शब्दकल्पद्रुमः/महाकुलः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/६५५

महाकुलः, त्रि, (महत् कुल वशोऽस्य ।)

उत्तमकुलजातः । तत्पर्य्यायः । कुलीनः २ आर्य्यः ३
सभ्यः ४ सज्जनः ५ साघुः ६ । इत्यमरः । २ ।
७ । ३ ॥ कुल्यः ७ अभिजातः ८ कौलेयकः ९
जात्यः १० । इति हेमचन्द्रः । ३ । १६६ ॥
महाकुलः ११ कौलेयः १२ कोलेयकः १३ ।
इत्यमरटीका ॥ कुलजः १४ साधुजः १५ कुल-
श्रेष्ठः १६ । इति शब्दरत्नावली ॥ (यथा, बृहत्-
संहितायाम् । १७ । ४ ।
“भेदे वृष्टिविनाशो भेदः मुहृदां महाकुला-
नाञ्च ॥”
क्ली, उत्तमं कुलम् । यथा, राजतरङ्गिण्याम् ।
३ । ६१ ।
“द्वयोरालोकितं चित्रं जन्मैकस्मिन् महा-
कुले ॥”)

महाकुलीनः, त्रि, (महाकुलस्य अपत्यम् । महा-

कुल + “महाकुलादञ्खञौ ।” ४ । १ । १४१ ।
इति पक्षे खः ।) महाकुलः । यथा, --
“महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम ।
पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम् ॥”
इति भट्टिः । ५ । ७७ श्लोकः ॥
(स्त्रियां टाप् । यथा, रामायणे । २ । २८ । ३ ।
“सीते ! महाकुलीनासि धर्म्मे च निरता
सदा ॥”)

महाकुष्ठं, क्ली, (महच्च तत् कुष्ठञ्चेति ।) बृहत्-

कुष्ठरोगः । तत् सप्तविधं यथा, --
“पूर्ब्बत्रिकं तथा सिध्मं ततः काकणकं तथा ।
पुण्डरीकर्क्षजिह्वे तु महाकुष्टानि सप्त च ॥
पूर्ब्बत्रिकं कपालौदुम्बरमण्डलाख्यम् । सिध्म-
शब्दोऽकारान्तो नपुंसकलिङ्गः । ननु कथं
सिध्मस्य महाकुष्ठेषु गणना सुश्रुतेन क्षुद्र-
कुष्ठेषुक्तत्वात् । उच्यते । त्वङ्मात्रगता सिध्म-
पुष्पिका सुश्रुतेन च क्षुद्रकुष्ठेषूक्ता धातुषु प्रवि-
ष्टन्तु सिध्मं महाकुष्ठमेव । एवंविधस्य सिध्मस्य
चरकेण महाकुष्ठेषु दर्शितत्वात् । एषां
महाकुष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्ववगाहनात्
उल्वणदोषजन्यत्वात् चिकित्साबाहुल्याच्च ।”
इति भावप्रकाशः ॥ (एषां चिकित्सा क्षुद्रकुष्ठ-
शब्दे द्रष्टव्या ॥)

महाकूपः, पुं, (महांश्चासौ कूपश्चेति ।) बृहत्कूपः ।

तत्पर्य्यायः । अरघट्टः २ । इति जटाधरः ॥

महाकूलः, पुं, (महत् कूलमस्य ।) महाकुलः ।

सत्कुलः । इति द्विरूपकोषः ।

महाकोशफला, स्त्री, (महान् कोशः फले

यस्याः ।) देवदाली लता । इति राजनिर्घण्टः ॥

महाकोशातकी, स्त्री, (महती चासौ कोशा-

तकी चेति ।) हस्तिघोषा । इति राज-
निर्घण्टः ॥ (अस्याः पर्य्यायो यथा, --
“महाकोशातकी प्रोक्ता हस्तिघोषा महा-
फला ।
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महागदः, पुं, (महांश्चासौ गदश्चेति ।) ज्वरः ।

इति राजनिर्घण्टः ॥ (महारोगः । यथा, सुश्रुते ।
१ । ३३ अध्याये ।
“वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरः ।
अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ।
अष्टावेते प्रकृत्यैव दुश्चिकित्सा महागदाः ॥”
औषधविशेषः । यथा, सुश्रुते कल्पस्थाने ५
अध्याये ।
“एषोऽगदो हन्ति विषं प्रयुक्तः
पानाञ्जनाभ्यञ्जननस्ययोगैः ।
अवार्य्यवीर्य्यो विषवेगहन्ता
महागदो नाम महाप्रभावः ॥”
महती गदास्येतिविग्रहे महागदाविशिष्टे, त्रि ।
यथा, श्रीमद्भागवते । ३ । १८ । ९ ।
“परानुषक्तं तपनीयोपकल्पं
महागदं काञ्चनचित्रदंशम् ।
मर्म्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः
प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥”)

महागन्धं, क्ली, (महान् गन्धोऽस्य ।) हरि-

चन्दनम् । बोलम् । इति राजनिर्घण्टः ॥ (महा-
गन्धयुक्ते, त्रि । यथा, हरिवंशे । १४३ । ४४ ।
“तच्च कण्ठे समासज्य महागन्धं नराधिप ! ।
आययावन्धको यत्र दुरात्मा बलदर्पितः ॥”)

महागन्धः, पुं, (महान् गन्धोऽस्य ।) कुटजवृक्षः ।

इति राजनिर्घण्टः ॥ जलवेतसः । इति शब्द-
चन्द्रिका ॥

महागन्धा, स्त्री, (महान् गन्धो यस्याः । स्त्रियां

टाप् ।) नागबला । केविकापुष्पम् । इति राज-
निर्घण्टः ॥ चामुण्डा । यथा, हेमचन्द्रः । २ । १२० ।
“चामुण्डा चर्व्विका चर्म्ममुण्डा मार्ज्जार-
कर्णिका ।
कर्णमोटी महागन्धा भैरवी च कपालिनी ॥”

महागवः, पुं, (महांश्चासौ गौश्चेति । “गोर-

तद्धितलुकि ।” ५ । ४ । ९२ । इति समासान्तष्टच् ।
गोसदृशत्वादस्य तथात्वम् ।) गवयः । यथा, --
“वनगौर्गवयः प्रोक्तो बलभद्रो महागवः ॥”
इति राजनिर्घण्टः ॥

महागिरिः, पुं, (महान् गिरिस्तदाख्योपाधिर्यस्य ।

यद्वा, महान् गिरिरिव ।) बौद्धभेदः । यथा --
“महागिरिः सुहस्त्याद्या वज्रान्ता दश-
पूर्ब्बिणः ॥”
इति हेमचन्द्रः । १ । ३४ ॥
महान् गिरिः पर्व्वतः ।) बृहत्पर्व्वतश्च ॥ (यथा,
महाभारते । ३ । ११० । १५ ।
“नातप्रतपसा शक्यो द्रष्टुमेष महागिरिः ।
आरोढुं वापि कौन्तेय ! तस्मान्नियतवाग्भव ॥”
दानवविशेषः । यथा, हरिवंशे । ३ । ८६ ।
“सूक्ष्मश्चैव निचन्द्रश्च उर्णनाभो महागिरिः ॥”)

महागुरुः, पुं, (महांश्चासौ गुरुश्चेति ।) अति-

गुरुः । स च पुरुषस्य पिता माता आचार्य्यश्च ।
स्त्रियाः पतिः । अदत्तकन्यायाः पिता माता
च । यथा । त्रयः पुरुषस्यातिगुरवो भवन्ति
माता पिताचार्य्यश्चेति । इति विष्णुसूत्रम् ॥
पत्युर्महागुरुत्वमाह रामायणे ।
“नातो विशिष्टं पश्यामि बान्धवं वै कुलस्त्रियाः ।
पतिर्ब्बन्धुर्गतिर्भर्त्ता दैवतं गुरुरेव च ॥”
शातातपः ।
“गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्व्वत्राभ्यागतो गुरुः ॥”
एकपदेन दत्तस्त्रीणां पितृमातृव्यावृत्तिः ॥ * ॥
सपिण्डमरणं प्रकृत्य आश्वलायनः । त्रिरात्र-
मक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं महा-
गुरुषु । आचार्य्यश्च उपनीय ददद्वेदमाचार्य्यः
स उदाहृतः । इति याज्ञवल्क्योक्तः । तन्म-
रणे त्रिरात्राशौचित्वेन नैतादृङ्नियमः ॥
आश्वलायनः । नैतस्यां रात्रावन्नं पचेयुः ।
अन्नं न पचेयुरित्यनेनोपवासः सूचितः । अघ-
स्रस्तरे त्र्यहमनश्नन्त आसीरन् इति वक्ष्य-
माणवचनात् । अघस्रस्तरः कटादिः । अक्षार-
लवणं क्षारमृत्तिकादिकृतलवणभिन्नं तत्तु
सैन्धवं साम्भरि च । इति शुद्वितत्त्वम् ॥ * ॥
महागुरुमरणे संवत्सरपर्य्यन्तं निषिद्धकर्म्माणि
यथा, कर्म्मलोचने ।
“महागुरुनिपाते च काम्यं किञ्चिन्न चाचरेत् ।
आर्त्विज्यं ब्रह्मचर्य्यञ्च यावत् पूर्णो न वत्सरः ॥
अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् ।
वर्ज्जयेद्गुरुपाते च यावत् पूर्णो न वत्सरः ॥
तीर्थयात्रां विवाहञ्चाध्यापनं तर्पणन्तथा ।
संवत्सरं न कुर्व्वीत महागुरुनिपातने ॥”
अपि च ।
“विशेषतः शिवापूजां प्रमृतपितृको द्विजः ।
यावद्वत्सरपर्य्यन्तं मनसापि न चाचरेत् ॥
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।
आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् ॥”
इति कालिकापुराणे ५४ अध्यायः ॥

महागुल्मा, स्त्री, (महान् गुल्मो यस्याः ।) सोम-

वल्ली । इति राजनिर्घण्टः ॥

महागुहा, स्त्री, (महती गुहा यस्याः ।) पृश्नि-

पर्णी । इति राजनिर्घण्टः ॥

महागोधूमः, पुं, (माहांश्चासौ गोधूमश्चेति ।)

बृहद्गोधूमः । वड गम इति भाषा ॥ यथा, --
“गोधूमः सुमनोऽपि स्यात्त्रिविधः स च
कीर्त्तितः ।
महागोधूम इत्याख्यः पश्चाद्देशांत् स
चागतः ॥
मघूली तु ततः किञ्चिदल्पा सा मध्यदेशजा ।
निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिधः ॥
गोधूमो मधुरः शीतो वातपित्तहरो गुरुः ।
कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्सरः ॥
जीवनो बृंहणो वर्ण्यो व्रण्यो रुज्यः स्थिरत्व-
कृत् ॥”
कफप्रदो नवीनो नतु पुराणः । पुराणयव-
गोधूमक्षौद्रजाङ्गलशूल्यभुगिति वाग्भटेन
वसन्ते गृहीतत्वात् ।
“मधुली शीतला स्निग्धा पित्तघ्नी मधुरा
लघुः ।
शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखाः स्मृताः ॥”
इति भावप्रकाशः ॥
पृष्ठ ३/६५६

महाग्रीवः, पुं, (महती दीर्घा ग्रीवा कन्धरा

यस्य ।) उष्ट्रः । इति राजनिर्घण्टः ॥ (शिवः ।
यथा, महाभारते । १३ । १७ । ८६ ।
“महानासो महाकम्बुर्म्महाग्रीवः श्मशान-
भाक् ॥”
शिवानुचरभूतविशेषः । यथा, हरिवंशे भविष्य-
पर्व्वणि । १४ । ३ ।
“कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः ।
पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ॥”
देशविशेषः । यथा, मार्कण्डेये । ५८ । १७ ।
“व्याघ्रग्रीवा महाग्रीवा स्त्रीपुरा श्मश्रु-
धारिणः ॥”)
बृहद्ग्रीवायुक्ते, त्रि ॥

महाघासः, पुं, महतो देशस्य महत्या भूमेर्वा-

वासः । इति मुग्धबोधव्याकरणटीकायां दुर्गा-
दासः ॥

महाघूर्णा, स्त्री, (महती घूर्णा शरीरभ्रमणं

यस्याः ।) सुरा । इति शब्दचन्द्रिका ॥ (महती-
चासौ घूणां चेति ।) अतिशयभ्रमिश्च ॥

महाघोरः, त्रि, (महांश्चासौ घोरश्चेति ।)

अतिशयभयानकः । यथा, शुद्धितत्त्वे ।
“यमद्वारे महाघोरे तप्ता वैतरणी नदी ।
ताञ्च तर्त्तुं ददाम्येनां कृष्णां वैतरणीञ्च गाम् ॥”

महाघोषं, क्ली, (महान् घोषः कोलाहलो

यस्मिन् ।) हट्टम् । इति मेदिनी । षे, ५६ ॥
बृहच्छब्दयुक्ते, त्रि ॥ यथा, महाभारते । १ ।
२२१ । ११ ।
“तेषां श्रुत्वा सभापालो भेरां सान्नाहिकीं तथा ।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥”)

महाघोषः, पुं, (महांश्चासौ घोषश्चेति ।) अति-

घोषणम् । इति मेदिनी । षे, ५६ ॥

महाघोषा, स्त्री, (महान् घोषो यस्याः । टाप् ।)

कर्कटशृङ्गी । इति मेदिनी । षे, ५६ ॥ कुन्दुरुकी ।
इति शब्दचन्द्रिका ॥

महाङ्गः, पुं, (महान्ति दीर्घाणि अङ्गान्यस्य ।)

उष्ट्रः । इत्यमरः । २ । ९ । ७५ ॥ गोक्षुरकः ।
रक्तचित्रकः । इति राजनिर्घण्टः ॥ बृहदव-
यवयुक्ते, त्रि ॥ (यथा, महाभारते । १३ । १७ । ८३ ।
“स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥”)

महाचञ्चुः, स्त्री, (महती चञ्चुरग्रमस्याः ।) शाक-

विशेषः । तत्पर्य्यायः । बृहच्चञ्चुः २ विषारिः ३
मुचञ्चुका ४ स्थूलचञ्चुः ५ दीर्घपत्री ६ दिव्य-
गन्धा ७ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
कषायत्वम् । मलशोधनत्वम् । गुल्मशूलो-
दरार्शोऽर्त्तिविषनाशित्वम् । रसावनत्वञ्च । इति
राजनिर्घण्टः ॥ पुं, बृहच्चञ्चुयुक्तपक्षी च ॥

महाचण्डः, पुं, (महांश्चासौ चण्डश्चेति ।) यम-

भृत्यः । इति हेमचन्द्रत्रिकाण्डशेषौ ॥ प्रचण्डे,
त्रि ॥

महाच्छदः, पुं, (महान् छदः पत्रमस्य ।) देव-

साडवृक्षः । इति रत्नमाला ॥ बृहत्पत्रञ्च ॥

महाच्छायः, पुं, (महती छायास्य ।) वटवृक्षः ।

इति राजनिर्घण्टः ॥ बृहच्छायायुक्ते, त्रि ॥

महाच्छिद्रा, स्त्री, (महच्छिद्रमस्याः ।) महामेदा ।

इति राजनिर्घण्टः ॥ बृहच्छिद्रयुक्ते, त्रि ॥

महाजः, पुं, (महांश्चासौ अजश्चेति ।) बृह-

च्छागः । (महतो जायत इति । महत् + जन्
+ कर्त्तरि डः । पृषोदरादित्वात् साधुः ।)
महाकुलोद्भवे, त्रि ॥

महाजटा, स्त्री, (महती जटास्याः ।) रुद्रजटा ।

इति राजनिर्घण्टः ॥ (महती जटा ।) बृह-
ज्जटा च ॥

महाजनः, पुं, (महांश्चासौ जनश्चेति ।) साधुः ।

यथा, महाभारते । ३ । ३१२ । ११२ ।
“वेदा विभिन्नाः स्मृतयो विभिन्ना
नासौ मुनिर्यस्य मतं न भिन्नम् ।
धर्म्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥”
मन्वादिः । यथा, --
“प्रायेण वेद तदिदं न महाजनोऽयं
देव्या विमोहितमतिर्व्वत माययालम् ।
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां
वैतानिके महति मर्म्मणि युज्यमानः ॥”
इति श्रीभागवते षष्ठस्कन्धे अजामिलोपाख्याने
यमवाक्यव्याख्याने श्रीधरस्वामी ॥ (धनी । यथा,
मृच्छकटिके । १ ।
“सङ्गं नैव हि कश्चिदस्य कुरुते सम्भाष्यते
नादरात्
संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।
दूरादेवमहाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापात-
कम् ॥”)

महाजवः, पुं, (महान् जवो वेगो यस्य ।) गवयः ।

श्रीकारी मृगः । इति राजनिर्घण्टः । अति-
वेगयुक्ते, त्रि ॥ (यथा, श्रीमद्भागवते । ७ । ८ । २८ ।
“कृत्वाट्टहासं खरमुत्स्वनोल्वणं
निमीलिताक्षं जगृहे महाजवः ॥”
स्त्री, कुमारानुचरगणविशेषः । यथा, महा-
भारते । ९ । ४६ । २२ ।
“शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥”)

महाजम्बुः, स्त्री, (महती चासौ जम्बुश्चेति ।)

बृहज्जम्बुवृक्षः । यथा, --
“महाजम्बुर्महापत्रा राजजम्बुर्बृहत्फला ॥”
इति रत्नमाला ॥

महाजम्बूः, स्त्री, (महती चासौ जम्बूश्चेति ।)

बृहज्जम्बुः । तत्पर्य्यायः । राजजम्बुः २ स्वर्ण-
माता ३ महाफला ४ पिकप्रिया ५ कोकिलेष्टा
६ महानीला ७ बृहत्फला ८ । अस्य गुणाः ।
उष्णत्वम् । मधुररसत्वम् । कषायत्वम् । श्रम-
हरत्वम् । झटित्यास्यजडिमनाशित्वम् । स्वर-
करत्वम् । विष्टम्भित्वम् । शोषशमनत्वम् ।
भ्रमातीसारार्त्तिवर्द्धकत्वम् । श्वसितकफकास-
प्रशमनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“फलेन्द्रः कथितो नन्दो राजजम्बुर्महाफला ।
तथा सुरभिपत्रा च महाजम्बूरपि स्मृता ॥
राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम् ॥”
इति भावप्रकाशः ॥

महाजातिः, स्त्री, (महती जातिरस्या इति ।

यद्वा, महती जातिरिव तदाकृतित्वात् ।)
वासन्ती लता । इति राजनिर्घण्टः ॥ (महती
जातिरिति ।) श्रेष्ठवर्णश्च ॥

महाजातीयः, त्रि, (महत् + “प्रकारवचने

जात्तीयर् ।” ५ । ३ । ६९ । इति जातीयर् ।
ततः । “आन् महतः समानाधिकरणजाती-
ययोः ।” ६ । ३ । ४६ । इति महतः आकारादेशः ।)
महतः प्रकारः । इति व्याकरणम् ॥

महाजाली, स्त्री, (जालयति आच्छादयतीति ।

जाल आच्छादने + पचाद्यच् । स्त्रियां ङीष् ।
ततः । महती चासौ जाली चेति । यद्वा,
महांश्चासौ जालश्चेति स अस्या अस्ति अर्श
आद्यच् ततः ङीष् । इत्यमरटीकायां रभसः ।)
पीतवर्णघोषा । इत्यमरः । २ । ४ । ११७ ॥
राजकोशातकी । इति राजनिर्घण्टः ॥ बृह-
ज्जालवाहके, त्रि ॥

महाज्यैष्ठी, स्त्री, (महती चासौ ज्यैष्ठी चेति ।)

नक्षत्रविशेषादियुक्तज्यैष्ठीपूर्णिमा । सा पञ्चधा ।
यथा, ब्रह्मपुराणे ।
“ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।
पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥
ऐन्द्रे ज्येष्ठायां प्राजापत्ये रोहिण्याम् ॥ १ ॥
विना गुरुवारेणापि ।
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।
पूर्णिमा ज्यैष्ठमासस्य महाजयिष्ठी प्रकीर्त्तिता ॥ २ ॥
अनुराधास्थगुरावपि ।
ऐन्द्रे मैत्रे यदा जीवस्तत्पञ्चदशके रविः ।
पूर्णिमा शक्रचन्द्रेण महाज्यैष्ठी प्रकीर्त्तिता ॥ ३ ॥
अनुराधास्थे चन्द्रेऽपि । व्याघ्रभूतिः ।
ऐन्द्रर्क्षे त्वथवा मैत्रे गुरुचन्द्रौ यदा स्थितौ ।
पूर्णिमा ज्यैष्ठमासस्य महाज्यैष्ठी प्रकीर्त्तिता ॥ ४ ॥
राजमार्त्तण्डे ।
ज्यैष्ठे संवत्सरे चैव ज्यैष्ठमासस्य पूर्णिमा ।
ज्येष्ठाभेन समायुक्ता महाज्यैष्ठी प्रकीर्त्तिता ॥ ५ ॥
ज्यैष्ठसंवत्सरश्च ।
ज्येष्ठामूलोपगे जीवे वर्षं स्यात् शक्रदैवतम् ।
इति विष्णुधर्म्मोत्तरोक्तो ग्राह्यः ।
न तु संवत्सरादिपञ्चकान्तर्गतवर्षविशेषः । ज्यैष्ठ
इति वर्षविशेषणस्य वैयर्थ्यापत्तेः । संवत्सरे
यदि स्यादिति पाठः काल्पनिकः ॥ * ॥
महाज्यैष्ठ्यान्तु यः पश्येत् पुरुषः पुरुषोत्तमम् ।
विष्णुलोकमवाप्नोति मोक्षं गङ्गाम्बुमज्जनात् ॥”
इति तिथ्यादितत्त्वम् ॥

महाज्योतिष्मती, स्त्री, (महती चासौ जोतिष्मती

चेति ।) लताविशेषः । वडी मालकङ्गुनी इति
हिन्दी भाषा । तत्पर्य्यायः । तेजोवती २ बहु-
रसा ३ कनकप्रभा ४ तीक्ष्णा ५ सुवर्णनकुली ६
पृष्ठ ३/६५७
लवणा ७ अग्निदीप्ता ८ तेजस्विनी ९ सुर-
लता १० अग्निफला ११ अग्निगर्भा १२ कङ्गुनी
१३ शैलसुता १४ सुतैला १५ सुवेगा १६
वायसी १७ तीव्रा १८ काकाण्डी १९ वायसा-
दनी २० गीर्लता २१ श्रीलता २२ सौम्या २३
ब्राह्मी २४ लवणकिंशुका २५ पारावतपदी २६
पीता २७ पीततैला २८ यशस्विनी २९ मेध्या
३० मेधावती ३१ धीरा ३२ । अस्या गुणाः ।
तिक्ततरत्वम् । रूक्षत्वम् । किञ्चित्कटुत्वम् ।
वातकफापहत्वम् । दाहप्रदत्वम् । दीपनत्वम् ।
मेधाप्रज्ञाकारित्वञ्च । इति राजनिर्घण्टः ॥

महाज्वालः, पुं, (महती ज्वाला शिखास्य ।)

होमाग्निः । इति हेमचन्द्रः । ३ । ५०० ॥ (नरक-
विशेषः । यथा, विष्णुपुराणे । २ । ६ । १२ ।
“स्नुषां सुताञ्चापि गत्वा महाज्वाले निपा-
त्यते ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ८१ ।
“अग्निज्वालो महाज्वालो अतिधूम्रो हुतो
हविः ॥”)

महाज्वाला, स्त्री, (महती ज्वाला दीप्तिर्यस्याः ।)

जिनानां विद्याधरीविशेषः । इति हेमचन्द्रः ।
३ । ५०० ॥ (महती ज्वाला ।) बृहदग्निशिखा च ॥

महाढ्यः, पुं, (महान् आढ्यः शोभासम्पन्नः ।)

कदम्बः । इति राजनिर्घण्टः ॥ (महानाढ्यः ।)
अतिशयधनवति, त्रि ॥ (यथा, कथासरित्सागरे ।
२५ । ११८ ।
“ततः प्रभृति चैतस्यां वाराणस्यामुवास सः ।
अभ्यर्थतो महाढ्यस्य तस्यैव बणिजो गृहे ॥”)

महातमःप्रभा, स्त्री, (महती तमसां प्रभा प्रकाशो-

ऽस्याम् ।) नरकविशेषः । स चातिशयान्ध-
कारमयः । यथा, हेमचन्द्रः । ५ । ३ ।
“घनोदधिघनवाततनुवातनभःस्थिताः ।
रत्नशर्कराबालुकापङ्कधूमतमःप्रभाः ॥
महातमःप्रभा वेत्यधोऽधो नरकभूमयः ॥”

महातरुः, पुं, (महांश्चासौ तरुश्चेति ।) स्नुही-

वृक्षः । इति हेमचन्द्रः । ४ । २०६ ॥ (महाकवेः
कालिदासस्य स्रुहीवृक्षमुद्दिश्य वक्रोक्तिप्रयोगो
यथा, --
“तरवः पारिजाताद्याः स्नुहीवृक्षो महा-
तरुः ॥”)
बृहद्वृक्षश्च ॥

महातलं, क्ली, (महच्च तत्तलञ्चेति ।) पाताल-

विशेषः । यथा, शब्दमालायाम् ।
“अतलं वितलञ्चैव नितलञ्च तलातलम् ।
महातलञ्च सुतलं सप्तमञ्च रसातलम् ॥”
(यथा च श्रीमद्भागवते । २ । १ । २६ ।
“पातालमेतस्य हि पादमूलं
पठन्ति पार्ष्णिप्रपदे रसातलम् ।
महातलं विश्वसृजोऽथ गुल्फौ
तलातलं वै पुरुषस्य जङ्घे ॥”)

महातारा, स्त्री, (तारयति संसारादिति । तृ +

णिच् + अच् । स्त्रियां टाप् । ततो महती
तारेति कर्म्मधारयः ।) जिनानां देवीविशेषः ।
तत्पर्य्यायः । तारा २ महाश्रीः ३ ओङ्कारा ४
स्वाहा ५ श्रीः ६ मनोरमा ७ तारिणी ८ जया
९ अनन्ता १० शिवा ११ लोकेश्वरा १२ आत्मजा
१३ खदूरवासिनी १४ भद्रा १५ वैश्या १६
नीलसरस्वती १७ शङ्खिनी १८ वसुधारा १९
धनंददा २० त्रिलोचना २१ लोचना २२ ।
इति हेमचन्द्रः ॥

महाताली, स्त्री, (महान् अनेकस्तालो यत्र ।

स्त्रियां ङीष् ।) आवर्त्तकी । इति राजनिर्घण्टः ॥

महातिक्तः, पुं, (महानतिशयस्तिक्तस्तिक्तरसो

यत्र ।) महानिम्बः । इति राजनिर्घण्टः ॥
अतिशयतिक्तरसयुक्ते, त्रि ॥

महातिक्ता, स्त्री, (महती गुरुतरा तिक्ता ।)

यवतिक्ता । इति राजनिर्घण्टः ॥ (यथा,
गोविन्दविशारदकृतभैषज्यरत्नावल्याम् ।
“आचु जिङ्गी महातिक्ता विशाला छपिपत्र-
कम् ॥”)
पाठा । इति शब्दचन्द्रिका ॥

महातीक्ष्णा, स्त्री, (महती तीक्ष्णा ।) भल्ला-

तकवृक्षः । इति राजनिर्घण्टः ॥ अतिशय-
तीक्ष्णे, त्रि ॥

महातेजः, [स्] क्ली, (महदतिशयं तेजोऽस्य ।)

पारदः । इति राजनिर्घण्टः ॥

महातेजाः, [स्] पुं, (महदतिशयं तेजो बल-

मस्य ।) कार्त्तिकेयः । इति हलायुधः । अग्निः ।
इति शब्दचन्द्रिका ॥ (महादेवः । यथा, महा-
भारते । १३ । १७ । ५६ ।
“उग्रतेजा महातेजा जन्यो विजयकाल-
वित् ॥”)
अतिशयतेजस्विनि, त्रि ॥ (यथा, मनुः । १ । ६२ ।
“स्वारोचिषश्चौत्तमिश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥”)

महात्मा, [न्] त्रि, (महानात्मा स्वभावोऽस्य ।)

उत्तमस्वभावयुक्तः । (यथा, कामन्दकीयनीति-
सारे । ३ । ११ ।
“महावाताहृतभ्रान्तिमेघमालातिपेलवैः ।
कथं नाम महात्मानो ह्नियन्ते विषयारिभिः ॥”)
तत्पर्य्यायः । महेच्छः २ उद्भटः ३ उदारः ४
उदात्तः ५ उदीर्णः ६ महाशयः ७ महा-
मनाः ८ । इति हेमचन्द्रः । ३ । ३१ ॥ (पुं, पर-
मात्मा । यथा, मनुः । १ । ५४ ।
“युगपत्तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
तदायं सर्व्वभूतात्मा सुखं स्वपिति निर्वृतः ॥”
“तस्मिन् परमात्मनि ।” इति तट्टीकायां
कुल्लूकः ॥ महत्तत्त्वम् । यथा, श्रीमद्भागवते ।
९ । ७ । २५ ।
“मनः पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् ।
खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि ॥”
“महात्मनि महत्तत्त्वे ।” इति तट्टीकायां
श्रीधरस्वामी ॥ पितृगणविशेषः । यथा, मार्क-
ण्डेये । ९६ । ४६ ।
“महान् महात्मा महितो महिमावान् महा-
बलः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ३४ ।
“महारूपो महाकायो वृषरूपो महायशाः ।
महात्मा सर्व्वभूतात्मा विश्वरूपो महाहनुः ॥”)

महादण्डः, पुं, (महान् दण्डस्ताडनसाधनमस्य ।)

यमदूतप्रभेदः । इति बृहद्धर्म्मपुराणे ५६
अध्यायः ॥ (महान् दण्डः ।) बृहद्दण्डश्च ॥
(यथा, महाभारते । ५ । १९४ । ३७ ।
“यस्माज्जानन् स मन्दात्मा मामसौ नोपसर्पति ।
तस्मात्तस्मै महादण्डो धार्य्यः स्यादिति मे
मतिः ॥”)

महादन्तः, पुं, (महांश्चासौ दन्तश्चेति ।) गज-

दन्तः । तत्पर्य्यायः । ईशादन्तः २ । इति
त्रिकाण्डशेषः ॥ बृहद्दन्तमात्रञ्च ॥ (महादेवः ।
यथा, महाभारते । १३ । १७ । ८७ ।
“महादन्तो महादंष्ट्रो महाजिह्वो महा-
मुखः ॥”
महान् दन्तोऽस्य ।) तद्वति, त्रि ॥

महादानं, क्ली, (महच्च तद्दानञ्चेति ।) श्रेष्ठ-

दानम् । तत्तु तुलापुरुषादिषोडशप्रकारम् ।
यथा, मत्स्यपुराणे ।
“अथातः संप्रवक्ष्यामि महादानस्य लक्षणम् ॥”
इत्यभिधाय ।
“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् ।
हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् ॥
कल्पपादपदानञ्च गोसहस्रन्तु पञ्चमम् ।
हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च ॥
पञ्चलाङ्गलकं तद्वद्धरादानन्तथैव च ।
हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा ॥
द्बादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् ।
सप्तसागरदानञ्च रत्नधेनुस्तथैव च ।
महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः ॥” * ॥
अत्र सामान्यलक्षणम् । सूक्तजपाङ्गकदानं
महादानम् । विनायकादिपञ्चाशद्देषताहोमा-
ङ्गकं वा । तथा मत्स्यपुराणम् ।
“विनायकादिग्रहलोकपाल-
वस्वष्टकादित्यमरुद्गणानाम् ।
ब्रह्माच्युतेशानबृहस्पतीनां
स्वमन्त्रतो होमचतुष्टयं स्यात् ॥
जप्यानि सूक्तानि तथैव चैषा-
मनुक्रमेणापि यथास्वरूपम् ॥”
इत्यादिना सूक्तजपहोमरूपाङ्गयोर्व्विधानं
प्रत्येकं षोडशतुलापुरुषप्रधानान्युद्दिश्योक्तं नतु
महादानत्वेनोद्दिश्येति । अतो नेतरेतरा-
श्रयः । न तु कुण्डमण्डपेतिकर्त्तव्यतायोगित्वं
जिकनीयलक्षणम् । अचलदानेऽपि गतत्वात् ।
एवञ्च ।
“कनकाश्वतिला गावो दासी रथमहीगृहाः ।
कन्या च कपिला धेनुर्म्महादानानि वै दश ॥”
इति कूर्म्मपुराणोक्तदानपदं गौणम् ॥
अन्यथा बहुशक्तिकल्पनापत्तेः कनकदानादि-
पृष्ठ ३/६५८
साधारणानुगतैकरूपाभावाच्च । अतो न वैप-
रीत्यमिति ।
“सर्व्वेषामेव दानानामेकजन्मानुगं फलम् ॥”
इति मलमासतत्त्वम् ॥

महादारु, क्ली, (महत् दारु अस्य ।) देवदारु ।

इति जटाधरः ॥ (महत् दारु ।) बृहत्काष्ठञ्च ॥

महादेवः, पुं, (महांश्चासौ देवश्चेति । यद्वा,

महतां देवादीनां देवः ।) शिवः । इत्यमरः ।
१ । १ । ३४ ॥ अष्टमूर्त्त्यन्तर्गतसोममूर्त्तिरयम् ।
यथा, महादेवाय सोममूर्त्तये नमः । इति
शिवपूजापद्धतिः ॥ * ॥ अस्य व्युत्पत्तिर्यथा --
“ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्मवादिनाम् ।
तेषाञ्च महतां देवो महादेवः प्रकीर्त्तितः ॥
भहती पूजिता विश्वे मूलप्रकृतिरीश्वरी ।
तस्या देवः पूजितश्च महादेवः स च स्मृतः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः ॥
तस्य पञ्चवक्त्रत्वत्रिनेत्रत्वकारणं यथा, --
“अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम् ।
अहो निर्व्वचनीयञ्च दृष्ट्वा रूपमनुत्तमम् ।
न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ॥
पश्यन्निमेषरहित इति मत्वा स्वमानसे ।
भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः ॥
सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्म्मुखः ।
वहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः ॥
पश्यामि किं वा किं स्तौमि संप्राप्य नाथ-
मीदृशम् ।
आस्यैकेन लोचनाभ्यां चतुर्धा स पुनः पुनः ॥
स्वमानसे कुर्व्वतीदं शङ्करे च तपस्विनि ।
तद्वभूव चतुर्व्वक्त्रं पूर्ब्बेण सह पञ्चमम् ॥
एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः ।
बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः ॥
चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः ।
सत्त्वं रजस्तम इति तस्य हेतुं निशामय ॥
सत्त्वांशेन दृशा शम्भुः पश्यन् पाति च सात्त्वि
कान् ।
राजसेन राजसिकान् तामसेन च तामसान् ॥
चक्षुषस्तामसात् पश्चात् ललाटस्थाद्धरस्य च ।
संहारकाले संहर्त्तुरग्निराविर्भवेत् क्रुधा ॥
कोटितालप्रमाणश्च सूर्य्यकोटिसमप्रभः ।
लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः ॥”
तस्य भस्मधारणकारणं यथा, --
“विभूतिगात्रः स विभुः सतीसत्कारभस्मना ।
धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ॥
स्वात्मारामो यद्यपीशस्तथापि पूर्णमब्दकम् ।
सतीशवं गृहीत्वा च भ्रामं भ्रामं रुरोद ह ॥
प्रत्यङ्गाङ्गञ्च तस्याश्च पपात यत्र यत्र च ।
सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत् ॥
तदा शवावशेषञ्च कृत्वा वक्षसि शङ्करः ।
पपात मूर्च्छितो भूत्वा सिद्धक्षेत्रे च राधिके ! ॥
तदा गत्वा महेशन्तं कृत्वा क्रोडे प्रबोध्य च ।
अददं दिव्यतत्त्वञ्च तस्मै शोकहरं परम् ॥
तदा शिवश्च सन्तुष्टः स्वलोकञ्च जगाम ह ।
मूर्त्त्यन्तरेण कालेन तां संप्राप प्रियां सतीम् ॥”
तस्य दिगम्बरत्वजटाधारित्वकारणं यथा, --
“दिग्वस्त्रधारी योगेन नेच्छाऽनित्ये पटे विभोः ।
जटास्तपस्याकालीना धत्तेऽद्यापि विवेकतः ॥
न चेच्छा केशसंस्कारे स्वाङ्गवेशेन योगिनः ।
समता चन्दने पङ्के लोष्ट्रे रत्ने मणीश्वरे ॥”
तस्य नागभूषणत्ववृषवाहनत्वकारणं यथा, --
“गरुडद्वेषिणो नागाः शङ्करं शरणं ययुः ।
बिभर्त्ति कृपया स्वाङ्गे तानेव शरणागतान् ॥
वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः ।
त्रिपुरस्य वधे पूर्ब्बं मत्कलांशसमुद्भवः ॥”
तस्य धुस्तूरपुष्पविल्वपत्रप्रियत्वव्याघ्रचर्म्मधारित्व-
श्मशानस्थायित्वकारणं यथा, --
“पारिजातादिकं पुष्पं सुगन्धिचन्दनादिकम् ।
मयि संन्यस्य तेष्वेव प्रीतिर्नास्ति कदाचन ॥
धुस्तूरे तत् सदा प्रीतिर्व्विल्वपत्रानुलेपने ।
गन्धहीने प्रसूने च योगेष्टे व्याघ्रचर्म्मणि ॥
दिव्यलोके दिव्यतल्पे जनतायां न तन्मनः ।
श्मशानेऽतीवरहसि ध्यायते मामहर्न्निशम् ॥”
तस्य महिमादि यथा, --
“आब्रह्मतृणपर्य्यन्तं स्वप्नवन्मन्यते शिवः ।
ममानिर्व्वचनीयेऽत्र रूपे तन्मग्नमानसम् ॥
ब्रह्मणः पतनेनापि शूलपाणेः क्षणो भवेत् ।
तस्यायुषः प्रमाणञ्च नाहं जानामि का श्रुतिः ॥
ज्ञानं मृत्युञ्जयं शूलं धत्ते मत्तेजसा समम् ।
विना मया न कश्चित्तं शङ्करं जेतुमीश्वरः ॥
शङ्करः परमात्मा मे प्राणेभ्योऽपि परः शिवः ।
त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात् परः ॥
न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।
सदाशिवस्य हृदये निबद्धः प्रेमपाशतः ॥
स्रष्टुं शक्तो हि नष्टुञ्च भ्रूभङ्गलीलया हि यः ।
ब्रह्माण्डनिकरं योगान्न योगी शङ्करात् परः ॥
दिव्यज्ञानेन यः स्रष्टुं नष्टुं भ्रूभङ्गलीलया ।
मृत्युकालादिकं शक्तो न ज्ञानी शङ्करात् परः ॥
मम भक्तिञ्च दास्यञ्च मुक्तिञ्च सर्व्वसम्पदम् ।
सर्व्वसिद्धिं दातुमीशो न दाता शङ्करात् परः ॥
पञ्चवक्त्रेण मन्नाम यशो गायत्यहर्निशम् ।
मद्रूपं ध्यायते शश्वन्न भक्तः शङ्करात् परः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३६ अध्यायः ॥
शिवनैवेयभक्षणदोषकारणादिकं यथा, --
राधिकोवाच ।
“एवंभूतस्य च विभोः सर्व्वेशस्य महात्मनः ।
न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन ! ॥
श्रीकृष्ण उवाच ।
शृणु देवि ! प्रवक्ष्येऽहमितिहासं पुरातनम् ।
पापेन्धनानां दहने ज्वलदग्निशिखोपमम् ॥
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ।
ददर्श भुक्तवन्तञ्च नाथं नारायणं द्बिजः ॥
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा ।
अवशेपं ददौ तस्मै सन्तुष्टो भक्तवत्सलः ॥
प्राप्तमात्रेण तत्रैव भुक्तं तेनापि किञ्चन ।
किञ्चिद्ररक्ष बन्धूनां भक्षणाय च दुर्लभम् ॥
सिद्धाश्रमे च तद्दत्तं गुरवे शूलपाणिने ।
भक्त्युद्रेकाच्च तत् सर्व्वं भुक्तञ्च प्राप्तिमात्रतः ॥
भुक्त्वा सुदुर्लभं वस्तु ननर्त्त प्रेमविह्वलः ।
पपात डमरुर्हस्तात् शृङ्गञ्च व्याघ्रचर्म्म च ॥
स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप च ।
एतस्मिन्नन्तरे देवी दुर्गा दुर्गतिनाशिनी ॥
मुदा जगाम शीघ्रं तत्प्रसन्नवदनेक्षणा ।
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तञ्च भक्तितः ।
प्रहस्य वार्त्तां पप्रच्छ कुमारं शूलपाणिनः ॥
सर्व्वं तां कथयामास कुमारः संपुटाञ्जलिः ।
श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ।
दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥
सुचिरञ्च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।
त्वया विष्णोः प्रसादेन वञ्चिताहं कथं विभो ! ॥
यतो न दत्तं नैवेद्यं विष्णोर्मह्यं त्वयाधुना ।
अतो मत्तो गृहाणैतत् फलमेव महेश्वर ! ॥
अद्य प्रभृति ये लोका नैवेद्यं भुञ्जते तव ।
ते जन्मैकं सारमेया भविष्यन्त्येव भारते ॥
इत्युक्त्वा पार्व्वती मानाद्रुरोद पुरतो विभोः ।
दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव सः ॥
अपूर्ब्बं तव नैवेद्यं जन्ममृत्युजराहरम् ।
कृतं दुष्टं यतस्तस्मात् पश्य देहं त्यजामि च ॥
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ! ।
सुपवित्रं भवेत्तत्र विष्णोर्नैवेद्यमिश्रितम् ॥
इत्येवं कथितं सर्व्वं त्वया पृष्टं सुरेश्वरि ! ।
अभिशस्तं शङ्करस्य निर्म्माल्यं येन हेतुना ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३७ अध्यायः ॥
तस्यावतारा यथा, --
सूत उवाच ।
“वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ शृणुत सुव्रताः ॥
आदौ कलियुगे श्वेते देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद्वैवस्वतेऽन्तरे ॥
हिमवच्छिखरे रम्ये छगले पर्व्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता बभूवुरमितप्रभाः ॥
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥
सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥
अष्टमे दधिबाहुः स्यान्नवमे वृषभः प्रभुः ।
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रपरः स्मृतः ॥
द्वादशेऽत्रिः समाख्यातो वाली चाथ त्रयोदशे ।
चतुर्द्दशे गौतमस्तु वेदशीर्व्वा ततः परम् ॥
गोकर्णश्चाभवत्तस्माद्भहारामः शिखण्ड्यथ ।
जटामाल्यश्च हासश्च दारुको लाङ्गली क्रमात् ॥
श्वेतस्तथा परः शूली तिण्डी मुण्डी च वै क्रमात् ।
सहिष्णुः सोमशर्म्मा च कुलीशो चान्तिमे प्रभुः ॥
वैवस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलिनः ।
अष्टाविशतिविख्याता ह्यन्ते कलियुगे प्रभोः ।
तीर्थकार्य्यावतारः स्याद्देवेशो नकुलीश्वरः ॥”
इति कौर्म्मे ५० अध्यायः ॥ * ॥
पृष्ठ ३/६५९
तस्याष्टषष्टिनामानि क्षेत्राणि च यथा, --
मनुरुवाच ।
“मन्दरस्थं महादेवं ब्रह्मा पृच्छति शङ्करम् ।
केषु केषु च स्थानेषु द्रष्टव्योऽसि मया प्रभो ! ॥
ईश्वर उवाच ।
वाराणस्यां महादेवं प्रयागे तु महेश्वरम् ।
नैमिषे देवदेवञ्च गयायां प्रपितामहम् ॥
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिभूषणम् ।
पुष्करे तु अपोगन्धिं विश्वञ्च विमलेश्वरे ॥
अट्टहासे महानादं महेन्द्रे तु महाव्रतम् ।
उज्जयिन्यां महाकालमाकोटे तु महोत्कटम् ॥
शङ्कुकर्णे महातेजं गोकर्णे च महाबलम् ।
भैरवे भैरवाकारं भवं वस्त्रापदे विदुः ॥
उग्रं कनखले चैव भद्रकर्णाह्रदे शिवम् ।
देवदारुवने दिण्डिं चण्डीशं मध्यमङ्गले ॥
ऊर्द्धरेतं त्वरण्डे तु सकलाण्डे कपर्द्दिनम् ।
कृत्तिवाससमेकाग्रे सूक्ष्मं ताम्रातिकेश्वरे ॥
कालञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे ।
ध्यानं सिद्धेश्वरे योगी गायत्त्रीञ्चोत्तरेश्वरे ॥
विजयं नाम काश्मीरे जयन्तं मरुकेश्वरे ।
हरिश्चन्द्रे हरिञ्चैव पुरिश्चन्द्रे तु शङ्करम् ॥
जटावासेश्वरे विद्यां सौम्यं कुब्जटकेश्वरे ।
भूतेश्वरे भस्मगात्रं जललिङ्गे जलेश्वरम् ॥
भिक्षुकं कर्णिकायान्तु वाराहं बिन्ध्यपर्व्वते ।
ताम्रं पश्चिमसन्ध्यायां विरजायां त्रिलोचनम् ॥
दृप्तेश्वरे त्रिशूलन्तु श्रीशैले त्रिपुरान्तकम् ।
जललिङ्गे विदुः कालिं कापालिं करवीरके ॥
दीप्तचक्रेश्वरे वेदं नेपाले पशुपतिं पतिम् ।
श्रीकारारोहणे कूटं दैविकायामुमापतिम् ॥
गङ्गायां सागरे त्वमरमोङ्कारममरकण्ठके ।
सप्तगोदावरे भीमं स्वयम्भुं नकुलेश्वरे ॥
कर्णिकारे गणाध्यक्षं कैलासे च गणाधिपम् ।
हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ।
सिद्धेश्वरन्तु आकाशे पाताले चट्टकेश्वरम् ॥
अष्टषष्टिश्च नामानि देवदेवस्य धीमतः ।
पुराणे चोपगीतानि ब्राह्मणस्य स्वयम्भुवा ॥
यः पठेत् प्रातरुत्थाय स्नातो वा यदि वा
शुचिः ।
मुच्यते सर्व्वपापेभ्यः शिवलोकं स गच्छति ॥”
इत्याद्ये देवीपुराणे अष्टषष्टिनामानि महा-
देवस्य ॥ * ॥ तस्य द्वादशनामस्तोत्रम् ।
“प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः ।
तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः ॥
पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः ।
सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः ॥
ईश्वरो नवमो ज्ञेयो दशमः पार्व्वतीपतिः ।
रुद्र एकादशश्चैव द्बादशः शिव उच्यते ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः ॥
स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।
मुच्यते सर्व्वपापेभ्यो रुद्रलोकं स गच्छति ॥”
इति स्कन्दपुराणम् ॥ * ॥
तन्नामोच्चारणफलं यथा, --
“कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।
सद्यः प्रलयमायान्ति महादेवेति कीर्त्तनात् ॥
महादेव महादेव महादेवेति वादिनम् ।
वत्सं गौरिव गौरीशो धावन्तमनुधावति ॥”
इति पुराणम् ॥ * ॥
तस्य प्रणाममन्त्रः ।
“नमस्ये त्वां महादेव ! लोकानां गुरुमीश्वरम् ।
पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥”
इति श्रीभागवतम् ॥
“महादेवं महात्मानं महायोगिनमीश्वरम् ।
महापापहरं देवं मकाराय नमो नमः ॥”
इति तन्त्रम् ॥ * ॥
तस्य कालरूपवर्णनं यथा, --
नारद उवाच ।
“कालरूपी त्वया ख्यातः शम्भुर्गगनगोचरे ।
लक्षणञ्च स्वरूपञ्च सर्व्वं व्याख्यातुमर्हसि ॥
पुलस्त्य उवाच ।
स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः ।
अश्विनी भरणी चैव कृत्तिका प्रथमांशकम् ॥
मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् ।
आग्नेयांशास्त्रयो ब्रह्मन् ! प्राजापत्यं कवेर्गृहम् ॥
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् ।
मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहन्त्विदम् ॥
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ।
आदित्यांशश्च पुष्यञ्च अश्लेषा शशिनो गृहम् ॥
राशिः कर्कटको नाम पार्श्वेन खविलासिनः ।
पित्रर्क्षं भगदैवत्यं उत्तरांशश्च केशरी ॥
सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् ।
उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्विदम् ॥
सोमपुत्त्रस्य सद्मैतत् द्वितीयं जठरं विभोः ।
चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम् ॥
द्वितीयं शुक्रसदनं तुलानाभिरुदाहृतम् ।
विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम् ॥
द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः ।
मूलं पूर्ब्बोत्तरांशश्च देवाचार्य्यगृहं धनुः ॥
ऊरुयुगलमीशस्य अमरर्षे ! प्रगीयते ।
उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ! ॥
धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते ।
धनिष्ठार्द्धं शतभिषा प्रोष्ठपद्यांशकत्रयम् ॥
सौरं सद्मापरमिदं कुम्भो जङ्घे च विश्रुते ।
प्रोष्ठपद्यांशमेकन्तु उत्तरा रेवती तथा ॥
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥
एवं कृत्वा कालरूपं त्रिनेत्रो
यज्ञं क्रोधान्मार्गणैराजघान ।
विद्धश्चासौ वेदनाबुद्धियुक्तः
खे सन्तस्थौ तारकाभिश्चिताङ्गः ॥”
इति वामनपुराणे ५ अध्यायः ॥

महादेवी, स्त्री, (महादेवस्य पत्नीति । पत्न्यर्थे ङीष् ।

यद्वा, महती चासौ देवी चेति ।) दुर्गा । यथा,
“अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥”
इति हलायुधः ॥
तस्या व्युत्पत्तिर्यथा, --
“पूज्यते या सुरैः सर्व्वैर्महांश्चैव प्रमाणतः ।
धातुर्महेति पूजायां महादेवी ततः स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
राज्ञी । पाटराणी इति भाषा । तत्पर्य्यायः ।
महिषी २ पट्टार्हा ३ पट्टदेवी ४ । इति राज-
निर्घण्टः ॥ (यथा, कथासरित्सागरे । ५ । २९ ।
“अलिखत् स महादेवीं योगनन्दञ्च तं पटे ।
सजीवमिव तच्चित्रं वाक्चेष्टारहितं त्वभूत् ॥”)

महादैत्यः, पुं, (महांश्चासौ दैत्यश्चेति ।) भौत्य-

मन्वन्तरीयदैत्यविशेषः । यथा, --
“चतुर्द्दशस्य भौत्यस्य शृणु पुत्त्रान्मनोर्मम ।”
इत्युपक्रम्य ।
“शुचिरिन्द्रो महादैत्यो रिपुर्हन्ता हरिः
स्वयम् ॥”
इति गारुडे ७८ अध्यायः ॥

महाद्रावकः, पुं, (द्रावयति रोगानिति । द्रु + णिच्

+ ण्वुल् । महांश्चासौ द्रावकश्चेति ।) औषध-
विशेषः । द्रावक इति भाषा । यथा, --
“यवक्षारस्य भागौ द्वौ स्फटिकारेस्त्रयो मताः ।
एकीकृत्य प्रपिष्यापि मूत्रैर्व्वत्सतरीभवैः ॥
शुष्कं कृत्वा क्षिपेत् पात्रे सैसके वस्त्रलेपिते ।
अन्यसीसकपात्रन्तु द्विमुखं मेलयेद्बुधः ॥
वृद्धवैद्योपदेशेन पचेत् पात्रस्थमौषधम् ।
ततो ज्वालाधतः स्थाप्यं पात्रान्यं लभते
रसम् ॥
ततो रसं विनिष्कृष्य स्थापयेत् स्निग्धभाजने ।
लवङ्गेन वटीं कुर्य्यादथवा मृतताम्रकैः ॥
प्लीहादिस्थूलरोगेषु दापयेत् रक्तिकां भिषक् ।
द्रवीकरोति रोगञ्च महाद्रावकसंज्ञकः ॥
श्वित्रे च दद्रुरोगे च प्रलेपं द्रावकस्य च ।
वह्निवज्ज्वलनं तस्य दधि दत्त्वा प्रलेपयेत् ॥” * ॥
अपि च ।
“वृषश्चित्रमपामार्गं चिञ्चा कुष्माण्डनाडिका ।
स्नुही तालस्य पुष्पञ्च वर्षाभूर्व्वेतसं तथा ॥
एतेषां क्षारमाहृत्य लिम्पाकस्वरसेन च ।
क्षालयित्वा क्षारतोयं वस्त्रपूतञ्च कारयेत् ॥
चण्डातपेन संशोष्य ग्राह्यं तद्द्रवंणोचितम् ।
एतस्य द्विपलं ग्राह्यं यवक्षारपलद्वयम् ॥
स्फटिकारिपलञ्चैव नरसारपलं तथा ।
पलार्द्धं सैन्धवं ग्राह्यं टङ्कणं तोलकद्वयम् ॥
कासीसं तोलकञ्चैव मुद्राशङ्खञ्च तोलकम् ।
दारुमोचं कर्षकञ्च तोलं समुद्रफेनकम् ॥
सर्व्वमेकत्र संचूर्ण्य वकयन्त्रेण साधयेत् ।
महाद्रावकमेतद्धि योज्यञ्च रसजारणे ।
हन्ति गुल्मादिकान् रोगान् यकृत्प्लीहोद-
राणि च ॥” * ॥
इति भैषज्यरत्नावली ॥
(तथापरञ्च ।
“शुद्धं काञ्चनमाक्षिकं मृदुतरं कांस्याभिधेय-
न्तथा
सिन्धूत्थं विमलं रसाञ्जनवरं फेनं स्रवन्तीपतेः ।
पृष्ठ ३/६६०
क्षारौ सर्ज्जिकसम्भवौ सुविमलौ भागास्त्व-
मीषां समाः
सप्तानां सदृशन्तु टङ्गणमिह त्वर्द्धो नृसारः
स्मृतः ॥
तत्तुल्या स्फटिकारिका त्रिसदृशः शुद्धो यव-
स्याग्रजः
काशीशद्वितयं यवाग्रजसमं सञ्चूर्ण्य सर्व्वं
न्यसेत् ।
पात्रे काचमये मृदम्बरवृते सोऽयं महाद्रावको
नो वक्तुं प्रभवेदमुष्य नितरां सम्यग्गुणं भूतले ॥
एतद्वल्लचतुष्टयं पिबेदथो शुण्ठ्या लवङ्गेन वा
तत्पश्चात् परिवासितं बहुगुणं ताम्बूलकं
भक्षयेत् ।
प्रासङ्ग्य्यात् कथयामि ते शृणु गुणान् कांश्चि-
त्तथान्यान् परान्
निःशेषं विनिहन्ति तानि चिरजान्यष्टौदराणि
ध्रुवम् ॥
गुल्मं पाण्डुहलीमकं सुकठिनामष्ठीलिकां
कामलां
मन्दाग्निं विषमाग्नितां बहुविधान् शोथांश्च
शूलान्यपि ॥” * ॥
इति वैद्यककषायसंग्रहे प्लीहाधिकारे ॥)

महाद्रुमः, पुं, (महांश्चासौ द्रुमश्चेति ।) अश्वत्थ-

वृक्षः । इति शब्दचन्द्रिका ॥ बृहद्वृक्षश्च ॥
(यथा, हरिवंशे । २२३ । ७२ ।
“चकोराः शतपत्राश्च मत्तकोकिलसारसाः ।
पुष्पितान् फलिताग्रांश्च संपतन्ति महाद्रुमान् ॥”
शाकद्वीपपतेर्भव्यस्य सप्तमः पुत्त्रः । यथा, मार्क-
ण्डेये । ५३ । २१ ।
“जलदश्च कुमारश्च सुकुमारो मनीवकः ।
कुशोत्तरोऽथ मेधावी सप्तमस्तु महाद्रुमः ॥”)

महाद्रोणा, स्त्री, (महती चासौ द्रोणा चेति ।)

वृक्षविशेषः । वडी द्रोणपुष्पी इति हिन्दी
भाषा । तत्पर्य्यायः । देवकुरुम्बा २ दिव्यपुष्पा
३ महाद्रोणी ४ देवी ५ काञ्जी ६ देवद्रोणा
७ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् ।
मेध्यत्वम् । भूतार्त्तिवातकफाग्निमान्द्यनाशित्वम् ।
युक्त्या पारदशोधनत्वञ्च । इति राजनिर्घण्टः ॥

महाद्रोणी, स्त्री, (महती चासौ द्रोणी चेति ।)

महाद्रोणाक्षुपः । इति राजनिर्घण्टः ॥

महाद्वन्द्वः, पुं, (महान् द्वन्द्वः कोलाहलो यत्र ।)

युद्धवाद्यम् । इति शब्दरत्नावली ॥ अतिशय-
कलहश्च ॥

महाधनं, क्ली, (महत् अनेकं धनं मूल्यत्वेनास्य ।)

बहुमूल्यवस्त्रम् । इत्यमरः । २ । ६ । ११३ ॥
सुवर्णम् । सिह्लकम् । इति मेदिनी । ने, २०१ ॥
चारुवस्त्रम् । इति हेमचन्द्रः ॥ कृषिः । इति
शब्दरत्नावली ॥ (महदनेकं धनमस्मात् ।
संग्रामः । इति निघणुः । २ । १७ ॥ यथा,
ऋग्वेदे । ८ । ६४ । १२ ।
“मा नो अस्मिन्महाधने परावर्गभारभृद्
यथा ॥”
“महाधने संग्रामे ।” इति तद्भाष्ये सायनः ॥
महच्च तद्धनच्चेति । प्रभूतधनम् । यथा, ऋग्-
वेदे । १ । ७ । ५ ।
“इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥”
“महाधने प्रभूतधननिमित्तम् ।” इति तद्भाष्ये
सायनः ॥ बहुमूल्ये, त्रि । यथा, किरातार्ज्जु-
नीये । १ । ३८ ।
“पुराधिरूढं शयनं महाधनं
विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य संस्थलीं
जहासि निद्रामशिवः शिवारुतैः ॥”)
अतिशयधनयुक्ते, च त्रि ॥

महाधातुः, पुं, (महांश्चासौ धातुश्चेति ।) स्वर्णम् ।

इति शब्दचन्द्रिका ॥

महाध्वनिकः, पुं, (अध्वनि गच्छतीति । अध्वन् +

ठक् । महांश्चासौ आध्वनिकश्चेति ।) पुण्यार्थं
हिमालयावधिकमहापथगमनेन सम्पादित-
मरणः । यथा, “भृग्वग्निजलसंग्रामदेशान्तरस्थ-
संन्यासानशनाशनिमहाध्वनिकानामुदकक्रिया
कार्य्या सद्यःशौचं भवतीति ।” इति शुद्धितत्त्व-
धृतसुमन्तुसूत्रम् ॥

महान्, [त्] त्रि, (मह्यते पूज्यते वेति । मह +

“वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा०
२ । ८४ । इति अतिः । निपात्यते ।) बृहन् ।
इत्यमरः । ३ । १ । ६० ॥ (यथा, मनौ । ८ । २९६ ।
“प्राणभृत्सु महत्स्वर्द्धं गोगजोष्ट्रहयादिषु ॥”)
अस्य पर्य्यायः महच्छब्दे द्रष्टव्यः ॥

महान्, पुं, (मह्यते सेव्यते आश्रीयते गमना-

येति । मह् + अतिः ।) उष्ट्रः । इति राज-
निर्घण्टः ॥ दुर्गा । यथा, --
“महान् व्याप्य स्थिता सर्व्वं महा वा प्रकृति-
र्म्मता ।
स्मृतिः संस्मरणाद्देवी नियती च नियामता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
महत्तत्त्वम् । यथा --
“सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते ।
महानिति यतः ख्यातिर्लोकानां जायते सदा ॥”
इति मात्स्ये ३ अध्यायः ॥
(महादेवः । यथा, महाभारते । १३ । १७ । ४२ ।
“अशनी शतघ्नी खड्गी पट्टिशी चायुधी
महान् ॥”)
महच्छब्दप्रयोगनिषेधो यथा, --
“शङ्खे तैले तथा मांसे वैद्ये ज्यौतिषिके द्बिजे ।
यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥”
इति भट्टिप्रथमसर्गीयचतुर्थश्लोकटीकायां भरतः ॥

महानटः, पुं, (महांश्चासौ नटो नर्त्तकश्चेति ।

उद्धतनर्त्तकत्वादस्य तथात्वम् ।) शिवः । इति
त्रिकाण्डशेषः ॥

महानदी, स्त्री, (महती चासौ नदी चेति ।)

पुरुषोत्तमक्षेत्रान्तर्गतकटकस्योत्तरदेशस्थनदी-
विशेषः । तस्या नामान्तरं चित्रोत्पला । यथा,
“नदी तत्र महापुण्या बिन्ध्यपादविनिर्गता ।
चित्रोत्पलेति विख्याता सर्व्वपापहरा शुभा ॥
चित्रोत्पला महानदी ।” इति पुरुषोत्तम-
तत्त्वम् ॥ गङ्गा । यथा, --
“अम्बुजमम्बुनि जातं
जातु न जायते अम्बुजादम्बु ।
मुरहर ! तव विपरीतं
पादाम्बजान्महानदी जाता ॥”
इत्युद्भटः ॥

महानन्दः, पुं, (महानानन्दोऽत्र ।) मुक्तिः ।

इति हलायुधः ॥ (महान् आनन्दः ।) अति-
शयाह्लादश्च ॥ (नृपतिविशेषः । यथा, मार्क-
ण्डेये । १३४ । ४० ।
“इत्युक्त्वा तान् महीपालान् महानन्दमुखान्
बली ।
अथाब्रवीत्तदा सर्व्वान् महारिदमनो दमः ॥”
वेणुविशेषः । यथा, सङ्गीतदामोदरे ।
“महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा ।
चत्वार उत्तरवंशा मातङ्गमुनिसम्मताः ॥”)

महानन्दा, स्त्री, (महानानन्दोऽस्याः ।) सुरा ।

इति राजनिर्घण्टः ॥ माघशुक्ला नवमी । यथा,
भविष्ये ।
“माघमासस्य या शुक्ला नवमी लोकपूजिता ।
महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥
स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् ।
सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः ॥”
इति तिथ्यादितत्त्वम् ॥
नदीविशेषः । सा पद्माया विनिःसृता राम-
पुराख्याग्रामात् पश्चिमत उत्तरदिग्गता ॥
(दक्षिणदेशीयो नदीभेदः । यथा, महाभारते ।
१३ । २५ । ४३ ।
“पुनरावर्त्तनन्दाञ्च महानन्दाञ्च सेव्य वै ।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥”)

महानन्दिः, पुं, (आ सम्यक् नन्दतीति । आ +

नन्द + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ ।
इति इन् । ततः । महानानन्दिरिति ।)
नन्दिवर्द्धनराजपुत्त्रः । यथा, --
“चत्वारिंशत्तथा भाव्यो राजा वै नन्दिवर्द्धनः ।
चत्वारिंशत्त्रयश्चैव महानन्दिर्भविष्यति ॥
महानन्दिसुतश्चापि शूद्रायां कलिकांशजः ।
उत्पत्स्यते महापद्मः सर्व्वक्षत्त्रान्तको नृपः ॥
ततः प्रभृति राजानो भविष्याः शूद्रयोनयः ।
एकराट् स महापद्म एकच्छत्रो भविष्यति ॥”
इति मत्स्यपुराणे २४६ अध्यायः ॥
अपि च ।
“महानन्दिसुतः शूद्रागर्भोद्भवोऽतिलुब्धो महा-
पद्मानन्दः परशुराम इवापरोऽखिलक्षत्त्रि-
यान्तकारी भविता ततः प्रभृति शूद्रा भूपाला
भविष्यन्ति । तेन महानन्दिपर्य्यन्तं क्षत्त्रिय
आसीत् ।” इति शुद्धितत्त्वधृतविष्णुपुराणम् ॥

महानरकः, पुं, (महानतिशययातनाप्रदो

नरकः ।) अतिशयनानाप्रकारयातनास्थानम् ।
इति पुराणम् ॥ (यथा, मनुः । ४ । ८८ ।
पृष्ठ ३/६६१
“तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रञ्च महानरकमेव च ॥”)

महानलः, पुं, (महांश्चासौ नलश्चेति ।) देव-

नलः । इति राजनिर्घण्टः ॥ (महांश्चासौ
अनलश्चेति ।) बृहदग्निश्च ॥

महानवमी, स्त्री, (महती चासौ नवमी चेति ।)

आश्विनशुक्लनवमी । यथा, --
श्रीभगवानुवाच ।
“दुर्गातन्त्रेण मन्त्रेण कुर्य्युर्दुर्गामहोत्सवम् ।
महानवम्यां शरदि बलिदानं नृपादयः ॥
आश्विने शुक्लपक्षस्य भवेद्या अष्टमी तिथिः ।
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरा
परा ॥
ततोऽनु नवमी या स्यात् सा महानवमी स्मृता ।
सा तिथिः सर्व्वलोकानां पूजनीया शिवा-
प्रिया ॥”
इति कालिकापुराणे ५७ अध्यायः ॥
अपि च ।
“प्रावृट्काले विशेषेण आश्विने ह्यष्टमीषु च ।
महाशब्दो नवम्यान्तु लोके ख्यातिं गमिष्यति ॥”
इति तिथ्यादितत्त्वम् ॥

महानसं, क्ली, (महच्च तत् अनश्चेति ।

+ “अनोऽश्मायःसरसां जातिसंज्ञयोः ।” ५ ।
४ । ९४ । इति संज्ञायां टच् । “आन्महतः
समानाधिकरणजातीययोः ।” ६ । ३ । ४६ ।
इति महत आकारादेशः ।) रन्धनगृहम् ।
तत्पर्य्यायः । रसवती २ पाकस्थानम् ३ । इत्य-
मरः । २ । ९ । २७ ॥ (तथास्य लक्षणं
यथा, --
“प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि ।
सजालकं गवाक्षाढ्यमात्मवर्गनिषेवितम् ॥
विकक्षसृष्टसंसृष्टं सवितानं कृतार्च्चनम् ।
परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम् ॥
तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम् ।
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः ॥
सविभक्ताः सुमनसो नीचकेशनखाः स्थिराः ।
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयुताः ॥
तस्य चाज्ञा विधेयाः स्युर्व्विविधाः परि-
कर्म्मिणः ।
आहारस्थितयश्चापि भवन्ति प्राणिनो यतः ॥
तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् ।
माहानसिकवोढारः सौपौदनिकपौपिकाः ॥
भवेयुर्वैद्यवशगा ये चाप्यन्ये तु केचन ॥”
इति सुश्रुते कल्पस्थाने प्रथमेऽध्याये ॥)
तद्विवरणं यथा, --
“आग्नेय्यां दिशि कर्त्तव्यमावासस्य महानसम् ।
गवाक्षजालमार्गाय मूर्द्धभित्त्युपलेपितम् ॥
चुल्ली तत्र प्रकर्त्तव्या पूर्ब्बपश्चिममायता ।
मृण्मयादीनि भाण्डानि क्षालितानि च
वारिणा ॥
तेषु यत् पच्यते द्रव्यं गुणवत् सर्व्वसम्मतम् ।
मृदभावे पचेल्लौहे चक्षुरर्शोविकारजित् ॥
कांस्यजे पाचितं यद्धि तद्धितं मतिदं शुचि ।
यच्च ताम्रमये सिद्धं न रुच्यं त्वम्लपित्तकृत् ॥
सौवर्णे राजते पाच्यमाढ्यभूमिभृतां गृहे ।
तत्पात्रं सर्व्वदोषघ्नं धिषणोत्सवदायकम् ॥”
अथ महानसोपयोग्योपकरणानि ।
“वस्तूनि भोजनार्हाणि विविधानि पुनः पुनः ।
सर्व्वाणि गुणयुक्तानि स्थापितानि महानसे ॥
दास्याप्तमार्ज्जनी वाढा पूतहण्डी सुकूर्च्चिका ।
कर्षणी वैणवं पात्रं जलपूर्णस्त्वलिञ्जरः ॥
वह्निसंजननो ग्रावः कुद्दालं सुकुठारकः ।
दारुखण्डानि शुष्काणि हस्तमात्राणि चेन्ध-
नम् ॥
अजीर्णान्यनतिस्थूलान्यजन्तून्यमलानि च ।
तितयुश्चालनी पीठो मुषलं चाप्युदूखलम् ॥
सूर्पलोष्ट्रशिला दर्व्वी चनुरस्रावपट्टिका ।
संदंशकन्तु युगलं वस्त्रखण्डचतुष्टयम् ॥
नालिका च्छुरिका चैव सुशूलं सुकटाहकम् ॥
वह्निसञ्चालनार्थाय दर्व्वी दीर्घा सुलौहजा ॥
तन्दूरझर्झरी स्रावा तप्तकं दृढवेष्टनी ।
इत्यादि वस्तुजातं हि युज्यते च महानसे ॥”
इति पाकराजेश्वरः ॥
तत्र रक्षणीया जना यथा, --
“सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।
सर्व्वे महानसे धार्य्या लुप्तकेशनखा जनाः ॥”
इति मात्स्ये १८९ अध्यायः ॥
महानसोऽपि पुंसि । इत्यमरटीकायां रमा-
नाथः ॥

महानाटकं, क्ली, (महच्च तत् नाटकञ्चेति ।)

नाटकविशेषः । तस्य लक्षणं यथा, --
“एतदेव यदा सर्व्वैः पताकास्थानकैर्युतम् ।
अङ्कैश्च दशभिर्धीरा महानाटकमूचिरे ॥
एतदेव नाटकम् । यथा, बालरामायणम् ।”
इति साहित्यदर्पणः ॥ स्वनामख्यातहनूमद्रचित-
रामचरितग्रन्थविशेषः । यथा, --
“एष श्रीलहनूमता विरचिते श्रीमन्महानाटके
वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ।
मिश्रश्रीमधुसूदनेन कविना सन्दर्भ्य सज्जीकृते
स्वर्गारोहणनामकोऽत्र नवमो यातोऽङ्क
एवेत्यसौ ॥”
इति तस्यान्तिमः श्लोकः ॥

महानाडी, स्त्री, (महती चासौ नाडी चेति ।)

कण्डरा । इति राजनिर्घण्टः ॥ (विवरणमस्याः
कण्डराशब्दे ज्ञेयम् ॥)

महानादः, पुं, (महान् नादोऽस्य ।) हस्ती ।

वर्षुकमेघः । (महाश्चांसौ नादश्चेति ।) महा-
शब्दः । इति मेदिनी । दे, ५१ ॥ (यथा,
महाभारते । ५ । ९९ । २ ।
“इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः ।
प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥”)
सिंहः । कर्णः । इति हेमचन्द्रः ॥ उष्ट्रः ।
शङ्खः । इति राजनिर्घण्टः ॥ काहलवाद्यम् ।
इति हारावली ॥ (महादेवः । यथा, महा-
भारते । १३ । १७ । ४८ ।
“निशाचरः प्रेतचारी भूतचारी महेश्वरः ।
कालयोगी महानादः सर्व्वकामश्चतुष्पथः ॥”
महाशब्दयुक्ते, त्रि । यथा, रामायणे । ४ ।
४० । ३८ ।
“तत्कालमेव प्रतिमं महोरगनिषेवितम् ।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥”)

महानिद्रा, स्त्री, (महती सुदीर्घा चासौ निद्रा

चेति ।) मरणम् । इति जटाधरः ॥

महानिम्बः, पुं, (महांश्चासौ निम्बश्चेति ।) निम्ब-

वृक्षविशेषः । घोडा निम इति भाषा । तत्-
पर्य्यायः । कैटर्य्यः २ पवनेष्टः ३ पार्व्वतः ४ ।
इति रत्नमाला ॥ (यथा, --
“मृतसूताभ्रनागञ्च स्वर्णं तुल्यं प्रकल्पयेत् ।
महानिम्बस्य चूर्णतु चतुर्भिः सममाहरेत् ।
मधुना लेहयेन्माषं लालामेहप्रशान्तये ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥)
अस्य गुणाः । परमग्राहित्वम् । कषायत्वम् ।
अम्लत्वम् । शीतलत्वञ्च । इति राजवल्लभः ॥
(तथास्य पर्य्यायान्तरं गुणाश्च ।
“महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः ।
केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि ॥
महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषा-
यकः ।
कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् ।
प्रमेहश्वासगुल्मार्शो मूषिकाविषनाशनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महानिशा, स्त्री, (महती घोरा निशा ।)

निशामध्यभागः । तत्पर्य्यायः । निशार्द्धः २
निशीथः ३ । इति हेमचन्द्रः । २ । ५९ ॥ * ॥
स्मृत्युक्तमहानिशा सार्द्धप्रहरोपरि प्रहरद्वयम् ।
“महानिशा तु विज्ञेया मध्यभं प्रहरद्वयम् ।
तत्र स्नानं न कुर्व्वीत काम्यनैमित्तिकादृते ॥”
इति रघुनन्दनभट्टाचार्य्यधृतवचनात् ।
महानिशापरकालस्य नाडीचतुष्टयस्य पर-
दिनादित्वेन तदानीं पूर्ब्बदिवसीयभोजनानुप-
पत्तेः । तद्दिनकृत्यलोपापत्तेश्चेति तिथितत्त्वीय-
लिखनस्वरसाच्च ॥ * ॥ तत्र भक्षणनिषेधो
यथा, --
“यन्मुहूर्त्ते व्यतीते तु रात्रावेव महानिशा ।
लभते ब्रह्महत्याञ्च तत्र भुक्त्वा च नारद ! ॥
गोमांसविण्मूत्रसमं ताम्बूलञ्च फलं जलम् ।
पुंसामभक्ष्यं शुद्धायामोदनस्यापि का कथा ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥
तत्र पारणनिषेधो यथा, --
“न रात्रौ पारणं कुर्य्यादृते वै रोहिणीव्रतात् ।
निशायां पारणं कुर्य्याद्वर्ज्जयित्वा महानिशाम् ॥
महानिशायां प्राप्तायां तिथिभान्तं यदा भवेत् ।
तृतीयेऽह्नि मुनिश्रेष्ठ ! पारणं कुरुते व्रती ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्ड ८ अध्यायः ॥
देवलोक्ता महानिशा रात्रिमध्यमदण्डद्वया-
त्मिका । सा द्वितीयप्रहरशेषदण्डतृतीयप्रहर-
पृष्ठ ३/६६२
प्रथमदण्डरूपा ॥ तस्यां शिवलिङ्गोद्भवो यथा,
“माघकृष्णचतुर्द्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ॥”
अत्र ।
“महानिशा द्वे घटिके रात्रेर्म्मध्यमयामयोः ॥”
इति देवलोक्ता महानिशा ॥
घटिका दण्डरूपा । इति तिथ्यादितत्त्वम् ॥
तान्त्रिकमहानिशा यथा, तन्त्रसारे ।
“गते तु प्रथमे यामे तृतीयप्रहरावधि ।
महानिशायां जप्तव्यं रात्रिशेषे जपेन्न तु ॥”
अपि च ।
“निशा तु परमेशानि ! सूर्य्ये चास्तमुपागते ।
प्रहरे च गते रात्रौ घटिके द्वे परे च ये ।
महानिशा समाख्याता ततश्चातिमहानिशा ॥
अर्द्धरात्रे गते देवि ! पशुभावेन पूजयेत् ।
दशदण्डे तु या पूजा तत् सर्व्वमक्षयं भवेत् ॥
षष्ठक्रोशे महेशानि ! तत् सर्व्वममृतोपमम् ।
सप्तमक्रोशके देवि ! सर्व्वं क्षीरोपमं भवेत् ॥
अष्टमक्रोशके देवि ! द्रव्यतुल्यं न संशयः ।
अतःपरं महेशानि ! विषतुल्यो न संशयः ॥
एतत् सर्व्वं महेशानि ! पशुभावे मयोदितम् ।
दिव्यवीरमते देवि ! तत्त्वज्ञानेन पूजयेत् ॥
पञ्चतत्त्वं समानीय यदि पूजापरो भवेत् ।
कालाकालं महेशानि ! विचारं तत्र वर्ज्जयेत् ॥
अर्द्धरात्रगते देवि ! कुलपूजा प्रकीर्त्तिता ।
भवेत्तन्त्रानुरूपेण सर्व्वं पूजादिकञ्चरेत् ॥
अतिस्नेहेन देवेशि ! तव स्थाने प्रकाशितम् ।
पशोरग्रे कदाचिद्बै प्रकाशं नैव कारयेत् ॥”
इति गुप्तसाधनतन्त्रे ६ पटलः ॥

महानीचः, पुं, (महानतिशयो नीचः ।)

रजकः । इति शब्दमाला ॥ अतिशयहीन-
वर्णश्च ॥

महानीलः, पुं, (महान् नीलः नीलवर्णः ।) भृङ्ग-

राजः । नागविशेषः । मणिविशेषः । इति
मेदिनी । ले, १६१ ॥ (यथा, शिशुपालवधे ।
१ । १६ ।
“महामहानीलशिलारुचः पुरो
निषेदिवान् कंसकृषः स विष्टरे ॥”
“सिंहलस्याकराद्भूता महानीलास्तु ते स्मृताः ॥
इति भगवानगस्त्यः ॥” इति तट्टीकायां मल्लि-
नाथः ॥) तस्य लक्षणं यथा, --
“यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः ।
नीलतां तनुयात् सर्व्वं महानीलः स उच्यते ॥”
इति गारुडे ७२ अध्यायः ॥
(गुग्गुलुजातिभेदः । तद्यथा, --
“महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ।
हिरण्यः पञ्चमो ज्ञेयो गुग्गु लोः पञ्च जातयः ॥
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ।
महिषाक्षो महानीलो गजेन्द्रानां हितावुभौ ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
सुमेरोर्दक्षिणपार्श्वस्थपर्व्वतविशेषः । यथा, मार्क-
ण्डेये । ५५ । ४ ।
“शीतार्त्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् ।
मणिशैलोऽथ वृषवान् महानीलो भवाचलः ॥”)

महानीला, स्त्री, (महती चासौ नीला नील

वर्णा चेति ।) महाजम्बूः । इति राजनिर्घण्टः ॥
(विशेषोऽस्य महाजम्बूशब्दे विज्ञेयः ॥)

महानीली, स्त्री, (नील + “नीलादोषधौ ।”

४ । १ । ४२ । इति वार्त्तिकोक्त्या ङीष् । ततः ।
महती चासौ नीली चेति ।) नीलापराजिता ।
बृहन्नीली । तत्पर्य्यायः । अमरा २ जनि-
नीलिका ३ तुत्था ४ श्रीफलिका ५ मेला ६
केशार्हा ७ भर्त्सपत्रिका ८ । अस्या गुणाः ।
गुणाढ्यत्वम् । रङ्गश्रेष्ठत्वम् । सुवर्णदातृत्वम् ।
नीलिकामपेक्ष्य सर्व्वकर्म्मसु सगुणत्वम् । इति
राजनिर्घण्टः ॥

महानुभावः, त्रि, (महाननुभावो माहात्म्य-

मस्य ।) महाशयः । यथा, --
“सुकृती पुण्यवान् धन्यो धर्म्मी च धर्म्मवानपि ।
महाशयो महेच्छः स्यान्महानुभाव इत्यपि ॥”
इति शब्दरत्नावली ॥
(महात्मा । यथा, शिशुपालवधे । १ । १७ ।
“ग्रहीतुमार्य्यान् परिचर्य्यया मुहु-
र्महानुभावा हि नितान्तमर्थिनः ॥”)

महान्तः, पुं, (महत् + प्रथमाबहुवचनरूपम् ।)

नवधाभक्तियुक्तकृष्णभक्ताः । ते शिवशेषधर्म्मा-
दयः । यथा, --
“शिवः शेषश्च धर्म्मश्च ब्रह्मा विष्णुर्महान्
विराट् ।
सनत्कुमारः कपिलः सनकश्च सनन्दनः ॥
वोढुः पञ्चशिखो दक्षो नारदश्च सनातनः ।
भृगुर्म्मरीचिर्दुर्वासाः कश्यपः पुलहोऽङ्गिराः ॥
मेधसो लोमशः शुक्रो वशिष्ठः क्रतुरेव च ।
बृहस्पतिः कर्द्दमश्च शक्त्रिरत्रिः पराशरः ॥
मार्कण्डेयो बलिश्चैव प्रह्रादश्च गणेश्वरः ।
यमः सूर्य्यश्च वरुणो वायुश्चन्द्रो हुताशनः ॥
अकूपार उलूकश्च नाडीजङ्घश्च वायुजः ।
नरो नारायणः कूर्म्म इन्द्रद्युम्नो विभीषणः ॥
नवधाभक्तियुक्ताश्च कृष्णस्य परमात्मनः ।
एते महान्तो धर्म्मिष्ठा भक्तानां प्रवरास्तथा ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६० अध्यायः ॥

महापञ्चमूलं, क्ली, (पञ्चानां विल्वादिमूलानां

समाहारः । ततः महच्च तत् पञ्चमूलञ्चेति ।)
बृहत् पञ्चमूलम् । तद्यथा, --
“विल्वोऽग्निमन्थः श्योनाकः काश्मर्य्यः पाटला
तथा ।
सर्व्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥”
इति राजनिर्घण्टः ॥
(यथा, सुश्रुते चिकित्सितस्थाने २० अध्याये ।
“विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः ।
क्षीरं महापञ्चमूलं मूषिकां चान्त्रवर्ज्जिताम् ॥”)

महापञ्चविषं, क्ली, (पञ्चानां विषाणां समाहारः ।

ततो महच्च तत् पञ्चविषञ्चेति ।) बृहद्बिषपञ्च-
कम् । तद्यथा, --
“शृङ्गी च कालकूटश्च मुस्तको वत्सनाभकः ।
शङ्खकर्णीति योगोऽयं महापञ्चविषाभिधः ॥”
इति राजनिर्घण्टः ॥

महापत्रा, स्त्री, (महान्ति पत्राण्यस्याः ।)

महाजम्बूः । इति रत्नमाला ॥ बृहत्पर्णयुक्ते
त्रि ॥

महापथः, पुं, (महांश्चासौ पन्थाश्चेति । “आन्म-

हत इति ।” ६ । ३ । ४६ । इति महत आकारा-
देशः । “ऋक् पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ ।
इति समासान्तोऽकारः ।) प्रधानपथः ।
तत्पर्य्यायः । घण्टापथः २ संसरणम् ३
श्रीपथः ४ राजवर्त्म ५ उपनिष्क्रमणम् ६ उप-
निष्करम् ७ । इति हेमचन्द्रः । ४ । ५३ ॥
(यथा, रामायणे । २ । ८० । १९ ।
“पताका शोभिताः सर्व्वे सुनिर्म्मितमहापथाः ॥”
यथा च महाभारते । ५ । ९४ । २० ।
“संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ॥”
मृत्युपथः । “यात्रायां पथि निद्रायां महच्छब्दो
न दीयते ।” इत्यस्य प्रतिप्रसूतार्थवत्त्वात्
तथात्वम् । यथा, कथासरित्सागरे । २ । ४३ ।
“तच्छोकादिन्द्रदत्तस्य पिता यातो महा-
पथम् ॥”
सुषुम्ना । यथा, हठयोगप्रदीपिकायाम् । ३ । ४ ।
“सुषुम्ना शून्यपदवी ब्रह्मरन्ध्रं महापथः ।
श्मशानं शाम्भवी मध्यमार्गश्चेत्येकवाचकाः ॥”)

महापथगमः, पुं, (महापथस्य महापथे वा गमः

गमनम् ।) मरणम् । इति जटाधरः ॥

महापद्मः, पुं, (महत् पद्मं तावृशं चिह्नं

शिरसि यस्य ।) अष्टनागान्तर्गतनागभेदः ।
तत्पर्य्यायः । अतिशुक्लः २ दशबिन्दुकमस्तकः ३ ।
इति हेमचन्द्रः । ४ । ३७५ ॥ (यथा, हरि-
वंशे । ३ । ११२ ।
“ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥”
दर्व्वीकरान्तर्गतसर्पविशेषः । तद् यथा । “कृष्ण-
सर्पो महाकृष्णः कृष्णोदरः श्वेतकपोतो महा-
कोपोतो बलाहको महासर्पः शङ्खपालो लोहि-
ताक्षो गवेधुकः परिसर्पः खण्डफणः ककुदः
पद्मो महापद्मो दर्भपुब्पो दधिमुखः पुण्डरीको
भ्रुकुटीमुखो विष्किरः पुष्पाभिकर्णो गिरि-
सर्प ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द्द
आशीविष इति ॥” इति सुश्रुते कल्पस्थाने
चतुर्थेऽध्याये ॥) कुवेरस्य नवनिध्यन्तर्गतनिधि-
विशेषः । इति जटाधरः ॥ (यथा, मार्कण्डेये ।
६४ । १५ ।
“यस्या वत्से ! प्रभावेण विद्यायास्तां गृहाण मे ।
पद्मिनी नाम विद्येयं महापद्माभिपूजिता ॥”
पुरभेदः । यथा, महाभारते । १२ । ३५३ । १ ।
“आसीत् किल नरश्रेष्ठ ! महापद्मे पुरोत्तमे ।
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥”
दैत्यभेदः । यथा, हरिवंशे । २३२ । ३ ।
“महापद्मो निकुम्भश्च पूर्णकुम्भश्च वीर्य्यवान् ॥”
हस्तिभेदः । यथा, महाभारते । ६ । ६१ । ५१ ।
पृष्ठ ३/६६३
“तस्य चान्येऽपि दिङ्मागा बभुवुरनुयायिनः ।
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः ॥”)
क्ली, लक्षकोटिसंख्या ॥ इति लीलावती ॥ (यथा,
महाभारते । २ । ६१ । ३ ।
“अयुतं प्रयुतं चैव पद्मं खर्व्वमथार्व्वुदम् ।
शङ्खञ्चैव महापद्मं निखर्व्वं कोटिरेव च ॥”)
शुक्लपद्मम् । इति रत्नमाला ॥

महापातकं, क्ली, (महदतिशयितं पातकम् ।)

पापविशेषः । तत्तु पञ्चविधम् । यथा, --
“ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥”
इति मानवे ११ अध्यायः ॥
“महापातकजं चिह्नं सप्तजन्मसु जायते ।
वाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः समः ॥”
इति शातातपीयकर्म्मविपाकः ॥
“तुलामकरमेषेषु प्रातःस्नानं विधीयते ।
हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥”
इति मलमासतत्त्वम् ॥
“कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते ।
भस्मीभवन्ति राजेन्द्र ! महापातककोटयः ॥”
इति पुराणम् ॥

महापातकी, [न्] त्रि, (महापातकमस्त्य-

स्येति । महापातक + इनिः ।) पञ्चप्रकार-
महापातकयुक्तः । स च पतितः । यथा, --
“महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः ।
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ॥
न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं
क्वचित् ।
एतानि पतितानान्तु यः करोति विमोहितः ॥
तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा ॥”
इति शुद्धितत्त्वधृतविष्णुपुराणवचनम् ॥
पारिभाषिकमहापातकी यथा, --
“कृतप्राणप्रतिष्ठाञ्च नीचैर्यां प्रतिमां द्विज ! ।
दुर्गां न प्रणमेद्यस्तु स महापातकी स्मृतः ॥”
इति देवीपुराणे व्यासनारदसंवादः ॥
अपि च ।
“पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।
यो न पुष्णाति कापट्यात् स महापातकी
शिव ! ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥
(यथा च महानिर्व्वाणतन्त्रे । ३ । ९२ ।
“जातिभेदो न कर्त्तव्यः प्रसादे परमात्मनः ।
योऽशुद्धबुद्धिं कुरुते स महापातकी भवेत् ॥”)

महापापं, क्ली, (महच्च तत् पापञ्चेति ।) महा-

पातकम् । यथा, --
“महापापेषु सर्व्वं स्यात् तदर्द्धन्तूपपातके ।
दद्यात् पापेषु षष्ठांशं ज्ञात्वा व्याधिबलाबलम् ॥”
इति मलमासतत्त्वम् ॥

महापारेवतं, क्ली, (महच्च तत् पारेवतञ्चेति ।)

फलवृक्षविशेषः । वडा पारेवत इति हिन्दी
भाषा ॥ तत्पर्य्यायः । स्वर्णपारेवतम् २ साम्रा-
णिजम् ३ खारिकम् ४ रक्तरैवतकम् ५ बृहत्-
पारेवतम् ६ द्वीपजम् ७ द्बीपखर्ज्जूरम् ८ ।
अस्य गुणाः । मधुरत्वम् । बलकारित्वम् ।
पुष्टिवर्द्धनत्वम् । वृष्यत्वम् । मूर्च्छाभ्रमघ्नत्वम् ।
पारेवतादधिकगुणत्वञ्च । इति राजनिर्घण्टः ॥

महापाशः, पुं, (महान् पाशोऽस्य ।) यमदूत-

विशेषः । इति बृहद्धर्म्मपुराणे ५६ अध्यायः ॥
(महांश्चासौ पाशश्चेति ।) बृहत्पाशश्च ॥

महापासकः, पुं, (पसति वाधते निराकरोति

परकालेश्वरादिकमिति । पस् + ण्वुल् । ततः
महांश्चासौ पासकश्चेति ।) बुद्धभिक्षुकः ।
तत्पर्य्यायः । चेलुकः २ श्रामणेरः ३ प्रव्रजितः
४ गोमीनः ५ । इति त्रिकाण्डशेषः ॥ (महो-
पासक इति पाठः कुत्रचित् दृश्यते ॥)

महापिण्डीतकः, पुं, (पिण्डीं तनोतीति । तन् + डः

संज्ञार्थे कन् । ततः महांश्चासौ पिण्डीतक-
श्चेति । पिण्डाकारफलत्वादस्य तथात्वम् ।)
कृष्णवर्णमहामदनवृक्षः । तत्पर्य्यायः । वाराहः
२ । अस्य गुणाः । श्रेष्ठत्वम् । कटुतिक्तरसा-
न्वितत्वम् । छर्द्दनत्वम् । कफहृद्रोगपक्वामाशय-
शोधनत्वञ्च । इति राजनिर्घण्टः ॥

महापिण्डीतरुः, पुं, (महांश्चासौ पिण्डीतरु-

श्चेति ।) वृक्षविशेषः । पेडिरा इति हिन्दी
भाषा । तत्पर्य्यायः । श्वेतपिण्डीतकः २ कर-
हाटः ३ क्षुरः ४ शस्त्रकोषतरुः ५ शरः ६
पिण्डीतरुः ७ । अस्य गुणाः । कषायत्वम् ।
उष्णत्वम् । त्रिदोषशमनत्वम् । चर्म्मरोगाप-
हत्वम् । विशेषात् रक्तदोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥

महापीलुः, पुं, (पीलति प्रतिष्टभते विषपित्तादिक-

मिति । पील + “मृगय्वादयश्च ।” उणा० १ । ३८ ।
इति कुः । ततो महान् पीलुरिति कर्म्मधारयः ।)
पीलुवृक्षविशेषः । तत्पर्य्यायः । बृहत्पीलुः २
महाफलः ३ राजपीलुः ४ महावृक्षः ५
मधुपीलुः ६ । अस्य फलगुणाः । मधुरत्वम् ।
वृष्यत्वम् । विषनाशित्वम् । पित्तप्रशमनत्वम् ।
रुच्यत्वम् । आमघ्नत्वम् । दीपनीयकत्वञ्च ।
इति राजनिर्घण्टः ॥

महापुराणं, क्ली, (महच्च तत् पुराणञ्चेति ।)

एकादशलक्षणयुक्तव्यासप्रणीताष्टादशसंख्यक-
पुराणविशेषः । तस्य लक्षणं यथा, --
“सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च पाल-
नम् ।
कर्म्मणां वासना वार्त्ता मनूनाञ्च क्रमेण च ॥
वर्णनं प्रलयानाञ्च मोक्षस्य च निरूपणम् ।
उत्कीर्त्तनं हरेरेव देवानाञ्च पृथक् पृथक् ।
दशाधिकं लक्षणञ्च महातां परिकीर्त्तितम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥
(अष्टादशमहापुराणानां विशेषविवरणलक्ष-
णादिकं पुराणशब्दे द्रष्टव्यम् ॥)

महापुरुषः, पुं, (महांश्चासौ पुरुषश्च ति ।)

श्रेष्ठनरः । (यथा, श्रीमद्भागवते । ६ । १२ । २० ।
“भवानतार्षीन्मायां वै वेष्णवीं जनमोहिनीम् ।
यद्विहायासुरं भावं महापुरुषतां गतः ॥”)
नारायणः । यथा, --
“ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं
वन्दे महापुरुष ! ते चरणारविन्दम् ॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्म्मिष्ठ आर्य्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधाव-
वन्दे महापुरुष ! ते चरणारविन्दम् ॥”
इत्याह्निकतत्त्वधृतश्रीभागवतम् ॥

महापुरुषदन्ता, स्त्री, (महापुरुषस्य दन्ता इव

मूलानि यस्याः ।) शतमूली । इति रत्न-
माला ॥ (विवरणमस्याः शतमूलीशब्दे ज्ञात-
व्यम् ॥)

महापुरुषदन्तिका, स्त्री, (महापुरुषदन्ता +

स्वार्थे कन् । स्त्रियां टाप् अत इत्वञ्च ।) महा-
शतावरी । इति राजनिर्घण्टः ॥

महापुष्पा, स्त्री, (महत् प्रशस्तं पुष्पमस्याः ।

स्त्रियां टाप् ।) अपराजिता । इति शब्द-
चन्द्रिका ॥ (यथा, सुश्रुते उत्तरतन्त्रे ५४
अध्याये ।
“दर्भपुष्पा महापुष्पा प्रसूनाश्चिपिटास्तथाः ॥”
महापुष्पविशिष्टे, त्रि ॥)

महापृष्ठः, पुं, (महत् विपुलं पृष्ठमस्य ।) उष्ट्रः ।

इति राजनिर्घण्टः ॥ त्रि, बृहत्पृष्ठश्च ॥

महाप्रकृतिः, स्त्री, (महती श्रेष्ठा प्रकृतिर्जग-

न्मूलकारणम् ।) दुर्गा । यथा, --
“चितिश्चैतन्यभावाद्वा चेतना वा चितिः
स्मृता ।
महान् व्याप्य स्थिता सर्व्वं महा वा प्रकृति-
र्म्मता ॥”
इति देवीपुराणे ४५ अध्यायः ॥

महाप्रभः, त्रि, महती प्रभा यस्येति । अतिशय-

दीप्तियुक्तः । (यथा, हरिवंशे भविष्यपर्व्वणि ।
२९ । १२ ।
“ततश्चक्रं महाघोरं सहस्रारं महाप्रभम् ॥”)

महाप्रभा, स्त्री, (महती चासौ प्रभा चेति ।)

महती दीप्तिः । यथा । महाप्रभात्वावच्छिन्ना-
भावोऽन्धकारः । इति सामान्यलक्षणायां जग-
दीशः ॥

महाप्रभुः, पुं, (महांश्चासौ प्रभुश्चेति ।) पर-

मेश्वरः । यथा, --
“वन्देऽनन्ताद्भुतैश्वर्य्यं श्रीचैतन्यं महाप्रभुम् ।
नीचोऽपि यत्प्रसादात् स्यात् सदाचारप्रव-
र्त्तकः ॥”
इति हरिभक्तिविलासे ३ विलासः ॥
“अनन्तमद्भुतञ्चावितर्क्यं ऐश्वर्य्यं प्रभावो यस्य तं
यतो महाप्रभुं परमेश्वरम् ।” इति तट्टीकायां
जीवगोस्वामी ॥ श्रीचैतन्यः । यथा, --
“सोऽयं नीलगिरीश्वरः सविभवो यात्रा च
सा गुण्डिचा
पृष्ठ ३/६६४
ते ते दिग्विदिगागताः सुकृतिनस्तास्ता
दिदृक्षार्त्तयः ।
आरामश्च त एव नन्दनवनश्रीणां तिरस्कारिणः
सर्व्वाण्येव महाप्रभुं वत विना शून्यानि मन्या-
महे ॥”
इति चैतन्यचन्द्रोदयनाटकम् ॥

महाप्रलयः, पुं, (महांश्चासौ प्रलयो जगता-

मवसानञ्चेति ।) त्रिलोकनाशः । तत्पर्य्यायः ।
संहारः २ । इति हलायुधः ॥ तस्य विवरणं
यथा, --
श्रीमार्कण्डेय उवाच ।
“मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः ।
एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् ।
तदेकसप्ततियुगैर्द्देवानामिह जायते ।
तैश्चतुर्द्दशभिः कल्पो दिनमेकन्तु वेधसः ॥
दिनान्ते वेधसो जाते सुषुप्सा तस्य जायते ।
योगनिद्रा महामाया समायाति पितामहम् ॥
नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः ।
सुखं स शेते भगवान् ब्रह्मा लोकपितामहः ॥
ततो विष्णुः स्वयं भूत्वा रुद्ररूपी जनार्द्दनः
पूर्ब्बवन्नाशयामास स सर्व्वं भुवनत्रयम् ॥
वायुना वह्निना सर्व्वं दाहयामास वै यथा ।
महाप्रलयकालेषु तथा सर्व्वं जगत्त्रयम् ॥
जनं यान्ति प्रतापार्त्ता महर्लोकनिवासिनः ।
त्रैलोक्यं दाहयामास पीडिता दारुणाग्निना ॥
ततः कालान्तकैर्म्मेघैर्नानावर्णैर्महास्वनैः ।
समुत्पाद्य महावृष्टिमापूर्य्य भुवनत्रयम् ॥
चलत्तरङ्गैस्तोयौघैराध्रुवस्थानसङ्गतैः ।
निधाय जठरे लोकानिमांस्त्रीन् स जनार्द्दनः ॥
नागपर्य्यङ्कशयने शेते स परमेश्वरः ।
शयानं नाभिकमले ब्रह्माणं स जगत्प्रभुः ॥
संस्थाप्य त्रीनिमाल्लोकान् दग्ध्वा दग्ध्वा श्रिया
सह ।
शेते स भोगिशय्यायां ब्रह्मा नारायणात्मकः ॥
योगनिद्रावशं यातस्त्रैलोक्यग्रासवृंहितः ॥
त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा ।
अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः ॥
तेन त्यक्ता तु पृथिवी क्षणमात्रादधो गता ।
पतिता कूर्म्मपृष्ठे तु विशीर्णेव तदाभवत् ॥
कूर्म्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले ।
ब्रह्माण्डं पद्भिराक्रम्य पृष्ठे दध्रे धरां तदा ॥
ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवी भवेत् ।
इति तां परिजग्राह कूर्म्मरूपी जनार्द्दनः ॥
चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा ।
कूर्म्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम् ॥
अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः ।
तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्द्दनम् ॥
फणया मध्यया दध्रे त्रैलोक्यग्रासवृंहितम् ।
पूर्ब्बं फणं वितत्योर्द्धं पद्मं कृत्वा महाबलः ।
विष्णुमाच्छादयामास शेषाख्यः परमेश्वरः ॥
तस्योपधानमकरोदनन्तो दक्षिणां फणाम् ।
उत्तरां पादयोश्चक्रे उपाधानं महाबलः ॥
तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम् ।
स्वयन्तु वीजयामास शेषरूपी जनार्द्दनम् ॥
शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः ।
ऐशानयाथ फणया स दध्रे गरुडं तदा ॥
गदां पद्मञ्च शार्ङ्गञ्च तथैव विविधायुधम् ।
यानि चान्यानि तस्यासन्नाग्नेय्या फणया दधौ ॥
एवं कृत्वा स्वकं कायं शयनीयं तदा हरेः ।
पृथ्वीमधरकायेन मग्नामाक्रम्य चाम्भसि ॥
त्रैलोक्यब्रह्मसहितं सलक्ष्मीकं जनार्द्दनम् ।
सोपासङ्गजगद्बीजं जगत्कारणकारणम् ॥
नित्यानन्दं वेदमयं ब्रह्मण्यं परमेश्वरम् ।
जगत्कारणकर्त्तारं जगत्कारणकारणम् ॥
भूतभव्यभवन्नाथं परापरपतिं हरिम् ।
दधार शिरसानन्तः स्वयमेव स्वकां तनूम् ॥
एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः ।
सन्ध्याञ्च समधिप्राप्य शेते नारायणोऽव्ययः ॥
यस्मादयन्तु प्रलयो ब्रह्मणः स्याद्दिने दिने ।
तस्माद्दैनन्दिनमिति ख्यापयन्ति पुराविदः ॥
व्यतीतायां निशायान्तु ब्रह्मा लोकपितामहः ।
त्यक्त्वा निद्रां समुत्तस्थौ स पुनः सृष्टये त्विह ॥”
इति कालिकापुराणे २७ अध्यायः ॥
न्यायमते जन्यभावानधिकरणकालः । स च
चरमध्वंसरूपः ॥

महाप्रसादः, पुं, (महांश्चासौ प्रसादश्चेति ।)

विष्णुनैवेद्यादिः । यथा, --
“पादोदकञ्च निर्म्माल्यं नैवेद्यञ्च विशेषतः ।
महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः ॥”
इत्येकादशीतत्त्वधृतमत्स्यसूक्तवचनम् ॥
श्रीजगन्नाथस्य महाप्रसादमाहात्म्यं जगन्नाथ-
शब्दे द्रष्टव्यम् ॥ अतिशयप्रसन्नता च ॥ (महान्
प्रसादोऽस्य । शिवः । यथा, महाभारते । १३ ।
१७ । १३६ ।
“महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)

महाप्रस्थानगमनं, क्ली, (प्रस्थीयते अस्मिन्निति ।

प्र + स्था + ल्युट् । महत् प्रस्थानं महापथः ।
तत्र गमनम् ।) महापथगमनम् । तत्तु मरणो-
द्देशेन हिमालयपर्य्यन्तप्रयाणम् । तच्च कलौ
निषिद्धम् । यथा, बृहन्नारदीये ।
“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।
द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।
मांसादनं तथा श्राद्धे वानप्रस्थाश्रमन्तथा ॥
दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च ।
दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥
महाप्रस्थानगमनं गोमेधञ्च तथा मखम् ।
इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनी-
षिणः ॥”
इत्युद्वाहतत्त्वम् ॥

महाप्राणः, पुं, (महान्तो दीर्घकालस्थायिनः

प्राणा यस्य सः ।) द्रोणकाकः । इति राज-
निर्घण्टः ॥ वर्णविशेषः । स च । ख घ छ झ ठ
ढ थ ध फ भ श ष स ह रूपः । यथा, --
“वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ
य र ल वाश्चाल्पप्राणाः । अन्ये महाप्राणा
इत्यर्थः ।” इति सिद्धान्तकौमुदी ॥ (महावले,
त्रि । यथा, श्रीमद्भागवते । ६ । ११ । ६ ।
“एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥”)

महाफलः, पुं, (महत् पूजादौ प्रशस्तं पूज्यं वा

फलमस्य ।) विल्ववृक्षः । इति रत्नमाला ॥
(महच्च तत् फलञ्चेति ।) बृहत्फले, क्ली ॥ (यथा,
मनौ । ३ । १२८ ।
“श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥”)

महाफला, स्त्री, (महत् फलं आरोग्यादिकं

यस्याः ।) इन्द्रवारुणी । इति जटाधरः ॥
(अस्याः पर्य्यायो भावप्रकाशस्य पूर्ब्बखण्डे
प्रथमे भागे ।
“ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी ।
वारुणी च पराप्युक्ता सा विशाला महाफला ॥
श्वेतपुष्पा मृगाक्षी च मृगैर्वारुमृगादनी ॥”
राजजम्बूः । तत्पर्य्यायो यथा, तत्रैव ।
“फलेन्द्राकथितानन्दो राजजम्बूर्महाफला ॥”
कटुतुम्बी । तत्पर्य्यायो यथा, तत्रैव ।
“इक्ष्वाकुः कटुतुम्बी स्यात् सा तुम्बी च महा-
फला ॥”
महाकोशातकी । तत्पर्य्यायो यथा, तत्रैव ।
“महाकोशातकी प्रोक्ता हस्तिघोषा महा-
फला ।
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥”)

महाफेणा, स्त्री, (महती फेणा ।) हिण्डीरः ।

इति शब्दचन्द्रिका ॥

महाबलं, क्ली, (महदतिशयितं बलं सामर्थ्यमस्मात् ।

महत् बलमस्येति वा ।) सीसकम् । इति
हेमचन्द्रः ॥ (तथास्य पर्य्यायः ।
“नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

महाबलः, पुं, (महदुत्कृष्टं बलं ऐश्वर्य्यं यस्य ।)

बुद्धः । इति त्रिकाण्डशेषः ॥ (पितृगणविशेषः ।
यथा, मार्कण्डेये । ९६ । ४६ ।
“महान् महात्मा महितो महिमावान् महा-
बलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥”)
वायुः । बलीयसि, त्रि । इति हेमचन्द्रः । ४ ।
१७३ ॥ (यथा, रामायणे । १ । १ । ३४ ।
“नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥”)

महाबला, स्त्री, (महद्बलमस्याः ।) बलाभेदः ।

पीतवाट्यालकः । तत्पर्य्यायः । ऋष्यप्रोक्ता २
अतिबला ३ पीतपुष्पी ४ । इति रत्नमाला ॥
(अस्याः पर्य्यायो यथा, --
“वाट्या वाट्यालिका वाट्या सैव वाट्यालकापिच ।
महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथगे भागे ॥)
पृष्ठ ३/६६५
(तथास्या गुणाः ।
“हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महाबोधिः, पुं, (बुध्यते सर्व्वं जानातीति । बुध् +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति
इन् । ततो महांश्चासौ बोधिश्चेति ।) बुद्धः ।
इति हेमचन्द्रः । २ । १४६ ॥

महाब्राह्मणः, पुं, (महानतिशयनिन्दितः ब्राह्मणः ।

“वैद्ये ज्योतिषिके द्विजे ।” इति निषेधवचन-
स्मरणादेवास्य तथात्वम् ।) निन्दितब्राह्मणः ।
इति पाणिनिव्याकरणम् ॥
अस्मिन् देशे अयं अग्रदानित्वेन प्रसिद्धः ॥
(यथा, मृच्छकटिके १ अङ्के ।
“विटः । महाब्राह्मण ! मर्षय मर्षय ॥”)

महाभटः, पुं, (महांश्चासौ भटश्चेति ।) अति-

शययोद्धा । यथा, --
“तदोजसा दैत्यमहाभटार्पितं
चकासदन्तः ख उदीर्णदीधिति ।
चक्रेण चिच्छेद निशातनेमिना
हरिर्यथा तार्क्षपतत्त्रमुज्झितम् ॥”
इति श्रीभागवते ३ स्कन्धे १९ अध्यायः ॥

महाभद्रा, स्त्री, (महत् भद्रं मङ्गलं यस्याः ।)

गङ्गा । इति शब्दमाला । काश्मरी । इति
राजनिर्घण्टः ॥ (मेरोरुत्तरपार्श्वस्थसरोवरे, क्ली ।
यथा, मार्कण्डेये । ५५ । ३ ।
“अरुणोदं सरः पूर्ब्बं मानसं दक्षिणे तथा ।
शीतोदं पश्चिमे मेरोर्महाभद्रं तथोत्तरे ॥”)

महाभारतं, क्ली, (महत् भारतम् । यद्वा, महान्तं

भारं तनोतीति । महाभार + तन् + डः ।)
व्यासप्रणीतेतिहासशास्त्रम् । तन्नामकारणं
यथा, --
“एकतश्चतुरो वेदा भारतञ्चैतदेकतः ।
पुरा किल सुरैः सर्व्वैः समस्य तुलया धृतम् ॥
चतुर्भ्यः सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा ।
तदाप्रभृति लोर्कऽस्मिन् महाभारतमुच्यते ॥
महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते ॥”
इति महाभारते आदिपर्व्व ॥ * ॥
लोकविशेषेषु तस्य श्लोकसंख्या वाचकाश्च यथा,
“षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम् ॥
पित्रे पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्द्दश ।
एकं शतसहस्रन्तु मानुषेषु प्रतिष्ठितम् ॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
गन्धर्व्वयक्षरक्षांसि श्रावयामास वै शुकः ॥
अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् ॥”
इति महाभारते १ पर्व्वणि अनुक्रमणिका-
ध्यायः ॥ * ॥ तत्र शतपर्व्वाणि तेष्वष्टादश मुख्यानि
यथा, --
“आदिसभाविपिनानि विराट-
प्रोद्यमभीष्मगुरूणि च कर्णः ।
शल्यकसौप्तिकपर्व्व तथा स्त्री-
शान्त्यनुशास्तितुरङ्गममेधाः ॥
आश्रममौषलयानिकनाकाः
पर्व्वणि पर्व्वणि नाम विशेषाः ॥
इति भारतटीका ॥ * ॥
हरिवंशसहितोनविंशतिपर्व्वणामन्तर्गतशत-
पर्व्वविभागस्तेषामध्यायश्लोकसंख्या च यथा, --
१ आदिपर्व्वणि १९ पर्व्वाणि २२७ अध्यायाः
८९८४ श्लोकाः ॥ २ सभापर्व्वणि ९ पर्व्वाणि
७८ अध्यायाः २५११ श्लोकाः ॥ ३ आरण्यक-
पर्व्वणि १६ पर्व्वाणि २६९ अध्यायाः ११६६४
श्लोकाः ॥ ४ विराटपर्व्वणि ४ पर्व्वाणि ६७
अध्यायाः २०५० श्लोकाः ॥ ५ उद्योगपर्व्वणि
११ पर्व्वाणि १८६ अध्यायाः ६६२८ श्लोकाः ॥
६ भीष्मपर्व्वणि ५ पर्व्वाणि ११७ अध्यायाः
५८८४ श्लोकाः ॥ ७ द्रोणपर्व्वणि ८ पर्व्वाणि
१७० अध्यायाः ९९०९ श्लोकाः ॥ ८ कर्णपर्व्वणि
१ पर्व्व ६९ अध्यायाः ४९६४ श्लोकाः ॥ ९ शल्य-
पर्व्वणि ४ पर्व्वाणि ५९ अध्यायाः ३२२०
श्लोकाः ॥ १० सौप्तिकपर्व्वणि ३ पर्व्वाणि १८
अध्यायाः ८७० श्लोकाः ॥ ११ स्त्रीपर्व्वणि ५
पर्व्वाणि २७ अध्यायाः ७७५ श्लोकाः ॥ १२
शान्तिपर्व्वणि ४ पर्व्वाणि ३३९ अध्यायाः
१४७३२ श्लोकाः ॥ १३ अनुशासनपर्व्वणि १ पर्व्व
१४६ अध्यायाः ८००० श्लोकाः ॥ १४ अश्वमेध-
पर्व्वणि २ पर्व्वणी १०३ अध्यायाः ३३२०
श्लोकाः ॥ १५ आश्रमवासपर्व्वणि ३ पर्व्वाणि
४२ अध्यायाः १५०६ श्लोकाः ॥ १६ मौषल-
पर्व्वणि १ पर्व्व ८ अध्यायाः ३०० श्लोकाः ॥ १७
महाप्रास्थानिकपर्व्वणि १ पर्व्व ३ अध्यायाः
३२० श्लोकाः ॥ १८ स्वर्गपर्व्वणि १ पर्व्व ५
अध्यायाः २०० श्लोकाः । १९ हरिवंशे आश्चर्य्य-
पर्व्वणि १ पर्व्व २४४ अध्यायाः १२००० श्लोकाः ॥
हरिवंशे भविष्यपौष्करप्रादुर्भावे १ पर्व्व ११२
अध्यायाः ३४४८ श्लोकाः ॥ इति महाभारते
आदिपर्व्वणि पर्व्वसंग्रहनामकः २ अध्यायः ॥ * ॥
तच्छ्रवणविध्यादि यथा, --
जनमेजय उवाच ।
“भगवन् ! केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥
देयं समाप्ते भगवन् ! किञ्च पर्व्वणि पर्व्वणि ।
वाचकः कीदृशश्चात्र एष्टव्यस्तद् ब्रवीहिमे ॥ * ॥
वैशम्पायन उवाच ।
शृणु राजन् ! विधिमिमं फलं यच्चापि भार-
तात् ।
श्रुताद्भवति राजेन्द्र ! यत्त्वं मामनुपृच्छसि ॥
दिवि देवा महीपाल ! क्रीडार्थमवनिं गताः ।
कृत्वा कार्य्यमिदञ्चैव ततश्च दिवमागताः ॥
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
ऋषीणां देवतानाञ्च सम्भवं वसुधातले ॥
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्या अश्विनौ देवौ लोकपाला महर्षयः ॥
गुह्यकाश्च सगन्धर्व्वा नागा विद्याधरास्तथा ।
सिद्धा धर्म्मः स्वयम्भुश्च मुनिः कात्यायनो वरः ॥
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सरश्चैव अयनान्यृतवस्तथा ॥
स्थावरं जङ्गमञ्चैव जगत् सर्व्वं सुरासुरम् ।
भारते भरतश्रेष्ठ ! एकस्थमिह दृश्यते ॥
तेषां श्रुत्वा प्रतिष्ठानं नामकर्म्मानुकीर्त्तनात् ।
कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥ * ॥
इति हासमिमं श्रुत्वा यथावदनुपूर्ब्बशः ।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारत ! ॥
तेषां श्राद्धानि देयानि श्रुत्वा भारत ! भारतम् ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ! ॥
महादानानि देयानि रत्नानि विविधानि च ।
गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥
सर्व्वकामगुणोपेता यानानि विविधानि च ।
भवनानि विचित्राणि भूमिर्व्वासांसि काञ्चनम् ॥
वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिविकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥
यद्यद्गृहे वरं किञ्चित् यद्यदस्ति महद्बसु ।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥
श्रद्धया परया दत्तं क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः शुश्रूवुरविकल्पनः ॥ * ॥
सत्यार्ज्जवरतो दान्तः शुचिः शौचसमन्वितः ।
श्रद्दधानो जितक्रोधो यथा सिध्यति तच्छृणु ॥
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्व्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥
रूपवान् शुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानगृहीतश्च कार्य्यो भवति वाचकः ॥
अविलम्बमनायस्तमद्रुतं धीरमूर्ज्जितम् ।
असंसक्ताक्षरपदं रसभावसमन्वितम् ॥
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमन्वितम् ।
वाचयेद्बाचकः स्वस्थः स्वासीनः सुसमाहितः ॥
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं स्वरस्वतीञ्चैव ततो जयमुदीरयेत् ॥
ईदृशाद्वाचकाद्राजन् ! शुत्वा भारत ! भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन् स फलमश्नुते ॥
पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयन् ।
अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥
अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।
प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥
द्बितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।
सर्व्वरत्नमयं दिव्यं विमानमधिरोहति ॥
दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरङ्काशो वर्षाण्ययुतशो दिवि ॥
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसङ्काशं ज्वलन्तमनलोपमम् ॥
विमानं विबुधैः सार्द्धमारुह्य दिवि गच्छति ।
वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥
षष्ठे द्बिगुणमस्तीह सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्य्यमयवेदिकम् ॥
परिक्षिप्तञ्च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥
पृष्ठ ३/६६६
सर्व्वान् लोकान् विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम् ॥
चन्द्रादयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥
सेव्यमानो वरस्त्रीणां चन्द्रात् कान्ततरैर्म्मुखै ।
मेखलानां निनादेन नूपुराणाञ्च निस्वनैः ॥
अङ्के परमनारीणां सुखसुप्तो विबुध्यते ।
नवमे क्रतुराजस्य वाजिमेधस्य भारत ! ॥
काञ्चनस्तम्भनिर्यहं वैदूर्य्यकृतवेदिकम् ।
जाम्बूनदमयैर्द्दिव्यैर्गवाक्षैः सर्व्वतो वृतम् ॥
सेवितं चाप्सरःसङ्घैर्गन्धर्व्वैर्द्दिवि चारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥
दिव्यमाल्याम्बरधरो दिव्यचन्दनरूषितः ।
मोदते दैवतैः सार्द्धं दिवि देव इवापरः ॥
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥
वसुदेविकसंकाशं वैदूर्य्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रबालबडभीमुखम् ॥
गन्धर्व्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते ॥
मुकुटेनार्कवर्णेन जाम्बू नदविभूषिणा ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ।
दिव्यान् लोकान् विचरति दिव्यैर्भोगैः सम-
न्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥
अथ वर्षगणानेवं स्वर्गलोके महीयते ॥
अथ गन्धर्व्वसहितः सहस्राण्येकविंशतिम् ।
पुरन्दरपुरे रम्ये शक्रेण सह मोदते ॥
दिव्ययानविमानेषु लोकेषु विविधेषु च ।
दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ॥
ततः सूर्य्यस्य भवने चन्द्रस्य भवने तथा ।
शिवस्य भवने राजन् ! विष्णोर्याति सलोक-
ताम् ॥
एवमेतन्महाराज ! नात्र कार्य्या विचारणा ।
श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ॥ * ॥
लेखकस्थ तु दातव्यं मनसा यद्यदिच्छति ।
हस्त्यश्वरथयानानि वाहनञ्च विशेषतः ॥
कटकं कुण्डलञ्चैव ब्रह्मसूत्रं तथापरम् ।
वस्त्रञ्चैव विचित्रञ्च गन्धञ्चैव विशेषतः ।
देववत् पूजयेत्तन्तु विष्णुलोकमवाप्नुयात् ॥ * ॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाच्यमाने तु विप्रेभ्यो राजन् ! पर्व्वणि पर्व्वणि ॥
जातिं देशञ्च सत्त्वञ्च माहात्म्यं भरतर्षभ ! ।
धर्म्मवृत्तिञ्च विज्ञाय क्षत्त्रियाणां नराधिप ! ॥
स्वस्तिवाच्य द्विजानादौ ततः कार्य्ये प्रवर्त्तते ।
समाप्ते पर्व्वणि ततः स्वशक्त्या पूजयेत् द्बिजान् ॥
आदौ तु वाचकन्तत्र वस्त्रगन्धसमन्वितम् ।
विधिवद्भोजयेद्राजन् ! मधु पायसमुत्तमम् ॥
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तीके भोजयेद्राजन् ! दद्याच्चैव गुडौदनम् ॥
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्व्वणि राजेन्द्र ! हविष्यं भोजयेद् द्विजान् ॥
आरण्यके मूलफलैस्तर्पयेत्तु द्बिजोत्तमान् ।
अरणीपर्व्व चासाद्य जलकुम्भान् प्रदापयेत् ॥
तर्पणानि च मुख्यानि रम्यमूलफलानि च ॥
सर्व्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ।
विराटपर्व्वणि तथा वासांसि विविधानि च ॥
उद्योगे भरतश्रेष्ठ ! सर्व्वकामगुणान्वितम् ।
भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान् ॥
भीष्मपर्व्वणि राजेन्द्र ! दत्त्वा यानमनुत्तमम् ।
ततः सर्व्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥
द्रोणपर्व्वणि विप्रेभ्यो भोजनं परमार्च्चितम् ।
शराश्च देया राजेन्द्र ! चापान्यसिवरास्तथा ॥
कर्णपर्व्वण्यपि तथा भोजनं सार्व्वकामिकम् ।
विप्रेभ्यः संस्कृतं सम्यक् दद्यात् संयतमानसः ॥
शल्यपर्व्वणि राजेन्द्र ! मोदकैः सगुडौदनैः ।
अपूपैस्तर्पणैश्चैव सर्व्वमन्नं प्रदापयेत् ॥
गदापर्व्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥
स्त्रीपर्व्वणि तथा रत्नैस्तर्पयेत्तु द्बिजोत्तमान् ।
घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः ॥
ततः सर्व्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ।
शान्तिपर्व्वण्यपि तथा हविष्यं भोजयेद्
द्बिजान् ॥
आश्वमेधिकमासाद्य भोजनं सार्व्वकामिकम् ।
तथाश्रमनिवासे तु हविष्यम्भोजयेत् द्बिजान् ॥
मौषले सार्व्वगुणिकं गन्धमाल्यानुलेपनम् ।
महाप्रास्थानिके तद्वत् सर्व्वकामगुणान्वितम् ॥
स्वर्गपर्व्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ।
हरिवंशे पर्व्वणि च पायसं तत्र भोजयेत् ॥
पारणे पारणे राजन् ! यथावद्भरतर्षभ ! ।
समाप्य सर्व्वाः प्रयतः संहिताः शास्त्र-
कोविदः ॥ * ॥
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ।
शुक्लाम्बरधरः स्रग्वी शुचिर्भूत्वा स्वलङ्कृतः ॥
अर्च्चयेत यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।
संहितापुस्तकान् राजन् ! प्रयतः सुसमा-
हितः ॥
भक्ष्यैर्म्माल्यैश्च पेयैश्च कामैश्च विविधैः शुभैः ।
हिरण्यञ्च सुवर्णञ्च दक्षिणामथ दापयेत् ॥
देवताः कीर्त्तयेत् सर्व्वा नरनारायणौ तथा ।
ततो गन्धैश्च माल्यैश्च स्वलंकृत्य द्बिजोत्तमान् ॥
तर्पयेद्विविधैः कामैर्दानैश्चोच्चावचैस्तथा ।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
प्राप्नुयाच्च क्रतुफलं तथा पर्व्वणि पर्व्वणि ।
वाचको भरतश्रेष्ठ ! व्यक्ताक्षरपदस्वरः ॥
भविष्यं श्रावयेद्बिद्वान् भारतं भरतर्षभ ! ।
भुक्तवत्सु द्विजेन्द्रषु यथावत् संप्रदापयेत् ॥
वाचकं भरतश्रेष्ठ ! भोजयित्वा स्वलङ्कृतम् ।
वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ॥
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्व्वदेवताः । * ।
ततो हि वरणं कार्य्यं द्विजानां भरतर्षभ ! ॥
सर्व्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः ।
इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ! ॥
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ।
भारतश्रवणाद्राज्ञा पारणे च नृपोत्तम ! ॥
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता । * ।
भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥
भारतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परमं पदम् ॥
भारतं सर्व्वशास्त्राणामुत्तमं भरतर्षभ ! ।
भारतात् प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते ॥
महाभारत्तमाख्यान क्षितिं गाञ्च सरस्वतीम् ।
ब्राह्मणान् केशवञ्चैव कीर्त्तयन्नावसीदति ॥
वेदे रामायणे पुण्ये भारते भरतर्षभ ! ।
आदौ चान्ते च मध्ये च हरिः सर्व्वत्र गीयते ॥
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥
एतत् पवित्रं परममेतद्धर्म्मनिदर्शनम् ।
एतत् सर्व्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥”
इति महाभारते हरिवंशे सर्व्वपर्व्वानुकीर्त्त-
नम् ॥ * ॥ त्रिषष्ठिवर्णसंयुक्तमित्यत्र त्रिषष्टि-
वर्णाः । अ इ उ ऋ ऌ इति ह्रस्वपञ्चकम् ।
आ ई ऊ ॠ ॡ इति दीर्घपञ्चकम् । आ ई
ऊ ऋ ॡ इति प्लुतपञ्चकम् । ए ओ ऐ औ च
दीर्घाः । प्लुतत्वेनापरचतुष्टयम् । अं अः क +
पँ इति चत्वारः । ॠ ॡ इति अच्संज्ञकौ
द्बौ । अनुनासिकश्चैकः । तथा कादिमावसानाः
पञ्चविंशतिवर्णाः । अन्तःस्थाश्चत्वारः । उष्म-
चतुष्टयमिति त्रिषष्टिः । इति ॥ * ॥ वर्णानां
किलाष्टौ स्थानानि भवन्ति तानि यथा, --
“उरः कण्ठः शिरस्तालु जिह्वादन्तौष्ठ-
नासिकाः ।
अष्टौ स्थानानि वर्णानां ये विदुस्ते हि
पाठकाः ॥” * ॥
पारणं यथा, --
“भारतं शतपर्व्वोक्तं मुनिना तत्त्वदर्शिना ।
पर्व्वभिर्द्दशभिश्चैषां पर्व्वणां पारणं स्मृतम् ॥”
इति विक्रमादित्यः ॥
“द्यूतान्तं प्रथमं प्रोक्तं द्बितीयं वनवासिकम् ।
उद्योगान्तं तृतीयन्तु भीष्मान्तञ्च तुरीयकम् ॥
पञ्चमं द्रोणपर्व्वान्तं कर्णान्तं पारणं ततः ।
विशोकान्तं सप्तमन्तु शान्तिपर्व्वान्तमष्टमम् ॥
नवमं स्वर्गपर्व्वान्तमाश्चर्य्यान्तमतः परम् ॥”
इति च भारतटीकायां अर्ज्जुनमिश्रः ॥
(अन्यत्सर्व्वं भारतशब्दे द्रष्टव्यम् ॥)

महाभीता, स्त्री, (महत्यधिका भीतेव ।) लज्जालु-

वृक्षः । यथा, शब्दचन्द्रिकायाम् ।
“स्पर्शलज्जा महाभीता वशिनी च महौ-
षधिः ॥”
(महानतिशयो भीतः ।) अतिशयभययुक्ते, त्रि ॥

महाभीमः, स्त्री, (महानतिशयो भीमः । भीषणा-

कृतित्वात् शिवांशसम्भूतत्वाच्च तथात्वम् ।)
शान्तनुराजः । इति जटाधरः ॥ भृङ्गिनामक-
शिवद्वारपालः । इति त्रिकाण्डशेषः ॥ अति-
शयभयानके, त्रि ॥
पृष्ठ ३/६६७

महाभीरुः, पुं, (महानतिशयो भीरुः ।) गोपा-

लिकाख्यकीटविशेषः । इति हेमचन्द्रः । ४ ।
२३४ ॥ अतिभयशीले, त्रि ॥

महाभीष्मः, पुं, (महानतिशयो भीष्मः ।) शान्तनु-

राजः । इति त्रिकाण्डशेषः ॥

महाभूतं, क्ली, (महत् भूतम् । पञ्चतन्मात्रेभ्यः

स्थौल्यादस्य तथात्वम् ।) पृथिव्यादिपञ्चभूतम् ।
यथा, --
“महाभूतानि पञ्चैव खानिलाग्न्यम्बुभूमिभिः ॥”
इति शब्दचन्द्रिका ॥
(अस्य विषय उत्पत्तिश्च यथा, --
“तन्मात्रेभ्यो वियद्वायुवह्निवायुवसुन्धराः ।
एतानि पञ्च जायन्ते महाभूतानि तत्क्रमात् ॥”
एकोत्तरपरिवृद्ध्या वियदादयो जायन्त इत्यर्थः ।
तद्यथा । शब्दतन्मात्राच्छब्दगुणं वियज्जायते ।
शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्दस्पर्श-
गुणो वायुर्ज्जायते । शब्दतन्मात्रस्पर्शतन्मात्र-
सहितात् रूपतन्मात्राच्छब्दस्पर्शरूपगुणो वह्नि-
र्ज्जायते । शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र-
सहिताद्रसतन्मात्राच्छब्दस्पर्शरूपरसगुणं वारि-
जायते । शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्र-
रसन्मात्रसहिताद्गन्धतन्मात्राच्छब्दस्पर्शरूपरस-
गन्धगुणा वसुन्धरा जायते ।” इति भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ॥” “मातृजादयोऽप्यस्य
महाभूतविकारा एव तत्रास्याकाशात्मकं शब्दः
श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च । वाय्वात्मकं
स्पर्शः स्पर्शनञ्च रौक्ष्यं प्रेरणं धातुव्यूहनं चेष्टाश्च
शारीर्य्यः । अग्न्यात्मकं रूपं दर्शनं प्रकाशः
पक्तिरौष्ण्यञ्च । अबात्मकं रसो रसनं शैत्यं
मार्द्दवः स्नेहः क्लेदश्च । पृथिव्यात्मको गन्धः घ्राणं
गौरवं स्थैर्य्यं मूर्त्तिश्च ।” इति चरके शारीरस्थाने
चतुर्थेऽध्याये ॥ सिद्धादयः महाप्राणिनः । यथा,
महाभारते । १ । ११९ । ४८ ।
“रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ॥”)

महाभृङ्गः, पुं, (महांश्चासौ भृङ्गश्चेति ।) नील-

भृङ्गराजः । इति राजनिर्घण्टः ॥

महाभैरवः, पुं, (महान् भैरवः ।) शरभरूपी

हरः । यथा, --
“योऽसौ महाभैरवाख्यः सकायः शारभो हरः ।
भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ॥”
इति कालिकापुराणे ४६ अध्यायः ॥
(स्त्री, विद्याविशेषः । तथा च प्रबोधचन्द्रोदये ।
३ । २४ । “तन्महाभैरवीं विद्यां धर्म्मश्रद्धयो-
राहरणाय प्रस्थापयामः ॥”)

महाभोगा, स्त्री, (महान् आभोगः परिपूर्ण-

तास्याः । यद्वा, महान् भोगः सुखरूपमस्याः ।)
दुर्गा । यथा, देवीपुराणे ४५ अध्यायः ।
“महार्थसाधनी देवी महाभोगा ततः स्मृता ॥”
(महानाभोगो विशालतास्य । महाविशालता-
विशिष्टे, त्रि । यथा, कथासरित्सागरे । १७ । १०६ ।
“ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम् ।
गुहचन्द्रो ददर्शासावेकं न्यग्रोधपादपम् ॥”)

महामण्डूकः, पुं, (महान् मण्डूकः ।) पीत-

मण्डूकः । इति राजनिर्घण्टः । सोनावेङ् इति
भाषा ॥

महामतिः, त्रि, (महती मतिर्यस्य ।) अतिबुद्धि-

मान् । यथा, --
“किमेतन्नाभिजानामि जानन्नपि महामते ! ।
यत् प्रेमप्रवणञ्चित्तं विगुणेष्वपि बन्धुषु ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

महामदः, पुं, (महान् मदोयस्य ।) मत्तहस्ती । इति

शब्दरत्नावली ॥ (महान् मदः ।) अतिशय-
हर्षः । अतिशयमत्तता च । तद्युक्ते, त्रि ॥

महामनाः, [स्] त्रि, (महत् प्रशस्तं मनो

यस्य ।) महाशयः । यथा, --
“महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।
महामना महात्मा च -- ॥”
इति हेमचन्द्रः । ३ । ३१ ॥
(यथा, ऋग्वेदे । १० । १०३ । ९ ।
“इन्द्रस्य वृष्णो वरुणस्य राज्ञ
आदित्यानां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां
घोषो वेदानां जयतामुदस्थात् ॥”
“महामनसां उदारमनसाम् ।” इति तद्भाष्ये
सायनः ॥ महाशालपुत्त्रः । यथा, हरिवंशे ।
३१ । २० ।
“महामना नाम सुतो महाशालस्य
धार्म्मिकः ॥”)

महामहावारुणी, स्त्री, (महती चासौ महा-

वारुणी चेति ।) गङ्गास्नानस्य योगविशेषः ।
स तु शनिवारशतभिषानक्षत्रशुभयोगयुक्त-
गौणचान्द्रचैत्रकृष्णत्रयोदशीरूपः । यथा, --
“शुभयोगसमायुक्ता शनौ शतभिषा यदि ।
महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥”
इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम् ॥

महामांसं, क्ली, (महद् गर्हितं मांसम् । अत्र

मांसशब्दस्य पूर्ब्बप्रयुक्ततया महच्छब्दस्य गर्हि-
तार्थत्वम् ।
“शङ्खे तैले तथा मांसे वैद्ये ज्योतिषके द्बिजे ।
यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥”
इति स्मरणात् ।)
नरादिपिशितम् । यथा, --
“अष्टम्यां रुधिरैर्म्मांसैर्म्महामांसैः सुगन्धिभिः ।
पूजयेद्बहुजातीयैर्व्वलिभिर्भोजनैः शिवाम् ॥”
इति तिथ्यादितत्त्वधृतकालिकापुराणम् ॥
अन्यच्च ।
“गोनरेभाश्वमहिषवराहोष्ट्रोरगोद्भवम् ।
महामांसाष्टकं देवि ! देवताप्रीतिकारकम् ॥”
इति कौलार्च्चनदीपिका ॥

महामात्रः, पुं, (महती मात्रा मर्य्यादापरिमाणं

यस्य ।) प्रधानः । इत्यमरः । २ । ८ । ५ ॥ सेना-
पत्यादिषु महती मात्रा धनं परिच्छदो वा
येषां ते तथा । इति तट्टीकायां भरतः ॥ (यथा,
रामायणे । २ । ३६ । १८ ।
“तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः ।
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् ॥”
समृद्धः । (यथा, महाभारते । २ । ३१ । ६० ।
“राज्ञे भोजकटस्थाय महामात्राय धीमते ॥”)
अमात्यः । (यथा, कामन्दकीये । ९ । ६९ ।
“दूषिते हि महामात्रे रिपुरुग्रोऽपि धीमता ।
स्वपक्षे यस्य विश्वास इत्थंभूतश्च निष्क्रियः ॥”)
हस्तिपकाधिपः । इति मेदिनी । रे, १९० ।
(यथा च कथासरित्सागरे । १३ । १० ।
“इहत्यश्च महामात्रो द्बिरदेङ्गितवित्तदा ।
मद्येन क्षीबतां नेयो नैतञ्चेतयते यथा ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ८५ ।
“महामूर्द्धा महामात्रो महानेत्रो निशा-
लयः ॥”)

महामात्री, स्त्री, (महामात्र । ङीष् ।) आचार्य्य-

पत्नी । इति जटाधरः ॥ महामात्रपत्नी च ॥

महामानसी, स्त्री, (महत् मानसं भक्तान् प्रति

सदयं चेतो यस्याः ।) जिनानां विद्यादेवी-
भेदः । इति हेमचन्द्रः । २ । १५४ ॥

महामाया, स्त्री, (अघटनघटनापटीयस्त्वेन विस-

दृशप्रतीतिसाधनं माया । महती चासौ माया
चेति । यद्वा, महती माया विश्वनिर्म्माणशक्ति-
र्यस्याः सा ।) दुर्गा । इति शब्दरत्नावली ॥
तस्याः स्वरूपं यथा, --
“गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः ।
उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् ॥
पूर्ब्बातिपूर्ब्बसंबद्धसंस्कारेण नियोज्य च ।
आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् ॥
क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः पुनः ।
पश्चात् कामे नियोज्याशु चिन्तायुक्तमह-
र्न्निशम् ॥
आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या ।
महामायेति सा प्रोक्ता तेन सा जगदीश्वरी ॥”
इति कालिकापुराणे ६ अध्यायः ॥
(यथा च देवीभागते । १ । ९ । ४० ।
“नमो देवि ! महामाये ! सृष्टिसंहार-
कारिणि ! ॥”
गङ्गादेवी । यथा, काशीखण्डे । २९ । १३९ ।
“महाविद्या महामाया महामेधा महौ-
षधम् ॥”)
महती माया च ॥ (यथा, मार्कण्डेये । ८१ । ४१ ।
“महामाया हरेश्चैतत् तया संमोह्यते जगत् ॥”)

महामायी, स्त्री, (महती मायास्य । स्त्रियां

ङीष् ।) दुर्गा । इति शब्दरत्नावली ॥

महामारी, स्त्री, (महतः दुर्द्दान्तान् दानवादीन्

मारयति इति । मृङ् + णिच् + अण् । ङीप् ।)
महाकाली । यथा, --
“व्याप्तं तयैतत् सकलं ब्रह्माण्डं मनुजेश्वर ! ।
महाकाल्या महाकाले महामारीस्वरूपया ॥
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ॥”
इति मार्कण्डेयपुराणम् ॥
पृष्ठ ३/६६८
(म्रियन्त प्राणिनो यस्या इति । मृङ् + घञ् ।
ङीष् । महती मारी ।) अतिशयमरकश्च ॥

महामाषः, पुं, (महांश्चासौ माषश्चेति ।) राज-

माषः । इति शब्दचन्द्रिका ॥ (यथा, सुश्रुते सूत्र-
स्थाने २१ अध्याये । “माषमहामाषगोधूमतिल-
पिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानू-
पौदकमांसवसाविसमृणालकशेरुकशृङ्गाटक-
मधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा
प्रकोपमापद्यते ॥” तथास्य पर्य्यायो गुणाश्च ।
“राजमाषो महामाषश्चपलश्चवनः स्मृतः ।
श्वेतो रक्तस्तथाकृष्णस्त्रिविधः स प्रकीर्त्तितः ॥
यो महांस्तेषु भवति स एवोक्तो गुणाधिकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महामुखः, पुं, (महत् मुखमस्य ।) कुम्भीरः ।

इति हेमचन्द्रः । ४ । ४१६ ॥ (महत् मुखम् ।)
बृहन्मुखे, क्ली । (यथा, बृहत्संहितायाम् ।
६७ । ५४ ।
“वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समञ्च भूपा-
नाम् ।
विपरीतं क्लेशभुजां महामुखं दुर्भगानाञ्च ॥”
महत् मुखं यस्य ।) तद्वति, त्रि ॥ (महादेवः ।
यथा, महाभारते । १३ । १७ । ८७ ।
“महादन्तो महादंष्ट्रो महाजिह्वः महामुखः ॥”
सिन्धुराजस्य सैनिकभेदः । यथा, महाभारते ।
३ । २७० । १६ ।
“नकुलन्त्वभिसन्धाय क्षेमङ्करमहामुखौ ।
उभावुभयतस्तीक्ष्णैः शरवर्षेरवर्षताम् ॥”)

महामुनिः, पुं, (महांश्चासौ मुनिश्चेति ।)

अगस्त्यः । बुद्धः । इति शब्दरत्नावली ॥ कृपा-
चार्य्यः । कालः । इत्यजयपालः ॥ व्यासः ।
(श्रीनारायणः ।) यथा, श्रीभागवते । १ । १ । २ ।
“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्-
सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्-
मूलनम् ।
श्रीमद्भागवते महामुनिकृते किंवापरैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्-
क्षणात् ॥
(महामुनिः श्रीनारायणः । इति तट्टीकायां
श्रीधरः ।) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥

महामुनि, क्ली, (महान् मुनिरिवेति । सर्व्वोप-

कारित्वात्तथात्वम् । अभिधानात् क्लीवत्वम् ।)
औषधम् । इति शब्दरत्नावली ॥ धन्याकम् ।
इति जटाधरः ॥

महामूर्द्धा, [न्] पुं, (महान् मूर्द्धा यस्य । व्याप-

कत्वात् तथात्वम् ।) शिवः । इति महाभारते
तस्य सहस्रनामस्तोत्रम् ॥ बृहन्मस्तकयुक्ते, त्रि ॥

महामूलः, पुं, (महत् स्थूलं मूलं यस्य ।) राज-

पलाण्डुः । इति राजनिर्घण्टः ॥ (छिलिहिण्टः ॥
यथास्य पर्य्यायः ।
“छिलिहिण्टो महामूलः पातालगरुडाह्वयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महामूल्यं, क्ली, महार्घम् । बहुमूल्यम् । महच्च

तन्मूल्यं चेति कर्म्मधारयसमासनिष्पन्नम् । (महत्
मूल्यं यस्य ।) तद्युक्ते, त्रि ॥

महामूषिकः, पुं, (महान् मूषिकः ।) बृहदुन्दुरुः ।

तत्पर्य्यायः । मूषी २ विघ्नेशवाहनः ३ महाङ्गः
४ शस्यमारी ५ भूफलः ६ भित्तिपातनः ७ ।
इति राजनिर्घण्टः ॥

महामृगः, पुं, (महान् मृगः पशुः ।) हस्ती ।

इति हेमचन्द्रः । ४ । २८३ ॥ शरभः । इति राज-
निर्घण्टः ॥

महामृत्युञ्जयः, पुं, (महामृत्युं यमं जयतीति ।

जि + खच् मुम् च ।) शिवस्य मन्त्रविशेषः ।
यथा, --
देव्युवाच ।
“यदि मे महती प्रीतिस्तवास्ति कुलभैरव ! ।
कथयस्व विशेषेण महामृत्युञ्जयाभिधम् ॥
भैरव उवाच ।
शृणु देवि ! प्रवक्ष्यामि महामृत्युञ्जयाभिधम् ।
आयुर्वृद्धिकरं पुंसां मृत्योर्मृत्युकरं परम् ॥
यस्य विज्ञानमात्रेण चिरजीवी निरामयः ।
नित्यमष्टशतं जप्त्वा मृत्युं मृत्युपथं नयेत् ॥”
इति मृत्युञ्जयतन्त्रम् ॥

महामेघः, पुं, (महान् मेघ इव ।) शिवः । इति

महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (महान्
मेघः ।) अतिशयमेघश्च ॥ (यथा, महाभारते ।
१२ । ११७ । ४ ।
“महामेषनिभं दृष्ट्वा स भीतो ह्यभवत् गजः ॥”
क्षत्त्रियराजविशेषः । यथा, महाभारते । ७ ।
४७ । १५ ।
“शत्रुञ्जयं चन्द्रकेतुं महामेघं सुवर्च्चसम् ।
सूर्य्यभासञ्च पञ्चैतान् हत्वा विव्याध सौवलम् ॥”)

महामेदः, पुं, (मेदयति स्निग्धीकरोतीति । मिद्-

+ णिच् + अच् । महान् मेदः ।) अष्टवर्गे
प्रसिद्धौषधबिशेषः । तत्पर्य्यायः । पुरोद्भवः २ ।
इति रत्नमाला ॥ बृहन्मेदश्च ॥

महामेदा, स्त्री, (मेदयतीति । मिद + णिच् +

घञ् । टाप् । महती मेदा ।) अष्टवर्गे प्रसिद्धौ-
षधविशेषः ॥ तत्पर्य्यायः । वसुच्छिद्रा २ जीवनी
३ पांशुरागिणी ४ देवेष्टा ५ सुरामेदा ६ दिव्या
७ देवमणिः ८ देवगन्धा ९ महाच्छिद्रा १०
वृक्षार्हा ११ । अस्याः गुणाः । हिमत्वम् ।
रुच्यत्वम् । कफशुक्रवृद्धिकारित्वम् । दाहास्र-
पित्तक्षयवातज्वरनाशित्वञ्च । इति राज-
निर्घण्टः ॥ * ॥ अथ मेदमहामेदयोरुत्पत्ति-
लक्षणनामगुणाः ।
“महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते ।
महामेदा वनौमेदा स्यादित्युक्तं मुनीश्वरैः ॥
शुक्लार्द्रकनिभः कन्दो लताजातः स पाण्डुरः ।
महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ॥
शुक्लकन्दो नखच्छेद्यो मेदो धातुरिव स्रवेत् ।
यः स मेदेति विज्ञेया जिज्ञासातत्परैर्जनैः ॥
स्वल्पपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा ।
महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥
मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफापहम् ।
बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् ॥”
इति भावप्रकाशः ॥

महामैत्रः, पुं, (मित्रस्य भावः । मित्र + अण् ।

मैत्रम् । महद्भिः सह महद्वा हृदि मैत्र-
मस्येति ।) बुद्धभेदः । इति हेमचन्द्रः । २ । १४९ ॥

महामोहः, पुं, (मोहः भ्रान्तिज्ञानम् । अतथाभूते

वस्तुनि तथात्वज्ञानमित्यर्थः । महान् मोहः ।)
भोगेच्छारूपाज्ञानम् । इति केचित् ॥ संसार-
मूलकारणरागरूपमोहः । (महान् मोहो
यस्मादिति च ।) महामोहजनककामराज-
बीजम् । इति चण्डीप्रथममाहात्म्यटीकायां
नागोजीभट्टः ॥ अपि च ।
“ससर्ज्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।
महामोहञ्च मोहञ्च तमश्चाज्ञानवृत्तयः ॥”
इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥
अग्र इति ब्रह्मा स्वसृष्टौ प्रथममविद्यासृष्टीः
ससर्ज्ज तत्र तमो नाम स्वरूपाप्रकाशः ।
मोहो देहाद्यहंबुद्धिः । महामोहो भोगेच्छा ।
तामिस्रः तत्प्रतिघाते क्रोधः । अन्धतामिस्रः
तन्नाशे अहमेव मृतोऽस्मीति बुद्धिः । तदे-
वोक्तं वैष्णवे ।
“तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः ।
महामोहश्च विज्ञेयो ग्राम्यभोगसुखैषणा ॥
मरणं ह्यन्धतामिस्रं तामिस्रं क्रोध उच्यते ।
अविद्या पञ्चपर्व्वा या प्रादुर्भूता महात्मनः ॥”
इति तट्टीकायां श्रीधरस्वामी ॥

महाम्लं, क्ली, (महत् अम्लं अम्लरसयुक्तम् । यद्वा,

महान् अम्लः अम्लरसो यस्मिन् ।) तिन्तिडी-
कम् । इति जटाधरः ॥ (अत्यम्लरसविशिष्टे,
त्रि ॥)

महायक्षः, पुं, (यक्षयते पूजयति इति । यक्ष् +

अच् । महान् यक्षः ।) अर्हदुपासकविशेषः ।
इति हेमचन्द्रः । १ । ४१ ॥

महायज्ञः, पुं, (महान् यज्ञः ।) वेदपाठादि-

रूपपञ्चप्रकारयज्ञः । यथा, --
“पाठो होमश्चातिथीनां सपर्य्या तर्पणं बलिः ।
एतैः पञ्च महायज्ञा ब्रह्मयज्ञादिनामकैः ॥”
इत्यमरः । २ । ७ । १४ ॥
अपि च ।
“दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म
एव च ।
एतैः पश्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा ॥
ब्राह्मणानां हितार्थाय इतरेषाञ्च तन्मुखाः ।
इतरेषान्तु वर्णानां ब्राह्मणैः कारिताः शुभाः ॥
एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति ।
अन्यथा ब्रीहयोऽप्येते एकैके मृगपक्षिणः ॥
मन्तव्या दातृभोक्तॄणां महामांसन्तु तत् स्मृतम् ॥”
इति वराहपुराणम् ॥
(यथा च मनौ । २ । ३८ ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”)
पृष्ठ ३/६६९

महायशस्कः, त्रि, (महत् यशो यस्य । “शेषा-

द्बिभाषा ।” ५ । ४ । १५४ । इति समामान्त
कप्प्रत्ययः ।) अतिशययशोविशिष्टः । इति
पाणिनिव्याकरणम् ॥

महायशाः, [स्] पुं, (महत् यशो यस्य विभाषा

ग्रहणात् न कप् ।) भूतार्हद्बिशेषः । इति
हेमचन्द्रः । १ । ५० ॥ (शिवः । यथा, महा-
भारते । १३ । १७ । ३४ ।
“महारूपो महाकायो वृषरूपो महायशाः ॥”
स्त्री, स्कन्दमातृगणविशेषः । यथा, महा-
भारते । ९ । ४६ । २८ ।
“पशुदा वित्तदा चैव सुस्वदा च महायशाः ॥”)
अतिशययशोयुक्ते, त्रि ॥ (यथा, महाभारते ।
३ । ४२ । ४१ ।
“एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः ।
ततो ददर्श शक्रस्य पुरीन्ताममरावतीम् ॥”)

महारजतं, क्ली, (महच्च तद्रजतञ्चेति ।) सुव-

र्णम् । (यथा, मार्कर्ण्डये । ६० । ४ ।
“महारजतसङ्काशा जायन्ते तत्र मानवाः ॥”)
धुस्तूरः । इत्यमरः । २ । ९ । ९५ ॥ बृहद्रौप्यञ्च ॥

महारजनं, क्ली, (रज्यतेऽनेनेति । रञ्ज + करणे

ल्युट् । ततः । “अनिदितामिति ।” ६ । ४ । २४ ।
इत्यत्र “रजकरजनरजःसूपसंख्यानं कर्त्तव्यम् ।”
इति काशिकोक्त्या नलोपः । महच्च तद्रजनञ्चेति
कर्म्मधारयः ।) कुसुम्भपुष्पम् । इत्यमरः । २ ।
९ । १०६ ॥ स्वर्णम् । इति मेदिनी । ने, २४४ ॥

महारण्यं, क्ली, (महत् अरण्यम् ।) बृहद्बनम् ।

(यथा, रामायणे । ३ । १ । १ ।
“प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
रामो ददर्श दुर्द्धर्षस्तापसाश्रममण्डलम् ॥”)
तत्पर्य्यायः । अरण्यानी २ । इत्यमरः । २ । ४ । १ ॥
कान्तारः ३ । इति जटाधरः ॥

महारथः, पुं, (रमन्ते लोका यस्मिन्निति । रम +

“हनिकुषिनीरमिकाशिभ्यःक्थन् ।” उणा०
२ । २ । इति क्थन् । महांश्चासौ रथश्चेति ।)
शिवः । इति महाभारते तस्य सहस्रनाम-
स्तोत्रम् । १३ । १७ । १२१ ॥ (महान् रथोऽस्य ।)
अयुतधन्विभिः सहास्त्रशस्त्रनिपुणयोद्धा । यथा,
“एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् ।
अस्त्रशस्त्रप्रवीणश्च महारथ इति स्मृतः ॥”
इति भगवद्गीताटीकायां श्रीधरस्वामी ॥
(महान् रथः ।) बृहद्रथश्च । (यथा, महा-
भारते । ३ । ४२ । १७ ।
“नातप्ततपसा साध्य एष दिव्यो महारथः ॥”
राजविशेषः । यथा, मार्कण्डेये । ११८ । २६ ।
“महारथस्य वाशिष्ठः पुरोधाभून्महीभृतः ॥”)

महारम्भं, क्ली, (महान् आरम्भो प्रस्तुतकरणे

यत्नो यस्य ।) गडलवणम् । इति राजनिर्घण्टः ॥
(महारम्भविशिष्टे, त्रि । यथा, कामन्दकीये ।
४ । ५४ ।
“स्वाजीव्यो भूगुणैर्युक्तः सारूपः पर्व्वताश्रयः ।
शूद्रकारुबणिक्प्रायो महारम्भकृषीबलः ॥”)

महारसं, क्ली, (महान् अधिको रसोऽस्य । रुचि-

प्रदत्वात् तथात्वम् ।) काञ्जिकम् । इति जटा-
धरः ॥ (गुणादयोऽस्य काञ्जिकशब्दे द्रष्टव्याः ।
महारसविशेष्टे, त्रि । यथा, महाभारते ।
३ । १११ । १४ ।
“तान्यृष्यशृङ्गस्य महारसानि
भृशं सुरूपाणि रुचिं ददुर्हि ॥”)

महारसः, पुं, (महानतिमिष्टो रसोऽस्य ।) खर्ज्जूरः ।

कोषकारः । कशेरु । इति मेदिनी । से, ५९ ॥
इक्षुः । इति जटाधरः ॥ (अस्यपर्य्यायो यथा, --
“महारसोऽसिपत्रः स्यान्मृत्युपुष्पो मधुतृणः ।
इक्षुर्वंशककाण्डारभीरुपौण्ड्रादिभेदवान् ॥”
इति वैद्यकरत्नमालायाम् ॥
(महान् रसः धातुद्रवः ।) पारदः । इति राज-
निर्घण्टः ॥ (यथास्य पर्य्यायः ।
“पारदो रसधातुश्च रसेन्द्रश्च महारसः ।
चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महारसाष्टकं, क्ली, (महारसानां अष्टकम् ।)

अष्टधातुविशेषाः । यथा, --
“दरदः पारदः सस्यो वैक्रान्तं कान्तमम्रकम् ।
माक्षिकं विमलश्चेति स्युरेतेऽष्टौ महारसाः ॥”
इति राजनिर्घण्टः ॥

महाराजः, पुं, (महांश्चासौ राजा प्रभाव-

विशेषवानिति ।) पूर्ब्बजिनविशेषः । (महत्या
दीप्त्या राजतेऽङ्गुलिषु शोभत इति । राज् +
अच् ।) नखः । इति हेमचन्द्रः । ३ । २५८ । (महान्
राजा । सर्व्वत्र “राजाहःसखिभ्यष्टच् । ५ । ४ । ९१ ।
इति समासान्तष्टच् ।) श्रेष्ठराजः । यथा, --
“अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज ! बद्धोऽस्म्यर्थेन कौरवैः ॥”
इति महाभारते उद्योगपर्व्व ॥

महाराजकः, पुं, (राजते इति । राज + वुन् ।

महांश्चासौ राजकश्चेति ।) महाराजिकगणः ।
इत्यमरटीकायां रामाश्रमः ॥

महाराजचूतः, पुं, (महता मिष्टादिगुणेन राजते

आद्रियते । इत्यच् ततः कर्म्मधारयः ।) उत्त-
माम्रः । तत्पर्य्यायः । महाराजाम्रकः २ स्थूलाम्रः
३ मन्मथानन्दः ४ कङ्कः ५ नीलकपित्थकः ६
कामायुधः ७ कामफलः ८ राजपुत्त्रः ९ नृपा-
त्मजः १० महाराजफलः ११ कामः १२ महा-
चूतः १३ । कोमलस्य तस्य गुणाः । कटुत्वम् ।
अम्लत्वम् । पित्तदाहदातृत्वञ्च । सुपक्वस्य तस्य
गुणाः । स्वादुत्वम् । मधुरत्वम् । पुष्टिवीर्य्यबल-
प्रदत्वञ्च । इति राजनिर्घण्टः ॥

महाराजद्रुमः, पुं, (महाराजोऽतिश्रेष्ठो द्रुमः ।)

आरग्वधः । इति राजनिर्घण्टः ॥ (गुणादि-
विशेषोऽस्यारग्वधशब्दे ज्ञातव्यः ॥)

महाराजिकः, पुं, (महती राजिः पङ्क्तिरस्य

“शेषाद्बिभाषा ।” ५ । ४ । १५४ । इति कप् ।)
गणदेवताविशेषः । स तु विंशत्यधिकशतद्बय-
संख्यकः । इत्यमरभरतौ । १ । १ । १० ॥

महाराजोपचारः, पुं, (महाराजार्थ उपचारः ।

महाराजानामुपचारो वा ।) राजार्हपूजोप-
करणम् । तद्यथा, --
“ततश्च चामरच्छत्रपादुकादीन् परानपि ।
महाराजोपचारांश्च दत्त्वादर्शं प्रदर्शयेत् ॥”
विष्णुधर्म्मोत्तरे ।
“यथादेशं यथाकालं राजलिङ्गं सुरालये ।
दत्त्वा भवति राजैव नात्र कार्य्या विचारणा ॥”
तत्र चामरमाहात्म्यं विष्णुधर्म्मोत्तरे ।
‘तथा चामरदानेन श्रीमान् भवति भूतले ।
मुच्यते च तथा पापैः स्वर्गलोकञ्च गच्छति ॥’
छत्रस्य तत्रैव ।
‘छत्रं बहुशलाकञ्च झल्लरीवस्त्रसंयुतम् ।
दिव्यवस्त्रैश्च संयुक्तं हेमदण्डसमन्वितम् ॥
यः प्रयच्छति कृष्णस्य छत्रलक्षायुतैर्वृतः ।
प्रार्थ्यते सोऽमरैः सर्व्वैः क्रीडते पितृभिः सह ॥’
तत्रैवान्यत्र ।
‘राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्बिजो-
त्तमाः ।
नाप्नोति रिपुजं दुःखं संग्रामे रिपुजिद्भवेत् ॥’
‘उपानत्संप्रदानेन विमानमधिरोहति ।
यथेष्टं तेन लोकेषु विचरत्यमरप्रभः ॥’
ध्वजस्य तत्रैव ।
‘लोकेषु ध्वजभूतः स्याद्दत्त्वा विष्णोर्वरं ध्वजम् ।
शक्रलोकमवाप्नोति बहूनब्दगणान्नरः ॥’
किञ्च ।
‘युक्तं पीतपताकाभिर्निवेद्य गरुडध्वजम् ।
केशवाय द्बिजश्रेष्ठाः शक्रलोके महीयते ॥
यत्प्रासादे ध्वजारोपमाहात्म्यं लिखितं पुरा ।
तदत्राप्यखिलं ज्ञेयं तत्रात्रत्यमिदन्तथा ॥’
किञ्च । भविष्ये ।
‘विष्णोर्ध्वजे तु सौवर्णदण्डं कुर्य्याद्विचक्षणः ।
पताका चापि पीता स्यात् गरुडस्य समीपगा ॥
व्यजनस्य । विष्णुधर्म्मोत्तरे ।
‘तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात् पराम् ॥’
वितानस्य तत्रैव ।
‘वितानकप्रदानेन सर्व्वपापैः प्रमुच्यते ।
परां निर्वृतिमाप्नोति यत्र यत्राभिजायते ॥’
खड्गादीनाम् ।
‘दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर्नाभि-
भूयते ।
दत्त्वा तद्वन्धनं मुख्यमग्न्याधेयफलं लभेत् ॥’
किञ्च ।
‘पतद्ग्रहं तथा दत्त्वा शुभगस्त्वभिजायते ।
पादपीठप्रदानेन स्थानं सर्व्वत्र विन्दति ॥’
‘दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् ।
मार्ज्जयित्वा तथा तञ्च सुभगस्त्वभिजायते ॥
यत्किञ्चिद्देवदेवाय दद्याद्भक्तिसमन्वितः ।
तदेवाक्षयमाप्नोति स्वर्गलोकं स गच्छति ॥’
किञ्च । वामनपुराणे श्रीबलिं प्रति प्रह्लादोक्तौ ।
‘श्रद्दधानैर्भक्तिपरैर्यान्युद्दिश्य जनार्द्दनम् ।
वलिदानानि दीयन्ते अक्षयाणि विद्रुर्बुधाः ॥
पृष्ठ ३/६७०
अत्रापि केचिदिच्छन्ति दत्त्वा पुष्पाञ्जलित्रयम् ।
पूर्ब्बोक्ता दश शङ्खाद्या मुद्राः सन्दर्शयेदिति ॥”
इति श्रीहरिभक्तिविलासे ८ विलासः ॥

महारात्रिः, स्त्री, (महत्यां प्रलयावस्थायां राति

आत्मस्वरूपं ददाति सुप्तशक्त्या सर्व्वान् जीवा-
नात्मरूपेणावस्थापयति त्रायते पञ्चपर्व्वलक्ष-
णाया अविद्याया सकाशात् रक्षतीति । त्रै +
इ ।) ब्रह्मलयोपलक्षिता महाप्रलयरात्रिः ।
इति चण्डीटीकायां नागोजीभट्टः ॥ महत
ईश्वरस्य रात्रिः । ब्रह्ममरणोपलक्षिता रात्रि-
रित्यर्थः । इति देवीमाहात्म्यटीकायां विद्या-
विनोदः ॥ अपि च ।
“ब्रह्मणाञ्च निपाते च महाकल्पो भवेन्नृप ! ।
प्रकीर्त्तिता महारात्रिः सा एव च पुरातनैः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५ अध्यायः ॥
(दुर्गा । यथा च मार्कण्डेये । ८१ । २० ।
“महारात्रि ! महाविद्ये ! नारायणि ! नमो-
ऽस्तु ते ॥”)
अर्द्धरात्रात् परं मुहूर्त्तद्वयम् । यथा, --
“अर्द्धरात्रात् परं यच्च मुहूर्त्तद्बयमुच्यते ।
सा महारात्रिरुदिता तद्दत्तमक्षयं भवेत् ॥”
इति तन्त्रम् ॥
आश्विनशुक्लाष्टमी । नवरात्रम् । यथा, --
“शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै ।
महारात्रिर्महेशानि ! कालरात्रिं शृणु
प्रिये ! ॥”
इति शक्तिसङ्गमतन्त्रम् ॥

महाराष्ट्रः, पुं, (महान् भूयान् प्रशस्तो वा राष्ट्रः ।

महत् राष्ट्रं यत्रेति वा ।) देशविशेषः ।
मारहाट्टा इति भाषा ॥ यथा, --
“नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः ।
जवनः पह्लवः सिन्धुः पारसीकादयो मताः ॥”
इति ज्योतिषतत्त्वे कूर्म्मचक्रम् ॥

महाराष्ट्री, स्त्री, (महाराष्ट्रस्तद्देश उत्पत्तिस्थान-

त्वेनास्त्यस्या इत्यच् । गौरादित्वात् ङीष् ।)
जलपिप्पली । इति राजनिर्घण्टः ॥ शाकभेदः ।
माराटी इति भाषा । अस्या गुणः । कफवायु-
नाशित्वम् । इति राजवल्लभः ॥ (विषयोऽस्या
यथा, --
“जयन्ती मुण्डिरी वासा बृहती च गुडूचिका ।
महाराष्ट्री जम्बुरसैस्तथा नीलोत्पलद्रवैः ॥”
इति वैद्यकरसेन्द्रसारसग्रहे शूलाधिकारे पञ्चा-
त्मकरसे ॥ महाराष्ट्राणामियमिति । महाराष्ट्र ।
अण् ङीप् ।) अष्टादशभाषान्तर्गतभाषा-
विशेषः । यथा, साहित्यदर्पणे ६ परिच्छेदे ।
“आसामेव तु गाथान्तु महाराष्ट्रीं प्रयोजयेत् ।
अत्रोक्ता मागधी भाषा राजान्तःपुरचारि-
णाम् ॥”

महारिष्टः, पुं, (महान् अरिष्टः ।) महानिम्ब-

विशेषः । तत्पर्य्यायः । कैटर्य्यः २ रामणः ३
रमणः ४ गिरिनिम्बः ५ शुक्लसालः ६ । अस्य
गुणाः । कटुत्वम् । तिक्तत्वम् । कषायत्वम् ।
शीतलत्वम् । लघुत्वम् । सन्तापशोषकुष्ठास्र-
कृमिभूतविषापहत्वञ्च । इति राजनिर्घण्टः ॥

महारुद्रः, पुं, (रुद्राणां महान् स्वयं ईश्वर इत्यर्थः

इति महारुद्रः ।) महादेवः । यथा, --
“महाकाल्या महाकालश्चणकाकाररूपतः ।
माययाच्छादितात्मा च तन्मध्ये समभागतः ॥
महारुद्रः स एवात्मा महाविष्णुः स एव हि ॥”
इति निर्व्वाणतन्त्रम् ॥

महारूपः, पुं, (महत् महत्तत्त्वादिरूपमस्य ।)

शिवः । इति महाभारते तस्य सहस्रनाम-
स्तोत्रम् । १३ । १७ । ३४ ॥ (महद्रूपं यस्य ।)
अतिशयरूपयुक्ते, त्रि ॥

महारूपकं, क्ली, (महत् रूपकं यत्र ।) नाट-

कम् । इति त्रिकाण्डशेषः ॥

महारोगः, पुं, (महान् घोरानिष्टकारकः रोगः ।

यद्वा, महा जन्मान्तरीणभुक्तावशिष्टातिशय-
पातकेन जनितः रोगः ।) पापरोगः । स चाष्ट-
विधो यथा । उन्मादः १ त्वग्दोषः २ राज-
यक्ष्मा ३ श्वासः ४ मधुमेहः ५ भगन्दरः ६
उदरः ७ अश्मरी ८ । इति शुद्धितत्त्वे नारदः ॥
(यथा च आश्वलायने । २ । ७ । १७ ।
“महारोगेण वाभितप्तः प्राश्नीयादन्यतरां गतिं
गच्छति ॥”
“महारोगेण क्षयकुष्ठादिनेति” तद्वृत्तौ गार्ग्य-
नारायणः ॥ विषयोऽस्य यथा, --
“महारोगाष्टके कासे ज्वरे श्वासातिसारके ॥”
अस्य व्याख्यायां यथा, --
“वातव्याध्यश्मरीकुष्ठमेदोदरभगन्दराः ।
अर्शांसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्त्तिताः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्मणि रत्नगर्भ-
पोट्टलीटीका ॥)

महारोगी, [न्] पुं, (महा रोगः क्षयादि-

रस्त्यस्येति । महारोग + इनिः । महारोग-
युक्तः । यथा, --
“क्रियाहीनस्य मूर्खख्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्म्मरणान्तमशौचकम् ॥”
इति शुद्धितत्त्वधृतकूर्म्मपुराणवचनम् ॥

महारोमा, [न्] पुं, (महान्ति रोमाणि वृक्षादि-

रूपाणि विराटरूपे यस्य ।) शिवः । इति
महाभारते तस्य सहस्रनामस्तोत्रम् । १३ ।
१७ । ८८ ॥ (महान्ति रोमाण्यस्य ।) बृहद्रोम-
युक्ते, त्रि ॥ (कृतिरातस्य पुत्रविशेषः । यथा,
भागवते । ९ । १३ । १७ ।
“मरोः प्रतीपकस्तस्माज्जातः कृतरथो यतः ।
देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥
कृतिरातस्ततस्तस्माम्महारोमा च तत्सुतः ॥”)

महारौरवः, पुं, (रुरूणामयं इति । रुरु + अण् ।

महान् रौरवः । तत्र गता जीवाः क्रव्यन्-
नामकैरुरुभिः पोड्यन्ते अत एवास्य तथा-
त्वम् ।) नरकविशेषः । इत्यमरः । १ । ९ । १ ॥
महान् रौद्रो रवोऽत्र महारौरवः मनीषादि-
त्वात् द्रलोपः । इति भरतः ॥ अपि च ।
“महारौरवसंज्ञन्तु अधोऽर्द्धं ताम्रसंपुटम् ।
धम्यते खदिराङ्गारैर्गुरुदारापनायकः ॥
देवद्रव्यापहारी च पच्यते कालमक्षयम् ॥”
इति वह्निपुराणे पापनाशनवृषदानाध्यायः ॥

महार्घं, त्रि, (महान् अधिकः अर्घो मूल्यमस्य ।)

महामूल्यम् । इति मेदिनी ॥ घे, १० । (यथा,
कथासरित्सागरे । १२ । १४५ ।
“ततस्तस्मै महार्घाणि रत्नानि सुबहूनि च ।
विभीषणो ददाति स्म मथुरां गन्तुमिच्छते ॥”)

महार्घः, पुं, (महान् अर्घो मूल्यमादरो वास्य ।)

लावकपक्षी । इति विश्वः ॥

महार्णवः, पुं, (महान् सुविशालः अर्णवः ।)

महासमुद्रः । यथा, --
“आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
(महान् अर्णव इव । प्रसादादिगुणबाहुल्यात्
तथात्वम् ।) शिवः । इति महाभारते तस्य
सहस्रनामस्तोत्रम् ॥ (कूर्म्मरूपिभगवन्नाराय-
णस्य दक्षपदोद्भवः जनपदः । यथा, मार्क-
ण्डेये । ५८ । ३२ ।
“सौरष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः ।
एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ॥”)

महार्द्धः, पुं, (महान् विपुलोर्द्धोऽस्य ।) वृक्षविशेषः ।

इति शब्दचन्द्रिका । महाजा इति भाषा ॥

महार्द्रकं, क्ली, (महत् आर्द्रकम् ।) वनार्द्रकम् ।

अस्य गुणाः । अग्निदीपनत्वम् । धारकत्वम् ।
रूक्षत्वम् । वायुकफनाशित्वञ्च । इति राज-
वल्लभः ॥

महार्व्वुदं क्ली, (महत् अर्व्वुदम् ।) दशार्व्वुदम् ।

शतकोटिसंख्या । इति ज्योतिषम् ॥

महार्हं, क्ली, (महान् अर्हः मूल्यं मर्य्यादा वास्य ।)

श्वेतचन्दनम् । इति राजनिर्घण्टः ॥ (महा-
मूल्यवति, त्रि । यथा, महाभारते । १ । २१० । २९ ।
“महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ ॥”)
महापूजायोग्यम् । यथा, रामायणे । १ । ६६ । १० ।
“यस्माद्भागार्थिनो भागान् नाकल्पयत मे सुराः ।
वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥”
“महार्हाणि महापूजायोग्यानि ।” इति तट्टी-
कायां रामानुजः ॥)

महालयः, पुं, (महतां जैनानामालयः । महान्

आलय इति वा ।) विहारः । (महतां योगि-
प्रभृतीनामालयः ।) तीर्थः । (महदादीनां लयो
यस्मिन् ।) परमात्मा । इति मेदिनी । ये,
१२५ ॥ सौराश्विनीयकृष्णपक्षः । यथा, भविष्ये ।
“येयं दीपान्विता राजन् ! ख्याता पञ्चदशी
भुवि ।
तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ॥”
महालये कन्यागतापरपक्षे । इति तिथ्यादि-
तत्त्वम् ॥

महालक्ष्मीः, स्त्री, (महती लक्ष्मोः ।) राधा ।

नारायणशक्तिः । यथा, --
“यन्मायया मोहिताश्च ब्रह्मविष्णुशिवादयः ।
पृष्ठ ३/६७१
वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते ॥
यदर्द्धाङ्गा महालक्ष्मीः प्रिया नारायणस्य
च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥
अथ महालक्ष्मीमन्त्रः ।
“तारो वाग्भवं माया रमाकामः हसौ-
र्ज्जगत्प्रसूत्यै नमः ॥”
तथा च ।
“वाग्भवं शम्भुवनिता रमा मकरकेतनः ।
तार्त्तीयञ्च जगत्पार्श्वो वह्निबीजसमुज्ज्वलः ॥
अर्घीशाढ्यो भृगुस्त्यैहृम्मन्त्रोऽयं द्वादशाक्षरः ।
महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्व्वसिद्धिदः ॥”
तस्या ध्यानं यथा, तन्त्रसारे ।
“बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारो-
ज्ज्वलां
रत्नाकल्पविभूषितां कुचनतां शालेः करैर्म्मञ्ज-
रीम् ।
पद्मौ कौस्तुभरत्नमप्यविरतं संबिभ्रतीं सस्मितां
फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परा-
मम्बिकाम् ॥”
(अस्या बीजम् । ॐ ऐँ ह्नीँ श्रीँ क्लीँ ह्सौँ
जगत्प्रसूत्यै नमः ।)

महालिकटभी, स्त्री, (महान्तः अलयः । तेषां

कटभी आश्रयभूतवृक्षः ।) श्वेतकिणिही-
वृक्षः । इति राजनिर्घण्टः ॥

महालिङ्गः, पुं, (महान् पूज्यतमो विपुलो वा

लिङ्गोऽस्य ।) शिवः । इति महाभारते तस्य
सहस्रनामस्तोत्रम् ॥ (यथा, राजतरङ्गिण्याम् ।
२ । १३७ ।
“अकरोत् स महाहर्म्म्यैर्म्महालिङ्गैर्महावृषैः ।
महात्रिशूलैर्म्महतीं महामाहेश्वरो महीम् ॥”
महत् बृहल्लिङ्गमस्य ।) बृहल्लिङ्गयुक्तश्च ॥

महालीलसरस्वती, स्त्री, (लीलया सरस्वती ।

महती लीलसरस्वतीति कर्म्मधारयः ।) तारा-
विशेषः ।
“लीलया वाक्प्रदा चेति तेन लीलसरस्वती ।
तारास्त्ररहिता त्र्यर्णा महालीलसरस्वती ॥”
इति तन्त्रसारः ॥

महालोध्रः, पुं, (महान् लोध्रः ।) लोध्रविशेषः ।

इति रत्नमाला । पाटियालोध इति भाषा ॥

महालोलः, पुं, (महदतिशयं लोलं लौल्यमस्य ।)

काकः । इति राजनिर्घण्टः ॥ अतिचञ्चले, त्रि ॥

महालोहं, क्ली, (महत् अतिशयगुणवत् लोहम् ।)

अयस्कान्तः । इति राजनिर्घण्टः ॥

महावनं, क्ली, (महत् विपुलं वनम् ।) बृहद्वनम् ।

तत्पर्य्यायः । अरण्यानी २ महारण्यम् ३ महा-
टवी ४ । इति राजनिर्घण्टः ॥ (यथा, रामायणे ।
“निरस्ताः पथि धावन्ति त्रयस्ते यन्महावने ॥”)
वृन्दावनस्थचतुरशीतिवनान्तर्गतवनविशेषश्च ॥

महावपः, पुं, (महती वपा यस्य । यद्वा, महान्तं

धातुस्थौल्यादिकं वपतीति । वप + अच् ।)
महामेदः । इति शब्दचन्द्रिका ॥

महावरा, स्त्री, (व्रियते असौ देवादिभिरिति ।

वृ + अच् । टाप् । महती वरा ।) दूर्व्वा ।
इति शब्दरत्नावली ॥

महावराहः, पुं, (महानीश्वरोऽपि सन् वराहः ।

महांश्चासौ वराहश्चेति वा ।) वराहरूपी
भगवान् । यथा, --
“महावराहो गोविन्दः सुसेनः कनकाङ्गदी ॥”
इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥
(राजविशेषः । यथा, कथासरित्सागरे । ५२ । ९२ ।
“अस्ति शूरपुरं नाम यथार्थं नगरं भुवि ।
महावराह इत्यासीद्राजा तत्रातिदुर्म्मदः ॥”)

महावरोहः, पुं, (महान् अवरोहः शिफानां

अधोऽवतरणं यस्य ।) प्लक्षवृक्षः । इति राज-
निर्घण्टः ॥ (विशेषोऽस्य प्लक्षशब्दे ज्ञातव्यः ॥)

महावल्ली, स्त्री, (महती चासौ वल्ली चेति ।)

माधवीलता । इति शब्दचन्द्रिका ॥ (उत्तमा
लता च । यथा, कथासरित्सागरे । ३३ । ८५ ।
“उपायरससंसिक्ता देशकालोपबृंहिता ।
सेयं नीतिमहावल्ली किं नाम न फलेत् फलम् ॥”)

महावसः, पुं, (महती वसा वपास्य । ह्रस्वः ।)

शिशुमारः । इति हेमचन्द्रः । ४ । ४१६ ॥

महावक्षाः, [स्] पुं, (महत् वक्षः विराड्देहे

ऽस्य ।) शिवः । इति महाभारते तस्य सहस्र-
नामस्तोत्रम् । १३ । १७ । ८६ ॥ (महत् वक्षो-
ऽस्य ।) बृहद्वक्षोयुक्ते, त्रि ॥

महावाक्यं, क्ली, (महत् वाक्यम् ।) योग्यता-

काङ्क्षासत्तियुक्तवाक्यसमूहः । इति साहित्य-
दर्पणः । २ । २ ॥ न्यायमते तु । स्वघटकानेक-
नामलभ्यतादृशार्थकम् । प्रकृत्यर्थमात्रावच्छिन्न-
प्रत्ययार्थबोधं प्रत्ययोग्यवाक्यं वा । इति शब्द-
शक्तिप्रकाशिका ॥ (महत् महदर्थप्रकाशकं
वाक्यम् ।) तत्त्वमसीति आदिवाक्यम् । प्रतिष्ठा-
दावुत्सर्गवाक्यञ्च ॥

महावारुणी, स्त्री, (वरुणो देवतास्याः । वरुण

+ अण् । ङीप् । महती वारुणी ।) गङ्गा-
स्नानस्य योगविशेषः । स तु शनिवारशतभिषा-
नक्षत्रयुक्तगौणचान्द्रचैत्रकृष्णत्रयोदशीरूपः ।
यथा, --
“वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥
शनिवारसमायुक्ता सा महावारुणी स्मृता ।
गङ्गायां यदि लभ्येत कोटिसूर्य्यग्रहैः समा ॥”
इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम् ॥

महाविद्या, स्त्री, (विद्यते ज्ञायते इति । विद् +

क्यप् । टाप् । महती विद्या ज्ञानं तत्त्वसाक्षात्-
कारो वा यस्याः ।) देवीविशेषः । सा दशधा ।
यथा चामुण्डातन्त्रे ।
“काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥
नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा ।
कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥
सिद्धविद्यातया नात्र युगसेवापरिश्रमः ।
नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥”
मालिनीविजये ।
“अथ वक्ष्याम्यहं या या महाविद्या महीतले ।
दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥
काली नीला महादुर्गा त्वरिता छिन्नमस्तका ।
वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥
कामाख्या वासली बाला मातङ्गी शैलवासिनी ।
इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥
सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः ।
अथ चैता महाविद्याः कलिदोषान्न बाधिताः ॥”
इति तन्त्रसारः ॥ * ॥
तासां दशावतारत्वं यथा, --
“प्रकृतिर्विष्णुरूपा च पुंरूपश्च महेश्वरः ।
एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्द्दश ॥
कृष्णरूपा कालिका स्यात् रामरूपा च
तारिणी ।
वगला कूर्म्ममूर्त्तिः स्यान्मीनो धूमावती भवेत् ॥
छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी ।
सुन्दरी यामदग्न्यः स्याद्वामनो भुवनेश्वरी ॥
कमला बौद्धरूपा स्यात् दुर्गा स्यात् कल्कि-
रूपिणी ।
स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम् ।
स्वयञ्च भगवान् कृष्णः कालीरूपो भवेद्व्रजे ॥”
इति मुण्डमालातन्त्रम् ॥
(गङ्गा । यथा, काशीखण्डे । २९ । १३९ ।
“महाविद्या महामाया महामेधा महौ-
षधम् ॥”)

महाविराट्, [ज्] पुं, (विशेषेण राजते प्रकाशते ।

इति । वि + राज् + क्विप् । महांश्चासौ विराट्
चेति ।) महाविष्णुः । यथा, --
मुनिरुवाच ।
“विश्वानां गोलोकं राजन् ! विस्तृतञ्च नभः-
समम् ।
शश्वन्नित्यं डिम्बरूपं श्रीकृष्णेच्छासमुद्भवम् ॥
जलेन परिपूर्णञ्च कृष्णस्य मुखबिन्दुना ।
सृष्ट्युन्मुखस्यादिसर्गे परिश्रान्तस्य क्रीडतः ॥
प्रकृत्या सह युक्तेन कलया निजया नृप ! ।
तत्राधारो महद्बिष्णोर्विश्वाधारस्य विस्तृतः ॥
प्रकृतीगर्भसंभूतडिम्बोहूतस्य भूमिप ! ।
सुविस्तृते जलाधारे शयानश्च महान् विराट् ॥
राधेश्वरस्य कृष्णस्य षोडशांशः प्रकीर्त्तितः ।
दूर्व्वादलश्यामरूपः सस्मितश्च चतुर्भुजः ।
वनमालाधरः श्रीमान् शोभितः पीतवाससा ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥

महाविलं, क्ली, (महच्च तत् विलञ्चेति ।)

आकाशम् । इति जटाधरः ॥ बृहच्छिद्रञ्च ॥

महाविषः, पुं, (महत् अत्युत्कटं विषमस्य ।)

द्बिमुखसर्पः । यथा, --
“महाविषः कालसर्पो राजाहिर्द्बिमुखोरगः ।”
इति जटाधरः ॥
पृष्ठ ३/६७२
(महाविषविशिष्टे, त्रि । यथा, सुश्रुते कल्प-
स्थाने ८ अध्याये ।
“त्रिविधा वृश्चिकाः मन्दमध्यमहाविषाः ।”
(महद् विषम् । महाविषे, क्ली । यथा, सुश्रुते
कल्पस्थाने २ अध्याये ।
“महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥”)

महाविषुवं, क्ली, (विषु साम्यमस्त्यत्रेति । विषु +

“वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् ।”
५ । २ । १०९ । इत्यस्य वार्त्तिकात् वप्रत्ययः ।
महच्च तत् विषुवञ्चेति । अस्मिन् समये दिवा-
रात्र्योः समत्वात्तथात्वम् ।) मेषसंक्रान्तिः ।
यथा, --
“महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् ॥”
इति शब्दरत्नावली ॥
तस्मिन् मसूरनिम्बपत्रद्वयभक्षणम् । यथा, कृत्य-
चिन्तामणौ ।
“मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ ।
अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥”
तत्र शक्त्वादिदानं यथा, --
“मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥”
वारिपूर्णघटदानमन्त्रादि यथा, --
“एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।
अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥
वैशाखे यो घटं पूर्णं सभोज्यं वै द्बिजन्मने ।
ददाति सुरराजेन्द्र ! स याति परमां गतिम् ॥”
महार्णवे ।
“यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् ।
पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥”
तत्र छत्रपादुकादानं यथा,
“विप्रेभ्यः पादुकाच्छत्रं पितृभ्यो विषुवे शुभम् ।”
पितृभ्यः पितॄनुद्दिश्येत्यर्थः । इति तिथ्यादि-
तत्त्वम् ॥

महाविषुवचक्रं, क्ली, (महाविषुवस्य चक्रम् ।)

नक्षत्रघटितनराकारचक्रम् । यथा,
“मूर्द्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् ।
त्रितयं हस्तपादेषु महाविषुवभक्रमात् ॥
मस्तके भूपतेः सौख्यं वदने पटुता स्वभे ।
हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ॥
वामे करे महद्दुःखं सुखं पादे च दक्षिणे ।
भ्रमणं वामपादे च कथितं विषुवत्फलम् ॥”
इति ज्योतिषतत्त्वम् ॥

महाविष्णुः, पुं, (महांश्चासौविष्णुः सर्व्वव्यापकश्चेति ।)

महाविराट् । यथा । ‘यस्या जले कोटिकोटि-
ब्रह्माण्डानि महाविष्णुरोमकूपगतानि तस्या
विरजायाः परिखाभूताया उपरि महावैकुण्ठ-
लोकः । तस्योर्द्धभागे गोलोकः । तस्य नाथः
कृष्णो देवलीलः स परिवारेण वर्त्तते । इति
भागवतामृतकणिका । स च श्रीकृष्णस्य कला-
विशेषः । यथा, --
“विष्णुर्महान् स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥”
इति भागवतामृतपूर्ब्बखण्डः ॥

महावीचिः, पुं, (न विद्यते वीचिः सुखं यत्र ।

महानवीचिरत्र ।) नरकविशेषः । यथा,
मनुः ।
“नरकं कालसूत्रञ्च महानरकमेव च ।
सञ्जीवनं महावीचिं तपनं संप्रतापनम् ॥”
यातीति पूर्ब्बवचनस्थमनुवर्त्तते ।
“महावीचिर्यत्र महाकल्लोलेन तु नीयते ॥”
इति प्रायश्चित्तविवेकः ॥

महावीज्यं, क्ली, (बीजाय साधु इति यत् । महत्

बीज्यम् ।) विटपम् । तत्तु मुष्कवङ्क्षणयोरन्त-
रम् । इति हेमचन्द्रः ॥

महावीरः, पुं, (वीन् पक्षिण ईरयतीति । ईर +

कः । ततो महांश्चासौ वीरश्चेति ।) गरुडः ।
वीरयतीति । वीर + कः । महान् वीर इति
कर्म्मधारयः । सूरः । सिंहः । मखानलः ।
(स च मनुपुत्त्रविशेषः । यथा, श्रीभागवते । ५ । १२५ ।
“अग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो-
घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति ॥”)
वज्रः । श्वेततुरङ्गः । सञ्चानपक्षी । इति
मेदिनी । रे, २८९ ॥ अन्तिमजिनः । (अयमेव
सिद्धार्थस्य त्रिशलागर्भजातः पुत्त्रः । तद्बिवरणं
यथा, अरिष्टनेमिपुराणान्तर्गतजैनहरिवंशे ।
“सर्व्वार्थश्रीमतीजन्मा तस्मिन् सर्व्वार्थदर्शनः ।
सिद्धार्थोऽभवदर्काभो भूपः सिद्धार्थपौरुषः ॥
यत्र पाति धरित्रीयमभूदेकत्रदोषिणी ।
धर्म्मार्थिन्योऽपि यत्त्यक्तपरलोकभयाः प्रजाः ॥
कस्तस्य तान् गुणानुद्यान्नरस्तुलयितुं क्षमः ।
वर्द्धमानगुरुत्वं यैः प्रापितः स नराधिपः ॥
उच्चैः कुलाद्रिसम्भूता सहजस्नेहवाहिनी ।
महिषी श्रीसमुद्रस्य तस्यासीत् प्रियकारिणी ॥
चेतश्चेटकराजस्य यास्ताः सप्तशरीरिजाः ।
अतिस्नेहाकुलञ्चक्रुस्तास्वाद्या प्रियकारिणी ॥
कस्तां योजयितुं शक्तस्त्रिशलां गुणवर्णनैः ।
या स्वपुण्यैर्महावीरप्रसवाय नियोजिता ॥
सर्व्वतोऽथ नमन्तीषु सर्व्वासु सुरकोटिषु ।
प्रभावान्निपन्तीषु नभसो वमुवृष्टिषु ॥
वीरेऽवतरति त्रातुं धरित्रीमसुधारिणः ।
तीर्थेनाच्युतकल्पोच्चैः पुष्पोत्तरविमानतः ॥
सा तं षोडशसुस्वप्नदर्शनोत्सवपूर्व्वकम् ।
दध्रे गर्भेश्वरं गर्भे श्रीवीरं प्रियकारिणी ॥
पञ्चसप्ततिवर्षाष्टमासमासार्द्धशेषकः ।
चतुर्थस्तु तदा कालो दुःखमः सुखमोत्तरः ॥
आषाढशुक्लषष्ट्यान्तु गर्भावतरणेऽर्हतः ।
उत्तराफाल्गुनीनीडमुडुराजद्विजश्रितः ॥
दिक्कुमारीकृताभिष्यां द्योतिमूर्त्तिर्घनस्तनीम् ।
प्रच्छन्नो भासयद्गर्भस्तां रविः प्रावृषं यथा ॥
नवमासेव्वतीतेषु स जिनोऽष्टदिनेषु च ।
उत्तराफाल्गुनीष्विन्दौ वर्त्तमानेऽजनि
प्रभुः ॥
ततोऽन्त्यजिनमाहात्म्याल्लुठत्पीठकिरीटकाः ।
प्रणेमुरवधिज्ञाततद्वृत्तान्ताः सुरेश्वराः ॥
शङ्खभेरीहरिध्वानघण्टानिर्घोषघोषणम् ।
समाकर्ण्य सुरास्तूर्ण्णं घूर्णितार्णवराविणः ॥
सप्तानीकमहाभेदाः सस्त्रीकाः कृतभूषणाः ।
सेन्द्राश्चतुर्णिकायास्ते प्रापुः कुण्डपुरं पुरम् ॥
त्रिःपरीत्य पुरं देवाः पुरन्दरपुरःसराः ।
जिनमिन्दुमुखं देवं तद्गुरू च ववन्दिरे ॥
मातुः शिशुं विकृत्यान्यं सुप्तायाः सुरमायया ।
इन्द्राणी प्रणता नीत्वा जिनेन्द्रं हरये ददौ ॥
गृहीत्वा करपद्माभ्यां तमभ्यर्च्य चिरं हरिः ।
चक्रे नेत्रसहस्रोरुपुण्डरीकवनार्च्चितम् ॥
ततश्चन्द्रावदाताङ्गमिन्द्रस्तुङ्गमतङ्गजम् ।
शृङ्गौघमिव हेमाद्रेर्मुक्ताधो मदनिर्झरम् ॥
गण्डस्थलमदामोदभ्रमद्भ्रमरमण्डलम् ।
तमिवाधित्यकावस्थतमालवनमण्डितम् ॥
कर्ण्णान्तरततासक्तरक्तचामरसंहतिम् ।
तं यथाधित्यकाधीनरक्ताशोकमहावनम् ॥
सुवर्णरक्षया चार्व्या परिवेष्टितविग्रहम् ।
तमेव च यथोपात्तक्वणत्कनकमेखलम् ॥
अनेकरदसंवृत्तनृत्यसङ्गीतपोषितम् ।
तमिवोत्तुङ्गशृङ्गाग्रनृत्यद्गायत्सुराङ्गनम् ॥
सुवृत्तदीर्घसञ्चारिकररुद्धदिगन्तरम् ।
तमिवात्यायतिस्थूलस्फुरद्भोगभुजङ्गमम् ॥
ऐशानधारितस्फीतधवलातपवारणम् ।
तमिवोर्द्धस्थिताभ्यर्ण्णसम्पूर्णशशिमण्डलम् ॥
चामरेन्द्रभुजोत्क्षिप्तचलच्चामरहारिणम् ।
तं यथा चमरीक्षिप्तबालब्यजनवीजितम् ॥
ऐरावतं समारोप्य जिनेन्द्रं तस्य मण्डनम् ।
देवैः सह गतः प्राप मन्दरं स पुरन्दरः ॥
तं पाण्डुकवने रम्ये मन्दरस्य जिनं हरेः ।
पाण्डुकायां प्रसिद्धायां शिलायां सिंहविष्टरे ॥
संस्थाप्य विबुधानीतक्षीरसागरवारिभिः ।
शातकुम्भमयैः कुम्भैरभिषिच्य समं सुरैः ॥
वस्त्रालङ्कारमालाद्यैरलङ्कृत्य कृतस्तुतिः ।
आनीयमातुरुत्सङ्गे जिनं कृत्वा कृतोचितः ॥
सिद्धार्थप्रियकारिण्योः सममानन्ददायकम् ।
वर्द्धमानाख्यया स्तुत्वा स देवो वासवोऽगमत् ॥
मासान् पञ्चदशाजन्मद्युम्नधारा दिने दिने ।
याः पूर्ब्बमापतंस्ताभिस्तर्पितोऽर्थी जनोऽखिलः ॥
वर्द्धमानः सुरैः सेव्यो ववृधे स यथा यथा ।
पितृबन्धुत्रिलोकानामनुरागस्तथा तथा ॥
सुरासुरनराधीशमौलिमालार्चितक्रमः ।
त्रिंशद्बर्षप्रमाणोऽभूद्बीरो भोगैः परिष्कृतः ॥
शुद्धवृत्तं न भोगेषु चित्तं तस्य चिरं स्थिरम् ।
कुटिलेषु यथा सिंहनखरन्ध्रेषु मौक्तिकम् ॥
शान्तचित्तं कदाचित्तं स्वयं बुद्धमबोधयत् ।
नत्वा सारस्वतादित्यमुख्यालौकान्तिकाः सुराः ॥
सौधर्म्माद्यैः सुरैरेत्य कृतोऽभिषवपूजनः ।
आरुह्य शिविकां दिव्यामुह्यमानां सुरेश्वरैः ॥
उत्तराफाल्गुनीष्वेव वर्त्तमाने निशाकरे ।
कृष्णस्य मार्गशीर्षस्य दशम्यामगमद्बनम् ॥
अपनीय तनोः सर्व्वं वस्त्रमाल्यादिभूषणम् ।
पञ्चमुष्टिभिरुद्धूत्य मूर्द्धजानभवन् मुनिः ॥
केशकुन्तलसङ्घातं जिनस्य भ्रमरासितम् ।
पृष्ठ ३/६७३
प्रतिगृह्य सुराधीशो निदधौ दुग्धवारिधौ ॥
इन्द्रनीलचयेनेव क्षिप्तेनेन्द्रेण चात्यभात् ।
जिनेन्द्रकेशपुञ्जेन रञ्जितः क्षीरसागरः ॥
जिननिष्क्रमणं दृष्ट्वा तुष्टाः सर्व्वे नरामराः ।
कृत्वा तृतीयकल्याणपूजाञ्जग्मुर्यथायथम् ॥
मनःपर्य्ययपर्य्यन्तचतुर्ज्ञानमहेक्षणः ।
तपो द्बादशवर्षाणि चकार द्वादशात्मकम् ॥
विहरन्नथ नाथोऽसौ गुणग्रामपरिग्रहः ।
ऋजुकूलापगाकूले जृम्भिकग्राममीयिवान् ॥
तत्रातापनयोगस्थः शालाभ्यासशिलातले ।
वैशाखशुक्लपक्षस्य दशग्यां षष्ठमाश्रितः ॥
उत्तराफाल्गुनीं प्राप्ते शुक्लध्यानी निशाकरे ।
निहत्य घातिसङ्घातं केबलज्ञानमाप्तवान् ॥
केबलस्य प्रभावेण सहसा चलितासनाः ।
आगत्य महिमां चक्रुस्तस्य सर्व्वे सुरासुराः ॥
षट्षष्टिदिवसान् भूयो मौनेन विहरन् विभुः ।
आजगाम जगत्ख्यातं जिनो राजगृहं पुरम् ॥
आरुरोह गिरिं तत्र विपुलं विपुलश्रियम् ।
प्रबोधार्थं स लोकानां भानुमानुदयं यथा ॥
ततः प्रबुद्धवृत्तान्तैरापतद्भिरितस्ततः ।
जगत्सुरासुरैर्व्यापि जिनेन्द्रस्य गुणैरिव ॥
सौधर्म्माद्यैस्तदा देवैः परीतोऽभात् स भूधरः ।
नाभेयाधिष्ठितः पूर्ब्बं यथाष्टापदपर्व्वतः ॥
चतुराशामुखद्बारस्थितद्बादशगोपुरम् ।
कृतं रत्नमयं देवैः प्राकारबलयत्रयम् ॥
जाते योजनविस्तीर्णे शरणे समवादिके ।
विभागा द्वादशाभासन्नभःस्फाटिकभित्तयः ॥
प्रातिहार्य्यैर्युतोऽष्टाभिश्चतुस्त्रिंशन्महाद्भुतैः ।
तत्र देवैर्वृतोऽभासीज्जिनश्चन्द्र इव ग्रहैः ॥
इन्द्राग्निवायुभूत्याख्याः कौण्डिन्याख्याश्च
पण्डिताः ।
इन्द्रनोदनयायाताः समवस्थानमर्हतः ॥
प्रत्येकं सहिताः सर्व्वे शिष्याणां पञ्चभिः शतैः ।
त्यक्ताम्बरादिसम्बन्धाः संयमं प्रतिपेदिरे ॥
सुता चेटकराजस्य कुमारी चन्दना तदा ।
घौतैकाम्बरसंवीतायातार्याणां पुरःसरी ॥
श्रेणिकोऽपि च संप्राप्तः सेनया चतुरङ्गया ।
सिंहासनोपविष्टं तं प्रणनाम जिनेश्वरम् ॥
छत्त्रचामरभृङ्गारैः कलसध्वजदर्पणैः ।
व्यजनैः सुप्रतीकैश्च प्रसिद्धैरष्टमङ्गलैः ॥
स्रजाचक्रदुकूलाब्जगजसिंहवृषध्वजैः ।
गरुडध्वजसंयुक्तैरष्टभेदैर्म्महाध्वजैः ॥
मानस्तम्भैस्तथास्तूपैश्चतुर्भिश्च महावनैः ।
वाप्यम्भोरुहखण्डैश्च वल्लीवनलतागृहैः ॥
तैस्तैर्देवैः कृतैः सर्व्वैरन्यैश्चातिशयैस्तथा ।
यथा स्थानस्थितैर्ज्जैनी समवस्थानभूरभूत् ॥
अथेन्दोरिव शुक्राद्या निषण्णा गुर्व्वधिष्ठिताः ।
साधवोऽभाञ्जिनस्यान्ते जातरूपाच्छविग्रहाः ॥
ततः कल्पनिवासिन्यो देव्यः कल्पलताभुजः ।
मेरोरिव जिनस्यान्ते ता बभुर्भोगभूमयः ॥
ततोऽलङ्कृतनारीभिरार्य्यिकाततिराबभौ ।
स्फुरद्विद्युद्भिराश्लिष्टा शारदीव घनावली ॥
ज्योतिर्देवस्त्रियो तच्च रेजुरुज्ज्वलमूर्त्तयः ।
तास्तारा इव संक्रान्ताः समवस्थानसागरे ॥
कान्ताव्यन्तरदेवानां ततस्तत्र विरेजिरे ।
करकुट्मलहारिण्यः साक्षादिव वनश्रियः ॥
ततो नागकुमारादिदेव्यो नागफणोज्ज्वलाः ।
नागलोकसमायाता नागवल्य इवा बभुः ॥
ततोऽप्यग्निकुमाराद्याः देवाः पातालवासिनः ।
ज्वलितोज्ज्वलवेषास्ते दशभेदा बभासिरे ॥
ततः किन्नरगन्धर्व्वयक्षकिंपुरुषादयः ।
षोडशार्द्धविकल्पास्ते व्यन्तराश्च चकासिरे ॥
सप्रकीर्णकनक्षत्रसूर्य्याचन्द्रमसोर्ग्रहाः ।
पञ्चभेदास्तदानल्पवपुषो ज्योतिषो बभुः ॥
मौलिकुण्डलकेयूरप्रालम्बकटिसूत्रिणः ।
हारिणः कल्पवृक्षाभास्ततोऽभान् कल्प-
वासिनः ॥
सपुत्त्रानमितानेकविद्याधरपुरःसराः ।
न्यषीदन्मानुषा नानाभाषावेशरुचस्ततः ॥
ततो हि नकुलेभेन्द्रहर्यश्वमहिषादयः ।
जिनानुभावसम्भूतविश्वाद्याः स्वामिनो बभुः ॥
इति द्वादशभेदेषु परीतिं विनुतिं नतिम् ।
गणेषु प्रथमं कृत्वा स्थितेषु परितो जिनम् ॥
प्रत्यक्षीकृतविश्वार्थं कृतदोषत्रयक्षयम् ।
जिनेन्द्रं गौतमोऽपृच्छत्तीर्थार्थं पापनाशनम् ॥
स दिव्यध्वनिना विश्वसंशयछेदिना जिनः ।
दुन्दुभिध्वनिधीरेण योजनान्तरयायिना ॥
श्रावणस्यासिते पक्षे नक्षत्रेऽभिजिते प्रभुः ॥
प्रतिपद्यह्नि पूर्ब्बाह्णे शासनार्थमुदाहरत् ॥
आचाराङ्गस्य तत्त्वार्थं तथा सूत्रकृतस्य च ।
जगाद भगवान् वीरः संस्थानसमवाययोः ॥
व्याख्या प्रज्ञप्तिहृदयं ज्ञातृधर्म्मकथास्थितम् ।
श्रावकाध्यनस्यार्थमन्तकृद्दशगोचरम् ॥
अनुत्तरदशस्यार्थं प्रश्नव्याकरणस्य च ।
तथा विपाकसूत्रस्य पवित्रार्थं ततः परम् ॥
त्रिषष्टिः त्रिशती यत्र दृष्टीनामभिधीयते ।
दृष्टिवादस्य तस्यार्थं पञ्चभेदस्य सर्व्वदृक् ॥
जगाद जगतां नाथः प्रथमं परिकर्म्मणः ।
सूत्रस्याद्यानुयोगस्य तथा पूर्ब्बगतस्य च ॥
उत्पादपूर्ब्बपूर्ब्बस्य परमार्थं ततः परम् ।
अग्रायणीयपूर्ब्बार्थमग्रणीरभणद्विदाम् ॥
वीर्य्यप्रवादपूर्ब्बार्थमस्तिनास्तिप्रवादजम् ।
ज्ञानसत्यप्रवादार्थमात्मकर्म्मप्रवादयोः ॥
प्रत्याख्यानस्य विद्यानुवादकल्याणपूर्ब्बयोः ।
प्राणावायस्य पूर्ब्बस्य तत्त्वार्थं तदनन्तरम् ॥
क्रियाविशालपूर्ब्बस्य विशालार्थमशेषवित् ।
सल्लोकबिन्दुसारार्थं चूलिकार्थं सवस्तुकम् ॥
अङ्गप्रविष्टतत्त्वार्थं प्रतिपाद्य जिनेश्वरः ।
अङ्गवाह्यमवोचत्तत्प्रतिपाद्यार्थरूपतः ॥
सामायिकं यथार्थाख्यं स चतुर्विंशतिस्तवम् ।
वन्दनाञ्च ततः पूतां प्रतिक्रमणमेव च ॥
वैनयिकं विनेयेभ्यः कृतिकर्म्म ततोऽवदत् ।
दशवैकालिकां पृथ्वीमुत्तराध्ययनं तथा ॥
तं कल्पव्यवहारञ्च कल्पाकल्पं * * *
कल्पञ्च पुण्डरीकञ्च सुमहापुण्डरीककम् ॥
तथा निषद्यकां प्रायः प्रायश्चित्तोपवर्णनम् ।
जगत्त्रयगुरुः प्राह प्रतिपाद्यं हितोद्यतः ॥
मत्पादे केबलां तस्य स्वरूपं विषयं फलम् ।
अपरोक्षपरोक्षस्य ज्ञानस्योवाच संख्यया ॥
मार्गणास्थानभेदैश्च गुणस्थानविकल्पनैः ।
जीवस्थानप्रभेदैश्च जीवद्रव्यमुपादिशत् ॥
सत्संख्याद्यानुयोगैश्च सन्नामाद्यैः किमादिभिः
द्रव्यं स्वलक्षणैर्भिन्नं पुद्गलादित्रिलक्षणम् ॥
द्विविधं कर्म्मबन्धञ्च सहेतुं सुखदुःखदम् ।
मोक्षं मोक्षस्य हेतञ्च फलं चाष्टगुणात्मकम् ॥
बन्धमोक्षफलं यत्र भुज्यते तत्त्रिधाकृतम् ।
अन्तस्थितं जगौ लोकमलोकञ्च बहिःस्थितम् ॥
अथ सप्तर्षिसम्पन्नं श्रुतार्थं जिनभाषितम् ।
द्वादशाङ्गश्रुतं स्कन्धं सोपाङ्गं गौतमो व्यधात् ॥
त्रैलोक्यं संसदि स्पृष्टं जिंनार्कवचनांशुभिः ।
मुक्तमोहमहानिद्रं सुप्तोत्थितमिवाबभौ ॥
जिनभाषाधरस्यन्दमन्तरेण विजृम्भिता ।
तिर्य्यग्देवमनुष्याणां दृष्टिमोहमनीनशत् ॥
ततो जिनोक्ततत्त्वार्थमार्गश्रद्धा च लक्षणम् ।
शङ्काकाङ्क्षानिदानादिकलङ्कविगमोज्ज्वलम् ॥
सम्यग्दर्शनसद्रत्नं ज्ञानालङ्कारनायकम् ।
स्वकर्णहृदयेष्वेकं पिनद्धमखिलाङ्गिभिः ॥
कायेन्द्रियगुणस्थानजीवस्थानकुलायुषाम् ।
भेदाद्यो निर्व्विकल्पांश्च निरूप्यागमचक्षुषा ॥
क्रियासु स्थानपूर्ब्बासु वधादिपरिवर्ज्जनम् ।
षण्णां जीवनिकायानामहिंसाद्यं महव्रतम् ॥
चक्षुर्गोचरजीवौघान् परिहृत्य यतेर्यतः ।
इर्य्यासमितिराद्या सा व्रतशुद्धिकरी मता ॥
त्यक्त्वा कार्कश्यपारुष्यं यतेर्यत्नवतः सदा ।
भाषणं धर्म्मकार्य्येषु भाषासमितिरिष्यते ॥
पिण्डशुद्धिविधानेन शरीरस्थितये तु यत् ।
आहारग्रहणं सास्यादेषणा समितिर्यतेः ॥
निक्षेपणं यदा दानमीक्षित्वा योग्यवस्तुनः ।
समितिः सा तु विज्ञेया निक्षेपादाननामिका ॥
शरीरान्तर्म्मलत्यागं प्रगतासु सुभूमिषु ।
यत्तत्समितिरेषा तु प्रतिष्ठायनिका मता ॥
एवं समितयः पञ्च गोप्यास्तिस्रस्तु गुप्तयः ।
वाङ्मनःकाययोगानां शुद्धरूपां प्रवृत्तयः ॥
चित्तेन्द्रियनिरोधश्च षडावश्यकसत्क्रियाः ।
शौचस्नानैकभक्तञ्च स्थितभुक्तिरचेलता ॥
भूमिशय्याव्रतं दन्तमलमार्ज्जनवर्ज्जनम् ।
तपः संयमचारित्रं परीषहजयः परः ॥
अनुप्रेक्षाश्च धर्म्मश्च क्षमादिदशलक्षणः ।
ज्ञानदर्शनचारित्रतपोविनयसेवनम् ॥
इति श्रवणधर्म्मोऽयं कर्म्मनिर्म्मोक्षहेतुकः ।
सुरासुरनराध्यक्षं जिनोक्तस्तं तदा नराः ॥
संसारभीरवः शुद्धजातिरूपेकुलादयः ।
सर्व्वसङ्गविनिर्मुक्ताः शतशः प्रतिपेदिरे ॥
सग्यग्दर्शनसंशुद्धाः शुद्धैकवसनावृताः ।
सहस्रशो दधुः शुद्धा नार्य्यस्तत्रार्य्यिकाव्रतम् ॥
पञ्चधाणुव्रतं केचित् त्रिविधञ्च गुणव्रतम् ।
पृष्ठ ३/६७४
शिष्याव्रतं चतुर्भेदं तत्र स्त्रीपुरुषा दधुः ॥
तिर्य्यञ्चोऽपि यथाशक्ति नियमेष्ववतस्थिरे ।
देवाः सद्दर्शनज्ञानजिनपूजासु रेमिरे ॥
श्रेणिकेन तु यत् पूर्ब्बं बह्वारम्भपरग्रहात् ।
परस्थितिक्रमारब्धं नारकायुस्तमस्तमे ॥
तत्तु क्षायिकसम्पक्त्वात् स्वस्थितिं प्रथमक्षितौ ।
प्रापद् वर्षसहस्राणामशीतिं चतुरुत्तराम् ॥
त्रयस्त्रिंशत् समुद्राः क्व क्व चेयमपरास्थितिः ।
अहो क्षायिकसम्पक्त्वप्रभावोऽयमनुत्तरः ॥
अक्रूरो वारिषेणो यो यो मयः स तथापरे ।
कुमारा मातरश्चैषां पराश्चान्तःपुरस्त्रियः ॥
सम्पक्त्वं शीलसद्दानं प्रौषधं जिनपूजनम् ।
प्रतिपद्य विनेमुस्तं जिनेन्द्रं त्रिजगद्गुरुम् ॥
ततः प्रणम्य देवेन्द्रा जिनेन्द्रं स्तोत्रपूर्ब्बकम् ।
यथायथं ययुर्युक्ता निजवर्गैर्निजास्पदम् ॥
श्रेणिकोऽपि गुणश्रेणीमुच्चकैरभिरूढवान् ।
अभिष्टुत्य जिनं नत्वा प्रविष्टसुष्टधीपुरम् ॥
निःसरद्भिर्व्विशद्भिश्च सभा जैनी जनोर्म्मिभिः ।
चुक्षोभ क्षुभितैर्वेला नदीपूरैरिवाम्बुधिः ॥
आकीर्णमेव तैर्न्नित्यं सभामण्डलमर्हतः ।
हीयते वा कदा स्फीतिं भानुभिर्भानुमण्डलम् ॥
नोदयास्तमितं तत्र ज्ञायते ब्रध्नमण्डलम् ।
धर्म्मचक्रप्रभाचक्रप्रभामण्डलरोचिषाम् ॥
तत्र तीर्थकरः कुर्व्वन् प्रत्यहं धर्म्मदेशनम् ।
सेवितः श्रेणिकेनास्य न हि तृप्तिस्त्रिवर्गजा ॥
गौतमञ्च समासाद्य तदा तदुपदेशतः ।
सर्व्वानुयोगमार्गेषु प्रवीणः स नृपोऽभवत् ॥
ततो जिनगृहैस्तुङ्गैराज्ञा राजगृहं पुरम् ।
कृतमन्तर्बहिव्याप्तमजस्रं महिमोत्सवैः ॥
कृतः सामन्तसंघातैर्महामन्त्रिपुरोहितैः ।
प्रजाभिर्जिनगेहाढ्यो मगधो विषयोऽखिलः ॥
पुरेषु ग्रामघोषेषु पर्व्वताग्रे ह्यदृश्यत ।
नदीतटवनान्तेषु तदा गृहजिनावली ॥
तिष्ठन्नेव महोदये विघटयन्मोहान्धकारोन्नतिं
प्राग्देशप्रजया विधाय मगधादेशं प्रबुद्धप्रजम् ।
तद्धृत्या पृथुदेशमध्यमगमन्मध्यन्दिनश्रीधरं
मिथ्याज्ञानहिमान्तकृज्जिनरविर्बोधप्रभा-
मण्डलः ॥”)
कोकिलः । इति हेमचन्द्रः ॥ धनुर्धरः । इति
शब्दरत्नावली ॥ एकवीरवृक्षः । इति राज-
निर्घण्टः ॥ लक्ष्मणः । यथा, --
“लक्ष्मणञ्च महावीरं पतितं रणभूतले ॥”
अङ्गदादिः । यथा, --
“अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥”
इति तन्त्रसारे हनूमत्कल्पः ॥
हनूमान् स्वयमपि महावीरत्वेन प्रसिद्धः ॥

महावीरा, स्त्री, (महावीर + टाप् ।) क्षीर-

काकोली । इति रत्नमाला ॥

महावीर्य्यः, पुं, (महत् विश्वसृष्टये विपुलं वीर्य्य-

मस्य ।) ब्रह्मा । इति शब्दरत्नावली ॥ (महत्
वीर्य्यं तपोबलमस्य ।) बुद्धभेदः । इति त्रिकाण्ड-
शेयः ॥ वाराहीकन्दः । इति राजनिर्घण्टः ॥
(वितथस्य पुत्त्रभेदः । यथा, भागवते । ९ ।
२१ । १ ।
“वितथस्य सुतान्मन्योर्बृहत् क्षत्त्रो जयस्ततः ।
महावीर्य्यो नरो गर्गः संकृतिस्तु नरात्मजः ॥”)
अतिशयबलयुक्ते, त्रि ॥ (यथा, महामारते ।
५ । १७६ । ४६ ।
“ततः किल महावीर्य्यो भीष्मः शान्तनवो
नृपान् ।
अधिक्षिप्य महातेजास्त्रिस्रः कन्या जहार
ताः ॥”
विराजः पुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ३९ ।
“नरो गयस्य तनयस्तत्पुत्त्रोऽभूद्विराट् ततः ।
तस्य पुत्त्रो महावीर्य्यो धीमांस्तस्मादजायत ॥”)

महावीर्य्या, स्त्री, (महत् वीर्य्यमस्याः टाप् ।) संज्ञा ।

सा च सूर्य्यपत्नी । इति त्रिकाण्डशेषः ॥ वन-
कार्पासी । इति शब्दरत्नावली ॥ महाशता-
वरी । इति राजनिर्घण्टः ॥

महावृहती, स्त्री, (महती वृहती ।) वार्त्ताकी ।

इति त्रिकाण्डशेषः ॥

महावृक्षः, पुं, (महान् वृक्षः ।) स्नुहीवृक्षः ।

इति हलायुधः ॥ (यथास्य पर्य्यायः ।
“वज्रवृक्षो महावृक्षः स्नुही स्नुच्च सुधा गुडा ॥”
यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये ।
“महावृक्षपयःपीतैर्यवागूस्तण्डुलैः कृता ।
पीता विरोचयत्याशु गुडेनोत्कारिका कृता ॥”)
बृहद्वृक्षश्च ॥

महावेगः, पुं, (महान् अमोघो दुर्व्वारो वा वेगो

यस्य ।) शिवः । इति महाभारते तस्य सहस्रनाम-
स्तोत्रम् ॥ (महान् वेगः ।) अतिजवः । (महान्
वेगोऽस्य ।) तद्युक्ते, त्रि ॥ (यथा, महाभारते ।
१ । १५५ । १२ ।
“विकर्षन्तौ महावेगौ गर्ज्जमानौ परस्परम् ।
पश्य त्वं युधि विक्रान्तावेतौ च नरराक्षसौ ॥”)

महाव्याधिः, पुं, (महांश्चासौ व्याधिश्चेति ।)

महारोगः । स तु कुष्ठादिः । यथा, --
“सर्व्वव्याधिविनिर्मुक्तो महाव्याधिर्विशेषतः ।
पठनात् संप्रणश्येत्तु जीवन्मुक्तो भवेन्नरः ॥”
इति ब्रह्मयामले गायत्त्रीकवचम् ॥

महाव्याहृतिः, स्त्री, (महती चासौ व्याहृतिश्चेति ।)

प्रणवस्वाहायुक्तव्याहृतित्रयम् । यथा । ॐ भूः
स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ।
इति भवदेवभट्टः ॥ (यथा, मनौ । २ । ८१ ।
“ओङ्कारपूर्ब्बिकास्तिस्रः महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥”)

महाव्रणं, क्ली, (महच्च तद्व्रणञ्चेति ।) दुष्टव्रणम् ।

नाली घा इति भाषा । यथा, --
“कुर्य्यात् सप्तदशावृत्तं तथाष्टादशकं प्रिये ! ।
महाव्रणविमोक्षाय विंशावृतं पठेन्नरः ॥”
इति तिथ्यादितत्त्वधृतवाराहीतन्त्रवचनम् ॥

महाव्रतं, क्ली, (महच्च तद्व्रतञ्चेति ।) द्बादश-

वार्षिकव्रतम् । यथा । ‘तेन वधकालादूर्द्ध्वं
विंशत्यधिकशतस्य यावदवशिष्टं तावत्परि-
माणमहाव्रतानुरूपा धेनवो दातव्याः ।’ इति
प्रायश्चित्तविवेके भवदेवभट्टमतम् ॥ शरत्-
कालीनदुर्गापूजनम् । यथा, --
“महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ।
कर्त्तव्यं मुरराजेन्द्र ! देवीभक्तिसमन्वितैः ॥”
इति तिथ्यादितत्त्वधृतदेवीपुराणवचनम् ॥
अरुणोदयकालीनमाघस्नानम् । यथा, --
“वासुदेवं हरिं कृष्णं श्रीधरञ्च स्मरेत्ततः ॥
दिवाकर ! जगन्नाथ ! प्रभाकर ! नमोऽस्तु ते ।
परिपूर्णं कुरुष्वेद माघस्नानं महाव्रतम् ॥”
इति मलमासतत्त्वधृतपद्मपुराणवचनम् ॥
(महाव्रतधारिणि, त्रि । यथा, महाभारते ।
१३ । ५४ । २१ ।
“ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम् ।
कौश्यां वृष्यां समासीनं जपमानं महा-
व्रतम् ॥”)

महाव्रती, [न्] पुं, (महाव्रतं योगनियमानुष्ठाना-

दिकमस्यास्तीति । व्रत + इनिः ।) शिवः । इति
हेमचन्द्रः । २ । १११ ॥ उरस्कटः । इति त्रिकाण्ड-
शेषः ॥ महाव्रतयुक्ते, त्रि ॥ (यथा, कथासरित-
सागरे । ३७ । ५९ ।
“एतच्छ्रुत्वापि सावज्ञास्ते महव्रतिनस्तदा ।
ऊचुर्निश्चयदत्तं ते चत्वारः सहयायिनः ॥”)

महाशक्तिः, पुं, (महत्यः शक्तयः मातृगणादयो

महद्वा सामर्थ्यञ्च यस्य ।) कार्त्तिकेयः । इति
शब्दमाला ॥ (महती शक्तिः ।) अतिशयपरा-
क्रमः । महतीशक्तिरस्य तद्युक्ते, त्रि ॥

महाशङ्खः, पुं, (महान् शङ्ख इव बृहच्छुभ्रत्वात् ।)

मानुषास्थि । संख्याविशेषः । स च दश-
निखर्व्वः । ललाटम् । इति मेदिनी । खे, १६ ॥
(महान् महार्हः शङ्खः ।) निधिविशेषः । इति
विश्वः ॥ कर्णनेत्रयोर्म्मध्यगतास्थि । यथा, --
“कर्णनेत्रान्तरालास्थि महाशङ्खः प्रकीर्त्तितः ।”
तस्य मालया जपविधिर्यथा, --
“महाशङ्खमयी माला नीलसारस्वते विधौ ।
नृललाटास्थिखण्डेन रचिता जपमालिका ॥
महाशङ्खमयी माला ताराविद्याजपे प्रिये ! ।”
इति तन्त्रसारधृतमुण्डमालातन्त्रम् ॥
(महान् शङ्खः ।) वृहच्छङ्खः । यथा, --
“पौण्ड्रं दध्नौ महाशङ्खं भीमकर्म्मा वृकोदरः ।”
इति श्रीभगवद्गीतायाम् १ अध्यायः ॥
(सर्पभेदः । यथा, भागवते । ५ । २४ । ३१ ।
“ततोऽधस्तात् पाताले नागलोकपतयोवासुकि-
प्रसुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत-
राष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महा-
भोगिनो महामर्षा निवसन्ति ।”)

महाशठः, पुं, राजधत्तूरः । इति राजनिर्घण्टः ॥

(महांश्चासौ शठश्चेति ।) अतिधूर्त्ते, त्रि ॥

महाशणपुष्पिका, स्त्री, (अल्पं पुष्पं इति अल्पार्थे

ङीष् । ततः स्यार्थे कन् स्त्रियां टाप् पूर्ब्बस्य
ह्रस्वश्च । शणस्येव पुष्पिका यस्याः । महती-
चासौ शणपुष्पिका चेति ।) बृहच्छणपुष्पी ।
पृष्ठ ३/६७५
तत्पर्य्यायः । वृत्तपर्णी २ श्वेतपुष्पा ३ महा-
सिता ४ महाश्वेतघण्टी ५ महाश्वेता ६ ।
अस्या गुणाः । कषायत्वम् । उष्णत्वम् ।
शस्तत्वम् । रसनियामकत्वम् । कुतूहलमोहन-
स्तम्भनादिषु प्रोक्तत्वञ्च । इति राजनिर्घण्टः ॥

महाशता, स्त्री, (महत् शतञ्च मूलानि यस्याः ।

टाप् ।) महाशतावरी । इति राजनिर्घण्टः ॥

महाशतावरी, स्त्री, (महती चासौ शतावरी

चेति ।) बृहच्छतावरी । तत्पर्य्यायः । शत-
वीर्य्या २ सहस्रवीर्य्या ३ सुरसा ४ महापुरुष-
दन्तिका ५ वीरा ६ तुङ्गिनी ७ बहुपुत्त्रिका ८
ऊर्द्ध्वकण्टी ९ महावीर्य्या १० फणिजिह्वा ११
महाशता १२ सुवीर्य्या १३ । अस्या गुणाः ।
वश्यत्वम् । मधुरत्वम् । पित्तनाशित्वम् ।
हिमत्वम् । मेहकफवातघ्नत्वम् । तिक्तत्वम् ।
श्रेष्ठत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥
तत्पर्य्यायगुणाः ।
“महाशतावरी त्वन्या शतमूल्यूर्द्ध्वकण्टिका ।
सहस्रवीर्य्याहेरुश्च ऋष्यप्रोक्ता महोदरी ॥
महाशतावरी मेध्या हृद्या वृष्वा रसायनी ।
शतवीर्य्या निहन्त्यर्शोग्रहणीनयनामयान् ॥”
इति भावप्रकाशः ॥

महाशयः, त्रि, महान् आशयोऽभिप्रायो मनो

वा यस्य सः । इति भरतः ॥ तत्पर्य्यायः ।
महेच्छः २ । इत्यमरः । ३ । १ । ३ ॥ महानु-
भावः ३ । इति शब्दरत्नावली ॥ उदात्तः ४
महामनाः ५ । इति जटाधरः ॥ उद्भटः ६
उदारः ७ उदीर्णः ८ महात्मा ९ । इति हेम-
चन्द्रः । ३ । १३१ ॥ (यथा, कथासरित्सागरे ।
७२ । १२८ ।
“दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥”
महान् आशयो जलानामाधारः ।) समुद्रे,
पुं । इति शब्दरत्नावली ॥

महाशय्या, स्त्री, (महती चासौ शय्या चेति ।)

राजशय्या । इति हेमचन्द्रः । ३ । ३८० ॥ बृह-
च्छय्या च ॥

महाशरः, पुं, (महांश्चासौ शरश्चेति ।) स्थूल

शरः । इति राजनिर्घण्टः ॥

महाशल्कः, पुं, (महान् बृहन् शल्को यस्य ।)

चिङ्गटमत्स्यः । इति हारावली । १८७ ॥ (यथा,
मनुः । ३ । २७२ ।
“कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥”
(महान् शल्कः ।) बृहच्छल्कश्च । तद्युक्ते, त्रि ॥

महाशाकं, क्ली, (महच्च तत् शाकञ्च ।) बृह-

च्छाकविशेषः । इति केचित् ॥

महाशाखा, स्त्री, (महती शाखा यस्याः ।)

नागबला । इति राजनिर्घण्टः ॥

महाशालिः, पुं, (महांश्चासौ शालिश्च ।)

स्थूलशालिः । इति राजनिर्घण्टः ॥ तत्पर्य्यायः ।
सुगन्धिकः २ । इति हेमचन्द्रः । ४ । २४५ ॥
(स च धान्यविशेषः । तद्यथा, --
“रक्तशालिः सकलमः पाण्डुकः शकुनाहृतः ।
सुगन्धकः कर्द्दमको महाशालिश्च दूषकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

महाशिवः, पुं, (महांश्चासौ शिवकल्याणरूपी च ।)

महादेवः । यथा, --
“रत्नसिंहासनस्थञ्च महाभूषणभूषितम् ।
महाशिवं शिवकरं शिवबीजं शिवाश्रयम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे २९ अध्यायः ॥

महाशीता, स्त्री, (महत्यधिका शीता शीतवीर्य्या ।)

शतमूली । इति शब्दचन्द्रिका ॥ (महत् शीतं
शीतगुणोऽस्य ।) अतिशीतवीर्य्ययुक्ते, त्रि ॥

महाशुक्तिः, स्त्री, (महती शुक्तिः । मुक्ताकरत्वे-

नास्या महत्वम् ।) मुक्तामाता । सा च
शुक्तिः । इति राजनिर्घण्टः ॥ (महती स्थला-
शुक्तिः ।) बृहच्छुक्तिश्च ॥

महाशुक्ला, स्त्री, (महती चासौ शुक्ला शुक्लवर्णा

च ।) सरस्वती । इति भूरिप्रयोगः ॥ अति-
शुक्लवर्णयुक्ते, त्रि ॥

महाशुभ्रं, क्ली, (महान् शुभ्रो वर्णोऽस्य ।) रज-

तम् । इति राजनिर्घण्टः ॥ अतिशुभ्रवर्णयुक्ते,
त्रि ॥

महाशूद्रः, पुं, (महान् शूद्रः ।) आभीरः । इति

महाशूद्रीशब्ददर्शनात् ॥

महाशूद्री, स्त्री, (महाशूद्रस्य भार्य्या इति ।

“अजाद्यतष्टाप् ।” ४ । १ । ४ । इत्यत्र ।
“महत्पूर्ब्बस्य प्रतिषेधः ।” इति काशिकोक्त्या
पुंयोगलक्षणा ङीष् ।) आभीरी । इत्यमरः ।
२ । ६ । १३ ॥

महाशौण्डी, स्त्री, (महती चासौ शौण्डी च ।)

श्वेतकिणिहीवृक्षः । इति राजनिर्घण्टः ॥

महाश्मशानं, क्ली, (महच्च तत् श्मशानञ्च । अत्र

हि जीवानां मरणे समूलकर्म्मनाशतः पुन-
र्जन्ममरणाद्यभावादस्यातथात्वम् ।) काशी ।
इति काशीखण्डम् ॥

महाश्यामा, स्त्री, (महती चासौ श्यामा

च ।) श्यामालता । इति रत्नमाला ॥ शिंशपा-
वृक्षः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते
सूत्रस्थाने ३८ अध्याये । “श्यामामहाश्यामातृ-
वद्दन्तीत्यादि ॥” वृक्षपादिवृक्षः । तत्पर्य्यायो
यथा, --
“कण्टकाख्या महाश्यामा वृक्षपादीति
वक्ष्यते ॥”
इति गारुडे २०८ अध्याये ॥)

महाश्रमणः, पुं, (महान् श्रेष्ठश्चासौ श्रमणो बौद्ध-

भिक्षुश्चेति ।) बुद्धविशेषः । स च शाक्यमुनिः ।
तत्पर्य्यायः । सर्व्वार्थसिद्धः २ कुलिशासनः ३
गोपेशः ४ । इति हेमचन्द्रः ॥

महाश्रावणिका, स्त्री, (महती चासौ श्रावणिका

च ।) क्षुपविशेषः । वड थुलकुडी इति
भाषा । तत्पर्य्यायः । महामुण्डी २ लोचनी ३
कदम्बपुष्पी ४ विकचा ५ क्रोडा ६ चोडा ७
पलङ्कषा ८ नदीकदम्बः ९ मुण्डाख्या १० महा-
मुण्डनिका ११ माता १२ स्थविरा १३ लोतनी
१४ भूकदम्बः १५ अलम्बुषा १६ । अस्य गुणाः ।
उष्णत्वम् । तिक्तत्वम् । ईषन्मधुरत्वम् । वायु-
शमनत्वम् । स्वरकृत्त्वम् । रेचनत्वम् । हेम-
कृत्त्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥
तत्पर्य्यायगुणाः ।
“मुण्डी भिक्षुरपि प्रोक्तः श्रावणी च तपोधना ।
श्रवणाह्वा मुण्डितिका तथा श्रवणशीर्षिका ॥
महाश्रावणिकान्या तु सा स्मृता भूकदम्बिका ।
कदम्बपुष्पिका च स्यादव्यथा तु तपस्विनी ॥
मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः ।
मेध्या गण्डापचीकृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत् ॥
श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्त्तिहृत् ।
महामुण्डी च मुण्डी च गुणैरुक्ता महर्षिभिः ॥”
इति भावप्रकाशः ॥

महाश्रीः, स्त्री, (महती श्रीरिव ।) बुद्धशक्ति-

विशेषः । तत्पर्य्यायः । तारा २ ओङ्कारा ३
स्वाहा ४ श्रीः ५ मनोरमा ६ तारिणी ७
जया ८ अनन्ता ९ शिवा १० लोकेश्वरात्मजा ११
खदूरवासिनी १२ भद्रा १३ वैश्या १४ नील-
सरस्वती १५ शङ्खिनी १६ महातारा १७ वसु-
धारा १८ धनन्ददा १९ त्रिलोचना २० लोचना
२१ । इति त्रिकाण्डशेषः ॥

महाश्वेता, स्त्री, (महत्यतिशया श्वेता । महान्

श्वेतो वर्णो यस्या वा ।) सरस्वती । इति
त्रिकाण्डशेषः ॥ कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः ।
क्षीरविदारी २ ऋक्षगन्धिका ३ । इत्यमरः ।
२ । ४ । ११० ॥ क्षीरविदारिका ४ क्षीरवल्ली ५
क्षीरकन्दा ६ । इति जटाधरः ॥ क्षीरिका ७ ।
इति शब्दरत्नावली ॥ श्वेतापराजिता । इति
रत्नमाला ॥ (पर्य्यायोऽस्या यथा, --
“गिरिकर्णी महाश्वेता स्थूलपुष्पा सिता
क्वचित् ॥”
इति वैद्यकरत्नमालायाम् ॥)
सिता । तत्पर्य्यायः । मधुजा २ । इति त्रिकाण्ड-
शेषः ॥ श्वेतकिणिहीवृक्षः । इति राजनिर्घण्टः ॥
(पर्य्यायोऽस्या यथा, --
“कटभी किणिही श्वेता महाश्वेता च
रोहिणी ॥”)
दुर्गा । यथा, देवीपुराणे ४५ अध्याये ।
“श्वेतं शुक्लं शिवस्थानं यस्माच्चेह समागता ।
महाभावसमुत्पन्ना महाश्वेता ततः स्मृता ॥”
(किम्पुरुषवर्षस्थितहंसनामकगन्धर्व्वराजस्य
गौरीगर्भोत्पन्ना कन्या । तत्कथा कादम्बर्य्यां
विस्तरशो द्रष्टव्या ॥)

महाषष्ठी, स्त्री, (महती चासौ षष्ठी च ।

महामङ्गलदात्री षष्ठी वा ।) दुर्गा । यथा,
ॐ दुं दुं दुं दुर्गे दुर्गं नाशय नाशय हन हन
दह दह मथ मथ वधवधसर्व्वहिंस्रान् महा-
षष्ठीरूपेण बालकं रक्ष रक्ष चिरजीविनं कुरु
कुरु श्रीं ह्रीं हूं फट् स्वाहा ।” इति योगिनी-
तन्त्रे महाषष्ठीकवचम् ॥