सामग्री पर जाएँ

शब्दकल्पद्रुमः/महाष्टमी

विकिस्रोतः तः
पृष्ठ ३/६७६

महाष्टमी, स्त्री, (महत्या महादेव्या अष्टमी ।

महती अष्टमीति वा ।) आश्विनशुक्लाष्टमी ।
यथा, --
“आश्विने शुक्लपक्षस्य भवेद् या अष्टमी तिथिः ।
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरा
परा ॥”
इति कालिकापुराणे ५९ अध्यायः ॥
तस्यां पूजाविधिः पुत्त्रवत् उपवासनिषेषधश्च
यथा, --
“अष्टम्यां रुधिरैर्मांसैर्महामांसैः सुगन्धिभिः ।
पूजयेद्वहुजातीयैर्बलिभिर्भोजनैः शिवाम् ॥
सिन्दूरैः पट्टवासैश्च नानाविधविलेपनैः ।
पुष्पैरनेकजातीयैः फलैर्बहुविधैरपि ॥
उपवासं महाष्टम्यां पुत्त्रवान्न समाचरेत् ।
यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥
पूजयित्वा महाष्टम्यां नवम्यां वलिभिस्तथा ।
विसर्जयेद्दशम्यान्तु श्रवणे सावरोत्सवैः ॥”
इति तत्रैव ६० अध्यायः ॥
तत्रार्द्धरात्रपूजा । यथा, --
“कन्यासंस्थे रवावीशे शुक्लाष्टम्यां प्रपूजयेत् ।
सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥
पूजां समारभेद्देव्या नक्षत्रे वारुणेऽपि वा ।
पशुघातश्च कर्त्तव्यो गवलाजवधस्तथा ॥”
इति देवीपुराणवचने वारुणपदेन पूर्ब्बाषाढो-
च्यते । इति तिथ्यादितत्त्वम् ॥

महासन्नः, पुं, (महानतिशयः सन्नो विषण्णः

कुदेहवत्त्वात् । यद्बा, महतो हिमाद्रेर्महादेवस्य
वा आसन्नः निकटवर्त्ती ।) कुवेरः । इति शब्द-
माला ॥ (महदतीवासन्नः) अतिनिकटश्च ॥

महासफरः, पुं, (महांश्चासौ सफरश्च ।) बृहत्

प्रोष्ठीमत्स्यः । अस्य गुणाः । यथा, --
“महासफरसंज्ञस्तु तिक्तः पित्तकफापहः ।
शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः ॥”
इति भावप्रकाशः ॥

महासमङ्गा, स्त्री, (महती चासौ समङ्गा च ।)

वृक्षविशेषः । कगहिया इति हिन्दीभाषा ।
तत्पर्य्यायः । ओदनिका २ ओदनाह्वया ३
वृक्का ४ रुहा ५ वृद्धबला ६ तण्डुला ७ भुजङ्ग-
जिह्वा ८ शीतपाकिनी ९ शीतबला १० शीता
बला ११ बलोत्तरा १२ बला १३ खिर-
हिट्टी १४ व्यालजिह्वा १५ । अस्या गुणाः ।
मधुरत्वम् । अम्लत्वम् । दोषत्रयनाशित्वम् ।
युक्त्या बुद्ध्या प्रयोगे ज्वरदाहनाशित्वञ्च । इति
राजनिर्घण्टः ॥

महासर्जः, पुं, (महांश्चासौ सर्जश्च ।) पनसः ।

असनवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य
यथा, वैद्यकरत्नमालायाम् ।
“अजकर्णो वनेसर्ज्जो महासर्ज्जोऽसनस्तु सः ॥”)

महासहः, पुं, (सहते इति । सह + अच् । महान्

सहः ।) कुब्जकवृक्षः । इति राजनिर्घण्टः ॥
(बाणपुष्प इति गौडादौ प्रसिद्धः । यथास्य
पर्य्यायः ।
“अम्लातोऽम्लाटनः प्रोक्तस्तथाम्लातक इत्यपि ।
कुरण्टको वर्णपुष्पः स एवोक्तो महासहः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महासहा, स्त्री, (महासह + स्त्रियां टाप् ।)

माषपर्णी । (पर्य्यायोऽस्या यथा, --
“सिंहपुच्छी ऋषिप्रोक्ता माषपर्णी महासहा ।
कृष्णवृन्ता च काम्बोजी पाण्डुलोमशपर्णिनी ॥”
इति वैद्यकरत्नमालायाम् ॥
पर्य्यायान्तरं यथा, --
“माषपर्णी सूर्य्यपर्णी काम्बोजी हयपुच्छिका ।
पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अम्लानवृक्षः । इत्यमरः । २ । ४ । ७३ । (कुब्जकः ।
तत्पर्य्यायो यथा, --
“कुब्जको भद्रतरुणी बृहत्पुष्पोऽतिकेशरः ।
महासहा कण्टकाढ्या नीलालिकुलसङ्कुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महासान्तपनं, क्ली, (महत् सान्तपनम् ।)

व्रतविशेषः । यथा । अथ महासान्तपनम् ।
तत्र द्व्यहसाध्यसान्तपनमुक्त्वा याज्ञवल्क्यः ।
“पृथक्सान्तपनैर्द्रव्यैः षडहः सोपवासकः ।
सप्ताहेनैव कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥
एतत् सप्ताहसाध्यम् । जावालः ।
“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकैकं क्रमशोऽश्नीयादहोरात्रमभोजनम् ॥
कृच्छ्रः सान्तपनो नाम सर्व्वपापप्रणाशनः ।
एकैकमेतदेवं हि त्रिरात्रमुपयोजयेत् ॥
त्र्यहञ्चोपवसेदन्त्यं महासान्तपने विधिः ॥”
एतत् सप्ताहसाध्यसान्तपनमुक्त्वा एकविंशति-
दिनसाध्यं महासान्तपनमुक्तम् । महासान्त-
पनं धेनुषट्कदानसमम् । जावालोक्तमहा-
सान्तपनस्य एकविंशतिदिनसाध्यत्वेन सप्ताह-
साध्यसान्तपनात् त्रिगुणत्वान्महासान्तपने धेनु-
षट्कं देयम् । इति प्रायश्चित्तविवेकः ॥

महासारः, पुं, (महान् सारः स्थिरांशो यस्य ।)

दुष्खदिरः । इति राजनिर्घण्टः ॥

महासाहसं, क्ली, (महच्च तत् साहसञ्च ।) अति-

बलात्कारकृतकार्य्यम् । अतिशयदण्डः । इति
साहसशब्दार्थे मेदिनी । से, ४५ ॥ (महत्
साहसमत्र ।) अतिदुष्कृतकर्म्म । अतिशयद्वेषः ।
इति साहसशब्दार्थे हेमचन्द्रः । ३ । ४०० ॥

महासाहसिकः, त्रि, (महानतिशयः साह-

सिकः ।) चौरः । इति केचित् ॥ अतिसाहस-
युक्तश्च । बलपूर्ब्बापहारकः । यथा, --
“चाटतस्करदुर्व्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥”
इति याज्ञवल्क्यवचनम् ॥
चाटाः प्रतारकाः विश्वास्य ये परधनमप-
हरन्ति । प्रच्छन्नापहारिणः तस्कराः । दुर्व्वृत्ताः
इन्द्रजालिककितवादयः । सहो बलं सहसा
बलेन कृतं साहसं महच्च तत् साहसञ्च महा-
साहसं तेन वर्त्तन्त इति महासाहसिकाः
प्रसह्यापहारिणः । इति मिताक्षरायामाचा-
राध्यायः १ ॥

महासिंहः, पुं, (महान् सिंह इव ।) शरभः ।

इति राजनिर्घण्टः ॥ (महांश्चासौ सिंहश्च ।)
बृहत्सिंहः । स च देवीवाहनम् । यथा, --
“उत्थाय च महासिंहं देवी चण्डमधावत ।”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

महासुखं, क्ली, (महत् सुखमस्मिन् ।) शृङ्गारः ।

इति त्रिकाण्डशेषः ॥ (महच्च तत् सुखञ्च ।
अतिशयानन्दः । महत् सुखमस्य तद्बति, त्रि ॥)

महासुखः, पुं, (महत् सुखं ईश्वरानन्दोऽस्य

अस्माद् वा ।) बुद्धः । इति त्रिकाण्डशेषः ॥

महासुगन्धा, स्त्री, (महान् सुगन्धोऽस्याः ।)

गन्धनाकुली । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते । उत्तरतन्त्रे २६ अध्याये ।
“महासुगन्धामथवा पालिन्दीञ्चाम्लपेषिताम् ।
शीतांश्चात्र परीषेकान् प्रदेहानत्र योजयेत् ॥”)
अतिसुगन्धयुक्ते त्रि ॥

महासूक्ष्मा, स्त्री, (महदतीव सूक्ष्मा ।) बालुका ।

इति राजनिर्घण्टः ॥ अतिशयसूक्ष्मे, त्रि ॥

महासेनः, पुं, (महती सेना यस्य ।) कार्त्तिकेयः ।

इत्यमरः । १ । १ । ४१ ॥ (यथा अनर्घराघवे । ४ । ३२ ।
“महासेनो यस्य प्रमदयमदंष्ट्रासहचरैः
शरैर्मुक्तो जीवन्द्विरिव शरजन्मा समभवत् ।
इमाञ्च क्षत्राणां भुजवनमहादुर्गविषमा
मयं वीरो वारानजयदुपविंशान् वसुमतीम् ॥”
महती सेना अनुचरोऽस्य ।) शिवः । इति
महाभारते तस्य सहस्रनामस्तोत्रम् ॥ महा-
सेनापतिः । इति मेदिनी । ने, २०१ ॥ (यथा
महाभारते । ५ । १९१ । ११ ।
“स च राजा दशार्नेषु महानासीत् सुदुर्जयः ।
हिरण्यवर्मा दुद्धर्षो महासेनो महामनाः ॥”)
वृत्तार्हत्पितृविशेषः । इति हेमचन्द्रः । राज-
विशेषः । यथा, कथासरित्सागरे । ११ । ३४ ॥
“जयसेनस्य तस्याथ पुत्रोऽप्रतिमदोर्बलः ।
समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥”)

महास्कन्धा, स्त्री, (महान् स्कन्धः शाखावधि

भागो यस्याः ।) जम्बुवृक्षः । इति राजनिर्घण्टः ॥
(महान् स्कन्धोऽस्य ॥) बृहत्स्कन्धयुक्ते त्रि ॥

महास्थली, स्त्री, (स्थल + “जानपदकुण्डगोणे-

त्यादि ।” ४ । १ । ४२ । इति ङीष् । महती
स्थली ।) पृथिवी । इति शब्दमाला ॥ श्रेष्ठ-
स्थानञ्च ॥

महास्नायुः, पुं, (महती स्नायुः अस्थिबन्धननाडी ।)

कण्डरा । इति हेमचन्द्रः । ३ । २९५ ॥

महास्रग्वी, [न्] पुं, (महती स्रक् अस्थिमाला ।

सा अस्त्यस्येति विनिः ।) शिवः । इति महा-
भारते तस्य सहस्रनामस्तोत्रम् । १३ । १७ । १३४ ॥

महास्वनः, पुं, (महान् स्वनः शब्दो यस्य ।)

मल्लतूर्य्यम् । इति त्रिकाण्डशेषः ॥ (महान्-
स्वनः ।) वृहच्छब्दः । तद्युक्ते, त्रि ॥ (यथा,
महाभारते । ५ । १५ । ५ ।
पृष्ठ ३/६७७
“अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्म्महासी सोन्मादस्तिर्य्यक्प्रेक्षी महा-
स्वनः ॥”)

महाहनुः, पुं, (महती हनुयेस्य ।) शिवः । इति

महाभारते तस्य सहस्रनामस्तोत्रम् । १३ । १७ ।
१३४ ॥ बृहद्धनुयुक्ते, त्रि ॥ (सर्पविशेषः । यथा,
महाभारते । १ । ५७ । १० ।
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥”)

महाहविः, [स्] क्ली, (महत् सुप्रशस्तं हविः ।)

गव्यघृतम् । यथा, --
“गयायामथवा पिण्डं खड्गमांसं महाहविः ।
कालशाकं तिलाज्यं वा कृशरं मासतृप्तये ॥”
इति मार्कण्डेयपुराणे श्राद्धकल्पः ॥
(तदात्मतया सर्वं जगत् हूयतेऽस्मिन् । यद्बा,
महान्ति हवींषि आज्यपुरोडाशादिरूपा-
ण्यस्य ।) विष्णुः ॥ इति महाभारते तस्य
सहस्रनामस्तोत्रम् ॥ (महान्तिहवींष्यत्र ।
बृहद्यागविशेषः । यथा, शतपथब्राह्मणे । २ ।
५ । ३ । २० ।
“अथातो महाहविष एव तद् यथा महा-
विषस्तथो तस्य ॥”
“साकमेधेषु प्रधानभूताया महाहविराख्याया
इष्टेरारम्मं प्रतिजानीते अथात इति ।” इति
तद्भाष्यम् ॥”)

महाहासः, पुं, (महानुच्चंर्हासः ।) अट्टहासः ।

इति शब्दरत्नावली ॥

महाहिगन्धा, स्त्री, (अहेर्गन्धो लेश ईषर्द्धिंसारूपः

सम्पर्कोऽस्त्यस्यामिति । गन्ध + अर्श आदित्वा-
दच् टाप् च । महती अहिगन्धा ।) गन्धना-
कुली । इति राजनिर्घण्टः ॥

महाह्रस्वा, स्त्री, (महती चासौ ह्रस्वा च ।)

कपिकच्छुः । इति शब्दमाला ॥ अतिखर्व्वे त्रि ॥

महिः, स्त्री, (मह्यते इति । महपूजायां अदन्त-

चुरादिः + “सर्व्वधातुभ्य इन् ।” उणा० ४ ।
११७ । इति इन् ।) पृथिवी । इति शब्दमाला ॥
(महत् । यथा, ऋग्वेदे । २ । २४ । १४ ।
“सत्यो मन्युर्महि कर्म करिष्यतः ॥”
“महि महत् कर्म्म करिष्यतः ।” इति तद्भाष्ये
सायनः ॥ महिमा । यथा, भागवते । ८ । ८ । ४ ।
“तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥”
“महिं महिमानम् ।” इति तट्टीकायां श्रीधरः ॥
महत्तत्त्वम् । यथा, भागवते । २ । १ । ३५ ।
“विज्ञानशक्तिं महिमामनन्ति ॥”
“महिं महत्तत्त्वम् ।” इति तट्टीकायां श्रीधरः ॥)

महिका, स्त्री, (मह + “क्वुन्शिल्पिसंज्ञयोर-

पूर्ब्बस्यापि ।” उणा० । २ । ३२ । इति क्वुन् टाप् ।
अत इत्वम् ।) हिमम् । इत्यमरः । १ । ३ । १८ ॥

महितं, त्रि, (मह्यते स्मेति । मह पूजायाम् +

“मतिबुद्धिपूजार्थेभ्यश्च ।” ३ । २ । १८८ । इति
क्तः ।) पूजितम् । यथा, भट्टिः । १० । २ ।
रणपण्डितोऽग्र्यविबुधारिपुरे
कलहं स राममहितः कृतवान् ।
ज्वलदग्निरावणगृहञ्च बलात्
कलहंसराममहितः कृतवान् ॥”
(पितृगणविशेषः । यथा, मार्कण्डेये । ९६ । ४६ ।
“महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवेते पितॄणां पापनाशनाः ॥”
स्त्रियां टाप् । नदीभेदः । यथा, महाभारते ।
६ । ९ । २१ ।
“नीवारां महिताञ्चापि सुप्रयोगां जना-
धिप ! ॥”)

महिनं, क्ली, (महति मह्यते वा । मह पूजायां

+ “महेरिनण् च ।” उणा० । २ । ५६ । इति
चकारादित्युक्तेः इनन् ।) राज्यम् । इत्युणा-
दिकोषः ॥ (पूजनीये, त्रि ॥ यथा, ऋग्वेदे ।
६ । २६ । ८ ।
“वयं तेऽस्यामिन्द्र ! द्युम्नहूतौ सखायः स्याम
महिन ! प्रेष्ठाः ।”
“हे महिन पूजनीय इन्द्र ! ।” इति तद्भाष्ये
सायनः ॥)

महिमा, [न्] पुं, (महतो भावः । महत् + “पृथ्वा-

दिभ्य इमनिज् वा ।” ५ । १ । १२२ । इति इमनिच् ।
ततः “टेः ।” ६ । ४ । १५५ । इति टिलोपः ।)
शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति हेम-
चन्द्रः । २ । ११६ ॥ स च महत्त्वं येन चतुर्द्दश
भुवनान्यस्योदरे वर्त्तन्ते । इत्यमरटीकायां
भरतः ॥ (तदुक्तं यथा, --
“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा
तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥”
माहात्म्यम् । यथा, भागवते । ८ । ५ । १३ ।
“त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः ।
नाति तृप्यति मे चित्तं सुचिरं तापतापितम् ।”)
उत्कर्षः । यथा, पुराणम् ।
“अधोऽधः पश्यतः कस्य महिमा नोपजायते ।
उपर्य्युपरि पश्यन्तः सर्व्व एव दरिद्रति ॥”
(मन्त्रिविशेषस्य सुतः । यथा, राजतरङ्गि-
ण्याम् । ६ । २२० ।
“सम्भूय चक्रुर्द्वैराज्यं महिम्नः पक्षमाश्रितः ॥”)

महिरः, पुं, (मह्यते पूज्यत इति । मह + “सलि-

कल्यनिमहीति ।” उणा ० । १ । ५५ । इति
इलच् । लस्य रत्वम् ।) सूर्य्यः । इति त्रिकाण्ड-
शेषः ॥

महिला, स्त्री, (मह्यत इति । मह पूजायाम् +

“सलिकल्यनिमहीति ।” उणा ० । १ । ५५ ।
इति इलच् टाप् ।) स्त्रीमात्रम् । प्रियङ्गुलता ।
इत्यमरः । २ । ६ । २ ॥ रेणुकानामकगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥ मदमत्ता स्त्री । इति
शब्दरत्नावली ॥

महिलाह्वया, स्त्री, (महिला इत्याह्वयो यस्याः ।)

प्रियङ्गुलता । इत्यमरः । २ । ४ । ५५ । (यथास्याः
पर्य्यायः ।
“प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ।
गुन्द्रा गुन्द्रफला श्यामा विष्वक्सेनाङ्गनाप्रिया ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महिषः, पुं, (मंहति पूजयति देवाननेनेति ।

महि + “अधिमह्योष्टिषच् । “उणा० । १ । ४६ ।
इति टिषच् ।) स्वनामख्यातपशुविशेषः । तत्-
पर्य्यायः । लुलापः २ वाहद्विषन् ३ कासरः ४
सैरिभः ५ । इत्यमरः । २ । ५ । ४ । यम-
वाहनः ६ विषज्वरन् ७ वंशभीरुः ८ रज-
स्वलः ९ । इति शब्दरत्नावली ॥ आनूपः १०
रक्ताक्षः ११ अश्वारिः १२ । इति जटाधरः ॥
क्रोधी १३ कलुषः १४ मत्तः १५ विषाणी १६
गवली १७ बली १८ । तस्य परीक्षा यथा, --
“विपक्षे हयसन्त्रासं कुरुते येन हेतुना ।
भारं वहति वा दूरं महिषोऽस्मान्निरूप्यते ॥
ब्रह्मक्षत्त्रियविट्शूद्रान्त्यजभेदेन पञ्चधा ॥”
तद्यथा ।
‘भृशं कृष्णाः पवित्राश्च बृहद्वृषणधोणकाः ।
बह्वाशिनो मारकाश्च महिषा ब्रह्मजातयः ॥ १ ॥
केकराः कामलाः स्थूला भृशं क्रुद्धाश्च मारकाः ।
बह्वाशिनो बहुबला महिषाः क्षत्त्रजातयः ॥ २ ॥
श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धा भारवाहिनः ।
अमारका बहुबला महिषा वैश्यजातयः ॥ ३ ॥
क्षीणाः क्षीणबलाः क्षीणशृङ्गघोणारुषश्चे ये ।
अल्पाशिनो भारसहा महिषाः शूद्रजातयः ॥ ४ ॥
सर्व्वदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः ।
भारसहाः कुशृङ्गाश्च तेऽन्त्यजा महिषा
मताः ॥ ५ ॥
एषां दोषा गुणा वापि वृषवल्लक्षयेद्बुधः ।
पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥”
इति युक्तिकल्पतरुः ॥
वनमहिषमांसगुणाः । दोषकारित्वम् । लघु-
त्वम् । दीपनत्वम् । बलदायित्वञ्च ॥ ग्रामीण-
महिषमांसगुणाः । स्निग्धत्वम् । मलिन-
करत्वम् । पित्तहरत्वञ्च । इति राजनिर्घण्टः ॥
तर्पणत्वम् । स्निग्धत्वम् । उष्णत्वम् । मधु-
रत्वम् । गुरुत्वम् । निद्रापुंस्त्वस्तन्यवर्द्धनत्वम् ।
मांसदार्ठ्यकृत्त्वञ्च । इति राजवल्लभः ॥ अपि च ।
“महिषो घोटकारिः स्यात् कासरश्च रजस्वलः ।
पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥
महिषस्यामिषं स्वादु स्निग्धोष्णं वातनाशनम् ।
निद्राशुक्रबलस्तन्यतनुदीर्घकरं गुरु ॥
वृष्यञ्च सृष्टविण्मूत्रं वातपित्तास्रनाशनम् ।”
इति भावप्रकाशः ॥
श्मश्रुधारिम्लेच्छजातिविशेषः ॥ स च पुरा क्षत्त्रिय
आसीत् सगरराजेनास्य वेदयागादावनधिकारो
वेशान्यत्वं धर्म्मनाशश्च कृतः । यथा, हरिवंशे ।
“सगरस्तां प्रतिज्ञाञ्च गुरोर्व्वाक्यं निशम्य च ।
धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत् ।
जवनानां शिरः सर्व्वं काम्बोजानां तथैव च ॥
पारदा मुक्तकेशाश्च पह्रवाः श्मश्रुधारिणः ।
पृष्ठ ३/६७८
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥
शका जवनकाम्बोजाः पारदाः पह्रवास्तथा ।
कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः ।
वशिष्ठवचनाद्राजन् ! सगरेण महात्मना ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अर्हद्ध्वजविशेषः । इति हेमचन्द्रः । ४ । ३४७ ॥
महिषामुरः । यथा, मार्कण्डेये । ८२ । १-२ ।
“महिषेऽसुराणामधिपे देवानाञ्च पुरन्दरे ।
तत्रासुरैर्म्महारीर्य्यैर्देवसैन्यं पराजितम् ॥
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥”
(देवगणभेदः । यथा, निरुक्ते । ७ । २६ । “अपा-
मुपस्थे महिषा अगृभणत् विशो राजानमुपतस्थु-
रृग्मियम् ।” महिषाः माध्यमिका देवगणाः ।
अथवा महिषाः त एव “भहान्तः ।” इति
तट्टीकायाम् दुर्गाचार्य्यः ॥ कुशद्वीपस्थपर्व्वत-
विशेषः । यथा, मात्स्ये । १२१ । ५९ ।
“षष्ठस्तु पर्व्वतस्तत्र महिषो मेघसन्निभः ॥”
अग्निविशेषः । यथा, तत्रैव । १२१ । ६० ।
“तस्मिन् सोऽग्निर्निवसति महिषो नाम योऽप्-
सुजः ।”
कुशद्बीपस्य वर्षविशेषः । यथा, तत्रैव । १२१ ।
६८ ।
“महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ॥”
कृताभिषेकः भूपालः ।
‘कृताभिषेके भूपाले लुलापे महिषः स्मृतः ॥’
इत्यमरटीकायां रुद्रः ॥ देशभेदः । यथा, बृहत्-
संहितायाम् । ९ । १० ।
“भरणीपूर्ब्बं मण्डलमृक्षचतुष्कं मुभिक्षकर-
माद्यम् ।
वङ्गाङ्गमहिषवाह्लिककलिङ्गदेशेषु भयजन-
नम् ॥”
अनुह्लादस्य पुत्रभेदः । यथा भागवते । ६ ।
१८ । १६ ।
“अनुह्लादस्य सूर्य्यायां वास्कलो महिषस्तथा ॥”
साध्यापुत्त्रः । यथा, हरिवंशे । १९६ । ४५ ।
“महिषञ्च तनूजञ्च विज्ञातमनसावपि ॥”)

महिषकन्दः, पुं, (महिषाख्यया प्रसिद्धः कन्दः ।)

महाकन्दविशेषः । तत्पर्य्यायः । शुभ्रालुः २
लुलापकन्दः ३ शुक्लकन्दः ४ महिषीकन्दः ५ ।
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवाता-
मयापहत्वम् । मुखजाड्यहरत्वम् । रुच्यत्वम् ।
असितश्चेत् महासिद्धिकरत्वञ्च । इति राज-
निर्घण्टः ॥

महिषघ्नी, स्त्री, (महिषं महिषासुरं हन्तीति ।

हन् + बाहुलकात् टक् । ङीप् ।) दुर्गा ।
यथा, दुर्गोत्सवपद्धतौ ।
“महिषघ्नि ! महामाये चामुण्डे मुण्ड-
मालिनि ! ।
आयुरारोग्यविजयं देहि देवि ! नमोऽस्तुते ॥”
अपि च । देवीपुराणे ।
“सिंहमारुह्य कल्पान्ते निहतो महिषो यया ।
महिषघ्नी ततो देवी कन्या वै सिंहवाहिनी ॥”

महिषध्वजः, पुं, (महिषो ध्वजश्चिह्रं वाहनत्वेन

यस्य ।) यमः । अर्हद्विशेषः । इति हेमचन्द्रः ।
२ । ९९ ॥

महिषमर्द्दिनी, स्त्री, (महिषं महिषाख्यमसुरं

मृद्नातीति । मृद् + णिनिः । ङीप् ।) दुर्गा ।
इति शब्दरत्नावली ॥ अस्या मन्त्रा यथा, शार-
दायाम् ।
“भान्तं वियत् सनयनं श्वेतो मर्द्दिनि ठद्वयम् ।
अष्टाक्षरी समाख्याता विद्या महिषमर्द्दिनी ॥”
नारायणीतन्त्रे ।
“विषं हि मज्जा कालोऽग्निरद्रिरिस्थो निठ-
द्बयम् ॥”
विषं मकारः । हि स्वरूपम् । मज्जा षकारः ।
कालो मकारः । अग्नी रेफः । अद्रिर्द्दकारः ।
इस्थ इति वचनादिकारयुक्तो दकारः । अयं
मन्त्रस्तारादिर्मायादिः कामादिर्वाग्भवादि-
र्व्वधूबीजादिः कवचादिश्च नवाक्षरः । तथा च
विश्वसारे ।
“प्रणवाद्यां जपेद्बिद्यां मायाद्यां वा जपेत् सुधीः ।
बधूबीजादिकां वापि कवचाद्यां जपेत्तथा ॥
सर्व्वकालेषु सर्व्वत्र कामाद्यां प्रजपेत् सुधीः ।
वाग्भवाद्यां जपेत्तान्तु देवीं वाक्यविशुद्धये ॥
अस्या ध्यानम् । गारुडोपलसन्निभां मणिमय-
कुण्डलमण्डितां नौमि भालविलोचनां महिषो-
त्तमाङ्गनिषेदुषीम् । शङ्खचक्रकृपाणखेटकबाण-
कार्मुकशूलकान् तर्ज्जनीमपि बिभ्रतीं निज-
बाहुभिः शशिशेखराम् ॥ इति तन्त्रसारः ॥

महिषवल्ली, स्त्री, (महिषशब्दवाच्या वल्ली ।

शाकपार्थिवादिवत् समासः ।) लताविशेषः ।
छिरहिट्टी इति हिन्दी भाषा ॥ तत्पर्य्यायः ।
सौम्या २ प्रतिसोमा ३ अन्त्रवल्लिका ४ खण्ड-
शाखा ५ । अस्या गुणः । रसवीर्य्यविपाके
सोमवल्लीसमत्वम् । इति राजनिर्घण्टः ॥

महिषवाहनः, पुं, (महिषो वाहनं यस्य ।) यमः ।

इति शब्दरत्नावली ॥

महिषासुरः, पुं, (महिष एव महिषाख्यो वा

असुरः ।) रम्भासुरपुत्त्रः । तस्य उत्पत्तिर्यथा, --
श्रीऔर्व्व उवाच
“आराधिता महादेवो रम्भेण सुरवैरिणा ।
चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥
अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् ।
प्रीतोऽस्मि ते वरं रम्भ ! वरयस्व यथेप्सितम् ॥
एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ॥
अपुत्त्रोऽहं महादेव ! यदि ते मय्यनुग्रहः ।
मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर ! ॥
अवध्यः सर्व्वभूतानां जेता च त्रिदिवौकसाम् ।
चिरायुश्च यशस्वी च लक्ष्मीवान् सत्यसङ्गरः ॥
एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ।
भवत्वेतद्वाञ्छितन्ते भविष्यामि सुतस्तव ॥
इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ।
रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलो-
चनः ॥
पथि गच्छन् स रम्भोऽथ ददृशे महिषीं
शुभाम् ।
त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् ॥
स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ।
दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् ॥
तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा ।
दधार महिषी गर्भं तदाभून्महिषासुरः ॥
तस्यां स्वाङ्गेषु गिरिशस्तत्पुत्त्रत्वमवाप्तवान् ।
ववृधे स तदा वाग्भिः शुक्लपक्षे समुद्रवत् ॥”
तस्य योषिद्वध्यत्वं यथा, --
“तन्तु कात्यायनमुनिः शप्तवान् महिषासुरम् ।
दुर्णयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः ॥
कात्यायनेन शप्तं तं विज्ञाय महिषासुरम् ।
प्राह प्रणयपूर्ब्बन्तु चण्डिकां चन्द्रशेखरः ॥”
ईश्वर उवाच ।
“देवि ! कात्यायनेनापि शप्तोऽयं महिषा-
सुरः ।
योषिद्विनाशकर्त्त्रीति भवितेति जगन्मयि ! ।
निःसंशयमृषेर्व्वाक्यं भविष्यति न संशयः ॥
मदीयो माहिषः कायस्त्वया देवि ! जगन्मयि ! ।
हन्तव्यः सततं योगयुक्तः पूर्ब्बे परेऽपि च ॥
हरिर्हरिस्वरूपेण त्वां वोढुमक्षमोऽधुना ।
ममायं माहिषः कायस्तव वोढा भविष्यति ॥
इति पूर्ब्बं महादेवो देवों प्रार्थितवान् पुरा ॥
तेन देवी महादेवं जग्राह महिषासुरम् ॥
त्रिषु जन्मसु पुत्त्रोऽभूत् रम्भस्य भगवान्
शिवः ।
सृष्टित्रयं स रम्भोऽपि रम्भ एव व्यजायत ॥
असुरस्तादृशस्तेपे तपः परमदारुणम् ।
तथैवाराधितः शम्भुः पुत्त्रार्थे प्रददौ वरम् ॥
तथैव महिषीं भेजे प्रथमं सुरताय सः ।
तस्यां तथाभवद्वीरो दानवो महिषासुरः ।
तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् ॥
इति प्रवृत्ते पूर्ब्बस्मिन् परस्मिन् स तु जन्मनि ।
महिषः पूजयित्वाथ देवीं वरमयाचत ॥
तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः ।
नेह मे जन्म भवितेत्येवं वरमयाचत ॥
तेन देवीपदतले तिष्ठत्येषोऽसुरोऽधुना ।
नोत्पत्तिरपि तस्यास्ति संवर्त्तांस्तान् बहून्
नृप ! ॥
एवं देवीप्रसादेन महादेवाङ्गसम्भवः ।
परामवाप सततं प्रतिपत्तिं महासुरः ॥
इति ते कथितं राजन् ! यथा स महिषा-
सुरः ।
देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते ॥”
इति कालिकापुराणे ५९ अध्यायः ॥ * ॥
अपि च ।
नारद उवाच ।
“कश्चासौ महिषो नाम रक्तबीजादयश्च के ।
कासौ कात्यायनी नाम या जघ्ने महिषा-
सुरम् ।
एतान् विस्तरतस्तात ! यथावद्वक्तुमर्हसि ॥”
पृष्ठ ३/६७९
पुलस्त्य उवाच ।
“श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
सर्व्वदा वरदा दुर्गा सेयं कात्यायनी मुने ! ॥
सुरासुरवरौ रौद्रौ जगत्क्षोभकरावुभौ ।
रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबलौ ॥
तावपुत्त्रौ च देवर्षे ! पुत्त्रार्थं तेपतुस्तपः ।
बहुवर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले ॥
तत्रैको जलमध्यस्थो द्बितीयोऽप्यग्निपञ्चमी ।
करम्भश्चैव रम्भश्च यक्षं मालवटं प्रति ॥
एकं निमग्नं सलिले ग्राहरूपेण वासवः ।
चरणाभ्यां समादाय निजघान यथेच्छया ॥
ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः ।
वह्रौ स्वशीर्षं संछिद्य होतुमैच्छन्महाबलः ॥
ततः प्रगृह्य केशेषु खड्गञ्च रविसंप्रभम् ।
छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥
उत्तिष्ठासुर ! मा मैवं नाशयात्मानमात्मना ।
दुस्तरा परवध्यापि स्ववध्याप्यतिदुस्तरा ॥
यच्च प्रार्थयसे वीर ! तद्ददामि यथेप्सितम् ।
मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥
ततोऽब्रवीद्वचो रम्भो वरं चेन्मे ददासि हि ।
त्रैलोक्यविजयी पुत्त्रः स्यान्मे त्वत्तेजसाधिकः ॥
अजेयो दैवतैः सर्व्वैः पुंभिर्द्दैत्यैश्च पावक ! ।
महाबलो वायुरिव कामरूपी कृतास्त्रवित् ॥
तं प्रोवाच कविर्ब्रह्मन् ! वाढमेवं भविष्यति ।
यस्यां चित्तं समालम्बि करिष्यसि ततोऽसुर ! ॥
इत्येवमुक्तो देवेन वह्निना दानवो ययौ ।
यष्टुं मुनिवटं याक्षं यक्षैश्च परिवारितम् ॥
तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः ।
गजाश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥
तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः ।
महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन ! ॥
समागच्छच्च दैत्येन्द्रं कामयन्ती तरस्विनी ।
स चाभिगमनं चक्रे भवितव्यप्रचोदितः ॥
तस्यां समभवद्गर्भस्तां प्रगृह्याथ दानवः ।
पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥
दृष्टश्च दानवैः सर्व्वैः परित्यक्तश्च बन्धुभिः ।
अकार्य्यं कारयत्येवं भूयो मालवटं गतः ॥
सापि तेनैव पतिना महिषी चारुदर्शना ।
समं जगाम तत्पुण्यं यक्षमण्डलमुत्तमम् ॥
ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने ! ।
अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम् ॥
इति वामनपुराणे १७ अध्यायः ॥ * ॥
अन्यच्च । धरण्युवाच ।
“या सा माया शरीरात्तु ब्रह्मणोऽव्यक्तजन्मनः ।
गायत्त्र्यष्टभुजा भूत्वा चैत्रासुरमयोधयत् ॥
सैव नन्दाभवद्देवी देवकार्य्यचिकीर्षया ।
महिषाख्यासुरवधं कुर्व्वती ब्रह्मणेरिता ॥
वैष्णव्या च हतो देव ! कथमेतद्धि संशयः ॥
वराह उवाच ।
इयं जगद्धिता देवी गङ्गा शङ्करसुप्रिया ।
क्वचित् किञ्चित् भवेद्वृत्तं सपदं वेद सर्व्ववित् ।
स्वायम्भुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ ॥
महिषाख्योऽपरः पश्चात् स वै चैत्रासुरः पुनः ।
नन्दया निहतो बिन्ध्ये महाबलपराक्रमः ॥
अथवा ज्ञानशक्तिः सा महिषोऽज्ञान-
मूर्त्तिमान् ।
अज्ञानं ज्ञानसाध्यन्तु भवतीति न संशयः ॥
मूर्त्तिपक्षे चेतिहासममूर्त्ते चैकवद्धृदि ।
ख्यायते वेदवाक्यैस्तु इह सा वेदवादिभिः ॥”
इति वराहपुराणम् ॥

महिषासुरसम्भवः, पुं, (महिषासुरात् तन्मेदसः

सम्भवतीति । सम् + भू + अच् ।) भूमिज-
गुग्गुलुः । इति राजनिर्घण्टः ।

महिषासुरहन्त्री, स्त्री, (हन् + तृच् + ङीप् ।

महिषासुरस्य हन्त्री ।) दुर्गा । यथा, --
“महिषासुरहन्त्र्याश्च प्रतिष्ठा दक्षिणायने ।”
इति प्रतिष्ठातत्त्वधृतपद्मपुराणवचनम् ॥

महिषाक्षः, पुं, (महिषस्य अक्षीवेति । “अक्ष्णो-

ऽदर्शनात् ।” ५ । ४ । ७६ । इति समासान्तोऽच् ।)
गुग्गुलुः । इति राजनिर्घंण्टः ॥ (तथास्य
पर्य्यायः ।
“जटाषुः कालनिर्य्यासः कौशिको गुग्गुलुः
पुरः ।
देवधूपः सर्व्वसहो महिषाक्षः पलङ्कषा ॥”
इति वैद्यकरत्नमालायाम् ॥
अस्य व्यवहारविषयो यथा, --
“महिषाक्षो महानीलो गजेन्द्राणां हितावुभौ ।
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः ॥
कदाचिन्महिषाक्षश्च यतः कैश्चिन्नृणामपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महिषाक्षकः, पुं, (महिषाक्ष । स्वार्थे कन् ।)

गुग्गुलुः । इति राजनिर्घण्टः ॥

महिषी, स्त्री, (महिषस्य कृताभिषेकस्य नृपस्य

पत्नी । “पुंयोगादाख्यायाम् ।” ४ । १ । ४८ ।
इति ङीष् ।) कृताभिषेका राजपत्नी । इत्य-
मरः । २ । ६ । ५ ॥ (यथा, रघौ । २ । २५ ।
“इत्थं व्रतं धारयतः प्रजार्थं
समं महिष्या महनीयकीर्त्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥”)
सैरिन्ध्री । औषधिभेदः । इति मेदिनी । षे, ४३ ॥
महिषयोषित् । तत्पर्य्यायः । मन्दगमना २
महाक्षीरा ३ पयस्विनी ४ लुलापकान्ता ५
कलुषा ६ तुरङ्गद्विषणी ७ ॥ अस्याः क्षीर-
गुणाः । मधुरत्वम् । विपाके शीतलत्वम् ।
गुरुत्वम् । बलपुष्टिप्रदत्वम् । वृष्यत्वम् ।
पित्तदाहास्रनाशित्वञ्च ।
“माहिषं मधुरं गव्यात् स्निग्धं शुक्रकरं गुरु ।
निद्राकरमभिष्यन्दि क्षुधाधिक्यकरं हिमम् ॥
तस्या दधिगुणाः । मधुरत्वम् । स्निग्धत्वम् ।
श्लेष्मकारित्वम् । रक्तपित्तनाशित्वम् । बलास्र-
वर्द्धनत्वम् । बल्यत्वम् । श्रमघ्नत्वम् । शोधन-
त्वञ्च ।
“माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् ।
स्वादुपाकमभिष्यन्दि वृष्यं गुर्व्वस्रदूषणम् ॥ * ॥”
अस्या नवनीतगुणाः । कषायत्वम् । मधुर-
रसत्वम् । शीतत्वम् । वृष्यत्वम् । बल्यत्वम् ।
ग्राहित्वम् । पित्तघ्नत्वम् । तुन्ददत्वञ्च ।
“नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु ।
दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥”
अस्या घृतगुणाः । उत्तमत्वम् । धृतिकरत्वम् ।
सुखदत्वम् । कान्तिकृत्त्वम् । वातश्लेष्मनाशित्वम् ।
बलकरत्वम् । वर्णप्रदाने क्षमत्वम् । दुर्नाम-
ग्रहणीविकारशमनत्वम् । मन्दानलोद्दीप-
नत्वम् । चक्षुष्यत्वम् । गव्यतो न श्रेष्ठत्वम् ।
हृद्यत्वम् । मनोहारित्वञ्च ।
“माहिषन्तु घृतं स्वादु पित्तरक्तानिलापहम् ।
शीतलं श्लेष्मलं वृष्यं गुरु स्वादु विपच्यते ॥”
इति भावप्रकाशः ॥ * ॥
अस्या मूत्रगुणाः । आनाहशोफगुल्भदोष-
नाशित्वम् । कटुत्वम् । उष्णत्वम् । कुष्ट-
कण्डूतिशूलोदररोगनाशित्वञ्च । इति राज-
निर्घण्टः ॥ (अस्या दुग्धगुणाश्च यथा, चरके
सूत्रस्थाने २७ अध्याये ।
“महिषीणां गुरुतरं गव्याच्छीततरं पयः ।
स्नेहानूनमनिद्राय हितमत्यग्नये च तत् ॥”

महिषीप्रिया, स्त्री, (महिषीणां प्रिया ।) शूली-

तृणम् । इति राजनिर्घण्टः ॥

मही, स्त्री, (मह्यते इति । मह् + अच् । मह

+ “गौरादिभ्यश्च । ४ । १ । ४१ । इति ङीष् ।
यद्वा, महि । कृदिकारादिति ङीष् ।) पृथिवी ।
इत्यमरः । २ । १ । ३ । (यथा विष्णुपुराणे ।
१ । ४ । २९ ।
“उत्तिष्ठतस्तस्य जलार्द्रकुक्षे
र्महावराहस्य महीं विधार्य्य ।
विधुन्वतो वेदमयं शरीरं
रोमान्तरस्था मुनयो जुषन्ति ॥”)
नदीविशेषः । सा च मालवदेशे वर्त्तते । इति
मेदिनी । हे, । ७ ॥ तज्जलगुणाः ।
“महीजलन्तु सुस्वादु बल्यं पित्तहरं गुरु ।”
इति राजनिर्घण्टः ॥
गौः । इति जटाधरः ॥ हिलमोचिका । इति
त्रिकाण्डशेषः ॥ (लोकः । यथा, ऋग्वेदे । ३ ।
५६ । २ ।
“तिस्रो महीरुपरास्तस्थुः ॥”
“महीः लोकाः ।” इति तद्भाष्ये सायनः ॥)

महीक्षित्, पुं, (मह्यां क्षयते ईष्टे । क्षि + क्विप् ।

तुक् च ।) राजा । इत्यमरः । २ । ८ । १ ॥
(यथा, महाभारते । ७ । ४४ । २४ ॥
“रथचर्य्यास्त्रमायाभिर्मोहयित्वा परन्तपः ।
बिभेद शतधा राजन् ! शरीराणि मही-
क्षिताम् ॥”)

महीजं, क्ली, (मह्यां जायते इति । जन + डः ।)

आर्द्रकम् । इति राजनिर्घण्टः ॥ भूमि-
जाते । त्रि ॥ (यथा, महाभारते । ६ । ८७ । ३-४ ।
“आरट्टानां महीजानां सिन्धुजानाञ्च सर्वशः ।
पृष्ठ ३/६८०
वानायुजानां शुभ्राणां तथा पर्व्वतवासिनान् ।
वाजिनांबहुभिः संख्ये समन्तात् पर्य्यवारयन् ॥”)

महीजः, पुं, (मह्यां जातः । जन + डः ।) मङ्गल-

ग्रहः । यथा, समयप्रदीपे ।
“रवौ रसाब्धी सितगौ हयाब्धी
द्वयं महीजे विधुजे शराष्टौ ।
गुरौ शराष्टौ भृगुजे तृतीयं
शनौ रसाद्यन्तमिति क्षपायाम् ॥”

महीध्रः, पुं, (महीं धरतीति । धृ + कः ।)

पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (यथा,
श्रीभागवते । २ । ७ । ३२ ।
“गौपैर्मखे प्रतिहते ब्रजविप्लवाय
देवेऽभिवर्षति पशून् कृपया रिरक्षुः ।
धर्त्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-
वर्षो महीध्रमनघैककरे सलीलम् ॥”
महीं धरति उद्धरतीति । धृ + कः । महेरु-
द्धर्त्ता । यथा, तत्रैव । ३ । १३ । २६ ।
“उत्क्षिप्तबालः खचरः कठोरः
सटा विधुन्वन् खररोमशत्वक् ।
खुराहताभ्रः सितदंष्ट्र ईक्षा-
ज्योतिर्बभासे भगवान् महीध्रः ॥”
“महीध्रः पृथिव्या उद्धर्त्ता ।” इति तट्टीकायां
स्वामी ॥)

महीपालः, पुं, (महीं पालयतीति । पाल +

अण् ।) राजा । यथा, मार्कण्डेयपुराणे ।
८८ । ६१ ।
“स पपात महीपृष्ठे शस्त्रसंघसमाहतः ।
नीरक्तश्च महीपाल ! रक्तवीजो महासुरः ॥”
(राजविशेषः । यथा, कथासरित्सागरे ।
५६ । ७ ।
“चन्द्रस्वामिन् ! महीपालो नाम्ना कार्य्यः
सुतस्त्वया ।
राजा भूत्वाचिरं यस्मात् पालयिष्यत्ययं
महीम् ॥”)

महीप्राचीरं, क्ली, (मह्याः प्राचीरमिव । सर्व्वदिक्षु

स्थितत्वात्तथात्वम् ।) समुद्रः । इति त्रिकाण्ड-
शेषः ॥

महीभृत्, पुं, (महीं बिभर्त्ति धरतीति । भृ +

क्विप् । “ह्रस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ ।
इति तुगागमश्च ।) पर्व्वतः । यथा, कुमार-
सम्भवे । १ । २७ ।
“महीभृतः पुत्त्रवतोऽपि दृष्टि-
स्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते
द्विरेफमालाः सविशेषसङ्गाः ॥”
(महीं बिभर्त्ति पालयतीति । भृ + क्विप् ।)
राजा । यथा, मार्कण्डेयपुराणे । ८१ । १३ ।
“ये ममानुगता नित्यं प्रसादधनभोजनैः ।
अनुवृत्तिं ध्रुवं तेऽद्य कुर्व्वन्त्यन्यमहीभृताम् ॥”

महीमयः, त्रि, (मह्या विकारोऽवयवो वेति ।

मही + मयट् ।) मृत्तिकानिर्म्मितः । यथा, --
मार्कण्डेयपुराणे । ९३ । ७ ।
“तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्त्तिं
महीमयीम् ।
अर्हणाञ्चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥”

महीरुहः, पुं, (मह्यां रोहति जायत इति ।

रुह + कः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ।
(यथा, विष्णुपुराणे । १ । १५ । १ ।
“तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥”)
शाकवृक्षः । इति राजनिर्घण्टः ॥

महीलता, स्त्री, (मह्या लतेव ।) किञ्चुलुकः ।

इत्यमरः । १ । १० । २१ ॥ (विशेषोऽस्याः
किञ्चुलुकशब्दे ज्ञातव्यः ॥)

महीसुतः, पुं, (मह्याः सुतः ।) मङ्गलः । इत्य-

मरः । १ । ३ । २५ ॥ (यथा, बृहत्संहि-
तायाम् । १०४ । १४ ।
“रिपुगदकोपभयानि पञ्चमे
तनयकृताश्च शुचो महीसुते ।
द्युतिरपि नास्य चिरं भवेत् स्थिरा
शिरसि कपेरिव मालती कृता ॥”)

महेच्छः, पुं, (महती इच्छा यस्य । ह्रस्वश्च

सामासिकः ।) महाशयः । इत्यमरः । ३ । १ । ३ ॥
(यथा, बृहत्संहितायाम् । १६ । ३८ ।
“प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ॥”)

महेन्द्रः, पुं, (महांश्चासाविन्द्रश्च ऐश्वर्य्यवानि-

त्यर्थः ।) विष्णुः । इति महाभारते तस्य सहस्र-
नामस्तोत्रम् ॥ शक्रः । (यथा, भागवते । ६ । १३ । ६ ।
“ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रवीत् ॥”)
जम्बुद्वीपस्य पर्व्वतविशेषः । इति मेदिनी । रे,
२०० ॥ (स च सप्तकुलाचलानामन्यतमः ।
यथा, मार्कण्डेये । ५७ । १० ।
“महेन्द्रो मलयः सह्यः सुक्तिमानृक्षपर्व्वतः ।
बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ॥”)

महेन्द्रकदली, स्त्री, (महेन्द्रसम्भवा तद्बर्णा वा

कदली ।) कदलीभेदः । इति राजनिर्घण्टः ॥

महेन्द्रनगरी, स्त्री, (महेन्द्रस्य नगरी ।) अमरा-

वती । इति शब्दरत्नावली ॥

महेन्द्रवारुणी, स्त्री, (महेन्द्रवरुणयोरियं प्रिय-

त्वात् । अण् । ङीष् ।) लताविशेषः । वड
माकाल इति भाषा ॥ तत्पर्य्यायः । चित्रवल्ली २
महाफला ३ महेन्द्री ४ चित्रफला ५ त्रपुसी ६
त्रपुसा ७ आत्मरक्षा ८ विशाला ९ दीर्घवल्ली १०
महत्फला ११ महद्वारुणी १२ बृहत्फला १३
बृहद्वारुणी १४ सौम्या १५ गजचिर्भिटा १६
चित्रदेवी १७ धनुःश्रेणी १८ स्थाणुकर्णी १९
मरुसम्भवा २० । अस्या गुणाः । इन्द्रवारुणी-
गुणभागित्वम् । रसे वीर्य्ये विपाके च किञ्चिद्-
गुणाधिकत्वञ्च । इति राजनिर्घण्टः ॥

महेन्द्राणी, स्त्री, (महेन्द्रस्य भार्य्येति । महेन्द्र ।

“पुंयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष् ।
“इन्द्रवरुणेति ।” ४ । १ । ४९ । इति आनुगा-
गमः ।) इन्द्रभार्य्या । इति शब्दरत्नावली ॥
(यथा, महाभारते । ३ । ४१ । १३ ।
“ततो मुहूर्त्ताद्भगवानैरावतशिरोगतः ।
आजगाम महेन्द्राण्या शक्रः सुरगणैर्वृतः ॥”)

महेरणा, स्त्री, (महत् ईरणं प्रेरणमस्याः ।

यद्बा, महं गजोत्सवमीरयतीति । ईर + ल्युः ।
टाप् ।) शल्लकीवृक्षः । इत्यमरः । २ । ४ । ३४ ॥
महेरुणा इत्यपि पाठः । इत्यमरटीकायां
भरतः ॥ (यथास्याः पर्य्यायः ।
“शल्लकी गजभक्ष्या च सुवहा सुरभीरसा ।
महेरणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महेला, स्त्री, (मह्यते पूज्यत इति । मह् +

“सलिकल्यनिमहीति ।” उणा ०१ । ५५ । इति
इलच् । पृषोदरादित्वादिकारस्यैकारः । यद्बा,
महस्योत्सवस्य इला भूमिः ।) नारी । इति
शब्दरत्नावली ॥ (यथा, नलोदये । २ । ५८ ।
“ससमुद्रमहेलाभिस्फुरित-
गुणाभिस्ततस्मरमहेलाभि
श्रीः प्रवरमहेलाभिस्तथैव
युवपंक्तिभिः परमहेलाभिः ॥”)

महेलिका, स्त्री, (महेल + स्वार्थे कन् । टाप् ।

अकारस्येत्वम् ।) नारी । इति शब्दरत्ना-
वली ॥

महेशः, पुं, (महान् ईशः ।) शिवः । इति

शब्दरत्नावली ॥ (यथा, शिवध्यानम् ।
“ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु-
चन्द्रावतंसम् ॥”)

महेशबन्धुः, पुं, (महेशो बध्यते वशीक्रियते येन

लक्ष्मीस्तनजन्यत्वात् ।) श्रीफलवृक्षः । इति
शब्दचन्द्रिका ॥

महेश्वरः, पुं, (महांश्चासावीश्वरश्च कर्त्तुमकर्त्तु-

मन्यथाकर्त्तुं वा समर्थः । यद्वा, महत्या
महामायया ईश्वरः ।) शिवः । इत्यमरः ।
१ । १ । ३२ ॥ अस्य व्युत्पत्तिर्यथा, --
“विश्वस्थानाञ्च सर्व्वेषां महतामीश्वरः स्वयम् ।
महेश्वरञ्च तेनेमं प्रवदन्ति मनीषिणः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः ॥
अस्य विवाहस्मरणफलं यथा, --
“महेश्वरसमायुक्तमीदृशं यः स्मरेत् हृदा ।
सततं तस्य कल्याणं वाञ्छितञ्च भविष्यति ॥”
इति कालिकापुराणे शिवविवाहे ४३ अध्यायः ॥
(परमेश्वरः । तदुक्तं न्यायशास्त्रे ।
वायोर्नवैकादश तेजसो गुणा
जलक्षितिप्राणभृतां चतुर्द्दश ।
दिक्कालयोः पञ्च षडेव चाम्बरे
महेश्वरोऽष्टौ मनसस्तथैव च ॥”
महान् ईश्वरः प्रजानां प्रभुः । ऐश्वर्य्यशाली
राजा । यथा, महाभारते । १ । २२८ । २९ ।
“ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः ।
पाण्डरं गजमास्थाय तावुभौ समुपाद्रवत् ॥”)

महेश्वरकरच्युता, स्त्री, (महेश्वरस्य करात् च्युता ।)

करतोया नदी । इति केचित् ॥ गौरीविवाह-
समये शङ्करकरगलितसंप्रदानतोय्नप्रभवत्वात्
पृष्ठ ३/६८१
करस्य तोयं विद्यतेऽत्रेति करतोया । इत्यमर-
टीकायां भरतश्च ॥

महेश्वरी, स्त्री, (महेश्वरस्य स्त्री । महेश्वर +

ङीष् । महती चासौ ईश्वरी महदादीनां निय-
न्त्रीति वा ।) महेश्वरपत्नी । यथा, --
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ।
श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी ॥”
इति तन्त्रसारे भुवनेश्वरीकवचम् ॥
अपराजिता । इति शब्दचन्द्रिका ॥ कांस्यम् ।
इति हेमचन्द्रः । ४ । ११४ ॥ राजरीतिः ।
इति राजनिर्घण्टः ॥

महैरण्डः, पुं, (महांश्चासावेरण्डश्च ।) स्थूलैरण्डः ।

इति राजनिर्घण्टः ॥

महैला, स्त्री, (महती चासावेला च ।) स्थूलैला ।

इति राजनिर्घण्टः ॥ (गुणादिविषयोऽस्याः
स्थूलैलाशब्दे द्रष्टव्यः ॥)

महोक्षः, पुं, (महान् उक्षा । “अचतुरविचतु-

रेति ।” ५ । ४ । ७७ । इति समासान्तः अच् ।
निपातितश्च ।) बृहद्वृषः । इत्यमरः । २ । ९ ।
६१ ॥ तत्पर्य्यायः । वृषभः २ वृषः ३ पुङ्गवः ४
बली ५ गोनाथः ६ ऋषभः ७ गोप्रियः ८
उक्षा ९ गोपतिः १० । इति राजनिर्घण्टः ॥
(यथा, कथासरित्सागरे । ६० । ६६ ।
“महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि ।
तदिहानय तं युक्त्या तावत् पश्यामि
कीदृशः ॥”)

महोटिका, स्त्री, (महान्तः फलेभ्यः स्थूला उटा

पत्राण्यस्याः । ततः स्वार्थे कन् । टाप् । अकार-
स्येत्वम् ।) बृहती । इति राजनिर्घण्टः ॥

महोटी, स्त्री, (महान्त उटाः पत्राणि यस्याः ।)

बृहती । इति भावप्रकाशः ॥ बृहदुत्पलञ्च ॥

महोत्क, स्त्री, (महान् उत्कः दर्शनोत्सुको

लोको यस्याः ।) विद्युत् । इति केचित् ॥

महोत्पलं, क्ली, (महच्च तत् उत्पलञ्च ।) पद्मम् ।

सारसपक्षी । इत्यमरः । १ । ३० । ३९ ॥

महोत्सवः, पुं, (महांश्चासावुत्सवश्च ।) अतिशय-

सुखजनककर्म्म । यथा, --
“सर्व्वैश्च जन्मदिवसे स्नातैर्म्मङ्गलपाणिभिः ।
गुरुदेवाग्निविप्राश्व पूजनीयाः प्रयत्नतः ॥
स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः ।
प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥”
इति तिथ्यादितत्त्वे ब्रह्मपुराणवचनम् ॥
अपि च । कालिकापुराणे ६९ अध्याये ।
“दुर्गातन्त्रेण मन्त्रेण कुर्य्याद्दर्गामहोत्सवम् ।
महानवम्यां शरदि बलिदानं नृपादयः ॥”

महोत्साहः, त्रि, (महान् उत्साहो यस्य ।) अति-

शयोत्साहयुक्तः । (यथा, महाभारते । ५ । ५१ । १ ।
“सर्व्व एते महोत्साहा ये त्वया परिकीर्त्तिताः ।
एकतस्त्वेव ते सर्व्वे समेता भीम एकतः ॥”)
तत्पर्य्यायः । महोद्यमः २ । इत्यमरः । ३ । १ । ३ ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ३१ ।
“अतीन्द्रियो महामायो महोत्साहोमहाबलः ॥”)

महोत्साहः, पुं, (महान् उत्साहो यस्य ।)

राज्याङ्गप्राप्तराजपुरुषः । यथा, --
“सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ॥”
इति शब्दमाला ॥
अतिशयोद्यमश्च ॥

महोदधिः, पुं, (महांश्चासावुदधिश्च ।) समुद्रः ।

यथा, महानाटके ।
“लङ्का दग्धा वनं भग्नं लङ्घितश्च महोदधिः ।
यत् कृतं रामदूतेन स रामः किं करिष्यति ॥”

महोदयं, क्ली, (महान् उदय उन्नतिर्यस्मिन् ।)

पुरविशेषः । तत्पर्य्यायः । कान्यकुब्जम् २ कन्या-
कुब्जम् ३ गाधिपुरम् ४ कौशम् ५ कुशस्थलम् ६ ।
इति हेमचन्द्रः ॥

महोदयः, पुं, (महान् उदयः समुन्नतिर्यस्मिन् ।)

कान्यकुब्जदेशः । आधिपत्यम् । (महान् उदय
उत्कर्षो यस्मिन् ।) अपवर्गः । इति मेदिनी ।
ये, १२६ ॥ (महान् उदय उत्कर्षो यस्य ।)
स्वामी । इति हेमचन्द्रः । ३ । ४९७ ॥
(महान् उदयः फलं यस्मिन् यस्माद्बा । महा-
फले, त्रि । यथा, मनौ । ७ । ५५ ।
“अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् ।
विशेषतोऽसहायेन किन्तु राज्यं महोदयम् ॥”
“महोदयं महाफलम् ।” इति तट्टीकायां
कुल्लूकभट्ठः ॥)

महोदया, स्त्री, (महानुदयो यस्याः । टाप् ।)

नागबला । इति राजनिर्घण्टः ॥

महोदरी, स्त्री, महाशतावरी । इति भाव-

प्रकाशः ॥ (महत् उदरमस्य ।) बृहदुदरयुक्ते,
त्रि ॥ (महच्च तदुदरञ्च । बृहदुदरे, क्ली ।
यथा, श्रीभागवते । ९ । ७ । १७ ।
“पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्रः प्रत्यवेधत ॥”
पुं, नागविशेषः । यथा, महाभारते । १ ।
३५ । १६ ।
“कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ ॥”
दानवविशेषः । यथा, तत्रैव । १ । ६५ । २५ ।
“एकपादेकचक्रश्च विरूपाक्षमहोदरौ ॥”
धृतराष्ट्रस्य पुत्रविशेषः । यथा, तत्रैव । १ ।
६७ । ९७ ।
“सेनापतिः सुसेनश्च कुण्डोदरमहोदरौ ।”)

महोद्यमः, त्रि, (महान् उद्यमो यस्य ।) महोत्-

साहः । इत्यमरः । ३ । १ । ३ । (यथा, राज-
तरङ्गिण्याम् । ५ । १४१ ।
“अथ निर्ज्जित्य दायादांल्लब्ध्वा लक्ष्मीं क्षिती-
श्वरः ।
जिष्णुर्द्दिग्विजयं कर्त्तुं श्रीमानासीन्महो-
द्यमः ॥”
महानुद्यमः ।) अतिशयोद्योगे, पुं ॥

महोन्नतः, पुं, (महानतिशय उन्नतः ।) ताल-

वृक्षः । इति भावप्रकाशः ॥ अत्युन्नतियुक्ते, त्रि ॥

महोन्नतिः, स्त्री, (महती चासावुन्नतिश्च ।)

अतिशयवृद्धिः । यथा, --
“भूयात्ते महदैश्वर्य्यं पुत्त्रादीनां महोन्नतिः ।
अव्याधिना शरीरेण चिरं जीव सुखी भव ॥”
इत्युद्भटः ॥

महोन्मदः, पुं, (महानतिशय उन्मदः ।) मत्स्य-

विशेषः । फलुइ इति भाषा । यथा, --
“राजग्रीवश्चित्रफलः फलकी च महोन्मदः ॥”
इति शब्दरत्नावली ॥
अत्युन्मत्ते त्रि ॥

महोरगं, क्ली, (महान् उरग इव ।) तगर-

मूलम् । इति रत्नमाला ॥

महोरगः, पुं, (महांश्चासावुरगश्च ।) सर्पगण-

विशेषः । इति हेमचन्द्रः । २ । ४ ॥ बृहत्सर्प-
मात्रञ्च ॥ (यथा, भागवते । ८ । १० । ४७ ।
“महोरगाः समुत्पेतुः दन्दशूकाः सवृश्चिकाः ॥”)

महोल्का, स्त्री, (महती चासावुल्का च ।)

उल्काविशेषः । यथा, --
“विदुत्स्तनितनिर्घातमहोल्कानाञ्च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥
महोल्कानाञ्च संप्लवे इतस्ततोऽनेकमहोल्कानां
सन्निपाते । उल्कालक्षणमाह बृहद्वशिष्ठः ।
“बृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखो-
ज्ज्वला ।
पौरुषी च प्रमाणेन उल्का नानाविधा
स्मृता ॥”
इति तिथ्यादितत्त्वम् ॥

महौजाः, [स्] त्रि, अतितेजोयुक्तः । महदोजो

यस्येतिविग्रहे बहुब्रीहौ प्रथमैकवचने अत्वसो-
ऽधावित्यनेन दीर्घे कृते महौजा इतिपदं
निष्पन्नम् ॥ (यथा, मनौ । १ । ६१ ।
“स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौ-
जसः ॥”
कालेयपुत्त्रासुरविशेषः । यथा, महाभारते
१ । ६७ । ५३ ।
“पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः ।
महौजा इति विख्यातो बभूवेह परन्तपः ॥”)

महौषधं, क्ली, (महत् औषधम् ।) भूम्या-

हुल्यम् । शुण्ठी । (पर्य्यायो यथा, --
“शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम्
ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
लशुनम् । (पर्य्यायो यथा, --
“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।
अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वाराहीकन्दः । वत्सनाभः । इति राजनिर्घण्टः ॥
पिप्पली । इति शब्दचन्द्रिका ॥ अतिविषा ।
इत्यमरः । २ । ९ । ३८ ॥ (महाभेषजम् । यथा,
कथासरित्सागरे । ६६ । ३९ ।
“स्वभर्त्तॄन् प्रेर्य्य तेषाञ्च महासत्त्वान्महौषधैः ।
चिकित्सां कारयामासुर्नोत्तस्थुश्च तदन्ति-
कात् ॥”)
पृष्ठ ३/६८२

महौषधिः, स्त्री, (महती ओषधिः ।) दूर्व्वा ।

लज्जालुक्षुपः । इति शब्दचन्द्रिका ॥ महा-
स्नानीयद्रव्यविशेषः । यथा, --
“सहदेवी तथा व्याध्री बला चातिबला तथा ।
शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्च्चला ॥
महौषध्यष्टकं प्रोक्तं महास्नाने नियोजयेत् ॥”
इति गोविन्दानन्दधृतमत्स्यपुराणवचनम् ॥
अपिच ।
“पृश्निपर्णी श्यामलता भृङ्गराजः शतावरी ।
गुडूची सहदेवी च महौषधिगणः स्मृतः ॥”
इति शब्दचन्द्रिका ॥
श्रेष्ठौषधिश्च । (यथा, महाभारते । ३ । २८८ । ६ ।
“विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह ।
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥”
सञ्जीवनी । यथा, रघौ । १२ । ६१ ।
“दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकीविषवल्लीभिः परीतेव महौषधिः ॥”
“महौषधीः सञ्जीवनी लतेव ।” इति तट्टीकायां
मल्लिनाथः ॥)

महौषधी, स्त्री, (महौषधि + ङीप् ।) श्वेतकण्ट-

कारी । ब्राह्मी । (पर्य्यायोऽस्या यथा, --
“ब्राह्मी कपोतवङ्का च सोमवल्ली सरस्वती ।
मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कटुका । अतिविषा । इति राजनिर्घण्टः ॥
हिलमोचिका । इति त्रिकाण्डशेषः ॥

मा ङ य माने । इति कविकल्पद्रुमः ॥ (दिवा०-

आत्म०-सक०-अनिट् ।) ङ य मायते । इति
दुर्गादासः ॥

मा ङ लि शब्दे । माने । इति कविकल्पद्रुमः ॥

(ह्वा०-आत्म०-सक०-अनिट् ।) ङ लि
मिमीते । श्रुत्या धर्म्मं मिमीते यः । इति
हलायुधः ॥ इति तट्टीकायां दुर्गादासः ॥

मा ल माने । इति कविकल्पद्रुमः ॥ (अदा०-पर०-

सक०-अनिटु ।) ल माति भूमिं नलेन राजा ।
न मान्ति मानिनो यस्य यशस्त्रिभुवनोदरे ॥”
इति हलायुधः ॥ इति दुर्गादासः ॥

मा, व्य (मा + क्विप् ।) वारणम् । (यथा

रामायणे । १ । २ । १५ ।
“मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः
समाः ॥”)
विकल्पः । इति मेदिनी । अव्ययवर्गे, ४९ ॥

मा, स्त्री, (मा + क्विप् । यद्बा, मा + क । तत

ष्टाप् ।) लक्ष्मीः । इति मेदिनी । मे, १ ॥
माता । (यथा, साहित्यदर्पणे । १० म ।
“मारमा सुषमा चारुरुचा मारबधूत्तमा ।
मात्तधूर्त्ततमावासा सा वामा मेऽस्तु मा
रमा ॥”)
मानम् । इत्येकाक्षरकोषः शब्दरत्नावली च ॥

मा, त्रि, (अस्मद् + द्वितीयैकवचने । “त्वा

मौ द्वितीयायायाः ।” ८ । १ । २३ ।
इति मामित्यस्य स्थाने विकल्पेन मादेशः ।)

मां त्रि, (अस्मद् + द्वितीयैकवचने । “त्वा

मौ द्वितीयायायाः ।” ८ । १ । २३ ।
इति मामित्यस्य स्थाने विकल्पेन मादेशः ।)
मदीया कर्म्मता । आमाके इति भाषा ॥
अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् ।
इति व्याकरणम् ॥ (यथा, देवीभागवते । १ ।
५ । ६६ ।
मदीया कर्म्मता । आमाके इति भाषा ॥
अस्मच्छब्दात् द्बितीयैकवचननिष्पन्नं पदम् ।
इति व्याकरणम् ॥ (यथा, देवीभागवते । १ ।
५ । ६६ ।
“सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये !
कस्मादेनां प्रेक्षसे नाथहीनाम् ।
क्षन्तव्यस्ते स्वांशजातापराधो
व्युत्थाप्यैनं मोदितां मां कुरुष्व ॥”)

मांसं, क्ली, (मन्यते इति । मनज्ञाने + “मने-

र्दीर्घश्च ।” उणा० ३ । ६४ । इति सः दीर्घश्च ।)
रक्तजधातुविशेषः । मास् इति भाषा ॥ स तु
गर्भस्थबालकस्याष्टभिर्मासैर्भवति । इति सुख-
बोधः ॥ भागवतमते चतुभिर्मासैर्भवति । तत्प-
र्य्यायः । पिशितम् २ तरसम् ३ पललम् ४ क्रव्यम्
५ आमिषम् ६ पलम् ७ । इत्यमरः । २ । ६ । ६३ ॥
अस्रजम् ८ जाङ्गलम् ९ कीरम् १० । सर्व्वसांस-
गुणाः । वातनाशित्वम् । वृष्यत्वम् । बल्य-
त्वम् । रुच्यत्वम् । बृंहणत्वम् । देशस्थानसात्म्य-
संस्थास्वभावैर्भूयो नानारूपत्वञ्च ॥ * ॥ प्रसह-
भूशयानूपवारिजवारिचारिमांसगुणाः । गुरु-
त्वम् । उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् ।
वातघ्नत्वम् । शुक्रवर्द्धनत्वञ्च ॥ * ॥ विष्किर-
प्रतुदजाङ्गलमांसगुणाः । लघुत्वम् । शीतत्वम् ।
मधुरत्वम् । कषायत्वम् । नृणां हितत्वञ्च ॥ * ॥
अङ्गविशेषमांसगुणाः ।
‘एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम् ।
सर्व्वेषाञ्च शिरस्कन्धप्लीहचर्म्मयकृद्गुदम् ॥
पादपुच्छान्तमस्तिष्कमुष्कक्रोडाश्च मेहनाः ।
धातवः शोणिताद्याश्च गुरवः स्युर्य्यथोत्तरम् ॥’
प्रशस्ताप्रशस्तमांसं यथा, --
‘वयस्थं निर्व्विषं सद्योहतं मांसं प्रशस्यते ॥
मृतञ्च व्याधितं व्युष्टं वृद्धं बालं विषैर्हतम् ।
अगोचरहतं व्याडसूदितं मांसमुत्सृजेत् ॥’
अष्टविधा मांसयोनिर्यथा । प्रसहाः १ प्रसह्य-
भक्षणात् कुररश्येनादयः । भूशयाः २ विल-
शायित्वात् नकुलगोधादयः । आनूपाः ३
खड्गमहिषवराहादयः । जलजाः ४ कुम्भीरा
दयः । जलेचराः ५ हंसवकप्रभृतयः ।
जाङ्गलाः ६ हरिणच्छागादयः । विष्किराः ७
विकीर्णचरणात् तित्तिरमयूरकुक्कुटादयः ।
प्रतुदाः ८ प्रतुद्यचरणात् कपोतपारावतादयः ।
इति राजनिर्घण्टः ॥ * ॥ अपि च ।
‘मांसं वातहरं सर्व्वं बृंहणं बलपुष्टिकृत् ।
प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः ॥’ * ॥
अथ तद्भेदाः ।
‘मांसवर्गो द्बिधा ज्ञेयो जाङ्गलानूपभेदतः ॥’
तत्र जाङ्गलस्य लक्षणं गुणाश्च ।
‘मांसवर्गोऽत्र जङ्घाला विलस्थाश्च गुहाशयाः ।
तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदा अपि ॥
प्रसहा अथच ग्राम्या अष्टौ जाङ्गलजातयः ।
जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा ॥
बल्यास्ते बृंहणा वृष्या दीपना दोषहारिणः ।
मूकतां मिन्मिनत्वञ्च गद्गदत्वार्द्दिते तथा ॥
वाधिर्य्यमरुचिं छर्द्दिप्रमेहमुखजान् गदान् ।
श्लीपदं गलगण्डञ्च नाशयन्त्यनिलामयान् ॥’ * ॥
अथानूपस्य लक्षणं गुणाश्च ।
‘कूलेचराः प्लवाश्चापि कोषस्थाः पादिनस्तथा ।
मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥
आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः ।
श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम् ॥
तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः
स्मृताः ॥’ * ॥
अथ जाङ्गलानां गणना विशिष्टा गुणाश्च ।
‘हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः ।
राजीवोऽपि च मुण्डी चेत्याद्या जाङ्गल-
संज्ञकाः ॥
हरिणस्ताम्रवर्णःः स्यादेणः कृष्णः प्रकीर्त्तितः ।
कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान् ॥
ऋष्यो नीलाण्डको लोके सरोरु इति कीर्त्तितः ।
पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् किञ्चिदल्पकः ॥
न्यङ्कुर्व्वहुविषाणोऽथ शम्बरो गवयो महान् ।
राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः ॥
यो मृगः शृङ्गहीनः स्यात् स मुण्डीति निगद्यते ।
जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः ।
किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः ॥’
अथ विलेशयानां गणना गुणाश्च ।
‘गोधाशशभुजङ्गाखुशल्लक्याद्या विलेशयाः ।
विलेशया वातहरा मधुरा रसपाकयोः ।
वृंहणा बद्धविण्मूत्रा वीर्य्योष्णा अपि कीर्त्तिताः ॥
अथ गुहाशयानां गणना गुणाश्च ।
‘सिंहव्याघ्रवृका ऋक्षतरक्षुद्बीपिनस्तथा ।
बभ्रुजम्बुकमार्ज्जारा इत्याद्यास्तु गुहाशयाः ॥
स्थूलपुच्छो रक्तनेत्रो बभ्रुभेदः सनाकुलः ।
गुहाशया वातहरा गुरूष्णमधुराश्च ते ।
स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविका-
रिणाम् ॥’
अथ पर्णमृगाणां गणना गुणाश्च ।
‘वनौकोवृक्षमार्ज्जारवृक्षमर्कंटिकादयः ।
एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः ॥
स्मृताः पर्णमृगा वृष्याश्चक्षुष्याः शोषिणे
हिताः ।
श्वासार्शःकाशशमनाः सृष्टमूत्रपुरीषकाः ॥’
अथ विष्किराणां गणना गुणाश्च ।
‘वर्त्तकालावविकिरकपिञ्जलकतित्तिराः ।
कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः ॥
विकीर्य्य भक्षयन्त्येते यस्मात् तस्माद्धि विष्किराः ।
कपिञ्जला इति प्राज्ञैः कथिता गौरतित्तिराः ॥
विष्किरा मधुराः शीताः कषायाः कटुपाकिनः ।
बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः
स्मृताः ॥’
अथ प्रतुदानां गणना गुणाश्च ।
‘कालकण्ठकहारीतकपोतशशपत्रकाः ।
सारिका खञ्जरीटश्च पिकाद्याः प्रतुदाः स्मृताः ॥
प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः ।
पृष्ठ ३/६८३
कपोतो धवलः पाण्डुः शतपत्रो बृहच्छुकः ।
प्रतुदा मधुराः पित्तकफघ्नास्तु वरा हिमाः ।
लघवो बद्धवर्च्चस्काः किञ्चिद्वातकराः स्मृताः ॥’
अथ प्रसहानां गणना गुणाश्च ।
‘काको गृध्र उलूकश्च चिल्लश्च शशघातकः ।
चाषो भाषश्च कुरर इत्याद्याः प्रसहाः स्मृताः ।
प्रसहाः कीर्त्तिता एते प्रसह्याच्छिद्य भक्षणात् ।
प्रसहाः खलु वीर्य्योष्णाः षण्मासं भक्षयन्ति ये ॥
ते शोषभस्मकोन्मादैः शुक्रक्षीणा भवन्ति हि ॥’
शशघातकस्थाने शतघातकोऽपि पाठः । वाज
इति लोके ॥ * ॥ अथ ग्राम्याणां गणना गुणाश्च ।
‘छागमेषबृषाश्वाद्या ग्राम्याः प्रोक्ता महर्षिभिः ।
ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः ।
मधुरा रसपाकाभ्यां बृंहणा बलवर्द्धनाः ॥’
अथ कूलेचराणां गणना गुणाश्च ।
‘लुलापगण्डवाराहचमरीवारणादयः ।
एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी ॥
कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः ।
मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्मवर्द्धनाः ॥’
अथ प्लवानां गणना गुणाश्च ।
‘हंससारसकाचाक्षवकक्रौञ्चसरारिकाः ।
नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः ।
प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥
स्थूला कठोरा वृत्ता च यस्याश्चञ्चूपरिस्थिता ।
गुटिका चञ्चुसदृशी ज्ञेया नन्दीमुखीति सा ॥
प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।
वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥’
अथ कोषस्थानां गणना गुणाञ्च ।
‘शङ्खः शङ्खनखश्चापि शुक्तिशम्बूककर्कटाः ।
जीवा एवम्बिधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥
कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः ।
बृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥’
अथ पादिनां गणना गुणाश्च ।
‘कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कराः ।
घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥
पादिनोऽपि च ये ते तु कोषस्थानां गुणैः समाः ॥’
इति भावप्रकाशः ॥
अन्यच्च ।
मांसं वातहरं वृष्यं वृं हणं बलवर्द्धनम् ।
प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः ॥’
तस्योत्पत्तिस्थानमष्टविधं यथा, --
‘प्रसह्य भक्षयन्त्यते प्रसहास्तेन कीर्त्तिताः ।
भूशया बिलशायित्वादानूपोऽनूपसंश्रयात् ॥
जले निवासाज्जलजा जले चर्य्याज्जलेचराः ।
स्थलजा जाङ्गलाः प्रोक्ता मृगा जङ्गलचारिणः ॥
विकीर्य्य विष्किराश्चैव प्रतुद्य प्रतुदास्तथा ।
योनिरष्टविधा ह्येषां मांसानां संप्रकीर्त्तिता ॥’
‘प्रसहा भूशयानूपवारिजा वारिचारिणः ।
गुरूष्णमधुराः स्निग्धा वातघ्नाः शुक्रवर्द्धनाः ॥
लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ।
लघवः शीतमधुराः सकषाया हिता नृणाम् ॥’
अथ भांसयूषगुणाः ।
‘रसो मांसस्य चक्षुष्यो वृं हणः प्राणवर्द्धनः ।
वृष्यो वातविकारघ्नः स्मृत्योजःस्वरवर्द्धनः ।
भग्नविश्लिष्टसन्धीनां क्षतानां व्रणिनां हितः ॥’
अथ तैलपक्वमांसगुणाः ।
‘मांसं यत्तलसंसिद्ध्वं वीर्य्योष्णं पित्तलं कटु ।
अग्निसन्दीपनं रुच्यं दृष्टिनुत् पुष्टिनुद्गुरु ॥’
घृतपक्वमांसगुणाः ।
‘मांसन्तु घृतसंसिद्धं दृष्टिदं पुष्टिनुल्लघु ।
प्रीणनं सर्व्वधातूनां विशेषान्मुखशोषिणाम् ॥’
परिशुष्कप्रदिग्धमांसयोर्लक्षणं गुणाश्च ।
मांसं बहुघृते भृष्टं सिक्त्रा चोष्णाम्बुना मुहुः ।
जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥
परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु ।
पित्तघ्नं बलमेधाग्निमांसौजःशुक्रवर्द्धनम् ॥
तदेव घनतक्राठ्यं प्रदिग्धं सत्त्रिजातकम् ।
प्रदिग्धं बलमांसाग्निवर्द्बनं वातपित्तजित् ॥
शूलिकापक्वमांसगुणाः ।
‘मांसन्तु शूलिकाप्रोतमङ्गारेण विपाचितम् ।
ज्ञेयं गुरुतरं वृष्यं दीप्ताग्नीनां सदा हितम् ॥’
वेशवारमांसस्य लक्षणं गुणाश्च ।
‘निरस्थि पिशितं पिष्टं सिद्धं गुडघृतान्वितम् ।
कृष्णामरिचसंयुक्तं वेशवार इति स्मृतम् ॥
वेशवारो गुरुः स्निग्धो बलोपचयवर्द्धनः ।
द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः ।
तस्य तस्य तयोश्चैतद्गुणदोषैर्व्विभावयेत् ॥’
एकत्र सर्व्वमांसभक्षणदोषो यथा, --
‘एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम् ॥’
मांसस्य गुरुत्वं यथा, --
‘अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ।
घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ॥’
इति राजवल्लभः ॥
वर्ज्जनीयमांसानि यथा, --
‘क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ।
सारसैकशफान् हंसान् बलाकावकटिट्टिभान् ॥
कुररं जालपादञ्च खञ्जरीटमृगद्बिजान् ।
चासान् मात्स्यान् रक्तपादान् जग्ध्वा वै
कामतो नरः ॥
बन्धुरं कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ।’
इति गारुडे ९६ अध्यायः ॥
मांसभक्षणे दोषो यथा, --
‘लोभात् स्वभक्षणार्थाय जीविनं हन्ति यो नरः ।
मज्जाकुण्डे वसेत् सोऽपि तद्भोजी लक्षवर्षकम् ॥
ततो भवेत् स शशको मीनश्च सप्तजन्मसु ।
तृणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम् ॥’
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
अपि च ।
‘बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा ।
कुररञ्च चकोरञ्च जालपादञ्च कोकिलम् ॥
चाषञ्च खञ्जरीटञ्च श्येनं गृध्रं तथैव च ।
उलूकं चक्रवाकञ्च भाषं पारावतन्त्वपि ॥
कपोतं टिटिकञ्चैव ग्रामटिट्टिभमेव च ।
सिंहव्याघ्रञ्च मार्ज्जारं श्वानं शूकरमेव च ॥
शृगालं मर्कटञ्चैव गर्द्दभञ्च न भक्षयेत् ।
न भक्षयेत् सर्व्वमृगान् पक्षिणोऽन्यान् वने-
चरान् ॥
जलेचरान् स्थलेचरान् प्राणिनश्चति धारणा ॥’
इति कूर्म्मपुराणे उपविभागे १६ अध्यायः ॥
अन्यच्च ।
‘नाद्यादविधिना मांसं विधिज्ञो नापदि द्बिजः ।
जग्ध्वा ह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः ॥
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥
कुर्य्याद्घृतपशुं साङ्गं कुर्य्यात् पिष्टपशुं तथा ।
न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदाचन ॥
यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्ज्जयेत् ॥
समुत्पत्तिञ्च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्त्तेत सर्व्वमांसस्य भक्षणात् ॥
न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोकप्रियतां याति व्याधिभिश्च न पीड्यते ॥
स्वमांसं परमांसेन यो वर्द्धयितुमिच्छति ।
अनभ्यर्च्च्य पितॄन् देवान् ततोऽन्यो नास्त्य-
पुण्यकृत् ॥
वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥
फलमूलाशनैर्मेध्यैर्मुन्यन्नानाञ्च भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्ज्जनात् ॥
मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।
मत्स्यादः सर्व्वमांसादस्तस्मान्मत्स्यान् विव-
र्ज्जयेत् ॥’
इति मानवे ५ अध्यायः ॥
अन्यच्च । श्रीभागवतपञ्चमस्कन्धगद्यम् । ‘ये त्विह
वै पुरुषाः पुरुषमेधेन यजन्ते । याश्च स्त्रियो
नृपशून् खादन्ति तांश्च ताश्च ते पशवो इह
निहता यमसदने यातयन्तो रक्षोगणाः ।
शौनिका इव सुधितिना वदायासृक पिबन्तीति ॥’
ब्रह्मपुराणम् ।
‘पशोस्तु मार्य्यमाणस्य न मांसं ग्राहयेत् क्वचित् ।
पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा ॥’
महाभारतम् ।
‘रोगार्त्तोऽभ्यर्थितो वापि यो मांसं नात्त्य-
लोलुपः ।
फलमाप्नोत्ययत्नेन सोऽश्वमेधशतस्य च ॥’
नन्दिपुराणम् ।
‘यश्चोपदेशं कुरुते परस्य तु महात्मनः ।
मांसस्य वर्ज्जनफलं सोऽमांसादफलं लभेत् ॥’
भविष्यपुराणम् ।
‘आमिषं रक्तशाकञ्च यो भुङ्क्ते च रवेर्द्दिने ।
सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥’
पृष्ठ ३/६८४
विष्णुपुराणम् ।
चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥
स्त्रीतैलमांससंभोगी पर्व्वस्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥’
इति तिथ्यादितत्त्वम् ॥
अथ मांसभक्षणविधिः ।
‘श्राद्धे देवान् पितॄन् प्रार्च्च्य खादन् मांसं
न दोषभाक् ।
वसेत् स नरके घोरे दिनानि पशुरोमभिः ॥
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ।
मांसं संत्यज्य संप्राप्य कामान् याति ततो
हरिम् ॥’
इति गारुडे ९६ अध्यायः ॥
अपि च ।
‘गोधा कूर्म्मः शशः खड्गी शल्यकश्चेति
सत्तमाः ।
भक्ष्यान् पञ्चनखान्नित्यं मनुराह प्रजापतिः ॥
मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेव च ।
नवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यथा ॥
मायूरं तैत्तिरञ्चैव कपोतञ्च कपिञ्जलम् ।
वार्द्धीनसं वकं भक्ष्यं नीलहंसं पराजिताः ॥
सफरः सिंहतुण्डश्च तथा पाठीनरोहितौ ।
मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः ॥
प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया ।
यथाविधिनियुक्तश्च प्राणानामपि चात्यये ॥
भक्षयन्नपि मांसानि शेषभोजी न लिप्यते ।
औषधार्थमशक्तौ वा नियोगाद्यज्ञकारणात् ॥
आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यायन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥
इति कूर्म्मपुराणे उपविभागे १६ अध्यायः ॥
अपि च ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्ज्जने ।
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया ॥
यथाविधिनियुक्तश्चु प्राणानामेव चात्यये ।
प्राणस्थान्नमिदं सर्व्वं प्रजापतिरकल्पयत् ॥
स्थावरं जङ्गमञ्चैव सर्व्वं प्राणस्य भोजनम् ।
चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः ॥
अहस्ताश्च सहस्तानां शूराणाञ्चैव भीरवः ।
नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि ॥
धात्रैव सृष्टा ह्याद्याश्च प्राणिनोत्तार एव च ।
यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ॥
अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ।
क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा ।
देवान् पितॄनर्च्चयित्वा खादन् मांसं न दुष्यति ॥
नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥’
इति मानवे ५ अध्यायः ॥ * ॥
देवीपुराणम् ।
‘अष्टमों समुपोष्यैव नवम्यामपरेऽहनि ।
मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् ।
तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥
याज्ञवल्क्यः ।
‘प्राणात्यये तथा श्राद्धे प्रोक्षितं द्बिजकाम्यया ।
देवान् पितॄन् समभ्यर्च्च्य खादन् मांसं न
दोषभाक् ॥’
यमः ।
‘भक्षयेत् प्रोक्षितं मांसं सकृत् ब्राह्मणकाम्यया ।
दैवे नियुक्तः श्राद्धे वा नियमे च विवर्ज्जयेत् ॥’
इति तिथ्यादितत्त्वम् ॥ * ॥
भाक्तामिषं यथा, --
‘गोवर्ज्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् ।
आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥’
गोवर्ज्ज्यमामिषं क्षीरमित्यत्र पत्राणामामिषं
पर्णमिति च पाठः । इति कर्म्मलोचनः ॥
(अस्योत्पत्तिर्यथा, --
‘रसाद्रक्तं ततो मांसं मांसान् मेदः प्रजायते ॥’
इति सुश्रुते सूत्रस्थाने १४ अध्याये ॥)

मांसः, पुं, (मन + सः । दीर्घश्च ।) कालः ।

कीटः । इति शब्दरत्नावली ॥ (वर्णसङ्करजाति
विशेषः । यथा, महाभारते । १३ । ४८ । २२ ।
“चतुरो भागधी सूते क्रूरान्मायोपजीविनः ।
मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम् ॥”)

मांसकारि, क्ली, (मांसं करोतीति । कृ + णिनिः ।)

रक्तम् । इति हेमचन्द्रः । ३ । २८६ ॥

मांसच्छदा, स्त्री, (मांस इव छदः पर्णमस्याः ।

तदुपरिलोमोत्पत्तेरस्यास्तथात्वम् ।) मांस-
रोहिणीविशेषः । तत्पर्य्यायः । मांसी २ मांस-
रोही ३ रसायनी ४ सुलोमा ५ लोमकरिणी
६ । इति राजनिर्घण्टः ॥

मांसजं, क्ली, (मांसाज्जायते इति । जन् + डः ।)

मेदः । इति हेमचन्द्रः । ३ । १८८ ॥ (मांस-
जाते, त्रि ॥)

मांसतेजः, [स्] क्ली, (मांसात् तेजोऽस्य ।)

मेदः । इति हेमचन्द्रः । ३ । १८८ ॥

मांसदलनः, पुं, (मांसं प्लीहात्मकं दलति कृशी-

करोतीति । दल + ल्युः ।) प्लीहघ्नवृक्षः । इति
शब्दचन्द्रिका ॥

मांसद्रावी, [न्] पुं, (मांसं द्रावयति शिथिली-

करोतीति । द्रु + णिच् + णिनिः ।) अम्लवेतसः ।
इति राजनिर्घण्टः ॥ (विशेषोऽस्याम्लवेतस-
शब्दे द्रष्टव्यः ॥)

मांसपचनं, क्ली, (मांसस्य पचनम् ।) मांसपाकः ।

तस्य रूपान्तरं मांस्पाकः । इति व्याकरणम् ॥

मांसपेशी, स्त्री, (मांसस्य पेशी ।) गर्भस्थावयव-

विशेषः । यथा, --
“वुद्वुदः सप्तरात्रेण मांसपेशी भवेत्ततः ।
द्विसप्ताहात् भवेत् पेशी रक्तमांसचिता दृढा ॥
बीजस्यैवाङ्कुराः पेश्यः पञ्चविंशतिरात्रतः ॥”
इति सुखबोधः ॥ * ॥
अथ मांसस्य पेशीराह ।
यथार्थमुष्मणा युक्तो वायुः श्रोतांसि दारयेत् ।
अनुप्रविश्य पिशितं पेशीर्व्विभजते तथा ॥”
यथार्थं यथाप्रयोजनम् ॥ * ॥ मांसपेशीनां
संख्यामाह ।
“मांसपेश्यः समाख्याता नृणां पञ्चशतानि च ।
तासां शतानि चत्वारि शाखासु कथितान्यथ ॥
कोष्ठे षडुत्तरा षष्टिः कथिता मुनिपुङ्गवैः ।
ग्रीवाया ऊर्द्ध्वगास्तास्तु चतुस्त्रिंशत् प्रकी-
र्त्तिताः ॥”
ताः शाखागताः प्राह । एकैकस्यां पादाङ्गुल्यां
तिस्रस्तिस्रस्ताः पञ्चदश १५ पादाग्रे दश १०
पादोपरिकूर्च्चसन्निविष्टा दश १० गुल्फतलयो-
र्दश १० गुल्फजानुनोः अन्तरे विंशतिः २०
जानुनि पञ्च ५ ऊरौ विंशतिः २० वंक्षणे
दश १० एवमेकस्मिन् सक्थिनि शतम् १००
भवन्ति । एतेनेतरसक्थिबाहू च व्याख्यातौ ॥
अथ कोष्ठगताः प्राह । गुदे तिस्रः शेफ-
स्येका १ सेवन्यामेका १ वृषणयोर्द्वे २ स्फिचोः
पञ्च पञ्च ५ । ५ वस्तिमूर्द्धनि द्बे २ उदरे पञ्च ५
नाभौ एका १ पृष्ठोर्द्धसन्निविष्टा उभयतः पञ्च
पञ्च दीर्घाः ५ । ५ पार्श्वयोः षट् ६ वक्षसि
दश १० अक्षकांसौ प्रति समन्तात् सप्त ७ ।
अक्षकौ अंसुया इति लोके । अंसौ स्कन्धौ ।
हृदि द्वे २ यकृति द्वे २ प्लीह्नि द्वे २ उण्डुके
द्वे २ ॥ * ॥ अथ ग्रीवोर्द्ध्वगा आह । ग्रीवायां
चतस्रः ४ हन्वोरष्टौ ८ कण्ठमणौ घण्टिकाया-
मिति यावत् एका १ गले एका १ तालुनि
द्बे २ जिह्वायामेका १ ओष्ठयोर्द्वे २ नासायां
द्वे ललाटे चतस्रः ४ शिरस्येका १ एवं मांस-
पेश्यः पञ्चशतानि भवन्ति ॥ * ॥
“स्त्रीणामपि भवन्त्येताः किन्तु विंशतिरुत्तराः ।
गर्भाशये गर्भमार्गे योनौ च स्तनयोरपि ॥”
एताः पञ्चशतानि मांसपेश्यः । अधिका
विंशतिर्यथा । गर्भाशये तिस्रः ३ गर्भच्छिद्र-
संस्थिताः । शुक्रार्त्तवप्रवेशिन्यां तिस्रः ३ योना-
वभ्यन्तरतो मुखाश्रिते प्रसृते द्बे २ योनावेव
बहिर्निर्गतस्रोतःपार्श्वद्वयस्थिते वर्त्तले योनि-
कर्णिक इति यावत् द्वे २ स्तनयोः पञ्च पञ्च
५ । ५ । यौवने तासां वृद्धिर्भवति ।
“पुंसां पेश्यः पुरस्तात् याः प्रोक्ता मेहन-
सुष्कजाः ।
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥”
अस्यायमर्थः । पुंसां मेहनसुष्कयोश्च याश्चिस्रो
मांसपेश्यः पूर्ब्बमुक्तास्ताः स्त्रीणां मेहनमुष्का-
भावात् फलं गर्भाशयं आवृत्य तिष्ठन्ति । गय-
दासस्त्वास । स्त्रीणां मांसपेश्यस्त्रिभिर्हीनानि
पञ्चशतानि । तथा च भोजः ।
“पञ्चपेशीशतान्येव स्त्रीवर्ज्जं विद्धि भूमिप ! ।
अतश्च तिस्रो हीयन्ते स्त्रीणां शेफसि मुष्कयोः ॥
अथ मांसपेशीनां कर्म्माण्याह ।
“शिरास्नाय्वस्थिपर्व्वाणि सन्धयस्तु शरीरिणाम् ।
पेशीभिः सहितान्येव बलवन्ति भवन्ति हि ॥”
इति भावप्रकाशः ॥
पृष्ठ ३/६८५
(यथा, महाभारते । १ । ११५ । १२ ।
“ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ॥”)

मांसफला, स्त्री, (मांसमिव फलमस्याः ।) वार्त्ताकी ।

इति राजनिर्घण्टः ॥

मांसभक्षः, त्रि, (मांसं भक्षयतीति । भक्ष +

“कर्म्मण्यण ।” ३ । २ । ४ । इत्यण् ।) मांसभक्षण-
कर्त्ता । मांसं भक्षयतीति ढात् षण्णिति कर्त्तरि
षण्प्रत्ययेन निष्पन्नः ॥ (दानवविशेषः । यथा,
हरिवंशे भविष्यपर्व्वणि । २३२ । ९ ।
“मांसपो मांसभक्षश्च वेगवान् केतुमाञ्छिविः ॥”)

मांसमासा, स्त्री, माषपर्णी । इति राजनिर्घण्टः ॥

मांसरोहिणी, स्त्री, (मांसं रोपयतीति । रुह +

णिच् + णिनिः । ङीप् । न पुक् ।) सुगन्धिद्रव्यभेदः ।
तत्पर्य्यायः । अग्निरुहा २ वृत्ता ३ चर्म्मकषा ४
वसा ५ विकषा ६ मांसरोही ७ । अस्या गुणाः ।
वृष्यत्वम् । सारकत्वम् । दोषत्रयनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ (तथाचास्याः पर्य्यायो
गुणाश्च ।
“मांसरोहिण्यतिरुहा वृत्ता चर्म्मकरी कृशा ।
प्रहारवल्ली विकशा वीरवत्यपि कथ्यते ॥
स्यान्मांसरोहिणी वृष्या सरा दोषत्रयापहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मांसलं, क्ली, (मांसं तद्बत् पुष्टिकरो गुणोऽस्त्य-

स्यास्मिन् वा । मांस + “सिध्मादिभ्यश्च ।” ५ ।
२ । ९७ । इति लच् ।) काव्यस्य गौडीरीत्य-
न्तर्गतस्य ओजोगुणस्याङ्गविशेषः । यथा, --
“ओजः समासभूयस्त्वं मांसलं पदडम्बरम् ॥”
इति काव्यचन्द्रिका ॥

मांसलः, त्रि, (अतिशयमांसमस्त्यस्येति । मांस +

“सिध्मादिभ्यश्च ।” ५ । २ । ५७ । इति लच् ।)
बलवान् । इत्यमरः । ३ । ६ । ४४ । स्थूलः ।
यथा, गारुडे ६६ अध्याये ।
“निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ।
मांसलैश्च धनोपेतैरवक्रैरधरैर्नृपाः ॥”
(मांसयुक्तः । यथा, बृहत्संहितायाम् ।
६८ । २८ ।
“हृदयं समुन्नतं पृथु न वेपनं मांसलञ्च
नृपतीनाम् ॥”
अतिबहुलः । यथा, नैषधे । ९ । २७ ।
“ह्रदस्य हंसावलिमांसलश्रियो
बलाकयेव प्रबला विडम्बना ॥”)

मांसलफला, स्त्री, (मांसलं फलमस्याः ।) वृन्ताकी ।

इति राजनिर्घण्टः ॥

मांसविक्रयी, [न्] त्रि, (मांसविक्रयोऽस्यास्तीति ।

मांसविक्रयेण जीवति वेति इनिः ।) आमिष-
विक्रयकर्त्ता । इति हलायुधः ॥ तत्पर्य्यायः ।
वैतंसिकः २ कौटिकः ३ मांसिकः ४ । इत्य-
मरः । २ । १० । १४ ॥ शौनिकः ५ । इति
जटाधरः ॥ कौटकिकः ६ । इति शब्दरत्ना-
बली ॥ (यथा मनौ । ३ । १५१ ।
“चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥”)

मांससारः, पुं, (मांसस्य सारः ।) मेदः । इति राज-

निर्घण्टः ॥ (मांसेष्वपि सारो बलं यस्य । सबल-
स्थूलकायः । यथा, बृहत्संहितायाम् । ६८ । १०० ।
“उपचितदेहो विद्बान् धनी सुरूपश्च मांस-
सारो यः ।
सङ्घात इति च सुश्लिष्टसन्धितासुखभुजो
ज्ञेयाः ॥”)

मांसस्नेहः, पुं, (मांसानां स्नेहः ।) मेदः । इति

राजनिर्घण्टः ॥

मांसहासा, स्त्री, (मांसेन हासः प्रकाशो यस्याः ।)

चर्म्म । इति शब्दरत्नावली ॥

मांसाष्टका, स्त्री, (मांसेन सम्पाद्या अष्टका ।

मांसप्रधाना अष्टका वा ।) गौणचान्द्रमाघ-
कृष्णाष्टमी । तत्र मांसोपकरणकश्राद्धमाबश्य-
कम् । यथा । अथाष्टकाश्राद्धम् ।
“पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च ।
कृष्णपक्षे वरिष्ठा हि पूर्ब्बा चैन्द्री विभाव्यते ॥
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी ।
आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा ॥
शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः ॥”
मूले प्रधानस्थाने । अमावास्या हि श्राद्धस्य
प्रधानकालः तद्वदिति यावत् । ऐन्द्री साग्ने-
रिन्द्रदेवताकयागसम्बन्धात् । एवं प्राजापत्या
वैश्वदेवकी च । मांसैः पशोः । तथा च
गोभिलः । यद्युवाल्पतरसंभारः स्यात् तदा
पशुनैव कुर्य्यादिति । यद्युवेति निपातसमुदायो
यद्यर्थे । पशुरपि छाग एव । छागोऽनादेशे
पशुरिति गोतमात् । न च तैष्या ऊर्द्धं अष्टम्यां
गौरिति गोभिलसूत्रेण गवोपदेशात् कथमनु-
पदिष्टत्वमिति वाच्यम् । तदसम्भवे पशुने-
त्यनेन यः पशुरुपदिष्टस्तस्य विशेषतोऽनुप-
दिष्टत्वात् । वस्तुतस्तु हरिवंशे मृगोऽपि
विहितः ।
“इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ।
मांसमानय श्राद्धाय मृगं हत्वा महाबल ! ॥”
इत्यादिना मृगमांसबोधनात् ॥ पश्वभावे स्थाली-
पाकेन । यथा, गोभिलः । अपि वा स्थाली-
पाकं कुर्व्वीतेति । तद्विधानन्तु ।
“स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम् ।
श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु ॥”
इति छन्दोगपरिशिष्टीयं ग्राह्यम् ॥ अन्विति
ओदनचरोः पश्चात् । अतएव ।
“पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ।
तस्माद्दद्यात् सदा युक्तो विद्वत्मु ब्राह्मणेषु च ॥”
इति शातातपेनोक्तम् ॥ तस्मादन्नं प्रधानं
पूपादिकन्तु उपकरणत्वेन शक्तानामावश्यकं
सदेति श्रवणात् । इति श्राद्धतत्त्वम् ॥

मांसिकः, पुं, (मांसाय प्रभवति “तस्मै प्रभवति

सन्तापादिभ्यः ।” ५ । १ । १०१ । इति । मांस +
ठञ् । मांसेन जीवतीति ठञ् वा । मांसं पण्य-
मस्य । “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक्
वा । अथवा, मांसं नियुक्तमस्मै दीयते । इति
“श्रावणामांसौदनाट्टिठन् ।” ४ । ४ । ६७ । इति
टिठन् ।) मांसविक्रयी । इत्यमरः । २ । १० । १४ ॥

मांसिनी, स्त्री, (मांसवत् पदार्थोऽस्यामस्तीति ।

इनिः । ङीप् ।) जटामांसी । इति राज-
निर्घण्टः ॥

मांसी, स्त्री, (मांसवत् पदार्थोऽस्त्यास्यामिति ।

मांस + अर्शआदित्वादच् । गौरादित्वात् ङीष् ।)
जटामांसी । कक्कोली । इति मेदिनी । से, ८ ।
मांसच्छदा । इति राजनिर्घण्टः ॥ (यथा,
वैद्यकरत्नमालायाम् ।
“नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी ॥”)

मांसेष्टा, स्त्री, (मांसमिष्टं प्रियमस्याः ।) वल्गुला ।

इति राजनिर्घण्टः ॥

माकन्दः, पुं, (मातीति । मा + क्विप् । माः परि-

मितः सुघटितः कन्द इव फलमस्य ।) आम्र-
वृक्षः । इति मेदिनी । दे, ३८ ॥ (यथा, गीतगोविन्दे ।
“माकब्द ! क्रन्द कान्ताधर ! धरणितलं
गच्छ यच्छन्ति यावद्
भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्व-
ग्वचांसि ॥”
तथास्य पर्य्यायः ।
“आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः ।
कामाङ्गो मधुदूतश्च माकन्दः पिकावल्लभः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

माकन्दी, स्त्री, (माकन्द + ङीष् ।) आमलकी ।

नगरभेदः । इति मेदिनी । दे, ३८ ॥ (यथा,
महाभारते । ५ । ७२ । १५ ।
“-- पञ्चग्रामा वृता मया ।
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् ।
अवसानञ्च गोविन्द ! कञ्चिदेवात्र पञ्चमम् ॥”)
पीतचन्दनम् । इति शब्दमाला ॥ माद्राणी
इति माङ्गनी इति च हिन्दी भाषा । तत्-
पर्य्यायः । बहुमूली २ मादनी ३ गन्धमूलिका ४ ।
अस्या गुणाः । कटुत्बम् । तिक्तत्वम् । मधु,
रत्वम् । दीपनत्वम् । रुच्यत्वम् । अल्पवात-
कारित्वम् । पथ्यत्वम् । वर्षासु न सिताधिक-
त्वञ्च । एका विशदमूली च श्यामला च तथा-
परा । इति राजनिर्घण्टः ॥

माकरी, स्त्री, (मकरयुक्ता पौर्णमास्यत्रेति ।

मकर + अण् + ङीष् ।) माघशुक्लसप्तमी । अत्र
स्नानादिविधिर्यथा । भविष्ये ।
“सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा ।
दद्यात् स्नानार्ध्यदानाभ्यामायुरारोग्यसम्पदः ॥
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समाः ॥”
कोटिभास्करा कोटिसप्तमीतुल्या सप्तम्या
भास्करदेवताकत्वात् । सूर्य्यग्रहणफलं स्नान-
जम् । सन्निहिते बुद्धिरन्तरङ्गेतिन्यायात् ।
तेन बहुशतसूर्य्यग्रहणकालीनगङ्गास्नानजन्य-
फलसमफलमत्र ज्ञेयम् ॥ * ॥ स्नानपरिपाटी
पृष्ठ ३/६८६
माह कृत्यकल्पलतायां विष्णुः । सप्तवदरपत्राणि
सप्तार्कपत्राणि च शिरसि निधाय, --
“ॐ यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।
तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥”
इत्युच्चार्य्य स्नायादिति शेषः । रोकं छिद्रम् ।
तिथिकृत्यस्य पौर्णमास्यन्तमासाङ्गत्वात् माक-
रीपदं मकरार्कारब्धचान्द्रमासीयतिथिपरम् ।
तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च ।
विवाहादौ च सौरादिं मासं कृत्ये विनिर्द्दिशे-
दिति ब्रह्मपुराणात् मन्वन्तरादित्वेन तथा
युक्तत्वाच्च । यथा, मत्स्यपुराणम् ।
“यस्मान्मन्वन्तरादौ तु रथमापुर्दिवाकराः ।
माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी ॥
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।”
अतएव नारसिंहे रथाख्यायामित्युक्तम् ॥ * ॥
अर्घ्यदानपरिपाटी यथा, --
“अर्कपत्रैः सवदरैर्द्दूर्व्वाक्षतसचन्दनैः ।
अष्टाङ्गविधिनाचार्य्यं दद्यादादित्यतुष्टये ।
अष्टाङ्गमर्ध्यमापूर्य्य भानोर्मूर्द्ध्नि निवेदयेत् ॥
अर्घ्यमन्त्रस्तु ।
जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।
सप्तव्याहृतिके देवि नमस्ते रविमण्डले ॥
प्रणाममन्त्रस्तु ।
सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन ।
सप्तम्याञ्च नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
तस्यां सूर्य्यमुद्दिश्य रथयात्राफलं यथा, --
“माघमासस्य सप्तम्यां देवं शाम्बपुरं नराः ।
रथयात्रां प्रकुर्व्वन्ति सर्व्वद्वन्द्वविवर्जिताः ॥
गच्छन्ति तत्पदं शान्तं सूर्य्यमण्डलभेदकम् ।
एतत्ते कथितं देवि ! साम्बशापसमुद्भवम् ।
पापप्रशमनाख्यानं महापातकनाशनम् ॥”
इति वराहपुराणम् ॥

माक्ष, इ स्पृहि । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ माङ्क्षति नमध्यपाठे-
नैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
इति दुर्गादासः ॥

माक्षिकं, क्ली, (मक्षिकाभिः कृतम् । मक्षिका +

“संज्ञायाम् ।” ४ । ३ । ११७ । इति ठक् ।)
मधु । इत्यमरः । २ । ९ । १०७ ॥ नीलवर्ण-
मध्यममक्षिकाकृततैलवर्णमधु । अस्य गुणाः ।
क्षौद्राल्लघुतरत्वम् । रूक्षत्वम् । श्रेष्ठत्वम् ।
श्वासादिरोगे विशेषतः प्रशस्ततरत्वञ्च । इति
राजवल्लमः ॥ धातुविशेषः । धातुमाखी इति
हिन्दीभाषा । तद्द्विविधम् । स्वर्णमाक्षिकं
रौप्यमाक्षिकञ्च । तत्पर्य्यायः । माक्षीकम् २
पीतकम् ३ धातुमाक्षिकम् ४ तापिच्छम् ५
ताप्यकम् ६ ताप्यम् ७ आपीतम् ८ पीत-
माक्षिकम् ९ आवर्त्तम् १० मधुधातुः ११ क्षौद्र-
धातुः १२ माक्षिकधातुः १३ । इति राज-
निर्घण्टः ॥ कदम्बः १४ चक्रनाम १५ अज-
नामकम् १६ । इति हेमचन्द्रः । ४ । १२० ॥
अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । अम्ल-
त्वम् । कफभ्रमहृल्लासमूर्च्छार्त्तिश्वासकासविषा-
पहत्वञ्च ।
“माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् ।
भिन्नवर्णविशेषत्वाद्रसवीर्य्यादिकं पृथक् ॥
तारपादादिके तारमाक्षिकञ्च प्रशस्यते ।
देहे हेमाभकं शस्तं रोगहृद्बलपुष्टिदम् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“लेखनो माक्षिको धातुः सुवर्णरजतद्युतिः ।
जराजित् पाण्डुरोगघ्नः क्षयकुष्ठज्वरापहः ॥
मधुरोऽम्लः कटुःपाके किञ्चिदुष्णोऽमृतोपमः ॥”
इति कश्चिद्राजवल्लभः ॥
(उपधातुविशेषः । यथा, सुखबोधे ।
“माक्षिकं तुत्थिताभ्रे च नीलाञ्जनशिलालकाः ।
रसकञ्चेति विज्ञेया एते सप्तोपधातवः ॥”)

माक्षिकजं, क्ली, (माक्षिकात् जातम् । जन +

डः ।) शिक्थकम् । इति राजनिर्घण्टः ॥

माक्षिकफलः, पुं, (माक्षिकवत् मधुरं फलमस्य ।)

मधुनालिकेरिकः । इति राजनिर्घण्टः ॥

माक्षिकाश्रयं, क्ली, (माक्षिकानामाश्रयः ।

अभिधानात् क्लीवत्वम् ।) शिक्थकम् । इति
राजनिर्घण्टः ॥

माक्षीकं, क्ली, (मक्षिकाभिः कृतमित्यण् । निपा-

ताद्दीर्घत्वम् ।) मधु । इति राजनिर्घण्टः ॥
(धातुविशेपः । यथा, कथासरित्सागरे ।
७६ । ३ ।
“माक्षीकधातुमधुपारदलोहाचूर्ण-
पथ्याशिलाजतुविडङ्गघृतानि योऽद्यात् ।
सैकानि विंशतिरहानि जरान्वितोऽपि
सोऽशीतिकोऽपि रमयत्यवलां युवेव ॥”)

माक्षीकशर्करा, स्त्री, (माक्षीककृता शर्करा

शाकपार्थिवादिवत् समासः ।) सिताखण्डः ।
इति राजनिर्घण्टः ॥

मागधः, पुं, (मगधस्य तद्बंशस्यापत्यम् । “द्व्यञ्-

मगधकलिङ्गसूरमसादण् ।” ४ । १ । १७० ।
इति । अण् ।) पाणिस्वनकः । इति महा-
भारतम् ॥ वंशक्रमेण महत्त्ववेदिराजाग्रस्तुति-
कारी । तत्पर्य्यायः । मधुकः २ वन्दी ३ स्तुति-
पाठकः ४ । इत्यमरभरतौ । २ । ८ । ९७ ।
तस्योत्पत्तिर्यथा, --
ततोऽस्य दक्षिणं हस्तं ममन्थुस्ते तदा द्विजाः ।
मथ्यमाने च तत्राभूत् पृथुर्वैण्यः प्रतापवान् ॥
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते ! ॥
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥
स्तूयतामेष नृपतिः पृथुर्वैण्यः प्रतापवान् ।”
सूत्यामिति सूतिरभिषूतिः अभिषूयते कण्ड्यते
सोमोऽस्यामिति सूतिः सोमाभिषवभूमिस्त-
स्याम् । सौत्येऽहनि तस्मिन्नेव दिने । इति
विष्णुपुराणे १ अंशे ४१ अध्यायस्तट्टीका च ॥
(यथा, महाभारते । १३ । ४८ । १२ ।
“वन्दी तु जायते वैश्यान्मागधो वाक्य-
जीवनः ।”)
वर्णसङ्करजातिविशेषः । (यथा, मानवे ।
१० । ११ ।
“क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”)
स तु क्षत्त्रियायां वैश्याज्जातः । भाट् इति
ख्यातः । मगधेषु भवो मागधः ष्णः इत्यमर-
भरतौ । २ । १० । २ । जरासन्धराजः ।
तथा, --
“मागधो न च हन्तव्यो भूयः कर्त्ता बलोद्यमम् ।”
इति श्रीभागवते १० स्कन्धः ॥
शुक्लजीरकः । मगधदेशोद्भवे त्रि । इति
मेदिनी । मे, ३४ ॥ (यथा, महाभारते ।
६ । ९ । ४९ ।
“अन्ध्राश्च बहवो राजन्नन्तर्गिर्य्यास्तथैव च ।
बहिर्गिर्य्याङ्गमलदा मागधा मालवाज्जटाः ॥”)

मागधादेवी, स्त्री, राधिका । यथा, --

“तासान्तु मागधादेवी तप्तचामीकरप्रभा ।
वृन्दावनेश्वरी राधा नाम्ना धात्वर्थकारणात् ॥”
इति पाद्मे पातालखण्डे ९ अध्यायश्लोकार्द्धद्बयम् ॥

मागधी, स्त्री, (मागधे जाता । मगध + अण्,

ङीष् ।) यूथिका । पिप्पली । इत्यमरमेदिनी-
करौ । धे, । ३४ । २ । ४ । ९६ । (यथास्याः
पर्य्यायः ।
“पिप्पली च पलाशौण्डी वैदेही मागधी-
कणा ।
कृष्णोपकुल्या मगधी कोलास्यात्तिक्त तण्डुला ॥”
इति वैद्यकरत्नमालायाम् ॥)
त्रुटिः । गुजराटी एलाचि इति भाषा । इति
शब्दचन्द्रिका ॥ शर्करा । इति जटाधरः ॥
भाषाविशेषः । इति हेमचन्द्रः ॥ यथा च
साहित्यदर्पणे । ६ । १६० ।
“अत्रोक्ता मागधी भाषा राजान्तःपुरचारि-
णाम् ॥”
(तद्देशभवे, त्रि । यथा, महाभारते । १ । ९५ । ४१ ।
“अनश्वा खलु मागधीमुपयेमे अमृतां नाम
तस्यामस्य जज्ञे परीक्षित् ॥)

माघः, पुं, श्रीदत्तकसूनुशिशुपालवधमहाकाव्य-

कर्त्ता । इति तद्ग्रन्थशेषपुष्पिका ॥ स्वनाम-
ख्यातमहाकाव्यम् । यथा, --
पुष्पेषु जाती नगरेषु काञ्ची
नारीषु रम्भा पुरुषेषु विष्णुः ।
नदीषु गङ्गा नृपतौ च रामः
काव्येषु माघः कविकालिदासः ॥”
इति प्राचीनाः ॥
वैशाखादिद्वादशमासान्तर्गतदशममासः ।
मघायुक्ता पौर्णमासी यत्र मासे सः ॥ तत्-
पर्य्यायः । तपाः २ । इत्यमरः । ४ । १ । ४ । १५ ॥
स च त्रिविधः । मकरस्थरव्यारब्धशुक्लप्रति-
पदादिदर्शान्तो मुख्यचान्द्रः १ । कृष्णप्रति-
पृष्ठ ३/६८७
पदादिपौर्णमास्यन्तो गौणचान्द्रः २ । मकरस्थ-
रविकः सौरः ३ । इति मलमासतत्त्वीयलिखन-
स्वरसात् ॥ तत्र जातफलम् ।
“विद्याविनीतः स्वकुलप्रधानः
सदा सदाचारयुतः प्रवीणः ।
योगानुरक्तो विषयेष्वसक्तो
माघेऽथ मासे मघवानिवेशः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
अथ, माघकृत्यम् । पाद्मे ।
“स्वर्गलोके चिरं वासो येषां मनसि वर्त्तते ।
यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे ॥”
मृगो मृगास्यत्वेन मकरः । तत्स्थे भास्करे ।
तत्र सङ्कल्पः । अरुणोदयकाले जले मज्जनं
कृत्वा आचम्य उत्तराभिमुखः ॐ तत् सदित्यु-
च्चार्य्य कुशकुसुमतिलजलान्यादाय ओमद्य माघे
मासि अमुकपक्षे अमुकतिथावारभ्य मकरस्थ-
रविं यावत् प्रत्यहममुकगोत्रोऽमुकदेवशर्म्मा
स्वर्गलोके चिरकालवासकामो विष्णुप्रीतिकामो
वा प्रातःस्नानमहं करिष्पे इति संकल्प्य
गङ्गाव्यतिरिक्तजलमात्रेऽपि स्नानं कर्त्तव्यम् ।
प्रतिदिनसङ्कल्पे तु आरभ्य मकरस्थरविं यावत्
प्रत्यहमिति न वक्तव्यं किन्तु मास्यनन्तरं मकरस्थे
रवावित्यधिकं वक्तव्यम् । चान्द्रस्नानवाक्यन्तु
वैशाखकृत्येऽनुसन्धेयम् । तत्र सङ्कल्पं कृत्वा
यथोक्तविधिना स्नानेति कर्त्तव्यतां विधाय, --
“ॐ दुःखदारिद्र्यनाशाय श्रीविष्णोस्तोषणाय च ।
प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥
मकरस्थे रवौ माघे गोविन्दाच्युत माधव ।
स्नानेनानेन मे देव ! यथोक्तफलदो भव ॥”
इत्युच्चार्य्य स्नायात् । ततो वासुदेवं हरिं कृष्णं
श्रीधरञ्च स्मरेत्ततः ॥
“ॐ दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ।
परिपूर्णं कुरुष्वेदं माघस्नानं महाव्रतम् ॥”
चान्द्रस्नाने मकरार्कास्पष्टकाले मकरस्थे रवा-
वित्यस्य न पाठः । असमवेतार्थत्वात् । तीर्थे तु ।
“माघमासमिमं पुण्यं स्नाम्यहं देव माधव ।
तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे ॥”
इति पठित्वा दुःखदारिद्र्यनाशायेत्यादिकं
पठितव्यम् । गङ्गायान्तु पद्मपुराणे ।
“दिने दिने सहस्रन्तु सुवर्णानां विशाम्पते ! ।
तेन दत्तं हि गङ्गायां यो माघे स्नाति माधव ॥”
मानव इति क्वचित् पाठः । एकदा सङ्कल्पे तु
प्रतिदिनसहस्रसुवर्णदानजन्यफलसमफलप्राप्ति-
कामः श्रीविष्णुप्रीतिकामो वा माघमासं यावत्
प्रत्यहं गङ्गायां प्रातःस्नानमहं करिष्ये । इति
वाक्ये विशेषः । प्रतिदिनसंकल्पे तु सहस्रसुवर्ण-
दानजन्यफलसमफलप्राप्तिकामो विष्णुप्रीति-
कामो वा गङ्गायां प्रातःस्नानमहं करिष्ये इति
यथोक्तविधिना स्नानेतिकर्त्तव्यतां विधाय ।
“ॐ माघमासमिमं पुण्यं स्नाम्यहं देव माधव ।
तीर्थस्यास्य जले नित्यं प्रसीद भगवन् हरे ॥
दुःखदारिद्र्यनाशाय श्रीविष्णोस्तोषणाय च ।
प्रातःस्नानं करोम्यद्य माघे पापप्रणाशनम् ॥
मकरस्थे रवौ माघे गोविन्दाच्युत माधब ।
स्नानेनानेन मे देव यथोक्तफलदो भव ॥”
इति पठित्वा स्नायात् । ततः
वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥
“दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते ।
परिपूर्णं कुरुष्वेदं माघस्नानं महाब्रतम् ॥”
इति पठेत् ॥ * ॥
स्कन्दपुराणम् ।
“सम्प्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे शुभे ।
कर्त्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः ॥”
तत्तत्पुण्यकामः श्रीविष्णुप्रीतिकामो वा इति
वाक्ये विशेषः ॥ * ॥ पौष्याः पौर्णमास्या ऊर्द्ध्वं
माघपौर्णमासीपर्य्यन्तं मदिरातुल्यत्वान्मूलकं न
भोक्तव्यम् ॥ * ॥ पौष्या ऊर्द्ध्वं माघकृष्णाष्टम्यां
छागमांसेन श्राद्धं कर्त्तव्यम् । मांसाभावे
पायसोपकरणेन । तदभावे केवलान्नेन वा
श्राद्धं कर्त्तव्यम् ॥ * ॥ अथ रटन्तीचतुर्द्दशी ।
“माघे मास्यसिते पक्षे रटन्त्याख्यचतुर्द्दशी ।
तस्यामुदयवेलायां स्नाता नावेक्षते यमम् ॥”
उदयवेलायां अरुणोदयवेलायाम् ।
“अनर्काभ्युदिते काले माघे कृष्णचतुर्द्दशी ।
सतारव्योमकाले तु तस्यां स्नानं महाफलम् ॥
स्नात्वा सन्तर्प्य तु यमान् सर्ब्बपापैः प्रमुच्यते ।”
अत्र तिथिकृत्यत्वाद्गौणचान्द्रादरः । तत्रोभय-
दिने अरुणोदयसतारकाले मुहूर्त्तान्यूनचतुर्द्दशी-
लाभे पूर्ब्बदिने स्नानं यमतर्पणञ्च । एकदिन-
मात्रे तल्लाभे तद्दिने । माघस्नानकालाभ्यन्तरे
तादृशचतुर्द्दशीलाभे माघप्रातःस्नायिना तन्त्रेण
द्वयं कार्य्यम् । तत्र ॐ तत् सदद्य माघे मासि
कृष्णे पक्षे रटन्त्यां चतुर्द्दश्यां तिथौ अरुणोदय-
वेलायां अमुकगोत्रः श्रीअमुकदेवशर्म्मा यमा-
दर्शनकामो गङ्गायां स्नानमहं करिष्ये इति
सङ्क्यल्प्य यथाविधि स्नानं प्रागुक्तं चतुर्द्दशयम-
तर्पणञ्च कुर्य्यात् ॥
अथ श्रीपञ्चमी ।
‘तत्रोभयदिने पूर्ब्बाह्णे पञ्चमीलाभे पूर्ब्बदिने
लक्ष्मीसरस्वत्योः पूजनं युग्मात् । एकदिनप्राप्ते
तद्दिने । एवं षड्वर्षं शुक्लपञ्चमीव्रतेऽपि ।
ततश्च ॐ तत् सदित्युच्चार्य्य ॐ मद्येत्यादि लक्ष्मी-
प्रीतिकामो लक्ष्मीपूजनमहं करिष्ये इति
सङ्कल्प्य शालग्रामे जले वा पूजयेत् । ॐ
पाशक्षमालिकाम्भोजशृणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् ॥
गौरवर्णां सुरूपाञ्च सर्व्वालङ्कारभूषिताम् ॥
रौक्मपद्मव्यग्रकरां वरदां दक्षिणेन तु ॥
इत्यनेन ध्यात्वा एतत् पाद्यं ॐ लक्ष्म्यै नमः ।
इत्यादिना नैवेद्यान्तेन पूजयेत् ।
ॐ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चनात् ॥
इत्यनेन पुष्पाञ्जलित्रयेण प्रणमेत् ॥ * ॥ ॐ तत्
सदित्युच्चार्य्य ओमद्येत्यादि सरस्वतीप्रीतिकामः
सरस्वतीपूजनमहं करिष्ये इति सङ्कल्प्य शाल-
ग्रामे घटादिस्थजले वा पूजयेत् ।
“ॐ तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै पातु वाग्देवता नः ॥”
इति ध्यात्वावाह्य एतत् पाद्यं ॐ सरस्वत्यै नमः ।
इत्यादिना नैवेद्यान्तेन पूजयेत् । ततः
“ॐ भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नभः ।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च स्वाहा ॥”
इति ब्रह्मपुराणीयेन पुष्पाञ्जलिना त्रिः पूजयेत् ।
मत्स्यसूक्ते । सरस्वतीं संपूज्य ।
“ॐ यथा न देवो भगवान् ब्रह्मा लोकपिता-
महः ।
त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् ।
न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ! ॥”
इति मत्स्यपुराणीयैः प्रार्थ्य प्रणमेत् ॥ * ॥
“बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् ।
आचारात् पुस्तकञ्च पूजयेत् । ॐ मस्याधाराय
नमः । इति मस्याधारं पूजयेत् । ॐ लेखन्यै
नमः । इति लेखनीं पूजयेत् ॥ * ॥
अथ माघसप्तमी ।
तत्रोभयदिने अरुणोदयकाले सप्तमीलाभे पूर्ब्ब-
दिने एकदिने तल्लाभे तद्दिने । अरुणोदयकाले
सामान्यजले ॐ अद्येत्यादिं सूर्य्यग्रहणकालीन-
गङ्गास्नानजन्यफलसमफलप्राप्तिकाम आयुरा-
रोग्यसम्पत्कामो वारुणोदयवेलायां स्नानमहं
करिष्ये । इति सङ्कल्प्य यथाविधि स्नानेति
कर्त्तव्यतां विधाय सप्तवदरपत्राणि सप्तार्क-
पत्राणि च शिरसि निधाय ।
“ॐ यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।
तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥”
इत्युच्चार्य्य स्नायात् । ततो यथाकालं सप्त-
वदरीफलार्कपत्रशालितिलदूर्व्वाक्षतचन्दनयुक्त-
जलमादाय ओमद्येत्यादि आयुरारोग्यसम्पत्-
कामः श्रीसूर्य्यायार्घ्यमहं ददे । इति सङ्कल्प्य
‘ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णु तेजसे
जगत्सवित्रे शुचये सवित्रे कर्म्मदायिने ॥’
इत्यनन्तरम् ।
“ॐ जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।
सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले ॥”
इति प्रठित्वा इदमर्ध्यं श्रीसूर्य्याय नम इत्यर्घ्यं
दत्त्वा ।
“ॐ सप्तसप्तिवह प्रीत सप्तलोकप्रदीपन ।
सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥
इत्यनेन प्रणमेत् । शूद्रेणापि स्नाने तूष्णीं विधा-
नात् स्नानमन्त्रं विना अर्घ्यप्रणाममन्त्राः पाठ्याः
पौराणिकत्वात् । गङ्गायान्तु बहुशतसूर्य्यग्रहण-
कालीनगङ्गास्नानजन्यफलसमफलप्राप्तिकामो
पृष्ठ ३/६८८
गङ्गायां स्नानमहं करिष्ये इति वाक्ये विशेषः ।
अत्रार्ध्यदानमङ्गं एतत् स्नानादेव माघप्रातः-
स्नानं तन्त्रेणैव सिध्यति ॥ * ॥
अथ विधानसप्तमीव्रतम् ।
प्रथमतो ब्राह्मणान् स्वस्तिवाच्य ॐ सूर्य्यः सोम
इत्यादि पठित्वा ताम्रादिपात्रे कुशतिलजला-
न्यादाय ॐ तत् सदित्युच्चार्य्य ओमद्य माघे
मासि शुक्ले पक्षे सप्तम्यान्तिथावारभ्य प्रति-
मासीयशुक्लसप्तम्यां पौषसप्तमीं यावत् आरो-
ग्यसम्पत्कामोऽभीष्टतत्तत्फलकामो वा अर्का-
ग्रादीतरभोजनविच्छित्तिविधानेन सप्तमीव्रत-
महं करिष्ये इति सङ्कल्प्य संयमपारणसहितं
तत्तन्मासि तत्तन्नियमं कुर्य्यात् । तत्र माघे
अर्काग्रमात्रं भुञ्जीत । फाल्गुने अन्तरीक्ष-
गृहीतं कपिलाविड्यवमात्रप्रमाणं तदभावे
अन्यगोमयमपीति । चैत्रे मरीचमेकम् ।
वैशाखे किञ्चिज्जलम् । ज्यैष्ठे अपक्वकदली-
फलमध्यकणामात्रम् । आषाढे स्वच्छायद्बिगुण-
समये यवप्रमाणं कुशमूलम् । श्रावणे नक्तं
काले अल्पहविष्यौदनम् । भाद्रे शुद्धोपवासः ।
आश्वेने पञ्चमार्द्धयामे मयूराण्डप्रमाणं हवि-
ष्यान्नम् । कार्त्तिके अर्द्धप्रसृतिमात्रं कपिला-
क्षीरं तदभावे क्षारान्तरम् । मार्गशीर्षे प्राङ्-
मुखो वाय्वशनम् । पौषे स्वल्पं घृतम् । तदन-
न्तरञ्च ।
“ब्राह्मणान्भक्षयेत् भक्त्या गुडक्षीरनिरामिषैः ।
विप्राय दक्षिणा देया विभवस्यानुरूपतः ॥
अष्टम्यां पारणं कुर्य्यात् कट्वम्लरहितेन च ।
मुद्गमाषतिलादीनि घृतञ्चैव विवर्ज्जयेत् ॥
एकसिद्धं भक्ष्यमुक्तमर्कतन्त्रानुसारतः ॥”
चान्द्रमासविशेषोल्लेखवत् अनन्तादिव्रतवत्-
मलमासेतरे तत्तु कर्त्तव्यम् ॥ * ॥
अथारोग्यसप्तमी ।
तत्र पूर्ब्बवत् सप्तम्यान्तिथावारभ्य ऐहिकारोग्य
धनधान्यपारलौकिकशुभस्थानप्राप्तिकामः संव-
त्सरं यावत् आरोग्यसप्तमीव्रतमहं करिष्ये
इति सङ्कल्प्य प्रतिमासशुक्लसप्तम्यां शालग्रामे
घटादिस्थजले वा पूजयेत् । रक्ताम्बुजासन-
मिति ध्यात्वा एतत् पाद्यं ॐ सूर्य्याय नम
इत्यादिभिः संपूज्य ।
“आदित्य भास्कर रवे भानो सूर्य्य दिवाकर ।
प्रभाकर नमस्तेऽस्तु रोगादस्मान् प्रमोचय ॥”
इति त्रिःपूजयेत् । एवं संवत्सरे पूर्णे दक्षिणां
दद्यात् । ब्राह्मणांश्च भोजयेत् । विशेषमासानु-
द्देशादमावास्याव्रतवत् मलमासेऽपि कर्त्तव्यम् ॥
अथ भीष्माष्टमी ।
अष्टम्यां ब्राह्मणः पितृतर्पणं कृत्वा
“ॐ वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च ।
अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥”
इति पितृवत् भीष्मं तर्पयेत् ॥ ततः कृता-
ञ्जलिः ।
“भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।
आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥”
इत्यनेन प्रार्थयेत् । क्षत्त्रियादिभिः पितृतर्पणात्
पूर्ब्बं एतत् कर्त्तव्यम् ॥ * ॥ भैम्यामेकादश्या-
मुपोष्य द्बादश्यां तिलोद्बर्त्तनमावश्यकं कर्त्त-
व्यम् । स्नानतर्पणमहादानभोजनादि यथा-
लाभं कुर्य्यात् ॥ * ॥ माघपौर्णमास्यां युगाद्या-
त्वेन पार्व्वणविधिना श्राद्धं कर्त्तव्यम् । अनन्त-
फलकामनया स्नानदानञ्च कर्त्तव्यम् ।
तस्यां दानप्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् ॥
इति कृत्यतत्त्वम् ॥ * ॥ * ॥
अथ माघस्नानफलम् ।
“ब्रतदानैस्तपोभिश्च न तथा प्रीयते हरिः ।
माघमज्जनमात्रेण यथा प्रीणाति केशवः ॥
न समं विद्यते किञ्चित् तेजः सौरेण तेजसा ।
तद्बत् स्नानेन माघस्य न समाः क्रतुजाः
क्रियाः ॥
प्रीतये वासुदेवस्य सर्व्वपापाद्विमुक्तये ।
माघस्नानं प्रकुर्व्वीत स्वर्गलाभाय मानवः ॥
किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।
अध्रुवेणाशु हेयेन माघस्नानं विना भवेत् ॥
मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ ।
कथं पापैः प्रसुच्येत कथं स त्रिदिवं व्रजेत् ॥
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
माघस्नायी विपापः स्यात्तत्सं सर्गी च पञ्चमः ॥
उपपातकानि सर्व्वाणि पातकानि महान्ति च ।
भस्मीभवन्ति सर्व्वाणि माघस्नायिनि मानवे ॥
पावका इव दीप्यन्ते माघस्नाता नरोत्तमाः ।
विमुक्ताः सर्व्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥
आर्द्रं शुष्कं लघु स्थूलं वाङ्मनःकर्म्मभिः कृतम् ।
माघस्नानं दहेत् सर्व्वं पावकः समिधो यथा ॥
प्रामादिकञ्च यत् पापं ज्ञानाज्ञानकृतञ्च यत् ।
स्नानमात्रेण तन्नश्येत् मकरस्थे दिवाकरे ॥
निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्ध-
ताम् ।
सन्देहोऽत्र न कर्त्तव्यो माघस्नाने नराधिप ! ॥
सर्व्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप ! ।
सर्व्वेषां स्वर्गदो माघः सर्व्वेषां पापनाशनः ॥
एतदेव परो मन्त्रो ह्येतदेव परं तपः ।
प्रायश्चित्तं परञ्चैव माघस्नानमनुत्तमम् ॥
नृणां जन्मान्तराभ्यासात् माघस्नानमतिर्भवेत् ।
अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ! ॥
संसारकर्द्दमालेपप्रक्षालनविशारदम् ।
पावनं पावनानाञ्च माघस्नानं परन्तप ! ॥
स्नाता माघे च ये राजन् ! सर्व्वकामफलप्रदे ।
ते तांश्च भुञ्जते लोकांश्चन्द्रसूर्य्यग्रहोपमान् ॥”
इति श्रीपद्मपुराणे उत्तरखण्डे ४ अध्यायः ॥

माघवती, स्त्री, (मघवान् देवताऽस्याः यद्वा,

मघवत इयमिति । मघवत् + अण् । “मघवा
बहुलम् ।” ६ । ४ । १२८ । इति त्रादेशः ।
ङीप् ।) पूर्ब्बदिक् । इति राजनिर्घण्टः ॥

माघवनं, क्ली, इन्द्रसम्बन्धि वस्तु । मघवत इद-

मित्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध-
व्याकरणम् ॥ (मघवन् + अण् । “मघवा बहु-
लम् ।” ६ । ४ । १२८ । इति विकल्पान्न-
त्रादेशः । त्रि, यथा, माघे । ९ । २५ ।
“वसुधान्तनिःसृतमिवाहिपतेः
पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः
ककुभं समस्कुरुत माघवनीम् ॥”)

माघी, स्त्री, (मघया युक्तः कालः अस्यां इति ।

मघा + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ ।
इत्यण् ङीप् ।) मघायुक्ता पौर्णमासी । यथा,
“पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ।
नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥”
इत्यमरः । १ । ४ । १३ ॥ माधी पूर्णिमा ।
यथा, अयोध्याकाण्डे भरतशपथे ।
“आषाढी कार्त्तिकी माघी तिथयः पुण्य-
सम्भवाः ।
अप्रदानवतो यान्तु यस्यार्य्योऽनुमतो गतः ॥”
विष्णुधर्म्मोत्तरे ।
“पौर्णमासी तथा माघी श्रावणी च नरो-
त्तम ! ।
प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ॥
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा-
पतिः ॥”
सा च कलियुगाद्या । यथा, --
“अथ भाद्रपदे कृष्णे त्रयोदश्यान्तु द्बापरम् ।
माघे च पौर्णमास्यां वै घोरं कलियुगं
स्मृतम् ॥”
अस्यां कर्म्मणोऽनन्तफल यथा, मात्स्ये ।
“शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये ।
विषुवे शतसाहस्रमा का मा वैष्वनन्तकम् ॥”
आ का मा वैषु आषाढीकार्त्तिकीमाघीवैशा-
खीषु । इति तिथ्यादितत्त्वम् ॥ माघ्यां मघा-
योगाभावे सिंहस्थगुरावकालप्रतिप्रसवो यथा,
शातातपः ।
“माघ्यां वदि मघा नास्ति सिंहे गुरुरकार-
णम् ॥”
राजमार्त्तण्ड दक्षः ।
“गुरौ हरिस्थे न विवाहमाहु-
र्हारीतगर्गप्रमुखा मुनीन्द्राः ।
यदा न माघी मघसंयुता स्यात्-
तदा च कन्योद्वहनं वदन्ति ॥”
इत्थञ्च माघ्यां मघायोगाभावेऽपि श्रुतिवेधादि-
मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्मघा-
परित्यागादेव । इति मलमासतत्त्वम् ॥

माघोनी, स्त्री, (मघवान् देवताऽस्याः । मघोन

इयमिति वा । इति मघवन् + अण् ङीप् ।)
पूर्ब्बा दिक् । इति राजनिर्घण्टः ॥ (इन्द्रसम्ब-
न्धिनि, त्रि । यथा, ऋग्वेदे । १० । ६६ । २ ।
“मरुद्गणे वृजने मन्म धीमहि
माघोने यज्ञं जनयन्त सूरयः ॥”
“माघोने मघवत इन्द्रस्य सम्बन्धिनि मरुद्गणे ।”
इति तद्भाष्ये सायनः ॥)
पृष्ठ ३/६८९

माघ्यं, क्ली, (माघे जातमिति । माघ + “तत्र

जातः । ४ । ३ । २५ । इति यत् ।) कुन्दपुष्पम् ।
इत्यमरः । २ । ४ । ७३ ॥

माङ्गल्यं, त्रि, (मङ्गलाय हितमिति । मङ्गल +

ष्यञ् ।) मङ्गलाय हितम् । यथा, राजमार्त्तण्डे ।
“माङ्गल्येषु विवाहेषु कन्यासंवरणेषु च ।
दश मासाः प्रशस्यन्ते चैत्रपौषविवर्ज्जिताः ॥”
इत्युद्वाहतत्त्वम् ॥
अपि च । भीमपराक्रमे ।
“अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते
मासि ।
चक्रिणि सुप्ते कुर्य्यान्न माङ्गल्यं विवाहञ्च ॥”
इति मलमासतत्त्वम् ॥
(मङ्गलस्य भावः । “मङ्गतेरलच् ।” उणा०
५ । ७० । इत्यस्य वृत्तौ “भावे ष्यञि माङ्ग-
ल्यम् ।” इत्युज्ज्वलदत्तः ॥)

माङ्गल्यार्हा, स्त्री, (माङ्गल्यस्य अर्हा ।) त्राय-

माणा लता । इति राजनिर्घण्टः ॥

माचः, पुं, (मा अञ्चतीति । अन्च + कः ।)

पन्थाः । इति शब्दरत्नावली ॥

माचलः, पुं, (मा चलति भोगमदत्वाचिरेणैव

स्थानं न मुञ्चतीति । चल + अच् ।) ग्रहः ।
रोगः । (मा चलति स्वच्छन्दं न प्रसरतीति ।
चल् + अच् ।) । वन्दी । चौरः । इति शब्द-
रत्नावली ॥ मेदिन्यां ग्रहस्थाने ग्राह इति पाठः ॥

माचिका, स्त्री, (मा अञ्चति क्षतादिकं त्यक्त्वा

न गच्छतीति । अन्च् + कः । ततः कन् ।
टाप् । अत इत्वम् ।) मक्षिका । इति त्रिकाण्ड-
शेषः ॥ अम्बष्ठा । इति राजनिर्घण्टः ॥

माचिरं, व्य (मा चिरम् ।) शीघ्रम् । यथा, --

“अथाब्रवीत्तदा मत्स्यस्तानृषीन् प्रहसन् शनैः ।
अस्मिन् हिमवतः शृङ्गे नावं बध्नीत मारिचम् ॥”
इति वनपर्व्वणि मात्स्योपाख्यानम् ॥

माचीपत्रं, क्ली, सुरपर्णम् । इति राजनिर्घण्टः ॥

माजलः, पुं, (मा जलमित्यभिप्रायोऽस्य । वर्षण-

वारिभ्योऽस्य पक्षयोर्भारजडत्त्वात् तथात्वम् ।)
चासपक्षी । यथा, शब्दचन्द्रिकायाम् ।
“माजलश्चासकः कुब्जो विहारो बिन्दुरेखकः ।”

माञ्जिष्ठं, क्ली, (मञ्जिष्ठया रक्तम् । “तेन रक्तं

रागात् ।” ४ । २ । ४ । इत्यण् ।) लोहितवर्णः ।
(यथा, बृहत्संहितायाम् । ३० । १२ ।
“कल्माषबभ्रुकपिलाविचित्रमाञ्जिष्ठहरितशव-
लाभाः ।”
तद्वति, त्रि । इति हेमचन्द्रः ॥

माटाम्रकः, पुं, (माटाख्य आम्रः । तत्रः कन् ।)

वृक्षभेदः । यथा, --
“वल्वङ्की कर्क्वठीर्व्वारुः सेटुमाटाम्रकौ समौ ।”
इति भूरिप्रयोगः ॥

माठरः, पुं, सूर्य्यपार्श्वपरिवर्त्तिविशेषः । यथा, --

“माठरः पिङ्गलो दण्डश्चण्डांशोः पारि-
पार्श्विकाः ।”
इत्यमरः । १ । ३ । ३१ ॥
मठति निवसति सूर्य्यसमीपे माठरः मठ वास-
मर्द्दयोः नाम्नीति अरण् मठरस्यापत्यं माठर
इति स्वामी ॥ पिङ्गलवर्णत्वात् पिङ्गलः । दण्ड-
कारित्वाद्दण्डः । इति स्वामी ॥ परितः पार्श्वे
वर्त्तन्ते पारिपार्श्विकाः ढघे कादिति ष्णिकः ।
सूर्य्यः कारुणिकत्वाद्दैत्यानां वरं दास्यतीति
धिया इन्द्रादयोऽष्टादशनामान्तरेण प्रच्छन्ना
अस्य पार्श्वेषु स्थिताः । अत्र प्राधान्यात्त्रयो
ऽभिहिताः । अत्र माठरनामा यमः । पिङ्गल-
नामा वह्रिः । दण्डनामा शक्रः । तथाचागमः ।
“तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः ।
वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो नामतश्च सः ॥
यमोऽपि दक्षिणे पार्श्वे ख्यातो माठरसंज्ञकः ।”
एवमपरे हरगुहादयः कुल्माषपक्ष्यादिसंज्ञकाः
पूर्ब्बद्वारादिषु स्थिताः । इति तट्टीकायां भरतः ॥
व्यासः । इति मेदिनी । रे, २०३ ॥ विप्रः । इति
हेमचन्द्रः । ३ । ५१० ॥ शौण्डिकः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

माडः, पुं, वृक्षविशेषः । माडवेनौ इति कोकणे

प्रसिद्धः । तत्पर्य्यायः । माडाद्रुमः २ दीर्घः ३
ध्वजवृक्षः ४ वितानकः ५ मद्यद्रुमः ६ । अस्य
गुणाः । मोहकारित्वम् । श्रमहरत्वम् । श्लेष्म-
कारकत्वञ्च । इति राजनिर्घण्टः ॥

माडवः, पुं, वर्णसङ्करजातिविशेषः । यथा, --

“लेटस्तीवरकन्यायां जनयामास षण्णरान् ।
माल्लं मल्लं माडवञ्च भडं कोलञ्च कन्दरम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
पुस्तकान्तरे माडवस्थाने मातर इति पाठः ।
कन्दरस्थाने कलन्दर इति पाठः ॥

माड्डुकः, पुं, (मड्डुकवादनं शिल्पमस्येति ।

“मड्डुकझर्झरादणन्यतरस्याम् ।” ४ । ४ । ५६ ।
इति अण् ।) माड्डुकिकः । मड्डुवादकः ।
इति सिद्धान्तकौमुदी ॥

माढिः, स्त्री, (माहतीति । माह + “अन्येभ्यो-

ऽपि दृश्यन्ते ।” उणा० ४ । १०५ । इति क्तिन् ।)
देशभेदः । पत्रशिरा । इति रत्नकोषः ॥ दन्त-
भेदः । इति केचित् । इत्यमरटीकायां भरतः ॥
पत्रभङ्गम् । दैन्यप्रकाशनम् । इति मेदिनी । ढे, २ ।
शब्दरत्नावली च ॥ माढिर्दैन्यं पत्रशिरार्च्चा
मूढस्तन्द्रिते जडे । इति हेमचन्द्रः । ४ । १९० ॥

माढी, स्त्री, (माढि + कृदिकारादिति ङीष ।)

दन्तशिरा । इति शब्दरत्नावली ॥

माणकं, क्ली, (मीयते पूज्यते परिमीयते वेति ।

मान मा वा + घञ् । स्वार्थे कन् । निपातनाण्ण-
त्वम् ।) कन्दविशेषः । माणकचु इति भाषा ।
अस्य गुणाः । स्वादुत्वम् । शीतत्वम् । गुरुत्वम् ।
शोथहरत्वम् । कटुत्वञ्च । इति राजवल्लभः ॥
यथा सुश्रुते सूत्रस्थाने । ४६ अध्याये ।
“माणकं स्वादु शीतञ्च गुरु चापि प्रकी-
र्त्तितम् ॥”)

माणकः, पुं, (मान् + घञ् । ततः कन् निपातना-

ण्णत्वञ्च ।) स्वनामख्यातवृक्षः । माणकचुगाछ
इति भाषा । तत्पर्य्यायः । स्थलपद्मः २ इति
रत्नमाला ॥ माणः ३ बृहच्छदः ४ छत्रपत्रः ५ ।
इति केचित् ॥ (यथा, सुश्रुते सूत्रस्थाने ४७ अः ।
“स्थूलशूरणमाणकप्रभृतयः ॥”)

माणवः, पुं, (मनोरपत्यं पुमान् । मनु + अपत्य-

विवक्षायां अण् ।
“अपत्ये कुत्सिते मूढेमनोरौत्सर्गिकः स्मृतः ।
नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥”
४ । १ । १६१ । इत्यत्र काशिका सूत्रवृत्तिः ।)
मनुष्यः । बालकः । इति शब्दरत्नावली ॥
षोडशयष्टिकहारः । इति हेमचन्द्रः । ३ ।
३२४ । ४ ॥

माणवकः, पुं, (अल्पो मानवः । “अल्पे ।” ५ ।

३ । ८५ । इति कन् ।) बालकः । स च षोडश-
वर्षपर्य्यन्तप्रथमवयस्कः ॥ (यथा, श्रीभागवते ।
८ । १९ । ३२ ।
“एष ते स्थानमैश्वर्य्यं श्रियं तेजोयशः श्रुतम् ।
दास्यत्याच्छिद्य शक्राय मायामाणवको
हरिः ॥”
माणवको बालः स इव ।) हारभेदः । स तु
विंशतियष्टिकः । विशनरहार इति भाषा ।
इत्यमरभरतौ । २ । ६ । १०६ ॥ (बृहत्संहिता-
मते तु षोडशयष्टिको हारः । यथा, तत्रैव ।
८१ । ३३ ।
“द्धात्रिंशता गुच्छो विंशत्या कीर्त्तितोऽर्द्ध-
गुच्छाख्यः ।
षोडषभिर्माणवको द्बादशभिश्चार्द्धमाणवकः ॥”)
कुपुरुषः । इति मेदिनी । के, २०९ ॥ वटुः ।
इति हेमचन्द्रः ॥

माणवीनं, त्रि, माणवसम्बन्धि । माणवस्येदमित्यर्थे

णीनप्रत्ययेन निष्पन्नम् ॥ (माणवाय हितं ।
“माणवचरकाभ्यां खञ् ।” ५ । १ । ११ । इति
माणव + खञ् ।)

माणव्यं, क्ली, शिशुसमूहः । इत्यमरः । ३ । २ । ४१ ॥

माणवानां समूहो माणव्यं विकारसंघेति
ष्ण्यः । माणवो बालः मूर्द्धन्यमध्यः दन्त्यमध्य
इत्येके । इति तट्टीकायां भरतः ॥ (माणवानां
समूहः । “ब्राह्मणमाणवबाडवाद् यन् ।” ४ ।
२ । ४२ । इति यन् ।)

माणिका, स्त्री, (माणक + टाप् अकारस्येत्वम् ।)

अष्टपलपरिमाणम् । इति शब्दमाला ॥

माणिक्यं, क्ली, (मणिप्रकारः । मणि “+ स्थूलादिभ्यः

प्रकारवचने कन् ।” ५ । ४ । ३ । इति प्रशं-
सायां कन् । ततो मणिकमेवेति । मणिक +
“चातुर्वर्णादीनामुपसंख्यानम् ।” ५ । १ । १२४ ।
इति वार्त्तिकबलात् ष्यञ् ।) रत्नविशेषः ।
माणिक् इति भाषा । तत्पर्य्यायः । शोण-
रत्नम् २ रत्नराट् ३ रविरत्नकम् ४ शृङ्गारी ५
रङ्गमाणिक्यम् ६ तरुणम् ७ रत्ननामकम् ८
रागयुक् ९ पद्मरागः १० रत्नम् ११ शोणो-
पलः १२ सौगन्धिकम् १३ लोहितकम् १४
कुरुबिन्दम् १५ । अस्य गुणाः । मधुरत्वम् ।
पृष्ठ ३/६९०
स्निग्धत्वम् । वातपित्तनाशित्वम् । रत्नप्रयोगे
प्रधानत्वम् । परं रसायनकारित्वञ्च । तस्य
लक्षणं यथा, --
“स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं समाङ्गञ्च
सुरङ्गदञ्च ॥”
इति जात्यमाणिक्यं कल्याणं धारणात् कुरुते ॥
तस्य दोषो यथा, --
“द्बिच्छायमभ्रपिहितं कर्कशं शार्करिलं
भिन्नं धूम्रञ्च ।
विरूपं रागविमलं लघुमाणिक्यं न धारये-
द्धीमान् ॥”
तस्य चतुर्विधा जातिर्यथा ।
“तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा ।
जानीयात् कुरुबिन्दकं यदरुणं स्यादेषु सौग-
न्धिकम् ।
तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैः
माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं
जगुः ॥
इति राजनिर्घण्टः ॥ * ॥
मतान्तरे तस्य दोषा यथा, --
“माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः
द्बिच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा ॥
अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै ।
गुणाश्चत्वार आख्याताश्छायाः षोडश
कीर्त्तिताः ॥”
छायास्तु पूर्ब्बोक्ता एव तास्तु पद्मरागशब्दे
द्रष्टव्याः ।
“छायाद्वितयसम्बन्धाद्द्विच्छायं बन्धुनाशनम् ।
द्बिरूपं द्बिपदं तेन माणिक्येन पराभवः ॥
सम्मेदो भिन्नमित्युक्तं शस्त्रघातविधायकम् ।
कर्करं कर्करायुक्तं पशुबन्धुविनाशकृत् ॥
दुग्धेनेव समालिप्तमघनीपुटमुच्यते ।
अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥
मधुबिन्दुसमच्छायं कोकिलं परिकीर्त्तितम् ।
आयुर्लक्ष्मीयशो हन्ति सदोषं तन्न धारयेत् ॥
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् ।
धूम्रं धूमसमाकारं वैद्यतं भयमावहेत् ॥”
तथा ।
“शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः ।
उभयत्र पदं येषां तेन च स्यात् पराभवः ॥
भिन्नेन युद्धे मृत्युः स्यात् कर्करन्धननाशकृत् ।
दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत् ॥
दुःखकृत् स समाख्यातो न नृपै रक्षणीयकः ।
भधुबिन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता ।
तेषाञ्च बहुभेदाः स्युर्न ते धार्य्याः कदाचन ॥”
अथ गुणाः ।
“गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता ।”
तथा च ।
“वर्णाधिकं गुरुत्वञ्च स्निग्धता च तथाच्छता ।
अर्च्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥”
फलम् ।
“ये कर्कराश्छिद्रमयोऽपदिग्धाः
प्रभाविमुक्ताः परुषा विवर्णाः ।
न ते प्रशस्ता मणयो भवन्ति
समासतो जातिगुणैः समस्तैः ॥
दोषोपसृष्टं मणिमप्रबोधाद्
बिभर्त्ति यः कश्चन कञ्चिदेकम् ।
तं बन्धुदुःखामयबन्धुवित्त-
नाशादयो दोषगणा भजन्ते ॥
सपत्नमध्येऽपि कृताधिवासं
प्रमादवृत्तावपि वर्त्तमानम् ।
न पद्मरागस्य महागुणस्य
भर्त्तारमापत् समुपैति काचित् ॥
दोषोपसर्गप्रभवाश्च ये ते
नोपद्रवास्तं समभिद्रवन्ति ।
गुणैः समुख्यैः सकलैरुपेतं
यः पद्मरागं प्रयतो बिभर्त्ति ॥
बालार्ककरसंस्पर्शात् यः शिखां लोहितां
वमेत् ।
रञ्जयेदाश्रमं वापि स महागुण उच्यते ॥
दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः ।
वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः ॥
अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः ।
प्रकाशयति सूर्य्याभः स श्रेष्ठः पद्मरागकः ॥
पद्मकोषे तु यो न्यस्तो विकाशयति तत्क्षणात् ।
पद्मरागवरो ह्येष देवानामपि दुर्लभः ॥
सर्व्वरिष्टप्रशमनाः सर्व्वसम्पत्तिदायकाः ।
चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥
यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः ।
वंशकान्तिः स विज्ञेयः सर्व्वसम्पत्तिदायकः ॥
पञ्चसप्तनवविंशतिरागः
सम्बृतोऽपि सकलः खलु वस्त्रे ।
वर्जयेद्बमति वा करजालं
उत्तरोत्तरमहागुणिनस्ते ॥
नीलीरसं दुग्धरसं जलं वा
ये रञ्जयन्ति द्बिशतप्रमाणम् ।
ते ते यथापूर्ब्बमतिप्रशस्ताः
सौभाग्यसम्पत्तिविधानदायकाः ॥
गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।
पद्मरागस्तुलयति यथापूर्व्वं महागुणः ॥
क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् ।
पद्मरागस्तुलयति यथापूर्ब्बं महागुणः ॥
वदरीफलतुल्यो यः स्वरदिग्वसुमासकः ।
तथा धात्रीफलत्रिंशत्विंशतिद्व्यष्टमासकः ॥
तथाक्षफलतुल्यो यो वह्निपक्षैकमासकः ।
ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः ।
विम्बीफलसमाकारो वसुषड्दशतोलकः ॥
अतःपरं प्रमाणेन मानेन च न लभ्यते ।
यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात् ॥
केचिच्चारतराः सन्ति जात्यानां प्रतिरूपकाः ।
विजातयः प्रयत्नेन सिद्धास्ता मूल्यमाहरेत् ॥
काङ्कलकाः सिंहलदेशोत्थमुक्तमालीयाः ।
श्रीपर्णिकाश्च सदृशा विजातयः पद्मरागाणाम् ॥
तुषोपसङ्गाद्दलनाभिधानं
मणिः स्वभावादपि तुम्बुरूत्थः ।
कार्ष्णात्तथा सिंहलदेशजातं
मुक्ताभिधानं नभसः स्वभावात् ।
श्रीपर्णकं दीप्तिनिराकृतित्वा-
द्विजातिलिङ्गाश्रयभेद एषः ॥ * ॥”
तथा च ।
“स्नेहप्रदेहो मृदुता लघुत्वं
विजातिलिङ्गं खलु सार्व्वजन्यम् ।
यः श्यामिकां पुष्यति पद्मरागो
यो वा तुषाणामिव चूर्णमध्यः ॥
स्नेहप्रदिग्धो न च यो विभाति
यो वा प्रमृज्यः प्रजहाति दीप्तिम् ।
आक्रान्तमूर्द्धा च तथाङ्गुलिभ्यां
यः कालिकां पार्श्वगतां बिभर्त्ति ॥
संप्राप्य तार्क्ष्योऽपि कथं स्ववृत्तं
बिभर्त्ति यः सर्व्वगुणानतीव ।
तुल्यप्रमाणस्य च तुल्यजाते-
र्यो वा गुरुत्वेन भवेन्न तुल्यः ।
प्राप्यापि नानाकरदेशजातं
ज्ञात्वा बुधो जातिगुणेन लक्षेत् ॥
अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् ।
घृष्ट्वा योऽत्यन्तशोभावान् परिमाणं न मुञ्चति ॥
स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः ।
स्वजातकं संमुखेन विलिखेद्बा परस्पपरम् ॥
वज्रं वा कुरुबिन्दं वा विमुच्यान्योन्यकेन चेत् ।
न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः ॥
गुणोपपन्नेन सहावबन्धो
मणिस्त्वजात्यो विगुणेन जातः ।
सुखं न कुर्य्यादपि कौस्तुभेन
विद्वान् विजातिं न भृयाद्बुधस्तम् ॥
चण्डाल एकोऽपि तथाभिजातान्
समेत्य दूरानपहन्ति यत्नात् ।
तथा मणीन् भूरिगुणोपपन्नान्
शक्तोऽतिविद्रावयितुं विजातः ॥” * ॥
अथ मूल्यम् ।
“बालार्काभिमुखं कृत्वा दर्पणे धारयेन्मणिम् ।
तत्र कान्तिविभागेन च्छायाभागं विनिर्द्दिशेत् ॥
वज्रस्य यत्तण्डुलसंख्ययोक्तं
मूल्यं समुन्मापितगौरवस्य ।
तत् पद्मरागस्य गुणान्वितस्य
स्यान्माषकाख्यातुलितस्य मूल्यम् ॥
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।
तावन्मूल्यं तथा शुद्धे कुरुबिन्दे विधीयते ॥
सगुणे कुरुबिन्दे च यावन्मूल्यं प्रकीर्त्तितम् ।
तावन्मूल्यं चतुर्थांशहीनं स्याद्वै सुगन्धिके ॥
यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।
तावन्मूल्यचतुर्थांशं हीयते शूद्रजन्मनि ॥
पद्मरागः पणं यस्तु धत्ते लाक्षारसप्रभः ।
कार्षापणस्रहस्राणि त्रिंशन्मूल्यं लभेत सः ॥
इन्द्रगोपकसङ्काशः कर्षत्रयधृतो मणिः ।
द्वाविंशतिसहस्राणि तस्य मूल्यं विनिर्द्दिशेत् ॥
एकोनो नूयते यस्तु जवाकुसुमसन्निभः ।
पृष्ठ ३/६९१
कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश ॥
बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते ।
कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥
यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः ।
कार्षापणशतानान्तु विंशतिर्मूल्यमादिशेत् ॥
चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः ।
मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् ॥
द्बिमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः ।
तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥
माषकैकमितो यस्तु पद्मरागो गुणान्वितः ।
शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः ॥
अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः ।
स्वर्णद्बिगुणमूल्येन मूल्यं तेषां प्रकल्पयेत् ॥
कार्षापणः समाख्यातः पुराणद्वयसम्मितः ।
अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः ॥
काषाया इति विख्याताः स्फटिकप्रभावाश्च ते ।
तेषां दोषो गुणो वापि पद्मरागवदादिशेत् ॥
मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।
ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः ॥
चतुर्विधैर्नृपतिभिर्धार्य्याः सम्पत्तिहेतवे ।
अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम् ॥”
इति युक्तिकल्पतरुः ॥
(यथा, कथासरित्सागरे । २६ । ४४ ।
“सोऽपि प्राप्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् ।
सौवर्णभित्ति सङ्केतकेतनं सम्पदामिव ॥”
कदलीविशेषः । तद्यथा, --
“माणिक्यमर्त्त्यामृतचम्पकाद्या
भेदाः कदल्या बहवोऽपि सन्ति ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

माणिक्या, स्त्री, (माणिक्य + टाप् ।) ज्येष्ठी ।

तत्पर्य्यायः । मुषली २ गृहगोधिका ३ गृह-
गोलिका ४ भित्तिका ५ पल्ली ६ कुड्यमत्स्यः ७
गृहोलिका ८ । इति हेमचन्द्रः । ४ । ३६४ ॥

माणिबन्धं, क्ली, (मणिबन्धे गिरौ भवम् । मणि-

बन्ध + अण् ।) सैन्धवलवणम् । इत्यमरटीकायां
स्वामी ॥

माणिमन्थं, क्ली, (मणिमन्थगिरौ भवम् । मणि-

मन्थ + अण् ।) सिन्धुजलवणम् । इत्यमरः ।
२ । ९ । ४ ॥ (अस्य पर्य्यायः ।
“सैन्धवोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धु जम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मातङ्गः, पुं, (मतङ्गस्येदं । मतङ्गस्यापत्यं पुमान् वा ।

मतङ्ग + अण् ।) हस्ती । इत्यमरः । ३ । ३ । २१ ॥
(यथा, रामायणे । १ । ६ । २३ ।
“बिन्ध्यपर्व्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिवलैर्मातङ्गैः पर्व्वतोपमैः ॥”)
अश्वत्थवृक्षः । किरातजातिविशेषः । इति
तट्टीकायां मथुरेशः ॥ श्वपचः । इति मेदिनी ।
गे, ४७ ॥ (यथा, कथासरित्सागरे । ७३ । २ ।
“सुदूरमन्वगायातं कार्य्याय कृतसंविदम् ।
सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥”)
अर्हदुपासकविशेषः । इति हेमचन्द्रः । ४ । २८३ ।

मातङ्गमकरः, पुं, (मातङ्गाकारो मकरः ।) महा-

मत्स्यभेदः । इति राजनिर्घण्टः ॥

मातङ्गी, स्त्री, (मतङ्गस्य मुनेरपत्यं स्त्री । मातङ्ग +

अण् ङीष् ।) दशमहाविद्यान्तर्गतनवमविद्या ।
अथ मातङ्गीमन्त्रः । वामकेश्वरतन्त्रे ।
“अथ वक्ष्ये महादेवीं मातङ्गीं सर्व्वसिद्धिदाम् ।
अस्योपासनमात्रेण वाक्सिद्धिं लभते ध्रुवम् ॥
प्रणवञ्च ततो मायां कामबीजञ्च कूर्च्चकम् ।
मातङ्गी ङेयुता चास्त्रं वह्निजायावधिर्मनुः ॥
ऋषिः स्याद्दक्षिणामूर्त्तिर्विराट छब्दः प्रकी-
र्त्तितम् ।
मातङ्गीदेवता देवी सर्व्वसिद्धिप्रदायिनी ॥
अङ्गन्यासकरन्यासौ कुर्य्यान्मन्त्री समाहितः ।
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ॥
षट्कोणाष्टदलं पद्मं लिखेद्यन्त्रं मनोरमम् ।
तत्र पूजा प्रकर्त्तव्या जवापुष्पेण मन्त्रवित् ॥
अष्टशक्तीश्चाष्टदले पूजयेत् सुसमाहितः ।
रतिः प्रीतिर्मनोभवा क्रिया श्रद्धा च शक्तयः ॥
अनङ्गकुसुमानङ्गमदना मदनालसा ।
इत्यष्टशक्तीः संपूज्य उपहारसमन्वितः ॥
ततो देवीं परां ध्यायेत् साधकः स्थिरमानसः ॥
श्यामाङ्गीं शशिशेखरां त्रिनयनां रत्नसिंहा-
सनस्थिताम् ।
वैदैर्वाहुदण्डैरसिखेटकपाशाङ्कुशघराम् ॥
एवं ध्यात्वा महादेवीं गन्धपूष्पैर्मनोरमैः ।
नैवेद्यन्तु महादेव्यै पायसं शर्करान्वितम् ॥
पुरश्चरणकाले तु षट्सहस्रं मनुं जपेत् ।
तद्दशांशं हुनेदाज्यैः शर्करामधुभिः सह ॥
ब्रह्मवृक्षोद्भवैः काष्ठैः साधकः शक्तिभिः सह ।
एवं पुरष्क्रियां कृत्वा प्रयोगविधिमाचरेत् ॥
चतुष्पथे श्मशाने वा कलामध्ये च मान्त्रिकः ।
मत्स्यं मांसं पायसञ्च दद्याद्धूपञ्च गुग्गुलुम् ॥
रात्रियोगेन कर्त्तव्यं सदा पूर्णश्च साधक्ः ।
एवं प्रयोगमात्रेण कविता जायते ध्रुवम् ॥
अग्निस्तम्भं जलस्तम्भं वाक्स्तम्भं कारयेत् ध्रुवम् ।
मन्त्री जयति शत्रूंश्च तार्क्ष्यो भोगिकुलं यथा ॥
शास्त्रे वादे कवित्वे च बृहस्पतिरिवापरः ।
अनेनैव विधानेन मातङ्गी सिद्धिदायिनी ॥
नूनं तद्गृहमागत्य कुवेरैर्दीयते वसु ।
विना मत्स्यैर्विना मांसैर्नार्च्चयेत् परदेवताम् ॥”
इति तन्त्रसारः ॥

मातरपितरौ, पुं, (माता च पिता च । “मातर

पितरावुदीचाम् ।” ६ । ३ । ३२ । इत्यारङा-
देशो मातृशब्दस्य निपात्यते ।) तातजनयित्र्यौ ।
नित्यद्विवचनान्तौ । इत्यमरः । २ । ६ । ३७ ॥

मातरिश्वा, पुं, (मातरि अन्तरीक्षे श्वयति

वर्द्धते इति । यद्बा, मातरि जनन्यां श्वयति
वर्द्धते सप्तसप्तकत्वादिति । श्वि + “श्वन् उक्ष-
न्निति ।” उणा० १ । १५८ । इति कनिन् ।
नाम्नि सप्तम्या अलुक् । धातोरिकारलोपश्च
निपातितः ।) वायुः । इत्यमरः । २ । ४ । ६४ ।
(यथा, ऋग्वेदे । १ । ९३ । ६ ।
“आन्यं दिवो मातरिश्वाजभारामथ्नादन्यं
परिश्येनो अद्रेः ॥”
“मातरिश्वा वायुः ।” इति तद्भाष्ये सायनः ॥
मातर्य्यन्तरिक्षे श्वसिति चेष्टते इति । श्वस् +
कनिन् । अग्निभेदः । यथा, ऋगवेदे । ३ । २९ । ११ ।
“तनूनपादुच्यते गर्भं आसुरो
नराशंसो भवति यद्विजायते ।
मातरिश्वा यदमिमीत मातरि
वातस्य सर्गो अभवत् सरीमणि ॥”
“यदाग्निररणीषु गर्भरूपतया वर्त्तते तदा तनू-
नपान्नामको भवति यदान्तरिक्षे विद्योतते तदा
मातरिश्वनामको भवति ।” इति तद्भाष्ये
सायनः ॥)

मातलिः, पुं, (मतं लातीति । ला + कः । पृषो-

दरादित्वात् साधुः । मतलस्यापत्यं पुमानिति
वा । मतल + “अत इञ् ।” ४ । १ । ९५ ।
इतीञ् ।) इन्द्रसारथिः । इत्यमरः । १ । १ । ३८ ॥
(यथा, महाभारते । ५ । ९७ । ११ ।
“मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः ।
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ॥”)

माता, [ऋ] स्त्री, मान्यते पूज्यते या सा । मान

ङ पूजायां नाम्नीति डातृ इति भरतः ॥ (यद्बा,
“नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृ-
दुहितृ ।” उणा० २ । ९६ । इति तृच् ।
निपातितश्च । स्वस्रादित्वाट्टाप् निषेधः ।)
मा इति भाषा । तत्पर्य्यायः । जनयित्री २
प्रसूः ३ जननी ४ । इत्यमरः । २ । ६ । २९ ॥
सवित्री ५ जनिः ६ जनी ७ जनित्री ८
अक्का ९ अम्बा १० अम्बिका ११ अम्बा-
लिका १२ । इति शब्दरत्नावली ॥ मातृका १३ ।
इति जटाधरः ॥ * ॥ षोडशप्रकारा मातरो
यथा, --
“स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया ।
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका ॥
सगर्भजा या भगिनी पुत्त्रपत्नी प्रियाप्रसूः ।
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ॥
मातुः पितुश्च भगिनी मातुलानी तथैव च ।
जनानां वेदविहिता मातरः षोडश स्मृताः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय-
संवादे १५ अध्यायः ॥ तस्या गौरवं यथा, --
“जनको जन्मदातृत्वात् पालनाच्च पिता स्मृतः ।
गरीयान् जन्मदातुश्च योऽन्नदाता पिता मुने ॥
विनान्नान्नश्वरो देहो न नित्यः पितुरुद्भवः ॥
तयोः शतगुणे माता पूज्या मान्या च बन्दिता ।
गर्भधारणपोषाभ्यां सा च ताभ्यां गरीयसी ॥”
इति तत्रैव ४० अध्यायः ॥
अपि च ।
“स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय ददद्बेदमाचार्य्यः स प्रकीर्त्तितः ॥
एकादश उपाध्याया ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्ब्बमेभ्यो माता गरीयसी ॥”
इति गारुडे ९४ अध्यायः ॥
पृष्ठ ३/६९२
अन्यच्च ।
“न पितुर्व्वचनं कार्य्यं यथा मातुः सुतेन हि ।
पिता च पतितस्त्याज्यो न माता सत्सुतेन हि ।
गर्भधारणपोषाद्धि ततो माता गरीयसी ॥
दशविप्रादुपाध्यायो गौरवेणातिरिच्यते ।
तेभ्यः पिता दशभ्यस्तु माता चैव गरीयसी ।
मातृतोऽन्यो न देवोऽस्ति तस्मात् पूज्या सदा
सुतैः ॥
मातुश्च यद्धितं किञ्चित् कुरुते भक्तितः पूमान् ।
तद्धर्म्मं हि विजानीयादेवं धर्म्मविदो विदुः ॥”
इति वह्निपुराणम् ॥
अपरञ्च ।
“गुरूणामपि सर्व्वेषां पूज्याः पञ्च विशेषतः ।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥
यो भावयति या सूते येन विद्योपदिश्यते ।
ज्येष्ठभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ॥
आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ।
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥
यावत् पिता च माता च द्वावेतौ निर्व्विकारिणौ ।
तावत् सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः ॥
पिता माता च सुप्रीतौ स्यातां पुत्त्रगुणैर्यदि ।
स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा ॥
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ।
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ॥
तयोर्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसापि वा ।
न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत् ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥
मातृशब्दसम्भाषया मातृतुल्यत्वम् यथा, --
“मातरित्येव शब्देन याञ्च संभाषते नरः ।
सा मातृतुल्या सत्येन धर्म्मः साक्षी सतामपि ॥
तया सहितशृङ्गारे कालसूत्रं प्रयाति सः ।
तत्र घोरे वसत्येव यावद्वै ब्रह्मणो वयः ॥
प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम् ॥”
इति ब्रह्यवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
शिवस्य परिवारविशेषः । स च असुरमारणे
ब्रह्मादीनां स्वेदनिर्गतत्वात् अष्टशक्तिदेवता-
रूपो यथा, --
“ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा ।
कौमारी चैव चामुण्डा चर्च्चिकेत्यष्ट मातरः ॥”
सप्तविधोऽपि यथा, --
“ब्राह्मी च वैष्णवी चैन्द्री रौद्री वाराहिकी
तथा ।
कौवेरी चैव कौमारी मातरः सप्त कीर्त्तिताः ॥”
इत्यमरटीकायां भरतः ॥
गौर्य्यादिषोडशमातृकाः । यथा, --
“गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह ।
आदौ विनायकः पूज्यो अन्ते च कुलदेवता ॥”
इति श्राद्धतत्त्वे बह्वृचगृह्यपरिशिष्टम् ॥
वैष्णवपूज्या मातृगणा यथा, --
“यत्र मातृगणाः पूज्यास्तत्र ह्येताः प्रपूजयेत् ।
सदा भागवती पोर्णमासी पद्मान्तरङ्गिका ॥
गङ्गाकलिन्दतनयागोपीवृन्दावतीस्तथा ।
गायत्त्रीतुलसीवाणीपृथिवीगाश्च वैष्णवीः ॥
श्रीयशोदादेवहूतीदेवकीरोहिणीमुखाः ।
श्रीसीता द्रौपदी कुन्ती ह्यपरा या महर्षयः ।
रुक्मिण्याद्यास्तथा चाष्ट महिषीर्याश्च ता
अपि ॥”
इति पाद्मे उत्तरखण्डे ७८ अध्यायः ॥
सप्त मातरो यथा, --
“आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका ।
गावी धात्री तथा पृथ्वी सप्तैता मातरःस्मृताः ॥”
इति कैश्चित् पठितम् ॥
मातृतुल्या यथा ।
“मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥”
इति दायभागः ॥
गौः । भूमिः । इति मेदिनी । ते, ४३ ॥ (निरुक्ते
च । ८ । ३ । “यदूर्द्धस्तिष्ठा द्रविणेह धत्ताद्यद्वा-
क्षयो मातुरस्या उपस्थे ।” “मातुः अस्या
पृथिव्याः ।” इति तट्टीकायां दुर्गाचार्य्यः ।)
विभूतिः । इति शब्दरत्नावली ॥ लक्ष्मीः । इति
हेमचन्द्रः । ३ । ३२१ । रेवती । इत्यजयपालः ॥
आखुकर्णी । इन्द्रवारुणी । महाश्रावणी । जटा-
मांसी । इति राजनिर्घण्टः ॥ परिमाणकर्त्तरि,
त्रि । अस्मिन्नर्थे परिमाणार्थमाधातोः कर्त्तरि
तृन्प्रत्ययेन निष्पन्नः ॥ (निर्म्माणकर्त्तरि च ।
यथा, ॠग्वेदे । १ । ६१ । ७ ।
“अस्येदु मातुः सवनेषु सद्योमहः ।”
“मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः ।”
इति तद्भाष्ये सायनः ॥)

माता, स्त्री, (मान्यते पूज्यते इति । मान पूजायां +

तन् ततष्टापि निपातनात् साधुः ।) जननी । यथा,
‘विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् ।’
इति शिवरहस्ये दुर्गास्तवदर्शनात् आबन्तोऽयं
शब्दः ॥

मातापितरौ, पुं, (माता च पिता च । “आनङ्

ॠतोद्बन्द्वे ।” ६ । ३ । २५ । इत्यानङादेशः ।)
जननीजनकौ । तत्पर्य्यायः । पितरौ २ मातर-
पितरौ ३ तातजनयित्र्यौ ४ । इत्यमरभरतौ ।
२ । ६ । ३७ ॥ नित्यद्बिवचनान्तोऽयम् ॥ (यथा,
मनौ । ३ । १५७ ॥
“अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा ॥”)

मातामहः, पुं, (मातुः पिता । “पितृव्यमातुल

मातामहपितामहाः । ४ । २ । ३६ । इति
डामहच् निपातितश्च ।) मातुः पिता । इत्य-
मरः । २ । ६ । ३३ ॥ दौहित्रस्य मातामह-
साधर्म्यं यथा, --
“आसीदङ्गो नृपश्रेष्ठो यज्ञशीलो दृढव्रतः ।
यजतः सुमहत्कालाद्वेण एकोऽभवत्ततः ॥
मृत्योः कन्या सुनीथा या मातुर्दुःशीलकारणात् ।
क्रूरा बुद्धिरभूत्तस्य जगतोऽस्यापि पीडने ॥
तपस्विनां कुले जाता ऋषीणाञ्च यशस्विनाम् ।
सगुणां निर्गुणां वापि यान्ति मातामहीं तनुम् ॥”
इत्यग्निपुराणम् ॥
तन्मरणे त्रिरात्राशौचं यथा । मातामहानां
मरणे त्रिरात्रं स्यादशौचकम् । इति शुद्धितत्त्वे
कूर्म्मपुराणम् ॥ * ॥ दुहितृपर्य्यन्ताभावे तस्य
श्राद्धे दौहित्रस्याधिकारो यथा, --
“मातामहानां दौहित्राः कुर्व्वन्त्यहनि चापरे ।
ते च तेषां प्रकुर्ब्बन्ति द्बितीयेऽहनि सर्व्वदा ॥”
इति शुद्धितत्त्वम् ।
दुहितृपर्य्यन्ताभावे तस्य धने दौहित्रस्याधि-
कारो यथा । तदभावे दौहित्रः ।
“पौत्त्रदौहित्रयोर्लोके विशेषो नास्ति धर्म्मतः ।
तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥”
इति मनुवचने पौत्त्रतुल्याभिधानेन यथा
पुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे दौहित्रः ।
अतएव गोबिन्दराजधृतो विष्णुः ।
अपुत्त्रपौत्रे संसारे दौहित्रा धनमाप्नु युः ।
पूर्व्वेषां हि स्वधाकारे पौत्त्रदौहित्रकाः समाः ॥”
इति दायतत्त्वम् ॥

मातामही, स्त्री, (मातामहस्य पत्नीति । “पुंयो-

गादाख्यायाम् ।” ४ । १ । ४८ । इति + ङीष् ।)
मातामहपत्नी । मातृमाता । आइ इति
भाषा । यथा, --
“मातामही मातृमाता मातृतुल्या च पूजिता ।
प्रमातामहीति विज्ञाता प्रमातामहकामिनी ।
वृद्धप्रमातामही ज्ञेया तत्पितुः कामिनी तथा ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
तन्मरणे पक्षिण्यशौचं यथा, --
“मातुले श्वशुरे मित्रे गुरौ गुर्व्वङ्गनासु च ।
अशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥”
इति शुद्धितत्त्वम् ॥
दुहितृपर्य्यन्ताभावे तच्छ्राद्धे दौहित्रस्याधि-
कारो यथा । तदभावे दौहित्रः । प्रागुक्तब्रह्म-
पुराणे तथादर्शनात् ।
“पौत्त्रदौहित्रयोलाके न विशेषोऽस्ति धर्म्मतः ।
तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥”
इत्यनेन यथा पुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे
दौहित्रः । इति प्रागेवोक्तत्वात् ।
“मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।
श्वशुरस्य गुरोश्चैव सख्युर्म्मातामहस्य च ॥
एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा ।
पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः ॥”
इति वृद्धशातातपवचनेन मातामह्याश्च साक्षा-
द्दौहित्रेण पिण्डदानश्रुतेः धनाधिकारित्वाच्च ।
इति शुद्धितत्त्वम् ॥ * ॥ तस्या अयौतुकधने
पौत्त्रपर्य्यन्ताभावे दौहित्राधिकारः । यौतुकधने
तु पुत्त्रपर्य्यन्ताभावे दौहित्राधिकारो यथा ।
“दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवत् ॥”
इति मनुवचने दौहित्रे पौत्त्रधर्म्मातिदेशात्
पुत्त्रेण परिणीतदुहितुर्बाधात् बाधकपुत्त्रेण
बाध्यदुहितृपुत्त्रबाधस्य न्याय्यत्वात् । इति दाय-
तत्त्वम् ॥ पुत्त्राभावे दौहित्रोऽधिकारी । पुत्त्रा-
पृष्ठ ३/६९३
धिकारात् प्राक्दुहित्रधिकारश्रुतेः तद्बाधिकाया
दुहितुः पुत्त्रेण बाध्यपुत्त्रबाधस्यैव न्याय्यत्वात् ।
इति दायक्रमसंग्रहश्च ॥

माताली, स्त्री, (मातुः आली । पृषोदरादित्वात्

ॠकारलोपः । यद्वा, माताया आली ।) मातुः
सखी । इति शब्दमाला ॥

मातुलः, पुं, (मातुर्भ्राता । “पितृव्यमातुलेति ।”

४ । २ । ३६ । इति निपात्यते । तत्र “मातुर्डुलच् ।”
इति वार्त्तिकात् डुलच् ।) मातृभ्राता ।
पितृश्यालकः । इत्यमरः । २ । ६ । ३१ ।
मामा इति भाषा ॥ तन्मरणे भागिनेयस्य
पक्षिण्यशौचम् । यथा, शुद्धितत्त्वे ।
“मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्वान्धवेषु च ।”
स च मातामहपर्य्यन्तरहितस्य मृतस्य प्रेत-
क्रियाद्यधिकारी । यथा, --
“मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।”
इति शातातपीयपाठक्रमात् । इति शुद्धितत्त्वम् ॥
(मात्यते खार्य्यादिना मीयते । मात + बाहु-
लकात् डुलच् ।) ब्रीहिभेदः । मदनद्रुमः ।
(मादयतीति । मद + णिच् + बाहुलकात्
उलच् पृषोदराद् दस्य तकारत्वञ्च ।) धुस्तूरः ।
इति मेदिनी । ले, १२३ ॥ पर्य्यायो यथा, --
“धत्तूर धूर्त्त धुत्तूरा उन्मत्तः कनकाह्वयः ।
देवता कितवस्तूरी महामोहः शिवप्रियः ।
मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
मा विद्यते तुला तुलना यस्य ।) सर्पविशेषः ।
इति हेमचन्द्रः । ३ । २१६ ॥

मातुलकः, पुं, (मातुल + स्वार्थे कन् ।) धुस्तूर-

वृक्षः । इति राजनिर्घण्टः ॥ (मातुलः । यथा,
पञ्चतन्त्रे । १ । २४१ ॥
“सोऽपि तव मातुलको न समायातः ॥”)

मातुलपुत्त्रकः, पुं, (मातुलस्य धुस्तूरस्य पुत्त्रकः ।)

धुस्तूरफलम् । इत्यमरः । २ । ४ । ७८ ॥ (यथास्य
पर्य्यायः ।
“मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मातुलतनयः । इति मेदिनी । के, २३५ ॥

मातुला, स्त्री, (मातुल + टाप् । मातुलस्य

स्त्री । “इन्द्रवरुणेति । ४ । १ । ४९ ।
ङीष् आनुक् च ।) मातुलपत्नी । इत्यमर-
भरतौ । २ । ६ । ३० । मामी इति भाषा ॥ तन्मरणे
पक्षिण्यशौचम् । यथा, --

मातुलानी, स्त्री, (मातुल + टाप् । मातुलस्य

स्त्री । “इन्द्रवरुणेति । ४ । १ । ४९ ।
ङीष् आनुक् च ।) मातुलपत्नी । इत्यमर-
भरतौ । २ । ६ । ३० । मामी इति भाषा ॥ तन्मरणे
पक्षिण्यशौचम् । यथा, --
“श्वशुरयोर्भगिन्याञ्च मातुलान्याञ्च मातुले ।
पित्रोः स्वसरि तद्वच्च पक्षिणीं क्षपयेन्नि-
शाम् ॥”
इति शुद्धितत्त्वम् ॥

मातुलानी, स्त्री, (मा निषेधे तुलां नयति प्राप्नो-

तीति । नी + क्विप् । ङीष् ।) कलायः ।
भङ्गा । इति मेदिनी । ने, २०३ ॥ (यथास्या
पर्य्यायः । भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे
भागे ॥
“भङ्गा गञ्जा मातुलानी मादीनि विजया
जया ॥”)
शणः । इति हेमचन्द्रः । ४ । २४५ ॥ प्रियङ्गु-
वृक्षः । इति शब्दचन्द्रिका ॥

मातुलाहिः, पुं, (मा तुल्यतेऽसौ इति । तुल +

मूलविभुजादित्वात् कः । मातुलश्चासौ अहिश्च ।)
सर्पविशेषः । मालुया साप इति फेयुयाटी इति
च भाषा । अयं खट्वाकृतिः आयतदेहः दीर्घ-
लाङ्गूलः चतुष्पात् । इति मधुमाधवादयः ॥
तत्पर्य्यायः । मालुधानः २ । इत्यमरः । १ । ८ । ३ ॥

मातुली, स्त्री, (मातुलस्य स्त्री । “मातुल + इन्द्र-

वरुणभवेति ।” ४ । १ । ४९ । इति ङीष् “मातु-
लोपाध्याययोरानुग् वा ।” इति वार्त्तिकोक्तेः
पक्षे आनुगभावः ।) मातुलपत्नी । इत्यमरः ।
२ । ६ । ३० ॥ भङ्गा इति शब्दचन्द्रिका ॥

मातुलुङ्गः, पुं, (मा न तुलं गच्छतीति । गम +

डः । पृषोदरादित्वात् अकारस्योकारः मुम्च ।)
बीजपूरः । इत्यमरटीकायां भरतः ॥ (यथा,
सुश्रुते उत्तरतन्त्रे ३९ अध्याये ।
“केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ।
शर्करादाडिमाभ्यां वा द्राक्षाखज्जूरयोस्तथा ॥”
(तथास्य पर्य्यायः ।
“बीजपूरो मातुलुङ्गः सुफलः फलपूरकः ।
लुङ्गुषः पूरकः पूरो बीजपूर्णोऽम्बुकेशरः ॥”
इति वैद्यकरत्नमालायाम् ।
तथास्य गुणाः ।
स्यान्मातुलुङ्गः कफवातहन्ता
हन्ता कृमीणां जठरामयघ्नः ।
स दोषरक्तादिविकारपित्त-
सन्दीपनः शूलविकारहारी ॥
श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ।
दीपनं लघु रुच्यञ्च मातुलुङ्गमुदाहृतम् ॥
त्वक्तिक्ता दुर्ज्जराति स्यात् कृमिवातकफा-
पहा ।
स्वादु शीता गुरुः स्रिग्धा त्वङ्मांसं वात-
पित्तजित् ॥
मेध्यं शूलानिलच्छर्द्दिकफारोचकनाशनम् ।
दीपनं लघु संग्राहि गुल्मार्शोघ्नन्तु केशरम् ॥
हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् ।
शूला जीर्णादिरोगेषु मन्दाग्नौ कफमारुते ॥
अरुचिश्वासकासेषु स्वरसोऽस्योपदिश्यते ।
रसोऽतिमधुरो हृद्यो वीर्य्यपित्तानिलापहा ॥
कफकृद्दुर्ज्जरः पाके मातुलुङ्गस्य कल्ककः ।
तिक्तं पुष्पन्तु बीजञ्च गुल्मनुत्स्यात्तथाषरम् ॥”
इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥
“त्वक्तिक्ता कटुका स्निग्धा मातुलुङ्गस्य
वातजित् ।
वृंहणं मधुरं मांसं वातपित्तहरं गुरु ॥
लघु तत्केसरं श्वासकासहिक्कामदात्ययान् ।
आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ॥
गुल्मोदरार्शः शूलानि मन्दाग्नित्वञ्च नाशयेत् ॥”
इति च वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

मातुलुङ्गकः, पुं, (मातुलुङ्ग + संज्ञायां स्वार्थे वा

कन् ।) छोलङ्गवृक्षः । तत्पर्य्यायः । फलपूरः २
बीजपूरः ३ रुचकः ४ । इत्यमरः । २ । ४ । ७८ ॥
मातुलुङ्गः ५ श्वफलः ६ फलपूरकः ७ लुङ्गुषः ८
पूरकः ९ पूरः १० बीजपूर्णः ११ अम्बुकेशरः
१२ छोलङ्गः १३ । इति रत्नमाला ॥ अस्य
गुणाः । हृद्यत्वम् । अम्लत्वम् । लघुत्वम् ।
अग्निदीपनत्वम् । आध्मानगुल्मप्लीहहृद्रोगो-
दावर्त्तनाशित्वम् । विबन्धहिक्काशूलच्छर्दिरोगे
प्रशस्तत्वञ्च । अस्य त्वग्गुणाः । तिक्तत्वम् ।
दुर्ज्जरत्वम् । कफवातनाशित्वम् । विगतरस-
त्वञ्च । तन्मांसगुणाः । स्वादुत्वम् । शीतत्वम् ।
गुरुत्वम् । वायुपित्तनाशित्वञ्च । इति राज-
वल्लभः ॥

मातुलुङ्गा, स्त्री, (मातुलुङ्ग + टाप् ।) मधु-

कुक्कुटी । यथा, --
“मातुलुङ्गा सुगन्धान्या गिरिजा पूतिपुष्पिका ।
अत्यम्ला देवदूती च सा क्वचिन्मधुकुक्कुटी ॥”
इति रत्नमाला ॥

मातुलुङ्गिका, स्त्री, (मातुलुङ्ग + संज्ञायां कन् ।

टाप् अकारस्येत्वम् ।) वनबीजपूरः । इति
राजनिर्घण्टः ॥

मातृकच्छिदः, पुं, (मातुः कं शिरश्छिनत्तीति ।

छिद + कः । पित्रादेशात् मातृशिरश्छेदनादस्य
तथात्वम् ।) परशुरामः । इति केचित् ॥

मातृका, स्त्री, (मातेव । मातृ + “इवे प्रतिकृतौ ।”

५ । ३ । ९६ । इति कन् टाप् ।) धातृका ॥
(यथा, बृहत्संहितायाम् । ४३ । ६६ ।
“रज्जूत्सङ्गच्छेदने बालपीडा
राज्ञो मातुः पीडनं मातृकायाः ॥”
मातैव । मातृ + स्वार्थे कन् ।) माता ।
देवीभेदः । वर्णमाला । इति मेदिनी । के, १३८ ॥
करणम् । स्वरः । उपमाता । इति हेमचन्द्रः ।
मातृकागणोत्पत्तिर्यथा, --
“तत्र देवोऽप्यसौ दैत्यं त्रिशुलेनाहनद्भृशम् ।
तस्याहतस्य यद्रक्तमपतद्भूतले किल ॥
तत्रान्धका असंख्याता बभूबुरपरे भृशम् ।
तद्दृष्ट्वा महदाश्चर्य्यं रुद्रः शूलेऽन्धकं मृघे ॥
गृहीत्वा त्रिशिखाग्रेण ननर्त्त परभेश्वरः ।
इतरेऽप्यन्धकाः सर्व्वे चक्रेण परमेष्ठिना ॥
नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः ।
असृग्धारास्तुषारैस्तु शूलप्रोतस्य चासकृत् ॥
अनारतं समुत्तस्थुः स्वतो रुद्रो रुषान्वितः ।
तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ ॥
तद्रूपधारिणीं देवीं यान्तीं योगीश्वरीं विदुः ।
स्वरूपधारिणी चान्या विष्णुनापि विनिर्म्मिता ॥
ब्रह्मणा कार्त्तिकेयेन इन्द्रेण च यमेन च ।
वाराहेण च देवेन विष्णुना परमेष्ठिना ॥
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे ।
माहेश्वरी च माहेन्द्री इत्येता अष्ट मातरः ॥
कारणं यस्य यत् प्रोक्तं क्षेत्रज्ञेनावधारितम् ॥
शरीरादेव नाना तु तदिदं कीर्त्तितं मया ।
पृष्ठ ३/६९४
कामः क्रोधस्तथा लोभो मदो मोहाऽथ
पञ्चमः ॥
मात्सर्य्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा ॥
अनसूयाष्टमी ज्ञेया इत्येता अष्ट मातरः ॥
कामं योगीश्वरीं विद्धि क्रोधं माहेश्वरीं तथा ॥
लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च ।
मोहः स्वयन्तु कौमारी मात्सर्य्यं चैन्द्रजां विदुः ॥
यामी दण्डधरा देवी पैशुन्यं स्वयमेव च ।
अनुसूया वराहाख्या इत्येताः परिकीर्त्तिताः ॥
कामादिगण एषोऽयं शरीरं परिकीर्त्तितम् ।
जग्राह मूर्त्तिन्तु यथा तथा ते कीर्त्तितं मया ॥
एताभिर्देवताभिश्च तस्य रक्ते तु शोषिते ।
क्षयं गतासुरी माया स च सिद्धोऽन्धकोऽभवत् ॥
एतत्ते सर्व्वमाख्यातमात्मविद्यामृतं मया ।
य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् ॥
तस्य ताः सर्व्वदा रक्षां कुर्व्वन्त्यनुदिनं नृप ! ।
येनैतत् पट्यते जन्म मातॄणां पुरुषोत्तम ! ॥
स धन्यः सर्व्वदा लोके शिवलोकञ्च गच्छति ।
तासाञ्च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा ॥
एताः संपूजयेद्भक्त्या बिल्वाहारो नरः सदा ।
तस्य ताः परितुष्टास्थ क्षेमारोग्यं ददन्ति च ॥”
इत्यादि वाराहपुराणे कामादिमातृगणोत्पत्ति-
र्नामाध्यायः ॥ अपि च ।
“ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥
यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।
तद्बदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिबलया प्राप्ता चन्द्ररेखाविभूषणा ॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमम्याययौ दैत्यानम्बिका गुहरूपिणी ॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र शटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥
बज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥”
इति मार्कण्डेयपुराणम् ॥
मातृवर्गो यथा, --
“गुरोः पत्नी राजपत्नी विप्रपत्नी च या सती ।
पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः ॥
प्रसूः पित्रोस्तयोर्भ्रातुः पत्नी श्वश्रूः स्वकन्यका ।
जननी तत्सपत्नी च भगिनी सुरभी तथा ॥
स्वामीष्टसुरपत्नी च धात्री कान्ताप्रदायिका ।
गर्भधात्रीस्वनाम्नी च भयात्त्रातुश्च कामिनी ॥
एता वेदप्रणीताश्च सर्व्वेषां मातरः स्मृताः ।
एतास्वपि च सर्व्वासु न्यूनता नास्ति कासु च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥
षोडश मातरो यथा, --
“गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः ।
पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी च मातुली ॥
पितृपत्नी म्रातृपत्नी श्वश्रूश्च भगिनीसुता ।
गर्भधात्रीष्टदेवी च पुंसः षोडश मातरः ॥”
इति तत्रैव ५९ अध्यायः ॥
अथ मातृकान्यासः ।
भगवानुवाच ।
“मातृकान्यासमधुना शृणु वेतालभैरव ! ।
येन देवत्वमायाति नरोऽपि विहितेन वै ॥
वाग्ब्रह्माणीमुखा देव्यो मातृकाः परि-
कीर्त्तिताः ।
तासां मन्त्राणि सर्व्वाणि व्यञ्जनानि स्वरास्तथा ॥
चन्द्रबिन्दुप्रयुक्तानि सर्व्वकामप्रदानि च ।
ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्त्तितः ॥
प्रोक्ता छन्दस्तु गायत्त्री देवता च सरस्वती ।
शरीरशुद्धिप्रमुखसर्व्वकामार्थसाधने ॥
विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे ।
अकारेण समं कादिवर्गो यः प्रथमः स्मृतः ॥
तैश्चन्द्रबिन्दुसंयुक्तेस्तत्रस्थैरक्षरैर्बहिः ।
आकारञ्च तथोच्चार्य्य अङ्गुष्ठाभ्यां नमस्तथा ।
प्रथमं मातृकामन्त्रमङ्गुष्ठद्बयतो न्यसेत् ॥
परे वर्गाः स्वरैः सार्द्ध ये वान्ये न्यासकर्म्मणि ।
ते सर्व्वे चन्द्रबिन्दुभ्यां युक्ताः कार्य्यास्तु सर्व्वतः ॥
ह्रस्वेकारश्च वर्गेण दीर्घेकारान्तगेन तु ।
तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्ते न तु पूर्ब्बवत् ॥
ह्रस्वोकारष्टवर्गेण दीर्घोकारान्तगेन तु ।
मध्यमायुगले सम्यक् वषडन्तेन विन्यसेत् ॥
एकारादितवर्गान्त ऐकारान्तेन चैव हुम् ।
न्यसेदनामिकायुग्मे नियतं तत्र भैरव ! ॥
ओकारादिपवर्गन्तु औकारान्तेन शेषितम् ।
वौषडन्तं कनिष्ठायां विन्यसेत् कार्य्यसिद्धये ॥
अंकारादियकारादिवर्गेण क्षान्तकेन च ।
अः इत्यन्तेन तलयोर्विन्यसेत् पाणिपृष्ठयोः ॥
वषट्कारं शेषभागे मन्त्रन्यासे नियोजयेत् ।
हृदयादिषडङ्गेषु पूर्ब्बवत् क्रमतो न्यसेत् ॥
अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः ।
पुनस्तथा पादजानुसक्थिगुह्ये तु पार्श्वयोः ।
वस्तौ च विन्यसेन्मन्त्रान् क्रमात् पूर्ब्बवदक्षरैः ॥
बाह्वोः पाण्योस्तथा कण्ठे नाभौ च जठरे
तथा ।
स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत् ॥
वक्त्रे च चिवुके गण्डे कर्णयोश्च ललाटके ।
असे कक्षे च षड्वर्गैः पूर्ब्बवन्न्यासमाचरेत् ॥
रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा ।
नखेषु पादपार्ष्ण्योश्च तथा पूर्ब्बवदाचरेत् ॥
एवन्तु मातृकान्यासं यः कुर्य्यान्नरसत्तमः ।
स धर्म्मयज्ञे पूजासु पूतो योग्यश्च जायते ॥
नातः परतरं मन्त्रं विद्यते क्वचिदेव हि ।
यः सर्व्वकामदं पुण्यं चतुर्व्वर्गफलप्रदम् ॥
वाग्देवतां हृदि ध्यात्वा मूर्द्ध्नि सर्व्वाक्षराणि
च ॥
त्रिधा च मातृकामन्त्रैः संक्रमैश्च पिबेज्जलम् ।
स वाग्मी पण्डितो धीमान् जायते च वरः
कविः ॥
चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्ब्बान् पठेद्बुधः ।
व्यञ्जनानि च सर्व्वाणि केवलानि पठेत्ततः ॥
अकारादिक्षकारान्तान्येवं श्वासैस्तु पूर्ब्बकैः ।
जलं करतले गृह्य पठित्वाक्षरसंघकम् ॥
अभिमन्त्र्य तु तत्तोयं प्रथमं पूरकैः पिबेत् ।
कुम्भकेन द्वितीयन्तु तृतीयन्त्वथ रेचकैः ॥
एवं सकृत्त्रिवारन्तु पीत्वा तोयं विचक्षणः ।
दृढाङ्गः पण्डितो भूयात् पुत्त्रपौत्त्रसमन्वितः ॥
त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम् ।
तोयं कवित्वमाप्नोति सर्व्वान् कामांस्तथैव च ॥
सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ।
तोयपानं महाभागः पूरकस्तम्भरेचकैः ॥
स सर्व्वकामान् संप्राप्य पुत्त्रपौत्त्रसमृद्धिमान् ।
भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः ॥
सर्व्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ।
राजानमथवा राजभार्य्यां पुत्त्रमथापि वा ॥
वशीकरोति न चिरात् मातृकामन्त्रपालकः ।
न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु ॥
अक्षराणां क्रमेणाथ तोयपानं समाचरेत् ।
ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् ॥
ते मन्त्रा मातृकामन्त्रे नित्यमेव प्रतिष्ठिताः ।
सर्व्वमन्त्रमयश्चायं सर्व्वदेवमयस्तथा ॥
चतुर्व्वर्गप्रदश्चायं मातृकामन्त्र उच्यते ।
इति ते कथितः पुत्त्र ! मातृकान्यास उत्तमः ॥”
इति श्रीकालिकापुराणे मातृकान्यासः ७६ अः ॥
अथ तस्य प्रयोगः ।
अस्य मातृकामन्त्रस्य ब्रह्मा ऋषिर्गायत्त्रीच्छन्दो
मातृकासरस्वती देवता हलो बीजानि स्वराः
शक्तयो मातृकान्यासे विनियोगः । शिरसि ॐ
ब्रह्मणे ऋषये नमः । मुखे ॐ मायत्त्रीच्छन्दसे
नमः । हृदि ॐ मातृकासरस्वत्यै देवतायै
नमः । गुह्ये ॐ व्यञ्जनेभ्यो बीजेभ्यो नमः ।
पादयोः ॐ स्वरेभ्यः शक्तिभ्यो नमः । तथा च
ज्ञानार्णवे ।
“मातृकां शृणु देवेशि ! न्यसेत् पापनिकृन्त-
नीम् ।
ऋषिब्रह्मास्य मन्त्रस्य गायत्त्रीच्छन्द उच्यते ॥
देवता मातृकादेवी ब्रीजं व्यञ्जनसञ्चयम् ।
शक्तयस्तु स्वरा देवि ! षडङ्गन्यासमाचरेत् ॥”
ततः षडङ्गन्यासौ । अं कं खं गं घं ङं आं
अङ्गुष्ठाभ्यां नमः । इं चं छं जं झं ञं ईं
तर्जनीभ्यां स्वाहा । उं टं ठं डं ढं णं ऊं
मध्यमाभ्यां वषट् । एं तं थं दं धं नं ऐं अना-
मिकाभ्यां हुम् । ॐ पं फं बं भं मं औं कनि-
ष्ठाभ्यां वौषट् । अं यं रं लं वं शं षं सं हं लं
पृष्ठ ३/६९५
क्षं अः करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु ।
अं कं ५ आं हृदयाय नमः । इत्यादि । तथा
च ज्ञानार्णवे ।
“अं आं मध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् ।
उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम् ॥
ॐ औं मध्ये पवर्गन्तु बिन्दुयुक्तं न्यसेत् प्रिये ! ।
अनुस्वारविसर्गान्तर्यशवर्गौ सलक्षकौ ॥
हृदयञ्च शिरो देवि ! शिखा कवचकं तथा ।
नेत्रमन्त्रं न्यसेत् ङेऽन्तं नमः स्वाहा क्रमेण तु ॥
वषट् हुं वौषडन्तञ्च फडन्तं योजयेत् प्रिये ! ।
षडङ्गोऽयं मातृकायाः सर्व्वपापहरः स्मृतः ॥ * ॥
अथान्तर्मातृकान्यासः ।
अकारादिषोडशस्वरान् सबिन्दून् षोडशदल-
कमले कण्ठमूले न्यसेत् । ककारादिद्बादश-
वर्णान् सबिन्दून् द्बादशदलकमले हृदये न्यसेत् ।
डकारादिदशवर्णान् सबिन्दून् दशदलकमले
नाभौ न्यसेत् । वकारादिषड्वर्णान् सबिन्दून्
षड्दलकमले लिङ्गमूले न्यसेत् । वकारादि-
चतुरो वर्णान् सबिन्दून् चतुर्दलकमले मूला-
धारे न्यसेत् । हक्षवर्णद्वयं सबिन्दुं द्विदलपद्म-
भ्रूमध्ये न्यसेत् । तथा च ज्ञानार्णवे ।
“द्ब्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडष विन्यसेत् ।
द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् ॥
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश ।
षट्पत्रमध्ये लिङ्गस्थे बकारादीन्न्यसेच्च षट् ॥
आधारे चतुरो वर्णान्न्यसेद्बादीन् चतुर्द्दले ।
हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये ! ॥”
अगस्त्यसहितायाम् ।
“एकैकवर्णमेकैकपत्रान्ते विन्यसेत् प्रिये ! ।
एवमन्तः प्रविन्यस्य मनसातो बहिर्न्यसेत् ॥” * ॥
वैष्णवे तु ।
एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् ।
नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥
अथान्तर्मातृकान्यासो मूलाधारे चतुर्द्दले ।
सुवर्णाभे व श ष स चतुर्व्वर्गविभूषिते ॥
षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।
ब भ मैर्य ब लैर्युक्ते वर्णैः षड् भिश्च मुव्रते ! ॥
मणिपूरे दशदले नीलजीमूतसन्निभे ।
डादिफान्तदलैर्युक्ते बिन्दूद्भासितमस्तकैः ॥
अनाहते द्वादशारे प्रवालरुचिसन्निभे ।
कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे ॥
विशुद्वे षोडदशदले धूम्राभे स्वरभूषिते ।
आज्ञाचक्रे तु चन्द्राभे द्बिदले हक्षलाञ्छिते ॥
सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते ।
अकथादित्रिरेखात्म ह ल क्ष त्रयभूषिते ॥
तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् ।
एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥”
ततो वाह्यमातृकाध्यानम् ।
“पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलां
भास्व मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता-
स्वुजै-
र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता-
माश्रये ॥”
एवं ध्यात्वा न्यसेत् । तत्राङ्गुलिनियमस्तन्त्रे ।
“ललाटेऽनामिकामध्ये विन्यसेम्मुखपङ्कजे ।
तर्जनीमध्यमानामा वृद्धानामे च नेत्रयोः ॥
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः ।
मध्यास्तिस्रो गण्डयोश्च मध्यमाञ्चोष्ठयोर्न्यसेत् ॥
अनामां दन्तयोर्नस्य मध्यमामुत्तमाङ्गके ।
मुखेऽनामां मध्यमाञ्च हस्तपादे च पार्श्वयोः ॥
कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् ।
ताः साङ्गुष्ठा नाभिदेशे सर्व्वाः कुक्षौ च
विन्यसेत् ॥
हृदये च तलं सर्व्वं अंसयोश्च ककुत्स्थले ।
हृत्पूर्व्वं हस्तपत्कुक्षि मुखेषु तलमेव च ॥
एतास्तु मातृकामुद्राः क्रमेण परिकोर्त्तिताः ।
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य
निष्फलः ॥”
गौतमीये ।
“ललाटमुखबृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्यदोः पत्सन्ध्यग्रकेषु च ॥
पाश्वयोः पृष्ठतो नाभौ जठरे हृदयेऽसके ।
ककुद्यंसे च हृत्पूर्ब्बं पाणिपादयुगे तथा ।
जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात् ॥”
तद्यथा । अं नमो ललाटे । आं नमो मुख-
वृत्ते । इं ईं चक्षुषोः । उं ऊं कर्णयोः ।
ऋं ॠं नसोः । ऌं ॡं गण्डयोः । एं ओष्ठे ।
ऐं अधरे । ओं ऊर्द्ध्वदन्ते औं अधोदन्ते । अं
ब्रह्मरन्ध्रे । अः सुखे । कं दक्षबाहुमूले । खं
कुर्परे । गं मणिबन्धे । घं अङ्गुलिमूले । ङं
अङ्गुल्यग्रे । एवं चं ५ वामबाहुमूलसन्ध्यग्रकेषु ।
एवं टं ५ दक्षिणपादमूलसन्ध्यग्रकेषु । एवं तं ५
वामपादमूलसन्ध्यग्रकेषु । पं दक्षिणपार्श्वे । फं
वामपार्श्वे । बं पृष्ठे । भं नाभौ । मं जठरे ।
यं हृदि । रं दक्षबाहुमूले । लं ककुदि ।
वं वामबाहुमूले । शं हृदादिदक्षहस्ते । षं
हृदादिवामहस्ते । सं हृदादिदक्षपादे । हं
हृदादिवामपादे । लं हृदाद्युदरे । क्षं हृदादि-
मुखे । सर्व्वत्र नमोऽन्तेन न्यसेत् । तथा च ।
“ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्व्विन्दु-
वर्ज्जितः ।
पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥”
इति भट्टः ॥ * ॥
अथ संहारमातृकान्यासः ।
तस्या ध्यानं यथा, --
“अक्षस्रजं हरिणपोतमुदग्रटङ्कं
विद्याः करैरविरतं दधतीं त्रिनेत्राम् ।
अर्द्धेन्दुमौलिमरुणामरबिन्दरामां
वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥
न्यासस्तु क्षकाराद्यकारान्तः । यथा क्षं नमो
हृदादिमुखे इत्यादि ॥ * ॥ अपरञ्च ।
“चतुर्धा मातृका प्रोक्ता केवला बिन्दुसंयुता ।
सविसर्गा सोभया च रहस्यं शृणु कथ्यते ॥
विद्याकरी केबला च सोभया भुक्तिदायिनी ।
पुत्त्रदा सविसर्गा तु सबिन्दुर्व्वित्तदायिनी ॥”
विशुद्धेश्वरे ।
वाग्भवाद्या च वाक्सिद्ध्यै रमाद्या श्रीप्रवृद्धये ।
हृल्लेखाद्या सर्व्वसिद्ध्यै कामाद्या लोकवश्यदा ।
श्रीकण्ठाद्यानिमान्न्यस्येत् सर्व्वमन्त्रः प्रसीदति ॥”
श्रीविद्याबिषये नवरत्नेश्वरे ।
“वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृका-
क्षराः ।
श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये ॥”
इति तन्त्रसारः ॥
(मातृ + “ऋतष्ठञ् ।” ४ । ३ । ७८ । इति ठञ् ।
त्रि । मातुरागतम् । यथा, महाभारते । ६ ।
८७ । ६७ ।
“योऽन्वयो मातृकस्तस्य स एनमभिपेदि-
वान् ॥”)

मातृकेशटः, पुं, (मातृके कुले शटति पुत्त्ररूपेण

गच्छतीति । शट + अच् ।) मातुलः । इति
त्रिकाण्डशेषः ॥

मातृनन्दनः, पुं, (मातॄणां नन्दनः पुत्त्र आनन्द-

वर्द्ध्वनो वा । कार्त्तिकेयः । यथा, --
“कथं त्वं कृत्तिकापुत्त्रमुक्तवान् तं सुरं गुहम् ।
कथञ्च पावकिरसौ कथं वा मातृनन्दनः ॥”
इत्यादि वाराहपुराणे स्कन्धोत्पत्तिर्नामाध्यायः ॥

मातृमण्डलं, क्ली, (मातॄणां मण्डलम् ।) नेत्रयो-

र्म्मध्यम् । तत्तु आसन्नमृत्युर्न्न पश्यति । यथा,
काशीखण्डे ४२ अध्याये ।
“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च ।
आसन्नमृत्युर्न्नो पश्येच्चतुर्थं मातृमण्डलम् ॥
अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ।
विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥”
(यथा च बृहत्संहिताथाम् । “मातॄणामपि
मातृमण्डलविदो विप्रान् विदुर्ब्रह्मणः ॥”)

मातृमुखः, पुं, जडः । इति हेमचन्द्रः । ३ । १६ ॥

मातृबन्धुः, पुं, (मातुर्बन्धुः ।) मातृबान्धवः ।

यथा । बन्धवस्त्रिविधाः । आत्मबन्धवः पितृ-
बन्धवो मातृबन्धवश्चेति । यथोक्तम् ।
“आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्त्राश्च घिज्ञेया ह्यात्मबान्धवाः ॥
पितुः पितृष्वमुः पुत्त्राः पितुर्मातृष्वसुः सुताः ।
पितुर्मातुलपुत्त्राञ्च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृस्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः ।
मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥”
इति मिताक्षरा ॥

मातृबान्धवः, पुं, (मातुर्बान्धवः ।) मातृबन्धुः ।

स च मातामहभगिनीपुत्त्रः । मातामही-
भगिनीपुत्त्रः । मातृमातुलपुत्त्रश्च । यथा, --
“मातुः पितृष्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः ।
मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥”
इत्युद्बाहतत्त्वम् ॥