सामग्री पर जाएँ

शब्दकल्पद्रुमः/मुगूहः

विकिस्रोतः तः
पृष्ठ ३/७४१

मुगूहः, पुं, दात्यूहपक्षी । इति भूरिप्रयोगः ॥

मुग्धः, त्रि, (मुह् + कर्त्तरि क्तः ।) मूढः । (यथा,

ऋग्वेदे । ५ । ४० । ५ ।
“अक्षेत्रविद् यथा मुग्धो भुवनान्यदीधयुः ॥”)
सुन्दरः । इति विश्वः ॥ (यथा, मेघदूते । १४ ।
“दृष्टोत्साहश्चकितचकितं मुग्धसिद्धा-
ङ्गनाभिः ॥”)

मुग्धबोधं, क्ली, (मुग्धः सुन्दरः बोधः ज्ञानं पद-

पदार्थानां भवत्यस्मात् । यद्बा, मुग्धान् मूढान्
अल्पबुद्धीन् जनान् बोधयतीति । मुग्धबोधम् ।
इति दुर्गादासः । मुग्ध + बुध् + “कर्म्मण्यण् ।
३ । २ । १ । इति अण् ।) वोपदेवकृतव्याकरण-
विशेषः । यथास्याद्यश्लोकः ।
“मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते ।
मुग्धबोधं व्याकरणं परोपकृतये मया ॥”

मुग्धा, स्त्री, (मुग्ध + टाप् ।) नायिकाविशेषः । (सा

च नायिका स्वीयापरकीयाभेदेन द्विविधा ।) तत्र
स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्भा च ।
तत्राङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना
अज्ञातयौवना च । सैव क्रमशो लज्जाभय-
पराधीनरतिर्नवोढा । सैव जातप्रश्रया विश्रब्ध-
नवोढा । अस्याश्चेष्टा क्रिया मनोहरा । कोपे
मार्द्दवं नवविभूषणे समीहा च ॥ मुग्धा यथा ।
“आज्ञप्तं किल कामदेवधरणीपालेन काले शुभे
वस्तुं वास्तुविधिं विधास्यति तनौ तारुण्य-
मेणीदृशः ।
दृष्ट्या खञ्जनचातुरी मुखरुचा सौधाकरी
माधुरी
वाचा किञ्च सुधासमुद्रलहरी लाषण्यमाम-
न्त्र्यते ॥” * ॥
अज्ञातयौवना यथा, --
“नीरात्तीरमुपागता श्रवणयोः सीम्नि स्फुर-
न्नेत्रयोः
श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं-
न्यस्यति ।
शैबालाङ्कुरशङ्कया शशिमुखी रोमावलीं
प्रोञ्छति
श्रान्तास्माति मुहुः सखीमविदितश्रोणीभरा
पृच्छति ॥”
ज्ञातयौवना यथा, --
“स्वयम्भूः शम्भुरम्भोजलोचने त्वत्पयोधरः ।
नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥”
नवोढा यथा, --
“हस्ते धृतापि शयने विनिवेशितापि
क्रोडे कृतापि यतते बहिरेव गन्तुम् ।
जानीमहे नवबधूरथ तस्य वश्या
यः पारदं स्थिरयितुं क्षमते करेण ॥”
द्वितीया यथा, --
“बलान्नीता पार्श्वं मुखमनुमुखं नैव कुरुते
धुनाना मूर्द्धानं क्षिपति वदनं चुम्बनविधौ ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना
नवोढा वोढारं रमयति च सन्तापयति च ॥”
विश्रब्धनवोढा यथा, --
“दरमुकुलितनेत्रपालिनीवी-
नियमितबाहुकृतोरुयुग्मबन्धम् ।
करकलितकुचस्थलं नवोढा
स्वपिति समीपमुपेत्य कस्य यूनः ॥”
इति रसमञ्जरी ॥

मुच इ ङ कल्कने । दम्भे । शाठ्ये । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-
सेट् ।) द्बौ पञ्चमस्वरिणौ । इ मुञ्च्यते । ङ
मुञ्चते ङ मोचते । इति दुर्गादासः ॥

मुच ङ कल्कने । दम्भे । शाठ्ये । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-
सेट् ।) द्बौ पञ्चमस्वरिणौ । इ मुञ्च्यते । ङ
मुञ्चते ङ मोचते । इति दुर्गादासः ॥

मुच ऌ श प ञ औ मोक्षे । इति कविकल्पद्रुमः ॥

(तुदा०-उभ०-सक०-बन्धनरहितीभावे अक०-
अनिट् ।) मोक्षस्त्यागः । ऌ अमुचत् । श
प ञ मुञ्चति मुञ्चते धनं दाता । बन्धन-
रहितीभावे अकर्म्मकोऽयम् । आलानान्मुक्तो
गजः कर्त्तरि क्तः । एवं पापान्मुक्त इत्यादौ
पापबन्धनान्मुक्त इत्यर्थः । इति दुर्गादासः ॥

मुच क मोक्षे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क मोचयति । मोक्षस्त्यागः ।
इति दुर्गादासः ॥

मुचिरः, त्रि, (मुञ्चति धनादिकं ददातीति ।

मुच् + “इषिमदिमुदिखिदिच्छिदिभिदिमन्दि-
चन्दितिमिमिहिमुहिमुचीति ।” उणा० १ ।
५२ । इति किरच् ।) दाता । इति त्रिकाण्ड-
शेषः ॥

मुचिरः, पुं, (मुच् + किरच् ।) धर्म्मः । वायुः ।

देवता । इति संक्षिप्तसारोणादिवृत्तिः ॥

मुचुकुन्दः, पुं, (मुच् + बाहुलकात् कुः । मुचुः

कुन्द इवेति । राजदन्तादित्वात् पूर्ब्बनिपातः ।)
पुष्पवृक्षविशेषः । मेकचन्द इति हिन्दी भाषा ।
(यथा, राजेन्द्रकर्णपूरे । १० ।
“आनन्दं मुचुकुन्दकन्दलि ! भज स्वस्थासि
वासन्तिके ! ।”)
तत्पर्य्यायः । छत्रवृक्षः २ चित्रकः ३ प्रति-
विष्णुकः ४ । इति भावप्रकाशः ॥ बहुपुत्त्रः ५
सुदलः ६ हरिवल्लभः ७ सुपुष्पः ८ अर्घ्यार्हः ९
लक्षणकः १० रक्तप्रस्रवः ११ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । कफवातनाशित्वम् ।
कण्ठकरत्वम् । त्वग्दोषशोफशमनत्वम् । जीर्ण-
ज्वरविनाशनत्वञ्च । इति राजनिर्घण्टः ॥
शिरःपीडापित्तास्रविषनाशित्वम् । इति भाव-
प्रकाशः ॥ * ॥ मान्धातृराजपुत्त्रः । इति
श्रीभागवतम् । ९ । ७ । ३८ ।
(यथा च देवीभागवते । ७ । १० । ४ ।
“तस्यामुत्पादयामास मान्धाता द्बौ सुतौ नृप ! ।
पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥”)

मुचुटी, स्त्री, अङ्गुलिमोटनम् । आङ्गुलमट्कान

इति भाषा । यथा, --
“मुचुटीं मुकुटी चैव भवेदङ्गुलिमोटने ।”
इति शब्दरत्नावली ॥
मुष्टिः । मुठा इति भाषा । यथा, --
“सम्पिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तु बुचुट्यपि ।”
इति हेमचन्द्रः । ३ । २६१ ॥

मुज इ क मृजाध्वन्योः । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-मार्ज्जने सक०-ध्वनौ
अक०-सेट् ।) द्वौ पञ्चमस्वरिणौ । इ क मुञ्ज-
यति । क मोजयति । इति दुर्गादासः ॥

मुज क मृजाध्वन्योः । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-मार्ज्जने सक०-ध्वनौ
अक०-सेट् ।) द्वौ पञ्चमस्वरिणौ । इ क मुञ्ज-
यति । क मोजयति । इति दुर्गादासः ॥

मुञ्चकः, पुं, (मुचिङ + ण्वुल् ।) मुष्ककवृक्षः ।

इति राजनिर्घण्टः ॥

मुञ्जः, पुं, (मुञ्ज्यते मृज्यते अनेन । मुञ्ज + करणे

अच् ।) तृणविशेषः । मुँज इति भाषा ॥
(यथा, पञ्चदश्याम् । १ । ४२ ।
“यथा मुञ्जादीषिकैवमात्मा युक्त्या समुद्धृतः ।
शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥”)
तत्पर्य्यायः । मौञ्जीतृणाख्यः २ ब्राह्मण्यः ३
तेजनाह्वयः ४ वाणीरकः ५ मुञ्जनकः ६
शीरी ७ दर्भाह्वयः ८ दूरमूलः ९ दृढतृणः १०
दृढमूलः ११ बहुप्रजः १२ रञ्जनः १३ शत्रु-
भङ्गः १४ । अस्य गुणाः । मधुरत्वम् । शीत-
त्वम् । कफपित्तजदोषनाशित्वम् । ग्रहरक्षासु
दीक्षासु च पावनत्वम् । भूतनाशित्वञ्च । इति
राजनिर्घण्टः ॥ अपि च ।
“मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेधसः ।
मुञ्जद्बयन्तु मधुरं तुवरं शिशिरं तथा ॥
दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् ।
दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥”
इति भावप्रकाशः ॥
शरः । इति रत्नमाला । उपनयनकाले मुञ्ज-
मेखलाधारणविधिर्यथा । अथैनं माणवक-
माचार्य्यस्त्रिःप्रदक्षिणं त्रिवृतं मुञ्जमेखलां परि-
धापयन् मन्त्रद्वयं वाचयति । इति भवदेव-
भट्टः ॥

मुञ्जकेशी, [न्] पुं, (मुञ्जा इव केशाः सन्त्यस्य ।

इनिः ।) विष्णुः । इति हेमचन्द्रः । २ । १३१ ॥

मुञ्जरं, क्ली, (मुञ्ज्यते प्रक्षाल्यते इति । मुञ्ज +

बाहुलकात् अरन् ।) शालूकम् । इति
शब्दमाला ॥

मुञ्जातकः, पुं, (मुञ्जं अतति तत्सादृश्यं प्राप्नो-

तीति । अत + अच् । ततः स्वार्थे कन् ।) पुष्प-
शाकभेदः । अस्य गुणाः । परं स्वादुत्वम् ।
वृष्यत्वम् । पित्तानिलापहत्वञ्चं । इति राज-
वल्लभः ॥ (यथा, सुश्रुते सूत्रस्थाने ३९ अध्याये ।
“हस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि ।”)

मुट इ मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) पञ्चमस्वरी । इ मुण्ट्यते । मर्द्दो
मर्द्दनम् । इति दुर्गादासः ॥

मुट कि क्षुदि । इति कविकल्पद्रुमः ॥ (चुरा०

पक्षे भ्वा०-सक०-सेट् ।) क्षुदि चूर्णीकरणे ।
कि मोटयति तण्डुलं शिला । यस्तु दुर्गञ्च
मोटतीति हलायुधः ॥

मुट शि आक्षेपे च । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-सेट् ।) पवर्गशेषादिः ।
शि मुटति अमुठीत् मुमोट । चकारात् क्षुदि
च । मुटति द्बिषां दर्पं य इति हलायुधः ।
इति दुर्गादासः ॥
पृष्ठ ३/७४२

मुठ इ ङ पलायने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-पालने सक०-सेट् ।) पवर्ग-
शेषादिः । पञ्चमस्वरी । इ मुण्ठ्यते । ङ मुण्ठते
चौरः । इति दुर्गादासः ॥

मुड इ छिदि । मर्द्दे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । इ
मुण्ड्यते । छेद इह लोमच्छेद एव । मुण्डति
मुण्डं नापितः । लोमरहितं करोतीत्यर्थः ।
इति गुर्गादासः ॥

मुड इ ङ मग्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) पवर्गशेषादिः । पञ्चम-
स्वरी । मग्नमिति मज्जधातोः क्ते रूपं मज्जन-
मित्यर्थः । इ मुण्ड्यते । ङ मुण्डते प्रस्तरो जले ।
चतुर्भुजस्तु मार्ज्जन इति पठित्वा मार्ज्जनं
शुद्धिरिति व्याख्याय मुण्डते जलेन गात्रं लोक
इत्युदाहृतवान् । इति दुर्गादासः ॥

मुण श प्रतिज्ञाने । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) श मुणति व्रतं लोकः ।
प्रतिजानातीत्यर्थः । मोणिता । इति दुर्गा-
दासः ॥

मुण्डं, क्ली, (मुण्ड्यन्ते उप्यन्ते केशा अस्मात् यद्बा,

मुण्डते मज्जतीति । मुण्ड + अच् ।) शिरः ।
इति नपुंसकलिङ्गसंग्रहे अमरः । ३ । ५ । ३४ ॥
(यथा, मोहमुद्गरे । १५ ।
“अङ्गं गलितं पलितं मुण्डं
दन्तविहीनं यातं तुण्डम् ।
करधृतकम्पितशोभितदण्डं
तदपि न मुञ्चत्याशाभाण्डम् ॥”
उपनिषद्विशेषः । तदुक्तं यथा, --
“ईशाकेनकठप्रश्नमुण्डमाण्डुक्यतित्तिरि ।
छान्दोग्यं बृहदारण्यमैतरेयं तथा दश ॥”)
वोलम् । मुण्डायसम् । इति राजनिर्घण्टः ॥

मुण्डः, पुं, (मुण्डनं मुण्डः केशापनयनं मुडि खण्डने

भावे घञ् । ततः अर्श आद्यच् इत्यमर-
टीकायां रायभरतौ ।) वलिराजस्य सैनिक-
दैत्यविशेषः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि ।
२३२ । ५ ।
“एकाक्ष एकपान्मुण्डो विद्युदक्षश्चतुर्भुजः ।”
शुम्भसेनापतिर्दैत्यभेदः । यथा, माकण्डेयपुराणे ।
८७ । २८ ।
“हे चण्ड ! हे मुण्ड ! वलैर्बहुलैः परिवारितौ ।”)
मुण्डमेवावयवत्वेनास्त्यस्य । अच् ।) राहुग्रहः ।
इति मेदिनी । डे, २२ ॥ (मुण्डं मुण्डनं जीवि-
कात्वेनास्त्यस्य । अच् ।) नापितः । इति
जटाधरः ॥ (मुण्डनं स्कन्धावच्छेदे खण्डनम-
स्त्यस्य । अच् ।) स्थाणुवृक्षः । इति केचित् ॥

मुण्डः, पुं, क्ली, (मुण्ड + अच् ।) मूर्द्धा । इति

मेदिनी । डे, २२ ॥

मुण्डः, त्रि, मुण्डितः । इत्यमरः । २ । ६ । ४८ ॥

द्वे मुण्डितमुण्डे । मुडि खण्डने भावे घञि मुण्डो
मुण्डनं केशापनयनं तद्योगात् अर्श आद्यचि
मुण्डः पुमान् स्त्रियां मुण्डा । इत्यमरटीकायां
भरतः ॥ (यथा, महाभारते । १ । ११९ । ८ ।
‘चरन् भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥’)

मुण्डकं, क्ली, (मुण्डमेवेति मुण्ड + स्वार्थे कन् ।)

मस्तकम् ॥ (उपनिषद्बिशेषश्च ॥)

मुण्डकः, पुं, (मुण्डयतीति । मुडि + ण्वुल् ।)

नापितः । इति हेमचन्द्रः । ३ । २३० ॥

मुण्डचणकः, पुं, (मुण्डित इव चणकः ।) कलायः ।

इति राजनिर्घण्टः ॥

मुण्डनं, क्ली, (मुण्ड + ल्युट् ।) केशच्छेदनम् ।

तत्पर्य्यायः । भद्रकरणम् २ वपनम् ३ परि-
वापनम् ४ क्षौरम् ५ । इति हेमचन्द्रः । ३ । ५८७ ॥
(यथा, महाभारते । १२ । २३ । ४६ ।
“भ्रातुरस्य हितं वाक्यं शृणु धर्म्मज्ञसत्तम ! ।
दण्ड एव हि राजेन्द्र ! क्षत्त्रधर्म्मो न मुण्डनम् ॥”)

मुण्डफलः, पुं, (मुण्डवत् फलमस्य ।) नारिकेल-

वृक्षः । यथा, --
“तथा मुण्डफलश्चापि विश्वामित्रप्रियोऽपि च ।”
इति शब्दरत्नावली ॥

मुण्डशालिः, पुं, (मुण्डो मुण्डित इव शालिः ।)

शालिभेदः । तत्पर्य्यायः । मुण्डनकः २
निःशूकः ३ अशूककः ४ । अस्य गुणाः ।
त्रिदोषनाशित्वम् । मधुराम्लत्वम् । बलप्रदत्वम् ।
रुचिकारित्वम् । दीपनत्वम् । पथ्यत्वम् । मुख-
जाड्यरुजापहत्वञ्च । इति राजनिर्घण्टः ॥

मुण्डा, स्त्री, (मुण्ड + स्त्रियां टाप् ।) मुण्डीरिका ।

इति मेदिनी । डे, २२ ॥ मुण्डिता स्त्री । इत्य-
मरटीकायां भरतः ॥

मुण्डाख्या, स्त्री, (मुण्डेत्याख्यास्याः ।) महाश्राव-

णिका । इति राजनिर्घण्टः ॥

मुण्डायसं, क्ली, (मुण्डञ्च तत् अयश्चेति । मुण्ड +

अयस् + “अनोश्मायः सरसां जातिसंज्ञयोः ।”
५ । ४ । ९४ । इति टच् ।) लोहम् । इति राज-
निर्घण्टः ॥

मुण्डितं, क्ली, (मुण्ड्यते खण्ड्यते इति । मुडि खण्डने

+ कर्म्मणि क्तः ।) लोहम् । इति राजनिर्घण्टः ॥
वापितमुण्डे, त्रि । इत्यमरः । ३ । १ । ८५ ॥

मुण्डितिका, स्त्री, (मुण्डित + स्वार्थे कन् + स्त्रियां

टाप् अत इच्च ।) वृक्षविशेषः । मुण्डीरी इति
भाषा । तत्पर्य्यायः । अलम्बुषा २ श्रावणी ३
पलङ्कषा ४ कदम्बपुष्पा ५ श्रवणा ६ भूतघ्नी ७
कुम्भला ८ अरुणा ९ । इति रत्नमाला ॥

मुण्डी, [न्] पुं, (मुण्डयति केशान् वपति इति ।

मुण्ड + णिनिः ।) नापितः । इत्यमरः । २ ।
१० । १० ॥ (योगाचार्य्यविशेषः । यथा, शिव-
पुराणे वायुसंहितायाम् । २ । १० । ५ -- ६ ॥
‘महाकालश्च शूली च दण्डी मुण्डी सएव
च ।’
इत्यादावारभ्य ।
अष्टाविंशतिसंख्याता योगाचार्य्या युगक्रमात् ।’
सम्पादितकेशच्छेदनः । यथा, महाभारते । १३ ।
१४ । ३७४ ।
“दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि ।
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली-
कृतः ॥”)

मुण्डीरिका, स्त्री, (मुण्डि + बाहुलकात् ईरच् ।

स्त्रियां ङीष् स्वार्थे कन् । स्त्रियां टाप्
“केऽणः ।” ७ । ४ । १३ । इति पूर्ब्बस्य ह्वस्वः ।)
मुण्डितिका । इति जटाधरः ॥

मुत्, स्त्री, (मोदतेऽनया इति । मुद् + क्विप् ।)

वृद्धिनामौषधम् । इति राजनिर्घण्टः ॥

मुत्, [द्] स्त्री, (मोदनमिति । मुद् + भावे क्विप् ।)

हर्षः । इत्यमरः । १ । ४ । २४ ॥ (यथा, रघु-
वंशे । ३ । २५ ।
“उवाच धात्र्या प्रथमोदितं वचो
ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
अभूच्च नम्रः प्रणिपातशिक्षया
पितुर्मुदं तेन ततान सोऽर्भकः ॥”)

मुद क संसर्गे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-

सक०-सेट् ।) क मोदयति घृतेनान्नं लोकः ।
इति दुर्गादासः ॥

मुद ञि ङ हर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) हर्षश्चित्तोत्साहः । ञि
मुदितोऽस्ति ङ मोदते धनी । इति दुर्गा-
दासः ॥

मुदा, स्त्री, (मुद् + घञर्थे कः ततष्टाप् ।) र्षःह ।

यथा । सुखमानन्दथुर्मुदा । इति शब्दरत्ना-
वली ॥ (यथा, मार्कण्डेये । ११६ । ३० ।
“तं मन्त्रं क्रियमाणं तु मन्त्रिभिस्तेन भूभृता ।
तत्पार्श्ववर्त्तिनी कन्या शुश्रावाथ मुदा-
वती ॥”)

मुदितः, त्रि, (मुद् + क्त । यद्बा, मुदा अस्य जाता ।

मुदा + इतच् ।) आनन्दितः । यथा, --
“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥”
इति शुद्धितत्त्वम् ॥
आलिङ्गनविशेषः । तस्य लक्षणं यथा । नायि-
कया नायकस्य वामपार्श्वे उषित्वा वामपादं
तस्योरुद्वयमध्ये स्थापयित्वा उभौ मिलित्वा
यदवस्थानम् । इति कामशास्त्रम् ॥

मुदिता, स्त्री, (मोदते इति मुद् + सर्व्वधातुभ्य

इन् संज्ञापूर्ब्बकविधेरनित्यत्वात् गुणाभावः ।
मुदिः तस्य भावः इति तल् + टाप् ।) मुदा ।
हर्षः । इत्यमरटीकायां मथुरेशः ॥ (यथा,
पातञ्जलसूत्रम् । १ । ३३ ।
“मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्या-
पुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥”)

मुदिरः, पुं, (मोदन्ते अनेन प्रजा इति । मुद् +

“इषिमदिमुदीति ।” उणा० १ । ५२ । इति
किरच् ।) मेघः । इत्यमरः । १ । ३ । ७ ॥ (यथा, --
गीतगोविन्दे । २ । ३ ।
“प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिर-
सुवेशम् ।”)
कामुकः । इति मेदिनी । रे, २०५ । भेकः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥
पृष्ठ ३/७४३

मुद्गः, पुं, (मोदते अनेन इति । मुद् + “मुदिग्रो-

र्गग्गौ ।” उणा० १ । १२७ । इति गक् ।)
पक्षिविशेषः । तत्पर्य्यायः । जलवायसः २ ।
इति हेमचन्द्रः । ४ । २३८ ॥ शमीधान्यभेदः ।
मुग इति माषा । (यथा, मनुः । ९ । ३९ ।
“ब्रीहयः शालयो मुद्गास्तिलामाषास्तथा यवाः ।”)
तत्पर्य्यायः । सूपश्रेष्ठः २ वर्णार्हः ३ रसोत्तमः ४
भुक्तिप्रदः ५ हयानन्दः ६ सुफलः ७ वाजि-
भोजनः ८ । अस्य गुणाः । कषायत्वम् । मधु-
रत्वम् । कफपित्तास्रजित्त्वम् । लघुत्वम् । ग्राहि-
त्वम् । शीतत्वम् । पाके कटुत्वम् । चक्षुष्यत्वम् ।
नातिवातलत्वञ्च । तद्यूषगुणाः । पित्तश्रमार्त्ति-
शमनत्वम् । लघुत्वम् । सन्तापहारित्वम् ।
अरोचकनाशित्वम् । तत्सैन्धवयुक्तञ्चेत् रक्त-
प्रसादनत्वम् । सर्वरुजापहारित्वञ्च । इति
राजनिर्घण्टः ॥ अपि च । रूक्षत्वम् । स्वादु-
त्वम् । अल्पानिलत्वम् । ज्वरघ्नत्वञ्च । इति
भावप्रकाशः ॥ * ॥ वनमुद्गगुणाः ।
“मुकुष्टः शीतलो ग्राही कफपित्तज्वरापहः ॥”
तद्बिशेषा यथा, राजवल्लभे ।
“प्रधाना हरितास्तत्र वन्यमुद्गास्तु मुद्गवत् ।
कृष्णमुद्गा महामुद्गा गौरा हरितपीतकाः ।
श्वेता रक्ताश्च निर्द्दिष्टा लघवः पूर्ब्बपूर्ब्बवत् ॥”

मुद्गपर्णी, स्त्री, (मुद्गस्येव पर्णान्यस्याः मुद्गपर्ण +

जातौ ङीष् ।) वनमुद्गः । मुगानी इति
भाषा । तत्पर्य्यायः । काकमुद्गा २ सहा ३ ।
इत्यमरः ॥ क्षुद्रसहा ४ शिम्बी ५ मार्ज्जार-
गन्धिका ६ वनजा ७ रिङ्गिणी ८ ह्नस्वा ९
सूर्पपर्णी १० कुरङ्गिका ११ कोशिला १२
वनोद्भवा १३ वनमुद्गा १४ आरण्यमुद्गा १५
वन्या १६ । कुरङ्गिकास्थाने करञ्जिका इति च
पाठः । अस्या गुणाः । हिमत्वम् । कास-
वातरक्तक्षयपित्तदाहज्वरनाशित्वम् । चक्षुष्य-
त्वम् । शुक्रवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥
अपि च । यथा, भावप्रकाशे ।
“मुद्गपर्णी काकपर्णी सूर्पपर्ण्यल्पपर्णिका ।
काकमुद्गा च सा प्रोक्ता तथा मार्ज्जारगन्धिका ॥
मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला ।
चक्षुष्या क्षयशोथघ्नी ग्राहिणी ज्वरदाहनुत् ।
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारहृत् ॥”

मुद्गभुक्, [ज्] पुं, (मुद्गं भुंक्ते इति । भुज् +

क्विप् ।) घोटकः । इति जटाधरः ॥

मुद्गभोजी, [न्] पुं, (मुद्गं भुंक्ते इति । भुज् +

णिनिः ।) अश्वः । इति राजनिर्घण्टः ॥

मुद्गमोदकः, पुं, (मुद्गेन साधितो मोदकः ।) मोदक-

विशेषः । मतिचुर इति भाषा । यथा, --
“मुद्गानां धूमसीं सम्यग्घोलयेन्निर्म्मलाम्बुना ।
कटाहस्थघृतस्योर्द्ध्वं झर्झरं स्थापयेत्ततः ॥
धूमसीन्तु द्रवीभूतां प्रक्षिपेत् झर्झरोपरि ।
पतन्ति बिन्दवस्तस्मात्तान् सुपक्वान् समुद्धरेत् ।
सितापाकेन संयोज्य कुर्य्यात् युक्तेन भादकान् ॥”
अस्य गुणाः । यथा, भावप्रकाशे ।
“लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः ।
चक्षुष्यो ज्वरहृत् बल्यस्तर्पणो मुद्गमोदकः ॥”

मुद्गरं, क्ली, (मुदं आनन्दं गिरति विकिरतीति । गॄ

+ अच् ।) मल्लिकाभेदः । लोष्टादिभेदने, पुं ।
इति मेदिनी । रे, २०४ ॥ (यथा, महाभारते ।
१ । २११ । ३ ।
“गदापट्टिशधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सहधर्म्मिण्या महत्या दैत्यसेनया ॥”)

मुद्गरः, पुं, (मुद् + गॄ + अच् ।) कर्म्मारवृक्षः ।

पुष्पवृक्षविशेषः । तत्पर्य्यायः । गन्धसारः २
सप्तपत्रः ३ अतिगन्धः ४ गन्धराजः ५ विट-
प्रियः ६ प्रियः ७ जनेष्टः ८ मृगेष्टः ९ । अस्य
गुणाः । मधुरत्वम् । शीतत्वम् । सुरभित्वम् ।
सौख्यदायकत्वम् । मनोजकारित्वम् । मधु-
पानन्दकारित्वम् । पित्तप्रकोपनाशित्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ अस्त्रविशेषः । मुगुर
इति भाषा । तत्पर्य्यायः । द्रुघणः २ घनः ३ ।
इत्यमरः ॥ द्रुघनः ४ । इति भरतः ॥ प्रघणः ५ ।
इति जटाधरः ॥ मुद्गरः कोरकास्त्रयोः । इति
हेमचन्द्रः ॥ (यथा, रघौ । १२ । ७३ ।
“पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ॥”)

मुद्गरकः, पुं, (मुद्गरमिवेति प्रतिकृतौ कन् ।)

कर्म्मारः । इति राजनिर्घण्टः । कामराङ्गा
इति भाषा ॥

मुद्गलं, क्ली, रोहिषतृणम् । इति राजनिर्घण्ठः ॥

मुद्गलः, पुं, हर्य्यश्वराजपुत्त्रः । यथा, --

“सुशान्तेः पुरुजानुः तस्माच्चर्क्षः ततश्च हर्य्यश्वः
हर्य्यश्वान्मुद्गलसृञ्जयबृहदिषुयवीनरकाम्पिल्य-
संज्ञाः । पञ्चानामेतेषां विषयाणां रक्षणाया-
लमेते मत्पुत्त्रा इति पित्राभिहिता इति
पञ्चालाः । इति विष्णुपुराणे ४ अंशे १९
अध्यायः ॥ (मुद्गं लातीति । ला + कः । इत्यु-
णादिवृत्तौ उज्ज्वलदत्तः ।) गोत्रकारकमुनि-
विशेषः । तस्य भार्य्या इन्द्रसेना । इति पुराणम् ॥
(उपनिषद्विशेषः ॥)

मुद्गष्टः, पुं, वनमुद्गः । इति शब्दरत्नावली ॥

मुद्गष्टकः, पुं, (मुद्गष्ट + स्वार्थे कन् ।) वनमुद्गः ।

इत्यमरः । २ । ९ । १७ ॥

मुद्गार्द्रवटः, पुं, (मुद्गेनार्द्रः वटः ।) वटक-

विशेषः । आदावडा इति भाषा । यथा, --
“मुद्गपिष्टीविरचितान् वटकांस्तैलपाचितान् ।
हस्तेन चूर्णयेत् सम्यक् तस्मिंश्चूर्णे विनिक्षिपेत् ॥
भृष्टं हिङ्ग्वार्द्रकं सूक्ष्मं मरिचं जीरकं तथा ।
निम्बूरसं यवानीञ्च युक्त्या सर्व्वं विमिश्रयेत् ॥
मुद्गपिष्टीं पचेत् सम्यक् स्थाल्यामङ्गारकोपरि ।
तस्यास्तु गोलकं कुर्य्यात्तन्मध्ये पूरणं क्षिपेत् ॥
तैले तान् गोलकान् पक्त्वा क्वथितायां निम-
ज्जयेत् ।
गोलकाः पाचकैः प्रोक्तास्ते त्वार्द्रकवटा अपि ॥”
अस्य गुणाः । यथा, भावप्रकाशे ।
“मुद्गार्द्रकवटा रुच्या लघवो बलकारक्राः ।
दीपनास्तर्पणाः पथ्यास्त्रिदोषेषु प्रपूजिताः ॥”

मुद्रा, स्त्री, (मोदते अनयेति । मुद् + “स्फायि-

तञ्चीत्यादि ।” उणा० २ । १३ । इति रक् अतः
टाप् ।) प्रत्ययकारिणी ॥ इति त्रिकाण्ड-
शेषः । नामेर मोहर इति भाषा ॥ अङ्गुलि-
मुद्रा । इति शब्दरत्नावली ॥ छापेर आङ्गुटी
इति भाषा । स्वर्णरौप्यादिमुद्रिका च । (यथा,
अभिज्ञानशाकुन्तले । २ ।
“इमां मुद्रां त्वदङ्गुलौ निवेशयता मया ।”
चिह्नम् । यथा, श्रीमद्भागवते । ३ । २४ । १७ ।
“ज्ञानविज्ञानयोगेन कर्म्मणामुद्धरन् जटाः ।
हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥”)
मोहर टाका इत्यादि भाषा । इति लोक-
प्रसिद्धिः ॥ * ॥ पञ्चधालिप्यन्तर्गतलिपिविशेषः ।
छापार अक्षर इति भाषा । यथा, --
“मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा ।
गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः ।
एताभिर्लिपिभिर्व्याप्ता धरित्रीं शुभदा हर ! ॥”
इति वाराहीतन्त्रम् ॥
“लेखन्या लिखितं विप्रैर्मुद्राभिरङ्कितञ्च यत् ॥
शिल्पादिनिर्म्मितं यच्च पाठ्यं धार्य्यञ्च सर्व्वदा ॥
इति खड्गमालातन्त्रम् ॥ * ॥
पञ्चमकारान्तर्गतभृष्टद्रव्यविशेषः । यथा, --
“पृथुकास्तण्डुला भृष्टा गोधूमचणकादयः ।
तस्य नाम भवेद्देवि ! मुद्रा मुक्तिप्रदायिनी ॥”
इति निर्व्वाणतन्त्रे ११ पटलः ॥
तस्याः शोधनं यथा, --
“ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
दिवीव चक्षुराततम् । ॐ तद्विप्रासो विपन्यवो
जागृवांसः समिन्धते विष्णोर्यत् परमं पदम् ।
इति मन्त्राभ्यां शाधनम् । इति स्वतन्त्रतन्त्रम् ॥
शरीरे धार्य्यभगवदायुधादिचिह्नम् । छाप इति
भाषा । यथा, --
“ततो नारायणीं मुद्रां धारयेत् प्रीतये
हरेः ।
मत्स्यकूर्म्मादिचिह्नानि चक्रादीन्यायुधानि च ॥
अथ मुद्राधारणनित्यता स्मृतौ ।
“अङ्कितः शङ्खचक्राभ्यामुभयोर्व्वाहुमूलयोः ।
समर्च्चयेद्धरिं नित्यं नान्यथा पूजनं भवेत् ॥”
आदिपुराणे ।
“शङ्खचक्रोर्द्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम् ।
गर्द्दभं तु समारोप्यराजा राष्ट्रात् प्रवासयेत् ॥”
गारुडे श्रीभगवदुक्तौ ।
“सर्व्वकर्म्माधिकारश्च शुचीनामेव चोदितः ।
शुचित्वञ्च विजानीयान्सदीयायुधधारणात् ॥”
इति पाद्मे चोत्तरखण्डे ।
“शङ्खचक्रादिभिश्चिह्नैर्विप्रः प्रियतमैर्हरेः ।
रहितः सर्व्वधर्म्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥”
श्रुतौ च यजुःकठशाखायाम् ।
“धृतोर्द्ध्वपुण्ड्रः कृतचक्रधारी
विष्णुं परं ध्यायति यो महात्मा ।
स्मरेण मन्त्रेण सदा हृदि स्थितं
परात्परं यन्महतो महान्तम् ॥”
पृष्ठ ३/७४४
अथर्व्वणि च ।
‘एभिर्व्वयमुरुक्रमस्य चिह्नै-
रङ्किता लोके शुभगा भवेम ।’
तद्विष्णोः परमं पदं ये गच्छन्ति लाञ्छिताः ।
इत्यादि ॥
अतएव ब्रह्मपुराणे ।
‘कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः ।
द्बादशाब्दार्जितं पुण्यञ्चाफलायोपगच्छति ॥’ * ॥
अथ मुद्राधारणमाहात्म्यम् ।
स्कान्दे श्रीसनत्कुमारमार्कण्डेयसम्बादे ।
‘यो विष्णुभक्तो विप्रेन्द्र ! शङ्खचक्रादिचिह्नितः ।
स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥’
तत्रैवान्यत्र ।
‘नारायणायुधैर्नित्यं चिह्नितं यस्य विग्रहम् ।
पापकोटिप्रयुक्तस्य तस्य किं कुरुते यमः ॥
शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्षकोटिभिः ।
तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥
यत् फलं पुष्करे नित्यं पुण्डरीकाक्षदर्शने ।
शङ्खोपरिकृते पद्मे तत् फलं समवाप्नुयात् ॥
वामे भुजे गदा यस्य लिखिता दृश्यते कलौ ।
गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति ॥
यच्चानन्दपुरे प्रोक्तं चक्रस्वामिसमीपतः ।
गदाधो लिखिते चक्रे तत् फलं कृष्णदर्शने ॥’
श्रीभगवदुक्तौ च ।
‘यः पुनः कलिकाले तु मत्पुरीसम्भवां मृदम् ।
मत्स्यकूर्म्मादिकं चिह्नं गृहीत्वा कुरुते नरः ॥
देहे तस्य प्रविष्टोऽहं जानन्तु त्रिदशोत्तमाः ।
तस्य मे नान्तरं किञ्चित् कर्त्तव्यं श्रेय इच्छता ॥
ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे ।
मर्त्यैर्मर्त्यो न विज्ञेयः स नूनं मामकी तनुः ॥
पापं सुकृतरूपन्तु जायते तस्य देहिनः ।
ममायुधानि यस्याङ्गे लिखितानि कलौ युगे ॥
उभाभ्यामपि चिह्नाभ्यां योऽङ्कितो मत्स्य-
मुद्रया ।
कूर्म्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥
शङ्खञ्च पद्मञ्च गदां रथाङ्गं
मत्स्यञ्च कूर्म्मं रचितं स्वदेहे ।
करोति नित्यं सुकृतस्य वृद्धिं
पापक्षयं जन्मशतार्जितस्य ॥’
तत्रैव श्रीब्रह्मनारदसंवादे ।
‘कृष्णशस्त्राङ्ककवचं दुर्भेद्यं देवदानवैः ।
अधृष्यं सर्व्वभूतानां शत्रूणां रक्षसामपि ॥
लक्ष्मीः सरस्वती दुर्गा सावित्री हरवल्लभा ।
नित्यं तस्य वसेद्देहे यस्य शङ्खाङ्किता तनुः ॥
गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च ।
नित्यं तस्य सदा तिष्ठेद्यस्य पद्माङ्कितं वपुः ॥
यस्य कौमोदकीचिह्नं भुजे वाथ कलिप्रिय ! ।
प्रत्यहं तत्र द्रष्टव्यो गङ्गासागरसङ्गमः ॥
सव्ये करे गदाधस्ताद्रथाङ्गं तिष्ठते यदि ।
कृष्णेन सहितं तत्र त्रैलोक्यं सचराचरम् ॥
त्रयोऽग्रयस्त्रयो देवा विष्णोस्त्रीणि पदानि च ।
निवसन्ति सदा तस्य यस्य देहे सुदर्शनम् ॥’
किञ्च ।
‘कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे ।
ऊर्द्ध्वलोकाधिकारी च स ज्ञेयस्त्रिदशां पतिः ॥
कृष्णमुद्राप्रयुक्तस्तु दैवं पित्र्यं करोति यः ।
नित्यं नैमित्तिकं काम्यं प्रत्यहञ्चाक्षयं भवेत् ॥
पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः ।
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥’
वाराहे श्रीसनत्कुमारोक्तौ ।
‘कृष्णायुधाङ्कितं देहं गोपीचन्दनमृत्स्नया ।
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥
यदा यस्य प्रपश्येत देहं शङ्खादिचिह्नितं ।
तदा तदा जगत्स्वामी तुष्टो हरति पातकम् ॥
भवते यस्य देहे तु अहोरात्रं दिने दिने ।
शङ्खचक्रगदापद्मं लिखितं सोऽच्युतः स्वयम् ॥
नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे ।
कुरुते पुण्यकर्म्माणि मेरुतुल्यानि तस्य वै ॥
शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्बिजः ।
विधिहीनन्तु संपूर्णं पितॄणान्तु गयासमम् ॥
यथाग्निर्दहते कक्षं वायुना प्रेरितो भृशम् ।
तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥’
ब्राह्म्ये श्रीब्रह्मनारदसंबादे ।
‘विष्णुनामाङ्कितां मुद्रां अष्टाक्षरसमन्विताम् ।
शङ्खादिकायुधैर्युक्तां स्वर्णरूप्यमयीमपि ॥
धत्ते भागवतो यस्तु कलिकाले विशेषतः ।
प्रह्रादस्य समो ज्ञेयो नान्यथा कलिवल्लभ ! ॥’
किञ्च ।
‘शङ्खाङ्किततनुविंप्रो भुङ्क्ते यस्य च वेश्मनि ।
तदन्नं स्वयमश्नाति पितृभिः सह केशवः ॥
कृष्णायुधाङ्कितो यस्तु श्मशाने म्रियते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद ! ॥
कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् ।
तत्राश्रयं प्रकुर्व्वन्ति विबुधा वासवादयः ॥
यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः ।
अपराधसहस्राणि नित्यं हरति केशवः ॥
कृत्वा काष्ठमयं विम्बं कृष्णशस्त्रैस्तु चिह्नितम् ।
यो ह्यङ्कयति चात्मानं तत्समो नास्मि वैष्णवः ॥
पाषण्डपतितव्रात्यैर्नास्तिकालापपातकैः ।
न लिप्यते कलिकृतैः कृष्णशस्त्राङ्कितो नरः ॥’
किञ्च ।
‘अष्टाक्षराङ्किता मुद्रा यस्य धातुमया भवेत् ।
शङ्खपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः ॥
धृता नारायणी मुद्रा प्रह्रादेन पुरा कृता ।
विभीषणेन बलिना ध्रुवेण च शुकेन च ॥
मान्धातृणाम्बरीषेण मार्कण्डप्रमुखैर्द्बिजैः ।
शङ्खादिचिह्नितैः शस्त्रैर्देहे कृत्वा कलिप्रिय ! ।
आराध्य केशवात् प्राप्तं समीहितफलं महत् ॥’
किञ्च ।
‘गोपीचन्दनमृत्स्नाया लिखितं यस्य विग्रहे ।
शङ्खपद्मादिचक्रं वा तस्य देहे वसेद्धरिः ॥’
तत्रैव श्रीसनत्कुमारोक्तौ ।
‘यस्य नारायणी मुद्रा देहे शङ्खादिचिह्निता ।
धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ॥
द्बादशाक्षरमन्त्रैस्तु नियुक्तानि कलेवरे ।
आयुधानि च विप्रस्य मत्समः स च वैष्णवः ॥’
किञ्च ।
‘यस्य नारायणी मुद्रा देहे शङ्खादिचिह्निता ।
सर्व्वाङ्गं चिह्नितं यस्य शस्त्रैर्नारायणोद्भवैः ॥
प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥’
अन्यत्र च ।
‘एभिर्भागवतैश्चिह्नैः कलिकाले द्विजातयः ।
भवन्ति मर्त्यलोके ते शापानुग्रहकारकाः ॥’ * ॥
अथ मुद्राधारणविधिः । गौतमीये ।
“ललाटे च गदा कार्य्या मूर्द्ध्नि चापः शरःस्तथा ।
नन्दकञ्चैव हृन्मध्ये शङ्खचक्रं भुजद्वये ॥
शङ्खचक्राङ्कितो विप्रः श्मशाने म्रियते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य गौतम ! ॥
चक्रञ्च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे ।
गदां वामे गदाधस्तात् पुनश्चक्रञ्च धारयेत् ॥
शङ्खोपरि तथा पद्मं पुनः पद्मञ्च दक्षिणे ।
खड्गं वक्षसि चापञ्च शरं शिरसि धारयेत् ॥
इति पञ्चायुधान्यादौ धारयेद्बैष्णवो जनः ।
मत्स्यञ्च दक्षिणे हस्ते कूर्म्मं वामकरे तथा ॥’
तथा चोक्तम् ।
‘दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
मत्स्यं पद्मञ्चापरेऽथ शङ्खं कूर्म्मं गदां तथा ॥
साम्प्रदायिकशिष्टानामाचाराच्च यथारुचि ।
शङ्खचक्रादिचिह्नानि सर्व्वेव्वङ्गेषु धारयेत् ॥
भक्त्या निजेष्ठदेवस्य धारयेल्लक्षणान्यपि ।
चक्रशङ्खौ च धार्य्येते संमिश्रावेव कैश्चन ॥’
यत उक्तं ब्रह्मवैवर्त्ते ।
‘केवलं नोद्वहेच्छङ्खमादौ चासुरविग्रहम् ।
अतश्चक्रविमिश्रं तं बिभृयाद्वैष्णवः सदा ॥
श्रीगोपीचन्दनेनैवं चक्रादीनि बुधोऽन्वहम् ।
धारयेच्छयनादौ तु तप्तानि किल तानि हि ॥’
अथ चक्रादीनां लक्षणानि ।
‘द्वादशाक्षरन्तु षट्कोणं बलयत्रयसंयुतम् ।
चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः ॥
गदापद्मादिकं लोकसिद्धमेव मतं बुधैः ।
मुद्रा च भगवान्नाम्नाङ्किता याष्टाक्षरादिभिः ॥’
इति श्रीहरिभक्तिविलासः ॥ * ॥
अपि च ।
‘यथा मुद्रा शीतलाख्या तथा तप्ता न संशयः ।
तप्तायाः शीतलायाश्च विभेदो नैव वर्त्तते ॥
नामचिह्नादिना देहे वह्निना वा मृदाङ्कनम् ।
सा दीक्षा प्रोच्यते भूप ! वाह्यानां ज्ञानिना-
मपि ॥
वैष्णवैर्विष्णुभक्तेश्च ब्राह्मणैर्वेदपारगैः ।
सन्धार्य्या सतिला मुद्रा गोपीचन्दनसंयुता ॥’
इति नारदपञ्चरात्रम् ॥
‘कृष्णनामाक्षरैर्गात्रमङ्कयेच्चन्दनादिना ।
स लोकपावनो भूत्वा विष्णुलोकमवाप्नुयात् ॥
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ।
अङ्कयित्वा जपेन्मन्त्रं संसारान्मोक्षमाप्नुयात् ॥’
इति पद्मपुराणम् ॥
पृष्ठ ३/७४५
‘तन्नाम्ना चाङ्कितं सर्व्वं वसनं भाजनादिकम् ।’
इति हारीतस्मृतिः ॥ * ॥
देवताविशेषप्रीतिजनिकाङ्गुलिरचना । यथा,
मुद्रापदव्युत्पत्तिमाह तन्त्रे ।
‘मोदनात् सर्व्वदेवानां द्रावणात् पापसन्ततेः ।
तस्मान्मुद्रेति सा ख्याता सर्व्वकामार्थसाधनी ॥
अथ मुद्राः प्रवक्ष्यामि सर्व्वतन्त्रेषु कल्पिताः ।
याभिर्व्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ॥
अर्च्चने जपकाले च ध्याने काम्ये च कर्म्मणि ।
स्नाने चावाहने शङ्खे प्रतिष्ठायाञ्च रक्षणे ॥
नैवेद्ये च तथान्यत्र तत्तत्कल्पप्रकाशिते ।
स्थाने मुद्राः प्रद्रष्टव्याः स्वस्वलक्षणलक्षिताः ॥
आवाहनादिका मुद्रा नव साधारणा मताः ।
तथा षडङ्गमुद्राश्च सर्व्वमन्त्रेषु योजयेत् ॥
एकोनविंशतिर्म्मुद्रा विष्णोरुक्ता मनीषिभिः ।
शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥
वनमाला तथा ज्ञानमुद्रा विल्वाह्वया तथा ।
गरुडाख्या परा मुद्रा विष्णोः सन्तोषवर्द्धिनी ॥
नारसिंही च वाराही हायग्रीवी धनुस्तथा ।
बाणमुद्रा ततः परशुर्ज्जगन्मोहनिका परा ॥
काममुद्रा पराख्याता शिवस्य दश मुद्रिकाः ।
लिङ्गयोनित्रिशूलाख्यामालेष्टाभीमृगाह्वयाः ।
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः ॥
सूर्य्यस्यैकैव पद्माख्या सप्तमुद्रा गणेशितुः ।
दन्तपाशाङ्कुशा विघ्नपरशुलड्डुकसंज्ञिताः ।
बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने ॥
पाशाङ्कुशवराभीतिखड्गचर्म्मधनुःशराः ।
मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥
लक्ष्मीमुद्रार्च्चने लक्ष्म्या वाग्वादिन्याश्च पूजने ।
अक्षमाला तथा वीणाव्याख्यापुस्तकमुद्रिकाः ॥
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने ।
मत्स्यमुद्रा च कूर्म्माख्या लेलिहा मुण्डसंज्ञिका ॥
महायोनिरिति ख्याता सर्व्वसिद्धिसमृद्धिदा ।
शक्त्यर्च्चने महायोनिः श्यामादौ मुण्डमुद्रिका ॥
मत्स्यकूर्म्मलेलिहाख्या मुद्रा साधारणी मता ।
तारार्च्चने विशेषास्तु कथ्यन्ते पञ्च मुद्रिकाः ॥
योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी ।
लेलिहानेति संप्रोक्ताः पञ्चमुद्राः प्रकाशिताः ॥
दशका मुद्रिका ज्ञेयास्त्रिपुरायाः प्रपूजने ।
संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरी बीजयोन्याख्या त्रिखण्डा परिकीर्त्तिताः ॥
कुम्ममुद्राभिषेके स्यात् पद्ममुद्रासने तथा ।
कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्म्मणि ॥
गालिनी च प्रयोक्तव्या जलशोधनकर्म्मणि ।
श्रीगोपालार्च्चने वेणुर्नृहरेर्नारसिंहिका ॥
वराहस्य च पूजायां वाराहाख्यां प्रयोजयेत् ।
हयग्रीवार्च्चने चैव हायग्रीवीं प्रदर्शयेत् ॥
रामार्च्चने धनुर्व्वाणमुद्रे परशुस्तथार्च्चने ।
परशुरामस्य विज्ञेया जगन्मोहनसंज्ञिका ॥
वासुदेवाह्वया ध्याने कुन्तमुद्रा तु रक्षणे ।
सर्व्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् ॥ * ॥
उद्देशानुक्रमादासामुच्यन्ते लक्षणान्यथ ।
हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्व्वणोः ॥
अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता । १ ।
अधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका
स्मृता ॥ २ ॥
उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् सन्निधापनी । ३ ।
अन्तःप्रवेशिताङ्गुष्ठा सैव संबोधनी मता ॥ ४ ॥
उत्तानमुष्टियुगला संमुखीकरणी मता । ५ ।
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ॥ ६ ॥
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्ज्जनी ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता मता ॥ ७ ॥
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः ।
तथैव तर्ज्जनी मध्या धेनुमुद्रा प्रकीर्त्तिता ॥
अमृतीकरणं कुर्य्यात्तया साधकसत्तमः । ८ ।
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुली ॥
महामुद्रेयमुदिता परमीकरणे बुधैः ।
प्रयोजयेदिमा मुद्रा देवताह्वानकर्म्मणि ॥ ९ ॥ * ॥
वैष्णवीनान्तु मुद्राणां कथ्यन्ते लक्षणान्यथ ।
वामाङ्गुष्ठन्तु संगृह्य दक्षिणेन तु मुष्टिना ॥
कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठन्तु प्रसारयेत् ।
वामाङ्गुल्यस्तथाश्लिष्टाः संयुक्ताः स्युः प्रसारिताः ॥
दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका । १ ।
हस्तौ तु संमुखौ कृत्वा सन्नतप्रोथिताङ्गुली ॥
तलान्तर्मिलिताङ्गुष्ठौ सुभुग्नौ सुप्रसारितौ ।
कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसंज्ञिका ॥ २ ॥
अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली ।
अङ्गुल्यौ मध्यमे भूयः सुलग्ने सुप्रसारिते ॥
गदा मुद्रेयमुदिता विष्णोः सन्तोषवर्द्धिनी । ३ ।
हस्तौ तु संमुखौ कृत्वा सन्नतप्रोथिताङ्गुली ॥
तलान्तर्मिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका । ४ ।
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ॥
दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ।
तर्जनीमध्यमानामाः किञ्चित्संकुच्य चालिताः ॥
वेणुमुद्रा भवत्येषा सुगुप्ता प्रेयसी हरेः । ५ ।
अन्योन्यपृष्ठकरयोर्मध्यमानामिकाङ्गुली ॥
अङ्गुष्ठेन तु बध्नीयात् कनिष्ठामूलसंस्थिते ।
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञिका ॥ ६ ॥
अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठयान्यया बद्ध्वा तर्ज्जन्या दक्षया तथा ॥
वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके ।
अङ्गुष्ठमध्यभे वामे संयोज्य सरलाः पराः ॥
चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका । ७ ।
स्पृशेत् कण्ठादिपादान्तं तर्ज्जन्याङ्गुष्ठया तथा ॥
करद्वयेन मालावत् मुद्रेयं वनमालिका । ८ ।
तर्ज्जन्यङ्गुष्ठकौ सक्तावग्रतो विन्यसेत् हृदि ॥
वामहस्ताम्बुजं वामजानुमूर्द्धनि विन्यसेत् ।
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी ॥ ९ ॥
अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनापि
बद्धा
तस्याग्रं पीडयित्वाङ्गुलिभिरपि च ता वाम-
हस्ताङ्गुलीभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्
मारबीजं
विल्वाख्या मुद्रिकैषा स्फुटमिह गदिता गोप-
नीया विधिज्ञैः ॥ १० ॥
हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके ।
मिथस्तर्ज्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ॥
मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् ।
एषा गरुडमुद्रा स्याद्विष्णोः सन्तोषवर्द्धिनी ॥ ११ ॥
जानुमध्ये करौ कृत्वा चिवुकौष्ठौ समावुभौ ।
हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः पुनः ॥
मुखं विवृतकं कुर्य्यात् लेलिहानाञ्च जिह्विकाम् ।
नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्द्धिनी ॥’
अथवा ।
‘अङ्गुष्ठाभ्यान्तु करयोस्तथाक्रम्य कनिष्ठिके ।
अधोमुखीभिः सर्व्वाभिर्म्मुद्रेयं नृहरेर्म्मता ॥ १२ ॥
देवोपरि करं वामं कृत्वोत्तानमधः सुधीः ।
नमयेदिति संप्रोक्ता मुद्रा वाराहसंज्ञिका ॥’
यद्वा ।
‘दक्षहस्तञ्चोर्द्ध्वमुखं वामहस्तमधोमुखम् ।
अङ्गुल्यग्रन्तु संयुक्तं मुद्रां वाराहसंज्ञिका ॥ १३ ॥
वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः ।
संरोप्य मध्यमां तासामुन्नम्याधो विकुञ्चयेत् ॥
हयग्रीवप्रिया मुद्रा तन्मूर्त्तेरनुकारिणी । १४ ।
वामस्य मध्यमाग्रन्तु तर्ज्जन्यग्रेण योजयेत् ॥
अनामिकां कनिष्ठाञ्च तस्याङ्गुष्ठेन पीडयेत् ।
दर्शयेद्वामके स्कन्धे धनुर्म्मुद्रेयमीरिता ॥ १५ ॥
दक्षमुष्टेस्तु तर्ज्जन्या दीर्घैषा बाणमुद्रिका ।’ १६ ।
यद्बा ज्ञानार्णवे ।
‘यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ! ।
चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता ॥ १७ ॥
यथा हस्तगता बाणास्तथा हस्तं कुरु प्रिये ! ।
बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी ॥ १८ ॥
तले तलन्तु करयोस्तिर्य्यक् संयोज्य चाङ्गुलीः ।
संहताः प्रसृताः कुर्य्यात् मुद्रा परशुसंज्ञिका ॥ १९
उच्छ्रिताङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ॥ २० ॥
हस्तौ तु संपुटौ कृत्वा प्रसृताङ्गुलिकौ तथा ।
तर्ज्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमाश्रितौ ।
काममुद्रेयमुदिता सर्व्वदेवप्रियङ्करी ॥ २१ ॥ * ॥
महादेवप्रियाणान्तु कथ्यन्ते लक्षणान्यथ ।
उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ॥
वामाङ्गुलीर्द्दक्षिणाभिरङ्गुलीभिश्च बन्धयेत् ।
लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी ॥ १ ॥
मिथः कनिष्ठिके बद्ध्वा तर्ज्जनीभ्यामनामिके ।
अनामिकोर्द्ध्वसंश्लिष्टदीर्घमध्यमयोरधः ॥
अङ्गुष्ठाग्रद्वयं न्यस्येत् योनिमुद्रेयमीरिता । २ ।
अङ्गुष्ठेन कनिष्ठान्तु बद्ध्वा शिष्टाङ्गुलीत्रयम् ॥
प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्त्तिता । ३
अङ्गुष्ठतर्ज्जन्यग्रेतु ग्रथयित्वाङ्गुलित्रयम् ॥
प्रसारयेदक्षमाला मुद्रेयं परिकीर्त्तिता । ४ ।
अधःस्थितो दक्षहस्तः प्रसृतो वरमुद्रिका ॥ ५ ॥
ऊर्द्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका । ६ ।
मिलितानामिकाङ्गुष्ठं मध्यमाग्रे नियोजयेत् ॥
श्लिष्टाङ्गुल्युच्छ्रिते कुर्य्यात् मृगमुद्रेयमीरिता । ७
पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ह्यूर्द्ध्वमुन्नताः ॥
पृष्ठ ३/७४६
खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता । ८ ।
पात्रवद्बामहस्तन्तु कृत्वाङ्गे वामके तथा ॥
निधायोच्छ्रितवत् कुर्य्यात् मुद्रा कापालिकी
मता । ९ ।
मुष्टिञ्च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् ॥
दक्षिणामूर्द्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् ।
एषा मुद्रा डमरुका सर्व्वविघ्नविनाशिनी ॥ १० ॥ * ॥
तथा गणेशमुद्राणामुच्यन्ते लक्षणान्यथ ।
उत्तानोर्द्ध्वमुखी मध्या सरला बद्धमुष्टिका ॥
दन्तमुद्रा समाख्याता सर्व्वागमविशारदैः । १ ।
वाममुष्टेस्तु तर्ज्जन्या दक्षमुष्टेस्तु तर्ज्जनीम् ॥
संयोज्याङ्गुष्ठकाग्राभ्यां तर्ज्जन्यग्रे स्वके क्षिपेत् ।
एषा पाशाह्वया मुद्रा विद्बद्भिः परिकीर्त्तिता ॥ २ ॥
ऋज्वीञ्च मध्यमां कृत्वा तर्ज्जनीमध्यपर्व्वणि ।
संयोज्याकुञ्चयेत् किञ्चिन्मुद्रैषाङ्कुशसंज्ञिका ॥ ३ ॥
तर्ज्जनीमध्यमानामाकनिष्ठाङ्गुष्ठमुष्टिका ।
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ॥ ४ ॥
परशुमुद्रा ५ निगदिता प्रसिद्धा लड्डुमुद्रिका । ६ ।
बीजपूराह्वया मुद्रा प्रसिद्धत्वादुपेक्षिता ॥ ७ ॥ * ॥
शाक्तेयीनाञ्च मुद्राणां कथ्यन्ते लक्षणान्यथ ।
पाशा १ ङ्कुश २ वरा ३ भीति ४ धनु ५
र्ब्बाणाः समीरिताः ॥ ६ ॥
कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ।
श्लिष्टाङ्गुली तु प्रसृते संश्लिष्टे खड्गमुद्रिका ॥ ७ ॥
वामहस्तं तथा तिर्य्यक् कृत्वा चैव प्रसार्य्य च ।
आकुञ्चिताङ्गुलीः कुर्य्यात् चर्म्ममुद्रेयमीरिता ॥ ८
मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरिदक्षिणम् ।
कुर्य्यान्मुसलमुद्रेयं सर्व्वविघ्नविनाशिनी ॥ ९ ॥
मुष्टिं कृत्वा कराभ्याञ्च वामस्योपरि दक्षिणाम् ।
कृत्वा शिरसि संयोज्य दुर्गा मुद्रेयमीरिता ॥ १० ॥
चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य्य च ।
कनिष्ठिके तथानीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ॥
लक्ष्मीमुद्रा परा ह्येषा सर्व्वसम्पत्प्रदायिनी ॥ १ ॥
वीणावादनवद्धस्तौ कृत्वा सञ्चालयेच्छिरः ।
वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी । १ ।
वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका । २ ।
दक्षिणाङ्गुष्ठतर्ज्जन्यावग्रलग्ने पराङ्गुलीः ॥
प्रसार्य्य संहतोत्ताना एषा व्याख्यानमुद्रिका । ३ ।
श्रीरामस्य सरस्वत्या अत्यन्तप्रेयसी मता ॥ * ॥
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ।
कनिष्ठाङ्गुष्ठयुगले मिलित्वान्तः प्रसारयेत् ॥
सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी । १ । * ।
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ॥
तर्ज्जनी मध्यमानामा संहता भुग्नवर्ज्जिता ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥
दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु ।
सावकाशामेकमुष्टिं कुर्य्यात् सा कुम्भमुद्रिका ॥
मुष्ट्योरूर्द्ध्वीकृताङ्गुष्ठौ तर्ज्जन्यग्रे तु विन्यसेत् ।
सर्व्वेरक्षाकरी ह्येषा दन्तमुद्रा प्रकीर्त्तिता ॥ * ॥
प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ च संमुखौ ।
कुर्य्यात् स्वे हृदये स्रेयं मुद्रा प्रार्थनसंज्ञिका ॥ * ॥
अञ्जल्यञ्जलिमुद्रा स्याद्बासुदेवाह्वया च सा ।
अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः ॥
तावेवाभिमुखौ कुर्य्यात् मुद्रैषा कालकर्णिका । * ।
दक्षिणा निविडा मुष्टिर्नासिकार्पिततर्ज्जनी ॥
मुद्रा विस्मयसंज्ञा स्यात् विस्मयावेशकारिणी ।
मुष्टिरूर्द्ध्वीकृताङ्गुष्ठा दक्षिणा नादमुद्रिका ॥
तज्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका । * ।
अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् ॥
क्षिप्त्वाङ्गुलीरङ्गुलीभिः संग्रथ्य परिवर्त्तयेत् ।
एषा संहारमुद्रा स्यात् विसर्ज्जनविधौ स्मृता ॥
दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् ।
अङ्गुष्ठौ चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी ॥
वामहस्तस्य तर्ज्जन्यां दक्षिणस्य कनिष्ठया ।
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठेन योजयेत् ॥
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ।
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥
वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे च ते कुर्य्यात् दक्षिणस्य करस्य च ॥
कूर्म्मपृष्ठसमं कुर्य्यात् दक्षपाणिञ्च सर्व्वतः ।
कूर्म्ममुद्रेयमाख्याता देवताध्यानकर्म्मणि ॥’
पृष्ठे क्रोडे ॥ * ॥
‘अन्तराङ्गुष्ठमुष्टिन्तु कृत्वा वामकरस्य च ।
मध्यमाग्रं दक्षिणस्य तथालम्ब्य प्रयत्नतः ॥
मध्यमेनाथ तर्जन्यामङ्गुष्ठाग्रेण योजयेत् ।
दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः ॥
दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते ॥ * ॥
तर्जनीमध्यमानामाः समं कुर्य्यादधोमुखम् ।
अनामायां क्षिपेद्वृद्धां ऋज्वीं कृत्वा कनि-
ष्ठिकाम् ॥
लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्त्तिता ।
तर्जन्यनामिकामध्याकनिष्ठाक्रमयोगतः ॥
करयोर्योजयत्येव कनिष्ठामूलयोगतः ।
अङ्गुष्ठाग्रे तु निःक्षिप्य महायोनिः प्रकीर्त्तिता ॥’
ताराया योन्यादिमुद्रा -- यथा । योनिमुद्रा च
वक्तव्या भूतिनी वक्तव्या बीजाख्यापि ॥
‘परिवर्त्त्य करौ स्पृष्टौ कनिष्ठाकृष्टमध्यमे ।
अनामायुगलञ्चाधस्तर्जनीयुगलं पृथक् ॥
अन्योन्यं निविडं बद्ध्वाङ्गुष्ठाग्रेऽनामिके ततः ।
दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये ! ॥
अस्यास्तु बन्धनान्मन्त्री बन्धनान्मुच्यते ध्रुवम् ॥
वक्त्वं विस्तारितं कृत्वाप्यधो जिह्वाञ्च चालयेत् ।
पार्श्वस्थं मुष्टियुगलं लेलिहानेति कीर्त्तिता ॥’
एषा ताराराधनेऽन्या लेलिहाना वक्तव्या ।
‘योनिर्मायाधरः सेन्दुर्बधूः कूर्च्चः क्रमाद्विदुः ।
बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमा चरेत् ॥
तर्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका ।
वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽथ मुद्रिकाः ॥
शृणु देवि ! प्रवक्ष्यामि मुद्राः सर्व्वार्थसिद्धिदाः ।
याभिर्विरचिताभिस्तु सान्निध्यं त्रैपूरं भवेत् ॥
परिवर्त्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ ।
अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ॥
कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ! ।
त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्म्मणि ॥
मध्यमामध्यगे कृत्वा कनिष्ठेऽङ्गुष्ठरोधिते ।
तर्ज्जन्यौ दण्डवत् कृत्वा मध्यमोपर्य्यनामिके ।
एषा च प्रथमा मुद्रा सर्व्वसंक्षोभकारिणी ॥
एतस्या एव मुद्राया मध्यमे सरले यदा ।
क्रियेते परमेशानि ! सर्व्वविद्राविणी तदा ॥
मध्यमातर्जनीभ्याञ्च कनिष्ठानामिकें समे ।
अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ! ॥
अङ्गुष्ठौ तु नियुञ्जीत कनिष्ठानामिकोपरि ।
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी परा ॥
पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ।
परिवर्त्तक्रमेणैव मध्यमे तदधोगते ॥
क्रमेण देवि ! तेनैव कनिष्ठानामिके तथा ।
संयोज्य निविडाः सर्व्वा अङ्गुष्ठावग्रदेशतः ॥
मुद्रेयं परमेशानि ! सर्व्ववश्यकरी मता ।
सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे ॥
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ।
दण्डाकारौ तदङ्गुष्ठौ मध्यमानखदेशगौ ॥
मुद्रैषोन्मादिनी नाम्ना कर्षिणी सर्ब्बयोषिताम् ।
अस्यास्त्वनामिकायुग्ममधः कृताङ्कुशाकृती ॥
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ।
इयं महाङ्कुशा मुद्रा सर्व्वकामार्थसाधिनी ॥ * ॥
सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् ।
बाहुं कृत्वा महादेवि ! हस्तौ संपरिवर्त्त्य च ।
कनिष्ठेऽनामिके देवि ! युक्ते तेन क्रमेण च ।
तर्जनीभ्यां समाक्रान्ते सर्व्वोर्द्ध्वमपि मध्यमे ॥
अङ्गुष्ठौ तु महेशानि ! सरलावपिं कारयेत् ।
इयं सा खेचरी नाम्ना पार्थिवस्थानयोजिता ॥
परिवर्त्त्य करौ स्पृष्टावर्द्धचन्द्राकृती प्रिये ! ।
तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत्ततः ॥
अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् ।
तथैव कुटिले योज्ये सर्व्वाधस्तादनामिके ।
बीजमुद्रेयमचिरात् सर्व्वसिद्धिविवर्द्धिनी । * ।
मध्यमे कुटिले कृत्वा तर्जन्युपरिसंस्थिते ॥
अनामिके मध्यगते तथैव हि कनिष्ठिके ।
सर्व्वा एकत्र संयोज्या अङ्गुष्ठपरिपीडिताः ॥
एषा तु परमा मुद्रा योनिमुद्रेयमीरिता । * ।
एता मुद्रा महेशानि ! त्रिपुराया मयोदिताः ।
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥
वामहस्तेन मुष्टिन्तु बद्धा कर्णप्रदेशके ।
तर्ज्जनीं सरलां कृत्वा भ्रामयेन्मनुवित्तमः ॥
सौभाग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता ।
अन्तरङ्गुष्ठमुष्ट्या तु निरुध्य तर्जनीमिमाम् ॥
रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता ।
बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु ॥
अङ्गुष्ठेन तदग्रे तु मुद्रेयं भूतिनी मता । * ।
वाममुष्टिं विधायाथ तर्जनीमध्यमे ततः ॥
प्रसार्य्य तर्जनीमुद्रा निर्द्दिष्टा वज्रपाणिना ॥’
इति तन्त्रसारे मुद्राप्रकरणं समाप्तम् ॥ * ॥ * ॥
अपि च ।
‘उक्ताः स्तवनमस्काराः शृणुतं पुरतो युवाम् ।
मुद्राणां परिसंख्यानं स्वरूपञ्च यथाक्रमम् ॥
धेनुश्च सम्पुटश्चैव प्राञ्जलिर्व्विल्वपद्मकौ ।
पृष्ठ ३/७४७
नाराचो मुण्डदण्डौ च योनिरर्द्धं तथैव च ॥
वन्दनी च महामुद्रा महायोनिस्तथैव च ।
भगश्च पुटकश्चैव निःशङ्कोऽथार्द्धचन्द्रकः ॥
अङ्गञ्च द्विमुखञ्चैव शङ्खमुद्राय मुष्टिकः ।
वज्रञ्चैव तथा बद्धं सयोनिर्व्विमलस्तथा ॥
घटः शिखरिणी तुङ्गः पुण्ड्रोऽथ ह्यर्द्धधेनुकः ॥
संमीलनी च कुण्डञ्च चक्रं शूलं तथैव च ॥
सिंहवक्त्रं गोमुखञ्च प्रोन्नामोन्नमनं तथा ।
विम्बं पाशुपतं शुद्धं त्यागोऽथ साधनी तथा ॥
प्रसाधनी चोग्रमुद्रा कुण्डली व्यूहमेव च ।
त्रिमुखञ्चासिवल्ली च योगो भेदोऽथ मोहनम् ॥
बाणो धनुश्च तूणीरं मुद्रा एतास्तु सत्तमाः ।
अष्टोत्तरशतं मुद्रा ब्रह्मणा याः प्रकीर्त्तिताः ॥
तासान्तु पञ्चपञ्चाशदेताः ग्राह्यास्तु पूजने ।
शेषास्तु यास्त्रिपञ्चाशन्मुद्रास्ताः समयेषु च ।
द्रव्यानयनसंकेतनटनादिषु ताः स्मृताः ॥
देवानां चिन्तने योगे ध्याने जप्ये विसर्ज्जने ।
आद्यास्तु पञ्चपञ्चाशन्मुद्रा भैरव ! कीर्त्तिताः ॥
मुद्रां विना तु यज्जप्यं प्राणायामः सुरार्च्चनम् ।
योगो ध्यानासने चापि निष्फलानि च भैरव ! ॥
प्रत्येकं लक्षणं तेषां शृणुतं तनयौ युवाम् ॥
दक्षिणामध्यमाग्रेण सव्यहस्तस्य तर्ज्जनीम् ।
योजयेत् सव्यमध्यान्तु तर्ज्जन्या दक्षिणेन वै ॥
तथा दक्षानामिकया वामहस्तकनिष्ठिकाम् ।
अनामिकान्तु वामस्य दक्षिणस्य कनिष्ठया ॥
योजयेद्भक्तिमान् सम्यक् दक्षिणावर्त्तनेन तु ।
धेनुमुद्रा समाख्याता सर्व्वदेवस्य तुष्टिदा ॥ १ ॥
संयोज्य द्वौ तलौ सर्व्वाण्यङ्गुष्ठाग्राणि हस्तयोः ।
संयोज्य पार्श्वतोऽङ्गुष्ठौ संपुटः प्रोच्यते सुरैः ॥
सर्व्वेषामथ देवानां संपुटः शस्यते सदा ।
ध्यानसंपुटयोगादौ सम्पुटः शस्यते सदा ॥ २ ॥
निकुब्जयुगलं पाण्योः संयोज्यार्द्धेन एव च ।
मध्यशून्यः पुटाकारः प्राञ्जलि परिकीर्त्तितः ॥ ३ ॥
अङ्गुष्ठमन्तरं कृत्वा पाण्योर्म्मुष्टिं विधाय च ।
संयोज्य विल्ववत्ते तु विल्वमुद्रा प्रकीर्त्तिता ॥ ४ ॥
मणिबन्धादाकरभं संयोज्य करयोर्द्बयोः ।
अङ्गुष्ठे चापि संयोज्य तथैव च कनिष्ठिके ॥
तिस्रस्तिस्रो द्वयोः पाण्योरङ्गुलीर्व्विरलास्ततः ।
पद्ममुद्रा समाख्याता चतुर्वर्गप्रदा नृणाम् ॥ ५ ॥
अङ्गुष्ठाग्रेण तर्ज्जन्याः संयोज्याथोर्द्ध्वरेखया ।
अन्याङ्गुलीस्तथानम्य नाराचः स्यात् प्रसा-
र्य्यते ॥
मम चेव शिवायाश्च प्रीतिदेयं प्रियङ्करी ।
नाराचमुद्रा सततं प्रीत्यै वेतालभैरव ! ॥ ६ ॥
अन्तराङ्गुष्ठमुष्टिञ्च कृत्वा वामकरस्य तु ।
मध्यमाभ्यां दक्षिणस्य तथानम्य प्रयत्नतः ॥
मध्याङ्केनाथ तर्ज्जन्या अङ्गुष्ठाग्रान्नियोज्य च ।
दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः ॥
दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमिष्यते ।
इयन्तु गणनाथस्य प्रीतिदा मुद्रिकोत्तमा ॥
सर्व्वेषामपि देवानां तुष्टिदा सर्व्वकर्म्मसु । ७ ।
अङ्गुष्ठमध्यमादींश्च सम्यगानम्य तर्ज्जनीम् ॥
प्रसार्य्य दण्डमुद्रेति दक्षिणस्य करस्य तु । ८ ।
सर्व्वाङ्गुलीस्तु संयोज्य करयोरुभयोरपि ॥
संवेष्ट्य रज्जुवद्द्बे तु पाण्योरपि कनिष्ठिके ।
वामस्य वाममूलेन तदग्रं विनियोजयेत् ॥
दक्षस्य मध्यमूलेन तथाग्रं वाममेव च ।
योजयेत् योजनात् पश्चादावर्त्त्य करशाखिकाः ॥
योन्याकारन्तु तन्मध्यं योनिमुद्रा प्रकीर्त्तिता ।
कामाख्यायाः पञ्चमूर्त्तेर्दुर्गाया अपि भैरव ! ॥
प्रीतिदा योनिमुद्रेयं मम कामस्य च प्रिया । ९ ।
संयुक्तास्त्वङ्गुलीः सर्व्वाः प्रसार्य्याङ्गुष्ठपर्व्वणा ॥
अग्रेण च कनिष्ठाया अग्रेणापि च योज-
येत् ।
करस्य दक्षिणस्येयमर्द्धयोनिः प्रकीर्त्तिता ॥ १० ॥
संपुटं प्राञ्जलिं वापि यदि शीर्षे नियोजयेत् ।
वन्दनीया समाख्याता मुद्रा विष्णुप्रमोदिनी ॥ ११ ॥
सैव चेत् श्रवणासक्ता महामुद्रा प्रकीर्त्तिता । १२ ।
दक्षिणाङ्गे तु सा सक्ता वैष्णवी परिकी-
र्त्तिता ॥ १३ ॥
महायोनिस्तु कथिता वैष्णवीतन्त्रगोचरे ।
द्बयोर्मूले त्वङ्गुष्ठाग्रमङ्गुलीश्च कनिष्ठयोः ॥
नियोज्य प्रसृतीकृत्य द्वे पाणी योजयेत् पुनः ।
भगमुद्रा च सा ख्याता लक्ष्मीवाणीशिवा-
प्रिया ॥ १४ ॥
सर्व्वाङ्गुलीनामग्रौघं दक्षिणस्य करस्य च ।
संयोज्यैकत्र पुरतो निर्द्देशः पुटकः स्मृतः ॥ १५ ॥
कनिष्ठानामिकाङ्गुष्ठाङ्गुलीनां योजयेद्बुधः ।
अग्राण्येकत्र मध्यान्तु तर्ज्जनीञ्च प्रसार्य्य वै ॥
कुब्जीकृत्य करद्बन्द्बं पृथगग्रे नियोजयेत् ।
निःशङ्को नाम मुद्रेयं नरसिंहवराहयोः ॥ १६ ॥
कनिष्ठानामिकामध्यामाकुञ्च्य दक्षिणस्य च ।
करस्य तर्ज्जन्यङ्गुष्ठे प्रसार्य्य क्रियते तु या ॥
सा मुद्रा ह्यर्द्धचन्द्राख्या ग्रहाणां प्रीतिदा-
यिनी । १७ ।
ऊर्द्ध्वीकृत्य तथाङ्गुष्ठं दक्षिणस्य करस्य च ।
कृत्वा मध्यं तदङ्गुष्ठं वाममुष्ठिं तथोर्द्ध्वतः ।
ऊर्द्ध्वाङ्गुष्ठं तथा कुर्य्यादङ्गमुद्रा प्रकीर्त्तिता ॥ १८ ॥
एतस्या एव मुद्रायाः कनिष्ठादिविमोचतः ।
अष्टौ मुद्राः समाख्याता नाम तासां पृथक्
पृथक् ॥
द्विमुखञ्चैव १९ मुष्टिश्च २० वज्र २१ माबद्ध २२
मेव च ।
विमलश्च २३ घटश्चैव २४ तुङ्गः २५ पुण्ड्र २६
स्तथैव च ॥
नवानां विष्णुमूर्त्तीनां सार्द्धमङ्गेन मुद्रिकाः ।
क्रमान्नव समाख्याता नायिकानां तथैव च ॥
संयोज्य करयोः पृष्ठे तथावर्त्त्य तु वै समम् ।
प्रसार्य्य तर्ज्जनीयुग्मं संयुक्तं सर्व्वतः पुनः ॥
अङ्गुष्ठौ च तथा सक्तौ शङ्खमुद्रा प्रकीर्त्तिता । २७ ।
उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः ॥
मूले निःक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत् ।
सयोनिरिति सा ख्याता मुद्रा देवौघतुष्टिदा ॥ २८ ॥
मुष्टिर्द्दक्षिणहस्तस्य यदोर्द्ध्वाङ्गुष्ठिका भवेत् ।
सा स्यात् शिखरिणी मुद्रा ब्राह्मीसूर्य्यप्रिया
च सा ॥ २९ ॥
अनामिके कनिष्ठे तु संयोज्य ऋजुना पुनः ।
मध्यमातर्ज्जनीनान्तु धेनुमुद्रेव बन्धनम् ॥
सार्द्धधेनुरिति ख्याता चन्द्रप्रीतिविवर्द्धिनी । ३० ।
करयोरङ्गुलीः सर्व्वाः सर्व्वाग्राण्येकतः स्थिता ॥
नियोज्यार्द्धतले चैव तदधोऽपि वियुज्य च ।
अग्रैरग्रं योजयेत्तु मुद्रा सम्मीलनी तु सा ॥ ३१ ॥
भौमभूमिमुनीशानामियं प्रीतिविवर्द्धिनी ।
सर्व्वाङ्गुलीस्तु संसक्ता दक्षिणस्य करस्य च ॥
कियद्भागं तथान्यस्य तलं कुर्य्यात्तु कुण्डवत् ।
समाख्याता कुण्डमुद्रा बुधवाणीशिवाप्रिया ॥ ३२ ॥
सर्ब्बाङ्गुलीनां मध्यैस्तु वामहस्तस्य चाङ्गुलीः ।
प्रसार्य्याङ्गुष्ठयुगलं संयोज्याग्रेण भैरव ! ॥
तदङ्गुष्ठद्वयं कार्य्यं सम्मुखं वितरेत्ततः ।
चक्रमुद्रा समाख्याता गुरुविष्णुशिवप्रिया ॥ ३३ ॥
अङ्गुष्ठं मध्यमाञ्चैव नामयित्वा करस्य च ।
दक्षिणस्यापरास्तिस्रो योजयेदग्रतः पुनः ॥
शूलमुद्रा समाख्याता मम शुक्रगुहप्रिया । ३४ ।
निकुब्जीकृत्य तु करौ वामाङ्गुलिगणस्य तु ॥
अग्राणि योजयेन्मध्ये तलस्यासव्यहस्ततः ।
अधः कृत्वा वामहस्तं मुद्रा सिंहमुखी
स्मृता ॥ ३५ ॥
इयं प्रीत्यै तु दुर्गायाः सूर्य्यपुत्त्रस्य चक्रिणः ।
भगमुद्रा कर्णमूले गोमुखाख्या प्रकीर्त्तिता ॥
मम विष्णोस्तथा राहोः सर्व्वदा प्रीति-
दायिनी । ३६ ।
मुष्टिद्बयमथोत्तानं कृत्वा संयोज्य पार्श्वतः ॥
दक्षिणस्यं कनिष्ठादीन् प्रसार्य्य क्रमतः पुनः ।
तथा वामकनिष्ठाभ्यामेकैकेन प्रसारयेत् ॥
अष्टौ मुद्राः समाख्याता नामतः क्रमतः शृणु ।
प्रोन्नामो ३७ न्नमन ३८ ञ्चैव विम्बं ३९ पाशु-
पतं ४० तथा ॥
शुद्धं ४१ त्यागः ४२ साधनी ४३ च तथा चैव
प्रसाधनी ४४ ।
आकुञ्च्य करशाखास्तु दक्षिणाः सा तु मुद्रिका ॥
उग्रमुद्रा समाख्याता स्वहस्तस्य विपर्य्ययात् । ४५ ।
इन्द्रादिलोकपालानां दश मुद्राः प्रकीर्त्तिताः ॥
सर्व्वेषामपि देवानां परमप्रीतिवर्द्धनाः ।
अङ्गुष्ठाग्रन्तु तर्ज्जन्या अग्रभागेण योजयेत् ॥
आकुञ्च्य मध्यमाभ्यान्तु दक्षहस्तस्य चाङ्गुलीः ।
दर्शयेत् कुण्डलाकारं कुण्डलीशक्तितुष्टिदम् ॥
सर्व्वेषामपि देवानां तथा तुष्टिकरं महत् । ४६ ।
अङ्गुष्ठतर्ज्जनीमध्या अग्रभागे नियोज्य च ॥
मध्यमाञ्च कनिष्ठाञ्च आकुञ्च्य दक्षिणे करे ।
त्रिमुखाख्या समाख्याता विश्वेदेवप्रिया सदा ॥
केतोः प्रियेयं सततं मातॄणामपि तुष्टिदा । ४७ ।
तर्ज्जन्यङ्गुष्ठयोरग्रभागौ संयोज्य चाङ्गुलीः ॥
अन्या आकुञ्चयेत् तिस्रः सासिवल्ली प्रकीर्त्तिता ।
पितॄणामथ साध्यानां रुद्राणां विश्वकर्म्मणः ॥
सर्व्वदा प्रीतिजननी असिवल्ली प्रकीर्त्तिता । ४८ ।
पादौ तलाभ्यां संयोज्य तदङ्गुष्ठद्बयं ततः ॥
पृष्ठ ३/७४८
ऊर्द्ध्वं संयोजयेन्नाभौ अस्योपरि तथाञ्जलिः ।
योगमुद्रा समाख्याता योगिनां तत्त्वदायिनी ॥
सर्व्वेषामपि देवानां पूजने चिन्तने तथा ।
योगमुद्रा समाख्याता तुष्टिप्रीतिकरी सदा ॥ ४९ ॥
प्राञ्जलिर्नाम मुद्रा तु उर्द्ध्वाधोभावयोजिताम् ।
विभिद्य दर्शयेद्धस्तौ उर्द्ध्वाधः प्रसृतीकृतौ ॥
भेदमुद्रा समाख्याता मम विष्णोर्विधेः प्रिया । ५० ।
अङ्गष्ठे द्वे तु निःक्षिप्य करयोरुभयोस्तले ॥
अग्रेण योजयेत् पश्चात् कनिष्ठायुगलं ततः ।
उभयोर्हस्तयोश्चान्यास्तर्ज्जन्याद्याश्च योजयेत् ॥
अग्राग्रैस्तु पृथक्कृत्य दर्शयेत्तत् कनिष्ठिकाम् ।
मुद्रा सम्मोहनं नाम कामदुर्गारमाप्रिया ॥
सर्व्वेषामपि देवानां मोहनं प्रीतिदं स्मृतम् । ५१ ।
आनम्य सव्यहस्तस्य मध्यमानामिके तथा ॥
तयोः पृष्ठे तु संयोज्य अङ्गुष्ठाग्रं ततः परम् ।
कनिष्ठां तर्ज्जनीञ्चैव अग्रेण योजयेत्ततः ॥
बाणमुद्रा समाख्याता सर्व्वदेवस्य तुष्टिदा । ५२ ।
सर्व्वाङ्गुलीस्तु सङ्कोच्य अङ्गुष्ठमथ तर्जनीम् ॥
प्रसार्य्य करयोः पश्चादङ्गुष्ठाग्रन्तु योजयेत् ।
अङ्गुष्ठाग्रेण तर्ज्जन्या अग्रेणापि च तर्ज्जनीम् ॥
यथाशक्ति प्रसार्य्यापि धनुर्मुद्रा प्रकीर्त्तिता । ५३ ।
सर्व्वाङ्गुलीनामग्राणि ब्राह्म्यतीर्थे नियोजयेत् ॥
अनामिकायाः पृष्ठे तु अङ्गुष्ठाग्रं नियोजयेत् ।
शून्यं तूणीरवत् कृत्वा तेषामन्तस्तु भैरव ! ।
तूणीरमुद्रा चाख्याता सर्व्वेषां प्रीतिवर्द्धिनी ॥ ५४ ॥
मुद्रासु संस्थिता पूजा मुद्रासु परिचिन्तनम् ।
मुद्रासु संस्थिता योगा मुद्रा मोदकरास्ततः ॥
यदा यदा पूजनेषु चिन्तने ध्यानकर्म्मणि ।
यज्ञादौ स्तवने वापि हस्तकृत्यं न विद्यते ।
तदा मुद्रायुतं कुर्य्यादिष्टापूर्त्ते करद्वयम् ॥
यज्ञकृत्येषु चेच्छक्तो हस्तो मुद्रासु च क्षमः ।
तदा मुद्रां विधायैव तत्तु कृत्यं समाचरेत् ॥
मुद्रावियुक्तहस्तन्तु क्रियते कर्म्मदैविकम् ।
कृत्वा तन्निष्फलं यस्मात्तस्मान्मुद्रान्वितो भवेत् ॥
विसर्जने तु देवानां यस्य या परिकीर्त्तिता ।
मुद्रां तां पूजनादौ तु तस्य नैव प्रयोजयेत् ॥
विसृष्ट्युक्तामृते मुद्रां मुद्रायुक्तः समाचरेत् ।
पूजनादि समस्तञ्च कर्म्म वृद्ध्यै विचक्षणः ॥
ततो मुद्रा परं धाम मुद्रा पुण्यप्रदायिनी ।
देवानां मोददा मुद्रा तस्मात्तां यत्नतश्चरेत् ॥
अर्द्धयोनिर्म्महायोनिर्योनिर्ब्राह्मी च वैष्णवी ।
मुद्रा विसर्ज्जने प्रोक्ता शिवात्रिपुरयोः सदा ॥
दुर्गायाः सर्व्वरूपेषु मुद्रा एताः प्रकीर्त्तिताः ।
योनिञ्च सम्पुटञ्चैव महायोनिन्तथैव च ॥
वर्ज्जयित्वा व्यस्तभावादुक्तादन्यत्र योजयेत् ।
भवेयुस्तु त्रिपञ्चाशदन्या मुद्राः समन्ततः ॥
ता व्यस्तभावाद्वामाः स्युर्मुद्रा मोदकराः पराः ।
एवं वां कथिता मुद्राः पूजने पूज्यतुष्टिदाः ॥”
इति कालिकापुराणे ६५ अध्यायः ॥

मुद्राङ्कितः, त्रि, (मुद्रया अङ्कितः ।) मुद्रया

चिह्नितः । छापाकरा मोहरकरा इत्यादि
भाषा । यथा, --
“धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरी-
भुजा-
श्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसकृत् ।
दैत्यारिः कमलाकपोलमकरीमुद्राङ्कितोरःस्थलः
शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः
कथा ॥”
इति प्रबोधचन्द्रोदयनाटके १ अङ्कः ॥

मुद्रालिपिः, स्त्री, (मुद्रया लिपिः ।) पञ्चधा-

लिप्यन्तर्गतलिपिविशेषः । छापार अक्षर इति
भाषा । यथा, --
“मुद्रालिपिःशिल्पलिपिर्लिपिर्लेखनिसम्भवा ।
गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः ।
एताभिर्लिपिभिर्व्याप्ता धरित्री शुभदा हर ! ॥”
इति वाराहीतन्त्रम् ॥
अस्याः पाठ्यत्वं धार्य्यत्वञ्च यथा, --
“लेखन्या लिखितं विप्रैर्मुद्राभिरङ्कितञ्च यत् ।
शिल्पादिनिर्म्मतं यच्च पाठ्यं धार्य्यञ्च सर्व्वदा ॥”
इति खड्गमालातन्त्रम् ॥

मुद्रिका, स्त्री, (मुद्रा स्वार्थे कन् + स्त्रियां टाप् ।

पूर्व्वाकारस्य ह्रस्वत्वम् । अत इत्वं च ।) स्वर्ण-
रूप्यादिनिर्म्मितमुद्रा । मोहर टाका इत्यादि
भाषा । यथा, --
“सौवर्णीं राजतीं ताम्रीमायसीं वा सुशो-
भिताम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥”
इति मिताक्षरायां व्यवहाराध्यायः ॥

मुद्रितं, त्रि, (मुद्रा मुद्रणं अस्य जातेति । मुद्रा

इतच् ।) अप्रफुल्लम् । मोदा इति भाषा ।
तत्पर्य्यायः । सङ्कुचितम् २ निद्राणं ३ मीलि-
तम् ४ । इति हेमचन्द्रः ॥ मुद्राङ्कितञ्च ॥ (परि-
त्यक्तम् । यथा, नैषधचरिते । ५ । १२ ।
“मुद्रितान्यजनसंकथनः सन्
नारदं बलिरिपुः समवादीत् ।”
“मुद्रितं परित्यक्तम् ।” इति तट्टीका ॥)

मुधा, व्य, (मुह्यतीति । मुह् + बाहुलकात् का ।

पृषोदरादित्वात् हस्य धः ।) व्यर्थकम् । इत्य-
मरः । ३ । ४ । ४ । (यथा, महाभारते । १४ । ३७ । ४ ।
“मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः ।
एवं यो युक्तधर्म्मः स्यात् सोऽमुत्रात्यन्तमश्नुते ॥”)

मुनिः, पुं, मनुते जानाति यः । (इति मन् +

“मनेरुश्च ।” उणा० ४ । १२२ । इति इन् +
अत उच्च ।) मौनव्रती । इत्यन्ये । इति भरतः ॥
तत्पर्य्यायः । वाचंयमः २ । इत्यमरः । २ । ७ । ४२ ।
मौनी ३ व्रती ४ ऋषिः ५ शापास्त्रः ६ सत्यवाक्
७ । इति जटाधरः ॥ (यथा, नैषधे । १ । १३३ ।
“फलेन मूलेन च वारिभूरुहां
मुनेरिवेत्थं मम यस्य वृत्तयः ॥”)
लस्य लक्षणं यथा, --
“दुःखेष्वनुद्बिग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥”
इति श्रीभगवद्गीता ॥ * ॥
तस्य धर्म्मो यथा, --
ब्रह्मोवाच ।
“मुनिभिश्चरिता धर्म्मा उक्ता व्यास ! मया तव ।
यैर्विष्णुस्तुष्यते देवः सुखादिपरिभाविकः ॥
तर्पणेन च होमेन सन्ध्यया बन्दनेन च ।
प्राप्यते भगवान् विष्णुर्व्रर्म्मकामार्थमीक्षदः ॥
धर्म्मो विष्णुर्ब्रतो विष्णुः पूजा विष्णुस्तु तर्पणम् ।
होमः सन्ध्या तथा ध्यानं धारणा सकलं
हरिः ॥”
इति गारुडे २२६ अध्यायः ॥ * ॥
तस्याश्रमे वर्णनीयानि यथा । अतिथिपूजा १
हरिणविश्वासः २ हिंस्रजन्तुशान्तता ३ यज्ञ-
धूमः ४ मुनिसुतः ५ द्रुमसेकः ६ वल्कलः ७
वृक्षश्च ८ । इति कविकल्पलता ॥ * ॥ मुनिविशे-
षाणां ब्रह्मणोऽङ्गविशेषादुत्पत्तिर्यथा, --
“पुलस्त्यो दक्षकर्णाच्च पुलही वामकर्णतः ।
दक्षनेत्रात्तथात्रिश्च वामनेत्रात् क्रतुः स्वयम् ॥
अरणिर्नासिकारन्ध्रात् अङ्गिराश्च मुखाद्रुचिः ।
भृगुश्च वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ॥
छायायाः कर्द्दमो जातो नाभेः पञ्चशिखस्तथा ।
वक्षसश्चैव वोढुश्च कण्ठदेशाच्च नारदः ॥
मरीचिः स्कन्धदेशाच्च आपस्तम्बस्तथा गलात् ।
वशिष्ठो रसनादेशात् प्रचेता अधरोष्ठतः ॥
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् ।
सृष्टिं विधातुञ्च विधिश्चकाराज्ञां सुतानपि ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे ८ अध्यायः ॥ * ॥
गयासुरशरीरे यज्ञार्थं ब्रह्मणो मानसात् सृष्टा
मुनयो यथा, --
“ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ।
अग्निशर्म्माणममृतं शौनकं जाजलिं मृदुम् ॥
कुमुखिं वेदकौण्डिन्यं हारीतं कश्यपं कृपम् ।
गर्गं कौशिकवाशिष्ठौ मुनिं भार्गवमव्ययम् ॥
वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् ।
श्वेतं सुतालं दमनं सुहोत्रं कक्षमेव च ॥
नौगाक्षिञ्च महाबाहुं जेगींषव्यं तथैव च ।
दधिपञ्चमुखं विप्र ! ऋषभं कर्कमेव च ॥
कामायनं गोभिलञ्च मुनिमुग्रं महाव्रतम् ।
जटामालिनमव्यग्रं चाटुहासञ्च दारुणम् ॥
आत्रेयञ्चाप्यङ्गिरसमौपमन्युं महाव्रतम् ॥
गोकर्णञ्च गुहावासं शिखण्डिनमुमाव्रतम् ॥
सुपालकं गौतमञ्च तथा वेदशिरो व्रतम् ।
एतानन्यांश्च विप्रेन्द्रान् ब्रह्मा लोकपितामहः ।
परिकल्प्याकरोद्यागं गयासुरशरीरके ॥”
इति वायुपुराणे गयामाहात्म्यम् ॥ * ॥
मुनिविशेषनाम्नां व्युत्पत्तिर्यथा, --
“कतिकल्पान्तरेऽतीते स्रष्टुः सृष्टिविधौ पुनः ।
मरीचिमिश्रैर्म्मुनिभिः सार्द्धं कण्ठाद्बभूव सः ॥
विधेर्नरदनाम्नश्च कण्ठदेशाद्बभूव सः ।
नारदश्चेति विख्यातो मुनीन्द्रस्तेन हेतुना ॥
यः पुत्त्रश्चेतसो धातुर्ब्बभूव मुनिपुङ्गवः ।
तेन प्रचेता इति तन्नाम चक्रे पितामहः ॥
बभूव धातुर्यः पुत्त्रः सहसा दक्षपार्श्वतः ।
सर्व्वकर्म्मणि दक्षश्च तेन दक्षः प्रकीर्त्तितः ॥
पृष्ठ ३/७४९
वेदेषु कर्द्दमः शब्दश्छायायां वर्त्तते स्फुटः ।
बभूव कर्द्दमाद्बालः कर्द्दमस्तेन कीर्त्तितः ॥
तेजोभेदे मरीचिश्च वेदेषु वर्त्तते स्फुटम् ।
जातः सद्योऽतितेजस्वी मरीचिस्तेन कीर्त्तितः ॥
क्रतुसंघश्च बालेन कृतो जन्मान्तरेऽधुना ।
ब्रह्मपुत्त्रोऽपि तन्नाम्ना क्रतुरित्यभिधीयते ॥
प्रधानाङ्गं मुखं धातुस्ततो जातश्च बालकः ।
इरस्तेजस्विवचनोऽङ्गिरास्तेन प्रकीर्त्तितः ॥
अतितेजस्विनि भृगुर्व्वर्त्तते नाम्नि शौनक ! ।
जातः सद्योऽतितेजस्वी भृगुस्तेन प्रकीर्त्तितः ॥
वशीभूतश्च शिष्टश्च जातः सद्यो हि बालकः ।
अतिप्रियश्च धातुश्च वशिष्ठस्तेन कीर्त्तितः ॥
बालोऽप्यरुणवर्णंश्च जातः सद्यो हि तेजसा ।
प्रज्वलन् पूर्ब्बतपसा चारुणस्तेन कीर्त्तितः ॥
हंस आत्मा वशो यस्य योगेन योगिनो ध्रुवम् ।
बालः परमयोगीन्द्रस्तेन हंसः प्रकीर्त्तितः ॥
सन्ततं यस्य यत्नञ्च तपःसु बालकस्य च ।
प्रकीर्त्तितो यतिस्तेन संयतः सर्व्वकर्म्मसु ॥
पुलस्तपःसु वेदेषु वर्त्तते ह स्फुटेऽपि च ।
स्फुटं तपःस्वरूपश्च पुलहस्तेन कीर्त्तितः ॥
पुलस्तपःसमूहश्च यस्यास्ति पूर्ब्बजन्मनाम् ।
तपःसंघः समूहश्च पुलस्त्यस्तेन बालकः ॥
त्रिगुणायां प्रकृत्यां त्रिर्विष्णावश्च प्रवर्त्तते ।
तयोर्भक्तिः समा यस्य तेन बालोऽत्रिरुच्यते ॥
जटाश्चाग्निशिखारूपाः पञ्च सन्ति च मस्तके ।
तपस्तेजोभवा यस्य स च पञ्चशिखः स्मृतः ॥
अपान्तरतमे देशे तपस्तेपेऽन्यजन्मनि ।
अपान्तरतमा नाम शिशोस्तेन प्रकीर्त्तितम् ॥
स्वयन्तपः समाप्नोति वाहयेत् प्रापयेत् परान् ।
ऊढुः समर्थस्तपसि वोढुस्तेन प्रकीर्त्तितः ॥
तपसस्तेजसा बालो दीप्तिमान् सूनृतो मुने ! ।
तपःसु रोचते चित्तं रुचिस्तेन प्रकीर्त्तितः ॥”
इति ब्रह्मवैवत्ते ब्रह्मखण्डे २२ अध्यायः ॥
वङ्गसेनतरुः । जिनः । इति मेदिनी । ने, १५ ॥
प्रियालवृक्षः । पलाशवृक्षः । इति हेमचन्द्रः ।
१ । ७६ ॥ दमनकवृक्षः । इति राजनिर्घण्टः ॥
(स्त्री, दक्षकन्या । सा च कश्यपपत्नीनामन्य-
तमा । यथा, महाभारते । १ । ६५ । ११-१२ ।
“मरीचेः कश्यपः पुत्त्रः कश्यपात्तु इमाः प्रजाः ।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥
अदितिर्दितिर्दनुः काला दनायुः सिंहिका
तथा ।
क्रोघा प्राधा च विश्वा च विनता कपिला
मुनिः ॥”
अष्टवस्वन्तर्गतस्य आपनामकस्य वसोः पुत्त्रे,
पुं । यथा, हरिवंशे भविष्यपर्व्वणि । ३ । ४० ।
“आपस्य पुत्त्रो वैतण्ड्यः श्रमः श्रान्तो मुनि-
स्तथा ।”
क्रौञ्चद्वीपस्य देशविशेषः । यथा, मत्स्यपुराणे ।
१२१ । ८३-८५ ।
“क्रौञ्चस्य कुशलो देशो वामनस्य मनोऽनुगः ।
मनोऽनुगात् परे चोष्णस्तृतीयोऽपि स उच्यते ॥
उष्णात् परे पावनकः पावनादन्धकारकः ।
अन्धकारकदेशात्तु मुनिदेशस्तथापरः ॥”
(द्युतिमतः पुत्त्राणामन्यतमः । यथा, मार्कण्डेये ।
५३ । २२ ।
“तथा द्युतिमतः सप्तपुत्त्रास्तांश्च निबोध मे ।
मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्त्तितः ॥”
कुरुपुत्त्रभेदः । यथा, महाभारते । १ । ९४ । ४९ ॥
“अविक्षितमभिष्वस्तं तथा चैत्ररथं मुनिम् ॥”)

मुनिखर्ज्जूरिका, स्त्री, (मुनिप्रिया खर्ज्जूरिका इति

मध्यपदलोपी समासः ।) खर्ज्जूरीप्रभेदः । यथा,
“मुनिखर्ज्जूरिका त्वन्या राजेष्टा ऋतुसंमिता ॥”
इति राजनिर्घण्टः ॥

मुनिच्छदः, पुं, (मुनयः अत्र्यादयः सप्त तत्-

संख्यकाः छदाः पत्राण्यस्य ।) सप्तच्छदवृक्षः ।
इति राजनिर्घण्टः ॥ (स्त्री । मेथिका । यथा,
भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ।
‘मेथिका मेथिनी मेथी दीपनी बहुपुत्त्रिका ।’
इत्यादि ।
‘कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ।’
इत्यन्तम् ॥)

मुनितरुः, पुं, (मुनेरगस्त्यस्य प्रियः तरुः । इति

मध्यपदलोपी समासः ।) वकवृक्षः । इति
रत्नमाला ॥

मुनिद्रुमः, पुं, (मुनेरगस्त्यस्य प्रियः द्रुमः । इति

मध्यपदलोपी समासः ।) श्योनाकवृक्षः । इति
रत्नमाला ॥ श्योनाकप्रभेदः । वकवृक्षः । इति
राजनिर्घण्टः ॥ (यथा, नैषधचरिते । १ । ९६ ।
“मुनिद्रुमः कोरकितः शितिद्युति-
र्वनेऽमुनाऽमन्यत सिंहिकामुतः ॥”
“मुनिद्रुमः वकवृक्षः ।” इति तट्टीका ॥ अस्य
पर्य्यायो यथा, --
“अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“श्योनाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः ।
दीर्घवृन्तश्च कट्वङ्गो भल्लुकष्टुण्टकोऽरुणुः ॥”
इति वैद्यकरत्नमालायाञ्च ॥)

मुनिनिर्म्मितः, पुं, (मुनिनां निर्म्मितः ।) डिण्डिशः ।

यथा, भावप्रकाशे ।
“डिण्डिशो रोमशफलो मुनिनिर्म्मित इत्यपि ।
डिण्डिशो रुचिकृत् भेदी पित्तश्लेष्मापहः स्मृतः ।
सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः ॥”

मुनिपित्तलं, क्ली, (मुनीनां पित्तलमिव ।) ताम्रम् ।

इति त्रिकाण्डशेषः ॥

मुनिपुङ्गवः, पुं, (मुनिः पुङ्गव इव ।) मुनिश्रेष्ठः ।

इत्यमरटीका ॥ (यथा, रामायणे । १ । १ । १ ।
“तपःस्वाध्यायनिरतं तपस्वी वाग्विदांवरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥”)

मुनिपुत्त्रः, पुं, (मुनीनां पुत्त्र इव । मुनिप्रियत्वादस्य

तथात्वम् ।) दमनकवृक्षः । इति भावप्रकाशः ॥
ऋषिसुतश्च ॥

मुनिपुत्त्रकः, पुं, खञ्जनः । इति त्रिकाण्डशेषः ॥

(यथा, तिथितत्त्वे कुण्डविधिप्रकरणे ।
“त्वं योगयुक्तो मुनिपुत्त्रकस्त्वं
अदृश्यतामेषि शिखोद्गमेन ।
संदृश्यसे प्रावृषि निर्गतायाम्
त्वं खञ्जनाश्चर्य्यमयो नमस्ते ॥”)

मुनिपुष्पं, क्ली, (मुनिद्रुम इति । “ठाजा दावूर्द्ध्वं

द्वितीयादचः ।” ५ । ३ । ८३ । इत्यत्र “विनापि
प्रत्ययेन पूर्ब्बोत्तरपदयोर्विभाषालोपो वक्तव्यः ।”
इति काशिकोक्तेः द्रुम इत्यस्य लोपे मुनिः तस्य
पुष्पम् ।) वकपुष्पम् ॥ (यथा, तिथितत्त्वे ।
“विहाय सर्व्वपुष्पाणि मुनिपुष्पेण केशवम् ।
कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥”
वकवृक्षे, पुं, । तत्पर्य्यायो यथा, --
“अथागस्त्यो वङ्गसेनो मुनिपुष्पो मुनिद्रुमः ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मुनिपुष्पकं, क्ली, (मुनिपुष्प + संज्ञायां कन् ।) वक-

पुष्पम् । यथा, योगिनीतन्त्रे ।
“विल्वपत्रञ्च माघ्यञ्च तमालामलकीदलम् ।
कह्वारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् ।
एतत् पर्य्युषितं न स्यात् यच्चान्यत् कलिका-
त्मकम् ॥”
इत्येकादशीतत्त्वम् ॥

मुनिपूगः, पुं, (मुनिप्रियः पूगः ।) गुवाकविशेषः ।

तत्पर्य्यायः । रामपूगः २ कामीनः ३ सुरे-
वटः ४ । इति त्रिकाण्डशेषः ॥

मुनिभेषजं, क्ली, (मुनीनां भेषजम् ।) आगस्त्यः ।

हरीतकी । लङ्घनम् । इति मेदिनी । जे, ३६ ॥

मुनिसुव्रतः, पुं, (मुनिषु सुव्रतः ।) वृत्तार्हन् । स च

बुद्धविशेषः । इति हेमचन्द्रः । १ । ५१ ॥

मुनिस्थानं, क्ली, (मुनीनां स्थानम् ।) आश्रमः ।

इति हेमचन्द्रः । ४ । ६७ ॥

मुनीन्द्रः, पुं, (मुनीनां मननशीलानां योगिनामिन्द्रः

श्रेष्ठः ।) बुद्धः । इत्यमरः । १ । १ । १४ ॥ ऋषि-
श्रेष्ठश्च ॥ (यथा, कथासरित्सागरे । ७२ । ३०९ ।
“पतन्तमेव तस्माच्च पाणिभ्यां स तमग्रहीत् ।
मुनीन्द्रः प्रकटीभूय समाश्वास्य जगाद च ॥”
दानवभेदः । यथा, हरिवंशे । २५५ । ५ ।
“वृषपर्व्वा विरूपाक्षो मुनीन्द्रश्चन्द्रलोचनः ।”)

मुन्च उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) पञ्चमस्वरी । ओष्ठ्यवर्ग-
शेषादिः । नोपधः । उ मुञ्चित्वा मुक्त्वा । इति
दुर्गादासः ॥

मुमुक्षुः, पुं, (मोक्तुमिच्छतीति । मुच् + सन् + उः ।)

मुक्तिमिच्छः ॥ (यथा, श्रीमद्भगवद्गीतायाम् ।
४ । १५ ।
“एवं ज्ञात्वा कृतं कर्म्म पूर्ब्बैरपि मुमुक्षुभिः ।
कुरु कर्म्मैव तस्मात्त्वं पूर्ब्बैः पूर्ब्बतरं कृतम् ॥”)
तत्पर्य्यायः । श्रमणः २ यतिः ३ वाचंयमः ४
व्रती ५ साधुः ६ अनगारः ७ ऋषि, ८ मुनिः ९
निर्ग्रन्थः १० भिक्षुः ११ । इति हेमचन्द्रः
१ । ७५ ॥ अथ मुमुक्षुकृत्यम् । मनुः ।
“इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते ।
निष्कामं ज्ञानपूर्ब्बन्तु निवृत्तमुपदिश्यते ॥
पृष्ठ ३/७५०
प्रवृत्तं कर्म्म संसेव्य देवानामेति सार्ष्टिताम् ।
निवृत्तं मेवमानस्तु भूतान्यत्येति पञ्च वै ॥”
कामनापूर्ब्बकं कर्म्म शरीरप्रवृत्तिहेतुत्वात्
प्रवृत्त तदेव कर्म्म कामनारहितं पुनर्ब्रह्म-
ज्ञानाभ्यासपूर्ब्बकं संसारनिवृत्तिहेतुत्वात् निवृत्त-
मुच्यते । सार्ष्टितां समानगतितां ऋषेर्गत्यर्थत्वात्
पञ्चभूतान्यत्येति अतिक्रामति मोक्षं प्राप्नोती-
त्यर्थः । विष्णुपुराणे च । ६ । ७ । ३८ । विशिष्टफलदा
काम्या निष्कामाणाञ्च मुक्तिदा । भगवद्गीतापि ।
“युक्तः कर्म्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठि-
कीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥”
युक्तः ईश्वराय कर्म्माणि न फलाय इत्येवं
समाहितः । फलं त्यक्त्वा कर्म्माणि कुर्व्वन्निति
शेषः । शान्तिं मोक्षाख्यां नैष्ठिकीं निष्ठायां
भवाम् । सत्त्वशुद्धिः ज्ञानप्राप्तिः सर्व्वकर्म्म-
संन्यासः ज्ञाननिष्ठाक्रमेणेति वाक्यशेषः ।
अयुक्तस्तद्वहिर्म्मुखः । कामकारेण कामप्रेरित-
तया कामतः प्रवृत्तेरिति यावत् । फले सक्तः
सन् फलायेदं कर्म्म करोमीत्येवं फले सक्तो
नितरां बन्धं प्राप्नोति । तथा च अर्ज्जुनं प्रति
भगवद्बाक्यम् ।
“मयि सर्व्वाणि कर्म्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥”
संन्यस्य निःक्षिप्य समर्प्य इति यावत् । अध्यात्म-
चेतसा विवेकबुद्ध्या ईश्वराय भृत्यवत् करोमि
इत्यनया बुद्ध्या निराशीस्त्यक्तकामसङ्कल्पः ।
अतएव निर्म्ममः ममतारहितः । विगतज्वरः
विगतसन्तापः । व्यक्तमाह स एव ।
“यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥”
विष्णुपुराणम् ।
“कर्म्माण्यसङ्कल्पिततत्फलानि
संन्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्म्ममहीमनन्ते
तस्मिन् लयं ये त्वमलाः प्रयान्ति ॥”
कर्म्ममहीं भारतवर्षरूपाम् । एकादशस्कन्धे ।
“वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितुमीश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥”
वेदोक्तमेव कुर्व्वाणो न तु निषिद्धम् । ननु कर्म्मणि-
क्रियमाणे तस्मिन्नासक्तितस्तत्फलं स्यादेव न तु
नैष्कर्म्म्यरूपा फलसिद्धिरत एवाह निःसङ्गो-
ऽनभिनिवेशवान् ईश्वरेऽर्पितुं न तु फलोद्देशेन ।
अथ फलस्य श्रुतत्वात् कर्म्मणि कृते फलं भवत्येव
इत्याह रोचनार्थेति कर्म्मणि रुच्युत्पादनार्था ।
अतएव तत्रैव ।
“फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् ।
श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम् ॥
उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसो मर्त्त्या आत्मनोऽनर्थहेतुषु ॥
न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः ॥
एवं व्यवसितं केचिदविज्ञाय कुबुद्ध्वयः ।
फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥”
इयं फलश्रुतिर्न श्रेयःपरमपुरुषार्थपरा न भवति
किन्तु बहिर्मुखानां नॄणां मोक्षविवक्षया अवा-
न्तरकर्म्मफलैः कर्म्मसु रुच्युत्पादनमात्रं यथा,
भैषज्ये औषधे रुच्युत्पादनम् । यथा, --
“पिब निम्बं प्रदास्यामि खलु ते खण्डलड्डुकान् ।
पित्रैवमुक्तः पिबति न फलं तावदेव तु ॥”
तत्रागदपानस्य न खलु खण्डादिलाभ एव
प्रयोजनं किन्त्वारोग्यम् । तथा वेदोऽप्यवान्तर-
फलैः प्रलोभयन् मोक्षायैव कर्म्माणि विधत्ते ।
ननु कर्म्मकाण्डे मोक्षस्य नामापि न श्रूयते कथ-
मेवं व्याख्यायते यथाश्रुतस्यैव घटनात् इत्याह
उत्पत्त्येति द्वाभ्याम् । उत्पत्त्या स्वभावत एव
कामेषु पश्वादिषु प्राणेषु आयुरिन्द्रियबल-
वीर्य्यादिषु स्वजनेषु पुत्त्रदारादिषु अनर्थहेतुषु
परिपाकतो दुःखहेतुषु अतस्तान् स्वार्थं परम-
सुखमविदुषः अजानतः अतो न तान् प्रह्वी-
भूतान् बुधो वेदो यद्बोधयति तदेव श्रेयः इति
विश्वसितान् इत्यर्थः । तान् एवम्भूतान् वृजिना-
ध्वनि कामवर्त्मनि देवादियोनौ भ्राम्यतः ततः
पुनस्तमोभूतवृक्षादियोनिं विशत इति । पशु-
काम इति च सुखपुत्त्रादिकाम इति च कथं
पुनस्तेष्वेव कामेषु अयं बुधो वेदो युञ्ज्यात् प्रव-
र्त्तयेत् । तथा सत्यनाप्तः स्यात् इति भावः ।
कथं तर्हि कर्म्ममीमांसकाः फलपरतां वदन्ति
तत्राह । एवमिति व्यवसितं वेदस्याभिप्रायं
अविज्ञाय कुसुमितामवान्तरफलरोचनया रम-
णीयां परमफलश्रुतिं वदन्ति कुतस्ते कुबुद्धय-
स्तत्राह हि यस्मात् वेदज्ञा व्यासादयः न तथा
वदन्ति इति । अतएव निष्कामकर्म्मण आत्म-
ज्ञानार्थतोक्ता यथा, --
“अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ।
कर्म्मयोगं विना ज्ञानं कस्यचिन्नेह दृश्यते ॥”
सोऽपि दुरितक्षयद्बारा न साक्षात् । तथा च ।
“ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्म्मणः ॥”
तथा श्रुतिः ।
“तमेवं वेदार्थवचनेन ब्राह्मणा विविदिषन्ति
ब्रह्मचर्य्येण तपसा श्रद्धया दानेनयज्ञेनानशनेन
चेति ।”
तं आत्मतत्त्वसाक्षात्कारं अतएव यज्ञादीनां
ज्ञानशेषताञ्चावधार्य्य निष्कामेषु कर्म्मसु प्रव-
र्त्तते । पण्डितेनापि मूर्खः काम्ये कर्म्मणि न
प्रवर्त्तयितव्य इत्याह षष्ठस्कन्धे ।
“स्वयं निःश्रेयसं विद्वान्नवक्त्यज्ञाय कर्म्म हि ।
न राति रोगिणेऽपथ्यं वाञ्छतेऽपि भिषक्-
तमः ॥”
राति ददाति इति समयप्रदीपे श्रीदत्तः ॥
“दासीदासमलङ्कारमन्नं षड्रससम्भवम् ।
पुरुषोत्तमतुष्ट्यर्थं प्रदेयं सार्व्वकालिकम् ॥
यद्यदिष्टतमं लोके यच्चाप्यस्ति गृहे शुचि ।
तत्तद्धि देयं प्रीत्यर्थं देवदेवस्य चक्रिणः ॥”
इदं दानं ब्राह्यणसम्प्रदानकमेव विष्णुप्रीतिमु-
द्दिश्य एवं सर्व्वत्र दाने । विष्णुप्रीतेः सामान्यतः
श्रुतत्वात् । अथ विष्णुप्रीतौ देवताधिकरणन्याय-
विरोध इति चेन्न स्वर्गवदधिकारिविशेषणत्वेन
तत्सत्त्वप्रसाधनात् इत्याहुः । ब्राह्मणसम्प्रदान-
कत्वे किं मानमिति चेत् वामनपुराणे तत्तन्-
मासभेदेन तत्तद्दानमभिधाय ।
“विष्णुप्रीत्यर्थमेतानि देयानि ब्राह्मणेष्वथ ।
देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये ॥”
इत्यभिधाय दासीदासमित्यादिवचनद्बयाभि-
धानात् । तथा च विष्णुधर्म्मोत्तराग्निपुराणयोः ।
“यत्र यत्र भवेत् प्रीतिर्विषयेभ्यो महामुने ! ।
तत्तदच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादयेत् ॥”
विष्णुधर्म्मोत्तरतृतीयकाण्डे तु विष्णुसंप्रदानक-
मेव दानं यथा, --
‘विष्णोः शङ्खप्रदानेन वारुणं लोकमाप्नुयात् ।’
इत्यादिना ।
“क्षीरपल्लवसंयुक्तान् कलसान् सुविभूषितान् ।
दत्त्वा वै देवदेवाय वाजिमेधफलं लभेत् ॥”
इत्यन्तेन तत्तत् फलं तत्तद्दानमभिधायोक्तम् ।
“अकामः सात्विको लोको यत्किञ्चिद्विनिवे-
दयेत् ।
तेनैव स्थानमाप्नोति यत्र गत्वा न शोचति ॥
धर्म्मबाणिजिका मूढाः फलकामा नराधमाः ।
अर्च्चयन्ति जगन्नाथं ते कामानाप्नुवन्त्युत ॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥”
तथा ।
“पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् ।
मूर्द्ध्ना प्रतीच्छते दत्तमकामेन द्विजोत्तमाः ॥”
उक्तवामनपुराणवचने सार्व्वकालिकमित्यनेन
मलमासादावपि विष्णुप्रीत्यर्थं देयमिति । इति
मलमासतत्त्वम् ॥
(तत्र मुमुक्षतामुदयनानि व्याख्यास्यामः । तत्र
लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्य्या-
भिगमनं तस्योपदेशानुष्ठानम् । अग्नेरेवोप-
चर्य्या धर्म्मशास्त्रानुगमनं तदर्थावबोधस्तेनाव-
ष्टम्भस्तत्र यथोक्ताः क्रियाः सतामुपासनमसतां
परिवर्ज्जनं न सङ्गतिर्दुर्ज्जनेन सत्यं सर्व्वभूतहित-
मपरुषमनतिकाले परीक्ष्य वचनं सर्व्वप्राणिषु
आत्मनीवावेक्षा सर्व्वासामस्मरणमसङ्कल्पन-
मप्रार्थना अनभिभाषणञ्च स्त्रीणां सर्व्वपरिग्रह-
त्यागः कौपीनं प्रच्छादनार्थं धातुरागनिवसनं
कन्थासीवनहेतोः सूची पिप्पलकं शौचाधान-
हेतोः जलकुण्डिका दण्डधारणं भक्ष्याचर्य्यार्थ-
पात्रं प्राणधारणार्थमेककालमग्राम्यो यथो-
पपन्न एवाभ्यवहारः । श्रमापनयनार्थं शीर्ण-
शुष्कपर्णतृणास्तरणोपधानं ध्यानहेतोः काय-
निबन्धनं वनेष्वनिकेतवासः तन्द्रानिद्रालस्यादि-
कर्म्मवर्ज्जनं इन्द्रियार्थेष्वनुरागोपतापनिग्रहः
सुप्तस्थितगतप्रेक्षिताहारविहारप्रत्यङ्गचेष्टादि-
केष्वारम्भेषु स्मृतिपूर्ब्बिका प्रवृत्तिः सत्कार-
स्तुतिगर्हावमानक्षमत्वं क्षुत्पिपासायासश्रम-
पृष्ठ ३/७५१
शीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं शोक-
दैन्यद्वेषमदमानलोभरागेर्ष्याभयक्रोधादिभिरस-
ञ्चलनं अहङ्कारादिषूपसर्गसंज्ञा लोकपुरुषयोः
स्वर्गादिसामान्यावेक्षणं कार्य्यकालात्ययभयं
योगारम्भे सततमनिर्व्वेदः सत्त्वोत्साहोऽपवर्गाय
धीधृतिस्मृतिबलाधानं नियमनमिन्द्रियाणां
चेतसि चेतस आत्मन्यात्मनश्च धातुभेदेन शरी-
रावयवसंख्यानं अभीक्ष्णं सर्व्वं कारणवद्दुःख-
मस्वमनित्यमित्यभ्युपगमः । सर्व्वप्रवृत्तिषु दुःख-
संज्ञा सर्व्वसंन्यासे सुखमित्यभिनिवेशः एष-
मार्गोऽपवर्गाय अतोऽन्यथा बध्यते इत्युदयनानि
व्याख्यातानि ॥ इति चरके शारीरस्थाने पञ्चमे-
ऽध्याये ॥)

मुमुचानः, पुं, (मुञ्चति जलं इति । मुच् + “मुचि

युधिभ्यां सन्वच्च ।” उणा० । २ । ९१ । इति
आनच् । कित् सन्वच्च । मेघः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥ (मुक्तः । यथा, सन्ध्यामन्त्रे ।
“द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।”
“स्निन्नो घर्म्माक्तो जनो मुमुचानो मुक्तो-
भवति ।” इति तत्र गुणविष्णुटीका ॥)

मुमूर्षुः त्रि, (मर्त्तुमिच्छुः । मृ + सन् + उः ।)

आसन्नमृत्युः । (यथा श्रीमद्भागवते । ७ । ८ । ११ ।
“व्यक्तं त्वं मर्त्तुकामोऽसि योऽतिमात्रं विकत्थसे ।
मुमूर्षूणां हि मन्दात्मन् ! ननु स्युर्विक्लवा
गिरः ॥”)
अथ मुमूर्षुकृत्यानि । हारीतः ।
‘शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः ।
स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥’
शूद्रान्नं शूद्रस्वामिकान्नम् । तद्दत्तमपि भोजन-
काले तद्गृहावस्थितं यत् तदपि शूद्रान्नम् ।
तदाहाङ्गिराः ।
‘शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।
निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥’
अपिशब्दात् साक्षात् तद्दत्तघृततण्डुलादि न तु
तद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागते पुन-
रङ्गिराः ।
‘यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः ।
शूद्राद्बिप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥’
प्रविष्टं सत्त्वापादकप्रतिग्रहादिना इति शेषः ।
अतएव पराशरः ।
‘तावद्भवति शूद्रान्नं यावन्न स्पृशति द्बिजः ।
द्बिजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥’
स्पृशति प्रतिगृह्णाति इति कल्पतरुः ॥ तच्च
संप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् ।
‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ।’
तच्च पात्रान्तरे ग्राह्यमाह अङ्गिराः ।
‘स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः ।
पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥’
एतेन स्वगृहमागतस्यैव शुद्धत्वम् ।
तद्गृहगतस्य शूद्रान्नदोषभागित्वं प्रतीयते ।
ततश्चैतादृगपि मुमूर्षुणा सर्व्वथा शूद्रान्नं न
भोक्तव्यम् ॥ * ॥
पूजारत्नाकरे ।
‘शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्सन्निधौ त्यजेत् प्राणान् याति विष्णोः परं
पदम् ॥’
लिङ्गपुराणे ।
‘शालग्रामसमीपे तु क्रोशमात्रं समन्ततः ।
कीकटेऽपि मृतो याति वैकुण्ठभवनं नरः ॥’
कीकटो मगधः ॥ * ॥ वैष्णवामृते व्यासः ।
‘तुलसीकानने जन्तोर्यदि मृत्युर्भवेत् क्वचित् ।
स निर्भर्त्स्य यमं पापी लीलयैव हरिं विशेत् ॥
प्रयाणकाले यस्यास्ये दीयते तुलसीदलम् ।
निर्व्वाणं याति पक्षीन्द्र ! पापकोटियुतोऽपि सः ॥’
कूर्म्मपुराणम् ।
‘गङ्गायाञ्च जले मोक्षो वाराणस्यां जले स्थले ।
जले स्थले चान्तरीक्षे गङ्गासागरसङ्गमे ॥’
स्कान्दे ।
‘गङ्गायां त्यजतः प्राणान् कथयामि वरानने ! ।
कर्णे तत् परमं ब्रह्म ददामि मामकं पदम् ॥’
तथा ।
‘तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यते ।
अत्र दानं जपो होमो गङ्गायां नात्र संशयः ॥
अत्रस्थास्त्रिदिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥’
गव्यूतिः क्रोशयुगम् । तीर्थचिन्तामणौ ब्रह्म-
पुराणम् ।
‘अत्र दूरे समीपे च सदृशं योजनद्बयम् ।
गङ्गायां मरणेनेह नात्र कार्य्या विचारणा ॥’ * ॥
एवं गङ्गादिमरणेन प्राप्तब्रह्मलोकस्याप्यौर्द्ध-
देहिकी क्रिया तदधिकारिणा कर्त्तव्या नित्य-
त्वात् । तथा च श्रीमद्भागवते ।
‘कृष्ण एवं भगवति मनोवाक्दृष्टिवृत्तिभिः ।
आत्मन्यात्मानमावेश्य सोऽन्तःश्वासमुपारमत् ॥
संपद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।
सर्व्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥
तस्य निर्हरणादीनि संपरेतस्य भार्गव ! ।
युधिष्ठिरः कारयित्वा मुहूर्त्तं दुःखितोऽभवत् ॥’
कृष्णे आत्मनि परमात्मनि आत्मानं स्वीयात्मानं
निवेश्य एकीकृत्य स भीष्मः उपारमत् मुक्तिं
गतवान् । निष्कले निरुपाधौ ब्रह्मणि संपद्य-
मानं मिलितं आज्ञाय आलक्ष्य तस्य भीष्मस्य
निर्हरणादीनि संस्कारादीनि संपरेतस्य सम्यक्
परेतस्य मुक्तस्यापि । भार्गवेति शौनकस्य
सम्बोधनम् । एवञ्च एतेषामपि तत्तत्कर्म्मणि
तत्तद्वचनोपात्तप्रेतपदस्य पितृपदस्य च मन्त्रा-
दिषु यथायथं वाचनिकत्वात् प्रयोगः सङ्गच्छते ।
‘आसन्नमृत्युना देया गौः सवत्सा च पूर्ब्बवत् ।
तदभावे च गौरेका नरकोद्धारणाय वै ॥
तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् ।
शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्-
मृतंस्य च ॥’
पूर्ब्बवद्धेमशृङ्गादिना ।
अत्र मृतस्य चेति श्रवणात् एकादशाहेऽपि
वैतरणीदानाचारः । वनपर्व्वणि ।
‘सार्थः प्रवसतो मित्रं भार्य्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥’
वराहपुराणे ।
“व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः ।
पुण्यकालास्तदा सर्व्वे यदा मृत्युरुपस्थितः ॥
गोभूतिलहिरण्यादि दत्तमक्षयतामियात् ॥”
निरवकाशत्वादत्र मलमासादिदोषो नास्ति
सूतकमपि न । तथा च शुद्धिरत्नाकरे दक्षः ।
“सुस्थकाले त्विदं सर्व्वं सूतकं परिकीर्त्तितम् ।
आपद्गतस्य सर्व्वस्य सूतकेऽपि न सूतकम् ॥”
इति शुद्धितत्त्वम् ॥

मुर, श वेष्टने । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) पवर्गशेषादिः । श मुरति
वृक्षं लता । मोरिता । इति दुर्गादासः ॥

मुरं क्ली, (मूर्य्यते इति । मुर् + अन्यत्रापीति

भावे कः ।) वेष्टनम् । इत्यमरटीकायां मथुरेशः ॥

मुरः, पुं, (मुरति वेष्टतेऽसौ । मुर् + इगुपधत्वात्

कर्त्तरि कः ) दैत्यविशेषः । इति मेदिनी । रे,
७७ ॥ यं हत्वा विष्णुर्मुरारिनामाभूत् ॥ (यथा,
श्रीमद्भागवते । ३ । ३ । ११ ।
“शम्बरं द्विविदं बाणं मुरं बल्कलमेव च ।
अन्यांश्च दन्तवक्रादीनवधीत् कांश्च घातयत् ॥”)

मुरगण्डः, पुं, (मुरं वेष्टनमिव गण्डति रजति

अनेन । गण्ड + अच् ।) वरण्डः । इति जटा-
धरः । वर्णक इति भाषा ॥

मुरजः, पुं, (मुरात् संवेष्टनात् जायतेऽसौ । मुर +

जन + डः ।) मृदङ्गः । इत्यमरः । १ । ७ । ५ ॥
(यथा, रामायणे । २ । ३९ । ४१ ।
“मुरजपणवमेघघोषवद्-
दशरथवेश्म बभूव यत् पुरा ।
विलपितपरिदेवनाकुलं
व्यसनगतं तदभूत् सुदुःखितम् ॥”)

मुरजफलः, पुं, (मुरजवत् फलमस्य ।) पनसवृक्षः ।

इति त्रिकाण्डशेषः ॥

मुरण्डः, पुं, (मुरेण वेष्टनेन अण्ड इव गोलाकृति-

रिव । शकन्ध्वादित्वादकारस्य पररूपम् ।)
लम्पकदेशः । तद्देशस्थे, पुं भूम्नि । इति
हेमचन्द्रः । ४ । २७ ॥

मुरन्दला, स्त्री, (मुरं वेष्टनं सेतुं दलति

भिनत्ति । दल् + अच् + स्त्रियां टाप् ।) नर्म्मदा-
नदी । इति त्रिकाण्डशेषः ॥

मुरमर्द्दनः, पुं, (मुरं तन्नामानमसुरं मृद्नाति

चूर्णीकरोतीति । मृद् + ल्युः ।) विष्णुः । इति
पुराणम् ॥

मुररिपुः, पुं, (मुरस्य रिपुः ।) विष्णुः । इति

शब्दरत्नावली ॥ (यथा, छन्दोमञ्जर्य्याम् । २ । ३ ।
“त्वरितगतिर्ब्रजयुवतिस्तरणिसुता विपिनगता ।
मुररिपुणा रतिगुरुणा सहमिलिता प्रमद-
मिता ॥”)

मुरला, स्त्री, (मुरं वेष्टनं लाति । ला + कः ।)

नर्म्मदानदी । इति त्रिकाण्डशेषः ॥ (यथा,
उत्तररामचरिते । ३ । १ ॥ ततः प्रदिशति नदीद्वयं
पृष्ठ ३/७५२
तमसा मुरला च । तमसा । सखि मुरले !
किमसि सन्म्रान्तेव । केरलदेशस्था काचिन्नदी ।
यथा च । रघुवंशे । ४ । ५५ ।
“मुरलामारुतोद्धूतमगमत् कैतकं रजः ।
तद्योधवारवाणानामयत्नपटवासताम् ॥”
“मुरला नाम केरलदेशेषु काचिन्नदी ।” इति
तट्टीकाकृन् मल्लिनाथः ॥)

मुरली, स्त्री, (मुरं अङ्गुलिवेष्टनं लाति प्राप्नोतीति

ला + कः + स्त्रियां ङीष् ।) स्वनामख्यात-
शुषिरवाद्यम् । तत्पर्य्यायः । वंशी २ वंशिका ३
वंशनालिका ४ सानेयिका ५ सानेयी ६
सानिका ७ मुरलासिका ८ । शेषचतुष्टयं
सानायि । इति शब्दरत्नावली ॥ (यथा, राधा-
तन्त्रे । २३ ।
“वादयन् मुरलीं कृष्णः शृङ्गं वेणुं तथापरम् ।
कात्यायनीं नमस्कृत्य हरिः पद्मदलेक्षणः ॥”)

मुरलीधरः, पुं, (धृ + अच् । मुरल्याः धरः ।)

श्रीकृष्णः । इति शब्दरत्नावली ॥ (यथा,
तन्त्रे ।
“वैकुण्ठदक्षिणे भागे गोलोकं सर्व्वमोहनम् ।
तत्रैव राधिका देवी द्विभुजो मुरलीधरः ॥”)

मुरहा, [न्] पुं, (मुरं हन्तीति । हन् + क्विप् ।)

विष्णुः । इति हेमचन्द्रः ॥

मुरा, स्त्री, (मुरति सौरभेण वेष्टयति । मुर +

इगुपधत्वात् कः टाप् च ।) स्वनामख्यातगन्ध-
द्रव्यम् । (यथा, गरुडपुराणे । १९० ।
“तथा हिक्वां हरेत् पीता सौवर्च्चलसुतामुरा ।”
तत्पर्य्यायः । तालपर्णी २ दैत्या ३ गन्धकुटी ४
गन्धिनी ५ । इत्यमरः । २ । ४ । १२३ ॥
(तथास्याः पर्य्यायान्तरं गुणाश्च ।
“मुरा गन्धकटी दैत्या सुरभिः शालपणिका ।
मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिला-
पहा ।
ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
तस्या लक्षणं यथा । मुरा पीता वरा प्रोक्ता ।
इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥)
अस्या अनुलेपनगुणाः । अलक्ष्मीरक्षोज्वर-
नाशित्वम् । इति राजवल्लभः ॥ राजनिर्घण्टोक्त-
गुणपर्य्यायौ पुराशब्दे द्रष्टव्यौ ॥

मुरारिः, पुं, (पुरस्यारिः ।) श्रीकृष्णः । अस्य

व्युत्पत्तिर्यथा, --
“मुरः क्लेशे च सन्तापे कर्म्मभोगे च कर्म्मिणाम् ।
दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
अस्य स्वरूपं यथा, --
श्रीनारद उवाच ।
“कोऽसौ मुरारिर्देवर्षे ! देवो यक्षो नु किं नरः ।
दैत्यो वा राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥”
पुलस्त्य उवाव ।
“योऽसौ रजःसत्त्वमायागुणवांश्च तमोमयः ।
निर्गणः सर्व्वगो व्यापी मुरारिर्म्मधुसूदनः ॥”
श्रीनारद उवाच ।
“योऽसौ मुर इति ख्यातः कस्य पुत्त्रश्च गीयते ।
कथञ्च निहतः संख्ये विष्णुना तद्वदस्व मे ॥”
पुलस्त्य उवाच ।
“श्रूयतां कथयिष्यामि मुरासुरनिवर्हणम् ।
विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम् ॥
कश्यपस्यौरसः पुत्त्रो मुरो नाम महाबलः ।
स ददर्श रणे शम्भुं दितिपुत्त्रोऽसुरोत्तमः ॥
ततः स मरणाद् भीतस्तप्त्वा वर्षगणान् बहून् ।
आराधयामास विभुं ब्रह्माणमपराजितम् ॥
ततोऽस्य तुष्टो वरदः प्राह वत्स ! वरं वृणु ।
स च वव्रे तदा दैत्यो वरमेनं पितामहात् ॥
यं यं करतलेनाहं स्पृशेयं समरे विभो ! ।
स स मद्धस्तसंस्पृष्टस्त्वमरोऽपि म्रियत्वज ! ॥
बाढमुक्त्वा स भगवान् ब्रह्मा लोकपितामहः ।
ततोऽभ्यगान्महातेजा मुरः सुरगिरिं बली ।
जगाम धर्म्मराजानं विजेतुं दण्डपाणिनम् ॥”
मुर उवाच ।
“यम ! प्रजासंयमनान्निवृत्तिं कर्त्तुमर्हसि ।
नो चेत्तवाद्य छित्त्वाहं मूर्द्ध्वानं पातये भुवि ॥
तमाह धर्म्मराड्वाक्यं यदि मां संयमेद्भवान् ।
गोपितासि पुरा सत्यं करिष्ये वचनं तव ॥
मुरस्तमाह भवतः कः संयन्ता वदस्व माम् ।
अहं तञ्च पराजित्य वारयामि न संशयः ॥
यमस्तं प्राह मां विष्णुर्देवश्चक्रगदाधरः ।
श्वेतद्बीपनिवासी यः स मां संयमतेऽव्ययः ॥
इत्येव मुक्तो वत्तनं दुग्धाब्धिमगमन्मुरः ॥
तमागतं प्राह मुने ! मधुघ्नः
प्राप्तोऽसि केनासुर ! कारणेन ।
स प्राह युद्धं सह वै त्वयाद्य
तं प्राह भूयः सुरशत्रुहन्ता ॥
यदीह मां योद्धुमुपागतोऽसि
तत् कम्पते ते हृदयं किमर्थम् ।
ज्वरातुरस्येव मुहुर्मुहुर्व्वै
तन्नैव योत्स्ये सह कातरेण ॥
इत्येवमुक्तो मधुसूदनेन
मुरस्तदा स्वे हृदये स्वहस्तम् ।
कथं नु कम्पेति मुहुस्तदोक्त्वा
निपातयामास विपन्नबुद्धिः ॥
हरिश्च चक्रं मृदुलाघवेन
मुमोच तत्तस्य शिरस्तु शत्रोः ।
चिच्छेद देवास्तु गतव्यथाभवन्
देवं प्रशंसन्ति च पद्मनाभम् ।
इतः प्रसिद्धं समुपाजगाम
मुरारिरित्येव हरिर्महात्मा ॥”
इति वामने ५७ । ५८ अध्यायौ ॥ * ॥
अनर्घराघवग्रन्थकर्त्ता । यथा । ‘अस्ति मौद्गल्य-
गोत्रसमुद्भूतस्य महाकवेर्भट्टश्रीवर्द्धमानात्मजस्य
तन्तुमतीहृदयनन्दनस्य मुरारिनामधेयस्य कवेः
कृतिरनर्घराघवं नाम नाटकं तत्प्रयुञ्जानाः
सामाजिकानुपास्महे ।’ इति तत्कृतनाटक-
गद्यम् ॥

मुर्च्छ आ मोहे । उच्छ्राये । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) पवर्गशेषादिः ।
ह्रस्वी । तेन क्विपि राल्लोप इति छलो मुरौ
मुरः । आ मूर्च्छितं मूर्त्तं तेन । मोहो ज्ञान-
रहितीभावः । उच्छ्रायो वृद्धिः । मूर्च्छति
रोगी । मुमूर्च्छ संख्यं रामस्य समानव्यसने
हराविति रघुः । इति दुर्गादासः ॥

मुर्भिणी, स्त्री, अङ्गारधानिका । इति शब्द-

चन्द्रिका ॥

मुर्मुरः, पुं, तुषाग्निः ॥ (यथा, माघे । ६ । ६ ।

“स्मरहुताशनमुर्मुरचूर्णतां
दधुरिवाम्रवणस्य रजःकणाः ।
निपतिताः परितः पथिकव्रजा-
नुपरि ते परितेपुरतो भृशम् ॥”)
मन्मथः । रविवाजिः । इति मेदिनी । रे, २०५ ॥
(स्त्रियां टाप् । नदीभेदः । यथा, महाभारते ।
३ । २२१ । २५ ।
“भारती सुप्रयोगा च कावेरी मुर्म्मुरा तथा ।
तुङ्गवेण्णा कृष्णवेण्णा कपिला शोण एव च ॥”)

मुर्व्व ई नहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् । निष्ठायामनिट् ।) आद्यः पञ्चम-
स्वरी । मूः मुरौ मुरः । नहो बन्धनम् । ई
मूर्णः । इति दुर्गादासः ॥

मुल क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् । जन्मार्थे भ्वा०-उभ०-अक०-
सेट् ।) रोपणं आरोपणम् । क मोलयति वृक्षं
लोकः । गोविन्दभट्टस्तु रोहणे इति पठित्वा
रोहणं जन्म इति व्याख्याति । इति दुर्गादासः ॥

मुशटी, स्त्री, (मुष + अटन् । पृषोदरादित्वात्

साधुः ।) सितकङ्गुः । इति हेमचन्द्रः ॥

मुश(ष)लिका, स्त्री, (मुष + “वृषादिभ्यश्चित् ।”

उणा० १ । १०८ । इति कलश्चित् स्यात् । टाप् ।
ततः संज्ञायां कन् । अकारस्येत्वम् ।) पल्ली ।
तालमूली । तत्पर्य्यायः सुवहा २ तालपत्रिका ३
गोधापदी ४ हेमपुष्पी ५ भूताली ६ दीर्घ-
कन्दिका ७ मुषली ८ तालिका ९ तालमूलिका
१० । इति शब्दरत्नावली ॥ अर्शोघ्नी ११ । इति
जटाधरः ॥ अस्या गुणाः । मधुरत्वम् । शीत-
त्वम् । वृष्यत्वम् । पुष्टिबलप्रदत्वम् । पिच्छिल-
त्वम् । कफदत्वम् । पित्तदाहश्रमहरत्वञ्च ।
“मुशली च द्विधा प्रोक्ता श्वेता चापर-
संज्ञिका ।
श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥”
इति राजनिर्घण्टः ॥
“तालमूली तु विद्वद्भिर्म्मुषली परिकीर्त्तिता ।
मुषली मधुरा वृष्या वीर्य्योष्णा बृंहणी गुरुः ।
तिक्ता रसायनी हन्ति गुदजान्यनिलं तथा ॥”
इति भावप्रकाशः ॥

मुष वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) मोषति । इति दुर्गादासः ॥

मुष ग लुण्ठने । इति कविकल्पद्रुमः ॥ (क्रा०-पर०-

सक०-सेट् ।) ग मुष्णाति । इति दुर्गादासः ॥
पृष्ठ ३/७५३

मुष् य इर् छिदि । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-सेट् ।) छेद इह खण्डनम् । य
मुष्यति विपक्षं चतुरः । इर् अमुषत् अमोषीत्
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥

मुषलः, पुं, क्ली, (मोषति मुष्यतेऽनेन वेति । मुष् +

“वृषादिभ्यश्चित् ।” उणा० १ । १०८ । इति
कलश्चित् स्यात् ।) अयोऽग्रम् । इत्यमरटीकायां
भरतः ॥ दन्त्यमध्योऽपि ॥ (यथा, मार्कण्डेये ।
११६ । १८ ।
“मुनन्दं नाम मुषलं त्वष्ट्रा यन्निर्म्मितं पुरा ।
तज्जहार स दुष्टात्मा तेन हन्ति रणे रिपून् ॥”
विश्वामित्रसुतः । यथा, महाभारते । १३ । ४ । ५२ ।
“बाहुलिर्मुषलश्चैव वक्षोग्रीवस्तथैव च ॥”
(तालव्यमध्योऽप्ययम् । “मुश् खण्डने मुशलः ।”
उणा० १ । १०८ । इत्यत्रोज्ज्वलदत्तवृत्तिः ॥)

मुषली, स्त्री, (मुष्यत इति । मुष् + कलः ङीष् ।)

तालमूलिका । गृहगोधिका । इति शब्द-
रत्नावली ॥

मुषल्यः, त्रि, (मुषलमर्हतीति । मुषल + “दण्डा-

दिभ्यो यः ।” ५ । १ । ६६ । इति यः ।) मुषल-
वध्यः । इत्यमरटीकायां भरतः ॥

मुषा, स्त्री, (मुष् + कः टाप् ।) मूषा । इत्य-

मरटीकायां रायमुकुटः । २ । १० । ३३ । मुची
इति भाषा ॥

मुषितं, त्रि, (मुष् + कर्म्मणि क्तः ।) चोरित-

द्रव्यम् । तत्पर्य्यायः ॥ मूषितम् २ । इत्यमरः । ३ ।
१ । ८८ ॥ (वञ्चितः । यथा, भागवते । १ । १३ । ३७ ।
“नाहं वेद्मि व्यवसितं पित्रोर्वः कुलनन्दन ! ।
गान्धार्य्या वा महाबाहो ! मुषितोऽस्मि महा-
त्मभिः ॥”
“मुषितो वञ्चितोऽस्मि ॥” इति तट्टीकायां
श्रीधरः ॥)

मुष्कः, पुं, (मुष्णाति वीर्य्यमिति । मुष् + “सृवृ

भूशुषिमुषिभ्यः कक् । उणा० ३ । ४१ । इति
कक् ।) अण्डकोषः । इत्यमरः । २ । ६ । ६ ॥
(यथा, वाग्भटे निदानस्थाने नवमे अध्याये ॥
“स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः ॥”)
मोक्षकवृक्षः । संघातः । इति मेदिनी । के, ३१ ॥
तस्करः । मांसलः । इति हेमचन्द्रः । २ । २७६ ॥

मुष्ककः, पुं, (मुष्क । संज्ञायां कन् ।) वृक्षविशेषः ।

घण्टापारुल इति वङ्गभाषा । मोषा इति
हिन्दी भाषा । तत्पर्य्यायः । गोलीढः २
झाटलः ३ घण्टापाटलिः ४ मोक्षः ५ । इत्य-
मरः । २ । ४ । ३९ ॥ मोक्षकः ६ मुष्कः ७
मोचकः ८ मुञ्चकः ९ गौलिकः १० मेहनः ११
क्षारवृक्षः १२ पाटली १३ विषापहः १४
जटालः १५ वनवासी १६ सुतीक्ष्णकः १७ ।
इति राजनिर्घण्टः ॥ गोलिहः १८ क्षार-
श्रेष्ठः १९ घण्टा २० घण्टाकः २१ झाटः २२ ।
इति शब्दरत्नावली ॥ स तु पलाशवत्पर्व्वत-
वृक्षः । श्वेतकृष्णभेदेन द्बिविधः । तस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । ग्राहित्वम् । उष्णत्वम् ।
कफवातकारित्वम् । विषमेदोगुल्मकण्डुवस्ति-
रोगकृमिशुक्रनाशित्वञ्च । इति भावप्रकाशः ॥
रेचनत्वम् । पाचनत्वम् । प्लीहोदरार्त्तिनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते ।
चिकित्सास्थाने । ९ अध्यायः ।
“जीर्णं पक्वं तद्धरिद्राद्वयेन
हन्यात् कुष्ठं मुष्कके चापि सर्पिः ॥”)

मुष्करः, पुं, (प्रशस्तः मुष्कोऽस्यास्ति । मुष्क +

“ऊषमुषिमुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।)
प्रलम्बाण्डः । इति हेमचन्द्रः । ३ । १२१ ॥
(यथा, शतपथब्राह्मणे । ३ । ७ । २ । ८ ।
“रेतो विकरोति मुष्करो भवत्येष वै प्रजनयिता
यन्मुष्करस्तस्मान्मुष्करो भवति तं न स ॥”)

मुष्कशून्यः, पुं, (मुष्केण शून्यः ।) वृषणरहितः ।

स तु राज्ञोऽन्तःपुररक्षकः । खोजा इति भाषा ।
तत्पर्य्यायः । अनुपस्थः २ स्त्रीस्वभावः ३
महल्लिकः ४ । इति शब्दमाला ॥

मुष्टिः, पुं, स्त्री, (मुष् + क्तिच् ।) पलपरिमाणम् ।

चारि तोला इति भाषा । (वैद्यके आठतोला
इति प्रसिद्धिः ।
“स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा ।
शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रञ्चतुर्थिका ॥”
इति वैद्यकशार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥
‘पलार्द्धं शुक्तिमिच्छन्ति तथाष्टमाषकास्त्विति ।’
पलं विल्वञ्च मुष्टिः स्यात् -- ॥”
इति गारुडे अष्टाधिकद्बिशततमेऽध्याये ।)
बद्धपाणिः । मुटा इति भाषा । तत्पर्य्यायः ।
सम्पिण्डिताङ्गुलिपाणिः २ मुस्तुः ३ मुचुटी ४ ।
इति हेमचन्द्रः । ३ । २६१ ॥ त्सरुः । इति
मेदिनी । टे, २५ ॥ खड्गेर मुट् इति भाषा ।
(यथा, महाभारते । १ । १९ । १७ ।
“परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः ।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥”)
कुञ्च्यष्टभागः । छटाक इति भाषा । यथा, --
“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलः ।”
इति प्रायश्चित्ततत्त्वम् ॥
(मुष् + क्तिन् ।) मोषणम् । इति मुषधात्वर्थ-
दर्शनात् । प्रहारविशेषः । किल इति भाषा ।
यथा, मार्कण्डेयपुराणे । ९० । १५ -- १६ ।
“चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥
स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
देव्यास्तञ्चापि सा देवी तलेनोरस्यताडयत् ॥”
पथि क्षुधार्त्तस्य तिलादीनां मुष्टिग्रहणे चौर्य्या-
भावः । यथा, कौर्म्मे उपविभागे १५ अध्याये ।
“तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्त्तैर्नान्यथा विप्र ! विधिविद्भिरिति स्थितिः ॥”
(मुष् स्तेये + अधिकरणे क्तिन् । शस्यगोपन-
कालः । यथा, महाभारते । २ । ५ । ६५ ।
“कच्चिल्लवञ्च मुष्टिञ्च परराष्ट्रे परन्तप ! ।
अविहाय महाराज ! निहंसि समरे रिपून् ॥”
“मुष्टिः शस्यानां गोपनकालः दुर्भिक्षमिति
यावत् ॥” इति तट्टीकायां नीलकण्ठः ॥)

मुष्टिकः, पुं, (मुष्णाति परवीर्य्यमिति । मुष् + क्तिच्

संज्ञायां कन् ।) कंसराजमल्लविशेषः । इति
श्रीमद्भागवतम् ॥ (यथा च हरिवंशे । ४१ । १६० ।
“नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।”
मुष्टिः प्रयोजनमस्य । मुष्टि + कन् ।) स्वर्ण-
कारः ॥ इति हेमचन्द्रः । ३ । ५७२ ॥

मुष्टिकान्तकः, पुं, (मुष्टिकस्यान्तकः ।) बल-

देवः । इति शब्दरत्नावली ॥

मुष्टिद्यूतं, क्ली, (मुष्ट्या द्यूतं क्रीडितम् ।) द्यूत-

क्रीडाविशेषः । पुरमुट् खेला इति भाषा ।
तत्पर्य्यायः । क्षुल्लकम् २ । इति शब्दमाला ॥

मुष्टिन्धयः, पुं, (मुष्टिं धयति पिबति । धेट् +

“नाडीमुष्ट्योश्च ।” ३ । २ । ३० । इति खश् ।
“अरुर्द्बिषदजन्तस्य मुम् ।” ६ । ३ । ६७ । इति
मुम् ।) बालकः । इति त्रिकाण्डशेषः ॥

मुष्टिबन्धः, पुं, मुष्टिबन्धनक्रिया । मुटावाँधा इति

भाषा । तत्पर्य्यायः । संग्राहः २ । इत्यमरः ।
३ । २ । १४ ॥ मुष्टेर्बन्धोऽङ्गुलिविन्यासो मुष्टि-
बन्धः । मुष्टिना बन्धो दृढग्रहणं संग्राह
इत्यपरे । मुष्ट्यामेव संग्रह इत्यन्ये । मुष्टिः
स्त्रियाञ्च संग्रह इति वोपालितः । इति
भरतः ॥

मुष्टीमुष्टि, व्य, मुष्टामुष्टि । मुष्टिभिर्भुष्टिभिः प्रहृत्य

यद्युद्धं वृत्तं तत् । किलाकिलि इति भाषा ।
इति मुग्धबोधव्याकरणम् ॥

मुष्ठकः, पुं, (मुष् + बाहुलकात् क्थन् । ततः

संज्ञायां कन् ।) राजसर्षपः । इति रत्नमाला ॥
व्यष्टक इति वा पाठः ॥

मुस य इर् छिदि । खण्डने । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) य मुस्यति विपक्षं
चतुरः । इर् अमुसत् अमोसीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

मुसलः, पुं, क्ली, (मुस्यति खण्डयतीति । मुस् +

“वृषादिभ्यश्चित् ।” उणा० १ । १०८ । कलः चित्
स्यात् ।) स्वनामख्याततण्डुलादिकण्डनार्थनिर्म्मित-
लौहाग्रयष्टिः । तत्पर्य्यायः । अयोऽग्रम् २ ।
इत्यमरः । २ । ९ । २५ ॥ मुषलम् ३ कण्डनी-
दण्डः ४ । इति शब्दरत्नावली ॥ मुस्यति मुसल
मुस यिर्छिदि नाम्नीति कलः । मुसलो दन्त्य-
सकारः । एवं मुष्य इर्छिदीति मूर्द्धन्यान्तात्
कलः मूर्द्ध्वन्यषकारश्च । इत्यमरटीकायां भरतः ॥
(आयुधविशेषः । तत्प्रकारो यथा, वैशम्पाय-
नोक्तधनुर्वेदे ।
“मुसलस्त्वक्षिशीर्षाभ्यां करैः पादैर्विवर्ज्जितः ।
मूले चान्तेऽतिसम्बन्धः पातनं पोथनं द्वयम् ॥”)
यथा, मनौ । ८ । ३१५ ।
“स्कन्धेनादाय मुसलं लगुडं वापि स्वादिरम् ।
शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥”)

मुसलामुसलि, व्य, मुसलैश्च प्रहृत्ययुद्धं

वृत्तम् । इति सिद्धान्तकौमुदी ॥
पृष्ठ ३/७५४

मुसली, स्त्री, (मुसल + गौरादित्वात् ङीष् ।)

तालमूलिका । गृहगोधिका । इत्यमरः । २ ।
५ । १२ ।

मुसली, [न्] पुं, (मुसलं प्रहरणत्वेनास्यास्तीति ।

मुसल + इनिः ।) बलदेवः । इत्यमरः । १ । १ । २५ ॥

मुसल्यः, त्रि, (मुसलमर्हतीति । मुसल + यः ।)

मुसलेन वध्यः । इत्यमरः । ३ । १ । ४५ ॥

मुस्त क संहतौ । इति कविकल्पद्रुमः ॥ (चुरा०-

उभ०-अकं-सेट् ।) पवर्गशेषादिः । क मुस्त-
यति । इति दुर्गादासः ॥

मुस्तः, पुं, (मुस्तयति एकत्र संहतीभवन्तीति । मुस्त

+ कः । एकशिफायामस्य बहुमूलसम्बद्धतया
तथात्वम् ।) मुस्तकम् । इति हारावली ॥
(यथा बृहत्संहितायाम् । ७७ । ११ ।
“भागैश्चतुर्भिः सितशैलमुस्ताः
श्रीसर्ज्जभागौ नखगुग्गुलू च ।
कर्पूरबोधो मधुपिण्डितोऽयं
कोपच्छदो नाम नरेन्द्रधूपः ॥”)

मुस्तकः, पुं क्ली, (मुस्त + स्वार्थे कन् ।) तृणमूल-

विशेषः । मुता इति भाषा । तत्पर्य्यायः ।
कुरुबिन्दः २ मेघनामा ३ मुस्ता ४ । इत्यमरः ।
२ । ४ । १५९ ॥ मुस्तः ५ राजकसेरुः ६ । इति
हारावली ॥ मेघाख्यम् ७ गाङ्गेयम् ८ भद्र-
मुस्तकम् ९ । इति रत्नमाला ॥ अभ्रनामकः १०
श्रीभद्रा ११ भद्रकः १२ भद्रा १३ । इति शब्द-
रत्नावली ॥ अस्य गुणाः । तिक्तत्वम् । कटु-
त्वम् । वायुनाशित्वम् । ग्राहित्वम् । दीपनत्वञ्च ।
इति राजवल्लभः ॥ अपि च ।
“मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकः ।
कुरुबिन्दश्च स ख्यातोऽपरः कोरकसेरुकः ॥
भद्रमुस्तश्च गुन्द्रा च तथा नागरमुस्तकः ।
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥
कषायं कफपित्तासतृड्ज्वरारुचिजन्तुहृत् ।
अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते ।
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥”
इति भावप्रकाशः ॥

मुस्तकः, पुं, (मुस्तयति संहतीकरोति रुधिर-

मिति । मुस्त + कः । ततः संज्ञायां कन् ।)
स्थावरविषभेदः । इति हेमचन्द्रः । २ । २५६ ॥
(यथा, सुश्रुते कल्पस्थाने । २ ।
“चत्वारिवत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ॥”)

मुस्ता, स्त्री, (मुस्त + टाप् ।) मुस्तकः । इत्य-

मरः । २ । ४ । १५९ ॥ (तथास्याः पर्य्यायः ।
“मेघाख्यं मुस्तकं मुस्ता गाङ्गेयं भद्रमुस्तकम् ।”
इति वैद्यकरत्नमालायाम् ॥
यथा सुशुते सूत्रस्थाने । ४४ ।
“दोषघ्ना ग्रहणीपाण्डुरोगार्शःकुष्ठनाशनाः ।
व्योषं त्रिजातकं मुस्ता विडङ्गामलके तथा ॥”)

मुस्तादः, पुं, (मुस्तामत्तीति । अद + अण् ।)

शूकरः । इति जटाधरः ॥

मुस्ताभं, क्ली, (मुस्तस्येवाभा यस्य ।) मुस्तकविशेषः ।

नागर मुता इति भाषा । तत्पर्य्यायः । कुटन्न-
टम् २ पुरम् ३ बल्यम् ४ परिपेलवम् ५ ।
इति रत्नमाला ॥ (गुणा अस्य कुटन्नटशब्दे-
ज्ञातव्याः ॥)

मुस्तुः, पुं, (मुस्यति खण्डयत्यनेन । मुस् + बाहुल-

कात् तुक् ।) मुष्टिः । इति हेमचन्द्रः । ३ । २६१ ॥

मुस्रं, क्ली, मुसलम् । मुसधातोरौणादिकरक्प्रत्य-

येन निष्पन्नम् । २ । १३ । इति सिद्धान्तकौ-
मुद्यामुणादिवृत्तिः ॥ (नयनजलमित्युज्ज्वलः ॥)

मुह यौ ऌ क्ति वैचित्त्ये । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् । रुधादित्वाद्वेट् ।)
वैचित्त्यं ज्ञानरहितीभावः । य, तेन मुह्यति
चिराय मे मनः । इति मुरारिः । ऊ मोहि-
ष्यति मोक्ष्यति । ऌ अमुहत् । ञि मुग्धः
मूढोऽस्ति । इति दुर्गादासः ॥

मुहिरः, पुं, (मुह्यति ज्ञानरहितोभवत्यनेन लोकः

मुह्यति सभायामिति वा । मुह + “इषिमदीति
उणा० ।” १ । ५२ । इति किरच् ।) कामः ।
मूर्खः । इति मेदिनी । र, । २०५ ॥ (असभ्यः
इत्युज्ज्वलदत्तः ॥)

मुहुः, [स्] व्य, (मुह + “मुहेः किच्च् ।” उणा०

२ । १२१ । इति उसिः किच्च ।) पुनः पुनः ।
इत्यमरः । ३ । ४ । १ ॥ (यथा, पञ्चदश्याम् ।
७ । १७१ ।
“स्वस्वप्नमापरोक्षेण दृष्ट्वा पश्यन् स्वजागरम् ।
चिन्तयेदप्रमत्तः सन्नुभावनुदिनं मुहुः ॥”)

मुहुभाषा, स्त्री, (मुहुः भाषा भाषणम् ।) पुनः

पुनःकथनम् । तत्पर्य्यायः । अनुलापः २ ।
इत्यमरः । १ । ६ । १६ ॥

मुहूर्त्तः, पुं क्ली, (हूर्च्छतीति । “अञ्जिघृसिभ्यः

क्तः ।” उणा० ३ । ८९ । इत्यत्र बाहुलकात्
हुर्च्छेरपि इति उज्ज्वलदत्तः । मुडागमश्च प्राक् ।
“राल्लोपः ।” ६ । ४ । २१ । इति सूत्रेण छस्य
लोपः ।) द्वादशक्षणपरिमितकालः । इत्य-
मरः । १ । १ । ११३ ॥ घटिकाद्बयम् । इति
राजनिर्घण्टः ॥ (अस्य विवृतिर्यथा । तत्र
लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः । पञ्चदशाक्षि-
निमेषाः काष्ठा ॥ त्रिंशत्काष्ठाः कलाः ।
विंशतिकलो मुहूर्त्तः कलादशभागश्च । त्रिंश-
न्मुहूर्त्तमहोरात्रम् । इति सुश्रुते सूत्रस्थाने
षष्ठेऽध्याये ॥) दिनपञ्चदशभागैकभागः । यथा,
“प्रातःकालो महूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।
मध्याह्रस्त्रिमुहूर्त्तः स्यादपराल्लस्ततः परम् ॥
सायाह्नस्त्रिमहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत् ।
राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥”
इति तिथ्यादितत्त्वधृतवचनम् ॥ * ॥
कर्म्मविशेषे तस्य परिमाणं यथा । ननु व्रतोप-
वासस्नानादौ घटिकैकापि या भवेदित्यत्र
घटिकापदं दण्डपरं महूर्त्तपरं वा स्मृत्या-
चारधृतचतुर्द्दण्डात्मकारुणोदयज्ञापके चतस्रो
घटिकाः प्रातररुणोदय उच्यते इत्यादौ प्रभाते
घटिकायुग्मं प्रदोषे घटिकाद्बयम् । दिनवत्
सर्व्वकार्य्याणि कारयेन्न विचारयेदिति हलायुध-
धृतलिखिष्यमाणत्रियामामिति वचनयोरेक-
मूलयोश्च उभयत्र प्रयोगदर्शनादिति संशयः ।
अत्रोच्यते । श्राद्धादावस्तगामिंनीति घटिका-
नियामकवचनचतुर्थचरणे पार्व्वणयोग्यतया
घटिकाया मुहूर्त्तात्मकत्वस्यावश्यमङ्गीकारात्
तात्पर्य्यलाघवेन व्रतादावपि तथात्वम् ।
“घटिकैकाप्यमावास्याप्रतिपत्सु न चेद्यदा ।
सर्व्वं तदासुरं दानं दैवे कर्म्मणि चोदितम् ॥”
इति घटिकान्यूने निन्दामभिधाय घटिकालाभे
कर्म्मार्हेति वक्तव्ये मुहूर्त्तमप्यमावास्याप्रतिपत्सु
भवेद्यदा । तद्दानमुत्तमं ज्ञेयं शेषं पूर्ब्बं हि
पूर्ब्बवदित्यनेन मुहूर्त्तलाभे कर्म्मार्हत्वज्ञापनाच्च ।
तत्रापि मुहूर्त्तः किं तत्तद्दिवारात्रिपञ्चदशांश
उत दण्डद्वयम् । नाद्यः प्रतिदिनदिवारात्र्यो-
र्ह्रासवृद्धिभ्यां तद्भागानामपि न्यूनाधिक्याद्विधि-
भेदापत्तेः । नापि द्वितीयः दण्डद्वयस्य त्रिंशद्
दण्डात्मकदिवारात्रिपञ्चदशांशस्य मुहूर्त्तत्वञ्च
दण्डद्वयाधिकन्यूनकालानामपि त्रिंशद्दण्डा-
धिकन्यूनदिवारात्रिपञ्चदशांशानां मुहूर्त्तत्व-
प्रतिपादनेन विनिगमनाविरहात् किन्त्वन्त-
रङ्गतया कर्म्माङ्गदिवारात्र्यन्यतरपञ्चदशांशस्य
ग्रहणप्रसक्तौ अयनांशक्रमेणोत्तरायणपूर्ब्बाह-
दिनमानसपादषड्विंशतिदण्डानां पञ्चदशां-
शस्य पादोनदण्डद्वयस्य मुहूर्त्तत्वात्तद्दिनविहित-
क्रियायां तावन्न्यूनकालस्यापि ग्रहणात् सर्व्वत्र
न्यूनकालव्यवच्छेदे आवश्यकतया तस्यैव पादोन-
दण्डद्वयात्मकस्य मुहूर्त्तस्य ग्रहणं लाघवात् ।
“यदा चतुर्द्दशीयामं तुरीयमनुपूरयेत् ।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ॥”
इति कात्यायनोक्तस्य चतुर्द्दशीसम्बन्धिदिन-
चतुर्थयाममात्रव्याप्यमावास्यायां श्राद्धविधा-
नस्य मत्स्यपुराणोक्तमुख्यापराह्णीयमुहूर्त्ताबाधेन
विषयलाभाय पादोनदण्डद्बयात्मकमुहूर्त्तग्रहण-
स्यावश्यकत्वाच्च । तादृशामावास्यायां तद-
धिकमुख्यापराह्णासम्भवात् । तत्र च मुख्या-
पराह्णीयपादोनदण्डद्वयात्मकदर्शलाभस्तु चत्वा-
रिंशत्पलाधिकत्रयस्त्रिंशद्दण्डात्मकदिवस एव ।
अत एव स्मार्त्तभट्टाचार्य्यैरपि यदा चतुर्द्दशी-
याममित्यस्य व्याख्याने तिथ्यादितत्त्वे तथा
लिखितम् । न च निरूढलक्षणातो रूढशक्ते-
र्बलवत्त्वात् । तास्तु त्रिंशत्क्षणस्ते तु मुहूर्त्तो
द्वादशास्त्रियाम् । ते तु त्रिंशदहोरात्र इत्य-
मरोक्तो द्वादशक्षणात्मकः अहोरात्रत्रिंशांशो
दण्डद्वयरूपमुहूर्त्तो लाघवतः सर्व्वत्रानुगततया
न्यूनकालव्यवच्छेदको वक्तव्य इति वाच्यं निरूढ-
लक्षणापि शक्तितुल्येति शाब्दिकस्मरणात्
स्मार्त्तत्वेनान्तरङ्गेति सन्निहिते बुद्धिरन्तरङ्गेति-
न्यायाच्च निरूढलक्षणाया एव बलवत्त्वात् ।
दक्षिणः सपवित्रक इत्यत्र पवित्रपदस्य कुश-
गतकोषोक्तरूढिशक्त्यपेक्षया विशिष्टकुशपत्र-
द्बयगतकात्यायनोक्तनिरूढलक्षणाया इव ।
निरूढलक्षणायाः शक्तितुल्यत्वन्तु रूढशक्तेरिव
पृष्ठ ३/७५५
शक्यार्थबाधज्ञानं शक्यसम्बन्धज्ञानञ्च विना पद-
तात्पर्य्यज्ञानानुपदमेव पदार्थोपस्थापकत्वात् ।
सा च निरूढलक्षणा क्वचित्तात्पर्य्यबोधक-
शास्त्रात् क्वचिच्चार्षप्रयोगतोऽनुमानादपि निर्णी
यते । वस्तुतस्तु द्युनिशोः पञ्चदशांशाश्रित-
स्मृत्युक्तनिरूढमुहूर्त्तपदलक्षणा विनिगमना-
विरहगौरवाभ्यामेव कुण्ठिता अतोऽत्यन्तन्यून-
पादोनदण्डद्वयात्मकमुहूर्त्तग्रहणं अशक्यमेव ।
अथात्यन्तन्यूनतया सर्व्वानुगमाय तद्ग्रहणमिति
चेत् अत्यन्ताधिकतया सपाददण्डद्वयात्मक-
मुहूर्त्तस्यैव कुतो न ग्रहणं स्यात् तस्मात्
“प्रभाते घटिकायुग्मं प्रदोषे घटिकाद्बयम् ।
दिनवत् सर्व्वकार्य्याणि कारयेन्न विचारयेत् ॥”
इति लघुहारीतवचनत्रियामां रजनीं प्राहु
स्त्यक्वाद्यन्तचतुष्टयम् । नाडीनान्तदुभे सन्ध्ये
दिवसाद्यन्तसंज्ञित इति ब्रह्मवैवर्त्तवचनयोरेक-
दण्डद्वयात्मककाले घटिकापदनिरूढलक्षणासिद्धौ
तया पर्य्यायद्वारा कोषोक्तरूठ्या च समञ्जसतः
पार्व्वणयोग्यदण्डद्बयात्मककाल एव घठिका-
पदादुपस्थाप्यते अतः सर्व्वसाधारण्येन न्यून-
कालव्यवच्छेदाय सैव ग्राह्या लाघवात् ।
अतएव यदा चतुर्द्दशीयामं तुरीयमनुपूरये-
दत्यत्र यदा यत्र दिने अमावास्यामुख्यापराह्णीय-
दण्डद्वयान्यूनकालव्यापनं यथा स्यात्तथैव चतु-
र्द्दशीयामं तद्युक्ततृतीययाममनुलक्षीकृत्य तत्र
प्रवृत्य चतुर्थयामं पूरयेत् व्याप्नोतीत्यन्वयः ।
अन्यथा चतुर्द्दशमुहूर्त्ताधिकपूरणाभिधानं व्यर्थं
स्यात् । एतेनैव दर्शश्राद्धेऽपि मुख्यापराह्णादरः
कार्य्यः । प्रातःकालादिपञ्चधाविभागे कुत-
पादिसंज्ञायाञ्च दिनमानपञ्चदशांशमुहूर्त्तस्यैव
स्यैव ग्रहणम् । तद्बोधकशास्त्रसंवादात् । अत
एकोदिष्टे दिनमानपञ्चदशांशमुहूर्त्तो योग्य-
तया च न्यूनकालव्यवच्छेदको ग्राह्यः । कुतप
रौहिणान्यतरमांत्रग्राहकयुक्तेः । एवं विशेषा-
भिधानात् सुखरात्रौ दण्डमात्रं जन्माष्टम्पे-
कादशीद्बादशीषु च कलाकाष्ठारूपोऽपि प्रति-
ष्ठादौ तूक्तयुक्त्या । स्वयोग्यकाल एव न्यूनकाल-
व्यवच्छेदको ग्राह्यः । ततश्च विशेषकालप्राप्त-
कर्म्मतरकर्म्मणः प्रशस्तादिकाले स्वयोग्य-
दण्डद्वयान्यूनकतिथिरेव ग्राह्येत्यनुगतविधिः
सर्व्वसामञ्जस्यादिति तत्त्वम् । इति चन्द्रशेखर-
वाचस्पतिकृतद्वैतनिर्णयः ॥

मुहेरः, पुं, (मुह्यति विचित्तीभवतीति । मुह +

“मूलेरादयः ।” उणा० १ । ६२ । इति एरक् ।)
मूर्खः । इति संक्षिप्तसारोणादिवृत्तिः ॥

मू ङ बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

सक० सेट् ।) पवर्गपञ्चमादिः । ङ मवते ।
इति दुर्गादासः ॥

मूः, [र्] स्त्री, मूर्च्छा । इति मूर्च्छधातोर्भावे

क्विवा निस्पन्नम् । इति मुग्धबोधव्याकरणम् ॥

मूः, स्त्री, (मव्यते इति । मन + क्विप् । “ज्वर-

त्वरश्रिव्यविमवामुपधायाश्च ।” ६ । ४ । २० । इति
साचोवकास्योठ् इत्यादेशः ।) बन्धनम् । इति
सिद्धान्तकौमुदी ॥

मूकः, त्रि, (मव्यते बध्यतेऽसौ । मव + बाहुलकात्

कक् ।” उणा० ३ । ४१ । इति उपधायाया
वकारस्य चोठ् ।) वाक्यरहितः । वोवा इति
भाषा । तत्पर्य्यायः । अवाक् २ । इत्यमरः ।
३ । १ । १३ । (यथा, महाभारते । २ । ५ ।
१२५ ।
“कच्चिदन्धांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान् ।
पितेव पासि धर्म्मज्ञ ! तथा प्रव्रजितानपि ॥”
अस्योत्पत्तिहेतुर्यथा, गर्भवैकृत्यात्
“गर्भो वातप्रकोपेण दौर्हृदे चावमानिते ।
भवेत् कुब्जः कुणिः पङ्गुर्मूको मिण्मिण एवच ॥”
इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥
रोगत्वेनास्य विषयो यथा, --
“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ।
नरान् करोत्यक्रियकान् मूकमिण्मिण गद्-
गदान् ॥”
इति च तत्र निदानस्थाने प्रथमेऽध्याये ॥)

मूकः, पुं, (मव्यते बध्यते जालिकैरिति । मव +

कक् । पूर्व्ववत्सर्वम् ।) मत्स्यः । इति त्रिकाण्ड-
शेषः ॥ दैत्यः । इति मेदिनी । के, ३१ ॥
(दानवभेदः । यथा, महाभारते । ३ । ३९ । ७ ।
“स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्म्मणः ।
मूकं नाम दनोः पुत्त्रं ददर्शाद्भुतदर्शनम् ॥”)
दीनः । इति हेमचन्द्रः । ३ । १३ । (तक्षक-
पुत्त्रः । यथा, महाभारते । १ । ५७ । १० ।
“शिली शलकरो मूकः सुकुमारः प्रवेपनः ।
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ॥
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥”)

मूढः, त्रि, (मूह + क्तः ।) मूर्खः । इत्यमरः ।

३ । १ । ४८ ॥ (यथा, पञ्चदश्याम् । ७ । १० ।
“अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः ।
एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते ॥”)
बालः । तन्द्रितः । इति मेदिनी । ढे, ३ ॥ जडः ।
इति हेमचन्द्रः ॥

मूतः, त्रि, (मव मू मूर्व वा क्तः ।) बद्धः । इत्य-

मरः । ३ । १ । ९५ ॥ (धान्यरक्षणार्थं तृणमय
आधारविशेषः । यथा, शतपथब्राह्मणे । २ ।
६ । २ । १७ । “तान् द्वयोर्मूतकयोरुपनह्य
वेणुयष्ट्यां वा कुपे वोभयत आबध्योदं परेत्य यदि
वृक्षं वा स्थाणुं वा वेणुं वा वल्मीकं वा
विन्देत् ॥” ‘यत्र तृणमये आवपने धान्यं बध्यते
तन्मूतं मूतमेव मूतकम् । वेणुमय्यां यष्ट्यामुभ-
यतः बद्ध्वा ।’ इति तद्भाष्ये महीधरः ॥)

मूत्र, त् क प्रस्रावे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-उभ०-सक०-सेट् ।) दीर्घी । मूत्रयति
मूत्रापयति । इति दुर्गादासः ॥

मूत्रं, क्ली, (मूत्र्यते इति । मूत्र + घञ् । लोका-

श्रयत्वात् क्लीवत्वम् । यद्बा, सुच्यते त्यज्यते इति ।
मूच + “सिविमुच्योष्टेरू च ।” उणा० ४ । १६२ ।
इति ष्ट्रन् किद्भवति । टेरूकारादेशः ।)
उपस्थनिर्गतजलम् । तत्पर्य्यायः । प्रस्रावः २ ।
इत्यमरः । २ । ६ । ६७ ॥ मेहनम् ३ । इति
जटाधरः ॥ गुह्यनिस्यन्दः ४ स्रवणम् ५ स्रवः
६ । इति राजनिर्घण्टः ॥ * ॥ (अस्योत्पत्ति-
विषयो यथा, --
“आहारस्य रसः सारः सारहीनो मलद्रवः ।
शिराभिस्तज्जलं नीतं वस्तौमूत्रत्वमाप्नुयात् ॥”
इति पूर्ब्बखण्डे चतुर्थेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“विस्तिपूरणविक्लेदकृन्मूत्रम् ।”
तथास्य क्षयवृद्धिलक्षणं यथा, --
“मूत्रक्षये वस्तितोदोऽल्पमूत्रता च ।”
“मूत्रं मुहुर्मुहुः प्रवृत्तिं वस्तितोदमाध्मानश्च ।”
इति सुश्रुते सूत्रस्थाने पञ्चदशेऽध्याये ॥
तथास्य दोषादि विकृतस्य परीक्षा लक्षणम् ॥
“वातेन पाण्डुरं मूत्रं रक्तनीलञ्च पित्ततः ।
रक्तमेव भवेद्रक्तात् धवलं फेनिलं कफात् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)
तस्योत्सर्गविधिर्यथा, --
“दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्य्यान्मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः ॥”
इति गारुडे ९४ अध्यायः ॥
अपि च ।
“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥
इति मनुः । ४ । ५० ॥
“कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रे च गृही कुर्य्याद् यद्बा कर्णे समा-
हितः ॥”
इति यमः ॥
यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा अवगुण्ठित
इति । कर्णे दक्षिणकर्णे । इति सांख्यायनः ॥
“छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
यथासुखमुखः कुर्य्यात् प्राणबाधभयेषु च ॥ * ॥
न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ।
न फालकृष्टे न जले न चित्यां न च पर्व्वते ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥
न नदीतीरमासाद्य न च पर्व्वतमस्तके ।
वाय्वग्निविप्रानादित्यमपः पश्यंस्तथेव गाः ।
न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्जनम् ॥”
इति मनुः । ४ । ४५ -- ४८ ॥ * ॥
“आहारनिर्हारविहारयोगाः
सुसंवृता धर्म्मविदा तु कार्य्याः ।
वाग्गुप्तिकार्य्याणि तपस्तथैव
धनायुषी गुप्ततमे तु कार्य्ये ॥”
इति वशिष्ठः ॥
निर्हारो मूत्रपुरीषोत्सर्गः ॥ * ॥
“सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च न संमुखे ।
कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥”
इति विष्णुपुराणम् ॥
न च सोपानत्को मूत्रपुरीषे कुर्य्यादिति ।
इत्यापस्तम्बः ।
पृष्ठ ३/७५६
“करगृहीतपात्रेण कृत्वा मूत्रपुरीयके ।
मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत् ॥”
इति बृहम्मनुः ॥ * ॥
गृहीतजलपात्रस्य मूत्रोत्मर्गे दोषो यथा, --
“वारिपात्रं करे धृत्वा मूत्रं त्यजति यो नरः ।
सुरापात्रसमं पात्रं तज्जलं मदिरासमम् ॥”
इति कर्म्मलोचनम् ॥ * ॥
सशब्दमूत्रस्य दोषो यथा, --
“निःस्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया ।
भोगाढ्याः समजठरा निःस्वाः स्युर्घट-
सन्निभाः ॥”
इति गारुडे ६३ अध्यायः ॥ * ॥
“विष्णुक्रान्ताजमूत्रेण चौरव्याव्रादिरक्षणम् ।”
इति तत्रैव १८८ अध्यायः ॥ * ॥ अथ गोमूत्र-
गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । लवणत्वम् ।
पित्तकारित्वम् । कटुत्वम् । लघुत्वम् । रूक्ष-
त्वम् । कृम्युदरानाहशोथार्शोविषकुष्ठनाशि-
त्वञ्च । इति राजवल्लभः ॥

मूत्रकृच्छ्रं, क्ली, (मूत्रे कृच्छ्रम् । मूत्रजन्यं

कृच्छ्रमिति वा ।) रोगविशेषः । तत्पर्य्यायः ।
मूत्ररोघः २ अश्मरी ३ कृच्छ्रम् ४ । इति
राजनिर्घण्टः ॥ * ॥ अथ मूत्रकृच्छ्राधिकारः ।
तत्र मूत्रकृच्छ्रस्य विप्रकृष्टं निदानमाह ।
“व्यायामतीक्ष्णौषधरूक्षमद्य-
प्रसङ्गनृत्यद्रुतपृष्ठयानात् ।
आनूपमत्स्याध्यशनादजीर्णात
स्युर्मूत्रकृच्छ्राणि नृणां तथाष्टौ ॥”
तीक्ष्णौषधं राजिकाशूरणादियुक्तम् । रूक्षेति
मद्यविशेषणम् । प्रसङ्गः सततं सेवा । नृत्यं
नर्त्तनम् । नित्येति द्विविधः पाठः । द्रुतपृष्ठ-
यानात् अश्वादिना गमनात् । आनूपं प्रचुर-
जलदेशभवं भक्ष्यम् । अष्टौ वातिकपैत्तिक-
श्लैष्मिकसान्निपातिकशल्यजपुरीषजशुक्रजाश्मरी
जानि । तस्य संप्राप्तिपूर्ब्बकं लक्षणमाह ।
“पृथङ्मलाः स्वैः कुपिता निदानैः
सर्व्वेऽथवा कोपमुपेत्य वस्तौ ।
मूत्रस्य मार्गं परिपीडयन्ति
यदा तदा मूत्रयतीह कृच्छ्रात् ॥”
तेषु वातिकमाह ।
“तीव्रा रुजो वङ्क्षणवस्तिमेढ्रे
स्वल्पं मुहुर्मूत्रयतीह वातात् ।”
तीव्रा मारणात्मिका वङ्क्षणावूरुमेढ्राणामन्त-
रालसन्धी ॥ * ॥ पैत्तिकमाह ।
“पीतं सरक्तं सरुजं सदाहं
कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ।”
कृच्छ्रमिति क्रियाविशेषणम् ॥ श्लैष्मिकमाह ।
“वस्तेः सलिङ्गस्य गुरुत्वशोथौ
मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ।”
सपिच्छं पिच्छिलम् ॥ सान्निपातिकमाह ।
सर्व्वाणि रूपाणि च सन्निपातात्
भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम् ॥”
कृच्छ्रं मूत्रकृच्छ्रम् ॥ * ॥ शल्यजमाह ।
“मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा ।
मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ॥
वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्द्दिशेत् ।”
मूत्रवाहिषु स्रोतःसु । शल्येन कण्टकेन । क्षतेषु
सक्षतीकृतेषु अथवा अभिहतेषु मुद्गरादिभि-
रभिहतेषु । तदाघातात् मूत्रमार्गाघातात्
मूत्रकृच्छ्रं जायते । भृशदारुणं मारकं तस्य
शल्यजस्य ॥ * ॥ पुरीषजमाह ।
“शकृतस्तु प्रतीघाताद्बायुर्विगुणतां गतः ।
आध्मानं वातशूलञ्च मूत्रकृच्छ्रं करोति च ॥”
प्रतीघातात् निरोधात् । विगुणतां दुष्टताम् ॥
शुक्रजमाह ।
“शुक्रदोषैरुपहते मूत्रमार्गे विधारिते ।
सशुक्रं मूत्रयेत् कृच्छ्राद्वस्तिमेहनशूलवान् ॥”
उपहते दूषिते ॥ * ॥ अश्मरीजमाह । अश्मरी-
हेतुकञ्चापि मूत्रकृच्छ्रमुदाहृतम् । सुश्रुतैः
शर्कराजमपि मूत्रकृच्छ्रमुक्तमत्र तु तस्य नव-
संख्यानिरासार्थमश्मरीशर्करयोः साम्यमाह ।
“अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे ।
विशेषणं शर्करायाः शृणु कीर्तयतो मम ॥”
सम्भवः कारणम् ।
“पच्यमानाश्मरी पित्ताच्छोष्यमाणा च
वायुना ।
विमुक्तकफसन्धाना क्षरन्ती शर्करा मता ॥”
पित्तेन पच्यमाना मूत्रशुक्रश्लेष्मसंहतिः प्रथमं
पित्तेन बन्धनकर्म्मणा पच्यमाना । पश्चाद्बातेन
शोषिता कफेनाश्लिष्टा अश्मरी । सैव विमुक्त
कफसन्धाना त्यक्तकफाश्लेषा सती शर्करारूपा
मूत्रमार्गात् क्षरन्ती शर्करा मता । एतावता
किञ्चिदेव भेदः ॥ * ॥ शर्कराया उपद्रवानाह ।
“हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः ।
तया भवति मूर्च्छा च मूत्रकृच्छ्रञ्च दारुणम् ॥”
शूलं कुक्षावित्यन्वयः । तया शर्करया ॥ * ॥
अथ मूत्रकृच्छ्रस्य चिकित्सा ।
“त्रिकण्टकारग्वधदर्भकाश-
यवासधात्रीगिरिभेदपथ्याः ।
विघ्नन्ति पीता मधुनाश्मरीञ्च
समीपमृत्योरपि मूत्रकृच्छ्रम् ॥”
त्रिकण्टादिक्वाथः ॥ १ ॥
“एलाश्मभेदकशिलाजतुगोक्षुराणा-
मेर्व्वारुबीजलवणोत्तमकुङ्कुमानाम् ।
चूर्णानि तण्डुलजले तुलितानि पीत्वा
प्रत्यक्षमृत्युरपि जीवति मूत्रकृच्छ्री ॥”
एलादिचूणम् ॥ २ ॥
“अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम् ।
मूत्रकृच्छ्रं निहन्त्याशु संलीढं दिवसत्रयात् ॥ ३ ॥
गुडेन मिश्रितं क्षीरं कटूष्णं कामतः पिबेत् ।
मूत्रकृच्छ्रेषु सर्व्वेषु शर्करायाञ्च नित्यश ॥ ४ ॥
धात्रीरसञ्चेक्षुरसं पिबेद्वा
कृच्छ्रे सरक्ते मधुना निमिश्रम् ।
शल्याभिघातोत्थितमूत्रकृच्छ्रे
कार्य्या क्रिया मारुतकृच्छ्रतुल्या ॥ ५ ॥
क्वाथो गोक्षुरबीजस्य यवक्षारसमन्वितः ।
पीतः प्रशमयत्येव कृच्छ्रं विड्धारणोत्थितम् ॥ ६ ॥
त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम् ।
वारिणा लवणीकृत्य पिबेन्मूत्ररुजापहम् ॥” ७ ॥
कोलं वदरम् ।
गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम् ।
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रहरं परम् ॥ ८ ॥
सपादशाणतुलितो यवक्षारः सितायुतः ।
भक्षितो नाशयत्येव मूत्रकृच्छ्रं न संशयः ॥ ९ ॥
द्राक्षासितोपलाकल्कः पीतः कर्षमितो नरैः ।
मस्तुना पलमात्रेण मूत्रकृच्छ्रं व्यपोहति ॥ १० ॥
समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः ।
नाशयेन्मूत्रकृच्छ्राणि तथैवोष्णसमीरणम् ॥” ११ ॥
उष्णसमीरणं उष्णवातं मूत्राघातविशेषम् ।
इति भावप्रकाशः ॥ (तथास्य चिकित्सा-
प्रकारान्तरम् ।
“सुशीतलं जलं कर्षमात्रं स्यात् मूत्रकृच्छ्रहृत् ।
दध्यम्बुना च संमिश्रमयश्चूर्णं सुखप्रदम् ॥
मूत्रकृच्छ्रे यवक्षारचूर्णं हिङ्गुप्रयोजितम् ।
कुष्माण्डञ्च समादाय शर्करासहितं पिबेत् ॥
यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः ॥”
“आरग्वधफलं मूलं दुरालभा धान्यकशता-
वर्य्यः ।
पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात् ॥”
इति हारीते चिकित्सितस्थाने २९ अध्याये ॥
अथात्र पथ्यानि ।
“अथो यथादोषमयं गणोऽपि
पुरातना लोहितशालयश्च ।
तक्रं पयो दध्यपि गोप्रसूतं
धन्वामिषं मुद्गरसाः सिता च ॥
पुराणकुष्माण्डफलं पटोलं
महार्द्रकं गोक्षुरकः कुमारी ।
गुवाकखर्ज्जू रकनारिकेल-
तालद्रुमाणाञ्च शिरांसि पथ्या ॥
तालास्थिमज्जात्रपुषं त्रुटिश्च
शीतानि पानान्यशनानि चापि ।
प्रनीरनीरं हिमबालुका च
मित्रं नृणां स्यात् सति मूत्रकृच्छ्रे ॥”
अथापथ्यानि ।
“मद्यं श्रमं निधुवनं गजवाजियानं
सर्व्वं विरुद्धमशनं विषमाशनञ्च ।
ताम्बूलमत्स्यलवणार्द्रकतैलभृष्टं
पिन्याकहिङ्गुतिलसर्षपवेगरोधान् ॥
माषान् करीरमतितीक्ष्ण विदाहिरूक्ष-
मम्लञ्च मुञ्चतु जनः सति मूत्रकृच्छ्रे ॥”
इति वैंद्यकपथ्यापथ्यविधिग्रन्थे मूत्रकृच्छ्राधि-
कारे ॥)

मूत्रदोषः, पुं, (मूत्रस्य दोषो यस्मात् ।) प्रमेहः ।

इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । सूत्र-
स्थाने ३८ अः ।
“परुषकादिरित्येष गणोऽनिलविनाशनः ।
मूत्रदोषहरो हृद्यः पिपासावो रुचिप्रदः ॥”
पृष्ठ ३/७५७
मूत्राघातादिः । अस्य चिकित्सा यथा, --
“निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् ।
मूत्रदोषहरं कल्कमथवा क्षौद्रसंयुतम् ॥”
“अत ऊर्द्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ।
स्नेहस्वेदोपपन्नानां हितन्तेषु विरेचनम् ॥
ततः संशुद्धदेहानां हिताश्चोत्तरवस्तयः ॥”
“क्षौद्रार्द्धपात्रं दत्त्वा तु पात्रन्तु क्षीरसर्पिषोः ।
स्वयङ्गुप्ताफलञ्चैव तथैव क्षुरकस्य च ॥
पिप्पलीचूर्णसंयुक्तमर्द्धभागं प्रदापयेत् ।
एतदैकध्यमानीय खजेनाभिप्रमन्थयेत् ॥
तस्य पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ।
एतत्सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा ॥
मूत्रदोषान् जयेत् सर्व्वानन्ययोगैः सुदुर्ज्जयान् ।
जयेत् शोणितदोषांश्च बन्ध्या गर्भं लभेत च ।
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ॥”
इत्युत्तरतन्त्रेऽष्टपञ्चाशत्तमेऽध्याये सुश्रुतेनोक्तम् ॥)

मूत्रनिरोधः, पुं, (मूत्रस्य निरोधः । यद्बा मूत्रं

निरुणद्धीति । रुध् + अण् ।) मूत्रप्रतिबन्धक-
रोगविशेषः । अस्य चिकित्सा यथा, --
“पिष्टं वै मालतीमूलं ग्रीष्मकाले समाहृतम् ।
साधितं छागदुग्धेन पीतं शर्करयान्वितम् ।
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम् ॥”
इति गारुडे १९१ अध्यायः ॥
(चिकित्सान्तरं यथा, --
“तैलेन पद्मिनीकन्दं पक्वगोमूत्रमिश्रितम् ।
पिबेन्मूत्रनिरोधे तु सतीव्रवेदनान्विते ॥”
इति हारीते चिकित्सितस्थाने त्रिंशेऽध्याये ॥)

मूत्रपतनः, पुं, (मूत्रस्य पतनमस्मात् पुरीष-

निरोधकरणादस्य सततमूत्रपतनात् तथा-
त्वम् ।) गन्धमार्जारः । इति राजनिर्घण्टः ॥

मूत्रपुटं, क्ली, (मूत्रस्य पुटम् ।) नाभेरधो भागः ।

यथा, --
“नाभेरधो मूत्रपुटं वस्तिर्मूत्राशयोऽपि च ।”
इति हेमचन्द्रः । ३ । २७० ॥

मूत्रफला, स्त्री, (मूत्रं मूत्रवर्द्धनं फलं परिणमन-

मस्याः ।) कर्कटी । त्रपुषी । इति राजनिर्घण्टः ॥
(कर्कटीत्रपुषीशब्दयोरस्या विषयो ज्ञेयः ॥)

मूत्रलं, क्ली, (मूत्रं लाति आदत्ते वर्द्धयतीत्यर्थः ।

ला + कः ।) त्रपुषम् । इति शब्दचन्द्रिका ॥
मूत्रवर्द्धके, त्रि ॥ (यथा, सुश्रुते । सूत्र-
स्थाने । ४५ अः ।
“जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः ।
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥”)

मूत्रला, स्त्री, (मूत्रल + टाप् ।) कर्कटी । इति

त्रिकाण्डशेषः ॥ बालुकी । इति राजनिर्घण्टः ॥

मूत्राघातः, पुं, (मूत्रस्याघातो निरोधो येन ।)

प्रस्रावरोधकरोगविशेषः । अथ मूत्राघातस्य
विप्रकृष्ट सन्निकृष्टञ्च निदानं संख्याञ्चाह ।
“प्रायोमूत्रविघाताद्यैर्व्वातकुण्डलिकादयः ।
जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश ॥”
मूत्रविघाताद्यैरित्याद्यशब्देन पुरीषशुक्रादिवेग-
विघातानां रूक्षाशनादीनाञ्च ग्रहणम् । मूत्र-
विघाताद्यैः कुपितैर्दोषैरित्यन्वयः । ननु मूत्र-
कृच्छ्रमूत्राघातयोः को भेदः । उच्यते । मूत्र-
कृच्छ्रे कृच्छ्रमधिकं विबन्धोऽल्पः । मूत्राघाते तु
विबन्धो बलवान् कृच्छ्रमल्पं इत्यनयोर्भेदः ॥ * ॥
वातकुण्डलिकाया निदानं संप्राप्तिं लक्षण-
ञ्चाह ।
“रौक्ष्याद्वेगविघाताद्बा वायुर्व्वस्तौ सवेदनः ।
मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः ॥
मूत्रमल्पाल्पमथवा सरुजं संप्रवर्त्तते ।
वातकुण्डलिकां तान्तु व्याधिं विद्यात् सुदा-
रुणम् ॥”
रौक्ष्यात् कायस्य । वेगविघातात् मूत्रादि-
वेगनिरोधात् आविश्य प्रावृत्य रौक्ष्यादिभि-
र्वेगविघातादिभिश्च विगुणो दुष्टः कुण्डलीकृतो
वायुर्वस्तौ मूत्राशये चरति प्रतिधावति
आबद्धत्वाद्भ्रमंस्तिष्ठति इत्यर्थः । वात्यावत् ।
मूत्रमिति तस्मान्मूत्रमल्पमल्पं सव्यथं प्रवर्त्तते ।
तद्ब्याधिं वातकुण्डलिकामाहुः । सुदारुणम् ।
मारणात्मकत्वात् ॥ १ ॥ * ॥ अष्ठीलामाह ।
“आध्मापयन् वस्तिगुदं रुद्ध्वा वातश्चलोन्नताम् ।
कुर्य्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ॥”
वातः वस्तिगुदं रुद्ध्वा अर्थात् तदन्तर्गतं मूत्रं
मलञ्च निरुध्य वस्तिगुदं वस्तिं गुदञ्च आध्मा-
पयन् आध्मानं कुर्व्वन् अष्ठीलां ष्ठीलातुल्यां
व्याधिं कुर्य्यात् । चलोन्नतां चलां उन्नताञ्च ॥ २ ॥
वातवस्तिमाह ।
“वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः ।
निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ॥
मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः ।
वातवस्तिः स विज्ञेयो व्याधिः कष्टप्रसाधनः ॥”
अकुशलो मूर्खः । तस्य पुरुषस्य वस्तिमुखं
निरुणद्धि वस्तिगतो वायुः । तेन वायुना
मूत्रसङ्गो मूत्रविघातो भवति वस्तिकुक्षिनिपी-
डित इति वस्तौ कुक्षौ च निपीडितः संपी-
डितो वायुरिति सम्बन्धः ॥ ३ ॥ मूत्रातीतमाह ।
“चिरं धारयते मूत्रं त्वरया न प्रवर्त्तते ।
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ॥”
मेहमानस्य मूत्रमुत्सृजतः । मन्दं वा अल्पं
वा ॥ ४ ॥ * ॥ मूत्रजठरमाह ।
“मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः ।
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ॥
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनाम् ।
तं मूत्रजठरं विद्यादधोवस्तिनिरोधनम् ॥”
तदुदावर्त्तहेतुक इति मूत्रवेगधारणगणितो-
दावर्त्तनिदानमाध्मानं कुर्य्यात् । अधोवस्ति-
निरोधनं वस्तेरधोदेशे विबन्धकारकम् ॥ ५ ॥
मूत्रोत्सङ्गमाह ।
“वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः ।
मूत्रं प्रवृत्तं सज्येत सरक्तं वा प्रवाहतः ॥
स्रवेच्छनैरल्पमल्पं सरुजं वाथ नीरुजम् ।
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ॥
नाले मेढ्रे मणौ मेहनाग्रग्रन्थौ सज्येत निरुद्धं
स्यात् सरक्तं सत् वा प्रवर्त्तते । प्रवाहत इति
कण्ठहृद्बलेन सशब्दं मूत्रपुरीषवातानामधः
प्रेरणं प्रवाहनं तेन कुपितेन वायुना वस्त्यादि-
भेदात् सरक्तं मूत्रं स्रवेदित्यर्थः ॥ ६ ॥ मूत्रक्षय-
माह ।
“रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ ।
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ॥”
क्लान्तदेहस्य म्लानदेहस्य तदाह्वयं मूत्रक्षय-
संज्ञम् ॥ ७ ॥ मूत्रग्रन्थिमाह ।
“अन्तर्व्वस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् ।
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ॥”
अन्तर्व्वस्तिसुखे वस्तिमुखस्याभ्यन्तरे अल्पः
क्षुद्रामलकप्रमाणः । नन्वस्य अश्मर्य्या सह को
भेदः । उचय्ते । अश्मरी क्रमशः सञ्चयेन
स्यादयन्तु सहसा भवेदिति भेदः । अपरो
भेदः । अश्मर्य्यां पित्तादिकं संहन्यते अत्र तु
रक्तमेव । यत उक्तं तन्त्रान्तरे ।
“रक्तं वातकफाद्दुष्टं वस्तिद्वारे सुदारुणम् ।
ग्रन्थिं कुर्य्यात् स कृच्छ्रेण सृजेन्मूत्रं तदा-
वृतम् ॥” ८ ॥ इति ॥
मूत्रशुक्रमाह ।
“मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्गतम् ।
स्थानच्युतं मूत्रयतः प्राक् पश्चाद्बा प्रवर्त्तते ।
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥”
मूत्रितस्य मूत्रवेगयुक्तस्य शुक्रं स्थानात् च्युतं
पश्चाद्वायुना उद्गतं ऊर्द्ध्वं नीतम् । भस्मोदक-
प्रतीकाशं भस्मसहितजलसदृशम् । ९ ॥ उष्ण-
वातमाह ।
“व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिला-
वृतम् ।
वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः ॥
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ।
कृच्छ्रं पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम् ॥”
व्यायामादिविरोधत्वेन सौम्यधातुक्षयात् तेजो-
वृद्ध्या पित्तवृद्धिः स्यात्तत्कुपितं पित्तं असंयुतं
वस्तिं प्राप्य वस्त्यादिकं प्रदहत् मूत्रमधः
स्रावयेत् । कीदृशं हारिद्रं अथवा सरक्तं
ईषल्लोहितम् ॥ १० ॥ मूत्रसादमाह ।
“पित्तं कफो द्बावपि वा संहन्येतेऽनिलेन चेत् ।
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥
सरक्तं रोचनाशङ्खचूर्णवर्णं भवेत्ततः ।
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति हि ॥”
संहन्येते घनीक्रियेते । शुष्कं अल्पं समस्तवर्णं
उक्तसकलवर्णयुक्तम् ॥ ११ ॥ विड्विघातमाह ।
“रूक्षदुर्ब्बलयोर्घातेनोदावृत्तं शकृद् यदा ।
मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः ॥
विड्गन्धं मूत्रयेत् कृच्छ्राद्बिड्विघातं तमा-
दिशेत् ॥”
उदावृत्तं ऊर्द्ध्वं नीतं विड्गन्धं वा । वाशब्दो-
ऽत्र योजनीयः ॥ १२ ॥ * ॥ वस्तिकुण्डलमाह ।
“द्रुताध्वलङ्घनायासैरभिघातात् प्रपीडनात् ।
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् ॥
पृष्ठ ३/७५८
शूलस्यन्दनदाहार्त्तो बिन्दुबिन्दु स्रवत्यपि ।
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान् ॥
वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् ।
पवनप्रबलं प्रायो दुर्निरोधमबुद्धिभिः ॥
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता ।
श्लेष्मणा गौरवं शोथो मूत्रं स्निग्धं घनं सितम् ॥”
द्रुताध्वलङ्घनं शीघ्रं मार्गचलनम् । उद्वृत्तः
उत्थितः । स्यन्दनं किञ्चिच्चलनम् । घोरं
मारकम् । शस्त्रविषोपमं शस्त्रं खडगादि
तद्बच्छीघ्रमारकम् । विषमत्र गरः तद्वत्
विलम्बमारकम् । एतावता मारकमवश्यं शीघ्रं
विलम्बेन वा ॥ १३ ॥ * ॥ तस्यैवासाध्यस्य च
लक्षणमाह ।
“श्लेष्मरुद्धविलो वस्तिः पित्तोदीर्णो न सिध्यति ।
अविभ्रान्तविलः साध्यो न च यः कुण्डलीकृतः ॥
स्याद्वस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च ॥”
विलं वस्तिमुखरन्ध्रं पित्तोदीर्णः पित्तेनोद्धतः ।
अविभ्रान्तविलः कफेनावृतविलः पश्चात् कुण्डली-
कृतः स साध्यः । एतेन कुण्डलीभूतोऽसाध्यः ।
कुण्डलीभूतस्य लक्षणमाह । तृडित्यादि-
कुण्डलीभूतस्यायमर्थः । कफेन विलावरोधा-
त्तत्र वातः कुण्डलाकारेण तिष्ठतीत्यर्थः ॥ * ॥
अथ मूत्राघातस्य चिकित्सा ।
“नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलं
ससितम् ।
पिबतो नश्यति नियतं मूत्रग्रह इत्युवाच
कविः ॥”
कविः शुक्रः ।
“कर्पूररजसा युक्ता वस्त्रवर्त्तिः शनैः शनैः ।
मेढ्रमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति ॥
धान्यगोक्षुरकः क्वाथः कल्कसिद्धं हितं घृतम् ।
मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे च दारुणे ॥”
धान्यगोक्षुरकं घृतम् ।
“मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत् प्रकीर्त्तितम् ।
मूत्राघातेषु सर्व्वेषु तत् कुर्य्याद्देशकालवित् ॥”
इति मूत्राघाताधिकारः । इति भावप्रकाशः ॥
गरुडपुराणोक्तनिदानं तस्य १६३ अध्याये
द्रष्टव्यम् ॥ (तथास्य विषयः ।
“वस्तिवस्तिशिरोमेढ्रकटीवृषणपायवः ।
एकसम्बन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः ॥
अधोमुखोऽपि वस्तिर्हि मूत्रवाहिसिरामुखैः ।
पार्श्वेभ्यः पूर्य्यते सूक्ष्मैः स्यन्दमानैरनारतम् ॥
यैस्तैरेव प्रविश्यैनं दोषाः कुर्व्वन्ति विंशतिम् ।
मूत्राघातान् प्रमेहांश्च कृच्छ्रान्मर्म्मसमाश्रयान् ॥”
इति वाग्भटे निदानस्थाने नवमेऽध्याये ॥
अथास्य पथ्यापथ्यानि ।
“अभ्यञ्जनस्नेहविरेकवस्ति-
स्वेदावगाहोत्तरवस्तयश्च ।
पुरातना लोहितशालयश्च
मांसानि धन्वप्रभवानि मद्यम् ॥
तक्रं पयोदध्यपि माषयूषः
पुराणकुष्माण्डफलं पटोलम् ।
महार्द्रकं तालफलास्थिमज्जा
हरीतकीकोमलनारिकेलम् ॥
गुवाकखर्ज्जूरकनारिकेल-
तालद्रुमाणामपि मस्तकानि ।
यथामलं सर्व्वमिदञ्च मूत्रा-
घातातुराणां हितमावहन्ति ॥
विरुद्धानि च सर्व्वाणि व्यायामं मार्गशीलनम् ।
रूक्षं विदाहिविष्टम्भिव्यायामं वेगधारणम् ।
करीरं वमनञ्चापि मूत्राघाती विवर्ज्जयेत् ॥”
इति वैद्यकपथ्यापथ्यविधिग्रन्थे मूत्राघाताधि-
कारे ॥)

मूत्राशयः, पुं, (मूत्रस्याशयः आधारः ।) नाभे-

रधोदेशः । तत्पर्य्यायः । मूत्रपुटम् २ वस्तिः ३ ।
इति हेमचन्द्रः । २ । २७० ॥ (अथास्य विषयः ।
“मूत्राशये वा गुदमुष्कयोश्च
शोफो रुजा मूत्रविनिग्रहश्च ॥”
इति सुश्रुते उत्तरतन्त्रे ५५ अध्यायः ॥
यथा च तत्रैव निदानस्थाने ३ अध्याये ।
“एकसम्बन्धिनो ह्येते गुदास्थिविवरस्थिताः ।
मूत्राशयो मलाधारः प्राणायतनमुत्तमम् ॥”)

मूत्रितः, त्रि, (मूत्रमस्य संजातम् । मूत्र +

इतच् । यद्वा मूत्रयति स्म इति । मूत्र + क्तः ।)
कृतमूत्रोत्सर्गः । तत्पर्य्यायः । मीढः २ । इत्य-
मरः । ३ । १ । ९६ ॥

मूर्खः, पुं, (मुह् + “मुहेः खो मूर् च ।” उणा०

५ । २२ । इति खः धातोः मूरादेशश्च ।) माषः ।
इति त्रिकाण्डशेषः ॥ गायत्त्रीरहितः । यथा,
“क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥
क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः ।
मूर्खस्य गायत्त्रीरहितस्य । सार्थगायत्त्रीरहि-
तस्येति रुद्रधरः ॥ महारोगिणः पापरोगा-
ष्टकान्यतमरोगवतः ते च उन्मादस्त्वग्दोषो
राजयक्ष्मा श्वासो मधुमेहो भगन्दरः । उदरो-
ऽश्मरीत्यष्टौ पापरोगा नारदोक्ताः । यथेष्टा-
चरणस्य द्यूतवेश्याद्यासक्तस्य । इति शुद्धि-
तत्त्वम् ॥

मूर्खः, त्रि, (मुह् + खः । मूरादेशः ।) मुह्यति

यः । तत्पर्य्यायः । अज्ञः २ मूढः ३ यथाजातः
४ वैधेयः ५ वालिशः ६ । इत्यमरः । ३ । १ । ४८ ॥
तस्य वशीकरणोपायो यथा, --
“मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं
कार्य्येण द्बिजमादरेण युवतीं प्रेम्णा गुणै-
र्बान्धवान् ।
अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि
र्बुधं
विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्याद्-
वशम् ॥”
इति नवरत्नानि ॥
“पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥”
इति हितोपदेशः ॥

मूर्खता, स्त्री, (मूर्खस्य भावः । मूर्ख + “तस्य

भावस्त्वतलौ ।” ५ । १ । ११९ । इति तल्
टाप् ।) मूर्खत्वम् । यथा, --
“अदाता वंशदोषेण कर्म्मदोषाद्दरिद्रता ।
उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥”
इति चाणक्यम् ॥
“अष्टम्यां नारिकेलभक्षणे मूर्खत्वं यथा, --
“कलङ्की जायते विल्वे तिर्य्यग् योनिश्च निम्बके ।
ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ॥”
इति तिथ्यादितत्त्वम् ॥

मूर्खभ्रातृकः, पुं, (मूर्खो भ्रातास्येति नित्यं कप् ।)

मूर्खो भ्राता यस्य सः । इति सिद्धान्तकौमुदी ॥

मूर्च्छना, स्त्री, (मूर्च्छि + युच् । टाप् ।) गीताङ्ग-

विशेषः । सा तु ग्रामस्य सप्तमभागः । तस्या
लक्षणं एकविंशतिनामानि च यथा, --
“स्वरः संमूर्च्छितो यत्र रागतां प्रतिपद्यते ।
मूर्च्छनामिति तामाहुः कवयो ग्रामसम्भवाम् ॥
ललिता मध्यमा चित्रा रोहिणी च मतङ्गजा ।
सौवीरी षण्डमध्या च षड्जमध्यमपञ्चमा ॥
मत्सरी मृदुमध्या च शुद्धान्ता च कलावती ।
तीव्रा रौद्री तथा ब्राह्मी वैष्णवी स्वेदरी सुरा ॥
नादावती विशाला च त्रिषु यामेषु विश्रुताः ।
एकविंशतिरित्युक्ता मूर्च्छना चन्द्रमौलिना ॥
मूर्च्छनां कलयतो मुरशत्रो-
र्वंशिकाध्वनिविशेषवितानैः ।
मूर्च्छनां ययुरनङ्गशरौघै-
रङ्गना रतिपतेरिव सेनाः ॥”
इति सङ्गीतदामोदरः ॥
हनूमन्मते षड्जादिस्वरत ऋषभादिस्वरोत्थाने
यत्र स्वरो विरमति सा मूर्च्छना । भरतमते
वाद्यस्य गानस्य वा समये यत्र हस्तस्य गलस्य
वा कम्पनं सा मूर्च्छना । सा एकविंशति-
प्रकारा । तत्र षड्जग्रामस्य मूर्च्छना ललिता
१ मध्यमा २ चित्रा ३ रोहिणी ४ मतङ्गजा
५ सौवीरो ६ षण्डमध्या च ७ । मध्यमग्रामस्य
मूर्च्छना पञ्चमा १ मत्सरी २ मृदुमध्या ३
शुद्धा ४ अन्ता ५ कलावती ६ तीव्रा च ७ ॥
गान्धारग्रामस्य मूर्च्छना रौद्री १ ब्राह्मी २
वैष्णवी ३ स्वेदरी ४ सुरा ५ नादावती ६
विशाला च ७ । इति सङ्गीतशास्त्रम् ॥

मूर्च्छा, स्त्री, (मूर्च्छ् + “गुरोश्च हलः ।” ३ । ३ ।

१०३ । इति अः टाप् ।) संमोहः । तत्पर्य्यायः ।
कश्मलम् २ मोहः ३ । इत्यमरः । २ । ८ । १०९ ।
मूर्च्छनम् ४ । इति शब्दरत्नावली ॥ मूर्च्छायः
५ । अथ मूर्च्छाधिकारः । तत्र मूर्च्छाया
निदानपूर्ब्बिकां संप्राप्तिमाह ।
“क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः ।
वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ॥
करणायतनेषूग्रा वाह्येष्वभ्यन्तरेषु च ।
निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥”
बहुदोषस्य अधिकदोषस्य । न त्वनेकदोषस्य
तदा मूर्च्छा त्रिदोषजैव स्यात् तथवास्तु को
पृष्ठ ३/७५९
दोषः तन्न । पृथग्दोषजानां मूर्च्छानां वक्ष्य-
माणत्वात् । वेगाघातात् मलादौ अभिघातात्
लगुडादिना हीनसत्त्वस्य स्वल्पसत्त्वगुणस्य
अर्थादधिकतमोगुणस्य यत उक्तं मूर्च्छा पित्त-
तमःप्रायेति करणायतनेषु करणं मनस्तस्या-
यतनेषु स्थानेषु वाह्येषु कर्म्मेन्द्रियेषु । अभ्यन्त-
रेषु बुद्धीन्द्रियेषु ॥ * ॥ सामान्यं लक्षणमाह ।
“संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः ।
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् ।
मोहो मूर्च्छेति तां प्राहुः सड्विधा सा प्रकी-
र्त्तिता ॥”
तमोगुणः अज्ञानहेतुः । अभ्युपैति आगच्छति ।
सुखदुःखव्यपोहकृत् सुखदुःखज्ञाननाशकरम् ।
नष्टे सुखदुःखज्ञाने नरः काष्ठवत् पतति तां
मोहो मूर्च्छेति प्राहुरित्यन्वयः । मूर्च्छाया
मूर्च्छायोऽपि पर्य्यायः । यत उक्तम् ।
“संज्ञोपघातो मूर्च्छायो मूर्च्छा स्यान्मूर्च्छनं
तथा ।
कश्मलं प्रलयो मोहः संन्यासस्तु मृतोपमः ॥”
इति ॥
षडपि मूर्च्छा विवृणोति ।
“वातादिभिः शोणितेन मद्येन च विषेण च ।
षट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते ॥”
यत उक्तम् । मूर्च्छा पित्ततमःप्रायेति ॥ * ॥
पूर्ब्बरूपमाह ।
“हृत्पीडा जृम्भणं ग्लानिः संज्ञादौर्ब्बल्यमेव च ।
सर्व्वासां पूर्ब्बरूपाणि यथास्वं ता विभावयेत् ॥”
तत्र वातिकं मूर्च्छायमाह ।
“नीलं वा यदि वा कृष्णमाकाशमथवारुणम् ।
पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ॥
वेपथुश्चाङ्गमर्द्दश्च प्रपीडा हृदयस्य च ।
कार्श्यं श्यावारुणा छाया मूर्च्छाये वातसम्भवे ॥”
नीलं नीलवर्णम् । कृष्णं कज्जलाभम् । अरुणं
अव्यक्तरागम् । तमः प्रविशति मूर्च्छति ।
श्यावारुणा च्छाया गात्रस्य ॥ * ॥ पैत्तिकमाह ।
“रक्तं हरितवर्णं वा वियत् पीतमथापि वा ।
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ॥
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः ।
सम्भिन्नवर्च्चाः पीताभो मूर्च्छाये पित्तसम्भवे ॥”
श्लैष्मिकमाह ।
“मेघसङ्काशमाकाशं तमोभिर्व्वा घनैर्वृतम् ।
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ॥
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्म्मणा ।
सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे ॥”
मेघसङ्काशं शुभ्रमेघसङ्काशमित्यर्थः । यत आह
सुश्रुतः ।
“कफेन पश्येद्रूपाणि श्वेताभ्रप्रतिमानि तु ।”
घनैर्निविडैस्तमोभिः । गुरुभिरङ्गैरुपलक्षितः ।
सुश्रुतेन मूर्च्छायः षड्विघ उक्तः ॥ * ॥ चरकस्तु
सान्निपातिकमपि मूर्च्छायमाह ।
“सर्व्वाकृतिः सन्निपातादपस्मार इवागतः ।
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ॥”
अपस्मार इव तेन महताभिघातेन पतात
चिरेण प्रतिबुध्यते । तर्हि तयोः को भेद इत्यत
आह । स सान्निपातिको मूर्च्छायः विना बीभत्स-
चेष्ठितैः फेनवमनदन्तघट्टनाक्षिविकृत्यादिभिः
विना पातयति ॥ * ॥ रक्तजाया मूर्च्छाया
निदानमाह ।
“पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयः ।
तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः ॥”
तमोरूपं तमोबहुलम् । मानवाश्च ये तामसाः
न तु सात्त्विका राजसाश्च । अत्रैके वदन्ति
नैषा युक्तिः समीचीना तर्हि चम्पकादिगन्धे-
नापि मूर्च्छा प्रसज्येत तत्रापि गन्धस्य पार्थिव-
त्वात् । अत आह ।
“द्रव्यस्वभाव इत्येके यद्दृष्ट्वापि विमुह्यति ।”
अत्राह भोजः ।
“दर्शनादसृजस्तज्जाद्गन्धाच्चैव प्रमुह्यति ॥”
रक्तेन मूर्च्छितस्य लक्षणमाह ।
“स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासस्तु
मूर्च्छितः ।”
मद्यजविषजयोर्निदानमाह ।
“गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः ।
त एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ ॥”
ये गुणा लघुरूक्षासु विशदव्यवायितीक्ष्णा-
विकासिसूक्ष्मोष्णानिर्द्देश्यरसत्वादयः । तैलादौ
द्रव्ये व्यस्ताः तीव्राश्च सन्ति त एव गुणाः
विषमद्ययोस्तु तीव्रतरत्वेन स्थिताः । तत्रापि
भेदः । त एव मद्ये दृश्यन्ते विषे तु बलवत्तरा
इति ॥ * ॥ मद्यजाया मूर्च्छाया लक्षणमाह ।
“मद्येन प्रलपन् शेते नष्टविभ्रान्तमानसः ।
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति
तत् ॥”
नष्टविभ्रान्तमानसः नष्टं सर्व्वथा स्मृतिहीनं
विभ्रान्तं रज्जौ सर्पज्ञानयुक्तं मानसं यस्य सः ।
जरां जीर्णताम् । तत् मद्यम् ॥ * ॥ विषजाया
लक्षणमाह ।
“वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते ।
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणम् ॥”
विषस्य मूलकन्दफलपत्रक्षीरादिभेदभिन्नस्य यथा
स्वकं स्वकं लक्षणमुक्तं सौश्रुते कल्पस्थाने तल्ल-
क्षणं मद्यापेक्षया तीव्रतरं वेदितव्यम् । ननु
संज्ञानाशेन साधर्म्म्यान्मूर्च्छाभ्रमतन्द्रादीनां को
भेद इत्यत आह ।
“मूर्च्छा पित्ततमःप्रायारजःपित्तानिलाद्भ्रमः ।
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ॥”
रजःपित्तानिलाद्भ्रम इति नात्र समुच्चयः ।
केवलपित्तज्वरे भ्रमस्योक्तत्वात् । भ्रमश्चक्रारूढ-
स्येव भ्रमद्वस्तुज्ञानं स्वदेहस्य भ्रमत इव ज्ञानं
वा ॥ * ॥ तन्द्राया लक्षणमाह ।
“इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः ।
निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिर्द्दिशेत् ॥”
इन्द्रियाणामर्थः प्रयोजनं येषु तेषु अर्थाद्
विषयेषु असंवित्तिः असम्यक् ज्ञानम् । इति
इन्द्रियार्थासम्यग्ज्ञानादि । निद्रायां प्रबुद्धस्य
क्लमाभावस्तन्द्रायान्तु प्रबोधितस्यापि क्लम इत्य-
नयोर्भेदः ॥ * ॥ क्लमस्य लक्षणमाह ।
“योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः ।
क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ॥”
इन्द्रियार्थप्रबाधकः इन्द्रियाणां बुद्धीन्द्रियाणां
कर्म्मेन्द्रियाणाञ्च अर्थः प्रयोजनं विषयग्रहणं
तस्य प्रबाधकः आवल्येन ॥ * ॥ निद्रालक्षण-
माह ।
“यदा तु मनसि क्लान्ते कर्म्मात्मानः क्लमा-
न्विताः ।
विष्येभ्यो निवर्त्तन्ते तदा स्वपिति मानवः ॥”
क्लान्ते ग्लाने श्रान्त इति यावत् । कर्म्मात्मानः
कर्म्मेन्द्रियाणि ज्ञानेन्द्रियाणि च क्लमान्विताः
श्रान्ताः ॥ * ॥ संन्यासस्य संप्राप्तिपूर्ब्बकं
लक्षणमाह ।
“वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः ।
संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ॥
स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः ।
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यःफलां क्रियाम् ॥”
आक्षिप्य विनाश्य संन्यस्यन्ति मूर्च्छयन्ति ।
प्राणायतनं हृदयम् । संन्यस्तः मूर्च्छितः ।
काष्ठीभूतः क्रियारहितः । अतएव मृतोपम
इति । सद्यःफलां क्रियां सूचीव्यधनजनावपीडन-
कपिकच्छुघर्षणवृश्चिकादिदंशनादिरूपाम् ॥ * ॥
संन्यासस्य मूर्च्छातो भेदमाह ।
“दोषेषु मदमूर्च्छाया गतवेगेषु देहिनः ।
स्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना ॥”
मदमूर्च्छायाः मदः अप्रवृद्ध उन्मादः । मूर्च्छायाः
मूर्च्छाः ॥ * ॥ अथ मूर्च्छायाश्चिकित्सा ।
“सेकावगाहा मणयः सहाराः
शीताः प्रदेहा व्यजनानिलाश्च ।
शीतानि पानानि च गन्धवन्ति
सर्व्वासु मूर्च्छास्वनिवारितानि ॥”
मणयश्चन्द्रकान्तादयः । हाराः मुक्तादिहाराः ।
शीताः प्रदेहाः सकर्पूरचन्दनाद्यनुलेपनानि ।
शीतानि पानानि सितामलकादिपानकानि ।
गन्धवन्ति कर्पूरादिसुगन्धवन्ति । सर्व्वासु मूर्च्छा-
स्वनिवारितानि । अस्यायमभिप्रायः । सेकादी-
न्यासु मूर्च्छासु हितान्येव किन्तु वातश्लेष्मजा-
स्वपि मूर्च्छासु न निवारितानि । तत्रापि
पित्तस्य प्राधान्यात् ।
“सिद्धानि वर्गे मधुरे पयांसि
सदाडिमा जाङ्गलजा रसाश्च ।
तथा यवा लोहितशालयश्च
मूर्च्छासु पथ्याः ससतीनमुद्गाः ॥”
सतीनः कलायः ।
“कोलमज्जोषणोशीरं केशरं शीतवारिणा ।
पीतं मूर्च्छा जयेल्लीढा कृष्णा वा मधुसंयुता ॥
शीतेन तोयेन भृशं मृणालं
कृष्णाञ्च पथ्यां मधुनावलिह्यात् ।
पृष्ठ ३/७६०
कुर्य्याच्च नासावदनावरोधं
क्षीरं पिबेद्वाप्यथ मानुषीणाम् ॥
द्राक्षासितादाडिमलाजवन्ति
कह्वारनीलोत्पलपद्मवन्ति ।
पिबेत् कषायाणि च शीतलानि
पित्तज्वरं यानि च यापयन्ति ॥
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः ।
अञ्जनं स्यात् प्रबोधाय सरसोनशिलावचैः ॥”
अन्यच्च ।
“अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः ।
प्रमोहद्रोहि भवति भाषितं भिषजांवरैः ॥”
शिला मनःशिला । उषणं मरीचम् ।
“मधूकसारसिन्धूत्थवचोषणकणाः समाः ।
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्य्यात् संज्ञाप्रबो-
धनम् ॥”
अथ रक्तजादीनां मूर्च्छानां चिकित्सा ।
“रक्तजायान्तु मूर्च्छायां हितः शीतकृइया-
विधिः ।
मद्यजायां पिबेन्मद्यं निद्रां सेवेत वा सुखम् ।
विषजानां विषघ्नानि भेषजानि प्रयोजयेत् ॥”
अथ संन्यासस्य चिकित्सा ।
“प्रभूतदोषस्तमसोऽतिरेकात्
संमूर्च्छितो नैव विबुध्यते यः ।
संन्यस्तसंज्ञः स हि दुश्चिकित्स्यो
नरो भिषग्भिः परिकीर्त्तितोऽसौ ॥
अञ्जनान्यवपीडश्च धूमाः प्रधमनानि च ।
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ॥
लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव च ।
आत्मगुप्तावघर्षश्च हितस्तस्य प्रबोधने ॥”
अवपीडः कल्कीकृतौषधरसस्य नासापुटे
दानम् । तस्य संन्यस्तस्य ॥ * ॥ अथ मूर्च्छायां
रसः ।
“कणामधुयुतं सूतं मूर्च्छायां प्राशयेद् भिवक् ।
शीतसेकावगाहादि सर्व्वाङ्गे पीडनं हठात् ॥”
सूतं मारितम् ।
“ताम्रचूर्णं समोशीरं केशरं शीतवारिणा ।
पीतं मूर्च्छां द्रुतं हन्यात् वृक्षमिन्द्राशनिर्यथा ॥”
ताम्रचूर्णं मारितताम्रचूर्णम् ॥ * ॥ अथ भ्रमस्य
चिकित्सा ।
पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये ।
पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ॥
शुण्ठीकृष्णाशताह्वानां साभयानां पलं पलम् ।
गुडस्य षट् पलान्येषा गुटिका भ्रमनाशिनी ॥
ताम्रं दुरालभाक्वाथैः पीतन्तु घृतसंयुतम् ।
निवारवेद्भ्रमं शीघ्रं तं यथा शम्भुभाषितम् ॥”
अथ तन्द्राया अतिनिद्रायाश्चिकित्सा ।
“तुरङ्गलालालवणोत्तमेन्दु-
मनःशिलामागधिकामधूनि ।
नियोजितान्यक्ष्णि विनिश्चयेन
तन्द्रां सनिद्रां विनिवारयन्ति ॥”
इन्द्रः कर्पूरम् ।
“सैन्धवं श्वेतमरिचं सर्षपः कुष्ठमेव च ।
वस्तमूत्रेण संपिष्टं नस्यं तन्द्रानिवारणम् ॥”
श्वेतमरिचं सिग्रुबीजम् ।
“शुण्ठीकणागस्तिरसोषणानि
नस्येन तन्द्राधिजयोल्वणानि ।
क्षुद्रामृतापौष्करनागराणि
भार्गीशिवाभ्यां क्वथितानि पानात् ॥”
शिवा हरीतकी । इति मूर्च्छाभ्रमतन्द्राति-
निद्रासंन्यासाधिकारः । इति भावप्रकाशः ॥
(अथास्यां पथ्यविधिः ।
“सेकावगाहौ मणयः सहाराः
शीताः प्रदेहा व्यजनानिलश्च ।
शीतानि पानानि च गन्धवन्ति
धारागृहं शीतमरीचिरोचिः ॥
धूमोऽञ्जनं लावणमस्रमोक्षो
दाहश्च सूचीपरितोदनानि ।
रोम्नां कचानामपि कर्षणानि
नखान्तपीडा दशनोपदंशः ॥
नासामुखद्बारमरुन्निरोधो
विरेचनच्छर्द्दनलङ्घनानि ।
क्रोधो भयं दुःखकरी च शय्या
कथा विचित्रा च मनोहरा च ॥
छायानभोऽम्भःशतधौतसर्पि-
र्मृदूनि तिक्तानि च लाजमण्डः ।
जीर्णा यवा लोहितशालयश्च
कौम्भं हविर्मुद्गसतीनयूषाः ॥
धन्वोद्भवा मांसरसाश्च रागाः
सषाडवा गव्यपयः सिता च ।
पुराणकुष्माण्डपटोलमोच-
हरीतकीदाडिमनारिकेलम् ॥
मधूकपुष्पाणि च तण्डुलीय
उपोदिकान्नानि लघूनि चापि ।
प्रनीरनीरं सितचन्दनानि
कर्पूरनीरं हिमवालुका च ॥
अत्युच्चशब्दोऽद्भुतदर्शनानि
गीतानि वाद्यान्यपि चोत्कटानि ।
श्रमः स्मृतिश्चिन्तनमात्मबोधा-
धैर्य्यञ्च मूर्च्छावति पथ्यवर्गः ॥”
अथापथ्यविधिः ।
“ताम्बूलं पत्रशाकानि दन्तघर्षणमातपम् ।
विरुद्धान्यन्नपानानि व्यवायं स्वेदनं कटुम् ।
तृड्निद्रयोर्वेगरोधं तक्रं मूर्च्छामयी त्यजेत् ॥”
इति वैद्यकपथ्यापथ्यविधौ मूर्च्छाधिकारे ॥)

मूर्च्छालः, त्रि, (मूर्च्छा अस्त्यस्येति । “सिध्मादि-

भ्यश्च ।” ५ । २ । ९७ । इति लच् ।) मूर्च्छितः ।
इत्यमरः । २ । ६ । ६१ ॥

मूर्च्छितः, त्रि, (मूर्च्छास्य संजाता । मूर्च्छा +

तारकादित्वात् इतच् ।) मूर्च्छायुक्तः । तत्-
पर्य्यायः । मूर्त्तः २ मूर्च्छालः ३ । इत्यमरः । २ ।
६ । ६१ ॥ (यथा, भट्टौ । ६ । २३ ।
“तथाभ्यषिक्तवारीणि पितृभ्यः शोकमूर्च्छितः ।”)
उच्छयः । मूढः । इति मेदिनी ॥ वृद्धः । इत्य-
जयः ॥ (व्याप्तः यथा, रामायणे । २ । ११४ । १९-२० ॥
“किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशाम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।
चन्दनागुरुगन्धश्च न प्रवाति समन्ततः ॥”)

मूर्णः, त्रि, (मुर्व्वनहे + क्तः ।) बद्धः । इति मूर्त्त-

शब्दटीकायां रायमुकुटः ॥

मूर्त्तः, त्रि, (मूर्च्छ + क्तः “राल्लोपः ।” ६ । ४ । २१ ।

इति छलोपः । “न ध्याख्यापॄमूर्च्छिमदाम् ।” ८ ।
२ । ५७ । इति निष्ठातकारस्य नत्वाभावः ।)
मूर्च्छितः । इत्यमरः । २ । ६ । ६१ ॥ कठिनः ।
मूर्त्तिमान् । इति मेदिनी । ते, ४५ ॥
न्यायमते पृथिवी जलं तेजः वायुः मनश्च ।
एषां गुणाः । रूपं रसः गन्धः स्पर्शः परत्वं
अरपत्वं गुरुत्वम् । स्नेहः वेगश्च । मूर्त्तामूर्त्त-
साधारणगुणाः । यथा, भाषापरिच्छेदे ।
संख्या परिमितिः पृथक्त्वं संयोगः विभागश्च ।
(यथा, मार्कण्डेये । २३ । ४७ ।
“यच्चामूर्त्तं यच्च मूर्त्तं समस्तं
यद्बा भूतेष्वेकमेकञ्च किञ्चित् ।
यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्सम्बन्ध त्वत्स्वरैर्व्यञ्जनैश्च ॥”)

मूर्त्तिः, स्त्री, (मूर्च्छ + क्तिन् । “न ध्याख्येति ।”

८ । २ । ५७ । इत्यस्मान्न तकारस्य नत्वम् ।)
काठिन्यम् । शरीरम् । इत्यमरः । ३ । ३ ॥
६६ ॥ (यथा, मनौ । १२ । १२० ।
“खं सन्निवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गाञ्च मूर्त्तिषु ॥”)
प्रतिमा । इति हेमचन्द्रः ॥ स्वरूपः । यथा, --
“आचार्य्यो ब्रह्मणो मूर्त्तिः पिता मूर्त्तिः
प्रजापतेः ।
भ्राता मरुत्पतेर्म्मूर्त्तिर्म्माता साक्षात् क्षिते-
स्तनूः ॥
दयाया भगिनी मूर्त्तिर्द्धर्म्मस्यात्मातिथिः स्वयम् ।
अग्नेरम्यागतो मूर्त्तिः सर्व्वभूतानि चात्मनः ॥”
इति श्रीभागवते । ६ । ७ । २९ -- ३० ॥
(ब्रह्मसावर्णिपुत्रविशेषः । यथा, तत्रैव । ८ ।
१३ । २१ -- २२ ।
“तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः ।
सुवासना विरुद्धाद्या जयो मूर्त्तिस्तदा द्विजाः ॥”)

मूर्त्तिमत्, क्ली, (मूर्त्तिः काठिन्यमस्यास्ति । मूर्त्ति +

मतुप् ।) शरीरम् । इति हेमचन्द्रः । ३ । २२७ ॥

मूर्त्तिमान्, [त्] त्रि, (मूर्त्तिरस्यास्ति । मूर्त्ति +

मतुप् ।) मूर्त्तिविशिष्टः । यथा, --
“मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो
मूर्त्तिमान् ।”
इत्यादि श्रीभागवतम् ॥ (यथा च रघौ । १२ । ६४ ।
“हृदयं स्वयमायातं वैदेह्या इव मूर्त्तिमत् ।”
कुशपुत्रः । यथा, हरिवंशे । २७ । १२ ।
“कुशपुत्रा बभूवुर्हि चत्वारो देववर्च्चसः ।
कुशिकः कुशनाभश्च कुशाम्बो मूर्त्तिमांस्तथा ॥”
स्वियां ङीप् । यथा, महाभारते । ३ । १०८ । १४ ।
“दर्शयामास तं गङ्गा तदा मूर्त्तिमती स्वयम् ।”)