शब्दकल्पद्रुमः/म

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/५६१

मकारः । स तु पञ्चविंशतितमव्यञ्जनवर्णः ।

अस्योच्चारणस्थानमोष्ठः । इति व्याकरणम् ॥
(“उपूपध्मानीयानामोष्ठौ ।” इति सिद्धान्त-
कौमुदी ॥) अस्य स्वरूपं यथा, --
“मकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली ।
तरुणादित्यसङ्काशं चतुर्व्वर्गप्रदायकम् ॥
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।”
इति कामधेनुतन्त्रम् ॥
(वङ्गीयाक्षरैः) अस्य लेखनप्रकारः । यथा, --
“ऊर्द्ध्वाधःक्रमतो रेखा वामे वक्रा तु कुण्डली ।
पुनश्चाधोगता सैव तत ऊर्द्ध्वगता पुनः ।
ब्रह्मा शम्भुश्च विष्णुश्च क्रमशस्तासु तिष्ठति ॥”
अस्य ध्यानं यथा, --
“कृष्णां दशभुजां भीमां पीतलोहितलोचनाम् ।
कृष्णाम्बरधरां नित्यां धर्म्मकामार्थमोक्षदाम् ।
एवं ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
तत्प्रणाममन्त्रो यथा, --
“त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम् ॥”
इति वर्णोद्धारतन्त्रम् ॥
तस्य नामानि ।
“मः काली क्लेशितः काला महाकालो
महान्तकः ।
वैकुण्ठो वसुधा चन्द्री रविः पुरुषराजकः ॥
कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः ।
जठरञ्च भ्रमा मानं लक्ष्मीर्मातोग्रबन्धनौ ॥
विषं शिवो महावीरः शशिप्रभा जनेश्वरः ।
प्रमत्तः प्रियसू रुद्रः सर्व्वाङ्गो वह्निमण्डलम् ।
मातङ्गमालिनी बिन्दुः श्रवणा भरथो
वियत् ॥” ३६ ॥
इति तन्त्रोक्तवर्णाभिधानम् ॥

मः, पुं, (माति निर्म्माति जगदिति । मा + कः ।)

शिवः । चन्द्रमाः । ब्रह्मा । इत्येकाक्षरकोषः ॥
यमः । समयः । विषम् । मधुसूदनः । इति
मेदिनी । मे, १ ॥

मक, इ ङ भूषे । गतौ । इति कविकल्पद्रमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) इ मङ्क्यते । ङ
मङ्कते हारो जनम् । गत्यर्थोऽप्ययमिति रामः ।
इति दुर्गादासः ॥

मकरः, पुं, (कृणातीति । क हिसांयाम् । क +

अच् । ततः मनुष्याणां करः हिंसकः । यद्वा,
मुखं किरतीति । मुख + कॄ + कः । उभयत्रापि
पृषोदरादित्वात् साधुः । इति अमरटीकायां
रघुनाथचक्रवर्त्ती ।) जलजन्तुविशेषः इत्यमरः ।
१ । १० । २० ॥ (पादिनां गणान्तर्गतो जल-
जन्तुविशेषः ।
“कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कवः ।
घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ।
यथास्य गुणाः ।
“मत्स्यानां मकरः श्रेष्ठो दीपनो वातनाशनः ।
रुचिप्रदः शुक्रकरो ग्राही चोष्णविकारहा ।
मूत्राश्मरीणां शमनो गुल्मातीसारनाशनः ॥”
इति हारीते प्रथमस्थान एकादशेऽध्याये ॥)
मकर इति गङ्गाया वाहनत्वेन ख्यातः । इति
सारसुन्दरी । यथा । सितमकरनिषण्णां शुभ्र-
वर्णां त्रिनेत्रामित्यादि स्मृत्युक्तगङ्गाध्यानम् ॥
स च कामदेवस्य ध्वजचिह्नम् । मकरध्वज
इत्यमरकोषदर्शनात् । मेषादिद्वादशराश्यन्त-
र्गतो दशमराशिः । तत्पर्य्यायः । आकोकेरः २ ।
अस्य अधिष्ठातृदेवता मृगास्यमकरः । उत्त-
राषाढायाः शेषपादत्रयं श्रवणासमुदायः
धनिष्ठायाः पूर्ब्बार्द्धं एतन्नवपादेन भवति । स च
पृष्ठोदयः भूमिराशिः अर्द्धशब्दकरः दक्षिण-
दिक्स्वामी पिङ्गलवर्णः रूक्षः भूमिचारी
शीतलस्वभावः अल्पसन्तानः अल्पस्त्रीसङ्गः
वातप्रकृतिः वैश्यवर्णः श्लथाङ्गश्च । अत्र जातस्य
फलम् । सदानन्दः । पितृमातृभक्तः श्रवणा-
मकरजातश्चेत् बहुविवाहः । इति जातका-
दयः ॥ अथ, रवियुक्तमकरजातफलम् ।
“सदाटनो मित्रगणो विपक्षतां
प्रयाति नूनं धनवर्ज्जितः स्यात् ।
यद्युष्णरश्मिर्मकरोपगः स्यात्
प्रसूतिकाले स तु भाग्यहीनः ॥”
अथ चन्द्रयुक्तमकरजातफलम् ।
“कलितशीतभयः किल गीतवित्-
तमरुषा सहितो मदनातुरः ।
निजकुलोत्तमवृत्तिकरः परं
हिमकरे मकरे पुरुषो भवेत् ॥”
अथ मङ्गलयुक्तमकरजातफलम् ।
“पराक्रमप्राप्तवरः प्रतिष्ठः
सदङ्गनाप्राप्तिवराङ्गनः स्यात् ।
श्रिया समेतो मकरे महीजे
प्रसूतिकाले कुलपालकश्च ॥”
अथ बुधग्रहस्थितमकरजातफलम् ।
“रिपुभयेन युतः कुमतिर्नरः
स्मरविहीननरः परकर्म्मठः ।
मकरगे सति शीतकरात्मजे
व्यसनतः स नतः पुरुषो भवेत् ॥”
अथ गुर्व्वाश्रितमकरजातफलम् ।
“न मनोरथसिद्धिमुपैति नरो
वचसामधिपे मकरोपगते ।
भवयुक् कुमतिः परकर्म्मरतो
बहुतोषयुतो मदनापहतः ॥”
अथ शुक्राश्रितमकरजातफलम् ।
“अतिरतिर्जनने त्वजनने नृणां
व्ययभयं कृशता बहुचिन्तया ।
भृगुसुते मृगराशिगते सदा
कविजने विजनेऽपि मतिर्भवेत् ॥”
अथ शनिग्रहस्थितमकरजातफलम् ।
“मकरोपगतः खलु भानुमुतः
कृपया सहितो नृपमानयुतः ।
वरगन्धविभूषणभूषितगात्र-
स्तरुणीरमणः पङ्कजनेत्रः ॥”
इति कोष्ठीप्रदीपः ॥
(व्यूहभेदः । यथा, कामन्दकीये नीतिसा रे ।
१८ । ४८ ।
“यायाद्व्यूहेन महता मकरेण पुरो भये ॥”)

मकरकुण्डलं, क्ली, (कुण्डलम् मकर इवेत्युप-

मितसमासः ।) मकराकृतिकर्णभूषणम् । यथा,
“वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ।
महाकिरीटकटकः स्फुरन्मकरकुण्डलः ॥”
इति श्रीभागवते ६ स्कन्धे ४ अध्यायः ३७ श्लोकः ॥
स्फुरती मकरकुण्डले यस्य सः । इति तट्टी-
कायां श्रीधरस्वामी ॥

मकरकेतनः, पुं, (मकरेण चिह्नितं केतनं ध्वजो

यस्य ।) कन्दर्पः । इति मीनकेतनशब्दटीकायां
भरतेन सङ्केतितम् ॥

मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।)

कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा,
माधे । ३ । ६१ ।
“शरीरिणा जैत्रशरेण यत्र
निशङ्कमूषे मकरध्वजेन ॥”)
रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो-
दयः । तस्य करणप्रकारो यथा, --
“पलं मृदु स्वर्णदलं रसेन्द्रं
पलाष्टकं षोडशगन्धकस्य ।
शोणैः सुकार्पासभवप्रसूनैः
सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥
तत् काचकुम्भे निहितं सुगाढे
मृत्कर्पटैस्तद्दिवसत्रयञ्च ।
पचेत् क्रमाग्नौ सिकताख्ययन्त्रे
ततो रजः पल्लवरागरम्यम् ॥
निगृह्य चैतस्य पलं पलानि
चत्वारि कर्पूररजस्तथैव ।
जातीफलं सोषणमिन्द्रपुष्पं
कस्तूरिकाया इह शाण एकः ॥
चन्द्रोदयोऽयं कथितोऽस्य माषो
भुक्तोऽहिबल्लीदलमध्यवर्त्ती ॥”
अस्य गुणाः ।
“मदोन्मदानां प्रमदाशतानां
गर्व्वाधिकत्वं श्लथयत्यकाण्डे ।
शृतं घनीभूतमतीव दुग्धं
मृदूनि मांसानि समण्डकानि ।
मांसानि मिष्टानि भवन्ति पथ्य-
मानन्ददायीन्यपराणि चात्र ॥”
बलीपलितनाशनस्तनुभृतां वयस्तम्भनः
समस्तगदखण्डनः प्रचुरयोगपञ्चाननः ।
गृहेषु रसराडयं भवति यस्य चन्द्रोदयः
स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥”
इन्द्रपुष्पं लवङ्गम् । उक्तपरिमाणलक्षणमुप-
लक्षणम् । दाक्षिणात्याः शोणकार्पासपुष्पद्रव-
मेव गृह्णन्ति । पाश्चात्याः निर्वृन्ततत्पुष्पेणैव
यावदार्द्रत्वं मर्द्दयन्ति । उभयथैव निष्पत्तेरदोषः ।
पृष्ठ ३/५६२
तथैवेति सर्व्वत्रान्वयः । * । शास्त्रान्तराद्बिशेषो
लिख्यते ।
“रतिकाले रतान्ते च पुनः सेव्यो रसोत्तमः ।
स्थावरं जङ्गमविषं जङ्गमं विषवारि वा ।
न विकाराय भवति साधकेन्द्रस्य वत्सरान् ॥
मृत्युञ्जयो यथाभ्यासात् मृत्युं जयति देहिनः ।
तथाय साधकेन्द्रस्य जरामरणनाशनः ॥”
शास्त्रान्तरे मकरद्धजो नाम । इति चन्द्रोदयः ।
इति रसेन्द्रचिन्तामणिः ॥

मकरन्दः, पुं, (मकरमपि अन्दति बध्नाति धारयतीति

वा । अदि बन्धने + अण् ततः शकन्धादित्वात्
साधुः ।) पुष्परसः । इत्यमरः । २ । ४ । १७ ॥
(यथा, रघौ । ४ । ८८ ॥
“प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु-
र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥”)
कुन्दपुष्पवृक्षः । किञ्जल्के क्ली । इति राज-
निर्घण्टः ॥

मकरन्दवती, स्त्री, (मकरन्दस्तत्समूहोऽस्या

अस्तीति । मकरन्द + मतुप् । मस्य वः ङीप् ।)
पाटलापुष्पम् । इति शब्दचन्द्रिका ॥ मधु-
विशिष्टे त्रि ॥

मकरव्यूहः, पुं, (मकरः मकराकारः व्यूहः ।)

मकराकारसैन्यविन्यासः । इति महाभारतम् ॥

मकराकरः, पुं, (मकराणामाकरः । षष्ठीतत्-

पुरुषः ।) समुद्रः । इति हेमचन्द्रः । १०७४ ॥
(यथा, कथासरित्सागरे । ४३ । १३७ ।
“मकराकरमुल्लङ्क्य प्राप तत्तीरवर्त्ति सः ॥”)

मकराकारः, पुं, (मकरस्येवाकारो यस्य ।) षड्-

ग्रन्थः । इति शब्दचन्द्रिका ॥ काँटाकरञ्ज ।
इति भाषा ॥ मकरमत्स्याकृतिश्च ॥

मकराङ्कः, पुं, (मकरस्तदाकारोऽङ्कश्चिह्नं यस्य ।)

कामदेवः । (मकरा अङ्केऽस्य ।) समुद्रः । इत्य-
जयपालः ॥

मकरालयः, पुं (आलीयते अस्निन्निति आलयः ।

मकराणामालयः ।) समुद्रः । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते । १४ । ७६ । १२ ॥
“ततस्तं वारणं क्रुद्धं शरजालेन पाण्डवः ।
निवारयामास तदा वेलेव मकरालयम् ॥”)

मकरी, [न्] पुं, समुद्रः । मकरोऽस्यास्तीति-

व्युत्पत्त्या इन्प्रत्ययनिष्पन्नोऽयम् ॥

मकुटं, क्ली, (मङ्कते अनेनेति । मकि भूषणे +

बाहुलकात् उटः । आगमशास्त्रस्यानित्यत्वात्
न नुम् ।) मुकुटम् । इति भरतधृतद्बिरूपकोषः ॥

मकुतिः, स्त्री, (मकि + उतिः । पृषोदरादित्वात्

साधुः ।) शूद्रशासनम् । इति त्रिकाण्डशेषः ॥

मकुरः, पुं, (मङ्कते इति । मकि + “मकुर-

दर्दुरौ ।” उणा० । १ । ४१ । इति उरच् ।)
कुलालदण्डः । वकुलः । कोरकः । आदर्शः ।
इति हेमचन्द्रः । ३ । ३४८ ॥

मकुलः, पुं, क्ली, (मङ्कते भूषयति वृक्षम् । मकि +

बाहुलकादुलच् ।) वकुलः । मकुलः । इति
शब्दरत्नावली ॥

मकुष्टकः, पुं, (मकि भूषायां + उः । पृषोदरादि-

त्वात् साधुर्मकुः । मकुं भूषां स्तकति प्रति-
हन्तीति । स्तक + पचाद्यच् ।) वनजातमुद्गः ।
मोठ इति हिन्दी भाषा ॥ मुगानि इति
वङ्गभाषा । तत्पर्य्यायः । मयष्टः २ वनमुद्गः ३
कृमीलकः ४ अमृतः ५ अरण्यमुद्गः ६ वल्ली-
मुद्गः ७ । अस्य गुणाः । कषायत्वम् । मधुर-
त्वम् । रक्तपित्तज्वरदाहहरत्वम् । पथ्यत्वम् ।
रुचिकारित्वम् । सर्व्वदोषजयकारित्वञ्च । इति
राजनिर्घण्टः ॥
“मकुष्टो बातलो ग्राही कफपित्तहरो लघुः ।
वान्तिजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥”
इति भावप्रकाशः ॥

मकुष्ठः, पुं, (मङ्कते मङ्क्यते इति वा । बाहुलकात्

उः मकुः । तिष्ठतीति स्था + कः स्थः । मकु-
श्चासौ स्थश्चेति मकुष्ठः । पूर्ब्बपदादिति । ८ ।
३ । १०६ । षत्वम् ।) ब्रीहिभेदः । मन्थरे त्रि ।
इति मेदिनी । ठे, १६ ।
“मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ।
(ब्रीहिभेदार्थे यथा, पर्य्यायो गुणाश्च ।
मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः ।
वह्निजिन्मधुरः पाके कृमिकृज्ज्वरनाशनः ॥”
इति भांवप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मकुष्ठकः, पुं, (मकुष्ठ + स्वार्थे कन् ।) वनमुद्गः ।

इति भरतः ॥ (तथाच पर्य्यायाः ॥
मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अस्य गुणा यथा, सुश्रुते सूत्त्रस्थाने ४६ अः ।
“मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥”)

मकूलकः, पुं, (मकि मण्डने + पिच्छादित्वादूलच्

बाहुलकादनुषङ्गलोपः । स्वार्थे कन् ।” इत्यमर-
टीकायां रघुनाथः ।) मुकूलकः । दन्तीवृक्षः ।
इत्यमरटीकायां रमानाथः ॥ (पर्य्यायोऽस्य
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“लघुदन्ती विशल्या च स्याद्दुम्बरपर्ण्यपि ।
तथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया ।
वाराङ्गी चैव कथिता निकुम्भश्च मकूलकः ॥”)

मक्क, ङ गतौ । इति कविकल्पदुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) कोपधः । ङ मक्कते ।
इति दुर्गादासः ॥

मक्कल्लः, पुं, (मक्कं गमनं आत्यन्तिकगतिं मरणं लाति

आदत्ते योजयतीत्यर्थः । ला + कः पृषोदरात्
लकारागमे साधुः ।) शूलरोगविशेषः । यथा,
“सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् ।
यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा ॥”
इति चक्रपाणिदत्तः ॥

मक्कुलं, क्ली, (मक्क् + उलच् ।) शिलाजतु । इति

शब्दरत्नावली ॥
(विवरणमस्य शिलाजतुशब्दे ज्ञातव्यम् ॥)

मक्कोलः, पुं, खटिका । यथा, --

“मक्कोलो वर्णलेखा च कठिनी कक्खटी खटी ।
इति शैलवर्गे त्रिकाण्डशेषः ॥

मक्ष, रोषे । संघाते । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) मक्षति । इति दुर्गा-
दासः ॥

मक्षः, पुं, (मक्ष् + घञ् ।) स्वदोषाच्छादनम् ।

इति हारावली ॥ क्रोधः । समूहः । इति
पूर्ब्बोक्तधात्वर्थदर्शनात् ॥

मक्षवीर्य्यः, पुं, (मक्षं निविडं वीर्य्यमस्य ।)

प्रियालवृक्षः । इति राजनिर्घण्टः ॥

मक्षिका, स्त्री, (मशति शब्दायते इति ।

मश + “हनिमशिभ्यां सिकन् ।” उणा० ।
४ । १५३ । इति सिकन् ।) कीटविशेषः ।
माछि इति भाषा ॥ (यथा, भागवते । ५ ।
१४ । ४२ ।
“आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥”)
तत्पर्य्यायः । मक्षीका २ भम्भः ३ माचिका ४
गन्धलोलुपा ५ पतङ्गिका ६ पत्तिका ७ । इति
शब्दरत्नावली ॥ अमृतोत्पन्ना ८ वमनीया ९
पलङ्कषा १० । इति राजनिर्घण्टः ॥ नीला
मक्षिका वर्वणा ११ । इत्यमरः । २ । ५ । २६ ॥
तन्नाशकधपो यथा, --
“त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् ।
लाक्षासर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः ।
एतैर्धूपैर्मक्षिकाणां मशकानां विनाशनम् ॥”
इति गारुडे १८१ अध्यायः ॥

मक्षिकामलं, क्ली, (मक्षिकाणां मधुमक्षिकाणां

मलम् ।) सिक्थकम् । इति राजनिर्घण्टः ॥
(विशेषोऽस्य सिक्थशब्दे ज्ञेयः ॥)

मक्षीका, स्त्री, (मक्षिका । पृषोदरात् दीर्घः ।)

मक्षिका । इति राजनिर्घण्टः ॥ (रोगविशेषे-
णास्या अरिष्टत्वं यथा, --
“स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्यन्ति
मक्षिकाः ।
स प्रमेहेण संस्पर्शं प्राप्यते नैव हन्यते ॥”
इति चरके इन्द्रियस्थाने पञ्चमेऽध्याये ॥)

मख, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) मखति ॥

मख, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ मङ्ख्यते इति दुर्गादासः ॥

मखः, पुं, (मखन्ति गच्छन्ति देवा अत्रेति । मख

सर्पणे + “हलश्च ।” ३ । ३ । १२७ । इति घञ् ।
संज्ञापूर्ब्बकत्वान्न वृद्धिः । यद्वा, पुंसीति घः ।)
यज्ञः । इत्यमरः । २ । ७ । १३ ॥ यथा, देवी-
भागवते । १ । १९ । २३ ।
“कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।”

मखत्राता, [ऋ] पुं, (त्रायते रक्षतीति कर्त्तरि

तृच् । मखस्य त्राता । विश्वामित्रमखरक्षणा-
त्तथात्वम् ।) रामः । यथा, --
“रावणारिर्मखत्राता सीतायाः पतिरित्यपि ।”
इति शब्दरत्नावली ॥

मखवह्निः, पुं, (मखस्य वह्निः मखाराध्यो वह्नि-

रिति यावत् ।) यज्ञाग्निः । इति जटाधरः ॥
पृष्ठ ३/५६३

मखानलः, पुं, (मखस्य अनलः मखसाध्योऽनल

इत्यर्थः ।) यज्ञाग्निः । तत्पर्य्यायः । महा-
वीरः २ । इति त्रिकाण्डशेषः ॥

मखान्नं, क्ली, (मखे मखकाले भोज्यमन्नम् ।)

खाद्यबीजभेदः । माखाना इति भाषा ॥ तत्-
पर्य्यायः । पद्मबीजाभम् २ पानीयफलम् ३ ।
“मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्द्दिशेत् ।”
इति भावप्रकाशः ॥

मखासुहृत्, [द्] पुं, शिवः । मखस्य दक्षयज्ञस्य

असुहृत् शत्रुः नाशक इत्यर्थः । इति हेम-
चन्द्रः । २०० ॥

मग इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ मङ्ग्यते । इति दुर्गा-
दासः ॥

मगधः, पुं, (मगि + अच् । पृषोदरादित्वान्निष्पन्नः ।

मगं दोषं दधाति । धा + “आतोऽनुपसर्गे ।”
३ । २ । ३ । इति कः । यद्वा, कण्ड्वादिमगध + अच् ।)
कीकटदेशः । अधुना वेहाराख्यदेशस्य दक्षिण-
भागः । तद्देशस्थे पुं भूम्नि । इति शब्दरत्ना-
वली ॥ (यथा, महाभारते । ८ । ४५ । ४८ ।
“इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोशलाः ।
अर्द्धोक्ताः कुरुपाञ्चालाः शाल्याः कृत्स्नानु-
शासनाः ॥”)
बन्दी । इति हेमचन्द्रः । ७९५ ॥

मगधा, स्त्री, (मगधस्तन्नामा देश उत्पत्तिस्थान-

त्वेनास्त्यस्या इत्यर्श आदिभ्योऽच् । स्त्रियां
टाप् ।) पिप्पली । इति रत्नमाला ॥ (यथा,
सुश्रुते कल्पस्थाने सप्तदशाध्याये ।
“हरेणुमगधाजास्थि मज्जैलायकृदन्वितम् ॥”)

मगधेश्वरः, पुं, (मगधस्य तदाख्यदेशस्येश्वरः ।)

जरासन्धराजः । इति हेमचन्द्रः ॥ मगधदेशा-
धिपमात्रे च ॥ (यथा, रघौ । ६ । २० ।
“प्राक्सन्निकर्षं मगधेश्वरस्य
नीत्वा कुमारीमवदत् सुनन्दा ॥”)

मगधोद्भवा, स्त्री, (मगधे उद्भवो यस्याः ।) पिप्पली ।

इति राजनिर्घण्टः ॥ (यथा, सुश्रुते कल्प-
स्थान एकादशाध्याये ।
“फलं बृहत्या मगधोद्भवाना-
मादाय कल्कं फलपाककाले ।”)
मगधदेशजाते त्रि ॥

मग्नः, त्रि, (मस्ज् + क्तः । “ओदितश्च ।” ८ । २ । ४५ ।

इति निष्ठातकारस्य नत्वम् । “स्कोः संयोगाद्यो
रन्ते च ।” ८ । २ । २९ । इति सलोपः । चोः
कुत्वञ्च ।) स्नातः । जलान्तःप्रविष्टः । डोवा
इति भाषा ॥ (यथा, देवीभागवते । १ । ६ । २५ ।
“केन सृष्टं कथं जातं मग्नावावां जले स्थितौ ॥”)
मस्जधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥

मघ, इ ङ भूषे । कविकल्पद्रुमः ॥ (भ्वा० आत्म०-

सक० सेट् ।) इ, मङ्घ्यते । इति दुर्गादासः ॥

मघ, इ ङ कैतवाध्यार्थयोः । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-द्यूतक्रीडादौ अक०-गतौ
निन्दायां आरम्भे च सक०-सेट् ।) कैतवमिह
कितवक्रिया अक्षक्रीडनादिः । इ मङ्घ्यते ङ
मङ्घते अक्षैः कितवः । अध्यर्थो गतिनिन्दा-
रम्भजवाः । कैतवजवयोरेवायमिति केचित् ।
इति दुर्गादासः ॥

मघः, पुं, (मघि + अच् । पृषोदरात् साधुः ।)

द्बीपविशेषः । इति मेदिनी । घे, ४ ॥ देश-
विशेषः । स तु मग्नामकम्लेच्छानां स्थानम् ॥
पुष्पविशेषे क्ली । इति शब्दरत्नावली ॥ (क्लीं
मंहनीयं धनम् । यथा, ऋग्वेदे । ७ । २१ । ७ ।
“इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहु
वन्तसातौ ॥”
“मघानि मंहनीयानि धनानि ।”) इति तद्भाष्ये
सायनः ।)

मघवती, स्त्री, (मघवत् + ङीप् । इन्द्राणी ।

इति मुग्धबोधव्याकरणम् ॥

मघवा, [न्] पुं, (मह्यते पूज्यते इति । मह-

पूजायाम् । “श्वन्नुक्षन् पूषन् प्लीहन्निति ।”
उणा० । २ । १५८ । इति कनिन् । निपातनात्
हस्य घः अवुगागमश्च ।) इन्द्रः । इत्यमरः १ ।
१ । ४४ ॥ (यथा, रघौ । १ । २६ ।
दुदोह गां स यज्ञाय शस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्बयम् ॥”)
जिनानां द्वादशचक्रवर्त्त्यन्तर्गतचक्रवर्त्तिविशेषः ।
इति हेमचन्द्रः ॥ (सप्तमद्वापरस्य व्यासः ।
यथा, देवीभागवते । १ । ३ । २८ ।
“मघवा सप्तमे प्राप्रे वशिष्ठस्त्वष्टमे स्मृतः ।”)

मघवान्, [त्] पुं, (भघवत् । “मघवा बहुलम् ।”

६ । ४ । १२८ । इति पक्षे तृ-आदेशः । ऋ
इत् ।) इन्द्रः । इत्यमरटीकायां रमानाथः ।
व्याकरणञ्च ॥ (यथा, महाभारते । ३ । ४५ । १० ।
“एको वै रक्षिता चैव त्रिदिवं मघवानिव ॥”
दनोः पुत्त्रभेदः । यथा, मात्स्ये । ६ । १८ ।
“मरीचिर्मघवांश्चैव इरागर्भशिरास्तथा ।”)

मघा, स्त्री, (मह् + घः । हस्य घत्वम् ।) औषध-

विशेषः । इति धरणिः ॥ अश्विन्यादिसप्तविंश-
नक्षत्रान्तर्गतदशमनक्षत्रम् । तत्तु लाङ्गलाकृति
पञ्चतारात्मकम् । गृहाकृति । इति केचित् ।
अस्याधिष्ठातृदेवता पितृगणः । यथा, --
“लाङ्गलाकृतिनि पञ्चतारके
चारुकेशि पितृभे शिरोगते ।
नीलनीरदविनिन्दिलोचने !
वृश्चिकाद्विगलितं कलाशतम् । १ । ४० ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥
तत्र जातफलम् ।
कठोरचित्तः पितृमातृभक्त-
स्तीव्रस्वभावस्त्वनवद्यविद्यः ।
चेज्जन्मभं यस्य मघानघः स्या-
न्मतिः सदारातिविनाशदक्षा ॥”
इति कोष्ठीप्रदीपः ॥
मघाशब्दो बहुवचनान्तोऽपि दृश्यते । यथा, --
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः ।
यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥
अपि च ।
नवोदके नवान्ने च गृहप्रच्छादने यथा ।
पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥”
इति तिथ्यादितत्त्वम् ॥
एकवचनान्तप्रयोगो यथा, --
“मघायां पिण्डदानेन ज्येष्ठपुत्त्रो विनश्यति ।”
इति मलमासतत्त्वम् ॥
(अस्यां व्याधिजननेऽरिष्टत्वं यथा, --
“मघा भरणीहस्तेषु मूले वा ज्वरितोऽपि वै ।
मृत्पुमापद्यते सोऽपि नात्र कार्य्या विचारणा ॥
“नवरात्र तथाश्लेषा मघास्वेति यमालयम् ॥”
इति हारीते द्वितीये स्थाने चतुर्थेऽध्याये ॥)

मघात्रयोदशी, स्त्री, (मघा दशमनक्षत्त्रम् । मघा-

युक्ता त्रयोदशी । इति मध्यपदलोपी कर्म्म-
धारयः ।) मघानक्षत्रयुक्तभाद्रकृष्णत्रयोदशी ।
यथा । प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयोदश्यां मघायुक्तायां
अनिषिद्धयत्किञ्चिद्द्रव्येण श्राद्धमावश्यकम् ।
शङ्खादिविधिवाक्येषु नक्षत्रविशिष्टश्रुतेः । ततश्च
केबलत्रयोदशी केबलमघा श्राद्धार्थवादा अपि
कऌप्तविशिष्टविधिप्राप्तकर्म्मणो नित्यत्वबोधका
न तु केवलविध्यन्तरकल्पका गौरबात् । तथा च
शङ्खः ।
“प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्प श्राद्धं हि कर्त्तव्यं मधुना पायसेन च ॥”
मनुः ।
“यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
तदप्यक्षयमेव स्याद्बर्षासु च मघासु च ॥”
विष्णुधर्म्मोत्तरे ।
“प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥”
शातातपः ।
“पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ।
तस्माद्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च ॥”
अत्रान्नमात्रश्रुतेः मनुवचने यत्किञ्चित् श्रुतेश्च
शङ्खोक्तपायसः फलातिशयार्थः गुणविशेषे फल-
विशेषः स्यादिति न्यायात् । व्यक्तं विष्णुधर्म्मोत्तरे ।
“मघायुक्ता च तत्रापि शस्ता राजंस्त्रयोदशी ।
तत्राक्षयं भवेत् श्राद्धं मधुना पायसेन च ।
तत्र अश्बयुक्कृष्णपक्षे । अत्र यत् श्राद्धं तन्मधु-
योगेन वा अक्षयं भवेत् । अतएव मनुवचने
यत्किञ्चिन्मधुना मिश्रमित्यनेन मधुमात्रयुक्तत्व-
मुक्तम् । अतोऽत्र सुतरां शूद्रस्याधिकारः ॥ * ॥
अत्र गजच्छायायोगे फलातिशयः । तथा कृत्य-
चिन्तामणौ स्मृतिः ।
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः ।
यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥”
करे हस्तानक्षत्रे । कन्यादशमांशोपरि सपाद-
त्रयोविंशांशः इति यावत् ॥ * ॥ अविभक्ता-
नामप्यत्र पृथक् श्राद्धमावश्यकम् । यथा,
श्राद्धचिन्तामणौ स्मृतिः ।
“विभक्ता अविभक्ता वा कुर्य्युः श्राद्धमदैविकम् ।
मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥”
पृष्ठ ३/५६४
अदैविकं प्रत्याब्दिकैकोद्दिष्टम् । अन्यत्र कृष्ण-
पक्षादौ नाधिकारः न नित्याधिकारः सपिण्डी-
करणान्तानि यानि श्राद्धानि षोडश । पृथङ्-
नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचिदित्य-
त्रापिना समुच्चितस्यापृथग्द्रव्यस्य पुंसः सपिण्डी-
करणान्तानीति विशेषणात्तदुत्तरश्राद्धानां
पृथक्त्वमपि प्रतीयते ॥ * ॥ मघात्रयोदशी-
निमित्तके श्राद्धे पुत्त्रवता पिण्डा न देयाः ।
“भौजङ्गीं तिथिमासाद्य यावच्चन्द्रार्कसङ्गमम् ।
तत्रापि महती पूजा कर्त्तव्या पितृदैवते ।
ऋक्षे पिण्डप्रदानन्तु ज्येष्ठपुत्त्री विवर्जयेत् ॥”
इति देवीपुराणात् । भौजङ्गी पञ्चमी । चन्द्रार्क-
सङ्गमोऽमावास्या । पितृदैवते ऋक्षे मघायाम् ।
शातातपः ।
“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते ।
स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥
अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्त्विति ।
इति तिथ्यादितत्त्वम् ॥

मघाभवः, पुं, (मघायां भवः ।) शुक्रग्रहः । इति

हेमचन्द्रः ॥ मघानक्षत्रजाते त्रि ॥

मघाभूः, पुं, (मघायां मघासमीपस्थपूर्ब्बफल्-

गुन्यां भवतीति भू + क्विप् ।) शुक्राचार्य्यः ।
इति त्रिकाण्डशेषः ॥

मघी, स्त्री, (मघा तदाख्यनक्षत्रं उत्पत्तिकारण-

तयास्त्यस्या इति । मघा + अर्शआद्यच् । गौरा-
दित्वात् ङीष् ।) धान्यभेदः । इति मेदिनी । धे, ३ ॥

मघोनी, स्त्री, (मघोनः पत्नीति । मघवन् +

स्त्रियां ङीष् । वकारस्य च सम्प्रसारणम् ।)
इन्द्राणी । इति मुग्धबोधव्याकरणम् ॥

मङ्कुरः, पुं, (मङ्कयति भूषयतीति । मकि + बाहु-

लकादुरच् ।) मुकुरः । इत्यमरटीकायां भरतः ॥

मङ्क्ता, [ऋ] त्रि, (मज्जति स्नाति इति । मस्ज्

+ तृच् । “मस्जिनशोर्झलि ।” ७ । १ । ६० ।
इति नुम् ।) स्नानकर्त्ता । इति मस्जधातोः
कर्त्तरि तृन्प्रत्ययेन निष्पन्नम् ॥

मङ्गः, पुं, (मङ्गति सर्पतीति मगि + अच् ।)

नौकाशिरः । इति हेमचन्द्रः ॥

मङ्गलं, क्ली, (मङ्गति हितार्थं सर्पति मङ्गति

दुरदृष्टमनेनास्माद्वेति । मगि + “मङ्गतेरलच् ।”
उणा० ५ । ७० । इत्यलच् ।) अभिप्रेतार्थ-
सिद्धिः । इति तिथ्यादितत्त्वम् ॥ तद्वति, त्रि ।
इत्यमरः ॥ यथा, रामायणे । २ । २३ । ३० ।
“मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव ॥”
तत्पर्य्यायः । भावुकम् २ भव्यम् ३ कल्याणम् ४
भविकम् ५ शुभम् ६ । क्षेमम् ७ प्रशस्तम् ८
भद्रम् ९ स्वश्रेयसम् १० शिवम् ११ अरिष्टम् १२
कुशलम् १३ रिष्ठम् १४ मद्रम् १५ शस्तम् १६ ।
इति शब्दरत्नावली ॥ (यथा, भागवते । ५ ।
१४ । ३४ ।
“मङ्गलाय च लोकानां क्षेमाय च भवाय च ।”
“कल्याणं मङ्गलं क्षेमं शातं शर्म्म शिवं शुभम् ।
इति वैद्यकरत्नमालायाम् ॥
शिखिहयगजगोधा रासभो भृङ्गराजो
मुखरपिककपोतो पोतकी शूकरी वा ।
तदनु विहगराजो मङ्गलाशंसिनः स्यु-
र्वदति शकुनवेत्ता वामतो निर्गमे वः ॥”
इति हारीते द्वितीयस्थाने सप्तमेऽध्याये ।)
सर्व्वार्थरक्षणम् । इति मेदिनी । ले, १२० ॥ * ॥
मङ्गललक्षणं यथा, --
“प्रशस्ताचरणं नित्यमप्रशस्तविवर्ज्जनम् ।
एतद्धि मङ्गलं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
मङ्गलजनकद्रव्याणि । यथा, --
“पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यञ्च दर्पणम् ।
दध्याज्यं मधु लाजञ्च पुष्पं दूर्व्वाक्षतं सितम् ॥
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ।
पर्णञ्च परिपक्वानि फलानि विविधानि च ॥
पतिपुत्त्रवतीं नारीं प्रदीपं मणिसुत्तमम् ।
मुक्तां प्रसूनमालाञ्च सद्योमांसञ्च चन्दनम् ॥
ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने ! ।
शृगालं नकुलं चासं शवं वामे शुभावहम् ॥
राजहंसं मयूरञ्च खञ्जनञ्च शुकं पिकम् ।
पारावतं शङ्खचिल्लं चक्रवाकञ्च मङ्गलम् ॥
कृष्णसारञ्च सुरभीं चमरीं श्वेतचामरम् ।
धेनुं वत्सप्रयुक्ताञ्च पताकां दक्षिणे शुभाम् ॥
नानाप्रकारवाद्यञ्च शुश्राव मङ्गलध्वनिम् ।
हरिशब्दस्य सङ्गीतं घण्टाशङ्खध्वनिन्तथा ।
दृष्ट्वा श्रुत्वा स जगाम हर्षेण तात ! मन्दिरम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकागमनं
नाम १६ अध्यायः ॥ * ॥ अपि च ।
“ददर्श वर्त्मन्येवञ्च मङ्गलार्हं शुभप्रदम् ।
वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम् ॥
वामे शवं शिवां पूर्णकुम्भं नकुलमेव च ।
पतिपुत्त्रवतीं साध्वीं दिव्याभरणभूषिताम् ॥
शुक्लपुष्पञ्च माल्यञ्च धान्यञ्च खञ्जनं शुभम् ।
दक्षिणे ज्वलदग्निञ्च विप्रञ्च वृषभं गजम् ॥
वत्सप्रयुक्तां धेनुञ्च श्वेताश्वं राजहंसकम् ।
वेश्याञ्च पुष्पमालाञ्च पताकां दधि पायसम् ॥
मणिं सुवर्णं रजतं मुक्तामाणिक्यमीप्सितम् ।
सद्योमांसं चन्दनञ्च माध्वीकं घृतमुत्तमम् ॥
कृष्णसारं फलं लाजान् स्निग्धान्नं दर्पणन्तथा ।
विचित्रितं विशालञ्च सुदीप्तां प्रतिमान्तथा ॥
क्षणं ददर्श देवं तं पञ्चवक्त्वं त्रिलोचनम् ।
शुद्धस्फटिकसङ्काशं नागराजैर्विराजितम् ॥
शुक्लोत्पलं पद्मवनं शङ्खचिल्लञ्च कोरकम् ।
मार्जारं पर्व्वतं मेघं मयूरशुकसारसम् ॥
शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् ।
विचित्रं कृष्णसङ्गीतं हरिशब्दं जयध्वनिम् ॥
एवंभूतं शुभं दृष्ट्वा श्रुत्वा प्रहृष्टमानसः ।
प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७० अध्यायः ॥
अन्यच्च ।
“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुता-
शनः ।
हिरण्यं सर्पिरादित्य अपो राजा तथाष्टमः ॥
एतानि शततं पश्येन्नमस्येदर्च्चयेत्ततः ।
प्रदक्षिणन्तु कुर्व्वीत तथा चायुर्न हीयते ॥
दूर्व्वा दधि सर्पिरथोदकुम्भं
धेनुं सवत्सां वृषभं सुवर्णम् ।
मृद्गोमयं स्वस्तिकमक्षतानि
लाजा मधु ब्राह्मणकन्यकाश्च ॥
श्वेतानि पुष्पाणि तथा शमीञ्च
हुताशनं चन्दनमर्कविम्बम् ।
अश्वत्थवृक्षञ्च समालभेत
ततश्च कुर्य्याद्द्विजजातिधर्म्मम् ॥”
इति मत्स्यसूक्तमहातन्त्रे ४३ पटलः ॥
वर्णभेदे मङ्गलप्रश्नभेदो यथा, --
“ब्राह्मणान् कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥

मङ्गलः, पुं, (मगि + “मङ्गतेरलच् ।” उणा०

५ । ७० । इति अलच् ।) ग्रहविशेषः । तत्प-
र्य्यायः । अङ्गारकः २ भौमः ३ कुजः ४ वक्रः ५
महीसुतः ६ वर्षार्च्चिः ७ लोहिताङ्गः ८ खोन्मुखः ९
ऋणान्तकः १० । इति शब्दरत्नावली ॥ आरः
११ क्रूरदृक् १२ आवनेयः १३ । इति ज्योतिष-
तत्त्वम् ॥ स च रक्तगौरमिश्रितवर्णः । दक्षिण-
दिक्पुरुषक्षत्त्रियजातिसामवेदतमोगुणतिक्त-
रसमेषराशिप्रबालावन्तिदेशानामधिपतिः ।
मेषवाहनः । चतुरङ्गुलप्रमाणः । आरक्तमाल्य-
वसनः । भरद्वाजमुनिसन्तानः । चतुर्भुजः ।
शक्तिवराभयगदाधारी । सूर्य्याभिमुखः ।
अस्याधिदेवता कार्त्तिकेयः । प्रत्यधिदेषता
पृथिवी । स तु पित्तप्रकृतिः । युवा । क्रूरः ।
वनचारी । मध्याह्नकाले प्रबलः । गैरिकादि-
धातुस्वामी । चतुष्पदानां प्रभुः । चतुष्कोणा-
कृतिः । सुवर्णकारादीनां स्वामी । ज्वलित-
भूमिचारी । किञ्चिदङ्गहीनः । कटुरसप्रियः ।
ताम्रवर्णरक्तद्रव्यस्वामी च । इति ग्रहयागतत्त्व-
लघुजातकादयः ॥ * ॥ अस्योत्पत्तिर्यथा, --
“उपेन्द्रबीजात् पृथ्व्यान्तु मङ्गलः समजायत ।
वसुन्धरायां बलवान् तन्मे व्याख्यातुमर्हसि ॥
सौतिरुवाच ।
उपेन्द्ररूपमालोक्य कामार्त्ता च वसुन्धरा ।
विधाय सुन्दरी वेशमक्षता प्रौढयौवना ॥
सस्मिता तस्य तल्पे च सहसा समुपस्थिता ।
सुरम्यां मालतीमालां ददौ तस्मै वरानना ॥
उपेन्द्रस्तन्मनो ज्ञात्वा कामी मन्मथपीडितः ।
नानाप्रकारशृङ्गारं चकार च तया सह ॥
तदङ्गसङ्गमासक्ता मूर्च्छां प्राप सती तदा ।
मृतेव निद्रिता वासौ वीर्य्याधानकृते हरौ ॥
विहाय तत्र रहसि जगाम पुरुषोत्तमः ।
उर्व्वशी पथि गच्छन्ती बोधयामास तां मुने ! ॥
सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम् ।
वीर्य्यं सम्बरणं कर्त्तुं सा चाशक्ता च दुर्ब्बला ॥
प्रबालस्याकरे त्रस्ता वीय्यन्यासं चकार सा ।
पृष्ठ ३/५६५
तेन प्रबालवर्णश्च कुमारः समजायत ।
तेजसा सूर्य्यसदृशो नारायणसुतो महान् ॥”
इति ब्रह्मवैवर्त्तपुराणे, ९ अध्यायः ॥
अपि च ।
“ततोऽङ्गारकलोको हि वसत्यत्र महीसुतः ।
उत्पत्तिञ्चास्य वक्ष्यामि यथायं भूसुतोऽभवत् ॥
पुरा हि भ्रमतो विष्णोः स्वेदबिन्दुः पपात ह ।
महांस्ततः कुमारोऽसौ लोहिताङ्गो मही-
तलात् ॥
जातः स्नेहेन मेदिन्या वर्द्धितः पृथिवीपते ! ।
तपसाराध्य ब्रह्माणं ग्रहत्वमुपसेदिवान् ॥”
इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥
अपरञ्च ।
“पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः ।
अपतद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः ॥
भित्त्वा समस्तपातालानदहत् सप्त सागरान् ।
अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः ॥
वीरभद्र इति ख्यातः करपादायुतैर्युतः ।
कृत्वा स यज्ञमथनं पुनर्भूतलसम्भवः ॥
त्रिजगन्निर्द्दहन् भूयः शिवेन विनिवारितः ।
कृतं त्वया वीरभद्र ! दक्षयज्ञविनाशनम् ॥
इदानीमलमेतेन लोकदाहेन कर्म्मणा ।
शान्तिप्रदानात् सर्व्वेषां ग्रहाणां प्रथमो भव ॥
प्रेक्षिष्यन्ति जनाः पूजां करिष्यन्ति मतं मम ।
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज ! ॥
देवलोके द्वितीयञ्च तव रूपं भविष्यति ।
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः ।
रूपमारोग्यमैश्वर्य्यं तेष्वनन्तं भविष्यति ॥
एवमुक्तस्तदा शान्तिमगमत् कामरूपधृक् ।
संजातस्तत्क्षणाद्राजन् ! ग्रहत्वमगमत् पुनः ॥”
इति मत्स्यपुराणे अङ्गारकव्रतं नाम ६८ अः ॥
कल्पभेदे अन्धकासुरवधकाले तस्योत्पत्तिर्यथा,
“यो भूम्यां न्यपतद्बिप्र ! स्वेदबिन्दुः शिवान-
नात् ।
तस्मादङ्गारपुञ्जाभो बालकः समजायत ॥
स बालस्तृषितोऽत्यर्थं पपौ रुधिरमान्धकम् ।
कन्या चोत्स्वेदसंजाता सासृग्विलिलिहेऽद्भुता ॥
ततस्तामाह बालार्कप्रभां भैरवमूर्त्तिमान् ।
शङ्करो वरदो लोकश्रेयोऽर्थाय वचो महत् ॥
त्वां पूजयिष्यन्ति सुरा ऋषयः पितरस्तथा ।
यक्षविद्याधराश्चैव मानवाश्च शुभङ्करि ! ॥
त्वां स्तोष्यन्ति सदा देवि ! वलिपुष्पोत्करैः करैः ।
चर्च्चिकेति शुभं नाम यस्माद्रुधिरचर्च्चिता ॥
इत्येवमुक्ता वरदेन चर्च्चिका
भूतानुयाता हरिचर्म्मवासिनी ।
महीं समन्ताद्विचचार सुन्दरी
स्थलं गता हैङ्गुलमाद्यमुत्तमम् ॥
तस्यां गतायां वरदः कुजस्य
प्रादाद्वरं सर्व्ववरोत्तमं यतः ।
ग्रहाधिपत्यं जगतः शुभाशुमं
भविष्यति त्वद्वशगं महात्मनाम् ॥
इति वामनपुराणे ६७ अध्यायः ॥
अस्य स्तोत्रं यथा, --
“धरणीगर्भसंभूतं विद्युत्पुञ्जसमप्रभम् ।
कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम् ॥”
इति व्यासोक्तनवग्रहस्तोत्रान्तर्गतम् ॥
ऋणपरिशोधनार्थस्तोत्रं यथा, --
“मङ्गलो भूमिपुत्त्रश्च ऋणहन्ता धनप्रदः ।
स्थिरासनो महाकायः सर्व्वकर्म्माविरोधकः ॥
रोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो भूमिजो भूमिनन्दनः ॥
अङ्गारको यमश्चैव सर्व्वरोगापहारकः ।
वृष्टिकर्त्ता च हर्त्ता च सर्व्वकामफलप्रदः ॥
एतानि कुजनामानि प्रातरुत्थाय यः पठेत् ।
ऋणं न जायते तस्य धनमाप्नोति पुष्कलम् ॥
रक्तपुष्पैश्च गन्धैश्च धूपदीपादिभिस्तथा ।
मङ्गलं पूजयेद्भक्त्या मङ्गलेऽहनि सर्व्वदा ॥
ऋणरेखाः प्रकर्त्तव्या अङ्गारेण सदा बुधैः ।
प्रोञ्छयेद्वामपादेन ऋणं तस्य विनश्यति ॥
मङ्गलाय नमस्तुभ्यं नमस्ते ऋणहारिणे ।
पुत्त्रपौत्त्रप्रदात्रे च मङ्गलाय नमो नमः ॥
ऋणार्थे त्वत्प्रपन्नोऽहमऋणं कुरु मे विभो ! ।
एतत् कृत्वा न सन्देहो ऋणं हत्वा धनी भवेत् ।
इति स्कन्दपुराणम् ॥ * ॥
मङ्गलवारे जातस्य फलं यथा, --
“उग्रः प्रतापी क्षितिपालमन्त्री
रणप्रियो वक्रवचाः सरोषः ।
सत्त्वान्वितः शूरगणप्रणेता
कुजस्य वारे प्रभवो मनुष्यः ॥”
इति कोष्ठीप्रदीपः ॥

मङ्गलचण्डिका, स्त्री, (मङ्गला मङ्गलदायिका

चासौ चण्डिका चेति । यद्वा, सृष्टौ मङ्गला प्रलये
चण्डिका । अथवा मङ्गले चण्डिका दक्षा ।)
मङ्गलचण्डी । यथा, कालिकापुराणे ।
“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका ।
वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥
रक्तपद्मासनस्था च रत्नकुण्डलमण्डिता ।
रक्तकौषेयवस्त्रा च स्मितवक्त्वा शुभानना ॥
नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ।
उमया भाषितं मन्त्रं यत् पूर्ब्बन्त्वेकमक्षरम् ।
मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत् ॥”
एकमक्षरं शक्तिबीजरूपम् ।
“अष्टम्याञ्च नवम्याञ्च पूजा कार्य्या विवृद्धये ।
पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम् ॥
यः पूजयेद्भौमदिने शुभर्द्दूर्व्वाक्षतैः शुभाम् ।
सततं साधकः सोऽपि काममिष्टमवाप्नुयात् ॥ * ॥
मङ्गलवारे कृष्णाष्टमीचतुर्द्दश्यौ चेत् पुण्यतरै
भवतः । यथा, --
“शनैश्चरस्य वारेण वारेणाङ्गारकस्य च ।
कृष्णाष्टमीचतुर्द्दश्यौ पुण्यात् पुण्यतरे स्मृते ॥ * ॥
मङ्गलवारे शुक्ला चतुर्थी चेदक्षया भवति ।
यथा, --
“सोमवारेऽप्यमावास्या आदित्याहे च सप्तमी ।
चतुर्थ्यङ्गारके वारे त्वष्टमी च बृहस्पतौ ॥
अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः ।
षष्टिवर्षसहस्राणि प्रतिजन्म तदक्षयम् ॥”
इति तिथ्यादितत्त्वम् ॥

मङ्गलचण्डी, स्त्री, (मङ्गला चासौ चण्डी चेति

यद्वा, देषानां मुन्यादिभक्तानां मङ्गलाय दुर्जया-
सुरादिमारणे चण्डी अत्यन्तकोपना । मङ्गले-
चण्डी दक्षेति वा । अथवा सृष्टौ मङ्गला
प्रलये चण्डी । भागवतेऽस्या नामनिरुक्ति-
र्यथा, --
“सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ।
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥”)
दुर्गा । यथा, --
नारायण उवाच ।
“कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र ! यथागमम् ।
देवी मङ्गलचण्डी या तदाख्यानं निशामय ॥
तस्याः पूजादिकं सर्व्वं धर्म्मवक्त्वेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्व्वेषां विदुषामपि ॥
दक्षायां वर्त्तते चण्डी कल्याणेषु च मङ्गलम् ।
मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥
पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः ।
मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥
मङ्गलो मनुवंशश्च सप्तद्वीपधरापतिः ।
तस्य पूज्याभीष्टदेषी तेन मङ्गलचण्डिका ॥
मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥
प्रथमे पूजिता सा च शङ्करेण पुरः पुरा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥
ब्रह्मन् ! ब्रह्मोपदेशेन दुर्गप्रस्थेन सङ्कटे ।
आकाशात् पतिते याने दैत्येन पातिते रुषा ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।
सा च मङ्गलचण्डी च बभूव रूपभेदतः ॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते विभो ! ।
भगवान् वृषरूपश्च सर्व्वेशश्च बभूव ह ॥
युद्धशक्तिस्वरूपाहं भविष्यामि तदाज्ञया ।
मयामुना च हरिणा सहायेन वृषध्वज ! ॥
जहि दैत्यञ्च शत्रुञ्च सुराणां पदघातकम् ।
इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।
मुनीन्द्र ! पतिते दैत्ये सर्व्वे देवा महर्षयः ॥
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः ।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव च ।
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ॥
ब्रह्मविष्णूपदिष्टश्च सुस्रातः शङ्करः शुचिः ।
पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ॥
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि ।
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ! ॥
छागैर्मेषैश्च महिषैर्गण्डैमायातिभिस्तथा ।
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ॥
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः ।
संगीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ॥
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्ब्बकम् ।
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ! ॥
पृष्ठ ३/५६६
ॐ ह्रीं श्रीं क्लीं सर्व्वपूज्ये देवि मङ्गलचण्डिके ।
हुं हुं फट् स्वाहेत्येवञ्चाप्यैकविंशाक्षरो मनुः ॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्व्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्व्वकामदः ॥
ध्यानञ्च श्रूयतां ब्रह्मन् ! वेदोक्तं सर्व्वसम्मतम् ॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
सर्व्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
बिभ्रतीं कवरीभारं मल्लिकामाल्यभूषितम् ।
विम्बोष्ठीं सुदतीं शुद्धां शश्वत्पद्मनिभाननाम् ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।
जगद्धात्रीञ्च दात्रीञ्च सर्व्वेभ्यः सर्व्वसम्पदाम् ।
संसारसागरे घोरे पोतरूपां वरां भजे ॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ! ।
प्रयातः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥
श्रीशङ्कर उवाच ।
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ! ।
हारिके विपदां राशिं हर्षमङ्गलदायिके ! ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ! ।
शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ! ॥
मङ्गले मङ्गलार्थे च सर्व्वमङ्गलमङ्गले ! ।
सतां मङ्गलदे देवि ! सर्व्वेषां मङ्गलालये ! ॥
पूज्ये ! मङ्गलवारे च मङ्गलाभीष्टदेवते ! ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥
मङ्गलाधिष्ठातृदेवि ! मङ्गलानाञ्च मङ्गले ! ।
संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ! ॥
सारे च मङ्गलाधारे पारे च सर्व्वकर्म्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ! ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥
देव्याश्च मङ्गलं स्तोत्रं यः शृणोति समाहितः ।
तन्मङ्गलं भवेत् शश्वन्न भवेत्तदमङ्गलम् ॥
प्रथमे पूजिता देवी शिवेन सर्व्वमङ्गला ।
द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥
तृतीये पूजिता भद्रा मङ्गलेन नृपेण च ।
चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता ॥
मङ्गले मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका ।
पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥
ततः सर्व्वत्र संपूज्या सा बभूव सुरेश्वरी ।
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ! ॥
वर्द्धते तत्पुत्त्रपौत्त्रो मङ्गलञ्च दिने दिने ॥”
इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा-
यणनारदीये मङ्गलचण्डिकोपाख्यानं तत्स्तोत्र-
कथनं नाम ४१ अध्यायः ॥

मङ्गलच्छायः, पुं, (मङ्गला मङ्गलजनिका छायास्य ।)

प्लक्षवृक्षः । इति राजनिर्घण्टः ॥

मङ्गलनीराजनं, क्ली, (मङ्गलं मङ्गलकरं मङ्ग-

लाय वा नीराजनम् ।) ब्राह्ममुहूर्त्तकर्त्तव्य
भगवदारात्रिकम् । मङ्गल आरती इति
भाषा ॥ यथा, --
“पठित्वाथ प्रियान् श्लोकान् महावादित्र-
निःस्वनैः ।
प्रभोर्नीराजनं कुर्य्यान्मङ्गलाख्यं जगद्धितम् ॥
नीराजनन्त्विदं सर्व्वैः कर्त्तव्यं शुचिविग्रहैः ।
परमश्रद्धयोत्थाय द्रष्टव्यञ्च सदा नरैः ॥
स्त्रीणां पुंसाञ्च सर्व्वेषामेतत् सर्व्वेष्टपूरकम् ।
समस्तदैन्यदारिद्र्यदुरिताद्युपशान्तिकृत् ॥”
इति श्रीहरिभक्तिविलासे ३ विलासः ॥

मङ्गलपाठकः, पुं, (पठतीति । पठ + ण्वुल् ।

मङ्गलस्य पाठकः ।) बन्दी । इति हेमचन्द्रः ।
७ । ९४ ॥ (यथा, वेणीसंहारनाटके । १, अङ्के
‘आः पाप ! दुरात्मन् ! वृथामङ्गलपाठक ! ।’

मङ्गलप्रदा, स्त्री, (मङ्गलं प्रददातीति । प्र + दा

+ “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति
कः । टाप् ।) हरिद्रा । इति केचित् ॥ मङ्गल-
दातरि त्रि ॥

मङ्गला, स्त्री, (मङ्गलमस्या अस्तीति । मङ्गल +

अर्श आद्यच् । टाप् ।) पार्व्वती । शुक्लदूर्व्वा ।
पतिव्रता । इति शब्दरत्नावली ॥ करञ्जभेदः ।
इति शब्दचन्द्रिका ॥ वृत्तार्हन्मातृविशेषः ।
इति हेमचन्द्रः ॥ हरिद्रा । नीलदूर्व्वा । इति
राजनिर्घण्टः ॥

मङ्गलागुरु, क्ली, (मङ्गलञ्च तत् अगुरु चेति ।

नित्यकर्म्मधारयः ।) अगुरुचतुष्टयान्तर्गतागुरु-
विशेषः । यथा, राजनिर्घण्टः ।
“मङ्गल्या मल्लिकागन्धा मङ्गलागुरुवाचकाः ।
मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिकाः ॥”

मङ्गल्यं, क्ली, (मङ्गलाय साधु इति । मङ्गल +

“तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।)
दधि । इति मेदिनी । ये, १०१ ॥ चन्दनम् ।
मङ्गल्यागुरु । स्वर्णम् । सिन्दूरम् । इति राज-
निर्घण्टः ॥

मङ्गल्यं, त्रि, (मङ्गलाय साधु । मङ्गल + यत् ।)

शिवकरम् । इति मेदिनी । ये, १०१ ॥ (यथा,
उत्तरचरिते । ७ म अङ्के ।
“पाप्मभ्यश्च पुनाति वर्द्धयति च श्रेयांसि येयं
कथा ।
मङ्गल्या च मनोहरा च जगतो मातेव
गङ्गेव च ॥”
यथाच, महाभारते । १ । १ । २४ ।
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥”)
रुचिरम् । इति हेमचन्द्रः ॥ साधुः । इति
धरणिः ॥

मङ्गल्यः, पुं, (मङ्गलाय साधुः । मङ्गल + “तत्र

साधुः ।” ४ । ४ । ९८ । इति यत् ।) त्राय-
माणा । अश्वत्थः । विल्वः । मसूरकः । इति
मेदिनी । ये, १०० ॥ जीवकः । नारिकेलः ।
कपित्थः । रीठाकरञ्जः । इति राजनिर्घण्ठः ॥
(जीव इति ख्यातः शाकषिशेषः । तत्पर्य्यायो
यथा, --
“जीवन्ती जीवनी जीवा जीवर्न या मधुस्रवा ।
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मङ्गल्यकः, पुं, (मङ्गल्य + संज्ञायां कन् । यद्वा

मङ्गलस्य मङ्गलग्रहस्य प्रियः इति यत् । ततः
स्वार्थे कन् ।) मसूरः । इत्यमरः । २ । ९ ।
१७ ॥ (तथास्य पर्य्यायः ।
“मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मङ्गल्यकुमुमा, स्त्री, (मङ्गल्यानि कुमुमानि

यस्याः ।) शङ्खपुष्पी । इति भावप्रकाशः ॥

मङ्गल्यनामधेया, स्त्री, (मङ्गलं मङ्गलजनकं नाम-

धेयं यस्याः ।) जीवन्ती । इति जटाधरः ॥

मङ्गल्या, स्त्री, (मङ्गलाय साधुरिति यत् । टाप् ।)

मल्लिकागन्धयुक्तागुरु । इत्यमरः । २ । ६ । १२७ ॥
शमी । अधःपुष्पी । मिसी । शुक्लवचा ।
रोचना । इति मेदिनी । ये, १०० ॥ प्रियङ्गुः ।
शङ्खपुष्पी । इति हेमचन्द्रः ॥ माषपर्णी ।
जीवन्ती । ऋद्धिः । वचा । हरिद्रा । चीडा ।
इति राजनिर्घण्टः ॥ दूर्व्वा । इति रत्नमाला ॥
दुर्गा । यथा, --
“शोभनानि च श्रेष्ठानि या देवी ददते हरे ।
भक्तानामार्त्तिहरणी मङ्गल्या तेन सा स्मृता ॥”
इति देवीपुराणे ४४ अध्यायः ॥
(वचार्थे पर्य्यायो यथा, --
“तीक्ष्णोग्रगन्धा जटिला मङ्गल्या विजया वचा ।
षड्ग्रन्थोग्रा च रक्षोघ्नी सिता हैमवती तु सा ॥”
मिस्यर्थे यथा, --
“अवाक्पुष्पी च छत्रा स्यान्मङ्गल्या मधुरा मिसी ॥”
हेमपुष्पी । तत्पर्य्यायो यथा, --
“अवाक्पुष्पी त्वधःपुष्पी मङ्गल्यामरपुष्पिका ॥”
इति च वैद्यकरत्नमालायाम् ॥
रोचनार्थे पर्य्यायो यथा, --
“गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना ।”
शम्यर्थे पर्य्यायो यथा, --
“शमी शक्तुफला तुङ्गा केशहन्त्री फला शिवा ।
मङ्गल्या च तथा लक्ष्मीः शमीरः साल्पिका
स्मृता ॥”
मसूरः । तत्पर्य्यायो यथा, --
“मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मङ्गिनी, स्त्री, (मङ्गो नौशिरस्तदस्या अस्तीति

इनिः ङीप् च ।) नौका । इति हेमचन्द्रः ॥

मङ्क्षणं, क्ली, (मङ्क्षत्यनेनेति । मङ्क्ष + ल्युट् ।) जङ्घा-

त्राणम् । इति हारावली । १९८ ॥

मङ्क्ष, व्य, मज्जतीति । मस्ज् + बहुलवचनात् सुः ।

“मस्जिनशोर्झलि ।” ७ । १ । ६० । इति
नुम् । “स्कोः संयोगाद्योरन्ते च ।” ८ । २ ।
२९ । इति सलोपः ।) द्रुतम् ! इत्यमरः । ३ ।
४ । २ । (यथा, माथे । ५ । ३७ ।
“यद्द्वन्तिनः कटकटाहतटान्मिमङ्क्षो-
र्मङ्क्षूदपाति परितः पटलैरलीनाम् ॥”)
भृशार्थम् । इति मेदिनी अव्यये । षे, ७९ ॥
पृष्ठ ३/५६७

मङ्क्षुणं, क्ली, (मङ्क्षण । पृषोदरादित्वात् साधुः ।)

जङ्घात्राणम् । इति त्रिकाण्डशेषः ॥

मच, इ ङ उच्छ्रायधृत्यर्च्चाभाःसु । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-धृतौ अर्च्चायाञ्च
सक०-दीप्तौ उच्चीभावे च अक०-सेट् ।) इ
मञ्च्यते । ङ मञ्चते । उच्छ्राय उच्चीभावः ।
इति दुर्गादासः ॥

मच, ङ च कल्कने । दम्भे । शाठ्ये । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-दम्भे शाठ्ये च ।
अक०-कल्कने-सक०-सेट् ।) कल्कनमिति कल्कं
करोतीति ञौ रूपं चूर्णीकरणमित्यर्थः । ङ
मचते तण्डुलं शिला चकारात् मचि ङ । इति
दुर्गादासः ॥

मचर्च्चिका, स्त्री, (मं शभुं चर्च्चतीवेति । चर्च्च् +

ण्वुल् । टाप् । अत इत्वम् । वस्तुतस्तु रूढोऽयं
शब्दः ।) प्रशस्तम् । इत्यमरः । १ । ४ । २७ ॥ (यथा,
प्रशस्तो ब्राह्मणो ब्राह्मणमचर्च्चिका । “प्रशंसा-
वचनैश्च । २ । १ । ६६ । इति समासः ।)

मच्छः, पुं, (माद्यति सलिलेनेति । मद् + क्विप् ।

तथा सन् शेते इति । शी + डः ।) मत्स्यः ।
इति शब्दरत्नावली ॥

मज्जकृत्, क्ली, (मज्जानं करोतीति । कृ + क्विप् ।

तुगागमश्च ।) अस्थि । इति हेमचन्द्रः ॥

मज्जनं, क्ली, (मस्ज् + ल्युट् ।) स्नानम् । इति

जटाधरः ॥ (यथा, राजतरङ्गिण्याम् । ३ । ४७ ।
जाह्नवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥”)
मज्जा । इति शब्दचन्द्रिका ॥

मज्जसमुद्भवं, क्ली, (मज्जा समुद्भव उत्पत्ति-

स्थानं यस्य ।) शुक्रम् । इति हेमचन्द्रः ॥

मज्जा, [न्] पुं, (मज्जति अस्थिष्विति । मस्ज् +

“श्वन् उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्द्धन्
मज्जन्नित्यादि ।” उणा० । १ । १५८ । इति कनिन्
निपात्यते च ।) वृक्षादेरुत्तमस्थिरभागः । सार
इति ख्यातः । इत्यमरभरतौ ॥ फलमज्जगुणो
यथा, --
“यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् ।
तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥”
इति राजवल्लभः ॥
अस्थिमध्यस्थस्नेहविशेषः । तत्पर्य्यायः । कौशिकः
२ शुक्रकरः ३ अस्थिस्नेहः ४ अस्थिसम्भवः ५ ।
इति हेमचन्द्रः । ६ । १९ ॥ अस्थिसारः ६ तेजः ७
बीजम् ८ अस्थिजम् ९ जीवनम् १० देहसारः
११ । इति राजनिर्घण्टः ॥ अथ मज्जस्वरूप-
माह ।
“अस्थि यत् स्वाग्निना पक्वं तस्य सारो द्रवो
घनः ।
यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते ॥”
अथ मज्जस्थानमाह ।
“स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः ।”
इति भावप्रकाशः ॥
अस्य गुणाः ।
“बलशुक्ररसश्लेष्ममेदोमज्जविवर्द्धनः ।
मज्जा विशेषतोऽस्थ्नाञ्च बलकृत् स्नेहने हितः ॥”
इति चरकः ॥
मज्जाशब्द आबन्तोऽपि । यथा । शणातसी-
मूलकशिग्रुसिद्धैः पियालमज्जासहितैस्त्विति
सुश्रुतः ॥ द्बयमेवाह त्रिकाण्डे भागुरिः ॥
“लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः ।”
इत्यमरटीकायां भरतः ॥

मज्जा, स्त्री, (मज्जतीति । मस्ज् + अच् ।

अजादित्वात् टाप् ।) अस्थिसारः । इत्यमर-
टीकायां भरतः ॥ अस्य गुणाः । वातनाशि-
त्वम् । बलपित्तकफप्रदत्वम् । मांसतुल्यगन्धरूप-
त्वञ्च । कुम्भीरमहिषमज्जागुणाः । मधुरत्वम् ।
बृंहणत्वम् । बल्यत्वञ्च । मज्जसत्त्वगुणौ यथा ।
शैत्यम् । उष्णत्वञ्च । इति राजवल्लभः ॥

मज्जाजः, पुं, (मज्जाया जायते इति । जन् +

डः ।) भूमिजगुग्गुलुः । इति राजनिर्घण्टः ॥

मज्जारसः, पुं, (मज्जाया रसः ।) शुक्रम् । इति

राजनिर्घण्टः ॥

मज्जासारं, क्ली, (मज्जायां सारो यस्य ।) जाती-

फलम् । इति राजनिर्घण्टः ॥

मज्जूषा, स्त्री, (मज्जन्ति द्रव्याण्यत्रं । मस्ज् +

ऊषन् । टाप् निपा० ।) मञ्जूषा । इत्यमर-
टीकायां रायमुकुठः ॥

मञ्चः, पुं, (मञ्चति । उच्चीभवतीति । मचि +

घञ् ।) खट्वा । इत्यमरः । २ । ७ । १३८ ॥
कर्णवंशः । माचा इति भाषा ॥ इति हारा-
वली ॥ उच्चमण्डपविशेषः । यथा, --
“दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ।
रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते ॥”
इति पुराणम् ॥

मञ्चकः, पुं, (मञ्च + स्वार्थे कन् ।) खट्वा । इति

हेमचन्द्रः । ६ । ८३ ॥ (यथा, कथासरित्-
सागरे । २७ । ९१ ।
“वारिधानी तु कुम्भश्च मार्ज्जनी मञ्चकस्तथा ।
अहञ्च मत्पतिश्चेति युग्मत्रितयमेव नौ ॥”)
इन्द्रकोषः । उच्चमण्डपः । इति त्रिकाण्ड-
शेषः ॥

मञ्चकाश्रयः, पुं, (मञ्चकः खट्टादिराश्रयो यस्य ।)

मत्कुणः । इति राजनिर्घण्टः ॥

मञ्चमण्डपः, पुं, (मञ्चो मण्डप इव ।) शस्य-

रक्षार्थकुटिरम् । टं इति भाषा ॥ तत्पर्य्यायः ।
कुद्रङ्गः । इति हारावली ॥

मञ्जरं, क्ली, (मञ्जयति दीप्यते इति । मन्ज् +

अरप्रत्ययः ।) मुक्ता । तिलकवृक्षः । वल्ली ।
इति शब्दरत्नावली ॥

मञ्जरिः, स्त्री, वल्लरिः । इत्यमरः । २ । ४ । १३ ॥

वल्लते वृणोति तरुं वल्लरिः वलमि वल्ल ङ
स्तृतौ नाम्नीति अरिः । मञ्जु मनोज्ञतां रातीति
मञ्जरिः पूर्ब्बेण डिः मनीषादित्वादुकारस्य
अकारः पाच्छोणादीति ईपि मञ्जरी वल्लरी
च । वल्लरिर्मञ्जरिर्द्वयोरिति शाब्दिकः ॥ वल्लि-
र्मुञ्जिश्चात्र ।
“मञ्जरिमञ्जरी मञ्जिर्मञ्जरं त्रिषु वल्लरी ।
वल्लरं त्रिषु वल्लिश्च वल्लरिः पत्रनालिका ॥”
इति हड्डचन्द्रः ॥
लतामात्रेऽपि वल्लरिः । अतो बाहुवल्लरीति
प्रयोग इति मुकुटादयः ॥ वल्लरीमञ्जय्योर्भेद-
मप्याहुः । यथा अभिनवनिर्गता आयता सुकु-
मारा सकुसुमा अकुसुमा च मञ्जरिः । यथा
चूतमञ्जरिः कदलीमञ्जरिः । वल्लरिः पुनश्चिर-
भूतापि । यथा तालमञ्जरिः गुवाकवल्लरिरिति
द्वयमेव नवे चिरन्तनेऽपीति कृष्णसाञ्जौ । इति
भरतः ॥

मञ्जरी, स्त्री, (मञ्जरि । कृदिकारादिति पक्षे

ङीष् ।) मुक्ता । तिलकवृक्षः । लता । इति
शब्दरत्नावली ॥ (यथा, राजतरङ्गिण्याम् ।
१ । २०७ ।
“निर्गते मञ्जरीकुञ्जादपश्यत् पुरतस्ततः ।
कन्ये नीलनिचोलिन्यौ स केचिच्चारुलोचने ॥”)
मञ्जरिः । इत्यमरटीकायां भरतः ॥ (यथा,
आर्य्यासप्तशत्याम् । ५३३ ।
“वापीकच्छे वासः कण्टकवृतयः सजागरा
भ्रमराः ।
केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥”)
तुलसी । इति राजनिर्घण्टः ॥

मञ्जरीनम्रः, पुं, (मञ्जर्य्यां मञ्जर्य्यवस्थायामपि

नम्रः ।) वेतसवृक्षः । इति राजनिर्घण्टः ॥

मञ्जा, स्त्री, (मजि + पचाद्यच् । टाप् ।) छागी ।

इति त्रिकाण्डशेषः ॥ मञ्जरी । इति हेमचन्द्रः ।
११ । २२ ॥

मञ्जिः, पुं, (मजि + इन् ।) मञ्जरी । इति

त्रिकाण्डशेषः ॥

मञ्जिका, स्त्री, (मञ्जयतीति । मञ्ज + ण्वुल् ।

टाप् । अत इत्वञ्च ।) वेश्या । इति हारावली ॥

मञ्जिफला, स्त्री, (मञ्जिर्मञ्जरी फलेऽस्याः ।)

कदली । इति त्रिकाण्डशेषः ॥

मञ्जिष्ठा, स्त्री, (अतिशयेनेयं मञ्जिमती । मञ्जि-

मती + इष्ठः । मतुपो लोपः स्त्रियां टाप् ।)
स्वनामख्यातरक्तवर्णलताविशेषः । मजीठ इति
हिन्दी भाषा । तत्पर्य्यायः । विकसा २
जिङ्गी ३ समङ्गा ४ कालमेषिका ५ मण्डूक-
पर्णी ६ भण्डीरी ७ भण्डी ८ योजनवल्ली ९ ।
इत्यमरः । २ । ४ । ९० ॥ कालमेषी १० काला
११ जिङ्गिः १२ भण्डिरी १३ भण्डिका १४
भण्डिः १५ । इति शब्दरत्नावली ॥ हरिणी १६
रक्ता १७ गौरी १८ योजनवल्लिका १९ वप्रा
२० रोहिणी २१ चित्रलता २२ चित्रा २३
चित्राङ्गी २४ जननी २५ विजया २६ मञ्जूषा
२७ रक्तयष्टिका २८ क्षत्त्रिणी २९ रागाढ्या
३० कालभाण्डिका ३१ अरुणा ३२ ज्वरहन्त्री
३३ छत्रा ३४ नागकुमारिका ३५ भण्डीरलतिका
३६ रागाङ्गी ३७ वस्त्रभूषणा ३८ । (पर्य्या-
यान्तरं यथा, --
“मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यीप ।
पृष्ठ ३/५६८
ताम्रवल्ली चित्रपर्णी कान्तारी रक्तयष्टिका ॥”
इति रत्नमाला ॥)
अस्या गुणाः । मधुरत्वम् । कषायत्वम् । उष्ण-
त्वम् । गुरुत्वम् । व्रणमेहज्वरश्लेष्मविषनेत्रामय-
नाशित्वञ्च । सा चतुर्व्विधा । चोलः १ योजनी २
कौन्ती ३ सिंहली च ४ । इति राजनिर्घण्टः ॥
कुष्ठस्वरभङ्गशोथनाशित्वम् । वर्णाग्निकारित्वञ्च ।
इति राजवल्लभः ॥ अपि च ।
“मञ्जिष्ठा मधुरा तिक्ता कषाया स्वर्णवर्णकृत् ।
गुरूष्णा विषश्लेष्मघ्नी शोथयोन्यक्षिकर्णरुक् ।
रक्तातिसारकुष्ठास्राविसर्पव्रणमेहनुत् ॥”
इति भावप्रकाशः ॥

मञ्जी, स्त्री, (मञ्जयति दीप्यते इति । मञ्जि +

इन् । कृदिकारादिति ङीष् ।) मञ्जरी । इति
हेमचन्द्रः त्रिकाण्डशेषश्च ॥

मञ्जीरः, पुं, क्ली, (मञ्जति मधुरं शब्दायते ।

इति मन्ज् ध्वनौ सौत्रधातुः + बाहुलकात्
ईरन् ।) नूपुरः । इत्यमरः । २ । १०९ ॥
मञ्जीरोऽस्त्री स नूपुरः । इति रभसः ॥ (यथा,
गीतगोविन्दे । ५ । ११ ।
“मुखरमधीरं त्यज मञ्जीरं
रिपुमिव केलिषु लोलम् ॥”)

मञ्जीरः, पुं, (मञ्ज + ईरन् ।) मन्थानदण्डरज्जु

बन्धनार्थस्तम्भः । तत्पर्य्यायः । विष्कम्भः २
कुटरः २ । इति हेमचन्द्रः ॥

मञ्जु, त्रि, (मञ्जतीति । मञ्ज ध्वनौ सौत्रधातुः ।

“मृगय्वादयश्च ।” उणा० । १ । ३८ । इति
कुः ।) मनोज्ञम् । इत्यमरः । ३ । १ । ५२ ॥
(यथा, पदाङ्कदूते । १ ।
“त्यक्त्रा गेहं झटिति यमुनामञ्जुकुञ्जं जगाम ॥”)

मञ्जुकेशी, [न्] पुं, (मञ्जवो मनोहराः केशाः

सन्त्यस्य । इनि ।) श्रीकृष्णः । इति हलायुधः ॥
सुन्दरकेशविशिष्टे त्रि ॥

मञ्जुगमना, स्त्री, (मञ्जु मनोहरं गमनं यस्याः ।

स्त्रियां टाप् ।) हंसी । इति राजनिर्घण्टः ॥
सुन्दरगामिनि त्रि ॥

मञ्जुघोषः, पुं, (मञ्जुर्मनोहरो घोषः शब्दोऽस्य ।)

पूर्ब्बजिनभेदः । इति त्रिकाण्डशेषः ॥ उपास्य-
देवताविशेषः । अस्य मन्त्रादि यथा, --
“जाड्यौघतिमिरध्वंसी संसारार्णवतारकः ।
श्रीमञ्जुघोषो जयतां साधकानां सुखावहः ॥”
तत्रागमोत्तरे ।
“मातृकादि समुद्धत्य वह्निबीजं समुद्धरेत् ।
वामांसं कूर्म्मसंज्ञञ्च ततो मेषेशमुद्धरेत् ॥
मीनेशञ्च ततः कुर्य्यात् वामनेत्रेन्दुसंयुतम् ।
षडक्षरो मनुः प्रोक्तो मञ्जुघोषस्य शम्भुना ॥
इयस्तु दीपनी प्रोक्ता मूलमन्त्रस्तु कथ्यते ।
अङ्कुशं शक्तिबीजञ्च रमाबीजं ततः प्रिये ! ॥
बीजत्रयात्मको मन्त्रो जाड्यौघध्वान्तनाशनः ।
शक्तिबीजं रमाबीज कामबीजं तथा प्रिये ! ॥
विद्या श्रुतिधरी प्रोक्ता एषा वर्णत्रयात्मिका ।
हकारो वह्निमारूढो बालनेत्रेन्दुभूषितः ।
प्रोक्ता सार्व्वज्ञविद्येयं एकवर्णात्मिका प्रिये ! ॥
सिद्धः साध्यः सुसिद्धो वा साधकस्य रिपुश्च वा ।
तदा मन्त्रो भवेद्भक्त्या शुभदो बुद्ध्विदो भवेत् ॥
मध्याह्ने सलिले चैव भोजने भाजने तथा ।
गोमये तु बहिर्द्देशे मैथुने रमणीकुचे ॥
गोष्ठे च निशि गोमुण्डे यन्त्रं डमरुसन्निभम् ।
विलिख्य मन्त्रवर्णांश्च त्रिश ऊर्द्ध्वे अधस्तथा ।
लिखेच्चन्दनलेखन्या प्रयत्नात् साधकोत्तमः ।
उच्चाटने लिखेद्यन्त्रं गोचर्म्मणि विशेषतः ।
सलिले विजयी नित्यं भजने च महेश्वरः ॥
गोमये वावदूकः स्याद्गोष्ठे सर्व्वज्ञतां व्रजेत् ।
कुचे श्रुतिधरो नित्यं गोमुण्डे च महाकविः ॥
गोमूत्रं वदरीमूलं चन्दनं पांशुमेव च ।
एकीकृत्याष्टधा जप्त्वा तिलकं धारयेत् सदा ॥
नमस्कृत्य वरं श्रेष्ठं प्रार्थयेद्भक्तितत्परः ।
वरं प्राप्य च तस्माद्वै विहरेत्तु यथासुखम् ॥
नान्यदेवार्च्चनं स्नानं प्रणवोच्चारणं न तु ।
वस्त्राञ्चलेन दन्तानां शोधनं लवणेन वा ॥
रात्रिवासो न मुञ्चेत न शुचिः स्यात् कदाचन ।
एवं कृत्वां प्रयत्नेन ज्ञात्वा गुरुमुखात् सुधीः ॥
मासैकेन कवीन्द्रः स्यात् द्विमासेनैव ईश्वरः ।
त्रिभिर्मासैर्भवेन्मर्त्यः सर्व्वशास्त्रविशारदः ॥
पुत्त्रार्थी लभते पुत्त्रं धनार्थी विपुलं धनम् ।
आयुरारोग्यकामस्तु सर्व्वान् कामानवाप्नुयात् ॥
ततः कराङ्गन्यासौ ।
क्षां शां अङ्गुष्ठाभ्यां नमः । इत्यादि एवं हृद-
यादिषु । तथा च तन्त्रे ।
“सम्बर्त्तको वकेशश्च द्वौ वर्णौ कथितौ प्रिये ! ।
षड्दीर्घभाग्म्यामेताभ्यां षडङ्गानि समाचरेत् ॥
सम्बर्त्तः क्षकारः वकेशः शकारः ॥ * ॥ ध्यानम् ।
“शशधरमिव शुभ्रं खड्गपुस्ताङ्गपाणिं
सुरुचिरमतिशान्तं पञ्चचूडं कुमारम् ।
पृथुतरवरमुख्यं पद्मपत्रायताक्षं
कुमतिदहनदक्षं मञ्जुधोषं नमामि ॥
पीठपूजां ततः कुर्य्यादाधाराद्यादिशक्तितः ।
भूतप्रेतादिभिः कुर्य्यात् पीठासनमनन्तरम् ॥
ज्ञानदात्रे नमः पाद्यं बुद्धिकर्त्रे तथाचमम् ।
जाड्यनाशाय गन्धः स्यादर्घ्यं स्याद् यक्षपाय वै ॥
सर्व्वसिद्धिप्रदायेति पुष्पं दद्याद्विचक्षणः ।
कुन्दपुष्पं समादाय भैरवान् पूजयेत्ततः ॥
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ।
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥
ततो धूपादिकं दत्त्वा प्रसूनानि बिसर्जयेत् ।
तैः पुष्पैः पूजयेदष्टौ यक्षिणीश्च विशेषतः ॥
सुरारिसुन्दरी चैव मनोहारिण्यनन्तरम् ।
कनकावती तथा कामेश्वरी च रतिकर्य्यथ ॥
पद्मिनी च नटी चैव अनुरागिण्यनन्तरम् ।
पूज्या एतास्तु योगिन्यो हृल्लेखाबीजपूर्ब्बिकाः ॥
एवं संपूज्य देवेशं लक्षषट्कं जपेन्मनुम् ।
घृताक्तकुन्दपुष्पैश्च एकादशशतानि च ॥
जुहुयादेधिते वह्नौ कान्तारे पितृवेश्मनि ।
एवं सिद्धमनुर्मन्त्री महायोगीश्वरो भवेत् ॥”
इति तन्त्रसारः ॥
प्रकारान्तरं कुक्कुटादितन्त्रे द्रष्टव्यम् ॥

मञ्जुपाठकः, पुं, (मञ्जु मनोहरं पठतीति पठ +

ण्वुल् ।) शुकपक्षी । इति राजनिर्घण्टः ॥
सुन्दरपाठकर्त्तरि त्रि ॥

मञ्जुप्राणः, पुं, (मञ्जवः प्राणाः यस्य । सर्व्वव्यापक-

तया महाप्राणत्वादस्य तथात्वम् ।) ब्रह्मा । इति
जटाधरः ॥

मञ्जुभद्रः, पुं, (मञ्जु मनोहरं भद्रं मङ्गलं यस्य ।)

जिनविशेषः । तत्पर्य्यायः । मञ्जुश्रीः २ ज्ञान-
दर्पणः ३ मञ्जुघोषः ४ कुमारः ५ अष्टारचक्र-
वान् ६ स्थिरचक्रः ७ वज्रधरः ८ प्रज्ञा-
कायः ९ वादिराट् १० नीलोत्पली ११ महा-
राजः १२ नीलः १३ शार्द्दूलवाहनः १४
धियाम्पतिः १५ पूर्ब्बजिनः १६ खड्गी १७
दण्डी १८ विभूषणः १९ बालव्रतः २० पञ्च-
चीरः २१ सिंहकेलिः २२ शिखाधरः २३
वागीश्वरः २४ । इति त्रिकाण्डशेषः ॥

मञ्जुलं, क्ली, (मञ्जु मञ्जुत्वमस्त्यस्येति । “सिध्मा-

दिभ्यश्च ।” ५ । २ । ९७ । इति मञ्जुशब्दात्
लच् ।) जलाञ्चलम् । निकुञ्जम् । इति मेदिनी ।
ले, १ । २२ । ॥ शबलः । इति विश्वः ॥

मञ्जुलः, पुं, (मञ्जु मञ्जुत्वमस्यास्तीति । मञ्जु +

सिध्मादित्वात् लच् ।) जलरङ्कपक्षी । इति
मेदिनी । १ । २२ ॥ सुन्दरे त्रि । इत्यमरः । ३ ।
१ । ५२ ॥ (यथा, कालिकापुराणे ४८ अध्याये ।
“मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे ।”
नदीभेदे स्त्री । यथा, महाभारते । ६ । ९ । ३४ ।
“चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा ॥”)

मञ्जुश्रीः, पुं, (मुञ्जुर्मनोहरा श्रीः शोभा यस्य ।)

मञ्जुघोषः । इति त्रिकाण्डशेषः ॥

मञ्जुषा, स्त्री, (मञ्जूषा । पृषोदरादित्वात् ह्रस्वः ।)

मञ्जूषा । पेट्रा इति भाषा । यथा, --
“मञ्जुषापि च मञ्जूषा पेटा च पेटिकेत्यपि ।”
इति शब्दरत्नाबली ॥

मञ्जूषा, स्त्री, (मज्जति द्रव्यमस्मिन् । “मस्जेर्नुम्

च ।” उणा० । ४ । ७७ । इति मस्ज् + ऊषन् ।
नुम् च स चाचोऽन्त्यात् परः । ततो जश्त्व-
श्चुत्वे मध्यमस्य लोपात् साधुः ।) पिटकः । इत्य-
मरः । २ । १० । ३० ॥ (यथा, देवीभागवते । २ । ६ । ३३ ।
“मञ्जुषायां सुतं कुन्ती सुञ्चन्ती वाक्यमब्रवीत् ॥”)
पाषाणः । इत्युणादिकोषः ॥ मञ्जिष्ठा । इति
राजनिर्घण्टः ॥ (मञ्जिष्ठार्थे पर्य्यायो यथा, --
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ।
भण्डीतकी च गण्डेरी मञ्जूषा वस्त्ररञ्जिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मट, सादे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) सौत्रधातुरयम् । अस्य प्रयोगः ।
मटहः । इति दुर्गादासः ॥
पृष्ठ ३/५६९

मटची, स्त्री, (मटनं मटः । मट् अवसादे + भावे

अप् मटः चीयते प्रचीयते एभिरिति । मट +
चि + बाहुलकात् डिः । मटचिः । ततः कृदि-
कारादिति पक्षे ङीष् ।) सर्व्वेषामवसादकत्वा
दस्यास्तथात्वम् ।) रक्तवर्णक्षुद्रपक्षिविशेषः ।
पाषाणवृष्टयः । यथा, गोविन्दभाष्यधृत-
च्छान्दोग्ये । १ । १० । १ ॥ (“मटचीहतेषु
कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण
इभ्यग्रामे प्रद्राणक उवास ॥ इति ॥)

मटस्फटिः, पुं, (मटं अवसादं स्फटति निरा

करोति । स्फट् + इः ।) दर्पारम्भः । इति जटा-
धरः ॥

मट्टकं, क्ली, (मठति वसत्यत्रेति । मठ + अप् ।

पृषोदरादित्वात् टागमे साधुः । मट्टः । मट्टस्य
कं शिरः ।) गृहस्य शिरोभागः । इति केचित् ।
मट्का इति भाषा ॥

मठ, वासमर्द्दयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-वासे अक०-मर्द्दने सक०-सेट् ।) मठति ।
वासो निवासः । मर्द्दः कैश्चिन्न मन्यते । इति
दुर्गादासः ॥

मठ, इ ङ आध्याने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) इ मण्ठ्यते । आध्यानं
स्मृ म औत्के इत्यत्र व्याख्यातम् । इति
दुर्गादासः ॥

मठः, पुं, छात्रादिनिलयः । इत्यमरः । २ । २ । ८ ॥ मठन्ति

वसन्ति छात्रादयोऽत्र मठः । मठ वासमर्द्दयोः
अल् । छत्रशीला विद्यार्थिनच्छात्राः । छत्रेण
गुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी-
लत्वात् छात्रः विकारसंघेति ष्णः । आदिना
परिव्राजकक्षपणकादीनां ग्रहः । छात्रादीनां
निलयो गृहं छात्रादिनिलयः । अर्थकथनमेतत् ।
नामाप्येतदिति केचित् । छात्रशाला प्रतिश्रय-
श्चात्रैव । इति भरतः ॥ गन्त्रीरथः । इति हारा-
वली ॥ * ॥ अथ मठादिप्रतिष्ठाप्रयोगः ।
यदि तद्दिने प्रतिमादिप्रतिष्ठा क्रियते तदा तन्त्रेण
वृद्धिश्राद्धादिकं विधाय देवप्रतिष्ठातत्त्वोक्त-
विधिना देवप्रतिष्ठां विधाय गृहप्रतिष्ठा कर्त्तव्या ।
यदिगृहप्रतिष्ठामात्रं तदा प्रातः कृतनित्यक्रियः
प्रक्षालितपाणिपाद आचान्तः प्राङ्मुख उदङ्-
मुखो वा कुशयुक्तासने उपविश्य ब्राह्मणत्रयं
गन्धादिना परितोष्य अस्मिन् विष्णुवेश्मप्रतिष्ठा-
कर्म्मणि ॐ पुण्याहं भवन्तोऽधिब्रुवन्तु इति त्रिः
श्रावयेत् । ॐ पुण्याहमिति त्रिस्तैरुक्ते अस्मिन्
विष्णुवेश्मप्रतिष्ठाकर्म्मणि ॐ स्वस्ति भवन्तोऽधि-
ब्रुवन्तु इति त्रिः श्रावयेत् । ॐ स्वस्तीति त्रिस्तै-
रुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ॐ ऋद्धिं
भवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् । ॐ ऋद्ध्य
तामिति त्रिर्वदेयुः । यजुर्वेदिनां ॐ स्वस्ति न
इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्षोऽरिष्टनेमिः स्वस्ति नोबृहस्पति-
र्दधातु । इत्यनेनाक्षतान् क्षिपेत् । सामगानान्तु ।
ॐ अस्ति सोमोऽयं सुतः । पिबन्तस्य मरुतः ।
उतस्वराजो अश्विना । अस्ति सोमोऽयं सुतः ।
पिबन्तस्य मरुतो हाइ । उतस्वराजो वा हाइ
नो हाइ । इति गीयमानेनाक्षतान् क्षिपेत् ।
गानाशक्तौ त्रिधा ऋचं वाचयेत् । ततः ।
“सूर्य्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा ।
पवनो दिक्पतिर्भूमिराकाशं खचरामराः ।
ब्राह्मं शासनमास्थाय कल्पध्वमिह मन्निधिम् ॥”
इति पठित्वा । तत ॐ तद्बिष्णोः परमं पदं सदा
पश्यन्ति सूरयः । दिवीव चक्षुराततम् । इति
विष्णुं स्मृत्वा नारायणं नमस्कृत्य ॐ तत् सदित्यु-
च्चार्य्य कुशत्रयजलफलपुष्पाण्यादाय ॐ अद्या-
मुके मासि अमुकपक्षेऽमुकतिथौं अमुकगोत्रः
श्रीअमुकदेवशर्म्मा एतत्तृणकाष्ठादिमयवेश्मपर-
माणुसमसंख्यवर्षसहस्रावच्छिन्नस्वर्गलोकमहि-
तत्वकामः श्रीविष्णुप्रीतिकामो विष्णुलोकप्राप्ति-
कामो वा विष्णुवेश्मप्रतिष्ठामहं करिष्ये । इति
संकल्पयेत् इष्टकादिमये तु एतदिष्टकादिमय-
वेश्मपरमाणुसमसंख्यकवर्षसहस्रदशगुणकाला-
वच्छिन्नस्वर्गलोकमहितत्वकाम इति विशेषः ।
पाषाणवेश्मनि तु तद्दशगुणकालावच्छिन्नस्वर्ग-
लोकेति विशेषः । देवतान्तरगृहप्रतिष्ठायान्तु
तदूहेन प्रयोगः ॥ * ॥ ततः संकल्पसूक्तं पठेत् ।
सामवेदोक्तं तद्यथा ॐ देवो वो द्रविणोदाः
पूर्णां विवष्ट्यासिचम् । उद्वासिञ्चध्वमुपवा पृणु-
ध्वमादिद्वो देव ओहते ॥ यजुर्वेदोक्तं यथा, --
“ॐ यज्जाग्रतो दूरमुदैतु दैवं
तदुसुप्तस्य तथैवेति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं
तन्मे मनः शिवसङ्कल्पमस्तु ॥”
ततः सगणाधिपगौर्य्य्यादिषोडशमातृकापूजा-
वसोर्धारासम्पातनायुष्यमन्त्रजपाभ्युदयिकश्रा-
द्धानि कर्त्तव्यानि ॥ * ॥ आयुष्यमन्त्रो यथा । ॐ
आयुर्व्विश्वायुर्व्विश्वं विश्वमायुरसि । महि प्रजान्त्व-
ष्टाराधिनिधे ह्यस्मे शतं जीबेम शरदो वयन्ते ॥
ॐ आयुषो मे पवस्व वर्च्चसो मे पवस्व विदुः
पृथिव्या दिवो जनित्र्या शृण्वन्त्यापोऽधः
क्षरन्ती सोमोहोद्गाय ममायुषे मम ब्रह्मवर्च्च-
साय यजमानस्यर्द्ध्या अमुकस्य राज्याय ॥ * ॥
तत्र विष्णुवेश्मप्रतिष्ठाभ्युदयार्थमिति वाक्ये
विशेषः । एवमन्यवेश्मनि । ततः उत्तराभि-
मुखं ब्राह्मणमुपवेश्य तत्समीपे आसनमानीय
प्राङ्सुखो यजमानः प्राञ्जलिर्वदेत् । ॐ साधु
भवानास्ताम् । ॐ साध्वहमासे इति प्रतिवचनं
दत्त्वा तदासने उदङ्मख उपविशति । ततो
यजमानः ॐ अर्च्चयिष्यामो भवन्तं इति वदेत् ।
ॐअर्च्चयेति प्रतिवचनम् । ततो गन्धपुष्पताम्वूला-
लङ्कारैरभ्यर्च्च्य दक्षिणं जानु स्पृष्ट्वा ॐ अद्ये-
त्यादि अमुकगोत्रममुकप्रवरममुकदेवशर्म्माणं
भवन्तं अस्मिन् सङ्कल्पितविष्णुवेश्मप्रतिष्ठा-
कर्म्माङ्गभूतहोमकर्म्मणि ब्रह्मकर्म्मकरणाय गन्ध-
पुष्पताम्बूलालङ्कारवस्त्रैरहं वृणे । ॐ वृतो-
ऽस्मीति प्रतिवचनम् । यथाविहितं ब्रह्मकर्म्म
कुरु । ॐ यथाज्ञानं करवाणीति प्रतिवचनम् ।
स्वयं होमासामर्थ्ये होतुर्वरणमपि तथैव
कार्य्यम् । तन्त्रधारकत्वेन आचार्य्यस्यापि तथैव
कार्य्यम् । शक्तेन सदस्यस्यापि । गुरोर्वरणे तु
संकल्पितेऽस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणीति
वक्तव्यम् ॥ * ॥ ततो यजमानः गुरोः पादौ
धृत्वा पठेत् ।
“नारायणस्वरूपस्त्वं संसारात्त्राहि मां प्रभो ! ।
त्वत्प्रसादात् गुरो ! यज्ञं प्राप्नोमि यन्मयोदि-
तम् ॥
त्राहि नाथ ! प्रपन्नं मां भीतं संसारसाग-
रात् ।
देवतास्थापने ह्यद्य मम शान्तिं कुरु प्रभो ! ॥
ततो गुरुः ।
ॐ उत्तिष्ठ वत्स भद्रन्ते मत्प्रसादात्त्वयानघ ! ।
प्राप्तव्यं धर्म्मकामार्थं दुष्प्रापं यत् सुरासुरैः ॥ * ॥
ततो गुरुः ।
ॐ पावमानीः स्वस्त्ययनीः मृदुघा हि घृत-
श्च्युतः ।
ऋषिभिः सम्भृतो रसो ब्राह्मणे स्वमृतं
हितम् ॥
इति पावमानीसूक्तम् ॥
“असपत्नं पुरस्तान्नः शिवं दक्षिणतः कृधि ।
अभयं सततं पश्चात् भद्रमुत्तरतो गृहे ॥”
इति शाकुनसूक्तम् ॥
ॐ रक्षोहनो बलगहनः प्रोक्षामि वैष्णवान्
रक्षोहनो बलगहनोऽवनयामि वैष्णवान् रक्षो-
हनो बलगहनोऽवस्तृणामि वैष्णवान् । रक्षो-
हनौ बलगहनावुपदधामि वैष्णवी । रक्षोहनौ
बलगहनौ पर्य्यूहामि वैष्णवमसि वैष्णवाः स्थः ।
इति रक्षासूक्तम् । इति पठित्वा ।
“वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः ।
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ॥
विनायका विघ्नकरा महोग्रा
यज्ञद्विषो ये पिशिताशनाश्च ।
सिद्धार्थकैर्वज्रसमानकल्पै-
र्मया निरस्ता विदिशः प्रयान्तु ॥”
इति श्वेतसर्षपान् विकीर्य्य स्वैः स्वैर्मन्त्रैः पञ्च-
गव्यं शोधयेत् ॥ * ॥ तच्छोधनमन्त्रा यथा ।
ॐ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ।
इति गोमूत्रम् ।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीविणीम् ।
ईश्वरीं सर्व्वभूतानां तामिहोपह्वये श्रियम् ॥
इति गोमयम् ।
ॐ आप्यायस्व स मे तु ते विश्वतः सोमवृष्ण्यं
भवावाजस्य सङ्गथे ।
इति दुग्धम् ।
ॐ दधिक्राव्नो अकारिषं जिष्णोरश्वस्य
वाजिनः ।
सुरभिणो मुखाकरत् प्रणतायूंषि तारिषत् ॥
इति दधि ।
पृष्ठ ३/५७०
ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि
प्रियन्देवानामनाधृष्टं देवयजनमसि ॥
इति घृतम् ।
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्यां हस्तमाददे । इति कुशोदकम् ॥
ॐ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् ।
जपेन यूप आप्यते प्रणीतो अग्निरग्निना । इति
मन्त्रेण वेदीं संप्रोक्ष्य पञ्च घटान् घटस्थापन-
क्रमेण संस्थाप्य ॥ * ॥ घटस्थापनमन्त्रा यथा ।
सामगानाम् । ॐ महित्रीणामवोस्तुद्युक्षं मित्र-
स्यार्य्यम्नः दुराधर्षं वरुणस्य । इति भूमेः ।
ॐ धानावन्तं करम्भिणमपूपवन्तमुक्थिनं इन्द्र
प्रातर्ज्जूषस्व नः । इति धान्यस्य । ॐ आविशं
कलसं सुतो विश्वा अर्षन्नभिश्रिय इन्द्ररिन्द्राय
धीयते । इति कलसस्य ।
“ॐ अयमूर्ज्जावतो वृक्ष उर्ज्जीव फलिनी भव ।
पर्णं वनस्पते न त्वा नु त्वा च सूयतां रयि ॥”
इति पल्लवस्य ।
ॐ आनोमित्रावरुणा घृतैर्गव्युतिमुक्षतं मध्वा
रजांसि सुक्रतु । इति जलस्य । ॐ इन्द्रन्नरो
नेमधिता हवन्ते यत्पार्य्या युनयते धियस्ताः
सूरो नृषाताश्रवसश्च काम आगोमतिव्रजे
भजात्वन्नः । इति फलस्य । ॐ सिन्धोरुच्छ्वासे
पतयन्तमुक्षणं हिरण्यपावाः पशुमाशु गिभ्नते ।
इति सिन्दूरस्य । ॐ त्वावतः पुरूवसो वयमिन्द्र
प्रणेतः स्मचिस्थातर्हरीणाम् । इति स्थिरी-
करणस्य । ॐ पवमानो व्यश्नवद्रश्मिभिर्वाजसा-
तमः । दधास्तोत्रे सुवीर्य्यम् । इति पुष्पस्य ॥ * ॥
यजुषाम् । ॐ भूरसि भुवनस्य दितिरसि विश्वस्य
धाया विश्वस्य भुरणधर्त्रीम् । पृथिवीं यच्च पृथिवीं
दृँह पृथिवीं माहिँसीः । इतिभूमेः । ॐ
धान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहि
यज्ञपतिं धिनुहि मां यज्ञन्यम् । इति धान्यस्य ।
ॐ आजिघ्रकलसमह्यात्वा विशन्त्युन्दवः पुन-
रुर्जा निवर्त्त स्वसानः । सहसं धुक्षोरुधारा
पयस्वतीमाविशताद्रयि । इति घटस्य । ॐ
वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भः सर्जनीस्थः
वरुणस्य ऋत सदन्यसि वरुणस्य ऋत सदनमपि
वरुणस्य ऋत सदनीमासीद । इति जलस्य ।
ॐ धन्वनागा धन्वना जिञ्जयेम धन्वना तीव्राः
समदो जयेम । धनुःशत्रोरपकामं कृणोतु
धन्वना सर्व्वाः प्रतिशो जयेम । इति पल्लवस्य ।
ॐ याः फलिनीर्या अफला अपुष्पा याश्च
पुष्पिणीः बृहस्पतिप्रसूतास्ता नो मुञ्चन्तं£हसः ।
इति फलस्य ।
“ॐ सर्व्वतीर्थमयं वारि सर्व्वदेवसमन्वितम् ।
इमं घटं समारुह्य तिष्ठ देवगणैः सह ॥”
इति जलं दद्यात् । ॐ स्थिरो भव विड्डङ्ग
आशुर्भव वाह्यर्व्वन् पृथुर्भव मुसदस्त्वमग्ने पुरीष-
वाहनः । इति स्थिरीकरणस्य । ॐ सिन्धोरिव
प्राध्वने शूघनाशो वातप्रमियः । पतयन्ति यह्वा
घृतस्य धारा अरुषोण वाजी काष्ठा भिन्दन्नू-
र्म्मिभिः पिन्नमानः इति सिन्दूरस्य । ॐ श्रीश्च ते
लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपं
अश्विनौ व्याप्तं इष्टम्मनीषाण सर्व्वलोकं मनी-
षाण । इति पुष्पस्य ॥ * ॥ ततः फलपुष्पयुतं विता-
नम् । ॐ विमान एष दिवो मध्य आस्त आप
प्रवान्रोदसी अन्तरीक्षम् । सविस्वाचीरभिचष्टे
घृताचीरन्तरा पूर्ब्बमपरञ्च केतुम् ॥ साम-
गानान्तु । ॐ ऊर्द्ध्व ऊषु न ऊतये तिष्ठा देवो न
सविता ऊर्द्ध्वो वाजस्य सनिता यदञ्जिभिर्व्वा
घद्भिर्विह्वयामहे । इति मन्त्रेण बध्नीयात् । * ।
“ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः
पतिरेक आसीत् । सदाधारपृथिवीं द्यामुतेसां
कस्मै देवाय हविषा विधेम । इति मन्त्रेण
मण्डलमध्ये सुवर्णपद्मं दत्त्वा स्वर्णशलाकया
दलान्युत्कीर्य्य मण्डलमध्ये राजतीं प्रतिमां
ॐ सूत्रामाणं पृथिवीं द्यामनेहसं सुशर्म्माण-
मदितिं सुप्रणितिम् । दैवीं नावं स्वरित्रामा
नागसमस्रवन्ती मारुहे मास्रस्तये । इति मन्त्रेण
निःक्षिप्य घटेषु देवान् पूजयेत् । * । प्रथमघटे
गणेशं सूर्य्यैं द्वितीयघटे शिवं दुर्गां तृतीयघटे
विष्णुं लक्ष्मों सरस्वतीं चतुर्थे अग्निं वास्तुपुरुषं
क्षेत्रपालान् कार्त्तिकेयमश्विनीकुमारौ पञ्चमे
ग्रहान् लोकपालांश्च स्वैः स्वैर्मन्त्रैरावाह्य
पूजयेत् । * । ततो गुरुदेवं प्रतिमायां शालग्रामे
वा यथोक्तविधिना स्नापयेत् ।
“ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षिभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टवाँसस्तनू-
भिर्ब्ब्यशेमदेव हितं यदायुः ॥”
इति मन्त्रेण निवेश्य ॐ एतोन्विन्द्रं£स्तवामः
शुद्धं शुद्धेन साम्ना । शुद्धै रुक्मैर्वा वृध्वां संशुद्ध
आशीर्वान्ममत्तु । इति मन्त्रेण शुद्धोदकेन
स्नापयेत् । ॐ घृतवतीति घृतेनाभ्यज्य । ॐ
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पृथिव्याः सप्तधामभिः । इति मसूरचूर्णेनोद्ध्यर्त्त्य ।
ॐ सप्त ते अग्ने समिधः सप्तजिह्वाः सप्त ऋषयः
सप्त धामप्रियाणि सप्त होत्राः सप्तधा त्वा
यजन्ति । सप्त योनीरापृणुस्वा घृतेन । इति
उष्णोदकेन क्षालयेत् । ॐ द्रुपदादिव मुमुचानः
स्विन्नः स्नातो मलादिव पूतं पवित्रेणे वाज्यमापः
शुन्धन्तु मैनसः इति चन्दनेनानुलिप्य ॐ आपो-
हिष्ठामयो भुवः स्नान ऊर्ज्जे दधातनः महेर-
णाय चक्षसे । इति नदीतोयेन स्नापयेत् ।
ॐ शन्नो देवीरभिष्टये आपो भवन्तु पीतये
शंयोरभिस्रवन्तु नः । इति तीर्थमृत्कलसेन
स्नापयित्वा गावत्त्र्या गन्धयुक्तजलेन स्नापयेत् ।
ॐ हिरण्यवर्णाः शुचयः पावकाः यासु जातः
कश्यपो यास्विन्द्रः । अग्नीया गर्भन्दधिरे विरू-
पास्तान् आपः शं£श्योना भवन्तु ॥ इति पञ्च-
मृत्तिकया । ॐ इमं मे गङ्गे यमुने सरस्वति
सुतुद्रि स्तोमम् सचता परुष्ण्या । असिक्न्या
मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया
इति मन्त्रेण सिकताजलेन । ॐ तद्विष्णोः परमं
पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुरा-
ततम् । इति बल्मीकतोयेन । ॐ या ओषधी
सोमराज्ञीर्विष्ठिताः पृथिवीमनु । तामह्य-
मस्मिन्नासनेऽच्छिद्रं शर्म्म यच्छत । इति सर्व्वौ-
षधिजलेन । ॐ यज्ञा यज्ञा वो अग्नये गिरा
गिरा च दक्षसे । प्रप्रवयममृतञ्जातवेदसं प्रियं
मित्रन्नशं सिषम् । इति कषाययुक्तजलेन ।
पञ्चगव्येन स्वैः स्वैर्मन्त्रैः सेचयेत् । ॐ पयः
पृथिव्यां पय औषधीषु पयो दिव्यन्तरिक्षे
पयोधाम । पयखती प्रादशः सन्तु मह्यं सम्मा
सृजामि पयसा घृतेन सम्मा सृजाम्यपहः ॥
इति पञ्चगव्येन । ॐ तस्माद्यज्ञात् सर्व्वहुतऋचः
सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्-
यजुस्तस्मादजायत ॥ इति पञ्चामृतेन । ॐ याः
फलिनीति फलोदकेन । ॐ सहस्रशीर्षेति वक्ष्य-
माणमन्त्रण सहस्रधारया । ॐ एतोन्विन्द्रमिति
पूर्ब्बोक्तमन्त्रेण तुलसीचन्दनयुक्तजलेन । ॐ यासां
राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्ज-
नानाम् । मधुश्च्युतः शुचयो याः पावकास्ता
आपो देवीरिह मामवन्तु ॥ इत्यनेन वेदादि
चतुष्टयेन । तद्यथा ॐ अग्निमीले पुरोहितं
यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् । १ ।
ॐ इषेत्वोर्जेत्वा वायवस्थदेवो वः सविता प्रार्प-
यतु श्रेष्ठतमाय कर्म्मणे । २ । ॐ अग्न आयाहि
वीतये गृणानो हव्यदातये निहोता सत्सि
वर्हिषि । ३ । ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु
पीतये शंयोरभिस्रवन्तु नः । ४ । वक्ष्यमाण-
पुरुषसूक्तेन च एकाशीतिघटैः स्नापयेत् ।
अशक्तौ अष्टाविंशतिघठैरष्टघटैर्वा स्नापयित्वा
धौतवाससा जलमपनीय यथोपचारैः संपूज्य
मण्डले आधारशक्त्यादीनि पूजयेत् । * । ॐ
आधारशक्तये नमः । एवं सर्व्वत्र प्रणवादि-
नमोऽन्तेन । प्रकृत्यै कूर्म्माय अनन्ताय पृथिव्यै
क्षीरसमुद्राय रत्नद्वीपाय रत्नोज्ज्वलसहितमहा-
मणिमण्डपाय कल्पवृक्षाय रत्नवेदिकायै रत्न-
सिंहासनाय । आग्नेय्यां धर्म्माय नैरृत्यां
ज्ञानाय वायव्यां वैराग्याय ऐशान्यां ऐश्वर्य्याय
पूर्ब्बस्यां अधर्म्माय पश्चिमायां अवैराग्याय
उत्तरस्यां अनैश्वर्य्याय । मध्ये अं अर्कमण्डलाय
उं सोममण्डलाय मं वह्निमण्डलाय । सं सत्वाय
रं रजसे तं तमसे । आं आत्मने अं अन्तरा-
त्मने पं परमात्मने ह्रीं ज्ञानात्मने । पूर्ब्बादिकेश-
रेषु प्रादक्षिण्येन ॐ विमलायै नमः । एवं उत्-
कर्षिण्यै ज्ञानायै क्रियायै यीगायै प्रह्वै सत्यायै
ईशानायै । कर्णिकायां अनुग्रहायै । कर्णिकोपरि
ॐ नमो भगवते विष्णवे सर्व्वभूतात्मने वासुदेवाय
सर्व्वात्मसंयोगयोगपीठात्मने नमः ॥ * ॥ ततो
मण्डले देवं संस्थाप्य पौराणिकमन्त्रेण पुरुष-
सूक्तेन वा षोडशोपचारैः पूजयेत् । तद्यथा ।
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्व्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् । १ ।
पृष्ठ ३/५७१
सर्व्वतः स्थाने विश्वतो वृत्वा स्थाने स्पृष्ट्वा इत्यपि
पाठः । इति पठित्वा भगवन् विष्णो इहागच्छ
इहागच्छ इह तिष्ठ इह तिष्ठ इह सन्निरुद्धस्व
मम पूजां गृहाण । ततो यथाविध्यासनमानीय
वमिति वरुणबोजेनार्घ्याम्भसा संप्रोक्ष्यासनम-
भ्यर्च्च्य ॐ पुरुष एवेदं सर्व्वं यद्भूतं यच्च भाव्यं
उतामृत त्वस्पेशानो यदतेनातिरोहति २ ।
इति पठित्वा इदममुकासनं ॐ नमो भगवते
वासुदेवाय श्रीविष्णव नमः । एवं सर्व्वत्र दाने ।
ॐ भगवन् विष्णो स्वागतम् । इति स्वागतप्रश्नः ।
ततस्ताम्रपात्रस्थं पद्मश्यामाकदूर्व्वापराजितादि-
युक्तं जलं गृहीत्वा ॐ एतावानस्य महिमातो
ज्यायांश्च पूरुषः पादोऽस्य विश्व भूतानि
त्रिपादस्यामृतं दिवि ३ । इति पठित्वा इदं
पाद्यं पूर्ब्बवन्मूलेन पादयोर्द्दद्यात् । ततो
गन्ध-पुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्व्वायुक्तजलं
शङ्खादिपात्रे कृत्वा ॐ त्रिपादूर्द्ध उदैत् पुरुषः
पादोऽस्येहाभवत् पुनः । ततो विश्वङ्व्यक्रामत्
शासनानशने अभि ४ ॥ ततः स्थाने तस्मा-
दित्यपि पाठः । इति पठित्वा सामगानामिद-
मर्घ्यमन्येषामेषः अर्घः इति शिरसि दद्यात् ।
जातीलवङ्गकक्कोलयुक्तं केवलं वा पात्रस्थं जलं
गृहीत्वा ॐ ततो विराडजायत विराजोऽधि-
पुरुषः स जातोऽत्यरिच्यत पश्चाद्भुविमथो
पुरः ५ ॥ इति पठित्वा इदमाचमनीयं ॐ नमो
भगवते वासुदेवाय श्रीविष्णवे स्वधा इति
दद्यात् । ततः कांस्यपात्रस्थं दधिमधुघृतात्मकं
कांस्येन पिहितं मधुपर्कं गृहीत्वा ॐ तस्माद्-
यज्ञात् सर्व्वहुतः संभृतं पृषदाज्यं पशूंस्तां
श्चके वायव्यानारण्या ग्राम्याश्च ये ६ ॥ इति
पठित्वा एष मधुपर्कः ॐ नमो भगवते वासु-
देवाय श्रीविष्णवे स्वाहा इति दद्यात् । ततः
पूर्ब्बमन्त्रं पठित्वा पुनराचमनीयञ्च दद्यात् ।
कर्पूरवासितजलं गृहीत्वा ॐ तस्माद्यज्ञात्
सर्व्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि
जज्ञिरे तस्माद्यजुस्तस्मादजायत ७ ॥ इति
पठित्वा इदं स्नानीयजलं मूलेन दद्यात् ।
पूर्ब्बवत् पुनराचमनीयं दत्त्वा वस्त्रं गृहीत्वा ॐ
तस्मादश्वा अजायन्त ये के चोभयादतः । गावो
ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ८ ॥
इति पठित्वा इदं वस्त्रं मूलेन दद्यात् । एव-
मुत्तरीयवस्त्रं यज्ञोपवीतं पूर्ब्बवदाचमनीयं दत्त्वा
आभरणं गृहीत्वा ॐ तं यज्ञं वर्हिषि प्रौक्षन्
पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या
ऋषयश्च ये ९ ॥ इति पठित्वा मूलेन दद्यात् ।
ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् मुखं
किमस्यासीत् किंबाहू किमूरू पादा उच्येते १० ।
ऋग्वेदस्याश्वलायनशाखायान्तु मुखं किमस्य
कौ बाहू कावूरू पादा उच्येते इति भेदः ।
इति पठित्वा मूलेन गन्धं दद्यात् । ॐ ब्राह्मणो
ऽस्य मुखमासीत् बाहू राजन्यः कृतः । उरू
तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ११ ॥
इति पठित्वा मूलेन पुष्पं दद्यात् । ॐ चन्द्रमा
मनसो जातश्चक्षोः सूर्य्यो अजायत । श्रोत्रा-
द्वायुश्च प्राणश्च मुखादग्निरजायत १२ ॥ मुखा-
दिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत इति च पाठः ।
इति पठित्वा मूलेन धूपं दद्यात् । ॐ नाभ्या
आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्त्तत । पद्भ्यां
भूमिर्द्दिशः श्रोत्रात्तथा लोकानकल्पयन् १३ ॥
इति पठित्वा मूलेन दीपं दद्यात् । ततो नैवेद्यो-
परि मत्स्यमुद्रया मूलमन्त्रं दशधा जप्त्वाभ्यर्च्य
धेनुमुद्रां प्रदर्श्य ॐ यत्पुरुषेण हविषा देवा
यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः
शरद्धविः १४ ॥ इति पठित्वा नैवेद्यं मूलेन
दद्यात् । ॐ सप्तास्यासन् परिधयस्त्रिः सप्त
समिधा कृताः । देवा यद्यज्ञं तन्नांना अवध्नन
पुरुषं पशुम् १५ ॥ इति पठित्वा कर्पूरादि-
वासितं पानीयं ताम्बूलं पुनराचमनीयं दर्पणञ्च
दद्यात् । ॐ यज्ञेन यज्ञमयजन्त देवास्तानि
धर्म्माणि प्रथमान्यासन् । ते ह नाकं महि
मानः स चन्त यत्र पूर्ब्बे साध्याः सन्ति
देवाः १६ । इति पठित्वा अञ्जलित्रयं पुष्पं
दत्त्वा आवरणानि संपूज्य मूलमन्त्रं यथाशक्ति
जप्त्वा प्रणमेत् । * । ऋग्वेदस्याश्वलायनशाखा-
यान्तु यत्पुरुषेण हविषा इत्यादिना स्नानीयं ६
तं यज्ञं वर्हिषीत्यादिना वस्त्रं ७ तस्मात् यज्ञात्
सर्व्वहुतः संभृतभित्यादिना यज्ञोपवीतम् ८
तस्मात् यज्ञात् सर्व्वहुत ऋचः सामानीत्यादिना
चन्दनम् ९ तस्मादश्वा अजायन्त इत्यादिना
पुष्पं १० यत्पुरुषं व्यदधुरित्यादिना धूपम् ११
ब्राह्मणोऽस्य मुखमासीदित्यादिना दीपम् १२
चन्द्रमा मनसो जात इत्यादिना नैवेद्यम् १३
नाभ्या आसीदन्तरिक्षमित्यादिना ताम्बूलम् १४
सप्तास्यासन् परिधय इत्यादिना नीराजनम् १५
इति भेदः अन्यत् समानम् । * । ततो गुरुः
कुण्डपश्चिमे उपविश्य कुण्डे स्थण्डिले वा ब्राह्म
विधिना तदज्ञाने स्वगृह्योक्तविधिना साहस-
नामानमग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं अभि-
षेकार्थं ऐशान्यां नवमव्रणमश्यामं बहिर्द्दध्यक्षत-
भूषितं चूताश्वत्थन्यग्रोधोडुम्बरप्लक्षपल्लवच्छन्न-
मुखं फलवस्त्रयुतं अन्तःक्षिप्तपञ्चरत्नं निर्म्मल-
जलपूर्णं दृढकलसं अक्षतानामुपरि ॐ आजिघ्र
कलसमित्यादिमन्त्रेण स्थापयेत् । तत्र वरुणस्यो-
त्तम्भनमसीति बरुणं न्यसेत् ।
“ॐ गङ्गाद्याः सरितः सर्व्वाः समुद्राश्च सरांसि
च ।
सर्व्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥”
इति तीर्थानि च न्यसेत् । तत्रैव कलसे अश्व-
स्थानाद्गजस्थानात् बल्मीकात् सङ्गमात् ह्रदात् ।
गोकुलात् रथ्याया आनीय सप्त मृदः क्षिपेत् ॥
सर्व्वौषधीश्च ॥ * ॥ ततश्चरुश्रपणं कुर्य्यात् ।
अग्नेरुत्तरे द्व्यङ्गुलविस्ताराग्रां प्रादेशपरिमि-
तोडम्बरनिर्म्मितदर्व्वीं सार्द्धाङ्गुष्ठविस्ताराग्र-
प्रादेशपरिमितोडुम्बरनिर्म्मितमेक्षणं चरुस्थार्ला
आज्यस्थाली उदूखलमुषले स्रुवं पूर्णहोमार्थं
स्रुचं समिधं आज्यादीनि उदगग्राणि प्राञ्चं
प्राञ्चं विनियोगक्रमेणासादयति । संस्थाप्य
यवान् ब्रीहीन् वा तदभावे तण्डुलान् शूर्पे
निधाय । सामगः । ॐ विष्णवे त्वा जुष्टं निर्व्व-
पामि । इति यवादिप्रसृतिमेकां चरुस्थाल्यां
कृत्वा उदूखलमध्ये स्थापयेत् । यजुर्व्वेदी तु
ॐ विष्णवे त्वा जुष्टं गृह्णामि ॐ विष्णवे त्वा
जुष्टं निर्व्वपामि चमसस्थजलेन ॐ विष्णवे त्वा
जुष्टं प्रोक्षामीति त्रयं कुर्य्यात् । ऋग्वेदी तु ॐ
विष्णवे त्वा जुष्टं निर्व्वपामि ॐ विष्णवे त्वा
जुष्टं प्रोक्षामीति निर्व्वापप्रोक्षणमात्रम् । यस्य
गृहप्रतिष्ठा तस्यादौ जुष्टग्रहणम् । एवं सर्व्वत्र ।
एवमग्न्यादिषु । ॐ अग्नये त्वा जुष्टं निर्व्वपामि
एवं वायवे सूर्य्याय द्विः विष्णवे द्विः अग्नये
वायवे पुनरग्नये वरुणाय पुनरपि अग्नये
सूर्य्याय प्रजापतये अन्तरीक्षाय द्यवे ब्रह्मणे
पृथिव्यै महाराजाय सोमाय इन्द्राय अग्नये
यमाय नैरृताय वरुणाय वायवे कुवेराय
ईशानाय ब्रह्मणे अनन्ताय आदित्याय सोमाय
मङ्गलाय बुधाय बृहस्पतये शुक्राय शनैश्चराय
राहवे केतुम्य इत्थं नवत्रिंशत् प्रसृतीः स्थाप-
येत् । द्विस्तूष्णीं उपरिकृतदक्षिणवाममुष्टिभ्यां
मुषलेनावहत्य शूर्पेण प्रस्फोटयेत् । एवमपर-
वारद्वयमवहत्य शूर्पेण प्रस्फोटयेत् । तथा कर्त्तव्यं
यथा वारत्रयेण तण्डुलनिष्पत्तिर्भवति । तदशक्तौ
संस्कारमात्रार्थं तण्डुलेष्वेवम् । ततस्तण्डुलान्
त्रिः प्रक्षाल्य चरुस्थाल्याममन्त्रकं कृतोत्तराग्रं
पवित्रं निःक्षिप्य तत्र तण्डुलान् निधाय कपि-
लाया दुग्धं निःक्षिप्य तदभावे अन्यधेनो-
र्दुग्धं निःक्षिप्य दर्व्व्यां प्रागादिप्रदक्षिणमीष-
दूर्द्ध्वमवघट्टयंस्तथा पचेत् यथा दाहकाठिन्याति-
शैथिल्यमण्डगालनरहितोऽन्तरुष्मपक्वश्चरुर्भवति
ज्वलदुल्मुकेन स्थालीमध्यस्थं चरुं दृष्ट्वा ॐ
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
दिर्वाव चक्षुराततमित्यनेन मन्त्रेणं ओमित्यनेन
च घृतेन सिक्त्वा दर्व्व्या दक्षिणावर्त्तेन संमिश्र-
येत् । ततोऽग्नेरुत्तरतोऽवतार्य्य पुनर्ज्वलदुल्मु-
केन स्थालीमध्यस्थं दृष्ट्वा पुनर्घृतेनाभिधारयेत् ।
ततः पर्य्युक्षणान्तां कुशण्डिकां समाप्य सामगस्तु
काम्यकर्म्माङ्गत्वेन तपश्च तेजश्च श्रद्धा च ह्रीश्च
सत्यञ्चाक्रोधश्च त्यागश्च धृतिश्च धर्म्मश्च सत्त्वञ्च
वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये
तानि मामवन्तु । इति जपित्वा विरूपाक्षजपं
कुर्य्यात् । ततः प्रकृते कर्म्मणि ।
“ॐ पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः ।
छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्ति-
धारकः ॥”
इत्यादित्यपुराणीयं ध्यात्वा विष्णुवेश्मप्रतिष्ठा-
कर्म्मणि अग्ने त्वं साहसनामासीति नाम कृत्वा-
वाह्य संपूज्य प्रादेशप्रमाणां घृताक्तां समिघं
पृष्ठ ३/५७२
तूष्णीमग्नौ हुत्वा मेक्षणेन चरुं गृहीत्वा ॐ तद्बि-
ष्णोरित्यादिस्वाहान्तेन जुहुयात् सर्व्वत्र साम-
गानां मन्त्रान्ते देवतोद्देशो नास्ति । अन्येषां
इदं विष्णवे इति । ॐ भूः स्वाहा इदमग्नये ॐ
भुवः स्वाहा इदं वायवे ॐ स्वः स्वाहा इदं
सूर्य्याय ॐ भूर्भवः स्वः तत् सवितुर्व्वरेण्यं भर्गो
देवस्य धीमहि । धियो यो नः प्रचोदयात्
स्वाहा इदं सूर्य्याय । ॐ तद्विप्रासो विपन्यवो
जागृवांसः समिन्धते विष्णोर्यत् परमं पदं स्वाहा
इदं विष्णवे । ॐ विश्वतश्चक्षुरुत विश्वतो मुखो
विश्वतो बाहुरुत विश्वतस्पात् संबाहुभ्यां धमति
संपतत्रैर्द्यावा भूमी जनयन् देव एकः स्वाहा
इदं विष्णवे । ॐ अग्निमीले पुरोहितं यज्ञस्य
देवमृत्विजं होतारं रत्नधातमं स्वाहा इद-
मग्नये । ॐ इषेत्वोर्जेत्वा वायवस्थदेवो वः
सविता प्रार्पयतु श्रेष्ठतमाय कर्म्मणे स्वाहा इदं
वायवे । ॐ अग्न आयाहि वीतये गृणानो
हव्यदातये निहोता सत्सि बर्हिषि स्वाहा
इदमग्नये । ॐ शन्नो देवीरभीष्टये शन्नो भवन्तु
पीतये शंयोरभिस्रवस्तु नः स्वाहा इदं वरुणाय ।
ॐ भूरग्नये स्वाहा ॐ सूर्य्याय स्वाहा ॐ
प्रजापतये स्वाहा ॐ अन्तरीक्षाय स्वाहा ॐ
द्यौः स्वाहा ॐ ब्रह्मणे स्वाहा ॐ पृथिव्यै स्वाहा
ॐ महाराजाय स्वाहा एष्वपि सामगेतरै-
स्तत्तद्देवतोद्देशः पश्चात् कार्य्यः । ॐ सोमं
राजानं वरुणमग्निमन्वारभामहे आदित्यं
विष्णुं सूर्य्यं ब्रह्माणञ्च बृहस्पतिं स्वाहा इदं
सोमाय ॥ * ॥ ततो दिक्पालहोमः । ॐ
त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं
सूरमिन्द्रं ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्तिनो
मघवा धात्विन्द्रः स्वाहा इदमिन्द्राय । ॐ
अग्निं दूतं वृणीमहे होतारं विश्ववेदसं अस्य
यज्ञस्य सुक्रतुं स्वाहा इदमग्नये । ॐ नाके
सुपर्णमुपयत् पतन्तं हृदावेनन्तो अभ्यचक्षत
त्वा हिरण्यपक्षं वरुणस्य दूतं यमस्य योनी
शकुनं भुरण्यं स्वाहा इदं यमाय । ॐ वेत्था
हि निरृतीनां वज्रहस्तः परिव्रजं अहरहः
सिन्धुपरिपदामिव स्वाहा इदं निरृताय ।
ॐ घृतवती भुवनानामभिश्रियोर्व्वी पृथ्वी मधु-
दुधे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणा
विष्कभिते अजरे भूरिरेतसा स्वाहा इदं वरु-
णाय । ॐ वात आवातु भेषजं शम्भुमयो भुनो
हृदे प्रण आयूंषि तारिषत् स्वाहा इदं
वायवे । ॐ सोमं राजानं वरुणमग्निमन्वा-
रभामहे आदित्यं विष्णुं सूर्य्यं ब्रह्माणञ्च बृह-
स्पतिं स्वाहा इदं सोमाय । ॐ अभित्वा
शूरणोनुमोऽदुग्धा इव धेनवः । ईशानमस्य
जगतः स्वर्दुशमीशानमिन्द्र तस्थुषः स्वाहा इद-
मीशानाय । ॐ ब्रह्म यज्ज्ञानं प्रथमं पुर-
स्ताद्विसीमतः सुरुचो वेण आवः । सुबुध्न्या
उग्रमा अस्य विष्ठाः सतश्च योनिमसतश्च
विवः स्वाहा इदं ब्रह्मणे । ॐ चर्षणीधृतं मघ-
वानमुक्थ्यामिन्द्रं गिरो बृहतीरभ्यनूषत वावृ-
धानं पुरुहूतं सुवृक्तिभिरमर्त्यं जवमानं दिवे
दिवे स्वाहा । इदमनन्ताय । इति सामगो
जुहुयात् । तत्तद्देवतोद्देशस्तु न कर्त्तव्यः । तत्तद्-
देवताप्रकाशनाय च देवताविशेषा उक्ताः ॥ * ॥
यजुर्व्वेदी तु । ॐ त्रातारमिन्द्रमवितारमिन्द्रँ
हवे हवे सुहवँ सूरमिन्द्रं हुवनु शक्रं पुरुहूत
मिन्द्रँ स्वस्तिनो मघवा धात्विन्द्रः स्वाहा इद-
मिन्द्राय । ॐ वैश्वानरो न उतय आप्रयातु परा-
वतः अग्निरुक्थेन वाहसा उपयामगृहीतोऽसि
वैश्वानराय द्बैषते योनिर्व्वैश्वानराय त्वा स्वाहा
इदमग्नये । ॐ असियमोऽस्यादित्योऽर्व्वन्नसि-
त्रितो गुह्येन व्रतेन असि सोमेन समयाविपृक्त
आहुस्ते त्रीणि दिवि बन्धनानि स्वाहा इदं
यमाय । ॐ यस्ते देवी निरृ तिराबबन्ध पाशं
ग्रीवासु विश्रुत्यं तन्ते विषाम्यायुषो न मध्या-
दथैतं पित्तमद्धि प्रसूतः । नमी भूत्यै एदञ्च-
कारस्वाहा । इदं निरृतये । शाखान्तरे
तु ॐ यत्ते देवी निरृ तिराबबन्ध दासग्रीवा
स्वविच श्रर्त्यं इदन्ते तद्विष्यामायुषो न मध्या-
दथा जीवः पितुमद्धिप्रमुक्त स्वाहा इदं निरृ-
तये । ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ-
सर्जनीस्थः वरुणस्य ऋतसदन्यसि वरुणस्य
ऋतसदनमसि वरुणस्य ऋतसदनी मासीद
स्वाहा इदं वरुणाय । ॐ वातो वावो मनो
वा गन्धर्व्वाः सप्तविंशतिस्तेऽग्रे समयुञ्जँस्ते-
ऽस्मिन् यवमादधुः स्वाहा इदं वायवे । ॐ
कुविदङ्गथवमन्तो यवञ्चिद्यथा दान्त्यनुपूर्ब्बं
वियूयम् । इहे हैषां कृणुहि भोजनानि ये
बर्हिषो नम उक्तिं न जग्मुः स्वाहा इदं कुवे-
राय । ॐ तमीशानं जगतस्तस्थुषस्पतिं धियं
जिन्नमवसे हूमहे वयम् । पूषाणो यथा वेद-
सामसद्वृधे रक्षिता पायुरदब्धस्वस्तये स्वाहा
इदमीशानाय । ॐ आब्रह्मन् ब्राह्मणो ब्रह्म-
वर्च्चसी जायता माराष्ट्रे राजन्य शूर इषव्योति
व्याधी महारथो जायतां स्वाहा इदं ब्रह्मणे ।
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ये
अन्तरीक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहा
इदमनन्ताय ॥ * ॥ ऋग्वेदी तु । ॐ त्रातार-
मिन्द्रमवितारमिन्द्रं हवे हवे सुहवं सूरमिन्द्रं
ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा
धात्विन्द्रः स्वाहा इदमिन्द्राय । ॐ अग्निं दूतं
पुरोदधे हव्यवाहमुपब्रुवे देवा आसादयादिह
स्वाहा इदमग्नये । ॐ यमाय सोमं सुतनुत
यमाय जुहुता हविः यमं ह यज्ञो गच्छत्यग्नि-
दूतो अरं कृतः स्वाहा इदं यमाय । ॐ एषते
निरृतेर्भागस्तं जुषस्व स्वाहा अग्निनेत्रेभ्यो
देवेभ्यः पुरः सद्भ्यः स्वाहा यमनेत्रेभ्यो दक्षिणा-
सद्भ्यः विश्वदेवनेत्रेभ्यः देवेभ्यः स्वाहा पश्चात्
सद्भ्यः स्वाहा मित्रावरुणनेत्रेभ्यो देवामादा-
वय्य उषरा सद्भ्यः स्वाहा सोमनेत्रेभ्यो देवेभ्य
उपविशद्भ्यो दुरः सद्भ्यः स्वाहा इदं निरृ-
ताय । आश्वलायनशाखायान्तु ॐ मोषुणः
परापरा निरृ तिर्दुर्हनावधीत् । पदीष्ट तृष्णया
सह स्वाहा इदं नैरृ ताय । ॐ तत्वायामि
ब्रह्मणा बन्दमानस्तदाशास्ते यजमानो
हविर्भिः । अहेडमानो वरुणे हवोध्युरुशं
समान आयुः प्रमोषी स्वाहा इदं वरुणाय ।
ॐ वातो वावो मनो वा गन्धर्व्वाः सप्तविंशति-
स्तेग्रेऽश्वमयुञ्जँस्तेऽस्मिन् यवमादधुः स्वाहा ।
इदं वायवे । आश्वलायनशाखायान्तु ॐ तव
वाय वृतस्यते त्वष्टुर्ज्जामातरद्भुत । अवांस्या
वृणीमहे स्वाहा इदं वायवे । ॐ कुविदङ्गयव-
मन्तो यवञ्चिद्यथा दान्त्यनुपूर्ब्बं वियूय इहे
हैषां कृणुहि भोजनानि ये बर्हिषो नमो वृक्तिं
न जग्मुः स्वाहा इदं कुवेराय । ॐ तमीशानं
जगतस्तस्थुषस्पतिं धियं जिन्नमवसे हूमहे वयं
पूषाणो यथा वेद सामसद्वृधे रक्षिता पायुर-
दब्धस्वस्तये स्वाहा इदमीशानाय । ॐ ब्रह्म
यज्ज्ञानं प्रथमं पुरस्ताद्विषीमत सुरुचो वेण
आवः स्वबुध्न्या उपमा अस्य विष्ठाः सतश्च
योनिमसतश्च विवः स्वाहा इदं ब्रह्मणे । ॐ
नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु येऽन्त-
रीक्षे ये दिवि तेभ्यः सर्पेभ्यो नम स्वाहा इद-
मनन्ताय ॥ * ॥ ततो नवग्रहहोमः । ॐ आकृ-
ष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्त्यञ्च
हिरण्ययेन सविता रथेना देवो याति भुवनानि
पश्यन् स्वाहा । ॐ आप्यायस्व समेतु ते विश्वतः
सोमवृष्ट्यं भवावाजस्य सङ्गथे स्वाहा । ॐ अग्नि-
र्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयं अपाँ
रेतां£सि जिन्नति स्वाहा । ॐ अग्ने विवस्वदुषस
श्चित्रं राधोऽमर्त्य आदाशुषे जातवेदो वहा
त्वमद्या देवां उषर्व्वुधः स्वाहा । ॐ बृहस्पते
परिदीया रथेन रक्षोहा मित्रां अपबाधमानः
प्रभञ्जत्सेना प्रमृणो युधा यजन्नस्माकमेध्यविता
रथानां स्वाहा । ॐ शुक्रन्तेऽन्यद्यजन्ते अन्य-
द्बिषुरूपे अहनी द्यौरिवासि विश्वा हि माया
अवसि स्वधावन् भद्राते पूषन्निह रातिरस्तु
स्वाहा । ॐ शन्नो देवीरभीष्टये शन्नो भवन्तु
पीतये शंयोरभिस्रवन्तु नः स्वाहा । ॐ कयान-
श्चित्र आभुव दूती सदा वृधः सखा कया
सचिष्ठया वृता स्वाहा । ॐ केतुं कृन्नन्नकेतवे
पेशो मर्य्या अपेशसे समुसद्भिरजायथाः स्वाहा ।
यजुर्व्वेदी तु । ॐ आकृष्णेनेत्यादि इदं सूर्य्याय ।
ॐ इमं देवा असपत्नँ सुबद्धं महते क्षत्त्राय
महते ज्यैष्ठाय इमममुममुष्य पुत्त्रममुष्याः
पुत्त्रमस्यै विशे स्वाहा । इदं सोमाय । ॐ
अग्निर्मूद्धा दिवः ककुत्पतिः पृथिव्या अयं
अपां£ रेतां£सि जिन्नति स्वाहा । इदं मङ्ग-
लाय । ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमि-
ष्टापूर्त्ते सं£सृजेथामयञ्च । अस्मिन् सधस्थे
अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत
स्वाहा । इदं बुधाय । ॐ बृहस्पते अति यदर्य्यो
अर्हाद्युमद्विभाति क्रतुमज्जनेषु । यद्दीदषच्छरस
पृष्ठ ३/५७३
ऋत प्रजात तदस्मामु द्रविणं धेहि चित्रं£
स्वाहा । इदं बृहस्पतये । ॐ अन्नात् परिश्रुतो
रसं ब्रह्मणा व्यपिबत् क्षत्त्रं पयःसोमं प्रजा-
पतिः । ऋतेन सत्यमिन्द्रियं विपानं£ शुक्र-
मन्धसः । इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु
स्वाहा । इदं शुक्राय । ॐ शन्नो देवीरभीष्ठये
आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः स्वाहा ।
इदं शनैश्चराय । ॐ काण्डात् काण्डात् प्ररो-
हन्ती परुषः परुषः परि एवानो दूर्व्वे प्रतनु
सहस्रेण शतेन च स्वाहा । इदं राहवे । ॐ
केतुं कृन्नन्नकेतवे पेषो मर्य्या अपेशसे समुसद्भि-
रजायथाः स्वाहा । इदं केतुभ्यः । ऋग्वेदी तु
एभिरेव मन्त्रैर्जुहुयात् ॥ * ॥ ततो मेक्षणमग्नौ
प्रक्षिपेत् । एवं चरुहोमं समाप्य चरुशेषेण
दिग्भ्यो बलिन्दद्यात् । तद्यथा । एष पायस-
वलिः ॐ प्राच्यै दिशे नमः । एवमाग्नेय्यै अवाच्यै
निरृत्यै प्रतीच्यै वायव्यै उदीच्यै ऐशान्यै ऊर्द्ध्व-
दिशे अधोदिशे ॥ * ॥ ततो घृताक्तपलाश-
समिधा अष्टोत्तरशतं जुहुयादनेन मन्त्रेण । ॐ
तद्विष्णोरित्यादि स्वाहा इदं विष्णवे । ततः
पूर्ब्बोक्तैश्चरुहोममन्त्रैस्तत्तद्देवताभ्यः स्रुवेणा-
ज्याहुतीर्जुहुयात् । तत आज्येन पुरुषसूक्त-
नवभिर्म्मन्त्रैः सामगो जुहुयात् । यथा । ॐ
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं स मूढमस्य
पांशुले स्वाहा । १ । ॐ प्रक्षस्य विष्णो अरु-
षस्य नूसहः प्रणवोचं विदथा जातवेदसः
वैश्वानराय मतिर्नव्यसि शुचिः सोम इव पवते
चारुरग्नये स्वाहा । २ । ॐ प्रकाव्यमुषणेव
ब्रुवाणो देवो देवानां जनिमा विवक्ति महिव्रतः
शुचिबन्धुः पावकः पदा वराहो त्येति रेतन्
स्वाहा । ३ । ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः
सहस्रपात् । स भूमिं सर्व्वतो वृत्वा अत्यतिष्ठ-
द्दशाङ्गुलं स्वाहा । ४ । ॐ त्रिपादूर्द्ध्वमुदेत्
पुरुषः पादोऽस्येहाभवत् पुनः । ततो विश्वं
व्यक्रामत् शासनानशने अभि स्वाहा । ५ ।
ॐ पुरुष एवेदं सर्व्वं यद्भूतं यच्च भव्यं उतामृत
त्वस्येशानो यदन्नेनातिरोहति स्वाहा । ६ ।
ॐ एतावानस्य महिमातो ज्यायांश्च पुरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं
दिवि स्वाहा । ७ । ॐ ततो विराडजायत
विराजो अधिपूरुषः । स जातो अत्यरिच्यत
पश्चाद्भूमिमथो पुरः स्वाहा । ८ । ॐ कयान-
श्चित्र आभुवदूती सदा वृधः सखा कया सचि
ष्ठया वृता स्वाहा । ९ । * । यजुर्व्वेदी तु ।
षोडशोपचारपूजोक्तपुरुषसूक्तषोडशमन्त्रैरा-
ज्येन षोडशाहुतीर्जुहुयात् । ऋग्वेदिनाम-
प्येवम् ॥ * ॥ तत आज्यमिश्रितान् तिलान्
गृहीत्वा ॐ इरावती धेनुमती हि भूतं सूयव-
सिनी मन वेदशस्या व्यस्तभ्ना रोदसी विष्णु-
रेतेराधत्त पृथिवीमभितो मयूखैः स्वाहा । इदं
विष्णवे । इति सकृत् जुहुयात् । ॐ ब्रह्मानु-
यायिभ्यः स्वाहा । ॐ विष्ण्वनुयायिभ्यः स्वाहा ।
ॐ ईशानानुयायिभ्यः स्वाहा । एवं पूर्ब्बोक्तै-
र्नवग्रहमन्त्रैर्दशदिक्पालमन्त्रैश्च सकृत् सकृत्
जुहुयात् । एवं पर्व्वतेभ्यः स्वाहा । ॐ नदीभ्यः
स्वाहा । ॐ समुद्रेभ्यः स्वाहा । एवं तिल-
होमं समाप्य स्रुवेण महाव्याहृतिभिराज्यं
जुहुयात् । * । ततः प्रायश्चित्तहोमसङ्कल्पं
कृत्वा ॐ अग्ने त्वं विधुनामासीति नाम कृत्वा
आवाह्य पूजयित्वा परिभाषासिद्धं स्वशाखोक्तं
प्रायश्चित्तहोमादि कृत्वा पूर्णाहुत्यां मृडनामा-
नमग्निं पूजयित्वा घृतपूर्णस्रुचा उत्थाय यज-
मानेनान्वारब्धः ॐ तद्विष्णोः परममित्यादि
वौषट् इत्युच्चार्य्य पूर्णाहुतित्रयं दद्यात् । तत
आचारात् ऐशान्यां पृथ्वि त्वं शीतला भव
इत्युच्चार्य्य दुग्धादि क्षिप्त्वा स्रुवलग्नभस्मना ॐ
कश्यपस्य त्र्यायुषं इति शिरसि । ॐ यमदग्ने
स्त्र्यायुषं कण्ठे । ॐ यद्देवानां त्र्यायुषं बाहु-
मूलयोः । ॐ तन्मेऽस्तु त्र्यायुषं हृदि । अन्य-
कर्त्तृकपक्षे तु तत्तेऽस्तु त्र्यायुषमिति विशेषः ।
ततो यजमानः पञ्चगव्यं चरुशेषञ्च प्राश्य घ्रात्वा
वा पूर्णपात्रादिकां दक्षिणां ब्रह्मणे दद्यात् ततो
हेमयुक्तं सवस्त्रतिलपात्रं अलङ्कृतगवीं तन्मूल्यं
वा एतद्धोमकर्म्मप्रतिष्ठार्थमाचार्य्याय दद्यात् ।
अन्यहोतृपक्षे होत्रे दद्यात् । एतत्कृतकर्म्मणा
प्रीयतां भगवान् विष्णुरिति विष्णवे समर्पयेत् । * ।
ततः प्रासादसम्मुखे ॐ उत्तिष्ठ ब्रह्मणस्पते देवा
यजन्तस्ते महे उपप्रयान्तु मरुतः सुदानव इन्द्रः
प्राशुर्भवासचा इतिमन्त्रेण देवतामानीय विष्णु-
गृहस्य सम्मुखे गरुडं शिवगृहस्य वृषं दुर्गा-
गृहस्य सिंहं स्थापयेत् । ततो गन्धमाल्यवस्त्रा
दिना स्थपतिं परितोष्य ॐ इदं विष्णुर्विचक्रमे
इत्यादि पठित्वा ॐ चक्राय नम इति चक्रं
संपूज्य गृहोपरि यथायोग्यं चक्रादिकं विन्यस्य
गृहं वस्त्रेणाच्छाद्य गृहद्वारानुरूपं तोरणं
विधाय गृहानुरूपघण्टाचामरकिङ्किणीजाल-
वर्हिपत्रोपेतं सवस्त्रयष्टिसमेतं ध्वजं गृहस्येशान-
कोणे वायुकोणे वा स्थापयेत् । * । ततो विष्णुं
शालग्रामादौ यथार्हं गृहसमीपे नीत्वा पञ्चविं-
शतिघटैर्नारिकेलोदकैः पञ्चगव्यपञ्चामृतैस्तीर्थो-
दकैः स्नानं कारयित्वा षोडशोपचारादिभिः
पूजयेत् । वक्ष्यमाणमन्त्राणां पौराणिकत्वेन
शूद्राणामप्यधिकारः । अत्रार्घ्यपात्राम्भसा
प्रोक्षितं आसनं गृहीत्वा इदमासनं ॐ सर्व्वा-
न्तर्यामिणे देव सर्व्वबीजमयं ततम् । आत्मस्थाय
परं शुद्धमासनं कल्पयाम्यहम् ॥ ॐ विष्णवे
नम इति मूलेन दद्यात् १ । ततः कृताञ्जलिः ।
“ॐ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते परमेशाय स्वागतं स्वागतञ्च मे ॥
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ।
आगतो देवदेवेश ! सुस्वागतमिदं वपुः ॥”
विष्णो स्वागतमिति स्वागतप्रश्नः २ । ताम्र-
पात्रस्थं श्यामाकदूर्व्वापद्मापराजितायुक्तजलं
गृहीत्वा ।
“ॐ यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः ।
तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥”
इत्युच्चार्य्य मूलेन पादयोर्द्दद्यात् ३ । इदमासन-
मितीव मन्त्रस्य पूर्ब्बमेतत् पाद्यमिति प्रयोज्य-
मेवमुत्तरत्र यथायोग्यमुल्लेखः । गन्धपुष्पाक्षत-
यवकुशाग्रतिलश्वेतसर्षपदूर्व्वात्मकं अर्घ्यं शङ्खस्थं
गृहीत्वा ।
“ॐ तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥”
इति मूलेन शिरसि दद्यात् ४ । जातीलवङ्ग-
कक्कोलयुक्तं केवलं वा जलं गृहीत्वा ।
“ॐ देवानामपि देवाय देवानां देवतात्मने ।
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥”
इति मूलेन दद्यात् ५ । कांस्यस्थं दधिमधुघृता-
त्मकं कांस्यपिहितं मधुपर्कं गृहीत्वा ।
“ॐ सर्व्वकल्मषहीनाय परिपूर्णसुखात्मने ।
मधुपर्कमिमं देव कल्पयामि प्रसीद मे ॥”
इति मूलेन दद्यात् ६ । पुनराचमनीयं गृहीत्वा ।
“ॐ उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ॥”
इति मूलेन दद्यात् ७ । लौकिकषष्ट्यधिकशत-
त्रयतोलकान्यूनं तीर्थजलं गृहीत्वा ।
“ॐ परमानन्दबोधाब्धिनिमग्ननिजमूर्त्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ॥”
ॐ तद्विष्णोरिति मूलेन दद्यात् ८ । पूर्ब्बरीत्या
पुनराचमनीयञ्च दद्यात् । अर्घ्याम्भसा प्रोक्षितं
वस्त्रं गृहीत्वा ।
“ॐ मायाचित्रपटच्छन्ननिजगुह्योरुतेजसे ।
निरावरणविज्ञाय वासस्ते कल्पयाम्यहम् ॥”
इति मूलेन दद्यात् ९ । उत्तरीयवस्त्रं गृहीत्वा ।
“ॐ यमाश्रित्य महामाया जगत्संमोहिनी
सदा ।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥”
इति मूलेन दद्यात् ९ । ततः पूर्ब्बवत् पुनराच-
मनीयञ्च दद्यात् । सुवर्णाद्याभरणमर्ध्याम्भसा
प्रोक्ष्य ।
“ॐ स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।
भूषणानि विचित्राणि कल्पयाम्यमरार्च्चित ॥”
इति मूलेन दद्यात् १० । प्रोक्षितं गन्धं गृहीत्वा ।
“ॐ परमानन्दसौरभ्यपरिपूर्णदिगन्तर ।
गृहाण परमं गन्धं कृपया परमेश्वर ॥”
इति मूलेन दद्यात् ११ । तत्तद्देवताप्रियपुष्प-
मादाय ।
“ॐ तुरीयवनसम्भूतं नानागुणमनोहरम् ।
आनन्दसौरभं पुष्पं गृह्यतां परमेश्वर ॥”
इति मूलेन दद्यात् १२ । धूपं प्रोक्ष्य घण्टां
संपूज्य ।
“ॐ वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्व्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥”
इत्युञ्चार्य्य वामहस्तेन घण्टां वादयन् मूलेन
दद्यात् १३ । ततो घृतादिप्रदीपमादाय ।
“ॐ सुप्रकाशो महादीपः सर्व्वतस्तिमिरापहः ।
पृष्ठ ३/५७४
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥”
इति मूलेन दद्यात् १४ । प्रोक्षितनानाविध-
नैवेद्योपरि मत्स्यमुद्रया मूलं दशधा जप्त्वा-
भ्यर्च्च्य धेनुमुद्रयामृतीकृत्य ।
“ॐ सत्पात्रसिद्धं सुहविर्विविधानेकभक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ॥”
इति मूलेन दद्यात् १५ । जलमादाय ।
“ॐ समस्तदेवदेवेश सर्व्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥”
इति मूलेन दद्यात् १५ । पूर्ब्बवत् पुनराच-
मनीयञ्च । ताम्बूलं गृहीत्वा ।
“ॐ ताम्बूलं देवदेवेश कर्पूरादिसुवासितम् ।
कल्पयामि तवेशान वदनाम्भोजभूषणम् ॥”
इति मूलेन दद्यात् १५ । ततस्तत्तद्देवतानम-
स्कारमन्त्रैर्बन्दनं कुर्य्यात् । १६ । उपचारद्रव्या-
धारदाने साधारत्वेनोल्लेखः पृथग्वा तद्दानम् । * ।
तत ॐ विष्णवे नमः इति त्रिः संपूज्य घण्टा-
वितानतोरणयुक्तं वस्त्रादिच्छादितं वेश्म प्रोक्ष्य
ॐ विष्णवे नमः इति त्रिः संपूज्य ॐ तद्विष्णो-
रित्यनेन विष्णुं स्मृत्वा ॐ तत् सदित्युच्चार्य्य
वामहस्तेन धृत्वा कुशतिलजलान्यादाय अद्ये-
त्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा एतत्तृण-
काष्ठादिमयवेश्मपरमाणुसमसंख्यवर्षसहस्राव-
च्छिन्नस्वर्गलोकमहितत्वकामः श्रीविष्णुप्रीति-
कामो वा एतत्तृणकाष्ठादिमयवेश्म विष्णुदैवतं
विष्णवे तुभ्यमहं सम्प्रददे । इत्युत्सृजेत् । इष्ट-
कादिमये तु एतदिष्टकादिमयवेश्मपरमाणुसम-
संख्यवर्षसहस्रदशगुणकालावच्छिन्नस्वर्गलोक-
महितत्वकाम एतदिष्टकादीतिविशेषः । एतत्-
प्रतिष्ठार्थं सुवर्णं तन्मूल्यं वा दक्षिणां विष्णवे
दद्यात् । पश्चादाचार्य्यादौ प्रतिपत्तिः । * ।
ततो देवं स्वयं गृहीत्वा गृहप्रदक्षिणं कारयित्वा
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-
माक्षिभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिर्व्य-
सेम देवहितं यदायुः । इत्यनेनाभिमन्त्रितं देवं
गृहं प्रवेशयेत् । ॐ देवस्य त्वा सवितुः प्रसवे-
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तमाददे
इति मन्त्रेण पिण्डिकोपरि न्यसेत् । ॐ स्थिरो
भव वीड्डङ्ग आशुर्भव वाह्यर्व्वन् पृथुर्भव सुसदस्त्व-
मग्ने पुरीषवाहनः । इत्यनेन स्थिरीकुर्य्यात् ।
पुनर्देवं संपूज्य यथाशक्ति चामरघण्टावितान-
गोहिरण्यग्रामवाद्यभाण्डादिकं दद्यात् । तत
ॐ यावद्धराधरो देवो यावत्तिष्ठति मेदिनी ।
तावदत्र जगन्नाथ सन्निधीभव केशव ॥ इति
मन्त्रं पठेत् । ततो ध्वजसमीपं गत्वा संप्रोक्ष्य
तमारोपयेदनेन मन्त्रेण ॐ एह्येहि भगवन्नी-
श्वरविनिर्म्मित उपरिचरवायुमार्गानुसारिन्
श्रीकर श्रीनिवास रिपुध्वंसकर सुजनाधिलय
सर्व्वदेवतासम्मत कुरु शान्तिं स्वस्त्ययनञ्च मे
भवतु सर्व्वविघ्नान् हर हर स्वाहा ॐ ध्वजाय
नम इति ध्वजं संपूज्य ॐ विष्णवे नम इति
त्रिरभ्यर्च्च्य ध्वजं संप्रोक्ष्य वामहस्तेन स्पृष्ट्वा
अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा
महापातकादिबहुपापक्षयकामो विष्णुप्रीति-
कामो वा विष्णुवेश्मनि इमं ध्वजं विष्णुदैवतं
विष्णवे तुभ्यमहं सम्प्रददे । इत्युत्सृज्य एतत्-
प्रतिष्ठार्थं दक्षिणां विष्णवे दद्यात् । पश्चादा-
चार्य्यादौ प्रतिपत्तिः । ततो गरुडस्तम्भं समा-
रोप्य ॐ सुपर्णोऽसि गरुत्मांस्त्रिवृत्ते शिरो
गायत्त्र्यं चक्षुर्बृहद्रथन्तरे पक्षौ । स्तोम आत्मा
छन्दांस्यङ्गानि यजूंषि नाम सामते तनुर्वाम-
देव्यं यज्ञायज्ञियं पुच्छं धिष्ट्याश्च शफाः सुप-
र्णोऽसि गरुत्मान्दिवं गच्छ स्वःपते ॥ यजु-
र्वेदी तु । ॐ सुपर्णोऽसि गरुत्मान् त्रिवृत्ते
शिरो गायत्त्रं चक्षुस्तोम आत्मा साम ते तनू-
र्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं
छन्दांस्यङ्गानि धिष्णियाः शफाः यजूं£षि नाम ।
सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुरः पत इति
पठित्वा । ॐ गरुडाय नम इति त्रिःसंपूज्य
ॐ नमस्ते पतगश्रेष्ठ पन्नगान्तकर प्रभो । त्वत्-
प्रसादान्महाबाहो मोदेयं दिवि देववत् ॥
यथा त्वं संपुटकरः सततं नतकन्धरः । तथैव
पुरतो विष्णोस्त्वत्प्रसादाद्भवाम्यहम् ॥ इति
पुटाञ्जलिः प्रार्थयेत् ॥ * ॥ ततः पिष्टप्रदीपा-
दिना निर्म्मञ्छनं कुर्य्यात् । ततो विंशान्यून-
ब्राह्मणेभ्यो भोज्यानि दद्यात् । दीनानाथकृपण-
वधिरेभ्यो यथाशक्ति दद्यात् । ततः प्रीयतां
पुण्डरीकाक्षसर्व्वयज्ञेश्वरो हरिः । तस्मिंस्तुष्टे
जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥ ततो नृत्य-
गीतवादित्रनिस्वनर्महोत्सवं कृत्वा अच्छिद्रा-
वधारणं कृत्वा वैगुण्यसमाधानार्थं तद्विष्णो-
रिति विष्णुं स्मरेत् । * । एवं रुद्रादिमठादि-
प्रतिष्ठायां आसनादिकन्तु तत्तन्मन्त्रं विहाय
केवलं प्रणवादिनमोऽन्तेन तत्तन्नाम्ना दत्त्वा
यथायोग्यं तत्तत्कर्म्मशेषं समापयेत् । * । एवं
गोपथादि प्रतिष्ठायां तत्समीपे वेदिकां कृत्वा
तत्तत्फलकामो विष्णुप्रीतिकामो वा तत्तत्-
प्रतिष्ठां करिष्ये इति सङ्कल्प्य वृद्धिश्राद्धादिकं
विधाय प्रागुक्तविधिनाग्निस्थापनादि एतत्-
कर्म्मणा प्रीयतां भगवान् विष्णुरित्यन्तं कर्म्म
कृत्वा कूपादिवत् सर्व्वभूतेभ्य उत्सृज्य दक्षिणां
दद्यात् । * । नियमव्रतादिप्रतिष्ठायान्तु विष्णु-
रित्यन्तं कर्म्म कृत्वा व्रतानुष्ठानं कृत्वा दक्षिणा-
दिकं कुर्य्यात् । * । ततो घटस्थजलेन यजमान-
मभिषिञ्चेत् । तद्यथा, --
“ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ।
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥
आखण्डलोऽग्निर्भगवान् यमो वै नैरृ तस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा मतिः ।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः पुष्टिश्च मातरः ।
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥
देवदानवगन्धर्व्वा यक्षराक्षसपन्नगाः ।
ऋषयो मुनयो गावो देवमातर एव च ॥
देवपत्न्योऽध्वरा नागा दैत्याश्चाप्सरसा गणाः ।
अस्त्राणि सर्व्वशास्त्राणि राजानो वाहनानि च ॥
औषधानि विचित्राणि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एतास्त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये ॥” * ॥
इति मठादिप्रतिष्ठाप्रयोगतत्त्वं समाप्तम् ॥
(पक्वखाद्यवस्तुविशेषः । अस्य पाकप्रकारो यथा,
“समिता मर्द्दयेदन्यजलेनापि च सन्नयेत् ।
तस्यास्तु वटिकां कृत्वा पचेत सर्पिषि नीरसम् ॥
एला लवङ्गकर्पूरमरीचाद्यैरलङ्कृते ।
मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् ॥
अयम्प्रकारः संसिद्धो मठ इत्यभिधीयते ॥”
[सन्नयेन्मर्द्दयेत्] तथास्य गुणाः ॥
“मठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः ।
पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मठरः, पुं, (मन्यते मनुतेऽवबुध्यते इत्यर्थः । मन +

“वचिमनिभ्यां चिच्च ।” उणा० ५ । ३९ । इति
अरश्चित् ठश्चान्तादेशः ।) मुनिविशेषः । इत्यु-
णादिकोषः ॥ (शौण्डः । मठरो मुनिशौण्डयो-
रित्युज्ज्वलदत्तः ॥)

मड इ क मोदे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इ मण्डयति । इति दुर्गा-
दासः ॥

मड इ कि भूषे । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) मण्डयति मण्डति
हारो जनम् । इ मण्ड्यते । इति दुर्गादासः ॥

मड इ ङ विभागे । वेष्टे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) इ मण्ड्यते ङ
मण्डते । इति दुर्गादासः ॥

मडकः, पु, (मण्डयति भूषयति क्षेत्रमिति । मडि

+ “क्वुन् शिल्पिसंज्ञयोरपूर्ब्बस्यापि ।” उणा०
२ । ३२ । इति क्वुन् । पृषोदरादित्वान्नलोपः ।)
शस्यभेदः । मेडुया इति भाषा । इति जटा-
धरः ॥

मड्डुः, पुं, वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥

चुचूक इति ख्यातः । विपुलो डमरुर्मंड्डु-
रिति कोषः ॥ मड् इति रौति इति
मड्डुः पूर्ब्बवद्रौतेर्डु मनीषादित्वाद्रेपस्य डत्वम् ।
मज्जन्ति शब्दा अत्रेति मज्जेर्निपातो वा ।
इति भरतः ॥

मड्डुकः, पुं, (मड्डुरेवेति मड्डु + स्वार्थे कन् ।)

मड्डुवाद्यम् । इति त्रिकाण्डशेषः ॥

मण कूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) मणति । कूजेऽव्यक्तशब्दे । इति
दुर्गादासः ॥

मणिः, पुं, स्त्री, (मण + “सर्व्वधातुभ्य इन् ।”

उणा० ४ । ११७ । इतीन् ।) अश्मजातिः ।
पृष्ठ ३/५७५
(यथा, रघौ । १ । ४ ।
“मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।”)
मुक्तादिकम् । तत्पर्य्यायः । रत्नम् २ मणी ३ ।
इत्यमरः । २ । ९ । ९३ । (तथाचास्य पर्य्यायः ।
“रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते ।
तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)
अस्य गुणाः ।
“मणिरत्नं परं शीतं कषायं स्वादु लेखनम् ।
चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥”
इति राजबल्लभः ॥
(तथाचास्य गुणाः ।
“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादयः ।
चक्षुष्या मणयः शीता लेखना विषसूदनाः ।
पवित्रा धारणायाश्च पाप्मालक्ष्मीमलापहाः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।)
अजायाः कण्ठस्थितस्तनः । लिङ्गाग्रम् । अलि-
ञ्जरः । इति मेदिनी । २४ ॥ योन्यग्रभागः । इति
शब्दरत्नावली ॥ नागविशेषः । इति जटाधरः ॥
मणिबन्धः । इति हेमचन्द्रः ॥ (मुनिभेदः । यथा,
महाभारते । २ । ११ । २२ ।
“असितो देवलश्चैव जैगिषव्यश्च तत्त्ववित् ।
ऋषभो जितशत्रुश्च महावीर्य्यस्तथा मणिः ॥”)

मणिकं, क्ली, (मणिरेवेति मणि + “यावादिभ्यः

कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।
अलिञ्जरः । इत्यमरः । २ । ९ । ३१ ॥ (यथा,
मात्स्ये । १ । २१ ।
“स तमादाय मणिके प्राक्षिपज्जलचारि-
णम् ॥”)

मणिकर्णः, पुं, कामरूपस्थशिवलिङ्गभेदः । यथा,

“भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः ।
मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः ॥
स सद्योजातरूपस्तु मणिकर्ण इतीरितः ।
सद्योजातस्य मन्त्रेण पूजितव्यः सदा शिवः ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

मणिकर्णिका, स्त्री, (कर्णे भवा इति । कर्ण + “कर्ण-

ललाटात् कनलङ्कारे ।” ४ । ३ । ६५ । इति कन् ।
टाप् । अकारस्य इत्वम् । मणिमयी कर्णिका
शाकपार्थिवादिवत् समासः । सा विद्यते यत्रेति
वा । विष्णोस्तपस्याप्रचयदर्शनात् विस्मिततया
शिवस्य मणिमयकुण्डलपतनादस्यास्तथात्वम् ।)
काशीस्थतीर्थविशेषः । तदुत्पत्तिर्यथा । विष्णुं
प्रति शिववाक्यम् ।
“त्वदीयस्यास्य तपसो महोपचयदर्शनात् ।
यन्मयान्दीलितो मौलिरहिश्रवणभूषणः ॥
तदान्दोलनतः कर्णात् पपात मणिकर्णिका ।
मणिभिः स्वचिता रम्या ततोऽस्तु मणि-
कर्णिका ॥
चक्रपुष्करिणीतीर्थं पुरा ख्यातमिदं शुभम् ।
त्वया चक्रेण खननाच्छङ्खचक्रगदाधर ॥
मम कर्णात् पपतेयं यदा च मणिकर्णिका ।
तदा प्रभृति लोकेऽत्र ख्यातास्तु मणिकर्णिका ॥
श्रीविष्णुरुवाच ।
मुक्ताकुण्डलपातेन तवाद्रितनयाप्रियम् ।
तीर्थानां परमं तीर्थं मुक्तिक्षेत्रमिहास्तु वै ॥
काशतेऽत्र यतो ज्योतिस्तदनाख्येयमीश्वर ! ।
अतो नामापरञ्चास्तु काशीति प्रथितं विभो ! ॥
अन्यं वरं वरे देव ! देयः सोऽप्यविचारितम् ।
स ते परोपकारार्थ जगद्रक्षामेणे शिव ! ॥
आब्रह्मस्तम्बपर्य्यन्तं यत्किञ्चिज्जन्तुसंज्ञितम् ।
चतुर्षु भूतग्रामेषु काश्यां तन्मुक्तिमाप्स्यति ॥
तस्मिंस्तीर्थवरे शम्भो ! मणिश्रवणभूषण ।
सन्ध्यां स्नानं जपं होमं वेदाध्ययनमुत्तमम् ॥
तर्पणं पिण्डदानञ्च देवतानाञ्च पूजनम् ।
गोभूतिलहिरण्याश्वदीपान्नाम्बरभूषणम् ॥
कन्याद्यनं प्रयत्नेन सप्ततन्तूननेकशः ।
व्रतोत्सर्गं वृषोत्सर्गं लिङ्गादिस्थापनं तथा ॥
करोति यो महाप्राज्ञो ज्ञात्वायुः क्षणगत्वरम् ।
विपत्तिं विपुलाञ्चापि सम्पत्तिमतिभङ्गुराम् ॥
अक्षया मुक्तिरेकास्तु विपाकस्तस्य कर्म्मणः ।
अन्यच्चापि शुभं कर्म्म यद्दत्तं श्रद्धया हुतम् ॥
विनात्मधातमीशान त्यक्त्वा प्रायोपवेशनम् ।
नैःश्रेयस्याः श्रियो हेतुस्तदस्तु जगदीश्वर ! ॥
नानुशोचति नाख्याति कृत्वा कालान्तरेऽपि
यत् ।
तदिहाक्षयतामेतु तस्येश ! त्वदनुग्रहात् ॥
तव प्रसादात्तस्येह सर्व्वमक्षयमस्तु तत् ।
यदस्ति यद्भविष्यच्च यद्भूतञ्च सदाशिव ! ॥
तस्मादेतच्च सर्व्वस्मात् क्षेत्रमस्तु शुभोदयम् ।”
इति काशीखण्डे मणिकर्णिकाख्यानं नाम २६
अध्यायः ॥

मणिकर्णीश्वरः, पुं, (मणिकर्ण्या मणिकर्ण्यां वा

ईश्वरः ।) काशीस्थशिवलिङ्गविशेषः । यथा, --
“ओङ्कारं प्रथमं पश्येत् मत्स्योदर्य्यां कृतो-
दकः ।
त्रिपिष्टपसहादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् ।
धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥
विश्वकर्म्मेश्वरञ्चाथ मणिकर्णीश्वरं ततः ।
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ॥
एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ।”
इति काशीखण्डे १०० अध्यायः ॥
मणिकर्णेश्वरः, पुं, (मणिकर्णस्तदाख्य ईश्वरः ।)
कामरूपस्थशिवलिङ्गविशेषः । यथा, --
“सर्व्वतीर्थजले स्नात्वा स्पृष्ट्वा चन्द्रं सवासवम् ।
मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

मणिकाननं, क्ली, (मणीनां काननमिव । बहु-

मणिधारणादस्य तथात्वम् ।) कण्ठः । इति
शब्दरत्नाबली ॥ रत्नवनञ्च ॥

मणिकारः, पुं, (मणिं करोतीति । कृ + अण् ।)

मणिनिर्म्मितालङ्कारादिकर्त्ता । जौहरि इति
भाषा । तत्पर्य्यायः । वैकटिकः २ । इति
हेमचन्द्रः ॥ न्यायचिन्तामणिकर्त्ता च ॥

मणिकूटः, पुं, (मणयः मणिमयानि कूटानि

शिखराणि यस्य सः ।) कामरूपस्थपर्व्वतभेदः ।
यथा, --
“भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः ।
मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः ॥”
इति कालिकापुराणे ८१ अध्यायः ॥
“मणिकूटस्याथ गिरेर्गन्धमादनकस्य च ।
मध्ये स्रवति लोहित्यो ब्रह्मपुत्त्रः समास्थितः ॥
हत्वा ज्वरं तथा विष्णुस्तत्र वासमथाकरोत् ।
नरदेवासुरादीनां यथा भवति वै हितम् ॥
ज्यरेणापीडिततनुर्ज्वरं हत्वा महासुरम् ।
सर्व्वलोकहितार्थाय सोऽगदस्नानमाचरत् ॥
अगदस्नानसंभूतं संजातञ्च महासरः ।
तस्य स्वयं नाम चक्रे हयग्रीवोऽपनर्भवम् ॥
न पुनर्जायते यस्मात् ततः स्नात्वा नरीत्तमः ।
अपुनर्भवसंज्ञं तत् सरस्तु परिकीर्त्तितम् ॥
मणिकूटाचले विष्णुर्हयग्रीवस्वरूपधृक् ।
स च व्यामप्रमाणेन विस्तारेणैव संस्थितः ॥”
इति कालिकापुराणे ८० अध्यायः ॥

मणिखनिः, पुं, (मणीनां खनिः ।) मणेराकरः ।

यथा । मणेः खनिः ॥ इति मुग्धबोधव्याकरणम् ॥

मणिग्रीवः, पुं, (मणयो ग्रीवायां कन्धरायां यस्य ।)

कुवेरपुत्त्रः । इति शब्दरत्नावली ॥ रत्नकन्धरे
त्रि ॥ (यथा, ऋग्वेदे । १ । १२२ । १४ ।
“हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो
विश्वे वरिवस्यन्तु देवाः ॥”
“मणिग्रीवं रत्नाद्युपेतकण्ठम् ।” इति तद्भाष्ये
सायनः ॥)

मणिच्छिद्रा, स्त्री, (मणेरिव छिद्रमस्याम् ।) मेदा-

नामौषधम् । ऋषभाख्यौषधम् । इति मेदिनी ।
रे, २९० ॥ (तथास्याः सलक्षणपर्य्यायः ।
“महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ।
शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् ॥
यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः ।
शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मणितं, क्ली, (मण् + भावे क्तः । मैथुनकालीन-

वाक्यम् । “स्त्रनितमणितादि सुरते ।” इति
साहित्यदर्पणे ।) तत्पर्य्यायः । रतकूजितम् १ ।
इति हेमचन्द्रः ॥ (यथा, शिशुपालवधे । १० । ७५ ।
“सीत्कृतानि मणितं करुणोक्तिः
स्निग्धमुक्तमलमर्थवचांसि ॥”)

मणितारकः, पुं, (मणेरिव दीप्तिमती तारका

यस्य ।) सारसपक्षी । इति राजनिर्घण्टः ॥

मणिद्वीपः, पुं, क्ली, (मणिप्रचुरो द्वीपः ।) क्षीर-

समुद्रमध्ये पद्मरागादिमणिमयान्तरीपः । स च
त्रिपुरसुन्दरीवासस्थानम् । यथा, --
“सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिसरे
मणिद्वीपे नीपीपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्य्यङ्कनिलयां
भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीम् ॥”
इत्यानन्दलहरी ॥
पृष्ठ ३/५७६

मणिपर्व्वतः, पुं, (मणीनां पर्व्वतः ।) गिरि-

विशेषः । यथा, --
“ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्व्वतम् ।
तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः ॥
मणीनां हेमवर्णानामभिभूय दिवाकरम् ।
तत्र वैदूर्य्यवर्णानि ददर्श मधुसूदनः ॥
सतोरणपताकानि द्वाराणि शिखराणि च ।
विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्व्वतः ॥
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ।
तत्र ता हेमवर्णाभा ददर्श मधुसूदनः ॥
गन्धर्व्वासुरमुख्यानां प्रिया दुहितरस्तथा ।
ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ॥
नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥”
इति महाभारते हरिवंशे नरकवधाध्यायः ॥

मणिपूरं, क्ली, षट्चक्रान्तर्गतनाभिमध्यस्थतृतीय-

चक्रम् । यथा, --
“तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ।
मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ॥
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।
शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥”
इति तन्त्रम् ॥
तत्तु स्वाधिष्ठानपद्मस्योर्द्ध्वदेशे तिष्ठति । यथा, --
“एतत्पद्मस्योर्द्ध्वदेशे महापद्मं सुदुर्लभम् ।
दशपत्रं नीलवर्णं सजलं घोररूपकम् ।
डादिफान्तैः सचन्द्रैश्च पङ्कजञ्चातिशोभनम् ॥
तन्मध्ये बीजकोषे निवसति सततं वह्निवीजं
सुसिद्धं
वाह्ये तत्त्रेपुराख्यं नवतपननिभं स्वस्तिकं
तत्त्रिभागे ॥
स्वर्णकाख्यमिदं देवि ! सर्व्वदेवप्रपूजितम् ।
साकारं वह्निबीजञ्च सदैव मेघवाहनम् ॥
रुद्रालयं हि तत्रैव महामोहस्य नाशनम् ।
भद्रकाली महाविद्या वामभागे सुशोभिता ॥”
इति निर्व्वाणतन्त्रे ६ पटलः ॥
तत्र देवतीर्थं यथा, रुद्रयामले ।
मणिपूरे देवतीर्थं पञ्चकुण्डं सरोवरम् ।
तत्र श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति ॥”
(मणीनां पूरोऽत्र ।) स्वनामख्यातदेशश्च ॥ (यथा,
महाभारते १ । २१८ । २३ ।
“चित्राङ्गदां पुनर्द्रष्टुं मणिपूरपुरं ययौ ॥”)

मणिबन्धः, पुं, (मणिर्बध्यते यत्र । अधिकरणे

घञ् ।) प्रकोष्ठपाण्योः सन्धिस्थानम् । इत्य-
मरटीकायां भरतः । कब्जा इति भाषा ॥ स च
करस्यादिभागः । (यथा, अभिज्ञानशकुन्तले
३ अङ्कः ।
“मणिबन्धाद्गलितमिदं संक्रान्तोशीरपरिमलं
तस्याः ।”)
तत्पर्य्यायः । मणिः २ । इति हेमचन्द्रः ॥ कर-
ग्रन्थिः ३ करग्रन्थिकः ४ । इति शब्दरत्ना-
बली ॥ तस्य शुभाशुभलक्षणं यथा, --
“मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः ।
नृपा हीनैः करच्छेदैः सशब्दैर्धनवर्ज्जिताः ॥”
इति गारुडे ६५ अध्यायः ॥

मणिभद्रः, पुं, (मणिषु भद्रः, यद्वा मणिभि-

र्भद्रमस्य । मणिमुक्तादिधनाधिक्यादस्य तथा-
त्वम् ।) जिनानां पूर्ब्बयक्षविशेषः । तत्पर्य्यायः ।
जम्भलः २ पूर्ब्बयक्षः ३ जलेन्द्रः ४ । इति
त्रिकाण्डशेषः ॥ (प्रधानयक्षभेदः । यथा,
महाभारते । ३ । ६४ । १२७ ।
“ऋते त्वां मानुषीं मर्त्त्यं न पश्यामि महावने ।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥”
यथा च कथासरित्सागरे । १३ । १६५ ।
“अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः ।
पूर्ब्बैः कृतप्रतिष्ठोऽस्ति महायक्षः प्रभावितः ॥”)

मणिभूमिः, स्त्री, (मणीनां भूमिः आकरः ।

मणिमयी भूमिरिति वा ।) रत्नस्य खनिः । तत्-
पर्य्यायः । कुट्टिमम् २ । इति शब्दरत्नावली ॥

मणिमण्डपः, पुं, (मणिमयः मण्डपः ।) रत्नमय-

गृहम् । यथा, रुद्रयामले वगलास्तोत्रे ।
“मध्ये सुधाब्धिमणिमण्डपरत्नवेदी-
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यबिभूषिताङ्गीं
देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥”

मणिमन्थं, क्ली, (मणिरिव मथ्यते इति मणि +

मन्थ + कर्म्मणि घञ् ।) सैन्धवलवणम् । इति
राजनिर्घण्टः ॥ (मणयः मथ्यन्ते उपलान्
विदार्य्य गृह्यन्ते अत्रास्माद्वेति । मन्थ + अधि-
करणादौ घञ् ।) पर्व्वतविशेषः । इति माणि-
मन्थशब्दटीकायां भरतः ॥ (यथा, महाभारते ।
१३ । १८ । ३३ ।
“मणिमन्थेऽथ शैले वै पुरा सम्पूतिजो मया ॥”)

मणिमान्, [त्] त्रि, मणिविशिष्टः । रत्नभूषितः ।

(यथा, भागवते । ३ । १५ । ४१ ।
“विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह-
गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ॥”)
मणिरस्तीति मतुप्रत्ययेन निष्पन्नः ॥ (पुं, नाग-
विशेषः । यथा, महाभारते । २ । ९ ।
“मणिमान् कुण्डधारश्च कर्कोटकधनञ्जयौ ॥”
राक्षसभेदः । स च कुवेरस्य सखा । यथा,
महाभारते । ३ । १३० । ५७ ।
“सखा वैश्रवणस्यासीन्मणिमान्नामराक्षसः ॥”
पश्चिमस्थदेशभेदः । यथा, बृहत्संहितायाम् ।
१४ । २० ।
“अपरस्यां मणिमान् मेघवान् वनौघः क्षुरा-
र्पणोऽस्तगिरिः ॥”
स्त्री, पुरभेदः । यथा, महाभारते । ३ । ९६ । ४ ।
“इल्वलो नाम दैत्येय आसीत् कौरवनन्दन ! ।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥”)

मणिमाला, स्त्री, (मणिनिर्म्मिता माला शाक-

पार्थिवादिवत् समासः ।) हारः । दन्तक्षत-
विशेषः । इति मेदिनी । ले, १६० ॥ (मणि-
निर्म्मिता माला यस्याः ।) लक्ष्मीः । इति शब्द-
रत्नावली ॥ दीप्तिः । इतिशब्दमाला ॥ (छन्दो-
भेदः । यथा, छन्दोममञ्जर्य्याम् । “त्यौ त्यौ
मणिमाला छिन्ना गुहवक्त्वैः ।” अधिकन्तु छन्दः-
शब्दे द्रष्टव्यम् ॥)

मणिरागं, क्ली, (मणेरिव रागो वर्णौज्ज्वल्यमस्य ।)

हिङ्गुलम् । इति राजनिर्घण्टः ॥ (मणेः रागः ।)
मणेर्वर्णे पुं ॥ (गुणादयोऽस्य हिङ्गुलशब्दे
विधेयाः ॥)

मणिवः, पुं, नागविशेषः । मणिशब्दादस्त्यर्थे

वप्रत्ययेन निष्पन्नः । इति सिद्धान्तकौमुदी ॥

मणिवीजः, पुं, (मणिरिव दर्शनीयं वीजं यस्य ।)

दाडिम्बवृक्षः । इति राजनिर्घण्टः ॥

मणिसरः, पुं, (मणिभिः स्रियते गम्यते ग्रथ्यते

इतिभावः । सृ + कर्म्मणि अप् ।) मुक्ताहारः ।
यथा, गीतगोविन्दे ७ सर्गः ।
“घटयति सघने कुचयुगगगने मृगमदरुचि-
रूषिते ।
मणिसरममलं तारकपटलं नखदशशशि-
भूषिते ॥”

मणी, स्त्री, (मणि + कृदिकारादिति पक्षे ङीष् ।)

मणिः । इति भरतद्विरूपकोषः ॥

मणीचकं, क्ली, (मणीम् चकते प्रतिहन्ति दीप्त्या

इति । चक + अच् ।) चन्द्रवर्णरूप्यम् । तत्-
पर्य्यायः । इन्दुकान्तः २ । इति त्रिकाण्डशेषः ॥
(शाकद्वीपस्य वर्षविशेषः । यथा, मात्स्ये ।
१२१ । २३ ।
“श्यामपर्ब्बतवर्षं तु मणीचकमिति स्मृतम् ॥”)

मणीचकः, पुं, (मणी + चक् + अच् ।) मत्स्य-

रङ्गपक्षी । यथा, --
“झम्पाशी मत्स्यरङ्गः स्याज्जलमद्गुर्मणीचकः ।”
इति हारावली ॥

मणीव, व्य, मणितुल्यम् । मणिशब्देन सह इव-

शब्दस्य षष्ठीतत्पुरुषसमासः । प्रथमाद्विवच-
नान्तमणिशब्दात् इवार्थवशब्देन वाशब्देना-
प्येवं रूपम् यथा, --
“मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो
वा बोध्यः ।”
इति सिद्धान्तकौमुदी ॥

मणीवकं, क्ली, (मणीव + संज्ञायां कन् ।)

पुष्पम् । इति हेमचन्द्रः ॥

मण्टपी, स्त्री, (मण्टमुन्मादं पाति रक्षतीति

मण्ट + पा + कः । जातौ संज्ञायां वा ङीष् ।)
क्षुद्रोपोदकी । इति राजनिर्घण्टः ॥

मण्ठः, पुं, (मण्ठते इति मठि + अच् ।) वटक-

विशेषः । माडाँ इति हिन्दी माषा । यथा, --
“समितां मर्द्दयेदाज्यैर्जलेनापि च सन्नयेत् ।
अस्यास्तु वटकं कृत्वा पचेत् सर्पिषि नीरसम् ॥
एलालवङ्गकर्पूरमरिचाद्यैरलङ्कृते ।
मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् ।
अयं प्रकारः संसिद्धो मण्ठ इत्यभिधीयते ॥”
अस्य गुणाः ।
“मण्ठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः ।
पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ॥”
पृष्ठ ३/५७७
प्रकारान्तर यथा, --
“समिता शर्करासर्पिर्निर्म्मिता अपरेऽपि ये ।
प्रकारा अमुना तुल्यास्तेऽपि चैतद्गुणाः
स्मृताः ॥”
इति राजनिर्घण्टः ॥

मण्डं, क्ली, पुं, (मन्यते ज्ञायते अनेन अन्नादिक-

मिति । मन + “ञमन्तात् डः ।” उणा० १ । ११३ ।
इति डः ।) सर्व्वेषामन्नदध्यादीनामग्ररसः ।
इत्यमरभरतौ । माड् इति मात् इति च
भाषा ॥ (यथा, उत्तररामचरिते ४ अङ्के । १ ।
“नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूताप्रिया-
पीतादप्यधिकं तपोवनमृगः पर्य्याप्तमाचामति ॥”)
सारः । पिच्छम् । इति मेदिनी । डे, २१ ॥

मण्डं, क्ली, (मण्डतीति । मडि भूषादौ + अच् ।)

मस्तु । इति मेदिनी । डे, २१ ॥ (यथा, भाग-
वते । ५ । २० । २४ ।
“समानेन दधिमण्डोदेन परितः ॥”)

मण्डः, पुं, (मण्डयति क्षेत्रं भूषयतीति मडि +

अच् ।) एरण्डवृक्षः । शाकभेदः । इति मेदिनी ।
ते, २१ ॥ मस्तु । भूषा । सारः । पिच्छम् ।
हेमचन्द्रः ॥ (मण्डति वर्षागमे हृष्यतीति
मडि + अच् ।) दर्दूरः । भक्तादिभवरसः ।
तस्य लक्षणम् ।
“भक्तैर्विना द्रवो मण्डः पेयं भक्तसमन्वितम् ।”
इति राजनिर्घण्टः ॥
(“तक्राल्लघुतरो मण्डः ।” इति च, सुश्रुते सूत्र-
स्थाने ४५ अध्यायः ।) अथ मण्डस्य लक्षणं
विधिर्गुणाश्च ।
“तण्डुलानां सुसिद्धानां चतुर्द्दशगुणे जले ।
रसः सिक्थैर्व्विरहितो मण्ड इत्यभिधीयते ॥
“शुण्ठी सैन्धवसंयुक्तो दीपनः पाचनश्च सः ।
अन्नस्य सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ॥
पेया यूषयवागूनां विलेपीभक्तयोरपि ॥”
तस्य गुणाः ।
“मण्डो ग्राही लघुः शीतो दीपनो धातुसाम्य-
कृत् ।
ज्वरघ्नस्तर्पणो बल्यः पित्तश्लेष्मश्रमापहः ॥”
इति भावप्रकाशः ॥
अपि च ।
“क्षुद्बोधनो वस्तिविशोधनश्च
प्राणप्रदः शोणितवर्द्धनश्च ।
ज्वरापहारी कफपित्तहन्ता
वायुं जयेदष्टगुणो हि मण्डः ॥”
लाजमण्डोऽग्निजननो दाहतृष्णानिवारणः ।
ज्वरातीसारशमनोऽशेषदोषामपाचनः ॥
वाट्यमण्डोऽग्निजननः शूलानाहविनाशनः ।
पाचनो दीपनो हृद्यः पित्तश्लेष्मानिलापहः ॥”
वाट्यमण्डो भृष्टयवमण्डः । इति राजवल्लभः ॥
(धान्यादिकृतमण्डगुणाः । क्लीवत्वं विवक्षितम् ।
“धान्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम् ।
वातलं रक्तशमनं ग्राहि सन्दीपनं परम् ॥”
इति धान्यमण्डगुणाः ॥
“युगन्धराणां मण्डन्तु श्लेष्मकृद्वातलं मतम् ।
पित्तसंशमनीयञ्च मूत्रलं ग्राहणञ्च तत् ॥”
इति युगन्धरमण्डगुणाः ॥
“रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम् ।
प्रमेहानश्मरीं हन्ति वातलं पित्तकृत्तथा ॥”
इति रक्तशालिमण्डगुणाः ॥
“मधुरं शीतलं किञ्चित् श्लेष्मलं शोषनाशनम् ।
अश्मरीमेहसंछेदी वातलं श्वेतताण्डुलम् ॥”
इति श्वेततण्डुलमण्डगुणाः ॥
“यवमण्ड कषायं स्याद् ग्राहि चोष्णं विपाकि
च ।”
इति यवमण्डगुणाः ॥
“तद्वत् गोधूमसंभूतं मधुरं पित्तवारणम् ।”
इति गोधूममण्डगुणाः ॥
“ग्लानिमूर्च्छाकरं सद्यः कोद्रवाद्यकृतं लघु ।”
इति कोद्रवमण्डगुणाः ॥
“तद्वच्च क्षुद्रधान्यानां वातलं पित्तकारकम् ।
करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ॥”
इति क्षुद्रधान्यमण्डगुणा ॥
इति मण्डवर्गाः ॥
इति हारीते प्रथमे स्थाने नवमेऽध्याये ॥
“मण्डस्तु दीपयत्यग्निं वातञ्चाप्यनुलोमयेत् ।
मृदूकरोति स्रोतांसि स्वेदं सञ्जनयत्यपि ॥
लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्य-
ताम् ।
दीपनत्वाल्लघुत्वाञ्च मण्डः स्यात् प्राणधारणः ॥
तृष्णातीसारशमनो धातुसाम्यकरः शिवः ।
लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः ॥
मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् ।
देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः ।
क्षुत्पिपासासहः पथ्यः शुद्धानान्तु मलापहा ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः ।
वातानुलोमनो हृद्यः पिप्पलीनागरायुतः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अथ्यायः ॥)

मण्डकः, पुं, (मण्डेन कृतः इति । मण्ड + संज्ञायां

कन् ।) पिष्टकविशेषः । माँडा इति हिन्दी
भाषा ॥ यथा, --
“गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः ।
प्रोक्षिता यन्त्रनिष्पिष्टाश्चालिताः समिताः
स्मृताः ॥
वारिणा कोमलां कृत्वा समितां साधु मर्द्दयेत् ।
हस्तचालेन या तस्या लोप्त्री सम्यक् प्रसारयेत् ॥
अधोमुखघटस्यैतद्बिस्तृतं प्रक्षिपेद्बहिः ।
मृदुना वह्निना साध्यः सिद्धो मण्डक उच्यते ॥”
लोप्त्री लेची इति लोके ।
“दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः ।
अथवा सिद्धमांसेन सतक्रवटकेन वा ॥”
तस्य गुणाः ।
“मण्डको वृंहणो वृष्यो बल्यो रुचिकरो भृशम् ।
पाकेऽपि मधुरो ग्राही लघुर्द्दोषत्रयापहः ॥”
इति भावप्रकाशः ॥
(माधवीलता । तत्पर्य्यायो । यथा, --
“माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि
च ।
अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥”
इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गीताङ्गविशेषः । यथा, --
“जयप्रियः कलापश्च कमलः सुन्दरस्तथा ।
मङ्गलो वल्लभश्चेति मण्डकाः षट् प्रकीर्त्तिताः ॥
जयप्रियो हंसताले लघुमध्ये यदा गुरुः ।
ऊनविंशत्यक्षरैर्युक्तो रसे वीरे स वर्त्तते ।
लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते ॥ १ ॥
कलापो रङ्गतालेन युक्तो रौद्ररसे हि सः ।
द्वाविंशत्यक्षरैर्युक्तो लघुरादौ गुरुद्वयम् ।
लघुरादौ गुरुद्बन्द्बं रङ्गताल इतीरितः ॥ २ ॥
लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र संगणात्मकः ।
पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः ॥ ३
गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके ।
अष्टाविंशत्यक्षरैस्तु शृङ्गारे सुन्दरे मतः ॥ ४ ॥
आदौ गुरुर्लघुर्मध्ये प्लुतोऽन्ते भृङ्गतालके ।
एकविंशत्यक्षरैस्तु वीरे मङ्गलमण्डकः ॥ ५ ॥
षट्पितापुत्त्रके ताले गलसागलगात्मके ।
चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे ॥ ६ ॥
इति सङ्गीतदामोदरः ॥

मण्डनं, क्ली, (मण्ड्यते अनेन इति । मडि भूषे +

करणे ल्युट् ।) भूषणम् । यथा, अभिज्ञानशकु-
न्तले । १ । १४ ।
“किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।”
अलङ्करिष्णुनि त्रि । इतिमेदिनी । ने, १०५ ।
“चतुर्धा मण्डनं वासोभूषामाल्यानुलेपनैः ।”
इति महाभारते मोक्षधर्म्मः ॥

मण्डपः, पुं क्ली, (मडि + भावे घञ् मण्डः । मण्डं

पाति । पा + कः ।) जनविश्रामगृहम् । तत्प-
र्य्यायः । जनाश्रयः २ । इत्यमरः । २ । २ । ९ ॥
(यथा, देवीभागवते । २ । ११ । ५० ।
“गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ।
कुर्व्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ॥”)
देवादिदत्तवेश्म । इति शब्दरत्नावली ॥ (यथा-
विश्वकर्म्मप्रकाशे ६ अध्याये ।
“प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् ।
तस्य चार्द्धेन कर्त्तव्यस्त्वग्रतो मुखमण्डपः ॥”
इत्यादिमण्डपविवरणम् तत्रैव विस्तरशो
द्रष्टव्यम् ॥ मण्डं पिबतीपि । पा + कः ।) मण्ड-
पानकर्त्तरि त्रि ॥

मण्डपा, स्त्री, निष्पावी । इति राजनिर्घण्टः ॥

(मण्डपीत्यपि दृश्यते ।)

मण्डयन्तः, पुं, (मण्डयति भूषयतीति । मडि +

“तॄभूवहिवसिभासिसाधिगडि मण्डिजि, नन्दि-,
भ्यश्च ।” उणा० । ३ । १२८ । इति झच्
स च षित् ।) अन्नम् । बधूसंघः । नटः । अल-
ङ्कारः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

मण्डयन्ती, स्त्री, (मण्डयतीति । मडि + झच्

स्त्रियां ङीप् ।) योषित् । इति त्रिकाण्डशेषः ॥
पृष्ठ ३/५७८

मण्डरी, स्त्री, (मण्डयति भूषयतीति । मडि +

अरप्रत्ययः । स्त्रियां ङीप् ।) धुर्घुरी । इति
हारावली ॥

मण्डलं, क्ली, (मण्डयति भूषयतीति । मडि +

“कलस्तृपश्च ।” उणा० । १ । १०६ । इति कलः ।)
चन्द्रसूर्य्ययोर्बहिर्व्वेष्टनम् । चन्द्रसूर्य्ययोरुत्पातज-
रश्मिमण्डलम् । यथा, --
“वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः ।
मालाभा व्योम्नि तन्वन्ते परिवेशः प्रकीर्त्तितः ॥”
इति साहसाङ्कः ॥
तत्पर्य्यायः । परिवेशः २ परिधिः ३ उप-
सूर्य्यकम् ४ । इत्यमरः । १ । ३ । ३२ ॥ परिवेषः
मूर्द्वन्यान्तोऽपि । यथा, --
“पुंलिङ्गः परिवेषः स्यात् परिधौ परिवेषणे ।”
इति मूर्द्धन्यान्ते रुद्रः ॥
सूर्य्यमुपगतं उपसूर्य्यं स्वार्थे कः उपसूर्य्यकम् ।
चन्द्रपक्षे उपसूर्य्यमिव उपसूर्य्यकं इवार्थे कः ।
इति भरतः ॥ * ॥ चक्रबालम् । इत्यमरः ।
१ । ३ । ६ ॥ तत्तु मण्डलाकारेण परिणतं
समूहमात्रम् । मण्डलाकारदिक्समूहः । इति
माधवी ॥ चक्रस्येव वालो वलनमस्य चक्र-
बालं वलेर्घञि वालः मनीषादित्वात् लस्य
डत्वे चक्रवाडञ्च । किंवा चक्रेण चक्रा-
कारेण वाडते चक्रवाडं वाडृङ आप्लावे
अल् । इति भरतः ॥ * ॥ कोठरोगः । द्बादश-
राजकम् । इति मेदिनी । १ ले, २१ ॥
(उक्तञ्च तद्विवरणं कामन्दकीये नीतिसारे ।
८ । १ -- २२ ।
“उपेतः कोषदण्डाभ्यां सामात्यः सह मन्त्रिभिः ।
दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः ।
रथी विराजते राजा विशुद्धे मण्डले चरन् ।
अशुद्धे मण्डले सर्पन् शीर्य्यते रथचक्रवत् ॥
रोचते सर्व्वभूतेभ्यः शशीवाखण्डमण्डलः ।
सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥
अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः ।
एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥
एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः ।
सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥
सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ।
जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥
कौलीनं वृद्धसेवित्वसुत्साहः स्थूललक्षिता ।
चित्रज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥
अदीर्घसूत्रताऽक्षौद्रं प्रश्रयः स्वप्रधानता ।
देशकालज्ञता दार्ढ्यं सर्व्वक्लेशसहिष्णुता ॥
सर्व्वविज्ञानिता दाक्ष्यं सदा संवृतमन्त्रता ।
अविसंवादिता शौर्य्यं भक्तिज्ञत्वं कृतज्ञता ॥
शरणागतवात्सल्यममर्षित्वमचापलम् ।
स्वकर्म्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥
जितश्रमित्वं धर्म्मित्वमक्रूरपरिवारता ।
प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥
सर्व्वैर्गुणैर्विहीनोऽपि स राजा यः प्रतापवान् ।
प्रतापयुक्ता ह्यस्यन्ति परान् सिंहा मृगानिव ॥
एतापसिद्धौ नृपतिः प्राप्नोति महतीं श्रियम् ।
तस्मादुत्थानयोगेन प्रतापं जनयेत्परम् ॥
एकार्थाभिनिवेशित्वमविलक्षणमुच्यते ।
दारूणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ॥
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरूरस्थिरः ।
मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः ॥
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतःपरम् ।
तथारिमित्रमित्त्रञ्च विजिगीषोः पुरः स्थिताः ॥
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम् ।
आसारावनयोश्चव विजिगीषोस्तु मण्डलम् ॥
अरेस्तु विजिगीषोस्तु मध्यमो भूम्यनन्तरः ।
अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे ॥
मण्डलत्वे हि चैतेषामुदासीनो बलाधिकः ।
अनुग्रहे संहतानां व्यस्तानाञ्च वधे प्रभुः ॥
मूलप्रकृतयस्त्वेताश्चतस्रः परिकीर्त्तिताः ।
आहैव मन्त्रकुशलश्चतुष्कं मण्डलं मयः ॥
विजिगीषुररिर्मित्रं पार्ष्णिग्राहोऽथ मध्यमः ।
उदासीनः पुलोमेन्द्रौ षट्कं मण्डलमूचतुः ॥
उदासीनो मध्यमश्च विजिगीषोस्तु मण्डलम् ।
उशना मण्डलमिदं प्राह द्वादशराजकम् ॥”)
देशः । स च देशः समन्ताद्विंशतियोजनं चत्वा-
रिंशद्योजनं वा । इति केचित् ॥ गोलम् । इत्य-
नेकार्थकोषः ॥ चक्रम् । इति त्रिकाण्डशेषः ॥
संधातः । इति हेमचन्द्रः ॥ नखाघातः । इति
शब्दमाला ॥ धन्विनां स्थानपञ्चकान्तर्गत-
स्थितिविशेषः । यथा, --
“मण्डलाकारपादाभ्यां मण्डलं स्थानमीरितम् ।”
इति शब्दरत्नावली ॥
व्याघ्रनखाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥
व्यूहविशेषः । यथा, --
“तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगोऽन्वावृत्तिरेव
च ।
मण्डलं सर्व्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥”
इति भरतधृतकामन्दकिः ॥
(अस्य पुंस्त्वमपि । यथा, महाभारते । ६ ।
७८ । २० ।
“भीष्मेण धार्त्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो ययौ ।
मण्डलः सुमहाव्यूहो दूर्भेद्योऽमित्रघातिनाम् ॥”
यथा च, कामन्दकीये । १९ । ४१ ।
“मण्डलोऽसंहतो भोगो दण्डश्चेति मणीषिभिः ॥”)
ग्रहादीनां मण्डलसंस्थानं तत्परिमाणञ्च यथा,
“सर्व्वेषान्तु ग्रहाणां वै अधस्ताच्चरते रविः ।
रवेरूर्द्ध्वं स्थितः सोमः सोमान्नक्षत्रमण्डलम् ॥
नक्षत्रेभ्यो बुधस्तूर्द्ध्वं बुधादूर्द्ध्वन्तु भार्गवः ।
तस्मादङ्गारकश्चोर्द्ध्वं तस्य चोर्द्धं बृहस्पतिः ॥
तस्मात् शनैश्चरश्चोर्द्ध्वं तस्योर्द्ध्वमृषिमण्डलम् ।
ऋषिभ्यश्च ध्रुवश्चोर्द्ध्वमायान्तं त्रिदिवं ध्रुवे ।
आदित्यनिलयो राहुः कदाचित् सोममार्गतः ॥
सूर्य्यमण्डलसंस्थस्तु नित्यं केतुः प्रसर्पति ।
नवयोजनसहस्राणि विस्तारो भास्करस्य तु ॥
विस्तारात्त्रिगुणञ्चास्य परिणाहे तु मण्डलम् ।
द्विगुणः सूर्य्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥
द्विगुणं मण्डलञ्चास्य यथैव सवितुस्तथा ।
चन्द्रतः षोडशो भागो भार्गवस्य विधीयते ॥
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ।
बृहस्पतेः पादहीनौ वक्रसौरावुदाहृतौ ॥
विस्तारमण्डलाभ्यान्तु पादहीनस्तयोर्ब्बुधः ।
बुधतुल्यानि ऋक्षाणि सर्व्वे ह्रस्वानि यानि तु ॥
योजनार्द्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते ।
राहुः सूर्य्यप्रमाणस्तु कदाचित् सोमसम्मितः ।
तस्मात् ग्रहप्रमाणस्तु केतुस्त्वनियतः स्मृतः ॥”
इति देवीपुराणे ग्रहगतिर्नामाध्यायः ॥
कृत्रिममण्डलविधिर्यथा, --
“चतुहंस्तं समारभ्य यावद्धस्तशतं भवेत् ।
मण्डलं तत्र कर्त्तव्यमत ऊर्द्ध्वं न कारयेत् ॥
विमलं विजयं भद्रं विमानं शुभदं शिवम् ।
वर्द्धमानञ्च दैवञ्च लताक्षं कामदायकम् ।
रुचकं स्वस्तिकाख्यञ्च द्विदशं इति मण्डलाः ॥
सितादिहरितान्ताश्च रजाः कार्य्याः सुशोभनाः ।
शालिषष्टिककौसुम्भरजनीहरिपत्रजाः ॥
मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः ।
सितसर्षपधूपाढ्या रजाः कृत्वा तु पातयेत् ॥
अस्त्रराजं न्यसेन्मन्त्री सम्भवेति पदं पि वा ।
समोत्थानं शुभं कृत्वा गोमयेनोपलेपितम् ॥
चन्दनागुरुकर्पूरक्षोदधूपाधिवासितम् ।
भूभागं सुमितं सिद्धं पूर्ब्बपश्चिमकोत्तरम् ॥
याम्यं स्वस्तिकमस्त्याङ्गैः सूत्रैर्वोर्णाण्डपत्रजैः ।
पद्मपत्राष्टकं मन्ये द्विगुणं त्रिगुणं पि वा ॥
द्वाराणि समसूत्राणि कर्णिकाकेशरोज्ज्वलम् ।
पद्मं तथावशेषाणि स्वस्तिकान्युत्पलानि च ॥
सव्याबलम्बहस्तस्तु रजःपातं समाचरेत् ।
मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद्यथेप्सया ॥
अधोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः ।
समा रेखा तु कर्त्तव्याविच्छिन्ना पुष्टिवर्ज्जिता ॥
अङ्गुष्ठपर्व्वनैपुण्या समा कार्य्या विजानता ।
संसक्तं विषमं स्थूलं विच्छिन्नं कृषरावृतम् ॥
पर्य्यन्तसर्पितं ह्नस्वमालिखेन्न कदाचन ।
संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम् ॥
अतिस्थाने भवेद्व्याधिर्नित्यं पीडा विमिश्रिते ।
बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ॥
कृषायाञ्चार्थहानिः स्यात् विच्छिन्ने मरणं
ध्रुवम् ।
वियोगात्तु भवेत्तस्य इष्टद्रव्यसुतस्य वा ॥
अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेप्सया ।
सर्व्वदोषानवाप्नोति ये दोषाः पूर्ब्बभाषिताः ॥”
इति देवीपुराणे पुष्पाभिषेकचिन्तानामाध्यायः ॥
सूर्य्यमण्डले देवानां स्थितिर्यथा, --
“अर्च्चयन् पूजयन् देवं जपेच्च रविमण्डले ।
आदित्यमण्डले देवं ध्यात्वा विष्णुमुपैति तम् ॥”
भोजनमण्डलं यथा, --
“यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा ।
घ्नन्ति केवलमन्नस्य मण्डलस्य विवर्ज्जनात् ॥
आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः ।
मण्डलान्युपजीवन्ति तस्मात् कुर्व्वन्ति मण्डलम् ॥
चतुःकोणं द्विजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु ।
द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥”
इत्याद्ये वह्निपुराणे आह्निकतपोनामाध्यायः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/म&oldid=44033" इत्यस्माद् प्रतिप्राप्तम्