सामग्री पर जाएँ

शब्दकल्पद्रुमः/मूर्द्धकः

विकिस्रोतः तः
पृष्ठ ३/७६१

मूर्द्धकः, पुं, (मूर्द्धन्यभिषिक्त इति । मूर्द्धन् +

संज्ञायां कन् ।) क्षत्त्रियः । इति शब्दरत्नावली ॥

मूर्द्धकर्णी, स्त्री, छत्रम् । इति हारावली ॥

मूर्द्धखोलं, क्ली, (मूर्द्ध्नः खोल इव ।) छत्रम् ।

इति त्रिकाण्डशेषः ॥

मूर्द्धजः, पुं, (मूर्द्ध्नि जायते । जन + डः ।) केशः ।

इति जटाधरः ॥ (यथा, बृहत्संहितायाम् ।
६८ । ८२ ।
“बहुमूलविषमकपिला
स्थूलस्फुटिताग्रपरुषह्रस्वाश्च ।
अतिकुटिलाश्चातिघनाश्च
मूर्द्धजा वित्तहीनानाम् ॥”)
मूर्द्ध्नि जाते, त्रि ॥

मूर्द्धन्यः, त्रि, (मूर्द्धन् + यत् ।) मूर्द्धनि भवः । यथा ।

ऋत्रयं ट ठ ड ढ ण र षा मूर्द्धन्याः । इति
मुग्धबोधव्याकरणम् ॥ (यथा च भागवते । १ ।
७ । ५५ ।
“अर्जुनः सहसाज्ञाय हरेर्हार्द्दमथासिना ।
मणिं जहार मूर्द्ध्वन्यं द्विजस्य सहमूर्द्धजम् ॥”)

मूर्द्धपुष्पः, पुं, (मूर्द्ध्नि पुष्पमस्य ।) शिरीषवृक्षः ।

इति शब्दमाला ॥ (गुणादयोऽस्य शिरीषशब्दे
विधेयाः ॥)

मूर्द्धरसः, पुं, (मूर्द्धस्थस्तदुपरिस्थो रसः ।) भक्त-

फेनः । इति शब्दचन्द्रिका ॥

मूर्द्धवेष्टनं, क्ली, (मूर्द्ध्नः वेष्टनम् ।) उष्णीषः ।

इति हेमचन्द्रः । ३ । ३३१ ॥

मूर्द्धा, [न्] पुं, (मूर्वति बध्नाति यत्रेति । मुर्व्व +

“श्वन् उक्षन् पूषन् । उणा० १ । १५८ । इति
कनिन् । उकारस्य दीर्घः बकारस्य धकारश्च ।)
मस्तकः । इत्यमरः । २ । ६ । ९५ । (यथा,
बृहत्संहितायाम् । ७७ । २ ।
“लोहे पात्रे तण्डुलान् कोद्रवाणां
शुक्ले पक्वाँल्लोहचूर्णेन साकम् ।
पिष्टान् सूक्ष्मं मूर्द्ध्नि शुक्लाम्लकेशे
दत्त्वा तिष्ठेद्वेष्टयित्वार्कपत्रैः ॥”)

मूर्द्धाभिषिक्तः, पुं, क्षत्त्रियः । राजा । इत्यमरः ।

३ । ३ । ६१ ॥ मूर्द्धन्यभिषिक्तो मूर्द्धाभिषिक्तः
राज्यारोपणसमये प्रथमः क्षत्त्रियो मूर्द्धाभि-
षिक्तः । तत्प्रभवत्वात् योग्यतयानभिषिक्तोऽपि
मूर्द्धाभिषिक्तः । (यथा, भागवते । ९ । १५ । ४१ ।
“राज्ञो मूर्द्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः ।
तीर्थसंसेवया चांहो जह्याङ्गाच्युतचेतनः ॥”)
वर्णसङ्करविशेषः । स तु विप्रात् क्षत्त्रियायां
जातः ॥ प्रधानः । इति भरतः ॥ मन्त्री । इति
मेदिनी । ते, २३२ ॥

मूर्द्धावसिक्तः, पुं, वर्णसङ्करभेदः । स तु क्षत्त्रियायां

ब्राह्मणेनोत्पादितः । यथा, --
“स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्
सुतान् ।
सदृशानेव तानाहुर्म्मातृदोषविगर्हितान् ॥”
इति मानवे १० अध्याये ६ श्लोकः ॥ * ॥
‘स्त्रीष्विति आनुलोम्येन अव्यवहितवर्णजाती-
यासु भार्य्यासु द्बिजातिभिर्य उत्पादिताः
पुत्त्राः । यथा । ब्राह्मणेन क्षत्त्रियायां क्षत्त्रियेण
वैश्यायां वैश्येन शूद्रायाम् । तान् मातुर्हीन-
जातीयत्वदोषेण गर्हितान् पितृसदृशान् न तु
पितृसजातीयान् मन्वादय आहुः । पितृसदृश-
ग्रहणात् मातृजातेरुत्कृष्टाः पितृजातितो
निकृष्टा ज्ञेयाः । एतेषाञ्च नामानि मूर्द्धा-
वसिक्तमाहिष्यकरणाख्यानि याज्ञवल्क्यादिभि-
रुक्तानि । वृत्तयश्चैषामुशनसोक्ताः । हस्त्य-
श्वरथशिक्षास्त्रधारणञ्च मूर्द्धावसिक्तानाम् ।
नृत्यगीतनक्षत्रजीवनं शस्यरक्षा च माहि-
ष्याणाम् । द्बिजातिशुश्रूषा धनधान्याध्यक्षता
राजसेवा दुर्गान्तःपुररक्षा च पारशवोग्र-
करणानामिति । इति तट्टीकायां कुल्लूक-
भट्टः ॥

मूर्द्धा, [न्] पुं, (मूर्व + कनिन् । वस्य धः

दीर्घश्चोकारस्य ।) शिरः । यथा, --
मूर्द्धा मूर्द्ध्वा शिरोदेशे पुंसि स्यातामिमौ समौ ।
इत्युणादिकोषः ॥
मूर्व्वीं नहे मूर्द्धा मूर्द्ध्वा च । अस्य धङध्वङौ ।
इति तट्टीका ॥ (यथा, देवीभागवते । २ । ७ । २८ ।
“दृष्ट्वा वेणीं कृतां मूर्द्ध्नि कज्जलं लोचने तथा ।
असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा
सुखम् ॥”)

मूर्व्वा, स्त्री, (मूर्वति इति । मूर्व + अच् टाप् ।)

लताविशेषः । धनुर्गुणोपयुक्ता मुरगा इति
ख्याता । तत्पर्य्यायः । देवी २ मधुरसा ३
मोरटा ४ तेजनी ५ स्रवा ६ मधूलिका ७
धनुःश्रेणी ८ गोकर्णी ९ पीलुपर्णी १० । इत्य-
मरः । २ । ४ । ८३ ॥ स्रुवा ११ मूर्व्वी १२ ।
मधुश्रेणी १३ धुनुः १४ श्रेणी १५ । इति तट्टी-
कायां भरतः ॥ सुरङ्गिका १६ । देवश्रेणी १७
पृथक्त्वचा १८ मधुस्रवा १९ अतिरसा २०
पीलुपर्णिका २१ दिव्यलता २२ ज्वलिनी २३
गोपवल्ली २४ । अस्या गुणाः । अतितिक्तत्वम् ।
कषायत्वम् । उष्णत्वम् । हृद्रोगकफवातवमि-
प्रमेहकुष्ठविषमज्वरनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“मूर्व्वा सरा गुरुः स्वादुस्तिक्ता पित्तास्रमेहनुत् ।
त्रिदोषतृष्णाहृद्रोगकण्डुकुष्ठज्वरापहा ॥”
इति भावप्रकाशः ॥
(तथास्याः पर्य्यायः ।
“तेजनी पिलुनी देवा तिक्तवल्ली पृथक्त्वचा ।
धनुःश्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥”
इति वैद्यकरत्नमालायाम् ॥
“मूर्व्वा मधुरसा ज्ञेया तेजनी तिक्तवल्कला ।”
इति गारुडे २०८ अध्याये ॥)

मूल क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०-

उभ०-सक०-सेट् ।) दीर्घी रोपणमारोपणम् ।
क मूलयति वृक्षं लोकः । गोविन्दभट्टस्तु रोहणे
इति पठित्वा रोहणं जन्मेति व्याख्याति । इति
दुर्गादासः ॥

मूल ञ प्रतिष्ठायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सेट् ।) पवर्गशेषादिर्दीर्घी ।
प्रतिष्ठा स्थितिरिति गोविन्दभट्टः । ञ मूलति
मूलते यशः । अयं परस्मैपदीत्यन्ये । इति
दुर्गादासः ॥

मूलं, क्ली, (मवते बध्नाति वृक्षादिकमिति । मू +

“मूङ्शक्यविभ्यः क्लः ।” उणा० ४ । १०८ । इति
क्लः ।) शिफा । शिकड इति भाषा । तत्पर्य्यायः ।
व्रध्नः २ अङ्घ्रिनामकः ३ । इत्यमरः । २ । ४ । १२ ॥
कन्दः ४ वृध्नः ५ । इति शब्दरत्नावली ॥ जटा
६ । इति जटाधरः ॥ (यथा, मनौ । ३ । २२७ ।
“भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च ।
हृद्यानिचैव मांसानि पानानि सुरभीणि च ॥”)
आद्यम् ॥ (यथा, महाभारते । १ । १६१ । १ ।
“कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
विदित्वाप्यपकर्षेयं शक्यञ्चेदपकर्षितुम् ॥”)
नक्षत्रविशेषः ॥ (यथा, मार्कण्डेये । ३३ । १३ ।
“कुर्वन्तश्चानुराधासु लभन्ते चक्रवर्त्तिताम् ।
आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥”
निकुञ्जः । अन्तिकम् । इति विश्वः ॥ (यथा,
मार्कण्डेये । ८६ । ६ ।
‘जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।)
मूलवित्तम् । इति भरतधृतमेदिनी ॥ (यथा,
मनौ । ८ । २०२ ।
“अथ मूलमनाहार्य्यं प्रकाशक्रयशोधितः ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥”)
निजम् । इत्यजयपालः ॥ चरणम् । इत्युणादि-
कोषः ॥ (यथा, ऋग्वेदे । १० । ८७ । १० ।
“त्रेधा मूलं यातुधानस्य वृश्च ।”
“मूलं पादम् ।” इति तद्भाष्ये सायणः ॥)
टीकार्हग्रन्थः । यथा । समानवलेत्यादि मूलम् ।
इति सत्प्रतिपक्षे गदाधरभट्टाचार्य्यः । शूरणम् ।
इति शब्दचन्द्रिका ॥ पिप्पलीमूलम् । पुष्कर-
मूलम् । इति राजनिर्घण्टः ॥ विशेषमूलस्य
अन्वेषणनिषेधो यथा, --
“नदीनामग्निहोत्राणां भारतस्य कुलस्य च ।
मूलान्वेषो न कर्त्तव्यो मूलाद्दोषो न हीयते ॥”
इति गारुडे ११६ अध्यायः ॥
(कारणम् । यथा, मनौ । ११ । ८४ ॥
“धर्म्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ।
“मूलं कारणम् ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥)

मूलः, त्रि, (मूलतीति । मूलप्रतिष्ठायाम् + कः ।)

अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्ष-
त्रम् । यथा, --
“हस्ता स्वाती श्रवणा अक्लीवे मृगशिरो नपुंसि ।
स्यात् पुंसि पुनर्व्वसुपुष्यौ मूलन्त्वस्त्री स्त्रियां
शेषाः ॥”
इति तिथ्यादितत्त्वम् ॥
“मूलमाद्ये शिफायाञ्च निकटे भे तु वास्त्रि-
याम् ।”
इति शब्दरत्नावली च ॥
पृष्ठ ३/७६२
स तु निरृतिदेवताकः । इति ज्योतिस्तत्त्वम् ॥
सिंहपुच्छाकारः । इति मुहूर्त्तचिन्तामणिः ॥
शङ्खमूर्त्तिर्नवतारामयश्च । अस्मिन् मस्तकोप-
र्य्युदिते मीनलग्नस्याष्टौ पलानि गतानि भवन्ति ।
यथा, --
“मौलिभाजि नवतारकाङ्किते
मूलभे सुतनु ! शङ्खमूर्त्तिनि ।
लिप्तिकाष्टकमरालकुन्तले
निर्जगाम पृथुरोमलग्नतः ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥
अस्मिन् नक्षत्रे जातस्य फलम् ।
“मूलं विरुद्धावयवं समूलं
कुलं दहत्येव वदन्ति सन्तः ।
चेदन्यथातः पुरुषा विशेषात्
सौभाग्यमायुश्च कुलानुवृद्धिः ॥”
इति कोष्ठीप्रदीपः ॥
अस्मिन् मांसभक्षणनिषेधो यथा, --
“चित्रास्वहस्ताश्रवणासु तैलं
क्षौरं विशाखाप्रतिपत्सु वर्ज्यम् ।
मूले मृगे भाद्रपदासु मांसं
योषिन्मघाकृत्तिकसोत्तरासु ॥”
इति तिथ्यादितत्त्वम् ॥

मूलकं, क्ली, पुं, (मूल + संज्ञायां कन् ।) कन्द-

विशेषः । मूला इति भाषा । तत्पर्य्यायः ।
राजालुकः २ महाकन्दः ३ हस्तिदन्तकः ४ ।
इति हारावली ॥ नीलकण्ठम् ५ मूलाह्वम् ६
दीर्घमूलकम् ७ अत्र दीर्घपत्रकमपि पाठः ।
मृत्क्षारम् ८ कन्दमूलम् ९ हस्तिदन्तम् १०
सितम् ११ शङ्खमूलम् १२ हरित्पर्णम् १३
रुचिरम् १४ दीर्घकन्दकम् १५ कुञ्जरक्षारमूलम्
१६ । अस्य गुणाः । तीक्ष्णत्वम् । उष्णत्वम् ।
कटूष्णेनाग्निदीपनत्वम् । दुर्नामगुल्महृद्रोगवात-
नाशित्वम् । रुचिदत्वम् । गुरुत्वञ्च । इति राज-
निर्घण्टः ॥ * ॥ अपि च ।
“बालमूलकपत्री तु रोचनी वह्निदीपनी ।
मूलकं गुरु विष्टम्भि तीक्ष्णमामं त्रिदोष-
कृत् ॥
तदेव स्निग्धसिद्धन्तु पित्तलं कफवातनुत् ।
शुष्कं त्रिदोषशमनं शोथघ्नं गरजिल्लघु ॥
तत्पुष्पं कफपित्तघ्नं तत्फलं कफवातजित् ॥”
इति राजवल्लभः ॥
अन्यच्च ।
“मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् ।
शालामकटकं विस्रं शालेयं मरुसम्भवम् ॥
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका ।
नैपालमूलकञ्चान्यत्तद्भवेद्गजदन्तवत् ॥
लघुमूलकमुष्णं स्याद्रुच्यं लघु च पाचनम् ।
दोषत्रयहरं स्वर्य्यं ज्वरश्वासविनाशनम् ॥
नासिकाकण्ठरोगघ्नं नयनामयनाशनम् ।
महत्तदेवरूक्षोष्णं गुरु दोषत्रयप्रदम् ।
स्नेहसिद्धं तदेव स्याद्दोषत्रयविनाशनम् ॥”
इति भावप्रकाशः ॥
(तथाचास्य गुणाः ।
“बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।
स्निग्धसिद्धं विशुष्कन्तु मूलकं कफवातजित् ॥”
इति चरके सूत्रस्थाने । २७ अध्यायः ॥)
सौरमाघे तद्भक्षणे दोषो यथा, --
“मकरे मूलकञ्चैव सिंहे चालावुकन्तथा ।
कार्त्तिके शूरणञ्चैव सद्यो गोमांसभक्षणम् ॥”
इति कर्म्मलोचनम् ॥
पौर्णमास्यान्तमाघमुपक्रम्य ।
“पितॄणां देवतानाञ्च मूलकं नैव दापयेत् ।
ददन्नरकमाप्नोति भुञ्जीत ब्राह्मणो यदि ॥
ब्राह्मणो मूलकं भुक्त्वा चरेच्चान्द्रायणं व्रतम् ।
अन्यथा याति नरकं क्षत्त्रो विट् शूद्र एव च ॥
तथा ।
“वरं भक्ष्यमभक्ष्यञ्च पिबेद्बा गर्हितञ्च यत् ।
वर्ज्जनीयं प्रयत्नेन मूलकं मदिरासमम् ॥”
इति मलमासतत्त्वम् ॥

मूलकः, पुं, (मूले जातः । मूल + “पूर्ब्बाह्णापरा-

ह्णार्द्रामूलप्रदोषावस्कराद्वुन् ।” ४ । ३ । २८ ।
इति वुन् ।) चतुस्त्रिंशत्स्थावरविषजात्यन्त-
र्गतविषभेदः । इति हेमचन्द्रः । ४ । २६८ ॥
(मूलप्रकार इति । मूल + “स्थूलादिभ्यः प्रकार-
वचने कन् ।” ५ । ४ । ३ । इति कन् । मूल-
स्वरूपः । यथा, भागवते । ९ । ९ । ४१ ।
“नारीकवच इत्युक्तो निःक्षत्त्रे मूलकोऽभवत् ॥”)

मूलकपर्णी, स्त्री, (मूलकस्य पर्णमिव समानस्वादं

पर्णमस्याः । ङीष् ।) शोभाञ्जनः । इति रत्न-
माला ॥

मूलकर्म्म, क्ली, (मूलञ्च तत् कर्म्म चेति ।) ओष-

ध्यादिमूलेन यत् त्रासनोच्चाटनस्तम्भनवशी-
करणादिकर्म्म । जो इति ख्यातम् । इति भरतः ॥
टोना इति मुकुटः ॥ तत्पर्य्यायः । कार्म्मणम् २ ।
इत्यमरः । ३ । २ । ४ ॥ ऊनपञ्चाशदुपपात-
कान्तर्गतोपपातकविशेषः । यथा, --
“सर्व्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम् ।
हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म्म
च ॥”
इति मनुः । ११ । ६४ ॥
“मन्त्रौषधादिना वशीकरणम् ।” इति मूल-
कर्म्मशब्दव्याख्यायां कुल्लूकभट्टः ॥

मूलकमूला, स्त्री, (मूलकमिव मूलमस्याः ।) क्षीर-

कञ्चुकीवृक्षः । इति रत्नमाला ॥

मूलकारः, पुं, (मूलं करोतीति । कृ + कर्म्मण्यण् ।

इत्यण् ।) मूलग्रन्थकर्त्ता । यथा । नायं
गणकारः किन्तु मूलकारः । इति संक्षिप्त-
सारटीकायां गोयीचन्द्रः ॥

मूलकारिका, स्त्री, (मूलकारक + स्त्रियां टाप् ।

अकारस्येत्वम् ।) चुल्ली । इति हारावली ॥
मूलग्रन्थार्थप्रकाशकपद्यम् । मूलधनस्य वृद्धि-
विशेषश्च ॥

मूलकृच्छं, क्ली, (मूलेन तद्रमपानेन कृच्छ्रम् ।)

एकादशविधपर्णकृच्छ्रव्रतान्तर्गतव्रतविशेषः ।
यदा क्वथितानि वृक्षमूलानि मासं पीयन्ते तदा
मूलकृच्छ्रव्यपदेशं लभते । यथाह मार्कण्डेयः ।
“फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥
मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् ।
पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥
मूलकृच्छ्रः स्मृतो मूलैस्तोयकृच्छ्रो जलेन तु ॥”
इति मिताक्षरायां प्रायश्चित्ताध्यायः ॥
(पुंलिङ्गोऽप्ययं मार्कण्डेयपुराणोक्तत्वात् ।)

मूलजं, क्ली, (मूलात् जायते इति । जन + डः ।)

आर्द्रकम् । इति राजनिर्घण्टः ॥ (विशेषो-
ऽस्यार्द्रकशब्दे ज्ञातव्यः ॥)

मूलजः, पुं, (मूलाद् जायते । जन + डः ।)

उत्पलादिः । इति हेमचन्द्रः । ४ । २६६ ॥
मूलोद्भवे त्रि ॥

मूलत्रिकोणं, क्ली, (मूलञ्च तत्त्रिकीणञ्चेति ।)

अर्कादिग्रहाणां राशिरूपगृहविशेषः । स तु
रवेः सिंहः । चन्द्रस्य वृषः । कुजस्य मेषः ।
बुधस्य कन्या । गुरोर्धनुः । भृगोस्तुला । शनेः
कुम्भः । यथा, --
“सिंहो वृषश्च मेषश्च कन्या धन्वी धटो घटः ।
अर्कादीनां त्रिकोणानि मूलानि राशयः
क्रमात् ॥”
अथ मूलत्रिकोणांशव्यवस्था ।
“रविभौमजीवभार्गवशनैश्चराणां त्रिकोण-
भागाः स्युः ।
नखरविदिक्तिथिनखरा ज्ञेन्दोर्दिग्भांशका
सूच्चात् ॥”
इति ज्योतिस्तत्त्वम् ॥

मूलदेवः, पुं, (मूलश्चासौ देवो राजा चेति ।)

कंसराजः । इति त्रिकाण्डशेषः ॥

मूलद्रव्यं, क्ली, (मूलञ्च तद्द्रव्यञ्चेति ।) मूलधनम् ।

इति हेमचन्द्रः । ३ । ५३३ ॥

मूलधनं, क्ली, (मूलञ्च तद्धनञ्चेति ।) आदिद्रव्यम् ।

पुँजी इति भाषा । तत्पर्य्यायः । परिपणम् २
नीवी ३ । इत्यमरः । २ । ९ । ८० ।

मूलपर्णी, स्त्री, (मूले पर्णमस्याः । ङीष् ।) मण्डूक-

पर्णी । इति रत्नमाला ॥

मूलपुष्करं, क्ली, (मूले पुष्करमस्य । पुष्करमिव

मूलमस्येति वा ।) पुष्पकमूलम् । इति राज-
निर्घण्टः ॥

मूलपोती, स्त्री, (मूलप्रधाना पोती ।) पूतिका-

शाकभेदः । तत्पर्य्यायः । क्षुद्रवल्ली २ पोतिका ३
क्षुद्रपोतिका ४ क्षुपोपोदकनाम्नी ५ वल्लि-
शाकटपोतिका ६ । अस्या गुणाः । त्रिदोष-
घ्नत्वम् । वृष्यत्वम् । बल्यत्वम् । लघुत्वम् । बल-
पुष्टिकारित्वम् । रुच्यत्वम् । जठरानलदीपन-
त्वञ्च । इति राजनिर्घण्टः ॥

मूलप्रकृतिः, स्त्री, (मूला चासौ प्रकृतिश्चेति ।)

आद्या शक्तिः । यथा, --
“सर्व्वप्रसूता प्रकृतिः श्रीकृष्णः प्रकृतेः परः ।
न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना ।
पृष्ठ ३/७६३
सृष्टिं विधातुं मायेशो न सृष्टिर्मायया विना ॥
सा च कृष्णे तिरोभूता सृष्टिसंहारकारके ।
आविर्भूता सृष्टिकाले सा च नित्या यथेश्वरः ॥
कुलालश्च घटं कर्त्तुं यथाशक्तो मृदं विना ।
स्वर्णं विना स्वर्णकारः कुण्डलं कर्त्तुमक्षमः ॥
सा शक्तिः सृष्टिकाले च पञ्चधा चेश्वरेच्छया ।
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।
प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ॥
ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी ।
परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ॥
विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।
वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता ॥
बुद्ध्यधिष्ठातृदेवी या सर्व्वशक्तिस्वरूपिणी ।
सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी ॥
वागाधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।
कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती ॥
पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी ।
ततः सृष्टिक्रमेणैव बहुधा कलया च सा ॥
थोषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ।
मायया सृष्टिकाले च तद्विना न भवेद्भवः ॥
सृष्टिश्च प्रतिविश्वे च ब्रह्मन् ! ब्रह्मोद्भवा सदा ।
पाता विष्णुश्च संहर्त्ता शिवः शश्वच्छिवप्रदः ॥”
इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४० अः ॥

मूलफलदः, पुं, (मूले च फलं ददातीति । दा +

कः ।) पनसवृक्षः । इति राजनिर्घण्टः ॥
(पनसशब्देऽस्य विषयो ज्ञातव्यः ॥)

मूलभद्रः, पुं, (मूलश्चासौ भद्रश्चेति ।) कंसराजः ।

इति त्रिकाण्डशेषः ॥

मूलरसः, पुं, (मूले रसोऽस्याः ।) मोरटलता ।

इति रत्नमाला ॥

मूलशाकटः, त्रि, (मूलानां भवनं क्षेत्रम् । मूल

+ “भवने क्षेत्रे इक्ष्वादिभ्यः शाकटशाकिनौ ।”
५ । २ । २९ । इत्यत्र वार्त्तिकबलात् शाकटः ।)
मूलक्षेत्रम् । क्षेत्रवाच्ये शाकटप्रत्ययेन निष्प-
न्नम् ॥

मूलशाकिनः, त्रि, (मूल + शाकिनः ।) क्षेत्र-

वाच्ये शाकिनप्रत्ययेन निष्पन्नम् ॥

मूला, स्त्री, (मूलानि बहुलानि सन्त्यस्याः । मूल

+ अर्श आदित्वादच् टाप् ।) शतावरी ।
इति राजनिर्घण्टः ॥ मूलनक्षत्रम् । इति शब्द-
रत्नावली ॥ (यथा, कालनाथविरचिते इन्द्र-
जाले १ अध्यायः ।
“द्बितीयां षष्ठीमष्टम्यां कारयेत् शान्तिकर्म्म च ।
अश्विनोमृगमूलाश्च पुष्या पुनर्वसुस्तथा ॥”)

मूलाधारः, पुं, (मूलानामाधारः । मूलं प्रधानं

आधार इति वा ।) गुह्यलिङ्गयोर्मध्ये अङ्गुलि-
द्वयमितस्थानम् । स तु शरीरस्थसकलनाडीनां
मूलस्थानम् । अत्र व श षं साक्षरयुक्तस्वर्ण-
वर्णचतुर्द्दलपद्ममस्ति । तन्मध्ये इच्छाज्ञानक्रिया-
स्वरूपत्रिकोणं वर्त्तते । तन्मध्ये कोटिसूर्य्यसम-
प्रभस्वयम्मुलिङ्गमस्ति । अत्र पृथिवी वर्त्तते ।
तत्रैव मृणालसूत्रवत् सूक्ष्मसार्द्धत्रिबलयाकार-
स्वयम्भुलिङ्गवेष्टितविद्युत्तुल्यप्रभकुलकुण्डलिनी
वर्त्तते । यथा, --
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रिया-
त्मके ।
मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥
तद्बाह्ये हेमवर्णाभं व स वर्णचतुर्द्दलम् ॥”
इति तन्त्रसारः ॥
“अथाधारपद्मं सुषुम्नास्यलग्नं
ध्वजाधो गुदोद्ध्वं चतुःशोणपत्रम् ।
अधोवक्त्रमुद्यत्सुवर्णाभवर्णै-
र्वकारादिसान्तैर्युतं वेदवर्णेः ॥
अमुष्मिन् धरायाश्चतुष्कोणचक्रं
समुद्भासि शूलाष्टकैरावृतं तत् ।
लसत्पीतवर्णं तडित्कोमलाङ्गं
तदन्तः समास्ते धरायाः स्वबीजम् ॥
वज्राख्या वक्त्रदेशे विलसति सततं कर्णिका-
मध्यसंस्थं
कोणं तत्त्रैपुराख्यं तडिदिव विलसत् कोमलं
कामरूपम् ।
कन्दर्पो नाम वायुर्विवसति सततं तस्य मध्ये
समन्तात्
जीवेशो बन्धुजीवप्रकरमभिहसन् कोटिसूर्य्य-
प्रकाशः ॥
तन्मध्ये लिङ्गरूपी द्रुतकनककलाकोमलः
पश्चिमास्यो
ज्ञानध्यानप्रकाशः प्रथमकिशलयाकाररूपः
स्वयम्भूः ।
भिद्यत्पूर्णेन्दुविम्बप्रकरकरचयस्निग्धसन्तानहासी
काशीवासी विलासी विलसति सरिदावर्त्तरूपः
प्रकारः ॥
अस्योर्द्ध्वे विषतन्तुसोदरलसत् सूक्ष्मा जगन्मोहिनी
ब्रह्मद्वारमुखं मुखेन मधुरं साच्छादयन्ती
स्वयम् ।
शङ्खावर्त्तनिभा नवीनचपलामाला विलासा-
स्पदा
सुप्ता सर्पसमा शिरोपरिलसत्सार्द्धत्रिवृत्ता-
कृतिः ॥”
इति श्रीतत्त्वचिन्तामणौ षट्चक्रभेदः ॥ * ॥
तत्रस्थतीर्थानि यथा, रुद्रयामले ।
“इडा मलस्थाननिवासिनी या
सूर्य्यात्मिका या यमुनाप्रवाहिका ।
तथा सुषुम्ना मलदेशगामिनी
सरस्वती रक्षति मज्जनात्मकम् ॥
मनोगतस्नानपरो मनुष्यो
मन्त्रक्रियायोगविशिष्टतत्त्ववित् ।
महीस्थतीर्थे विमले जले मुदा
मूलाम्बुजे स्नाति सुमुक्तिभाग्भवेत् ॥
सर्व्वाणि तीर्थे सुरतीर्थपावनी
गङ्गा महासत्त्वविनिर्गता सती ।
करोति पापक्षयमेव मुक्तिं
ददाति साक्षादमलार्थपुण्यदा ॥”

मूलाह्वं, क्ली, (मूलमाह्वा आख्या यस्य ।) मूल-

कम् । इति राजनिर्घण्टः ॥

मूली, [न्] पुं, (मूलमस्यास्तीति । मूल + इनिः ।)

वृक्षः । इति शब्दचन्दिका ॥ (स्त्रियां ङीप् ।
ओषधिः । यथा, सुश्रुते चिकित्सितस्थाने
३० अध्याये ।
“चक्रकामोषधिं विद्याज्जरामृत्युनिवारिणीम् ।
मूलिनीपञ्चभिः पत्रैः सुरक्तांशुककोमलैः ॥”)

मूली, स्त्री (मूल + गौरादित्वात् ङीष् ।) ज्येष्ठी ।

इति त्रिकाण्डशेषः ॥ (नदीभेदः । यथा,
मात्स्ये । ११३ । ३१ ।
“ताम्रपर्णी तथा मूली शरवा विमला तथा ॥”)

मूलेरः, पुं, (मूलतीति । मूल + “मूलेरादयः ।”

उणा० १ । ६२ । इत्येरक् । जटा । इत्युणादि-
कोषः ॥ राजा । इत्युज्ज्वलदत्तः ।)

मूल्यं, क्ली, (मूलेन आनाम्यते अभिभूयते मूलेन-

समं वा इति । मूल + “नौवयोधर्म्मेत्यादिना ।”
४ । ४ । ९१ । इति यत् ।) पटादीनामुत्पत्ति-
कारणम् । मूलं मूलेन क्रयविक्रयार्थमिदं ढघे
कादिति यः । इति भरतः ॥ दर इति दाम
इति च भाषा । तत्पर्य्यायः । वस्नः २ अव-
क्रयः ३ । इत्यमरः । २ । १० । ३९ ॥ (यथा,
मनौ । ८ । ३२२ ।
“पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥”)
मूल्यते अर्प्यते इदम् । माहिना इति भाडा
इति च भाषा । तत्पर्य्यायः । कर्म्मण्या २
विधा ३ भृत्या ४ भृतिः ५ भर्म्म ६ वेतनम् ७
भरण्यम् ८ भरणम् ९ निर्व्वेशः १० पणः ११ ।
इति च अमरः । २ । १० । ३८ ॥ (यथा,
मिताक्षरायाम् ।
“मूल्येन यः कर्म्म करोति स भृतकः ।”)

मूल्यं, त्रि, (मूलं रोपणमर्हतीति । मूल + यत् ।)

प्रतिष्ठायोम्यः । रोपणयोग्यः । इति मूलधात्वर्थ-
दर्शनात् ॥ (मूलत उत्पाट्यते इति । “मूल-
मस्यावर्हि ।” ४ । ४ । ८८ । इति यत् । मूलत-
उत्पाटनयोग्ये मुद्गादौ ॥)

मूष लुण्ठने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) षष्ठस्वरी । यो मूषति परद्रव्यम् ।
इति हलायुधः ॥ ह्रस्वीत्येके । मोषति । इति
दुर्गादासः ॥

मूषः, पुं-स्त्री, (मोषति अपहरतीति । मूष् +

इगुपधत्वात् कः ।) मूषिकः ॥ (यथा, पञ्च-
तन्त्रे । ३ । २२२ । “एष प्रतिभाति ते मूष-
राजः ।”) तैजसावर्त्तनी । इति शब्दरत्नावली ॥

मूषकः, पुं-स्त्री, (मूष + स्वार्थे कन् ।) उन्दुरुः ।

इति शब्दरत्नावली ॥ (यथा, रामायणे । २ ।
३३ । १९ ।
“रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥”)
पृष्ठ ३/७६४

मूषककर्णी, स्त्री, (मूषिकस्य कर्णवत् पत्राण्यस्याः ।

ङीष् ।) आखुकर्णी । इति राजनिर्घण्टः ॥

मूषकमारी, स्त्री, (मूषकं उन्दुरुं मारयतीति ।

मृ + णिच् + “कर्म्मण्यण् ।” ३ । २ । १ । इति
अण् । ङीष् ।) सुतश्रेणीवृक्षः । इति राज-
निर्घण्टः ॥

मूषका, स्त्री, (मूषक + स्त्रियां टाप् । क्षिपका-

दित्वात् न अत इत्वम् ।) मूषिका । इति शब्द-
रत्नावली ॥

मूषकारातिः पुं, (मूषकाणां अरातिः घातकः ।)

विडालः । इति राजनिर्घण्टः ॥ मूषिकारातिः ।
इति च पाठः ॥

मूषा, स्त्री, (मूषति गृह्णातीति । मूष + कः +

स्त्रियां टाप् ।) स्वर्णाद्यावर्त्तनपात्रम् । मूची
इति भाषा ॥ (यथा, पञ्चदश्याम् । ४ । २ ।
“मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन्व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥”)
तत्पर्य्यायः । तैजसावर्त्तनी २ । इत्यमरः । २ ।
१० । ३३ ॥ मुषा ३ मुषी ४ आवर्त्तनी ५
मूषी ६ । इति भरतः ॥
“बृहद्भाण्डे तुषैः पूर्णो मध्ये मूषां विधारयेत् ।
क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डं पुटसुच्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
मूषिका ७ । इति रमानाथः ॥ देवताडकः ।
इति शब्दचन्द्रिका ॥ मूषिकस्त्रीजातिः ।
इति शब्दरत्नावली ॥ गवाक्षः । यथा, --
“एकद्वित्र्यादिमूषावहनभितिमहो ब्रूहि मे
भूमिभर्त्तु-
र्हर्म्म्ये रम्येऽष्टमूषे चतुरविरचिते श्लक्ष्णशाला-
विशाले ।”
इत्यादि लीलावत्यां श्रेढीव्यवहारः ॥

मूषाकर्णी, स्त्री, (मूषायाः कर्णा इव पत्त्राण्यस्याः ।)

आखुकर्णी । इति शब्दरत्नावली ॥

मूषातूत्थं, क्ली, (मूषाजातं तूत्थम् ।) नील-

तूत्थम् । तत्पर्य्यायः । कांस्यनीलम् २ हेम-
तूत्थम् ३ वितुन्नकम् ४ । इति हेमचन्द्रः ।
४ । ११८ ॥

मूषिकः, पुं, (मूष्णाति द्रव्याणीति । मूष् +

“मुषेर्दीर्घश्च ।” उणा० २ । ४२ । इति किकन्
दीर्घश्च ।) जन्तुविशेषः । इन्दुर इति भाषा ।
(यथा, हितोपदेशे मित्रलाभप्रकरणे । १३१ ।
“धनेन बलवान् सर्व्वो धनाद्भवति पण्डितः ।
पश्यायं मूषिकः पापः स्वजातिसमतां गतः ॥”)
तत्पर्य्यायः । उन्दुरुः २ आखुः ३ । इत्यमरः ।
२ । ५ । १२ ॥ मूषः ४ मूषीकः ५ उन्दूरुः ६
बभ्रुः ७ वृषः ८ आखनिकः ९ वृशः १० । इति
शब्दरत्नावली ॥ मूषकः ११ पिङ्गः १२ उन्दु-
रुकः १३ नखी १४ खनकः १५ विलकारी १६
धान्यारिः १७ बहुप्रजः १८ । अस्य मांस-
गुणाः ।
“अहिनकुलशल्यगोधामूषकमुख्या विलेशयाः
कथिताः ।
श्वासानिलकाशहरं तन्मांसं पित्तदाहकरम् ॥
अन्ये विलेशया ये स्युः केङ्किडोन्दुरुकादयः ।
गर्हितं तस्य मांसञ्च मद्यगौरवदुर्ज्जरम् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“मूषिको मधुरः स्निग्धो व्यवायी बलबर्द्धनः ।”
इति राजवल्लभः ॥ * ॥
पारिभाषिकमूषिको यथा, --
“विभवे सति नैवात्ति न ददाति जुहोति च ।
तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुध्यति ॥”
इति मार्कण्डेयपुराणे आचाराध्यायः ॥
(जनपदविशेषः । यथा, महाभारते । ६ । ९ । ५८ ।
“द्रविडाः केरलाः प्राच्या मूषिका वन-
वासिका ॥”)

मूषिकपर्णी, स्त्री, (मूषिककर्णवत् पर्णाणि

यस्याः ।) र्जलजतृणविशेषः । इँदुरकाणीपाना
इति भाषा । (यथा, चरके विमानस्थाने सप्तमे-
ऽध्याये ।
“मूषिकपर्णीं समूलाग्रप्रतानामपहृत्य ॥”)
तत्पर्य्यायः । चित्रा २ उपचित्रा ३ न्यग्रोधी ४
द्रवन्ती ५ सम्बरी ६ वृषा ७ प्रत्यक्श्रेणी ८
सुतश्रेणी ९ रण्डा १० । इत्यमरः । २ । ४ । ८८ ॥
पुत्त्रश्रेणी ११ आखुपर्णिका १२ वृषपर्णी १३
आखुपर्णी १४ मूषिका १५ फञ्जिपत्रिका १६ ।
इति रत्नमाला ॥ मूषिपर्णिका १७ सञ्चित्रा १८
मूषीकर्णी १९ सुकर्णिका २० । इति शब्द-
रत्नावली ॥

मूषिका, स्त्री, (मूषिक + अजादित्वात् टाबित्युज्ज्वल-

दत्तः ।) मूषिकपर्णी । इति रत्नमाला ॥
उन्दुरुः । इति शब्दरत्नावली ॥ मूषा । इत्य-
मरटीकायां रमानाथः ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने २० अध्याये ।
“क्षीरं महापञ्चमूलं मूषिकां चान्द्रवर्ज्जि-
ताम् ।”)

मूषिकाङ्कः, पुं, (मूषिकः उन्दुरुर्वाहनत्वेन अङ्कः

चिह्नमस्य ।) गणेशः । इति जटाधरः ॥

मूषिकाञ्चनः, पुं, (मूषिकं अञ्चति स्ववाहनतया

प्राप्नोतीति । अन्च् + ल्युः ।) गणेशः । इति
त्रिकाण्डशेषः ॥

मूषिकारातिः, पुं, (मूषिकाणामरातिः ।) विडालः ।

इति राजनिर्घण्टः ॥

मूषिकाह्वयः, पुं, (मूषिकस्य आह्वा आह्वा आख्या

यस्य ।) मूषिकपर्णी । इति जटाधरः ॥ (तथास्य
पर्य्यायः ।
“दन्त्युडुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः ।
द्रवन्तीनामतश्चित्रा न्यग्रोधा मूषिकाह्वयाः ॥”
इति चरके कल्पस्थाने द्वादशेऽध्याये ॥)

मूषिपर्णिका, स्त्री, (मूषिपर्ण + कन् टाप् अत-

इत्वम् ।) मूषिकपर्णी । इति शब्दरत्नावली ॥

मूषी, स्त्री, (मूष् + कः । स्त्रियां ङीष् । मूषा ।

स्वर्णाद्यावर्त्तनपात्रम् । इत्यमरटीकायां भरतः ॥
महामूषिकः । यथा, --
“अन्यो महामूपिकः स्यान्मूषी विघ्नेशवाहनः ।
महाङ्गः शस्यमारी च भूफलो भित्तिपातनः ॥”
इति राजनिर्घण्टः ॥

मूषीकः, पुं, स्त्री, (मोषति इति । मूष + बाहुल-

कात् ईकन् ।) मूषिकः । इति शब्दरत्नावली ॥

मूषीककर्णी, स्त्री, (मूषीकस्य कर्णवत् पर्ण-

मस्याः ।) मूषिकपर्णी । इति शब्दरत्नावली ॥

मूषीका, स्त्री, (मूषीक + टाप् ।) उन्दुरुः । यथा,

“दीना मूषीका मूषा च मूषीका मूषिकेत्यपि ।”
इति शब्दरत्नावली ॥

मूष्यायणः, त्रि, (मोषति अपहरतीति । मूष +

कः चौरजारः । तस्यापत्यम् इति । मूष +
फक् । बाहुलकात् वृद्ध्यभावः ।) अज्ञात-
पितृकः । गृढोत्पन्नः । इति केचित् ॥

मृ, ङ श मृतौ । इति कविकल्पद्रुमः ॥ (तुदा०-

आत्म०-अक०-अनिट् ।) मृतिः प्राणत्यागः । ङ
श म्रियते प्राणी । ङित्त्वेऽऽप्यस्य मृ ङ ष्टीढ्ये
ममिति नियमेन अन्यत्र परस्मैपदम् । ममार
मर्त्ता मरिष्यति अमरिष्यत् । इति दुर्गादासः ॥

मृकण्डकः, पुं, (मृगस्य कण्डुरिति समासे पृषो-

दरादित्वात् गलोपे मृकण्डुः मृकण्ड इति केचि-
त्तत्र पठन्ति इत्युज्ज्वलदत्तः । ततः संज्ञायां
कन् ।) मृकण्डुमुनिः । इति शब्दरत्नावली ॥

मृकण्डुः, पुं, (मृगस्य कण्डुरिति समासे पृषोदरा-

दित्वात् गलोपः । इत्युज्ज्वलदत्तः ।) मुनि-
विशेषः । (यथा, मार्कण्डेये । ५२ । १६ ।
“प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ।”)
तस्य पुत्त्रो मार्कण्डेयः । यथा, --
“मार्कण्डेयोऽपि मार्कण्डो मृकण्डुश्च मृक-
ण्डकः ।”
इति शब्दरत्नावली ॥

मृग त् क ङ मार्गणे । (चुरा०-आत्म०-सक०-

सेट् ।) ङ रामो मृगं मृगयते वनवीथिकासु ।
इति महानाटकम् । कातन्त्रादौ मृग्ये अन्ये-
षणे इति दिवादिपरस्मैपदी धातुश्च दृश्यते
दुर्गत्रिलोचनयोरसम्मतत्वात् अनेनोपेक्षितः ।
मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति
माम् । इति तु अकारान्तस्यैव भावे क्विपि
अकारलोपे मृगं करोतीति कण्ड्वादित्वात् क्ये
साध्यम् । इति दुर्गादासः ॥

मृगः, पुं, (मृगयते अन्वेषयति तृणादिकं मृम्यते

वा इति । मृग् + इगुपधत्वात् कर्त्तरि च कः ।)
पशुमात्रम् । (यथा, मनुः । ५ । ९ ।
“आरण्यानाञ्च सर्व्वेषां मृगाणां माहिषं
विना ।”
मृगशब्दोऽत्र महिषपर्य्युदासात् पशुमात्रपरः ।
इति तट्टीकायां कुल्लूकः ।) हस्तिविशेषः ।
नक्षत्रभेदः । (यथा, इन्द्रजालतन्त्रे ।
“अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा ॥”)
अन्वेषणम् । (यथा, साहित्यदर्पणे । ४ । १७ ।
“जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
पृष्ठ ३/७६५
कृतालङ्काभर्त्तर्वदनपरिपाटीषुघटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥”
कनकस्य सुवर्णस्य मृगे अन्वेषणे । पक्षे ।
कनकमृगे हेमहरिणे या तृष्णा इत्यर्थः ।)
याच्ञा । इति मेदिनी । गे, १८ ॥ मार्गशीर्ष-
मासः । यज्ञविशेषः । इत्यजयपालः ॥ मृग-
नाभिः । इत्यमरटीकायां भरतः ॥ मकर-
राशिः । यथा, --
“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवती तुलामेषे गोलमध्ये तथापराः ॥”
इति तिथ्यादितत्त्वम् ॥
स्वनामख्यातपशुविशेषः । मृग्यते अन्विष्यतेऽसौ
व्याधैः । (यथा, अभिज्ञानशाकुन्तले । १ । १० ।
“न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे तूलराशाविवाग्निः ।”)
तत्पर्य्यायः । कुरङ्गः २ वातायुः ३ हरिणः ४
अजिनयोनिः ५ । इत्यमरः ॥ शारङ्गः ६
चारुलोचनः ७ जिनयोनिः ८ कुरङ्गमः ९
ऋष्यः १० ऋश्यः ११ रिष्यः १२ रिश्यः १३
एणः १४ एणकः १५ । इति शब्दरत्नावली ॥
स नवविधः । यथा, --
“सम्बरो रोहितो न्यङ्कुकुरङ्गसुदृशो रुरुः ।
एणश्च हरिणश्चेति मृगा नवविधा मताः ॥
पाठान्तरं यथा, --
“समूरू रोहितो न्यङ्कुः सम्बरो बभ्रुणो रुरुः ।
शशैणहरिणाश्चेति मृगा नवविधा मताः ॥
हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव ! ।
ऋष्यः खड्गो रुरुश्चैव पृषतश्च मृगस्तथा ।
एते बलिप्रदाने च चर्म्मदाने च कीर्त्तिताः ॥”
इति कालिकापुराणे ६७ अध्यायः ॥ * ॥
अपि च । अथ जाङ्गलानां गणना ।
“हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुसम्बराः ।
राजीवोऽपि च मुण्डी चेत्याद्या जाङ्गलसंज्ञकाः ॥
हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः ।
कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान् ॥
ऋष्यो नीलाण्डको लोके सरोरुरिति कीर्त्तितः ।
पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् कियदल्पकः ॥
न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान् ।
राजीवस्तु मृगो ज्ञेयो राजीभिः परितो
वृतः ।
यो मृगः शृङ्गहीनः स्यात् स मुण्डीति निग-
द्यते ॥”
अथ तेषां गुणाः ।
जङ्घालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृताः ।
किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः ॥”
इति भावप्रकाशः ॥
अथ मृगपरीक्षा ।
“मृगनाभिं समादातुं कौतुकार्थं तथा पुनः ।
मृगाः पोष्या महीन्द्राणां तेषां वक्ष्यामि
लक्षणम् ॥
पृथिव्यब्वायुगगनास्तेजोऽधिकास्तु पञ्चधा ।
मिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥”
तद्यथा, --
‘ये गन्धिनः क्षीणशरीरकर्णा-
स्ते पार्थिवा गन्धमृगाः प्रदिष्टाः ।
सर्व्वाङ्गमेषां सुरभि प्रकामं
पुण्ये प्रदेशे प्रभवन्ति ते तु ॥
ये वै विशाला गुरुदीर्घशृङ्गा
अमांसलास्तीब्रखुरप्रदेशाः ।
आप्यास्तु ते वै प्रसरन्ति भूरि
सर्व्वत्र देशे प्रभवन्ति चैव ॥
धावन्ति ये वातमिवान्तरीक्षे
दीर्घास्तु ते वातमृगाः प्रदिष्टाः ।
ते यत्र यत्रैव भवन्ति शक्ता-
स्तत्रैव सर्व्वाणि शुभानि सन्ति ॥
लघुप्रमाणा लघुवीर्य्यसत्त्वा
निर्गन्धदेहाश्छगलप्रमाणाः ।
ते गागना वेगकरा नराणां
स्पृश्या न ते नापि निरीक्षणीयाः ॥
ये कृष्णवर्णा गुरुदीर्घशृङ्गाः
क्रुद्धा भृशं यान्ति च वायुवेगाः ।
ते कृष्णसाराः खलु तैजसास्तु
पुण्यप्रदेशे प्रभवन्ति ते तु ॥’
भोजोऽप्याह ।
‘पार्थिवादिर्मृगः सर्व्वश्चतुर्जातिर्भवेत् पृथक् ।
सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥
क्रुद्धाः पश्वरिशृङ्गाश्च क्षत्त्रियाः खरलोमशाः ।
आवर्त्तशृङ्गास्तनवो हरिणा वैश्यजातयः ॥
कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः ।
अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥
तथापि दोषाः पञ्चामी वक्ष्यन्ते हरिणाश्रयाः ।
नेत्रयोरन्तरे यस्य लोमावर्त्ताः स पापकृत् ॥
विषमौ विकृतौ शृङ्गौ यस्य सं क्षेमनाशनः ।
आवर्त्तः पृष्ठतो यस्य आनाभिमभिबिन्दति ॥
पश्चार्द्ध यस्य वावर्त्तस्तौ त्याज्यौ भयकारकौ ।
वर्णनेत्रपदादीनां वैकृताद्धननाशनः ॥’
गार्ग्यः ।
‘दोषवन्मृगजातीनां विजातीनामथापि वा ।
दर्शनात् स्पर्शनाच्चैव गन्धादानाच्च पोषणात् ।
भवेयुर्व्विपदः सर्व्वास्तथा चैवाद्यपोषणात् ॥’
शङ्खोऽपि ।
‘हरिणपोषणतो धरणीभुजां
नहि भवेन्मरुद्भवपीडनम् ।
न पविवह्निरुजारिपुजं भयं
तदव तं हरिणं गुणिनं नृप ! ॥’
इति मृगपरीक्षा ॥ इति युक्तिकल्पतरुः ॥
(अस्य गुणविशेषो यथा, --
“दूरे जनान्तनिलया दूरे पानीयगोचराः ।
ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो
मताः ॥
अतीवासन्ननिलयाः समीपोदकगोचराः ।
ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)
मृगादिविकारोपशमो यथा, --
गर्ग उवाच ।
“प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ।
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति
जलोद्भवाः ॥
स्थलजाश्च जलं यान्ति घोरं रासन्ति
निर्भयाः ।
गृहं कपोतः प्रविशेत् क्रव्यादो मूर्द्ध्नि नीयते ॥
मधु वा मक्षिकाः कुर्य्युर्मृत्युं गृहपतेर्वदेत् ॥
मृगपक्षिविकारेषु कुर्य्याद्धोमं सदक्षिणम् ।
देवाः कपोते इति च जप्तव्याः पञ्चभिर्द्विजैः ॥
गावश्च देया विधिवत् द्विजानां
सकाञ्चना वस्त्रयुगोत्तरीयाः ।
एवं कृते शान्तिमुपैति पापं
मृगैर्द्बिजैर्व्वा विनिवेदितं यत् ॥”
इति मात्स्ये २११ अध्यायः ॥
चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । तस्य लक्षणं
यथा, --
वदति मधुरवार्णीं दीर्घनेत्रोऽतिभीरु-
श्चपलमतिसुदेहः शीघ्रवेगो मृगोऽयम् ।
“शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी ।
वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥
पद्मिनीशशयोर्योनिमेढ्रकौ चतुरङ्गुलौ ।
चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥”
इति रतिमञ्जरी ॥
(अन्वेष्टा । यथा, ऋग्वेदे । १ । १५४ । २ ।
“मृगो न भीमः कुचरो गिरिष्ठा ।”
“मृगः अन्वेष्टा ।” इति तद्भाष्ये सायणः ॥)

मृगक्षीरं, क्ली, मृगीदुग्धम् । तरादौ चेति चकार-

स्यानुक्तसमुच्चयार्थत्वात् मृग्याः क्षीरं मृगक्षीरं
मृग्याः पदं मृगपदं इत्यादिष्वपि पुंवद्भावः ।
इति मुग्धबोधटीकायां दुर्गादासः ॥

मृगगामिनी, स्त्री, (मृग इव गच्छतीति । गम +

णिनिः । ङीप् ।) विडङ्गा । इति राजनिर्घण्टः ॥
मृगसदृशगमनशीला च ॥

मृगघर्म्मजं, क्ली, (मृगघर्म्मात् मृगनाभिघर्म्मात्

मृगगन्धवत् जायते इत्यर्थः । जन् + डः ।)
जवादिनामकगन्धद्रव्यम् । इति राजनिर्घण्टः ॥
मृगघर्म्मजाते, त्रि ॥

मृगचेटकः, पुं, (मृगान् पशून् चेटयति प्रेरयति

स्वशब्देन रात्रिशेषं ज्ञापयतीति । चिट् +
णिच् + ण्वुल् ।) खट्टासः । इति शब्दमाला ॥

मृगजालिका, स्त्री, (मृगाणां जालिका ।) मृग-

बन्धनार्थजालम् । तत्पर्य्यायः । वागुरा २ ।
इति हेमचन्द्रः । ३ । ५९२ ॥

मृगजीवनः, पुं, (मृगैः पशुभिः जीवतीति । जीव

+ ल्युः ।) व्याधः । इति शब्दरत्नावली ॥
(यथा, महाभारते । ३ । ६३ । २८ ।
“निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ।”)

मृगणा, स्त्री, (मृग + युच् ।) अपहृतद्रव्यस्यान्व-

षणम् । यथा, --
“संवीक्षणं विचयनं मार्गणं मृगणा मृगः ।”
इत्यमरः । ३ । २ । ३० ॥
पृष्ठ ३/७६६

मृगतृट्, [ष्] स्त्री, (मृगाणां तृट् पिपासा अत्र

जलभासकत्वात् ।) मृगतृष्णा । इति शब्द-
रत्नावली ॥

मृगतृषा, स्त्री, (मृगाणां तृषा अस्त्यस्यामिति ।

अर्श आदित्वात् अच् । टाप् ।) मृगतृष्णा ।
इति शब्दरत्नावली ॥ (यथा, कामन्दकिनीति-
सारे । ३ । १३ ।
“जगन्मृगतृषातुल्यं वीक्ष्येदं क्षणभङ्गुरम् ।
स्वजनैः सङ्गतः कुर्य्यात् धर्म्माय च सुखाय च ॥”)

मृगतृष्णा, स्त्री, जलाभासत्वात् मृगाणां तृष्णा

विद्यतेऽस्याम् । ग्रीष्मे मरुदेशे सिकतादावर्क-
कराः प्रतिफलिताः दूरस्थानां जलत्वेनाभान्ति
तद्बाचिका । इति टीकाकारः ॥ उत्कटरवि-
रश्मिजन्यक्षितिवास्पजालं मरीचिका । दूर-
शून्ये यन्मयूखैर्जलमिव दृश्यते इत्यपरे । इति
भरतः ॥ तत्पर्य्यायः । मरीचिका २ । इत्य-
मरः । १ । ४ । ३५ ॥ मृगतृष्णिका ३ । इति
भरतः ॥ मृगतृट् ४ मृगतृषा ५ । इति शब्द-
रत्नावली ॥

मृगतृष्णिका, स्त्री, (मृगतृष्णा + स्वार्थे कन् +

स्त्रियां टाप् अत इत्वञ्च ।) मृगतृष्णा । इत्य-
मरटीकायां भरतः ॥ (यथा, अभिज्ञान-
शाकुन्तले । ६ ।
“स्रोतोवहां पथि निकामजलामतीत्य
जातः सखे ! प्रणयवान् मृगतृष्णिकायाम् ॥”)

मृगदंशकः, पुं, (मृगान् पशून् दशति ।

दन्श् + ण्वुल् ।) कुक्कुरः । इत्यमरः ॥

मृगधूर्त्तः, पुं, (मृगेषु पशुषु धूर्त्तः । वञ्चकत्वात् ।)

शृगालः । इति संक्षिप्तसारे समासपादः ॥

मृगधूर्त्तकः, पुं, (मृगधूर्त्त + स्वार्थे कन् ।) शृगालः ।

इत्यमरः । २ । १० । २१ ॥

मृगनाभिः, पुं, (मृगस्य नाभिः । तदभ्यन्तरे

जातत्वात् तथात्वम् ।) कस्तूरी । तत्पर्य्यायः ।
“मृगनाभिर्मृगमदः कथितस्तु सहस्रभित् ।
कस्तूरिका च कस्तूरी बोधमुख्या च सा स्मृता ॥”
सा त्रिविधा यथा, --
‘कामरूपोद्भवा कृष्णां नेपाली नीलवर्णयुक् ।
काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा
स्मृता ॥
कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् ।
काश्मीरदेशसंभूता कस्तूरी ह्यधमा स्मृता ॥’
अस्या गुणाः ।
‘कस्तूरिका कटुस्तिक्ता क्षारोष्णा शुक्रला गुरुः ।
कफवातविषच्छद्दिशीतदौर्गन्ध्यदोषहृत् ॥’
इति भावप्रकाशः ॥
अन्यत् कस्तूरीशब्दे द्रष्टव्यम् ॥ (तथास्य
पर्य्यायान्तरम् ।
‘मृगनाभिर्मृगमदो मदः कस्तूरिकाण्डजः ।’
इति वैद्यकरत्नमालायाम् ॥)

मृगनाभिजा, (स्त्री, मृगनाभेर्जायते । जन् + डः ।

स्त्रियां ङीष् ।) कस्तूरी । यथा, --
“घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा ।
मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि ॥”
इति हेमचन्द्रः । ३ । ३०७-८ ॥

मृगनेत्रा, स्त्री, (मृगनेतृ + “नेतृर्नक्षत्र उपसंख्या-

नम् ।” ५ । ४ । ११६ । इत्यत्र काशिकोक्तेः अप् ।)
मृगो मृगशिरा नेता प्रापयिता यस्या रात्रेः सा
रात्रिः । इति मुग्धबोधटीकायां दुर्गादासः ॥
सा अग्रहायणस्य विंशतिदण्डाधिकत्रयोविश-
दिनावधिसंक्रान्तिपर्य्यन्तं प्रायः सम्भवति । तत्र
नवान्नश्राद्धनिषेधो यथा । ब्रह्मपुराणे ।
“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः ।
अपरे क्रियमाणं हि धनुष्येव कृतं भवेत् ॥
धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु ।
पितरस्तन्न गृह्णन्ति नवान्नामिषकाङ्क्षिणः ॥”
अपरे कृष्णपक्षे । मृगो नेता प्रापयिता यासां
रात्रीणामितिव्युत्पत्त्या नक्षत्रान्नेतुरित्यनेनाद्-
विधानात्तत्पदं सिद्धम् । ततश्च मृगशिरःपूर्ब्बा-
र्द्धन वृश्चिकशेषभागे रात्र्यारम्भाच्चत्वारिं-
शद्दण्डाधिकषड्रात्रयो मृगनेत्राः । इति मल-
मासतत्त्वम् ॥ (मृगस्य नेत्रे इव नेत्रे यस्य । मृग
तुल्यनेत्रे, त्रि ॥)

मृगपतिः, पुं, (मृगाणां पशूनां पतिः ।) सिंहः ।

इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । २५ । १० ।
“यल्लीलां मृगपतिराददेऽनवद्या-
मादातुं स्वजनमनांस्युदारवीर्य्यः ।”
‘मृगपतिः सिंहः ।’ इति तट्टीकायां श्रीधर-
स्वामी ॥ कामप्रदश्रेष्ठः । यथा तत्रैव टीकायाम् ।
“मृग्यन्त इति मृगाः कामप्रदास्तेषां पति-
र्मुख्यः ॥”)

मृगपिप्लुः, पुं, (अपिप्लवते भासते इति । अपि +

प्लु + बाहुलकात् संज्ञायां डुः । अपेरल्लोपश्च ।
मृगः हरिणः पिप्लुरत्र ।) चन्द्रः । इति
त्रिकाण्डशेषः ॥

मृगप्रियं, क्ली, (मृगाणां प्रियम् ।) पर्व्वततृणम् ।

इति राजनिर्घण्टः ॥

मृगबधाजीवः, पुं, (मृगबधेन आजीवतीति । आ

+ जीव् + अच् ।) व्याधः । इत्यमरः । २ । १० । २१ ॥

मृगबन्धनी, स्त्री, (मृगः बध्यते अनयेति । बन्ध +

ल्युट् + स्त्रियां ङीष् ।) मृगबन्धनार्थजालम् ।
तत्पर्य्यायः । वागुरा २ । इत्यमरः । २ । १० । २६ ॥

मृगभक्षा, स्त्री, (मृगैर्भक्ष्यतेऽसौ । भक्ष + कर्म्मणि

अप् टाप् ।) जटामांसी । इति राजनिर्घण्टः ॥

मृगमदः, पुं, (मृगाः माद्यन्ति अनेनेति । मद् +

अप् ।) कस्तूरी । इत्यमरः । २ । ६ । १२९ ।
(यथा, छन्दोमञ्जर्य्याम् । २ । १५ । ४ ।
“मृगमदकृतचर्च्चापीतकौषेयवासा
रुचिरशिखिशिखण्डा बद्धधम्मिल्लपाशा ।”

मृगमदवासा, स्त्रो, (मृगमदस्येव वासः सौरभो-

ऽस्याः ।) कस्तूरीमल्लिका । इति राजनिर्घण्टः ॥

मृगया, स्त्री, (मृग्यन्ते पशवोऽस्यां इति । मृग +

णिच् । “इच्छा ।” ३ । ३ । १०१ । इत्यत्र परिचर्य्या
परिसर्य्यामृगयाटाट्यानामुपसंख्यानम् । इति
वार्त्तिकोक्त्या से यकि णिलोपः । इति सिद्धान्त-
कौमुदी ॥) राज्ञां वनेषु मृगहननक्रिया ।
मृग्यन्ते अन्विष्यन्तेऽस्याम् । शिकार इति
भाषा । तत्पर्य्यायः । आच्छोदनम् २ मृगव्यम् ३
आखेटः ४ । इत्यमरः ॥ तन्नियमविधिर्यथा, --
“चचार मृगयां तत्र दृप्त आत्तेषुकार्म्मुकः ।
विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ५ ॥
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।
न्यहनन् निशितैर्ब्बाणैर्वनेषु वनगोचरान् ॥ ६ ॥
तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यान् पशून् वने ।
यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥” ७ ॥
इति श्रीभागवते ४ स्कन्धे २६ अध्यायः ॥
आत्ता गृहीता इषवो रागद्वेषादिरूपाः
कार्म्मुकञ्च भोगाद्यभिनिवेशरूपं येन । जायां
विवेकवतीं बुद्धिं विहाय । अतदर्हां त्यागान-
र्हाम् । त्यागे हेतुः मृग्यन्ते इति मृगाः विषयाः
तेषु व्यसनं भोगासक्तिस्तेन लालसा अतिस्पृहा
यस्य ॥ ५ ॥ बाणै रागादिभिः । वनेषु भजनीय-
देशेषु । वनगोचरान् भजनीयविषयान् ।
न्यहनत् भजनीयदेशादात्मसात् कृतवान् ।
कथापक्षे तु स्पष्टमेव ॥ ६ ॥ नन्वासुरीं वृत्ति-
माश्रित्य इति किमिति मृगया निन्द्यते ।
कथापक्षे तावद्राज्ञो विहितैव सा । अध्यात्म-
पक्षेऽपि जीवस्य विषयभोगो विहित एव
इत्याशङ्क्याह तीर्थेष्विति त्रिभिः । अयं भावः ।
न हि मृगया विधीयते रागप्राप्तत्वात् किन्तु
नियम्यते प्रवृत्तिः सङ्कोच्यते । नियममेव षड्-
विधं दर्शयति । यदि अलमत्यर्थं लुब्धो रागी
सन् हन्यात् तर्हि तीर्थेषु श्राद्धादिष्वेव तत्रापि
श्रुतिदृष्टेषु प्रख्यातेष्येव न नित्यश्राद्धादिषु ।
तत्रापि राजैव । मेध्यानेव । वन एव । यावदु-
पयोगमेव इति । एवं जीवस्य विषयसेवापि
यावदुपयोगं न यथेष्टमिति नियम एव
इत्यर्थः ॥ ७ ॥ इति तट्टीकायां श्रीधरस्वामी ॥
सा राज्ञां पापाय न स्यात् । यथा, --
“अबलस्वकुलाशिनो झसा-
न्निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्द्दिनो मृगान्
मृगयाघाय न भूभृतां घ्नताम् ॥”
इति नैषधे २ सर्गे १० श्लोकः ॥
सा च कामजव्यसनविशेषः । यथा, --
“मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो
मदः ।
तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥”
इति मलमासतत्त्वम् ॥

मृगयुः, पुं, (मृगं यातीति । मृग + “मृगय्वादयश्च ।”

उणा० १ । ३८ । इति कुः । निपात्यते च ।) ब्रह्मा ।
शृगालः । व्याधः । इति मेदिनी । ये, १०१ ॥
(यथा, भट्टिकाव्ये । ४ । ४४ ।
“मृगयुमिव मृगोऽथ दक्षिणेर्म्मा
दिशमिव दाहवतीं मरावुदन्यन् ।”)

मृगरसा, स्त्री, (मृगस्य मृगमांसस्येव रसोऽस्याः ।

सहदेवी । इति राजनिर्घण्टः ॥
पृष्ठ ३/७६७

मृगराजः, पुं, (मृगाणां पशूनां राजा अधिपतिः ।

“राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति
टच् ॥) सिंहः । इति शब्दरत्नावली ॥ (यथा,
रघुवंशे । ६ । ३ ।
“शिलाविभङ्गैर्मृगराजशाव-
स्तुङ्गं नगोत्सङ्गमिवारुरोह ॥”
व्याघ्रः । यथा, महाभारते । १ । १४१ । ३४ ।
“शृणु मे त्वं महाबाहो ! यद्वाक्यं मूषिकोऽब्रवीत् ।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ।”)

मृगराट्, [ज्] पुं, (राजते दीप्यतेऽसौ राज् +

क्विप् । ततः मृगाणां राट् ।) सिंहः । इति
शब्दरत्नावली ॥ (यथा, शिशुपालवधे । ९ । १८ ।
“पतिते पतङ्गमृगराजि निज-
प्रतिविम्बरोषित इवाम्बुनिधौ ।”)

मृगराटिका, स्त्री, (मृग + रट् + ण्वुल् + स्त्रियां टाप्

अत इत्वञ्च ।) जीवन्ती । इति राजनिर्घण्टः ॥

मृगरिपुः, पुं, (मृगाणां रिपुः ।) सिंहः । इति

हलायुधः ॥

मृगरोमजं, त्रि, (मृगाणां रोमभ्यो जायते इति ।

जन् + डः । पशुलोमजातवस्त्रादि । तत्पर्य्यायः ।
राङ्कवम् २ । इत्यमरः । २ । ६ । १११ ॥

मृगलाञ्छनः, पुं, (मृगः लाञ्छनं चिह्नमस्य ।)

चन्द्रः । इति शब्दरत्नावली ॥

मृगवल्लभः, पुं, (मृगाणां वल्लभः प्रियः ।) कुन्दर-

तृणम् । इति राजनिर्घण्टः ॥

मृगवाहनः, पुं, (मृगो वाहनमस्येति ।) वायुः ।

इति जटाधरः ॥

मृगव्यं, क्ली, (मृगान् विध्यति अत्र इति । व्यध् +

“अन्येष्वपि दृश्यते ।” ३ । २ । ४८ । इति
काशिकोक्त्या अधिकरणे डः ।) मृगया ।
इत्यमरः । २ । १० । २३ ॥ (यथा, मार्कण्डेये ।
१२७ । १ ।
“कदाचिद्राजपुत्त्रोऽसौ मृगव्यमचरद्वने ।”)

मृगशिरः, [स्] क्ली, (मृगस्येव शिरोऽस्य ।)

सप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम् । तत्-
पर्य्यायः । मृगशीर्षम् २ आग्रहायणी ३ ।
इत्यमरः । १ । ३ । २३ ॥ (यथा, बृहत्संहिता-
याम् । १० । ५ ।
“मृगशिरसि वत्सयाजक-
यजमानार्य्यजनमध्यदेशाश्च ।”)
तत्तु विडालपदाकृति तारात्रयात्मकं चन्द्राधि-
दैवतम् । इति ज्योतिषम् ॥ गगनमध्ये तस्योदये
कन्यालग्नस्य द्वात्रिंशत्पलानि गतानि भवन्ति ।
यथा, --
“मूषिकाशनपदाकृतौ विधौ
व्योममध्यमिलिते त्रितारके ।
शारदेन्दुमुखि ! कन्यकोदया-
दीक्षणानलकलाः कलावति ! ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥
तत्र जातफलम् । यथा, --
“शरासनाभ्यासरतो विनीतः
सदानुरक्तो गुणिनां गुणेषु ।
भक्तानुपस्नेहभरेण पूर्णः
सन्मार्गवर्त्ती मृगजन्मभागी ॥”
इति कोष्ठीप्रदीपः ॥

मृगशिरा, स्त्री, (सर्व्वे सान्ता अकारान्ताश्चेति

मृगशिरोऽदन्तः । मृगशिर + टाप् ।) मृग-
शिरोनक्षत्रम् । इति शब्दरत्नावली ॥

मृगशिराः, [स्] पुं, (मृगस्येव शिरो यस्य ।)

मृगशिरोनक्षत्रम् । इत्यमरटीकायां राय-
मुकुटः ॥

मृगशीर्षं, क्ली, (मृगस्य शीर्षमिव शीर्षमस्य ।)

मृगशिरोनक्षत्रम् । इत्यमरः ॥ (यथा, भाग-
वते । ५ । २३ । ६ ।
“तथैव मृगशीर्षादीन्युदगयनानि ।”)

मृगशीर्षः, पुं, (मृगस्येव शिर्षोऽस्य ।) मृगशिरो-

नक्षत्रम् । इति केचित् ॥ इत्यमरटीकायां
भरतः ॥

मृगशीर्षा, स्त्री, (मृगशीर्ष + टाप् ।) मृगशिरो-

नक्षत्रम् । इति त्रिकाण्डे वोपालितः । इत्यमर-
टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् ।
२१ । ९ ।
“मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्ल-
जाताश्च ।”)

मृगशीर्षा, [न्] पुं, (शीर्षस्य शीर्षन् इत्यादेशः ।

ततो मृगस्येव शीर्षास्य ।) मृगशिरोनक्षत्रम् ।
इति केचित् ॥ इत्यमरटीकायां भरतः ॥

मृगा, स्त्री, (मृगः मृगमांसतुल्यः रसोऽस्ति

अस्याः अर्श आदिभ्योऽच् ।) सहदेवीलता ।
इति राजनिर्घण्टः ॥

मृगाक्षी, स्त्री, (मृगस्येव अक्षि तद्वत्पुष्पं अक्षिणी

वा अस्याः । अक्षि + “अक्ष्णोऽन्यतरस्याम् ।”
५ । ४ । ७६ । इति अच् । स्त्रियां ङीष् ।)
विशाला ॥ (यथास्याः पर्य्यायः ।
“ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी ।
वारुणी चामराप्युक्ता सा विशाला महाफला ।
श्वेतपुष्पा मृगाक्षी च मृगेर्व्वारुर्मृगादनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मृगलोचनतुल्यनेत्रा स्त्री । इति मेदिनी । षे,
४४ ॥ (यथा, छन्दोमञ्जर्य्याम् । २ । ११ । ८ ।
“वल्लववेशा मुररिपुमूर्त्ति-
र्गोपमृगाक्षीकृतरतिपूर्त्तिः ।
वाञ्छितसिद्ध्यै प्रणतिपरस्य
स्यादनुकूला जगति न कस्य ॥”)

मृगाङ्कः, पुं, (मृगः अङ्को, यस्य ।) चन्द्रः ॥

(यथा, नैषधचरिते । १ । ७८ ।
“विनिद्रपत्रालिगतालिकैतवान्
मृगाङ्कचूडामणिवर्ज्जनार्ज्जितम् ।”)
कर्पूरः । इत्यमरः । १ । ३ । १४ ॥ वायुः ।
इति विश्वः ॥ मृगचिह्नम् । चन्द्रे तच्चिह्नकारणं
यथा, --
“लोकच्छायामयं लक्ष्म तवाङ्के शशसंस्थितम् ।
न विदुः सोमदेवापि ये च नक्षत्रयोगिनः ॥”
इति महाभारते हरिवंशः ॥
यथा, दर्पणं प्राप्य परावृत्ता नयनरश्मयो
ग्रीवास्थमेव मुखं दर्पणगतमिव पश्यन्ति एवं
चन्द्रमण्डलं प्राप्य परावृत्तास्ते दूरत्वदोषात्
पृथिवीमव्यक्तरूपामिव चन्द्रमण्डलगतां पश्यन्ति
स एव चन्द्रे कलङ्क इत्युपचर्य्यते । इति
तट्टीका ॥ यक्ष्मरोगस्य औषधविशेषः । यथा,
“स्याद्रसेन समं हेम मौक्तिकं द्बिगुणं भवेत् ।
गन्धकस्तु समस्तेन रसपादस्तु टङ्कणः ॥
सर्व्वं तद्गोलकं कृत्वा काञ्जिकेन विशोषयेत् ।
भाण्डे लवणपूर्णेऽथ पचेद् यामचतुष्टयम् ।
मृगाङ्कसंज्ञको ज्ञेयो रोगराजनिकृन्तनः ॥”
अपि च ।
‘रसस्य भस्मनो हेम पिष्टीकृत्य प्रयोजयेत् ।
गुञ्जाचतुष्टयञ्चाज्यमरिचैर्भक्षयेन्नरः ॥’
इति मधुमती ॥
(एतन्नामकौषधान्तरं यथा, --
“रसभस्म हेमभस्म तुल्यं गुञ्जाद्बयं द्बयम् ।
दोषं बुद्ध्वानुपानेन मृगाङ्कोऽयं क्षयापहः ॥” * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्माधिकारे ॥)

मृगाजीवः, पुं, (मृगैः आजीवतीति । जीव् +

अच् ।) व्याधः । इत्यमरः । २ । १० । २१ ॥

मृगाण्डजा, स्त्री, (मृगाण्डात् जायते इति ॥

जन् + डः + स्त्रियां टाप् ।) कस्तूरी । इति
राजनिर्घण्टः ॥ (तथास्या विषयः ।
“एतैः समस्तैर्द्विपलप्रमाणै-
रालोड्य सर्व्वं विधिना विपक्वम् ।
कर्पूरकाश्मीरमृगाण्डजानां
चूर्णीकृतानां त्रिपलप्रमाणम् ॥”
इति भैषज्यधन्वन्तरौ वातरोगे मध्यमनारायण-
तैले ॥)

मृगात्, [द्] पुं, स्त्री, (मृगान् अत्तीति । अद् +

क्विप् ।) व्याघ्रः । इति केचित् ॥

मृगादनः, पुं, (अत्तीति । अद् + ल्युः । मृगस्य

अदनः ।) क्षुद्रव्याघ्रः । तत्पर्य्यायः । तरक्षुः २ ।
इत्यमरः । २ । ५ । १ ॥ तर्क्षुः ३ तरूक्षुः ४ तर-
क्षकः ५ । इति शब्दरत्नावली ॥ बृहत्कुक्कुरा-
कारे कृष्णरेखाचित्रे नेकडा इति ख्याते । इति
भरतः ॥ चीता इति ख्याते । इत्यच्युतः ॥

मृगादनी, स्त्री, (मृगैरद्यते भुज्यतेऽसौ इति ॥

अद् + कर्म्मणि ल्युट् + स्त्रियां ङीष् ।) इन्द्र-
वारुणी । सहदेवी । मृगेर्व्वारुः । इति राज-
निर्घण्टः ॥ (यथा, --
“शिरीषञ्च महातिक्ता जरातुम्बी मृगादनी ।”
इति गोविन्दविशारदकृतभैषज्यरत्नावल्याम्
कुष्ठचिकित्सायाम् ।) क्षुद्रुव्याघ्री च ॥

मृगान्तकः, पुं, (मृगाणां अन्तकः नाशकः ।)

चित्रव्याघ्रः । इति राजनिर्घण्टः ॥

मृगारातिः, पुं, (मृगाणां अरातिः ।) कुक्कुरः ।

इति शब्दमाला ॥ मृगशत्रुः । यथा, --
“मार्गं मार्गं मृगयति मृगारातिरामे विरामे
शोकं शोकं गतवति गते लक्ष्मणे लक्ष्मणेन ।”
इति महानाटकम् ॥
पृष्ठ ३/७६८

मृगारिः, पुं, (मृगाणामरिः ।) सिंहः । व्याघ्रः ।

इति मेदिनी । रे, २०६ ॥ कुक्कुरः । रक्तशिग्रुः ।
इति राजनिर्घण्टः ॥

मृगावित्, [ध्] पुं, (मृगान् विध्यति इति । व्यध् +

क्विप् । “अन्येषामपि दृश्यते ।” ६ । ४ । १३७ ।
इति दीर्घश्च ।) व्याधः । इति जटाधरः ॥
(मृगावेधनशीलः । यथा, भट्टिकाव्ये । ५ । ८२ ।
“भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ ।”)

मृगितः, त्रि, (मृग + क्तः ।) अन्वेषितः । इत्य-

मरः ॥

मृगी, स्त्री, (मृग + जातौ ङीष् ।) मृगजातिस्त्री ।

इति व्याकरणम् ॥ (यथाभिज्ञानशाकुन्तले । ६ ।
“शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छा
म्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां
मृगीम् ॥”)
अस्या दुग्धगुणाः छागीदुग्धगुणतुल्याः । यथा,
‘मृगीणां जाङ्गलोत्थानां अजाक्षीरगुणं पयः ।’
इति भावप्रकाशः ॥
पुलहभार्य्या । सा कश्यपकन्या । तस्या अपत्यं
हरिणादि । यथा, --
“क्रोधाच्च जज्ञिरे कन्या द्वादशैवात्मसम्भवाः ।
ता भार्य्याः पुलहस्य स्युर्मृगी मन्दा इरावती ॥
भूता च कपिला दंष्ट्रा कषा तिष्या तथैव च ।
श्वेता च सरमा चैव सरसा चेति विश्रुताः ॥
मृग्यास्तु हरिणाः पुत्त्रा मृगाश्चान्ये शशा-
स्तथा ।
न्यङ्कवः शरभा ये च पुरवः पृषताश्च ये ॥”
इति वह्निपुराणम् ॥
त्र्यक्षरच्छन्दोविशेषः । यथा । रो मृगी । ‘सा
मृगीलोचना । राधिका श्रीपतेः ॥’ वृमध्या ।
इति छन्दोमञ्जरी ॥ अपस्माररोगः । इति लोके
ख्यातः ॥ (होमोक्तमुद्राविशेषः ॥)

मृगेक्षणा, स्त्री, (मृगैरीक्ष्यते प्रियत्वात् इति ।

ईक्ष् + ल्युट् + स्त्रियां टाप् ।) मृगेर्व्वारुः ।
इति राजनिर्घण्टः ॥ मृगनयना स्त्री च ॥
(यथा, बृहत्संहितायाम् । ४८ । १४ ।
“काञ्चीकलापनूपुरगुरुजघनोद्वहनविघ्नित-
पदाभिः ।
श्रीमति मृगेक्षणाभिर्गृहेऽन्यभृतवल्गुवच-
नाभिः ॥”)

मृगेन्द्रः, पुं, (मृगाणामिन्द्रः श्रेष्ठः ।) सिंहः ।

इत्यमरः । २ । ५ । १ ॥ (यथा, श्रीमद्भागवते ।
१ । १२ । २२ ।
“मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥”
भगवद् विभूतिः । यथा, श्रीमद्भगवद्गीतायाम् ।
१० । ३० ।
“मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥”
छन्दोविशेषश्च ॥)

मृगेन्द्रचटकः, पुं, (मृगेन्द्र इव विक्रमी चटकः ।)

श्येनपक्षी । इति जटाधरः ॥

मृगेन्द्राशी, स्त्री, (मृगेन्द्रेण अश्यते इति । अश्

+ घञ् + गौरादित्वात् ङीष् ।) वासकः । इति
राजनिर्घण्टः ॥ (विशेषोऽस्या वासकशब्दे
ज्ञातव्यः ॥)

मृगेर्व्वारुः, स्त्री, (मृगस्य प्रिया इर्व्वारुः ।)

श्वेतेन्द्रवारुणी । सेँधिनी इति हिन्दीभाषा ॥
तत्पर्य्यायः । मृगाक्षी २ श्वेतपुष्पा ३ मृगा-
दनी ४ चित्रवल्ली ५ बहुफली ६ कपिलाक्षी ७
मृगेक्षणा ८ चित्रा ९ चित्रफला १० पथ्या ११
विचित्रा १२ मृगचिर्भिटा १३ मरुजा १४
कुम्भिनी १५ देवी १६ कट्फला १७ लघु-
चिर्भिटा १८ । अस्या गुणाः । दुर्ज्जरत्वम् ।
गुरुत्वम् । मन्दानलकारित्वम् । रक्तपित्तहारि-
त्वञ्च । इति राजनिर्घण्टः ॥

मृगेष्टः, पुं, (मृगाणामिष्टः ।) मुद्गरवृक्षः । इति

राजनिर्घण्टः ॥

मृग्यः, त्रि, (मृग्यते अन्विष्यते असौ । मृग्

+ कर्म्मणि यत् ।) मृगितव्यः । अन्वेषणीयः ।
इति व्याकरणम् ॥ (यथा, श्रीमद्भागवते । ७ ।
७ । २३ ।
“देहस्तु सर्व्वसंघातो जगत्तस्थुरिति द्बिधा ।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ॥”)

मृज ऊ ष कि भूषे । शुद्धौ । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) ऊ
अमार्जीत् अमार्क्षीत् । ष मृजा । कि मार्जत्या-
लेपनैर्द्विजान् । यो मार्ज्जयति शास्त्रार्थमिति
हलाषुधः । इति दुर्गादासः ॥

मृज ल ऊ ष शुद्धौ । इति कविकल्पद्रुमः ॥

(अदा०-पर०-सक०-सेट् ।) शुद्धिरिह शुद्धी-
भावः शुद्धीकरणञ्च । ल मार्ष्टि तीर्थोदकैर्नित्य-
मिति हलायुधः । ऊ अमार्ज्जीत् भस्मतो
मलम् । अमार्क्षीच्चासि पत्रादीनिति भट्टिः ।
ष मृजा । इति दुर्गादासः ॥

मृजः, पुं, (मृज्यतेऽसौ । इति मृज् + कृत्यल्युटो

बहुलमिति कर्म्मणि कः ।) वाद्यविशेषः । मादल
इति भाषा । यथा । मर्दलो दारुजो मृजः ।
इति शब्दरत्नावली ॥

मृजा, स्त्री, (मृज्यते इति । मृज् + “षिद्भिदा-

दिभ्योऽङ् ।” ३ । ३ । १०४ । इति अङ् +
टाप् च ।) मार्जनम् । इत्यमरः । २ । ६ । १२१ ॥
(यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये ।
“अभ्यङ्गो मार्द्दवकरः कफवातनिरोधनः ।
धातूनां पुष्टिजननो मृजावर्णबलप्रदः ।”)

मृज्यं, त्रि, मृज्यते यत् इति । मृज् । “मृजेर्वि-

भाषा ।” ३ । १ । ११३ । इति क्यप् ।) मार्ग्यम् ।
मार्जनीयम् । इति मुग्धबोधव्याकरणम् ॥ (यथा,
भट्टौ । ६ । ५६ ।
“मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च
तेन ते ॥”)

मृड ग श मोदे । इति कविकल्पद्रुमः ॥ (क्रा०-

वा तुदा०-अक०-सेट् ।) मोद इह हृष्टी-
करणम् ॥ ग मृड्णाति सरस्वत्या च यः सदेति
हलायुधः । श मृडति दीनं दाता । अमृडित्वा
सहस्राक्षमिति भट्टिः । मर्डिता । इति दुर्गा-
दासः ॥

मृडः, पुं, (मृडति हृष्यतीति । मृड् + इगुप-

धत्वात् कर्त्तरि कः ।) शिवः । इत्यमरः । १ ।
१ । २३ ॥ (यथा, श्रीमद्भागवते । ४ । २ । ७ ।
“प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः ।”)

मृडङ्कणः, पुं, (मृड्णाति सुखयतीति । मृड् +

“मृडः कीकन् कंकणौ ।” उणा० ४ । २४ ।
इति कंकणः ।) बालकः । इत्युणादिकोषः ॥

मृडा, स्त्री, (मृड + टाप् ङीप् च ।) दुर्गा ।

इति हलायुधः ॥

मृडी, स्त्री, (मृड + टाप् ङीप् च ।) दुर्गा ।

इति हलायुधः ॥

मृडीकः, पुं, (मृडतीति । मृड् + “मृडः कीकन्

कङ्कणौ ।” उणा० ४ । २४ । इति कीकन् ।)
हरिणः ॥

मृण, श हिंसे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) मर्णिता । इति दुर्गादासः ॥

मृणालं, क्ली, पुं, मृण्यते हिंस्यते भक्षणाद्यर्थं

यत् । (मृण् + “तमिविशिविडिमृणिकुलिकपि-
पलिपञ्चिभ्यः कालन् ।” उणा० १ । ११७ ।
इति कालन् । पङ्कजादीनां नालम् ।) मोलाम
इति ख्यातम् । इति भरतः ॥ (यथा, नैषध-
चरिते । १ । १३७ ।
“मदर्थसन्देशमृणालमन्थरः
प्रियः कियद्दूर इति त्वयोदिते ।”)
तत्पर्य्यायः । विसम् २ । इत्यमरः । १ । १० । ४२ ॥
विशम् ३ । इति द्विरूपकोषः ॥ पद्मनालम् ४
मृणाली ५ मृणालिनी ६ पद्मतन्तुः ७ विसिनी
८ नलिनीरुहम् ९ । अस्य गुणाः । शिशिर-
त्वम् । तिक्तत्वम् । कषायत्वम् । पित्तदाहमूत्र-
कृच्छ्रविकाररक्तवान्तिहरत्वञ्च । इति राज-
निर्घण्टः ॥ (शालूकविशेषः । तत्पर्य्यायो यथा,
“पद्मादिकन्दः शालूकं करहाटश्च कथ्यते ।
मृणालं मूलं भिष्माण्डं लज्जाशूकञ्च कथ्यते ॥”
तथास्य गुणाः । विशार्थे शालूकार्थे च ॥
“मृणालं शीतलं वृष्यं पित्तदाहास्रजिद्गुरु ॥
दुर्ज्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम् ।
संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मृणालं, क्ली, (मृण + कालन् ।) वीरणमूलम् ।

इति मेदिनी । ले, १२४ ॥ (अस्य पर्य्यायो यथा,
मृणालमभयं सेव्यं लामज्जकमुशीरकम् ॥”
इति वैद्यकरत्नमालायाम् ॥
“स्यादुशीरं मृणालञ्च सेव्यं लामज्जकन्तथा ॥”
इति गारुडे पूर्ब्बखण्डे २०८ अः ॥)

मृणालिनी, स्त्री, (मृणालानि अस्याः सन्तीति ।

मृणाल + “पुष्करादिभ्यो देशे ।” ५ । २ । १३५ ।
इति इनिः । ङीप् च ।) पद्मिनी । इति जटा-
धरः ॥ सा तु पद्मयुक्तदेशः पद्मसमूहः पद्मलता
च ॥ (यथा, रघुवंशे । १६ । ७ ।
“विमर्षि चाकारमनिर्वृतानां
मृणालिनी हैममिवोपरागम् ।”)
पृष्ठ ३/७६९

मृणाली, स्त्री, (मृणाल + गोरादित्वात् ङीष् ।)

मृणालम् । इति राजनिर्घण्टः ॥ (यथा, उत्तर-
चरिते । १ ।
“परिमृदितमृणालीदुर्ब्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥”)
(अल्पं मृणालं इति । मृणाल + अल्पार्थे
ङीष् ।) स्वल्पमृणालजातिः । यथा, --
“सान्द्रं चन्दनमङ्गके बलयिताः पाणौ मृणाली-
लताः ।
इति राजशेखरः । इत्यमरटीकायां भरतः ॥

मृणाली, [न्] पुं, (मृणालमस्यास्तीति । मृणाल

+ इनिः ।) पद्मः । इति केचित् ॥

मृत्, [द्] स्त्री, (मृद्नाति प्रलये चूर्णतया स्वकारणे

लीयत इति । मृद् + कर्त्तरि क्विप् ।) मृत्तिका ।
इत्यमरः । २ । १ । ४ । (यथा, मनुसंहिता-
याम् । ४ । ३९ ।
“मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥”
(यथास्या गुणाः ।
“कषाया मारुतं पित्तमुषरा मधुरा कफम् ॥
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत् ।
पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि ।
इन्द्रियाणां बलं हत्वा तेजोवीर्य्यौजसी तथा ।
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥”
इति माधवकरकृतरुग्विनिश्चये पाण्डुरोगाधि-
कारे ।) तुवरी । इति राजनिर्घण्टः ॥ * ॥
मृत्तिकाशौचं यथा, --
“दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्य्यात् मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः ॥
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्य्यान्महाव्रताः ॥”
इति गारुडे ९४ अध्यायः ॥

मृतं, क्ली, (मृ + क्तः ।) याचितम् । इत्यमरः ।

२ । ९ । ३ ॥ याचनवृत्तिर्मरणमिव दुःखजन-
कत्वात् मृतं भावे कर्म्मणि वा क्तः । इति
भरतः ॥ मृत्युः । इति हेमचन्द्रः ॥

मृतं, त्रि, याचितवस्तु । गतप्राणः । मरा इति

भाषा । तत्पर्य्यायः । परासुः २ प्राप्तपञ्चत्वः ३
परेतः ४ प्रेतः ५ संस्थितः ६ प्रमीतः ७ ।
इत्यमरः । २ । ९ । ३ ॥ कलौ मृतस्य धन्यत्वं यथा,
“धर्म्मः प्रव्रजितस्तपः प्रवसितं सत्यञ्च दूरे
गतं
पृष्वी मन्दफला जनाः कपटिनो लौल्ये स्थिता
ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना
उन्नता
हा कष्टं खलु जीवितं कलियुगे धन्या नरा
ये मृताः ॥”
इति गारुडे ११५ अध्यायः ॥
(कार्य्यवशाज्जीवितावस्थायामपि मृतत्वं तद्-
यथा, --
“चतुर्थे तु मदे मूढो भग्नदार्व्विव निष्क्रियः ।
कार्य्याकार्य्यविभागाज्ञो मृतादप्यपरो मृतः ॥”
इति माधवकरकृतरुग्विनिश्चये पानात्यया-
द्यधिकारे । यथा च ।
“उत्तिष्ठोत्तिष्ठ गच्छ त्वं वद मौनं समाचर ।
ये पराधीनतां यान्ति तेऽपि जीवन्ति के
मृताः ॥”
इत्युद्भटः ॥)

मृतकं, क्ली, (मृत + स्वार्थे कन् ।) शवः । इति

हेमचन्द्रः । ३ । २२९ ॥ मरणाशौचम् । यथा,
“यदि स्यात् सूतके सूतिर्मृतके च मृतिस्तथा ।
शेषेणैव भवेच्छुद्धिरहःशेषे द्बिरात्रकम् ॥”
इति शुद्धितत्त्वम् ॥

मृतकल्पः, त्रि, (मृत + “ईषदसमाप्तौ कल्पब् ।

देश्यदेशीयरः ।” ५ । ३ । ६७ । इति कल्पप् ॥)
मृतप्रायः । ईषदूनो मृतः । इति मृतशब्दा-
दीषदूनार्थे कल्पप्रत्ययेन निष्पन्नम् ॥

मृतकान्तकः, पुं, (मृतकस्य अन्तकः नाशको

भक्षकत्वात् ।) शृगालः । इति हारावली ॥

मृतजीवः, पुं, (मृतश्चासौ जीवश्चेति नील-

लोहितादिवत् विशेषणसमासः ।) तिलकवृक्षः ।
इति राजनिर्घण्टः ॥ (विवरणमस्य तिलकशब्दे
ज्ञातव्यम् ॥)

मृतण्डः, पुं, (मृतः अण्डः कारणत्वेन यस्य शक-

न्धादित्वात् पररूपम् ।) सूर्य्यपिता । इति
मार्त्तण्डशब्दटीकायां भरतः ॥

मृतमत्तः, पुं, (मृतेन शवेन मत्तः । भक्ष्यलाभात् ।)

शृगालः । इति त्रिकाण्डशेषः ॥

मृतमत्तकः, पुं, (मृतमत्त + स्वार्थे कन् ।) शृगालः ।

इति शब्दरत्नावली ॥

मृतवत्सा, स्त्री, (मृता वत्सा यस्याः ।) मृता-

पत्या । अजीवत्सन्ताना । गर्भावधिवर्षत्रयं
यावत् पुनःपुनर्म्मृतसन्ताना । अस्या दोषशान्ति-
र्यथा, --
“सप्तमीस्नपनं वक्ष्ये सर्व्वलोकहिताय वै ।
जातस्य मृतवत्सायाः सप्तमे मासि नारद ! ।
अथवा शुक्लसप्तम्यामेतत् सर्व्वञ्च शस्यते ॥
ग्रहताराबलं लब्ध्वा कृत्वा वा विप्रवाचनम् ।
बालस्य जन्मनक्षत्रतिथिदेवान् यजेद्बुधः ॥
तद्बद्वृद्धातुराणान्तु कृत्यं स्यादितरेषु च ।
गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा ॥
तण्डुलै रक्तशालीयैश्चरुं गोक्षीरसंयुतम् ।
निर्व्वपेत् सूर्य्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥
कीर्त्तयेत् सूर्य्यदैवत्यं सप्तर्च्चञ्च घृताहुतीः ।
जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद ! ॥
होतव्याः समिधस्तद्वत्तथैवार्कपलाशयोः ।
यवकृष्णतिलैर्होमः कर्त्तव्योऽष्टशतं पुनः ॥
व्याहृतिभिरथाज्येन तथैवाष्टशतं द्विज ! ।
हुत्वा स्नानञ्च कर्त्तव्यमङ्ग्यङ्गेन च धीमता ॥
विप्रेण वेदविदुषा विधिवद्दर्भपाणिना ।
स्नापयित्वा तु चतुरः कुम्भान् कोणेषु शोभनान् ॥
पञ्चमञ्च पुनर्मध्ये दध्यक्षतविभूषितम् ।
स्थापयेदव्रणं कुम्भं सप्तर्च्चेनाभिमन्त्रितम् ।
सौरेण तीर्थतोयेन पञ्चरत्नसमन्वितम् ॥
सर्व्वान् सर्व्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् ।
पञ्चरत्नफलैर्युक्तान् वासोभिरभिवेष्टयेत् ॥
गजाश्वरथ्यावल्मीकसङ्गमात् ह्रदगोकुलात् ।
राजद्बारप्रदेशाच्च मृदमानीय निःक्षिपेत् ॥
चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् ।
गृहीत्वा ब्राह्मणस्तन्तु सौरान्मन्त्रानुदीरयेत् ॥
सप्तभिरपि नारीभिरव्यङ्गाभिरथाप्यलम् ।
पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः ।
सविप्राभिश्च कर्त्तव्यं मृतवत्साभिषेचनम् ।
दीर्घायुरस्तु बालोऽयं जीवपुत्त्रा च भाविनी ॥
आदित्यश्चन्द्रमाः सार्द्धं ग्रहनक्षत्रमण्डलैः ।
शक्रः सलोकपालो वै ब्रह्मविष्णुमहेश्वराः ।
एते चान्ये च देवौघाः सदा पान्तु कुमारकम् ॥
मित्रोऽशनिर्मा हुतभुङ्मा च बालग्रहाः क्वचित् ।
पीडां कुर्व्वन्तु बालस्य मा मातुर्जनकस्य वै ॥
ततः शुक्लाम्बरधरा कुमारी पतिसंयुता ।
सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः ॥
काञ्चनीञ्च ततः कृत्वा तिलपात्रोपरिस्थिताम् ।
प्रतिमां कूर्म्मराजस्य गुरवे विनिवेदयेत् ॥
वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः ।
पूजयेद्ब्राह्मणं तद्बद्वित्तशाठ्यविवर्ज्जितः ॥
भुक्त्वा च गुरुणा चेयमुच्चार्य्या मन्त्रसन्ततिः ।
दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं समम् ।
यत्किञ्चिदस्य दुरितं निःक्षिप्तं बडवानले ॥
ब्रह्मा रुद्रो वसु स्कन्दो विष्णुर्देवो हुताशनः ।
रक्षन्तु सर्व्वदुष्टेभ्यो वरदाः सन्तु सर्व्वदा ॥
एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम् ।
शक्तितः कपिलां दद्यात् प्रणिपत्य विसर्ज्जयेत् ॥
गुरुञ्च पुत्त्रसहिता प्रणम्य रविशङ्करौ ।
हुतशेषं तदाश्नीयादादित्याय नमोऽस्तु ते ॥
इदमेवाद्भुतोद्वेगदुःखस्वप्नेषु शस्यते ।
कर्त्तृजन्मदिनर्क्षाणां देवान् संपूजयेत् सदा ॥
शान्त्यर्थं शुक्लसप्तम्यामेतत् कुर्व्वन्न सीदति ॥
स चानेन विधानेन दीर्घायुरभवत्ततः ।
सम्बत्सराणामयुतं शशास पृथिवीमिमाम् ॥”
इति मात्स्ये ६४ अध्यायः ॥
तल्लक्षणशान्त्यौषधानि यथा, --
“गर्भः संजातमात्राद्बा पक्षात् मासाच्च
वत्सरात् ।
म्रियते द्वित्रिवर्षाद्वा यस्याः सा मृतवत्सिका ॥
तत्र योगं प्रकर्त्तव्यं यथा शङ्करभाषितम् ॥
मार्गशीर्षे तथा ज्येष्ठे पूर्णिमालेपिते गृहे ।
नूतनं कलसं पूर्णं पूजयेन्मातृकाः सुधीः ॥
शाखाफलसमायुक्तं नवरत्नसमन्वितम् ।
सुवर्णसूत्रिकायुक्तं षट्कोणमण्डले स्थितम् ।
तन्मध्ये पूजयेद्देवीं एकान्तीनामविश्रुताम् ॥
गन्धपुष्पाक्षतैर्धूपैर्दीपनैवेद्यसंयुतैः ।
पूजयेद्भक्तिभावेन मद्यमांसैः समत्स्यकैः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथा चैन्द्री षट्पत्रेषु च मातरः ॥
पूजयेन्मन्त्रपूतेन फेँकारे नाम विश्रुते ।
पृष्ठ ३/७७०
दधिभक्तानि पिण्डानि सप्तसङ्ख्यानि कारयेत् ॥
षट्सङ्ख्येषु च पत्रेषु मातृभ्यः कल्पयेत् पृथक् ।
चिल्लेभ्यः सप्तमं पिण्डं शुचिस्थाने बहिः क्षिपेत् ।
तैर्भुक्ते गृहमागच्छेच्चक्राग्रे यागमारभेत् ॥
कन्यकां योगिनीं वामां भोजयेत् सकुटुम्बकैः ।
दक्षिणां दापयेत्तासां देवताग्रे न चान्यथा ॥
विसृज्य देवताञ्चाथ नद्यां तत्कलसोदकम् ।
शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत् ॥
विपरीते पुनः कार्य्यं यागं तन्तु सुसिद्धिदम् ।
प्रतिवर्षमिदं कार्य्यं दीर्घजीविसुतं लभेत् ॥”
ॐ ह्रीं फेँ एकान्तीदेवतायै नमः । अनेन
मन्त्रेण पूजा जपश्च कार्य्यः ॥ * ॥
“प्राङ्मुखः कृत्तिकाऋक्षे बन्ध्याकर्कोटकीं हरेत् ।
तत्कन्दं पेषयेत्तोयैः कर्षमात्रं सदा पिवेत् ॥
या बीजपूरं द्रवमूलमेकं
क्षीरेण पक्वं प्रपिवेत् विमिश्रम् ।
ऋतौ निजं या तु पतिं प्रयाति
दीर्घायुषं सा तनयं प्रसूते ॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ।
मेदा पयस्या काकोलीमूलञ्चैवाश्वगन्धजम् ॥
अजमोदा हरिद्रे द्बे हिङ्गुः कटुकरोहिणी ।
उत्पलं कुमुदं द्राक्षा काकोल्योर्म्मूलकद्वयम् ।
एतेषां कर्षकैर्भागैर्घृतप्रस्थं विभावयेत् ॥
शतावरीरसं क्षीरं घृतस्येदं चतुर्गुणम् ।
संपिवेन्नियतं नारी नित्यं स्त्रीषु च शस्यते ।
पुत्त्रान् जनयते नारी मेधाट्यान् प्रियदर्शनान् ॥
या चैवास्थिरगर्भा स्यात् या नारी जनयेन्
मृतम् ।
अल्पायुषञ्च जनयेत् या च कन्याः प्रसूयते ॥
योनिदोषे रजोदोषे गर्भस्रावे च शस्यते ।
प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम् ॥
नाम्ना फलघृतं ह्येतदायुष्यं परिकीर्त्तितम् ।
नोक्तञ्च लक्ष्मणामूलं वदन्त्यत्र चिकित्सकाः ॥
जीववत्साशुक्लवर्णाघृतमत्र तु दीयते ।
अरण्यगोमयेनात्र वह्नेर्ज्वाला प्रदीयते ॥”
अत्र पयस्या क्षीरयुक्तभूमिकुष्माण्डम् । उत्-
पलं नीलम् । इति इन्द्रजालतन्त्रे मृतवत्सा-
चिकित्सा ॥ * ॥ अन्यच्च । अथ मृतवत्सासुत-
जीवनोपायः ।
ईश्वर उवाच ।
“गर्भः संजातमात्रेण पक्षान् मासाच्च वत्सरात् ।
म्रियते द्वित्रिवर्षादिर्यस्याः सा मृतवत्सका ॥
गृहीत्वा शुभनक्षत्रे अपामार्गस्य मूलकम् ।
गृहीत्वा लक्ष्मणामूलं एकवर्णगवां पयः ।
पीत्वा सा लभते गर्भं दीर्घजीविसुता भवेत् ॥
यस्यै कस्यै व दातव्यं नान्यथा शङ्करोदितम् ॥
बन्ध्याकर्कोटिकाकन्दं मोचाराजेन पेषयेत् ।
ऋतुकाले तु सप्ताहं दीर्घजीविसुता भवेत् ।
सत्यं सत्यं प्रकर्त्तव्यं यथा शङ्करभाषितम् ॥ * ॥
मार्गशीर्षेऽथवा ज्येष्ठे पूर्णायां लेपिते गृहे ।
नूतनं कलसं पूर्णं गन्धतोयेन कारयेत् ॥
शाखाफलसमायुक्तं नवरत्नसमन्वितम् ।
सुवर्णमुद्रिकायुक्तं षट्कोणमण्डले स्थितम् ।
तन्मध्ये पूजयेद्देवीमेकान्तीनामविश्रुताम् ॥
गन्धपुष्पाक्षतैर्धूपैर्द्दीपैर्नैवेद्यसंयुतैः ।
अर्च्चयेद्भक्तिभावेन दुग्धं माषं तथा मधु ॥
वाराही च तथा चैन्द्री ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी देवी षट्सु कोणेषु मातरः ।
पूजयेन्मन्त्रभावेन दधिपिण्डानि कारयेत् ॥
सप्तसङ्ख्याप्रमाणानि षट्सङ्ख्या षट्षु पात्रतः ।
सप्तमन्तु पृथक् कृत्वा शुचिस्थाने विशेषतः ॥
तद्भुक्तं गृहमागच्छेत् कन्यका वटुकस्त्रियः ।
भोजयेद्दक्षिणां दत्त्वा प्रणामं कारयेत्ततः ॥
विसृज्य स्वेष्टदेवीञ्च आद्यां तत्सकलेष्टदाम् ॥
शकुनं वीक्षयेद्धीमान् शुभेन शुभमादिशेत् ॥
विपरीते पुनः कार्य्यं यागं तावत् सुसिद्धिदम् ।
प्रतिवर्षमिदं कुर्य्यात् दीर्घजीविसुतं लभेत् ।
सिद्धियोगमिदं ख्यातं नान्यथा शङ्करोदितम् ॥”
अथ मन्त्रः । ॐ परं ब्रह्म परमात्मने अमुकी-
गृहे दीर्घजीविसुतं कुरु कुरु स्वाहा ॥ * ॥
अथ काकबन्ध्या । ईश्वर उवाव ।
“पूर्ब्बं पुत्त्रवती या सा क्वचिद्बन्ध्या भवेद्यदि ।
काकबन्ध्या तु सा ज्ञेया चिकित्सा तत्र कथ्यते ॥
विष्णुक्रान्तां समूलान्तु पिष्ट्वा माहिषदुग्धके ।
महिषीनवनीतेन ऋतुकाले तु भक्षयेत् ॥
एवं सप्तदिनं कुर्य्यात् पथ्ययुक्तिश्च पूर्ब्बवत् ।
गर्भं सा लभते नारी काकबन्ध्या सुशोभनम् ॥
अश्वगन्धीयमूलन्तु ग्राहयेत् पुष्यभास्करे ।
पेषयेन्महिषीक्षीरे पलार्द्धं भक्षयेत् सदा ॥
सप्ताहाल्लभते गर्भं काकबन्ध्या चिरायुषम् ।
यस्यै कस्यै न दातव्यं नान्यथा शङ्करोदितम् ॥”
अथ मन्त्रः । ॐनमः शक्तिरूपाय अस्या गृहे
पुत्त्रं कुरु कुरु स्वाहा । १०००० जपात् सिद्धिः ।
इति श्रीदत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे
जन्मबन्ध्यादीनां पुत्त्रकरणं नाम सप्तदशपटलः ॥
क्वचिद्ग्रन्थे २० पटलः ॥

मृतसञ्जीवनी, स्त्री, (मृतं मृतशस्यम् जीवय-

तीति । जीव् + ल्युट् + ङीप् च ।) गोरक्ष-
दुग्धा । इति राजनिर्घण्टः ॥
मृतजीवनार्थिका विद्या । यथा । अथ मृत-
सञ्जीवनी विद्या ।
“आदौ प्रासादबीजं तदनु मृतिहरं तारकं
व्याहृतीश्च
प्रोच्चार्य्य त्र्यम्बकं यो जपति च सततं संपुटं
चानुलोमम् ।”
मृतिहरं त्र्यक्षरमृत्युञ्जयमन्त्रम् । संपुटितमिति
अनुलोमक्रमेणैव संपुटमित्यर्थः । तेन हौं
ततः प्रणवः ततो जूं सः ततः सप्रणवव्याहृतिः ।
मध्ये त्र्यम्बकमन्त्रः । ततो हौं प्रणवः जूं सः
ततः सप्रणवव्याहृतिः । अस्य जपात् सर्व्व-
सिद्धिर्भवति ॥ * ॥ अथ शुक्रोपासिता मृतसञ्जी-
वनी विद्या । गायत्त्र्या एकैकपादानन्तरं
त्र्यम्बकमन्त्रस्य एकैकपादञ्च । ततश्च गायत्त्र्याः
प्रथमपादानन्तरं सुगन्धिं पुष्टिवर्द्धनम् ।
द्वितीयपादानन्तरं उर्व्वारुकमिव बन्धनात् ।
तृतीयपादानन्तरं मृत्योर्मुक्षीयमामृतात् ॥
अस्य ध्यानम् ।
“स्वच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ
पूर्णकुम्भौ
द्बाभ्यामेणाक्षमाले निजकरकमले द्वौ घटौ
नित्यपूर्णौ ।
द्बाभ्यां द्वौ च स्रवन्तौ शिरसि शशिकलां
चामृतैः प्लावयन्तं
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः
श्रियं वः ॥”
एवं ध्यात्वावाह्य प्रणवादित्र्यम्बकाय रुद्राय
नमः । इत्यनेन पूजयेत् । अस्य जपात् सर्व्व-
सिद्धिः । इत्यागमतत्त्वविलासः ॥ (तथा च
ब्रह्यवैवर्त्तपुराणे प्रकृतिखण्डे ४५ । ११ ।
“महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् ।
महाज्ञानयुतां ताञ्च प्रवन्दन्ति मनीषिणः ॥”
(क्ली । यथा, मार्कण्डेये । २४ । ४२ ।
“ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः ।
कथयामास तत्सर्व्वं मृतसञ्जीवनादिकम् ॥)

मृतस्नातः, त्रि, (ज्ञातिबन्ध्वादीनामन्यतमस्मिन्

मृते सति मृतमुद्दिश्य विधिना स्नातः ।) मृतो-
द्देशेन स्नातः । तत्पर्य्यायः । अपस्नातः २ । इत्य-
मरः । ३ । १ । १९ ॥ मृतमुद्दिश्य कृतस्नाने जने ।
संस्कारार्थं स्नापिते मृते । इति स्वामी । इति
तट्टीकायां भरतः ॥

मृतस्नानं, क्ली, (मृतमुद्दिश्य स्नानम् ।) मृतो-

द्देशेन स्नानम् । तत्पर्य्यायः । अपस्नानम् २ ।
इति हेमचन्द्रः । ३ । ३९ ॥

मृतस्वमोक्ता, [ऋ] पुं, (मृतवत् स्वराज्यधनादिकं

मुञ्चतीति । मुच् + वासरूपोऽस्त्रियाम् । ३ । १ ।
९४ । इति पक्षे तृच् ।) राजर्षिः । इति
हेमचन्द्रः । ३ । ३७७ ॥

मृतामदं, क्ली, (मृतः नष्टः आमदः अस्मात् ।)

तुत्थम् । इति शब्दचन्द्रिका ॥

मृतालकं, क्ली, (मृतमालयति भूषयतीति । अल् +

णिच् + ण्वुल् ।) आढकी । इत्यमरः । २ । ४ । १३१ ॥
(तथास्य पर्य्यायः ।
“सौराष्ट्री तुरवी कांक्षी मृतालकमुराष्ट्रजे ।
आढकी चापि सा ख्याता मृत्स्ना च सुर-
मृत्तिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मृतिः, स्त्री, (मृ + क्तिः ।) मरणम् । इति हेम-

चन्द्रः । २ । २३६ । (यथा, श्रीमद्भागवते ।
६ । १४ । ५४ ।
“परे नु जीवत्यपरस्य या मृति-
र्विपर्य्ययश्चेत्त्वमसि ध्रुवः परः ॥”
यथास्या विषयः ।
“यो गौरवर्णो विदधाति कार्ष्ण्यं
कृष्णोऽपि गौरत्वमुपैति यश्च ।
तथा मृतिं याति नरप्रकृत्या
शीघ्रं विकृत्या जडतोऽपि यो वै ॥
पृष्ठ ३/७७१
यो वैपरीत्यं श्रवणेन शब्दं
गृह्णाति वा नो शृणुते स शीघ्रं ।
स वै मृतिं पश्यति यो न पश्येत्
छायां स्वकीयां धरणीप्रपन्नाम् ॥”
इति हारीते द्वितीयेस्थाने तृतीयेऽध्याये ॥)

मृत्करः, पुं, (करोतीति कृ + अच् । मृदां

करः । घटादिनिर्म्मातृत्वादस्य तथात्वम् ।)
कुम्भकारः । इति त्रिकाण्डशेषः ॥

मृत्कांस्यं, क्ली, शरावः । इति त्रिकाण्डशेषः ॥

मृत्किरा, स्त्री, (मृदं किरतीति । कॄ + “इगु-

पधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।
“ऋत इद्धातोः ।” ७ । १ । १०० ॥ इति इत् ।)
घुर्घुरी । इति त्रिकाण्डशेषः । घुर्घुरिया इति
भाषा ॥

मृत्खलिनी, स्त्री, चर्म्मकषावृक्षः । इति शब्द-

चन्द्रिका ॥

मृत्तालं, क्ली, (मृदं तालयति प्रतिष्ठापयतीति ।

तल् + णिच् + “कर्म्मण्ण्यण् ।” ३ । २ । १ । इति
अण् ।) आढकी । इति शब्दरत्नावली ॥

मृत्तालकं, क्ली, (मृत्ताल + संज्ञायां कन् ।)

तुवरिका । तुवरिकलाय इति अडर इति च
ख्यातम् । इत्यमरटीकायां भरतः । सौराष्ट्र-
मृत्तिका । इति राजनिर्घण्टः ॥

मृत्तिका, स्त्री, (मृदेव इति । मृद् + “मृदस्तिकन् ।”

५ । ४ । ३९ । इति स्वार्थे तिकन् । स्त्रियां टाप् ।)
तुवरी । इति राजनिर्घण्टः ॥ मृत् । इत्य-
मरः । २ । १ । ४ ॥ माटी । इति माषा ।
तत्पर्य्यायः । मृदा २ मृत्तिः ३ । इति भरतः ॥
(अस्या भक्षणात् पाण्डुरोगोत्पत्तिः । तद्यथा,
“मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः ॥
कषाया मारुतं पित्तं उषरा मधुरा कफम् ॥”
इति माधवकरसंगृहीतरुग्विनिश्चये पाण्डु-
रोगाधिकारे । अन्यत् मृत्शब्दे द्रष्टव्यम् ।)
स्नानकाले मृत्तिकालेपनविधिर्यथा, --
“मृदा प्रक्षाल्य लिङ्गन्तु द्बाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कायं षड्भिः पादौ तथैव च ॥
कटिञ्च तिसृभिश्चापि हस्तयोर्द्विश्च मृत्तिकाः ।
प्रक्षाल्य कायं हस्तौ च द्विराचम्य यथाविधि ।
ततः संमार्जनं कृत्वा मृदमेवाभिमन्त्रयेत् ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ! ।
उद्धृतासि वराहेण कृष्णेनामितबाहुना ॥
मृत्तिके हर मे पापं यन्मया पूर्ब्बसञ्चितम् ।
मृत्तिके ब्रह्मदत्तासि प्रजया च धनेन च ॥
मृत्तिके त्वाञ्च गृह्णामि काश्यपेनाभिमन्त्रिताम् ।
मृत्तिके जहि मे पापं यन्मया दुष्कृतं कृतम् ।
त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यहम् ॥”
इति वह्निपुराणम् ॥ * ॥
शौचार्थमृत्तिकाग्रहणविधिर्यथा, --
“आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् ।
कुर्य्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥
नाहरेत् मृत्तिकां विप्रः पांशुलान्न च कर्द्द-
मात् ।
न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ॥
न देवायतनात् कूपात् गेहान्न च जलात्तथा ।
उपस्पृशेत्ततो नित्यं पूर्ब्बोक्तेन विधानतः ॥”
इति कौर्म्मे उपविभागे १२ अध्यायः ॥
तस्याः परीक्षा मन्दिरशब्दे द्रष्टव्याः ॥

मृत्फली, स्त्री, (मृदि फलनमस्याः । ङीष् ।)

कुष्ठौषधम् । इति हारावली ॥

मृत्युः, पुं, (म्रियते अस्मादिति मृ + “भुजिमृङ्भ्यां

युक् त्युकौ ।” उणा० । ३ । २१ । इति त्युक् ।)
यमः । इति हेमचन्द्रः ॥ कंसः । यथा, --
“प्रत्यर्प्य मृत्यवे पुत्त्रान् मोचये कृपणामिमाम् ।
सुता मे यदि जायेरन् मृत्युर्व्वा न म्रियेत
चेत् ॥”
इति श्रीभागवते १० स्कन्धे १ । ४९ ॥

मृत्युः, पुं, क्ली, प्राणवियोगः । तत्पर्य्यायः । पञ्चता

२ कालधर्म्मः ३ दिष्टान्तः ४ प्रलयः ५ अत्ययः ६
अन्तः ७ नाशः ८ मरणम् ९ निधनः १० ।
इत्यमरः ॥ पञ्चत्वम् ११ मृतम् १२ मृतिः १३ ।
इति तट्टीकायां रमानाथः ॥ नैधनम् १४ ।
इति तट्टीकासारसुन्दरी ॥ संस्था १५ कालः १६
परलोकगमः १७ दीर्घनिद्रा १८ निमीलनम् १९
अस्तम् २० अवसानम् २१ । इति हेमचन्द्रः ॥
भूमिलाभः २२ निपातः २३ विलयः २४ आत्य-
यिकम् २५ । इति शब्दरत्नावली ॥ अप्ययः
२६ । (मरणार्थे यथा, --
“क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा ।
न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥
प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् ।
पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥”
इति सुश्रुते सूत्रस्थाने ३१ अः ॥
“एकोत्तरं मृत्युशतमथर्व्वाणः प्रचक्षते ।
तत्रैकः कालसंज्ञस्तु शेषास्त्वागन्तवः स्मृताः ॥
दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ।
रक्षेतां नृपतिं नित्यं यत्नाद्बैद्यपुरोहितौ ॥”
इति च तत्र तत्स्थाने । ३४ अः ॥)
तत्प्रमाणं यथा, --
“अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।
अहं सर्व्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥”
इति श्रीमद्भागवते ११ स्कन्धे । १६ । १० ॥
स तु ब्रह्मणो गुदतो जातः । यर्था, --
“पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ! ।
हिंसाया निरृते मृर्त्योर्निरयस्य गुदं स्मृतम् ॥”
इति श्रीभागवते २ स्कन्धे ५ अध्यायः ॥
कल्पान्तरे भयात् मायायां जातः । यथा, --
“हिंसा भार्य्या त्वधर्म्मस्य तयोर्जज्ञे तथानृतम् ।
कन्या च निकृतिस्ताभ्यां भयं नरकमेव च ॥
माया च वेदना चैव मिथुनं त्विदमेतयोः ।
भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥
वेदना च सुतञ्चापि दुःखं जज्ञेऽथ रौरवात् । * ।
अस्यापत्यादि यथा, --
“मृर्त्योर्व्याधिर्जराशोकतृष्णाक्रोधाश्च जज्ञिरे ।
दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः ।
नैषां भार्य्यास्ति पुत्त्रो वा सर्व्वे ते ह्यूर्द्ध्वरेतसः ॥
निरृतिश्च तथा चान्या मृत्योर्भार्य्याभवन् मुने ! ।
अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्त्राश्चतुर्द्दश ॥
अलक्ष्मीसूचका ह्येते मृत्योरादेशकारिणः ।
विनाशकाले च नरान् भजन्त्येते शृणुष्व तान् ॥
इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः ।
स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति च ॥
तथेन्द्रियाणि चाक्रम्य रागलोभादिभिर्नरान् ।
योजयन्ति तथा हानिं यान्ति धर्म्मादिभिर्द्विज ! ॥
अहङ्कारगताश्चान्ये तथान्ये बुद्धिसंस्थिताः ।
विनाशाय नरस्त्रीणां यतन्ते मोहसंश्रयाः ।
एवं त्वधर्म्मेणोत्पन्नाः सर्व्वे चापि भयङ्कराः ॥”
इति मार्कण्डेयपुराणे दुःसहानुशासनं नामा-
ध्यायः ॥ विष्णुपुराणे प्रथमेऽंशे सप्तमोऽध्यायश्च ॥
मृत्युज्ञापकारिष्टानि यथा, --
दत्तात्रेय उवाच ।
“अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते ।
येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।
यो न पश्येन्न जीवेत् स नरः संबत्सरात् परम् ॥
अरश्मि विम्बं सूर्य्यस्य वह्निञ्चैवांशुमालिनम् ।
दृष्ट्वैकादशमासेभ्यो नरो नोर्द्ध्वं स जीवति ॥
वान्त्यां मूत्रे पुरीषे वा सुवर्णं रजतं यथा ।
प्रत्यक्षमथवा स्वप्ने जीवितं दशमासिकम् ॥
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्व्वनगराणि च ।
सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥
स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।
प्रकृतेश्च निवर्त्तेत तस्यायुश्चाष्टमासिकम् ॥
खण्डं यस्य पदं पार्ष्ण्योः पादस्याग्रेऽथवा भवेत् ।
पांशुकर्द्दमयोर्म्मध्ये सप्त मासान् स जीवति ॥
कपोतगृध्रकाकोला वायसो वापि मूर्द्धनि ।
क्रव्यादो वा खगो लीनः षण्मासायुःप्रदर्शकः ॥
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा पुनः ।
स्वच्छायाञ्चान्यथा दृष्ट्वा पञ्च मासान् स जीवति ॥
अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।
पयसीन्द्रधनुर्व्वापि जीवितं द्बित्रिमासिकम् ॥
घृते तैले तथादर्शे तोये वा चात्मनस्तनुम् ।
यः पश्येदशिरस्कां वा मासादूर्द्धं न जीवति ॥
यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
तस्यार्द्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥
यस्य वै स्नातमात्रस्य हृत्पादमवशुष्यति ।
पिवतश्च जलं शोषो दशाहं सोऽपि जीवति ॥
स्तम्भितो मारुतो यस्य मर्म्मस्थानानि कृन्तति ।
न हृष्यत्यम्बुसंस्पर्शात्तस्य मृत्युरुपस्थितः ॥
ऋक्षवानरयुग्मस्थो गायन् यो दक्षिणां दिशम् ।
स्वप्ने प्रयाति तस्यापि न मृत्युः कालमृच्छति ॥
रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् ।
दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ॥
नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य वै ।
एणं वा वीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम् ॥
आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे ।
स्वप्ने पश्येत्तथात्मानं नरः सद्यो म्रियेत सः ॥
पृष्ठ ३/७७२
केशाङ्गारांस्तथा भस्म भुजगं निर्जलां महीम् ।
दृष्ट्वा स्वप्ने दशाहन्तु मृत्युरेकादशेऽहनि ॥
करालैर्व्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं समाप्नुयात् ॥
सूर्य्योदये यस्य शिवा क्रोशन्ती याति सम्मुखम् ।
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥
यस्य वै मुक्तमात्रेऽपि हृदयं पीड्यते क्षुधा ।
जायते दन्तसंघर्षः स गतायुरसंशयम् ॥
दीपादिगन्धं नो वेत्ति वमत्यग्निं तथा निशि ।
नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥
शक्रायुधञ्चार्द्धरात्रे दिवा ग्रहगणं तथा ।
दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवान् ॥
नासिका वक्रतामेति कर्णयोर्नम्रतोन्नती ।
नेत्रञ्च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥
आरक्ततामेति मुखं जिह्वा वापि सिता तथा ।
तदा प्राज्ञो विजानीयानृमृत्युमासन्नमात्मनः ॥
उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् ।
प्रयाति तं विजानीयात् सद्यो मृत्युं नरेश्वर ! ॥
पिधाय कर्णं निर्घोषं न शृणोत्यात्मसम्भवम् ।
नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥
पततो यस्य वै गर्त्ते स्वप्ने द्वारं पिधीयते ।
न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥
ऊर्द्ध्वा च दृष्टिर्न च संप्रतिष्ठा
रक्ता पुनः संपरिवर्त्तमाना ।
मुखस्य चोष्मा शिशिरा च नाभिः
शंसन्ति पुंसामपरं शरीरम् ॥
स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते नरः ।
जलप्रवेशादपिवा तदन्तं तस्य जीवितम् ॥
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।
स मृत्युं सप्तरात्रान्तात् पुमानाप्नोत्यसंशयम् ॥
स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथोऽसितम् ।
यः पुमान् मृत्युमापन्नं तस्यापि हि विनिर्द्दिशेत् ॥
स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्य्ययः ।
कथयन्ति मनुष्याणां समासन्नौ यमान्तकौ ॥
येषां विनीतः सततं यस्य पूज्यतमा मताः ।
तानेव योऽवजानाति तानेव च विनिन्दति ॥
देवता नार्च्चयेद्वृद्धान् गुरून् विप्रांश्च निन्दति ।
मातापित्रोरसत्कारं जामातॄणां करोति यः ॥
योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् ।
प्राप्तान्तकालः पुरुषस्तद्बिज्ञेयं विचक्षणैः ॥
योगिना सततं यत्नादरिष्टान्यवनीपते ! ।
मंवत्सरान्ते तज्ज्ञेन फलदानि दिवानिशम् ।
विलोक्यानि सदा चैव फलपङ्क्तिषु भीरुणा ॥”
इति मार्कण्डेयपुराणे अलर्कोपाख्याने ४३ अः ॥
कर्म्मविशेषान्मृत्युविशेषो यथा, --
“येनानृतानि नोक्तानि प्रीतिभेदः कृतो नच ।
आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥
आगारदाहिनो दाहं क्षुधं चानन्नदायिनः ।
प्राप्नुवन्ति नराः काले तस्मिन् मृत्यावुपस्थिते ॥
देवब्राह्मणपूजायां ये रताश्चानसूयवः ।
श्लक्ष्णा वदान्या ह्नीमन्तस्ते नराः सुखमृत्यवः ॥
यो न कामान्न संरम्भान्न द्वेषाद् धर्म्ममुत्सृजेत् ।
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥
शीतं जयन्तीन्धनदास्तापं चोदकदायिनः ।
प्राणघ्नीं वेदनां कष्टां ये चान्ये द्वेषकारिणः ॥
मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् ।
कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।
ते मोहमृत्यवः सर्व्वे तथान्ये वेदनिन्दकाः ॥”
इति मार्कण्डेयपुराणे पितापुत्त्रसम्बादे १०
अध्यायः ॥ * ॥
मृत्युकालकर्त्तव्यक्षुद्रजन्तुबधप्रायश्चित्तं यथा, --
“बधेऽपि क्षुद्रजन्तूनां हिंसकानाञ्च पण्डितः ।
कार्षापणं समुत्सृज्य मृत्युकाले प्रमुच्यते ॥
अहिंसकानां क्षुद्राणां वधे शतगुणं ध्रुवम् ।
प्रायश्चित्तं मृत्युकाले कथितं पद्मयोनिना ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः ॥
मृत्युसमये गङ्गागमनमावश्यकं यथा, --
“अहो सगरवंशेभ्यो निर्व्वाणमुक्तिदायिनी ।
वैकुण्ठगामिनां मार्गसोपानरूपिणी वरा ॥
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम् ।
आदौ पादौ च विन्यस्य मुखे तोयं प्रदीयते ॥
गङ्गासोपानमारुह्य सन्तो यान्ति ममालयम् ॥”
इति तत्रैव ३४ अध्यायः ॥ * ॥
जन्मवतां मृत्योरपरिहार्य्यत्वं यथा, --
“मृत्युर्जन्मवतां वीर ! देहेन सह जायते ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥”
इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥
अपि च ।
“जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥”
इति श्रीभगवद्गीता ॥ * ॥
अकालमृत्युप्रशमनं स्तोत्रं यथा, --
सूत उवाच ।
“स्तोत्रं तत्संप्रवक्ष्यामि मार्कण्डेयेन भाषितम् ।
नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।
प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १ ॥
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २ ॥
वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् ।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३ ॥
शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् ।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ४ ॥
वाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् ।
माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५ ॥
पुरुषं पुष्करं पुण्यं क्षेत्रबीजं जगत्पतिम् ।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६ ॥
सहस्रशीर्षं देवेशं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नोऽसि किन्नो मृत्युः करिष्यति ॥ ७ ॥
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।
विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ८ ॥
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।
अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ॥
प्रसन्ने पुण्डरीकाक्षे नृसिं हे नास्ति दुर्लभम् ॥
मृत्व्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥
य इदं पठति स्तोत्रं त्रिकालं नियतः शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥
हृत्पद्ममध्ये पुरुषं पुराणं
नारायणं शाश्वतमादिदेवम् ।
विचिन्त्य सूर्य्यादतिराजमानं
मृत्युं स योगी जितवांस्तदैव ॥”
इति गारुंडे २३८ अध्यायः ॥ * ॥
शुभकर्म्मप्रतिबन्धकमृत्युदा योगा यथा, --
“आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः ।
बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥”
अपि च ।
“रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः ।
उत्पाटा मृत्यवः काला अमृतानि यथाक्रमम् ॥”
इति ज्योतिस्तत्त्वम् ॥

मृत्युञ्जयः, पुं, (मृत्युं जितवान् । जि + खच् +

मुम् च ।) शिवः । इत्यमरः ॥ तन्नामकारणं
यथा, --
सुयज्ञ उवाच ।
“शिवो लीनो निर्गुणे चेत् श्रीकृष्णे प्राकृते लये ।
कथं तव गुरोर्नाम मृत्युञ्जय इति श्रुतौ ॥”
सुतपा उवाच ।
“ब्रह्मणोऽन्ते मृत्युकन्या प्रनष्टा जलबिन्दुवत् ।
संहर्त्री सर्व्वलोकाणां ब्रह्मादीनां नराधिप ! ॥
कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशो लये ।
कालेन लीनः शम्भुश्च सत्त्वरूपी च निर्गुणे ॥
मृत्युकन्या जिता शश्वत् शिवेन गुरुणा मम ।
न मृत्युना जितः शम्भुः कल्पे कल्पे श्रुतौ
श्रुतम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥
रोगशान्त्यर्थं तस्य पूजाविधिर्यथा, --
“मृत्युञ्जयं समापूज्य लिङ्गं त्रिभुवनेश्वरम् ।
रोगात्ता मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥
यस्तु संपूजयेद्भक्त्या लिङ्गं मृत्युञ्जयाभिधम् ।
यमोऽपि प्रणमेद्भक्त्या किं करिष्यति चामयः ॥
तस्य पूजाविधिं वक्ष्ये शृणु मत्प्राणबल्लभे ! ।
जातिभेदे मृत्तिकान्तु गृहीत्वाशीतितोलकम् ॥
निर्म्माय पार्थिवं लिङ्गं कांस्याधारे निवेशयेत् ।
पौराणिकेन मन्त्रेण कुर्य्याच्च गठनं बुधः ॥
स्नापयेत् पञ्चगव्येन प्रत्येकस्याष्टतोलकम् ।
स्वस्वमन्त्रैश्च प्रत्येकद्रव्येण खापयेत् सुधीः ॥
रोगक्षयकामनया नामगोत्रादिपूर्ब्बकम् ।
उपविश्यासने विप्रो धृत्वा धौते च वाससी ॥
रुद्राक्षमालां कण्डे वै धृत्वा भस्मत्रिपुण्ड्रकम् ।
उपचारं षोडशकं देयं भक्त्या प्रयत्नतः ॥
सुवर्णस्यासनं देयं तथैवाभरणानि च ।
वस्त्रयुग्मं प्रदद्यात्तु परिधेयं यथा भवेत् ॥
मधुपर्कं कांस्यपात्रे दद्याद्भोजनयोग्यकम् ।
विल्वपत्रसहस्रञ्च अभग्नं विनिवेदयेत् ॥
एवं संपूज्य लिङ्गैकं जपेन्मन्त्रं सहस्रकम् ।
ततो होमं प्रकुर्य्याच्च दक्षिणां ब्राह्मणे ददेत् ॥
पृष्ठ ३/७७३
सुवर्णं वा तदर्द्धं वा देवि ! विभवमानतः ।
अङ्गहीना न कर्त्तव्या पूजा चाफलदा यतः ॥
एकलिङ्गं समाराध्य फलं स्यादन्यके युगे ।
तत् फलं लभते देवि ! कलौ संख्या चतुर्गुणा ॥
ताम्रपात्रे तु संस्थाप्य अशीतितोलकं जलम् ।
तज्जलेनैव देवेशि ! कुशैः संमार्ज्य रोगिणम् ॥
क्षिपेद्दीपशिखायाञ्च मन्त्रमुच्चार्य्य मामकम् ।
एवंविधिविधानेन पूजयेन्मम लिङ्गकम् ॥
यादृग्यादृग्भवेद्रोगो नाशमेति मयोदितः ।
साङ्गेन पूजयित्वा च लभते वाञ्छितं फलम् ॥
अङ्गव्यतिक्रमेणैव वृथा भवति वासना ।
रोगी प्रमुच्यते सद्यो भोगीव कञ्चुकोज्झितः ।
यदि मद्वचने भक्तिस्तदा मुक्तो भवेन्नरः ॥”
इति मृत्युञ्जयतन्त्रम् ॥
(ज्वरनाशकौषधविशेषः । तद्यथा, --
“अव्यक्तः सिद्धिदः शुद्धो रोगघ्नः कीर्त्तिवर्द्धनः ।
यशःप्रदः शिवः साक्षात् मत्युञ्जयरसः स्मृतः ॥
विषस्यैकस्तथा भागो मरीचं पिप्पली कणा ।
गन्धकस्य तथा भागो भागः स्याट्टङ्गणस्य वै ॥
सर्व्वत्र समभागः स्याद्धिङ्गुलन्तु द्विभागकम् ।
चूर्णयेत् खल्लमध्ये तु मुद्गमानां वटीञ्चरेत् ॥
रसश्चेत् समभागः स्याद्धिङ्गुलं नेष्यते तदा ।
मृत्युरूपं ज्वरं हन्ति मृत्युञ्जयरसः स्मृतः ॥
मृत्युर्विनिर्जितो यस्मात्तस्मान्मृत्युञ्जयः स्मृतः ।
मधुना लेहनं प्रोक्तं सर्व्वज्वरनिवृत्तये ॥
दध्योदकानुपानेन वातज्वरनिवर्हणः ।
आर्द्रकस्य रसैः पानं दारुणे सान्निपातिके ॥
जम्बीररसयोगेन सर्व्वज्वरविनाशनः ।
अजाजीगुडसंयुक्तो विषमज्वरनाशनः ॥
तीव्रज्वरे महाघोरे पुरुषे यौवनान्विते ।
पूर्णमात्रा प्रदातव्या पूर्णं वटीचतुष्टयम् ॥
स्त्रीबालवृद्धक्षीणे च अर्द्धमात्राः प्रकीर्त्तिताः ।
नवज्वरे महाघोरे यामैकान्नाशयेद्ध्रुवम् ॥
मध्यज्वरे तथाजीर्णे त्रिरात्रान्नाशयेद्ध्रुवम् ।
सप्ताहात् सन्निपातोत्थं ज्वराजीर्णकसंज्ञ-
कम् ॥”
इति मृत्युञ्जयो रसः ॥ इति वैद्यकरसेन्द्रसार-
संग्रहे ज्वराधिकारे ॥ क्ली, ज्ञानविशेषः । यथा,
ब्रह्मवैवर्त्तपुराणे प्रकृतिखण्डे । ४६ । ९५ ।
“शम्भुश्च चतुरो वेदान् वेदाङ्गानितरांस्तथा ।
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ॥”)

मृत्युनाशकः, पुं, (नाशयतीति । नश् + णिच् +

ण्वुल् । मृत्योर्नाशकः ।) पारदः । इति राज-
निर्घण्टः ॥ मरणहारके, त्रि ॥

मृत्युपुष्पः, पुं, (मृत्यवे निजनाशाय पुष्पमस्य । सति

पुष्पोद्गमे अस्य नाशात्तथात्वम् ।) इक्षुः । इति
रत्नमाला ॥

मृत्युफलः, पुं, (मृत्यवे स्वनाशाय फलमस्य ।) महा-

कालफलम् । इति मेदिनी । ले, १६२ ॥

मृत्युफला, स्त्री, (मृत्यवे फलमस्याः ।) कदली ।

इति मेदिनी । ले, १६२ ॥ (कदलीशब्देऽस्या
विवरणं ज्ञातव्यम् ॥)

मृत्युबीजः, पुं, (मृत्यवे स्वनाशाय बीजमस्य ।)

वंशः । इति त्रिकाण्डशेषः ॥

मृत्युभङ्गुरकः, पुं, मरणकालवादनीयपटहः । यथा,

“भवरुत् प्रेतपटहो मृत्युभङ्गुरकश्च सः ।”
इति त्रिकाण्डशेषः ॥

मृत्युभृत्यः, पुं, (मृत्योर्भृत्यः किङ्कर इव । मरण-

हेतुत्वात् ।) रोगः । इति राजनिर्घण्टः ॥

मृत्युवञ्चनः, पुं, (मृत्युं वञ्चयतीति । वञ्चि + ल्युः ।)

शिवः । विल्ववृक्षः । दण्डकाकः । इति मेदिनी ।
ने, २४५ ॥

मृत्युसूतिः, स्त्री, मृत्यवे सूतिः प्रसवो यस्याः सा ।

कर्कटी । यथा, --
“यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः ।”
इति महाभारते विराटपर्व्व ॥

मृत्सा, स्त्री, (प्रशस्ता मृत् इति । मृत् + “सस्नौ

प्रशंसायाम् ।” ५ । ४ । ४० । इति सः । टाप् ।)
प्रशस्तमृत्तिका । इत्यमरः । २ । १ । ४ ॥

मृत्स्ना, स्त्री, (प्रशस्ता मृत् इति । मृत् + स्नः ।

टाप् ।) प्रशस्तमृत्तिका । (यथा, श्रीमद्भागवते ।
८ । ६ । १० ।
“त्वमादिरन्तो जगतोऽस्य मध्यम्
घटस्य मृत्स्नेव परः परस्मात् ॥”)
काक्षी । इत्यमरः । २ । १ । ४ ॥ (अस्याः पर्य्यायो
यथा, --
“सौराष्ट्री पार्व्वती मृत्स्ना काक्षी च पङ्क-
पर्पटी ।”
इति वैद्यकरत्नमालायाम् ॥)

मृत्स्नाभाण्डकः, पुं, (मृत्स्नानिर्म्मितं भाण्डम् ।

ततः कन् । अभिधानात् पुंस्त्वम् ।) भाण्डविशेषः ।
तत्पर्य्यायः । मुष्टिका २ । इति त्रिकाण्डशेषः ॥

मृद, ग क्षुदि । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-सक०-सेट् ।) ग, मृद्नाति ममर्द । क्षुदि
चूर्णीकरणे । इति दुर्गादासः ॥

मृद्, [त्] स्त्री, (मृद्यते चूर्णीक्रियते इति । मृद् +

कर्म्मणि क्विप् ।) मृत् । मृत्तिका । इत्यमरः ।
२ । १ । ४ ॥ (यथा, मनौ । ४ । ३९ ।
“मृदं गां दैवतं विप्रं घृतं मधुचतुष्पथम् ॥”)

मृदङ्कुरः, पुं, हारीतपक्षी । इति हेमचन्द्रः ।

४ । ४०७ ॥

मृदङ्गः, पुं, (मृद्यते आहन्यते असौ इति । मृद् +

“विडादिभ्यः कित् ।” उणा० १ । १२० । इति
अङ्गच् । सच कित् । यद्वा, मृत् अङ्गमस्येत्यमर-
टीकायां रघुनाथः ।) स्वनामख्यातवाद्यम् ।
तत्पर्य्यायः । मुरजः २ । इत्यमरः । १ । ७ । ५ ॥
(यथा, शिशुपालवधे । ११ । २ ।
“रजनिविरतिशंसी कामिनीनां भविष्यद्-
विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥”)
पटहः । घोषः । इति मेदिनी । गे, ४७ ॥
वंशः । इति शब्दमाला ॥ (मृदङ्गादेर्मङ्गल-
जनकत्वमाह स्मृतिः ।
“रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् ।
गुरूनग्निं तथा सूर्य्यं प्रातः पश्येत् सदा बुधः ॥”)
अथ मृदङ्गादिविवरणम् ।
“मर्द्दलः खादिरः श्रेष्ठो हीनः स्यादन्यदारुजः ।
रक्तचन्दनजो वाद्यो गभीरध्वनिरुच्चकैः ॥
सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते ।
त्रयोदशाङ्गुलं वाममथवा द्वादशाङ्गुलम् ॥
दक्षिणञ्च भवेद्धीनमेकेनार्द्धाङ्गुलेन वा ।
करणानद्धवदनो मध्ये चैव पृथुर्भवेत् ॥
षण्मासीयो भवेद्वस्तस्तच्चर्म्मकरणं मतम् ।
मृत्तिकानिर्म्मितश्चैव मृदङ्गः परिकीर्त्तितः ॥
पातयेत् खरलिं वाद्यवादनार्थञ्च मर्दले ।
विभूतिर्गैरिकं भक्तं केन्दुकेन च संयुतम् ॥
यद्बा चिपीटकं देयं जीवनीसत्त्वमिश्रितम् ।
सर्व्वमेफत्र पिष्टन्तल्लेपः खरलिरुच्यते ॥
वामास्ये पूरिकां कृत्वा लेपं दद्याच्च दक्षिणे ।
एवं मर्द्दलकः प्रोक्तः सर्व्ववाद्योत्तमो मतः ॥
अस्य संयोगमासाद्य सर्व्वं वाद्यञ्च शोभते ।
एतदङ्गे बीजकाष्ठे दलमर्द्धाङ्गुलं विदुः ॥ * ॥
तधि धोतेमिति ज्ञेयाः पाढवर्णा मृदङ्गजाः ।
थों दं ढें धिक्वटस्तद्धी ताकं दं दं थोगं धिधि ॥
खर्झझिं नं गटं दं था कुटपाटा मता अमी ।
तथिं थोंढें तक्कधी दों दं दं धिग्णां ततं तधि ॥
तक्क तं धं धि दों ताधि पाढखण्डे त्वयं क्रमः ।”
तथा च यतिमाने पाढखण्डः । द्रगतथेजां
द्रगतथेजां धो धो धिकता धिका थोजां थोजां
तक तता धिका थोता द्रग तता धि धि धिधि
कड ताकड नाथोधिक थोजां धोताद्रगत
ताद्रगत ताद्रगत ताधि । इति यतिमाने पाढ
खण्डः ॥ * ॥
“यतिरोढोऽप्यवच्छेदो गजरो रूपकं ध्रुवम् ।
गलपः सारिगोणी च नादश्च कथितं तथा ।
प्रहरणं वृन्दनञ्च प्रबन्धा द्बादश स्मृताः ॥”
यथा । दं थात इत्येकताल्यां यतिः ॥ * ॥
ओढवाद्यं यथा । दां तथो तधिक तधिक दं
थादं था थोधि थोधि तत्त तत्तथ विथ विदिश्यां
दिश्यां टटु न कि टटु नकि तद टङ्ग तद टङ्ग
खवटङ्ग खवटङ्ग तगि नगि तगि नगि दां दां
दं दं दीं दीं दं ता तथा । इत्योढवाद्यम् ॥ * ॥
अवच्छेदवाद्यं यथा । दं थातः दं थातः धिक्कि
धिक्कि दिगणं दं थातः । इत्यवच्छेदवाद्यम् ॥ * ॥
गजरवाद्यं यथा । थोक टेञ नेञ ढें डें गथो
गथोङ्क टेङ्क थोगतकि धिक तकि धिक टेङ्कन
धि धि कट तक थोक तधिकट तक्कक तथोग
तद्धीम् । इत्येकताल्यां गजरः ॥ * ॥ रूपक-
वाद्यं यथा । तकधिक् तकधिक्क थवितकि थवि-
तक्कि धिक्क दं थातः । इति रूपकवाद्यम् ॥ * ॥
ध्रुवकवाद्यं यथा । तक्क तक्कट धिक्क धिक्कट ।
इति निसारताले ध्रुवकः ॥ * ॥ गलपो यथा ।
तधिद्धि धिक तक तधि गलगं था था दें तथा
ढञन । इत्येकताल्यां गलपः ॥ * ॥ सारिगोणी
यथा । थोङ्गटेञ तक्क धिक्क तकधिक् तकथो
हटङ्गन हटङ्गन थोगक्क थोः । इति प्रथम-
खण्डः ॥ * ॥ टेञ थोः धि खोहः टेञ टेञ
पृष्ठ ३/७७४
दक्क तगदक्क धिक्क तदिदक्क दं गदं गखो
गखोक तक तक धिक तधिक् तधो ढेञ धोटेञ
धटे गल खोगगल खोग खोहट गें टगें खोह-
टञ । इत्यस्य छन्दनम् । इति सारिगोणी ॥
नादो यथा, --
“दांकारत्रितयं पूर्ब्बं दां धिगिति ततस्त्रयम् ।
दां दां धिकत्रयं यत्र इति नादः शचीप्रियः ॥”
इति नादः ॥
“द्रुतं मानसमारब्धं शुद्धं कूटविनिर्म्मितम् ।
सप्तषण्डमयं वाद्यं कथितं तदिहोच्यते ॥” * ॥
द्रुतमानत्वात् प्रतिताले यथा । तत्तत तत्तत
तक्कि तक्कि दिदं धिगनथो धिगनथो धिक्क
धिक् धिक्क धिक्क धिक नगि नगमि थो थो धि
धि धिः दां दां धिक्क थो थो हथो हनञि
थो नञिथो थोह थोह डेढि डेढि थोह थोह
तटि तटि तटुक गीं गीं धगि धगि तत तधे
तत तधे ततत गिङी ञङी थोग थोग थों
थोगग थोगथो तत्ततो ।
“इति सप्तपदान्याहुः कथितं वाद्यपण्डिताः ।
प्रतितालेन तालेन पादवर्णसमासतः ॥
गन्धर्व्वपतिना पूर्ब्बमुर्व्वशीलास्यनर्त्तने ।
सुधर्म्मारञ्जनार्थञ्च कथितं प्रकटीकृतम् ॥”
प्रहरणं यथा । थोगक्का तद्धिका थाग कट
गगों दं थोग दिद्धिक धिक्क धिकटेञ । इत्येक-
ताल्यां प्रहरणम् ॥ * ॥
“वाद्यं विमुच्यते येन छन्दनं तन्निगद्यते ।”
यथा, तद्धिथो दिञ टेञ तन्नः । इति छन्दनम् ॥ * ॥
मर्द्दलस्त्रयोदशाङ्गुलवाममुखो द्वादशाङ्गुल-
दक्षिणमुखः । मुरजस्त्वष्टादशाङ्गुलवाममुखः
सप्तदशाङ्गुलदक्षिणमुखः मर्द्दलमुरजयोरयं
भेदः । इति सङ्गीतदामोदरः ॥

मृदङ्गफलः, पुं, (मृदङ्गस्तदाकृति फलमस्य ।)

पनसवृक्षः । इति शब्दरत्नावली ॥

मृदङ्गफलिनी, स्त्री, (मृदङ्गवत् फलमस्त्यस्याः । इनिः

ङीप् च ।) कोषातकी । इति राजनिर्घण्टः ॥
(विषयोऽस्याः कोषातकीशब्दे ज्ञेयः ॥)

मृदङ्गी, स्त्री, (मृदङ्गः तदाकारफलमस्त्यस्या

इति । मृदङ्ग + अर्शआद्यच् ङीष् च ।)
घोषातकी । इति रत्नमाला ॥ श्वेतघोषा इति
भाषा ॥

मृदा, स्त्री, (मृद् + टाप् ।) मृत्तिका । इति

द्विरूपकोषः ॥

मृदाकरः, पुं, वज्रम् । इति शब्दमाला ॥

मृदितः, त्रि, मृदधातोः कर्म्मणि क्तः । चूर्णी-

कृतः । (यथा, --
“क्षिप्त्वोष्णतोये मृदितः फाण्ट इत्यभिधीयते ॥”
इति वैद्यकपरिभाषायाम् ॥)

मृदिनी, स्त्री, (मृद् + भावे कः । मृदः चूर्णी-

करणमस्त्यस्याः । मृद + इनिः । स्त्रियां ङीप् ।)
प्रशस्तमृत्तिका । इति शब्दचन्द्रिका ॥

मृदुः, त्रि, (म्रद्यते म्रदितुं शक्यते इति । म्रद् +

“प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ।”
उणा० १ । २९ । इति कुः ।) अतीक्ष्णः ।
कोमलः । इत्यमरः । ३ । १ । ७८ ॥ (यथा, --
“मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
गृहकन्यायां स्त्री । इति राजनिर्घण्टः ॥ (पुं,
नृपञ्जयराजपुत्त्रः । इति विष्णुपुराणे । ४ ।
२१ । ३ ॥)

मृदुकृष्णायसं, क्ली, (मृदु च तत् कृष्णायसं चेति ।)

सीसकम् । इति राजनिर्घण्टः ॥

मृदुगणः, पुं, (मृदूनां गणः ।) चित्रानुराधा-

मृगशिरोरेवतीनक्षत्राणि । यथा । चित्रामित्र
मृगान्त्यभं मृदुगणः । इति ज्योतिस्तत्त्वम् ॥

मृदुगमना, स्त्री, (मृदु गमनमस्याः ।) हंसी । इति

राजनिर्घण्टः ॥ मन्दगमना स्त्री चं ॥

मृदुचर्म्मी, [न्] पुं, (मृदु कोमलं चर्म्म त्वक् ।

तदस्त्यस्य । चर्म्म + “ब्रीह्यादिभ्यश्च ।” ५ । २ । १२ ।
इति इनिः ।) भूर्ज्जवृक्षः । इति राजनिर्घण्टः ॥
कोमलत्वग्विशिष्टे, त्रि ॥

मृदुच्छदः, पुं, (मृदुः छदः पत्रमस्य ।) भूर्जवृक्षः ।

इति हेमचन्द्रः । ४ । २१० ॥ गिरिजपीलुवृक्षः ।
इति जटाधरः ॥ कुक्कुरद्रुः । श्रीतालः । इति
राजनिर्घण्टः ॥

मृदुता, स्त्री, (मृदु + तल् + टाप् ।) मृदुत्वम् ।

मृदोर्भावः । इति व्याकरणम् ॥ (यथा, रघौ ।
५ । ५४ ॥
“स चानुनीतः प्रणतेन पश्चात्
मया महर्षिर्मृदुतामगच्छत् ॥”)

मृदुतालः, पुं, (मृदूनि तालफलान्यस्य ।) श्रीताल-

वृक्षः । इति राजनिर्घण्टः ॥ कोमलतालश्च ॥

मृदुत्वक्, [च्] पुं, भूर्ज्जवृक्षः । इत्यमरः । २ । ४ । ४६ ॥

मृदवस्त्वचोऽस्य मृदुत्वक् चान्तः ।
भूर्ज्जोऽथ भूर्जपत्रः स्यात् मृदुत्वक् पत्रपुष्पकः ।
इति कोषान्तरमिति मधुः । अदन्तनपुंसकत्वच-
शब्देन आबन्तत्वचाशब्देन वा विग्रहे मृदु-
त्वचोऽदन्तोऽपि भूर्जो भुजो बहुपटो बहुत्वक्को
मृदुत्वचः । इति स्वामी । इत्यमरटीकायां
भरतः ॥

मृदुत्वचः, पुं, भूर्ज्जवृक्षः । इत्यमरः । २ । ४ । ४६ ॥

मृदवस्त्वचोऽस्य मृदुत्वक् चान्तः ।
भूर्ज्जोऽथ भूर्जपत्रः स्यात् मृदुत्वक् पत्रपुष्पकः ।
इति कोषान्तरमिति मधुः । अदन्तनपुंसकत्वच-
शब्देन आबन्तत्वचाशब्देन वा विग्रहे मृदु-
त्वचोऽदन्तोऽपि भूर्जो भुजो बहुपटो बहुत्वक्को
मृदुत्वचः । इति स्वामी । इत्यमरटीकायां
भरतः ॥

मृदुन्नकं, क्ली, (मृदा मृत्परिणामेन उत् ऊर्द्ध्वं

नीयते यत् इति । उत् + नी + डप्रकरणे
“अन्येष्वपि दृश्यते ।” ३ । २ । ४८ । इत्यत्र
काशिकोक्त्या डः । ततः स्वार्थे कन् ।) सुवर्णम् ।
इति शब्दचन्द्रिका ॥

मृदुपत्रः, पुं, (मृदूनि पत्राण्यस्य ।) नलः । इति

राजनिर्घण्टः ॥ कोमलपर्णे, क्ली । तद्वति, त्रि ॥

मृदुपत्री, स्त्री, (मृदूनि पत्राणि यस्याः ।) चिल्ली-

शाकम् । इति राजनिर्घण्टः ॥

मृदुपर्व्वकः, पुं, (मृदूनि पर्व्वाण्यस्य कप् ।)

वेत्रः । इति राजनिर्घण्टः ॥ कोमलपर्व्वविशिष्टे,
त्रि ॥

मृदुपुष्पः, पुं, (मृदूनि कोमलानि पुष्पाण्यस्य ।)

शिरीषवृक्षः । इति रत्नमाला ॥ कोमलकुसुम-
युक्ते, त्रि ॥

मृदुफलः, पुं, (मृदूनि फलान्यस्य ।) विकङ्कतः ।

मधुनालिकेरिकः । विकण्टकवृक्षः । इति राज-
निर्घण्टः ॥ कोमलफलवति, त्रि ॥

मृदुलं, क्ली, (मृदु मृदुत्वमस्त्यस्य । मृदु + “सिध्मा-

दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) जलम् ।
इति शब्दचन्द्रिका ॥ कोमले, त्रि । इत्यमरः ।
३ । १ । ७८ ॥ (यथा, शिशुपालवधे । ६ । २ ।
“मृदुलतान्तलतान्तमलोकयत्
स सुरभिं सुरभिं सुमनोभरैः ॥”)

मृदुलोमकः, पुं, (मृदूनि स्पर्शसुखानि लोमानि

यस्य सः । स्वार्थे कन् ।) शशकः । इति
हेमचन्द्रः । ४ । ३६१ ॥ कोमलरोमविशिष्टे,
त्रि ॥

मृदूत्पलं, क्ली, (मृदु कोमलं उत्पलम् ।) नील-

पद्मम् । इति शब्दचन्द्रिका ॥

मृद्गः, पुं, (मृदं पङ्कं गच्छति कारणत्वेन प्राप्नो-

तीति । गम् + डः ।) मत्स्यभेदः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

मृद्वङ्गं, क्ली, (मृदु कोमलं अङ्गं यस्य ।) वङ्गम् ।

इति हेमचन्द्रः ॥ (मृदु च तदङ्गञ्चेति ।)
कोमलावयवश्च ॥

मृद्वी, स्त्री, (मृदु + “वोतोगुणवचनात् ।” ४ । १ ।

४४ । इति ङीष् ।) कोमलाङ्गी । इति मुग्ध-
बोधव्याकरणम् ॥ अपि च ।
“सद्यः पुरीपरिसरेषु शिरीषमृद्बी
सीता जवात्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा
रामाश्रुणः कृतवती प्रथमावतारम् ॥”
इति महानाटकम् ॥
कपिलद्राक्षा । इति राजनिर्घण्टः ॥

मृद्वीका, स्त्री, (मृदु + बाहुलकात् ईकन् टाप्

च ।) द्राक्षा । इत्यमरः । २ । ४ । १०७ ॥
(यथा, बृहत्संहितायाम् । ५५ । १० ।
“जम्बूवेतसवाणीरकदम्बोदुम्बरार्ज्जुनाः ।
बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥”)
कपिलद्राक्षा । इति राजनिर्घण्टः ॥

मृध, उ ञ क्लिदि । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सेट् । क्त्वावेट् ।) उ, मर्द्धित्वा
मृद्ध्वा । ञ, मर्धति मर्धते । क्लिदि आर्द्रीभावे ।
इति दुर्गादासः ॥

मृधं, क्ली, (मर्धते क्लिद्यतीति । मृध् + कः ।)

युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा,
हरिवंशे । १८२ । १ ।
“अपयाते ततो देवे कृष्णे चैव महात्मनि ।
पुनश्चावर्त्तत मृधं परेषां लोमहर्षणम् ॥”)

मृधा, व्य, मृषा । इत्यमरटीकासारसुन्दरी ॥

मृन्मरुः, पुं, (मृत्सु मरुः ।) पाषाणः । इति

त्रिकाण्डशेषः ॥

मृश, श औ मृशि । इति कविकल्पद्रुमः ॥

(तुदा०-पर० सक०-अनिट् ।) श, मृशति । औ,
अमार्क्षीत् अम्राक्षीत् अमृक्षत् । मृशि इति
तालव्यान्तस्यैव क्विपि रूपम् । तेन अनि-
पृष्ठ ३/७७५
र्दि ष्टार्थत्वात् स्पर्शनं प्रणिधानञ्च अस्यार्थः ।
स्पर्शने । यथा, रघौ । ३ । ६८ ।
“परामृशन् हर्षजडेन पाणिना
तदीयमङ्गं कुलिशव्रणाङ्कितम् ।”
प्रणिधाने ।
“रामप्रवासे व्यमृशन्न दोषं
जनापवादं सनरेन्द्रमृत्युम् ।”
केकयीति भट्टिः । ३ । ७ ॥
विमर्शं परामर्शः । मृषि इति मूर्द्धन्यान्तपाठो
हेयः । तर्हि क्षमैवार्थः स्यात् । इति दुर्गा-
दासः ॥

मृष, त् क क्षान्तौ । इति कविकल्पद्रुमः ॥

(अदन्त चुरा०-पर०-सक०-सेट् ।
अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।)
मूर्द्धन्योपधौ । क, मृषयति । ञ, मृषति मृषते ।
इति दुर्गादासः ॥

मृष, त् ञ क्षान्तौ । इति कविकल्पद्रुमः ॥

(अदन्त चुरा०-पर०-सक०-सेट् ।
अन्यत्र, अदन्त भ्वा०-उभ०-सक०-सेट् ।)
मूर्द्धन्योपधौ । क, मृषयति । ञ, मृषति मृषते ।
इति दुर्गादासः ॥

मृष, उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् । क्त्वावेट् ।) उ, मर्षित्वा
मृष्ट्वा । इति दुर्गादासः ॥

मृष, क क्षान्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, मर्षयति । अयमात्मने-
पदीत्येके । इति दुर्गादासः ॥

मृष, ञ ङ उ क्षान्तौ । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-आत्म०-च-सक०-सेट् । क्त्वावेट् ।)
ञ, मर्षति मर्षते । ङ, मर्षते । उ, मर्षित्वा
मृष्ट्वा । अपि गुरुमपराधं मर्षति ब्राह्मणाना-
मिति हलायुधः । इति दुर्गादासः ॥

मृष, य ञ क्षान्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-

उभ०-सक०-सेट् ।) य ञ्, मृष्यति मृष्यते ममर्ष ।
इति दुर्गादासः ॥

मृषा, व्य, (मृष्यत इति । मृष् + का ।) मिथ्या ।

इत्यमरः । ३ । ४ । १५ ॥ (यथा, नैषधचरिते । १ । ६८ ।
“मृषामृधं सादिबले कुतूहला-
न्नलस्य नासीरगते वितेनतुः ॥”)
वृथा । इति तट्टीकासारसुन्दरी ॥

मृषार्थकं, क्ली, (मृषा अर्थोऽस्य । बहुब्रीहौ कप् ।)

अत्यन्तासम्भवार्थबाक्यम् । तत्पर्य्यायः । आह-
तम् २ । इत्यमरः । १ । ६ । २१ । अत्यन्ता-
सम्भवार्थे वचसि । आहन्यते स्म आहतं क्तः ।
मृषा मिथ्या अर्थोऽस्य मृषार्थकं इह मृषार्थं
यत् सर्व्वथा न घटते । यथा, --
“एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ।
कूर्म्मलोमतनूत्राणः शशशृङ्गधनुर्द्धर इति ॥
यावज्जीवमहं मौनी ब्रह्मचारी पिता ममेति ।
अस्य चायं भेदः मौनित्वं ब्रह्मचारित्वं अन्यत्र
सिद्धमेव बन्ध्यासुतत्वं खपुष्पत्वञ्चान्यत्रासिद्ध-
मिति । इति भरतः ॥

मृषाध्यायी, [न्] पुं, (मृषा ध्यायति चिन्तयतीति ।

ध्यै + णिनिः ।) वकः । यथा, --
“कङ्को वको वकोटश्च तीर्थसेवी च तापसः ।
मीनघाती मृषाध्यायी निश्चलाङ्गश्च दाम्भिकः ॥”
इति राजनिर्घण्टः ॥

मृषालकः, पुं, (मृषा मिथ्या अचिरस्थायित्वेन

मुकुलोद्गमकाल एवेत्यर्थः । अलं अलङ्करणं
कायति प्रकाशयतीति । कै + कः ।) आम्र-
वृक्षः । इति शब्दचन्द्रिका ॥

मृषावादः, पुं, (मृषा मिथ्या वादः कथनम् ।)

मिथ्यावाक्यम् । तत्पर्य्यायः । चट्टरी २ । इति
जटाधरः ॥ (यथा, महाभारते । ३ । १८८ । ३३ ।
“बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ! ।
मृषानुशालिनः पापाः मृषावादपरायणाः ॥”)

मृषावादी, [न्] त्रि, (मृषा वदतीति । वद् +

णिनिः ।) मिथ्यावादकः । तत्पर्य्यायः । मृषोद्यः ।
इति शब्दमाला ॥ मिथ्याभियोक्ता, च ॥

मृषोद्यं, क्ली, (मृषा + वद् + “राजसूयसूर्य्यमृषोद्य-

रुच्यकुप्यकृष्टपच्याव्यथ्याः ।” ३ । १ । ११४ । इति
कर्म्मणि क्यप् । निपातितश्च ।) मिथ्यावाक्यम् ।
इति मुग्धबोधव्याकरणम् ॥ (यथा, भट्टिकाव्ये ।
५ । ६० ।
“मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः ॥”)

मृषोद्यः, त्रि, मिथ्यावादी । इति शब्दमाला ॥

मृष्टं, क्ली, (मृज + क्तः ।) मरिचम् । इति राज-

निर्घण्टः ॥

मृष्टः, त्रि, (मृज + क्त ।) शोधितम् । इत्यमरः ।

३ । ४ । ५६ ॥ (यथा, बृहत्संहितायाम् । ८५ । ९ ।
“अशुभकरमतोऽन्यथाप्रदिष्टं
स्थितपतितं च करोति मृष्टमन्नम् ॥”)

मृष्टेरुकः, पुं, वदान्यः । मिष्टाशी । अतिथिद्बिट् ।

इति मेदिनी । के, २०९ ॥

मॄ, गि वधे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-

सक०-सेट् ।) गि, मृणाति । मूर्णः । मूर्त्तिः ।
इति दुर्गादासः ॥

मे, ङ प्रतीदाने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-अनिट् ।) प्रतीदानं परिवर्त्तः ।
ङ, मयते धान्येन माषं लोकः । इति दुर्गादासः ॥

मे, त्रि, मह्यम् । आमाके इति भाषा । मम

आमार इतिभाषा । एते अस्मच्छब्दस्य चतुर्थी-
षष्ठ्येकवचनाभ्यां निष्पन्ने । इति व्याकरणम् ॥

मेकः, पुं, (मे इति कायति शब्दं करोतीति ।

कै शब्दे + कः ।) छागः । इति राजनिर्घण्टः ॥

मेक(ख)लकन्यका, स्त्री, (मेक(ख)लः मेखलायुक्तः

बिन्ध्यपर्व्वतः तस्य कन्यका । तस्य नितम्बदेशात्
निःसृतेत्यर्थः ।) नर्म्मदानदी । इत्यमरः । १ ।
१० । ३२ ॥

मेक(ख)लाद्रिजा, स्त्री, (मेक(ख)लात् नितम्बदेशोप-

लक्षितात् अद्रेर्जाता । जन + डः + स्त्रियां
टाप् ।) नर्म्मदानदी । यथा, --
“रेवेन्दुजा पूर्ब्बगङ्गा नर्म्मदा मेकलाद्रिजा ।”
इति हेमचन्द्रः ॥

मेक्षणं, क्ली, यज्ञीयपात्रविशेषः । (यथा, आश्व-

लायनश्रौतसूत्रे । २ । ६ । १२ ।
“मेक्षणेनादायावदानसम्पदा जुहुयात् ॥”)
यथा, मेक्षणादीनाह छन्दोगपरिशिष्टम् ।
“इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् ।
वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम् ॥”
इध्मार्द्धप्रमाणम् ।
प्रादेशद्बयमिध्मस्य प्रमाणं परिकल्पितमिति ।
तदर्द्धम् । एषैव दर्व्वी । विशेषस्तु महास्रुवे ।
“दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयेण तु मेक्षणम् ।
मुषलोदूखले वार्क्षे स्वायते सुदृढे तथा ॥”
इति संस्कारतत्त्वम् ॥

मेखला, स्त्री, (मीयते प्रक्षिप्यते कायमध्यभागे

इति । मि + संज्ञायां खलः गुणश्च स्त्रियां टाप् ।
इत्यमरटीकायां भरतमतम् ।) स्त्रीकट्याभ-
रणम् । चन्द्रहार गोट् इत्यादि भाषा ॥
(यथा, रघुवंशे । ८ । ६४ ।
“असमाप्य विलासमेखलां
किमिदं किन्नरकण्ठि ! सुप्यते ॥”)
तत्पर्य्यायः । काञ्ची २ सप्तकी ३ रसना ४
सारसनम् ५ । इत्यमरः । २ । ६ । १०८ ॥ काञ्चिः ६
रशना ७ कक्षा ८ रसनम् ९ रशनम् १०
कक्ष्या ११ सप्तका १२ सारशनम् १३ । इति
शब्दरत्नावली ॥ कलापः १४ । इति जटाधरः ॥
सारसनं स्त्रीकट्यां वस्त्रग्रन्थनम् । इति स्वामी ॥
केचित्तु ।
“एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका ।
रसना षोडश ज्ञेया कलापः पञ्चविंशकः ॥”
इति पठन्ति । इह त्वभेदात् पर्य्यायता । इति
भरतः ॥ खड्गादिनिबन्धनम् । इत्यमरः । २ ।
८ । ९० ॥ शिक्कनिका । चर्म्मरज्वादि । मुष्टि-
दार्ढ्यार्थं उपर्य्यधो लौहबन्धः । इत्येके । इत्यपि
भरतः ॥ * ॥ शैलनितम्बः । इति मेदिनी । ले,
१२५ ॥ नर्म्मदानदी । इति शब्दरत्नावली ॥
पृश्निपर्णी । इति राजनिर्घण्टः ॥ * ॥ उपनयन-
काले धारणीयमुञ्जनिर्म्मितसूत्रत्रयम् । यथा ।
अथैनं माणवकमाचार्य्यस्त्रिः प्रदक्षिणं त्रिवृत्त-
मुञ्जमेखलां परिधापयन् मन्त्रद्वयं वाचयति ।
इति भवदेवभट्टः ॥ अपि च । गोभिलः । मुञ्ज-
काशतासून्यो रसनाः । मुञ्जः शरः । तासूनः
शणस्तद्भवा तासूनी । रसना मेखला । तथा च
मनुः ।
“मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य
मेखला ।
क्षत्त्रियस्य च मौर्व्वीया वैश्यस्य शणतान्तवी ॥
मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकवल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥”
इति संस्कारतत्त्वम् ॥
अन्यच्च ।
“गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ।
दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ॥
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य
मेखला ।
मौञ्ज्यभावे कुशेनाहुर्ग्रन्थिनैकेन च त्रिभिः ॥”
इति कौर्म्म्ये उपविभागे ११ अध्यायः ॥
होमकुण्डोपरिमृद्घटितवेष्टनविशेषः । यथा,
वशिष्ठपञ्चरात्रे ।
पृष्ठ ३/७७६
“यावान् कुण्डस्य विस्तारः खननं तावदिष्यते ।
हस्तैके मेखलास्तिस्रो वेदाग्निनयनाङ्गुलाः ॥
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः ।
चतुर्हस्ते तु कुण्डे ता वसुतर्कयुगाङ्गुलाः ॥”
मेखला ब्रह्मचारिमेखलावत् कुण्डवेष्टिता मृद्-
घटिता ताश्च खातदेशाद्बाह्ये एकाङ्गुलिरूपं
कण्ठं परित्यज्य उच्छ्रायेण विस्तारेण चेत्यादि
क्रमेण वेदाद्यङ्गुलाः एतद्विपरीतास्तन्त्रान्तरोक्ता
व्यवहारविरुद्धाः । वेदाश्चत्वारः अग्नयस्त्रयः
नयने द्वे रसाः षट् गुणास्त्रयः । वसुतर्कयुगानि
अष्टषट्चत्वारि । पिङ्गलामतेऽपि । खाता-
देकाङ्गुलं त्यक्त्वा मेखलानां विधिर्भवेत् । इति
तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥ (यज्ञवेष्टन-
सूत्रम् । यथा, श्रीमद्भागवते । ४ । ५ । १५ ।
“रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।
कुण्डेष्वमूत्रयन् केचिद्विभिदुर्वेदिमेखलाः ॥”
“मेखलाः सीमासूत्राणि ।” इति तट्टीकायां
श्रीधरस्वामी ॥)

मेखलकन्यका, स्त्री, (मेखलस्य मेखलोपलक्षितस्य

बिन्ध्यगिरेः कन्यकेव प्रसूता ।) नर्म्मदानदी ।
इत्यमरटीकायां भरतः ॥

मेघः, पुं, (मेहतीति । मिह् + अच् । “न्यङ्क्वा-

दीनाञ्च ।” ७ । ३ । ५३ । इति कुत्वम् ।)
मुस्तकः । राक्षसः । इति शब्दरत्नावली ॥
स्वनामख्यातद्रव्यपदार्थः । मेहति सिञ्चति
यः । तत्पर्य्यायः । अब्भ्रम् २ वारिवाहः ३
स्तनयित्नुः ४ वलाहकः ५ धाराधरः ६ जल-
धरः ७ तडित्वान् ८ वारिदः ९ अम्बुभृत्
१० घनः ११ जीमूतः १२ मुदिरः १३ जलमुक्
१४ धूमयोनिः १५ । इत्यमरः । १ । ३ । ७ ॥
अभ्रम् १६ पयोधरः १७ अम्भोधरः १८
व्योमधूमः १९ घनाघनः २० वायुदारुः २१
नभश्चरः २२ कन्धरः २३ कन्धः २४ नीरदः २५
गगनध्वजः २६ वारिमुक् २७ वार्मुक् २८
वनमुक् २९ अब्दः ३० पर्ज्जन्यः ३१ नभोगजः
३२ मदयित्नुः ३३ कदः ३४ कन्दः ३५ गवेडुः
३६ गदामरः ३७ खतमालः ३८ वातरथः ३९
श्वेतनीलः ४० नागः ४१ जलकरङ्कः ४२
पेचकः ४३ भेकः ४४ दर्दुरः ४५ । इति शब्द-
रत्नावली ॥ अम्बुदः ४६ तोयदः ४७ अम्बुवाहः
४८ । इति रत्नमाला ॥ पाथोदः ४९ गदाम्बरः
५० गाडवः ५१ वारिमसिः ५२ । इति त्रिकाण्ड-
शेषः ॥ तद्वैदिकपर्य्यायाः । अद्रिः १ ग्रावा २
गोत्रः ३ बलः ४ अश्नः ५ पुरुभोजाः ६ वलि-
शानः ७ अश्मा ८ पर्व्वतः ९ गिरिः १० व्रजः
११ चरुः १२ वराहः १३ शम्बरः १४ रौहिणः
१५ रैवतः १६ फलिगः १७ उपरः १८ उपलः
१९ चममः २० अहिः २१ अभ्रम् २२ वलाहकः
२३ मेवः २४ दृतिः २५ ओदनः २६ वृषन्धिः
२७ वृत्रः २८ असुरः २९ कोशः ३० । इति
त्रिंशन्मेघनामानि । इति वेदनिघण्टौ । १ । १० ॥
(यथा, उत्तररामचरिते । २ ।
“मेघमालेव यश्चायमारादपि विभाव्यते ॥”)
मेघनायका यथा, --
“त्रियुते शाकवर्षे तु चतुर्भिः शोधिते क्रमात् ।
आवर्त्तं विद्धि सम्वर्त्तं पुष्करं द्रोणमम्बुदम् ॥”
एषां फलानि ।
“आवर्त्तो निर्जलो मेघः सम्वर्त्तश्च बहूदकः ।
पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
त्रेतायुगे तस्योत्पत्तिर्यथा, --
“अपां सिद्धे प्रतिगते तदा मेघाम्बुना तु वै ।
मेधेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्ज्जनम् ॥
सकृदेव तया वृष्ट्या संपृक्ते पृथिवीतले ।
प्रादुरासंस्तदा तासां वृक्षा वै गृहसङ्गिताः ॥
सर्व्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते ।
वर्त्तयिष्यन्ति ते स्वस्थास्त्रेतायुगमुखे प्रजाः ॥”
इति कौर्म्मे २६ अध्यायः ॥ * ॥
प्रलयकालीनमेघा यथा, --
“ततो गजकुलोन्नादास्तनितैः समलङ्कृताः ।
उत्तिष्ठन्ति सदा व्योम्नि घोराः सम्वर्त्तका
घनाः ॥
केचिन्नीलोत्पलश्यामाः केचित् कुसुमसन्निभाः ।
धूम्रवंर्णास्तथा केचित्तथा पीताः पयोधराः ॥
केचिद्रक्ताभ्रवर्णाश्च स्थूलाः क्षारनिभास्तथा ।
शङ्खकुन्दनिभाश्चान्ये जात्याञ्जननिभाः परे ॥
मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे ।
केचिद्रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः ॥
तथा कर्व्वूरवर्णाभा भिन्नाञ्जननिभास्तथा ।
इन्द्रगोपनिभाः केचित् हरितालनिभास्तथा ॥
काकाण्डकनिभाः केचिदुत्तिष्ठन्ति घना दिवि ।
केचित् पर्व्वतसङ्काशाः केचिद्गजकुलोपमाः ॥
कूटागारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।
बहुरूपा घोररूपा घोरस्वरनिनादिनः ।
तदा जलधराः सर्व्वे पूरयन्ति नभस्थलम् ॥
ततस्ते जलदा घोरा वारिणा भास्करात्मजाः ।
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥
ततस्ते जलदा वर्षं वर्षन्तीह महौघवत् ।
सुघोरमशिवं सर्ब्बं नाशयन्ति च पावकम् ॥
प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल ।
अद्भिस्तेजोऽंशभूतत्वात्तदाग्निं प्रविशत्यपि ॥
नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः ।
प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥
धाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा ।
उद्यन्तं सलिलौघैश्च वेला इव महोदधेः ॥
साद्रिद्बीपा तथा पृथ्वी जलैः संछाद्यते शनैः ।
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ॥
पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः ॥”
इति कौर्म्मे उपविभागे ४२ अध्यायः ॥ * ॥
मेघस्य उत्पत्तिर्यथा, --
“तेजो ह सर्व्वभूतेभ्य आदत्ते रश्मिभिर्जलम् ।
समुद्रात्त्वग्भसां योगाद्रश्मयः प्रवहन्त्यपः ॥
ततोऽयनवशात् काले परिवृत्तो दिवाकरः ।
नियच्छति पयो मेघे शुक्लाशुक्लैर्गभस्तिभिः ॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
सर्व्वभूतहितार्थाय वायुभूताः समन्ततः ॥
ततो वर्षति सोऽम्भांसि सर्व्वभूतविवृद्धये ।
वायव्यं स्तनितञ्चैव विद्युदग्निसमप्रभम् ॥
मेरुसानुमिहेत्यातो मेघत्वं व्यञ्जयन्ति च ।
भ्रमिष्यन्ति यथा चापस्तदन्तं कवयो विदुः ॥”
अपि च ।
“मेघानां पुनरुत्पत्तौ त्रिविधा योनिरुच्यते ।
अग्निजा ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः ।
त्रिधा त्रिधायनात्तेषां वक्ष्यामि वित्तसम्भवम् ॥
आग्नेयाः स्वन्नजाः प्रोक्तास्तेषां धूमः प्रवर्त्तनम् ।
जाता दुर्दिनवाताद्ये सगुणास्ते व्यवस्थिताः ॥
महिषाश्च वराहाश्च मत्तमातङ्गरूपिणः ।
भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च ॥
जीमूता नाम ते मेघा ये तेभ्यो जीवसम्भवाः ।
विद्युद्गुणविहीनाश्च जलधारावलम्बिनः ॥
मृदुसेका महाकाया आवहस्य च सानुगाः ।
क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः ।
पर्व्वताग्रनितम्बेषु वर्षन्ति विपिनेषु च ॥
बलाका गर्द्दभाश्चैव बलाकागर्भधारिणः ।
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः ॥
द्बितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ।
इतो योजनमात्राश्च सार्द्धार्द्धात् विकृतादपि ।
वृष्टिसर्गाद्दिवस्तेषां धारासाराः प्रकीर्त्तिताः ॥
शक्रेण पक्षा यच्छिन्नाः पर्व्वतानां महौजसाम् ।
कामगानां प्रवृत्तानां प्रजानां शिवमिच्छता ।
पुष्करावर्त्तकास्तने करणेनेह विश्रुताः ॥
नानारूपधराश्चैव महाघोरस्वनाश्च ते ।
कल्पान्तवृष्टेः स्रष्टारः सम्वर्त्ताग्नेर्नियामकाः ।
वर्षन्ति ते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः ॥
अनेकरूपसंस्थानाः पूरयन्तो महीं जलैः ।
वायुं परिवहन्ते स्युराश्रिताः कल्पसाधकाः ॥
योऽन्यस्याण्डस्य भिन्नस्य प्राकृतप्रभवस्तदा ॥
यस्माद्ब्रह्मा समुत्पन्नश्चतुर्व्वक्त्रः स्वयम्भुवः ।
तस्यैवाण्डस्य पाला हि सर्व्वे मेघाः प्रकीर्त्तिताः ॥
तेषामध्यायनं धूमः सर्व्वेषामविशेषतः ।
तेषां श्रेष्ठस्तु पर्ज्जन्यश्चत्वारश्चैव दिग्गजाः ॥
गजानां पर्व्वतानाञ्च मेघानां भोगिभिः सह ।
कुलमेकं पृथग्भूतं योनिस्त्वेका जलं स्मृतम् ॥
पर्ज्जन्यो दिग्गजाश्चैव हेमन्ते शीतसंभवाम् ।
तुषारवृष्टिं वर्षन्ति हिमशस्यविवृद्धये ॥”
इति ब्रह्माण्डे ५८ अध्यायः ॥ * ॥
षड्रागान्तर्गतरागविशेषः । यथा, --
“भैरवोऽथ वसन्तश्च नटो नारायणस्तथा ।
श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥”
तस्य रागिण्यो यथा, --
“ललिता मालसी गौडी नाटी देवकिरी तथा ।
मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥”
अयं हनूमन्मते षष्ठरागो ब्रह्मणो मस्तकात्
निर्गतः । आकाशाज्जात इति च वदन्ति ।
अस्य जातिः औडवः । अर्थात् ध न ष ऋ ग
इति पञ्चस्वरमिलितः । अस्य गृहं धैवतस्वरः ।
पृष्ठ ३/७७७
घर्षर्त्तौ रात्रिशेषे गानसमयः । अस्याकारः ।
सुन्दरपुरुषः । श्यामवर्णः । उष्णीषवद्वद्धकेशः ।
शाणितखड् गहस्तः । हनूमन्मते अस्य पञ्च-
रागिण्यो यथा । टङ्का १ मल्लारी २ गुर्ज्जरी ३
भूपाली ४ देशकारी च ५ । अस्याष्टपुत्त्रा
यथा । जालन्धरः १ सारः २ नटनारायणः ३
शङ्कराभरणः ४ कल्याणः ५ गजधरः ६
गान्धारः ७ सहाना ८ ॥ कलानाथमते । अस्य
रागिण्यः षट् यथा । वङ्गाली १ मधुरा २
कामोदा ३ धनाश्रीः ४ तीर्थकी ५ देवाली ६ ।
एतन्मतेऽपि अष्टौ पुत्त्राः किन्तु नटनारायण-
शङ्कराभरणकल्याणस्थाने केदारामारुजलभरता
ज्ञेयाः ॥ सोमेश्वरमते अस्य षड्रागिण्यो यथा ।
मल्लारी १ सौरटी २ सावेरी ३ कौशिकी ४
गान्धारी ५ हरशृङ्गारी ६ । एतन्मतेऽपि
पुत्त्राः पूर्ब्बवत् । रागिणीसहितस्यैतद्रागस्य
वर्षर्त्तौ गानसमयः ॥ भरतमते तस्य पञ्च
रागिण्यो यथा । मल्लारः १ मूलतानी २
देशी ३ रतिबल्लभा ४ कावेरी ५ । तनम्ते अष्टौ
पुत्त्रा यथा । कलायरः १ वागेश्वरी २ सहाना ३
पुरीया ४ कानरा ५ तिलकः ६ स्तम्भः ७
शङ्कराभरणः ८ । तन्मते अष्टपुत्त्राणां भार्य्या
यथा । करणाटी १ कादवी २ कदमनाटः ३
पाहारी ४ माँझः ५ परजः ६ नटमञ्जरी ७
शुद्धनटः ८ । इति सङ्गीतशास्त्रम् ॥

मेघकफः, पुं, (मेघानां कफ इव ।) करका ।

इति हारावली । ५८ ॥

मेघकालः, पुं, (मेघानां कालः समयः ।) वर्षर्त्तुः ।

इति जटाधरः ॥ (यथा, बृहत्संहितायाम् ।
९५ । ५८ ।
“स्थलसलिलचराणां व्यत्ययो मेघकाले ।
प्रचुरसलिलवृष्ट्यै शेषकाले भयाय ॥”)

मेघचिन्तकः, पुं, (चिन्तयतीति । चिन्ति + ण्वुल् ।

मेघानां चिन्तकः तस्यैव जलपायित्वात् ।)
चातकपक्षी । इति शब्दचन्द्रिका ॥ (मेघ-
चिन्तनविशिष्टे, त्रि ॥)

मेघजं, त्रि, मेघभववस्तु । मेघाज्जायते इति व्युत्-

पत्त्या जनधातोः डप्रत्ययेन निष्पन्नम् ॥

मेघजालं, क्ली, (मेघानां जालम् ।) अभ्रिग्रम् ।

इति शब्दचन्द्रिका ॥

मेघजीवनः, पुं, (मेघो जीवनं जीवनोपायो यस्य ।)

चातकपक्षी । इति राजनिर्घण्टः ॥

मेघज्योतिः, [स्] पुं, (मेघस्य ज्योतिरग्निर्मेघा-

दुत्पन्नो ज्योतिर्वा ।) वज्राग्निः । तत्पर्य्यायः ।
इरम्मदः २ । इत्यमरः । १ । ३ । १० ॥ मेघस्य ज्योति-
रग्निर्मेघज्योतिः । ज्योतिरग्नौ समाख्यातं
ज्योतिश्चन्द्रो निगद्यते । इति रन्तिः ॥ इरया
जलेन माद्यति दीप्यते इति इरग्मदः । मेघाग्निर्हि
जलेनैव दीप्यते । मदीभिर्यञि हर्षे तॄ भॄ वॄ दॄ
जीति खः खित्यव्याजिति मन्स्वौ । अन्योन्य-
संघट्टेन मेघान्निःसृत्य यज्ज्योतिर्वृक्षादौ पतति
स इरम्मदः । मेघ इत्युपलक्षणं तेन वातजो-
ऽपीरम्मदः सोऽपि हि इरया जलेन माद्यतीति
कौमुदी । मेघाग्न्यादिरिरम्मद इति शब्दार्णवः ।
इति तट्टीकायां भरतः ॥

मेघडम्बरः, पुं, मेघस्याडम्बरः । मेघगर्जनम् ।

यथा, --
“अजायुद्धे ऋषिश्राद्धे प्रभाते मेघडम्बरे ।
दम्पत्योः कलहे चैव बह्वारम्भे लघुक्रिया ॥”
इत्युद्भटः ॥

मेघतिमिरं, क्ली, (मेघेन तिमिरं अन्धकारो यत्र ।)

मेघाच्छन्नदिनम् । इति हलायुधः ॥

मेघदीपः, पुं, (मेघजनितो दीप इव ।) विद्युत् ।

इति शब्दमाला ॥

मेघनादः, पुं, (मेघं नादयतीति । नद् + णिच् +

अण् ।) वरुणः । (मेघस्य नाद इव नादो यस्य ।)
रावणपुत्त्रः । इति मेदिनी । दे, ५२ ॥ (यथा,
रघौ । १२ । ७६ ।
“गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ॥”
मेघस्य नादः ।) मेघशब्दः । इति हेमचन्द्रः ॥
(यथा, महाभारते । ३ । ७३ । ७ ।
“ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रणेदुस्तन्मुखा राजन् ! मेघनाद इवोत्-
सुकाः ॥”)
पलाशवृक्षः । इति शब्दचन्द्रिका ॥ तण्डुलीय-
शाकः । इति राजनिर्घण्टः ॥ (यथा, भाव-
प्रकाशे ।
“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ॥”
अस्य गुणादिकं तण्डुलीयशब्दे द्रष्टव्यम् ॥
दानवभेदः । यथा, हरिवंशे । ३३२ । ३० ।
“सुबाहुर्मेघनादश्च भीमगर्भश्च वीर्य्यवान् ॥”
मेघसदृशशब्दविशिष्टे, त्रि । यथा, रामायणे ।
२ । १६ । २९ ।
“मेघनादमसम्बाधं मणिहेमविभूषितम् ॥”)

मेघनादजित्, पुं, (मेघनादं जितवानिति । जि +

क्विप् ।) लक्ष्मणः । इति त्रिकाण्डशेषः ॥

मेघनादानुलासकः, पुं, (मेघनादं अनु लक्ष्यीकृत्य

लसति क्रीडतीति । लस + ण्वुल् ।) मयूरः ।
इति राजनिर्घण्टः ॥

मेघनादानुलासी, [न्] पुं, (मेघनादमनुलसतीति ।

लस + णिनिः ।) मयूरः । इत्यमरः । २ । ५ । ३० ॥

मेघनामा, [न्] पुं, (मेघस्य नाम नाम यस्य ।)

मुस्तकः । इत्यमरः । २ । ४ । १५९ ॥ (पर्य्यायो-
ऽस्य यथा, --
“मुस्तको मेघनामा स्यात् ।”
इति गारुडे २०८ अध्यायः ॥)

मेघनिर्घोषः, पुं, (मेघस्य निर्घोषः ।) मेघशब्दः ।

तत्पर्य्यायः । स्तनितम् २ गर्जितम् ३ रसितम्
४ । इत्यमरः । १ । ३ । ८ ॥ ध्वनितम् ५ ह्रादितम्
६ । इति भरतः ॥ (मेघस्य निर्घोष इव निर्घोषो
यस्य । मेघतुल्यशब्दविशिष्टे, त्रि । यथा, महा-
भारते । ३ । ७३ । ११ ।
“यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥”)

मेघपुष्पं, क्ली, (मेघस्य पुष्पमिव ।) जलम् । इत्य-

मरः । १ । १० । ५ ॥ पिण्डाभ्रम् । नदीजलम् ।
इति मेदिनी । पे, २८ ॥

मेघपुष्पः, पुं, (मेघ इव पुष्प्यति प्रकाशते इति ।

पुष्प विकाशने + अच् ।) शक्रहयः । इति शब्द-
रत्नावली ॥ श्रीकृष्णाश्वश्च ॥ (यथा, महाभारते ।
४ । ४३ । २१ ।
“तं मन्ये मेघपुष्पस्य जवेन सदृशं हथम् ॥”)

मेघप्रसवः, पुं, (मेघः प्रसवः उत्पत्तिस्थानमस्य

इति ।) जलम् । इति राजनिर्घण्टः ॥ मेघ-
जाते, त्रि ॥

मेघभूतिः, पुं, (मेघात् भूतिर्जन्मास्य ।) वज्रम् ।

इति शब्दरत्नावली ॥

मेघमालः, पुं, (मेघमाला वर्णसादृश्येन अस्त्यस्य ।

अर्श आद्यच् ।) रमागर्भजातकल्किदेवपुत्त्रः ।
यथा । “तथा रमा सिते पक्षे ।” इत्युपक्रम्य ।
“सा पुत्त्रं सुषुवे साध्वी मेघमालबलाहकौ ।
महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥”
इति कल्किपुराणे ३१ अध्यायः ॥
(प्लक्षद्बीपस्थपर्व्वतविशेषः । यथा, भागवते । ५ ।
२० । ४ । “सुवर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-
शैलाः ॥” राक्षसविशेषः । इति रामायणे ।
३ । २९ । ३१ ॥)

मेघमाला, स्त्री, (मेघानां माला ।) मेघश्रेणी ।

तत्पर्य्यायः । कादम्बिनी २ । इत्यमरः । १ । २ । ८ ॥
(यथा, उत्तररामचरिते । २ ।
“मेघमालेव यश्चायमारादपि विभाव्यते ।”
स्कन्दमातृगणानामन्यतमा । यथा, महाभारते ।
९ । ४६ । २९ ।
“एकवक्त्रा मेघरवा मेघमाला विरोचना ॥”)

मेघयोनिः, पुं, (मेघस्य योनिः उत्पत्तिकारणम् ।)

धूमः । इति शब्दरत्नावली ॥

मेघरागः, पुं, (मेघनामको रागः ।) षड्रागान्त-

र्गतरागविशेषः । इति हलायुधः ॥ (यथा,
संगीतदर्पणे रागाध्याये । ३१ ।
“भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा ।
श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥”)
अस्य विवरणं मेघशब्दे द्रष्टव्यम् ॥

मेघवर्णा, स्त्री, (मेघस्येव वर्णोऽस्याः । स्त्रियां

टाप् ।) नीलीवृक्षः । इति शब्दचन्द्रिका ॥
(मेघतुल्यवर्णे, त्रि । यथा, महाभारते । ३ ।
४६ । १५ ।
“सुसूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता ॥”)

मेघवर्त्म, [न्] क्ली, (मेघानां वर्त्म पन्थाः ।) आका-

शम् । इति त्रिकाण्डशेषः ॥

मेघवह्निः, पुं, (मेघस्य मेघजन्यो वा वह्निः ।)

वज्राग्निः । तत्पर्य्यायः । इरम्मदः २ । इति
हेमचन्द्रः । ४ । १६७ ॥

मेघवाहनः, पुं, (मेघो वाहनमस्य ।) इन्द्रः । इत्य-

मरः । १ । १ । ४७ ॥ (यथा, शिशुपालवधे । १३ । १८ ।
“अविलम्बितैलविलपाणिपल्लवः
श्रयति स्म मेघमिव मेघवाहनः ॥”)
पृष्ठ ३/७७८

मेघवेश्म, [न्] क्ली, (मेघानां वेश्म भवनम् ।)

आकाशम् । इति जटाधरः ॥

मेघसारः, पुं, (मेघस्य सार इव ।) चीनकर्पूरः ।

इति राजनिर्घण्टः ॥

मेघसुहृत्, [द्] पुं, (मेघाः सुहृदो मित्राणि यस्य ।)

मयूरः । इति हेमचन्द्रः ॥

मेघस्तनितोद्भवः, पुं, (मेघस्य स्तनितादुद्भव उत्-

पत्तिरस्य । नवमेघशब्देनास्य अङ्कुरोत्पत्ते-
स्तथात्वम् ।) विकंण्टकवृक्षः । इति राज-
निर्घण्टः ॥ (विशेषोऽस्य विकण्टकशब्दे ज्ञेयः ॥)

मेघाख्यं, क्ली, (मेघस्य आख्या नामास्य ।) मुस्तकम् ।

इति रत्नमाला ॥

मेघागमः, पुं, (मेघानां आगमोऽत्र ।) वर्षाकालः ।

इति शब्दरत्नावली ॥ (यथा, घटकर्परकाव्ये । २ ।
“नवाम्बुमत्ताः शिखिनो नदन्ति
मेघागमे कुन्दसमानदन्ति ! ॥”)
मेघस्यागमनञ्च ॥

मेघानन्दा, स्त्री, (मेघेन आनन्दोऽस्याः ।) वलाका ।

इति राजनिर्घण्टः ॥

मेघानन्दी, [न्] पुं, (मेघेन आनन्दतीति । आ +

नन्द + णिनिः ।) मयूरः । इति राजनिर्घण्टः ॥

मेघान्तः, पुं, (मेघानां अन्तोऽवसानमत्र ।)

शरत्कालः । इति राजनिर्घण्टः ॥

मेघास्थि, क्ली, (मेघानां अस्थीव ।) करका । इति

त्रिकाण्डशेषः ॥

मेघास्पदं, क्ली, (मेघानां आस्पदं स्थानम् ।)

आकाशम् । इति धनञ्जयः ॥

मेघोदरः, पुं, (मेघस्येव उदरमस्य ।) अर्हत्पिता ।

इति हेमचन्द्रः ॥

मेचकं, क्ली, (मचति वर्णान्तरेण मिश्रीभवतीति ।

मच् + “कृञादिभ्यः संज्ञायां वुन् ।” उणा० ५ ।
३५ । इति वुन् । ततः “पचिमच्योरिच्च ।” उणा०
५ । ३७ । इति इत्वे लघूपधगुणः । यद्वा, मच मचि
कल्कने + अकन् । मचि परिमुचां नाम्नीत्येत्वम् ।
मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभः । इति
शब्दार्णवः । व्युत्पत्तिस्तु मचति मिश्रीभवति
वर्णान्तरेण इति भरतः । इत्यमरटीकायां रघु-
नाथचक्रवर्त्ती ।) श्रोतोऽञ्जनम् । अन्धकारः ।
इति मेदिनी । के, १४० ॥ नीलाञ्जनम् । इति
राजनिर्घण्टः ॥ (यथा, --
“मेचकं मर्द्दनाञ्जनपिण्डवदीषत्कृष्णरूक्षम् ।”
इति माधवकरकृतरुग्विनिश्चयव्याख्यानेऽतीसा-
राधिकारे विजयरक्षितः ॥)

मेचकः, पुं, मयूरचन्द्रकः । श्यामलः । इति

मेदिनी । के, १४० ॥ (यथा, “मेचकामं आगार-
धूमाभञ्च ससारगन्धकादिमणिमसृणीकृतकृष्ण-
वर्णस्येव वर्णो मेचक इति जेज्जडादयः प्राहुः
चिक्कणकृष्ण इत्यर्थः ।” इति रुग्विनिश्चयस्य
रक्तपित्तव्याख्याने विजयेनोक्तम् ॥) धूमः ।
मेघः । शोभाञ्जनः । इति शब्दरत्नावली ॥
श्यामलगुणयुक्ते, त्रि । इत्यमरः । १ । ५ । १४ ॥
(यथा, शिशुपालवधे । ६ । २६ ।
“गजकदम्बकमेचकमुच्चकै-
र्नभसि वीक्ष्य नवाम्बुदमम्बरे ॥”)

मेचकाभिधा, स्त्री, (मेचकस्याभिधा नामास्याः ।)

पातालगरुडीलता । इति राजनिर्घण्टः ॥

मेट्, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अमिमेटत् । मेटति
लोकः । उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

मेटुला, स्त्री, (मेटतीति । मेट् बाहुलकात् उलच् ।

टाप् च ।) आमलकी । इति शब्दचन्द्रिका ॥

मेठः, पुं, (मेटति उन्माद्यतीति । मेट् + अच् ।

पृषोदरादित्वात् साधुः ।) हस्तिपकः । इति
त्रिकाण्डशेषः ॥

मेड, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अमिमेडत् । मेडति
उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

मेढ्रः, पुं, (मेहत्यनेनेति । मिह सेचने + “दाम्नी-

शसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।”
३ । २ । १८२ । इति ष्ट्रन् ॥) शिश्नः । (यथा,
मनौ । ८ । २८२ ।
“अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम् ॥”)
स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति सुख-
बोधः ॥ (यथा, “श्रवणनयनवदनघ्राणगुदमेढ्राणि
नवस्रोतांसि नराणां बहिर्मुखान्येतान्येव ॥” इति
सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥ शिरः
पर्य्यन्तं गताया वज्रनाड्या मूलस्थानम् । यथा,
पूर्णानन्दकृतषट्चक्रनिरूपणे । “वज्राख्या
मेढ्रदेशाच्छिरसि परिगता मध्यमे स्याज्ज्वलन्ती ।”
मेढ्रस्याप्रावृतत्वं जन्मान्तरे कृतस्य महापापस्य
चिह्नं कुष्ठविशेषः । यथा, भविष्यपुराणीय-
मध्यतन्त्रषष्ठाध्याये ।
“शृणु कुष्ठगणं विप्र ! उत्तरोत्तरतो गुरुम् ।
विचर्च्चिका तु दुश्चर्म्मा चर्च्चरीयस्तृतीयकः ॥
विकर्च्चुर्ब्रणताम्रौ च कृष्णश्वेते तथाष्टकम् ।
एषां मध्ये तु यः कुष्ठी गर्हितः सर्व्वकर्म्मसु ॥
ब्रणवत्सर्व्वगात्रेषु गण्डे भाले तथा नसि ॥”
दुश्चर्म्मा अपावृतमेढ्रः इति स्मृतिसंग्रहितारः ॥
पञ्चभूतानां मध्ये पृथिव्या रजोगुणांशत उत्-
पन्नो मेढ्रः तथाच वेदान्तपञ्चदश्याम् ।
“रजोऽंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्दि-
याणि तु ।
वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥”
उपस्थेन्द्रियं नाम उपस्थव्यतिरिक्तं उपस्थाश्रयं
मूत्रशुक्रोत्सर्गशक्तिमदिन्द्रियं इत्यात्मानात्म-
विवेके शङ्कराचार्य्यः । अस्य लक्षणादकं लिङ्ग-
शब्दे उपस्थशब्दे च द्रष्टव्यम् ॥) मेषः । इत्य-
मरः । २ । ९ । ९६ ॥ (यथास्य पर्य्यायः ।
“मेढ्रो भेढो हुडो मेष उरभ्र उरणोऽपि च ।
अविर्वृ ष्णिस्तथोर्णायुःकथ्यन्ते तद्गुणा अथ ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

मेढ्रशृङ्गी, स्त्री, (मेढ्रस्य शृङ्गमिव शृङ्गमस्याः ।

गौरादित्वात् ङीष् ।) मेषशृङ्गीवृक्षः । इति
रत्नमाला ॥

मेण्टः, पुं, हस्तिपकः । इति हारावली ॥

मेण्डः, पुं, हस्तिपकः । इति त्रिकाण्डशेषः ॥

मेण्ढः, पुं, मेषः । इति शब्दरत्नावली ॥

मेथ, ञ ऋ सङ्गे । वधे । मेधायाम् । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-उभ०-सङ्गे अक०-वधे-मेधा-
याञ्च सक०-सेट् ।) ञ, मेथति मेथते धीरो
गुणिना सङ्गत इत्यर्थः । ऋ, अमिमेथत् ।
मिमेथ । इति दुर्गादासः ॥

मेथिः, पुं, (मेथन्ते पशवोऽत्रेति । मेथ सङ्गे +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति
इन् ।) खले पशुबन्धनार्थन्यस्तदारु । मेइ काठ
इति भाषा । यथा, --
“मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् ।”
इति हेमचन्द्रः । ३ । ५५८ ॥
(स्त्री, मेथिका । तत्पर्य्यायो यथा, --
“मेथिका मेथिनी मेथिर्दीपनी बहुपत्रिका ।
बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥
वल्लरी चन्द्रिका मन्था मिश्रपुष्पा च कैरवी ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
क्वचित् मेथीति पाठो दृश्यते ॥)

मेथिका, स्त्री, (मेथतीति । मेथ् + ण्वुल् । टापि

अत इत्वम् ।) क्षुपविशेषः । मेथिशाक इति
भाषा । तत्पर्य्यायः । मेथिनी २ मेथी ३ दीपनी ४
बहुपुत्त्रिका ५ बोधिनी ६ गन्धबीजा ७ ज्योतिः ८
गन्धफला ९ वल्लरी १० चन्द्रिका ११ मन्था १२
मिश्रपुष्पा १३ कैरवी १४ कुञ्चिका १५ बहु-
पर्णी १६ पीतबीजा १७ । अस्या गुणाः । कटु-
त्वम् । उष्णत्वम् । रक्तपित्तप्रकोपणत्वम् । अरो-
चकहरत्वम् । दीप्तिकारित्वम् । वातघ्नत्वम् ।
दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अथ मेथी
वनमेथी । तयोर्नामगुणाः ।
“मेथिका मेथिनी मेथी दीपनी बहुपत्रिका ।
बोधिनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥
वल्लरी चन्द्रिका मन्था मिश्रंपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥
मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी ।
ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता ॥”
इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥

मेथिनी, स्त्री, (मेथतीति । मेथ् + णिनिः । ङीप् ।)

मेथिका । इति राजनिर्घण्टः ॥

मेथी, स्त्री, (मेथिः + कृदिकारादिति पक्षे ङीष् ।)

मेथिका । इति राजनिर्घण्टः ॥ (स्तम्भः ।
यथा, शतपथब्राह्मणे । ३ । ५ । ३ । २१ ।
“विष्णवे त्वेति मेथीमुपनिहन्तीतरतस्ततो
यदु च मानुषे ॥”
“मेथीं स्तम्भम् ।” इति तद्भाष्यम् ॥)

मेद, ऋ ञ वधमेधयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-सक०-सेट् ।) ऋ, अमिमेदत् ।
ञ, मेदति मेदते शास्त्रार्थं शिष्यः धारयतीत्यर्थः ।
मिमेदुः । इति दुर्गादासः ॥

मेदः, [स्] क्ली, (मेद्यति स्निह्यतीति । मिद् +

“सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति
पृष्ठ ३/७७९
असुन् ।) मांसप्रभवधातुविशेषः । तत्पर्य्यायः ।
वपा २ वसा ३ । इत्यमरः । २ । ६ । ६४ ॥ मेदः ४ ।
अकारान्त इति भरतः ॥ अस्य गुणाः । वात-
नाशित्वम् । बलपित्तकफदातृत्वञ्च । इति राज-
वल्लभः ॥ अथ मेदसः स्वरूपमाह ।
“यन्मांसं स्वाग्निना पक्वं तन्मेद इति कथ्यते ।
तदतीव गुरु स्निग्धं बलकार्य्यतिबृंहणम् ॥”
अथ मेदसः स्थानमाह ।
“मेदो हि सर्व्वभूतानामुदरेष्वस्थिषु स्थितम् ।
अतएवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ॥”
इति भावप्रकाशः ॥
रोगविशेषः । तत्र मेदसो विप्रकृष्टं निदान-
माह ।
“अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः ।
मधुरोऽन्नरसः प्रायः स्नेहान्मेदो विवर्द्धयेत् ॥”
अन्नरसः आमद्रवः । तथा च सुश्रुतः ।
आमद्रवान्नरसो मधुरश्च भवतीति । मेदसो-
ऽतिप्रवृद्धौ वैगुण्यमाह ।
“मेदसावृतमार्गत्वात् पुष्यन्त्यन्ये न धातवः ।
मेदस्तु चीयते तस्मादशक्तः सर्व्वकर्म्मसु ॥”
अन्ये धातवः अस्थ्यादयः शुक्रान्ताः । न पुष्यन्ति
न पुष्टा भवन्ति । चीयते सञ्चितं भवति वर्द्धत
इति यावत् । तस्मात् मेदस्वी सर्व्वकर्म्मसु
अशक्तः स्यात् । मेदसः सौकुमार्य्यात् । अपरा-
नपि दोषानाह ।
“क्षुद्रश्वासतृषामोहस्वप्नक्रन्थनसादनैः ।
युक्तः क्षुत्स्वेददौर्गन्धैरल्पप्राणोऽल्पमैथुनः ।
मेदसः स्वेददौर्गन्ध्याज्जायन्ते जन्तवो नरः ॥”
क्रन्थनं उच्छ्वासावरोधः । कण्ठेन घुर्घुर इत्यन्ये ।
जन्तवः क्रिमयः । मेदसः स्थानमाह ।
“मेदस्तु सर्व्वभूतानामुदरेष्वस्थिषु स्थितम् ।
अतएवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ॥”
मेदस्विनोऽपि वृद्धौ हेतुमाह ।
“मेदसावृतमांर्गत्वाद्बायुः कोष्ठे विशेषतः ।
चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ॥
तस्मात् शीघ्रन्तु जरयत्याहारञ्चापि काङ्क्षति ।
विकारान् सोऽश्नुते घोरान् कांश्चित् काल-
व्यतिक्रमात् ॥”
सन्धुक्षयति प्रदीपयति । स मेदस्वी आहारं
शीघ्रं जरयति पुनर्भोक्तुं काङ्क्षति स दीप्ताग्निः
कालव्यतिक्रमात् भोजनकालातिक्रमात् । कां-
श्चिद्विकरान् वातपित्तकरान् घोरान् अश्नुते
प्राप्नोति । एते वातपित्ते मेदसावरुद्धे विशेषा-
दुपद्रवकरे इत्याह ।
“एतावुपद्रवकरौ विशेषात् पित्तमारुतौ ।
एतौ हि दहतः स्थूलं वनं दावानलो यथा ॥”
एतौ पित्तमारुतौ मेदसा रुद्धमार्गत्वात् कोष्ठ-
मध्ये प्रवृद्धौ सन्तौ विशेषादुपद्रवकरौ दहतः
नाशयेताम् । मेदसोऽतिवृद्धेर्विनाशहेतुत्वमाह ।
“मेदस्यतीवसंवृद्धे सहसैवानिलादयः ।
विकारान् दारुणान् कृत्वा नाशन्त्या जीवि-
तम् ॥”
विकारान् प्रमेहपिडकज्वरभगन्दरविद्रधिवात-
रोगाणामन्यतमान् । अतिस्थूलतया वैगुण्य-
माह ।
“अतिस्थूलेषु संदृष्टा विसर्पाः सभगन्दराः ।
ज्वरातीसारमेहार्शःश्लीपदा यषिकादयः ॥”
अतिस्थूलस्य लक्षणमाह ।
“मेदो मांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः ।
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ॥”
अयथोपचयोत्साहः न यथा उपचयो मांसोप-
चयः उत्साहो बलञ्च यस्य सः ॥ * ॥ * ॥ अथ
मेदस्य चिकित्सा ।
“पुराणाः शालयो मुद्गाः कुलत्थोद्दालकोद्रवाः ।
लेखना वस्तयश्चापि सेव्या मेदस्विना सदा ॥
श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः ।
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः ॥
क्षारं वातारिपत्रस्य हिङ्गुयुक्तं पिबेन्नरः ।
सहितं भक्तमण्डेन मेदोवृद्धिनिवृत्तये ॥
गुडूचीत्रिफलाक्वाथः पीतो मेदोहरः स्मृतः ।
गुडूचीत्रिफलाक्वाथस्तथा लोहरजोयुतम् ।
क्षौद्रेण त्रिफलाक्वाथः पीतो मेदहरः परः ॥
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् ।
उष्णमन्नस्य मण्डं वा पिबेत् कृशतनुर्भवेत् ॥
व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलुं समम् ।
स्वादेत् सर्व्वान् जयेद्रोगान्मेदःश्लेष्मामवातजान् ॥
पिप्पली मधुना सेव्या मेदःकफविनाशिनी ॥
धत्तूरपत्रस्वरसेन गाढ-
मुद्बर्त्तनं स्थौल्यहरं प्रदिष्टम् ॥
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः ।
विल्वपत्ररसो वापि देहदौर्गन्ध्यनाशनः ॥
निम्बूपत्रस्वरसः प्रक्षितकक्षादियोजितं जयति ।
दग्धहरिद्रोद्बर्त्तनमचिराच्चिरदेहदौर्गन्ध्यम् ॥
शिरीषलामज्जकहेमलोध्रै-
स्त्वग्दोषसंस्वेदहरः प्रघर्षः ।
शरीरदौर्गन्ध्यहरः प्रदेहः
पत्राम्बुलोध्राभयचन्दनानाम् ॥”
शिरीषस्यात्र पत्रं ग्राह्यं व्यवहारात् । लाम-
ज्जकं सुगन्धितृणविशेषस्तदलाभे उशीरं
ग्राह्यम् । हेम नागकेशरम् । अम्बु बालकम् ।
अभयं उशीरम् ।
“हरीतकीं तु संपिष्य देहमुद्बर्त्तनं नरः ।
पश्चात् स्नानं प्रकुर्व्वीत देहस्वेदोपशान्तये ॥
वकुलस्य दलैः सम्यग्वारिणा परिपेषितैः ।
देहमुद्बर्त्तयेत् पश्चाद्धरीतक्या सुपिष्टया ॥
भूय उद्बर्त्तनं कुर्य्यात् पश्चात् स्नानं समाचरेत् ।
प्रस्वेदान् मुच्यते शीघ्रं मेदोवृद्धिसमुद्भवात् ॥”
इति मेदोऽधिकारः ॥ इति भावप्रकाशः ॥
(तथास्य विशेषः । यथा, --
“मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नाञ्च ॥”
अस्य क्षीणलक्षणं यथा, --
“मेदः क्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं
मेदुरमांसप्रार्थना च ।” अस्यातिवृद्धिलक्षणं
यथा, --
“मेदः स्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासा-
दीन् दौर्गन्ध्यञ्च ।”
“पूर्ब्बः पूर्ब्बोऽतिवृद्धत्वाद्वर्द्धयेद्धि परं परम् ।
तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ॥”
“क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् ।
तावद्यावदरोगः स्यान्नरो रोगसमन्वितः ॥”
इति सुश्रुते सूत्रस्थाने १५ अध्यायः ॥
“तृतीया मेदोधरा नाम मेदो हि सर्व्वभूताना-
मुदरस्थमन्वस्थिषु च महत्सु च मज्जा भवति ॥”
इति तत्रैव शारीरस्थाने ४ अध्याये ॥)

मेदः, पुं, (मेद्यति स्निह्यतीति । मिद् + अच् ।)

वपा । इति शब्दचन्द्रिका ॥
“तृष्णाकण्डुकृमिहरो मलघ्नो मेदकुष्ठहा ॥”
इति भरतधृतशालिहोत्रः ॥)
म्लेच्छजातिविशेषः । इति जटाधरः ॥ अल-
म्बुषा । इति राजनिर्घण्टः ॥ (ऐरावतकुलजो
नागविशेषः । यथा, महाभारते । १ । ५७ । ११ ।
“विहङ्गः शरभो मेदः प्रमोदः संहतापनः ।
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”)

मेदकः, पुं, (मिद् + ण्वुल् ।) जगलः । इत्यमरः ।

२ । १० । ४२ ॥ मेया इति भाषा ॥

मेदजः, पुं, (मेदात् जायते इति । जन् + डः ।)

भूमिजगुग्गुलुः । इति राजनिर्घण्टः ॥ मेदो-
भवश्च ॥

मेदःसारा, स्त्री, (मेदः सारोऽस्याः ।) मेदा ।

इति राजनिर्घण्टः ॥ (विवृतिरस्या मेदाशब्दे
द्रष्टव्या ॥)

मेदस्कृत्, क्ली, (मेदः करोतीति । मेदस् + कृ +

क्विप् ।) मांसम् । इति हेमचन्द्रः ॥

मेदा, स्त्री, (मेदो अस्याः अस्तीति । मेद +

अच् । टाप् ।) अष्टवर्गप्रसिद्धौषधिविशेषः ।
तत्पर्य्यायः । मेदोद्भवा २ जीवनी ३ श्रेष्ठा ४
मणिच्छिद्रा ५ विभावरी ६ । इति रत्नमाला ॥
वसा ७ स्वल्पपर्णिका ८ मेदःसारा ९ स्नेह-
वती १० मेदिनी ११ मधुरा १२ स्निग्धा १३
मेधा १४ द्रवा १५ साध्वी १६ शल्यदा १७
बहुरन्ध्रिका १८ पुरुषदन्तिका १९ । अस्या
गुणाः । मधुरत्वम् । शीतत्वम् । पित्तदाहार्त्ति-
काशराजयक्ष्मज्वरनाशित्वम् । वातदोषकारि-
त्वञ्च । इति राजनिर्घण्टः ॥ तस्य लक्षणं यथा,
“शुक्लकन्दो नखच्छेद्यो मेदो धातुमिव श्रवेत् ।
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्ज्जनैः ॥”
मेदामहामेदास्थाने शतावरी मूली । इति
भावप्रकाशः ॥ अस्या विवरणं महामेदाशब्दे
द्रष्टव्यम् ॥ (अनुकल्पोऽस्या यथा । “मेदाभावे
चाश्वगन्धा ।” इति वैद्यकपरिभाषायाम् ॥)

मेदिनी, स्त्री, (मेदोऽस्या अस्तीति । मेद +

इनिः । ङीष् ।) मेदा । काश्मरी । इति राज-
निर्घण्टः ॥ पृथिवी । इत्यमरः । २ । १ । ३ ॥
मेदो विद्यतेऽस्यां मेदिनी सान्तान्मेदःशब्दादिन्
सलोपश्च निपात्यते इति परे । स्वमते मेदः
समानार्थोऽदन्तो मेदशब्दोऽस्ति । तृष्णाकण्डु-
पृष्ठ ३/७८०
कृमिहरो मलघ्नो मेदकुष्ठहेति शालिहोत्रः ।
नैकाजादिति इन् । यथा चोक्तम् ।
“मधुकैटभयोरासीन्मेदसैव परिप्लुता ।
तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥”
मेद्यतीति वा मेदिनी इन्मिद्या स्निहि ग्रहादि-
त्वाण्णिन् । इति तट्टीकायां भरतः ॥ (एतन्नाम-
निरुक्तिर्यथा, देवीभागवते । १ । ९ । ८३-८४ ।
“गतप्राणौ तदा जातौ दानवौ मधुकैटभौ ।
सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥
मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः ।
अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥”
अपि च । तत्रैव । ३ । १३ । ८ ।
“मधुकैटभयोर्मेदःसंयोगान्मेदिनी स्मृता ।
धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”)
तस्या उत्पत्तिर्यथा, --
“श्रूयतां वसुधाजन्म सर्व्वमङ्गलकारणम् ।
विघ्ननिघ्नकरं पापनाशनं पुण्यवर्द्धनम् ॥
अहो केचिद्बदन्तीति मधुकैटभमेदसा ।
बभूव वसुधाजन्म तद्विरुद्धमतं शृणु ॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां वध न यत्रोर्व्वी पाथसा संवृतेति च ॥
तयोर्ज्जीवनकालेन प्रत्यक्षा सा भवेत् स्फुटम् ।
ततो बभूव मेदश्च मरणस्यान्तरं तयोः ।
मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ॥
जलधौता कृशा पूर्ब्बं वर्द्धिता मेदसा यतः ।
कथयामि च तज्जन्म सार्थकं सर्व्वसम्मतम् ॥
पुरा श्रुतं यत् श्रुत्युक्तं धर्म्मवक्त्राच्च पुष्करे ।
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ॥
मलो बभूव कालेन सर्व्वाङ्गव्यापको ध्रुवम् ।
स च प्रविष्टः सर्व्वेषां तल्लोम्नां विवरेषु च ॥
कालेन महता तस्माद्बभूव वसुधा मुने ! ।
प्रत्येकं प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता ॥
आविर्भूता तिरोभूता सा जले च पुनः पुनः ।
आविर्भूता सृष्टिकाले तज्जलोपर्य्यवस्थिता ।
प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥”
इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे नारायणनारद-
संवादे पृथिव्युपाख्याने ७ अध्यायः ॥

मेदिनीद्रवः, त्रि, (मेदिन्याः द्रवः ।) धूलिः । इति

त्रिकाण्डशेषः ॥

मेदुरः, त्रि, (मेद्यति स्निह्यतीति । मिद् + “भञ्ज-

भासमिदो घुरच् ।” ३ । २ । १६१ । इति घुरच् ।)
अतिशयस्निग्धः । तत्पर्य्यायः । सान्द्रस्निग्धः २ ।
इत्यमरः । ३ । १ । ३० ॥ (यथा, गीतगोविन्दे । १ । १ ।
“मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे ! गृहं प्रापय ॥”)

मेदुरा, स्त्री, (मेदुर + टाप् ।) काकोली । इति

राजनिर्घण्टः ॥ (गुणादयोऽस्याः काकोली-
शब्दे ज्ञेयाः ॥)

मेदोजं, क्ली, (मेदसो जायते इति । जन् + डः ।)

अस्थि । इति राजनिर्घण्टः ॥

मेदोद्भवा, स्त्री, (मेदादुद्भवोऽस्याः ।) मेदा । इति

राजनिर्घण्टः ॥

मेदोन्ध्रः पुं, (मेदोबहुलः अन्ध्रः ।) वर्णसङ्करजाति-

भेदः । इति जटाधरः ॥ (यथा, मनुः । १० । ४८ ।
“मेदोन्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥”
क्वचित् मेदान्ध्र इत्यपि पाठः ॥)

मेदोवती, स्त्री, (मेदोऽस्याः अस्तीति । मेदस् +

मतुप् । मस्य वः ।) मेदा । इति राजनिर्घण्टः ॥
(मेदोविशिष्टे, त्रि ॥)

मेध, ऋ ञ वधमेधासङ्गेषु । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-वधे सक०-अन्यत्र अक०-सेट् ।)
ऋ, अमिमेधत् । ञ, मेधति मेधते । इति दुर्गा-
दासः ॥

मेधः, पुं, (मेध्यते वध्यते पश्वादिरत्रेति । मेध +

घञ् ।) यज्ञः । इति जटाधरः ॥ (यथा, महा-
भारते । १ । १२३ । ३९ ।
“ग्रामणीश्च महीपालानेष जित्वा महाबलः ।
भ्रातृभिः सहितो वीरस्त्रीन् मेधानाहरिष्यति ॥”
हविः । इति ऋग्वेदे । १० । १०० । ६ । मन्त्र-
भाष्ये सायणः ॥)

मेधा, स्त्री, (मेधते सङ्गच्छते अस्यामिति । मेध् +

“षिद्भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् ।
टाप् ।) धारणावती बुद्धिः । इत्यमरः । १ । ५ । २ ॥
धारणाशक्तियुक्ता धीर्मेधा मेधते सङ्गच्छतेऽस्यां
सर्व्वं बहुश्रुतं विषयीकरोति इति वा मेधा मेधृ-
ञ सङ्गे मेधायां सेमक्तात् सरोरित्यः आपबहु-
श्रुतविषयीकरणं धारणा यदुक्तं धारणा बुद्धे-
र्गुणविशेषः इति ॥ इति भरतः ॥ * ॥ (यथा,
मुण्डकोपनिषदि । ३ । २ । ३ ।
“नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)
मेधाकरं औषधं यथा, --
“शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला ।
अभया च गुडूची च अटरूषकवाकुची ।
एतैरक्षसमैर्भागैर्घृतं प्रस्थं विपाचयेत् ॥
कण्टकार्य्या रस प्रस्थं बृहत्या च समन्वितम् ।
एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥”
इति गारुडे १९८ अध्यायः ॥ * ॥
मेधाकरगणो यथा । सतताध्ययनम् । तत्त्व-
ज्ञानकथा । श्रेष्ठतन्त्रशास्त्रावलोकनम् । सद्द्वि-
जाचार्य्यसेवा च । इति पुराणम् ॥ (दक्षप्रजा-
पतिकन्याविशेषः । यथा, --
“कीर्त्तिलक्ष्मी र्धृतिर्मेघा पुष्टिः श्रद्धा क्रिया
मतिः ॥”
इति वह्निपुराणे गणभेदनामाध्याये ॥
धनम् । इति निघण्टुः । २ । १० ॥ “मिधृ मेधृ
सङ्गमे च । चकारात् हिंसामेधयोश्च । मिधिः
सङ्गत्यर्थः । इति माधवः । घज् । सङ्गच्छतेऽनेन
सर्व्वं तद्बता हिंस्यते वा तद्वान् चौरादिभिः
घ्नन्ति चैवार्थकारणात् इति महाभारतम् ॥
यद्वा, मतौ धीयते अर्जयितव्यं रक्षितव्यं दातव्य-
मिति धनवता बुद्धौ धनं धार्य्यते । तत्र मति-
शब्द उपपदे धातोः घञर्थे कविधानम् इति
कः । पृषोदरादित्वात् मतिशब्दस्य मेभावः ।”
इति तद्भाष्ये देवराजयज्वा ॥)

मेधाः, [स्] पुं, (मेधते इति । मेध् + असुन् ।)

स्वायम्भुवमनुपुत्त्रः । यथा, --
“अग्निध्रश्चाग्निबाहुश्च सहः सबल एव च ।
ज्योतिष्मान् द्युतिमान् हव्यो मेधा मेधातिथि-
र्ब्बसुः ।
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः ॥”
इति मात्स्ये ९ अध्यायः ॥

मेधाकृत्, क्ली, (मेधां करोतीति । कृ + क्विप् ।)

सितावरशाकम् । इति राजनिर्घण्टः ॥ मेधा-
कारके, त्रि ॥

मेधाजित्, पुं, (मेधां जितवानिति । जि + क्विप् ।)

कात्यायनमुनिः । इति त्रिकाण्डशेषः ॥

मेधातिथिः, पुं, (मेधायाः धारणावद्वुद्धेरतिथि-

रिव ।) मनुसंहिताटीकाकृत् । मुनिविशेषः ।
यथा, श्रीभागवते । १ । १९ । १० ।
“मेधातिथिर्देवल आर्ष्टषेणो
भरद्वाजो गौतमः पिप्पलादः ॥”
(प्रियव्रतपुत्त्रः स च शाकद्बीपाधिपतिः । यथा,
श्रीमद्भागवते । ५ । २० । २४ -- २५ ।
“यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्र-
व्यपदेशकः । यस्य ह महासुरभिगन्धस्तद्द्वीप-
मनुवासयति । तस्यापि प्रैयव्रत एवाधिपति-
र्नाम्ना मेधातिथिः ॥” * ॥ सप्तदश द्वापरयुगस्य
व्यासः । यथा, देवीभागवते । १ । ३ । ३० ।
“मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥”
प्रजापतेः कर्द्दमस्य पुत्त्रः । यथा, मार्कण्डेये ।
५३ । १५ ।
“अग्निध्रो मेधातिथिश्च वपुष्मांश्च तथापरः ॥”
दक्षसावर्णिमन्वन्तरे सप्तर्षीणामेकतमः । यथा,
मार्कण्डेये । ९४ । ८ ।
“मेधातिथिर्वसुः सत्यो ज्योतिष्मान् द्युतिमां-
स्तथा ।
सप्तर्षयोऽन्यः सबलस्तथान्वो हव्यवाहनः ॥”
नदीविशेषे, स्त्री । यथा, महाभारते । ३ ।
२२१ । २३ ।
“चर्म्मण्वती मही चैव मेध्या मेधातिथिस्तथा ।
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥”)

मेधारुद्रः, पुं, (मेधया रुद्र इव ।) कालिदासः ।

इति त्रिकाण्डशेषः ॥

मेधावती, स्त्री, (मेधा देयत्वेन अस्ति अस्याः

इति । मेधा + मतुप् । मस्य वः । ङीप् । मेधा-
बर्द्धकत्वादस्यास्तथात्वम् ।) महाज्योतिष्मती ।
इति राजनिर्घण्टः ॥ मेधाविशिष्टा च ॥

मेधाविनी, स्त्री, (मेधास्याः अस्तीति । मेधा +

“अस्मायामेधास्रजो विनिः ।” ५ । २ । १२१ ।
इति विनिः । ततो ङीप् ।) ब्रह्मणः पत्नी ।
इति मेदिनी । ने, २०४ ॥

मेधावी, [न्] पुं, (मेधास्त्यस्येति । मेधा + “अस-

मायामेधास्रजो विनिः ।” ५ । २ । १२१ । इति
पृष्ठ ३/७८१
विनिः) शुकपक्षी । इति मेदिनी । ने, २०४ ॥
मदिरा । इति राजनिर्घण्टः ॥ पण्डितः । इति
हेमचन्द्रः । ३ । ६ ॥ व्याडिः । इति त्रिकाण्डशेषः ॥
(कस्यचित् ब्राह्मणस्य पुत्त्रः । यथा, महाभारते,
१२ । १७५ । ३ ।
“द्विजातेः कस्यचित् पार्थ ! स्वाध्यायनिरतस्य
वै ।
बभूव पुत्त्रो मेधावी मेधावी नाम नामतः ॥”)
मेधायुक्ते, त्रि । इति मेदिनी । ने, २०४ ॥
(यथा, रामायणे । १ । ४ । ६ ।
“स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥”)
तद्वैदिकपर्य्यायः । विप्रः १ विग्रः २ गृत्शः ३
धीरः ४ वेनः ५ वेधाः ६ कण्वः ७ ऋभुः ८
नवेदाः ९ कविः १० मनीषी ११ मन्धाता १२
विधाता १३ विपः १४ मनश्चित् १५ विपश्चित्
१६ विपन्यवः १७ आकेनिपः १८ उशिजः १९
कीस्तासः २० अद्धातयः २१ मतयः २२ मतुथाः
२३ वाघतः २४ । इति चतुर्व्विंशतिर्म्मेधावि-
नामानि । इति वेदनिघण्टौ । ३ । १५ ॥

मेधिः, पुं, (मेध्यते खले स्थाप्यते इति । मेध +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११३ । इति इन् ।)
खले पशुबन्धनार्थन्यस्तदारु । इत्यमरः । २ ।
९ । १५ ॥ खले धान्यमर्द्दनस्थानमध्ये पशुबन्धन-
निमित्तं निहितं यद्दारु स मेधिः । मेइ इति
ख्याते । इति भरतः ॥ तत्पर्य्यायः । मेथिः ३
खलेवाली ३ । इति हेमचन्द्रः ॥ अस्य स्थापन-
दिनं तत्र वारौ शुक्रबृहस्पती । नक्षत्राणि
रेवती स्वाती हस्ता मूलं मृगशिरश्च । तत्र
लग्नं स्थिरम् । इति ज्योतिस्तत्त्वम् ॥

मेधिरः, त्रि, (मेधास्यास्तीति । मेधा + “मेधारथा-

भ्यामिरन्निरचौ वक्तव्यौ ।” ५ । २ । १०९ । इति
काशिकोक्त्या इरन् ।) मेधावी । इति त्रिकाण्ड-
शेषः ॥ (यथा, ऋग्वेदे । १ । २५ । २० ।
“त्वं विश्वस्य मेधिर ! दिवश्च ग्मश्च राजसि ।”
“हे मेधिर ! मेधाविन् ! वरुण ।” इति तद्भाष्ये
सायणः ॥ यज्ञवान् । हविष्मान् । यथा, ऋग्-
वेदे । १० । १०० । ६ ।
“इन्द्रस्य सुनुकृतं दैव्यं सहोग्निर्गृहेजरिता
मेधिरः कविः ।”
“मेधो यज्ञः हविर्वा तद्बान् ।” इति तद्भाष्ये
सायणः ॥)

मेधिष्ठः, त्रि, (अयमेषामतिशयेन मेधावीति । मेधा-

विन् + “अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ ।
इति इष्ठन् । “विन्मतोर्लुक् ।” ५ । ३ । ६५ ।
इति विनो लुक् ।) अतिशयमेधायुक्तः । इति
व्याकरणम् ॥

मेध्यं, त्रि, (मेध्यते इति । मेध् + “ऋहलोर्ण्यत् ।”

३ । १ । १२४ । इति ण्यत् । यद्बा, मेधामर्ह-
तीति । मेधा + दण्डादित्वात् यत् ।) पवित्रम् ।
इत्यमरः । ३ । १ । ५५ ॥ (यथा, --
“ज्ञानेन मेध्यमखिलममेध्यं ज्ञानतो भवेत्
ब्रह्मज्ञाने समुत्पन्ने मेध्यामेध्यं न विद्यते ॥”
इति चिन्तामणिधृतवचनम् ॥)
“पवित्रः प्रयतः पूत इति ब्रह्मवर्गे प्राणिविषय-
मात्र उक्तं इह त्वप्राणिद्रव्ये ।” इति भरतः ॥
“पूतं मेध्यं पवित्रं स्याद्बीध्रं प्रयतनिर्म्मलम् ।
निशोध्यं शोधितं मृष्टं निर्निक्तमनवस्करम् ॥”
इति शब्दरत्नावली ॥
(नित्यमेध्यम् । यथा, मनुः । ५ । १२९ ।
“नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।
ब्रह्मचारिगतं भैक्ष्यं नित्यमेध्यमितिस्थितिः ॥”)
शुचिः । इति मेदिनी । ये, ४७ ॥ (यथा,
अनर्घराघवे । २ । १४ ।
“तत्तादृक् तृणपूलकोपनयनक्लेशाच्चिर-
द्वेषिभि-
र्मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमाल-
भ्यते ॥”
मेधाजनकः । यथा, --
“मण्डूकपर्ण्याः स्वरसः प्रयोज्यः
क्षीरेण यष्टीमघुकस्य चूर्णं ।
रसो गुडूच्यास्तु समूलपुष्पाः
कल्कः प्रयोज्यः खलु शङ्खपुष्पाः ॥
आयुः प्रदान्यामयनाशनानि
बलाग्निवर्णस्वरवर्द्धनानि ।
मेध्या विशेषेण च शङ्खपुष्पी ॥”
इति चरके चिकित्सास्थाने प्रथमेऽध्याये ॥)

मेध्यः, पुं, (मेधायै हितः । मेधा + “उगवादिभ्यो

यत् ।” ५ । १ । २ । इति यत् ।) खदिरः ।
यवः । छागः । इति राजनिर्घण्टः ॥

मेध्या, स्त्री, (मेधायै हिता । मेधा + यत् । टाप् ।)

रक्तवचा । रोचना । इति मेदिनी । ये, ४७ ॥
केतकी । ज्योतिष्मती । शङ्खपुष्पी । ब्राह्मी ।
श्वेतवचा । शमी । मण्डूकी । इति राज-
निर्घण्टः ॥ (नदीविशेषः । यथा, महाभारते ।
३ । २२१ । २३ ।
“चर्म्मण्वती मही चैव मेध्या मेधातिथिस्तथा ॥”)

मेनका, स्त्री, (मन्यते इति । मन् + “मनेराशिषि

च ।” इति वुन् । ततः “नशिमन्योरलिट्येत्वं
वक्तव्यम् ।” ६ । ४ । १२० । इत्यत्र काशिकोक्त्या
अकारस्य एत्वम् ।) सर्व्वेश्या । इति शब्दरत्ना-
वली ॥ तस्याः कन्या शकुन्तला । यथा, --
“विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद्भगवान् कण्बो वीर ! किं करवाम ते ॥”
इति श्रीभागवते । ९ । २० । १३ ॥
(मेनैव । मेना + स्वार्थे कन् ।) उमामाता । यथा,
“ततः प्रीतास्तु पितरस्तां ददुस्तनयां निजाम् ।
मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः ॥
तां मेनां हिमवाँल्लब्ध्वा प्रसादाद्दैवतेष्वथ ।
प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥
ततो हिमाद्रिः पितृकन्यया समं
सुखं सिषेवे विषयं यथेप्सितम् ।
अजीजनत् सा तनयास्तु मेना
रूपाभियुक्ताः सुरयोषितोपमाः ॥
पुलस्त्य उवाच ।
मेनायां कन्यकास्तिस्रो जाता रूपगुणान्विताः ।
सुनाभ इति विख्यातश्चतुर्थस्तनयोऽभवत् ॥
नीलाञ्जनचयप्रख्या नीलेन्दीवरलोचना ।
रूपेणानुपमा काली जघन्या मेनकासुता ॥
जातास्ताः कन्यकास्तिस्रः षडब्दात् परतो मुने ! ।
कर्त्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥
ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी ।
तपसो वारयामास उमे त्येवाब्रवीच्च सा ॥
तदैव माता नामास्याश्चक्रे पितृसुता शुभा ।
उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥”
इति वामने ७४ -- ७५ अध्यायः ॥ * ॥
अपि च ।
“कथं गिरिसुता काली बभूव जगतां प्रसूः ।
दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् ॥”
मार्कण्डेय उवाच ।
यदात्यजत्तनुं देवी पूर्ब्बं दाक्षायणी सती ।
तदैव मनसागच्छन्मेनकां हिमवद्गिरिम् ।
त्यक्तप्राणा तदा देवी भूता हिमघतः सुता ॥
शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् ।
निनाय मेनका देवी परमामृतिमिच्छती ॥
सप्तविंशतिवर्षन्ते जगन्माता जगन्मयी ।
सुप्रीता भवदत्यर्थं प्राह प्रत्यक्षतां गता ॥
श्रीदेव्युवाच ।
यत् प्रार्थितं त्वया देवि ! मत्तस्तत् प्रार्थयाधुना ।
ततः सा प्रथमं पुत्त्रशतं वव्रे यशस्विनी ॥
पश्चात्तु तनयामेकां स्वरूपगुणशालिनीम् ।
कुलद्वयानन्दकरीं भुवनत्रयदुर्लभाम् ॥
ततो भगवती प्राह मेनकां मुनिसन्निभाम् ॥
श्रीदेव्युवाच ।
शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः ।
सुता च तव देवानां मानुषाणाञ्च रक्षसाम् ॥
हिताय सर्व्वजगतां भविष्याम्यहमेव ते ।
एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत ॥
ततः सा कालिका देवी योगनिद्रा जगन्मयी ।
पूर्ब्बत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥
समयस्यानुरूपेण मेनकाजठरे शिवा ।
समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥
वसन्तसमये देवी नवम्यां मृगयोगतः ।
अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात् ॥”
इति कालिकापुराणे ४० अध्यायः ॥

मेनकात्मजा, स्त्री, (मेनकाया आत्मजा ।) दुर्गा ।

इति हलायुधः ॥ (शकुन्तला । यथा, महा-
भारते । १ । ७२ । ११ ।
“नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ।
पर्य्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥”)

मेनकाप्राणेशः, पुं, (मेनकायाः प्राणेशः पतिः ।)

हिमालयः । इति हेमचन्द्रः । ४ । ९३ ॥

मेना, स्त्री, (मान्यते पूज्यते इति । मान पूजायाम्

“बहुलमन्यत्रापि ।” उणा० २ । ४६ । इति
इनच् प्रत्ययेन निपातनात् साधुः ।) मेनका ।
इति भरतद्बिरूपकोषः ॥ सा पितृकन्या । यथा,
पृष्ठ ३/७८२
“तां मानसीं मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीया-
मात्मानुरूपां विधिनोपयेमे ॥”
इति कुमारसम्भवे । १ । १८ ॥ * ॥
यथा च, कौर्म्मे १२ अध्याये ।
“अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः ।
तेभ्यः स्वाहा स्वधा जज्ञे मेना वैतरणी तथा ॥”
(स्त्री । यथा, ऋग्वेदे । १ । ६२ । ७ ।
“भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदं-
साः ।”
“मेनेति स्त्रीनाम । मेने स्त्रीरूपमापन्ने रोदसी ।”
इति तद्भाष्ये सायणः ॥ * ॥ वृषणश्वकन्या ।
यथा, ऋग्वेदे । १ । ५१ । १३ ।
“मेना भवो वृषणश्वस्य ।”
“हे इन्द्र ! त्वं वृषणश्वस्य एतदाख्यस्य राज्ञो
मेना भवः मेनानाम कन्यका भूः ।” इति तद्भाष्ये
सायणः ॥ * ॥ वाक् । इति निघण्टुः । १ । ११ ॥
“मानपूजायां इत्यस्मात् ‘बहुलमन्यत्रापि इनच्
भवति ।’ इति वचनादिनच् । बहुलग्रहणात्
नलोपः । पूज्यतेऽनया गुर्व्वादिरुपदेशवाक्येन
पूज्या वा देवतात्वात् ।” इति तट्टीकायां देव-
राजयज्वा ॥ * ॥ नदीविशेषः । यथा, महा-
भारते । ६ । ९ । २३ ।
“करिषिणीमसिक्नीञ्च कुशचीरां महानदीम् ।
मरुहीं प्रवरां मेनां हेमां घृतवतीं तथा ॥”)

मेनाजा, स्त्री, (मेनायाः जायते इति । जन् + डः ।

स्त्रियां टाप् ।) पार्व्वती । इति हेमचन्द्रः ॥

मेनादः, पुं, (मे इति नादोऽस्य ।) विडालः ।

छागः । मयूरः । इति मेदिनी । दे, ३९ ॥

मेनाधवः, पुं, (मेनाया धवः स्वामी ।) हिमालयः ।

इति त्रिकाण्डशेषः ॥

मेन्धिका, स्त्री, (मां शोभामिन्धयति प्रकाशयतीति ।

इन्ध + णिच् + ण्वुल् । टापि अत इत्वम् ।)
क्षुपविशेषः । इति केचित् । मेहदी इति
भाषा ॥

मेन्धी, स्त्री, (मां शोभामिन्धयतीति । इन्ध +

णिच् + अण् । गौरादित्वात् ङीष् ।) क्षुप-
विशेषः । इति केचित् । मेहदी इति भाषा ॥

मेप, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, मेपते । ऋ, अमि-
मेपत् । इति दुर्गादासः ॥

मेरकः, पुं, विष्णुशत्रुभेदः । इति हेमचन्द्रः ॥

मेरुः, पुं, (मि + “मिपीभ्यां रुः ।” उणा० ४ ।

१०१ । इति रुः ।) पर्व्वतविशेषः । तत्पर्य्यायः ।
सुमेरुः २ हेमाद्रिः ३ रत्नसानुः ४ सुरा-
लयः ५ । इत्यमरः ॥ मिनोति क्षिपति ज्योतींषि
उच्चत्वात् मेरुः । डुमि ञ्न क्षेपे नाम्नीति
रुः । इति भरतः ॥ * ॥ (यथा, मात्स्ये । १२१ । ८ ।
“देवर्षिगन्धर्व्वयुतः प्रथमो मेरुरुच्यते ।
प्रागायतः ससौवर्ण उदयो नाम पर्व्वतः ॥”)
जपमालाग्रवर्त्तिन्येका माला । यथा, --
“मालामेकैकमादाय सूत्रे सम्पातयेत् सुधीः ।
मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योजयेत् ॥
गोपुच्छसदृशी कार्य्याथवा सर्पाकृतिर्भवेत् ।
तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ॥”
इत्युत्पत्तितन्त्रे ६० पटलः ॥ * ॥
करमालायां मेरुर्यथा, --
“तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका ।
पर्व्वद्वयं मध्यमाया मेरुत्वे नोपकल्पयेत् ॥”
इदन्तु शक्तिभिन्नविषयम् ॥ * ॥
शक्तिविषये मेरुर्यथा, --
“पर्व्वद्बयमनामायाः परिवर्त्तेन वै क्रमात् ।
पर्व्वत्रयं मध्यमायास्तर्ज्जन्येकं समाहरेत् ।
पर्व्वद्वयन्तु तर्ज्जन्या मेरुं तद्विद्धि पार्व्वति ! ॥”
श्रीविद्याविषये मेरुर्यथा, --
“अनामामध्यमायाश्च मूलाग्रन्तु द्बयं द्बयम् ।
कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व्व सुरेश्वरि ! ।
अनामामध्यमायाश्च मेरुः स्याद्द्वितयं शुभम् ॥”
तल्लङ्घितजपे दोषो यथा, --
“अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने ।
पर्व्वसन्धिषु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् ॥”
इति तन्त्रसारः ॥

मेरुकः, पुं, (मिनोति क्षिपति गन्धानिति । मि +

रुः । संज्ञायां कन् ।) यक्षधूपः । इति शब्द-
चन्द्रिका ॥ धुना इति भाषा । (मध्यदेशस्य
प्रदेशभेदः । यथा, बृहत्संहितायाम् । १४ । २९ ।
“ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मी-
राः ।
अभिसारदरदतङ्गणकुलूतसैरिन्धवनराष्ट्राः ॥”)

मेरुसावर्णः, पुं, एकादशमनुः । यथा, --

“ततस्तु मेरुसावर्णो ब्रह्मसूनुर्मनुः स्मृतः ।
ऋतुश्च ऋतुधामा च विश्वक्सेनो मनुस्तथा ॥”
इति मात्स्ये ९ अध्यायः ॥

मेलकः, पुं, (मिल् + भावे घञ् । स्वार्थे कन् ।)

सङ्गः । इत्यमरः । ३ । २ । २९ ॥ (“बहुमान्य-
मेलके बलाबलमुक्तम् ।” इति । २ । १३६ ।
मनुटीकायां कुल्लूकभट्टः ॥)

मेलकलवणं, क्ली, (मिलतीति । मिल + ण्वुल् ।)

मेलकं लवणम् ।) औषरलवणम् । इति राज-
निर्घण्टः ॥

मेला, स्त्री, (मिल् + णिच् + अङ् । टाप् ।)

मेलकः । मसिः । इति मेदिनी । ले, ४६ ॥
अञ्जनम् । इति हेमचन्द्रः ॥ महानीली । इति
राजनिर्घण्टः ॥

मेलानन्दा, स्त्री, (मेलया मस्या आनन्दी यस्याः ।)

मस्याधारः । इति हारावली ॥

मेलान्धुः, स्त्री, (मेलानां अन्धुः कूपिका ।) मस्या-

धारः । इति जटाधरः ॥

मेलाम्बुः, पुं, (मेलेव अम्बु अत्र ।) मस्याधारः ।

इति शब्दरत्नावली ॥

मेव, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अमिमेवत् । ङ,
मेवते । इति दुर्गादासः ॥

मेषः, पुं, (मिषति अन्योन्यं स्पर्द्धते इति । मिष्

स्पर्द्धायाम् + अच् ।) पशुविशेषः । मेडा इति
भेडा इति च भाषा ॥ (यथा, पञ्चतन्त्रे । ५ । ६२ ।
“मेषेण सूपकाराणां कलहो यत्र वर्त्तते ।
स भविष्यत्यसन्दिग्धं वानराणां भयावहः ॥”)
तत्पर्य्यायः । मेढ्रः २ उरभ्रः ३ उरणः ४
ऊर्णायुः ५ वृष्णिः ६ एडकः ७ । इत्यमरः । २ ।
९ । ७६ ॥ भेडः ८ हुडः ९ शृङ्गिणः १०
अविः ११ लोमशः १२ बली १३ रोमशः १४
भेडुः १५ भेडकः १६ मेण्टः १७ हुलुः १८ ।
इति शब्दरत्नावली ॥ मेण्टकः १९ हुड्ः २०
संफलः २१ । इति हेमचन्द्रः । ४ । ३४१ ॥
अस्य मांसगुणाः । मधुरत्वम् । शीतत्वम् ।
गुरुत्वम् । विष्टम्भित्वम् । वृंहणत्वञ्च । इति
राजनिर्घण्टः ॥ अपि च । पित्तश्लेष्मकरत्वम् ।
कुसुम्भशाकेन सह त्याज्यत्वञ्च । इति राज-
वल्लभः ॥ * ॥ लग्नविशेषः । औषधविशेषः ।
इति मेदिनी । षे, १२१ ॥ (यथा, सुश्रुते
उत्तरतन्त्रे । १७ अध्याये ।
“मेषस्य पुष्पैर्मघुकेन संयुतं
तदञ्जनं सर्व्वकृते प्रयोजयेत् ।
क्रियाश्च सर्व्वाः क्षतजोद्भवे हितः
क्रमः परिम्नायिनि चापि पित्तहृत् ॥”)
राशिविशेषः ॥ तत्पर्य्यायः । क्रियः २ । (यथा,
श्रीमद्भागवते । ५ । २१ । ४ । “यदा मेषतुलयोर्वर्त्तते
तदाहोरात्राणि समानानि भवन्ति । यदा
वृषभादिषु पञ्चसु च राशिषु चरति तदाहा-
न्येव वर्द्धन्ते ह्रसति च मासि मासि एकैका
घटिका रात्रिषु ॥”) अस्याधिष्ठात्री देवता
पुंमेषः । अश्विनीभरणीकृत्तिकापादैकेन मेष-
राशिर्भवति । अत्र जात ईदृशो भवति ।
शेषदशायां नेत्रदुःखी दयालुः धनी गानसुखी
धार्म्मिकः धीरः मत्स्यमांसाशी च । स तु
पृष्ठोदयः । अस्य वर्णः । आरक्तः पीतश्च ।
अयं क्रूरः । पित्तोष्णस्वभावः । कान्तिरहितः ।
समानाङ्गः । पर्व्वतचारी । पूर्ब्बदिगधिपतिः ।
वैश्यवर्णः । अल्पस्त्रीसङ्गः । अल्पसन्तानः ।
सुदृढः । अतिरवश्च । इति ज्योतिषम् ॥ * ॥
रव्याश्रिततद्राशिजातफलं यथा, --
“मेषे दिनेशे पुरुषः सुवेशः
सत्साहसः स्यान्नृपतेः समानः ।
बुद्ध्या युतः पित्तकृता च पीडा
वक्त्रोद्भवा वा सततं महौजाः ॥” * ॥
चन्द्राश्रिततद्राशिजातफलं यथा, --
“स्थिरजनो रहितः स्वजनैर्नरः
सुतयुतः प्रमदाविजितो भवेत् ।
अजगते द्बिजराज इतीरितं
विभुतयाद्भुतया सहितः श्रिया ॥” * ॥
तल्लग्नजातफलं यथा, --
“मेषलग्ने समुत्पन्नश्चण्डो मानी धनी शुभः ।
क्रोधी स्वजनहन्ता च विक्रमी परवत्सलः ॥”
इति कोष्ठीप्रदीपः ॥
पृष्ठ ३/७८३
तल्लग्नस्य स्थूलमानम् । ३ । ४७ । इति ज्योति-
स्तत्त्वम् ॥ * ॥ त्रितारकशराकृतिश्रवणानक्ष-
त्रस्य गगनमध्योदये मेषलग्नस्य अष्टादशपला-
धिकदण्डैको गतो भवेत् । यथा, --
“तारकात्रयमिते शराकृतौ
केशवे गगनमध्यवर्त्तिनि ।
मत्तवारणगतेऽजलग्नतो
निर्ययुर्गजमहीध्रलिप्तिकाः ॥”
मर्द्दलाकृतिपञ्चतारकधनिष्ठानक्षत्रस्य मस्तको-
पर्य्युदये मेषलग्नस्य षट्त्रिंशत्पलाधिकदण्डद्बयं
गतं स्यात् । यथा, --
“मस्तकोपरि समागते धने
मर्द्दलाकृतिनि पञ्चतारके ।
यान्ति कान्तिमति मेषलग्नतः
सारसाक्षि रसघस्रलिप्तिकाः ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥

मेषकः, पुं, (मिषतीति । मिष् + अच् । संज्ञायां

कन् ।) जीवशाकः । राजनिर्घण्टः ॥

मेषकम्बलः, पुं, (मेषलोमनिर्म्मितः कम्बलः । मध्य-

पदलोपी कर्म्मधारयः ।) मेषलोमनिर्म्मित-
वस्त्रम् । तत्पर्य्यायः । ऊर्णायुः २ । इत्यमरः ।
२ । ९ । १०७ ॥

मेषलोचनः, पुं, (मेषस्य लोचनमिव पुष्पमस्य ।)

चक्रमर्द्दः । इति भावप्रकाशः ॥ मेषचक्षुस्तुल्य-
चक्षुषि, त्रि ॥

मेषवल्ली, स्त्री, (मेषप्रिया वल्ली ।) अजशृङ्गी ।

इति भावप्रकाशः ॥

मेषविषाणिका, स्त्री, (मेषस्य विषाणं शृङ्गमिव

प्रतिकृतिरस्याः । विषाण + प्रतिकृतौ कन् ।
टापि अत इत्वम् ।) मेषशृङ्गी । इति रत्न-
माला ॥

मेषशृङ्गः, पुं, (मेषस्य शृङ्गमिव । तदाकृतित्वात् ।)

स्थावरविषभेदः । इति हेमचन्द्रः । ४ । २६३ ॥
(यथा, सुश्रुते उत्तरतन्त्रे । १७ अध्याये ।
“मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ॥”)

मेषशृङ्गी, स्त्री, (मेषशृङ्ग + गौरादित्वात् ङीष् ।)

अजशृङ्गीवृक्षः । मेढाशृङ्गी इति भाषा ।
(यथा, सुश्रुते । १ । ३९ ।
“मेषशृङ्गी मातुलुङ्गी मुरुङ्गीत्यादि ॥”)
तत्पर्य्यायः । नन्दीवृक्षः २ मेषविषाणिका ३
चक्षुः ४ चक्षुर्व्वहनम् ५ मेढ्रशृङ्गी ६ गृहद्रुमा ७ ।
इति रत्नमाला ॥ (तथास्याः पर्य्यायो गुणाश्च ।
“मेषशृङ्गी विषाणी स्यान्मेषवल्ल्यजशृङ्गिका ॥
मेषशृङ्गी रसे तिक्ता वातला श्वासकासहृत् ।
रूक्षा पाके कटुस्तिक्ता व्रणश्लेष्माक्षिशूल-
नुत् ॥
मेषशृङ्गीफलं तिक्तं कुष्ठमेहकफप्रणुत् ।
दीपनं स्रंसनं कासकृमिव्रणविषापहम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मेषा, स्त्री, (मिष्यतेऽसौ । मिष् + कर्म्मणि घञ् ।

टाप् ।) त्रुटिः । इति शब्दचन्द्रिका । गुज-
राटी एलाइच इति भाषा ॥

मेषाक्षिकुसुमः, पुं, (मेषाणां अक्षिवत् कुसु-

मान्यस्य ।) चक्रमर्द्दः । इति रत्नमाला ॥

मेषाण्डः, पुं, (मेषस्याण्डमिवाण्डमस्य ।) इन्द्रः ।

इति पुराणम् ॥

मेषान्त्री, स्त्री, (मेषस्य अन्त्रमिव अन्त्रं सूक्ष्मत्व-

गस्याः ।) वस्तान्त्रीवृक्षः । इति राजनिर्घण्टः ॥

मेषालुः, पुं, (मेषप्रियः आलुः ।) वर्व्वरावृक्षः ।

इति शब्दचन्द्रिका ॥

मेषाह्वयः, पुं, (मेषस्याह्वयः आह्वास्य ।) चक्रमर्द्दः ।

इति राजनिर्घण्टः ॥ (विवरणमस्य चक्रमर्द्द-
शब्दे ज्ञातव्यम् ॥)

मेषिका, स्त्री, (मेषी + स्वार्थे कन् । टाप् ।

ह्रस्वः ।) मेषी । इति शब्दरत्नावली ॥

मेषी, स्त्री, (मिष्यते गृह्यते असौ इति । मिष +

घञ् । ङीष् ।) तिनिशवृक्षः । जटामांसी ।
इति राजनिर्घण्टः ॥ मेषस्त्रीजातिः । भेडी ।
(यथा, वाजसनेयसंहितायाम् । ३ । ५९ ।
“भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजं
सुखं मेषाय मेष्यै ॥”)
तत्पर्य्यायः । जालकिनी २ अविः ३ । इति
त्रिकाण्डशेषः ॥ एडका ४ मेषिका ५ इति
शब्दरत्नावली । क्रुररी ६ रुजा ७ अविला ८
वेणी ९ । इति हेमचन्द्रः । ४ । ३४३ । अस्या
दुग्धगुणाः । मधुरत्वम् । गाढत्वम् । स्निग्ध-
त्वम् । कफापहत्वम् । वातामयकरत्वम् । स्थौल्य-
त्वम् । लोमशायाश्चेत् गुरुत्वम् । वृद्धिदत्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ अपि च ।
“आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरी-
प्रणुत् ।
अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ।
गुरुकासेऽनिलोद्भूते केवले वानिले वरम् ॥”
इति भावप्रकाशः ॥
अस्या दधिगुणाः । सुस्निग्धत्वम् । कफपित्त-
करत्वम् । गुरुत्वम् । वाते रक्तवाते च पथ्य-
त्वम् । शोफव्रणनाशित्वञ्च ॥ * ॥ अस्या नव-
नीतगुणाः । क्लिष्टगन्धत्वम् । शीतलत्वम् । मेधा-
हरत्वम् । पुष्टिदत्वम् । स्थौल्यत्वम् । मन्दाग्नि-
दीपनत्वम् । सारकत्वम् । पाके हिमत्वम् ।
लघुत्वम् । योनिशूले कफे वाते दुर्नाम्नि च
हितत्वञ्च । दुर्नाम्नि स्थाने गुदशूले इति
पुस्तकान्तरे पाठः ॥ * ॥ तस्या घृतगुणाः ।
अतीवगौरवात् सुकुमारदेहिनां वर्ज्ज्यत्वम् ।
बुद्धिपाटवहरत्वम् । बलावहत्वम् । वपुषां विस्र-
गन्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तन्-
मांसगुणाः । यथा, भावप्रकाशे ।
“छागमेषवृषाश्वाद्याः ग्राम्याः प्रोक्ता मह-
र्षिभिः ।
ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः ।
मधुरा रसपाकाभ्यां वृंहणा बलवर्द्धनाः ॥”

मेसूरणं, क्ली, दशमलग्नम् । यथा, --

“कर्म्मस्थानञ्च दशमं खं मेसूरणमास्पदम् ।”
इति ज्योतिस्तत्त्वम् ॥

मेहः, पुं, (मेहति क्षरति शुक्रादिरनेनेति । मिह्

+ घञ् ।) प्रमेहरोगः । इत्यमरः । २ । ६ । ५६ ॥
(अस्यौषधं यथा, --
“वङ्गभस्य द्बिवल्लञ्च लेहयेन्मधुना सह ।
ततो गुडसमं गन्धं भक्षयेत् कर्षमात्रकम् ॥
गुडूचीसत्त्वमथवा शर्करासहितन्तथा ।
सर्व्वमेहहरो ज्ञेयो वङ्गावलेह उत्तमः ॥”
इति वङ्गावलेहः ॥
“भस्मसूतं समं कान्तमभ्रकन्तु शिलाजतु ।
शुद्धताप्यं शिलाव्योषं त्रिफलाङ्कोठजीरकम् ॥
कार्पासमज्जारजनी समं भाव्यञ्च भृङ्गिणा ।
विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ॥
माषमात्रं हरेन्मेहं मेघनादरसो महान् ॥”
इति मेघनादरसः ॥
“रसभस्म समायुक्तं वङ्गभस्म प्रकल्पयेत् ।
अस्य माषद्बयं हन्ति मेहान् क्षौद्रसमन्वितम् ॥”
इति वङ्गेश्वररसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥
अन्यत् प्रमेहशब्दे द्रष्टव्यम् ॥ * ॥ मिहतीति ।
मिह + अच् ।) मेषः । इति शब्दचन्द्रिका ॥
प्रस्रावः । इति हेमचन्द्रः । ३ । २९७ ॥ (अग्न्या-
द्यभिमुखं तत्करणे दोषो यथा, मनौ । ४ । ५२ ।
“प्रत्यग्निं प्रतिसूर्य्यञ्च प्रतिसोमोदकद्विजान् ।
प्रतिगां प्रतिवातञ्च प्रज्ञा नश्यति मेहतः ॥”
“अग्निसूर्य्यचन्द्रजलब्राह्मणगोवाताभिमुखं मूत्र-
पुरीषे कुर्व्वतः प्रज्ञा नश्यति ।” इति तट्टीकायां
कुल्लूकभट्टः ॥)

मेहघ्नी, स्त्री, (मेहं हन्तीति । हन् + टक् । ङीष् ।)

हरिद्रा । इति रत्नमाला ॥

मेहनं, क्ली, (मेहति सिञ्चति मूत्ररेतसीति । मिह्

सेचने + ल्युः ।) शिश्नः । इत्यमरः । २ । ६ । ७६ ॥
(यथा, ऋग्वेदे । १० । १६३ । ५ ।
“मेहनाद्वनं कारणाल्लीम ।”
“मेहनात् मेढ्रात् ।” इति तद्भाष्ये सायणः ॥
यथा, च सुश्रुते । १ । ३५ ।
“ह्रस्वानि यस्य पर्व्वाणि सुमहच्चापि मेहनम् ।
तथोरस्यवलीढानि न च स्यात् पृष्ठमायतम् ॥
ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः ।
हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते ।
प्रेक्षते यश्च विभ्रान्तं स जीवेत् पञ्चविंशतिम् ॥”)
मूत्रम् । इति मेदिनी । ने, ११० ॥ (यथा,
सुश्रुते । १ । ३२ ।
“वस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्क-
स्तब्धमेढ्रो भग्नग्रीवः प्रणष्टमेहनश्च मनुष्यः ॥”)
भावेऽनट् प्रत्यये मूत्रोत्सर्गश्च ॥

मेहनः, पुं, (मेहति सिञ्चति रसमिति । मिह +

ल्युः ।) मुष्ककवृक्षः । इति राजनिर्घण्टः ॥

मेहना, स्त्री, (मेह्यते क्षार्य्यते शुक्रमस्यामिति ।

मिह क्षरणे + णिच् + अधिकरणे युच् । स्त्रियां
टाप् ।) महिला । इति केचित् ॥ (मेहनीयम् ।
यथा, ऋग्वेदे । ५ । ३९ । १ ।
“यदिन्द्रचित्रमेहनास्ति त्वादातमद्रिवः ॥”)
पृष्ठ ३/७८४

मैत्रं, क्ली, (मित्रादागतमिति । यद्बा, मित्रस्येद-

मिति । मित्र + “तस्येदम् ।” ४ । ३ । १२० । इति
अण् ।) अनुराधानक्षत्रम् १७ । यथा, --
“मैत्राद्यपादे स्वपितीह विष्णु-
र्व्वैष्णव्यमध्ये परिवर्त्तते च ।
पौष्णावसाने च सुरारिहन्ता
प्रबुध्यते मासचतुष्टयेन ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
(मित्रः सूर्य्यो देवतास्येति । आदित्यलोकः ।
यथा, महाभारते । १२ । ३१७ । ३ ।
“पायुनोत्क्रममाणन्तु मैत्रं स्थानमवाप्नुयात् ।
पृथिवीं जघनेनाथ ऊरुभ्याञ्च प्रजापतिम् ॥”
यद्बा, मनुः । १२ । ७२ ।
“मेत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ॥”)
पुरीषोत्सर्गः । यथा, --
“ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! ।
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥
कल्यं उषःकालम् । मैत्रं मित्रदेवताकपायुसम्ब-
न्धात् पुरीषोत्सर्गः ।” इत्याह्निकाचारतत्त्वम् ॥
अपि च ।
“ब्राह्म्ये मुहूर्त्ते चोत्तिष्ठेत् सुस्थो रक्षार्थमायुषः ।
शरीरचिन्तां निर्व्वर्त्य मैत्रं कर्म्म समाचरेत् ॥”
मैत्रं मलमूत्रोत्सर्गः । इति राजवल्लभः ॥ * ॥
तत्र निषिद्धस्थानादि यथा, --
“छायाकूपनदीगोष्ठचैत्याम्भःपथिभस्मसु ।
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥
न गोमये न दृष्टे वा महावृक्षे च शाद्बले ।
न तिष्ठन् वा न निर्व्वासा न च पर्व्वतमस्तके ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्त्तेषु न गच्छन् वा समाचरेत् ॥
तुषाङ्गारकपालेषु राजमार्गे तथैव च ।
न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥
नद्यां नदसमीपे वा नोषरे न पराशुचौ ।
न सोपानत्पादुको हि छत्री वा नान्तरीक्षके ॥
न चैवामिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।
न देवदेवालययोरपामपि कदाचन ॥
न ज्योतींषि निरीक्षन् वा न वाय्वभिमुखो-
ऽथवा ।
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥”
इति कौर्म्मे उपविभागे १२ अध्यायः ॥
अस्य विस्तारस्तु पाद्मे उत्तरखण्डे १९० अध्याये
द्रष्टव्यः ॥ * ॥ (मित्रस्य भावः । मित्र + अण् ।
मित्रता । यथा, मनुः । ८ । ११८ ।
“लोभात् मोहात् भयात् मैत्रात् कामात्
क्रोधात् तथैव च ।
अज्ञानात् बालभावाच्च साक्ष्यं वितथमुच्यते ॥”)
त्रि, मित्रसम्बन्धी ॥ (यथा, महाभारते । १२ ।
१४४ । २३ ।
“पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् ।
ऋतं मैत्रञ्च भाषन्ते ते नराः स्वर्गगामिनः ॥”
मित्रताशाली । यथा, श्रीमद्भगवद्गीतायाम् ।
१२ । १३ ।
“अद्वेष्टा सर्व्वभूतानां मैत्रः करुणं एवच ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥”
“मित्रभावो मैत्रो मित्रतया वर्त्तते ।” इति
श्रीशङ्करभाष्यम् ॥ “मैत्रः हीनेषु कृपालुः ।”
इति श्रीधरस्वामी ॥ “मैत्री मित्रता तद्बान्
मैत्रः ।” इति श्रीमधुसूदनसरस्वती ॥)

मैत्रः, पुं, ब्राह्मणः । इति त्रिकाण्डशेषः ॥ (यथा,

मनुसंहितायाम् । २ । ८७ ।
“जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः ।
कुर्य्यादन्यन्न वा कुर्य्यान् मैत्रो ब्राह्मण उच्यते ॥”
“मित्रमेव मैत्रः स्वार्थे अण् ।” इति तट्टीकायां
मेधातिथिकुल्लूकौ ॥ (उदयमुहूर्त्तात् तृतीय-
मुहूर्त्तः । तथा च बृहस्पतिः ।
“आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव
च ॥”
यथा, कुमारे । ७ । ६ ।
“मैत्रे मुहूर्त्ते शशलाञ्छनेन
योगं गतासूत्तरफल्गुनीषु ॥”
वर्णशङ्करविशेषः । यथा, मनुः । १० । २३ ।
“वैश्यात्तु जायते व्रात्यात् मुधन्वाचार्य्य एव च ।
कारूषश्च विजन्मा च मैत्रः सात्वत एव च ॥”)

मैत्रभं, क्ली, (मैत्रञ्च तत् भञ्चेति ।) अनुराधा-

नक्षत्रम् । इति जटाधरः ॥

मैत्रावरुणः, पुं, (मित्रश्च वरुणश्चेति । “देवता-

द्वन्द्वे च ।” ६ । ३ । २६ । इत्यनङ् । ततः “देवता-
द्बन्द्बे च ।” ७ । ३ । २१ । इति मित्रस्य वृद्धिः ।
“दीर्घाच्च वरुणस्य ।” ७ । ३ । २३ । इति
वरुणस्य न वृद्धिः । तयोरपत्यमिति । मित्रा-
वरुण + अण् ।) अगस्त्यः । इति शब्दरत्ना-
वली ॥ (यथा, अथर्व्ववेदे । ५ । १९ । १५ ।
“न वर्षं मैत्रावरुणं ब्रह्मज्यमभिवर्षति ॥”
अस्य विवरणं यथा, ऋग्वेदे । ७ । ३३ । ११ ।
“उतासि मैत्रावरुणो वसिष्ठोर्व्वश्या ब्रह्मन्
मनसोऽधिजातः ।
द्रप्सं स्कन्नं ब्रह्मणा दैव्ये न विश्वे देवा पुष्करे
त्वाददन्त ॥”
“उतापि च हे वसिष्ठ ! मैत्रावरुण ! मित्रावरु-
णयोः पुत्त्रोऽसि ब्रह्मन् वसिष्ठ ! उर्व्वश्या अप्स-
रसो मनसो ममायं पुत्त्रः स्यादिति ईदृशात्
संकल्पात् द्रप्सं रेतः मित्रावरुणयोरुर्व्वशीदर्श-
नात् स्कन्नमासीत् । तस्मादधिजातोऽसि । तथा
च वक्ष्यते । सत्रेहजातावित्यृचि । एवं जातं
त्वा त्वां दैव्येन देवसम्बन्धिना ब्रह्मणा वेद-
राशिना अहम्भुवा युक्तं पुष्करे विश्वेदेवा
अददन्त अधारयन्त । तथाचादितेर्मित्रा-
वरुणौ जज्ञाते इति प्रकृत्य पठ्यते ।
तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् ।
रेतश्चस्कन्द तत्कुम्भे न्यपतद्बासतीवरे ॥
तेनैव तु मुहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ ।
अगस्त्यश्च वसिष्ठश्च तत्रर्षी सम्बभूवतुः ॥
बहुधापतितं रेतः कलशे च जले स्थले ।
स्थले वसिष्ठस्तु मुनिः सम्भूत ऋषिसत्तमः ॥
कुम्भे त्वगस्त्यः सम्भूतो जले मत्स्यो महा-
द्युतिः ।
उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥
मानेन सम्मितो यस्मात्तस्मान्मान्य इहोच्यते ।
यद्बा कुम्भादृषिर्जातः कुम्भेनापि हि मीयते ।
कुम्भ इत्यभिधानञ्च परिमाणञ्च लक्ष्यते ।
ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः ।
सर्व्वतः पुष्करे तं हि विश्वे देवा अधारयन् ॥”
इति तद्भाष्ये सायणः ॥)

मैत्रावरुणिः, पुं, (मैत्रावरुणयोरपत्यमिति । मैत्रा

वरुण + “अत इञ् ।” ४ । १ । ९५ । इति
इञ् ।) अगस्त्यः । इत्यमरः । १ । ३ । २०-
(यथा, महाभारते । ३ । १०३ । १४ ।
“तेऽभिगम्य महात्मानं मैत्रारुणिमच्युतम् ।
आश्रमस्थं तपोराशिं कर्म्मभिः स्वैरभिष्टुवन् ॥”)

मैत्री, स्त्री, (मैत्र + ङीप् । यद्वा, मित्र + भावे

ष्यञ् + ङीष् । ततः “हलस्तद्धितस्य ।” ६ । ४ ।
१५० ।” इति यलोपः ।) मित्रस्य भावः ।
मित्रस्य कर्म्म । इत्यमरभरतौ ॥ व्यक्तिविशेषै-
र्मैत्रीकरणनिषेधो यथा, --
“विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः ।
बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह ॥
तथातिव्ययशीलैश्च परीवादरतैः शठैः ।
बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् ॥”
इति विष्णुपुराणे तृतीयेऽंशे ११ अध्यायः ॥
“विद्बिष्टादिभिर्मैत्रीं न कुर्व्वीत । बहुभिर्व्वैरं
यस्य । अतिकीटकः अत्यन्तं कीटवत् पीडकः ।
कण्टकैरिति पाठेऽपि स एवार्थः । बन्धकी
असती ।” इति तट्टीका ॥

मैत्रीबलः, पुं, (मैत्री मित्रता बलमस्य ।) बुद्धः ।

इति त्रिकाण्डशेषः ॥

मैत्रेयः, पुं, (मैत्रे मित्रतायां साधुरिति । मैत्र +

ढञ् ।) बुद्धभेदः । इति त्रिकाण्डशेषः ॥
(मित्रयोः अपत्यमिति । मित्रयु + “गृष्ट्यादि-
भ्यश्च ।” ४ । १ । १३६ । इति ढञ् । ततः
“केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ ।
इति युस्थाने इयादेशे प्राप्ते । “दाण्डिनायन-
हास्तिनायन ।” ६ । ४ । १७४ । इति युलोपो
निपातितः ।) मुनिविशेषः । यथा, --
“एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।
प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥”
इति श्रीभागवते । ३ । ७ । १ ॥
(सूर्य्यः । यथा, महाभारते । ३ । ३ । २७ ।
“देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ॥”
वर्णसं करजातिविशेषः । यथा, मनुसंहिता-
याम् । १० । ३३ ।
“मैत्रेयकन्तु वैदेहो माधूकं सम्प्रसूयते ।
नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥”
“मैत्रेयकं नाम्ना वर्णम् ।” इति तत्र मेधातिथिः ॥
स्त्री । मैत्रेयेन उच्चारिता मैत्रेयी उपनिषद् ॥
याज्ञवल्कस्य पत्नी च ॥) मित्रसम्बन्धिनि, त्रि ॥
पृष्ठ ३/७८५
(मित्रयुवंशोद्भवादौ च । यथा, हरिवंशे । ३२ ।
७७ -- ७८ ।
“अत ऊर्द्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ।
दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृपः ।
मैत्रायणी ततः शाखा मैत्रेयास्तु ततः स्मृताः ॥”)

मैत्रेयिका, स्त्री, मित्रयुद्धम् । इति त्रिकाण्डशेषः ॥

(मित्रयूनां भावः कर्म्म वा । मित्रयु + “गोत्र-
चरणाच्छ्लाघात्याकारतदवेतेषु ।” ५ । १ । १३४ ।
इति वुञ् । ततः “केकयमित्रयुप्रलयानां यादे-
रियः ।” ७ । ३ । २ । इति इयादेशः । यथा,
“मैत्रेयिकया श्लाघते ।” इति काशिका । ७ ।
३ । २ ॥)

मैत्र्यं, क्ली, स्त्री, (मित्र + ष्यञ् ।) मित्रस्य भावः ।

मित्रस्य कर्म्म । इत्यमरभरतौ । ३ । ५ । ३९ ॥
(यथा, पञ्चतन्त्रे । ४ । ७० ।
“प्राहुः साप्तपदं मैत्र्यं जनाः शास्त्रविचक्षणाः ।
मित्रताञ्च पुरस्कृत्य किञ्चिद्बक्ष्यामि तच्छृणु ॥”)

मैथिली, स्त्री, (मिथिला निवासोऽस्येति । मिथिला

+ “सोऽस्य निवासः ।” ४ । ३ । ८९ । इति
अण् । मैथिलस्तन्नामा राजा तस्यापत्यं स्त्री ।
मैथिल + इञ् । ङीष् ।) सीता । इति हेम-
चन्द्रः ॥ (यथा, भट्टिकाव्ये । २ । ४७ ।
“हिरण्मयी शाललतेव जङ्गमा
च्युतादिवः स्थास्नुरिवाचिरप्रभा ।
शशाङ्ककान्तेरधिदेवताकृतिः
सुता ददे तस्य सुताय मैथिली ॥”
मिथिलापतिमात्रे, पुं । यथा, महाभारते ।
१२ । ९९ । ३ ।
“जनको मैथिलो राजा महात्मा सर्व्वतत्त्ववित् ।
योधान् स्वान् दर्शयामास स्वर्गं नरकमेव च ॥”)

मैथुनं, क्ली, (मिथुने सम्भवतीति । मिथुन +

“संभूते ।” ४ । ३ । ४१ । इति अण् । मिथुनस्येद-
मित्यण् वा ।) अग्न्याधानम् । यथा, मनुशाता-
तपौ ।
“असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्बिजातीनां दारकर्म्मणि मैथुने ॥
मैथुने मिथुनशब्दवाच्ये स्त्रीपुंससाध्ये अग्न्याधान-
पुत्त्रोत्पत्त्यादौ ।” इत्यद्वाहतत्त्वम् ॥ * ॥ सङ्गतम् ।
रतम् । इत्यमरः । ३ । ३ । १२१ ॥ “सङ्गतिः सङ्गमो
दारसंयोगः विवाह इति कलिङ्गः ॥ रतं सुर-
तम् । अनयोर्मैथुनम् । मिथुनात् सङ्गमे इदमर्थे
स्वार्थे रतौ निष्पाद्यार्थे वा ष्णः । सम्बन्धे सुरते
युम्मे राशौ मिथुनमिष्यते । इति व्याडिः ।” इति
तट्टीकायां भरतः ॥ * ॥ शेषस्य पर्य्यायः । सुरतम्
२ अभिमानितम् ३ धर्षितम् ४ संप्रयोगः ५
अनारतम् ६ अब्रह्मचर्य्यकम् ७ उपसृष्टम् ८
त्रिभद्रम् ९ क्रीडारत्नम् १० महासुखम् ११ ।
इति त्रिकाण्डशेषः ॥ व्यवायः १२ ग्राम्य-
धर्म्मः १३ रतम् १४ निधुवनम् १५ । इत्यमरः ।
२ । ७ । ५७ ॥ अस्य गुणाः । धातुक्षयकारि-
त्वम् । रतिसन्तानदातृत्वञ्च । अतिशयमैथुनस्य
श्वासकासज्वरकारित्वम् । अमैथुनस्य प्रमेहमेद
ग्रन्थिरोगाग्निमान्द्यकारित्वम् । स्त्रीसंसर्गरहि-
तस्य आयुरजराशरीरबलवर्णस्थिरोपचित-
मांसानि भवन्ति । पूज्यस्थानाशुचिस्थान-
सेकस्थानलोकसमीपप्रातःकालसन्ध्याकालपर्व्व-
कालेषु तस्य त्याज्यत्वम् । एतत्कर्म्मणि रज-
स्वलाकामा मलिना बन्ध्या वर्णज्येष्ठा वयोज्येष्ठा
व्याधियुक्ताङ्गहीनासती वेश्या योनिदोषयुक्ता
सगोत्रा गुरुपत्नी भिक्षुकी कपटव्रतधारिणी
वृद्धा च त्याज्या ॥ रजस्वलागमने दृष्ट्यायुस्तेजः-
क्षयोऽधर्म्मश्च भवति । कपटव्रतयुक्तागुरुपत्नी
सगोत्रावृद्धागमने एवं पर्व्वकाले सन्ध्याकाले च
स्त्रीमैथुने पापमायुःक्षयश्च भवति । वयोरूप-
गुणोपेतां कुलशीलसमन्विताम् । अधिकामां
हृष्टामलङ्कृतां वाजीकरणपीडिताञ्च प्रमदां
हृष्टोऽधिकामश्च पुरुषः सेवेत । शुक्रवर्द्धकद्रव्यं
सशर्करं शीतलजलं वा पीत्वा कामबाणचञ्चलां
सुरूपामनिन्द्यां हृष्टां प्रमदामाद्यप्रहरे हृष्टः
कामुको गत्वा तदनु सुखं स्वपेत् । असकृद्-
गमने तु नरो धातुवैषम्यमेति । रतान्ते स्नानं
सशर्करक्षीरपानं निद्रा गौडिकरसभोजनञ्च
हितम् । इति राजवल्लभः ॥ * ॥ (“तत्र प्रथमे
दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां
भवति । यश्च तत्राधीयते गर्भः स प्रसवमानो
विमुच्यते । द्वितीयेऽप्येवं सूतिकागृहे वा ।
तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति । न च
प्रवर्त्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति
यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रति-
निवर्त्तते नोर्द्ध्वं गच्छति तद्बदेव द्रष्टव्यम् । तस्मा
न्नियमवतीं त्रिरात्रं परिहरेत् । अतःपरं मासा-
दुपेयात् ।”
“ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् ।
आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥
मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम् ।
कललं जायते तस्या वर्ज्जितं पैतृकैर्गुणैः ॥”
इति सुश्रुते शारीरस्थाने द्वितीयेऽध्याये ॥)
व्रतदिवसे अष्टाङ्गमैथुनस्य त्याज्यत्वं यथा, --
“स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।
मैथुनं विविधं त्याज्यं व्रते क्रीडाविवृद्धये ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४ अध्यायः ॥
अस्य विधिनिषेधौ यथा, --
“ऋतायुपगमः शस्तः स्वपत्न्यामवनोपते ! ।
पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु ॥
नास्नातां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्व्विणीम् ॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामामतिभुक्तां वा स्वयं वैभिर्गुणैर्युतः ॥
स्नातः स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितो-
ऽपि वा ।
सकामः सानुरागश्च व्यवायं पुरुयो व्रजेत् ॥
चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥
तैलस्त्रीमांससंभोगी पर्व्वस्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥
अशेषपर्व्वस्वेतेषु तस्मात् संयमिभिर्ब्बुधैः ।
भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥
नान्ययोनावयोनौ वा नोपभुक्तौषधस्तथा ।
देवद्बिजगुरूणाञ्च व्यवायी नाश्रयी भवेत् ॥
चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते ! ॥
प्रोक्तपर्व्वस्वशेषेषु नैव भूपाल ! सन्ध्ययोः ।
गच्छेद्व्यवायं मतिमान्न मूत्रोच्चारपीडितः ॥
पर्व्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ! ।
भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥
परदारान्न गच्छेत मनसापि कदाचन ।
किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवा-
यिनाम् ॥
मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः ।
परदारगतिः पुंसामुभयत्रापि भीतिदा ॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥”
इति विष्णुपुराणे । ३ । ११ । १११-१२४ ॥ * ॥
परस्त्र्यादिगमने दण्डो यथा, --
“ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोषितः ।
व्रजन्दाप्यो भवेद्राज्ञा दण्ड उत्तमसाहसम् ॥
वैश्यागमे च विप्रस्य क्षत्त्रियस्यान्त्यजागमे ।
मध्यमं प्रथमं वैश्यो दण्ड्यः शूद्रागमाद्भवेत् ॥
शूद्रः सवर्णागमने शतं दण्ड्यो महीभुजा ।
वैश्यश्च द्बिगुणं राजन् ! क्षत्त्रियस्त्रिगुणं तथा ॥
ब्राह्मणश्च भवेद्दण्ड्यस्तथा राजंश्चतुर्गुणम् ।
अगुप्तासु भवेद्दण्डः स्वगुप्तास्वधिको भवेत् ॥
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥
भागिनेयी तथा चैव राजपत्नी तथैव च ।
तथा प्रव्रजिता नारी वर्णोत्कृष्टा तथैव च ॥
इत्यगम्यास्तु निर्द्दिष्टास्तासान्तु गमने नरः ।
शिश्नस्योत्कर्त्तनं कृत्वा ततस्तु वधमर्हति ॥
भ्रातृभार्य्यागमे पूर्ब्बाद्दण्डस्तु द्बिगुणो भवेत् ।
चाण्डालीञ्च श्वपाकीं वा गच्छन् वधमवाप्नुयात् ।
तिर्य्यग्योनौ च गोवर्ज्यं मैथुनं योऽभिसेवते ।
स पणं प्राप्तुयाद्दण्डं तस्याश्च यवसोदकम् ॥
सुवर्णञ्च भवेद्दण्ड्यो गां व्रजन् मनुजोत्तम ! ।
वैश्यागामी द्बिजो दण्ड्यो वैश्यशुल्कसमं पणम् ॥
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ।
वेतनं द्बिगुणं दद्याद्दण्डञ्च द्विगुणन्तथा ॥
अन्यमुद्दिश्य यो दद्यात् नयेदन्यस्य कारणात् ।
तस्य दण्डं भवेद्राजन् ! सुवर्णस्य च माषकम् ॥
नीत्वा भोगान्न यो दद्याद्दाप्यो द्विगुणवेतनम् ।
राज्ञश्च द्बिगुणं दण्डन्तथा धर्म्मो न हीयते ॥
बहूनां व्रजतामेकां सर्व्वे ते द्विगुणं दमम् ।
दद्युः पृथक् पृथक् सर्व्वे दण्डञ्च द्बिगुणं परम् ॥”
इति मात्स्ये २०१ अध्यायः ॥

मैनाकः, पुं, (मेनकाया अपत्यं पुमान् । मेनकायां

भव इति वा । मेनका + अण् । पृषोदरादित्वात्
पृष्ठ ३/७८६
साधुः ।) पर्व्वतविशेषः । तत्पर्य्यायः । हिरण्य-
नाभः २ सुनाभः ३ हिमवत्सुतः ४ । इति जटा-
धरः ॥ स तु हिमालयस्य ज्येष्ठपुत्त्रः । यथा, --
“ततो भगवती प्राह मेनकां मुनिसन्निभाम् ।
स्मितपूर्ब्बं तदा तस्याः पूरयन्ती मनोरथम् ॥
श्रीदेव्युवाच ।
शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः ।
तत्रैको बलवान् मुख्यः प्रथमं संभविष्यति ॥
एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत ।
मेनका च मुदं लब्ध्वा स्वस्थानं प्रविवेश ह ॥
ततः काले तु संप्राप्ते मैनाकमचलोत्तमम् ।
पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्त्तते ॥
मेनका सुषुवे देवी देवेन्द्रं स्पर्द्धया गतम् ।
अन्यानूनशतं पुत्त्रान् क्रमात् सा सुषुवे च ह ॥”
इति कालिकापुराणे ४० अध्यायः ॥
(दानवविशेषः । इति हरिवंशे भविष्यपर्व्वणि ।
२३२ । ३ ॥

मैनाकस्वसा, [ऋ] स्त्री, (मैनाकस्य स्वसा ।)

पार्व्वती । इति हेमचन्द्रः । २ । ११८ ॥

मैनिकः, पुं, (मीनं हन्तीति । मीन + “पक्षि-

मत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।)
जालिकः । इति सिद्धान्तकौमुदी ॥

मैन्दः, पुं, विष्णुवध्यासुरविशेषः । इति हेमचन्द्रः ।

२ । १३४ ॥ (यथा, हरिवंशे । ४१ । १५८ -- १६० ।
“अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्व्वलोकहिताय वै ॥
यत्र शाम्बञ्च मैन्दञ्च द्विविदं कंसमेव च ।
दैत्यान् मानुषदेहस्थान् सूदयामास वीर्य्य-
वान् ॥”
वानरविशेषः । इति रामायणम् ॥ (यथा,
महाभारते । २ । ३१ । १८ ।
“तत्र वानरराजाभ्यां मैन्दैन द्बिविदेन च ।
युयुधे दिवसान् सप्त न च तौ विकृतिं गतौ ॥”)

मैन्दहा, [न्] पुं, (मैन्दं हतवानिति । हन् +

क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

मैरेयं, क्ली, (मारं कामं जनयतीति । मार +

ढक् । निपातनात् साधुः ।) मद्यविशेषः । इत्य-
मरः । २ । १० । ४२ ॥ “यद्यपि ।
‘सीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् ।
मैरेयं धातकीपुष्पगुडधानाम्लसंहितम् ॥’
इति माधवेन भेदः कृतः । तथापि सूक्ष्ममनादृ-
त्येदमुक्तम् । मारं कामं जनयति मैरेयं ष्णेयः ।
निपातनादात् ऐत्वम् ।” इति भरतः ॥ (यथा,
“मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा ।
कादम्बरी वारुणी च हालापि बलवल्लभा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
क्वचित्, पुंलिङ्गेऽपि दृश्यते । यथा, --
“तीक्ष्णः कषायो मदकृत् दुर्नामकफगुल्महृत् ।
कृमिमेदोऽनिलहरो मैरयो मधुरो गुरुः ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

मैलन्दः, पुं, भ्रमरः । यथा । “श्रीमन्मुरहरपद-

पाथोरुहनिःसरन्मकरन्दसन्दोहास्वादनतुन्दि-
तमनोमैलन्द इत्यादि ।” इति वररुचिकृतपत्र-
कौमुद्यां राजप्रशस्तिः ॥

मोक्ष, कि क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, मोक्षयति
मोक्षति । इति दुर्गादासः ॥

मोक्षः, पुं, (मोक्ष + भावे घञ् । मोक्ष्यते दुःखमनेन ।

मोक्ष + करणे घञ् । इति भरतः ।) मुक्तिः ॥
(यथा, सांख्यसारे । २ । ७ । २५ ।
“न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
सर्व्वाशासंक्षये चेतःक्षयो मोक्ष इति श्रुतेः ॥”)
मोक्षधर्म्मस्तु महाभारते शान्तिपर्व्वणि द्रष्टव्यः ॥
पाटलिवृक्षः । मोचनम् ॥ इति मेदिनी । षे,
२५ ॥ (यथा, मेघदूते । ६३ ।
“ताभ्यो मोक्षस्तव यदि सखे ! धर्म्मलब्धस्य
न स्यात्
क्रीडालोलाः श्रवणपरुषैर्गर्ज्जितैर्भापयेस्ताः ॥”)
मृत्युः । इति हेमचन्द्रः । १ । ७५ ॥ (विश्लेषः ।
यथा, श्रीमद्भगवद्गीतायाम् । ७ । १९ ।
“जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्बिदुः कृत्स्नमध्यात्मं कर्म्म चाखिलम् ॥”
“मोक्षाय विश्लेषणार्थम् ।” इत्यानन्दगिरिः ॥
आत्मस्वरूपदर्शनम् । इति रामानुजः ॥ निर-
सनम् । इति श्रीधरस्वामी ॥ पतनम् । यथा,
कुमारसम्भवे । ३ । ३१ ।
“मदोद्धताः प्रत्यनिलं विचेरु-
र्वनस्थलीर्मर्म्मरपत्रमोक्षाः ।”
“मर्म्मरपत्रमोक्षाः जीर्णपर्णपाताः ।” इति
तट्टीकायां मल्लिनाथः ॥)

मोक्षकः, पुं, (मोक्षतीति । मोक्ष + ण्वुल् ।)

मुष्ककवृक्षः । इति राजनिर्घण्टः ॥ (यथा,
बृहत्संहितायाम् । ५४ । ११३ ।
“तोयं शृतं मोक्षकभस्मना वा
यत्सप्तकृत्वः परिषेचनं तत् ॥”
त्रि, मोचनकर्त्ता । यथा, मनुसंहितायाम् ।
४ । ३४२ ।
“असन्धितानां सन्धाता सन्धितानाञ्च
मोक्षकः ॥”)

मोक्षोपायः, पुं, (मोक्षस्य मुक्तेरुपायः ।) मुक्ति

साधनम् ॥ तत्तु तपः । शमादिः । योगः ।
ज्ञानञ्च । इति हेमचन्द्रः । १ । ७७ ॥ (यथा,
हरिवंशे । २५५ । ६३ ।
“स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ॥”)

मोघं, त्रि, (मुह्यतेऽस्मिन्निति । मुह + घञ् ।

न्यङ्क्वादित्वात् कुत्वम् ।) निरर्थकम् । इत्यमरः ।
३ । १ । ८१ ॥ (यथा, मनौ । ९ । ५० ।
“यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥”
यथा च ।
“प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च ।
मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥
तानि भेषजवीर्य्याणि प्रतिघ्नन्ति जिघांसया ।
तस्मान्मोघाः क्रियाः सर्व्वा भवन्त्येव गतायुषः ॥”
इति सुश्रुते सूत्रस्थाने ३१ अध्याये ॥)
हीनम् । इति मेदिनी । घे, ४ ॥ (यथा,
आर्य्यासप्तशत्याम् । ६७० ।
“सज्जन एव हि विद्या शोभायै भवति दुर्ज्जने
मोघा ॥”)

मोघः, पुं, (मुह्यत्यस्मिन् । मुह + घञ् । कुत्वम् ।)

प्राचीरम् । इति शब्दमाला ॥

मोघपुष्पा, स्त्री, (मोघं पुष्पं रजो यस्याः ।)

बन्ध्या । इति राजनिर्घण्टः ॥

मोघा, स्त्री, पुं, (मुह्यत्यनया । मुह + घञ् ।

कुत्वम् । स्त्रियां टाप् ।) पाटला । इति
मेदिनी । घे, ४ ॥ (अस्याः पर्य्यायो यथा, --
“पाटलिः पाटला मोघा मधुदूती फलेरुहा ।
कृष्णवृन्ता कुवेराक्षी कालस्थाल्यलिवल्लभा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
विडङ्गम् । इति शब्दमाला ॥

मोघोलिः, पुं, प्राचीरम् । इति हारावली । ९८ ॥

मोचं, क्ली, (मुञ्चति त्वगादिकमिति । मुच् + अच् ।)

कदलीफलम् । इत्यमरः ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने । ३१ अः । “तालनाडिकेरपनसमोच-
पियालविल्वमधुकश्लेष्मातकाम्रफलस्नेहाः पित्त-
संसृष्टे वायौ ॥” विवरणमस्य कदलीफलशब्दे
ज्ञातव्यम् ॥)

मोचः, पुं, (मुञ्चति त्वचमिति । मुच् + अच् ।)

शोभाञ्जनवृक्षः । इति मेदिनी । चे, ८ ॥ (यथा,
महाभारते । ३ । १५८ । ४३ ।
“पनसाल्लँकुचान् मोचान् खर्ज्जूरानम्बुवेत-
सान् ॥”)

मोचकः, पुं, (मोचयति संसारादिति । मुच् +

णिच् + ण्वुल् ।) मोक्षः । (मुञ्चति गन्धं त्वच-
मिति वा । मुच् + ण्वुल् ।) कदली । शिग्रुः ।
(मुञ्चति विषयानिति ।) विरागी । इति
हेमचन्द्रः । ४ । २०० ॥ मुष्ककवृक्षः । इति
राजनिर्घण्टः ॥ (मुक्तिकारके, त्रि । यथा,
शिवपुराणे वायुसंहितायां पूर्ब्बभागे । २ । ५१ ।
“अमुक्तो मोचकश्चायमकालः कालचोदकः ॥”)

मोचनं, क्ली, (मुच् + ल्युट् ।) मोक्षः । (यथा,

महाभारते । ५ । ८४ । २१ ।
“अवतीर्य्य रथात्तूर्णं कृत्वाशौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥”)
कल्कनम् । दम्भः । शाठ्यम् । इति मुचधातो-
र्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥ (मोचयतीति ।
मोचि + ल्युः । मोचनकर्त्तरि, त्रि । यथा,
भागवते । ६ । १३ । २३ ।
“धन्यं यशस्यं निखिलाघमोचनं
रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥”)

मोचनी, स्त्री, (मोचयति रोगादिति । मुच् +

णिच् + ल्युः । स्त्रियां ङीप् ।) कण्टकारी ।
इति जटाधरः ॥ मोक्षकर्त्री च ॥

मोचरसः पुं, (मोचस्य रसः ।) शाल्मलिनिर्यासः ।

तत्पर्य्यायः । मोचस्रुत् २ मोचस्रावः ३ मोच-
पृष्ठ ३/७८७
निर्यासः ४ पिच्छिलसारः ५ सुरसः ६ शाल्मली-
वेष्टः ७ मोचसारः ८ । अस्य गुणाः ।
कषायत्वम् । कफवातहरत्वम् । रसायनत्वम् ।
बलपुष्टिवर्णवीर्य्यप्रज्ञायुर्देहसिद्धिदत्वम् । ग्राहि-
त्वञ्च । इति राजनिर्घण्टः ॥ (यथा, मुश्रुते ।
उत्तरतन्त्रे । ४० अध्याये ।
“तिलामोचरसो लोध्रं तथैव मधुकोत्पलम् ।
कच्छरातिलकल्कश्च योगाश्चत्वार एव तु ॥
आजेन पयसा पेयाः सरक्ते मधुसंयुताः ॥”)

मोचा, स्त्री, (मुञ्चति त्वचमिति । मुच् + अच् ।

टाप् ।) शाल्मलिवृक्षः । (यथा, --
“शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च ।
रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥”
इति मावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥)
कदलीवृक्षः । इत्यमरः । २ । ४ । १३३ ॥
(यथास्याः पर्य्यायः ।
“कदली वारणा मोचाम्बुसारांशुमतीफला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नीलीवृक्षः । इति राजनिर्घण्टः ॥

मोचाटः, पुं, कृष्णजीरः । रम्भास्थि । मलयोद्भवः ।

इति मेदिनी । टे, ५४ ॥

मोची, स्त्री, (मुच्यते रोगो ययेति । मुच् + घञ् ।

ङीष् ।) हिलमोचिका । इति रत्नमाला ॥
(विवृतिरस्या हिलमोचिकाशब्दे ज्ञातव्या ॥)

मोटकं, क्ली, (मुट्यते भुग्नीक्रियते इति । मुट् +

घञ् । ततः कन् ।) पितृदानार्थद्विगुणभुग्नकुश-
त्रयम् । यथा । “इति द्विगुणभुग्नदर्भमोटकं
पितृब्राह्मणवामपार्श्वे दद्यात् ।” इति श्राद्ध-
प्रयोगतत्त्वम् ॥

मोटकी, स्त्री, (मोटक + ङीष् ।) रागिणी-

विशेषः । इति हलायुधः ॥

मोटनं, क्ली, (मुट् + ल्युट् ।) चूर्णीकरणम् ।

आक्षेपः । इति मुटधात्वर्थदर्शनात् ॥

मोटनः, पुं, (मोटतीति । मुट् + ल्युः ।) वायुः ।

इति राजनिर्घण्टः ॥

मोटनकं, क्ली, (मोटनेन कायतीति । कै + कः ।)

एकादशाक्षरच्छन्दोविशेषः । यथा, --
“स्यान्मोटनकं तजजाश्च लगौ ॥”
“रङ्गे खलु मल्लकलाकुशल-
श्चाणूरमहाभटमोटनकम् ।
यः केलिलवेन चकार स मे
संसाररिपुं प्रति मोटयतु ॥”
इति छन्दोमञ्जरी ॥

मोटा, स्त्री, (मुट् + अच् । टाप् ।) बला । इति

राजनिर्घण्टः ॥

मोट्टायितं, क्ली, (मुट् + भावे घञ् । बाहुलकात्

घञस्तुट् । ततो भृशादित्वात् क्यङ् । ततो भावे
क्तः ।) स्त्रीणां स्वाभाविकदशविधालङ्कारान्त-
र्गतालङ्कारविशेषः । इति हेमचन्द्रः ॥ तल्लक्षणं
यथा, उज्ज्वलनीलमणिः ॥
“कान्तस्मरणवार्त्तादौ हृदि तद्भावभावतः ।
प्राकट्यमभिलाषस्य मोट्टायितमुदीर्य्यते ॥”

मोणः, पुं, (मुण् + अच् ।) शुष्कफलम् । नक्रः ।

मक्षिका । सर्पकरण्डः । इति मेदिनी । णे, २४ ॥

मोदः, पुं, (मुद + भावे घञ् ।) हर्षः । इति

शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ९ । १३३ । ११ ।
“यत्रानन्दाश्च मोदश्च मुदः प्रमुद आसते ॥”)

मोदकः, पुं, क्ली, (मोदयति बालादीनिति । मुद

+ णिच् + ण्वुल् ।) खाद्यविशेषः । इत्यमरः ।
३ । ५ । ३३ ॥ मोया इति भाषा । अस्य दान-
मन्त्रो यथा, --
“मोदकं स्वादुसंयुक्तं शर्करादिविनिर्म्मितम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरि ! ॥”
इति दुर्गोत्सवपद्धतिः ॥
गुडः । यवासशर्करा । इति राजनिर्घण्टः ॥
शर्करादिद्वारापक्वौषधविशेषः । अस्य पूर्णवीर्य्यं
षण्मासं तिष्ठति । इति सुखबोधः ॥ (यथा, --
“वटका अथ कथ्यन्ते तन्नाम गुटिका वटी ।
मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥
द्रवन्तु द्बिगुणं देयं मोदकेषु भिषग्वरैः ॥
द्रवं द्रवरूपद्रव्यं कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा
प्रयुज्यते । बलमिति कालादेरप्युपलक्षणम् ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)
हर्षके, त्रि । इति मेदिनी । के, १४१ ॥ (यथा,
महाभारते । ७ । ३५ । ३८ ।
“हतारोहांश्छिन्नघण्टान् क्रव्यादगणमोद-
कान् ॥”)

मोदकः, पुं, (मोदयति मिष्टान्ननिर्म्माणेनेति । मुद्

+ णिच् + ण्वुल् ।) वर्णसङ्करजातिविशेषः ।
मयरा इति भाषा । स च शूद्रायां क्षत्त्रिया-
ज्जातः । इति स्मृतिः ॥

मोदनं, क्ली, (मोदयतीति । मुद + णिच् + ल्युः ।)

शिक्थकम् । इति राजनिर्घण्टः ॥ (मुद + भावे
ल्युट् ।) हर्षः । मुदधात्वर्थदर्शनात् ॥ (हर्ष-
जनके, त्रि । यथा, महाभारते । ९ । २३ । ७६ ।
“वृकगृध्रशृगालानां तुमुले मोदनेऽहनि ।
आसीद्बलक्षयो घोरस्तव पुत्त्रस्य पश्यतः ॥”)

मोदमोदिनी, स्त्री, (मोदात् मोदो महान् हर्षः

सोऽस्या अस्तीति । मोदमोद + इनि । ङीप् ।)
जम्बूः । इति राजनिर्घण्टः ॥

मोदयन्ती, स्त्री, (मोदयतीति । मुद + णिच् +

शतृ । ङीप् ।) वनमल्लिका । काठमल्लिका
इति भाषा ॥ यथा, --
“मदयन्ती गन्धवती मोदयन्ती खरस्वरा ।”
इति रत्नमाला ॥
अपि च ।
“तृणशून्या मोदयन्ती भूपदी मद्यन्तिका ॥”
इति शब्दरत्नावली ॥
(यथा च सुश्रुते । २ । २५ ।
“पिष्ट्वाथ सर्व्वं सह मोदयन्त्या
माराम्भसा बीजकसम्भवेन ॥”)

मोदा, स्त्री, (मोदयति गन्धेन तोषयतीति ।

मुद + णिच् + अच् । टाप् ।) अजमोदा । इति
राजनिर्घण्टः ॥

मोदाख्यः, पुं, (मोदमाख्याति रसपल्लवादिना

विस्तारयतीति । आ + ख्या + कः ।) आम्र-
वृक्षः । इति राजनिर्घण्टः ॥

मोदाढ्या, स्त्री, (मोदेन आमोदगन्धेन आढ्या

बहुला ।) अजमोदा । इति राजनिर्घण्टः ॥
मोदेन आढ्या । हर्षयुक्ता च ॥

मोदितः, त्रि, (मोदो हर्षोऽस्यजातः । मोद +

तारकादित्वात् इतच् ।) हर्षयुक्तः । इति
व्याकरणम् ॥

मोदिनी, स्त्री, (मोदयति गन्धेनेति । मुद +

निच् + णिनिः । ङीप् ।) अजमोदा । मल्लिका ।
यूथिका । कस्तूरी । मदिरा । मल्लिकापुष्प-
विशेषः । तत्पर्य्यायः । वटपत्री २ कुमारिका ३
वृत्तमल्लिका ४ । अस्या गुणाः । नेत्ररोगाप-
हन्तृत्वम् । कटुत्वम् । उष्णत्वम् । व्रणघ्नत्वम् ।
गन्धबहुलत्वम् । आस्यजरोगनाशित्वञ्च । इति
राजनिर्घण्टः ॥ (हर्षदायके, त्रि । यथा,
महाभारते । ९ । ५६ । १३ ।
“वराश्वनरनागानां शरीरप्रभवा तदा ।
परलोकार्णवमुखा गृध्रगोमायुमोदिनी ॥”)

मोरटं, क्ली, (मुर वेष्टने + “शकादिभ्योऽटन् ।”

उणा० ४ । ८१ । इति अटन् ।) इक्षुमूलम् ।
अङ्कोठपुष्पम् ॥ सप्तरात्रात् परक्षीरम् । इति
मेदिनी । टे, ५४ ॥ (यथा, वैद्यकरत्नमालायाम् ।
“परतो मोरटं विद्यादप्रासन्नं कफात्मकम् ॥”
यथा च ।
“नष्टदुग्धभवन्नीरं मोरटञ्जेज्जडोऽब्रवीत् ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

मोरटः, पुं, (मुर + अटन् ।) लताप्रमेदः । क्षीर-

मोरटा इति भाषा । तत्पर्य्यायः । कर्ण-
पुष्पः २ पीलुपत्रः ३ मधुस्रवः ४ घनमूलः ५
दीर्घमूलः ६ पुरुषः ७ क्षीरमोरटः ८ । क्वचित्
पुस्तके कर्णपुष्पस्थाने क्षीरपुष्प इति पीलुपत्र-
स्थाने पीलुपुत्त्र इति च पाठः ॥ (तथास्य
पर्य्यायान्तरम् ।
“पीलुपर्णी घनरसो हस्तिपर्णी च मोरटः ॥”
इति वैद्यकरत्नमालायाम् ॥)
अस्य गुणाः । क्षीरबहुलत्वम् । मधुरत्वम् ।
कषायत्वम् । पित्तदाहज्वरनाशित्वम् । वृष्य-
त्वम् । बलविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥
(यथा, सुश्रुते । १ । ४५ अध्याये ।
“गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः
स्मृतः ।
मधुरौ बृंहणौ वृष्यौ तद्बत्पीयूषमोरटौ ॥”)

मोरटकं, क्ली, (मोरट + स्वार्थे कन् ।) इक्षुमूलम् ।

इति राजनिर्घण्टः ॥

मोरटा, स्त्री, (मोरट + टाप् ।) मूर्व्वा । इत्य-

मरः । २ । ४ । ८३ ॥ (यथा, सुश्रुते । १ । ३८ अः ।
“वीरतरुसहचरद्बयदर्भवृक्षादनी गुन्द्रानल-
कुशकाशाश्यभेदकाग्निमन्थमोरटावसुकवसिर-
मल्लूक कुरुण्टकेन्दीवरकपोतवङ्काः ॥” तथास्याः
पर्य्यायो यथा, --
पृष्ठ ३/७८८
“मूर्ब्बा मधुरसा देवी मोरटा तेजनी स्रुवा ।
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मोषकः, पुं, (मुष्णातीति । मुष् + ण्वुल् ।) तस्करः ।

इत्यमरः । २ । १० । २४ ॥

मोषणं, क्ली, लुण्ठनम् । छेदनम् । वधः । इति

मुषधातोर्भावेऽनट् । (ल्युट् ॥ * ॥ मुष्णातीति ।
मुष् + ल्युः । अपहारके, त्रि । यथा, भागवते ।
५ । २४ । २२ । “न वैभगवान् नूनममुष्यानुजग्राह
यदुत पुनरात्मानुस्मृतिमोषणं मायामयं भोगै-
श्वर्य्यमेवातनुतेति ॥”)

मोषिता, [ऋ] त्रि, मोषणकर्त्ता । चौरः । इति

मुषधातोस्तृन्प्रत्ययेन निष्पन्नः ॥

मोहः, पुं, (मोहनमिति । मुह् + भावे घञ् ।)

मूर्च्छा । इत्यमरः । २ । ८ । १०९ ॥ (यथा,
उत्तररामचरिते ३ अङ्के ।
“वीचिवातैः शीकरक्षोदशीतै-
राकर्षद्भिः पद्मकिञ्जल्कगन्धान् ।
मोहे मोहे रामभद्रस्य जीवं
स्वैरं स्वैरं प्रेषितैस्तर्पयेति ॥”
अस्य विषयो यथा, --
“संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः ।
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् ।
मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकी-
र्त्तिता ॥”
इति सुश्रुते उत्तरतन्त्रे ४६ अध्याये ॥)
अविद्या । इति मेदिनी । हे, ७ ॥ दुःखम् ।
इति शब्दरत्नावली ॥ देहादिषु आत्मबुद्धिः ।
इति गीतासुबोधिन्यां श्रीधरस्वामी ॥ असौ
ब्रह्मणो बुद्धितो जातः । यथा, --
“बुद्धेर्मोहः समभवदहङ्कारादभून्मदः ।
प्रमोदश्चाभवत् कण्ठान्मृत्युर्लोचनतो नृप ! ॥”
इति मात्स्ये २ अध्यायः ॥
मोहस्वरूपं यथा, --
“मम माता मम पिता ममेयं गृहिणी गृहम् ।
एतदन्यं ममत्वं यत् स मोह इति कीर्त्तितः ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥
धर्म्मविमूढत्वम् । यथा, --
“अकामतः कृतं पापं वेदाभ्यासेन नश्यति ।
कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधै-
रिति ॥”
नन्वत्र मोहादिति को मोहः । अत्र ।
“मोहशब्देन देवेन्द्र ! बुद्धिपूर्ब्बो व्यतिक्रमः ।
उच्यते पण्डितैर्नित्यं पुराणे सांशपायनः ॥”
इति भविष्यपुराणवचनात् जातबुद्धिपूर्ब्बो व्यति-
क्रमो मोहः । इति जिकनः । तन्न कामना-
सामर्थ्यादेव बुद्धेर्लब्धत्वात् । उच्यते । शूद्रस्य
ब्रह्माणीं मोहाद्गच्छत इत्यादौ मुह वैचित्त्ये
इति धात्यर्थानुसारात् अज्ञानमात्रं मोहः ।
यत्र तु कामनाशब्दोऽस्ति तत्र भविष्यपुराण-
सङ्केतितमोहशब्दो न ग्राह्यः । किन्तु घर्म्म-
विमूढत्वं मोहः स चाधर्म्मबुद्धौ सत्यामप्यकर्त्तव्ये
रागात् कर्त्तव्यताभ्रमः । यथा, व्यासः ।
“मोहो धर्म्मविमूढत्वं मानस्त्वात्माभिमानिता ।”
एवञ्च भविष्यपुराणीयबुद्धिशब्दोऽप्यधर्म्मज्ञान-
मेवाभिधत्ते सत्यधर्म्मज्ञाने पापगौरवार्थमिद-
मुक्तं मोहादिति । इति प्रायश्चित्तविवेकः ॥ * ॥
मोहवृक्षो यथा, --
सुमनोवाच ।
“श्रूयतामभिधास्यामि सर्व्वसन्देहनाशनम् ।
स्वरूपमुपदेशस्य सर्व्वविज्ञानदर्शनम् ॥
लोभः पापस्य बीजोऽयं मोहो मूलन्तु तस्य
हि ।
असत्यं तस्य च स्कन्धो माया शाखासुविस्तरः ॥
दम्भकौटिल्यपत्राणि कुकृत्या पुष्पितः सदा ।
पैशुन्यं तस्य सौगन्ध्यमज्ञानं फलमेव हि ॥
छद्मपाषण्डचौराश्च कूटाः क्रूराश्च पापिनः ।
पक्षिणो मोहवृक्षस्य मायाशाख्याः समा-
श्रिताः ॥
अज्ञानन्तु फलं तस्य रसोऽधर्म्मफलस्य हि ।
भावोदकेन संवृद्धस्तस्य सत्त्वात् स तु प्रियः ॥
अधर्म्मस्तस्य सुरभिः क्लेदश्च मधुरायते ।
तादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥
तस्य च्छायां समाश्रित्य यो नरः परिवर्त्तते ।
फलानि तस्य योऽश्नाति सुपक्वानि दिने दिने ॥
फलानान्तु रसेनैव अधर्म्मेण तु पोषितः ।
सुसंपुष्टो भवेन्मर्त्यः पतनाय प्रयच्छति ॥”
इति पाद्मे भूमिखण्डे ११ अध्यायः ॥

मोहनं, क्ली, (मुह्यतेऽनेनेति । मुह् + ल्युट् ।)

सुरतम् । इति हेमचन्द्रः । ३ । २०० ॥
यथा, मार्कण्डेये । ५१ । ७७ ।
“प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ।
जायन्ते मोहनात्तस्याः सर्व्वमण्डूककच्छपाः ॥”)
होममन्त्रौषध्यादिद्बारामुग्धताकरणम् । तत्र
होमेऽङ्गुलिनियमो यथा, --
“मोहनं वश्यकामश्च प्रीतिसंवर्द्धनं तथा ।
प्रदेशिनीकनिष्ठाभ्यां सर्व्वमेतत् प्रसिध्यति ॥
मोहनाकर्षणञ्चैव क्षोभणोच्चाटनं तथा ।
कनिष्ठामध्यमाङ्गुष्ठसंयोगेन तु लीलया ॥
विधियुक्तेन होमेन तथा द्रव्यानुयोगतः ।
सर्व्वे मन्त्राः प्रसिध्यन्ति मुद्रामन्त्रप्रयोगतः ॥”
इति तन्त्रसारः ॥
(नगरभेदः । यथा, महाभारते । २ । २५३ । ९ ।
“मोहनं पत्तनञ्चैव त्रिपुरां कोशलां तथा ।
एतान् सर्व्वान् विनिर्जित्य करमादाय सर्व्वशः ॥”)

मोहनः, पुं, (मोहयतीति । मुह + निच् + ल्युः ।)

धुस्तूरवृक्षः । इति राजनिर्घण्टः ॥ कामदेवस्य
पञ्चबाणान्तर्गतबाणविशेषः । इति त्रिकाण्ड-
शेषः ॥ (यथा, कथासरित्सागरे । ७१ । १३२ ।
“कामस्यैव जगज्जैत्रमोहनास्त्राधिदैवतम् ।
तद्रूपहृतचित्ताभूत् समाधिस्थेव तत्क्षणम् ॥”
नृपविशेषः । यथा, कथासरित्सागरे । ४७ । ६१ ।
“वीक्ष्य प्रलम्बं निहतं मोहनो नाम भूपतिः ।
सन्निपत्याट्टहासं तं ताडयामास सायकैः ॥”
मोहकारके, त्रि ॥ यथा, गीतायाम् । १८ । ३९ ।
“यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् ॥”
“अत्र मोहनं मोहकरम् ।” इति आनन्द-
गिरिः ॥)

मोहनभोगः, पुं, (मोहनश्चासौ भोगश्चेति ।)

समिताशर्क्कराघृतादियुक्तमिष्टान्नविशेषः । इति
पाकराजेश्वरः ॥

मोहना, स्त्री, (मोहयति पुष्पेणेति । मुह +

ल्युः । टाप् ।) त्रिपुरमालीपुष्पम् । इति रत्न-
माला ॥ मरुन्माला । इति शब्दमाला ॥

मोहनी, स्त्री, (मुह्यत्यनयेति । मुह् + ल्युट् ।

स्त्रियां ङीष् ।) उपोदकी । इति राज-
निर्घण्टः ॥ वटपत्री । इति भावप्रकाशः ॥
(तथास्याः पर्य्यायः ।
“मोहनी मल्लिकाख्या तु वटपत्रा च मोहना ।”
इति वैद्यकरत्नमालायाम् ॥)
माया । यथा, महाभारते । १४ । ८० । ४५ ।
“मया तु मोहनी नाम मायैषा संप्रदर्शिता ॥”)

मोहरात्रिः, स्त्री, (मोहस्य रात्रिः ।) दैनन्दिन-

प्रलयः । यथा, --
“एवं पञ्चाशदब्दे च गते तु ब्रह्मणो नृप ! ।
दैनन्दिनन्तु प्रलयं वेदेषु परिकीर्त्तितम् ॥
मोहरात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः ।
तत्र सर्व्वे प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः ॥
आदित्या वसवो रुद्रा मन्विन्द्रा मानवादयः ।
ऋषयो मुनयश्चैव गन्धर्व्वा राक्षसादयः ॥
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः ।
इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः ।
नाडीजङ्घो वकश्चैव सर्व्वे नष्टाश्च तत्र वै ॥
ब्रह्मलोकादधः सर्व्वे लोका नागालयास्तथा ।
ब्रह्मलोकं ययुः सर्व्वे ब्रह्मलोकादधस्तथा ॥
गते दैनन्दिने ब्रह्मा लोकांश्चं ससृजे पुनः ।
एवं शताब्दपर्य्यन्तं परमायुश्च ब्रह्मणः ॥
ब्रह्मणश्च निपातेन महाकल्पो भवेन्नृप ! ।
प्रकीर्त्तिता महारात्रिः सा एव च पुरातनैः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५४ । ७२ -- ७९ ॥ * ॥
मोहः कर्त्तव्याग्रहः स एव रात्रिरिव रात्रि-
र्बुद्धिमोहकत्वान्निद्रारूपा । इदानीन्तनजनानां
रात्रिरिति वा । इति देवीमाहात्म्यटीकायां
विद्याविनोदः ॥ * ॥ जन्माष्टमीरात्रिः । यथा, --
“दीपोत्सवचतुर्द्दश्याममया योग एव चेत् ।
कालरात्रिर्महेशानि ! ताराकालीप्रियङ्करी ।
जन्माष्टमी महेशानि ! मोहरात्रिः प्रकीर्त्तिता ॥
तृतीया माधवे शुक्ला कुलवारर्क्षसंयुता ।
दारुणा कीर्त्तिता देवि ! सर्व्वसिद्धेश्वरी परा ॥”
इति शक्तिसङ्गमतन्त्रम् ॥

मोहशास्त्रं, क्ली, (मोहोत्पादकं शास्त्रमिति

मध्यपदलोपिकर्म्मधारयः ।) अविद्याजनकग्रन्थः ।
यथा, --
“गोपतिं प्राह विप्रेन्द्रानालोक्य भगवान् हरि ।
पृष्ठ ३/७८९
न वेदवाह्यपुरुषे पुण्यलेशोऽपि शङ्कर ! ॥
सङ्गच्छते महादेव ! धर्म्मो वेदाद्धि निर्ब्बभौ ।
तथापि भक्तबात्सल्याद्रक्षितव्या महेश्वर ! ॥
अस्माभिः सर्व्व एवेमे गन्तारो नरकानपि ।
अस्माद्वै वेदवाह्यानां रक्षणाय च पापिनाम् ।
विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ! ॥
एवं सम्बोधितो रुद्रो माधवेन मुरारिणा ।
चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥
कापालं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम् ।
पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥”
इति कौर्म्मे १४ अध्यायः ॥

मोहिनी, स्त्री, (मोहयति सौन्दर्य्यादिनेति । मुह

+ णिच् + णिनिः । स्त्रियां ङीप् ।) त्रिपुर-
मालीपुष्पम् । इति रत्नमाला ॥ (वटपत्री ।
तत्पर्य्यायो यथा, --
“वटपत्री तु कथिता मोहिनी रेचनी बुधैः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
समुद्रमन्थनकाले देवानाममृतपानायासुराणां
मोहनाय च भगवदवतारविशेषः । यथा, --
“धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत् सुरानन्यान् मोहिन्या मोहयन्
स्त्रिया ॥”
इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥
स्वर्व्वेश्याविशेषः । यस्याः शापात् ब्रह्मणो-
ऽपूज्यत्वं जातम् । यथा, --
“यतो हससि गर्व्वेण ततोऽपूज्यो भवाचिरम् ।
अचिराद्दर्पभङ्गं ते करिष्यति हरिः स्वयम् ॥
निबोध शरणं ब्रह्मन् ! स्वर्व्वेश्यायाश्च साम्प्रतम् ॥
तवैव कवचं स्तोत्रं मन्त्रं गृह्णाति यो नरः ।
भविता तस्य विघ्नश्च स यास्यत्युपहास्यताम् ॥
भविता वार्षिकी पूजा देवतानां युगे युगे ।
तव माघ्याञ्च संक्रान्त्यां न भविष्यति सा पुनः ॥
इत्युक्त्वा मोहिनी शीघ्रं जगाम मदनालयम् ।
तेन सार्द्धं रतिं कृत्वा बभूव विज्वरा पुनः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३३ अध्यायः ॥
विस्तरस्तु ब्रह्मन्शब्दे द्रष्टव्यः ॥ (मोहकर्त्तरि
त्रि । यथा, भागवते । ३ । ६ । ३५ ।
“अतो भागवती माया मायिनानपि मोहिनी ।
यत् स्वयञ्चात्मवर्त्मात्मा न वेद किमुतापरे ॥”)

मौकुलिः, पुं, काकः । इति हेमचन्द्रः । ४ । ३८८ ॥

(यथा, उत्तररामचरिते २ अङ्के ।
“कूजत्कुञ्जकुटीरकौशिकघटाघुत्कारवत्
कीचक-
स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतोऽयं
गिरिः ।
एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः
कूजितै-
रुद्बेल्लन्ति पुराणचन्दनतरुस्कन्धेषु कुम्भी-
नसाः ॥”)

मौक्तिकं, क्ली, (मुक्तेव । मुक्ता + “विनयादिभ्य-

ष्ठक् ।” ५ । ४ । ३४ । इति ठक् ।) मुक्ता ।
इत्यमरः । २ । ९ । ९२ ॥ (यथा, चाणक्यशतके । ५५ ।
“शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो नहि सर्व्वत्र चन्दनं न वने वने ॥”
तथास्य पर्य्यायः ।
“मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलञ्च तत् ।
अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

मौक्तिकतण्डुलः, पुं, (मौक्तिकमिव शुक्लः तण्डुलो-

ऽस्य ।) धवलयावनालः । इति राजनिर्घण्टः ॥

मौक्तिकप्रसवा, स्त्री, (मौक्तिकस्य प्रसवा ।)

शुक्तिः । इति राजनिर्घण्टः ॥

मौक्तिकशुक्तिः, स्त्री, (मौक्तिकानां शुक्तिः ।)

शुक्तिः । इति राजनिर्घण्टः ॥ मुक्तार झिनुक्
इति भाषा ॥

मौखं, क्ली, (मुखस्येदमिति । मुख + अण् ।)

मुखसम्बन्धाधीनपापम् । तत्तु अभक्ष्यभक्षणरूपं
तत्र क्लीवम् । संसर्गरूपस्य तस्य प्रायश्चित्तं
यथा । सुमन्तुः । यश्च तैर्यौनमौखश्रौवाणां
सम्बन्धानामन्यतमेन सह सम्पर्क्कमियात् तस्या-
प्येतदेव प्रायश्चित्तं विदध्यात् । इयात् कुर्य्यात् ।
एतदेवेति द्वादशवार्षिकमित्यर्थः । अत्र याज-
नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते ।
इति शूलपाणिकृतप्रायश्चित्तविवेकः ॥ मुख-
सम्बन्धिनि, त्रि ॥

मौखर्य्यं, क्ली, मुखरत्वत् । मुखरस्य भाव इत्यर्थे

ष्ण्यप्रत्ययेन निष्पन्नम् ॥

मौखिकं, त्रि, मुखसम्बन्धि । सुखस्येदमित्यर्थे ष्णिक्

(ठक्) प्रत्ययेन निष्पन्नम् ॥

मौञ्जी, स्त्री, (मुञ्जस्येयमिति । मुञ्ज + अण् ।

स्त्रियां ङीप् ।) मुञ्जनिर्म्मितमेखला ॥ (यथा,
शिशुपालवधे । १ । ६ ।
“पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविं
वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताम्बराधरां
विडम्बयन्तं शितिवाससस्तनुम् ॥”
“मुञ्जस्तृणविशेषस्तन्मयीमेखला मौञ्जी ।” इति
तट्टीकायां मल्लीनाथः ॥) यथा, --
“विप्रस्य क्षत्त्रियस्यापि मौञ्जी स्याद्दक्षिणायने ।
दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे ॥”
मनुः ।
“मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य
मेखला ।
क्षत्त्रियस्य च मौर्व्वी ज्यावैश्यस्य शणतान्तवी ॥
मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकवल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥”
इति संस्कारतत्त्वम् ॥

मौञ्जीतृणाख्यः, पुं, (मौञ्जीतृणमित्याख्यास्य ।)

मुञ्जः । इति राजनिर्घण्टः ॥

मौञ्जीपत्रा, स्त्री, (मौञ्जीपत्रमिव पत्रमस्याः ।)

वल्वजा । इति राजनिर्घण्टः ॥

मौञ्जीबन्धः, पुं, (मौञ्ज्या बन्धः बन्धनम् ।) मुञ्ज-

मेखलाबन्धनम् । उपनयनमिति यावत् । यथा,
“जन्मभादष्टमे सिंहे नीचस्थे शत्रुभे गुरौ ।
मौञ्चीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ ॥”
इति ज्योतिर्निबन्धे नारदवचनम् ॥

मौढ्यं, क्ली, (मूढस्य भावःकर्म्म वा । मूढ + “गुण-

वचनब्राह्मणादीभ्यः कर्म्मणि च ।” ५ । १ । १२४ ।
इति ष्यञ् ।) मोहः । इति हेमचन्द्रः । २ । २३४ ॥
(यथा, श्रीमद्भागवते । ३ । २९ । २२ ।
“योमां सर्व्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वार्च्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥”
पुं, मूढस्यापत्यम् । मूढ + “कुर्व्वादिभ्यो ण्यः ।”
४ । १ । १५१ । इति ण्यः । मूढपुत्त्रः । इति
व्याकरणम् ॥)

मौद्गलिः, पुं, काकः । इति त्रिकाण्डशेषः ॥

मौद्गल्यः, पुं, (मुद्गलस्यापत्यमिति । मुद्गल + ष्यञ् ।)

मुद्गलमुनिपुत्त्रः । स च गोत्रकारकः । अस्य
पञ्च प्रवराः यथा । और्व्वच्यवनभार्गवजाम-
दग्न्याप्नुवन्तः । इति कुलदीपिका ॥ (यथा,
हरिवंशे । ३२ । ७० ।
“मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ॥)

मौद्गीनं, क्ली, (मुद्गानां भवनं क्षेत्रमिति । मुद्ग +

“धान्यानां भवने क्षेत्रे खञ् ।” ५ । २ । १ ।
इति खञ् ।) मुद्गभवोचितक्षेत्रम् । इत्यमरः ।
२ । ९ । ८ ॥

मौनं, क्ली, (मुनेर्भाव इति । मुनि + अण् ।) शब्द-

प्रयोगराहित्यम् ॥ तत्पर्य्यायः । अभाषणम् २ ।
तूष्णीम् ३ तूष्णीकाम् ४ । इत्यमरः । २ । ७ । ३६ ॥
(यथा, रघुवंशे । १ । २२ ।
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥”)
कर्म्मविशेषे मौनाचरणं यथा, --
“उच्चारे मैथुने चैव प्रस्रावे दन्तधावने ।
स्नाने भोजनकाले च षट्सु मौनं समाचरेत् ॥”
इति तिथ्यादितत्त्वम् ॥

मौनी, [न्] पुं, (मौनमस्यास्तीति । मौन + “अत

इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) मुनिः ।
इति जटाधरः ॥ (यथा, मार्कण्डेये । ७५ । ३९ ।
“ततः स चिन्तथामास राजा जामातृकारणम् ।
विवेद च न तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥”)
मौनयुक्ते, त्रि । यथा, --
“सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् ।
गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम् ॥
एतच्च मौनमरुणोदयमारभ्य स्नानपर्य्यन्तं कार्य्यं
न तु स्नानकालमात्रे ।” इति तिथ्यादितत्त्वम् ॥

मौनेयः, पुं, (मुनेरपत्यं पुमान् । मुनि + “इत

श्चानिञ् ।” ४ । १ । १२२ । इति ढक् ।) गन्धर्व्व-
गणविशेषः । यथा, --
“गन्धर्व्वाप्सरसः पुण्या मौनेयांस्तु निबोधत ।
चित्रसेनोग्रसेनौ तु ऊर्णायुरनिधस्तथा ॥
धृतराष्ट्रस्तथोमांश्च सूर्य्यवर्च्चास्तथैव च ।
युगतत्तृणपत्कार्ष्णो निदिश्चित्ररथस्तथा ॥
त्रयोदशः शालिशिराः पर्य्यण्यश्च चतुर्द्दशः ।
इत्येते देवगन्धर्व्वाश्चतुस्त्रिंशच्छुभाप्सराः ॥”
इति वह्निपुराणम् ॥
पृष्ठ ३/७९०
(अप्सरोभेदे, स्त्री । यथा, हरिवंशे । २१८ । ४७ ।
“काश्या शारद्बती चैव मौनेयाप्सरसः स्मृताः ॥”)

मौरजिकः, त्रि, (मुरजस्तद्वादनं शिल्पमस्य ।

मुरज + “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।)
मुरजवादकः । इत्यमरः । २ । १० । १३ ॥

मौर्ख्यं, क्ली, (मूर्खस्य भावः । मूर्ख + “वर्णदृढा-

दिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।)
जाड्यम् । इति हेमचन्द्रः । २ । २२६ ॥ (यथा,
सुश्रुते शारीरस्थाने ४ अः ।
“अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता ॥”)

मौर्व्वी, स्त्री, (मूर्व्वाया विकारः । मूर्व्वा + “अव-

यवे च प्राण्यौषधिवृक्षेभ्यः ।” ४ । ३ । १३५ ।
इति अण् । ङीप् ।) धनुर्गुणः । इत्यमरः ।
२ । ८ । ८५ । (यथा, रघुः । १ । १९ ।
“शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी धनुषि चातता ॥”
अजशृङ्गी । इति रत्नमाला ॥ कोँगा इति
भाषा ॥ (मूर्व्वामयी । यथा, पनौ । २ । ४२ ।
“मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य
मेखला ।
क्षत्त्रियस्य तु मौर्व्वी ज्या वैश्यस्य शणता-
न्तवी ॥”)

मौलः, पुं, (मूलं वेदेति । मूल + अण् ।) भूम्यादे-

र्मूलज्ञाता । मोडल् इति भाषा । यथा, --
“यत् परम्परया मौलाः सामन्ताः स्वामिनं
विदुः ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥”
इति दायतत्त्वम् ॥
तस्य लक्षणं यथा, --
“ये तत्र पूर्ब्बं सामन्ताः पश्चाद्देशान्तरं गताः ।
तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥”
इति मिताक्षरा ॥
(विजिगीष्वरिमध्योदासीनः । यथा, कामन्द-
कीये । ८ । ३४ ।
“चत्वारः पार्थिवा मौलाः पृथङ्मित्रैः सहा-
ष्टकम् ॥”
मूलभूते, त्रि । यथा, तत्रैव । ८ । २५ ।
“मौला द्वादश यास्त्वेता ह्यमात्याद्यास्तथा च याः ।
सप्ततिश्चाधिका ह्यताः सर्व्वं प्रकृतिमण्डलम् ॥”)

मौलिः, पुं, स्त्री, (मूल + सुतङ्गमादित्वात् इञ् ।)

चूडा । (यथा, महाभारते । ९ । ५९ । ५ ।
“एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ॥
शिरश्च राजसिंहस्य पादेन समलोडयेत् ॥”)
किरीटम् । (यथा, हरिवंशे । ९७ । ३० ।
“इयञ्च सा मया मौलिरुद्धृता वरुणालयात् ॥”)
संयतकेशः । इत्यमरः । ३ । ३ । १९२ । (यथा,
रघौ । ७ । ६६ ।
“स चापकोटीनिहितैकबाहुः
शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिविन्दुः
भीतां प्रियामेत्य वचो बभाषे ॥”)
मस्तकम् । इति हेमचन्द्रः । ३ । २ । २३० ॥
(यथा, आर्य्यासप्तशत्याम् । ४२४ ।
“भालनयनेऽग्निरिन्दुर्मौलौ गात्रे भुजङ्गमणि-
दीपाः ॥”
प्रधानः । यथा, मार्कण्डेये । ५९ । १४ ।
“मौलयस्ते महाकायाः शाकपोतकरम्भकाः ॥”)

मौलिः, पुं, (मूलस्यादूरभवः । मूल + सुतङ्ग-

मादित्वादिञ् ।) अशोकवृक्षः । इति मेदिनी ॥

मौलिः, स्त्री, (मूले जाता । मूल + इञ् ।)

भूमिः । इति मेदिनी ॥

मौलिकः, पुं, (मूले आद्ये जातः । मूल + ठञ् ।)

कुलीनभिन्नः । यथा राढीयवारेन्द्रब्राह्मणस्य
श्रोत्रियः तथा कायस्थस्य मौलिकः । एवं दाक्षि-
णात्यवैदिकब्राह्मणस्य अन्यपूर्ब्बापरिणेतापि तत्-
पदवाच्यः । वङ्गजकायस्थस्य स च मध्यन्यशब्द-
वाच्यः । यथा । अथ मध्यन्यलक्षणमाह ।
मध्यन्यशब्दो रूढ इत्यन्यः । डित्थडवित्थवत् ।
मध्यन्यः कुलमध्यस्थकुलीनस्य विश्रामस्थल-
मित्यर्थः । मध्यन्यशब्दस्य लक्षणान्तरम् । कुली-
नेतरसिद्धवंशजातकत्वे सति दशपुरुषावधि
अनवच्छिन्नकुलार्च्चनत्वं मध्यन्यत्वम् । स च
द्विविघः । सिद्धः साध्यश्च । सिद्धत्वं प्रकृत-
मध्यन्यत्वम् । प्रकृतसिद्धवंशजातत्वे सति दश-
पुरुषावधिकुलार्च्चकत्वं सिद्धत्वम् । सिद्धपदा-
काङ्क्षित्वे सति दशपुरुषावधिकुलार्च्चकत्वं साध्य-
त्वम् । अस्य प्रशंसामाह ।
“कुलीनकुलरक्षार्थं विवादेषु मीमांसया ।
एतेषां गुणमाश्रित्य मध्यन्यः कुलमुत्तमम् ॥”
इति कुलदीपिका ॥ * ॥
दक्षिणराढीयकायस्थस्याष्टसन्मौलिका यथा, --
“गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका
ये हि सिद्धा-
स्ते दत्ताः सेनदासाः करगुहसहिताःपालिताः
सिंहदेवाः ।
ये वा पद्याभिमुख्याः स्थितिविनययुषः सप्ततिस्ते
द्विपूर्ब्बा
मित्राद्या वीक्ष्य राज्ञा चरणगुणयुता मौलिक-
त्वेन साध्याः ॥”
अपि च ।
“सेनो दत्तः करो ज्ञेयो दासो देवः प्रतिष्ठितः ।
पालितः सिंहधर्म्मज्ञो गुहः सन्मौलिकाः
स्मृताः ॥” * ॥
द्बिसप्ततिसाध्यमौलिका यथा, --
“होडः स्वरधरधरणी बाण
आयिच सोमः पैसुर सामः ।
भञ्जो विन्दो गुह बल लोघः
शर्म्मा वर्म्मा हुइ भूँयि चन्द्रः ॥
रुद्रो रक्षित राजादित्यो
विष्णुर्नागः खिल पिल गूतः ।
इन्द्रो गुप्तः पालो भद्र
ओमश्चाङ्कुर बन्धुर नाथः ॥
शाँयिर्हेशो मानो गण्डो
राहा राणा राहुत साना ।
दाहा दाना गण उपमाना ॥
खामः क्षोमो घर वै ओषः
वीदस्तेजश्चार्णव आशः ।
शक्तिर्भूतो ब्रह्मो शानः
क्षेमो हेमो बर्द्धन रङ्गः ।
गुइः कीर्त्तिर्यशः कुण्डो
नन्दी शीलो धनुर्गुणः ॥”
इति द्बिसप्ततिमौलिकाः ॥ * ॥
अन्यच्च ।
“देवो भूदेवभक्तो गुहसदृशगुणो दास ईशानदासः
सेनो दत्तः सुदत्तामहितजनचयः पालितो
धर्म्मपालः ।
सिंहः सिंहप्रतापः क्षितिनिकरकरादानदक्षः
करोऽसौ
गौडेऽष्टौ संस्थितास्ते गुणगणनिपुणा मौलिक-
त्वेन सिद्धाः ॥ * ॥
होडबाणधरणीखिलसोमा
भुञ्जबिन्दगुहराजराहुताः ।
रुद्रपालबलसामरक्षिता
लोधशर्म्मभुँयिवर्म्मबन्धराः ॥
चन्द्रशाँयिगुयिभद्रपैसुरा
गण्डगुप्तघरकीर्त्तिवर्द्धनाः ।
क्षेमहेमगणनाथविष्णवो
ब्रह्मरङ्गपिलहुइधनुर्गुणाः ॥
तेजोऽर्णवस्वरधरायिच शक्तिभूताः
क्षोमौष शान विदशील यशोम नन्दी ।
दाहाङ्कुरेन्द्रशुभकुण्डमनोपमाना
दानाशगूतविदिता भुवि कीर्त्तिमन्तः ॥
हेशादित्यौ राण राहा साना च खामक-
स्तथा ।
द्विसप्ततिमिताः साध्या मौलिका विदिताः
क्षितौ ॥”
इति कुलाचार्य्यकारिका ॥ * ॥
(देशविशेषः । यथा, मार्कण्डेये । ५७ । ४८ ।
“पौरिका मौलिकाश्चैव अश्मका भोग-
वर्द्धनाः ॥”)
त्रि, मूलसम्बन्धिनि मौलसम्बन्धिनि च ॥ (भार-
भूतं मूलं हरति वहत्यावहति वा । मूल +
“तद्धरति वहत्यावहति भारात् वंशादिभ्यः ।”
५ । १ । ५० । इति ठञ् । मूलभारहारके मूलभार-
वाहके मूलभारानेतरि च । इति व्याकरणम् ॥)

मौषलं, क्ली, (मूषलमिव । मूषलस्येदमिति वा ।

मूषल + अण् ।) मूषलवत् । यथा, --
“गङ्गायां मौषलं स्नानं महापातकनाश-
नम् ।”
इति प्रायश्चित्ततत्त्वधृतभविष्यपुराणवचनम् ॥
महाभारतस्याष्टादशपर्व्वान्तर्गतपर्व्वविशेषः ।
यथा, --
“मौषलं पर्व्व चोद्दिष्टं ततो घोरं सुदारुणम् ।
महाप्रस्थानिकं पर्व्व स्वर्गारोहणिकं ततः ॥”
इति महाभारते आदिपर्व्व ॥
मुषलसम्बन्धिनि, त्रि ॥
पृष्ठ ३/७९१

मौष्टा, स्त्री, मुष्टिप्रहरणक्रीडा । इत्यमरः । ३ । ५ । ५ ॥

“मुष्टिप्रहरणं अस्यां क्रीडायां मौष्टा ष्णः (अण्)
णित्त्वे व्रिरिति वृद्धिः ययोर्लाप इति इकार-
लोपः । स्त्रियामत इत्याप् ।” इति तट्टीकायां
भरतः ॥

मौहूर्त्तः, पुं, (मूहूर्त्तं अधीते वेद वा । मुहूर्त्त +

“तदधीते तद्वेद ।” ४ । २ । ५० । इत्यण् ।)
ज्योतिर्व्वेत्ता । इत्यमरः । २ । ८ । १४ ॥ (यथा,
महाभारते । १२ । १२१ । ४६ ।
“भिक्षुकाः प्राड्विवाकाश्च मौहूर्त्ता दैव-
चिन्तकाः ॥”)

मौहूर्त्तिकः, पुं, (मुहूर्त्तं तद्बोधकं शास्त्रमधीते

वेद वा । मूहूर्त्त + “क्रतूक्थादिसूत्रान्तात्
ठक् ।” ४ । २ । ६० । इति ठक् ।) ज्योतिर्व्वेत्ता ।
इत्यमरः । २ । ८ । १४ ॥ (यथा, कथासरित्-
सागरे । २२ । १३३ ।
“ततो मौहूर्त्तिकादेशादन्येद्युर्व्वरकन्यका ।
सा मया परिणीता भून्मिलिताखिलबन्धुना ॥”
दक्षकन्यामुहूर्त्तोद्भवदेवगणविशेषः । यथा, भाग-
वते । ६ । ६ । ९ ।
“मौहूर्त्तिका देवगणा मुहूर्त्तायाश्च जज्ञिरे ॥”
मुहूर्त्तोद्भवे, त्रि । यथा, भागवते । ५ । १३ । २२ ।
“मौहूर्त्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥”)

म्रा, अभ्यासे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-अनिट् ।) अभ्यासः पौनःपुन्येनानु-
शीलनम् । मनति सन्ध्यां ब्राह्मणः । इति दुर्गा-
दासः ॥

म्रक्ष, संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेफयुक्तादिः । म्रक्षति पयसा
शक्तून् लोकः । इति दुर्गादासः ॥

म्रक्ष, क म्रक्षणे । स्नेहने । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) रेफयुक्तादिः ।
म्रक्षणं द्रव्यस्य द्रव्यान्तरेण योजनम् । क, म्रक्ष-
यति घृतेनान्नं लोकः । इति दुर्गादासः ॥

म्रक्षः, पुं, (म्रक्ष + घञ् ।) स्वदोषगूहनम् ।

इति त्रिकाण्डशेषः ॥ म्रक्षणञ्च ॥ (वधः । यथा,
ऋग्वेदे । ८ । ५० । १० ।
“उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदिमे शृणवद्ध-
वम् ।”
“म्रक्षकृत्वा वधकर्त्ता ।” इति तद्भाष्ये सायणः ॥)

म्रक्षणं, क्ली, (म्रक्ष + कर्म्मणि ल्युट् ।) तैलम् ।

इति हेमचन्द्रः । ३ । ८१ ॥ द्रव्यस्य द्रव्यान्तरेण
संयोजनम् । स्नेहनम् । राशीकरणम् । इति
म्रक्षधातोर्भावेऽनट् प्रत्ययेन निष्पन्नम् ॥

म्रद, म ष ङ क्षोदे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) रेफयुक्तः । क्षोदश्चूर्णी-
करणम् । म, म्रदयति । ष, म्रदा । ङ, म्रदते
काननं दन्ती । इति दुर्गादासः ॥

म्रदिमा, [न्] पुं, (मृदोर्भावः । मृदु + “पृथ्वा-

दिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इम-
णिच् । “र ऋतो हलादेर्लघोः ।” ६ । ४ । १६१ ।
इति ऋकारस्य रादेशः । “टेः ।” ६ । ४ । १५५ ।
इति टेर्लोपः ।) मृदुता । यथा, राजतरङ्गि-
ण्याम् । ८ । ५६६ ।
“म्रदिम्ना पापिनस्तस्य नाज्ञायि क्रूरता जनैः ।
मधुरिम्नी विषस्येव शक्तिः प्राणापहारिणी ॥”)

म्रदिष्ठः, त्रि, अतिशयमृदुः । मृदुशब्दादिष्ठप्रत्य-

येन निष्पन्नः ॥

म्रदीयान् [स्] त्रि, अतिशयमृदुः । मृदुशब्दा-

दीयसुप्रत्ययेन निष्पन्नः ॥

म्रातनं, क्ली, कैवर्त्तीमुस्तकम् । इति शब्दचन्द्रिका ॥

म्रुच, उ इर् गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् । क्त्वावेट् ।) उ, म्रोचित्वा
म्रोक्त्वा । इर्, अम्रुचत् अम्रोचीत् । इति दुर्गा-
दासः ॥

म्रुन्च, उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) उ, म्रुञ्चित्वा म्रुक्त्वा । इति
दुर्गादासः ॥

म्रेट, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अमिम्रेटत् । म्रेटति
लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

म्रेड, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अमिम्रेडत् । म्रेडति
लोक उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

म्लक्तं, क्ली, (म्लच् + क्तः ।) चोरितम् ॥ यथा, --

“चोरितं मुषितं म्लक्तं प्रतीतन्तु प्रतीच्छितम् ॥”
इति भूरिप्रयोगः ॥

म्लानं, त्रि, (म्ल हर्षक्षये + क्तः । “संयोगादेरातो-

र्यण्वतः ।” ८ । २ । ४३ । इति निष्ठातस्य नः ।)
मलिनम् । यथा, --
“मलिनं कच्चरं म्लानं कश्मलञ्च मलीमसम् ॥”
इति हेमचन्द्रः ॥
(यथा, मार्कण्डेये । ६२ । १६ ।
“स चिन्तयामास तदा किं न्वेषा गजगामिनी ।
निश्वासपवनम्लाना गिरावत्र वरूथिनी ॥”)
दुर्बलम् । (यथा, --
“अन्तेषु शूणं परिहीनमध्यं
म्लानन्तथान्तेषु च मध्यशूणम् ॥”
इति माधवकृतरुग्विनिश्चयस्य पाण्डुरोगव्या-
ख्याने विजयेनोक्तम् ॥ (म्लै + भावे क्तः । ग्लानिः ।
यथा, मार्कण्डेये । ३५ । २४ ।
“रथ्यावसषणस्नानक्षुत्पानम्लानकर्म्मसु ।
आचामेच्च यथान्यायं वासो विपरिधाय च ॥”)

म्लानिः, स्त्री, (म्लै + निः । स च नित् । इत्युज्ज्वल-

दत्तः । ४ । ५१ ।) कान्तिक्षयः । यथा, देवी-
भागवते । १ । ९ । १८ ।
“प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरीक्षगा ॥
न मम्लतुस्तदा तौ तु विष्णुस्तु म्लानिमाप्त-
वान् ॥”)

म्लिष्टं, क्ली, (म्लेच्छ् + क्तः + “क्षुब्धस्वान्तध्वान्तलग्न-

म्लिष्टविरिब्धेत्यादि ।” ७ । २ । १८ । इति
निपातितम् ।) अस्पष्टवाक्यम् । तत्पर्य्यायः ।
अविस्पष्टम् २ । इत्यमरः । १ । ६ । २१ ॥

म्लिष्टः, त्रि, (म्लेच्छ + क्तः ।) अव्यक्तवाक् । म्लानः ।

इति मेदिनी । टे, २५ ॥

म्लुच, उ इर् गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) उ, म्लोचित्वा म्लुक्त्वा ।
इर्, अम्लु चत् अम्लोचीत् । इति दुर्गादासः ॥

म्लेच्छ, कि देश्योक्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

वा भ्वा०-पर०-अक०-सक० च-सेट् ।) देश्या
ग्राम्या उक्तिर्देश्योक्तिरसंस्कृतकथनमित्यर्थः ।
कि, म्लेच्छयति म्लेच्छति मूढः । अन्तर्विद्यामसौ
विद्बान्न म्लेच्छति धृतव्रत इति हलायुधः ॥
अनेकार्थत्वादव्यक्तशब्देऽपि । तथा चामरः ।
अथ म्लिष्टमविस्पष्टमिति । म्लेच्छ व्यक्तायां वाचि
इति प्राञ्चः । तत्र रमानाथस्तु । म्लेच्छति वटु-
र्व्यक्तं वदतीत्यर्थः । अव्यक्तायामिति पाठे कुत्-
सितायां वाचीत्यर्थः ।
‘तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ॥’
इति भाष्यवचनेन नञोऽप्राशस्त्यार्थत्वात् इति
व्याख्यानाय हलायुधोक्तमुदाहृतवान् । इति
दुर्गादासः ॥

म्लेच्छं, क्ली, (म्लेच्छस्तद्देशः उत्पत्तिस्थानत्वेना-

स्त्यस्य । अर्शआद्यच् ।) हिङ्गुलम् । इति
राजनिर्घण्टः ॥ (तथास्य पर्य्यायः ।
“हिङ्गुलन्दरदं म्लेच्छमिङ्गुलञ्चूर्णपारदम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

म्लेच्छः, पुं, (म्लेच्छयति वा म्लेच्छति असंस्कृतं

वदतीति । म्लेच्छ् + अच् ।) किरातशवरपुलि-
न्दादिजातिः । इत्यमरः ॥ पामरमेदः । पाप-
रक्तः । अपभाषणम् । इति मेदिनी । छे, ६ ॥
म्लेच्छादीनां सर्व्वधर्म्मराहित्यमुक्तं यथा, हरि-
वंशे । १४ । १५ -- १९ ।
“सगरः स्वां प्रतिज्ञाञ्च गुरोर्व्वाक्यं निशम्य च ।
धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
जवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥
पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥
शका जवनकाम्बोजाः पारदाः पह्नवास्तथा ।
कोलसप्याः समहिषा दार्व्वाश्चोलाः सकेरलाः ।
सर्व्वे ते क्षत्त्रियास्तात धर्म्मस्तेषां निराकृतः ॥
वशिष्ठवचनाद्राजन् सगरेण महात्मना ॥”
शकानां शकदेशोद्भवानां क्षत्त्रियाणाम् । एवं
जवनादीनामिति । अत्र जवनशब्दस्तद्देशोद्भव-
वाची चवर्गतृतीयादिः । जवनो देशवेगिनो-
रिति त्रिकाण्डशेषाभिधानदर्शनात् ॥ * ॥ तेषां
म्लेच्छत्वमप्युक्तं विष्णुपुराणे । तथाकृतान् जवना-
दीनुपक्रम्य ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वं
ययुरिति । बौधायनः ।
“गोमांसखादको यश्च विरुद्धं बहु भाषते ।
सर्व्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अपिच । देवयान्यां ययातेर्द्वौ पुत्त्रौ यदुः तुर्चसुश्च ।
पृष्ठ ३/७९२
शर्म्मिष्ठायां त्रयः पुत्त्राः द्रुह्युः अनुः पुरुश्च ।
तत्र यदुप्रभृतयश्चत्वारः पितुराज्ञाहेलनं कृत-
वन्तः पित्रा शप्ताः । ज्येष्ठपुत्त्रं यदुं शशाप तव
वंशे राजा चक्रवर्त्ती मा भूदिति । तुर्व्वसु-
द्रुह्य्वनून् शशाप युष्माकं वंश्या वेदवाह्या म्लेच्छा
भविष्यन्ति । इति श्रीभागवतमतम् ॥ * ॥
(“असृजत् पह्नवान् पुच्छात् प्रस्रावाद्द्राविडान्
शकान् ।
योनिदेशाच्च यवनान् शकृतः शवरान् बहून् ॥
मूत्रतश्चासृजत् काञ्चीञ्छरभांश्चैव पार्श्वतः
पौण्ड्रान् किरातान् यवनान् सिंहलान् वर्व्वरान्
खशान् ॥
चियुकांश्च पुलिन्दांश्च चीनान् हूनान् सके-
रलान् ।
ससर्ज्ज फेनतः सा गौर्म्लेच्छान् बहुविधानपि ॥”
सा वशिष्ठस्य धेनुः । इति महाभारते । १ । १७६ ।
३५ -- ३७ ॥) अन्यच्च । “शकजवनकाम्बोज-
पारदपह्नवा हन्यमानास्तत्कुलगुरुं वशिष्ठं
शरणं ययुः । अथैतान् वशिष्ठो जीवन्मृतकान्
कृत्वा सगरमाह । वत्स वत्सालमेभिर्जीवन्मृत-
कैरनुसृतैः । एते च मयैव त्वत्प्रतिज्ञापालनाय
निजधर्म्मद्बिजसङ्गपरित्यागं कारिताः । स
तथेति तद्गुरुवचनमभिनन्द्य तेषां वेशान्य-
त्वमकारयत् । जवनान्मुण्डितशिरसोऽर्द्धमुण्डान्
शकान् प्रलम्बकेशान् पारदान् पह्नवांश्च श्मश्रु-
धरान्निःस्वाध्यायवषट्कारानेतानन्यांश्च क्षत्त्रि-
यांश्चकार । ते चात्मधर्म्मपरित्यागाद्ब्राह्मणैश्च
परित्यक्ता म्लेच्छतां ययुः ।” इति विष्णुपुराणे । ४ ।
३ । १८ -- २१ ॥ * ॥ प्रकारान्तरेण तस्योत्-
पत्तिर्यया, --
सूत उवाच ।
“वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः ।
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी ॥
सुतीर्था नाम तस्यास्तु वेनो नाम सुतः
पुरा ।
अधर्म्मंनिरतः कामी बलवान् वसुधाधिपः ।
लोकेऽप्यधर्म्मकृज्जातः परभार्य्यापहारकः ॥
धर्म्मचारप्रसिद्ध्यर्थं जगतोऽस्य महर्षिभिः ।
अनुनीतोऽपि न ददावनुक्षां स यदा ततः ॥
शापेन मारयित्वैनमराजकभयार्द्दिताः ।
ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्भषाः ॥
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः ।
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः ॥”
इति मत्स्यपुराणे । १० । ३ -- ८ ॥ * ॥
म्लेच्छभाषाभ्यासनिषेधो यथा, --
“न सातयेदिष्टकाभिः फलानि वै फलेन तु ।
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥”
इति कौर्म्म्ये उपविभागे १५ अध्यायः ॥ * ॥
तस्य मध्यमा तामसी गतिर्यथा, मानवे ।
१२ । ४३ ।
“हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः ।
सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी
गतिः ॥”
(मन्त्रणाकाले म्लेच्छापसारणमुक्तं यथा, मनु-
संहितायाम् । ७ । १४९ ।
“जडमूकान्धवधिरांस्तैर्य्यग्योनान् वयोऽति-
गान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसार-
येत् ॥”
“अथवा एवंविधा मन्त्रिणो न कर्त्तव्याः । बुद्धि-
विभ्रमसम्भवात् ।” इति तद्भाष्ये मेधातिथिः ॥
म्लेच्छानां पशुधर्म्मित्वम् । यथा, महाभारते । १ ।
८४ । १५ ।
“गुरुदारप्रसक्तेषु तिर्य्यग्योनिगतेषु च ।
पशुधर्म्मिषु पापेषु म्लेच्छेषु त्वं भविष्यसि ॥”)

म्लेच्छकन्दः, पुं, (म्लेच्छप्रियः कन्द इति मध्यपद

लोपी कर्म्मधारयः ।) लशुनम् । इति राज-
निर्घण्टः ॥ (तस्य पर्य्यायो यथा, --
“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।
अरिष्टो म्लेच्छकन्दश्च पवनेष्टो रसोनकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

म्लेच्छजातिः, स्त्री, (म्लेच्छस्य जातिरिति षष्ठी-

तत्पुरुषः म्लेच्छरूपा जातिरिति कर्म्मधारयो
वा ।) गोमांसखादकबहुविरुद्धभाषकसर्व्वा-
चारविहीनवर्णः । यथा, --
“गोमांसखादको यस्तु विरुद्धं बहु भाषते ।
सर्व्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥”
इति प्रायश्चित्ततत्त्वधृतबौधायनवचनम् ॥
अपि च ।
“भेदाः किरातशवरपुलिन्दा म्लेच्छजातयः ॥”
इत्यमरः । २ । ४० । २० ॥
अन्यच्च ।
“पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा शवनाः
शकाः ।
पारदाः पह्नवाश्चीनाः किराताः दरदाः
खशाः ॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥”
इति मानवे १० अध्यायः ॥

म्लेच्छदेशः, पुं, (म्लेच्छानां देशः म्लेच्छप्रधानो

देशो वा ।) चातुर्व्वर्ण्यव्यवस्थादिरहित-
स्थानम् । तत्पर्य्यायः । प्रत्यन्तः २ । इत्यमरः ।
२ । १ । ७ ॥ भारतवर्षस्यान्तं प्रतिगः
प्रत्यन्तः । म्लेच्छति शिष्टाचारहीनो भवत्यत्र
म्लेच्छः अल् । स चासौ देशश्चेति म्लेच्छदेशः ।
किंवा म्लेच्छयन्ति असंस्कृतं वदन्ति शिष्टा-
चारहीना भवन्तीति वा पचाद्यचि म्लेच्छा
नीचजातयः तेषां देशो म्लेच्छदेशः । भारतवर्ष-
स्यान्तः शिष्टाचाररहितः कामरूपवङ्गादिः ।
उक्तञ्च ।
चातुर्व्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
म्लेच्छदेशः स विज्ञेय आर्य्यावर्त्तस्ततः पर-
मिति ॥”
इति भरतः ॥
(अपि च, मनुः । २ । २३ ।
“कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततःपरम् ॥”)

म्लेच्छभोजनं, क्ली, (भुज्यते यदिति । भुज् + कर्म्मणि

ल्युट् । ततो म्लेच्छानां भोजनम् ।) यावकः ।
इति शब्दरत्नावली ॥

म्लेच्छभोजनः, पुं, (भुज्यतेऽसौ इति । भुज् +

ल्युट् । म्लेच्छानां भोजनः । (गोधूमः । इति
त्रिकाण्डशेषः ॥

म्लेच्छमण्डलं, क्ली, (म्लेच्छानां मण्डलं समूहोऽत्र ।)

म्लेच्छदेशः । इति हेमचन्द्रः ॥

म्लेच्छमुखं, क्ली, (म्लेच्छे म्लेच्छदेशे मुखमुत्पत्ति-

रस्य । इत्यमरटीकायां रघुनाथः ।) ताम्रम् ।
इत्यमरः । २ । ९ । ९७ ॥ (तथास्य पर्य्यायः ।
“ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम् ।
रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“ताम्रमौडुम्बरं शूल्वं विद्यात् म्लेच्छमुख-
न्तथा ॥”
इति गारुडे २०८ अध्याये ॥)

म्लेच्छाशः, पुं, (म्लेच्छैरश्यते इति । अश् + कर्म्मणि

+ घञ् ।) म्लेच्छभोजनः । गोधूमः । इति
केचित् ॥

म्लेच्छास्यं, क्ली, (म्लेच्छे म्लेच्छदेशे आस्यमुत्पत्ति-

रस्य ।) ताम्रम् । इति हारावली ॥

म्लेच्छितं, क्ली, (म्लेछ् देश्योक्तौ + क्तः ।) म्लेच्छ-

भाषा । अपशब्दः । तत्पर्य्यायः । परभाषा २ ।
इति हारावली ॥

म्लेट, ऋ उन्मादे । इति कविकल्वद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अमिम्लेटत् । म्लेटति
लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

म्लेड, ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ऋ, अमिम्लेडत् । म्लेडति ।
उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥

म्लेव, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अमिम्लेवत् । ङ,
म्लेवते । इति दुर्गादासः ॥

म्लै, कान्तिसंक्षये । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) म्लायति चन्द्रो दिवसे । इति
दुर्गादासः ॥