सामग्री पर जाएँ

शब्दकल्पद्रुमः/मण्डलं

विकिस्रोतः तः
पृष्ठ ३/५७९

मण्डलं, त्रि, विम्बम् । इत्यमरः । १ । ३ । १५ ॥ द्वे चन्द्रस्य

शरीरे उपचारादादित्यस्य च । वेति शोभते
विम्बः वीलकान्तिगत्यादौ नाम्नीति विम्बः ।
विम्बति भाति विम्बः । सौत्रोऽयमिति स्वामी ।
मण्डयति मण्डलं नाम्नीति अलः स्त्रियां नदा-
दित्वात् मण्डली च । इति भरतः ॥

मण्डलः, पुं, (मण्डं लाति गृह्णातीति । ला + कः ।)

कुक्कुरः । इति मेदिनी । ले, १२१ ॥ सर्पविशेषः ।
इति विश्वः ॥ (देहस्याष्टप्रकारसन्ध्यन्त-
र्गतसन्धिविशेषः । “त एते सन्धयोऽष्टविधाः ।
कोरोदूखल-सामुद्ग-प्रतर-तुन्नसेवनीवायसतुण्ड-
मण्डल-शङ्खावर्त्ताः ।” ‘कण्ठहृदयनेत्रक्लोम-
नाडीषु मण्डलाः ।’ इति सुश्रुते शारीरस्थाने
पञ्चमेऽध्याये ॥)

मण्डलकं, क्ली, (मण्डल । स्वार्थे कन् ।) विम्बम् ।

कुष्ठभेदः । दर्पणम् । इति मेदिनी । के, २०७ ॥
मण्डलाकारव्यूहः । इति जटाधरः ॥

मण्डलकः, पुं, (मण्डल । स्वार्थे कन् ।) कुक्कुरः ।

इति धरणिः ॥

मण्डलनृत्यं, क्ली, (मण्डलेन मण्डलाकारेण प्रव-

र्त्तितं नृत्यमिति नित्यसमासः ।) मण्डलाकार-
नृत्यम् । तत्पर्य्यायः । हल्लीषः २ ॥ इति शब्द-
माला ॥

मण्डलपत्रिका, स्त्री, (मण्डलं मण्डलाकारं पत्रं

यस्याः । कन् । टाप् । अत इत्वञ्च ।) रक्तपुन-
र्नवा । इति राजनिर्घण्टः ॥ (गुणादयोऽस्या
रक्तपुनर्नवाशब्दे ज्ञातव्याः ॥)

मण्डलाग्रः, पुं, (मण्डलं गोलाकारं अग्रं यस्य ।)

खड्गः । इत्यमरः । २ । ८ । ८९ ॥ (यथा,
सुश्रुते सूत्रस्थाने अष्टमेऽध्याये ॥ तत्र मण्डलाग्र-
करपत्रे स्यातां च्छेदने लेखने च ।)

मण्डलायितं, क्ली, (मण्डलवदाचरितमिति । मण्डल

+ क्यङ् । दीर्घः । मण्डलाय नामधातुः क्तः ।)
वर्त्तुलम् । इति शब्दरत्नावली ॥

मण्डलाधीशः, पुं, (मण्डलस्य अधीशः ।) मण्डले-

श्वरः । तत्पर्य्यायः । मध्यमः २ । इति
हेमचन्द्रः ॥

मण्डली, [न्] पुं, (मण्डलं कुण्डलनं कुण्डला

कारेणशरीरवेष्टनमस्यास्तीति । मण्डल + इनिः ।
सर्पः । इति त्रिकाण्डशेषः ॥ विडालः । इति
शब्दमाला ॥ जाहकः । इति हेमचन्द्रः ॥
खट्टाश इति भाषा ॥ वटवृक्षः । गोनाश-
सर्पः । इति राजनिर्घण्टः ॥

मण्डली, स्त्री, (मण्डलमस्त्यस्या इति । अर्श

आद्यच् । गौरादित्वात् ङीष् ।) दूर्व्वा । इति
हारावली ॥ (स्त्री, गुडूची ॥ तत्पर्य्यायो यथा,
“गुडूची मधुपर्णी स्यादमृतामृतवल्लरी ।
छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली ।
चक्रलक्षणिकाधीरा विशल्या च रसायनी ॥
चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मण्डलेशः, पुं, (मण्डलस्य ईशः ।) मण्डलेश्वरः ।

तत्पर्य्यायः । एकजन्मा २ भयापहः ३ । इति
त्रिकाण्डशेषः ॥

मण्डलेश्वरः, पुं, (मण्डलस्य ईश्वरः ।) भूम्येक-

देशाधिपः । अन्यो भूम्येकदेशाधिपो मण्डले-
श्वरः स्यात् मण्डलस्य अरिमित्रादिरूपस्य
देशस्य ईश्वरो मण्डलेश्वरः । एकदेशाधिप
इत्यर्थः । स्यान्मण्डलं द्वादशराजके च देशे च
विम्बे च कदम्बके च । इति विश्वः ॥ इत्यमर-
टीकायां भरतः ॥ तस्य लक्षणान्तरम् ।
“चतुर्योजनपर्य्यन्तमधिकारं नृपस्य च ।
यो राजा तच्छतगुणः स एव मण्डलेश्वरः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥

मण्डहारकः, पुं, (मण्डं हरति आहरति गृह्णा-

तीति । हृ + “ण्वुल्तृचौ ।” ३ । १ । १३३ ।
इति ण्वुल् । सुरासम्पादनार्थं मण्डग्रहणा-
दस्य तथात्वम् ।) शौण्डिकः । इत्यमरः ।
१ । २ । १० ॥

मण्डा, स्त्री, (मण्डः कारणत्वेनास्ति अस्या इति

अर्शादिभ्योऽच् । टाप् ।) सुरा । इति हारा-
वली ॥ (मण्डयतीति । मडि + अच् । टाप् ।)
आमलकी । इति मेदिनी । डे, २२ ॥

मण्डितः, पुं, बौद्धगणाधिपविशेषः । इति हेम-

चन्द्रः । (मडि + कर्म्मणि क्तः ।) भूषिते त्रि ।
इत्यमरः । ६ । २ । १०० ॥ (यथा, गीत-
गोविन्दे । २ । ७ ।
“मणिमयमकरमनोहर-
कुण्डलमण्डितगण्डमुदारम् ।”)

मण्डूकः, पुं, (मण्डयति भूषयति जलाशयमिति

मडि + “शलिमण्डिभ्यामूकण्” उणा० ४ । ४२ ।
इति ऊकण् ।) भेकः । इत्यमरः । १ । १० ।
२४ ॥ (यथा, मनुः । ४ । १२६ ।
“पशुमण्डूकमार्ज्जारश्वसर्पनकुलाखुभिः ।
अन्तरागमने विद्यादनध्यायमहर्न्निशम् ॥”
भेकार्थे पर्य्यायो गुणाश्च यथा, --
“मण्डूकः प्लवगो भेको वर्षाभूर्द्दर्द्दुरो हरिः ।
मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
शोणकः । मुनिविशेषः । इति मेदिनी । के,
१३६ ॥ गाढतेजाः । इति शब्दरत्नावलि ॥
बन्धविशेषे क्ली । इति विश्वः ॥ (अश्वजाति-
भेदः । यथा, महाभारते । २ । २८ । ६ ।
“तत्र तित्तिरिकल्माषान् मण्डूकाख्यान् हयो-
त्तमान् ।”)

मण्डूकपर्णः, पुं, (मण्डूकाकृति पर्णमस्य । यद्बा,

मण्डूक इवोत्तानोदरं पर्णमस्य ।) श्योनाकवृक्षः ।
इत्यमरः । ४ । २ । ५६ ॥ (तथाचास्य पर्य्यायः ॥
“श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकः ।
मण्डूकपर्णपत्रोर्णशुकनासकुटन्नटाः ॥
दीर्घवृन्तोरलुश्चापि पृथुशिम्बः कटम्भरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)
शोणकः । इति मेदिनी । णे, ११५ ॥

मण्डूकपर्णी, स्त्री, (मण्डूकपर्ण । गौरादित्वात्

ङीष् ।) मञ्जिष्ठा ॥ (यथास्या पर्य्यायः ।
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ।
भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥”)
ब्राह्मणी इति मेदिनी । णे, ११५ ॥ आदित्य,
भक्ता । इति राजनिर्घण्टः ॥ ओषधि-
विशेषः । थुल्कुडी इति भाषा । तत्पर्य्यायः ।
भेकी २ मण्डूकी ३ मूलपर्णी ४ । इति रत्न-
माला ॥ मण्डूकपर्णिका ५ । अस्या गुणाः ।
मण्डूकपर्णिका लघ्वी स्वादुपाका रसा हिमा ।
(महौषध्यर्थे पर्य्यायान्तरं यथा, --
“मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौषधी ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
तथाचास्या गुणाः ॥
कषाया तु हिता पित्ते स्वादुपाकरसा हिमा ।
लम्बी मण्डूकपर्णी तु तद्वद्गोजिह्विका मता ॥
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।)
पाठान्तरम् । मण्डूकपर्णिका लघ्वी रूक्षा
वातविबन्धनुत् । इति राजवल्लभः ॥

मण्डूकमाता, [ऋ] स्त्री, (मण्डूकस्य मातेव मण्डूक-

पोषकत्वादस्यास्तथात्वम् ।) ब्राह्मी । इति
राजनिर्घण्टः ॥ भेकमाता च ॥

मण्डूका, स्त्री, (मण्डूक + स्त्रियां टाप् ।) मञ्जिष्ठा ।

यथा, शब्दमालायाम् ।
“मण्डूका च लता यष्टिर्हेमपुष्पी च भण्डिरी ।”

मण्डूकी, स्त्री, (मण्डूक + स्त्रियां ङीष् ।) मण्डूक-

पर्णी । इति मेदिनी । के, १३७ ॥ आदित्यभक्ता ।
ब्राह्मी । इति राजनिर्घण्टः ॥ क्षुपविशेषः ।
इति रत्नमाला ॥ थुलकुडी । इति भाषा ।
धृष्टयोषित् । इति शब्दरत्नावली ॥

मण्डूरं, क्ली, पुं, लौहमलम् । ततपर्य्यायः ।

शिङ्घाणम् २ । इत्यमरः । २ । ९ । ९८ ॥
सिंहानं ३ । सिंहाणं ४ । मण्डते लोहं वेष्टते
अग्निदाहे लोहाद्विभजते वा मण्डयति भूष-
यति औषधत्वाद्रोगिणमिति वा मण्डूरं कि
मडि भूषे मडि ङ विभागे वेष्टे नाम्नीति
ऊरः । इति तट्टीकायां भरतः ॥ अस्य गुणः ।
लौहगुणतुल्यः । शतवर्षोर्द्ध्वं मण्डूरमुत्तमम् ।
अशीतिवर्षीयं मध्यमम् । षष्टिवर्षीयमधमम् ।
अतो न्यूनं विषतुल्यम् । यथा, --
“यल्लोहं यद्गुणं प्रोक्तं तत्किट्टञ्चापि तद्गुणम् ।
शतोर्द्धमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम् ॥
अधभं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥”
इति रसेन्द्रचिन्तामणिः ॥
(तथा चास्य पर्य्यायान्तरम् । मण्डूरं लोहजं
किट्टम् । इति वैद्यकरत्नमालायाम् ॥ अस्य
उत्पतिर्गणाश्च यथा, --
पृष्ठ ३/५८०
“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते ।
लोहसिंहानिका किट्टी सिंहाणञ्च निगद्यते ॥
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।
तस्मात् सर्व्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥”
अथास्य मारणविधिर्यथा, --
“दग्ध्राक्षकाष्ठैर्मलमायसन्तु
गोमूत्रनिर्व्वापितमष्टवारान् ।
विचूर्ण्य लीढं मधुनाचिरेण
कुम्भाह्वयं पाण्डुगदं निहन्ति ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-
धिकारे ॥)

मण्डोदकं, क्ली, (मण्ड इव उदकमस्य मण्डमिश्रित-

मुदकमत्रेति वा ।) चित्ररागः । विचित्रवर्णः ।
आतर्पणम् । आलिम्पना । इति मेदिनी । के,
२०७ ॥ (यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये ।
“तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमि-
श्रितान् ।
मण्डोदकार्थे क्वाथञ्च दद्यात् तत्सर्व्वमेकतः ॥”)

मत् व्य अनहमहम् । अत्वं त्वं भवति त्वद्भवति

अनहमहं मद्भवतीति संक्षिप्तसारव्याकरणम् ॥
अस्मच्छब्दाच्च्रिप्रत्यये कृते तल्लुकि अस्मच्छब्दस्य
मदादेशान्निष्पन्नम् । इति तट्टीकायां गोयी-
चन्द्रः ॥

मतं, क्ली, (मन् + भावे क्तः ।) सम्मतम् । तत्-

पर्य्यायः । छन्दः २ अभिप्रायः ३ आकूतम् ४
भावः ५ आशयः ६ । इति हेमचन्द्रः ॥

मतः, त्रि, (मन् + कर्म्मणि क्तः ।) सम्मतः ।

ज्ञातः । इति मेदिनी । ते, ४२ ॥ (यथा,
रघौ । २ । ५७ ।
“किमप्यहिंस्यस्तव चेन्मतोऽहं
यशःशरीरे भव मे दयालुः ॥”)
अर्च्चितः । इति हेमचन्द्रः ॥

मतङ्गः, पुं, (माद्यति माद्यत्यनेन वेति । मद् +

“मदीभिर्यञि हर्षे । इत्युणादिकोष टीकोक्त-
सूत्रादङ्गच् । दस्य तः ।) मुनिभेदः । (यथा,
रघौ । ५ । ५३ ।
“मतङ्गशापादवलेपमूला-
दवाप्तवानस्मि मतङ्गजत्वम् ॥”)
मेघः । इत्युणादिकोषः । १ । २७ ॥

मतङ्गजः, पुं, (मतङ्गः मेघ इव जायते तद्याख्य-

मुनेर्जातो वेति । जन + ड ।) हस्ती । इत्यमरः ।
२ । ८ । ३४ ॥ (यथा, कामन्दकीये नीतिसारे । १५ । ७ ।
“ग्रीष्मे प्रभूताम्बुवनेन यायात्
निर्वासनार्थं करिणां यथा तु ।
ऋतेऽम्भसो ग्रीष्मकृतात् प्रतापात्
भवन्ति कुष्ठानि मतङ्गजानाम् ॥”)

मतल्लिका, स्त्री, प्रशस्तम् । इत्यमरः । १ । ४ । २७ ॥

मतिः, स्त्री, (मन्यतेऽनयेति । मन् + क्तिन् ।)

बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, देवी-
भागवते । १ । १७ । २९ ।
“मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्व्वथा ।”)
इच्छा । स्मृतिः । इति मेदिनी । ते, ४३ ॥
आर्य्यम् । शाकभेदः । इत्यजयपालः ॥ * ॥
“विप्रेन्द्र ! का प्रशंसेयं जन्म ते ब्रह्ममानसे ।
यस्य यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥
मतिकरौषधम् । यथा, --
“पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् ।
वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥
ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् ।
सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं
पराम् ॥”
इति गारुडे १९८ अध्यायः ॥

मतिदा, स्त्री, (मतिं ददातीति । दा + कः ।)

ज्योतिष्मती । शिमृडीक्षुपः । इति राज-
निर्घण्टः ॥ (मतिदातरि, त्रि ।)

मतिभ्रमः, पुं, (मतेर्बुद्धेर्भ्रमः ।) बुद्धिभ्रंशः ।

(“अस्थान एवास्य मतिभ्रमः ।” इति पातञ्जल-
योगसूत्रभाष्ये वेदव्यासः ।) तत्पर्य्यायः । म्रमः २
मिथ्यामतिः ३ भ्रान्तिः ४ । इति शब्दरत्ना-
वली ॥

मतिभ्रान्तिः, स्त्री, (मतेर्बुद्ध्वेर्भ्रान्तिः ।) बुद्धि-

भ्रंशः । तत्पर्य्यायः । भ्रमः २ मिथ्यामतिः ३
भ्रान्तिः ४ । इति शब्दरत्नावली ॥

मतिविभ्रंशः, पुं, (मतेर्बुद्धेर्बिभ्रंशः ।) उन्माद-

रोगः । इति राजनिर्घण्टः ॥

मतिष्ठः, त्रि, (अयमनयोरयमेषामतिशयेन मति-

मान् वेति । मतिमत् + इष्ठन् । मतुपो
लोपः ।) अतिशयबुद्धिमान् । इति मुग्धबोध-
व्याकरणम् ॥

मत्कः, पुं, (माद्यतीति । मद् + क्विप् । ततः

स्वार्थे कन् ।) मत्कुणः । इति शब्दमाला ॥
(मम अयम् । अस्मद् शब्दादिदमर्थे कन् ।
मदादेशश्च ।) मत्सम्बन्धिनि त्रि । इति व्याक-
रणम् ॥ (यथा, भट्टिः । ३ । ३२ ।
“नैतन्मतं भत्कमिति ब्रुवाणः
सहस्रशोऽसौ शपथानशप्यत् ॥”)

मत्कुणः, पुं, (माद्यतीति । मद् + क्विप् कुणति

इति कुण् + क । ततः । मच्चासौ कुणश्चेति ।)
कीटविशेषः । छारपोका इति भाषा ॥ तत्-
पर्य्यायः । रक्तपायी २ रक्ताङ्गः ३ मञ्च-
काश्रयः ४ । इति राजनिर्घण्टः ॥ उद्दंशः ५ ।
(यथा, शिशुपालवधे । १४ । ६८ ।
“मत्कुणाविव पुरा परिप्लवौ
सिन्धुनाथशयने निषेदुषः ।
गच्छतः स्म मधुकैटभौ विभो-
र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥”)
निर्व्विषाणहस्ती । निःश्मश्रुपुरुषः । माकुन्द्या
इति भाषा ॥ नारिकेलः । इति मेदिनी । ने,
७० ॥ जङ्घात्राणम् । इति हेमचन्द्रः । ४ । २७५ ॥

मत्कुणा, स्त्री, अजातलोमभगम् । इति शब्द-

रत्नावली ॥

मत्कुणारिः, पुं, (मत्कुणस्य अरिः । मत्कुण-

नाशकत्वादस्य तथात्वम् ।) इन्द्राशनः । सिद्धि
इति भाषा । इति शब्दमाला ॥
(विवृतिरस्य इन्द्राशनशब्दे विहिता ॥)

मत्तः, पुं, (माद्यतीति । मद् + कर्त्तरि क्तः ।)

क्षरन्मदहस्ती । मातओयाला हाती इति
भाषा ॥ तत्पर्य्यायः । प्रभिन्नः २ गर्ज्जितः ३ ।
इत्यमरः । २ । ८ । ३६ ॥ मतङ्गः ४ क्षरन्मदः ५ ।
इति शब्दरत्नावली ॥ धुस्तूरः । कोकिलः ।
महिषः । इति राजनिर्घण्टः ॥

मत्तः, त्रि, मत्तताविशिष्टः । सुरापाने विक-

लान्तःकरणः । तत्पर्य्यायः । शौण्डः २ उत्-
कटः ३ क्षीवः ४ । इत्यमरः । ३ । १ । २३ ॥
मदोद्धतः ५ । इति जटाधरः ॥ (यथा, देवी-
भागवते । २ । ८ । ४ ।
“ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं पर-
स्परम् ।”
यथाच माधवकृतरुग्विनिश्चये मदात्ययाद्यधिकारे ।
“मध्येन मत्तः पुरुषो मदेन ।”)
हृष्टः । मदीभिर्य्यञि हर्षे क्तः । इत्यमर-
भरतौ ॥ अविवेकी । (यथा रामायणे । १ ।
४४ । १० । “बलान्मत्तो महाबलः ।”
“मत्तोऽविवेकी ।” इति तट्टीकाकृद्रामानुजः ॥)

मत्तकाशिनी स्त्री, उत्तमस्त्री । इत्यमरः ।

२ । ६ । ४ ॥ मत्त इव क्षीव इव
कसति गच्छति मत्तकासिनी कस ज गतौ
ग्रहादित्वाण्णिन् दन्त्यमध्या । मत्तेव काशते
भाति मत्तकाशिनी तालव्यमध्यापि । इति
भरतः ॥ (यथा, महाभारते । १ । १७३ । ३९ ।
“न तासां सदृशीं मन्ये त्वामहं मत्त-
काशिनि ! ।”)

मत्तकीशः, पुं, (मत्तः सन् कीशो वानर इव ।)

हस्ती । इति शब्दमाला ॥

मत्तरः, पुं, ममाधिकः । मत्तोऽतिशयः । अस्म-

च्छब्दात् डतरप्प्रत्ययेन निष्पन्नः । इति
सिद्धान्तकौमुदी ॥

मत्तवारणं, क्ली, (मत्तं वारयतीति । वृ + णिच्

ल्युः ।) प्रासादवीथीनां वरण्डः । कोठार
वाराण्डा इति भाषा ॥ (यथा, कुट्टनीमते । ९ ।
“दिव्यधराधरभूरिव राजति मत्तवारणोपेता ॥”
“प्रासादवीथीनां वरण्डकः ।” इति तट्टीका ॥)
अपाश्रयः । प्राङ्गणावरणम् । इति हेमचन्द्रः ।
४ । ७८ । विश्वश्च ॥ प्रासादवीथीनां कुण्डवृक्ष-
वृतिः । कुन्दवृक्षवृति इति च पाठः । इति
मेदिनी । णे, ११४ ॥ पूगचूर्णः । इति शब्दमाला ॥

मत्तवारणः, पुं, (वार्य्यते संयम्यते शृङ्खलादिभिः

इति वारणः । वृ + णिच् कर्म्मणि ल्युट् । मत-
श्चासौ वारणश्चेति ।) प्रक्लिन्नकटकुञ्जरः
मत्तहस्ती । इति मेदिनी । णे, ११४ । हेम-
चन्द्रश्च । ४ । ७८ ॥

मत्ता, स्त्री, (माद्यति मादयतीति । अन्तर्भूत-

ण्यर्थान्मदधातोः + क्तः + स्त्रियां टाप् ।) मदिरा ।
पृष्ठ ३/५८१
इति राजनिर्घण्टः ॥ (पङ्क्त्यन्तर्गतः दशाक्षरः
छन्दोविशेषः । तल्लक्षणं यथा, छन्दोमञ्जर्य्याम् ।
“ज्ञेया मत्ता मभसगसृष्टा ।”
अधिकन्तु छन्दःशब्दे द्रष्टव्यम् ॥)

मत्तालम्बः, पुं, (आलम्ब्यते असावित्यालम्बः ।

आ + लम्ब + कर्म्मणि घञ् । मत्तस्यालम्बः
आश्रयः ।) प्राङ्गनावरणम् । तत्पर्य्यायः ।
अपाश्रयः २ प्रग्रीवः ३ मत्तवारणम् ४ । इति
हेमचन्द्रः । ४ । ७८ ॥

मत्तेभगमना, स्त्री, (मत्तेभस्य गमनमिव गमनं

यस्याः ।) स्त्रीविशेषः । मत्तगजगामिनी । इति
हेमचन्द्रः । ३ । १७० ॥

मत्यं, क्ली, (मतं ज्ञानं तस्य करणमिति । मत +

“मतजनहलात् करणजल्पकर्षेषु ।” ४ । ४ । ९७ ।
इति यत् । कृष्टस्य क्षेत्रस्य समीकरणादिसाधन-
फलकम् । यथा, ताण्ड्यमहाब्राह्मणे । २ । ९ । २ ।
“भ्रातृव्यवांस्तवीत यथा सप्तास्थितेन मत्येन ।
मतीकरोत्येवं पाप्मानं भ्रातृव्यं प्ररुजति ॥”
“मत्यं वाम कृष्टस्य क्षेत्रस्य समीकरणादि-
साधनफलकम् ।” इति तद्भाष्ये सायनः ॥)
दात्रादीनां मुष्टिः । तत्पर्य्यायः । वण्टः २ ।
इति हेमचन्द्रः । ३ । ५५६ ॥

मत्र, इ ङ क गुप्तोक्तौ । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-सेट् ।) दन्त्यवर्गाद्योपधः ।
इ क ङ इति ध्रुवं मन्त्रयते नृपोऽयमिति
मुरारिः ॥ मन्त्र इत्यनेनैवेष्टसिद्धौ इदनुबन्धो
वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥

मत्सः, पुं, (माद्यतीति । मद् + बाहुलकात् सन् ।)

मत्स्यः । इत्युणादिकोषः ॥

मत्सगण्टः, पुं, (मत्स्यानां गण्डोऽत्र पृषो-

दरादित्वात् साधुः ।) व्यञ्जनविशेषः । मत्स्य-
घण्ट इति ख्यातः । तत्पर्य्यायः । गलग्रहः २ ।
इति शब्दचन्द्रिका ॥

मत्सरः, पुं, (मद्यते इति मद् + “कृधूमदिभ्यः

कित् ।” उणा० । ३ । ७३ । इति सरन् ।
स च कित् । यद्बा । मदा सरतीति अमर-
टीका ।) अन्यशुभद्वेषः । इत्यमरः । ३ । ३ ।
१७२ ॥ (यथा, कथासरित्सागरे । ४२ । ६५ ।
“शीर्षान्ताद्भक्षयामास द्बितीयमपि तत्फलम् ।
निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः ॥”)
क्रोधः । इति मेदिनी । रे, १९३ ॥

मत्सरः, त्रि, (माद्यतीति । मद् हर्षे + “कृधू-

मदिभ्यः कित् ।” उणा० । ३ । ७३ । इति
सरन् । स च कित् ।) असह्यपरसम्पत्तिः ।
मात्सर्य्ययुक्तः । (यथा, महानिर्व्वाणतन्त्रे । १ । २६ ।
“न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः ।”)
कृपणः । इत्यमरमेदिनीकरौ ॥ आत्मधिक्कार-
व्रिशेषः । यथा, --
“निन्दन्ति मां सदा लोका धिगस्तु मम जीव-
नम् ।
इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥”
इति पाद्मे क्रियायोगसागरे १६ अध्यायः ॥

मत्सरा, स्त्री, (मद् + सरन् । स्त्रियां टाप् ।)

मक्षिका । इति मेदिनी । रे, १९३ ।

मत्सरी, [न्] त्रि, (मत्सरोऽन्यशुभद्वेषोऽस्त्यस्येति

मत्सरः + इनिः ।) अन्यशुभद्वेष्टा । तत्पर्य्यायः ।
कर्णेजपः २ दुर्ज्जनः ३ पिशुनः ४ सूचकः ५
नीचः ६ द्बिजिह्वः ७ खलः ८ । इति हेम-
चन्द्रः ॥ (यथा, मनौ । २ । २०१ ।
“परिभोक्ता कृमिर्भवति कीटोभवति मत्सरी ॥”)

मत्स्यः, पुं स्त्री, (माद्यन्ति लोका अनेनेति ।

मद् + “ऋतन्यञ्जीति ।” उणा० । ४ । २ इति
स्यन् ।) स्वनामख्यातजलजन्तुः । माछ इति
भाषा ॥ तत्पर्य्यायः । पृथुरोमा २ झसः ३ मीनः ४
वैसारिणः ५ अण्डजः ६ विसारः ७ शकली ८ ।
इत्यमरः । १ । १० । १७ ॥ शन्धली ९ झषः १०
आत्माशी ११ संवरः १२ मूकः १३ जले-
शयः १४ कण्टकी १५ शल्की १६ मच्छः १७
अनिमिषः १८ । इति शब्दरत्नावली ॥ शुङ्गी १९ ।
इति जटाधरः ॥ तस्य गुणाः । बृंहणत्वम् ।
गुरुत्वम् । शुक्रबर्द्धनत्वम् । बल्यत्वम् । स्निग्ध-
त्वम् । उष्णत्वम् । मधुरत्वम् । कफपित्तकर-
त्वम् । व्यायामाध्वरतदीप्ताग्नीनां पूजितत्वम् ।
वातरोगहरत्वञ्च ॥ * ॥ बृहन्मत्स्यगुणाः । गुरु-
त्वम् । शुक्रलत्वम् । मलबद्धकारित्वञ्च ॥ * ॥
क्षुद्रमत्स्यगुणाः । लघुत्वम् । ग्राहित्वम् ।
ग्रहणीरोगे हितत्वञ्च ॥ * ॥ कृष्णमत्स्यगुणाः ।
लघुत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । वह्निवर्द्धन-
त्वञ्च ॥ * ॥ पाण्डरमत्स्यगुणाः । दोषलत्वम् ।
स्निग्धत्वम् । गुरुत्वम् । मलभेदित्वञ्च ॥ * ॥
क्वथितमत्स्यस्य अर्थात् पूतिमत्स्यस्य गुणः ।
दोषलत्वम् ॥ * ॥ शुष्कमत्स्यगुणौ । विष्ट-
म्भित्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ लवणभावित-
मत्स्यगुणाः । कफपित्तकरत्वम् । सारकत्वम् ॥
सामुद्रमत्स्यगुणाः । लघुत्वम् । वृष्यत्वम् । मधु-
रत्वम् । स्वल्पमलकारित्वञ्च ।
“सामुद्रा गुरवो वृष्याः स्निग्धोष्णा वात-
नाशनाः ।”
इति पाठान्तरम् ॥ * ॥
(तथास्य पर्य्यायाः गुणाश्च ।
“मत्स्यो मीनो विकारश्च उषो वैसारिणोऽण्डजः ।
शकुलः पृथुरोमा च स सुदर्शन इत्यपि ॥
रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकी-
र्त्तिताः ।
मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः ॥
वातघ्ना बृंहणा वृष्या रोचका बलवर्द्ध्वनाः ।
मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
“मत्स्या रोहितपाठीनकूर्म्मकुम्भीरकर्कटाः ।
शुक्तिशङ्खोड्रशम्बूकशफरीवर्म्मिचन्द्रिका ॥
चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः ।
राजीवाः चिलिचिमाद्याश्च ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च । तत्र
नादेयाः । रोहित-पाठीन-पाटला-राजीव-
वर्म्मिगोमत्स्य-कृष्णमत्स्य-वागुञ्जार-मुरल-
सहस्र-दंष्ट्रप्रभृतयो नादेयाः ॥
“नादेया मधुरा मत्स्या गुरवो मारुतापहाः
रक्तपित्तकराश्चोष्णा वृष्याः स्निग्धाल्पवर्च्चसः ॥
कषायानुरसस्तेषां शष्पशैबालभोजनाः ।
सरस्तडागसम्भताः स्निग्धाः स्वादुरसाः स्मृताः ।
महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः ।”
तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरालक-
नन्दिवारलकमकरगर्गरकचन्द्रकमहामीन-
राजीवप्रभृतयः सामुद्राः ॥
“सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः ।
उष्णावातहरा वृष्या वर्च्चस्याः श्लेष्मवर्द्धनाः ॥
बलावहा विशेषेण मांसाशित्वात् समुद्रजाः ।
तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौ गुणोत्तरौ ॥
स्निग्धत्वात् स्वादुपाकत्वात् तयोर्वाप्या गुणो-
त्तराः ।
नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः ।
सरस्तडागजानान्तु विशेषेण शिरो लघु ॥
अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः ।
किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते ॥
अधस्तद्गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ।
उरो विचरणात्तेषां पूर्ब्बमङ्गं लघु स्मृतम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
नादेयमत्स्यगुणाः । श्लेष्मलत्वम् । वृष्यत्वम् ।
मधुरत्वम् । अल्पमलभेदकत्वञ्च ॥ * ॥ सर-
स्तडागभवमत्स्यगुणौ । स्निग्धत्वम् । स्वादुरस-
त्वम् ॥ * ॥ महाह्रदभवमस्याः वलिनः । अल्प-
जलभवाः अबलाः ॥ * ॥ दग्धमत्स्यगुणाः ।
गुरुत्वम् । वृष्यत्वम् । बृंहणत्वम् । बलवर्द्धनत्वञ्च ॥
तैललवणयुक्तदग्धमत्स्यगुणः । क्षीणशुक्रभग्न-
जर्ज्जरितनित्यस्त्रीसेविक्षीणतेजसां हितकारि-
त्वञ्च ॥ * ॥ पलालवेष्टितकर्द्दमलेपिताङ्गार-
दग्धसलवणवेशवारपुरस्कृतसार्द्रककटुतैलसन्तो-
लितमत्स्यगुणाः । स्वादुत्वम् । कफवातहरत्वम् ।
शुक्रलत्वम् । बलवर्द्धनत्वञ्च ॥ * ॥ शाकमत्स्याख्य-
व्यञ्जनगुणाः । हृद्यत्वम् । वृष्यत्वम् । पुष्टिदत्वञ्च ॥
मत्स्यघण्टगुणाः । बलकरत्वम् । वातहरत्वम् ।
अतिशयरोचनत्वञ्च ॥ शिरसि खड्गकेशधारि-
मस्यगुणाः । मुखप्रियत्वम् । हृद्यत्वम् । पुंस्त्व-
घातकत्वञ्च । इति राजवल्लभः ॥ * ॥ अपि च ।
“निःशल्का निन्दिता मत्स्याः सर्व्वे शल्कयुता
हिताः ।
वपुःस्थैर्य्यकरा वीर्य्यबलपुष्टिविवर्द्धनाः ॥
ह्रदकुल्याजलनिर्झरतडागवापीजलेषु येमत्स्याः ।
तेऽतिजडा नादेया यथोत्तरं लघुतरास्तु
नादेयाः ॥
क्षाराम्बुमत्स्या गुरवो विदाहिनो
विष्टम्भदास्ते लवणार्णवादिजाः ।
नानाश्रिताः स्वादुजलस्थिता अपि
ज्ञेया जडास्तेऽपि तथाश्रिता इमे ॥”
इति राजनिर्घण्टः ॥
पृष्ठ ३/५८२
अथ क्षुद्रमत्स्यगुणाः ।
“क्षुद्रमत्स्याः स्वादुरसा दोषत्रयविनाशनाः ।
लघुपाका रुचिकराः सर्व्वदा ते हिता मताः ।
अथातिक्षुद्रमत्स्यगुणाः ।
अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः ।
अथ मत्स्याण्डगुणाः ।
मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो गुरुः ।
कफमेदप्रदो बल्यो ग्लानिकृन्मेहनाशनः ॥
अथ शुष्कमत्स्यगुणाः ।
शुष्कमत्स्या न बल्याः स्युर्दुर्जरा विड्विबन्धिनः ॥
अथ दग्धमत्स्यगुणाः ।
दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद्वलवर्द्धनः ॥
अथ कूपजादिमत्स्यगुणाः ।
कूपमत्स्याः शुक्रमूत्रकुष्ठश्लेष्मविवर्द्धनाः ।
सरोजा मधुराः स्निग्धा बल्या वातविनाशनाः ॥
नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः ।
रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्च्चसः ॥
चौङ्याः पित्तहराः स्निग्धा मधुरा लघवो
हिमाः ।
ताडागा गुरवो वृष्याः शीतला बलमूत्रदाः ।
ताडागवन्निर्झरजा बलायुर्मतिदृक्कराः ॥
अथ ऋतुविशेषे मत्स्यविशेषगुणः ।
हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः ।
वसन्ते ते तु नादेया ग्रीष्मे चौङ्यसमुद्भवाः ॥
तडागजाता वर्षासु तास्वपथ्या नदीभवाः ।
निर्झराः शरदि श्रेष्ठा विशेषोऽयमुदाहृतः ॥”
इति भावप्रकाशः ॥
मत्स्योत्पत्तिकारणं यथा, --
“ततस्तु मित्रावरुणौ भ्रातरौ ब्रह्मचारिणौ ।
तन्तु देशं गतौ देवौ विचरन्तौ यदृच्छया ॥
ताभ्यां तत्र तदा दृष्टा उर्व्वशी तु वराप्सराः ।
स्नायन्ती सहितान्याभिः सखीभिः सा वरानना ॥
गायन्ती च हसन्ती च विश्वस्ता निर्जने वने ॥
गौरी कमलगर्भाभा स्निग्धकृष्णशिरोरुहा ।
पद्मपत्रविशालाक्षी रक्तोष्ठी मृदुभाषिणी ॥
शङ्खकुन्देन्दुधवलैर्दन्तैरविरलैः समैः ।
सुभ्रूः सुनासा सुमुखी सुललाटा मनस्विनी ॥
सिंहवत् सूक्ष्ममध्याङ्गी पीनोरुजघनस्तनी ।
मधुरालापचतुरा सुमध्या चारुहासिनी ॥
रक्तोत्पलकरा तन्वी सुपदी विनयान्विता ।
पूर्णचन्द्रनिभा बाला मत्तद्विरदगामिनी ॥
दृष्ट्वा तस्यास्तु तद्रूपं तौ देवौ बिस्मयं गतौ ।
यस्या हास्येन लास्येन स्मितेन ललितेन च ॥
मृदुना वायुना चैव शीतानिलसुगन्धिना ।
मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ॥
सुखरेण हि गीतेन उर्व्वश्या मधुरेण च ।
ईक्षितौ च कटाक्षेण स्कन्दतुस्ताषुभावपि ॥
तत्त्रिधा पतितं रेतः कमलेऽथ स्थले जले ।
कमलेऽथ वशिष्ठस्तु जातो हि मुनिसत्तमः ॥
स्थले त्वगस्त्यः सम्भूती जले मत्स्यो महामते ! ॥”
इति नारसिंहपुराणे ६ अध्यायः ॥
मत्स्यभक्षणनिषेधो यथा, --
“यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।
मत्स्यादः सर्व्वमांसादस्तस्मान्मत्स्यान् विवर्ज्जयेत् ॥
इति मानवे ५ अध्यायः ॥
जलस्थलचरा ये च प्राणिनस्तान् मृतानपि ।
न भक्षेन्मानवो ज्ञानी हन्ता तेषां भवेन्न हि ॥
हत्वा हत्वा तु मत्स्याशी सर्व्वेषां यो विशेषतः ।
मांसादः प्राणिनां सोऽपि तस्मान्मत्स्यं परित्यजेत् ॥”
इति पाद्मोत्तरखण्डे १०५ अध्यायः ॥
वर्जनीयमत्स्या यथा, --
“शृणु देवि ! प्रवक्ष्यामि मांसभेदान्निबोध मे ।
नादेयं तिक्तकमठं पशुशृङ्गिणमेव च ॥
गोमीनं चक्रशकुलं वडालं राघवं तथा ।
वामीनं चलकर्णञ्च सचक्रं चेङ्गमेव च ॥
भूविलञ्चानिरुद्धञ्च गाङ्गेयानि विवर्ज्जयेत् ॥”
इति मत्स्यसूक्तमहातन्त्रम् ॥
रविवारे मत्स्यभक्षणनिषेधो यथा, --
“आमिषं रक्तशाकञ्च यो भुङ्क्ते च रवेर्द्दिने ।
सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥”
इति भविष्यपुराणम् ॥
“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् ।
भक्षयेद् यो रवेर्वारे सप्तजन्मान्यपुत्त्रकः ॥”
इति तिथ्यादितत्त्वम् ॥
कार्त्तिके मत्स्यभक्षणनिषेधो यथा, --
“न मात्स्यं भक्षयेन्मांसं न कौर्म्मं नान्यदेव हि ।
चण्डालो जायते राजन् ! कार्त्तिके मांसभक्ष-
णात् ॥”
इति नारदीयपुराणम् ॥
माघवैशाखयोर्हविष्यब्रह्मचर्य्यविधानात् मत्स्य-
भक्षणं नितरां निषिद्धमिति कृत्यतत्त्वदर्शनात् ॥
जन्मतिथौ मत्स्यभक्षणनिषेधो यथा, --
“आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत् ॥”
अपि च ।
“भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरे
पण्डितः ॥”
इति तिथ्यादितत्त्वम् ॥
शैवस्य मत्स्यभक्षणनिषेधो यथा, --
“क्व मद्यं क्व शिवे भक्तिः क्व मांसं क्वशिवार्च्चनम् ।
मत्स्यमांसरतानां वै दूरे तिष्ठति शङ्करः ॥”
इति काशीस्वण्डम् ॥
मा भक्ष्यं नैवेद्यार्थे भक्षेष्वजामहिषीक्षीरं वर्ज-
येत् । पञ्चनखमत्स्यवराहमांसानि च । इत्या-
ह्निकतत्त्वधृतविष्णुसूत्रम् ॥ * ॥ बिन्ध्यपर्व्वतस्य
पश्चिमे मत्स्यभक्षणनिषेधो यथा, --
“बिन्ध्यस्य पश्चिमे मागे मत्स्यभुक् पतितो नरः ।”
इति पुराणम् ॥
कामतो मत्स्यभक्षणप्रायश्चित्तं यथा, --
“मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं
वसेत् ॥”
अज्ञानतस्तदर्द्धम् । इति प्रायश्चित्तविवेकः ॥
मत्स्यभक्षणप्रतिप्रसवो यथा, --
“मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेव
च ।
निवेद्य देवताभ्यश्च ब्राह्मणेंभ्यश्च नान्यथा ॥
सफरं सिंहतुण्डञ्च तथा पाठीन-रोहितौ ।
मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः ॥
प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया ।
यथाविधिनियुक्तश्च प्राणानामपि चात्यये ॥”
इति कौर्म्मे उपविभागे १६ अध्यायः ॥
अपि च ।
“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥”
इति मानवे ५ अध्यायः ॥
“अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत् ।
अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ॥”
इत्याह्निकतत्त्वम् ॥
प्रेतश्राद्धे मत्स्यदानविधिर्यथा, --
“सपिण्डीकरणं यावत् प्रेतश्राद्धन्तु षोडशम् ।
पक्वान्नेनैव कर्त्तव्यं सामिषेण द्विजातिभिः ॥”
इति श्राद्धतत्त्वधृतकामधेनुवचनम् ॥

मत्स्यः, पुं, (जलं प्राप्य माद्यतीति मद् +

“ॠत्यन्यञ्जीति ।” उणा० । ४ । २ । इति स्यन् ।)
मीनविशेषः । विराटदेशः । नारायणः । इति
हेमचन्द्रः । ४ । ४०९ ॥ देशविशेषे बहुवचनान्तः ।
इति मेदिनी । ये, ४५ ॥ द्वादशराशिः । यथा,
“मत्स्यौ घटी नृमिथुनं सगदं सवीणम् ॥”
इत्यादि ज्योतिस्तत्त्वम् ॥
अष्टादशपुराणान्तर्गतपुराणविशेषः ॥ (मत्स्य-
रूपेणावतीर्णेन भगवता उक्तत्वात् अस्य
तदाख्या ।) यथा, --
“पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः ।
मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥”
इति मत्स्यपुराणे १ अध्यायः ॥
दशावतारान्तर्गतप्रथमावतारः । यथा, --
सूत उवाच ।
“पुरा राजा मनुर्नाम चीर्णवान् विपुलं तपः ।
पुत्त्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥
मलयस्यैकदेशे तु सर्व्वात्मगुणसंयुतः ।
समदुःखसुखो वीरः प्राप्तवान् योगमुत्तमम् ॥
बभूव वरदश्चास्य वर्षायुतशते गते ।
वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥
एममुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम् ।
एकमेबाहमिच्छामि त्वत्त्वो वरमनुत्तमम् ॥
भूतग्रामस्य सर्व्वस्य स्थावरस्य चरस्य च ।
भविता रक्षणे यानं प्रलये समुपस्थिते ॥
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत ।
पुष्पवृष्टिश्च महती स्वात् पपात सुरार्पिता ॥
कदाचिदाश्रभे तस्य कुर्व्वतः पितृतर्पणम् ।
पपात पाण्योरुपरि शफरी जलसंयुतः ॥
दृष्ट्वा तच्छफरीरूपं स दयाजुर्महीपतिः ।
रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे ॥
अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः ।
सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥
स तमादाय मलिके प्राक्षिपज्जलचारिणम् ॥
तत्रापि चैकरात्रेण हस्तत्रयमवर्द्धत ॥
पृष्ठ ३/५८३
पुनः प्राहार्त्तनादेन सहस्रकिरणात्मजम् ।
स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः ॥
ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः ।
यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥
क्षिप्तोऽसौ पृथुतामागात् पुनर्योजनसम्मितः ।
तत्राप्याह पुनर्द्दीनः पाहि पाहि नृपोत्तमम् ॥
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्द्धत ।
यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः ।
तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेश्वरः ॥
अथवा वासुदेवस्त्वमन्य ईदृक् कथं भवेत् ।
योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव ! ।
हृषीकेश ! जगन्नाथ ! जगद्धाम ! नमोऽस्तु ते ॥
एवमुक्तः स भगवान् मत्स्यरूपी जनार्द्दनः ।
साधु साध्विति चोवाच सम्यक् ज्ञातस्त्वयानघ ! ॥
अचिरेणैव कालेन मेदिनी मेदिनीपते ! ।
भविष्यति जले मग्ना सशैलवनकानना ॥
नौरियं सर्व्वदेवानां निकायेन विनिर्म्मिता ।
महाजीवनिकायस्य रक्षणार्थं महीपते ! ॥
स्वेदाण्डजोद्भिजो ये वै ये च जीवा जरायुजाः ।
अस्यां निधाय सर्व्वांस्ताननाथान् पाहि
सुव्रत ! ॥
युगान्तवाताभिहता यदा भवति नौर्नृप ! ।
शृङ्गेऽश्मिन् मम राजेन्द्र ! तदेमां संयमिष्यसि ॥
ततो लयान्ते सर्व्वस्य स्थावरस्य चरस्य च ।
प्रजापतिस्त्वं भविता जगतः पृथिवीपते ! ॥
एवं कृतयुगस्यादौ सर्व्वज्ञो धृतिमान् नृपः ।
मन्वन्तराधिपश्चैव देवपूज्यो भविष्यसि ॥”
इति मत्स्यपुराणे मनुविष्णुसंवादे प्रथमे सर्गे
प्रथमोऽध्यायः ॥ विस्तारस्तु श्रीभागवते ८ स्कन्धे
२४ अध्याये द्रष्टव्यः ॥ * ॥ तस्य मन्त्रध्यानपूजादि
यथा, --
शङ्कर उवाच ।
“एक एवाभवन्मत्स्यावतारः कल्प आदिमे ।
तस्य मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदायकम् ॥
तारो नमो भगवते मं मत्स्याय रमां वदेत् ।
द्वादशाक्षरमन्त्रोऽयं मुनिर्ब्रह्मा समीरितः ॥
गायत्त्री च्छन्द उदितं देवता मीनविग्रहः ।
भगवान् शर्व्वरीनाथो बीजं श्रीपञ्चकीलकम् ॥
नाभ्यधो रोहितसम आकण्ठञ्च नराकृतिः ।
घनश्यामश्चतुर्ब्बाहुः शङ्खचक्रगदाधरः ॥
शृङ्गीमत्स्यनिभो मूर्द्धा लक्ष्मीवक्षोविराजितः ।
पद्मचिह्नितसर्व्वाङ्गः सुन्दरश्चारुलोचनः ॥
जपेद्द्वादशसाहस्रं त्रिमध्वाक्तैस्तिलैर्हुनेत् ।
प्रत्यहं तद्दशांशेन वैशाखे कार्त्तिके तथा ।
माधे च मार्गशीर्षे च हविष्याशी जितेन्द्रियः ॥
आरभ्य भाद्रबहुलमष्ट वा षोडशाहकम् ।
लक्ष्मीमनुं जपेन्नित्यमिदञ्चापि कलाशतम् ॥
तथैव होमः कर्त्तव्यस्तथान्यदिवसेषु तु ।
तर्पयेद्द्वादशशतं तिलतण्डुलचन्दनैः ॥
आज्यन्तथा शताष्टौ च तर्पयेच्च तथा श्रियम् ।
रक्तोत्पलैर्वा पद्मैर्वा मालत्याद्यैः सुगन्धिभिः ।
एवं कृते वर्षमेकं मन्त्रसिद्धिः प्रजायते ॥
नित्यं द्वादशविप्रांश्च श्रीरूपाञ्च सुवासिनीम् ।
भोजयेत् पूजनञ्चास्य चरेत्तौ व्याशयेत् सदा ॥
षट्पत्रकर्णिकायाञ्च श्रीयुतं देवमर्च्चयेत् ।
षट्पत्रेषु षडङ्गानि यजेद्वाह्यचतुर्द्दले ॥
मण्डूकं मकरं कूर्म्मं शिशुमारञ्च पूर्ब्बतः ।
तद्बाह्येऽष्टदले पूज्याः क्षाराद्याः सप्त सिन्धवः ॥
तद्बाह्येऽङ्कदले पूज्या वामुक्याद्याः फणीश्वराः ।
तस्य वाह्ये शक्रदले रत्नानि तु चतुर्द्दश ॥
समुद्रजानि पूज्यानि लक्ष्मीकौस्तुभकानि च ।
गङ्गाद्याः षोडश ततो महानद्यः प्रपूजयेत् ॥
ततश्चाष्टदले वेदानुपवेदसमन्वितान् ।
दिगीशांश्च तदस्त्राणि नवावरणपूजनम् ।
एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् ॥
एतदुक्तशतं मन्त्रं जपेदष्टोत्तरं शतम् ।
तद्देवतादिने सिद्धः पुस्तकादेव जायते ॥
अकुण्ठितप्रयोगेषु न पुनस्तस्य संस्कृतिः ।
एतत्पल्लविता मन्त्रा मम सिद्ध्यन्ति पार्व्वति ! ॥
एतत्संपुठिताः सर्व्वे वैदिकाः सिद्धिदाः कलौ ।
अनेन ग्रथिता जप्ताः कलेश्च द्रुतसिद्धिदाः ॥”
इति मेरुतन्त्रे २६ प्रकाशः ॥

मत्स्यकरण्डिका, स्त्री, (मत्स्यस्यकरण्डिकेव) मत्स्य-

रक्षणपात्रम् । खालुइ इति भाषा । तत्पर्य्यायः ।
मत्स्यधानी २ कुवेणी ३ । इति जटाधरः ॥

मत्स्यगन्धा, स्त्री, (मत्स्यस्येव गन्धो यस्याः ।

छान्दसादित्वाभावः ।) लाङ्गलीवृक्षः । स च
जलपिप्पली । इति जटाधरः राजनिर्घण्टश्च ॥
व्यासमाता ॥ (अस्या उत्पत्तिकथा यथा, एकदा
चेदीश्वरो वसुराजः पितृगणनियोजितो मृगये-
प्सुर्वनं गत्वा स्वपत्नीं गिरिकां ऋतुस्नातां स्मरन्
आस्ते । इत्यवसरे कामोद्दीपकवसन्तवायुना
प्रेर्य्यमाणस्य तस्य रेतः प्रचस्कन्द । ततस्त-
द्वीर्य्यं सपत्रपुटे स्थापितवान् । एतत्तु मृषा न
स्खलितमिति निश्चित्य अभिमन्त्र्य च तत्
स्वपालित-श्येनेन प्रियायै प्रेषयामास । तदा-
दाय उड्डीयमानस्य अन्येन च श्येनेन सह
विहायसि युध्यतस्तस्य पदात् भ्रष्टं कालिन्दीजले
पपात वीर्य्यम् । अथ तद्रेतः ब्रह्मशापान्मत्स्य-
रूपिणी अद्रिका नाम्नी काचिदप्सरा भक्षित-
वती धीवरास्तु तां पूर्णगर्भां मत्स्यीं बवन्धुः
ततस्तेतु तस्या उदरात् एकां स्त्रियमेकञ्च
पुरुषमुज्जह्रुः । तयोस्तु पुरुषो मत्स्यो नाम
राजा, सा कन्या च मत्स्यगन्धेति ख्यातासीत् ॥
हवुषा । तत्पर्य्यायो यथा, --
“तन्मस्ये प्रथमं फलं मत्स्यसदृशं विस्रगन्धंद्बितीय-
मश्वत्थफलसदृशं मत्स्यगन्धं तयोर्नामानि ।
“हवुषा पुष्पवस्ता च पराश्वत्थफला मता ।
मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥”
मत्स्याक्षी ॥ तत्पर्य्यायो यथा, --
“मत्स्याक्षी वाह्लिका मत्स्यगन्धा मत्स्या-
दनीति च ।”
जलपिप्यल्यर्थे पर्य्यायो यथा, --
“जलपिप्पल्यभिहिता शारदी शकलादनी ।
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि
कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥

मत्स्यघण्टः, पुं, (मत्स्यानां घण्टः विमिश्रणं यत्र

सः ।) स्वनामख्यातमत्स्यव्यञ्जनम् । तत्-
पर्य्यायः । गलग्रहः २ । इति शब्दचन्द्रिका ॥

मत्स्यजालं, क्ली, (मत्स्यधारणार्थं जालं शाक-

पार्थिववत् समासः ।) आनायः । इति हेम-
चन्द्रः । ३ । ५९३ । माछधरा जाल इतिभाषा ॥

मत्स्यण्डिका, स्त्री, (मदं मधुररसं स्यन्दते इति ।

स्यन्द + ण्वुल् + टाप् । अत इत्वञ्च । पृषो-
दरादित्वात् साधुः । शर्कराविशेषः । मिछिरि
इति भाषा । यथा, --
“लसीकाफाणितगुडखण्डमत्स्यण्डिकासिताः ।
निर्म्मला लघवो ज्ञेयाः शीतवीर्य्या यथोत्तरम् ।
यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा ॥”
इति राजवल्लभः ॥
राव इति हिन्दीभाषा । तस्य लक्षणं यथा, --
“इक्षोरसो यः संपक्वो घनः किञ्चिद्द्रवा-
न्वितः ।
मन्द यत् स्यन्दते यस्मान्मत्स्यण्डीति निगद्यते ॥”
अस्य गुणाः ।
“मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिला-
पहा ।
मधुरा वृंहणी वृष्या रक्तदोषापहा स्मृता ॥”
इति भावप्रकाशः ॥

मत्स्यण्डी, स्त्री, खण्डविकारः । इत्यमरः । २ । ९ । ४३ ॥

इक्षुविशेषस्य रसपाके खण्डयोग्ये सारभूते या
गुडिकाकारा जायते सा मत्स्यण्डी । खण्ड-
शालूकं मिछिरि इति ख्याते नवात् इति
ख्यातापि मत्स्यण्डीति केचित् । मत्स्याण्डा-
कारत्वात् मत्स्यण्डी मनीषादित्वादलुक् नदा-
दित्वादीप् मत्स्यमनिति मत्स्यण्डी अन प्राणने
डः इत्यन्ये । मदं स्यन्दते मत्सण्डीति केचित् ।
इति भरतः ॥ (यथास्या लक्षणं गुणाश्च ॥
रावकाकव खण्डराव इति लोके ।
“इक्षो रसो यः सम्पक्वो घनः किञ्चिद्रवान्वितः ।
मन्दं यत् स्यन्दते यस्मात्तन्मत्स्यण्डी निगद्यते ॥
मत्स्यण्डी मेदिनी बल्या लघ्वी पित्तानिला-
पहा ।
मधुरा बृंहणी वृष्या रक्तदोषपहा स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥

मत्स्यधानी, स्त्री, (मत्स्या धीयन्ते । यत्रेति मत्स्य

+ धाञ् + ल्युट् ङीप् ।) मत्स्यरक्षार्थपात्रम् ।
खारयी इति खालुइ इति च भाषा । तत्प-
र्य्यायः । कुवेणी २ । इत्यमरः । १ । १० । १६ ॥
मत्स्यकरण्डिका ३ खारयिका ४ मत्स्यबन्धनी ५
कुवेणिः ६ कुवेणा ७ कुपिनी ८ कुपिनिः ९ ।
इतिभरतः ॥ सा स्वल्पा चेत् कुपिनी भवेत्
इति शब्दरत्नावली ॥
पृष्ठ ३/५८४

मत्स्यनाशकः, पुं, (नाशयतीति नश् + णिच् +

ण्वुल् । मत्स्यानां नाशकः । सदैव मत्स्यभक्षक-
तयास्य तथात्वम् ।) कुररपक्षी । इति भूरि-
प्रयोगः ॥ मत्स्यनाशकर्त्तरि त्रि ॥

मत्स्यनाशनः, पुं, (नाशयतीति नश् + णिच्

ल्युः । मत्स्यस्य नाशनः ।) कुररपक्षी । इति
हेमचन्द्रः । ४ । ४०१ ॥

मत्स्यपित्ता, स्त्री, (कटुरौहिणी । इत्यमरः ।

२ । ४ । ८६ ॥ (तथा चास्याः षर्य्यायाः ।
“कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा ।
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥
मत्स्यपित्ता काण्डरुहा रोहिणी कटु-
रोहिणी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मत्स्यबन्धी, [न्] पुं, (मत्स्यान् बन्धुं धर्त्तुं शील-

मस्य । मत्स्य + बन्ध + इनिः ।) धीवरः । यथा,
“कैवर्त्तो धीवरो दासो मत्स्यबन्धी च
जालिकः ॥
इति हलायुधः ॥”
(“अथान्येद्युस्तैर्यमकिङ्कराभैर्मस्यबन्धिभिः
प्रभात आगत्य जालैराच्छादितो ह्रदः ।”
इति पञ्चतन्त्रे । ५ । २९ ।)

मत्स्यबन्धिनी, स्त्री, (मत्स्यबन्धिन् + स्त्रियां

ङीप् ।) मत्स्यधानी । इति हलायुधः ॥

मत्स्यरङ्कः, पुं, (मत्स्यरङ्ग । पृषोदरादित्वात्

साधुः ।) मत्स्यरङ्गपक्षी । इति भूरिप्रयोगः ॥

मत्स्यरङ्गः, पुं, (मत्स्यान् रङ्गति भक्षणार्थं

तत्समीपं गच्छतीति । मत्स + रगि + अच् ।)
पक्षिविशषः । माछराङ्गा इति भाषा । (यथा,
“त्रिभुवनविदितो हा मत्स्यरङ्गे कलङ्कः ॥”
इत्युद्भटः ॥)
तत्पर्य्यायः । झम्पाशी २ जलमद्गुः ३ मणी-
चकः ४ । इति हारावली ॥ मत्स्याशनः ५
मीनरङ्कुः ६ मत्स्यरङ्कः ७ सुचित्रकः ८ । इति
शब्दरत्नावली ॥

मत्स्यराजः, पुं, (मत्स्येषु राजा श्रेष्ठः समा-

सान्तष्टच् ।) रोहितमत्स्यः । इति त्रिकाण्ड-
शेषः ॥ विराटराजः ।
(“तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् ।”
इति महाभारते । ४ । ६९ । २१ ।)

मत्स्यविन्ना, स्त्री, कटुका । इति वैद्यकम् ॥

मत्स्यवेधनं, क्ली, (मत्स्योविध्यतेऽनेनेति मत्स्य +

विध + करणे ल्युट् । मत्स्यानां वेधनमिति
वा ।) वडिशम् । इत्यमरः । १ । १० । १६ ॥

मत्स्यवेधनी, स्त्री, (मत्स्यवेधन + ङीप् ।) मद्गु-

पक्षी । इति जटाधरः ॥ वडिशम् । इति
शब्दरत्नावली ॥

मत्स्यसन्तानिकः, पुं, (मत्स्याना सन्तानिकात्र ।)

मत्स्यव्यञ्जनविशेषः । यथा, --
“दग्धोऽङ्गारे सलवणो वेशवारैरुपस्कृतः ।
सार्द्रकः कटुतैलेन मत्स्यसन्तानिको भवेत् ॥”
इति शब्दचन्द्रि का ॥

मत्स्याक्षी, स्त्री, (मत्स्यानां अक्षीणीव अक्षीणि

पुष्परूपाणि चक्षूषि यस्याः । मत्स्याक्षि +
“बहुब्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।” ५ ।
४ । ७३ । इति षच् ङीष् च ।) ब्राह्मी । इत्य-
मरः । २ । ४ । १३७ ॥ सा च सोमलतायाम् ।
ब्राह्मीशाके इति केचित् । इति भरतः ॥ यथा,
“ब्राह्मी वयस्था मत्स्याक्षी मीनाक्षी सोम-
वल्लरी ।
मत्स्याक्षी शिशिरा रुच्या ब्रणदोषक्षयापहा ॥”
इति राजनिर्घण्टः ॥
गण्डदूर्व्वा । इति राजनिर्घण्टः ॥
हिलमोचिका । ब्राह्मीशाकः । इति रत्नमाला ॥
(गण्डदूर्ब्बार्थे पर्य्या यो यथा, --
“गण्डद्रूर्व्वा तु गण्डाली मत्स्याक्षी शकुला-
क्षकः ॥”
मत्स्यादनी ॥ तत्पर्य्यायो गुणाश्च यथा ।
मछेछी छछमछरी आइतिच । इति लोके ।
“मत्स्याक्षी वाह्लिका मत्स्यगन्धा मत्स्याद-
नीति च ।
मत्स्याक्षी ग्राहिणी शीता कुष्ठपित्तकफास्र-
जित् ॥
लघुस्तिक्ता कषाया च स्वाद्वी कटुविपाकिनी ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मत्स्याङ्गी, स्त्री, (मत्स्यानां अङ्गमिवाङ्गं यस्याः ।)

हिलमोचिका । इति त्रिकाण्डशेषः ॥

मत्स्यादनी, स्त्री, (मत्स्यैरद्यते इति मत्स्य +

अद + ल्युट् गौरादित्वात् ङीष् ।) जलपिप्पली ।
इति राजनिर्घण्टः ॥ (तथा च पर्य्यायः ॥
“जलपिप्पल्यभिहिता शारदी शकलादनी ।
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि
कीर्त्तिता ॥”
मत्स्याक्षी । मछेछी इति लोके ॥ तत्पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“मत्स्याक्षी वाह्लिकामत्स्य गन्धा मत्साद-
नीति च ।”)

मत्स्याशनः, पुं, (मत्स्यानश्नातीति मत्स्य +

अश + ल्युः ।) मत्स्यरङ्गपक्षी । इति त्रिकाण्ड-
शेषः ॥ मत्स्यभक्षके त्रि ॥

मत्स्यी, स्त्री, (मत्स्य + जाते र्ङीष् ।) स्त्रीमत्स्य-

जातिः । इति मुग्धबोधव्याकरणम् ॥

मत्स्योदरी, स्त्री, (मत्स्यस्य उदरं उत्पत्तिस्थानं

यस्याः । मत्स्यगर्भे जातत्वादस्यास्तथात्वम् ।)
सत्यवती सा च व्यासमाता । इति जटाधरः ॥
(यथा देवीभागवते । २ । १ । ३८ ।
“कालिका वसुना दत्ता तरसा जालजीविने ।
नाम्ना कालीति विख्याता तथा मत्स्यो-
दरीति च ॥”)
(मत्स्या उदरे गर्भे यस्याः ।) काशीस्थतीर्थ-
विशेषः ॥ यथा, --
“कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ! ।
दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ॥
सद्वाराणि सयन्त्राणि कवाटविकटानि च ।
कोटिकोटिभटान्यानि सर्व्वर्द्धिसहितान्यपि ॥
ततः शैलं महादुर्गं तैः काशीपरितः कृतम् ।
परिखा निकृतालिन्दा मत्स्योदर्य्या जलाविला ॥
मत्स्योदरी द्विधा जाता बहिरन्तश्चरा पुनः ।
तस्य तीर्थं महत् ख्यातं मिलितं गाङ्गवारिणि ॥
यदा संहारमार्गेण गङ्गाम्भः प्रसरेदिह
तदा मत्स्योदरीतीर्थं लभ्यते पुण्यगौरवात् ॥
सूर्य्याचन्द्रमसोः पर्व्व तदा कोटिगुणं शतम् ।
सर्व्वपर्व्वाणि तत्रैव सर्व्वतीर्थानि तत्र वै ।
तत्रैव सर्व्वलिङ्गानि गङ्गा मत्स्योदरी यतः ॥
मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापि मानवाः ।
कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः ॥
अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् ।
परितः स्वर्धुनीवारि संसारे परिवीक्षते ॥
मत्स्योदर्य्यां कृतस्नाना ये नरास्ते नरोत्तमाः ।
कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् ॥
किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः ।
यदि मत्स्योदरीं स्नाताः कुतो गर्भभयं ततः ॥
यत्र यत्र हि लिङ्गानि नृदेवर्षिकृतान्यपि ।
तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ॥
सन्ति तीर्थान्यनेकानि भूर्भूवःस्वर्गतान्यपि ।
न समानि परं तानि कोट्यंशेनापि निश्चितम् ॥
इत्थं तीर्थं कृतं तेन विभो ! कैलासवासिना ।
गणाधिपेन सुमहत् सुमहोदरकर्म्मणा ॥”
इति काशीखण्डे ६९ अध्यायः ॥

मथ इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

वधे-सक०-क्लेशे अक०-सेट् ।) इ मन्थ्यते ।
कुन्थो वधक्लेशौ । इति दुर्गादासः ॥

मथ ज ए गाहे । इति कविकल्पद्रुमः ॥ भ्वा०-

पर०-सक०-सेट् ।) ज मन्थः मथः । ए अम-
थीत् । इति दुर्गादासः ॥

मथनं, क्ली, (मथ्यते इति मथ + भावे ल्युट् ।)

विलोडनम् । मओया इति भाषा । यथा, --
“क्वाहं मन्दमतिः क्वेदं मथनं क्षीरवारिधेः ।
किं तत्र परमाणुर्वै यत्र मज्जति मन्दरः ॥”
इति भागवते । १ । १ । १ । टीकायां श्रीधरस्वामी ॥
अस्त्र विशेषः । यथा, हरिवंशे । २३६ । १० ।
“ऐषीकमस्त्रमैन्द्रञ्च आग्नेयं शैशिरं तथा ।
वायव्यं मथनं नाम कापालमथ किङ्करम् ॥”)

मथनः, पुं, (मथति रोगानिति मथ + कर्त्तरि

ल्युः ।) गणिकारिकावृक्षः । इति रत्नमाला ॥
(मथनकारके, त्रि । केशिमथनमुण्डमथन्यादि-
दर्शनात् ।)

मथितं, क्ली, (मथ + क्तः ।) निर्जलघोलम् । इत्य-

मरः । २ । ९ । ५३ ॥ यथा, वृहत्संहितायाम् । ५० । २६ ।
“क्षारे कदल्यामथितेन युक्ते
दिनोषिते पायितमायसं यत् ॥”)
अस्य गुणाः । कफपित्तनाशकत्वम् । रोचनत्वम् ।
धातुपुष्टिदत्वञ्च । इति राजवल्लभः ॥ विलो-
डिते, त्रि ॥ (तथा च पर्य्यायान्तरं प्रकारा-
न्तरञ्च यथा, --
“घोलन्तु मथितं तक्रमुदस्विच्छच्छिकापि च ।
पृष्ठ ३/५८५
ससरं निर्ज्जलं घोल मथितन्त्वसरोदकम् ॥
तक्रं पादजलं प्रोक्तमुदास्वित्त्वर्द्धवारिकम् ।
छच्छिका सारहीना स्यात् स्वच्छा प्रचुर-
वारिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥
“ससरं निर्जलं घोलं मथितं सरवर्ज्जितम् ।”
इति च हारीते प्रथमस्थाने अष्टमेऽध्याये ॥)

मथुरा, स्त्री, (मथ्यते पापराशिर्यया इति । मथ +

“मन्दिवाशीत्यादि ।” उणा० । १ । ३९ ।
इति उरच् ।) स्वनामख्यातपुरी । अधुना
आगरा इति ख्यातस्याग्रवणस्य नगरम् ।
(यथा, रघौ । ६ । ४८ ।
“यस्यावरोधस्तनचन्दनानां
प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि
गङ्गोर्म्मिसंसक्तजलेव भाति ॥”)
तत्पर्य्यायः । मधुपघ्नम् २ । इति त्रिकाण्डशेषः ॥
मधुपुरी ३ मधुरा ४ । इति शब्दरत्नावली ॥
सा च मोक्षदायकतीर्थम् । यथा, --
“अयोध्या मथुरा माया काशी काञ्ची अव-
न्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥
अयोध्या रामनगरी मथुरा कृष्णपालिता ।
एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ॥
श्रीरामधनुरग्रस्था अयोध्या सा महापुरी ।
मथुरा केशवोत्सृष्टसुदर्शनविधारिता ॥”
इत्यादिभूतशुद्धितन्त्रम् ॥ * ॥
तत्र विष्णुदर्शनमाहात्म्यं यथा,
“यज्ज्यैष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति परमां गतिम् ॥
यमुनासलिले स्नातः पुरुषो मुनिसत्तम ! ।
ज्येष्ठामूलामले पक्षे द्वादश्यामुपवासकृत् ॥
समभ्यर्च्च्याच्युतं सम्यक् मथुरायां समाहितः ।
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥
कश्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः ।
अर्च्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥
ज्येष्ठामूलसिते पक्षे येनैवं वयमप्युत ।
परामृद्धिमवाप्स्यामस्तारिताः सकुलोद्भवैः ॥”
इति विष्णुपुराणे ६ अंशे ८ अध्यायः ॥ * ॥
तस्या माहात्म्यं यथा, --
वराह उवाच ।
“न विद्यते च पाताले नान्तरीक्षे न मानुषे ।
समत्वं मथुराया हि प्रियं मम वसुन्धरे ! ॥”
सूत उवाच ।
“तच्छ्रुत्वा वचनं तस्य प्रणम्य शिरसा तदा ।
पुण्यानां परमं पुण्यं पृथ्वी वचनमब्रवीत् ॥
पृथिव्युवाच ।
पुष्करं नैमिषं चैव पुरी वाराणसी तथा ।
एता हित्वा महाभाग ! मथुरां किं प्रशंससि ॥
वराह उवाच ।
शृणु कार्त्स्नेन वसुधे ! कथ्यमानं मयानधे ! ।
मथुरति च विख्यातं नास्ति क्षेत्रं परं मम ।
सा रम्या च सुशस्ता च जन्मभूमिः प्रिया मम ॥
शृणु देवि ! यथा स्तौमि मथुरां पापहारि-
णीम् ।
तन्निवासी नरो याति मोक्षं नास्त्यत्र संशयः ॥
महामाध्यां प्रयागे तु यत् फलं लभते नरः ।
तत् फलं लभते देवि ! मथुरायां दिने दिने ॥
कार्त्तिक्याञ्चैव यत् पुण्यं पुष्करे तु वसुन्धरे ! ।
तत् फलं लभते देवि ! मथुरायां दिने दिने ॥
पूर्णे वर्षसहस्रे तु वाराणस्यान्तु यत् फलम् ।
तत् फलं लभते देवि ! मथुरायां क्षणेन हि ॥
मथुराञ्च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहितो मायया मम ॥
यः शृणोति वरारोहे ! माथुरं मम मण्डलम् ।
अन्येनोच्चारितं शंसन् सोऽपि पापैः प्रमुच्यते ॥
पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ।
मथुरायां गमिष्यन्ति सुप्ते चैव जनार्द्दने ॥
मथुरां समनुप्राप्य श्राद्धं कृत्वा यथाविधि ।
तृप्तिं यान्तीह पितरो यावत् स्थित्यग्रजन्मनः ॥
ये वसन्ति महाभागे ! मथुरामितरे जनाः ।
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः ॥
कुब्जाम्रके शौकरवे मथुरायां विशेषतः ।
विना सांख्येन योगेन मुच्यते नात्र संशयः ॥
मथुरायां महापुर्य्यां ये वसन्ति शुचिव्रताः ।
बलिभिक्षाप्रदातारो ये वा ते नरविग्रहाः ॥
भविष्यामि वरारोहे ! द्बापरे युगसंस्थिते ।
ययातिभूपवंशाच्च क्षत्त्रियः कुलवर्द्धनः ॥
भविष्यामि वरारोहे ! मथुरायां न संशयः ।
मूर्त्तिं चतुर्व्विधां कृत्वा स्थास्यामि ऋषिभिः
स्तुतः ॥
स्थास्यामि वत्सरशतं युद्धेषु कृतनिश्चयः ।
एका चन्दनसङ्काशा द्वितीया कनकप्रभा ॥
अशोकसदृशा चान्या अन्या चोत्पलसन्निभा ।
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ! ॥
पुण्यानि च पवित्राणि संसारोच्छेदनानि च ।
यत्राहं घातयिष्यामि द्बात्रिंशति वसुन्धरे ! ॥
दैत्यान् घोरान् महाभागे ! कंसादीन् घोर-
दर्शनान् ।
यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम् ॥
वैवस्वतस्वसा रम्या यमुना यत्र विश्रुता ।
तां नदीं यमुनां गङ्गां प्रयागे सङ्गविश्रुताम् ॥
गङ्गाशतगुणा पुण्या मथुरे मम मण्डले ।
यमुना विश्रुता देवि ! नात्र कार्य्या विचारणा ॥
तत्र तीर्थानि गुह्यानि भविष्यन्ति ममानघे ! ।
येषु स्नानपरो देवि ! मम लोके महीयते ॥
अथात्र मुञ्चते प्राणान् मम कर्म्मपरायणः ।
न जायते स मर्त्येषु जायते च चतुर्भुजः ॥
अविमुक्ते नरः स्नातो मुक्तिं प्राप्नोत्यसंशयम् ।
तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति ।
विश्रान्तिसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
यस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥
सर्व्वतीर्थेषु यत् स्नानं सर्व्वतीर्थेषु यत् फलम् ।
तत् फलं लभते देवि ! दृष्ट्वा देवं गतश्रमम् ॥
न च यज्ञैर्न तपसा न ध्यानैर्न च संयमैः ।
तत् फलं लभते देवि ! स्नातो विश्रान्तिसंज्ञके ॥
कालत्रयन्तु वसुधे ! यः पश्यति गतश्रमम् ।
कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति ॥
अस्ति चान्यत् परं गुह्यं सर्व्वसंसारमोक्षणम् ।
यस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥
प्रयागं नाम तीर्थन्तु देवानामपि दुर्लभम् ।
तस्मिन् स्नातो नरो देवि ! अग्निष्टोमफलं लभेत् ॥
इन्द्रलोकं समासाद्य नरो वै तत्र मोदते ।
अथात्र मुञ्चते प्राणान् मम लोकं स गच्छति ॥
तथा कनखलं तीर्थं नाम गुह्यं परं मम ।
स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते ॥
अस्ति क्षेत्रं परं गुह्यं तिन्दुकं नाम नामतः ।
तस्मिन् स्नातो नरो देवि ! मम लोके महीयते ॥
अस्मिंस्तीर्थे पुरावृत्तं तच्छृणुष्व वसुन्धरे ! ।
पाञ्चालविषये देवि ! काम्पिल्यञ्च पुरोत्तमम् ॥
धनधान्यसमायुक्तं ब्रह्मदत्तेन पालितम् ।
तस्मिंस्तु वसते देवि ! तिन्दुको नाम नामतः ॥
तस्मिंस्तु वसतस्तस्य नापितस्य पुरोत्तमे ।
कालेन महता तस्य कुटुम्बः क्षयमागतः ॥
क्षीणे कुटुम्बे तु तदा सुभृशं दुःखपीडितः ।
सर्व्वसङ्गपरित्यागी यो गच्छन् मथुरापुरीम् ।
ब्राह्मणावसथे सोऽपि वसमानो वसुन्धरे ! ॥
तत्र कर्म्मशतं कृत्वा स्नात्वैव यमुनां नदीम् ।
तत्र दानञ्च कुरुते नित्यकालं दृढव्रतः ॥
ततः कालेन महता पञ्चत्वं समुपागतः ।
तस्य तीर्थप्रभावेण जातोऽसौ ब्राह्मणोत्तमः ॥
तस्मिन् वरगृहे देवि ! ब्राह्मणो योगिनां वरः ।
जातिस्मरो महाप्राज्ञो विष्णुभक्तो वसुन्धरे ! ॥
तस्य तीर्थप्रभावेण प्राप्ता मुक्तिः सुदुर्लभा ॥
ततः परं सूर्य्यतीर्थं सर्व्वपापप्रमोचनम् ।
वैरोचनेन बलिना सूर्य्यस्त्वाराधितः पुरा ॥
भ्रष्टराज्येन बलिना धनकामेन वै पुरा ।
ऊर्द्ध्वबाहुर्न्निराहारस्तप्तवानुत्तमं तपः ॥
साग्रं संवत्सरं देवि ! ततः काममवाप्नुयात् ।
तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत ॥
किं कारणं बले ! ब्रूहि तपस्यसि महत्तपः ॥”
बलिरुवाच ।
“भ्रष्टराज्योऽस्मि देवेश ! पाताले निवसाम्यहम् ।
वित्तेनापि विहीनस्य कुटुम्बभरणं कुतः ॥
मुकुटात्तस्य वै सूर्य्यो ददौ चिन्तामणिं ततः ।
चिन्तामणिं समासाद्य पातालमगमत्तदा ॥
तस्मिंस्तीर्थे नरः स्नात्वा सर्व्वपापैः प्रमुच्यते ।
तत्रापि मुञ्चते प्राणान् मम लोकं स गच्छति ॥
आदित्येऽहनि संक्रान्तौ ग्रहणे चन्द्रसूर्य्ययोः ।
तस्मिन् स्नातो नरो देवि ! राजसूयफलं लभेत् ॥
यत्र ध्रुवेण सन्तप्तं इच्छया परमं तपः ।
अत्र वै स्नानमात्रेण ध्रुवलोके महीयते ॥
तत्रापि मुञ्चते प्राणान् मम लोके महीयते ॥
ध्रुवतीर्थे च वसुधे यः श्राद्धं कुरुते नरः ।
पितॄं स्तारयते सर्व्वान् पितृपक्षे विशेषतः ॥
दक्षिणे ध्रुवतीर्थस्य तीर्थराजं प्रकीर्त्तितम् ।
पृष्ठ ३/५८६
तस्मिन् स्नातो नरो देवि ! मम लोके महीयते ।
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति ॥
तद्दक्षिणे महादेवि ! ऋषितीर्थं परं मम ।
तत्र स्नातो नरो देवि ! ऋषिलोकं प्रपद्यते ॥
अथात्र मुञ्चते प्राणान्मम लोके महीयते ।
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम ॥
स्नानमात्रेण वसुधे ! मोक्षं प्राप्नोति मानवः ।
तत्राथ मुञ्चते प्राणान् मम लोके महीयते ॥
तत्रैव कोटितीर्थं हि तीर्थानामपि दुर्लभम् ।
तत्र स्नानेन दानेन मम लोके महीयते ॥
कोटितीर्थे नरः स्नातः सन्तर्प्य पितृदेवताः ।
तारिताः पितरस्तेन तथैव प्रपितामहाः ॥
कोटितीर्थे नरः स्नातो ब्रह्मलोके महीयते ।
तत्रैव वायुतीर्थन्तु पितॄणामपि दुर्लभम् ॥
पिण्डं दद्यात्तु वसुधे ! पितृलोकं स गच्छति ।
गयापिण्डप्रदानेन यत् फलं लभते नरः ॥
तत् फलं लभते देवि ! ज्यैष्ठे दानान्न संशयः ।
द्वादशैतानि तीर्थानि देवानां दुर्लभानि च ॥
स्नानं दानं जपो होमः सहस्रगुणितं भवेत् ।
एषां स्मरणमात्रेण सर्व्वपापैः प्रमुच्यते ॥
श्रुत्वा तीर्थस्य माहात्म्यं सर्व्वान् कामानवा-
प्नुयात् ॥”
इत्यादि वराहपुराणे मथुरातीर्थप्रभावः ॥ * ॥
इतः प्रभृति सप्तविंशाध्यायेषु मथुरामाहात्म्यं
ज्ञेयम् ॥

मथुरेशः, पुं, (मथुराया ईशः ।) श्रीकृष्णः । इति

शब्दरत्नावली ॥

मथूरा, स्त्री, (मथ् + बाहुलकात् ऊरः टाप् ।)

मथुरा । इति द्विरूपकोषः ॥

मद, इ ङ स्वप्ने । जाड्ये । मदे । मोदे । स्तुतौ ।

गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-
स्वप्ने जाड्ये मद मोदे अक०-स्तुतौ गतौ च
सक०-सेट् ।) मन्द्यते । ङ मन्दते जनः स्वपिति
जडो भवति माद्यति मोदते स्तौति गच्छति
वा इत्यर्थः । इति दुर्गादासः ॥

मद, ई भ य इर् ञि हर्षे । इति कविकल्पद्रुमः ॥

दिवा०-पर०-अक०-सेट् ।) ई ञि मत्तोऽस्ति ।
भ य माद्यति । इर् अमदत् अमादीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥

मद, क ङ तृप्तियोगे । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-सेट् ।) क ङ मनो माद-
यते यस्य शास्त्राभ्यासरसायनात् । इति दुर्गा-
दासः ॥

मद, म गर्व्वे । म्लेपने । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) गर्व्वोऽहङ्कारः ।
ग्लेपनं दैन्यम् । म मदयति नीचं सम्पत्तिः ।
मदयति शत्रुं शूरः । इति दुर्गादासः ॥

मदः, पुं, (मदयतीति । मद् + अच् ।) हस्ति-

गण्डजलम् । (यथा, भारवौ । २ । १८ ।
“मदसिक्तमुखैर्मृगाधिपः
करिभिर्वर्त्तयते स्वयं हतैः ।”)
तत्पर्य्यायः । दानम् २ ॥ (मद्यते इति । मद् +
“मदोऽनुपसर्गे ।” ३ । ३ । ६७ । इति अप् ।)
हर्षः । (यथा, ऋग्वेदे । १ । ४ । २ ।
“उप नः सवनागहि सोमपाः पिब गोदा इद्रेवतो
मदः ॥” “मदो हर्षः ।” इति तद्भाष्येसायनः ।)
तत्पर्य्यायः । आमोदः २ । इत्यमरः । ३ ।
२ । १२ ।) रेतः । कस्तूरी । (पर्य्यायो यथा, --
“मृगनाभिर्मृगमदो मदः कस्तूरिकाण्डजः ॥”
इति वैद्यकरत्नमालायाम् ॥
रोगविशेषः । उन्मादस्य प्रथमावस्थायां यथा,
“स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च ।”
इति माधवकृतरुग्विनिश्चये उन्मादाधिकारे ॥
विशेषोऽस्य यथा, --
यदा तु रक्तवाहीनि रससंज्ञावहानि च ।
पृथक् पृथक्समस्ता वा स्रोतांसि कुपिता मलाः ॥
मलिनाहारशीलस्य रजोमोहावृतात्मनः ।
प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा ॥
मदमूर्च्छायसंन्यासास्तेषां विद्याद्बिचक्षणः ।
यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु ॥
दुर्ब्बलञ्चेतसः स्थानं यदा वायुः प्रपद्यते ।
मनो विक्षोभयन् जन्तोः संज्ञां संमोहयेत्तदा ॥
पित्तमेवं कफश्चैवं मनो विक्षोभयन् नृणाम् ।
संज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते ॥
स्वप्नानल्पद्रुताभाषञ्चलस्खलितचेष्टितम् ।
विद्याद्बातमदाविष्टं रूक्षश्यावारुणाकृतिम् ॥
सक्रोधपरुषाभाषं संप्रहारकलिप्रियम् ।
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम् ॥
स्वल्पसम्बन्धवचनं तन्द्रालस्यसमन्वितम् ।
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम् ॥
सर्व्वाण्येतानि रूपाणि सन्निपातकृते मदे ।
जायन्ते शाम्यति त्वाशु मदो मद्यमदाकृतिः ॥
यश्च मद्यमदः प्रोक्तो विषजो रौधिरश्च यः ।
सर्व्व एते मदानर्त्ते वातपित्तकफाश्रयात् ॥”
इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥)
गर्व्वः । इति मेदिनी । दे, १२ ॥ (यथा,
भारवौ । २ । ४९ ।
“मदमानसमुद्धतं नृपं
न वियुङ्क्ते नियमेन मूढता ॥”)
मद्यम् । क्षैव्यम् । मत्ततेति यावत् । इति हेम-
चन्द्रः । २ । २२६ ॥ (यया, मनौ । ७ । ४७ ।
“मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।”
“तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥”)
नदः । कल्याणवस्तु । इति धरणिः ॥ * ॥
मदलक्षणं यथा, --
“अहं महात्मा धनवान् मत्तुल्यः कोऽस्ति भूतले ।
इति यज्जायते चित्तं मदः प्रोक्तः स कोविदैः ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥
तस्य उत्पत्तिर्यथा ।
“बुर्द्धेर्मोहः समभवदहङ्कारादभून्मदः ।”
इति मात्स्ये ३ अध्यायः ॥
(दानवभेदः । यथा, हरिवंशे । ३ । ८६ ।
“असिलोमा सुकैशी च शटश्च बलको मदः ॥”

मदकटः, पुं, (मदं कटति प्रकटयतीति । कट् +

अच् ।) षण्डः । षाँड् इति भाषा ॥ यथा ।
इड्चरो इट्वरौ गोपतिः षण्डो वृषो मदकटो
हलः । इति हेमचन्द्रः । ४ । ३२५ ॥

मदकलः, पुं, (मदेन कलोऽव्यक्तमधुरध्वनिर्यस्य ।)

मत्तहस्ती । तत्पर्य्यायः । मदोत्कटः २ । इत्य-
मरः । २ । ८ । ३५ ॥ अव्यक्तप्रलापी । इति
शब्दरत्नावली ॥ मदाव्यक्तवात्तिनि त्रि । इति
मेदिनी । ले, १५९ ॥ (यथा, उत्तरचरिते २ अङ्के ।
“मदकलमयूरकण्ठच्छविभिरवकीर्णानि ।”)

मदगन्धः, पुं, (मदस्य दानस्येव गन्धोऽस्य ।)

सप्तच्छदवृक्षः । इति राजनिर्घण्टः ॥ (विवरणन्तु
सप्तच्छदशब्दे ज्ञेयम् ।)

मदगन्धा, स्त्री, (मदः मादनः गन्धोऽस्याः ।)

मदिरा । अतसी । इति राजनिर्घण्टः ॥

मदघ्नी, स्त्री, (मदं मत्ततां हन्तीति । मद् + हन्

टक् ङीप् ।) पूतिका । इति जटाधरः ॥

मदनः, पुं, (मदयतीति । मद् + णिच् ल्युः ।)

कामदेवः । इत्यमरः । १ । १ । २६ ॥
तस्य नाम्नां व्युत्पत्तिर्यथा । ऋषय ऊचुः ।
“यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः ।
तस्मान्मन्मथनाम्ना त्वं लोके गेयो भविष्यसि ॥
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।
अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥
मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः ।
तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥”
इति कालिकापुराणे २ अध्यायः ॥
ब्रह्मणस्तस्योत्पत्तिर्यथा, --
“प्रहृष्टमानसः पुत्त्रं कन्यैकाञ्च ससर्ज्ज ह ।
हृष्टस्य कामिनः पुत्त्रः कामदेवो बभूव ह ॥
कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥
उवाच पुत्त्रं स विधिः सुदीप्तं पुरतः स्थितम् ।
दुर्न्निवार्य्यं मत्कलांशं स्वात्मारामं मनोहरम् ॥
ब्रह्मोवाच ।
स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वञ्च विनिर्म्मितः ।
हृदि योगेन सर्व्वेषामधिष्ठानं करिष्यसि ॥
सम्मोहनं समुद्वेगबीजं स्तम्भितकारणम् ।
उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥
प्रगृह्यैतान्मया दत्तान् सर्व्वान् सम्मोहनं कुरु ।
दुर्निवार्य्यो मम वराद्भव वत्स ! भवेषु च ॥
बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्बिधिः ।
दृष्ट्वा वाचं दुहितरं वरं दातुं समुद्यतः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥
(योगाचार्य्यरूपः शिवस्यावतारविशेषः ।
यथा, शिवपुराणे वायुसंहितायाम् । २ । १० ।
१ -- २ ।
श्रीकृष्ण उवाच ।
“युगावर्त्तेषु सर्वेषु योगाचार्य्यछलेन तु ।
अवताराणि सर्वस्य शिष्यांश्च भगवन् ! वद ॥”
उपमन्युरुवाच ।
“श्वेतः सुतारो मदनः सुहोत्रः कंक एव च ॥”
महादेवः । मदयति भक्तानां मनः इति
पृष्ठ ३/५८७
मद + ल्युः । मनसि आनन्दजनकत्वादस्य तथा-
त्वम् । यथा, महाभारते । १३ । १७ । ६९ ।
“उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो
यशः ॥”
मत्तता । वरारोहाणां कामिनीनां भावविशेषः
इति यावत् । यथा, महाभारते । ३ ।
४६ । १३ ।
“सीधुपानेन चाल्पेन तुष्टाथ मदनेन च ।
विलासनैश्च विविधैः प्रेक्षणीयतराभवत् ॥”)
वसन्तः । धुस्तूरः । सिक्थकम् । इति मेदिनी ।
मे । १०३ ॥ वृक्षभेदः । मयना इति भाषा ।
तत्पर्य्यायः । पिचुकः २ मुचुकुन्दः ३ कण्टकी ४ ।
इति रत्नमाला ॥ पिण्डीतकः ५ । (तथाचास्य
पर्य्यायान्तरं गुणाश्च ।
“मदनः छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा ।
करहाटी मरुवकः शल्यको विषपुष्पकः ॥
मदनो मधुरस्तिक्तो वीर्य्योष्णो लेखनो लघुः ।
वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ॥
रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥”
धुस्तूरार्थे पर्य्यायो यथा, --
“धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः ।
देवता कितवस्तूरी महामोहः शिवप्रियः ॥
मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मरुवकः ६ श्वसनः ७ करहाटकः ८ शल्यः ९ ।
इत्यमरः । २ । ४ । ५२ -- ५३ ॥ भ्रमरः ।
इति जटाधरः ॥ माषः । इति हेमचन्द्रः ॥
खदिरवृक्षः । इति शब्दचन्द्रिका ॥ मङ्कोठ-
वृक्षः । वकुलवृक्षः । वृक्षविशेषः । मयना-
फल इति भाषा । तत्पर्य्यायः । शल्यः २
कैटर्य्यः ३ पिण्डः ४ धाराफलः ५ तगरः ६
करहाटः ७ पिण्डीतकः ८ श्वसनः ९ मरु-
वकः १० । अस्य गुणाः । वमिकारकत्वम् ।
तिक्तत्वम् । उष्णवीर्य्यत्वम् । लेखनत्वम् । लघुत्वम् ।
रूक्षत्वम् । कुष्ठकफानाहशोफगुल्मब्रणापहत्वञ्च ।
इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्ल-
क्षणम् । नायको नायिकायाः कण्ठे हस्तं दत्त्वा
द्वितीयहस्तं तस्या मध्यदेशे दत्त्वा यदाश्लिषति ।
इति कामशास्त्रम् ॥ (“अथ मयनम् ।” मम्
इति भाषा ।
“मयनन्तु मधूच्छिष्टं मधुशेषञ्च सिक्थकम् ।
मध्वाधारो मदनकं मधूषितमपि स्मृतम् ॥
मदनं मृदुसुस्निग्धं भूतघ्नं ब्रणरोपणम् ।
भग्नतन्धानकृद्वातकुष्ठवीसर्परक्तजित् ॥”
इति च भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥
मण्डलिसर्पान्तर्गतसर्पविशेषः ॥ “शिशुको मदनः
पालिंहिरः इत्यादि ।” इति मुश्रुते कल्पस्थाने
चतुर्थेऽध्याये ॥)

मदनकः, पुं, (मदयतीति मद + णिच् + ल्युः स्वार्थे

कः ।) दमनकवृक्षः । इति रत्नमाला ॥
(सिक्थकार्थे क्ली । तत्पर्य्यायो यथा, --
“मयनन्तु मधूच्छिष्टं मधुशेषञ्च सिक्थकम् ।
मध्वाधारो मदनकं मधूषितमपि स्मृतम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितोये भागे ॥)

मदनकाकूरवः, पुं, (मदनेन हेतुना काकुः काम-

जन्यो विकृतो रवः अस्फुटध्वनिर्यस्य ।) पारा-
वतः । इति राजनिर्घण्टः ॥

मदनगोपालः, पुं, (मदनश्चासौ गोपालश्चेति ।

भक्तचित्तोन्मादकारित्वादस्य तथात्वम् ।)
श्रीकृष्णः । यथा, --
“वन्दे मदनगोपालं कैशोराकारमद्भुतम् ।”
इति पाद्मे पातालखण्डे ९ अध्यायः ॥

मदनचतुर्द्दशी, स्त्री, (मदनोत्सवात्मिका चतुर्द्दशी ।)

चैत्रशुक्लचतुर्द्दशी । यथा । अथ मदनचतुर्द्दशी
तत्र मदनस्य पूजा कार्य्या । स्कन्दपुराणसौरा-
गमयोः ।
“मधुमासे तु संप्राप्ते शुक्लपक्षे चतुर्द्दशी ।
प्रोक्ता मदनभुञ्जीति सिद्धिदा तु महोत्सवे ॥
पूजयिष्यन्ति ये मर्त्यास्तदङ्गभवपल्लवैः ।
ते यान्ति परमं स्थानं मदनस्य प्रभावतः ॥
चैत्रे मासि चतुर्द्दश्यां मदनस्य महोत्सवः ।
जुगुप्सितोक्तिभिस्तत्र गीतवाद्यादिभिर्नृणाम् ।
भगवांस्तुष्यते कामः पुत्त्रपौत्त्रसमृद्धिदः ॥
वलिं प्रति भगवद्वाक्यम् ।
न मानयन्ति ये पर्व्व मादनं मानवाधमाः ।
तेषां पुण्यं फलं दत्तं मया ते चैत्रमासिकम् ॥
देवलः ।
चैत्रशुक्लचतुर्द्दश्यां यः स्नायाच्छिवसन्निधौ ।
पिशाचत्वं न तस्य स्यात् गङ्गायाञ्च विशेषतः ॥”
इति तिथितत्त्वम् ॥

मदनत्रयोदशी, स्त्री, (मदनपूजार्था त्रयोदशी ।)

चैत्रशुक्लत्रयोदशी । तत्र मदनस्य व्रतं कर्त्तव्यम् ।
यथा भविष्ये ।
“चैत्रशुक्लत्रयोदश्यां मदनं दमनात्मकम् ।
कृत्वा संपूज्य विधिवद्बीजयेद्ब्यजनेन तु ॥
तत्र सन्धुक्षितः कामः पुत्त्रपौत्त्रविवर्द्धनः ।
कामदेवस्त्रयोदश्यां पूजनीयो यथाविधि ।
रतिप्रीतिसमायुक्तो ह्यशोकमणिभूषितः ॥”
दमनो दमनकवृक्षः । सन्धुक्षितः प्रीणितः ।
कामदेवध्यानन्तु ।
“चापेषुधृक् कामदेवो रूपवान् विश्वमोहनः ।”
तत्र स्तुतिमन्त्रः ।
“पुष्पधन्वन् ! नमस्तेऽस्तु नमस्ते मीनकेतन ! ।
मुनीनां लोकपालानां धैर्य्यच्युतिकृते नमः ॥
माधवात्मज ! कन्दर्प ! सम्बरारे ! रति-
प्रिय ! ।
नमस्तुभ्यं जिताशेषभुवनाय मनोभुवे ॥
आधयो मम नश्यन्तु व्याधयश्च शरीरजाः ।
सम्पद्यतामभीष्टं मे सम्पदः सन्तु मे स्थिराः ॥
नमो माराय कामाय देवदेवस्य मूर्त्तये ।
ब्रह्मविष्णुशिवेन्द्राणां मनःक्षोभकराय च ॥
एवं यः कुरुते पूजामनङ्गस्य महात्मनः ।
भवन्ति नापदस्तस्य तस्मिन्नब्दे कदाचन ॥”
इति तिथितत्त्वम् ॥

मदनद्वादशी, स्त्री, (मदनपूजाविषयिणी द्वादशी ।)

चैत्रशुक्लद्वादशी । अत्र मदनव्रतं कार्य्यम् । यथा,
ऋषय ऊचुः ।
“श्रोतुमिच्छामहे सूत ! मदनद्बादशीव्रतम् ।
सुतानेकोनपञ्चाशत् येन लेभे दितिः पुनः ॥
सूत उवाच ।
यद्बशिष्ठादिभिः पूर्ब्बं दितेः कथितमुत्तमम् ।
विस्तरेणैतदेवेदं मत्सकाशान्निबोधत ॥
चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः ।
स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् ॥
नानाफलयुतं तद्बदिक्षुदण्डसमन्वितम् ।
सितवस्त्रयुगच्छन्नं सितचन्दनचर्च्चितम् ॥
नानाभक्ष्यफलोपेतं सहिरण्यञ्च शक्तितः ।
ताम्रपात्रं शुभोपेतं तस्योपरि निवेदयेत् ॥
तस्मादुपरि कामन्तु कदलीदलसंस्थितम् ।
कुर्य्याच्छर्करयोपेतां रतिं तस्य च वामतः ॥
गन्धधूपं ततो दद्यात् गीतवाद्यञ्च कारयेत् ।
तदभावे कथां कुर्य्यात् कामकेशवयोर्नरः ॥
कामनाम्ना हरेरर्च्चां स्नापयेद् गुडवारिणा ।
शुक्लपुष्पाक्षततिलैरर्च्चयेन्मधुसूदनम् ॥
कामाय पादौ संपूज्य जंघे सौभाग्यदाय च ।
ऊरू स्मरायेति पुनर्मंन्मथायेति वै कटिम् ॥
स्वच्छोदरायेत्युदरं अनङ्गायेत्युरो हरेः ।
मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥
नमः सर्व्वात्मने मौलिमर्च्चयेदिति केशवम् ।
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥
ब्राह्मणान् भोजयेद्भक्त्या स्वयञ्च लवणादृते ।
भुक्त्वाथ दक्षिणां दद्यादिमं मन्त्रमुदीरयेत् ॥
प्रीयतामत्र भगवान् कामरूपी जनार्द्दनः ।
हृदये सर्व्वभूतानामानन्दो यो विधीयते ॥
अनेन विधिना सर्व्वं मासि मासि समाचरेत् ।
उपवासी त्रयोदश्यामर्च्चयेद् विष्णुमव्ययम् ॥
फलमेकञ्च संप्राश्य द्वादश्यां भूतले स्वपेत् ।
ततस्त्रयोदशे मासि घृतं धेनुसमन्वितम् ॥
शय्यां दद्यादनङ्गाय सर्व्वोपस्करसंयुताम् ।
काञ्चनं कामदेवञ्च शुक्लां गाञ्च पयस्विनीम् ॥
वासोभिर्द्विजदाम्पत्यं पूज्य शक्त्या विभूषणैः ।
शय्यां गवादिकं दद्यात् प्रीयतामित्युदीरयेत् ॥
होमं शुक्लैस्तिलैः कुर्य्यात् कामनामानि कीर्त्तयन् ।
गव्येन सर्पिषा चैव पायसेन च धर्म्मवित् ॥
विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यविवर्ज्जितः ।
इक्षुदण्डानथो दद्यात् पुष्पमालाश्च शक्तितः ॥
यः कुर्य्याद्विधिनानेन मदनद्वादशीमिमाम् ।
सर्व्वपापविनिर्मुक्तः प्राप्नोति हरिसाम्यताम् ।
इह लोके वरान् पुत्त्रान् सौभाग्यञ्च समश्नुते ॥”
इति मत्स्यपुराणे ७ अध्यायः ॥

मदनपाठकः, पुं, (मदनं तदुद्दीपकं पठतीति । पठ

+ ण्वुल् । स्वरेण कामोद्दीपनात्तथात्वम् ।)
कोकिलः । इति राजनिर्घण्टः ॥

मदनमोहनः पुं, (मदन उन्मादकश्चासौ मोहन-

श्चेति कर्म्मधारयः । मुह् + णिच् ल्युः ।)
श्रीकृष्णः । यथा, --
पृष्ठ ३/५८८
“वन्दे मदनगोपालं कैशोराकारमद्भुतम् ।
यमाहुर्यौवनोद्भिन्ने श्रीमन्मदनमोहनम् ॥”
इति पाद्मे पातालखण्डे ९ अध्यायः ॥

मदनशलाका, स्त्री, (मदनोद्दीपिका शलाकेव ।

अस्याः कामोद्दीपकत्वात्तथात्वम् ।) कामो-
द्दीपकौषधम् । सारिकापक्षी । इति मेदिनी ।
के, २३५ । कोकिला । इति शब्दरत्ना-
वली ॥

मदनसारिका, स्त्री, (मदनोद्दीपनाय सारिका ।)

पक्षिभेदः । सालिक् इति भाषा ॥ तत्पर्य्यायः ।
शलाका २ सारिका ३ चित्रलोचना ४
कुणपी ५ । इति जटाधरः ॥

मदना, स्त्री, (मदयति मत्ततां जनयतीति ।

मद् + णिच् + ल्युः । यद्वा, माद्यति अनया ।
मद् + ल्युट् । स्त्रियां टाप् ।) सुरा । इति
हेमचन्द्रः । ३ । ५६७ ॥

मदनाङ्कुशः, पुं, (मदनस्य कामस्य अङ्कुश इव ।)

लिङ्गम् । इति त्रिकाण्डशेषः ॥ नखम् । इति
कामाङ्कुशशब्ददर्शनात् । यथा, --
“कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे ।”
इति श्रुतबोधे कालिदासः ॥

मदनाग्रकः, पुं, (मदनं उन्मादकं अग्रं शिरोभागो

यस्य ।) कोद्रवः । इति राजनिर्घण्टः ॥ (विव-
रणमस्य कोद्रवशब्दे ज्ञातव्यम् ॥)

मदनायुधः, पुं, (मदनस्यायुधः ।) भगम् । इति

शब्दचन्द्रिका ॥

मदनायुषः, पुं, (मदनस्यायुर्जीवनं इव समा-

सान्तोऽच् । निपातनात् साधुः ।) कामवर्द्धक-
त्वात्तथात्वम् । कामवृद्धिक्षुपः । इति राज-
निर्घण्टः ॥

मदनालयः, पुं, (आलीयतेऽस्मिन्निति आ +

ली + अधिकरणे अच् । मदनस्यालयः ।)
षष्ठीसमासः ।) भगम् । मदनपर्य्यायकशब्दोत्तर-
गृहपर्य्यायकशब्देन भगस्योक्तत्वात् । यथा, --
“स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो
पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव
मनुम् ॥”
इति कर्पूरस्तवः ॥
जन्मलग्नावधिसप्तमस्थानम् । तत्तु जायास्थानम् ।
यथा, --
“सूर्य्याद्युच्चान् क्रियवृषमृगस्त्रीकुलीरान्तयूके
दिग्वह्नीन्द्रद्बयतिथिशरान् सप्तविंशांश्च विंशान् ।
अंशानेतान् वदति यवनश्चान्त्यतुङ्गान् सुतुङ्गान्
तानेवांशान् मदनभवनेष्वाह नीचान् सुनी-
चान् ॥”
इति दीपिकायां मदनभवनशब्ददर्शनात् ॥

मदनावस्था, स्त्री, (मदनस्यावस्था ।) कामा-

वस्था । सा तु उद्वेगरूपा । विरह इति
यावत् । यथा । ततः प्रविशति मदनावस्थो
राजा निःश्वस्य ।
“जाने तपसो वीर्य्यं सा बाला परवतीति मे
विदितम् ।
न च निम्नादिव सलिलं निवर्त्तते मे ततो हृद-
यम् ॥”
इत्यभिज्ञानशाकुन्तले ३ अङ्कः ॥ मदनावस्थ
इति राज्ञोऽत्र उद्बेगरूपा पञ्चमी कामा-
वस्था । यदाह भरतः । उद्वेगः पञ्चमः प्रोक्त
इति । सचिन्तमिति केनोपायेन मम शकु-
न्तलालाभो भविष्यति । इति तट्टीका ॥

मदनी, स्त्री, (माद्यति अनया इति । मद् +

करणे ल्युट् । स्त्रियां ङीप् ।) सुरा । इति
हारावली ॥ कस्तूरी । अतिमुक्तकः । इति
राजनिर्घण्टः ॥

मदनेच्छाफलः, पुं, (मदनेच्छां फलति जनय-

तीति अच् ।) बद्धरसालः । इति राज-
निर्घण्टः ॥

मदनोत्सवः, पुं, (मदनाय उत्सवः ।) उत्सव-

विशेषः । होलाका इति ख्याता । तत्पर्य्यायः ।
सुवसन्तकः २ । इति हारावली ॥

मदनोत्सवा, स्त्री, (मदनाय उत्सवो यस्याः ।)

स्वर्गवेश्या । इति शब्दरत्नावली ॥

मदप्रयोगः, पुं, (मदस्य प्रयोगः ।) करिणां मदो-

द्गमः । तत्पर्य्यायः । व्यस्तारम् २ । इति त्रिकाण्ड-
शेषः ॥

मदभञ्जिनी, स्त्री, (मदं उन्मत्ततां भनक्ति दूरी-

करोतीति । मद + भन्ज् + “नन्दिग्रहिपचा-
दिभ्यो ल्युणिन्यचः ।” ३ । १ । १३४ । इति
णिनिः । स्त्रियां ङीप् ।) शतमूली । इति
शब्दचन्द्रिका ॥ (गुणादयोऽस्याः शतमूली-
शब्दे ज्ञातव्याः ॥)

मदयन्तिका, स्त्री, (मदयन्ती + ततः कन् ठाप् ।

पूर्ब्ब ह्रस्वश्च ।) मल्लिका । इति शब्दरत्नावली ॥
(यथा, सुश्रुते चिकित्सितस्थाने ९ अध्याये ।
“त्रिफलात्वक् त्रिकटुका सुरसा मदयन्तिका ।
वायस्यारग्बधानाञ्च तुलां कुर्य्यात् पृथक्
पृथक् ॥”)

मदयन्ती, स्त्री, (मद् + झच् + ङीप् ।) वन-

मल्लिका । इति रत्नमाला ॥ काट्मल्लिका
इति भाषा ॥ मल्लिका । इतिराजनिर्घण्टः ॥
(तथाचास्याः पर्य्यायो यथा, --
“मल्लिका मदयन्ती च शीतभीरुश्च भूपदी ।”
इतिभावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“मदयन्त्यङ्घ्रिजः क्वाथस्तद्वत् समधुशर्करः ।”
इति च वैद्यकचक्रपाणिसंग्रहे रक्तपित्ताधिकारे ॥)

मदयित्नु, क्ली, (मदयतीति । मद् + णिच् ।

“स्तनिहृषिपुषिगदिसदिभ्यो णेरित्नुच् ।” उणा०
३ । २९ । इति मदि + इत्नुच् । “अया-
मन्ताल्वाय्येत्न्विष्णुषु ।” ६ । ४ । ५५ । इति
णेरयादेशः ।) मद्यम् । इति मेदिनी । ने, २०२ ॥

मदयित्नुः, पुं, (मदयतीति । मद् + णिच् ।

“स्तनीति ।” उणा० । २ । २९ । इति इत्नुच् ।
णेरयादेशश्च ।) कामदेवः । शौण्डिकः । इति
शब्दरत्नावली ॥ मदयुक्तः । इति मेदिनी । ने,
२०२ ॥ मेघः । इति त्रिकाण्डशेषः ॥

मदविक्षिप्तः, पुं, (मदेन विक्षिप्तश्चलितमनाः ।)

मत्तहस्ती । इति शब्दचन्द्रिका ॥

मदशाकः, पुं, (मदकरः शाकोऽस्य ।) उपोदकी ।

इति राजनिर्घण्टः ॥

मदसारः, पुं, (मदं सारयति दूरीकरोति । इति

मद + सृ + णिच् + अण् ।) तूलवृक्षः । इति
राजनिर्घण्टः ॥

मदहस्तिनी, स्त्री, (मदेन हस्तिनीव ।) महा-

करञ्जः । इति राजनिर्घण्टः ॥

मदहेतुः, पुं, (मदस्य हेतुः कारणम् ।) धातकी ।

इति वैद्यकम् । मत्तताकारणञ्च । (मदरोगस्य
हेतुः यथा, --
“यदा तु रक्तवाहीनि रससंज्ञावहानि च ।
पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता
मलाः ॥
मलिनाहारशीलस्य रजोमोहावृतात्मनः ।
प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा ॥
मदमूर्च्छाय संन्यासास्तेषां विद्याद्विचक्षणः ।
यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु ॥”
इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥)

मदस्थलं, क्ली, (मदस्य स्थलम् ।) मदस्थानम् ।

यथा, शब्दरत्नावली ।
“अवदंशः सुरापानं शुण्डापानं मदस्थलम् ।”

मदस्थानं, क्ली, (मदस्य स्थानम् ।) मद्यपानस्थानम् ।

तत्पर्य्याथः । शुण्डापानम् २ । इत्यमरः । २ । १० । ४१ ।

मदाढ्यः, पुं, (मदेन मदजनकरसेन ताडीति

ख्यातेन आढ्यः युक्तः ।) तालवृक्षः । इति
राजनिर्घण्टः ॥ (गुणादिविवृतिरस्य ताल-
शब्दे ज्ञातव्या ॥) मदयुक्ते, त्रि ॥

मदाढ्या, स्त्री, (मदेन आढ्या ।) लोहितझिण्टी ।

इति शब्दचन्द्रिका ॥

मदातङ्कः, पुं, (मदजनितः आतङ्कः रोगः ।)

मदात्ययरोगः । इति राजनिर्घण्टः ॥

मदात्ययः, पुं, (मदेन अत्ययो नाशोन्मुखतात्र ।)

मद्यपानादिजन्यरोगविशेषः । तत्पर्य्यायः ।
मदातङ्कः २ पानात्ययः ३ मदव्याधिः ४ मदः ५ ।
इति राजनिर्घण्टः ॥ अथ मदात्ययादीनां
निदानान्याह ।
“विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपनाः ।
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ॥
तस्मादविधिपीतेन तथा मात्राधिकेन च ।
युक्तेन चाहितैरन्नैरकाले सेवितेन च ॥
मद्येन खलु जायन्ते मदात्ययमुखा गदाः ॥”
अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयती-
त्याह ।
“निभक्तमेकान्तत एव मद्यं
निषेव्यमाणं मनुजेन नित्यम् ।
उत्पादयेत् कष्टतमान् विकारा-
नुत्पादयेच्चापि शरीरभेदम् ॥”
एकान्ततो नैरन्तर्य्येण विकारान् मदात्ययादीन् ।
शरीरस्य भेदं नाशम् ॥ * ॥ मदात्ययादीनां
हेत्वन्तरमप्याह ।
पृष्ठ ३/५८९
“क्रुद्धेन भीतेन पिपासितेन
शोकाभितप्तेन बुभुक्षितेन ।
व्यायामभाराध्वपरिक्षतेन
वेगावरोधाभिहतेन चापि ॥
अत्यम्लरूक्षावततोदरेण
साजीर्णभुक्तेन तथाबलेन ।
उष्णाभितप्तेन च सेव्यमानं
करोति मद्यं विविधान् विकारान् ॥”
तानेव विकारान् विवृणोति ।
“पानात्ययं परमदं पानाजीर्णमथापि वा ॥”
पानविकारान् विवृणोति ।
“पानविभ्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् ।”
तत्र मदात्ययस्य सामान्यं लक्षणमाह ।
“शरीरदुःखं बलवत् प्रमोहो हृदयव्यथा ।
अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ॥
शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा ।
जायतेऽतिबलात् जृम्भा स्फुरणं वेपनं श्रमः ॥
उरोविबन्धः कासश्च श्वासो हिक्वा प्रजागरः ।
शरीरकम्पः कर्णाक्षिमुखरोगास्त्रिकग्रहः ॥
छर्दिविड्भेदावुत्क्लेशो वातपित्तकफात्मकः ।
भ्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम् ॥
तृणभस्मलतापर्णपांशुभिश्चावपूरितम् ।
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ॥
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च ।
मदात्ययस्य रूपाणि सर्व्वाण्येतानि लक्ष-
येत् ॥”
अथ मदात्ययस्य वातिकस्य निदानमाह ।
“स्त्रीशोकभयभाराध्वकर्म्मभिर्योऽतिकर्षितः ।
रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया ॥
रूक्षं परिणतं मद्यं निशि निद्रां निहन्ति च ।
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ॥”
तत् मद्यम् ॥ * ॥ अथ तस्य लक्षणमाह ।
“हिक्वाश्वासशिरःकम्पपार्श्वशूलप्रजागरैः ।
विद्याद्वहुप्रलापस्य वातप्रायं मदात्ययम् ॥”
अथ पैत्तिकस्य निदानमाह ।
“तीक्ष्णीष्णं मद्यमम्लञ्च योऽतिमात्रं निषेवते ।
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः ।
तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः ॥”
अथ तस्य लक्षणमाह ।
“तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः ।
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ॥”
अथ श्लैष्मिकस्य मद त्ययस्य निदानमाह ।
“मधुरस्निग्धगुर्व्वाशी यः पिबत्यतिमात्रथा ।
अव्यायामदिवास्वप्नशय्याशनसुखे रतः ।
मदात्ययं कफप्रायं स नरो लभते ध्रुवम् ॥”
अथ तस्य लक्षणमाह ।
“छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः ।
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ॥”
अथ सान्निपातिकस्य मदातयस्य निदानं
लक्षणञ्चाह ।
“त्रिदोषहेतुभिः सर्व्वैः सर्व्वैर्लिङ्गैर्मदात्ययः ॥”
अथ परमदमाह ।
“श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च
विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च ।
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा
स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥”
तन्द्रिस्तन्द्रा ॥ * ॥ पानाजीर्णमाह ।
“आध्मानमुग्रमथवोद्गिरणं विदाहः
पाने त्वजीर्णमुपगच्छति लक्षणानि ।”
उद्गिरणं वान्तिः उद्गारो वा । पीयत इति
पानं मद्यम् ॥ * ॥ पानविभ्रममाह ।
“हृद्गात्रतोदकफसंस्रवकण्ठधूम-
मूर्च्छावमीज्वरशिरोरुजनप्रदेहाः ।
द्वेषः मुरान्नविकृतेषु च तेषु तेषु
तं पानविभ्रममुषन्त्यखिलेषु धीराः ॥”
कण्ठधूमः कण्ठाद्धूमनिर्गम इव । प्रदेहः कफेन
लिप्तास्यता । द्वेषः सुरान्नविकृतेषु सुरावि-
कारेषु अन्नविकारेषु च द्वेषः ।
अखिलेषु मद्यविकारेषु ॥ * ॥ असाध्यानां
मदात्ययादीनां लक्षणमाह ।
“दीनोत्तरोष्ठमतिशीतममन्ददाहं
तैलप्रभास्यमतिपानहतं त्यजेच्च ।
जिह्वोष्ठदन्तमसितन्त्वथवापि नीलं
पीते च यस्य नयने रुधिरप्रभे च ॥
हिक्वा ज्वरो वमथुवेपथुपार्श्वशूलाः
कासभ्रमावपि च पानहतं त्यजेत्तम् ॥”
अथ मदात्ययादीनां चिकित्सा ।
“मदोत्थानान्तु रोगाणां मद्यमेव हि भेषजम् ।
यथा दहनदग्धानां दहनस्वेदनं हितं ।
मिथ्यातिहीनमद्येन यो व्याधिरुपजायते ।
समेनैव निपीतेन मद्येन स हि शाम्यति ॥
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् ।
यवानीहवुषाजाजीशृङ्गवेरावचूर्णितम् ॥
सस्नेहैः शक्तूभिर्युक्तमवदंशैश्चिरोत्थितम् ।
दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ॥
मद्यं सौवर्च्चलव्योषयुक्तं किञ्चिज्जलान्वितम् ।
जीर्णमद्याय दातव्यं वातपानात्ययापहम् ॥
चव्यं सौवर्च्चलं हिङ्गु पूरकं विश्वदीप्यकम् ।
चूर्णं मद्येन पातव्यं पानात्ययरुजापहम् ॥
लावतित्तिरिदक्षाणां रसैश्च शिखिनामपि ।
पक्षिणां मृगमत्स्यानामानूपनां तथोदनैः ॥
स्निग्धोष्णलवणाम्लैश्च वेसवारैर्मुखप्रियैः ।
स्निग्धैर्गोधूमिकैरन्नैर्व्वातमद्यात्ययं जयेत् ॥
नारीणां यौवनोष्णानां निर्द्दयैरुपगूहनैः ।
श्रोण्यूरुकुचभारैश्च संरोधोष्मसुखप्रदैः ॥
शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुग्वैः ।
उत्पन्नो मारुतात् शीघ्रं प्रशाम्यति मदा-
त्ययः ॥
पित्तपानात्यये योज्याः सर्व्वतश्च क्रिया हिमाः ।
सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत् ॥
मद्यं खर्ज्जूरमृद्वीकापरूषकरसैर्युतम् ।
सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम् ॥
सशर्करं वा माध्वीकं संयुक्तमथवापरम् ।
दद्यात् बहूदकं काले पातुं पित्तमदात्यये ॥
शशान् कपिञ्जलानेणान् लावानसितपुच्छकान् ।
मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान् ॥
पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम् ।
सतीलं मुद्गमिश्रं वा दाडिमामलकान्वितम् ॥
द्राक्षामलकखर्ज्जू रपरूषकरसेन च ।
कल्पयेत् तर्पणान् यूषान् रसांश्च विविधात्म-
कान् ॥
शीतानि चान्नपानानि शीतशय्यासनानि च ।
शीतवातजलस्पर्शाः शीतान्युपवनानि च ॥
क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च ।
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः ।
रूक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम् ।
यवगोधूमकं चान्नं रूक्षयूषेण भोजयेत् ॥
कुलत्थानाञ्च शुष्काणां मूलकानां रसेन वा ।
प्रभूतकटुसंयुक्तं यावान्नं वा प्रदापयेत् ॥
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् ।
व्योषयूषं मनागम्लं पिबेत् कफमदात्यये ॥
स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम् ।
कट्वम्ललवणं मांसं खादेत् कफमदात्यये ॥
पाचकद्रव्ययुक्तेन मद्येनोल्लेखनं मतम् ।
मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम् ॥
यदिदं कर्म्म निर्द्दिष्टं वातपित्तकफान् प्रति ।
सर्व्वजे सर्व्वमेवेदं प्रयोक्तव्यं चिकित्सकैः ॥”
इति भावप्रकाशः ॥
गरुडपुराणोक्तमदात्ययनिदानादिकं तत्रैव
१६० श्रध्याये द्रष्टव्यम् ॥ (तथाचास्य सकारण-
लक्षणचिकित्सादिकं यथा, --
“हालाहलाहलसमं भजते वियोगात्
सेव्यं न शिष्यमनुजैः कथितं मुनीन्द्रैः ।
तृष्णा वमिः श्वसनमोहनदाहतृष्णा
संजायतेऽतिसरणं विकलेन्द्रियत्वम् ॥
ये नित्यसेवनाद्दुष्टा मद्यस्य मनुजा भृशम् ।
बिषमाहारसदृशी मुरा मोहनकारिणी ॥
यथा विषं प्राणहरं वियोगाद्
योगेन तच्चाप्यमृतं वदन्ति ।
तथा सुरा योगयुता हिता स्या-
दयोगतश्चारभतेऽतिकष्टम् ॥
क्षुधातुरे तृषाक्रान्ते सुरा वा भोजनं विना ।
न च क्षीणैर्विना भक्ता विनाहारातिपानकम् ॥
अत्यशनेऽप्यजीर्णेऽपि सुरा पीता रुजाकरी ।
यस्य प्रलपनञ्चापि न च वातमदात्ययः ।
दाहमूर्च्छातिसारश्च ज्वरः पित्तमदात्यये ॥
छर्द्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवम् ।
शीतता च प्रतिश्यायः कफजे च मदात्यये ।
त्रिषु दोषेषु समता लिङ्गैर्येषामुपक्रमः ।
स त्रिदोषसमुद्भूतो मदमूर्च्छा भिषग्वर ! ॥
वमनञ्च प्रशस्तञ्च निद्रासंसेवनं पुनः ।
स्नानं हितं पयःपानं भोजने सगुडं दधि ॥
मस्तुखण्डं सखर्ज्जूरं मृद्वीका दाडिमाम्लिका ।
आमला च परूषञ्च लेहो हन्ति मदात्ययम् ॥
द्राक्षामलकखर्ज्जूरपरूषकरसेन वा ।
कल्कयेत् पयसा तत्तु पानं सर्व्वमदात्यये ॥
पृष्ठ ३/५९०
पथ्या क्वाथेन संयुक्तं पयःपानं मदात्यये ।”
इति मदात्ययचिकित्सा ॥
अथ पूगीपलमदात्ययचिकित्सारभ्यते ।
“पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः ।
प्रस्वेदो विधुरत्वञ्च लालास्रावश्च जायते ॥
भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते ।
मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः ॥
तस्य शीतं जलं पीतं वस्तिवातहितं भवेत् ।
शर्कराभक्षणे देया मुस्ता वा शर्करान्विता ॥
कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम् ।
धुस्तूरकमदे देयं शर्करासहितं दधि ॥
फलिनी करवीरञ्च मोहिनी मदयन्तिका ।
अन्येषामपि कन्दानां वमनञ्चाशु कारयेत् ॥
पाययेत् शर्करायुक्तं क्षीरं वा दधि शर्कराम् ।”
इति श्रीमहर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय-
स्थाने मदात्ययचिकित्सानाम सप्तदशोऽध्यायः ॥)

मदाम्नातः, पुं, (मदाय मत्ततोद्रेकाय आम्नायते

वाद्यते स्मेति । आ + म्ना + कर्म्मणि क्तः ।)
गजढक्वा । इति हाराबली । २०४ । हातीर-
उपरेर डङ्का इति भाषा ॥

मदाम्बरः, पुं, (मदो दानवारि अम्बरमिवास्या-

च्छादकत्वात् ।) मत्तहस्ती । इति त्रिकाण्ड-
शेषः ॥

मदारः, पुं, (माद्यति मत्तो भवतीति । मद् +

“अङ्गिमदिमन्दिभ्य आरन् ।” उणा० । ३ ।
१३४ । इति आरन् ।) हस्ती । धूर्त्तः । इति
विश्वः ॥ शूकरः । कामुकः । गन्धभेदः । मत्त-
हस्ती । नृपभेदः । इत्युणादिकोषः ॥

मदार्म्मदः, पुं, (मदार्म्मं मदजन्यं अर्म्मं नेत्ररोग-

विशेषं ददातीति । दा + कः ।) फलकमत्स्यः ।
इति त्रिकाण्डशेषः ॥

मदालापी, [न्] पुं, (मदेन मत्ततया आलपतीति । आ

+ लप् + णिनिः ।) कोकिलः । इतिशब्दमाला ॥

मदाह्वः, पुं, (मदो मृगमद आह्वाख्या यस्य ।

ह्रस्वः ।) कस्तूरी । इति त्रिकाण्डशेषः ॥
(कस्तूरीशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

मदिरः, पुं, (मद् + किरच् ।) रक्तखदिरः ।

इति शब्दचन्द्रिका ॥ मदकरे, त्रि । यथा,
ऋग्वेदे । ५ । ६१ । ११ ।
“य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु ॥”
“मदिरं मदकरं मधु ।” इति तद्भाष्ये सायनः ।)

मदिरा, स्त्री (माद्यतीति । मद् + किरच् ।

अजादित्वात् टाप् ।) मत्तखञ्जनः । इति
शब्दरत्नावली ॥ (यथा, शाकुन्तले । ३ । ५ ।
“यदि मदिरायतनयनां
तामधिकृत्य प्रहरतीति ।
माद्यत्यनयेति । मद् + “इषि मदीति । उणा० ।
१ । ५२ । इति किरच् ।) मादकद्रव्यविशेषः ।
मद् इति भाषा ॥ (यथा, --
“हिक्का-श्वास-प्रतिश्याय-कास वर्च्चोग्रहारुचौ ।
वम्यानाहविबन्धेषु वातघ्नी मदिरा हिता ॥”
इति चरके सूत्रस्थाने १७ अध्यायः ॥
यथाच शान्तिशतके । ४ । २४ ।
“पीत्वा मोहमयीं प्रमोदमदिरामुन्मत्तभूतं
जगत् ।”)
तत्पर्य्यायः । सुरा २ हलिप्रिया ३ हाला ४
परिश्रुत् ५ वरुणात्मजा ६ गन्धोत्तमा ७
प्रसन्ना ८ इरा ९ कादम्बरी १० परिश्रुता ११
कश्यम् १२ मद्यम् १३ । इत्यमरः । २ । १० । ४० ॥
मानिका १४ । इति शब्दरत्नावली ॥ कपिशी १५
गन्धमादनी १६ माधवी १७ कत्तोयम् १८ मदः १९
कापिशायनम् २० । इति जटाधरः ॥ वारुणी २१
मत्ता २२ सीता २३ चपला २४ कामिनी २५
प्रिया २६ मदगन्धा २७ माध्वीकम् २८ मधु २९
सन्धानम् ३० आसवः ३१ अमृता ३२ वीरा ३३
मेधावी ३४ मदनी ३५ सुप्रतिभा ३६ मनोज्ञा ३७
विधाता ३८ मोदिनी ३९ हली ४० गुणा-
रिष्टम् ४१ सरकः ४२ मधूलिका ४३ मदोत्-
कटा ४४ महानन्दा ४५ । इति राजनिर्घण्टः ॥
सीधुः ४६ मैरेयम् ४७ बलवल्लभा ४८ । इति
भावप्रकाशः ॥ कारणम् ४९ । तत्त्वम् ५० इति
कैबल्यतन्त्रम् ॥ मदिष्ठा ५१ परिप्लुता ५२
कल्पम् ५३ स्वादुरसा ५४ शूण्डा ५५ हार-
हूरम् ५६ मार्द्वीकम् ५७ मदना ५८ देवसृष्टा
५९ कापिशम् ६० अब्धिजा ६१ । इति हेम-
चन्द्रः । ३ । ५६६ ॥ सा द्वादशविधा यथा, --
“माध्वीकं पानसं द्राक्षं खार्ज्जूरं तालमैक्षवम् ।
मैरेयं माक्षिकं टाङ्कं मधूकं नारिकेलजम् ॥
मुख्यमन्नविकारोत्थं मद्यानि द्वादशैव च ॥”
इति जटाधरः ॥
अस्याः सामान्यगुणाः । सुमधुराम्लत्वम् । कफ-
मारुतनाशनत्वम् । लघुत्वम् । पुष्टिकरत्वम् ।
हृद्यत्वम् । सारकत्वम् । मदावहत्वञ्च ॥ * ॥
धातकीरसगुडादिकृता मदिरा गौडी । तद्-
गुणा यथा । तीक्ष्णत्वम् । उष्णत्वम् । मधुर-
त्वम् । वातनाशित्वम् । पित्तबलकारित्वम् ।
दीपनत्वम् । पथ्यत्वम् । कान्तितृप्तिकारित्वञ्च ॥
पुष्पद्रवादिमधुसारमयी मदिरा माध्वी । तद्-
गुणा यथा । मधुरत्वम् । नात्युष्णत्वम् । पित्त-
वातनाशित्वम् । पाण्डुकामलगुल्मार्शःप्रमेह-
शमनत्वञ्च ॥ * ॥ विविधधान्यजाता मदिरा
पैष्टी । तद्गुणा थथा । कटुत्वम् । अम्लत्वम् ।
तीक्ष्णत्वम् । गौडीसमत्वम् । वातहरत्वम् ।
कफकरत्वम् । ईषत्पित्तकरत्वम् । मोहनञ्च ॥
तालादिरसनिर्यासकृता मदिरा सैन्धी हाला
च । तद्गुणा यथा । शीतत्वम् । कषायत्वम् ।
अम्लत्वम् । पित्तहरत्वम् । वातदातृत्वञ्च ॥ * ॥
सर्व्वतृणवृक्षनिर्यासरूपमदिरागुणाः । शीतल-
त्वम् । गुरुत्वम् । मोहनत्वम् । बलदत्वम् ॥
हृद्यत्वम् । तृष्णासन्तापनाशकत्वञ्च ॥ * ॥ नाना-
द्रव्यकदम्बकृता मदिरा कादम्बरी । तद्गुणा-
यथा । सुमधुरत्वम् । पित्तश्रमहरत्वम् । मद-
कारित्वञ्च ॥ * ॥ ऐक्षवमदिरागुणौ । शिशि-
रत्वम् । मदोत्कटत्वञ्च ॥ * ॥ यवधान्यकृत-
मदिरागुणौ । गुरुत्वम् । विष्टम्भदायकत्वञ्च ॥
शर्कराधातकीतोयकृतमदिरागुणौ । शीतत्वस् ।
मनोहरत्वञ्च ॥ * ॥ शार्करमद्यगुणाः । वृष्य-
त्वम् । दीपनत्वम् । मोहनत्वञ्च । इति नाना-
मद्यगुणाः ॥ * ॥ ऋतुविशेषे पेयमदिरा यथा,
“गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः ।
शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥
“कादम्बरीशर्करजादिमद्यं
सुशीतलं वृष्यकरं मदाढ्यम् ।
माध्वीसमं स्यात् तृणवृक्षजातं
मद्यं सुशीतं गुरु तर्पणञ्च ॥”
अन्यथा कुरुते पानं मद्यं सन्तापशोषदम् ।
अन्नदोषमदात्यादिकारकं मूर्च्छनञ्च यत् ॥”
नवजीर्णमद्ययोर्गुणाः ।
“मद्यं नवं सर्व्वविकारहेतुः
सर्व्वन्तु वातादिकदोषदायि ।
जीर्णन्तु सर्व्वं सकलामयघ्नं
घूर्णप्रदं वृष्यकरञ्च दीपनम् ॥”
अन्यच्च ।
“पर्य्युषितमल्पमेलनमम्लं वा पिच्छिलं विगन्धंवा ।
दोषावहमविशेषान्मद्यं हृद्यं विवर्ज्जयेत् ॥
मद्यप्रयोगं कुर्व्वन्ति शूद्रादिषु महार्त्तिषु ।
द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन् मृतम् ॥”
इति मद्यवर्ज्य्यावर्ज्यम् ॥ * ॥
“अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः ।
उक्तस्यान्तर्भवन्तीति नान्येषां पृथगीरितम् ॥”
इति राजनिर्घण्टे मद्यप्रकरणम् ॥
अथ मतान्तरे मद्यस्य लक्षणं गुणाश्च ।
“पेयं यन्मादकैर्लोकैस्तन्मद्यमभिधीयते ।
यथारिष्टं सुरा सीधुरासवाद्यमनेकधा ॥
मद्यं सर्व्वं भवेदुष्णं पित्तकृत् वातनाशनम् ।
भेदनं शीघ्रपाकञ्च रूक्षं कफहरं परम् ॥
अम्लञ्च दीपनं रुच्यं पाचनं चाशुकारि च ।
तीक्ष्णं सूक्ष्मञ्च विशदं व्यवायि च विकाशि
च ॥”
अथारोहणलक्षणं गुणाश्च ।
“पक्वौषधाम्बुसिद्धं यन्मद्यं तत् स्यादरिष्टकम् ।”
अरिष्टं मद्यमिति लोके । यथा, द्राक्षारिष्टम् ।
दशमूलारिष्टम् । वव्वूलारिष्टमिति ।
“अरिष्टं लघुपाकेन सर्व्वं तच्च गुणाधिकम् ।
अरिष्टस्य गुणा ज्ञेया बीजद्रव्यगुणैः समाः ॥”
अथ सुराया लक्षणं गुणाश्च ।
“शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता ।
सुरा गुर्व्वी बलस्तन्यपुष्टिमेदःकफप्रदा ।
ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत् ॥”
अथ सुराभेदो वारुणी तस्या लक्षणं गुणाश्च ।
“पुनर्नवाशिलापिष्टैर्व्विहिता वारुणी स्मृता ।
संहितैस्तालखर्ज्जूररसैर्या सापि वारुणी ॥
सुरावद्वारुणी लघ्वी पीनसाध्मानशूलनुत् ॥”
सुरातो भेदार्थं लघ्वीति ॥ * ॥
अथ सीधुद्वयस्य लक्षणं गुणाश्च ।
“इक्षोः पक्वे रसैः सिद्धः सीधुः पक्वरसश्च सः ॥
पृष्ठ ३/५९१
आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः ॥
सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवर्णकृत् ।
वातपित्तकरो हृद्यः स्नेहनो रोचनो हरेत् ॥
विबन्धमेदःशोषार्शःशोफोदरकफामयान् ।
तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ॥”
अथासवस्य लक्षणं गुणाश्च ।
“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः ।
आसवस्य गुणा ज्ञेया बीजद्रव्यगुणैः समाः ॥”
अथ नवपुराणमद्यगुणाः ।
“मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम् ।
अहृद्यं बृंहणं दाहि दुर्गन्धं विशदं गुरु ॥
जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलापहम् ।
हृद्यं सुगन्धि गुणवल्लघुस्रोतोविशोधनम् ॥”
अथ सात्विकानां मद्यं पिबतां चेष्टाविशेषाः ।
सात्विके गीतहास्यादि राजसे साहसादिकम् ।
तामसे निन्द्यकर्म्माणि निद्राञ्च मदिराचरेत् ॥”
आचरेत् कुर्य्यात् ।
“विधिना मात्रया काले हितैरन्नैर्यथाबलम् ।
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ॥
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम् ॥”
अथ मद्यगन्धनाशनोपायः ।
“मुस्तैलबालगदजीरकधान्यकैला-
यश्चर्व्वयन् सदसि वाचमभिव्यनक्ति ।
स्वाभाविकं मुखजमुज्झति पूतिगन्धं
गन्धञ्च मद्यलशुनादिभवञ्च नूनम् ॥”
इति भावप्रकाशः ॥
अपि च ।
“प्रकृत्या मद्यमत्युष्णमम्लञ्चोष्णं विपाकतः ।
सर्व्वसामान्यतस्तस्य विशेष उपदेक्ष्यते ॥
कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम् ।
सुरा प्रशस्ता वातेषु रक्तपित्तक्षयेषु च ॥
प्रसन्ना गुल्मवातार्शोविबन्धानाहनाशिनी ।
शूलप्रवाहिकाटोपकफवातार्शसां हिता ॥”
जगलो ग्राहिरूक्षोष्णः शोथघ्नो भक्तपाचनः ।
शोथार्शोग्रहणीदोषान् हन्त्यरिष्टः कफामयान् ॥”
अरिष्टो मद्यविशेषः ॥
“प्रायशोऽभिनवं मद्यं गुरु दोषलमीरितम् ।
स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम् ॥
हर्षणं प्रीणनं बल्यं मद्यं शोकश्रमापहम् ।
प्रागल् भ्यप्रतिभापुष्टिवीर्य्यतुष्टिस्वरप्रदम् ॥”
इति राजवल्लभः ॥
अन्यत् मद्यशब्दे द्रष्टव्यम् ॥
(वसुदेवपत्नी । यथा, श्रीमद्भागवते । ९ । २४ ।
४५ ।
“पौरवी रोहिणी भद्रा मदिरा रोचना इला ।
देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥”)

मदिराक्षी, स्त्री, (मदिरे इव अक्षिणी यस्याः इति

अक्षि + “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति
अच् । स्त्रियां ङीप् ।) मत्तलोचना । यथा, --
“अविदितसुखदुःखं निर्गुणं वस्तु किञ्चि-
ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारल्यघूर्ण-
न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥”
इत्युद्भटः ॥
(पुं, विराटराजस्य भ्राता । यथा, महा-
भारते । ४ । ३० । ११ -- १२ ।
सवज्रायसगर्भन्तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहार-
यत् ॥
सर्व्वपारशवं वर्म्म कल्याणपटलं दृढम् ।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥)

मदिरागृहं, क्ली, (मदिराया गृहम् ।) मद्यस्य

गृहम् । मद्यसन्धानगृहम् । तत्पर्य्यायः । गञ्जा २
इत्यमरः । २ । २ । ८ ॥ गुञ्जा ३ । यथा, --
“भाण्डागारे विदुर्गञ्जं खनौ खञ्जा सुरागृहे ।
मद्यभाण्डे स्मृता गुञ्जा गुञ्जा स्यात् काक-
कुंञ्चिका ॥”
इनि भरतधृतहड्डचन्द्रः ॥

मदिरासखः, पुं, (मदिरायाः सखा सगन्धत्वादिति ।

मदिरा + सस्वि + “राजाहःसस्विभ्यष्टच् ।” ५ ।
४ । ९१ । इति टच् ।) आम्रवृक्षः । इति
जटाधरः ॥

मदिष्ठा, स्त्री, (मदोऽस्या अस्तीति । मद् + इनिः ।

इयमतिशयेन मदिनीति । इष्ठन् । इनोलोपः ।)
मदिरा । इति हेमचन्द्रः । ३ । ५६६ ॥

मदी, स्त्री, (मृद्नाति चूर्णीकरोति कृष्टक्षेत्र-

लोष्टादिकमिति । मृद्-इन् । कृदिकारादिति
पक्षे ङीष् । पृषोदरादित्वात् साधुः ।) चषक-
वस्तु । इति नानार्थे हेमचन्द्रः ॥ कृषकवस्तु ।
इति वैश्यवर्गे जटाधरः ॥

मदीयं, त्रि, मम इदम् । आमार इति भाषा ॥

अस्मच्छब्दादीयप्रत्यये एकवचनार्थे मदादेशेन
निष्पन्नमिदम् । इति मुग्धबोधव्याकरणम् ॥
(यथा, कथासरित्सागरे । २८ । ९० ।
“हे देवतास्तपोंशेन मदीयेनैष भूपतिः ॥”)

मदोत्कटः, पुं, (मदेन दानवारिणा उत्कटः ।)

मत्तहस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा,
महाभारते । ३ । ६५ । ८ ।
“ते तान् ग्राम्यगजान् दृष्ट्वा सर्व्वे वनगजास्तदा ।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटाः ॥”)

मदोत्कटा, स्त्री, (मदेन मत्ततया उत्कटः उद्दप्तो

जनः अस्याः । स्त्रियां टाप् ।) मदिरा ।
इति राजनिर्घण्टः ॥ (मदेन गर्व्वादिना उत्-
कटः । मदोन्मत्ते, त्रि ।)

मदोद्धतः, त्रि, (मदेन मत्ततया उद्धतः ।) मत्तः ।

इति जटाधरः ॥ (यथा, वेणीसंहारे १ अङ्के ।
“सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्ध्वता-
रम्भाः ॥”)

मदोदग्रा, स्त्री, (मदेन उदग्रा ।) नारी । इति शब्द

माला ॥ (मदोद्धते, त्रि । यथा, रघौ । ४ । २२ ।
“मदोदग्राः ककुद्मन्तः सरितां कुलमुद्रुजाः ।”)

मद्गुः, पुं, (मज्जतीति । मस्ज + “भृमृशीतॄ-

चरित्सरितधनिनिमिमस्जिभ्य उः ।” उणा० ।
१ । ७ । इति उः ।) पक्षिविशेषः । इत्यमरः ।
२ । ५ । ३४ ॥ पानकौडि इति भाषा ॥
अस्य मांसगुणाः । वायुनाशित्वम् । स्निग्ध-
त्वम् । भेदकत्वम् । शुक्रकारित्वम् । रक्तपित्त-
नाशित्वम् । शीतत्वञ्च । इति राजवल्लभः ॥
(पर्णमृगभेदः । यथा, सुश्रुते सूत्रस्थाने ४६
अध्याये ॥
“मद्गुमूषिकवृक्षशायिका वकुशपूतिघासवानर-
प्रभृतयः पर्णमृगाः ॥”)

मद्गुरः, पुं, (माद्यति जलं प्राप्य हृष्यतीति ।

मद् + “मद्गुरादयश्च ।” उणा० । १ । ४२ ।
इति उरच् निपातितश्च ।) मत्स्यविशेषः ।
इत्यमरः । १ । १० । १९ ॥ मागुर इति भाषा ।
(यथा । ललितविस्तरे । ३२० । ७ ।
“श्रमणो गौतमः श्यामको वत भो
श्रमणो गौतमो मद्गुरच्छविः ।”)
अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । संग्रा-
हित्वम् । शुक्लत्वम् । गुरुत्वञ्च । इति राज-
वल्लभः ॥ (यथाच भावप्रकाशपूर्ब्बखण्डे द्वितीय-
भागे ।
“मद्गुरो वातहृद्बल्यो वृष्यः कफकरो लघुः ॥”
वर्णशङ्करजातितिशेषः । यथा, महाभारते ।
१३ । २५ । ८३ ।
“निषादं मुद्गुरं सूते दाशं नावोपजीविनम् ।”
“मद्गून् मीनविशेषान् राति आदत्ते इति
रा + कः । तम् ।” इति तट्टीकायां नीलकण्ठः ।)

मद्गुरकः, पुं, (मद्गुरः + स्वार्थे कन् !) मद्-

गुरमत्स्यः । इति शब्दरत्नावली ॥

मद्गुरसी, स्त्री, (मद्गौ पक्षिविशेषे रसो यस्याः

ङीप् ।) शृङ्गी मत्स्यः । इति शब्दरत्नावली ॥

मद्यं, क्ली, (माद्यति जनोऽनेन । मद् + “गदमद-

यमश्चानुपसर्गे ।” ३ । १ । १०० । इति करणे
यत् ।) सुरा । इत्यमरः । २ । १० । ४० ॥
(यथा, साहित्यदर्पणे ।
“भिक्षो ! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं
विना
मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः
सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण बा,
एतावानपि संग्रहोऽस्ति भवतो नष्टस्य कान्या
गतिः ॥”)
अस्य गुणपर्य्यायौ मदिराशब्दे द्रष्टव्यौ ॥ * ॥
तत् द्वादशविधं यथा पुलस्त्यः ।
“पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् ।
माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम् ॥
समानानि विजानीयान्मद्यान्येकादशैव तु ।
द्वादशस्तु सुरा मद्यं सर्व्वेषामधमं स्मृतम् ॥”
अनेन एकादशानां सुरात्वं निषेधयति मद्यशब्दो
मदहेतुद्रव्यवचनः । अस्मादेव वचनात् नतु
मद्यमात्रं सुराशब्दार्थः । यथा बृहस्पतिः ।
“गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समा-
चरेत् ।
पृष्ठ ३/५९२
तप्तकृच्छं पराकञ्च चान्द्रायणमनुक्रमात् ॥”
त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात् ।
तथा भविष्ये ।
“सुरा तु पैष्ठी मुख्योक्ता न तस्यास्त्वितरे समे ।”
पैष्टीति तण्डुलविकारमात्रोपलक्षणं इतरे
गौडीमाध्व्यौ अतोऽन्नविकार एव सुराशब्दस्य
मुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौण-
सुरात्वज्ञापनार्थम् । तेन एतत्पानेऽपि महा-
पातकत्वमतिदिशति यथैवैका तथा सर्व्वा इति
पैष्ट्यां पूर्ब्बप्रसिद्ध्वं दर्शयति । यथा पैष्टी सुरा
तथा सर्व्वा गौडी माध्वी चेति पूर्ब्बवचनोक्ता
तु पैष्टी दृष्टान्तत्वेनात्र दर्शिता । न पातव्या
द्विजोत्तमैरिति ब्राह्मणैरित्यर्थः । त्रैवर्णिकपरत्वे
उत्तमपदानर्थक्यात् बहवचनानर्थक्यपरी-
हारार्थमुत्तमप्रातिपदिकानर्थक्यमयुक्तं अतो
ब्राह्मणस्य त्रिविधैव सुरा महापातकहेतुः ।
क्षत्त्रियवैश्ययोस्तु सुरा वै मलमन्नानामिति
वचनेन पैष्ट्यैव इति स्थितम् । अतएव ।
“एका माध्वी च गौडी च पैष्टी च त्रिविधा
सुरा ।
द्विजातिभिर्न पातव्या कदाचिदपि कर्हिचित् ॥”
इति यमवचने द्विजातिपदं ब्राह्मणपरमेव ।
अत एव द्विविधसुरापाने न क्षत्त्रियादीनां
महापातकम् ॥ * ॥ तावदस्तु । दोषाभावमेवाह
वृद्धयाज्ञवल्क्यः ।
“कामादपि हि राजन्यो वैश्यो वापि कथञ्चन ।
मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥”
तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौडीमाध्वीनि-
षेधन्तु व्राह्मणानामेव ॥ * ॥ तज्जातेः स्त्रीणा-
मपि सुरापाननिषेधः । यथा भविष्ये ।
“तस्मान्न पेयं विप्रेण सुरा मद्यं कथञ्चन ।
ब्राह्मण्यापि न पेया वै सुरा पापभयावहा ॥”
“या ब्राह्मणी सुरापी स्यान्
न तां देवाः पतिलोकं नयन्ति ॥”
इति श्रुतिः ॥
“पतत्यर्द्धशरीरेण भार्य्या यस्य सुरां पिवेत् ।
पतितार्द्धशरीरस्य निष्कृतिर्नोपपद्यते ॥”
न चैवं क्षत्त्रियवेश्यस्त्रीणामनिषेधः । ब्राह्मणी-
पदस्य निषिद्धसुरापानकर्त्तृभार्य्योपलक्षणत्वाद्-
भार्य्या यस्य सुरां पिबेदिति सामान्यश्रवणाच्च ॥
पानञ्च द्रवीभूतस्याभ्यवहारः । स च कण्ठदेशा-
दधोनयनं न तु वक्त्रमात्रप्रवेशः । निष्ठीवनार्थं
कपोलधारणे पानशब्दप्रसङ्गात् । यच्चोक्तम् ।
“जिघ्रन्नहि सुरां कश्चित् पिबतीत्यभिधीयते ।
यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम् ॥
अत्र गण्डूषप्रमाणं अविवक्षितम् । गण्डूषा-
र्द्धपानेऽपि लोके पानशब्दप्रयोगात् । अतएव
मुखप्रवेशनं अत्राविवक्षितं किन्तु मुखप्रवेशे
कण्ठादधोनयनं भवति अतस्तदेवोपलक्षयति ।
अतएव ओष्ठमात्रलेपे न पाननिष्पत्तिः । अत-
स्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम् ॥ * ॥
अथ सरापानप्रायश्चित्तम् । तत्र मनुः ।
“सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।
तया सकाये निर्दग्धे मुच्यते किल्विषात्ततः ॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ।
पयो घृतं वामरणात् गोसकृद्रसमेव वा ॥”
अग्निवर्णां अग्निसमस्पर्शाम् । पयो घृतं गोरेव
आदावन्ते च गोः कीर्त्तनात् । मोहशब्दोऽत्र
बुद्धिपरः । देवलः । सुरापाने ब्राह्मणो रूप्य-
ताम्रसीसकानामन्यतममग्निकल्पं पीत्वा शरीर-
त्यागात् पूयते । रूप्यादयोऽत्र द्रवीभूताः
पीत्वेति निर्द्देशात् । स्वयमशक्तावन्यैरपि मुखे
सेचनीया । यथा गोतमः । सुरापस्य ब्राह्मणस्य
उष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्येत ।
अतएव न सेचकानां वधो विहितत्वात् स्वयं
पान इव । एतच्च मरणप्रायश्चित्तं कामकृते ।
यथा, बृहस्पतिः ।
“सुरापाने कामकृते ज्वलन्तीं तां विनिःक्षिपेत् ।
मुखे स हि विनिर्द्दग्धो मृतः शुद्धिमवाप्नुयात् ॥”
कथञ्चिदिति सकृदित्यर्थः । अङ्गिराः ।
सुरापानं सकृत् कृत्वा योऽग्निवर्णां सुरां पिबेत् ।
स पावयेदथात्मानमिह लोके परत्र च ॥”
भविष्ये ।
“मतिपूर्ब्बं सुरापाने प्राणान्तिकमुदाहृतम् ।
पैष्टीपाने तु ऋषिभिर्नेतरासां कथञ्चन ॥
शङ्खेनापि महाबाहो ! प्रायश्चित्तमुदाहृतम् ।
सुरायाः कामतः पाने मुख्यायाः प्राणनाशनम् ॥”
पुनःपुनःपैष्टीविषयत्वाभिधानम् । त्रिविधा सुरा
भुख्या इति भ्रमनिरासार्थम् । कथञ्चन सकृ-
दित्यर्थः । * । इतरासां असुराणां गौडी-
माध्वीप्रभृतीनां ज्ञानतः सकृत्पाने मरणान्तिकं
न भवति गौडीमाध्व्योस्तु ज्ञानतोऽभ्यस्तपाने
गौडीमाध्वीव्यतिरिक्तायास्त्वसुराया अत्यन्ता-
भ्यस्तपाने मरणमुक्तं भविष्ये ।
“गौडीमाध्व्योस्तथाभ्यासे प्राणान्तिकमुदा-
हृतम् ।
अभ्यासे त्वसुरायास्तु तामेवाग्निनिभां पिबेत् ॥”
तथेति ज्ञानत इत्यर्थः । अतएव ।
“असकृत् ज्ञानतः पीत्वा वारुणीं पतति द्विजः ।
मरणं तस्य निर्द्दिंष्टं प्रायश्चित्तं विधीयते ॥”
इति यमवचनमपि एतद्विषयमेव अत्राभ्यासे
मरणविधानात् द्वितीयवार एव मरणं कार्य्यम् ।
गौडीमाध्व्योः कामतः सकृत्पाने भविष्ये ।
“असुरामद्यपाने तु कृते विप्रस्तु कामतः ।
चान्द्रायणं समभ्यस्येत् शुद्धिकामः स्वशुद्धये ॥
यद्वास्मिन्नेव विषये मानवीयं प्रकल्पयेत् ।
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥
सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ।”
पिण्याकं खलिम् ॥ * ॥ उत्तप्तसुरापानं आय-
सेन पात्रेण इत्याह यमः ।
“आयसे भाजने तप्तां ब्राह्मणीं वारुणीं पिबेत् ॥”
गोवालचीरवाससा तत् कर्त्तव्यं आह उशनाः ।
गोवालचीरवासाः सुरापः सुरामग्निवर्णां
पीत्वा पूतो भवति ॥ * ॥ अज्ञानतः सकृत्-
पैष्टीपाने ब्राह्मणस्य द्वादशवार्षिकम् । यथा
ब्रह्महत्याव्रतानुवृत्तौ यमः ।
“चरेतामेतदेवोभौ सुरापगुरुतल्पगौ ।
सगोत्रादूषकश्चैव सुवर्णस्तेयकृन्नरः ॥” * ॥
भविष्ये ।
“अकामतः सुरां पीत्वा पैष्टीं मत्कुलनन्दन ! ।
कृच्छ्रातिकृच्छ्रौ कृत्वा वै पुनःसंस्कारतः शुचिः ॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।
सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥”
सुरापानमात्रापनेयरोगस्य रोगिणोऽज्ञानतः
पानविषयमिदं इत्युक्तं भविष्ये । यथा, --
“तथास्मिन्नेव विषये वाशिष्ठं परिकीर्त्तितम् ।
यदि रोगैर्भवेद्दःस्थो नेतरस्य कदाचन ॥
कृच्छ्रश्चात्र सुरश्रेष्ठ ! तप्तकृच्छ्र उदाहृतः ।”
कृच्छ्रातिकृच्छ्रावित्यत्र कृच्छ्रपदं न प्राजापत्य-
परं किन्तु तप्तकृच्छ्रपरम् । * । अज्ञानतो
गौडीमाध्व्योः सकृत्पाने उक्तं भविष्यपुराणे ।
“सकृत् पीत्वा तथा गौडीमज्ञानात् सुरसत्तम ! ।
कृच्छ्रातिकृच्छ्रौ विहितौ घृतप्राशनमेव च ॥”
अज्ञानाभ्यासे तत्रैवोक्तम् ।
“गौडीमज्ञानतः पीत्वा ब्राह्मणो ब्राह्मणप्रिय ! ।
तप्तकृच्छ्रन्तु वै कृत्वा पुनःसंस्कारतः शुचिः ॥
माध्वीं पीत्वा महाबाहो ! अज्ञानाद् द्बिज-
सत्तमः ।
शुद्ध्येत तप्तकृच्छेण विकर्म्माभ्यासनात्तथा ॥
रेतोमूत्रपुरीषाणां गौडीमाध्व्योश्च प्राशने ।
क्रव्यादपशुविष्ठानां संस्काराच्छुद्धिरिष्यते ॥”
प्राणान्तिके च पादहानेरसम्भवात् क्षत्त्रिय-
वैश्ययोरपि यथोक्तं मरणान्तिकं प्रायश्चित्तमेव ।
द्वादशवार्षिकादौ पादपादहानिरभक्ष्यभक्षणे
क्षत्त्रियादीनां ह्रासदर्शनात् ।
“विप्रे तु सकलं देयं पादोनं क्षत्त्रिये मतम् ।
वैशेऽर्द्धं पादशेषन्तु शूद्रजातिषु शस्यते ॥”
पानसादिमद्यपाने तु कामनाकृतानेकसमया-
भ्यस्ते प्राणान्तिकं युक्तं ब्राह्मणस्य कामनया
सकृत्कृते तु पराशरः ।
“अगम्यागमने चैव मद्यगोमांसभक्षणे ।
शुद्ध्यै चान्द्रायणं कुर्य्यात् नदीं गत्वा समुद्रगाम् ॥
चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ।
अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥”
अकामतः सकृत्पाने विष्णुः ।
“पीत्वा प्रमादतो मद्यमतिकृच्छ्रं चरेद्द्विजः ।
कारयेत् पुनःसंस्कारं भक्त्या विप्रांश्च भोजयेत् ॥”
कामतोऽकामतश्चाभ्यासे व्रतावृत्तिमाह यमः ।
“गोघ्नवद्बिहितः कल्पश्चान्द्रायणमथापि वा ।
अभ्यासे तु तयोर्भूयस्ततः शुद्धिमवाप्नुयात् ॥”
अपर्य्युषितपानसाद्येकादशविधमद्यपाने त्रिरा-
त्रम् । पानसं द्राक्षमाधूकमित्याद्यभिधाय
पुलस्त्यः ।
“द्राक्षेक्षुटङ्कखर्ज्जूरपनसादेश्च यो रसः ।
सद्योजातन्तु तं पीत्वा त्र्यहात् शुद्ध्येत् द्विजो-
त्तमः ॥”
पृष्ठ ३/५९३
प्रयोजकादीनां पादपादहानिर्द्रष्टव्या । बाल-
वृद्धस्त्रीणामर्द्धादिकं प्रायश्चित्तम् । इति प्राय-
श्चित्तविवेकः ॥ * ॥ अथ पुराणे ब्राह्मणस्य
मद्यपानादिनिषेधो यथा, --
“अध्रेयञ्चाप्यपेयञ्च तथैवास्पृश्यमेव च ।
द्विजातीनामनालोच्यं नित्यं मद्यमिति स्थितम् ॥
तस्मात् सर्व्वं प्रयत्नेन मद्यं नित्यं विवर्ज्जयेत् ।
पीत्वा पतति कर्म्मभ्यस्त्वसम्भाष्यो द्विजोत्तमः ॥
भक्षयित्वाप्यभक्षाणि पीत्वापेयान्यपि द्विजः ।
नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ॥
तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम् ॥”
इति श्रीकूर्म्मपुराणे उपविभागे १६ अध्यायः ॥
मद्यपस्य विष्णोरुपसर्पणे दोषादि यथा, --
वराह उवाच ।
“मद्यं पीत्वा वरारोहे ! यस्तु मामुपसर्पति ।
तत्र दोषं प्रवक्ष्यामि शृणु सुन्दरि ! तत्त्वतः ॥
दत्त्वा वर्षसहस्राणि दरिद्रो जायते पुनः ।
ततो भवेत् स पूतात्मा मद्भक्तश्च न संशयः ॥
यस्तु भागवतो भूत्वा कामरागेण मोहितः ।
दीक्षितो पिबते मद्यं प्रायश्चित्तं न विद्यते ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।
अग्निवणां सुरां पीत्वा तेन मुच्येत किल्विषात् ॥
एवञ्चैवापराधानि येन मुच्यन्ति किल्विषात् ।
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।
न स लिप्यति पापेन संसारञ्च न गच्छति ॥
इति वराहपुराणे मद्यपानापराधप्रायश्चित्तम् ॥
अपि च ।
“अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ।
शुद्ध्येच्चान्द्रायणाद्बिप्रः प्राजापत्येन भूमिपः ।
वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुद्ध्यति ॥”
इति गारुडे २२ अध्यायः ॥
एतद्गौडीमाध्व्योः कामतः सकृत्पानविषयमिति
प्रायश्चित्तविवेकदर्शनात् ॥ * ॥ द्बिजस्य पूजादौ
मद्यदानविध्यनुकल्पनिषेधा यथा, --
“मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तु वामतः ।
अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः ॥
नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु ।
नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि ॥
ऋते पुष्पासवादुक्ताद्व्यञ्जनाद्वा विशेषतः ।
राजपुत्त्रस्तथा मर्त्यः सचिवः सौप्तिकादयः ॥
दद्युर्नरवलिं भूपसम्मत्या विभवाय च ।
भूपालानुमते मद्यं ददत् पापमवाप्नुयात् ॥”
इति कालिकापुराणे ६६ अध्यायः ॥
अथ ब्राह्मणस्य मद्यपाननिषेधकशुक्रशापो यथा,
वैशम्यायन उवाच ।
“सुरापानाद्वञ्चनां प्राप्य विद्वान्
संज्ञानाशं प्राप्य चैवातिघोरम् ।
दृष्ट्वा कचञ्चापि तथाभिरूपं
पीतं तथा सुरया मोहितेन ॥
समन्युरुत्थाय महानुभाव-
स्तदोशना विप्रहितं चिकीर्षुः ।
काव्यः खयं वाक्यमिदं जगाद
सुरापानं प्रति वै जातशङ्कः ॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चित्
मोहात् सुरां पास्यति मन्दबुद्धिः ।
अपेतधर्म्मो ब्रह्महा चैव स स्या-
दस्मिँल्लोके गर्हितः स्यात् परे च ।
मया चेमां विप्रधर्म्मोक्तसीमां
मर्य्यादां वै स्थापितां सर्व्वलोके ।
सन्तो विप्राः शुश्रुवांसो गुरूणां
देवा लोकाश्चोपशृण्वन्तु सर्व्वे ॥”
इति महाभारते आदिपर्व्वणि ७९ अध्यायः ॥
अथ तन्त्रे मद्यपाननिषेधो यथा, --
“नारिकेलञ्च खार्ज्जूरं पानसञ्च तथैव च ।
ऐक्षवं मधुकं टाङ्कं तालञ्चैव च माक्षिकम् ॥
द्राक्षन्तु दशमं ज्ञेयं गौडं चैकादशं स्मृतम् ।
पैष्टन्तु द्वादशं प्रोक्तं सर्व्वेषामधमं स्मृतम् ॥
मध्यमं मधुजं गौडं शेषञ्चोत्तममिष्यते ।
एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित् ।
क्षत्त्रियादिः पिबेत् सर्व्वं पैष्टीमेकान्तु वर्ज्जयेत् ॥
सुरां पीत्वा द्विजो मोहात् कामात् तक्रादि-
मिश्रिताम् ।
त्रैवाषिकं व्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम् ॥
तक्रादिमिश्रितां किञ्चित्सुरां पीत्वा ह्यकामतः ।
कृच्छ्राब्दपादमुच्चर्य्य पुनः संस्कारमर्हति ॥
मुखप्रवेशमात्रन्तु प्रायश्चित्तार्द्ध्वमाचरेत् ।
अनुपनीतो देवेशि ! व्रतं त्रैवार्षिकं चरेत् ॥
चतुर्थकालाहारी स्याद्ब्रह्मचर्य्यमथापि वा ।
आ पञ्च वर्षं वृद्धं वा ज्ञानादर्द्धं विनिर्द्दिशेत् ॥
शूद्रस्य च विशेषेण अतिकृच्छ्रद्वयं चरेत् ।
स्वजातिसाधिते तस्मिन् तदर्द्धं व्रतमाचरेत् ॥
पैष्टीपाने ब्राह्मणस्य मरणान्तिकमुच्यते ।
माध्वीगौडीसुरापाने द्वादशाब्दं विधीयते ॥
इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु ।
राजन्यवैश्ययोश्चापि गौडी माध्वी न शस्यते ।
मोहात् क्षत्त्रश्च वैश्यश्च पीत्वा कृच्छ्रद्बयं चरेत् ॥
शूद्रोऽपि गौडीं पैष्टीञ्च न पिबेद्धीनसंस्कृताम् ।
कामात् पीत्वा सुरां विप्रो मरणान्तिकमाचरेत् ॥
चरेच्चान्द्रायणं ज्ञानात् क्षत्त्रियो वैश्य एव च ।
पैष्टीपाने तु शूद्रस्य प्राजापत्यं विनिर्द्दिशेत् ॥
ज्ञानादभ्यासयोगे तु चान्द्रायणत्रयं स्मृतम् ।
नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेन तु ।
क्षत्त्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति ॥
अपक्वं पनसञ्चैव आम्रञ्च वदरं तथा ।
स्थापयित्वा घटे नित्यं दद्यादामपयःपलम् ॥
त्रैलोक्यविजयाञ्चैव मातुलङ्गं तथैव च ।
समेऽहनि ततो दद्यात् सन्धानात् सत्वमीरितम् ॥
दधि मधु घृतञ्चापि माञ्जिष्ठं तिक्तकं तथा ।
अनुपाने तु देवेशि ! द्राक्षमद्यं सुनिश्चितम् ॥
विडङ्गं शालवो मूलं -- ।
मधुना स्रह संस्थाप्य शेषपाकं समाचरेत् ॥
पिप्पलीलवणं दत्त्वा मधुना मद्यमीरितम् ।
पानसं पक्वखर्ज्जूरं आर्द्रं सोमलतारसम् ।
एकीकृत्याग्निसन्धानात् खार्ज्जूरं मद्यमीरितम् ॥
पक्वतालं दन्तिशाकं ककुभञ्च तथैव च ।
एतैरेव सुसन्धानात् तालमद्यं प्रकीर्त्तितम् ॥
इक्षुदण्डं मरीचञ्च वदरञ्च तथा दधि ।
शेषे तु लवणं दत्त्वा इक्षु मद्यं प्रकीर्त्तितम् ॥
नवं मधु तथा विल्वं पक्वं शर्करया सह ।
सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम् ॥
शतावरी टङ्कमूलं लक्ष्मणं पद्ममेव च ।
मधुना सह सन्धानात् टङ्कमाध्वीकमीरितम् ॥
मालूरमूलं वदरी शर्करा च तथैव च ।
एषामेकत्र सन्धानात् मैरेयं मद्यमीरितम् ॥
इन्द्रजिह्वा पक्वधात्री नारिकेलजलन्तथा ।
कदलीफलसन्धानान्मद्यं तन्नारिकेलजम् ॥
दधि त्रैलोक्यविजया तथैव च करीकणा ।
गुडेन सह सन्धानात् गौडीमद्यं प्रकीर्त्तितम् ॥
शस्कुलीमर्द्धसिद्ध्वान्नपुष्णोदकसमन्वितम् ।
वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम् ॥
शेषेऽहनि तु संप्राप्ते जीवनं तत्र निःक्षिपेत् ।
शृङ्गवेरं मरीचञ्च मातुलङ्गं तथैव च ।
एतेषामेव सन्धानान् पैष्टीमद्यं प्रकीर्त्तितम् ॥”
इति श्रीमत्स्यसूक्ते महातन्त्रे चतुर्व्विंशति-
साहस्रे ३६ पटलः ॥ * ॥ अपि च ।
“सिद्धमन्त्री भवेद्वीरो न वीरो मद्यपानतः ।
कलौ तु भारते वर्षे लोका भारतवासिनः ॥
गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि ॥”
इति उत्पत्तितन्त्रे ६४ पटलः ॥ * ॥
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन ।
केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम् ॥”
इति महानिर्व्वाणतन्त्रम् ॥ * ॥
श्रीक्रमे ।
“न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्चन ।
वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत् ॥
भैरवतन्त्रे ।
“नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु ।
राजन्यवैश्ययोर्देयं न द्विजस्य कदाचन ॥
एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् ।
इति आगमतत्त्वविलासः ॥ * ॥
स्मृतौ कलौ मद्यपानादिनिषेधो यथा, याज्ञ-
वल्क्यदीपकलिकायां ब्रह्मपुराणम् ।
“नराश्वमेधौ मद्यञ्च कलौ वर्ज्ज्या द्विजातिभिः ॥”
निषेधविषयं स्पष्टयति उशनाः । “मद्यमदेयम-
पेयमनिर्ग्राह्यम् ।” अनिर्ग्राह्यमस्वीकार्य्यमिति
कल्पतरुः ॥ कालिकापुराणेऽपि ।
“स्वगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात् ।
मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥”
स्मृतिः ।
“ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम् ।
गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥
अतो मद्यप्रतिनिधिदानमपि न युक्तम् । इति
तिथ्यादितत्त्वम् ॥ * ॥ मद्यतुल्यं यथा, --
“नारिलेकोदकं कांस्ये ताम्रपात्रे स्थितं
मधु ।
पृष्ठ ३/५९४
गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥”
इति कर्म्मलोचनः ॥ * ॥
अथ मद्यपानां तुष्ट्यर्थं कौलानां मद्यपानविधि-
र्लिख्यते ।
“कुलाचाररतो वीरः कुलसङ्गी सदा भवेत् ।
सम्बिदासेवनं कुर्य्यात् सोमपानं महेश्वरि ! ॥
सर्व्वथा कुरुते देवि ! वीरश्चोद्धतमानसः ।
दिव्यस्तु देवताप्रायश्चन्दनागुरुलेपनैः ॥
रक्तचन्दनगन्धैश्च सुदिग्धो नात्र संशयः ।
भस्माङ्गधूसरो वीर उन्मत्तवद्विचेष्टितः ॥
सुरापानरतो नित्यं बलिपूजापरायणः ।
नरश्छागश्च महिषो मेषः शूकर एव च ॥
शशकः शल्लकी गोधा खड्गी कूर्म्मो दश
स्मृताः ।
वानरश्च खरश्चैव गजाश्वादिविहङ्गमाः ॥
इत्यादेस्तु बलेर्द्दानैः पूजयेत् स्वेष्टदेवताम् ।
नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिने दिने ॥
कुलवारे कुलर्क्षे च तिथौ च कुलके तथा ।
भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्व्ववत् प्रिये ! ।
सुराणां शोधनं कुर्य्याद्यथावत् परमेश्वरि ! ॥
प्रवृत्ते भैरवीचक्रे सर्व्वे वर्णा द्विजोत्तमाः ।
निवृत्ते भैरवीचक्रे सर्व्वे वर्णाः पृथक् पृथक् ॥
विजयाञ्चानुकल्पञ्च द्विजो दद्याद्युगे युगे ॥”
इति उत्पत्तितन्त्रे ६३ पटलः ॥
“द्रव्याभावे चानुकल्प्यौः पूजयेत् परदेबताम् ।
सुराभावे च गोक्षीरं द्विजो दद्याद्युगे युगे ॥”
इति निरुत्तरतन्त्रे ५ पटलः ॥ * ॥
“असंस्कृतां सुरां पीत्वा ब्राह्मणो ब्रह्महा
भवेत् ।
संस्कृतान्तु सुरां पीत्वा ब्राह्मणो ज्वलदग्निवत् ॥
सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् ।
अन्यत्र कामतः पीत्वा ब्राह्मण्यादेव हीयते ॥”
इति उत्पत्तितन्त्रम् ॥ * ॥
“ब्राह्मणस्य महामोक्षं मद्यपाने प्रियंवदे ! ।
ब्राह्मणः परमेशानि ! यदि पानादिकं चरेत् ।
तत्क्षणात् शिवरूपोऽसौ सत्यं सत्यं हि शैलजे ! ॥
तोये तोयं यथा लीनं तैजसं तैजसे यथा ।
घटे भग्ने यथाकाशं बायौ वायुर्यथा प्रिये ! ॥
तथैव मद्यपानेन ब्राह्मणो ब्रह्मणि प्रिये ।
लीयते नात्र सन्देहः परमात्मनि शैलजे ! ॥
सायुज्यादिमहामोक्षं नियुक्तं क्षत्त्रियादिषु ।
मद्यपानं विना देवि ! तत्त्वज्ञानं ब लभ्यते ॥
अतएव हि विप्रस्तु मद्यपानं समाचरेत् ॥
वेदमाताजपेनैव ब्राह्मणो नहि शैलजे ! ।
ब्रह्मज्ञानं यदा देवि ! तदा ब्राह्मण उच्यते ॥
देवानाममृतं ब्रह्म तदेव लौकिकी सुरा ।
सुरत्वं भोगमात्रेण सुरा तेन प्रकीर्त्तिता ॥
मन्त्रत्रयं सदा पाठ्यं ब्रह्मशापादिमोचनम् ।
प्रकुर्य्यात्तु हि येनैव तदा ब्रह्ममयी मुरा ॥
हविरारोपमात्रेण वह्निर्दीप्तो यथा भवेत् ।
शापमोचनमात्रेण सुरा मुक्तिप्रदायिनी ।
अतएव हि देवेशि ! व्राह्मणः पानमाचरेत् ॥
स ब्राह्मणः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः ।
बहु किं कथ्यते देवि ! स एव निर्गुणात्मकः ॥
मुक्तिमार्गमिदं देवि ! गोप्तव्यं पशुसङ्कटे ।
प्रकाशात् सिद्धिहानिः स्यात् निन्दनीयो न
चान्यथा ॥”
इति मातृकाभेदतन्त्रे ३ पटलः ॥ * ॥
“कुलस्त्रीसेवनं कुर्य्यात् सर्व्वथा परमेश्वरि ! ।
रमते युवतीं रम्यां कामोन्मत्तविलासिनीम् ॥
नटीं कापालिकां वेश्यां हड्डिपानां वराङ्गनाम् ।
शूद्राणीं म्लेच्छरमणीं जवनीं परमेश्वरि ! ॥
मातृयोनिविचारोऽस्ति मातृयोनिं विना
प्रिये ! ।
कुलाचारपरो वीरः कुलपूजापरायणः ॥
भगलिङ्गसमायोगादाकृष्य जपमाचरेत् ।
निश्चलन्तु भवेच्चित्तं कोटिसूर्य्यग्रहेण किम् ॥
चले चित्ते भवेद्व्याधिर्निश्चले निश्चलं यथा ।
शवानां साधनं देवि ! लतासाधनमुत्तमम् ॥
चितायाः साधनं देवि ! सिद्बिरस्ति कलौ युगे ॥
इत्युत्पत्तितन्त्रम् ॥
कालिकातारिणीदीक्षां गृहीत्वा मद्यसेवनम् ।
न करोति नरो यस्तु स कलौ पतितो भवेत् ॥
वैदिके तान्त्रिके चैव जपहोमबहिष्कृतः ।
अब्राह्मणः स एवोक्तः स एव हस्तिमूर्खकः ॥
शुनीमूत्रसमं तस्य तर्पणं यत् पितृष्वपि ।
कालीतारामनुं प्राप्य वीराचारं करोति न ॥
शूद्रत्वं तच्छरीरेण प्राप्नुयात् स न चान्यथा ॥
इति कामाख्यातन्त्रे ५ पटलः ॥
मद्यशोधनप्रकारो यथा । शिव उवाच ।
शृणु पार्व्वति ! वक्ष्यामि तेषां वै शोधनक्रियाम् ।
पद्मासनेन संविश्य करपुटं समाचरेत् ॥
वामे गुरून्नमस्कृत्य दक्षिणे गणपतिं स्मरेत् ।
मध्ये देवीं नमस्कृत्य प्राणायामत्रयञ्चरेत् ॥
शरीरे मातृकां न्यस्य ऋष्यादिन्यासमाचरेत् ।
स्वकल्पोक्तविधानेन षडङ्गन्यासमाचरेत् ॥
पश्चाद्भूमौ त्रिकोणं वा षट्कोणं वा महे-
श्वरि ! ।
विलिख्य मण्डलं शुद्धं तस्योपरि घटं न्यसेत् ॥
बहुधा प्रोक्षणं कृत्वा फट्कारेण पुनः पुनः ।
ततस्तस्मिन् कारणन्तु मूलेनैव च स्थापयेत् ॥
मातृकार्णेन देवेशि ! विपरीतेन चैव हि ।
पुनः फट्कारमन्त्रेण प्रोक्षणं कारयेत् सुधीः ॥
ततो वियच्छक्तिबीजं चतुर्द्दशस्वरान्वितम् ।
नादबिन्दुयुतं कृत्वा तस्योपरि शतं जपेत् ॥
ततो मूलं जपेन्मन्त्रं मायाबीजं ततः परम् ।
धेनुं योनिं गालिनीञ्च त्रिखण्डं मीनसंज्ञकम् ।
दर्शयित्वा वरारोहे ! घटं धृत्वा पठेन्मनुम् ॥
ॐएकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥
ॐ सूर्य्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमाबीजमये देवि ! शुक्रशापाद्विमुच्यताम् ॥
ॐ वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ! ब्रह्महत्यां व्यपोहतु ॥
ततः षडङ्गयुक्तञ्च वकारं बिन्दुसंयुतम् ।
एवं सकारकञ्चापि वर्णाक्षरसमन्वितम् ॥
जप्त्वा मन्त्री ततो ध्यायेत् स्वमन्त्रं कुलसुन्दरि ! ।
आनन्दभैरवं ध्यायेद्यथा तन्त्रानुसारतः ॥
रक्तवर्णं चतुर्बाहुं त्रिनेत्रं वरदं शिवम् ।
जटाजूटधरं देवं वासुकीकण्ठभूषितम् ॥
डमरुञ्च कपालञ्च मुद्गरं पाशमुत्तमम् ।
धारिणं तं यजेद्देवं व्याघ्रचर्म्माम्बरं शिवम् ॥
एवं ध्यात्वा महेशानि ! तस्य मध्ये प्रपूजयेत् ।
मायाबीजं ततो हुं फट्मन्त्रेणानेन संत्यजेत् ॥
ततस्तस्मिन्महेशानि ! आनन्दभैरवीं स्मरेत् ।
आनन्दभैरवीं देवीं वराभयलसत्कराम् ॥
घोररूपां वरारोहां त्रिनेत्रां रक्तवाससम् ।
रक्तवर्णां महारौद्रीं सहस्रभैरवान्विताम् ॥
ब्रह्मविष्णुमहेशाद्यैः स्तूयमानां शिवां भजे ।
इति ध्यात्वा महेशानि ! तेनैव मनुना यजेत् ॥
तयोरैक्यं विभाव्यैव गायत्त्रीं दशघा जपेत् ।
भैरवं ङेऽन्तकञ्चोक्त्वा विद्महे तदनन्तरम् ॥
सुधादेव्यै ततः पश्चाद्धीमहीति ततो वदेत् ।
तन्नो देवी ततः पश्चात्तदन्ते च प्रचोदयात् ॥
इति ते कथिता देवी गायत्त्री परमाक्षरी ।
तस्याः स्मरणमात्रेण द्रव्यशुद्धिश्च जायते ॥
तस्य प्रसादादीशोऽहं सत्यं सत्यं न संशयः ।
तस्य मध्ये मूलमन्त्रं विल्वदण्डैर्लिखेत् सकृत् ।
रक्तवस्त्रेण संपूज्य सुधां वस्त्रेण गोपयेत् ॥ * ॥
धर्म्मार्थकाममोक्षाणां विषयाणाञ्च पार्व्वति ! ।
सर्व्वेषां कारणं यस्मात् कारणं परिकीर्त्तितम् ॥
अस्माकञ्च महेशानि ! शरीरकारणं हि तत् ।
मृत्युञ्जयोऽहं वीरेशि ! वीरकार्य्यप्रसादतः ॥
निर्व्विकारेण देवेशि ! निर्व्विकल्पेन चेतसा ।
सेव्यमानं कुलं भद्रे ! भुक्तिमुक्तिप्रदायकम् ॥
निर्व्विकल्पो महेशानि ! मुक्तिभागी न संशयः ।
सविकल्पो वरारोहे ! रौरवं याति निश्चितम् ॥”
इति कैवल्यतन्त्रे २ पटलः ॥
(वैद्यकोक्तदोषादि यथा, --
“तीक्ष्णोष्णरूक्षसूक्ष्माम्लं व्यवायाशुकरं लघु ।
विकाशि विशदं मद्यमोजसोऽस्माद्बिपर्य्ययः ॥
तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः ।
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः ॥
तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान् ।
दशभिर्दशसंक्षोभ्य चेतो नयति विक्रियाम् ॥
आद्ये मदे द्वितीये स प्रमादायतने स्थितः ।
दुर्व्विकल्पहतो मूढः सुखमित्यधिमुच्यते ॥
मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः ।
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः ॥
इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदम् ।
एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम् ॥
निश्चेष्टः शववच्छेते तृतीये तु मदे स्थिताः ।
मरणादपि पापात्मा गतः पापतरां दशाम् ॥
धर्म्माधर्म्मसुखं दुःखमर्थानर्थं हिताहितम् ।
यदासक्तो न जानाति कथं तच्छीलयेद्बुधः ।
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संस्थितः ॥
पृष्ठ ३/५९५
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्व्वमसाधु यत् ।
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥
मद्यं त्रिवर्गधीधैर्य्यलज्जादेरपि नाशनम् ।
नाति माद्यन्ति बलिनः कृताहारा महाशनाः ॥
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः ।
मेदःकफाधिकामन्दवातपित्ता दृढाग्नयः ॥
विपर्य्ययेऽतिमाद्यन्ति विश्रध्वाः कुपिताश्च ये ।
मद्येन चाम्लरूपेण साजीर्णे बहु नाति च ॥”
इति वाभटे निदानस्थाने षष्ठेऽध्याये ॥)
एतानि श्रुतिस्मृतिविरुद्धत्वान्मोहनार्थानिशिष्टैः
कदाचिदपि नाचरणीयानि ॥

मद्यद्रुमः, पुं, (मद्योत्पादको द्रुमः ।) माडवृक्षः ।

इति राजनिर्घण्टः ॥

मद्यपङ्कः, पुं, (मद्यानां पङ्क इव ।) सुराकल्कः ।

मेया इति भाषा ॥ तत्पर्य्यायः । मेदकः २
जगलः ३ । इति हेमचन्द्रः । ३ । ५६८ ॥

मद्यपाशनं, क्ली, (मद्यपैरश्यते भुज्यते इति । अश्

+ कर्म्मणि ल्युट् ।) पानरुचकभक्ष्यम् । तत्-
पर्य्यायः । उपदंशः २ अवदंश ३ चक्ष्णम् ४ ।
इति हेमचन्द्रः । ३ । १७१ ॥

मद्यपुष्पा, स्त्री, (मद्यानि मदसाधनानि पुष्पा-

ण्यस्याः ।) धातकी । इति राजनिर्घण्टः ॥
(गुणादिविवृतिरस्या धातकीशब्दे ज्ञातव्या ॥)

मद्यमण्डः, पुं, (मद्यस्य मण्डः ।) मद्यफेनः । तत्-

पर्य्यायः । कारोत्तमः २ । इति हेमचन्द्रः । ३ ।
५६९ ॥ कारोत्तरः ३ सुरामण्डः ४ । इत्यमरः ।
२ । १० । ४३ ॥

मद्यवासिनी, स्त्री, (मद्यानामिव वासो गन्धोऽस्या

अस्तीति । इनिः ङीष् ।) धातकीवृक्षः । इति
रत्नमालाराजनिर्घण्टौ ॥

मद्यबीजं, क्ली, (मद्यस्य बीजम् ।) नानाद्रव्यकृत-

सुराबीजम् । तत्पर्य्यायः । किण्वम् २ नग्नहूः
३ नग्नहुः ४ । इति हेमचन्द्रः । ३ । ५६९ ।
वाखर इति भाषा ॥

मद्यसन्धानं, क्ली, (मद्यस्य सन्धानमुत्पादनार्थं

आयोजनम् ।) सुरासज्जीकरणम् । वंशाङ्कुर-
फलादीन् बहुकालं सन्धाय यत् क्रियते तत् ।
तत्पर्य्यायः । आसुतिः २ आसवः ३ अभिषवः
४ । इति हेमचन्द्रः । ३ । ५६९ ॥

मद्यामोदः, पुं, (मदस्येवामोदो गन्धो यस्य ।)

वकुलवृक्षः । इति राजनिर्घण्टः ॥

मद्रः, पुं, (मन्दते इति । मदि मोदादौ + “स्फायि

तञ्चीति ।” उणा० २ । १३ । इति रक् ।) देश-
विशेषः । हर्षः । इत्युणादिकोषः ॥ तद्देशविव-
रणं यथा, --
“वैराटपाण्ड्ययोर्मध्ये पूर्ब्बदक्षक्रमेण तु ।
मद्रदेशः समाख्यातो माद्रीहा तत्र तिष्ठति ॥”
इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥
(भद्रे, क्ली । यथा, चतुर्थी चाशिष्यायुष्य मद्र-
भद्रकुलसुखार्थहितैः । २ । ३ । ७३ । इत्यत्र
सूत्रे । मद्रं देवदत्तस्यभूयात् । इति काशिका ।
मद्रभद्रयोः पर्य्यायत्वादन्यतरो न पठनीयः ।
इति सिद्धान्तकौमुदी च ॥)

मद्रकः, त्रि, (मद्रेषु जातं इति । मद्र + “मद्रवृज्योः

कन् ।” ४ । २ । १३१ । इति कन् ।) मद्रदेश-
भवः । इति सिद्धान्तकौमुदी ॥ (देशभेदः ।
यथा, मत्स्यपुराणे । ११३ । ४१ ॥
“गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥”)

मद्रकारः, त्रि, (मद्रं करोतीति । कृ + “क्षेम-

प्रियमद्रेऽण् च ।” ३ । २ । ४४ । इति पक्षे
अण् ।) मद्रङ्करः । यथा क्षेमप्रियमद्रात् कुर्व्वेति
मुग्धबोधव्याकरणम् ॥

मद्रङ्करः, त्रि, (मद्रं भद्रं करोतीति । कृ + “क्षेम-

प्रियमद्रेऽण् च ।” ३ । २ । ४४ । इति चकारात्
खच् । मुम् च ।) मङ्गलकारकः । यथा क्षेम-
ङ्करोऽरिष्टतातिः स्यान्मद्रङ्करशङ्करौ । इति
त्रिकाण्डशेषः ॥

मद्रसुता, स्त्री, (मद्रस्य सुता ।) मद्रराजकन्या ।

सा पाण्डुराजस्य द्वितीया भार्य्या नकुलसहदेव-
जननी च । इति शब्दरत्नावली ॥

मद्वर्गीणः, त्रि, (मद्वर्गस्यायमिति । “अशब्दे

यत् खावन्यतरस्याम् ।” ४ । ३ । ६४ ।
इतिक्रमेण खछयत्प्रत्ययाः ।)
मद्वर्गसम्बन्धी । इति सिद्धान्तकौमुदी ॥

मद्वर्गीयः, त्रि, (मद्वर्गस्यायमिति । “अशब्दे

यत् खावन्यतरस्याम् ।” ४ । ३ । ६४ ।
इतिक्रमेण खछयत्प्रत्ययाः ।)
मद्वर्गसम्बन्धी । इति सिद्धान्तकौमुदी ॥

मद्वर्ग्यः, त्रि, (मद्वर्गस्यायमिति । “अशब्दे

यत् खावन्यतरस्याम् ।” ४ । ३ । ६४ ।
इतिक्रमेण खछयत्प्रत्ययाः ।)
मद्वर्गसम्बन्धी । इति सिद्धान्तकौमुदी ॥

मद्वा, [न्] पुं, (माद्यतीति । मद् + “स्ना-

मदिपद्यर्त्तिपॄशकिभ्यो वनिप् ।” उणा० ४ ।
११२ । इति वनिप् ।) शिवः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (मदनशीले, त्रि ।
यथा, ॠग्वेदे । ८ । ८१ । १९ ।
“इन्द्राय मद्वने सुतं परिष्टोभन्तु नो गिरः ॥”)
“मद्वने मदनशीलाय ।” इति तद्भाष्ये सायनः ॥

मधु, क्ली, (मन्यन्ते विशेषेण जानन्ति जना

यस्मिन् । मन् + “फलिपाटिनमिमनिजनां गुक्-
पटिनाकिधतश्च । उणा० १ । १९ । इति उः
धश्चान्तादेशः । मद्यम् । (यथा, आर्य्यासप्त-
शत्याम् । ४२५ ।
“मधुमदवीतव्रीडा यथा यथा लपति सम्मुखं
बाला ॥”)
क्षीरम् । जलम् । इति विश्वः हेमचन्द्रश्च ॥
रसभेदः । मधुररसः इति यावत् । इति शब्द-
रत्नावली ॥ पुष्परसः । पुलेर मौ इति भाषा ॥
तत्पर्य्यायः । मकरन्दः २ । इत्यमरः । २ । ४ । १७ ॥
मरन्दः ३ मरन्दकः ४ । इति शब्दरत्नावली ॥
क्षुद्राभिर्मक्षिकाभिः कृतम् । मौ इति भाषा ।
क्षौद्रम् २ माक्षिकम् ३ । इत्यमरः । २ । १ । १७ ॥
माक्षीकम् ४ कुसुमासवम् ५ पुष्पासवम् ६
पवित्रम् ७ पित्र्यम् ८ पुष्परसाह्वयम् ९ । इति
राजनिर्घण्टः ॥ माध्वीकम् १० सारघम् ११
मक्षिकावान्तम् १२ वरटीवान्तम् १३ भृङ्ग-
वान्तम् १४ पुष्परसोद्भवम् १५ । इति भाव-
प्रकाशः ॥ (तथास्य पर्य्यायः ।
“मधु पुष्परसं क्षौद्रं मकरन्दश्च माक्षिकम् ॥”
इति वैद्यकरत्नमालायाम् ॥
मधु तु मधुरं कषायानुरसं रुक्षं शीतमग्नि-
दीपनं वर्ण्यं बल्यं लघु सुकुमारं लेखनं हृद्यं
सन्धानं शोधनं रोपणं वाजीकरणं संग्राहि
चक्षुःप्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदो-
मेहहिक्काश्वासकासातिसारच्छर्द्दितृष्णाकृमि-
विषप्रशमनं ह्लादित्रिदोषप्रशमनञ्च तत्तु लघु-
त्वात् कफघ्नं पैच्छिल्यान्माघुर्य्यात् कषायभावाच्च
वातपित्तघ्नम् ।
“बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् ।
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् ॥
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ।
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् ॥
नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ॥”
तत्तु नानाद्रव्यरसगुणवीर्य्यविपाकविरुद्धानां
पुष्परसानां सविषमक्षिकासम्भवत्वाच्चानुष्णो-
पचारम् ।
“उष्णैर्विरुध्यते सर्व्वं विषान्वयतया मधु ।
उष्णार्त्तमुष्णैरुष्णैर्वा तं निहन्ति यथा विषम् ॥
तत् सौकुमार्य्याच्च तथैव शैत्या-
न्नानौषधीनां रससम्भवाच्च ।
उष्णैर्विरुध्येत विशेषतश्च
तथान्तरीक्षेण जलेन चापि ॥
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् ।
अपाकादनवस्थानान्न विरुध्येत पूर्ब्बवत् ॥
मध्वामात् परतस्त्वन्यदामं कष्टं न विद्यते ।
विरुद्धोपक्रमत्वात्तत् सर्व्वं हन्ति यथा विषम् ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)
अस्य सामान्यगुणाः । शीतत्वम् । मृदुत्वम् ।
स्वादुत्वम् । त्रिदोषव्रणनाशित्वम् । कषायानु-
रसत्वम् । रूक्षत्वम् । चक्षुष्यत्वम् । श्वासकास-
नाशित्वञ्च ॥ * ॥ तदष्टविधं यथा । पौत्तिकम् १
भ्रामरम् २ क्षौद्रम् ३ माक्षिकम् ४ छात्रम् ५
अर्घ्यम् ६ औद्दालकम् ७ दालम् ८ । एतेषां
लक्षणाणि यथा, --
“पिङ्गला मक्षिका ज्ञेया महत्यल्पा च सा द्विधा ।
महती पुत्तिकानाम्नी स्वल्पा क्षुद्रेति कथ्यते ॥
मध्यमा मक्षिका नीला माक्षिकेत्यभिधीयते ।
पुत्तिकाभ्रमरक्षुद्रामक्षिकासम्भवं मधु ॥
पौत्तिकाद्युच्यते च्छात्रं वरटीच्छत्रसम्भवम् ।
तपोवने जरत्कारोरर्घ्यं मधुतरूद्भवम् ॥
औद्दालकन्तु बल्मीककारिकीटविनिर्म्मितम् ।
दालमित्यभिनिर्द्दिष्टं वृक्षकोटरकीटजम् ॥”
एतेषां वर्णा यथा, --
“माक्षिकं तैलवर्णं स्यात् घृतवर्णन्तु पौत्तिकम् ।
क्षौद्रं कपिलवर्णं स्याच्छ्वेतं भ्रामरमुच्यते ॥”
एतेषां गुणा यथा, --
पौत्तिकं तेषु वीर्य्योष्णं कषायानुरसान्वयात् ।
वातासृक्पित्तकृद्भेदि विदाहि मदकृन्मधु ॥
“पैच्छिल्यात् स्वादुभूयस्त्वाद् भ्रामरं गुरु
कीर्त्तितम् ।
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ॥
तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् ।
पृष्ठ ३/५९६
श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ॥
छात्रं श्वित्रिक्रिमिहरं रक्तपित्तहरं गुरु ।
अर्घ्यं चक्षुष्यमायुष्यं कफपित्तामवातजित् ॥
औद्दालकं कषायोष्णं कटुकुष्ठविषापहम् ।
दालं कफहरं रूक्षं दीपनं छर्द्दिमेहनुत् ॥
उष्णमुष्णार्त्तमुष्णैश्च हन्यान्मधु विषान्वयात् ।
मधुन्युष्णैर्विरुध्यन्ते वर्ज्जयित्वार्य्यसंज्ञितम् ॥”
उष्णैः रौद्रैः करणैः उष्णं मधु उष्णार्त्तं रौद्र-
पीडितं जनं विषान्वयात् विषतुल्यत्वात्
हन्यात् ॥ * ॥ नवपुराणमधुगुणाः ।
“वृंहणीयं मधु नवं वातश्लेष्महरं परम् ।
पुराणं लघु संग्राहि निर्द्दोषं स्थौल्यनाशनम् ॥
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥”
अत्र केचिन्मधुनोऽग्निसंयोगाभावात् कालपक्व-
तामाहुः ॥ * ॥ मधुजातशर्क्करागुणाः ।
“मधुजा शर्क्करा रूक्षा तृष्णाच्छर्द्यतिसारजित् ।”
इति राजवल्लभे मधुवर्गः ॥ * ॥
अपि च ।
“माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रकं तथा ।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥
नानापुष्परसाहाराः कपिला वनमक्षिकाः ।
याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥
ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः ।
भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥
पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि
विश्रुताः ।
ताभिरुत्पादितं यत्तु तत् क्षौद्रं मधु कथ्यते ॥
महत्यो मक्षिकाः पिङ्गाः पुत्तिका इति कीर्त्तिताः ।
तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥
छत्राकारन्तु पटलं सरघाः पीतपिङ्गलाः ।
ये कुर्व्वन्ति तदुत्पन्नं मधुच्छात्रकमीरितम् ॥
मक्षिकास्तीक्ष्णतुण्डा याः पीताः षट्पद-
सन्निभाः ।
तदुद्भूतं यदर्घ्यार्हं तदार्घ्यं मधु भण्यते ॥
उद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः ।
बल्मीकान्तस्तदुत्पन्नमौद्दालकमुदीर्य्यते ॥
इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः ।
यद्वृक्षकोटरान्तस्तन्मधु दालमिदं क्रमात् ॥
इत्येतस्याष्टधा भेदैरुत्पत्तिः कथिता क्रमात् ।
अथ वक्ष्याम्यहं त्वेषां वर्णवीर्य्यादिकं क्रमात् ॥”
तद्यथा, --
माक्षिकं तैलवर्णं स्यात् श्वेतं भ्रामरमुच्यते ।
क्षौद्रन्तु कपिलाभासं पौत्तिकं घृतसन्निभम् ॥
आपीतवर्णं छत्रं स्यात् पिङ्गलञ्चार्घ्यनामकम् ।
औद्दालं स्वर्णसादृश्यमापीतं दालमुच्यते ॥
माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् ।
भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥
क्षौद्रन्तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् ।
पौत्तिकं मधु रूक्षोष्णं कृम्यस्रपित्तदाहहृत् ॥
श्वित्रमेहकृमिघ्नञ्च विद्याच्छात्रं गुणोत्तरम् ।
अर्घ्यं मध्वतिचक्षुष्यं कफपित्तादिदोषहृत् ॥
औद्दालकन्तु कुष्ठादिदोषघ्नं सर्व्वसिद्धिदम् ।
दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥
नवं मधु भवेत् स्थौल्यं नातिश्लेष्महरं परम् ।
देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनम् ॥
पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यजिह्वा-
मयादि-
ध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्य्यवृद्धिं
विधते ।
आमञ्चेदामगुल्मामयपवनरुजापित्तदाहा-
स्रदोष-
नाशं न्यूनं विशोषं जनयति नयति ध्वंसमप्यण्ड-
वृद्धेः ॥
व्रणशोधनसन्धाने व्रणसंरोपणादिषु ।
साधारण्यान्मधु हितं तत्तुल्या मधुशर्कराः ॥
उष्णं सहोष्णं काले वा स्वयमुष्णमथापि वा ।
आमं मधु मनुष्याणां विषवत्तापदायकम् ॥
कीटकादियुतमम्लदूषितं
यच्च पर्य्युषितकं मधु स्वतः ।
कण्ठकोटरगतञ्च मेचकं
तच्च गेहजनितञ्च दोषकृत् ॥
दण्ड निहत्य यदुपात्तमपास्य दंशां-
स्तादृग्विधं मधु रसायनयोगयोग्यम् ।
हिक्कागुदाङ्कुरविशोफकफव्रणादि-
दोषापहं भवति दोषदमन्यथा चेत् ॥
माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा ।
माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥
यद्गुणं यन्मधु प्रोक्तं तद्गुणास्तस्य शर्कराः ।
विशेषाद्बलवृष्या च तर्पणं क्षीणदेहिनाम् ॥”
इति राजनिर्घण्टः ॥ * ॥ * ॥
मतान्तरे मधुगुणाः ।
“मधु शीतं लघु स्वादु रूक्षं ग्राहि विलेखनम् ।
चक्षुष्यं दीपनं स्वर्य्यं व्रणशोधनरोपणम् ॥
सौकुमार्य्यकरं सूक्ष्मं परं स्रोतोविशोधनम् ।
कषायानुरसं ह्लादि प्रसादजनक्रं परम् ॥
बल्यं मेधाकरं वृष्यं विषदं रोचनं हरेत् ।
कुष्ठार्शःकासपित्तास्रकफमेहक्लमक्रिमीन् ।
मेदस्तृष्णावमिश्बासहिक्कातीसारविड्ग्रहान् ।
दाहक्षतक्षयांस्तत्तु योगवाह्यल्पवातलम् ॥” * ॥
अथ मधुभेदाः ।
“माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रमित्यपि ।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥” * ॥
अथ तेषां लक्षणानि गुणाश्च । तत्र माक्षिकस्य ।
“मक्षिकाः पिङ्गवर्णास्तु महत्यो मधुमक्षिकाः ।
ताभिः कृतं तैलवर्णं माक्षिकं तत् प्रचक्षते ॥
माक्षिकं मधुषु श्रेष्ठं नेत्रामयहरं लघु ।
कामलार्शःक्षतश्वासकाशक्षयविनाशनम् ॥” * ॥
अथ भ्रामरस्य ।
“किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः पुष्पेभ्यः अलिभि-
श्चितम् ।
निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥
भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु ।
स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं
हिमम् ॥ * ॥”
अथ क्षौद्रस्य ।
“मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं
मधु ।
मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत् ॥
गुणैर्माक्षिकवत् क्षौद्रं विशेषान्मेहनाशनम् ॥”
अथ पौत्तिकस्य ।
“याः कृष्णा मशकोपमा लघुतराः प्रायो
महापिण्डितं
वृक्षाणां तरुकोटरान्तरगताः पुष्पासवं कुर्व्वते ।
तास्तज्ज्ञैरिह पुत्तिका निगदितास्ताभिः कृतं
सर्पिषा
तुल्यं यन्मधु तद्बनेचरजनैः संकीर्त्तितं पौत्ति-
कम् ॥
पौत्तिकं मधु रूक्षोष्णं पित्तदाहास्रवातकृत् ।
विदाहि मेहकृच्छ्रघ्नं ग्रन्थ्यादिक्षतशोषि च ॥”
अथ छात्रस्य ।
“वरटाः कपिलाः पीताः प्रायो हिमवतो वने ।
कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥
छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं
गुरु ।
स्वादुपाकं क्रिमिश्चित्ररक्तपित्तप्रमेहजित् ।
भ्रमतृणमोहविषहृत् तर्पणञ्च गुणाधिकम् ॥”
अथार्घ्यस्य ।
“मधूकवृक्षा निर्यासं जरत्कार्ब्बाश्रमोद्भवाः ।
स्रवन्त्यार्घ्यं तदा ख्यातं श्वेतकं मालवे पुनः ॥
तीक्ष्णतुण्डास्तु याः पीता मक्षिकाः षट्पदो-
पमाः ।
अर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः ॥
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् ।
कषायं कटुकं पाके तिक्तञ्च बलपुष्टिकृत् ॥” * ॥
अथोद्दालकस्य ।
“प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्प-
कीटकाः ।
कुर्व्वन्ति कपिलं स्वल्पं तत् स्याद्दौद्दालकं मधु ॥
औद्दालकं रुचिकरं स्वर्य्यं कुष्ठविषापहम् ।
कषायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत् ॥” * ॥
अथ दालस्य ।
“संस्रुत्य पतितं पुष्पात् यत्तु पत्रोपरि स्थितम् ।
मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम् ॥
दालं मधु लघु प्रोक्तं दीपनीयं कफापहम् ।
कषायानुरसं रूक्षं रुच्यं छर्द्दिप्रमेहजित् ॥
अधिकं मधुरं स्निग्धं बृंहणं गुरुभारिकम् ॥”
लघु पाके । गुरुभारिकं तुलितम् ॥ * ॥ अथ
नवपुराणमधुगुणाः ।
“नवं मधु भवेत् पुष्ट्यै नातिश्लेष्महरं सरम् ।
पुराणं ग्राहकं रूक्षं मेदोध्नमतिलेखनम् ॥
मधुनः शर्करायाश्च गुडस्यापि विशेषतः ।
एकसंवत्सरेऽतीते पुराणत्वं स्मृतं बुधैः ॥”
अथ मधुनः शीतस्य गुणाधिक्यमुष्णताया
निषेधः ।
“विषपुष्पादपि रसं सविषा भ्रमरादयः ।
गृहीत्वा मधु कुर्व्वन्ति तच्छीतं गुणबन्मधु ॥
विषान्वयात्तदुष्णन्तु द्रव्येणोष्णेन वा सह ।
उष्णार्त्तस्योष्णकाले च स्मृतं विषसमं मघु ॥”
इति भावप्रकाशः ॥