपञ्चकम् ।
स्वाङ्गशीतं ततो यन्त्राद्गृह्णीयाद्रसमुत्तमम् ।
विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ॥”
इति विद्याधरयन्त्रम् ॥
“बालुकासु समस्ताङ्गं गर्त्ते मूषारसान्विता ।
पृष्ठ ४/०१६
दीप्तोपलैः मंवृणुयाद्यन्त्रं भूधरनामकम् ॥”
इति भूधरयन्त्रम् ॥
“यन्त्रं डमरुसंज्ञं स्यात्तत् स्थाल्योर्मुद्रिते मुखे ॥”
इति डमरुयन्त्रम् । इति भावप्रकाशः ॥ (तथाच ।
“अन्धमूषा तु कर्त्तव्या गोस्तनाकारसन्निभा ।
सैव छिद्रान्विता मध्ये गम्भीरामारणोचिता ॥”
इति अन्धमूषायन्त्रम् ॥
“द्बौ भागौ तु सदुग्धस्य एकावल्मीकमृत्तिका ।
लोहकिट्टस्य भागैकं श्वेतपाषाणभागिकम् ॥
नरकेशसमं किञ्चित् छागीदुग्धेन पेषयेत् ।
माषद्बयं दृढं मर्द्द्यं तेन मूषां सुसम्पुटाम् ॥
शोषयित्वा रसं क्षिप्त्वा तत्कल्कैः सन्धि लेपयेत् ।
रौद्रमूषा समाख्याता सम्यक्पारदसाधिका ॥”
इति मूषायन्त्रम् ॥ * ॥
“बालुकापूरितं भाण्डं तन्मध्ये सूतकं क्षिपेत् ।
रसं मूषागतञ्चैव भाण्डं स्रावेण रोधयेत् ॥
लिप्त्वा मृल्लवणैः सन्धिं पाचयेच्चुल्विकाग्निना ।
बालुकायन्त्रमेतद्धि योजयेद्रसकर्म्मणि ॥”
इति बालुकायन्त्रम् ॥
“तिर्य्यक्कण्ठं काचकुप्या गिलयेत् स्वल्पभाण्डकैः ।
तिर्य्यक्कृत्वा पचेत् भाण्डं वकयन्त्रमिति स्मृतम् ॥”
इति वकयन्त्रम् ॥
“ऊर्द्ध्वाधः संपुटाकारं तन्मध्ये रससंस्थितम् ।
कवचीयन्त्रमेतद्धि रसादिद्रव्यसाधनम् ॥”
इति कवचीयन्त्रम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणाद्यधिकारे ॥
चिकित्सोपयग्यपरयन्त्रविवृतिर्यथा, --
“यन्त्रशतमेकोत्तरमत्र हस्तमेव प्रधानतमं
यन्त्राणामवगच्छ । किं कारणम् । यस्माद्धस्ता-
दृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्म्म-
णाम् । तत्र मनःशरीरावाधकराणि शल्यानि
तेषामाहरणोपायो यन्त्राणि । तानि षट्प्रका-
राणि । तद्यथा । स्वस्तिकयन्त्राणि । सन्दंश-
यन्त्राणि । तालयन्त्राणि । नाडीयन्त्राणि ।
शलाकायन्त्राणि । उपयन्त्राणि चेति ॥
तत्र चतुर्व्विंशतिः स्वस्तिकयन्त्राणि । द्वे सन्दंश-
यन्त्रे । द्वे एव तालयन्त्रे । विंशतिर्नाड्यः । अष्टा-
विंशतिः शलाकाः । पञ्चविंशतिरुपयन्त्राणि ॥
तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूप-
काणि वा तदलाभे । तत्र नानाप्रकाराणां
व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां
प्रायशः सदृशानि तस्मात् तत्सारूप्यादागमादु-
पदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ।
समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च ।
सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ॥
तत्र स्वस्तिकयन्त्राण्यष्टादशाङ्गुलप्रमाणानि
सिंहव्याघ्रवृकतरक्षुऋक्षद्वीपिमार्जारशृगाल-
मृगैर्व्वारुककाककङ्ककुररचासभासशशघात्यु-
लूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णाव-
भञ्जननन्दिमुखमुखानि मसूराकृतिभिः कीलै-
रवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाण्यस्थि-
विनष्टशल्योद्धरणार्थमुपदिश्यन्ते ॥ * ॥ सनिग्रहो-
ऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतस्त्वग्मांस-
सिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ।
तालयन्त्रे द्बादशाङ्गुले मत्स्यतालुवदेकतालद्बि-
तालके कर्णनासानाडीशल्यानामाहरणार्थम् ।
नाडीयन्त्राण्यनेकप्रकाराण्यनेकप्रयोजनान्येक-
तोमुखान्युभयतोमुखानि च तानि स्रोतोगत-
शल्योद्धरणार्थं रोगदर्शनार्थमाचूषणार्थं क्रिया-
सौकर्य्यार्थञ्चेति तानि स्रोतोद्वारपरिणाहानि
यथायोगपरिणाहदीर्घाणि च ।
भगन्दरार्शोऽर्व्वुदव्रणवस्त्युत्तरवस्तिमूत्रवृद्धिद-
कोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयत्त्राण्यलावु-
शृङ्गयन्त्राणि चोपरिष्टाद्धक्ष्यामः ।
शलाकायन्त्राण्यपि नानाप्रकाराणि नाना-
प्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां
गण्डूपदशरपुङ्खसर्पफणवडिशमुखे द्वे द्वे एषण-
व्यूहनचालनाहरणार्थमुपपदिश्येते । मसूरदल-
मात्रमुखे द्वे किञ्चिदानताग्रे स्रोतोगतशल्योद्ध-
रणार्थम् । षट्कार्पासकृतोष्णीषाणि प्रमार्ज्जन-
क्रियासु । त्रीणि दर्व्याकृतीनि खल्लमुखानि
क्षारौषधप्रणिधानार्थम् । त्रीण्यन्यानि जाम्बव-
वदनानि त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्व-
भिप्रेतानि । नासार्वुदहरणार्थमेकं कोलास्थि-
दलमात्रमुखं खल्लतीक्ष्णोष्ठम् । अञ्जनार्थमेकं
कलायपरिमण्डलमुभयतो मुकुलाग्रम् । मूत्र-
मार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाण-
परिमण्डलमिति ।
उपयन्त्राण्यपि रज्जुवेणिकापट्टचर्म्मान्तवल्कल-
लतावस्त्राष्ठीलाश्म-मुद्गर-पाणिपाद-तलाङ्गुलि-
जिह्वा-दन्तनखमुख-बालाश्वकटकशाखाष्ठीवन-
प्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि
चेति ।
एतानि देहे सर्व्वस्मिन् देहस्यावयवे तथा ।
सन्धौ कोष्ठे धमन्याञ्च यथायोगं प्रयोजयेत् ॥
यन्त्रकर्म्माणि तु निर्घातनपूरणबन्धनव्यूहनवर्त्तन-
चालनविवर्त्तनविवरणपीडनमार्गविशोधनविक-
र्षणाहरणाञ्चनोन्नमनविनमनभञ्जनोन्मथना-
चूषणैषणदारणर्ज्जूकरणप्रक्षालनप्रधमनप्रमा-
र्ज्जनानि चतुर्विंशतिः ॥
स्वबुद्ध्या चापि विभजेद्यन्त्रकर्म्माणि बुद्धिमान् ।
असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ॥
तत्रातिस्थूलमसारमतिदीर्घमतिह्रस्वमग्राहि
विषमग्राहि वक्रं शिथिलमत्युन्नतं मृदुकीलं
मृदुमुखं मृदुपाशमिति द्वादश यन्त्रदोषाः ।
एतैर्दौषैर्विनिर्म्मुक्तं यन्त्रमष्टादशाङ्गुलम् ।
प्रशस्तं भिषजा ज्ञेयं तद्धि कर्म्मसु योजयेत् ॥
दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः ।
निर्हरेत्तु शनैः शल्यं शस्त्रयुक्तिव्यपेक्षया ॥
विवर्त्तते साध्ववगाहते च
शल्यं निगृह्योद्धरते च यस्मात् ।
यन्त्रेष्वतः कङ्कमुखं प्रधानं
स्थानेषु सर्व्वेष्वविकारि चैव ॥”
इति सुश्रुते सूत्रस्थाने सप्तमेऽध्याये ॥ * ॥
गोलाध्यायोक्तयन्त्राणि यथा, --
“अथ यन्त्राध्यायो व्याख्यायते । तत्रादौ तदा-
रम्भप्रयोजनमाह ।
दिनगतकालावयवा ज्ञातुमशक्या यतो विना
यन्त्रैः ।
वक्ष्ये यन्त्राणि ततः स्फुटानि संक्षेपतः कति-
चित् ॥
गोलो नाडीवलयं यष्टिः शङ्कुर्घटी चक्रम् ।
त्रापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ॥”
“अथ प्रथमं गोलयन्त्रमाह ।
अपवृत्तगरविचिह्नं क्षितिजे धृत्वा कुजेन
संसक्ते ।
नाडीवृत्ते बिन्दुं कृत्वा धृत्वाथ जलसमं क्षिति-
जम् ॥
रविचिह्नस्य च्छाया पतति कुमध्य यथा तथा
विधृते ।
उडुगोले कुजबिन्द्वोर्मध्ये नाड्यो द्युयाताः स्युः ॥”
“अथ नाडीवलयमाह ।
अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः ।
भूस्थं ध्रुवयष्टिस्थं चक्रं षष्ट्या निजोदयैश्चाङ्क्यम् ॥
व्यस्तैर्यष्टीभायामुदयेऽर्कं न्यस्य नाडिका ज्ञेयाः ।
इष्टच्छायासूर्य्यान्तरेऽथ लग्नं प्रभायाञ्च ॥
केनचिदाधारेण ध्रुवाभिमुखकीलकेऽत्र धृते ।
अथवा कीलच्छायातलमध्ये स्युर्नता नाड्यः ॥”
घटिकायन्त्रलक्षणादिकं घटीयन्त्रशब्दे द्रष्टव्यम् ॥
“अथ शङ्कुमाह ।
समतलमस्तकपरिधिर्भ्रमसिद्धो दन्तिदन्तजः शङ्कुः ।
तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम् ॥
इति शङ्कुयन्त्रम् ॥
अथ चक्रमाह ।
चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम् ।
धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्र
स्वार्द्धञ्च ॥
तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम् ।
भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्तः ॥
तत्खार्द्धान्तश्च नता उन्नतलवसंगुणीकृतं द्युद-
लम् ।
द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥”
“अथ वेधेन ग्रहज्ञानमाह ।
“पैत्रर्क्षपुष्यान्तिमवारुणाना-
मृक्षद्वयं नेमिगतं यथा स्यात् ।
दूरेऽन्तरेऽल्पेषुभखेचरौ वा
तथात्र यन्त्रं सुधिया प्रधार्य्यम् ॥
नेमिस्थदृट्याक्षगतं प्रपश्येत्
खेटञ्च धिष्ण्यस्य च योगताराम् ।
नेम्यङ्कयोरक्षयुजोस्तु मध्ये
येऽंशाः स्थिता भध्नुवको युतस्तैः ॥
प्रत्यक् स्थिते भेऽथ पुरःस्थिते तै-
र्होनो ध्रुवः स्यात् खचरस्य भुक्तम् ॥”
“अथ चापं तुर्यगोलं चाह ।
दलीकृतं चक्रमुशन्ति चापं
कोदण्डखण्डं खलु तुर्यगोलम् ॥”
पृष्ठ ४/०१७
“अथ फलकयन्त्रार्थमाह ।
दृङ्मण्डलेऽत्र स्फुटकाल उक्तः
सुखेन नान्यैर्यतितं मयातः ।
सद्गोलयुक्तेर्गणितस्य सारं
स्पष्टं प्रवक्ष्ये फलकाख्ययन्त्रम् ॥”
“इदानीं यन्त्रलक्षणमाह ।
कर्त्तव्यं चतुरस्रकं सुफलकं खाङ्का-९० ङ्गुलै-
र्विस्तृतं
विस्ताराद्द्विगुणा-१८० यतं सुगणकेनायाममध्ये
तथा ।
आधारः श्लथशृङ्खलादिघटितः कार्य्या च
रेखा तत-
स्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते ॥
लम्बं नवत्य-९० ङ्गुलकैर्विभज्य
प्रत्यङ्गुलं तिर्य्यगतः प्रसार्य्य ।
सूत्राणि तत्रायतसूक्ष्मरेखा
जीवाभिधानाः सुधिया विधेयाः ॥
आधारतोऽधः खगुणा-३० ङ्गुलेषु
ज्यालम्बयोगे सुषिरञ्च सूक्ष्मम् ।
इष्टप्रमाणा सुषिरे शलाका
क्षेप्याक्षसंज्ञा खलु सा प्रकल्प्या ॥
षष्ट्यङ्गुलव्यासमतश्च रन्ध्रात्
कृत्वा सुवृत्तं परिधौ तदङ्क्यम् ।
षष्ट्या घटीनां भगणांश-३६० कैश्च
प्रत्यंशकं चाम्बुपलैञ्च दिग्भिः ॥
अग्रे सरन्ध्रा तनुपट्टिकैका
षष्ट्यङ्गुला दीर्घतया तथाङ्क्या ॥”
“इदानीं यन्त्रोपकरणमाह ।
यत् खण्डकैः स्थूलचरं पलाद्यं
तद्गोकु-१९ हृत् स्याच्चरशिञ्जिनीह ॥”
“इदानीं यष्टिसाधनमाह ।
वेदाः ४ भवाः ११ शैलभुवो १७ धृतिश्च १८
विश्वे १३ च बाणाः ५ पलकर्णनिघ्नाः ।
अर्कोद्धृताः स्युः क्रमशः स्वदेशे
राश्यर्द्धलभ्यानि हि खण्डकानि ॥
तैः क्रान्तिपाताढ्यरवेर्भुजज्या
षष्ट्युद्धृताक्षश्रवणेन युक्ता ।
दिग्ध्नी कृताप्ता भवतीह यष्टिः
सा पट्टिकायां सुषिरात् प्रदेया ॥”
“इदानीं यष्टिप्रयोजनमाह ।
धार्य्यं तथा फलकयन्त्रमिदं यथैव
तत्पार्श्वयोर्लगति तुल्यमिनस्य तेजः ।
छायाक्षजा स्पृशति तत्परिधौ यमंशं
तत्रांशके मतिमता तरणिः प्रकल्प्यः ॥
अक्षप्रोतां रविलवगतां पट्टिकां न्यस्य तस्माद्-
यष्टेरग्रादुपरि फलकेऽधश्च गोलक्रमेण ।
यत्नाद्देयश्चरदलगुणस्तत्र या ज्या तयात्र
छिन्ने वृत्ते तलगघटिकाः स्युर्नता लम्बकान्ताः ॥”
“अथ यष्टियन्त्रमाह ।
त्रिज्याविष्कम्भार्द्धं वृत्तं कृत्वा दिगङ्कितं तत्र ।
दत्त्वाग्रां प्राक् पश्चाद्युज्यावृत्तञ्च तन्मध्ये ॥
तत्परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे ।
त्रिज्याङ्गुला निधेया यष्ट्यग्राग्रान्तरं यावत् ॥
तावत्या मौर्व्या यद्द्बितीयवृत्ते धनुर्भवेत् तत्र ।
दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणै-
वम् ॥”
“इदानीं धीयन्त्रं विवक्षुरादौ तत्प्रशंसामाह ।
अथ किमु पृथुतन्त्रैर्धीमतो भूरियन्त्रैः
स्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः ।
न तदविदितमानं वस्तु यद्दृश्यमानं
दिवि भुवि च जलस्थं प्रोच्यतेऽथ स्थलस्थम् ॥
अत्र प्रश्नः ।
वंशस्य मूलं प्रविलोक्य चाग्रं
तत्स्वान्तरं तस्य समुच्छ्रयञ्च ।
यो वेत्ति यष्ट्यैव करस्थयासौ
धीयन्त्रवेदी वद किं न वेत्ति ॥”
“अथ यष्ट्या ध्रुववेधेन पलभामाह ।
यष्ट्यग्रमूलसंस्थं विद्ध्वा ध्रुवमग्रमूलयोर्लम्बी ।
बाहुर्लम्बान्तरभूर्लम्बोच्छ्रायान्तरं कोटिः ॥
कोटिर्द्बादशगुणिता बाहुविभक्ता पलप्रभा
ज्ञेया ॥”
“इदानीं वंशादिवेधमाह ।
विद्ध्वैवं वंशतलं दृष्ट्युच्छ्रायाहताद्बाहोः ।
कोट्या लब्धं ज्ञेयं स्ववंशमध्ये महीमानम् ॥
विद्ध्वाथो वंशाग्रं भूमानं कोटिसंगुणं भक्तम् ।
दोष्णा वंशोच्छ्रायो दृष्ट्युच्छ्रायेण संयुतोज्ञेयः ॥
उदाहरणम् ।
पञ्चशक्राङ्गुला १४५ यष्टिरष्टषष्टिर्दृगुच्छ्रयः ।
षट्करास्तलवेधे दोः कोटिः सप्तदशाङ्गुला ॥
अग्रवेधे रसेशा ११६ दोः कोटिस्तुरगकुञ्जराः ।
वंशस्य यस्य तन्मानं चात्मवंशान्तरं वद ॥”
“अथ केवलाग्रवेधेनाह ।
अग्रं विध्वोर्ध्वस्थः पुनरुपविष्टश्च तद्बिद्ध्येत् ॥
निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्च्यविश्लेषः
भूमिर्वंशौच्च्यमतः पृथक् पृथक् पूर्ब्बवज्ज्ञेयम् ॥
अत्र प्रश्नः ।
ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्रमात्रं सखे !
वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते ।
अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं
मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्र-
वित् ॥
उराहरणम् ।
इष्टयष्ट्योर्द्ध्वसंस्थेन वंशाग्रं विध्यता भुजः ।
दृष्टश्चतुष्करोऽथान्ययष्ट्या खाङ्काङ्गुलः सखे ॥
निविष्टेन तथा कोटिरङ्गुलं वेधयोरपि ।
आत्मवंशान्तरं ब्रूहि वंशोच्छ्रायञ्च वेधवित् ॥”
“अथ जलान्तर्वेधमाह ।
एवं तोयेऽप्यौच्च्यं तत्र दृगौच्च्योनितं भवति ।
किंवा यष्ट्या कोटी दृष्ट्युच्छ्रायौ जलान्तरे
बाहू ॥
अत्र प्रश्नः ।
दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वा
वंशस्य प्रतिविम्बितस्य सलिले दृष्ट्वाग्रमात्रं सखे ।
अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं
त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ॥
उदाहरणम् ।
दृष्टा चेत् व्यङ्गुला कोटिर्बाहुश्च चतुरङ्गुलः ।
ऊर्ध्वस्थेनोपविष्टेन बाहुरेकादशाङ्गुलः ॥
कोटिरष्टाङ्गुला तोये वंशाग्रं विध्यता सखे ! ।
त्र्यकहस्तौ दृगुच्छ्रायौ वंशौच्च्यं चान्तरं वद ॥”
“किंवा यष्ट्येत्यस्योदाहरणम् ।
षडङ्कैरमरैस्तुल्यान्यङ्गुलान्यथवा क्रमात् ।
आत्मतोयान्तरं दृष्ट्वा वंशौच्च्यं चान्तरं वद ॥”
“अथ स्वयंवहमाह ।
लघुदारुजसमचक्रे समसुषिराराः समान्तरा
नेम्याम् ।
किञ्चिद्बक्रातोज्याः सुषिरस्यार्धे पृथक् तासाम् ॥
रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयं भ्रमति ॥”
“अथान्यदाह ।
उत्कीर्य नेमिमथवा परितो मदनेन संलग्नम् ।
तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत्
तावत् ॥
यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति ।
पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जला-
कृष्टम् ॥”
“अथान्यदाह ।
ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ॥
एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखञ्च
बहिः ।
युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः पतति ॥
नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत् तथा
धार्य्यम् ।
नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ॥
भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् ।
चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया ॥”
“इदानीमन्येषां स्वयंवहमुपहसन्नाह ।
यद्वधोरन्ध्रनलं तत् सापेक्षत्वात् स्वयंवहं ग्राम्यम् ।
चतुरचमत्कारकरी युक्तिर्यन्त्रं नहि ग्राम्या ॥
एवं बहुधा यन्त्रं स्वयंवहं कुहकविद्यया भवति ।
नेदं गोलाश्रितया पूर्बोक्तत्वान्मयाप्युक्तम् ॥”
इति सिद्धान्तशिरोमणौ गोले यन्त्राध्यायः ॥)

यन्त्रकं, क्ली, यन्त्रकाष्ठम् । (कुन्दम् । इति हेमचन्द्रः ।

३ । ५७३ ॥) कुँद् इति भाषा । यम्यते काष्ठमने-
नेति यमधातोस्त्रप्रत्ययेन यन्त्रं ततः स्वार्थे कप्रत्य-
येन निष्पन्नम् ॥ (यथा, सुश्रुते । ४ । २ ।
“कार्य्यो गोफणिकाबन्धः कट्यामावेश्य यन्त्रकम् ।
न कुर्य्यात् स्नहसेकञ्च तेन क्लिद्यति हि व्रणः ॥”
यन्त्रयति बध्नाति सेतुप्रभृतीनीति । यन्त्रि +
ण्वुल् । सेतुप्रभृतिनिर्म्मातरि, त्रि । यथा, रामा-
यणे । २ । ८० । १ ।
“स्वकर्म्माभिरताः शूराः खनका यन्त्रकास्तथा ॥”
“यन्त्रका जलप्रवाहादियन्त्रणस्मर्थाः ।” इति
तट्टीका ॥)

यन्त्रगृहं, क्ली, (यन्त्रस्य गृहम् ।) तैलिशाला ।

इति हेमचन्द्रः । ४ । ६३ ॥ घानिघर इति
भाषा ॥
पृष्ठ ४/०१८

यन्त्रगोलः, पुं, कलायविशेषः । इति शब्दचन्द्रिका ॥

मटर इति भाषा ॥

यन्त्रणं, क्ली, (यन्त्र + ल्युट् ।) रक्षणम् । बन्धनम् ।

(यथा, सुश्रुते सूत्रस्थाने अष्टादशाध्याये ।
“यन्त्रणमत ऊर्द्धुमधस्तिर्य्यक् ॥”) नियमनम् ।
इति मेदिनी । णे, ७१ ॥ (यथा, सुश्रुते उत्तर-
तन्त्रे ४१ अध्याये ।
“रक्तक्षयाद्वैदनाभिस्तथैवाहारयन्त्रणात् ।
व्रणितस्य भवेच्छोषः स चासाध्यतमस्ततः ॥”)

यन्त्रणा, स्त्री, (यन्त्रि + “ण्यासश्रन्थो युच् ।” ३ ।

३ । १०७ । इति युच् । टाप् ।) पीडा । यथा,
नैषधे । ४ । १० ।
“मदनतापभरेण विदीर्य्य नो
यदुदपाति हृदा दमनस्वसुः ।
निविडपीनकुचद्बययन्त्रणा
तमपराधमधात् प्रतिबध्नती ॥”
(पीडाशब्देऽस्या विशेषो विज्ञेयः ॥)

यन्त्रपेषणी, स्त्री, (पिष्यतेऽनयेति । पिष् । करणे

ल्युट् । ङीप् । यन्त्रमेव पेषणी ।) पेषणार्थयन्त्रम् ।
इति जटाधरः ॥ याँता इति भाषा ॥

यन्त्रिका, स्त्री, (यन्त्रयति कृतकौतुका पीडय-

तीति । यन्त्रि + ण्वुल् । टापि अत इत्वम् ।)
पत्न्याः कनिष्ठा भगिनी । यथा, हेमचन्द्रे ।
“कनिष्ठा श्यालिका हाली यन्त्रिका केलि-
कुञ्चिका ॥”

यन्त्रितः, त्रि, (यन्त्रि + क्तः ।) बद्धः । इति धरणिः ॥

(यथा, देवीभागवते । ३ । १७ । १७ ।
“ते भृत्या जगृहुर्धेनुं हठादाक्रम्य यन्त्रिताम् ।
वेगमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥”)

यन्त्री, [न्] त्रि, यन्त्रविशिष्टः । यन्त्रशब्दादस्त्यर्थे

इन्प्रत्ययेन निष्पन्नः ॥ (यन्त्रयति बध्नातीति ।
यन्त्रि बन्धने + णिनिः । बन्धनकारकः । यथा,
रामायणे । १ । १ । ७६ ।
“अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्-
वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृ-
च्छया ॥”)

यभ, औ मैथुने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-अनिट् ।) औ, अयाप्सीत् । यभति
युवा । इति दुर्गादासः ॥

यम, औ उ विरतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-अनिट् । क्त्वावेट् ।) औ,
यन्ता । उ, यमित्वा यन्त्वा । विरतिर्निवृत्तिः ।
यच्छति पापात् साधुः । इति दुर्गादासः ॥

यम, क मि परिवेषणे । तदभावे । इति कवि-

कल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क
मि, यमयति यामयति । परिवेषणं अन्नादेर-
र्पणम् । वेष्टनमित्येके । विषत्यव्याप्तावित्यस्य
रूपमिति रमानाथः । केचित्तु परिवेषण एवायं
मानुबन्धः । यमयत्यन्नं द्बिजाय गृही । अन्यत्र
नियामयति संयामयति इत्याहुः । अन्ये तु
अपरिवेषण एवायं मानुबन्धः । ‘नियमयति
विमार्गप्रस्थितानान्तु दण्डम् ।’ इति शाकुन्तले ।
परिवेषणे तु यामयत्यन्नं द्विजाय गृही इत्याहुः ।
तेन उभयस्य प्रामाणिकत्वादुभयत्र विकल्प-
ज्ञापनार्थञ्चानुबन्धः कृतः । इति दुर्गादासः ॥

यमः, पुं, (यमयति नियमयति जीवानां फलाफल-

मिति । यम् + अच् ।) दक्षिणदिक्पालः ।
तत्पर्य्यायः । धर्म्मराजः २ पितृपतिः ३ सम-
वर्त्ती ४ परेतराट् ५ कृतान्तः ६ यमुनाभ्राता ७
शमनः ८ यमराट् ९ कालः १० दण्डधरः ११
श्राद्धदेवः १२ वैवस्वतः १३ अन्तकः १४ ।
इत्यमरः । १ । १ । ६१ ॥ धर्म्मः १५ धर्म्मराट् १६
जीवितेशः १७ महिषध्वजः १८ औडम्बरः १९
दण्डधारः २० कीनाशः २१ दध्नः २२ महिष-
वाहनः २३ शीर्णपादः २४ भीमशासनः २५
कङ्कः २६ हरिः २७ । इति शब्दरत्नावली ॥
कर्म्मकरः २८ । इति जटाधरः ॥ * ॥ चतुर्द्दश-
यमतर्पणं यथा, --
“यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् ।
यमुनायां विशेषेण नियतस्तर्पयेद्यमान् ॥
यमाय धर्म्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥
औडम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥
एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन् दद्यात् जला-
ञ्जलीन् ।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥”
इति तिथ्यादितत्त्वधृतभविष्यपुराणवचनम् ॥
तस्योत्पत्तिर्यथा, --
“संज्ञा च रविणा दृष्टा निमीलयति लोचने ।
यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् ॥
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यसे मूढे ! प्रजासंयमनं यमम् ॥”
मार्कण्डेय उवाच ।
“ततस्तस्यास्तु संजज्ञे भर्त्तृशापेन तेन वै ।
यमश्च यसुना चेयं प्रख्याता सुमहानदी ॥”
इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ७७ अः ॥
पुण्यात्मनां सम्बन्धे तस्य रूपं यथा, --
“तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् ।
भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥
चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।
शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥
स्वर्णयज्ञोपवीती च स्मेरचारुतराननः ।
किरीटी कुण्डली चैव वनमालाविभूषितः ॥”
पापिनां सम्बन्धे तस्य रूपं यथा, --
“त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः ।
धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः ॥
तृणाधिराजलोमां च ज्वलदग्निशिखाग्रवत् ।
नासारन्ध्रस्फुरच्छ्वासस्वनैर्ज्जितमहानिलः ॥
सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः ।
प्रचण्डमहिषारूढः संदष्टदशनच्छदः ॥
दण्डहस्तश्चर्म्मवासा भ्रूकुटीकुटिलाननः ॥”
इति पाद्मे क्रियायागसारे २२ अध्यायः ॥
अस्यानधिकारो यथा, --
“प्रोवाच धर्म्मं यदहं ब्रवीमि
कार्य्यं त्वया तत् खलु धर्म्मराज ! ॥
ब्रह्मोवाच ।
ये भक्ताः पुण्डरीकाक्षे कर्म्मणा मनसा गिरा ।
स्वकर्म्मनिरता दान्ता न नियम्या हि ते त्वया ॥
कृष्णः संपूजितो यैस्तु यैः कृष्णः समुपासितः ।
यैश्च नित्यं स्मृतः कृष्णो न ते त्वद्बिषयोपगाः ॥
नमः कृष्णाच्युतानन्तं वासुदेवेत्युदीरितम् ।
यैर्भावभावितो धर्म्म ! न ते त्वद्बिषयोपगाः ॥
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।
श्रद्धापुरःसरैर्धर्म्म ! न ते त्वद्विषयोपगाः ॥
उत्तिष्ठद्भिः स्वपांद्भश्च व्रजद्भिश्च जनार्दनः ।
यैः स्मृतस्तु सदा धर्म्म ! न ते त्वद्बिषयोपगाः ॥
सर्व्ववाधासु ये कृष्णं संस्मरन्त्युच्चरन्ति च ।
तद्भावभाविनो ये च न ते त्वद्बिषयोपगाः ॥
स एव धाता सर्व्वस्य तन्नियोगकरा वयम् ।
यमसंयमने त्यक्तः सोऽस्मत्संयमको हरिः ॥”
इति वह्निपुराणे नरसिंहप्रादुर्भावाध्यायः ॥
अपि च ।
ब्राह्मण उवाच ।
“यत् कृत्वा सुमहत् पुण्यं धर्म्माधर्म्मविनिणये ।
प्रमाणं त्वं हि लोकानां फलं मे ब्रूहि तद्-
यम् ! ॥”
यम उवाच ।
यमो यम इति श्रुत्वा वृथा ह्युद्विजते जनः ।
आत्मा च यमितो येन न तस्यैव यमः स्मृतः ॥
आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
ध्यानं प्रसादो माधुर्य्यं सन्तोषश्च यमा दश ॥
यमैश्च नियमैश्चैव यः करोत्यात्मसंयमम् ।
स चादृष्ट्वा तु मां याति परं ब्रह्म सनातनम् ॥”
इति तत्रैव यमशर्म्मिलोपाख्यानम् ॥ * ॥
सावित्रीकृतं यमाष्टकं स्तोत्रं यथा, --
सावित्र्युवाच ।
“तपसा धर्म्ममाराध्य पुष्करे भास्करः पुरा ।
धर्म्मांशं यं सुतं प्राप धर्म्मराजं नमाम्यहम् ॥ १ ॥
समता सर्व्वभूतेषु यस्य सर्व्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ २ ॥
येनान्तश्च कृतो विश्वे सर्व्वेषां जीविनां परम् ।
कर्म्मानुरूपकाले च तं कृतान्तं नमाम्यहम् ॥ ३ ॥
बिभर्त्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दंण्डधरं यः शास्ता सर्व्वदेहिनाम् ॥ ४ ॥
विश्वे च कलयत्येव यः सर्व्वायुश्च सन्ततम् ।
अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम् ॥ ५ ॥
तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः ।
जीविनां कर्म्मफलदस्तं यमं प्रणमाम्यहम् ॥ ६ ॥
स्वात्मारामश्च सर्व्वज्ञो मित्रः पुण्यकृतां भवे ।
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ ७ ॥
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ ८ ॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां विष्णुभजनं कर्म्मपाकमुवाच ह ॥
पृष्ठ ४/०१९
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्व्वपापात् प्रमुच्यते ॥
महापापी यदि पठेत् नित्यं भक्त्या च नारद ! ।
यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २६ अध्यायः ॥ * ॥
पारिभाषिकयमदन्ता यथा, --
“कार्त्तिकस्य दिनान्यष्टावष्टाग्रहायणस्य च ।
यमस्य दशना एते लघ्वाहारी स जीवति ॥”
इति वैद्यकम् ॥ * ॥
(“पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः ।
मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ॥
यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः ।
येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥”
इति सुश्रुते सूत्रस्थाने ३१ अध्यायः ॥
अस्य शापवृत्तान्तं शापान्तवृत्तान्तञ्च यम-
राजशब्दे द्रष्टव्यम् ॥ * ॥) शरीरसाधना-
पेक्षनित्यकर्म्म । इत्यमरः । २ । ७ । ४९ ॥
“उपायान्तरनिरपेक्षं शरीरमात्रसाध्यं नित्यं
यावज्जीवमवश्यकार्य्यं यत्कर्म्म सत्यास्तेयादि तद्-
यमः । यमेरल् ।
‘अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता ।
अस्तेयमिति पञ्चैते यमाश्चैव व्रतानि च ॥’
इति मनुः ।” इति तट्टीकायां भरतः ॥
स च अष्टाङ्गयोगान्तर्गताङ्गविशेषः । स तु
दशविधो यथा, --
“ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता ।
अहिंसास्तेयमाधुर्य्यं दमश्चैते यमाः स्मृताः ॥”
इति गारुडे १०९ अध्यायः ॥ * ॥
स च पञ्चविधो यथा, --
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ ।
यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥”
इति तत्रैव २३० अध्यायः ॥
“अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः ।”
इति पातञ्जले साधनपादे । ३० ॥ यच्छति निय-
च्छति इन्द्रियग्राममनेनेति । यम + घञ् ।)
संयमः ॥ यथा, अमरः । ३ । २ । १८ ।
“वियामो वियमो यामो यमः संयामसंयमौ ॥”
काकः । शनिः । इति मेदिनी । मे, २३ ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ३० ।
“अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥”
“अन्तर्यच्छतीति यमः ।” इति तद्भाष्ये शङ्करा-
चार्य्यः ॥)

यमः, त्रि, (यच्छति एकत्र गर्भाशये निरतो

भवतीति । यम् + अच् ।) यमजः । इति
मेदिनी । मे, २३ ॥ तयोर्ज्येष्ठत्वनिरूपणं यथा,
“बहिर्वर्णेषु चारित्राद्यमयोः पूर्व्वजन्मतः ।
यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् ।
सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठं प्रतिष्ठितम् ॥
जन्मप्राथम्यात् ज्यैष्ठं यमयोः न तु निषेक-
प्राथम्यात् जन्मप्राथम्यसन्देहे मुखदर्शनप्राथ-
म्यत् ।” इति उद्वाहतत्त्वम् ॥ (यथा, --
“बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ ।
यमावित्यभिधीयेते धर्म्मेतरपुरःसरौ ॥”
इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥
अनयोरेकस्य वृद्धिरपरस्य क्षीणताकथमित्यत
आह ।
“कर्म्मात्मकत्वाद्विषमांशभेदात्
शुक्रासृजं वृद्धिमुपैति कुक्षौ ।
एकोऽधिको न्यूनतरो द्वितीय
एवं यमेऽप्यभ्यधिको विशेषः ॥”
इति चरके शारीरस्थाने द्बितीयेऽध्याये ॥)

यमकं, क्ली, (यमं युग्मभावं कायति प्राप्नीतीति ।

कै + कः ।) शब्दालङ्कारः । तस्य लक्षणादि
यथा, --
“सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥
अत्र द्वयोरपि पदयोः क्वचित् सार्थकत्वं
क्वचिन्निरर्थकत्वं क्वचिदेकस्य सार्थकत्वमपरस्य
निरर्थकत्वमत उक्तं सत्यर्थ इति । तेनैव
क्रमेणेति दमो मोद इत्यादेर्विभक्तविषयत्वं
सूचितम् । एतच्च पदपादार्द्धश्लोकावृत्तित्वेन
पादाद्यावृत्तेश्चानेकविषयतया प्रभूततमभेदं
दिङ्मात्रमुदाह्रियते ।
‘नवपलाशपलाशवनं पुरः
स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत्
ससुरभिं सुरभिं सुमनोभरैः ॥’
इति माघे । ६ । २ ॥
अत्र पदावृत्तिः पलाशपलाशेति सुरभिं
सुरभिमित्यत्र च द्वयोः सार्थकत्वम् । लतान्त-
लतान्तेत्यत्र प्रथमस्य निरर्थकत्वं परागपरागे-
त्यत्र द्वितीयस्य एवमन्यत्राप्युदाहार्य्यम् । यम-
कादौ भवेदैक्यं डलोर्ब्बबोर्लरोस्तथा । इत्युक्त-
नयात् । भुजलतां जडतामबलाजन इत्यत्र
न यमकत्वहानिः ।” इति साहित्यदर्पणे दशमः
परिच्छेदः । १० ॥ (यमकालङ्कारस्तु युग्मपाद-
यमकायुग्मपादयमकाद्यन्तयमक-पादमध्ययमक-
पादान्तयमक-पादादियमक-पादादिमध्ययमक-
पादाद्यन्तयमक-मध्यान्तयमक-काञ्चीयमकगर्भ-
यमकचक्रबालयमकपुष्पयमकमहायमकमिथुन-
यमकवृन्तयमकविपथयमकसमुद्गयमकसर्व्वयमक
यमकावलीभेदात् बहुविधः । तत्तल्लक्षणोदाह-
रणादिकं भट्टिकाव्ये दशमसर्गे यमकचक्रे काव्या-
दर्शे दशमपरिच्छेदे च द्रष्टव्यम् ॥ व्यूहविशेषः ।
यथा, महाभारते । ४ । ५५ । ४२ ।
“ततो विराटस्य सुतः सव्यमावृत्य वाजिनः ।
यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् ॥”
“यमकं शत्रणां निरोधकं मण्डलं कृत्वा ।” इति
तट्टीकायं नीलकण्ठः ॥ सदृशम् । यथा, महा-
भारते । ३ । १९ । ८ ।
“मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्व्वशः ॥”
“यमकानि सदृशानि ।” इति तट्टीकायां नील-
कण्ठः ॥) त्रि, यमजः । इति मेदिनी । के, १४२ ॥

यमकः, पुं, (यम् + भावे घञ् । स्वार्थे कन् ।)

संयमः । इति मेदिनी । के, १४२ ॥

यमकालिन्दी, स्त्री, (यमः कालिन्दी च सुतः सुता

च यस्याः ।) संज्ञा । सा च सूर्य्यपत्नी । इति
शब्दरत्नावली ॥

यमकीटः, पुं, (यमसूचकः कीटः ।) घुर्घूरनामा

कीटः । इति त्रिकाण्डशेषः ॥

यमकोटिः, स्त्री, लङ्कायाः पूर्ब्बं पृथिव्याश्चतुर्थभागे

देशविशेषः । यथा, --
“लङ्का कुमध्ये यमकोटिरस्याः
प्राक्पश्चिमे रोमकपत्तनञ्च ।
अधस्ततः सिद्धपुरं सुमेरुः
सौम्येऽथ याम्ये वडवानलश्च ।
कुवृत्तपादान्तरितानि तानि
स्थानानि षड्गोलविदो वदन्ति ॥”
इति सिद्धान्तशिरोमणिः ॥

यमघण्टः, पुं, (यमं घण्टयतीति । घण्टि +

अण् ।) योगविशेषः । यथा, --
“द्बे मघापूर्ब्बफल्गुन्यौ पुष्याश्लेषा च चन्द्रयोः ।
ज्येष्ठानुराधा भरणी चाश्विनी कुजवासरे ॥
हस्तार्द्रा चन्द्रजे मूला पूर्ब्बाषाढा च रेवती ।
जीवे ह्युत्तरभाद्रश्च शुक्राहे स्वातिरोहिणी ।
शनिवारे शतभिषा श्रवणा यमघण्टकः ॥”
इति सारसंग्रहः ॥
अपि च ।
“घण्टोऽखण्डर्क्षयुक्ते स्वगृहपतिदिने सौम्यवारे-
ऽर्य्यमापि ।”
अस्य वर्ज्ज्यकालनिर्णयो यथा, --
“यमघण्टे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः ।
अन्येषां पापयोगानां मध्याह्नात् परतः शुभम् ॥”
अस्य दोषा यथा, --
“एभिर्जातो न जीवेत यदि शक्रसमो भवेत् ।
विवाहे विधवा नारी यात्रायां मरणं भवेत् ॥
निष्फलं कृषिवाणिज्यं विद्यारम्भे च मूर्खता ।
गृहप्रवेशे भङ्गः ष्याच्चूडायां मरणं ध्रुवम् ॥
ऋणदाने फलं नास्ति व्रतदाने च निष्फले ।
शुभकर्म्माणि सर्व्वानि नैव कुर्य्याद्विचक्षणः ॥”
इति ज्योतिस्तत्त्वम् ॥
रविवारे १० । ११ । सोमवारे ८ । ९ । मङ्गल-
वारे १७ । १८ । १ । २ । बुधवारे १३ । ६ ।
बृहस्पतिवारे १९ । २० । २६ । २७ । शुक्र-
वारे १५ । ४ । शनिवारे २४ । २२ । इति
यमघण्टयोगः ॥

यमजः, त्रि, (यमो यमकः सन् जायते इति ।

जन् + डः ।) एककालीनैकगर्भजातसन्तान-
द्वयम् । यथा, मेदिनी । मे, २३ ।
“यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ ॥”
(यथा च कथासरित्सागरे । २३ । ९१ ।
“शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्ति-
सोममपरञ्च ।
वैश्वानरमर्पितवान् पिङ्नलिकापुत्त्रकौ
यमत्रौ ॥”)
पृष्ठ ४/०२०
अस्य ज्येष्ठत्वं यमशब्द द्रष्टव्यम् ॥ (अश्वविशेषे,
पुं । यथा, अश्ववैद्यके । ३ । १५२ ।
“एकेनाङ्गेन हीनेन भिन्नेन च विशेषतः ।
यमजं वाजिनं बिन्द्यात् वामनं वामना-
कृतिम् ॥”)

यमदग्निः, पुं, (जमन् हुतभक्षणशीलः प्रज्ज्वलितो

ऽग्निरिव । पृषोदरादित्वात् जस्य यः ।) जम-
दग्निमुनिः । स तु परशुरामपिता । इति
भरतद्विरूपकोषः ॥ (विवृतिस्तु जमदग्निशब्दे
द्रष्टव्या ॥)

यमदूतः, पुं, (यमस्य दूतः ।) यमस्य चरः ।

यथा, --
“यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते ।
सद्भिरौषधवीर्य्याणि तस्मात्तं परिवर्ज्जयेत् ॥”
इति वाग्भटे शरीरस्थाने पञ्चमेऽध्याये ॥)
धर्म्मस्व उवाच ।
“के यूयं विकृताकाराः पाशमुद्गरपाणयः ।
दंष्ट्राकरालवदना अङ्गारसदृशप्रभाः ॥
यूयं सर्व्वे महावीराः ज्वलत्पावकलोचनाः ।
कृता तथापि युष्माकमियं केन सुदुर्गतिः ॥”
यमदूता ऊचुः ।
यमदूता वयं सर्व्वे यमाज्ञाकारिणः सदा ।
त्वद्दत्तोऽयं द्विजास्माकं सुमहान् कश्मलो-
दयः ॥”
इति पद्मपुराणे क्रियायोगसारे ६ अध्यायः ॥

यमदूतकः, पुं, (यमस्य दूत इवेति कन् ।) काकः ।

इति शब्दरत्नावली ॥ (यमदूत + स्वार्थे कन् ।)
यमदूतश्च ॥

यमदूतिका, स्त्री, (यमस्य दूतिकेव ।) तिन्तिडी-

वृक्षः । (यथा, --
“जीवनं जीवनं हन्ति प्राणान् हन्ति समीरणः ।
किमाश्चर्य्यं क्षारभूमौ प्राणदा यमदूतिका ॥”
इत्युद्भटः ॥)

यमदेवता, स्त्री, (यमो देवता अधिष्ठात्री यस्याः ।)

भरणीनक्षत्रम् । इति हेमचन्द्रः । २ । २२ ॥

यमद्रुमः, पुं, (यम इव भयावहो द्रुमः ।) शाल्मलि-

वृक्षः । इति राजनिर्घण्टः ॥ (विवरणमस्य
शाल्मलिशब्दे ज्ञातव्यम् ॥)

यमद्वितीया, स्त्री, (यमप्रिया द्बितीया इति मध्य-

पदलोपिकर्म्मधारयः ।) कार्त्तिकशुक्लद्वितीया ।
भ्रातृद्बितीया इति ख्याता । तत्कृत्यं यथा ।
लिङ्गपुराणे ।
“कार्त्तिके तु द्वितीयायां शुक्लायां भ्रातृपूजनम् ।
या न कुर्य्याद्विनश्यन्ति भातरः सप्तजन्मनि ॥”
तस्या इति शेषः । महाभारते ।
“कार्त्तिके शुक्लपक्षस्य द्बितीयायां युधिष्ठिर ! ।
यमो यमुनया पूर्ब्बं भोजितः स्वगृहे स्वयम् ।
तस्मान्निजगृहे पार्थ ! न भोक्तव्यमतो बुधैः ॥
यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।
दानानि च प्रदेयानि भगिनीभ्यो विशेषतः ॥”
तथा ।
“यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् ।
अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्बयैः ॥”
सहजद्वयैर्भगिनीभ्रातृभिः । अर्घ्यमन्त्रः ।
“एह्येहि मार्त्तण्डज पाशहस्त
यमान्तकालोकधरामरेश ।
भ्रातृद्वितीयाकृतदेवपूजां
गृहाण चार्घ्यं भगवन्नमस्ते ॥
धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज ।
पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते ॥”
यमुनाञ्च संपूज्य नमस्कुर्य्यात् ।
“यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते ।
वरदा भव मे नित्यं सूर्य्यपूत्त्रि नमोऽस्तु ते ॥”
अन्नं दत्त्वा पठेत् ।
“भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।
प्रीतये यमराजस्य यमुनाया विशेषतः ॥”
ज्येष्ठा चेत् तदाग्रजाताहमिति वदेत् ॥ अत्र
भोक्तव्यं पुष्टिवर्द्धनं इति विधिसमभिव्याहृत-
फलश्रुत्या भोजननियमस्य प्राधान्यात्तस्य मुख्य-
कालोऽष्टधाविभक्तदिनपञ्चमांशो ग्राह्यः । यथा
दक्षः ।
“पञ्चमे च तथा भागे संविभागो यथार्हतः ।
पितृदेवममनुष्याणां कीटानाञ्चोपदिश्यते ॥
संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् ।
इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत् ॥”
संविभागो विभज्यान्नस्य प्रतिपादनम् । देवोऽत्र
वैश्वदेवसम्बन्धी । पञ्चमांशालाभे तु ।
“न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।
नातिप्रगे नातिसायं नातिसन्ध्यासमीपतः ॥”
इति मनूक्तपर्य्यूदस्तसूर्य्योदस्तेतरकालोऽपि
ग्राह्यः । सौहित्यं तृप्तिः । अत्र भोजनस्य राग-
प्राप्तत्वेऽपि तत्कालस्य ।
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां
नित्यम् ।
अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः ॥”
इति कात्यायनीयेन नियमितत्वाद्भोजनकालस्य
वैधत्वेन शास्त्रीयत्वात् न सामान्यशास्त्रप्राप्त्युप-
जीविपर्य्युदासासङ्गतिः । अत्रानध्ययनं भ्रान्ता-
नाम् । प्रेतपक्षोत्तरद्बितीयायां तन्निषेधात् ।
यथा च राजमार्त्तण्डे ।
“प्रे को चै चा द्वितीयास्ताः प्रेतपक्षे गते तु या ।
या तु कोजागरे याते चैत्र्यावल्याः परेऽपि च ॥
चातुर्मास्ये मसाप्ते च द्वितीया या भवेत्तिथिः ।
परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥”
ज्यातिषे । तथा यमद्वितीयायां यात्रायां मरणं
भवेत् । इति तिथ्यादितत्त्वम् ॥ * ॥ अस्यां व्रत-
विधानं यथा, --
नारद उवाच ।
“भगवन् ! प्रष्टुमिच्छामि त्वामहं विनया-
न्वितः ।
तद्व्रतं ब्रूहि मे स्वामिन् ! मृत्युं येन न पश्यति ॥
अल्पदोषं महत्पुण्यं शोभनं व्रतमुत्तमम् ।
प्रसादं कुरु मे स्वामिन् ! यथाहं तत् करोमि
भोः ॥
ब्रह्मोवाच ।
यदि चेच्छसि विप्रेन्द्र व्रतानां व्रतमुत्तमम् ।
व्रतं यमद्बितीयाख्यं शृणु त्वं मृत्युवारणम् ॥
कार्त्तिके मासि शुक्लायां द्वितीयायां मुनीश्वर ! ।
कर्त्तव्यं तद्विधानेन ह्यपमृत्युनिवारणम् ॥
ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
प्रातः कृत्वा द्विजः स्नानं दन्तधावनपूर्ब्बकम् ॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ॥
विधिं विष्णुञ्च रुद्रञ्च संस्थाप्यौडम्बरे शुमे ।
पद्मं सप्तदलं कृत्वा पूजयेत् सुस्थमानसः ॥
चन्दनागुरुकर्पूरकुङ्कुमैर्द्बिजसत्तम् ! ।
पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलादिभिः फलैः ॥
सरस्वतीञ्च वरदां वीणापुस्तकधारिणीम् ।
ध्यायेत् शुक्लाम्बरधरां हंसवाहनसंस्थिताम् ॥
ततो मृत्युविनाशार्थं सालङ्कारां पयस्विनीम् ।
विप्राय वेदविदुषे गाञ्च दद्यात् सवत्सकाम् ॥
अपमृत्युविनाशाय संसारार्णवतारिकाम् ।
विप्र तुभ्यमिमां रौद्रीं धेनुं सम्प्रददे ह्यहम् ॥
इति वाक्यविचारेण धेनुं दद्याद्द्विजातये ।
कुलीनाय सुशान्ताय रोगहीनद्बिजाय वै ॥
तदभावे चोदकुम्भं सवस्त्रं सहिरण्यकम् ।
औडुम्बरविधानेन सम्प्रदद्याद्द्विजातये ॥
तस्याप्यलाभे विप्रेन्द्र ! विप्राय सदुपानहौ ।
दद्यात् कार्त्तिकशुक्लायां द्बितीयायां विशेषतः ॥
ज्ञातिश्रेष्ठान् तथा वृद्धान् संपूज्य चाभिवादयेत् ।
नारिकेलादिदानेन तोषयेत् स्वजनानपि ॥
ततः सोदरसम्पन्ना भगिनी याभवन्मुने ! ।
तस्या गृहं समागत्य श्रद्दधानोऽभिराजयेत् ॥
भद्रे भगिनि ! शुभगे त्वदङ्घ्रिसरसीरुहे ।
श्रेयसेऽद्य नमस्कर्त्तुमागतोऽहं तवालयम् ॥
इति श्रुत्वा भगिन्यादिः सोदरं विनयान्वितम् ।
मृदुवाक्यैस्ततस्तस्य पूजनं क्रियते महत् ॥
अद्य भ्रातृमती भ्रातस्त्वं नो वयसि बान्धवः ।
भोक्तव्यं भोऽद्य मद्गेहे त्वायुषे कुलदीपक ! ॥
कार्त्तिके शुक्लपक्षस्य द्वितीयायां सहोदरः ।
यमो यमुनया पूर्ब्बं भोजितः स्वगृहेऽर्च्चितः ।
अस्मिन् दिने यमेनापि पूजिता भगिनी शुभा ॥
स्वसुर्नरो वेश्मनि यो न भुङ्क्ते
यमद्वितीयादिनमेव लब्ध्वा ।
तं पापिनं सर्व्वसुराः प्रबुध्य
संसारमार्गे रटयन्ति विप्र ! ॥
तस्माद्भ्रात्रा स्वसृगृहे भोक्तव्यं मासि कार्त्तिके ।
शुक्लायाञ्च द्वितीयायां सर्व्वैश्वर्य्याय भो द्बिज ! ॥
वर्षे वर्षे च कर्त्तव्यं यशसे आयुषे श्रिये ।
ततः सम्प्राप्य सुमते भगिन्यै सुविधानतः ॥
स्वर्णालङ्कारवस्त्रादिदानसत्कारमादरात् ।
प्रदद्यान्मुनिशार्द्दूल प्रश्रयावनतः सुधीः ॥
स आशीषं प्रगृह्यास्या नमस्कृत्य क्षमापयेत् ।
सर्व्वा भगिन्यः सन्तोष्या ज्येष्ठानुक्रमशस्तदा ॥
वस्त्रान्नपानसत्कारैर्भोजनैः पुष्टिवर्द्धनैः ।
करोत्येवं नरो विद्बान्न याति यमयातनाम् ॥
पृष्ठ ४/०२१
अपमृत्युं न चाप्नोति सत्यं सत्यं हि नान्यथा ॥
यैर्भगिन्यः सुवासिन्यो वस्त्रालङ्कारतोषिताः ।
न तेषां वत्सरं यावत् कलहो न रिपोर्भयम् ॥
व्रतस्यास्य प्रसादेन भूताः प्रेताश्च राक्षसाः ।
दूरादेव पलायन्ते धर्म्मराजेन ताडिताः ॥
यो देवो महिषारूढो दण्डमुद्गरधारकः ।
वेष्टितः किङ्करैर्दष्टैस्तस्मै कालात्मने नमः ॥
इत्थं त्वं दिजशार्द्दूल ! कुरुष्व तद्व्रतं शुभम् ।
रम्यं यमद्वितीयाख्यमपमृत्युनिवारणम् ॥
व्रतस्यास्य प्रभावेन पुत्त्रपौत्त्रसमन्वितः ।
सत्यं वदामि ते विप्र ! गृहस्थः स्यात् सदैव हि ॥
गार्हस्थ्येन समो धर्म्मो न भूतो न भविष्यति ।
सन्देहोऽत्र न कर्त्तव्य इह लोके परत्र च ॥
ये वै यमद्वितीयाख्यं व्रतं कुर्व्वन्ति मानवाः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
अपुत्त्रो लभते पुत्त्रं धनहीनो लभेद्धनम् ।
भार्य्याहीनो लभेद्भार्य्यां सुरूपां कुलसम्भवाम् ॥
यस्यां तिथौ यमुनया यमराजदेवः
संभोजितः सकललोकनिपातदक्षः ।
तस्यां भुनक्ति सुतिथौ च गृहे भगिन्याः
प्राप्नोति वित्तमतुलं स चिरायुरेव ॥”
इति पाद्मे उत्तरखण्डे १२५ अध्यायः ॥

यमधारः, पुं, (यमा युग्मीभूता धारास्य । यद्वा,

यमवत् विनाशिका धारा यत्र ।) पार्श्वद्बय-
धारायुक्तास्त्रविशेषः । किरीच काटार इत्यादि
भाषा ॥

यमनं, क्ली, (यम् + भावे ल्युट् ।) बन्धनम् ।

उपरतिः । इति मेदिनी । ने, १११ ॥ (संयमः ।
यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ४८ ।
“अणुर्वामननामासि यतस्त्वं वामनाख्यया ।
मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥”)

यमनः, पुं, (यमयति नियमयतीति । यम् + ल्युः ।)

यमः । इति मेदिनी । ने, १११ ॥ (यमयति
वशमानयतीन्द्रियग्राममिति । संयमकर्त्तरि, त्रि ।
यथा, वाजसनेयसंहितायाम् । ९ । २२ ।
“यन्तासि यमनो ध्रुवोऽसि धरुणः ।”
“यमनः स्वयं संयमनकर्त्ता भवसि ।” इति तद्-
भाष्ये महीधरः ॥ नियमकारिणि च त्रि । यथा,
तत्रैव । १४ । २२ ।
“यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्री ।”
“यमनी सर्व्वेषां नियमकारिण्यसि ।” इति
तद्भाष्ये महीधरः ॥)

यमनिका, स्त्री, (यच्छति आवृणोतीति । यम् +

ल्युः । कन् । टाप् ।) यवनिका । इत्यमर-
टीकायां रामाश्रमः ॥ कानात् इति भाषा ॥

यमपत्नी, स्त्री, (यमस्य पत्नी ।) यमस्य भार्य्या ।

यमस्य द्वे भार्य्ये । धूमोर्णा १ विजया २ । इति
जटाधरः ॥

यमप्रियः, पुं, (प्रीणातीति । प्री + कः । यमस्य

प्रियः ।) वटवृक्षः । इति शब्दरत्नावली ॥

यमभगिनी, स्त्री, (यमस्य भगिनी स्वसा ।) यमुना ।

इति हेमचन्द्रः । ४ । १४९ ॥

यमराजः, पुं, (यमश्चासौ राजा चेति । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) यमः ।
इति हेमचन्द्रः । २ । ९९ ॥ अस्य पुर्य्यादि यथा,
“पुरी संयमनी तस्य चित्रगुप्तस्तु लेखकः ।
भृत्यौ चण्डमहाचण्डौ धूमोर्णाविजये प्रिये ।
विचार भूमिका नीचिः सहायाः कालपूरुषाः ॥”
इति जटाधरः ॥ * ॥
स च विमात्रा छायया शप्तः । (यथा, मार्क-
ण्डेये । ७७ । २५ -- २९ ।
“छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।
तथा न संज्ञाकन्यायां पुत्त्रयोश्चान्ववर्त्तत ॥
नलिनाद्युपभोगेषु विशेषमनुवासरम् ।
मनुस्तत्क्षान्तवानस्या यमस्तस्या न चक्षमे ॥
ताडनाय च वै कोपात् पादस्तेन समुद्यतः ।
तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥
ततः शशाप तं कोपात् छायासंज्ञा यमं द्बिज ।
किञ्चित् प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ॥
पितुः पत्नीममर्य्यादं यन्मां तर्ज्जयसे पदा ।
भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति ॥”)
तच्छापान्तं यथा, --
“स्वरूपधारिणीं चेमामानिनाय निजाश्रमम् ।
संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥
ततः पूर्ब्बसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्बितीयस्तु यमः शापाद्धर्म्मदृष्टिरभूत् सुतः ॥
क्रिमयो मांसमादाय पादतस्ते महीतलम् ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥
धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः ॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिणी ॥”
इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे । ७८ ।
२५ -- २९ ॥

यमराट्, [ज्] पुं, (प्राणिसंयमनात् यमप्रभृतयः

किङ्करास्तेषु राजते यमेन संयमेन राजते इति
वा । राज् + क्विप् । इत्यमरटीकायां रघु-
नाथः ।) यमः । इत्यमरः । १ । १ । १६ ॥

यमलं, क्ली, (यमं लातीति । ला + कः ।) युग्मम् ।

इति हेमचन्द्रः । ६ । ६० ॥ (त्रि, यमजः ।
यथा, देवीभागवते । ३ । २८ । ५ ।
“सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ ।
ते जाता वै किशोराश्च धनुर्व्वाणधराः किल ॥”)

यमलपत्रकः, पुं, (यमलं यमजं पत्रमस्य । बहुव्रीहौ

कः ।) अश्मन्तकवृक्षः । कोविदारवृक्षः । इति
राजनिघण्टः ॥

यमलार्ज्जुनहा, [न्] पुं, (यमलार्ज्जुनौ हतवान्

इति । हन् + क्विप् ।) श्रीकृष्णः । इति हेम-
चन्द्रः ॥

यमलार्ज्जुनौ, पुं, (यमलौ च तावर्ज्जुनौ चेति

कर्म्मधारयः ।) गोकुलस्थार्ज्जुनवृक्षद्वयम् । तौ
कुवेरपुत्त्रौ नलकूवरमनिग्रीवौ । नारदशापात्
वृक्षतां गतौ श्रीकृष्णेन उद्धारितौ । यथा, --
“यदिमौ लोकपालस्य पुत्त्रौ भूत्वा तमःप्लुतौ ।
न विवाससमात्मानं विजानीतः सुदुर्म्मदौ ॥
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।
स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।
वृत्ते स्वलोकतां भूयो लब्धभक्ती भविष्यतः ॥
श्रीशुक उवाच ।
स एवमुक्त्वा देवर्षिर्गतो नारायणाश्रमम् ।
नलकूवरमणिग्रीवावासतुर्यमलार्ज्जुनौ ॥
ऋषेर्भागवतमुख्यस्य सत्यं कर्त्तुं वचो हरिः ।
जगाम शनकैस्तत्र यत्र स्तो यमलार्ज्जुनौ ॥
देवर्षिर्मे प्रियतमौ यदिमौ धनदात्मजौ ।
तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥
इत्यन्तरेणार्ज्जुनयोः कृष्णस्तु यमयोर्ययौ ।
आत्मनिर्व्वेशमात्रेण तीर्य्यग्गतमुदूखलम् ॥
बालेन निष्कर्षतान्वगुदूखलं तत्
दामोदरेण तर्षोत्कलिताङ्घ्रिबन्धौ ।
निष्पेततुः परमविक्रमितातिवेप-
स्कन्धप्रबालविटपौ कृतचण्डशब्दौ ॥
तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धावुपेत्य कुजयोरिव जातवेदाः ।
कृष्णं प्रणम्य शिरसाखिललोकनाथं
बद्धाञ्जली विरजसाविदमूचतुः स्म ॥
वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्म्मसु मनस्तव पादयोर्नः ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे
दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥
श्रीभगवानुवाच ।
तद्गच्छतं मत्परमौ नलकूवरसादनम् ।
संजातो मयि भावौ वामीप्सितः परमोऽभवः ॥
श्रीशुक उवाच ।
इत्युक्तौ तं परिक्रम्य प्रणम्य च पुनः पुनः ।
बद्धालूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥”
इति श्रीभागवते १० स्कन्धे १० अध्यायः ॥

यमली, स्त्री, (यमल + स्त्रियां ङीष् ।) चोटिका-

द्बयम् । इति मेदिनी । ने, १२६ ॥ चोटी
शाटीपर्य्याये हेमचन्द्रेण गणिता सैव चोटिका ॥

यमवाहनः, पुं, (यमस्य वाहनः ।) महिषः । इति

हेमचन्द्रः । ४ । ३४७ ॥ (तथास्य पर्य्यायः ।
“महिषो घोटकारिः स्यात् कासरश्च रजस्वलः ।
पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

यमव्रतं, क्ली, (यमस्य धर्म्मराजस्येव व्रतम् ।)

राजधर्म्मविशेषः । स तु पक्षपातं विना
पानिनां शासनरूपः । इति पुराणम् ॥

यमस्वसा, [ऋ] स्त्री, (यमस्य स्वसा भगिनी ।)

यमुना । दुर्गा । इति मेदिनी । से, ६० ॥
(यदुक्तं हरिवंशे आर्य्यास्तवप्रकरणे । ५८ । ४ ।
“जया च विजया च त्वं तुष्टिः पुष्टिः क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥”)

यमानिका, स्त्री, (यमानी + स्वार्थे कन् ।)

यमानी । तत्पर्य्यायः । अजमोदा २ उग्रगन्धा ३
ब्रह्मदर्भा ४ । इत्यमरः । २ । ४ । १४५ ॥
“चत्वारि यमान्याम् । यमानी द्विविधा एका
पृष्ठ ४/०२२
क्षेत्रयमानी सा अजमोदा इत्येव ख्याता ।
अपरा यमानी इत्येव ख्याता अविशेषात्
द्वरोरपीति सुभूतिः । केचित्तु अजमोदादिद्वयं
वनयमान्यां ब्रह्मदर्भादिद्वयं यमान्यामित्याहुः ।
उग्रगन्धाजमोदाख्या स्मृता क्षेत्रयमानिका
इति । ‘यमानी दीपको दोप्यो भूतिकश्च
यमानिका ।’ इति च रत्नः । यच्छति विर-
मति निवर्त्तते अग्निमान्द्यमनया यमानी । यमौ
उ विरतौ नाम्नीति अनट् ईप् यमानी स्वार्थे
के यमानिका यमानी पञ्चमवर्गपञ्चममध्या ।
यवानीति अन्तःस्थचतुर्थमध्या इति केचित् ।”
इति भरतः ॥ * ॥ अस्या गुणाः । कुष्ठशूल-
नाशित्वम् । हृद्यत्वम् । पित्ताग्निकारित्वम् ।
वायुकफकृमिनाशित्वञ्च । इति राजवल्लभः ॥

यमानी, स्त्री, (यच्छति विरमति निवर्त्तते अग्नि-

मान्द्यमनयेति । यम + करणे ल्युट् । ङीष् ।
पृषोदरादित्वात् साधुः ।) यमानिका । इति
शब्दरत्नावली ॥ (यथास्याः पर्य्यायः ।
“यमानी दीपको दीप्यो भूतिकश्च यमानिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

यमान्तकः, पुं, (यमस्यान्तकः । मृत्युञ्जयत्वादेवास्य

तथात्वम् ।) शिवः । इति शब्दरत्नावली ॥
(यमश्च अन्तकश्च तौ इति विग्रहे । वैवस्वत-
कालौ । यथा, महाभारते । २ । १७ । १५ ।
“तेजसा सूर्य्यसङ्काशः क्षमया पृथिवीसमः ।
यमान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥”
“यमो वैवस्वतः अन्तकः कालः ।” इति तट्टी-
कायां नीलकण्ठः ॥)

यमी, स्त्री, यमुनानदी । इति त्रिकाण्डशेषः ॥

(यथा, श्रीमद्भागवते । ८ । १३ । ९ ।
“तृतीयां वडकामेके तासां संज्ञासुतास्त्रयः ।
यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृणु ॥”)

यमुना, स्त्री, (यमयतीति । यमि + “अजियमि

शीङ्भ्यश्च ।” उणा ० ३ । ६१ । इति उनन् ।
टाप् ।) दुर्गा । यथा, --
“सर्व्वाणि हृदयस्थानि मङ्गलानि शुभानि च ।
ददाति चेप्सितान् लोके तेन सा सर्व्वमङ्गला ॥
सङ्गमाद्गमनाद्गङ्गा लोके देवी विभाव्यते ।
यमस्य भगिनी जाता यमुना तेन सा मता ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
यच्छति विरमति गङ्गायामिति । नदी-
विशेषः । सा तु हिमालयदक्षिणदेशान्नि-
र्गत्य प्रयागे गङ्गायां मिश्रिता । तत्पर्य्यायः ।
कालिन्दी २ सूर्य्यतनया ३ शमनस्वसा ४ ।
इत्यमरः । २ । १० । ३२ ॥ तपनतनूजा ५ कलिन्द-
कन्या ६ यमस्वसा ७ श्यामा ८ तापी ९ कलिन्द-
नन्दिनी १० यमनी ११ यमी १२ । इति
शब्दरत्नावली ॥ कलिन्दशैलजा १३ सूर्य्य-
सुता १४ । इति जटाधरः ॥ (यथा, --
“गङ्गा सरस्वती शोणयमुना सरयूः सची ।
वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥”
इति हारीते प्रथमे स्थाने अप्तमेऽध्याये ॥)
अस्या जलगुणाः । पित्तदाहवमनश्रमापहत्वम् ।
स्वादुत्वम् । वातजननत्वम् । पावनत्वम् । वह्नि-
दीपनकरत्वम् । रोचनत्वम् । बलप्रदत्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ सा यमस्य भगिनी ।
यथा, --
“सावर्णिर्मेरुपृष्ठे तु तपो घोरं चकार ह ।
अद्यादि भविता लोके मनुः सावर्णिकेऽन्तरे ॥
भ्राता शनैश्चरश्चास्य ग्रहत्वं स तु लब्धवान् ।
तयोर्यवीयसी या तु यमस्वसा यशस्विनी ।
अभवत् सा सरिच्छ्रेष्ठा यमुना लोकपावनी ॥”
इति बह्निपुराणे सागरोपाख्यानम् ॥ * ॥
सा च वृन्दावने सुषुम्नाख्या परा शक्तिः । यथा,
श्रीभगवानुवाच ।
“इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
तत्र ये पशवः साक्षाद्वृक्षाः कीटा नराधमाः ।
ये वसन्ति ममाधिष्ठं मृता यान्ति ममान्तिकम् ॥
तत्र या गोपपत्न्यश्च निवसन्ति ममालये ।
योगिन्यस्तात ! एवं हि मम देवाः परायणाः ॥
पञ्चयोजनमेवं हि वनं मे देहरूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी ॥”
इति पाद्मे पातालखण्डे ७ अध्यायः ॥ * ॥
अस्या जलस्य कृष्णवर्णत्वकारणं यथा, --
पुलस्त्य उवाच ।
“यदा दक्षसुता ब्रह्मन् ! सती याता यमक्षयम् ।
विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः ॥
ततो वृषध्वजं दृष्ट्वा कन्दर्पः कुसुमायुधः ।
अपत्नीकं तदास्त्रेण औन्मादेनाभ्यताडयत् ॥
ततो हरः शरेणाथ औन्मादेनाभिताडितः ।
विवचार तदोन्मत्तः काननानि सरांसि च ॥
स्मरन् सतीं महादेवस्तथोन्मादेन ताडितः ।
न शर्म्म लेभे देवर्षे वाणबिद्ध इव द्बिपः ॥
ततः पपात देवेशः कालिन्दीसरिते मुने ।
निमग्ने शङ्करे चापे दग्धा कृष्णत्वमागता ॥
तदाप्रभृति कालिन्द्या दृगञ्जननिभं जलम् ॥”
इति वामने ६ अध्यायः ॥ * ॥
ज्यैष्ठशुक्लद्वादश्यादिष्वस्यां स्नानपिण्डदानफलं
यथा, --
“यज्ज्यैष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥
यमुनासलिले स्नातः पुरुषो मुनिसत्तम ! ।
ज्येष्ठामूलामले पक्षे द्वादश्यामुपवासकृत् ॥
समभ्यर्च्च्याच्युतं सम्यक् मथुरायां समाहितः ।
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥
ज्येष्ठामूले सिते पक्षे समभ्यर्च्च्य जनार्द्दनम् ।
धन्यो नः पिण्डनिर्व्वापं यमुनायां प्रदास्यति ॥”
इति विष्णुपुराणे ६ अंशे ८ अध्यायः ॥

यमुनाजनकः, पुं, (यमुनाया जनकः ।) सूर्य्यः ।

इति हेमचन्द्रः । २ । ९ ॥

यमुनाभित्, [द्] पुं, (यमुनां भिनत्तीति । भिद् +

क्विप् ।) बलदेवः । इति हेमचन्द्रः । २ । १३८ ॥
(एतद्वृत्तान्तमुक्तं यथा, हरिवंशे । १०२ ।
३४ -- ३६ ।
“स हलेनानताग्रेण कुले गृह्य महानदीम् ।
चकर्ष यमुनां रामो व्युत्थितां वनितामिव ॥
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।
व्यावर्त्तत नदी भीता हलमार्गानुसारिणी ॥
लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिनी ।
सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥”)

यमुनाभ्राता, [ऋ] पुं, (यमुनाया भ्राता ।)

यमः । इत्यमरः । १ । १ । ६१ ॥

यमेरुका, स्त्री, (यमं ईरयति प्रेरयतीति । ईरि +

बाहुलकात् उकः । टाप् ।) दण्डढक्वा । इति
त्रिकाण्डशेषः ॥

ययातिः, पुं, नहुषराजपुत्त्रः । तत्पर्य्यायः । नाहुषिः

२ । इति त्रिकाण्डशेषः ॥ नाहुषः ३ । इति
जटाधरः ॥ तस्योपाख्यानं यथा, --
“नहुषस्य प्रवक्ष्यामि पुत्त्रान् सप्तैव धार्म्मिकान् ।
यतिर्ययातिः संयातिरुद्भवः पञ्चमस्तथा ॥
स्वर्यातिर्मेघयातिश्च सप्तैते वंशवर्द्धनाः ।
ययातिरकरोद्राज्यं धर्म्मैकशरणस्तदा ॥
शर्म्मिष्ठा तस्य भार्य्याभूत् दुहिता वृषपर्व्वणः ।
भार्गवस्याङ्गजा तद्वद्देवयानी च सुव्रता ॥
ययातिर्देवयान्यान्तु पुत्त्रावजनयन्नृपः ।
यदुञ्च तुर्व्वसुञ्चैव शक्रविष्णू इवापरौ ॥
तस्मादेव तु राजर्षेः शर्म्मिष्ठा वार्षपर्व्वणी ।
द्रुह्यञ्चानुञ्च पूरुञ्च त्रीन् कुमारानजीजनत् ॥
ततः काले च कस्मिंश्चिद्देवयानी शुचिस्मिता ।
ययातिसहिता राजन् जगाम हरितं वनम् ॥
ददर्श च तदा तत्र कुमारान् देवरूपिणः ।
क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत् ॥
किन्नामधेयं गोत्रं वः पुत्रकाः ! ब्राह्मणः पिता ।
विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥
तेऽदर्शयन् प्रदेशिन्या तमेव नृपसत्तमम् ॥
बुद्ध्वा च तत्त्वतो देवी शर्म्मिष्ठामिदमब्रवीत् ॥
ममाधीना सती कस्मादकार्षीर्विप्रियं मम ॥
शर्म्मिष्ठोवाच ।
यदा तया वृतो राजा वृत एव तदा मया ।
त्वत्तो हि मे पूज्यतमो राजर्षिः किं न वेत्सि
तत् ॥
शौनक उवाच ।
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।
राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥
अविब्रुवन्ती किञ्चिच्च राजानं साश्रुलोचना ।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिके ॥
देवयान्युवाच ।
शर्म्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्व्वणः ।
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना ।
दुर्मगाया मम द्वौ तु पुत्रौ तात ! ब्रवीमि वः ॥
शुक्र उवाच ।
धर्म्मज्ञः सन् महाराज ! योऽधर्म्ममकृथाः प्रियम् ।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्ज्जया ॥
ययातिरुवाच ।
ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः ।
नोपैति सह धर्म्मेण भ्रूणहेत्युच्यते बुधैः ॥
पृष्ठ ४/०२३
अधर्म्मभयसंविग्नः शर्म्मिष्ठामुपजग्मिवान् ॥
अतृप्तो यौवनस्याहं देवयान्या भृगूद्वह ! ।
प्रसादं कुरु मे ब्रह्मन् जरेयं मा विशेत माम् ॥
शुक्र उवाच ।
नाहं मृषा ब्रवीम्येतत् जरां प्राप्तोऽसि भूमिप ! ।
जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि ॥
वयो दास्यति पुत्त्रो यः स ते राजाभविष्यति ॥”
इति मात्स्ये ३२ अध्यायः ॥ * ॥
शौनक उवाच ।
“जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।
पुत्त्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्बचः ॥
त्वं यदो ! प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह ॥
यदुरुवाच ।
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ! ।
जरां ग्रहीतुं धर्म्मज्ञ ! पुत्रमन्यं वृणीष्व वै ॥
ययातिरुवाच ।
यो मे त्वं हदयाज्जातो वयः स्वं न प्रयच्छसि ।
पापान्मातुलसम्बन्धात् दुष्प्रजा ते भविष्यति ॥
तुर्व्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन चरेयं वै विषयांस्तव पुत्रक ! ॥
तुर्व्वसुरुवाच ।
न कामये जरां तात ! कामभोगप्रणाशिनीम् ।
बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥
ययातिरुवाच ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात् प्रजा समुच्छेदं तुर्व्वसो ! तव यास्यति ॥
द्रुह्यो ! त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।
जरां वर्षसहस्राणि यौवनं स्वं प्रयच्छ च ॥
द्रुह्युरुवाच ।
न गजं न रथं चाश्वं जीर्णो भुङ्क्ते वरस्त्रियम् ।
नारोगश्चास्य भवति तां जरां ते न कामये ॥
ययातिरुवाच ।
यस्त्व मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात् द्रुह्यो ! प्रियः कामो न ते सम्पत्स्यते
क्वचित् ॥
अनो ! त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
एकं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥
अनुरुवाच ।
जीर्नः शिशुरिवादत्ते कालेऽन्नमशुचिर्यथा ।
न जुहोति च कालेऽग्निं तां जरां नैव कामये ॥
ययातिरुवाच ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
जरादोषस्त्वयोक्तो यस्तस्मात्तं प्रतिपत्स्यसे ॥
पूरो ! मे त्वं प्रियः पुत्त्र ! त्वं वरीयान् भविष्यसि ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥
पूरो ! त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
किञ्चित्कालं चरेयं वै विषयान् वयसा तव ॥
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् ।
स्वञ्चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
शौनक उवाच ।
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा ।
यथात्थ त्वं महाराज ! तत् करिष्यामि ते वचः ॥
ययातिरुवाच ।
पूरो ! प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।
सर्व्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥”
इति मात्स्ये ३३ अध्यायः ॥ * ॥
शौनक उवाच ।
“पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।
प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् सुखी ॥
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ।
पूरो ! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौ-
वनम् ॥
राज्यञ्चापि गृहाणेदं यत् त्वयोपकृतं पुरा ॥
शौनक उवाच ।
एवं स नाहुषो राजा ययातिः पुत्त्रमीप्सितम् ।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥
उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः ।
फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥”
इति मात्स्ये ३५ अध्यायः ॥ * ॥

ययीः, पुं (यायते प्राप्यते भक्तैरिति । या + “यापोः

कित् द्वे च” । उणा० ३ । १५९ । इति ईः
द्वित्वञ्च ।) महादेवः । इत्युणादिकोषः । १ । ३५४ ॥
(यातिद्रुतं गच्छतीति । अश्वः । इत्युज्ज्वलदत्तः ॥)

ययुः, पुं, (यातीति । या + “यो द्वे च ।” उणा०

१ । २२ । इति उः द्वित्वञ्च । यजन्त्यनेनेति ।
यज + उः । पृषोदरादित्वात् जस्य यत्वमित्यमर-
टीकायां रघुनाथः ।) अश्वमेधीयाश्वः ।
सामान्यघोटकः । इति मेदिनी । ये, ४७ ॥

यवः, पुं, (यूयते अम्भसा इति । यु मिश्रणे + अप् ।)

स्वनामख्यातशूकधान्यम् । तत्पर्य्यायः । सित-
शूकः २ । इत्यमरः । २ । ९ । १५ ॥ शितशूकः ३ ।
इति शब्दरत्नावली ॥ मेध्यः ४ दिव्यः ५ अक्षतः ६
कञ्चुकी ७ धान्यराजः ८ तीक्ष्णशूकः ९ तुरग-
प्रियः १० शक्तुः ११ महेष्टः १२ पवित्रधान्यम्
१३ । तस्य गुणाः । कषायत्वम् । मधुरत्वम् ।
सुशीतलत्वम् । प्रमेहपित्तकफापहारकत्वञ्च ।
अशूकमुण्डयवगुणाः । बलप्रदत्वम् । वृष्यत्वम् ।
नृणां बहुवीर्य्यपुष्टिदत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“यवः कषायमधुरो बहुवातशकृद्गुरुः ।
रूक्षः स्थैर्य्यकरः शीतो मूत्रमेदकफापहः ॥”
इति राजवल्लभः ॥ * ॥
(अपि च ।
“यवः कषायो मधुरो हिमश्च
कटुर्विपाके कफपित्तहारी ।
व्रणेषु पथ्यस्तिलवच्च नित्यं
प्रबद्धमूत्रो बहुवातबर्च्चाः ॥
स्थैर्य्याग्निमेधा स्वरवर्णकृच्च
स पिच्छिलः स्थूलविलेखनश्च ।
मेदो मरुत्तृढरणोऽतिरूक्षः
प्रसादनः शोणितपित्तयोश्च ॥
एभिर्गुणैर्हीनतरांस्तु किञ्चिद्-
विद्याद् यवेभ्योऽतियवान् विशेषैः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥
“रूक्षः शीतो गुरुः स्वादुर्वहुवातशकृद्यवः ।
स्थैर्य्यकृत् सकषायस्तु बल्यः श्लेष्मविकारनुत् ॥
रूक्षः कषायानुरसो मधुरः कफपित्तहा ।
मेदःक्रिमिविषघ्नश्च वल्यो वेणुयवः स्मृतः ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥
“क्वचिद्बाक्यशेषादपि शक्तिग्रहः यथा यवपदस्य
कङ्गुप्रभृतौ म्लेच्छानां दीर्घशूके च शिष्टानां
व्यवहारादेकमात्रशक्तेः परिच्छेत्तुमशक्यत्वात्
नानार्थत्वस्य चान्याय्यत्वात् यवमयश्चरुर्भवतीति
श्रुतौ यवपदस्यार्थ सन्देहे ।
‘वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् ।
मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥’
इति विध्यर्थाकाङ्क्षया प्रवर्त्तमानाद्बाक्यशेषाद्दीर्घ-
शूक एव यवपदस्य शक्तिग्रहः ।” इति शब्दशक्ति-
प्रकाशिकायां नैमित्तिकर्संज्ञायाम् ॥ * ॥ हविष्ये
यवानामेव मुख्यत्वम् । यथा, --
“हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः ।
माषकोद्रवगौरादिसर्व्वालाभेऽपि वर्ज्जयत् ॥”
इति कत्यायनसंदिता । ९ । १० ॥
नवयवागमे तैरवश्यं श्राद्धं कार्य्यं अकरणे
प्रत्यवायश्रवणात् । यथा, --
“नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्व्वीत नवशस्यागमे तथा ॥
इति विष्णुपुराणात् वक्षमाणबहुतरवचनेषु
नवान्नश्रुतेः नवान्नागमत्वेनैव निमित्तं लाघवात् ।
अमावस्यास्तिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्ण-
त्रयोदशी व्रीहियवपाकौ च ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ।
श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥”
इति श्राद्धतत्वे नवान्नश्राद्धे ॥)
परिमाणविशेषः । स तु चतुर्धान्यमानरूपः । इति
शुभङ्करः ॥ षट्सर्षपपरिमाणात्मकश्च । यथा, --
“जालान्तरगते भानौ यच्चानु दृश्यते रजः ।
तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः ।
षट्सर्षपैर्यवस्त्वेको गुञ्जैका तु यवैस्त्रिभिः ॥”
इति शब्दचन्द्रिका ॥ * ॥
अङ्गुलिस्थयवाकाररेखाविशेषः । यथा, --
“तर्ज्जनीमूलसंपृक्तौ यवौ पुत्रार्थदौ क्रमात् ।
मध्यमायां यवश्चैवाङ्गुष्ठेऽपूर्व्वधनप्रदः ॥”
अपि च सामुद्रके ।
“मध्यमायां यदि यवो दृश्यते च सुशोभनः ।
तदान्यसञ्चितं द्रव्यं प्राप्नोत्यङ्गुष्ठके यवे ॥
यस्यापि चक्रमङ्गुष्ठे यवपूर्णञ्च दृश्यते ।
तदा पितामहादीनामर्ज्जितं लभते धनम् ॥”
(पूर्ब्बपक्षः । यथा, वाजसनेयसंहितायाम् । १४ ।
३१ । “एकत्रिंशतास्तु वत प्रजा असृज्यन्त यवा-
श्चायवाश्चाधिपतय आसन् ।” “यवाः पूर्ब्ब-
पक्षाः अयवाः अपरपक्षाः ।” इति तट्टी-
कायां महीधरः ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/य&oldid=44044" इत्यस्माद् प्रतिप्राप्तम्