सामग्री पर जाएँ

शब्दकल्पद्रुमः/मधुः

विकिस्रोतः तः
पृष्ठ ३/५९७

मधुः, पुं, (मन् + उ । नस्य धः ।) मधुद्रुमः ।

मौलगाछ इति भाषा ॥ वसन्तर्त्तुः । (यथा,
कुमारसम्भवे । ३ । २७ ।
“निवेशयामास मधुर्द्विरेफान्
नामाक्षराणीव मनोभवस्य ॥”)
दैत्यभेदः । (यथा, देवीभागवते । १ । ९ । १५ ।
“मधुश्च कुपितस्तत्र हरिणा सह संयुगे ॥”)
इमं हत्वा विष्णुर्मधुसूदनोऽभूत् ॥ चैत्रमासः ।
इति मेदिनी । धे, १२ ॥ (यथा, रघुः । ११ । ७ ।
“रेजतुर्गतिवशात् प्रवर्त्तिनौ
भास्करस्य मधुमाधवाविव ॥”)
अशोकवृक्षः । इति हेमचन्द्रः । २ । १५३ ॥ यष्टि-
मधु । इति शब्दरत्नावली ॥ असुरविशेषः ।
(यथा, भागवते । ९ । ११ । १४ ।
“शत्रुघ्नश्च मधोः पुत्त्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥”)
स च शत्रुघ्नेन हतः । यस्य नाम्ना मथुरा मधु-
पुरीति ख्याता ॥

मधुः, स्त्री, (मन् + उ । नस्य धः ।) जीवन्तीवृक्षः ।

इत्यमरः । २ । ४ । १४२ ॥

मधुकं, क्ली, (मध्विवेति । मधु + “संज्ञायां

च ।” ५ । ३ । ९७ । इति कन् । यद्वा, मधु
मधुरं कायतीति । कै + कः ।) यष्टिमधुका ।
इत्यमरः । २ । ४ । १०९ ॥ (यथास्य पर्य्यायः ।
“यष्ट्याह्वं मधुकं यष्टि क्लीतकं मधुयष्टिका ।
यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥”
इति वैद्यकरत्नमालायाम् ॥)
त्रपु । इति हेमचन्द्रः ॥

मधुकः, पुं, (मधु मधुरं कायतीति । कै + कः ।)

वन्दिभेदः । यष्ट्याह्वः । विहगान्तरः । इति विश्वः ॥

मधुकण्ठः, पुं, (मधुर्मधुरः कण्ठः कण्ठस्वरो

यस्य ।) क्लोकिलः । इति त्रिकाण्डशेषः ॥

मधुकरः, पुं, (करोति सञ्चिनोतीति । कृ + अच् ।

मधुनः करः ।) भ्रमरः । इत्यमरः । २ । ५ ।
२९ ॥ (यथा, श्रीमद्भागवते । ४ । १८ । २ ।
“सर्व्वतः सारमादत्ते यथा मधुकरो बुधः ॥”)
कामी । इति धरणिः ॥ भृङ्गराजवृक्षः । इति
शब्दमाला ॥

मधुकर्कटिका, स्त्री, (मधुर्मधुरा कर्क्कटिकेव ।)

मधुरजम्बीरविशेषः । मौकट्टी इति भाषा ।
तत्पर्य्यायः । कुशा २ । इति शब्दचन्द्रिका ॥
(पर्य्यायोऽस्या गुणाश्च यथा, --
“बीजपुरोऽपरः प्रोक्तो मधुरो मधुकर्क्कटी ।
मधुकर्कटिका स्वाद्वी रोचनी शीतला गुरुः ।
रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मधुखर्ज्जूरिका । इति राजनिर्घण्टः ॥

मधुकर्कटी, स्त्री, (मधुर्मधुरा कर्क्कटी) मधुबीज-

पुरः । इति राजनिर्घण्टः ॥

मधुका, स्त्री, (मधुक + टाप् ।) मधुयष्टिका ।

इत्यमरः । २ । ४ । १०९ ॥ मधुपर्णीवृक्षः । इति
मेदिनी । के, १३५ ॥ कृष्णवर्णकङ्गुनी । इति
हेमचन्द्रः । ४ । २४३ ॥

मधुकुक्कुटिका, स्त्री, (मधुः मधुरा कुक्कुटीव ।

मधुकुक्कुट + स्त्रियां ङीष् ।
स्वार्थे कन् । स्त्रियां टाप् । पूर्ब्बस्य ह्रस्वत्वञ्च ।)
जम्बीरविशेषः । मखुर इति महूर इति च
भाषा । तत्पर्य्यायः । मातुलुङ्गा २ सुगन्धा ३
गिरिजा ४ पूतिपुष्पिका ५ अत्यम्ला ६ देव-
दूती ७ । इति रत्नमाला ॥ अस्या गुणाः ।
शीतत्वम् । स्वादुत्वम् । गुरुत्वम् । स्निग्धत्वम् ।
वातपित्तविनाशित्वञ्च । इति राजवल्लभः ॥

मधुकुक्कुटी, स्त्री, (मधुः मधुरा कुक्कुटीव ।

मधुकुक्कुट + स्त्रियां ङीष् ।
स्वार्थे कन् । स्त्रियां टाप् । पूर्ब्बस्य ह्रस्वत्वञ्च ।)
जम्बीरविशेषः । मखुर इति महूर इति च
भाषा । तत्पर्य्यायः । मातुलुङ्गा २ सुगन्धा ३
गिरिजा ४ पूतिपुष्पिका ५ अत्यम्ला ६ देव-
दूती ७ । इति रत्नमाला ॥ अस्या गुणाः ।
शीतत्वम् । स्वादुत्वम् । गुरुत्वम् । स्निग्धत्वम् ।
वातपित्तविनाशित्वञ्च । इति राजवल्लभः ॥

मधुकृत्, पुं, (मधु करोति सञ्चिनोतीति । कृ +

क्विप् तुगागमश्च ।) भ्रमरः । इति हेमचन्द्रः ॥
(यथा, छान्दोग्योपनिषदि । ३ । १ । २ ।
“अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य
दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्व्वेद
एव पुष्पं ता अमृता आपः ॥”)

मधुकेशटः, पुं, (मधुनः पुष्परसस्य के शिरसि

अग्रभागे शटति गच्छतीति । शट् + कर्त्तरि
अच् ।) भ्रमरः । इति त्रिकाण्डशेषः ॥

मधुकैटभौ, पुं, (मधुश्च कैटभश्च तौ । इतरेतर-

द्वन्द्वः ।) असुरविशेषौ । तयोरुत्पत्त्यादि यथा,
“दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे ।
तस्य श्रवणविड्जातावसुरौ मधुकैटभौ ॥
कूर्म्मपृष्ठगता पृथ्वी विलीनेवाभवज्जलैः ।
तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् ॥
तां वै दृढतरां कर्त्तुं पृथ्वीं प्रति तदेश्वरी ।
उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा ॥
इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः ।
सृष्टिकाले जनान् वोढुं कथं शक्ता भविष्यति ॥
इति सञ्चिन्त्य सा माता जगतां सृष्टिकारिणी ।
उपगम्य तदा विष्णुमाससाद सुनिद्रितम् ॥
तन्तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् ।
वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् ॥
निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् ।
चूर्णीचकार सा देबी योगनिद्रा जगत्प्रसूः ॥
तत्कर्णमलचूर्णेभ्यो मधुनामासुरोऽभवत् ।
ततो दक्षिणहस्तस्य कनिष्ठाग्रन्तु दक्षिणे ॥
कर्णे न्यवेशवद्देवी तस्मादप्युद्धृतं मलम् ।
तच्चापि क्षोदयामास करशाखाग्रजेन तु ॥
ततोऽभूत् कैटभो नाम बलवानसुरो महान् ॥
उत्पन्नः स च पानार्थं यस्मान् मृगितवान्मधु ।
अतस्तस्य महादेवी मधुनामाकरोत्तदा ॥
उत्पन्नः कीटवद्भाति महामायाकरे यतः ।
अतस्तं कैटभाख्यन्तु स्वयं देवी तदाकरोत् ॥
ताबुवाच महामाया युध्यतां हरिणा सह ।
युवानौ श्रद्धयैवात्र भवन्तौ निहनिष्यति ॥
यदा युवां प्रभाषेथे आवां विष्णो ! वधान तौ ।
तदैवायं युवां हन्ता नान्यथा हरिरप्यथ ॥
महामायामोहितौ तौ विष्णुगात्रे तदा मुहुः ।
भ्रममाणौ ददृशतुर्नाभिपद्मस्थितं विधिम् ॥
तमूचतुस्तौ धातारं हनिष्यावोऽद्य नामितम्
त्वं जागरय वैकुण्ठं यदि जीवितुमिच्छसि ॥
ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् ।
प्रसादयामास तदा स्तुतिभिर्नतिभिर्भिया ॥
चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना ।
प्रसन्नाभवदत्यर्थमुवाच च तथा विधिम् ॥
किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव ।
तद्वद त्वं महाभाग ! करिष्याम्यहमद्य ते ॥
ततस्तेन प्तहामाया प्रोक्ता धात्रा महात्मना ।
प्रबोधय जगन्नाथं यावन्नो मां हनिष्यतः ।
संमोहयैतौ दुर्द्धर्षावसुरौ मधुकैटभौ ॥
इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना ।
बोधयामास वैकुण्ठं मोहयामास तौ तदा ॥
ततः प्रबुद्धः कृष्णः स ददर्श भयशालिनम् ।
ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ ॥
ततस्ताभ्यां स युयुधे ह्यसुराभ्यां जनार्द्दनः ।
नाशकद् वाधितुं वीरावसुरौ मधुकैटभौ ॥
अनन्तोऽपि फणाग्रेण तान्नो धर्त्तुं क्षमोऽभवत् ।
युध्यमानान्महावीरान् वैकुण्ठमधुकैटभान् ॥
अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् ।
अर्द्धयोजनविस्तीर्णां सार्द्धयोजनमायताम् ॥
तस्यां शिलायां वैकुण्ठो युयुधे नृपसत्तम ! ।
सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम् ॥
तस्यान्तु शक्त्यां मग्नायां तोयेषु युयुधे हरिः ।
पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम् ॥
यदा नैवाशकद्धन्तुं तौ विष्णुर्जगतां पतिः ।
परां चिन्तां तदावाप विधातापि भयात्ततः ॥
ततस्तावेव तं विष्णुमूचतुर्ब्बलदर्पितौ ।
पुनः पुनस्तौ गर्जन्तौ महामायाविमोहितौ ॥
तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव ! ।
तवेष्टं संप्रदास्यावः सत्यमेतद्वराधुना ॥
तयोस्तद्वचनं श्रुत्वा भगवान् गरुडध्वजः ।
उवाच तौ युवां वध्यौ भवेतां मे महाबलौ ।
इति देहि वरं मह्यं दातव्यं यदि विद्यते ॥
तौ तदा प्राह युष्मत्तो योग्यो नौ शोभनो वधः ।
तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते ॥
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः ।
ब्रह्माणं माञ्च शीघ्रेण प्राहेदञ्चात्मसंज्ञया ॥
ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य धीयतां यथा ।
तत्र स्थित्वा महाधारे हनिष्यामि महाबलौ ॥
ततो ब्रह्मा ह्यहञ्चैव उद्दधार शिलान्तु ताम् ॥
तस्या मध्ये पूर्ब्बभागे ह्यहं पर्व्वतरूपधृक् ।
ऊर्द्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम् ॥
ऐशान्यामभवत् कूर्म्मः पर्व्वतश्चाग्रहीत् शिलाम् ।
वायव्याञ्च तथानन्तो नैरृत्याञ्च सुरेश्वरी ॥
महामाया जगद्धात्री शैलरूपप्रधारिणी ।
आग्नेय्याञ्च स्वयं विष्णुरेकरूपेण संस्थितः ॥
ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः ।
मध्ये ब्रह्मा त्वहञ्चैव वराहश्च तथापरः ॥
ततो वराहपृष्ठस्य चरमे जगतां पतिः ।
स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम् ॥
पृष्ठ ३/५९८
वामे स्वजघने यत्नादारोप्य शिरसी तयोः ।
जगदाधारभूतः स सर्व्वयत्नेन संयुतः ॥
सर्व्वैर्बलैः समाक्रम्य चिच्छेद स पृथक् पृथक् ।
मधुकैटभयोः सम्यक् वीरयोः पृथिवीमृते ॥
तस्य चाक्रम्य संस्थानाद्ब्रह्मशक्तिरधोगता ।
ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः ॥
ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः ।
ब्रह्मशक्तिं समुद्धृत्य न्यधात्तस्यां प्रयत्नतः ।
उद्धृतायां पृथिव्यान्तु तयोर्म्मेदोविलेपनैः ।
सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः ॥
मेदोविलेपिता यस्माद् गीयते मेदिनीति सा ।
अद्यापि पृथिवी देवी देवमानुषराक्षसैः ॥”
इति कालिकापुराणे ६१ अध्यायः ॥
(अनयोर्नामनिरुक्तिर्यथा, महाभारते । १२ ।
३४७ । २४ -- २६ ।
“सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजन् ।
पूर्ब्बमेव च पद्मस्य पत्रे सूर्य्यांशुसप्रभे ॥
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ।
तावपश्यत् स भगवाननादिनिधनोऽच्युतः ॥
एकस्तत्राभवद्विन्दुर्म्मध्वाभो रुचिरप्रभः ।
स तामसो मधुर्जातस्तदा नारायणाज्ञया ।
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥”)

मधुकोषः, पुं, (मध्वर्थं कृतः कोषः मध्वाधारः

कोषो वा ।) मधुमक्षिकाकृतकोषः ॥ मौचाक्
इति भाषा । तत्पर्य्यायः । मधुक्रमः २ । इति
शब्दचन्द्रिका ॥ (यथा, --
“भ्रमरेणेव मयायं व्याख्यामधुकोष आरब्धः ।”
इति रुग्विनिश्चयटीकाकृद्विजयेन लिखितम् ॥)
छागमुष्क इति मांसाशिनो वदन्ति ॥

मधुक्रमः, पुं, (मधुनः क्रमः ।) पुनः पुनर्म्मधुपान-

क्रमः । तत्पर्य्यायः । मधुवारः २ । इत्यमरः ।
२ । १० । ४१ ॥ मधुकोषः । इति शब्द-
चन्द्रिका ॥

मधुक्षीरः, पुं, (मधुवत् क्षीरं निर्य्यासोऽस्य ।)

खर्ज्जूरवृक्षः । इति हारावली ॥

मधुखर्ज्जूरिका, स्त्री, (मधुर्मधुरा खर्ज्जूरी । ततः

कन् टाप् । पूर्ब्बस्य ह्रस्वत्वम् ।) खर्ज्जूर-
विशेषः । तत्पर्य्यायः । मधुकर्क्कटिका २ कोल-
कर्क्कटिका ३ कण्टकिनी ४ मधुफलिका ५ माध्वी-
मधुरा ६ मधुरखर्ज्जूरी ७ मधुखर्ज्जूरी ८ । अस्या
गुणाः । मधुरत्वम् । वृष्यत्वम् । सन्तापपित्त-
शान्तिकारित्वम् । शिशिरत्वम् । जन्तुकर्त्तृत्वम् ।
बहुवीर्य्यविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥

मधुगायनः, पुं, (मधु गायतीति । गै + “ण्युट्

च ।” ३ । १ । १४७ । इति ण्युट् । यद्वा, मधौ
वसन्ते गायन इति सप्तमीसमासः ।) कोकिलः ।
इति राजनिर्घण्टः ॥

मधुगुञ्जनः, पुं, (मधु मधुरं गुञ्जनमस्य । पवनेरित-

शुष्कफलशब्दस्यास्य मधुरत्वात् तथात्वम् ।)
शोभाञ्जनवृक्षः । इति शब्दमाला ॥

मधुघोषः, पुं, (मधुर्मधुरो घोषो यस्य ।) कोकिलः ।

इति शब्दमाला ॥

मधुच्छदा, स्त्री, (मधुः मधुरश्छदः पर्णमस्याः ।

यद्वा मधु छादयति रसाधिक्येन पराभवतीति
छद + णिच् । घः । धे ह्रस्वश्च ।) मयूरशिखा ।
इति भावप्रकाशः ॥ (तथास्या गुणाः ।
“नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित् ॥”
इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मधुजं, क्ली, (मधुनो जातम् इति । जन् + डः ।)

शिक्थकम् । इति राजनिर्घण्टः ॥

मधुजम्बीरः, पुं, (मधुर्मधुरो जम्बीरः ।) मधुर-

जम्बीरः । इति राजनिर्घण्टः ॥

मधुजा, स्त्री, (मधोः मधुमेदसो जाता प्रादु-

र्भूता इति । जन् + डः टाप् ।) पृथिवी । इति
शब्दचन्द्रिका ॥ (मधुनो जायते स्म इति ।
जन + ड ।) सिता । तत्पर्य्यायः । महाश्वेता २ ।
इति त्रिकाण्डशेषः ॥

मधुजित्, पुं, (मधुं मधुनामानं दैत्यं जितवान्निति ।

जि + क्विप् । तुगागमश्च ।) विष्णुः । इति शब्द-
रत्नावली ॥ (यथा, देवीभागवते । १ । ५ । ६२ ।
“शिवे ! किं वा ज्ञात्वा विविदिषसि शक्तिं
मधुजितः ॥”)

मधुतृणं, क्ली, (मधुरं तृणम् ।) इक्षुः । इति

त्रिकाण्डशेषः ॥ (गुणादयोऽस्य इक्षुशब्दे
ज्ञातव्याः ॥)

मधुतृणः, पुं, (मधुर्मधुरस्तृणः ।) इक्षुः । इति

राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“महारसोऽसिपत्रः स्यान्मृत्युपुष्पो मधुतृणः ।
इक्षुर्वंशककान्तारभिरुपौण्ड्रादिभेदवान् ॥”
इति वैद्यकरत्नमालायाम् ॥
“इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि च ।
गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः ॥”
इति च भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

मधुत्रयं, क्ली, (मधूनां मधुरद्रव्याणां त्रयम् ।)

मधुरत्रयम् । इति राजनिर्घण्टः ॥ (मधुघृत-
सितात्रयम् ॥)

मधुदीपः, पुं, (मधौ वसन्ते दीप्यत इति । दीप् +

कः ।) कामदेवः । इति हेमचन्द्रः । २ । १४१ ॥

मधुदूतः, पुं, (मधोर्वसन्तस्य दूत इव । वसन्ता-

गमनात् प्रागस्य मुकुलोद्गमदर्शनात् तथात्वम् ।)
आम्रवृक्षः । इति त्रिकाण्डशेषः ॥ (तथास्य
पर्य्यायः ।
“आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः ।
कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मधुदूती, स्त्री, (मधोर्वसन्तस्य दूतीव ।) पाटला-

वृक्षः । इति भावप्रकाशः ॥ (पर्य्यायादि विव-
रणमस्याः पाटलाशब्दे द्रष्टव्यम् ॥)

मधुद्रः, पुं, (मधुने द्राति पुष्पात् पुष्पं गच्छतीति ।

द्रा + कः ।) भ्रमरः । इति त्रिकाण्डशेषः ॥

मधुद्रवः, पुं, (मधुर्मधुरो द्रवो निर्यासोऽस्य ।) रक्त-

शिग्रुः । इति शब्दरत्नावली ॥

मधुद्रुमः, पुं, (मध्वर्थं मद्यार्थं मधूत्पादको वा

द्रुमः । तत् पुष्पेभ्यो मद्यसम्भवादस्य तथात्वम् ।)
वृक्षविशेषः । मौलगाछ इति भाषा ॥ तत्पर्य्यायः ।
मधूकः २ गुडपुष्पः ३ । इत्यमरः । २ । ४ । २७ ॥
(पर्य्यायान्तरमस्य यथा, वैद्यकरत्नमालायाम् ।
“मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः ॥”)

मधुधातुः, पुं, (मधुना तत्पर्य्यायनाम्ना प्रसिद्धो

धातुः ।) माक्षिकम् । इति राजनिर्घण्टः ॥
(तथास्य पर्य्यायः ।
“स्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम् ।
ताप्यं माक्षिकधातुश्च मधुधातुश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मधुधूलिः, स्त्री, (मधुर्मधुरा धूलिरिव ।) खण्डः ।

इति हेमचन्द्रः । ३ । ६ ॥ खाँड् इति भाषा ॥

मधुधेनुः, स्त्री, (मधुरचिता धेनुः ।) दानार्थ-

मध्वादिनिर्म्मितसवत्सा गौः । यथा, --
होतोवाच ।
“मधुधेनुं प्रवक्ष्यामि सर्व्वपातकनाशिनीम् ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे ॥
धेनुं मधुमयीं कृत्वा संपूर्णां घटषोडशीम् ।
चतुर्थेन तथांशेन वत्सकं परिकल्पयेत् ॥
सौवर्णन्तु मुखं कृत्वा शृङ्गाण्यगुरुचन्दनैः ।
पृष्ठं ताम्रमयं कृत्वा सास्नां पट्टमयीं तथा ॥
पदानिक्षुमयान् कृत्वा सितकम्बलकम्बलाम् ।
मुखं गुडमयं कृत्वा जिह्वां शर्करया तथा ।
ओष्ठौ पुष्पमयौ तस्या दन्ताः फलमयाः स्मृताः ।
दर्भरोमधरा देवी रौप्यक्षुरविभूषिता ॥
प्रशस्तपत्रश्रवणा प्रमाणात् परितस्ततः ।
सर्व्वलक्षणसंयुक्ता सप्तधान्यान्विता तथा ॥
चत्वारि तिलपात्राणि चतुर्द्दिक्ष्वपि स्थापयेत् ।
छादितां वस्त्रयुग्मेन घण्टाभरणभूषिताम् ।
कांस्योपदोहनां कृत्वा गन्धपुष्पैस्तु धूपिताम् ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
संक्रान्त्यामुपरागे च सर्व्वकालं यदृच्छया ॥
द्रव्यब्राह्मणसम्पत्तिं दृष्ट्वा तान्तु प्रदापयेत् ।
ब्राह्मणाय दरिद्राय श्रोत्रियायाहिताग्नये ॥
आर्य्यावर्त्ते समुत्पन्ने वेदवेदाङ्गपारगे ।
तादृशाय प्रदातव्या मधुधेनुर्नरोत्तम ! ॥
पुच्छदेशोपविष्टस्तु गन्धधूपादिपूजिताम् ॥
आच्छाद्य वस्त्रयुग्मेन मुद्रिकाकर्णपत्रकैः ॥
स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः ।
जलपूर्ब्बन्तु कर्त्तव्यं पश्चाद्दानं समर्पयेत् ॥
रसज्ञा सर्व्वदेवानां सर्व्वभूतहिते रता ।
प्रीयन्तां पितृदेवाश्च मधुधेनो ! नमोऽस्तु ते ॥
एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥
अहं गृह्णामि त्वां देवि ! कुटुम्बार्थे विशेषतः ।
कामं कामदुघे कामां मधुयेनो ! नमोऽस्तु ते ॥
मधुवातेतिमन्त्रेण दद्यादाशु त्रिकेण तु ।
दत्त्वा धेनुं महाराज ! छत्रकोपानहौ तथा ॥
एवं यः कुरुते भक्त्या मधुधेनुं नराधिप ! ।
दत्त्वा दानं पायसेन मधुना च दिनं नयेत् ॥
ब्राह्मणोऽपि त्रिरात्रन्तु मधुपायससंयुतम् ।
एवं कृते तु यत् पुण्यं तन्निबोध नराधिप ! ॥
यत्र नद्यो मधुवहा यत्र पायसकर्द्दमाः ।
पृष्ठ ३/५९९
ऋषयो मुनयः सिद्धास्तत्र गच्छन्ति धेनुदाः ॥
तत्र भोगानथो भुङ्क्ते ब्रह्मलोके स तिष्ठति ।
क्रीडित्वा सुचिरं कालं पुनर्मर्त्त्यमुपागतः ।
स भुक्त्वा विपुलान् भोगान् विष्णुलोकं स
गच्छति ॥
दशपूर्ब्बान् दशपरानात्मानञ्चैकविंशतिम् ।
नयते विष्णुसायुज्यं मधुधेनुप्रसादतः ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।
सर्व्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥”
इत्यादि वराहपुराणे श्वेतोपाख्याने मधु-
धेनुमाहात्म्यम् ॥

मधुनालिकेरकः, पुं, (मधुर्मधुरो नारिकेलः स्वार्थे

कन् । रलयोरैक्यात् रस्य लत्वं लस्य च रत्वम् ।)
मधुनारिकेलः । एरनारिकेल इति कोकणे
प्रसिद्धम् । मोहानारल इति च ख्यातम् । तत्-
पर्य्यायः । माध्वीकफलः २ मधुफलः ३ अधि-
तजफलः ४ माक्षिकफलः ५ मृदुफलः ६ बहु-
कूर्च्चः ७ ह्रस्वफलः ८ । अस्य गुणाः । मधु-
रत्वम् । शिशिरत्वम् । दाहतृष्णार्त्तिपित्तहारि-
त्वम् । बलपुष्टिश्रेष्ठकान्तिकारित्वम् । वीर्य्य-
विवर्द्धनत्वम् । रुच्यत्वञ्च । अपि च ।
“माध्वीकं नारिकेरं फलमतिमधुरं दुर्ज्जरं
जन्तुकारि
स्निग्धं वातातिसारभ्रमशमनमथ ध्वंसनं
वह्निदीप्तेः ।
आमश्लेष्मप्रकोपं जनयति कुरुते चारुकान्तिं
बलञ्च
स्थैर्य्यं देहस्य धत्ते घनमदनकलावर्द्धनं पित्त-
नाशम् ॥”
इति राजनिर्घण्टः ॥

मधुनी, स्त्री, क्षुपविशेषः । माकड हाता इति

माकड चाउली इति च भाषा ॥ तत्पर्य्यायः ।
घृतमण्डा २ वायसोली ३ सुमङ्गला ४ । इति
रत्नमाला ॥

मधुनेता, [ऋ] पुं, (मधु नयति पुष्पेभ्यः संगृह्णा-

तीति । णीञ् + तृच् ।) भ्रमरः । इति शब्द-
चन्द्रिका ॥

मधुपः, पुं, (मधु पिबतीति । पा + कः ।) भ्रमरः ।

इत्यमरः । २ । ५ । २९ ॥ (यथा, राजतर-
ङ्गिण्याम् । ३ । ४०९ ।
“गव्व्यूतिमात्रमासन्ने देवीधामनि धैर्य्यवान् ।
धुन्बन् कराभ्यां मधुपान् धावति स्म स धीरधीः ॥”
मधु जलं पातीति । पा + कः । वारिरक्षके,
त्रि । यथा, ऋग्वेदे । ५ । ३२ । ८ ।
“त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्या-
ददुग्रः ।”
“मधुपं मधुनोऽम्भसः पातारं पालयितारम् ।”
इति तद्भाष्ये सायनः ॥ मधुपानकर्त्तरि च, त्रि ।
यथा, ऋग्वेदे । १ । १८० । २ ।
“स्वसा यद्वां विश्वगूर्त्तीभराति वाजायेट्टे मधु-
पाविषे च ।” “हे मधुपौ मधुरस्य सोमरसस्य
पातारौ ।” इति तद्भाष्ये सायनः ॥)

मधुपर्कं, क्ली, (पृच् + घञ् । मधुना पर्को योगो-

ऽत्र ।) दधिसंयुक्तमधु । तत्पर्य्यायः । महोदयः
२ । इति हेमचन्द्रः । ३ । ४९७ ॥ अपि च ।
“मधुपर्कं दधिमधुघृतमपिहितं कांस्येनेति ।
अपिहितमाच्छादितम् ।” इत्येकादशीतत्त्वे-
कात्यायनसूत्रम् ॥

मधुपर्कः, पुं, (पृची + घञ् । मधुना पर्कः

सम्पर्को यस्य मधुना संयोजनात् तथात्वम् ।)
षोडशोपचारपूजान्तर्गतषष्ठोपचारः । तस्य
प्रमाणं यथा, --
“दधि सर्पिर्ज्जलं क्षौद्रं सितैताभिस्तु पञ्चभिः ।
प्रोच्यते मधुपर्कस्तु सर्व्वदेवौघतुष्टये ॥
जलन्तु सर्व्वतः स्वल्पं सिता दधि घृतं समम् ।
सर्व्वेषामधिकं क्षौद्रं मधुपर्के प्रयोजयेत् ॥
तद्दद्यात् कांस्यपात्रेण रौक्मश्वेतभवेन वा ।
ज्योतिष्टोमाश्वमेधादौ पूर्त्ते चेष्टे प्रपूजने ॥
मधुपर्कः प्रतिष्ठोऽयं सर्व्वदेवौघतुष्टिदः ।
धर्म्मार्थकाममोक्षाणां साधकः परिकीर्त्तितः ॥
मधुपर्कः सौख्यभोग्यतुष्टिपुष्टिप्रदायकः ॥”
इति कालिकापुराणे ६७ अध्यायः ॥
अपि च ।
“आज्यं दधिमधुमिश्रं मधुपर्कं विदुर्ब्बुधाः ॥”
इति तन्त्रसारः ॥
तद्दाने मुद्रा यथा, --
“संयुक्तानामिकाङ्गुष्ठा तिस्रोऽन्याः संप्र-
सारिताः ।
मधुपर्के च सा मुद्रा विद्बद्भिः परिकीर्त्तिता ॥”
इति हरिभक्तिविलासः ॥

मधुपर्णिका, स्त्री, (मध्विव हितं पर्णमस्याः । ततः

स्वार्थे कन् टाप् । अत इत्वञ्च ।) गम्भारीवृक्षः ।
(अस्याः पर्य्यायो यथा, --
“गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ।
काश्मीरी काश्मरी हीरा काश्मर्य्यः पीत-
रोहिणी ॥
कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥”)
नीलीवृक्षः । इत्यमरः । २ । ४ । ३५ ॥ (अस्याः
पर्य्यायो यथा, --
“नीली तु नीलिनी तूली कालदोला च
नीलिका ।
रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥
क्लीतका कालकेशी च नीलपुष्पा च सा
स्मृता ॥”)
वराहक्रान्ता । इति शब्दचन्द्रिका ॥ गुडूची ।
सुदर्शना । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते
शारीरस्थाने १० अध्याये ।
“पृश्निपर्णी बलाशिग्रुश्वद्रंष्टा मधुपर्णिका ॥”
अस्याः पर्य्यायो यथा, --
“सुदर्शना सोमवल्ली चक्राह्वा मधुपर्णिका ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मधुपर्णी, स्त्री, (मधु इव हितं पर्णं यस्याः ।

गौरादित्वात् ङीष् ।) गुडूची । इत्यमरः । २ ।
४ । ८४ ॥ (अस्याः पर्य्यायो रत्नमालायां यथा,
“वत्सादनी छिन्नरुहा मधुपर्ण्यमृतामरा ।
कुण्डल्यमृतवल्ली च गुडूची चक्रलक्षणा ॥”)
गम्भारीवृक्षः । नीलीवृक्षः । इति मेदिनी ।
ने, १०५ ॥ मधुबीजपूरः । इति राजनिर्घण्टः ॥
(विकङ्कतवृक्षः । तत्पर्य्यायो यथा, --
“विकङ्कतः स्वादुकण्टः श्रुग्दारु मधुपर्ण्यपि ॥”
इति वैद्यकरत्नमालायाम् ॥)

मधुपाका, स्त्री, (पाकेन मधुर्मधुरा । राजदन्ता-

दित्वात् पूर्ब्बनिपातः । टाप् ।) षड्भुजा । इति
राजनिर्घण्टः ॥

मधुपायी, [न्] पुं, (मधु पिबतीति । पा + णिनिः ।

ततः “आतोयुक् चिण्कृतोः ।” ७ । ३ । ३३ ।
इति युक् ।) भ्रमरः । इत्यमरटीकायां रामा-
श्रमः ॥ मधुपानकर्त्तरि, त्रि ॥

मधुपालिका, स्त्री, (मधु पालयतीति । पालि +

ण्वुल् । टाप् । अत इत्वम् ।) गम्भारी । इति
शब्दमाला ॥ (विषयोऽस्या गम्भारीशब्दे
द्रष्टव्यः ॥)

मधुपीलुः, पुं, (मधुर्मधुरः पीलुः ।) महापीलुः ।

इति राजनिर्घण्टः ॥

मधुपुरी, स्त्री, (मधोस्तन्नाम्नो दैत्यस्य पुरी ।)

मथुरा । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । ७ । १४ । ३१ ।
“नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।
वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥”)

मधुपुष्पः, पुं, (मधुप्रचुराणि पुष्पाण्यस्य ।) मधु-

द्रुमः । इति रत्नमाला ॥ (मधूकः । तत्पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः ।
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥”)
शिरीषवृक्षः । अशोकवृक्षः । वकुलवृक्षः । इति
राजनिर्घण्टः ॥

मधुपुष्पा, स्त्री, (मधुपुष्प + स्त्रियां टाप् ।) दन्ती-

वृक्षः । नागदन्तीवृक्षः । इति राजनिर्घण्टः ॥

मधुप्रियः, पुं, (मधु मद्यं प्रियमस्य ।) बलरामः ।

इति त्रिकाण्डशेषः ॥ भूमिजम्बुः । यथा, --
“नादेयी स्त्री नागरङ्गस्त्वक्सुगन्धो मधुप्रियः ॥”
इति जटाधरः ॥ (मद्यप्रिये, त्रि ॥)

मधुफलः, पुं, (मधु मधुरं फलमस्य । यद्वा, मधु

मद्यं फलाद् यस्य ।) मधुनारिकेलः । इति
राजनिर्घण्टः ॥ विकङ्कतवृक्षः । इति शब्द-
चन्द्रिका ॥ (मधुरफलविशिष्टे, त्रि ॥)

मधुफलिका, स्त्री, (मधु मधुरं फलं यस्याः ।

मधुफल + संज्ञायां कन् । टाप् । अत इत्वञ्च ।)
मधुखर्ज्जूरिका । इति राजनिर्घण्टः ॥ (गुणा-
दयोऽस्या मधुखर्ज्जूरिकाशब्दे ज्ञातव्याः ॥)

मधुबहुला, स्त्री, (मधुना मधौ वा बहुला ।)

वासन्तीलता । इति राजनिर्घण्टः ॥

मधुभित्, [द्] पुं, (मधुं तन्नामानं दैत्यं भिनत्ति

नाशयतीति । भिद् + क्विप् । तुगागमश्च ।)
विष्णुः । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । ४ । २९ । ४० ।
पृष्ठ ३/६००
“तस्मिन् महम्मुखरिता मधुभिच्चरित्र-
पीयूषशेषसरितः परितः स्रवन्ति ॥”)

मधुमक्षिका, स्त्री, (मधुसञ्चायिका मक्षिका ।)

कीटविशेषः । मौमाछी इति भाषा । तत्प-
र्य्यायः । सरघा २ । इत्यमरः । २ । ५ । २६ ॥

मधुमज्जा, [न्] पुं, (मधुर्मधुरो मज्जा यस्य ।)

आखोटवृक्षः । इति राजनिर्घण्टः ॥

मधुमती, स्त्री, (मधुर्मधुररसोऽस्त्यत्रेति मतुप् ।

ङीप् ।) काश्मरीवृक्षः । नदीविशेषः । तस्या
जलगुणाः । यथा, राजनिर्घण्टे ।
“चन्द्रभागागुणसाम्यदं जलं
किञ्च माधुमतमग्निदीपनम् ॥”
उपास्यनायिकाविशेषः । यथा, --
“तथा मधुमती सिद्धिर्जायते नात्र संशयः ।
देवचेटी शतशतं तस्य वश्या भवन्ति ह ॥
स्वर्गे मर्त्ये च पाताले स यत्र गन्तुमिच्छति ।
तत्रैव चेटिकाः सर्व्वा नयन्ति नात्र संशयः ॥”
इति कृकलासदीपिकायां ३ पटलः ॥
(छन्दोभेदः । अस्या लक्षणं यथा, छन्दोम-
ञ्जर्य्याम् । २ । १ ।
“ननगि मधुमती ।” अधिकं छन्दःशब्दे द्रष्ट-
व्यम् ॥ समाधिसिद्धिभेदः । यथा, सर्व्वदर्शन-
संग्रहे पातञ्जलदर्शने । “तत्र मधुमती नामा-
भ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुख-
प्रकाशमयसत्त्वभावनयानवद्यवैशारद्यविद्योतन-
रूपऋतम्भरप्रज्ञाख्या समाधिसिद्धिः ॥ गङ्गा ।
यथा, काशीखण्डे । २९ । १३३ ।
“महोदया मधुमती महापुण्या मुदाकरी ॥”
इक्ष्वाकुपुत्त्रहर्य्यश्वस्य भार्य्या सा च मधोर्दैत्यस्य
सुता । यथा, हरिवंशे । ९३ । १२ -- १३ ।
“आसीद्राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः ।
हर्य्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥
तस्यासीद्दयिता भार्य्या मधोर्दैत्यस्य वै सुता ।
देवी मधुमती नाम यथेन्द्रस्य शची तथा ॥”
मधुरसविशिष्टे, त्रि । यथा, ऋग्वेदे । ७ । ६९ । ३ ।
“स्वश्वायशसायातमर्व्वाग्दस्रानिधिं मधुमन्तं
पिबाथः ॥”)

मधुमथनः, पुं, (मधुं तन्नामानं दैत्यं मथ्नातीति ।

मन्थ + ल्यु ।) विष्णुः । इति हलायुधः ॥ (यथा,
भागवते । ६ । ९ । ३९ ।
“सर्व्वात्मनि निरतनिर्वृ तमनसः कथमुह वा
एते मधुमथन ! पुनः स्वार्थकुशला ह्यात्मप्रिय-
सुहृदः साधवस्तच्चरणाम्बुजानुसेवां विसृजन्ति
न यत्र पुनरयं संसारपर्य्यावर्त्तः ॥”)

मधुमल्ली, स्त्री, (मधुप्रधाना मल्ली ।) मालती ।

इति शब्दमाला ॥

मधुमस्तकं, क्ली, (मधुर्मधुररसः मस्तके उपरि-

भागे यस्य ।) पिष्टकविशेषः । यथा, --
“मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः ।
मधुमस्तकमुद्दिष्टं तस्याख्यापरिमार्जनम् ॥”
इति शब्दचन्द्रिका ॥
अस्य गुणाः पिष्टशब्दे द्रष्टव्याः ॥

मधुमाध्वीकं, क्ली, (मधु माधुर्य्ययुक्तं माध्वीकम् ।)

मद्यम् । इत्यमरटीकायां भरतः ॥

मधुमारकः, पुं, (मधूनां मारकः । भक्षकत्वा-

त्तथात्वमस्य ।) भ्रमरः । इति राजनिर्घण्टः ॥

मधुमूलं, क्ली, (मधु मधुरं मूलम् ।) आलुकम् ।

इति शब्दचन्द्रिका । मौ आलु इति भाषा ॥

मधुयष्टिः, स्त्री, (मधुर्मधुरा यष्टिः ।) इक्षुः । इति

शब्दचन्द्रिका ॥

मधुयष्टिका, स्त्री, (मधुर्मधुरा यष्टिः । ततः कन्

टाप् ।) यष्टिमधु । तत्पर्य्यायः । मधुकम् २
क्लीतकम् ३ यष्टिमधुका ४ । इत्यमरः । २ । ४ ।
१०९ ॥ मधुयष्टी ५ । इति भरतः ॥ (तथास्याः
पर्य्यायान्तरम् ।
“यष्ट्याह्वं मधुकं यष्टि क्लीतकं मधुयष्टिका ।
यष्टिमधु स्थले जाता जलजातिरसा पुरा ॥”
इति वैद्यकरत्नमालायाम् ॥)

मधुयष्टी, स्त्री, (मधुयष्टि । कृदिकारादिति पक्षे

ङीष् ।) मधुयष्टिका । इति शब्दमाला ॥

मधुरं, क्ली, (मधु + रः ।) वङ्गम् । इति राज-

निर्घण्टः ॥ विषम् । इति मेदिनी । रे, १९५ ॥
(वङ्गशब्दे विषशब्दे च विवरणमस्य ज्ञातव्यम् ॥)

मधुरः, पुं, (मधु माधुर्य्यं रातीति । रा + कः ।

यद्वा, मधुमाधुर्य्यमस्यास्तीति । “ऊषसुषिमुष्क-
मधो रः ।” ५ । २ । १०७ । इति रः ।) मिष्टरसः ।
इत्यमरः । १ । ५ । ९ ॥ स च इक्ष्वादौ लक्ष्यते ।
तत्पर्य्यायः । गौल्यः २ । इति राजनिर्घण्टः ॥
रसज्येष्ठः ३ गुल्यः ४ स्वादुः ५ मधूलकः ६ । इति
हेमचन्द्रः । ६ । २४ ॥ तस्य गुणाः । प्रीणनत्वम् ।
बल्यत्वम् । बृंहणत्वम् । वायुपित्तनाशित्वम् ।
रसायनत्वम् । गुरुत्वम् । स्निग्धत्वम् । चक्षुष्य-
त्वम् । तर्पणत्वम् । सरत्वञ्च । अन्यच्च ।
“रसो मधुरकः शीतो धातुस्तन्यबलप्रदः ।
चक्षुष्यो वातपित्तघ्नः कुर्य्यात् स्थौल्यकफक्रमीन् ॥
सोऽतियुक्तो ज्वरश्वासगलगण्डादिरोगकृत् ॥”
इति राजवल्लभः ॥
अपि च ।
“मधुरस्तु रसश्चिनोति केशान्
बपुषः स्थैर्य्यबलौजोवीर्य्यदायी ।
अतिसेव्रनतः प्रमेहशैत्य-
जडतामान्द्यमुखान् करोति दोषान् ॥”
इति राजनिर्घण्टः ॥
(यथा च वाभटे सूत्रस्थाने दशमेऽध्याये ॥
“रसानामिति रूपाणि कर्म्माणि मधुरो रसः ।
आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् ।
बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम् ॥
प्रशस्तो बृंहणो कण्ठ्यः स्तन्यसन्धानकृद्गुरुः ।
आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः ॥
कुरुतेऽत्यु पयोगेन समेदःकफजान् गदान् ।
स्थौल्याग्निसादसंन्यासमेहगण्डार्व्वुदादिकान् ॥”
अपिच ।
“तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांस-
मेदोऽस्थिमज्जौजः शुक्राभिवर्द्धन आयुष्यः षडि-
न्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्न-
स्तृष्णाप्रशमनः त्वच्यः केश्यः कण्ठ्यः प्रीणनो
जीवनस्तर्पणः स्नेहनः स्थैर्य्यकरः क्षीणक्षत-
सन्धानकरः घ्राणमुखकण्ठोष्ठतालुप्रह्लादनो
दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकाना-
मिष्टतमः स्निग्धः शीतो गुरुश्च ।
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं
मार्द्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाष-
मग्नेर्द्दोबल्यमास्यकण्ठमांसाभिवृद्धिं श्वासकास-
प्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्य्यव-
मथुसंज्ञास्वरप्रणाशगलगण्डमालाश्लीपदगल-
शोफवस्तिधमनीगुदोपलेपाक्ष्यामयानभिष्य-
मित्येवंप्रभृतीन् कफजान् विकारानुपजनयन्ति ।
“स्नेहनप्रीणनाह्लादमार्द्दवैरुपलभ्यते ।
मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च ॥”
इति चरके सूत्रस्थाने २६ अध्याये ॥)
जीवकः । रक्तशिग्रुः । राजाम्रः । रक्तेक्षुः ।
गुडः । शालिः । इति च राजनिर्घण्टः ॥
(बीजपूरविशेषः । तत्पर्य्यायो यथा, --
“बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
स्कन्दस्यसैनिकभेदः । यथा महाभारते । ९ ।
४५ । ६९ ।
“मधुरः सुप्रसादश्च किरीटी च महाबलः ॥”)

मधुरः, त्रि, (मधु माधुर्य्यमस्यास्तीति । “ऊषसुषि-

मुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।)
मधुररसविशिष्टः । स्वादुः । (यथा, हितोप-
देशे । १ । ७९ ।
“न धर्म्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥”)
प्रियः । इति मेदिनी । रे, १९५ ॥ पारि-
भाषिकमधुराणि यथा । विदग्धोक्तिः । प्रिया-
धरकुचादिः । शशी । स्त्रियः । बालोक्तिः ।
इति कविकल्पलता ॥

मधुरकः, पुं, (मधुर + संज्ञायां कन् ।) जीवक-

वृक्षः । इत्यमरः । २ । ४ । १४२ ॥ (यथा,
सुश्रुते चिकित्सितस्थाने ४ अध्याये ।
“विपचेन्मधुरकप्रतीवापम् ॥”)

मधुरकण्टका, स्त्री, (मधुराः कण्टका यस्याः ।)

मत्स्यविशेषः । तत्पर्य्यायः । कज्जली २ कज्जला ३
अनन्ता ४ माध्वी ५ । इति शब्दरत्नावली ॥

मधुरजम्बीरः, पुं, (मधुरो जम्बीरः । नित्यकर्म्म-

धारयः ।) मधुजम्बीरः । तत्पर्य्यायः । मधु-
जम्भः २ मधुजम्भलः ३ रसद्रावी ४ शर्क्करकः ५
पित्तद्रावी ६ । अस्य गुणाः । मधुरत्वम् ।
शिशिरत्वम् । कफपित्तशोफश्रमनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

मधुरत्वचः, पुं, (मधुरा त्वचा यस्य ।) धव-

वृक्षः । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य
धवशब्दे ज्ञातव्याः ॥)
पृष्ठ ३/६०१

मधुरत्रयं, क्ली, (मधुराणां त्रयम् ।) सिता

माक्षिकं सर्पिश्च । इति राजनिर्घण्टः ॥

मधुरत्रिफला, स्त्री, (मधुरा त्रिफला ।) द्राक्षा-

फलं काश्मर्य्यफलं खर्ज्जूरीफलञ्च । इति राज-
निर्घण्टः ॥

मधुरनिस्वना, स्त्री, (मधुरो निस्वनो यस्याः ।)

मधुरस्वरयुक्ता नारी । इति त्रिकाण्डशेषः ॥

मधुरफलः, पुं, (मधुरं फलमस्य ।) राजवदरः ।

इति राजनिर्घण्टः ॥

मधुरवल्ली, स्त्री, (मधुरा बल्लीति नित्यकर्म्म-

धारयः ।) मधुबीजपूरः । इति राजनिर्घण्टः ॥

मधुरसः, पुं, (मधुर्मधुरो रसोऽस्य ।) इक्षुः ।

इति शब्दमाला ॥ तालः । इति राज-
निर्घण्टः ॥

मधुरसा, स्त्री, (मधुर्मधुरो रसो यस्याः ।) मूर्व्वा ।

इत्यमरः । २ । ४ । ८३ ॥ (अस्याः पर्य्यायो यथा,
“तेजनी पिलुनी देवी तिक्तवल्ली पृथक्त्वचा ।
मधुश्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥”
इति वैद्यकरत्नमालायाम् ॥
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा ।
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
द्राक्षा ॥ (तत्पर्य्यायो यथा, --
“द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च ।
मृद्वीका हारहूरा च गोस्तनी चापि
कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
दुग्धिका । इति मेदिनी । से, ६० ॥ गम्भारी ।
इति भावप्रकाशः ॥

मधुरस्रवा, स्त्री, (मधुरस्य मधुररसस्य स्रवो

यस्याः ।) पिण्डखर्ज्जूरी । इति राजनिर्घण्टः ॥

मधुरा, स्त्री, (मधुर + टाप् ।) शतपुष्पा ।

(अस्याः पर्य्यायो यथा, --
“शतपुष्पा शताह्वा च मधुरा कारवी मिसिः ।
अतिलम्बी सितच्छत्रा संहिता छत्रिकापि च ।
छत्रा शालेयशालीनौ मिश्रेया मधुरा मिषिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मिश्रेया । मथुरानगरी । मधुकर्कटिका । मेदा ।
मधूली । मधूयष्टिका । इति मेदिनी । रे, १९४ ॥
काकोली । शतावरी । बृहज्जीवन्ती । पालङ्क्य-
शाकम् । इति राजनिर्घण्टः ॥

मधुराम्रकः, पुं, (मधुरश्चासौ अम्रश्चेति नित्य-

कर्म्मधारयः । ततः स्वार्थे कन् ।) आम्रातकः ।
इति शब्दचन्द्रिका ॥

मधुराम्रफलः, पुं, (मधुरं मिष्टं आम्रवत् फलं

यस्य ।) रेफलः । तत्पर्य्यायः । आरः २ ।
इति रत्नमाला ॥

मधुरालापा, स्त्री, (मधुरः श्रुतिसुखकरः आलापः

शब्दो यस्याः ।) शारिका । इति राज-
निर्घण्टः ॥

मधुरालावुनी, स्त्री, (अलावू + बाहुलकात् नक् ।

पृषोदरादित्वात् ह्रस्वः ङीष् च । ततः मधुरा
चासौ अलावुनी चेति नित्यकर्म्मधारयः ।)
राजालावुः । इति राजनिर्घण्टः ॥

मधुरिका, स्त्री, (मधुर + स्वार्थे कन् + स्त्रियां टाप्

अत इत्वञ्च ।) क्षुपविशेषः । मौरी इति भाषा ।
तत्पर्य्यायः । शालेयः २ शीतशिवः ३ छत्रा ४
मिशी ५ मिश्रेया ६ । इत्यमरः । २ । ४ । १०५ ॥
सालेयः ७ मिसिः ८ मिसी ९ मिशिः १० । इति
तट्टीका ॥ अवाक्पुष्पी ११ मङ्गल्या १२ मधुरा
१३ । इति रत्नमाला ॥ मधुरी १४ । इति शब्द-
रत्नावली ॥ अस्या गुणाः । रोचकत्वम् । शुक्र-
कारित्वम् । दाहरक्तपित्तनाशित्वञ्च । इति
राजवल्लभः ॥

मधुरिपुः, पुं, (मधोरसुरविशेषस्य रिपुर्नाश-

कत्वात् ।) विष्णुः । इत्यमरः । १ । १ । २० ॥
(यथा गीतगोविन्दे । २ । ९ ।
“श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपु-
रूपम् ॥)

मधुरेणुः, पुं, (मधुर्मधुरो रेणुरस्य ।) कटभी-

वृक्षः । इति राजनिर्घण्टः ॥

मधुरोदकः, पुं, (मधुराणि उदकानि यस्य ।)

जलसमुद्रः । स तु स्वादूदकमयः पुष्करद्वीप-
वेष्टितः सप्तसमुद्राणां शेषसमुद्रः । इति जटाधरः ॥

मधुलं, क्ली, (मधु पुष्परसादिकं लाति स्वकारणत्वेन

गृह्णातीति । ला + कः ।) मद्यम् । इति शब्द-
चन्द्रिका ॥ (निर्व्विषीकत्र्यां मधुविद्यायां स्त्री ।
यथा, ऋग्वेदे । १ । १९१ । १० ।
“सोचिन्नुनमरातिनो वयं मरामारे
अस्य योजनं हरिष्ठामधुत्वामधुला चकार ॥”
“हे विष ! त्वा त्वां मधु अमृतं चकार विषस्य
विषभावं दूरेऽपनोद्यामृतीचकारेति एषैव
मधुला मधुदात्री निर्विषीकर्त्री मधुविद्या यदे-
तदादित्यस्य मण्डले विषयोजनं तेन चामृती-
करणं यदस्ति एषा मधुविद्या ॥” इति तद्भाष्ये
सायनः ॥)

मधुलग्नः, पुं, (मधुर्मधुररसो लग्नोऽत्र ।) रक्त-

शोभाञ्जनः । इति रत्नमाला ॥

मधुलता, स्त्री, (मधुप्रधाना लतेति मध्यलोपी

कर्म्मधारयसमासः ।) शूलीतृणम् । इति राज-
निर्घण्टः ॥

मधुलिका, स्त्री, (मधुल + संज्ञायां कन् । टाप्

अत इत्वञ्च ।) राजिका । इति राजनिर्घण्टः ॥
(विवृतिरस्या राजिका शब्दे ज्ञातव्या ॥ स्कन्धा-
नुचरमातृगणविशेषः । यथा, महाभारते ।
९ । ४६ । १९ ।
“पृथुवक्त्रा मधुलिका मधुकुम्भा तथैव च ॥”)

मधुलिट्, [ह्] पुं, (मधु लेढि आस्वादयतीति ।

लिह् + क्विप् ।) भ्रमरः । इत्यमरः । २ । ५ ।
२६ ॥ (यथा, रघुवंशे । ९ । २९ ।
“मधुलिहां मधुदानविशारदा
कुरवका रवकारणतां ययुः ॥”)

मधुलेही, [न्] पुं, (मधु लेढीति । मधु + लिह्

+ णिनिः ।) भ्रमरः । इति शब्दरत्नावली ॥
(यथा, भट्टिकाव्ये । २ । ७ ।
“दत्तावधानं मधुलेहिगीतौ
प्रशान्तचेष्टं हरिणं जिघांसुः ॥”)

मधुलोलुपः, पुं, (मधुनि लोलुपः ।) भ्रमरः ।

इति राजनिर्घण्टः ॥

मधुवनं, क्ली, (मधुना तन्नाम्ना दैत्येन कृतं

वनम् । मध्यपदलोपी कर्म्मधारयः ।) मथुराया
वनविशेषः । यथा, श्रीभागवते ४ । ८ । ४२ ।
“तत्तात ! गच्छ भद्रं ते यमुनायास्तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥”
(मधुप्रधानं वनमिति ।) किस्किन्धायां सुग्री-
वस्य वनविशेषः । इति रामायणे किस्किन्धा-
काण्डम् ॥ (यथा, महाभारते । ३ । २८१ ।
२७ ।
“वालिना रक्षितं यत्तत् स्फीतं मधुवनं महत् ।
त्वया च प्लवगश्रेष्ठ ! तद्भुङ्क्ते पवनात्मजः ॥”)

मधुवनः, पुं, (मधौ वनति शब्दायते इति । वन +

अच् ।) कोकिलः । इति शब्दचन्द्रिका ॥

मधुवल्ली, स्त्री, (मधुप्रधाना वल्ली ।) यष्टी-

मधु । क्लीतनकम् । इति राजनिर्घण्टः ॥ (कार-
वेल्लकम् । तत्पर्य्यायो यथा, --
“तोयवल्ली राजवल्ली मघुवल्ली कारवेल्लकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

मधुवारः, पुं, (मधुनो मद्यस्य वारः समयः

पर्य्यायो वा ।) मधुक्रमः । इत्यमरः । २ । ४० । ४१ ॥
स च पुनः पुनर्मद्यपानपरिपाटी । इति तट्टी-
कायां भरतः ॥

मधुवीजः, पुं, (मधु मधुरं वीज यस्य ।) दाडिमः ।

इति राजनिर्घण्टः ॥ (गुणादिविवरणमस्य
दाडिमशब्दे द्रष्टव्यम् ॥)

मधुवीजपूरः, पुं, (मधूनां मधुपूर्णानां वीजानां

पूरः समूहो यत्र ।) मधुकर्कटिका । मीठा
बिजौरा इति हिन्दी भाषा । तत्पर्य्यायः ।
मधुपर्णी २ मधुरकर्कटी ३ मधुरवल्ली ४ मधु-
कर्कटी ५ मधुरफला ६ महाफला ७ वर्द्ध-
माना ८ । अस्य गुणाः । मधुरत्वम् । शिशि-
रत्वम् । दाहनाशित्वम् । त्रिदोषशमनत्वम् ।
रुच्यत्वम् । पथ्यत्वम् । गुरुत्वम् । दुर्ज्जरत्वञ्च ।
इति राजनिर्घण्टः ॥

मधुव्रतः, पुं, (मधु मधुसञ्चयो व्रतं व्रतमिव सत-

तानुशीलनीयं यस्य । यद्बा, मधुव्रतयति नियतं
भुङ्क्ते इति । व्रति + अण् ।) भ्रमरः । इत्य-
मरः । २ । ५ । २९ ॥ (यथा, भागवते । ३ । २८ । २८ ।
“मालां मधुव्रतवरूथगिरोपघुष्टाम् ॥”
मध्वर्थं व्रतं कर्म्म यस्य । उदकार्थकर्म्मणि, त्रि ।
यथा, ऋग्वेदे । ६ । ७० । ५ ।
“मधुनो द्यावापृथिवी मिमिक्षतां मधुश्चुता
पधुदुघे मधुव्रते ॥”
“मधुव्रते उदकार्थकर्म्माणौ ।” इति तद्भाष्पे
सायनः ॥)

मधुशर्करा, स्त्री, (मधुजाता शर्करा ।) मधुजात-

शर्करा । सिताखण्ड इति भाषा ॥ यथा, --
पृष्ठ ३/६०२
“माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा ।
माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषाद्वलवृष्या च तर्पणं क्षीणदेहिनाम् ॥”
इति राजनिर्घण्टः ॥
(“मधुशर्करा पुनश्च्छर्द्ध्यतीसारहरी रूक्षाछेदनी
प्रह्लादनी कषायमधुरा मधुरविपाका च ।”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

मधुशाखः, पुं, (मधुर्माधुर्य्ययुक्ता शाखा यस्य ।)

मधुष्ठीलः । इति शब्दचन्द्रिका ॥ (मधुरशाखा-
विशिष्टे, त्रि । यथा, वाजसनेयसंहितायाम् ।
२८ । २० । “मधुशाखः सुपिप्पलः ।”
“मधुरा रसवती शाखा यस्य ।”
इति तद्भाष्ये महीधरः ॥)

मधुशिग्रुः पुं, (मधुप्रधानः शिग्रुः ।) रक्त-

शोभाञ्जनवृक्षः । इत्यमरः । २ । ४ । ३१ ॥
(शजिना । इति ख्यातः । यथा, सुश्रुते । १ । ३७ ।
“वरुणार्त्तगलशिग्रुमधुशिग्रुतर्कारीत्यादि ।”
तत्पर्य्यायो यथा, --
“सुरङ्गा स्वादुगन्धा स्यान्मधुशिग्रुः शोभाञ्जनः ॥”
इति वैद्यकरत्नमालायाम् ॥
तद्गुणा यथा, सुशुते सूत्रस्थाने ४६ अध्याये ।
“मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ।”)

मधुशेषं, क्ली, (मधुनः शेषो यत्र ।) शिक्थकम् ।

इति राजनिर्घण्टः ॥

मधुश्रेणी, स्त्री, (मधूनां मधुररसानां श्रेणिर्यत्र ।)

मूर्व्वा । इत्यमरः । २ । ४ । ८४ ॥ (अस्याः पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुता ।
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥”)

मधुश्वासा, स्त्री, (मधुर्मधुरः श्वासोऽस्मात् ।)

जीवन्तीवृक्षः । इति राजनिर्घण्टः ॥ (विवरण-
मस्या जीवन्तीशब्दे ज्ञातव्यम् ॥)

मधुष्ठीलः, पुं, (मधु मकरन्दं ष्ठीवति निःक्षि-

पतीति । ष्ठीव् + इगुपधत्वात् कः । पृषो-
दरादित्वाद्वस्य लत्वम् ।) मधूकवृक्षः । इत्य-
मरः । २ । ४ । २८ ॥ (अस्य पर्य्यायो यथा, --
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुद्रुमः ।
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मधुसखः, पुं, (मधोर्वसन्तस्य सखा इति । “राजाहः-

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
कामदेवः । इति हलायुधः ॥

मधुसारथिः, पुं, (मधुर्वसन्तः सारथिर्यस्य ।) काम-

देवः । इति त्रिकाण्डशेषः ॥

मधुसिक्थकः, पुं, (सिञ्चतीति सिचेः स्थक् ।

स्वाथे कन् मधु मधुमयं सिक्थकं यस्य ।)
स्थावरविषभेदः । इति हेमचन्द्रः । ४ । २६४ ॥

मधुसुहृत्, [द्] पुं, (मधोर्वसन्तस्य सुहृत् ।)

कामदेवः । इति केचित् ॥

मधुसूदनः, पुं, (मधु पुष्परसं सूदयति भक्षय-

तोति । सूद् + णिच् + ल्युः ।) भ्रमरः । इति
जटाधरः ॥ (मधुं तन्नामानं असुरं सूद-
यति नाशयतीति । सूद् + णिच् + ल्युः ।)
श्रीकृष्णः । इत्यमरटीकायां भरतः ॥ (पक्षद्वये
एकः श्लिष्टश्लोको यथा, छन्दोमञ्जर्य्याम् ।
११ । ३ ।
“वनेषु कृत्वा सुरभिप्रचारं
प्रकाममुग्धो मधुवासरेषु ।
गायन् कलं क्रीडति पद्मिनीषु
मधूनि पीत्वा मधुसूदनोऽसौ ॥”)
श्रीकृष्णपक्षे व्युत्पत्तिर्यथा, --
“सूदनं मधुदैत्यस्य यस्मात् स मधुसूदनः ।
इति सन्तो वदन्तीशं वेदैर्भिन्नार्थमीप्सितम् ॥
मधु क्लीवञ्च माध्वीके कृतकर्म्मशुभाशुभे ।
भक्तानां कर्म्मणाञ्चैव सूदनं मधुसूदनः ॥
परिणामाशुभं कर्म्म भ्रान्तानां मधुरं मधु ।
करोति सूदनं यो हि स एव मधुसूदनः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
तस्य स्मरणफलम् ।
“महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् ।
विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥”
तत्रैव प्रकृतिखण्डे ३४ अध्यायः ॥
(सरस्वत्युपनामकः कविविशेषः । यथा, श्रीमद्-
भगवद्गीताटीकायाम् । “व्याख्यातं भगवत्पदैः
प्रतिपदं श्रीशङ्कराख्यैः पुनर्व्विस्पष्टं मधुसूद-
नेन मुनिना स्वज्ञानसिद्ध्यै कृतम् ॥” अयं
हि अद्वैतसिद्धिप्रस्थानभेदभगवद्गीताटीका-
महिम्नस्तवटीकासिद्धान्तबिन्दुटीकाद्यनेकग्रन्थ-
कर्त्ता ॥)

मधुसूदनी, स्त्री, (मधु सूदयतीति । मधु + सूद् +

णिच् + ल्युः । स्त्रियां ङीप् ।) पालङ्क्यशाकम् ।
इति हेमचन्द्रः । ४ । २५२ ॥

मधुस्रवः, पुं, (मधूनां मकरन्दानां स्रवः क्षरणं

यस्मादिति ।) मधूकवृक्षः । मोरटलता । इति
राजनिर्घण्टः ॥

मधुस्रवा, स्त्री, (मधुनः स्रवो यस्याः ।) मधुयष्टिका ।

इति जटाधरः ॥ जीवन्ती । इति शब्दचन्द्रिका ॥
(अस्याः पर्य्यायो यथा, --
“जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मूर्व्वा । हंसपदी । इति राजनिर्घण्टः ॥

मधुस्रवाः, [स्] पुं, (मधूनि स्रवति निःक्षिपतीति ।

स्रु + कर्त्तरि असुन् ।) मधूकवृक्षः । इति
जटाधरः ॥

मधुस्वरः, पुं, (मधुर्मनोहरः स्वरो ध्वनिर्यस्य ।)

कोकिलः । इति शब्दरत्नावली ॥

मधुहा, [न्] पुं, (मधुं तन्नामानमसुरं हन्तीति ।

हन् + क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥
(मधु हन्तीति । हन् + क्विप् । मधुनाशके, त्रि ।
यथा, महाभारते । ३ । ३३ । ६८ ।
“सर्व्वथा संहतैरेव दुर्ब्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥”
प्रसहजातिप्राणिविशेषः ॥ यंथा, --
“शशघ्नी भासकुररगृध्रोलूककुलिङ्गकाः ।
धूमिका मधुहा चेति प्रसहा मृगपक्षिणः ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

मधूकं, क्ली, (महतीति । मह् + “ऊलूका-

दयश्च ।” उणा० ४ । ४१ । इति ऊकः निपा-
तितश्च ।) यष्टिमधु । इति रार्जनिर्घण्टः ॥
(गुणादयोऽस्य यष्टिमधुशब्दे विज्ञेयाः ॥)

मधूकः, पुं, (मह्यते मन्यते वेति । मह् + मन् वा

+ “उलूकादयश्च ।” उणा ० ४ । ४१ । इति
ऊकप्रत्ययो निपातितश्च ।) वृक्षविशेषः ।
महुल इति मौल इति महुया इति च भाषा ॥
तत्पर्य्यायः । गुडपुष्पः २ मधुद्रुमः ३ वान-
प्रस्थः ४ मधुष्ठीलः ५ । इत्यमरः । २ । ४ । २८ ॥
मधुकः ६ मधुः ७ मधुपुष्पः ८ । इति शब्द-
रत्नावली ॥ मधुस्रवः ९ । इति जटाधरः ॥
मधुवृक्षः १० रोधपुष्पः ११ माधवः १२ ।
(यथा, महाभारते । १५ । २५ । ११ ।
“चित्राङ्गदा चैव नरेन्द्रकन्या
यैषा सवर्णाग्र्यमधूकपुष्पैः ॥”)
अस्य गुणाः । मधुरत्वम् । शीतत्वम् । पित्त-
दाहश्रमापहत्वम् । वातलत्वम् । जन्तुदोषघ्न-
त्वम् । वीर्य्यपुष्टिविवर्द्धनत्वञ्च । अस्य पुष्पगुणाः ।
मधुरत्वम् । हृद्यत्वम् । हिमत्वम् । पित्त-
विदाहकारित्वञ्च । अस्य फलगुणाः । वाता-
मयपित्तनाशित्वम् । ज्ञेयं मधूकद्वयमेवमेतत् ।
इति राजनिर्घण्टः ॥ अपि च ।
“मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् ।
बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ॥
फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् ।
अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षत-
क्षयान् ॥”
इति भावप्रकाशः ॥
अपरञ्च ।
“मधूकपुष्पञ्चाहृद्यं तर्पणं बृंहणं परम् ।
मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् ॥”
तन्मज्जगुणास्तत्फलगुणवत् । यथा, --
“यस्य यस्य फलस्यैव वीर्य्यं भवति यादृशम् ।
तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥”
तस्य त्वग्गुणाः ।
“मधूकं रक्तपित्तघ्नं व्रणशोधनरोपणम् ॥”
इति राजवल्लभः ॥

मधूच्छिष्टं, क्ली, (मधुनः उच्छिष्टमवशिष्टम् ।

मध्ववशिष्टम् । मोम इति भाषा ॥ (यथा,
बृहत्संहितायाम् । १६ । २५ ।
“शैलेयकमांसीतगरकुष्ठरससैन्धवादिवल्लीजम् ।
मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥”)
तत्पर्य्यायः । सिक्थकम् २ । इत्यमरः । २ । ९ ।
१०७ ॥ शिक्थकम् ३ शिक्थम् ४ । इति
शब्दरत्नावली ॥

मधूत्थितं, क्ली, (मधुनः उत्थितम् ।) सिक्थकम् ।

इति राजनिर्घण्टः ॥
पृष्ठ ३/६०३

मधूत्सवः, पुं, (मधोश्चैत्रस्य उत्सवो यत्र ।) चैत्री

पूर्णिमा । इति जटाधरः ॥ (यथाभिज्ञान-
शकुन्तले । ६ ।
“कञ्चुकी । प्रविश्य । सक्रोधम् । मा तावद-
नात्मज्ञे ! देवेन प्रतिषिद्धेऽपि मधूत्सवे चूत-
कलिकाभङ्गमारभसे ॥”)

मधूपघ्नं, क्ली, (मधोस्तन्नाम्नो दैत्यस्य उपघ्नः

आश्रयः । अभिधानात् क्लीवत्वम् ।) मथुरा ।
इति हेमचन्द्रः । ४ । ४४ ॥

मधूपघ्नः, पुं, (मधोस्तन्नाम्नो दैत्यस्य उपघ्नः

आश्रयः ।) मथुरा । इति जटाधरः ॥ (यथा,
रघुवंशे । १५ । १५ ।
“स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात् करमिवादाय सत्वराशिमुपस्थितः ॥”)

मधूलः, पुं, (मधु उरति प्राप्नोतीति । मधु +

उर गतौ सौत्रधातुः + कः । रस्य लत्वम् ।)
जलजगिरिजमधूकवृक्षौ । इति जटाधरः ॥
(अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“गौरशाको मधूलोऽन्यो गिरिजः स्वल्प-
पत्रकः ॥”)

मधूलकः, पुं, (मधूल + स्वार्थे कन् ।) जलज-

मधूकवृक्षः । तत्पर्य्यायः । दीर्घपत्रकः २ ।
इति जटाधरः ॥ गौरशाकः ३ मधूलः ४ स्वल्प-
पत्रकः ५ । इति रत्नमाला ॥
“स्यान्मधूके तु जलजे गिरिजेऽपि मधूलकः ॥”
इति शब्दरत्नावली ॥
(पर्य्यायान्तरमस्य यथा, --
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः ।
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अस्य गुणाः । मधूकगुणतुल्याः । मधुररसः ।
इति हेमचन्द्रः । ६ । २४ ॥ (क्लीवलिङ्गेऽपि दृश्यते ।
यथा, अथर्व्ववेदे । १ । ३४ । २ ।
“जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ॥”)
तद्वति, त्रि ॥

मधूलिका, स्त्री, (मधूल + कन् । स्त्रियां टाप्

अत इत्वञ्च ।) मूर्व्वा । इत्यमरः । २ । ४ । ८४ ॥
(अस्याः पर्य्यायो यथा, --
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा ।
मधलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥”
यष्टीमधु । तत्पर्य्यायो यथा, --
“यष्टीमधु तथा यष्टी मधुकं क्लीतकन्तथा ।
अन्यत्क्लीतनकन्तत्तु भवेत्तोये मधूलिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मधूली, स्त्री, (मधूल + गौरादित्वात् ङीष् ।)

क्लीतनकम् । मधुकर्कटी । आम्रः । इति राज-
निर्घण्टः ॥

मध्यं, क्ली, (मन्यते इति । मन् + “अघ्न्यादयश्च ।”

उणा ० ४ । १११ । इति यक्प्रत्ययेन निपातितः ।)
दशान्त्यसंख्या । शतसागरसंख्या । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । २ । ६१ । ४ ।
“मध्यञ्चैव परार्द्धञ्च सपरञ्चात्र पण्यताम् ॥”)
अवसानम् । तत्पर्य्यायः । विरामः २ । इति
त्रिकाण्डशेषः ॥ मन्दत्वशीघ्रत्वोभयेतरत्वयुक्त-
नृत्यविषयकगमनविशेषः । इति भरतः ॥ लय-
विशेषः । इति मधुः ॥ मध्यमावृत्तिः । इति
साञ्जः ॥ यथा, अमरे । २ । ६ । ७९ ।
“विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ॥”

मध्यः, पुं, क्ली, (मन् + यक् । नस्य च ध ।) देह-

मध्यभागः । माजा इति भाषा ॥ तत्पर्य्यायः ।
मध्यमम् २ अवलग्नम् ३ । इत्यमरः । २ । ६ ।
७९ ॥ विलग्नम् ४ । इति मेदिनी । भे, ४४ ॥
(यथा, भट्टिकाव्ये । ४ । १६ ।
“दधाना बलिभं मध्यं कर्णजाहविलोचना ॥”
मध्यभागमात्रम् । यथा, मनुः । ४ । ३७ ।
“नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥”
“आयुष्कालस्य मध्यमावस्थाविशेषः कालः ।
षोडशसप्तत्योरन्तरे मध्यं वयस्तस्य विकल्पो
वृद्धिर्यौवनं सम्पूर्णता हानिरिति । तत्राविंशते-
र्वृद्धिरात्रिंशतो यौवनमाचत्वारिंशतः सर्व्व-
धात्विन्द्रियबलवीर्य्यसम्पूर्णता । अत ऊर्द्धमीषत्
परिहानिर्यावत् सप्ततिरिति ॥” इति सुश्रुते
सूत्रस्थाने ३५ अध्याये ॥)

मध्यः, पुं, (मन् + यक् । नस्य धः ।) ग्रहस्फुट-

साधकाङ्कविशेषः । स च अहर्गणजातदेशा-
न्तरादिसंस्काररहिताङ्करूपग्रहः । इति
ज्योतिषम् ॥

मध्यः, त्रि, (मन्यते इति । मन् + यक् । नस्य

च धः ।) न्याय्यः । अन्तरः । अधमः । इति
शब्दरत्नावली ॥ मध्यमः । यथा, --
“उत्तमाधममध्यानि बुद्धा कार्य्याणि पार्थिवः ।
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥”
इति मात्स्ये ८९ अध्यायः ॥

मध्यगन्धः, पुं, (मध्ये फलाभ्यन्तरे गन्धोऽस्य ।)

आम्रवृक्षः । इति शब्दचन्द्रिका ॥

मध्यतः, [स्] व्य, (मध्य + तसिल् ।) मध्यात् ।

मध्ये । इति सिद्धान्तकौमुदी ॥ स्यादेः स्थाने
तसादयो ये आदेशास्तेषामदन्तत्वमव्ययत्व-
मिति प्राञ्चः । तेन कुतः कुतः आगतं कौत-
स्कुतम् । इत्यत्राव्ययत्वात् टिलोपः । इति दुर्गा-
दासः ॥

मध्यदेशः, पुं, (मध्यश्चासौ देशश्चेति ।) देश-

विशेषः । तत्पर्य्यायः । मध्यमः २ । इत्यमरः ॥
तस्य सीमा यथा, मनुः । २ । २१ ।
“हिमवद्बिन्ध्ययोर्मध्यं यः प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥”
विनशनं तीर्थमेदः । मां ध्यायति स्मरतीति
केसति मद्ध्यो दकारवानिति साञ्जे । मनो
धश्चेति यप्रत्यये नस्य धे सति चतुर्थमात्रवा-
नति रूपरत्नाकरः । इति तट्टीकायां भरतः ॥

मध्यदेश्यः, त्रि, (मध्यदेशे भवः इति यत् ।)

मध्यदेशोद्भवः । यथा, वामनपुराणे १३ अः ॥
“शकाश्चैव संससका मध्यदेश्या जनास्त्विमे ॥”

मध्यन्दिनः, पुं, (दिनस्य मध्यं राजदन्तादित्वात्

मध्यशब्दस्य पूर्ब्बनिपातः । पृषोदरादित्वात्
नकारागमः । मध्यन्दिनं पुष्पविकासकत्वेना-
स्यास्तीति । अच् ।) बन्धूकवृक्षः । इति राज-
निर्घण्टः ॥ (मध्याह्ने, क्ली, यथा, मनुः । ४ । १३१ ।
“मध्यन्दिनेऽर्द्धरात्रे ञ्च श्राद्धं भुक्त्वा च सामि-
षम् ॥”)

मध्यपञ्चमूलकं, क्ली, (मध्यं मध्यमं पञ्चमूलकम् ।)

पञ्चमूलपाचनविशेषः । यथा, --
“बला पुनर्नवैरण्डसूर्पपर्णीद्वयेन तु ।
एकत्र योजितेनैव स्यान्मध्यं पञ्चमूलकम् ॥”
इति राजनिर्घण्टः ॥

मध्यमं, पुं, क्ली, (मध्ये भवः । मध्य + “मध्यान्मः ।”

४ । ३ । ८ । इति मः ।) देहमध्यभागः । इत्य-
मरः । २ । ६ । ७९ ॥

मध्यमः, पुं, (मध्ये भवः । मध्य + मः ।) सप्त-

स्वराणां मध्ये पञ्चमस्वरः । इत्यमरः । १ । ७ । १ ॥
गानशास्त्रमते चतुर्थस्वरः । स तु क्रौञ्चस्वर-
तुल्यः । अस्योच्चारणस्थानं वक्षः । व्याकरणमते
अधरः । अयं विप्रवर्णः । अस्य संज्ञा
अन्तरः । अर्थात्चतुःस्वरमिलितः । तस्य ताना-
श्चतुर्विंशतिः तेषां प्रत्येकं द्वात्रिंशद्भेदेन ७६८
ताना भवन्ति । इति संगीतशास्त्रम् ॥ उपपति-
भेदः । तस्य लक्षणम् । प्रियायाः प्रकोपे यः
प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनो-
भावं गृह्णाति स मध्यमः । यथा, --
“आस्यं यद्यपि हास्यवर्जितमिदं लास्येन हीनं
वचो
नेत्रे शोणसरोजकान्तिरुचिरे क्वापि क्षणं
स्थीयते ।
मालायाः करणोद्यमे मकरिकारम्भः कुचा-
म्भोजयो-
र्धूपः कुन्तलधोरणीषु सुतनोः सायन्तनो
दृश्यते ॥”
इति रसमञ्जरी ॥
मध्यदेशः । इत्यमरः ॥ ग्रहाणां सामयिक-
संज्ञाविशेषः । यथा, --
“द्युचरचक्रहतो दिनसञ्चयः
क्व ह हतो भगणादिफलं ग्रहः ।
दशशिरःपुरमध्यमभास्करे
क्षितिजसन्निधिगे सति मध्यमः ॥”
इति सिद्धान्तशिरोमणिः ॥
मृगभेदः । रागभेदः । इति धरणिः ॥

मध्यमः, त्रि, (मध्ये भवः । मध्य + “मध्यान्मः । ४ ।

३ । ८ । इति मः ।) मध्यभवः । इति मेदिनी ।
मे, ४९ ॥ (यथा, मनौ । ९ । ११२ ।
“ततोऽर्द्धं मध्यमस्य स्यात् तुरीयन्तु यवीयसः ॥”)
तत्पर्य्यायः । माध्यमम् २ मध्यमीयम् ३
माध्यन्दिनम् ४ । इति हेमचन्द्रः ॥ (वयोमध्य-
समयः ।
“वयश्चतुर्व्विधं प्रोक्तं मध्यमाधममुत्तमम् ।
हीनञ्च हारीत ह्यत्र तानि वक्ष्यामि साम्प्रतम् ॥
पृष्ठ ३/६०४
पथिश्रान्तः श्रमक्षीणः बालश्रीः सुकुमारकः ।
एतेषां मध्यमा संज्ञा प्रोच्यते वैद्यकागमे ।
मध्यमः सप्ततिं यावत् परतो वृद्ध उच्यते ॥”
इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥
“बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।
भूयिष्ठं वर्द्धते वायुर्वृद्ध्वे तद्बीक्ष्य योजयेत् ॥”
इति च सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

मध्यमपाण्डवः, पुं, (मध्यमश्चासौ पाण्डवश्चेति ।

तस्य पूर्ब्बापरयोर्द्वयोर्द्वयोर्मध्यवर्त्तित्वात्तथा-
त्वम् ।) अर्ज्जुनः । इति जटाधरः ॥ (यथा,
किरातार्ज्जुनीये । १ । ४६ । श्लोकस्य टीकायां
मल्लिनाथः ।
“नेता मध्यमपाण्डवो भगवतो नारायण-
स्यांशजः ॥”)

मध्यमलोकः, पुं, (मध्यमश्चासौ लोकश्चेति कर्म्म-

धारयः ।) पृथिवी । इति त्रिकाण्डशेषः ॥ (यथा,
रघुः । २ । १६ ।
“तां देवता पित्रतिथिक्रियार्था-
मन्वक् ययौ मध्यमलोकपालः ॥”
“मध्यमलोकपालः भूपालः ।” इति तट्टीकायां
मल्लिनाथः ॥)

मध्यमभृतकः, पुं, (मध्यमश्चासौ भृतकश्चेति ।)

कृषीबलभृतकः । कृषाण इति भाषा ॥ यथा, --
“उत्तमश्चायुधीयोऽत्र मध्यमस्तु कृषीबलः ।
अधमो भारवाही स्यादित्येष त्रिविधो भृतः ॥”
इति मिताक्षरा ॥

मध्यमसंग्रहः पुं, (मध्यमश्चासौ संग्रहश्चेति ।)

स्त्रीसंग्रहणाख्यविवादविशेषः । स तु गन्ध-
माल्यवस्त्रभूषादिप्रेरणरूपः । यथा । प्रथम-
साहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन
विवृतम् ।
“त्रिविधं तत् समाख्यातं प्रथमं मध्यमोत्तमम् ।
अदेशकालभाषाभिर्निर्जने च परस्त्रियाः ।
कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।
प्रलोभनञ्चान्नपानैर्मध्यमं समुदाहृतम् ॥
सहासनं विविक्तेषु परस्परमपाश्रयः ।
केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥”
इति मिताक्षरायां स्त्रीसंग्रहणप्रकरणम् ॥

मध्यमसाहसं, क्ली, (सहसा क्रियमाणं कृतं वा ।

सहसा + अण् । मध्यमञ्च तत् साहसञ्चेति ।)
बलदर्पितेन बासःपश्वन्नपानादीनाम्भङ्गाक्षेपो
पमर्दादिरूपं सहसा क्रियमाणं कर्म्म । यथा,
“फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्द्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासःपश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥”
इति मिताक्षरा ॥

मध्यमसाहसः, पुं, (मध्यमश्चासौ साहसश्चेति ।)

दण्डविशेषः । स तु पञ्चशतपणरूपः । यथा, --
“पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमं पञ्च विज्ञेयः सहस्रन्त्वेव चोत्तमः ॥
लोभात् सहस्रं दण्डन्तु मोहात् पूर्ब्बन्तु साहसम् ।
भयाद्वा मध्यमौ दण्डौ मैत्रात् पूर्ब्बं चतुर्गुणम् ॥”
इति मानवे साक्षिप्रकरणे ८ अध्यायः ॥

मध्यमा स्त्री, (मध्यम + टाप् ।) दृष्टरजस्का

नारी । कर्णिका । अङ्गुलिमेदः । त्र्यक्षर-
च्छन्दः । इति मेदिनी । मे, ५० ॥ हृदयोत्थित-
बुद्धियुतनादरूपवर्णः । यथा, अलङ्कारकौस्तुभः ॥
“पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्य-
माख्यः ।”
स्वीयाद्यन्तर्गतनायिकाभेदः । तस्या लक्षणम् ।
हिताहितकारिण्यपि प्रियतमे हिताहित-
कारिणी या सा । अस्यास्तु व्यवहारानुसारिणी
चेष्टा । इति रसमञ्जरी ॥ (जम्बुभेदः । तत्पर्य्यायो
यथा, --
“सूक्ष्मकृष्णफलाजम्बुर्दीर्घपत्रा च मध्यमा ॥”
इति वैद्यकरत्नमालायाम् ॥)

मध्यमिका, स्त्री, (मध्यमैव । कन् टापि

अत इत्वञ्च ।) दृष्टरजस्का नारी । इति
रत्नावली ॥

मध्यमीयं, त्रि, (मध्यमे भवं मध्यमस्येदं वेति ।

“गहादिभ्यश्च ।” ४ । २ । १३८ । इति छः ।)
मध्यमम् । इति हेमचन्द्रः । ६ । ९६ ॥

मध्यमेश्वरः, पुं, (मध्यमस्य स्थानस्य ईश्वरः ।)

काशीस्थशिवलिङ्गविशेषः । यथा, --
“धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः ।
अर्च्चयन्ति महादेवं मध्यमेश्वरमीश्वरम् ॥
स्नानं दानं तपः श्राद्धं पिण्डनिर्व्वापणं त्विह ।
एकैकशः कृतं विप्राः पुनन्त्यासप्तमं कुलम् ॥
सन्निहित्वा अपस्पृश्य राहुग्रस्ते निशाकरे ।
यत् फलं लभते मर्त्यस्तस्माद्दशगुणं त्विह ॥
एवमुक्त्वा महायोगी मध्यमे शान्तिके प्रभुः ।
उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥”
इति कौर्म्मे ३१ अध्यायः ॥

मध्ययवः, पुं, (मध्यो मध्यमो यवः ।) षट्श्वेत-

सर्षपपरिमाणम् । इति केचित् ॥

मध्यरात्रः, पुं, (मध्यं रात्रेः “पूर्ब्बापराधरेति ।”

२ । २ । १ । इति समासः । “अहस्सर्वैकेति ।”
इति ५ । ४ । ८७ । समासान्तोऽच् पुंस्त्वञ्च ।)
निशीथः । अर्द्धरात्रः । इति हलायुधः ॥
(यथा मनौ । ४ । १०९ ।
“उदके मध्यरात्रे च विन्मूत्रस्य विसज्जने ।
उच्छिष्ठः श्राद्धभुक् चैव मनसापि न चिन्त-
येत् ॥”)

मध्यलोकः, पुं, (मध्यश्चासौ लोकश्चेति ।) पृथिवी ।

मर्त्यलोक इति यावत् । वक्ष्यमाणशब्दार्थ-
दर्शनात् ॥

मध्यलोकेशः, पुं, (मध्यलोकानां मर्त्त्यानां ईशः ।)

राजा । इति हेमचन्द्रः । ३ । ३५३ ॥

मध्यस्थः, त्रि, (मध्ये वादिप्रतिवादिनोरन्तरे

तिष्ठतीति । स्था + कः ।) मध्यस्थायी । तत्-
पर्य्यायः । निसृष्टः २ । इति त्रिकाण्डशेषः ॥
(यथा कथासरित्सागरे । १० । १९१ ।
“निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया ।
स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥”
यथा च भागवते । ६ । १६ । ५ ।
“बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः ।
सर्व्व एव हि सर्व्वेषां भवन्ति क्रमशो मिथः ॥”)
उभयपक्षहीनः । यथा, --
“श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।
तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥”
इति श्रीभागवते १० स्कन्धे ७८ अध्यायः ॥
स्वार्थाविरोधेन परार्थघटकः । यथाह प्राञ्चः ।
“ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य
वाधेन ये
मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरो-
धेन ये ।
तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो
हन्यते
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानी-
महे ॥”

मध्यस्थलं, क्ली, (मध्यं स्थलम् । शरीरमध्यवर्त्ति-

त्वात्तथात्वम् ।) कटिदेशः । यथा, --
“कुचौ मरिचसन्निभौ मुरजमध्यमध्यस्थली ।
अहो तिमिरमञ्जरी सहचरी नरीनृत्यते ॥”
इत्युद्भटः ॥

मध्या, स्त्री, (मध्य + ठाप् ।) मध्यमाङ्गुलिः ।

इति हेमचन्द्रः ॥ नायिकाविशेषः । अस्या
लक्षणम् । समानलज्जामदना । एषैव चाति-
प्रश्रयादतिविश्रब्धनवोढा ॥ अस्याश्चेष्टा ।
सागसि प्रेयसि धेर्य्ये वक्रोक्तिरधैर्य्यै परुषवाक् ।
यथा, --
“स्वापे प्रियाननविलोकनहानिरेव
स्वापच्युतौ प्रियकरग्रहणप्रसङ्गः ।
इत्थं सरोरुहसुखी परिचिन्तयन्ती
स्वापं विधातुमपि हातुमपि प्रपेदे ॥”
मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिविधे ।
धीरा अधीरा धीराधीरा चेति । इति रस-
मञ्जरी ॥

मध्याह्नः, पुं, (मध्यं अहः समासान्तः टच् ।

“अह्नोऽह्न एतेभ्यः ।” ५ । ४ । ८८ । इत्यह्नादेशः
पुंस्त्वञ्च ।) अह्रोऽष्टममुहूर्त्तात्मकमध्यभागः ।
स च कुतपकालस्य संज्ञाविशेषः । यथा, --
“अह्रो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा ।
तत्राष्टमो मुहूर्त्तो यः सः कालः कुतपः स्मृतः ।
मध्याह्रे सर्व्वदा यस्मान्मन्दीभवति भास्करः ।
तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥
मध्याह्रः खड्गपात्रञ्च तथा नेपालकम्बलम् ।
रौप्यं दर्भास्तिला गावो दौहित्रं चाष्टमः स्मृतः ॥
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ।
अष्टावेते यतस्तस्मात् कुतपा इति संस्मृताः ॥”
इति मत्स्यपुराणे श्राद्धकल्पे २२ अध्यायः ॥
त्रिधाविभक्तदिनमध्यभागः । स च दशदण्डात्
परं दशदण्डरूपः । इति श्रुत्युक्तः अमरोक्तश्च ॥
पञ्चधाविभक्तदिनतृतीयभागः । स तु द्वादश-
पृष्ठ ३/६०५
दण्डात् परषड्दण्डात्मकः । इति स्मार्त्तधृतमत्स्य-
पुराणम् ॥ एष नियमस्त्रिंशद्दण्डदिनाभिप्रायेण
न्यूनाधिके न्यूनाधिककालो ज्ञेयः ॥ * ॥ मध्याह्न-
कृत्यं यथा, --
“ततो मध्याह्रसमये स्नानार्थं मृदमाहरेत् ।
पुष्पाक्षतं कुशतिलान् गोमयं शुद्धमेव च ॥
नदीषु देवखातेषु तडागेषु सरित्सु च ।
स्नानं समाचरेन्नित्यं गर्भप्रस्रवणेषु च ॥
परकीयनिपानेषु न स्नायाद्वै कदाचन ।
पञ्च पिण्डान् समुद्धृत्य स्नायाद्वा सम्भवे पुनः ॥
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कार्य्यं पादौ षड्भिस्तथैव च ॥
मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमानिका ।
गोमयस्य प्रमाणन्तत्तेनाङ्गं लेपयेत्ततः ॥
लेपयित्वाथ तीरस्थस्तल्लिङ्गेनैव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत्ततः स्नायात् समाहितः ॥
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥
प्रेक्ष्य ॐकारमादित्यं त्रिर्निमज्जेज्जलाशये ।
पुनः पुनरथाचामेत् मन्त्रेणानेन मन्त्रवित् ॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृ-
तम् ॥
द्विवारं वा त्रिरभ्यस्येत् व्याहृतिप्रणवान्विताम् ।
सावित्रों वा जपेद्विद्वांस्तथा चैवाघमर्षणम् ॥
ततः सम्मार्ज्जनं कुर्य्यादापोहिष्ठामयो भुवः ।
इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥
ततोऽभिमन्त्र्य तत् तीर्थमापोहिष्ठादिमन्त्रकैः ।
अन्तर्ज्जले त्रिरावर्त्त्य सर्व्वपापात् प्रमुच्यते ॥
अपः पाणौ समादाय जप्त्वा वै मार्ज्जने कृते ।
विन्यस्य मूर्द्ध्नि तत्तोयं मुच्यते सर्व्वपातकैः ॥
यथाश्वमेधः क्रतुराट् सर्व्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्व्वपापापनोदनम् ॥
अथोपतिष्ठेदादित्यं मूर्द्ध्नि पुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयन्देवमदृश्यं वैदिकैः परम् ॥
उदुत्यं चित्रं देवानामित्यादिभिरनन्यधीः ।
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥
विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।
शतरुद्रियमथर्व्वशिरः सौरमन्त्रांश्च शक्तितः ॥
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।
तिष्ठंश्चेदीक्षमाणोऽर्कं जाप्यं कुर्य्यात् समा-
हितः ॥
स्फाटिकेन्द्राक्षरुद्राक्षपुत्त्रजीवसमुद्भवैः ।
कर्त्तव्या अक्षमाला वा उत्तरादुत्तमा स्मृता ॥
जपकाले न भावेत नान्यानि प्रेक्षयेद्बुधः ।
न कम्पयेच्छिरोग्रीवान्दन्तान्नैव प्रकाशयेत् ॥
गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभम्भयात् ।
एकान्तेषु शुभे देशे तस्माज्जप्यं समाचरेत् ॥
चण्डालाशौचिपतितान् दृष्ट्वाचम्य पुनर्ज्जपेत् ।
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेद्बुधः ॥
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु
कामतः ॥
यदि स्यात् क्लिन्नवासो वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥
प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ ।
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाच-
रेत् ॥
ततः सन्तर्पयेद्देवानृषीन् पितृगणान् क्रमात् ।
आदावोङ्कारमुच्चार्य्य नमोऽन्ते तर्पयामि च ॥
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन च ।
देवर्षींस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄन् ॥
यज्ञोपवीती देवानां निवीती ऋषितर्पणम् ।
प्राचीनावीती पैत्र्ये तु स्वेन तीर्थेन भावतः ॥
नापीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ।
स्वैर्म्मन्त्रैरर्च्चयेद्देवान् पुष्पैः पत्रैरथाम्बुभिः ॥
ब्रह्माणं शङ्करं सूर्य्यं तथैव मधुसूदनम् ।
अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो-
ऽत्वरः ॥
प्रदद्याद्वाथ पुष्पाणि सूक्तेन पुरुषेण तु ।
आपो वा देवताः सर्व्वास्तेन सम्यक् समर्च्चिताः ॥
नमस्कारेण पुष्पाणिं विन्यसेद्बै पृथक् पृथक् ।
न विष्ण्वाराधनात् पुण्यं विद्यते कर्म्म वैदिकम् ।
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥
तद्विष्णोरितिमन्त्रेण सूक्तेन पुरुषेण तु ।
नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥
निवेदयेत् स्वमात्मानं विष्णावमलतेजसि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरितिमन्त्रतः ॥
अथवा देवमीशानं भगवन्तं सनातनम् ॥
आराधयेन्महादेवं भावपूतो महेश्वरम् ॥
मन्त्रेण रुद्रगायत्त्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथवा रुद्रैस्त्र्यम्बकेण समाहितः ॥
पुष्पैः पत्रैरथाद्भिश्च चन्दनाद्यैर्महेश्वरम् ।
अथोन्नमः शिवायेति मन्त्रेणानेन योजयेत् ॥
नमस्कुर्य्यान्महादेवमृतं सत्यमितीश्वरम् ।
निवेदयीत स्वात्मानं यो ब्राह्मणमितीश्वरे ॥
प्रदक्षिणं द्विजः कुर्य्यात् पञ्च ब्राह्मण वै जपन् ।
ध्यायेत्तं देवमीशानं व्योममध्यगतं शिवम् ॥
अथावलोकयेदर्कं हंसः शुचिषदित्यृचा ।
कुर्य्यात् पञ्च महायज्ञान् गृहं कृत्वा समाहितः ॥
देवयज्ञं पितृयज्ञं ऋषियज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञञ्च पञ्चयज्ञान् प्रचक्षते ॥
यदि स्यात् तर्पणादर्व्वाक्ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ।
अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।
कुशासनसमासीनः कुशपाणिः समाहितः ॥
शालाग्नौ लौकिकाग्नौ वा जले भूम्यामथापि
वा ।
वैश्वदेवनिमित्तं वै देवयज्ञः स वै स्मृतः ॥
यदि स्याल्लौकिके पक्वं ततोऽन्नं तत्र हूयते ।
शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥
देवेभ्यश्च हुतान्दद्यात् शेषान् भूतबलिं हरेत् ।
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्व्वदेहिनाम् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यो नित्यमेव च ।
दद्याद्भूमौ बलिं त्वन्नं पक्षिभ्योऽथ द्विजोत्तमः ॥
सायं चान्नस्य सिद्धस्य कुर्य्यादेवमतन्द्रितः ।
भूतयज्ञः स्वयं नित्यं सायं प्रातर्विधीयते ॥
एकन्तु भोजयेद्विप्रं षितॄनुद्दिश्य सत्तमम् ।
अथवायं यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायै वोपपादयेत् ॥
पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद्द्विजम् ।
मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्तु तम् ॥
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम् ॥
भिक्षामाहुर्ग्रासमात्रमग्रं स्यात् तच्चतुर्गुणम् ।
पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते ॥
गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।
अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥
भिक्षां वै भिक्षवे दद्याद्विधिवद् ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्ज्जितः ॥
सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयत् ।
भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥
अकृत्वा तु द्बिजः पञ्च महायज्ञान् द्विजोत्तमाः ।
भुञ्जीत चेत् सुमूढात्मा तिर्य्यग्योनिं स
गच्छति ॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ।
नाशयन्त्याशु पापानि देवानामर्च्चनं तथा ॥
यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् ।
भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥
तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः ।
भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥”
इति कौर्म्मे उपविभागे १७ अध्यायः ॥
अत्र भोजनविधिर्भोजनशब्दे द्रष्टव्यः ॥

मध्वलः, (मधुं तत्पर्य्यायं अलतीति । अल् +

अण् । संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः ।) मधुवारः ।
इति शब्दचन्द्रिका ॥

मध्वालु, क्ली, (मधु मधुरं आलु । मधुवन्मिष्टत्वा-

त्तथात्वम् ।) मूलविशेषः । मौ आलु इति
भाषा ॥ अस्य गुणाः । रक्तपित्तनाशित्वम् ।
गुरुत्वम् । स्वादुत्वम् । शीतत्वम् । स्तन्यशुक्र-
कारित्वञ्च । इति राजवल्लभः ॥

मध्वालुकं, क्ली, (मध्वालु + स्वार्थे कन् ।) कन्द-

विशेषः । इति शब्दचन्द्रिका ॥ मौ आलु इति
भाषा ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“विदारीकन्दशतावरीविसमृणालशृङ्गाटक-
कशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठा-
लुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्द-प्रभृ-
तीनि ॥”)

मध्वासवः, पुं, (मधु मधूकपुष्परसस्तन कृत

आसवः ।) मधूकपुष्पकृतमद्यम् । तत्पर्य्यायः ।
पृष्ठ ३/६०६
माधवकः २ मधु ३ माध्वीकम् ४ । इत्यमरः ।
२ । १० । ४१ ॥ (यथा, सुश्रुते १ । ४५ अध्याये ।
“मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।
मधु मध्वासवश्छेदी मेहकुष्ठविषापहः ॥”
विवरणमस्य माध्वीकशब्दे ज्ञातव्यम् ॥)

मध्वासवनिकः, पुं, (मध्वासवनमुत्पाद्यत्वेनास्त्य-

स्येति । मध्वासवन + ठन् ।) शौण्डिकः । इति
शब्दमाला ॥

मध्विजा, स्त्री, (मधु ईजते प्राप्नोति कारणत्वे-

नेति । ईज + कः । पृषोदरादित्वात् ह्रस्वः ।)
मदिरा । इति हेमचन्द्रः । ३ । ५६७ ॥ (गुणादि-
विषयोऽस्या मदिराशब्दे ज्ञातव्यः ॥)

मन, अर्च्चे । गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-गर्व्वे अक०-सेट् ।) मनति । इति
दुर्गादासः ॥

मन, क ङ गर्व्वके । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-अक०-स्तम्भने सक०-सेट् ।) क
ङ, मानयते । गर्व्वकोऽहङ्कारः । मनस्तम्भने ।
इति प्राञ्चः । मानयते शत्रुं बली स्तभ्नाती-
त्यर्थः । इति रमानाथः । इति दुर्गादासः ॥

मन, त् क धृतौ । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) दन्त्यनोपधः । मन-
यति । इति दुर्गादासः ॥

मन, द ङ बोधे । इति कविकल्पद्रुमः ॥ (तना०-

आत्म०-सक०-सेट् ।) द ङ, मनुते । इति
दुर्गादासः ॥

मन, य औ ङ बोधे । इति कविकल्पद्रुमः ॥

(दिवां-आत्म०-सक०-अनिट् ।) य ङ, मन्यते ।
औ, अमंस्त । इति दुर्गादासः ॥

मनआपः, त्रि, (आप्नोतीति । आप् + अच् ।

मनस आपः ।) मनोज्ञः । इति त्रिकाण्ड-
शेषः ॥

मनः, पुं, (मन्यते सुरभित्वादिगुणेन आद्रियत

इति । मन् + घः ।) जटामांसी । इति शब्द-
चन्द्रिका ॥

मनः, [स्] क्ली, (मन्यते बुध्यतेऽनेनेति । मन् +

“सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति
असुन् ।) लिङ्गशरीरावयवविशेषः । यथा ।
सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरी-
राणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि-
मनसी कर्म्मन्द्रियपञ्चकं वायुपञ्चकञ्चेति । मनो
नाम सङ्कल्पविकल्पात्मिका अन्तःकरणवृत्तिः ।
मनस्तु कर्म्मोन्द्रियैः सहितं सत् मनोमयकोशो
भवति । इति वेदान्तसारः ॥ ज्ञानेन्द्रियविशेषः ।
तत्तु बुद्धीन्द्रियाणां षण्णां प्रधानं श्रीकृष्ण-
विभूतिश्च । यथा, --
“इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥”
इति भगवद्गीता ॥
तच्च गभस्थस्य सप्तमे मासि जायते । इति
सुखबोधः ॥ (“पञ्चमे मनः प्रतिबुद्धतरं भवति ।”
इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥ * ॥)
तत्पर्य्यायः । चित्तम् २ चेतः ३ हृदयम् ४
स्वान्तम् ५ हृत् ६ मानसम् ७ । इत्यमरः ।
१ । ४ । ३१ ॥ अनङ्गकम् ८ अङ्गम् ९ । इति
शब्दरत्नावली ॥ अपि च ।
“मनो महान् मतिर्ब्रह्मा पूर्ब्बुद्धिः ख्याति-
रीश्वरः ।
प्रज्ञा संवित् चितिश्चव स्मृतिश्च परिपठ्यते ।
पर्य्यायवाचकाः शब्दा मनसः परिकीर्त्तिताः ॥”
इति महाभारते मोक्षधर्म्मः ॥ * ॥
न्यायमते अस्य गुणाः । परत्वम् । अपरत्वम् ।
संख्या । परिमितिः । पृथक्त्वम् । संयोगः ।
विभागः । वेगश्च । मनोग्राह्याणि यथा ।
सुखम् । दुःखम् । इच्छा । द्वेषः । मतिः ।
यत्नश्च । इदं परमाणुस्वरूपम् । शिरोमणि-
मते वायवीयपरमाणुरूपम् । यथा, --
“परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे ।
मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥”
इति भाषापरिच्छेदः ॥
जन्यज्ञानसामान्यं प्रति त्वङ्मनोयोगः कार-
णम् । यथा, तत्रैव ।
“त्वचो योगो मनसा ज्ञानकारणम् ॥”
तस्य नवगुणा यथा, --
“धैर्य्योपपत्तिव्यक्तिश्च विसर्गः कल्पना क्षमा ।
सदसच्चाशुता चैव मनसो नव वै गुणाः ॥”
इति मोक्षधर्म्मः ॥
अस्य व्याख्या । धैर्य्यम् १ उपपत्तिः ऊहापोह-
कौशलम् २ व्यक्तिः स्मरणम् ३ विसर्गः विप-
रीतसर्गो भ्रान्तिः ४ कल्पना मनोरथवृत्तिः ५
क्षमा ६ सत् वैराग्यादि ७ असत् रागद्वेषादि ८
आशुता अस्थिरत्वम् ९ । इति तट्टीका ॥ * ॥
अस्य चातुर्विध्यं यथा, --
“मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् ।
संशयो निश्चयो गर्व्वः स्मरणं विषया अमी ॥”
इति वेदान्तः ॥
तस्य अध्यात्मत्वादि यथा, --
“अध्यात्मं मन इत्याहुः पञ्चभूतात्मधारकम् ।
अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
तस्य स्वरूपं यथा, --
“अनिरूप्यमदृश्यञ्च ज्ञानभेदं मनः स्मृतम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
तस्य प्राशस्त्याप्राशस्त्यानुमापकानि यथा, --
“जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ।
शिष्ये कलत्रे कन्यायां दौहित्रे बान्धवेऽपि च ॥
पुत्त्रे पौत्त्रे च वचसि प्रतापे यशसि श्रियाम् ।
बुद्धौ वारिणि विद्यायां ज्ञायते हृदयं नृणाम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥
तस्य बन्धमोक्षहेतुत्वं यथा, --
“मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धस्य विषयासङ्गि मुक्तेर्न्निर्व्विषयं तथा ॥”
इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥
(“अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं चेत्याहुरेके
तदर्थात्मसम्पदायत्तचेष्टम् । चेष्टाप्रत्ययभूत-
मिन्द्रियाणाम् । स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचर-
णाच्चानेकमेकस्मिन् पुरुषे सत्त्वरजस्तमः सत्त्व-
गुणयोगाच्च न चानेकत्वं नानेकं ह्येककालमने-
केषु प्रवर्त्तते ॥ तस्मान्नैककाला सर्व्वेन्द्रिय-
प्रवृत्तिः । यद्गुणञ्चाभीक्ष्णं पुरुषमनुवर्त्तते सत्त्वं
तत्सत्त्वमेवोपदिशन्ति ऋषयो बाहुल्यानुशयात् ॥
मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि
भवन्ति ॥”
“मनसस्तु चिन्त्यमर्थः । तत्र मनसो बुद्धेश्च
त एव समानातिहीनमिथ्यायोगाः प्रकृति-
विकृतिहेतवो भवन्ति ॥” इति चरके सूत्र-
स्थाने अष्टमेऽध्याये ॥
“लक्षणं मनसो ज्ञानस्याभावो भाव एव वा ।
सति ह्यात्मेन्द्रियार्थानां सन्निकर्षेण वर्त्तते ॥
वैधृत्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्त्तते ।
अणुत्वमथचैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥
चिन्त्यविचार्य्यमूह्यञ्च ध्येयं सङ्कल्प्यमेव च ।
यत्किञ्चिन्मनसो ज्ञेयं तत् सर्व्वं ह्यर्थसंज्ञकम् ॥
इन्द्रियाभिग्रहः कर्म्म मनसस्तस्य निग्रहः ।
ऊहो विचारश्च ततः परं बुद्धिः प्रवर्त्तते ॥
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।
कल्प्यते मनसाप्यूर्द्धं गुणतो दोषतो यथा ॥
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।
व्यवस्यते तथा वक्तुं कर्त्तुं वा बुद्धिपूर्ब्बकम् ॥
या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्त्तते ।
याति सा तेन निर्द्देशं मनसा च मनोभवा ॥
बुद्धीन्द्रियमनोर्थानां विद्याद् योगधरं परम् ॥”
इति चरके शारीरस्थाने प्रथमेऽध्याये ॥
सत्त्वगुणयुक्तस्य मनसो गुणा यथा, --
“आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं
वचो
मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानञ्च निर्द्द-
म्भता ।
कर्म्मानिन्दितमस्पृहञ्च विनयो धर्म्मः सदैवादरा-
देते सत्त्वगुणान्वितस्य मनसो गीता गुणा
ज्ञानिभिः ॥”
अस्ति धर्म्ममोक्षपरलोकादिकमिति बुद्ध्या
चरतीत्यास्तिकस्तस्य भाव आस्तिक्यं अनु-
त्तापः अक्रोधः धृतिः भूतप्रेतस्मरक्रोधलोभा-
द्यावेशराहित्यं ज्ञानमात्मज्ञानम् । निर्द्दम्भता
कपटाभावः कर्म्म अनिन्दितं अस्पृहं निष्का
मञ्च ॥ रजोगुणयुक्तस्य मनसो गुणा यथा, --
“क्रोधस्ताडनशीलता च बहुलं दुःखं सुखे-
च्छाधिका
दम्भः कामुकताप्यलीकवचनं चाधीरता-
हङ्कृतिः ।
ऐश्वर्य्यादभिमानितातिशयितानन्दोऽधिकश्चाटनं
प्रख्याता हि रजोगुणेन सहितस्यैते गुणा-
श्चेतसः ॥”
पृष्ठ ३/६०७
अलीकवचनं मिथ्याकथनं अटनं पृथ्वीपरि-
भ्रमणम् ॥ अथ तमोगुणयुक्तस्य मनसो गुणा
यथा, --
“नास्तिक्यं सुविषन्नतातिशयितालस्यञ्च दुष्टा
मतिः
प्रातिर्निन्दितकर्म्मशर्म्मणि सदा निद्रालुताह-
र्न्निशम् ।
अज्ञानं किल सर्व्वतोऽपि सततं क्रोधान्धता
मूढता
प्रख्याता हि तमोगुणेन सहितस्यैते गुणा-
श्चेतसः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥
सर्व्वे सान्ता अदन्ताश्चेति प्रमाणात् अका-
रान्त मनशब्दोऽप्यस्ति । यथा, उत्तरगीता-
याम् । १३ । अध्याये ।
“मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् ।
मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥”)

मनःशिलः, पुं, (मनो मानसं शिलति आकर्षति

स्वगन्धेनेति । शिल + कः ।) मनःशिला । यथा,
“टङ्कैर्मनःशिलगुहैरविदार्य्यमाणा ॥”
इत्यमरटीकायां भरतः ॥

मनःशिला, स्त्री, (मनः शिलति आददाति आक-

र्षति गन्धेनेति । शिल + कः । स्त्रियां टाप् ।
यद्वा, मनःप्रसादिका शिला धातुविशेषः ।)
रक्तवर्णधातुविशेषः । मञ्छल इति भाषा ॥
(यथा, कुमारे । १ । ५५ ।
“मनःशिलाविच्छुरिता निषेदुः
शैलेयनद्धेषु शिलातलेषु ॥”)
सा तु लक्ष्मीवीर्य्यम् । इति वैद्यकम् ॥ तत्प-
र्य्यायः । कुनटी २ मनोज्ञा ३ नागजिह्विका ४ ।
इत्यमरः । २ । ९ । १०८ ॥ नैपाली ५
शिला ६ । इति रत्नमाला ॥ मनोह्वा ७ नेपा-
लिका ८ मनोगुप्ता ९ कल्याणिका १० रोग-
शिला ११ । इति राजनिर्घण्टः ॥ गोला १२
दिव्यौषधिः १३ । इति भावप्रकाशः ॥ अस्या
गुणाः । कटुत्वम् । स्निग्धत्वम् । लेखनत्वम् ।
विषभूतावेशभयोन्मादनाशित्वम् । वश्यकारि-
त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । तिक्त-
त्वम् । कफनाशित्वम् । सारकत्वम् । छर्द्दि-
कारित्वम् । कुष्ठज्वरपाण्डुकासश्वासनाशि-
त्वम् । शुक्रमङ्गलकारित्वञ्च । इति राजवल्लभः ॥
अन्यच्च ।
“मनःशिला गुरुर्ब्बल्या सरोष्णा लेखनी कटुः ।
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥
मनःशिला मन्दबलं करोति
जन्तुं ध्रुवं शोधनमन्तरेण ।
मलानुबन्धं किल मूत्ररोधं
सशर्करं कृच्छ्रगदञ्च कुर्य्यात् ॥”
इति भावप्रकाशः ॥
(अस्याः पर्य्यायः शोधनं गुणाश्च यथा, --
“मनःशिला च नेपाली शिलाह्वा नागजिह्विका ।
मनोज्ञा कुनटी गोली करञ्जी करवीरिका ॥
मनोह्वा ओड्रपुष्पाभा शस्यते सर्व्वकर्म्मसु ॥”
“जयन्ती भृङ्गराजोत्थै रक्तागस्त्यरसैः शिला ॥
दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ।
क्षालयेदारनालेन सर्व्वरोगेषु योजयेत् ॥”
मतान्तरे मनःशिलाशुद्धिर्यथा, --
“अगस्त्यपत्रतोयेन भाविता सप्तवासरम् ।
शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ।
कटुः स्निग्धा शिला तिक्ता कफघ्नी लेखनी सरा ।
भूतावेशभयं हन्ति कासश्वासहरा शुभा ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

मननं, क्ली, (मन्यत इति । मन् + ल्युट् ।) श्रुतस्या-

द्बितीयवस्तुनो वेदान्तार्थानुगुणयुक्तिभिः अन-
वरतमनुचिन्तनम् । इति वेदान्तसारः ॥ बोध-
नम् । (यथा, गायत्त्रीतन्त्रे । १ । ४ ।
“मननात् पापतस्त्राति मननात् स्वर्गमश्नुते ।
मननात् मोक्षमाप्नोति चतुर्व्वर्गमयो भवेत् ॥”)
धारणम् । इति मनधात्वर्थदर्शनात् । बुद्धिः ।
इति राजनिर्घण्टः ॥

मनसा, स्त्री, (मनः भक्ताभीष्टपूरणाय मननं

अस्त्यस्या इति । मनस् + अर्श आदित्वादच् ।
ततष्टाप् । यद्वा, मनं मननमहङ्कारमिति
यावत् स्यति नाशयतीति । सो + कः ।) देवी-
विशेषः । तत्पर्य्यायः । कद्रुः २ मनसादेवी ३
विषहरी ४ । इति जटाधरः ॥ अस्याः प्रणाम-
मन्त्रः ।
“आस्तीकस्य मुनेर्माता भगिनी वासुकेस्तथा ।
जरत्कारुमुनेः पत्नी मनसादेवि ! नमोऽस्तु ते ॥”
इति तस्याः पूजापद्धतिः ॥
तस्या नाम्नां व्युत्पत्तिर्यथा, --
श्रीनारायण उवाच ।
“श्रूयतां मनसाख्यानं यत् श्रुतं धर्म्मवक्त्रतः ।
कन्या सा च भगवती कश्यपस्य च मानसी ॥
तेनेयं मनसादेवी मनसा या च दीव्यति ।
मनसा ध्यायते या वा परमात्मानमीश्वरी ॥
तेन सा मनसादेवी योगेन तेन दीव्यति ।
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥
त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः ।
जरत्कारुशरीरञ्च दृष्ट्वा यत् क्षीणमीश्वरः ॥
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ।
वाञ्छितञ्च ददौ तस्यै कृपया च कृपानिधिः ॥
पूजाञ्च कारयामास चकार च पुनः पुनः ।
स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ॥
भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा ।
जगद्गौरीति विख्याता तेन सा पूजिता सती ॥
शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता ।
विष्णुभक्तातीव शश्वद्वैष्णवी तेन नारद ! ॥
नागानां प्राणरक्षित्री यज्ञे जन्मेजयस्य च ।
नागेश्वरीति विख्याता सा नागभगिनीति च ॥
विषं संहर्त्तुमीशा सा तेन विषहरीति सा ।
सिद्धं योगं हरात् प्राप तेनातिसिद्धयोगिनी ।
महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् ।
महाज्ञानयुतां ताञ्च प्रवदन्ति मनीषिणः ॥
आस्तीकस्य मुनीन्द्रस्य माता सा च तप-
स्विनः ॥
आस्तीकमाता विख्याता जगत्सु सुप्रतिष्ठीता ॥
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ।
योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ॥
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥
जरत्कारुप्रियास्तीकमाता विषहरीति च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥
नागभीते च शयने नागग्रस्ते च मन्दिरे ।
नागक्षते महादुर्गे नागवेष्टितविग्रहे ।
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ।
नित्यं पठेद् यस्तं दृष्ट्वा नागवर्गः पलायते ॥
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ॥
नागौघभूषणं कृत्वा स भवेन्नागवाहनः ।
नागासनो नागतल्पो महासिद्धोभवेन्नरः ॥”
इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा-
यणनारदीये मनसोपाख्याने मनसास्तोत्रं नाम
पञ्चचत्वारिंशत्तमोऽध्यायः ॥ * ॥ तस्याः पूजा-
मन्त्रादि यथा, --
श्रीनारायण उवाच ।
“पूजाविधानं स्तोत्रञ्च श्रूयतां मुनिपुङ्गव ! ।
ध्यानञ्च सामवेदोक्तं देवीपूजाविधानकम् ॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्रिशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥
महाज्ञानयुताञ्चैव प्रवरां ज्ञानिनां सतीम् ।
सिद्धाधिष्ठातृदेवीञ्च सिद्धां सिद्धिप्रदां भजे ॥
इति ध्यात्वा तु तां देवीं मूलेनैव प्रपूजयेत् ।
नैवेद्यैर्विविधैर्दीपैः पुष्पधूपानुलेपनैः ॥
मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः ।
मुने ! कल्पतरुर्नाम सुसिद्धो द्बादशाक्षरः ॥
ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्त्तितः ।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥
ब्रह्मन्नाषाढसंक्रान्त्यां स्नुहीशाखासु यत्नतः ।
आवाह्य देवीमीशान्तां पूजयेद् यो हि
भक्तितः ॥
पञ्चम्यां मनसाख्यायां देव्यै दद्याच्च यो बलिम् ।
धनवान् पुत्त्रवांश्चैव कीर्त्तिमांश्च भवेद्ध्रुवम् ॥
पूजाविधानं कथितं तदाख्यानं निशामय ।
कथयामि महाभाग ! यत् श्रुतं धर्म्मवक्ततः ॥”
तस्या जन्मकारणं यथा, --
“पुरा नागभयाक्रान्ता बभुयुर्मानवा भुवि ।
यान् यान् खादन्ति नागाश्च ते न जीवन्ति
नारद ! ॥
मन्त्रांश्च ससृजे भीतः कश्यपः ब्रह्मणार्थितः ।
वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥
पृष्ठ ३/६०८
मन्त्राधिष्ठातृदेवीन्तां मनसां ससृजे ततः ।
तपसा मनसा तेन बभूव मनसा च सा ॥”
तस्यास्तपस्यादि यथा, --
“कुमारी सा च सम्भूय जगाम शङ्करालयम् ।
भक्त्या संपूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥
दिव्यं वर्षसहस्रञ्च तं सिषेवे मुनेः सुता ।
आशुतोषो महेशश्च ताञ्च तुष्टो बभूव ह ॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ! ॥
लक्ष्मीमाया कामबीजं ङेऽन्तं कृष्णपदन्तथा ।
त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥
सर्व्वपूज्यञ्च स्तवनं ध्यानं भुवनपावनम् ।
पुरश्चर्य्याक्रमञ्चापि वेदोक्तं सर्व्वसम्मतम् ॥
प्राप्ता मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती ।
जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ॥
त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः ।
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ॥
दृष्ट्वा कृशाङ्गीं बालाञ्च कृपया च कृपानिधिः ।
पूजाञ्च कारयामास चकार च स्वयं हरिः ॥
वरञ्च प्रददौ तस्यै पूजिता त्वं भवे भव ।
वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ॥
प्रथमे पूजिता सा च कृष्णेन परमात्मना ।
द्वितीये शङ्करेणैव कश्यपेन सुरेण च ॥
मनुना मुनिना चैव नागेन मानवादिना ।
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ॥”
तस्या विवाहः स्वामिकर्त्तृकत्यागश्च यथा, --
“जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ।
अयाचितो मुनिश्रेष्ठो जग्राह ब्रह्मणाज्ञया ॥
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ।
सुष्वाप देव्या जघने वटमूले च पुष्करे ॥
निद्रां जगाम च मुनिः स्मृत्वा निद्रेशमीश्वरम् ।
जगामास्तं दिनकरः सायंकाल उपस्थितः ॥
सचिन्त्य मनसा तत्र मनसा सा प्रतिष्ठिता ।
धर्म्मलोपभयेनैव चकारालोचनं सती ॥
अकृत्वा पश्चिमां सन्ध्यां नित्याञ्चैव द्बिजन्मनाम् ।
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ॥
नोपतिष्ठति यः पूर्ब्बां नोपास्ते यस्तु पश्चिमाम् ।
स च एवाशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ॥
वेदोक्तमपि संचिन्त्य बोधयामास तं मुनिम् ।
स च बुद्धा मुनिश्रेष्ठश्चुकोप तां दृशा मुनिः ॥
जरत्कारुरुवाच ।
कथं मे सुव्रते ! साध्वि ! निद्राभङ्गः कृतस्त्वया ।
व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ॥
तपश्चानशनञ्चैव व्रतं दानादिकञ्च यत् ।
भर्त्तुरप्रियकारिण्याः सर्व्वं भवति निष्फलम् ॥
यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ।
पतिव्रताव्रतार्थञ्च पतिरूपी हरिः स्वयम् ॥
सर्व्वदानं सर्व्वयज्ञः सर्व्वतीर्थनिषेवणम् ।
सर्व्वं व्रतं तपः सर्व्वमुपवासादिकञ्च यत् ॥
सर्व्वधर्म्मश्च सत्यञ्च सर्व्वदेवप्रपूजनम् ।
तत्सर्व्वं स्वामिसेवायाः कलां नार्हन्ति षोड-
शीम् ॥
सुपुण्ये भारते वर्षे पतिसेवां करोति या ।
वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः
शतम् ॥
विप्रियं कुरुते भर्त्तुर्विप्रियं वदति प्रियम् ।
असत्कुलप्रजाता या तत्फलं श्रूयतां सति ! ॥
कुम्भीपाकं व्रजेत् सा च यावच्चन्द्रदिवाकरौ ।
ततो भवति चाण्डाली पतिपुत्त्रविवर्जिता ॥
इत्युक्त्वा च सुनिश्रेष्ठो बभूव स्फुरिताधरः ।
चकम्पे मनसा साध्वी भयेनोवाच तं पतिम् ॥
मनसोवाच ।
सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ।
कुरु शास्तिं महाभाग ! दुष्टाया मम सुव्रत ! ॥
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ।
स व्रजेत् कालसूत्रञ्च स्वामिनश्च विशेषतः ॥
इत्युक्त्वा मनसादेवी स्वामिनश्चरणाम्बुजे ।
पपात भक्त्या भीता च रुरोद च पुनः पुनः ॥
कुपितञ्च मुनिं दृष्ट्वा श्रीसूर्य्यः शप्तुमुद्यतम् ।
तत्राजगाम भगवान् सन्ध्यया सह नारद ! ॥
तत्रागत्य मुनिश्रेष्ठमुवाच भास्करः स्वयम् ।
विनयेन च भीतश्च तया सह यथोचितम् ॥
श्रीसूर्य्य उवाच ।
सूर्य्यास्तसमयं दृष्ट्वा धर्म्मलोपभयेन च ।
बोधयामास त्वां विप्र ! नाहमस्तं गतस्तदा ॥
क्षमस्व भगवन् ! ब्रह्मन्मां शप्तुं नोचितं मुने ! ॥
ब्राह्मणानाञ्च हृदयं नवनीतसमं तथा ।
तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥
पुनः स्रष्टुं द्बिजः शक्तो न तेजस्वी द्विजात्
परः ।
ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन् ब्रह्मतेजसा ॥
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् ।
सूर्य्यस्य वचनं श्रुत्वा द्विजः शान्तो बभूव ह ॥
सूर्य्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥
रुदन्ती शोकयुक्ता च हृदयेन विदूयता ।
सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम् ॥
कश्यपं जन्मदातारं विपत्तौ भयकर्षिता ।
तत्राजगाम भगवान् गोपीशः शम्भुरेव च ।
विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ॥
दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ।
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ॥
नमश्चकार शम्भुञ्च ब्रह्माणं कश्यपन्तदा ।
कथमागमनं देवा इति प्रश्नं चकार सः ॥
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ।
समुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ॥
ब्रह्मोवाच ।
यदि त्यक्ता धर्म्मपत्नी धर्म्मिष्ठा मनसा सती ।
कुरुष्वास्यां सुतोत्पत्तिं स्वधर्म्मपालनाय वै ॥
यती वा ब्रह्मचारी वा भिक्षुर्व्वनचरोऽपि वा ।
जायायाञ्च सुतोत्पत्तिं कृत्वा पश्चात् त्यजेन्मुने ! ॥
अकृत्वा तु सुतोत्पत्तिं वैरागी यस्त्यजेत् प्रियाम् ।
स्रवेत्तपस्तत्पुण्यञ्च चालन्याञ्च यथा जलम् ॥”
तस्याः पुत्त्रोत्पत्तिर्यथा, --
“ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।
चकार तन्नाभिस्पर्शं योगेन मन्त्रपूर्ब्बकम् ॥
तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदान्विताः ।
मुदान्विता च मनसा जरत्कारुर्मुदान्वितः ॥
मुनेः करस्पर्शमात्रात् सद्यो गर्भो बभूव ह ।
मनसाया मुनिश्रेष्ठ ! मुनिश्रेष्ठ उवाच ताम् ॥”
जरत्कारुरुवाच ।
गर्भेणानेन मनसे ! तव पुत्त्रो भविष्यति ।
जितेन्द्रियाणां प्रवरो धार्म्मिको वैष्णवाग्रणीः ॥
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ।
वरो वेदविदाञ्चैव ज्ञानिनां योगिनान्तथा ॥
स च पुत्त्रो विष्णुभक्तो धार्म्मिकः कुलमुद्धरेत् ।
नृत्यन्ति पितरः सर्व्वे यज्जन्ममात्रतो मुदा ॥
पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ।
धर्म्मिष्ठपुत्त्रमाता च कुलजा कुलपालिका ॥
हरिभक्तिप्रदो बन्धुस्तमिष्टं तत्सुखप्रदम् ।
यो बन्धच्छित् स च पिता हरेर्वर्त्म प्रदर्शकः ॥
सा गर्भधारिणी या च गर्भवासविमोचनी ।
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् ।
आब्रह्मस्तम्बपर्य्यन्तं यतो विश्वं चराचरम् ॥
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।
वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ॥
तत्त्वानां सारभूतञ्च हरिरन्यद्विडम्बनम् ।
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ।
ज्ञानात् प्रमुच्यते बन्धात् स रिपुर्यो हि बन्धदः ॥
विष्णुभक्तियुतं ज्ञानं न ददाति हि यो गुरुः ।
स रिपुः शिष्यघाती च यो हि बन्धान्न मोचयेत् ॥
जननीगर्भजात् क्लेशाद् यमताडनजात्तथा ।
न मोचयेद् यः स कथं गुरुस्तातो हि बान्धवः ॥
परमानन्दरूपञ्च कृष्णमार्गमनश्वरम् ।
न दर्शयेद् यः स कथं कीदृशो बान्धवो नृणाम् ॥
भज साध्वि ! परं ब्रह्माच्युतं कृष्णञ्च निर्गुणम् ।
निर्मूलञ्च पुरा कर्म्म भवेद् यत्सेवया ध्रुवम् ॥
मया च्छलेन त्वं त्यक्ता क्षम देवि ! मम प्रिये ! ।
क्षमायुतानां साध्वीनां सत्त्वात् क्रोधो न विद्यते ॥
पुष्करं तपसे यामि गच्छ देवि ! यथासुखम् ।
श्रीकृष्णचरणाम्भोजध्यानविच्छेदकातरः ॥
धनादिषु स्त्रियां प्रीतिः प्रवृत्तिवर्त्म गच्छताम् ।
श्रीकृष्णचरणाम्भोजे निष्पृहाणां मनोरथाः ॥
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ।
सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ॥
मनसोवाच ।
दोषेणाहं त्वया त्यक्ता निद्राभङ्गेण ते प्रभो ! ।
यत्र स्मरामि त्वां बन्धो ! तत्र मामागमिष्यसि ॥
बन्धुभेदः क्लेशतमः पुत्त्रभेदस्ततः परः ।
प्राणेशभेदः प्राणानां विच्छेदात् सर्व्वतः परः ॥
पतिः पतिव्रतानान्तु शतपुत्त्राधिकः स्मृतः ।
सर्व्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ॥
पुत्त्रे यथैकपुत्त्राणां वैष्णवानां यथा हरौ ।
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ॥
क्षुधितानां यथान्ने च कामुकानां यथा स्त्रियाम् ।
पृष्ठ ३/६०९
यथा परस्वे चौराणां यथा जारे कुयोषिताम् ॥
विदुषाञ्च यथा शास्त्रे बाणिज्ये बणिजां यथा ।
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ! ॥
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ।
क्षणं चकार क्रोडे तां कृपया स कृपानिधिः ॥
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ।
साश्रुणा च मुनेः क्रोडं सिषेच भेदकातरा ॥
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः ।
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ॥
जगाम तपसे विप्रः स्वकान्तां सुप्रबोध्य च ।
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ॥
पार्व्वती बोधयामास मनसां शोककर्षिताम् ।
शिवश्चातीव ज्ञानेन शिवेन च शिवालये ॥
सुप्रशस्तदिने साध्वी सुषुवे मङ्गलक्षणे ।
नारायणांशं पुत्त्रञ्च ज्ञानिनां योगिनां गुरुम् ॥
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ।
स बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः ॥
जातकं कारयामास वाचयामास मङ्गलम् ।
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ॥
रत्नत्रिकोटिलक्षञ्च ब्राह्मणेभ्यो ददौ शिवः ।
पार्व्वती च गवां लक्षं रत्नानि विविधानि च ॥
शम्भुश्च चतुरो वेदान् वेदाङ्गानीतराणि च ।
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ॥
भक्तिरस्ति स्वकान्ते चाभीष्टदेवे गुरौ हरौ ।
यस्याश्च तेन त्वत्पुत्त्रो बभूवास्तीक एव च ॥
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ।
संप्राप्य च महामन्त्रं तपश्च परमात्मनः ॥
दिव्यं वर्षत्रिलक्षञ्च तपस्तप्त्वा तपोधनः ।
आजगाम महायोगी नमस्कर्त्तुं शिवं प्रभुम् ॥
शङ्करञ्च नमस्कृत्य कृत्वा च बालकं पुरः ।
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ॥
तां सपुत्त्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ।
शतलक्षञ्च रत्नानां ब्राह्मणेभ्यो ददौ मुने ! ॥
ब्राह्मणान् भोजयामास सोऽसंख्यान् श्रेयसे
शिशोः ।
अदितिश्च दितिश्चान्या मुदं प्रापुः परन्तथा ॥
सा सपुत्त्रा च सुचिरं तस्थौ तातालये तदा ।
तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय ॥”
तस्या माहात्म्यं यथा, --
“अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ।
बभूव सहसा ब्रह्मन् ! दैवदोषेण कर्म्मणा ॥
सप्ताहे समतीते तु तक्षकस्त्वाञ्च भोक्ष्यति ।
शशाप शृङ्गी नृपतिं कौशिक्याश्च जलेन च ॥
राजा श्रुत्वा तत्प्रवृत्तिं गङ्गाद्वारं जगाम सः ।
तत्र तस्थौ च सप्ताहं शुश्राव धर्म्मसंहिताम् ॥
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ।
धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुको नृपम् ॥
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ।
धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ ॥
स ययौ तं गृहीत्वा च तुष्टः प्रहृष्टमानसः ।
तक्षको भक्षयामास नृपञ्च मञ्चकस्थितम् ॥
राजा जगाम वैकुण्ठं स्मारं स्मारं हरिं गुरुम् ।
सत्कारं कारयामास पितुर्जन्मेजयः शुचा ॥
राजा चकार यज्ञञ्च सर्पसत्रं ततो मुने ! ।
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ॥
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ ।
सेन्द्रञ्च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ॥
अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् ।
तान्तुष्टाव महेन्द्रश्च भयकातरविह्वलः ॥
तत आस्तीक आगत्य यज्ञञ्च मातुराज्ञया ।
महेन्द्रतक्षकप्राणान् ययाचे भूमिपं वरम् ॥
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ।
यज्ञं समाप्य विप्रेभ्यो दक्षिणाञ्च ददौ मुदा ॥
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ।
मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् ॥
शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ।
मनसां पूजयामास तुष्टाव परमादरम् ॥
दत्त्वा षोडशोपचारं बलिञ्च तत्प्रियं तदा ।
प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया ॥
संपूज्य मनसादेवीं प्रययुः स्वालयञ्च ते ।
इत्येवं कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥”
इन्द्रकृतमनसापूजास्तोत्रे यथा, --
नारद उवाच ।
“केन तुष्टाव स्तोत्रेण महेन्द्रो मनसां सतीम् ।
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ॥
श्रीनारायण उवाच ।
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ।
रत्नसिंहासने देवीं वासयामास भक्तितः ॥
स्वर्गगङ्गाजलेनैव बहुकुम्भस्थितेन च ।
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ॥
वाससी वासयामास वह्रिशुद्धे मनोहरे ।
सर्व्वाङ्गे चन्दनं दत्त्वा पाद्यार्ध्यं भक्तिसंयुतः ॥
गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् ।
संपूज्यादौ देवषट्कं पूजयामास तां सतीम् ॥
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवञ्च मन्त्रतः ।
दशाक्षरेण मूलेन ददौ सर्व्वं यथोचितम् ॥
दत्त्वा षोडशोपचारं दुर्लभं दुर्लभां हरिः ।
भक्त्या च पूजयामास ब्रह्मणा प्रेरितो मुदा ॥
वाद्यं नानाप्रकारञ्च वादयामास तत्र वै ।
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ॥
देवविप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया ।
तुष्टाव साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥
महेन्द्र उवाच ।
देवि ! त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां
वराम् ।
परात्पराञ्च परमां नहि स्तोतुं क्षमोऽधुना ॥
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ।
न क्षमः प्रकृतं वक्तुं गुणानां तव सुव्रते ! ॥
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्ज्जिता ।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥
त्वं मया पूजिता साध्वी जननी च यथादितिः ।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥
त्वया मे रक्षिताः प्राणाः पुत्त्रदाराः सुरेश्वरि ! ।
अहं करोमि त्वां पूज्यां प्रीतिश्च वर्द्धते मम ।
नित्या यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ! ।
तथापि तव पूजाञ्च वर्द्धयामि त्त सर्व्वतः ॥
ये त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः ।
पञ्चम्यां मनसाख्यायामीशां त्वां वा दिने दिने ॥
पुत्त्रपौत्त्रादयस्तेषां वर्द्धन्ते च धनानि च ।
यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः ॥
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥
त्वं स्वयं स्वर्गलक्ष्मीश्च वैकुण्ठे कमलालया ।
नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥
तपसा तेजसा त्वाञ्च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥
मनसा देवितुं शक्ता स्वात्मना सिद्धयोगिनी ।
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।
तेन त्वां मनसां देवीं प्रवदन्ति पुराविदः ॥
सत्त्वरूपा च देवि ! त्वं शश्वत्सत्त्वनिषेवया ।
यो हि यद् भावयेन्नित्यं स तत् प्राप्नोति तत्समः ॥
इन्द्रश्च मनसां ज्ञात्वा गृहीत्वा भगिनीञ्च
ताम् ।
प्रजगाम स्वभवनं भूषावासःपरिच्छदाम् ॥
पुत्त्रेण सार्द्धं सा देवी चिरं तस्थौ पितुर्गृहे ।
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्व्वतः ॥
गोलोकात् सुरभी ब्रह्मन् ! तत्रागत्य सुपूजि-
ताम् ।
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ॥
ज्ञानञ्च कथयामास गोप्यं सर्व्वसुदुर्लभम् ।
तया देव्या पूजिता सा स्वर्लोकञ्च पुनर्ययौ ॥
इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥
विषं भवेत् सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ।
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत् सोऽपि निश्चितं सर्पवाहनः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४६ अध्यायः ॥
धन्वन्तरिकृतमनसाध्यानपूजादि यथा, --
धन्वन्तरिरुवाच ।
“इहागच्छ जगद्गौरि ! गृहाण मम पूजनम् ।
पूज्या त्वं त्रिषु लोकेषु परा कश्यपकन्यके ! ॥
त्वया जितं जगत् सर्व्वं देवि ! विष्णुस्वरूपया ।
तेन तेऽस्त्रप्रयोगश्च न कृतो रणभूमिषु ॥
इत्युक्त्वा संयतो भूत्वा भक्तिनम्रात्मकन्धरः ।
गृहीत्वा शुक्लकुसुमं ध्यानं कर्त्तुं समुद्यतः ॥
चारुचम्पकवर्णाभां सर्व्वाङ्गसुमनोहराम् ।
ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥
कवरीभारशोभाढ्यां रत्नाभरणभूषिताम् ।
सर्व्वाभयप्रदां देवीं भक्तानुग्रहकातराम् ॥
सर्व्वविद्याप्रदां शान्तां सर्व्वविद्याविशारदाम् ॥
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥
ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् ।
दत्त्वा षोडशोपचारं पूजयामास तां प्रिये ! ॥
स्तोत्रञ्चकार भक्त्या च पुलकाञ्चितविग्रहः ।
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥ * ॥
पृष्ठ ३/६१०
धन्वन्तरिरुवाच ।
नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ।
नमः कश्यपकन्यायै वरदायै नमो नमः ॥
नमः शङ्करकन्यायै शङ्करायै नमो नमः ।
नमस्ते नागवाहिन्यै नागेश्वर्य्यै नमो नमः ॥
नमो नागभगिन्यै च योगिन्यै च नमो नमः ।
नमोऽस्तीकजनन्यै च जनन्यै जगतां नमः ॥
नमो जरत्कारुनाम्ने जरत्कारुस्त्रियै नमः ॥
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः ।
नमस्तपःस्वरूपायै फलदायै नमो नमः ॥
सुशीलायै च साध्व्यै च शान्तायै ते नमो नमः ।
इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥
तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे धन्वन्तरिदर्प-
भङ्गमनसाविजयो नाम ५१ अध्यायः ॥ * ॥
(कामरूपस्थितनदीविशेषः । यथा, कालिका-
पुराणे । ७४ । ३३ ।
“ततस्तु मनसा नाम नदी पुण्यतमा परा ।
सरित्सा मनसाख्या तु तृणबिन्द्ववतारिता ॥
वैशाखं सकलं मासं यस्यां स्नात्वा नरोत्तमः ।
विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् ॥”)

मनसादेवी, स्त्री, (मनसा चासौ देवी चेति ।

यद्वा, मनसा दीव्यतीति । दिव् + अच् ।
ङीप् । “मनसः संज्ञायाम् ।” ६ । ३ । ४ ।
इति विभक्त्यलुक् च ।) मनसा । इति जटा-
धरः ॥ (यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ४६ । ११८ ।
“सम्पूज्य मनसादेवीं प्रययुः स्वालयञ्च ते ॥”)
अस्या विवरणं मनसाशब्दे द्रष्टव्यम् ॥

मनसिजः, पुं, (मनसि जायत इति । जन् + डः ।

“हलदन्तात् सप्तम्याः संज्ञायाम् ।” ६ । ३ । ९ ।
इत्यलुक् ।) कामदेवः । इत्यमरः । १ । १ । २७ ॥
(यथा, शाकुन्तले द्वितीयाङ्के ।
“कामं प्रिया न सुलभा मनस्तु तद्भावदर्शना-
श्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना
कुरुते ॥”)
मनोजाते, त्रि ॥

मनसिशयः, पुं, (मनसि शेते इति । शी +

“अधिकरणे शेते ।” ३ । २ । १५ । इति अच् ।
“हलदन्तात् सप्तम्याः संज्ञायाम् ।” ६ । ३ । ९ ।
इत्यलुक् ।) कामदेवः । इति हलायुधः ॥

मनस्कारः, पुं, (मनसि मनसो वा कारो निश्चय

इति । यद्वा, कृ + भावे घञ् । मनसः कारो-
विकारः करणमिति वा ।) मनसः सुखादिः ।
तत्र्य्यायः । चित्ताभोगः २ । इत्यमरः । १ ।
५ । ५ ॥ द्वे मनसः सुखादौ तत्परत्वे एकस्मिन्
विषये मनसः पुनः पुनः प्रवृत्तिराभोगः ।
आभोगस्तात्पर्य्यमिति सर्व्वानन्दः । स्थैर्य्य-
मित्यन्ये । व्यापार इत्यपरे । वाञ्छितवस्तु-
प्राप्त्या चित्तस्य निराकाङ्क्षता । आभोगः
परिपूर्णतेति परे । अनागतचिन्तनादिरूपो
मनस्कार इत्यपरे । मनसो मनसि वा कारो
निश्चयो मनस्कारः सेतु कखेति सः । मनसि
करणं मनसि कारः इत्यपि दृश्यते अत्र बाहु-
ल्यात् सप्तम्या अलुक् । इति तट्टीकायां भरतः ॥

मनस्तापः, पुं, (मनसः तापः पीडा ।) मनः-

पीडा । यथा, गारुडे १११ अध्याये ।
“मनस्तापं न कुर्व्वीत आपदं प्राप्य पार्थिवः ।
समबुद्धिः प्रसन्नात्मा सुखदुःखे समो भवेत् ॥”
अनुतापः । यथा, प्रायश्चित्ततत्त्वे ।
“ब्राह्मणेन यदा दैवात् छिन्नं यज्ञोपवीतकम् ।
मनस्तापेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥”

मनस्तालः, पुं, (तल्यत इति । तल प्रतिष्ठायाम् +

घञ् । मनसि तालः प्रतिष्ठा यस्य ।) दुर्गायाः
सिंहः । इति त्रिकाण्डशेषः ॥ (हरितालः ।
तत्र क्लीवत्वमपि । यथा, वैद्यकरत्नमालायाम् ।
“हरितालं मनस्तालं वर्णकं नटभूषणम् ॥”)

मनस्थं, त्रि, (मने मनसि वा तिष्ठतीति । स्था +

कः । पक्षे विसर्गस्य लोपः ।) मनोऽवच्छिन्नम् ।
अन्तःकरणस्थितम् । यथा, --
“मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् ।
मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥”
इति श्रीमदुत्तरगीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्ज्जुनसंवादे ब्रह्मनिरूपणं
नाम १ अध्यायः ॥ “तादृशब्रह्मापरोक्षेण मुच्यते
इत्याह मनस्थमित्यादि । मनस्थं मनोऽव-
च्छिन्नम् । मनमध्यस्थं मनःसाक्षीभूतम् । मध्यस्थं
सर्व्वसाक्षीभूतम् । मनवर्ज्जितं सङ्कल्पविक-
ल्पादिरहितम् । मनमवबोधात्मकम् । तदेवं
मनसा परिशुद्धान्तःकरणेन । आलोक्य तद्
गोचरापरोक्षचरमवृत्तिं लब्ध्वा । योगिनः
ज्ञानिनः । स्वयमेव सिद्ध्यन्ति निवृत्ताविद्यका
मुक्ता भवन्तीत्यर्थः ।” इति श्रीमदुत्तरगीतायाः
सुबोधिन्यां टीकायां श्रीगौडपादाचार्य्यविर-
चितायां १ अध्यायः ॥ * ॥ सर्व्वे सान्ता अद-
न्ताश्चेति प्रमाणादत्र मनशब्दोऽकारान्तः ।
मनःस्थितम् । यथा, --
“आजन्मं मन्मनस्थं यदपि मम मनोमध्यतः
क्वापि नाभूत्
तत्ते पुण्यप्रतापादिह शरदि सतः सिद्धमाभूत्
सुखेन ॥”
इत्युद्भटः ॥

मनस्विनी, स्त्री, (प्रशस्तं मनोऽस्त्यस्याः इति ।

मनस् + विनि । ङीप् ।) प्रशस्तमनाः स्त्री ।
यथा, कुमारसम्भवे । ३ । ३२ ।
“मनस्विनीमानविघातदक्षं
तदेव जातं वचनं स्मरस्य ॥”
मृकण्डोः पत्नी । यथा, मार्कण्डेयपुराणे । ५२ । १७ ।
“प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ।
मनस्विन्यामहं तस्मात् पुत्त्रो वेदशिरा मम ॥”
प्रजापतिपत्नी । सा च सोमस्य वसोर्जननी ।
यथा, महाभारते । १ । ६६ । १९ ।
“धूम्रायास्तु धरः पुत्त्रो ब्रह्मविद्यो ध्रुवस्तथा ।
चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥”)

मनस्वी, [न्] पुं, (प्रशस्तं मनोऽस्त्यस्येति ।

मनस् + विनिः ।) शरभः । इति राजनिर्घण्टः ॥
प्रशस्तमनोयुक्ते, त्रि । यथा, --
“मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतम् ॥”
इति कारकटीकायां दुर्गादासः ॥

मनाक्, व्य, (मन्यते इति । मन ज्ञाने + बाहुल-

कात् आक्प्रत्ययः ।) अल्पम् । इत्यमरः । ३ ।
४ । ८ ॥ (यथा, भागवते । १ । १० । ३५ ।
“मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।
आनर्त्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्-
विभुः ॥”)
मन्दः । इति मेदिनी । अव्यय-के, ११ ॥

मनाका, स्त्री, (मन्यत इति । मन + “बलाका-

दयश्च ।” उणा० ४ । १४ । इत्याकः । टाप् ।)
हस्तिनी । इत्युणादिकोषः ॥

मनाक्करं, क्ली, (मनाक् यथा तथा करोतीति ।

कृ + अच् ।) मङ्गल्या । मल्लिकागन्धयुक्तागुरु ।
इति शब्दचन्द्रिका । (मनाक् अल्पस्य करः ।)
इषत्कारके, त्रि ॥

मनायी, स्त्री, (मनोः पत्नीति । मनु + “मनोरौ

वा ।” ४ । १ । ३८ । इति ङीप् उदात्तैकारश्च ।)
मनोः पत्नी । इति जटाधरः ॥

मनावी, स्त्री, (मनोः स्त्री । मनु + “मनौरौ वा ।”

४ । १ । ३८ । इति ङीप् औकारश्चान्तादेशः ।)
मनुपत्नी । इति मुग्धबोधव्याकरणम् ॥ (यथा,
शतपथब्राह्मणे । १ । १ । ४ । १६ ।
“सा मनोरेव जायां मनावीं प्रविवेश ॥”)

मनितं, त्रि, (मन बोधे + क्तः ।) ज्ञातम् । इत्य-

मरः । ३ । १ । १० ॥

मनीकं, क्ली, (मन्यते शोभार्थमाद्रियते इति । मन्

+ “अलीकादयश्च ।” उणा ०४ । २५ । इति
कीकन्प्रत्ययेन निपातनात् साधु ।) अञ्ज-
नम् । इत्युणादिकोषः ॥

मनीषा, स्त्री, (ईष् + अः । टाप् । मनस ईषा

गमनम् । “शकन्धादिषु पररूपं वाच्यम् ।”
१ । १ । ६४ । इत्यस्य वार्त्तिकोक्त्या साधुः ।)
बुद्धिः । इत्यमरः । १ । ७ । ५ ॥ (यथा,
ऋग्वेदे । १ । ५४ । ८ ।
“असमं क्षत्रमसमा मनीषा ॥”
स्तुतिः । यथा, ऋग्वेदे । ५ । ८३ । १० ।
“उत प्रजाभ्योऽविदो मनीषाम् ॥”
“मनीषां स्तुतिमविद प्राप्तवानसि ॥” इति
तद्भाष्ये सायनः ॥)

मनीषी, [न्] पुं, (मनीषा अस्त्यस्येति । मनीषा +

व्रीह्यादित्वात् इनिः ।) पण्डितः । इत्यमरः ।
२ । ७ । ५ ॥ (यथा च मनौ । १ । १७ ।
“यन्मूर्त्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्त्तिं मनीषिणः ॥”)
बुद्धियुक्ते, त्रि ॥ (यथा, ऋग्वेदे । १ । १६४ । ४५ ।
“चत्वारि वाक् परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः ॥”
“मनीषिणो मेधाविनः ।” इति तद्भाष्ये सायनः ॥)
पृष्ठ ३/६११

मनुः, स्त्री, (मन् + “शॄस्वृस्निहीति ।” उणा०

१ । ११ । इति उः ।) पृक्का । इति राज-
निर्घण्टः ॥ (मनोः पत्नीति । मनु + “मनोरौ
वा ।” ४ । १ । ३८ । इत्यत्र “वा ग्रहणेन द्बावपि
विकल्प्येते । तेन त्रैरूप्यं भवति । मनोः स्त्री
मनायी मनावी मनुः ।” इति काशिकोक्तेः पक्षे
ङीबभावः ।) मनुपत्नी । इति लिङ्गादिसंग्रहे
अमरः ॥

मनुः, पुं, (मन्यते इति । मन + “शॄस्वृस्निहीति ।”

उणा० १ । ११ । इति उः ।) ब्रह्मणः पुत्त्रः ।
स च प्रजापतिर्धर्म्मशास्त्रवक्ता च । इति
लिङ्गादिसंग्रहे अमरः ॥ मनुष्यः । इति शब्द-
रत्नावली ॥ (यथा, ऋग्वेदे । ८ । ४७ । ४ ।
“मनोर्विश्वस्य घेदिम आदित्याराय ईशते-
ऽनेहसो वऊतयः सुऊतयो वऊतयः ॥”
“मनोः मनुष्यस्य ।” इति तद्भाष्ये सायनः ॥)
जिनभेदः । इति त्रिकाण्डशेषः ॥ मन्त्रः । इति
जटाधरः ॥ (यथा, गौतमीयतन्त्रे । ७ । ५ ।
“गोहिरण्यकवस्त्राद्यैस्तोषयेद् गुरुमात्मनः ।
यथा ददाति सन्तुष्टः प्रसन्नवदनो मनुम् ॥” * ॥)
प्रतिकल्पे चतुर्द्दश मनवो भवन्ति तेषां
नामानि यथा । स्वायम्भुवः १ स्वारोचिषः २
उत्तमः ३ तामसः ४ रैवतः ५ चाक्षुषः ६
एते गताः । वैवस्वतः ७ । वर्त्तमानोऽयम् ।
सावर्णिः ८ दक्षसावर्णिः ९ ब्रह्मसावर्णिः १०
धर्म्मसावर्णिः ११ रुद्रसावर्णिः १२ देव-
सावर्णिः १३ इन्द्रसावर्णिः १४ एते भविष्यन्ति ।
इति श्रीभागवते ८ स्कन्धे १ अध्यायः ॥ * ॥
एतेषामुत्पत्तिर्यथा, --
“आद्यो मनुर्ब्रह्मपुत्त्रः शतरूपापतिर्ब्रती ।
धर्म्मिष्ठानां वरिष्ठश्च गरिष्ठो मनुषु प्रभुः ॥
स्वायम्भुवः शम्भुशिष्यो विष्णुव्रतपरायणः ।
जीवन्मुक्तो महाज्ञानी भवतः प्रपितामहः ॥
संप्राप कृष्णदास्यञ्च गोलोकञ्च जगाम सः ।
दृष्ट्वा मुक्तं स्वपुत्त्रञ्च प्रहृष्टश्च प्रजापतिः ॥
तुष्टाव शङ्करं तुष्टः ससृजे मनुमन्यकम् ।
स च स्वयम्भूपुत्त्रश्च पुरः स्वायम्भुवो मनुः ॥
स्वारोचिषो मनुश्चैव द्वितीयो वह्रिनन्दनः ।
राजा वदान्यो धर्म्मिष्ठः स्वायम्भुवसमो महान् ॥
प्रियव्रतसुतावन्यौ द्वौ मनू धर्म्मिणां वरौ ।
तौ तृतीयचतुर्थौ च वैष्णवौ तामसोत्तमौ ॥
तौ च शङ्करशिष्यौ च कृष्णभक्तिपरायणौ ।
धर्म्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः ॥
षष्ठश्च चाक्षुषो ज्ञेयो विष्णुभक्तिपरायणः ।
श्राद्धदेवः सूर्य्यसुतो वैष्णवः सप्तमो मनुः ॥
सावर्णिः सूर्य्यतनयो वैष्णवो मनुरष्टमः ।
नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः ॥
दशमो ब्रह्मसावर्ण्णिर्ब्रह्मज्ञानविशारदः ।
ततश्च धर्म्मसावर्णिर्मनुरेकादशः स्मृतः ॥
धर्म्मिष्ठश्च वरिष्ठश्च वैष्णवानां सदा व्रती ।
ज्ञानी च रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः ॥
धर्म्मात्मा देवसावर्णिर्मनुरव त्रयोदशः ।
त्रतुर्द्दशो महाज्ञानी चेन्द्रसावर्णिरेव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥
अपि च । स्वायम्भुवः १ । स च गायत्त्र्यां
ब्रह्मणो जातः । अस्य पुत्त्राः दश । अग्निध्रः ।
अग्निबाहुः । रिफ्फः । सबलः । ज्योतिष्मान् ।
द्युतिमान् । हव्यः । मेधाः । मेधातिथिः । वसुश्च ।
स्वारोचिषः २ । अस्य पुत्त्राश्चत्वारः । नभः ।
नभस्यः । प्रसृतिः । भावनश्च । औत्तमिः ३ ।
अस्य पुत्त्राः दश । ईषः । ऊर्ज्जः । भूर्ज्जः ।
शुचिः । शुक्रः । मधुः । माधवः । नभस्यः ।
नभः । सहश्च । तामसः ४ । अस्य पुत्त्रा
दश । अकल्मषः । तपोधन्वी । तपोमूलः ।
तपोधनः । तपोरतिः । तपस्यः । तपोद्युतिः ।
परन्तपः । तपोभागी । तपोयोगी च ।
रैवतः ५ । तस्य पुत्त्राः दश । अरुणः । तत्त्व-
दर्शी । वित्तवान् । हव्यपः । कपिः । मुक्तः ।
निरुत्सुकः । सत्तः । निर्म्मोहः । प्रकाशकश्च ।
चाक्षुषः ६ । स च ध्रुवपौत्त्रात् रिपुञ्जयात्
ब्रह्मदौहित्र्यां वीरणकन्यायां वैरिण्यां जातः ।
तस्य भार्य्या नड्डला । तस्य पुत्त्राः दश । उरुः ।
पुरुः । शतद्युम्नः । तपस्वी । सत्यवाक् । कविः ।
अग्निष्टुप् । अतिरात्रः । स्वच्छस्वः । अभि-
मन्युश्च । वैवस्वतः ७ । स च सूर्य्यात् संज्ञायां
जातः । तस्य पुत्त्राः दश । इलः । इक्ष्वाकुः ।
कुशनाभः । अरिष्टः । रिष्ठः । नरिष्यन्तः ।
कुरूषः । शर्य्यातिः । पृषध्रः । नाभागश्च ।
सावर्णिः ८ । स च सूर्य्यात् छायायां जातः ।
तस्य पुत्त्राः दश । धृतिः । वरीयान् । यवसः ।
सुवर्णः । वृष्टिः । चरिष्णुः । ईड्यः । सुमतिः ।
वसुः । शुभ्र्यश्च । रौच्यः ९ । असौ रुचेः
प्रजापतेः पुत्त्रः । भौत्यः १० । असौ भूतिनामक-
प्रजापतेः पुत्त्रः । मेरुसावर्णिः ११ । असौ ब्रह्मणः
पुत्त्रः । ऋतुः १२ । ऋतुधामा १३ । विव्वक्-
सेनः १४ । इति मात्स्ये नवमाध्यायावधि
एकविंशत्यध्यायपर्य्यन्तम् ॥ क्रमशस्तेषां विव-
रणानि यथा, १ स्वायम्भुवः । यथा, मार्कण्डेये
५३ अध्याये ॥
“मनोः स्वायम्भुवस्यासन् दश पुत्त्रास्तु तत्समाः ।
यैरियं पृथिवी सर्व्वा सप्तद्वीपा सपर्व्वता ।
ससमुद्रा करवती प्रतिवर्षं निवेशिता ॥”
२ स्वारोचिषः । यथा, तत्रैव ६७ अध्याये ।
मार्कण्डेय उवाच ।
“ततः स्वारोचिषं नाम्ना द्युतिमन्तं प्रजापतिम् ।
मनुञ्चकार भगवांस्तस्य मन्वन्तरं शृणु ॥
तत्रान्तरे तु ये देवा मुनयस्तत्सुताश्च ये ।
भौपालाः क्रौष्टुके ! ये तान् गदतस्त्वं निशामय ॥
देवाः पारावतास्तत्र तथैव तुषिता द्विज ! ।
स्वारोचिषेऽन्तरे चेन्द्रो विपश्चिदिति विश्रुतः ॥
ऊर्ज्जस्तम्बस्तथा प्राणो दत्तोलिरृषभस्तथा ।
निश्चरश्चार्ववीरांश्च तत्र सप्तर्षयोऽभवन् ॥
चैत्र-किंपुरुषाद्याश्च सुतास्तस्य महात्मनः ।
सप्तासन् सुमहावीर्य्याः पृथिवीपरिपालकाः ॥
तस्य मन्वन्तरं यावत्तावत्तद्वं शविस्तरे ।
भुक्तेयमवनिः सर्व्वा द्वितीयं वै तदन्तरम् ॥
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य च ।
निशम्य मुच्यते पापैः श्रद्दधानो हि मानवः ॥”
अस्यान्यद्विवरणं तत्रैव ६१ अध्यायमारभ्य
६६ अध्यायपर्य्यन्तं द्रष्टव्यम् ॥ ३ औत्तमः ।
यथा, तत्रैव ७३ अध्याये ।
मार्कण्डेय उवाच ।
“मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम ॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः ॥
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ! ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः ॥
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ! ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः ॥
वशवर्त्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ! ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने ! ॥
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः ॥
तेषामिन्द्रो महाभागस्तैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः ॥
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले ॥
सुशान्तिर्देवराट् कान्तः सुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्त्तिनः ॥
अजः परशुचिर्दिव्यो महाबलपराक्रमाः ।
पुत्त्रास्तस्य मनोरासन् विख्यातास्त्रिदशो-
पमाः ॥
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तरं तस्य मनोरुत्तमतेजसः ॥
चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया ॥
स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन् ॥
तृतीयमेतत्कथितं तव मन्वन्तरं मया ॥”
अस्यान्यद्विवरणं तत्रैव ६८ अध्यायमारभ्य ७२
अध्यायपर्य्यन्तं द्रष्टव्यम् ॥ ४ तामसः । यथा,
तत्रैव ७४ अध्याये ।
“तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु ।
ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्त्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने ! ॥
महाबलो महावीर्य्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः ॥
ज्योतिर्धामा पुथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्त्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥”
अस्यान्यद्विवरणं तत्रैव द्रष्टव्यम् ॥ ५ रैवतः ।
यथा, तत्रैव ७५ अध्याये ।
पृष्ठ ३/६१२
मार्कण्डेय उवाच ।
“तामादाय ततो भूपः स्वमेव नगरं ययौ ।
तस्मादजायत सुतो रेवत्यां रैवतो मनुः ॥
समेतः सकलैर्धर्मैर्म्मानवैरपराजितः ।
विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।
कथ्यमानान्मया ब्रह्मन् ! निबोध सुसमाहितः ॥
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ! ।
वैकुण्ठश्चामिताभश्च चतुर्द्दश चतुर्द्दश ॥
तेषां देवगणानान्तु चतुर्णांमपि चेश्वर ! ।
नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः ॥
हिरण्यलोमा वेदश्रीरूर्द्धबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥
वशिष्ठश्च महाभागो वेदवेदान्तपारगः ।
एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः ॥
बलबन्धुर्महावीर्य्यः सुयष्टव्यस्तथापरः ।
सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः ॥
रैवतान्तास्तु मनवः कथिता ये मया तव ।
स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम् ॥”
अस्यान्यद्विवरणं तत्रैव द्रष्टव्यम् ॥ ६ चाक्षुषः ।
यथा, तत्रैव ७६ अध्याये ।
“तस्य मन्वन्तरेशस्य येऽन्तरत्रिदशा द्विज ! ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु ॥
आर्य्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्म्मणां विप्र ! यज्ञे हव्यभुजामयम् ॥
प्रख्यातबलवीर्य्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः ॥
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः ॥
लेखसं ज्ञास्तथैवान्ये तत्र मन्वन्तरे द्बिज ! ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः ॥
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥
उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥”
अस्यान्यद्विवरणं तत्रैवाध्याये द्रष्टव्यम् ॥ ७ वैव-
स्वतः । यथा, तत्रैव ७९ अध्याये ।
मार्कण्डेय उवाच ।
“आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥
आदित्या वसवो रुद्रा विज्ञेया कश्यपात्मजाः ।
साध्याश्च वसवो विश्वे धर्मपुत्त्रगणास्त्रयः ॥
भृगोस्तु भृगवो देवाः पुत्त्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः ॥
ऊर्ज्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्त्तन्ते साम्प्रतञ्च ये ॥
सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः ॥
मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः ॥
धर्माद्यैः कारणैः शुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज ! ॥
भूर्लोकोऽयं स्मृता भूमिरन्तरीक्षं दिवः स्मृतम् ।
दिव्याख्यश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥
अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥
तथैव पुत्त्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे ॥
ईक्ष्वाकुर्नाभगश्चैव धृष्टशर्मातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभगो दिष्ट एव च ॥
कुरूषश्च प्रुषध्रुश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्त्राः प्रकीर्त्तिताः ॥
वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ! ।
मुच्यते पातकैः सर्व्वैः पुण्यञ्च महदश्नुते ॥”
अस्यान्यद्विवरणं ७७-७८ अध्याययोर्द्रष्टव्यम् ॥
८ सावर्णिः । यथा, तत्रैव ८० अध्याये ।
मार्कण्डेय उवाच ।
“कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्ब्बजस्य मनोस्तुल्यः स मनुर्भविताष्टमः ॥
रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन् ॥
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः ॥
तपस्तपश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्च वक्रतुः ॥
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः ॥
सुराणाममितानान्तु तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो विन्ताद्याश्चैव विंशतिः ॥
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ॥
मारीचस्यैव ते पुत्त्राः काश्यपस्य प्रजापतेः ॥
भविष्याश्च भविष्यन्ति सावर्ण्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ! ।
पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ॥
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः ॥”
अस्यान्यद्विवरणं तत्रैव ८१-९३ अध्यायेषु द्रष्ट-
व्यम् ॥ ९ दक्षसावर्णिः । यथा, तत्रैव ९४
अध्याये ।
“दक्षपुत्त्रश्च सावर्णो भावी यो नवमो मनुः ।
कथयामि मनोस्तस्य ये देवा मुनयो नृपाः ॥
पारामरीचिभर्गाश्च सुधर्माणस्तथा सुराः ।
एते त्रिधा भविष्यन्ति सर्व्वे द्वादशका गणाः ॥
तेषामिन्द्रो भविष्यस्तु सहस्राक्षो महाबलः ।
साम्प्रतं कार्त्तिकेयो यो वह्रिपुत्त्रः षडाननः ॥
अद्भुतो नाम शक्रोऽसौ भावी तस्यान्तरे मनोः ।
मेधातिथिर्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा ॥
सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः ।
धृष्टकेतुर्वर्हकेतुः पञ्चहस्तो निरामयः ।
पृथुश्रवास्तथार्चिष्मान् भूद्युरिम्नो बृहद्भयः ॥
एते नृपसुतास्तस्य दक्षपुत्त्रस्य वै नृपाः ॥”
१० ब्रह्मसावर्णिः । यथा, तत्रैव ९४ अध्याये ॥
“मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज ! ॥
मन्वन्तरे च दशमे ब्रह्मपुत्त्रस्य धीमतः ।
सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराः
स्मृताः ।
शतसंख्या हि ते देवा भविष्या भाविनो मनोः ।
यत् प्राणिनां शतं भावि तद्देवानां तदा शतम् ॥
शान्तिरिन्द्रस्तथा भावी सर्व्वैरिन्द्रगुणैर्युतः ।
सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा ॥
आपोमूर्त्तिर्हविष्मांश्च सुकृती सत्य एव च ।
नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः ॥
सुक्षेत्रश्चोत्तमौजाश्च भूमिसेनश्च वीर्य्यवान् ।
शतानीकोऽथ वृषभो ह्यनमित्रो जयद्रथः ॥
भूरिद्युम्नः सुपर्व्वा च तस्यैते तनया मनोः ॥”
११ धर्म्मसावर्णिः । यथा, तत्रैव ।
“भविष्या धर्मपुत्त्रस्य सावर्णस्यान्तरं शृणु ॥
विहङ्गमाः कामगाश्च निर्माणरतयस्तथा ।
त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशतो गणाः ॥
मासर्तुर्दिवसा ये तु निर्माणपतयस्तु ते ।
विहङ्गमा रात्रयोऽथ मौहूर्त्ताः कामगा गणाः ॥
इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमः ।
हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ॥
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ।
सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥
सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरूद्बहः ।
हेमधन्वा दृढायुश्च भाविनस्तत्सुता नृपाः ॥”
१२ रुद्रसावर्णिः । यथा, तत्रैव ।
“द्वादशे रुद्रपुत्त्रस्य प्राप्ते मन्वन्तरे मनोः ।
सावर्णाख्यस्य ये देवा मुनयश्च शृणुष्व तान् ॥
सुधर्माणः मुमनसो हरिता रोहितास्तथा ।
सुवर्णाश्च सुरास्तत्र पञ्चैते दशका गणाः ॥
तेषामिन्द्रस्तु विज्ञेय ऋतधामा महाबलः ।
सर्वैरिन्द्रगुणैर्युक्तः सप्तर्षीनपि मे शृणु ॥
द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ।
तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः ॥
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।
मित्रवान् मित्रविन्दश्च भाविनस्तत्सुता
नृपाः ॥”
१३ रौच्यः । यथा, तत्रैव ।
“त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।
सप्तर्षींश्च नृपांश्चैव गदतो मे निशामय ॥
सुधर्माणः सुरास्तत्र सुकर्माणस्तथापरे ।
सुशर्माणः सुरा ह्येते समस्ता मुनिसत्तम ! ॥
महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।
भविष्यानथ सप्तर्षींन् गदतो मे निशामय ॥
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्सुकः ।
निर्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः ॥
चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः ।
सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः ॥”
१४ भौत्यः । यथा, तत्रैव १०० अध्याये ।
“भौत्यो नाम मनुस्तस्य पुत्त्रो भूतेरजायत ।
तस्य मन्वन्तरे देवानृषीन् भूपांश्च मे शृणु ॥
पृष्ठ ३/६१३
भविष्यस्य भविष्यांस्तु गदतो मम विस्तरात् ।
देवेन्द्रो यश्च भविता तस्य विख्यातकर्मणः ॥
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।
धारावृकाश्च इत्येते पञ्च देवगणाः स्मृताः ॥
शचिरिन्द्रस्तदा तेषां त्रिदशानां भविष्यति ।
महाबलो महावीर्य्यः सर्व्वैरिन्द्रगुणैर्युतः ॥
अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥
गुरुर्गभीरो व्रध्नश्च भरतोऽनुग्रहस्तथा ।
स्त्रीमानी च प्रतीरश्च विष्णुः संक्रन्दनस्तथा ॥
तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।
चतुर्दश मयैतत्ते मन्वन्तरमुदाहृतम् ॥”
मन्वन्तरकथाश्रवणफलमाह तत्रैव १०० अध्याये ।
“श्रुत्वा मन्वन्तराणीत्थं क्रमेण मुनिसत्तम ! ।
पुण्यमाप्नोति मनुजस्तथाक्षीणाञ्च सन्ततिम् ॥
श्रुत्वा मन्वन्तरं पूर्ब्बं धर्ममाप्नोति मानवः ।
स्वारोचिषस्य श्रवणात् सर्वकामानवाप्नुते ॥
औत्तमेर्धनमाप्नोति ज्ञानञ्चाप्नोति तामसे ।
रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् ॥
आरोग्यञ्चाक्षुषे पुंसां श्रुते वैवस्वते बलम् ।
गुणवत्पुत्त्रपौत्त्रन्तु सूर्य्यसावर्णिके श्रुते ॥
माहात्म्यं ब्रह्मसावर्णे धर्मसावर्णिके शुभम् ।
मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् ॥
ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।
निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तम ! ॥
देवप्रसादमाप्नोति भौत्ये मन्वन्तरे श्रुते ।
तथाग्निहोत्रं पुत्त्रांश्च गुणयुक्तानवाप्नुते ॥
सर्वाण्यनुक्रमाद्यश्च शृणोति मुनिसत्तम ! ।
मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् ॥
तत्र देवानृषीनिन्द्रान्मनूं स्तत्तनयान्नृपान् ।
वंशांश्च श्रुत्वा सर्वेभ्यः पापेभ्यो विप्रमुच्यते ॥
देवर्षीन्द्रनृपाश्चान्ये ये तन्मन्वन्तराधिपाः ।
ते प्रीयन्ते तथा प्रीताः प्रयच्छन्ति शुभां मतिम् ॥
ततः शुभां मतिं प्राप्य कृत्वा कर्म तथा शुभम् ।
शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्दश ॥
सर्वे स्युरृतवः क्षेम्याः सर्वे सौम्यास्तथा ग्रहाः ।
भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् ॥” * ॥
विष्णुः । यथा, महाभारते । १३ । १४९ । १९ ।
“विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठो स्थविरो ध्रुवः ॥”
मननप्रधानो विद्बान् । यथा, वाजसनेयसंहि-
तायाम् । १५ । ४९ ।
“तस्मिन्नहं निदधे नाकेऽग्निं यमाहुर्मनवस्तीर्ण-
बर्हिषम् ॥”
“मनवः मननप्रधाना विद्वांसः ॥” इति तद्भाष्ये
महीधरः ॥ * ॥ अन्तःकरणम् । यथा, भागवते ।
६ । ४ । २५ ।
“देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मानमन्युञ्च विदुः परं यत् ॥”
“मनवोऽन्तःकरणानि ।” इति तट्टीकायां श्रीधरः ॥
कृशाश्वस्य पुत्त्रभेदः । यथा, भागवते । ६ । ६ । २० ।
“कृशाश्वोऽर्च्चिषि भार्य्यायां धूमकेतुमजीजनत् ।
विषण्णायां वेदशिरः देवलं वयुनं मनुम् ॥”)

मनुजः, पुं, (मनोर्जात इति । जन् + डः ।)

मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा,
विष्णुपुराणे । १ । ६ । १० ।
“स्वर्गापवर्गौ मानुष्यात् प्राप्नुवन्ति नरा मुने ! ।
यथाभिरुचितं स्थानं तद्यान्ति मनुजा
द्विज ! ॥”)

मनुजी, स्त्री, (मनुज + गौरादित्वात् ङीष् ।)

मानुषी । इति जटाधरः ॥ (टाप् इत्येके । यथा,
हरिवंशे । १७६ । २३ ।
“विद्याधराणां नारीषु साध्वीषु मनुजासु च ॥”)

मनुभूः, पुं, (मनोर्भवतीति । भू + क्विप् । मनु-

र्भूरुत्पत्तिस्थानं यस्येति वा ।) मनुष्यः । इति
शब्दचन्द्रिका ॥

मनुराट्, [ज्] पुं, (मनुः मानव इव राजते

इति । राज् + क्विप् । मनुष्यवदाचारवत्त्वादस्य
तथात्वम् ।) कुवेरः । इति त्रिकाण्डशेषः ॥

मनुषी, स्त्री, (मनुष्यस्य स्त्री । मनुष्य + “हय-

गवयमुकयमनुष्यमत्स्यानामप्रतिषेधः ।” ४ । १ ।
६३ । इत्यस्य वार्त्तिकोक्त्या ङीष् । “हलस्तद्धि-
तस्य ।” ६ । ४ । १५० । इति यलोपः ।)
मानुषी । इति शब्दरत्नावली ॥

मनुष्यः, पुं, (मनोरपत्यमिति । मनु + “मनो-

र्जातावञ्यतौ षुक्च ।” ४ । १ । १६१ । इति
यत् षुगागमश्च ।) मनोरपत्यम् । तत्पर्य्यायः ।
मानुषः २ मर्त्यः ३ मनुजः ४ मानवः ५ नरः
६ । इत्यमरः । ३ । ६ । १ ॥ भूमिजः ७ द्बिपदः
८ चेतनः ९ भूस्थः १० । इति राजनिर्घण्टः ॥
मनुः ११ पञ्चजनः १२ पुरुषः १३ पूरुषः १४
पुमान् १५ ना १६ । इति शब्दरत्नावली ॥
मर्णः १७ विट् १८ । इति जटाधरः ॥ * ॥
(यथा, मनुः । १ । ४३ ।
“रक्षांसि च पिशाचाश्च मनुष्याश्च जरा-
युजाः ॥”)
स तु अर्व्वाक्स्रोतो ब्रह्मणो नवमः सर्ग एक-
विधश्च । यथा, --
“अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।
रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः ॥”
इति श्रीभागवते । ३ । १० । २४ ।
अपि च ।
“तस्यापि ध्यायतः सर्गं सत्याभिध्यायिनस्ततः ।
प्रादुर्ब्बभूव चाव्यक्तादर्व्वाक्स्रोतस्तु साधकः ॥
यस्मादर्व्वाक् प्रवर्त्तन्ते ततोऽर्व्वाक्स्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्तरजोऽधिकाः ॥
तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ।
प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥”
इति वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥
मनुष्यजन्ममुक्तिकारणं यथा, --
“विमुक्तिहेतुकान्या तु नरयोनिः कृतात्मनाम् ।
नामुञ्चन्ति हि संसारे विभ्रान्तमनसो गताः ॥
जीवा मानुष्यतां मन्ये जन्मनामयुतैरपि ।
तदीदृक् दुर्लभं प्राप्य मुक्तिद्बारं विचेतसः ॥
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ।
सुदुस्तरापि दुःसाध्या माया कृष्णस्य मोहिनी ॥”
इति तत्रैव शुद्धिव्रतनामाध्यायः ॥ * ॥
“मनुष्याणां पिता माता भ्राता च श्रीहरिर्यथा ।
विशेषतो मनुष्याणां पिता माता जनार्द्दनः ।
भ्राता च सर्व्वलोकानां वात्सल्यगुणसागरः ॥”
इति पाद्मोत्तरखण्डे ७८ अध्यायः ॥ * ॥
स त्रिविधो यथा, --
“यजन्ते सात्विका देवान् यक्षरक्षांसि राक्षसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥
इति श्रीभगवद्गीतायां १७ अध्यायः ॥
“ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राक्षसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥”
इति तत्रैव १४ अध्यायः ॥
(त्रि, स्तुतिकारकः । यथा, ऋग्वेदे । १ । ५९ । ४ ।
“होता मनुष्यो न दक्षः ॥”
“मनुष्यो लौकिको वन्दी दातारं प्रभुं बहु-
विधया स्तुत्या स्तौति ।” इति तद्भाष्ये सायनः ॥
मनुष्यसम्बन्धी । यथा, ऋग्वेदे । १ । ९२ । ११ ।
“प्रमिनती मनुष्या युगानि ॥”
“मनुष्या मनुष्याणां सम्बन्धीनि युगानि कृत-
त्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रक-
र्षेण हिंसन्ती ॥” इति तद्भाष्ये सायनः ॥ मनुष्य-
हितः । यथा, ऋग्वेदे । २ । १८ । १ ।
“दशारित्रो मनुष्यः स्वर्षाः ॥”
“मधुष्यो मनुष्याणां हितः स्वर्षाः स्वर्गस्य
दाता ।” इति तद्भाष्ये सायनः ॥)

मनुष्यधर्म्मा, [न्] पुं, (मनुष्यस्येव धर्म्म आचारो

यस्य । “धर्म्मादनिच् केवलात् ।” ५ । ४ । १२४ । इति
समासान्तोऽनिच् ।) कुबेरः । इत्यमरः । २ । ६ । १ ॥

मनुष्ययज्ञः, पुं, (मनुष्येभ्यो मनुष्यार्थं यो यज्ञः ।)

अतिथिपूजनम् । इति नृयज्ञशब्ददर्शनात् ॥
(यथा, शतपथब्राह्मणे । ११ । ५ । ६ । १ ।
“तान्येव महासत्राणि भूतयज्ञो मनुष्ययज्ञः
पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति ॥”)

मनुष्यी, स्त्री, (मनुष्य + गौरादित्वात् ङीष् ।

योपधप्रतिषेधे “हयगवयमुकयमनुष्यमत्स्याना-
मप्रतिषेधः ।” इति ङीषि यलोपाभावः ।) मानुष-
स्त्रीजातिः । तत्पर्य्यायः । मानुषी २ नारी ३
मानवी ४ । इति शब्दरत्नावली ॥ मर्त्या ५
मनुजी ६ नरी ७ । इति जटाधरः ॥

मनोगुप्ता, स्त्री, (मनसा मनःशब्देन गुप्तेव ।)

मनःशिला । इत्यमरः । २ । ९ । १०८ ॥

मनोजन्मा, [न्] पुं, (मनसो जन्म यस्य ।)

कन्दर्पः । इति त्रिकाण्डशेषः ॥

मनोजवः, पुं, (मनस इव जवोऽस्य । एकदैव सर्व-

गामित्वात् तथात्वम् ।) विष्णुः । यथा, महा-
भारते दानधर्म्मे सहस्रनामस्तोत्रम् । १३ ।
१४९ । ८७ ।
“मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ॥”
(मनसश्चित्तस्य जवः ।) मनसो वेगः । इति
व्याकरणम् ॥ (अनिलपत्न्याः शिवायाः पुत्त्रः ।
यथा, हरिवंशे । ३ । ४२ ।
पृष्ठ ३/६१४
“अनिलस्य शिवा मार्य्या यस्याः पुत्त्रो मनो-
जवः ॥”)
रुद्रस्य पुत्त्रभेदः । यथा, मार्कण्डेये । ५२ । ११ ।
“शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ॥”
तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८५ ।
“मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥”
षष्ठमन्वन्तरस्येन्द्रः । यथा, मार्कण्डेये । ७६ । ५३ ।
“मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥”
भेधातिथेः पुत्त्रभेदः । यथा, भागवते । ५ । २० ।
२५ । “तस्य प्रियव्रत एवाधिपतिर्नाम्ना मेधा-
तिथिः । सोऽपि विभज्य सप्तवर्षाणि पुत्त्रनामानि
तेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रा-
नीकचित्ररेफविश्वाधारसंज्ञान् निधाप्याधि-
पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपो-
वनं प्रविवेश ॥”)

मनोजवः, त्रि, (मनो जवं वेगवद्यस्मिन् । यद्वा,

मनो जवति पितायमिति कृत्वा धावत्यस्मिन्
इति । जु सौत्रधातुः + अच् ।) पितृतुल्यः । तत्प-
र्य्यायः । पितृसन्निभः ७ । इत्यमरः । ३ । १ । १३ ॥
अतिशयवेगवान् । (यथा, मार्कण्डेये । २१ । ८ ।
“तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः ॥”)

मनोजवसः, त्रि, (मनो जवत्यस्मिन् । जु + बाहुल-

कात् असच् ।) पितृसन्निभः । इत्यमरटीकायां
स्वामी । ३ । १ । १३ ॥

मनोजवा, स्त्री, (मनो जवत्यत्रेति । जु + अच्

टाप् ।) अग्निजिह्वावृक्षः । इति जटाधरः ॥
(गुणादिविवृतिरस्या अग्निजिह्वाशब्दे ज्ञातव्या ॥
वह्रिजिह्वाविशेषः । यथा, मार्कण्डेये । ९९ । ५४ ।
“मनोजवा च या जिह्वा लघिमा गुणलक्षणा ।
तया नः पाहि पापेभ्य ऐहिकाच्च महा-
भयात् ॥”
स्कन्दस्य मातृगणभेदः । यथा, महाभारते ।
९ । ४६ । १६ ।
“मनोजवा कण्टकिनी प्रघसा पूतना तथा ॥”
क्रौञ्चद्वीपस्य नदीविशेषः । यथा, मात्स्ये ।
१२१ । ८७ ।
“गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥”
मन इव जवो यस्याः । वेगविशिष्टायां स्त्रियाम् ।
यथा, महाभारते । १ । १५६ । १८ ।
“अहःसु विहरानेन यथाकामं मनोजवा ॥”)

मनोजवृद्धिः, पुं, (मनोजस्य कामस्य वृद्धिर्यस्मात् ।)

कामवृद्धिक्षुपः । इति राजनिर्घण्टः ॥

मनोज्ञं, क्ली, (मनो जानाति ज्ञापयति तोषय-

तीति । अन्तर्भूतण्यर्थे ज्ञा + कः ।) सरल-
काष्ठम् । इति रत्नमाला ॥

मनोज्ञं, त्रि, (मनसा जानातीति । ज्ञा + कः ।

यद्वा, मनः ज्ञापयति तोषयतीति । अन्त-
र्भूतण्यर्थज्ञाधातोः कः ।) मनोहरम् । तत्प-
र्य्यायः । सुन्दरम् २ रुचिरम् ३ चारु ४
सुषमम् ५ साधु ६ शोभनम् ७ कान्तम् ८
मनोरमम् ९ रुच्यम् १० मञ्जु ११ मञ्जुलम् १२ ।
इत्यमरः । ३ । १ । ५२ ॥ मनोहरम् १३ बन्धु-
रम् १४ बन्धूरम् १५ पेशलम् १६ पेषलम् १७
सुमनम् १८ वामम् १९ अमिरामम् २० नन्दि-
तम् २१ । इति शब्दरत्नावली ॥ (यथा,
सुश्रुते । १ । ४६ । अध्याये ।
“मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।
पूर्व्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ ॥”)

मनोज्ञा, स्त्री, (मनोज्ञ + स्त्रियां टाप् ।) मनः-

शिला । इति रत्नमाला ॥ (यथा, सुश्रुते
उत्तरतन्त्रे त्रयोदशाध्याये ।
“स्विन्नं मनोज्ञाकासीसव्योषाञ्जनकसैन्धवैः ॥”)
राजपुत्त्री । इति जटाधरः ॥ बन्ध्याकर्कोटकी ।
आवर्त्तकी । स्थूलजीरकः । जाती । मदिरा ।
इति राजनिर्घण्टः ॥

मनोभवः, पुं, (मनसः मनसि वा भवतीति ।

भू + अच् । मनसः भव उत्पत्तिर्यस्येति वा ।)
कन्दर्पः । इति हलायुधः ॥ (यथा, मार्कण्डेये ।
१८ । ४१ ।
“ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् ।
न शेकुरुद्धतं धैर्य्यान्मनसा वोढुमातुराः ॥”
मनोजन्ये, त्रि । यथा, भागवते । ६ । १५ । २४ ।
“दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।
कर्म्मभिर्ध्यायतो नाना कर्म्माणि मनसोऽभ-
वन् ॥”)

मनोभूः, पुं, (मनसः मनसि वा भवतीति । भू +

क्विप् ।) कामदेवः । इति शब्दरत्नावली ॥
(यथा, कलाविलासे । १ । ३३ ।
“श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सव-
स्तेन ।
मदमुदितमानसानां तेनापि मृगीदृशां
लीला ॥”)

मनोयोनिः, पुं, (मन एव योनिरुत्पत्तिस्थान-

मस्य ।) कामदेवः । इति हेमचन्द्रः । २ । १४२ ॥

मनोरथः, पुं, (मनसः रथ इव । मन एव रथो-

ऽत्रेति वा) इच्छा । इत्यमरः । १ । ७ । २७ ॥
(यथा, रघौ । ११ । ५९ ।
“इतस्ततश्च वैदेहीमन्वेष्टुं भर्त्तृचोदिताः ।
कपयश्चेरुरार्त्तस्य रामस्येव मनोरथाः ॥”
कविविशेषः । यथा, राजतरङ्गिण्याम् । ४ । ५९६ ।
“मनोरथः शङ्खद्त्तश्चटकः सन्धिमांस्तथा ।
बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥”)

मनोरमं, त्रि, (मनो रमयतीति । रम् + णिच् +

अण् ।) मनोज्ञम् । इत्यमरः । ३ । १ । ५२ ॥
(यथा, सुश्रुते । १ । ४६ । अध्याये ॥
“पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे ।
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥”)

मनोरमा, स्त्री, (मनोरम + स्त्रियां टाप् ।)

गोरोचना । इति राजनिर्घण्टः ॥ बुद्धिशक्ति-
विशेषः । तत्पर्य्यायः । तारा २ महाश्रीः ३
ओङ्कारा ४ स्वाहा ५ श्रीः ६ तारिणी ७
जया ८ अनन्ता ९ शिवा १० लोकेश्वरात्मजा
११ खदूरवासिनी १२ भद्रा १३ वैश्या १४ नील-
सरस्वती १५ शङ्खिनी १६ महातारा १७
वसुधारा १८ धनन्ददा १९ त्रिलोचना २०
लोचना २१ । इति त्रिकाण्डशेषः ॥ (इन्दी-
वराख्यविद्याधरस्य कन्या । यथा च मार्क-
ण्डेये । ६२ । १३ ।
“अहमिन्दीवराख्यस्य सुता विद्याधरस्य वै ।
नाम्ना मनोरमा जाता सुतायां मरुधन्वनः ॥”
सप्तसरस्वतीनामेकतमा । यथा, महाभारते ।
९ । ३८ । ४ ।
“मुप्रभा काञ्चनाक्षी च विशाला च मनोरमा ।
सरस्वती चौघवती सुरेणुर्विमलोदका ॥”
तथा च तत्रैव । ९ । ३८ । २४ -- २५ ।
“उद्दालकेन यजता पूर्ब्बं ध्यात्वा सरस्वती ।
आजगाम सरित्श्रेष्ठा तं देशमृषिकारणात् ॥
पूज्यमाना मुनिगणैर्व्वल्कलाजिनसंवृतैः ।
मनोरमेति विख्याता सा हि तैर्मनसाकृता ॥”
छन्दोविशेषः । तल्लक्षणमुदाहरणञ्च यथा,
छन्दमञ्जर्य्याम् ।
“नरजगैर्भवेन्मनोरमा ।”
“तरणिजातटे विहारिणी व्रजविलासिनी
विलासतः ।
सुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनो-
रमा ॥”)

मनोहतः, त्रि, (मनसा मनसि वा हतः ।) प्रति-

हतः । इत्यमरः । ३ । १ । ४१ ॥

मनोहरं, त्रि, (हरतीति । हृ + अच् । मनसो

हरमिति ।) मनोज्ञम् । इति शब्दरत्नावली ॥
(यथा, मनौ । २ । ३३ ।
“स्त्रीणां सुखोद्यमक्रूरं विष्पष्टार्थं मनोहरम् ॥”
यथा च मार्कण्डेये । ११२ । ३ ।
“स ददर्श तदा तत्र होमधेनुं मनोहराम् ॥”)
कुन्दवृक्षे, पुं । सुवर्णे, क्ली । इति राजनिर्घण्टः ॥

मनोहरा, स्त्री, (मनोहर + टाप् ।) जाती ।

स्वर्णयूथी । इति राजनिर्घण्टः ॥ (धरस्य वसोः
पत्नी । यथा, विष्णुपुराणे । १ । १५ । ११४ ।
“मनोहरायाः शिशिरः प्राणोऽथ वरुणस्तथा ॥”
अप्सरोविशेषः । यथा, महाभारते । १३ । १९ । ४५ ।
“मनोहरासुकेशी च सुमुखी हासिनी प्रभा ॥”)

मनोहर्त्ता, [ऋ] त्रि, (मनो हरतीति । हृ +

तृच् ।) मनोहरणकर्त्ता । यथा, --
“व्यसनं तेऽपनेष्यामि त्रिलोक्यां यदि भाव्यते ।
तमानेष्ये वरं यस्ते मनोहर्त्ता तमादिश ॥”
इति श्रीभागवते १० स्कन्धे ६२ अध्यायः ॥

मनोहारि, [न्] त्रि, (मनो हरति मनो हर्त्तुं

शीलमस्येति वा । हृ + णिनिः ।) मनोहरम् ।
इत्यमरटीकायां स्वामी । तथाहि ।
“गाङ्गं वारि मनोहारि मुरारिचरणच्युतम् ।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥”
इति वाल्मीकिकृतगङ्गास्तोत्रम् ॥

मनोह्वा, स्त्री, (मनः ह्वयति आह्वयतीवेति ।

ह्वे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।
टाप् ।) मनःशिला । इत्यमरः । २ । ९ । १०८ ॥
(अस्याः पर्य्यायो यथा, --
“मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।
नैपाली कुनटी गोला शिला दिव्यौषधिः
स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/मधुः&oldid=44035" इत्यस्माद् प्रतिप्राप्तम्