शब्दकल्पद्रुमः/भूकलः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/५२२

भूकलः, पुं, (भुवः पृथिव्याः कलः ।) दुर्विनीताश्वः ।

इति राजनिर्घण्टः ॥

भूकश्यपः, पुं, (भुवि पृथिव्यां कश्यप इव भुवः

कश्यप इति वा ।
“तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः ।
वसुदेव इति ख्यातो गोधु तिष्ठति भूतले ॥”
इति हरिवंशीयवचनेनास्य कश्यपांशसम्भूत-
त्वात् तथात्वम् ।) वसुदेवः । इति त्रिकाण्ड-
शेषः ॥

भूकाकः, पुं, (भुवि ख्यातः काकः ।) स्वल्पकङ्कः ।

क्रौञ्चः । नीलकपोतः । इति शब्दरत्नावली ॥

भूकुम्भी, स्त्री, (भुवि कुम्भीव ।) भूपाटली ।

इति राजनिर्घण्टः ॥

भूकुष्माण्डी, स्त्री, (भुवि कुष्माण्डीव ।) विदारी ।

इति राजनिर्घण्टः ॥

भूकेशः, पुं, (भुवः पृथिव्याः केश इव ।) शैवलः ।

वटः । इति मेदिनी । शे, २६ ॥

भूकेशा, स्त्री, (भूकेश + ठाप् ।) राक्षसी । इति

शब्दरत्नावली ॥

भूकेशी, स्त्री, (भूकेश + स्त्रियां ङीप् ।) अवल्-

गुजः । इति मेदिनी । शे, २७ ॥

भूक्षित्, पुं, (भुवं क्षितिं क्षिणोतीति + क्षिद् +

क्विप् ।) शूकरः । इति त्रिकाण्डशेषः ॥

भूखर्ज्जूरी, स्त्री, (भूसंलग्ना खर्ज्जूरी । शाक-

पार्थिवादिवत् समासः ।) क्षुद्रखर्ज्जूरी । तत्-
पर्य्यायः । भूयुक्ता २ वसुधाखर्ज्जूरिका ३
भूमिखर्ज्जूरी ४ । अस्या गुणाः । मधुरत्वम् ।
शिशिरत्वम् । दाहपित्तहरत्वञ्च । इति राज-
निर्घण्टः ॥

भूगरं, क्ली, (भुवः पृथिव्या गरम् ।) विषम् ।

इति राजनिघण्टः

भूगर्भः, पुं, भवभूतिः । स च मालतीमाधवादि-

नाटककर्त्ता । इति जटाधरः ॥ (भूः सर्व्व-
भूताश्रयभूता पृथ्वी गर्भे कुक्षौ यस्येति ।
विष्णुः । यथा, महाभारते । १३ । १४९ । २१ ।
“हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥”)

भूगोलः, पुं, (भूर्गोलो मण्डलमिव ।) भुवनकोषः ।

(यदुक्तं सूर्य्यसिद्धान्ते ।
“मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।
बिभ्राणः परमां शक्तिं ब्रह्मणो धारणा-
त्मिकाम् ॥”)
तस्य विवरणम् । यथा, --
“प्रकृतेस्तु महान् जातोऽहङ्कारो महतः पुनः ।
तन्मात्राणि ह्यहङ्कारात् शब्दः स्पर्शोऽथ
रूपकम् ॥
रसो गन्धश्च पञ्चैव गुणा नाम प्रकीर्त्तिताः ।
पञ्चेमानि महाभाग ! महाभूतानि संग्रहात् ।
तेभ्य एव प्रजातानि सर्व्वाणि गुणवन्ति च ॥
भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्व्वाणि तेषां भूमिः प्रधानतः ॥
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः ।
भूमावेते गुणाः प्रोक्ता ह्रसन्ति परतः क्रमात् ॥
चत्वारोऽप्सु गुणा बह्मन् ! गन्धस्तत्र न वर्त्तते ।
शब्दः स्पर्शश्च रूपञ्च त्रय एव हि तेजसि ॥
शब्दः स्पर्शोऽथ वायोस्तु आकाशे शब्द
एव हि ।
एते पञ्च गुणाः प्रोक्ता महाभूतेषु पञ्चमु ॥
वर्त्तन्ते सर्व्वभूतेषु येषु लोकाः प्रतिष्ठिताः ।
अन्योन्यं नातिवर्त्तन्ते सम्यग्भवति वै तदा ॥
यदा तु विषमं भावमाविशन्ति परस्परम् ।
तदा देहवियोगः स्याद्देहिनां नान्यथा द्बिज ! ॥
अनुपूर्ब्बा विनश्यन्ति जायन्ते चापि सर्व्वशः ।
सर्व्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥
अचिन्त्याः स्वलु ये भावा न तांस्तर्केण योजयेत् ।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ * ॥
जम्बुद्वीपं प्रवक्ष्यामि वात्स्यायन महामुने ! ॥
परिमण्डलो महाभाग ! द्बीपोऽसौ चक्रवत्
स्थितः ।
नदीगिरिप्रतिच्छन्नो विविधैः पत्तनैरपि ॥
षनैर्जनपदैर्वृक्षैस्तथा पुष्पफलोपगैः ।
लवणेन समुद्रेण समन्तात् परिवारितः ॥
प्रागायता महाभाग ! षडेते रत्नपर्व्वताः ।
अवगाढा ह्युभयतः सागरौ पूर्ब्बपश्चिमौ ॥
हिमवान् हेमकूटश्च निषधश्च नगोत्तमः ।
नीलः श्वेतः शृङ्गवांश्च रत्नधातुविचित्रिताः ॥
अयुतानि योजनानि उच्छ्रायास्तेषु कीर्त्तिताः ।
पृथुत्वे च द्विसाहस्रयोजनास्ते च पर्व्वताः ॥
तेषामन्तरविष्कम्भे नवसाहस्रयोजनः ।
वर्षे वर्षे प्रमाणन्तु वर्षाणि त्रीणि दक्षिणे ॥
तत्र पुण्या जनपदास्तेषु वर्षेषु तापस ! ।
वसन्ति तेषु सर्व्वाणि सत्त्वानि विविधानि च ॥
दक्षिणे भारतं वर्षमुत्तरे लवणोदधेः ।
कूलादेव महाभाग ! तस्य सीमा हिमालयः ॥
ततः किंपुरुषं वर्षं हेमकूटादधस्ततः ।
हरिवर्षं ततो ज्ञेयं निषधोऽवधिरुच्यते ॥
एवमेवोत्तरे त्रीणि वर्षाणि च तपोधन ! ।
कुरुवर्षं सिन्धुकूलात् शृङ्गवानवधिः स्मृतः ॥
हिरण्मयं ततो वर्षं श्वेतावधि निगद्यते ।
रम्यकञ्च ततो वर्षं नीलस्तस्यावधिः स्मृतः ॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
प्रागायतो महाभाग ! माल्यवान्नाम पर्व्वतः ॥
पश्चिमे तु तथैवास्ते पर्व्वतो गन्धमादनः ॥
पूर्व्वे समुद्रकूलात्तु भद्राश्वं नाम वर्षकम् ॥
माल्यवानवधिस्तस्य केतुमालञ्च पश्चिमे ।
गन्धमादनसीमान्तं नवसाहस्रयोजनम् ॥ * ॥
परिमण्डलस्तयोर्म्मध्ये मेरुः कनकपर्व्वतः ।
आदित्यतरुणाभासो विधूम इव पावकः ॥
लक्षयोजन उच्छ्रायो मूर्द्ध्नि द्वाविंश एव च ।
योजनानां सहस्राणि मूले चापि तु षोडश ॥
विस्तृतः स महाभाग ! भूमिष्ठं मूलमस्य तु ।
प्रविष्टमन्तर्भूम्यां वै षोडशैव सहस्रकम् ॥
ऊर्द्ध्वमन्तश्च तिर्य्यक् च लोकानावृत्य तिष्ठति ।
तस्य चेलावृतं वर्षं सर्व्वतः परिकीर्त्तितम् ॥
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल ।
स वै विचिन्तया मास सौवर्णान् प्रेक्ष्य वायसान् ॥
मेरुरुत्तममध्यानामवराणाञ्च पक्षिणाम् ।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥
तमादित्योऽनुपर्य्येति सततं ज्योतिषां वरः ।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥
स पर्व्वतो महाभाग ! दिव्यपुष्पसमन्वितः ।
भवनैरावृतः सर्व्वैर्जाम्बूनदमयैः शुभैः ॥
तत्र देवगणा ब्रह्मन् ! गन्धर्व्वासुरराक्षसाः ।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्व्वदा ॥
अवष्टम्भकरास्तस्य मन्दरो मेरुमन्दरः ।
मुपार्श्वः कुमुदश्चेति चतुर्दिक्षु स्थिता द्बिज ! ॥
अयुतयोजनोन्नाहास्तावद्विस्तारसंयुताः ।
चतुर्ष्वेतेषु धर्म्मज्ञ ! चूतजम्बूकदम्बकाः ॥
न्यग्रोधश्चापि चत्वारः पादपा व्राह्मणर्षभ ! ।
सहस्रयोजनोन्नाहास्तावद्बिटपविस्तृताः ॥
केतुभूताः पर्व्वतानां विशालाः शतयोजनम् ।
हदाश्च तत्र चत्वारः पयोमध्विक्षुवारिदाः ॥
देवोद्यानानि चत्वारि द्वे चैत्ररथनन्दने ।
सर्व्वतोभद्रमित्येवं तथा वैभ्राजकं वनम् ॥
तेषु देवस्त्रियो नित्यं विहरन्ति सुरैः सह ।
गन्धर्व्वाः किन्नराश्चेव तथान्ये सिद्धचारणाः ॥
गायन्तो मधुरं दिव्यं स्त्रीभिः क्रीडन्ति तापस ! ।
चूतो यो मन्दरोत्सङ्गेऽयुतयोजनमुच्छ्रितः ॥
फलान्यमृतकल्पानि पतन्त्यस्य सुदूरतः ।
तेषां विशीर्य्यमाणानां रसेनाजनि या नदी ॥
अरुणोदा नाम सैव वहते मन्दराचलात् ।
यज्जलस्पर्शमात्रेण भवानीशिवयोर्गणाः ॥
स्वदेहसौरभेणापि समन्ताद्दशयोजनम् ।
सुगन्धयन्ति वातेन वात्स्यायन ! तदद्भुतम् ॥
एवं जम्बूफलानाञ्च पततां मेरुमन्दरे ।
हस्तिकायप्रमाणानां रसैर्जाता महानदी ॥
सैव जम्बूनदी नाम दक्षिणेन इलावृतम् ।
तीरयोरुभयोरेव जम्बूरसपरिप्लुता ॥
मृत्तिकैव सुवर्णं स्यात् वार्य्यर्ककिरणान्वयात् ।
तत्र जाम्बूनदं हेम नानाभरणसंज्ञितम् ॥
देवोपदेवगन्धर्व्वा धारयन्ति सह स्त्रिया ।
यो वै महाकदम्बश्च सुपार्श्वोपरि तापस ! ॥
तत्कोटरेभ्यः पञ्चैव मधुधाराः सवन्ति वै ।
पञ्चायामपरीणाहाः पश्चिमेन इलावृतम् ॥
यासां रसांश्च भुञ्जानाः सुमुखोद्गारवायुना ।
सुगन्धयन्ति धर्म्मज्ञ ! समन्तात् शतयोजनम् ॥
कुमुदाग्रनिरूढो यः शतवल्यो वटो महान् ।
स्कन्धेभ्यस्तस्य नद्यस्तु उत्तरेण इलावृतम् ॥
पयस्विनीदधिह्रदाघृतकुल्यामधुस्रवाः ।
पृष्ठ ३/५२३
गुडस्रवेति पञ्चैव यासां रसनिषेवणात् ॥
बलीपलितदौर्गन्ध्यजरादोषो न विद्यते ।
कुरङ्गकुरवः शङ्खः कुसुम्भः शिखरस्तथा ॥
वैकङ्कश्च त्रिकूटश्च पर्व्वतौ रुचकर्षभौ ॥
पतङ्गनिषधौ नागसितिवासत्रिकूटकाः ।
हंसवैदूर्य्यकपिला द्बौ कालञ्जरजारुधी ॥
गिरयो मूलदेशे तु सुमेरोः परिकल्पिताः ॥
जठरो देवकूटश्च द्बौ नगौ मेरुपूर्ब्बतः ।
अष्टादशसहस्राणि योजनान्युदगायतौ ॥
पृथुतुङ्गौ द्बिसाहस्रयोजनं तापसर्षभ ! ।
पवनः पारिपात्रश्च मेरोः पश्चिमतः स्थितौ ॥
तथा प्रमाणौ कैलासकरवीरौ तु दक्षिणे ।
प्रागायतावुत्तरेण त्रिशृङ्गमकरौ तथा ॥
अष्टाभिरेतैर्गिरिभिर्भाति काञ्चनपर्व्वतः ।
मेरोर्मूर्द्धनि विप्राग्र्य ! मध्ये विश्वसृजः पुरी ।
चतुरस्रा शातकौम्भी योजनायतविस्तृता ॥
दिक्पालानां तथा पूर्य्यः पूर्ब्बादिषु यथाक्रमम् ।
ब्रह्मपुर्य्याश्चतुर्थेन भागेन परिकल्पिता ॥
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि मुरेश्वरः ।
समेत्य विविधैर्यज्ञैर्यजन्ते भूरिदक्षिणैः ॥
तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहाहूहूः ।
अभिगम्यामरश्रेष्ठं स्तुवन्ति विविधैः स्तवैः ॥
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।
तत्र गच्छन्ति भद्रं ते सदा पर्व्वणि पर्व्वणि ॥
तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ।
तस्य हैमानि रत्नानि तस्येमे रत्नपर्व्वताः ॥
तस्मात् कुवेरो भगवांश्चतुर्थं भागमश्नुते ।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥
पार्श्वे तस्योत्तरे दिव्यं सर्व्वर्त्तुकुसुमान्वितम् ।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥
तत्र साक्षान्महादेवो भीमैर्भूतैः समावृतः ।
पार्व्वत्या सह देवेशो रमते भूतभावनः ॥
कर्णिकारमयीं मालां दधदापादलम्बिनीम् ॥
तस्य शैलस्य शिखरात् क्षीरधारा महामते ! ।
विश्वरूपा परिमिता भीमनिर्घातनिस्वना ॥
पुण्या पुण्यतमैर्ज्जुष्टा गङ्गा भागीरथी शुभा ।
तां धारयामास तदा दुर्द्धरां पर्व्वतैरपि ॥
शतं वर्षसहस्राणां शिरसैव पिनाकधृक् ।
मेरोस्तु शिखराद्देवी भिद्यमाना चतुर्विधा ॥
सीता चालकनन्देति वङ्क्षुर्भद्रेति कीर्त्तिता ।
सीता तु ब्रह्मसदनात् केशरादिमहाचलान् ॥
अतिक्रम्य प्रस्रवन्ती गन्धमादनमूर्द्धसु ।
पतित्वा द्विज ! वर्षञ्च भद्राश्वं पुनती क्रमात् ।
प्राच्यां दिशि महाभाग ! प्रविष्टा लवणोदधिम् ॥
माल्यवच्छिखराद्वङ्क्षुः पतित्वा केतुमालके ।
प्रतीच्यां दिशि विप्रेन्द्र ! प्रविवेश सरित्पतिम् ॥
भद्रा चोत्तरतो मेरुशिखरात् पतिता गिरीन् ।
अतिक्रम्य शृङ्गवतः शृङ्गाद्बेगेन पातुका ।
उत्तरांश्च कुरून् प्राप्य प्रविष्टा लवणार्णवम् ॥
तथैवालकनन्दा च पतन्ती गिरिमूर्द्धसु ।
हिमालयं विनिर्भिद्य भारतं वर्षमेत्य च ।
लवणाम्बुधिमभ्येति दक्षिणस्यां दिशिद्बिज ! ॥
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महामते ! ।
आयुर्दशसहस्राणि वर्षाणां तत्र मानवे ॥
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।
वीतरोगशोकभया नित्यमानन्दवर्त्तिनः ।
जायन्ते मानवास्तत्र प्रतप्तकनकप्रभाः ॥ * ॥
गन्धमादनशृङ्गेषु कुवेरः सह राक्षसैः ।
अप्सरोगणगन्धर्व्वैर्मोदते गुह्यकाधिपः ॥
गन्धमादनपार्श्वे तु गण्डशैलाः सहस्रशः ।
एकादशसहस्राणि वर्षाणां परमायुषः ॥
तत्र हृष्टा नराः सर्व्वे बलवीर्य्यपराक्रमाः ।
स्त्रियश्चोत्पलपत्राभाः सर्व्वाः सुप्रियदर्शनाः ॥
उत्तराः कुरवश्चैव भारतञ्च महामते ! ।
धनुसंस्थे महाभाग ! द्विवर्षे दक्षिणोत्तरे ॥
इलावृतं मध्यमन्तु पञ्चवर्षाणि चैव हि ।
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ॥
अपरेषु च वर्षेषु सर्व्वेषु भारतं विना ।
आयुःप्रमाणं लोकानां दशवर्षसहस्रकम् ॥
एवमेषा महाभाग ! पृथिवी पर्व्वतैश्चिता ॥”
इति पद्मपुराणे भूमिखण्डे भूगोलवर्णने १२८
अध्यायः ॥
शेष उवाच ।
“नवस्वतेषु वर्षेषु भगवान् भूतभावनः ।
अनुग्रहाय लोकानामास्ते मायावपुर्द्धरः ॥
इलावृते तु भगवान् भव एकः सहोमया ।
आस्ते विहारनिरतो नान्यस्तत्र पुमान् द्बिज ! ॥
भवानीशापतो ब्रह्मन् ! प्रविशेन्न कदाचन ।
यत्र प्रविष्टो मोहेन सुतो वैवस्वतस्य वै ॥
इलः स्त्रीभावमापन्नो यस्यां जातः पुरूरवाः ।
तत्र सङ्कषणं देवं कलां विष्णोर्महात्मनः ।
भवो भवान्या सहितः स्तौति भक्तिसमन्वितः ॥
भद्राश्वे द्बिज ! वर्षे तु हयशीर्षाकृतिर्हरिः ।
वसते वर्षपुरुषास्तं स्तुवन्ति जगद्गुरुम् ॥ * ॥
हरिवर्षे तु भगवान्नरसिंहवपुर्धरः ।
स्तूयते दैत्यपतिना प्रह्लादेन महात्मना ॥
केतुसाले च भगवान् कामदेवस्वरूपवान् ।
प्रजापतेदुहितृभिः सहैव रमया मुदा ॥
स्तूयते परया भक्त्या जगन्मोहनरूपधृक् ॥ * ॥
रम्यके भगवानास्ते मत्स्यरूपी दयापरः ।
मनुर्वैवस्वतस्तञ्च स्तौति भक्त्या कृतैः स्तवैः ॥ * ॥
हिरण्मये तु भगवानास्ते कूर्म्मतनुं दधत् ।
प्रेताधिराजस्तं स्तौति भक्त्या परमया युतः ॥
कुरुवर्षे च भगवान् वराहः सेव्यते जनैः ।
तं देवी यं क्षितिः स्तौति तद्बर्षपतिभिः सह ॥
वर्षे किंपुरुषे ब्रह्मन् ! भगवानादिपूरुषः ।
सीतया विहरन्नास्त सततं लक्ष्मणाग्रजः ॥
तञ्च किंपुरुषैः सार्द्धं भक्त्या मारुतनन्दनः ।
पार्ष्णिसेनेन च सह स्तौति भक्त्या विभावितः ॥
भारते च तथा वर्षे नरनारायणावृषी ।
नारदः स्तौति भगवान् भगवन्तौ कृतानतिः ॥
द्वीपेऽस्मिन् बहवः सन्ति गिरयः सरितस्तथा ।
देशाश्च बहवो ब्रह्मंस्तांस्ते वक्ष्याम्यनुक्रमात् ॥
मेरोरुत्तरतः सर्व्वान् पर्य्यायेण ब्रवीम्यहम् ।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ॥
उत्तराः कुरवो नाम पुण्याः सिद्धनिषेविताः ।
तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः ॥
सुगन्धीनि च पुष्पाणि फलानि रसवन्ति च ।
सर्व्वे कामदुघा वृक्षा लताः कामप्रपूरिकाः ॥
अपरे क्षीरिणो नाम तरवो मुनिपुङ्गव ! ।
ये स्रवन्ति सदा क्षीरं रसैरमृतसन्निभम् ॥
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।
सर्व्वा मणिमयी भूमिः सूक्ष्महाटकबालुका ॥
सर्व्वर्त्तुसुखदा नित्यं पङ्कशर्करवर्ज्जिता ।
स्वर्गभोगावशेषेण जायन्ते तत्र मानवाः ॥
शुक्लाभिजनसम्पन्नाः सर्व्वे चारुमुखाम्बुजाः ।
मिथुनानि च जायन्ते स्त्रियः सुरसुतोपमाः ॥
तेषान्ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ।
मिथुनं जायते काले समन्ताच्च प्रवर्द्धते ॥
तुल्यरूपगुणोपेतं तुल्यवेशवयस्तथा ।
निरामया निराबाधाः सदानन्दविवर्त्तिनः ॥
एकादशसहस्राणि तत्र वर्षाणि वै जनाः ।
जीवन्ति ते महाभाग ! न चान्योन्यं हनन्ति च ॥
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च ॥
उत्तराः कुरवो ब्रह्मन् ! व्याख्यातास्ते समा-
सतः । * ।
हिरण्मये रम्यके च एष धर्म्मः प्रकीर्त्तितः ॥
मेरोः पार्श्वमहं पूर्ब्बं वक्ष्ये ब्रह्मन् ! यथातथम् ।
भद्राश्वे भद्रश्रवा नाम तत्र ब्रह्मन् ! महीपतिः ॥
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ।
कालाम्रो नाम वृक्षोऽसौ सिद्धचारणसेवितः ॥
योजनैकसमुत्सेधो नित्यपुष्पफलः शुभः ।
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ॥
कुमुदाभाः स्त्रियस्तत्र चारुनासाः सुलोचनाः ।
चन्द्राभचारुरूपाश्च पूर्णेन्दुसदृशाननाः ॥
नृत्यगीतकलाभिज्ञाश्चन्द्रशीतलकान्तयः ।
दशवर्षसहस्राणि तत्रायुर्ब्राह्मणर्षभ ! ॥
कालाम्ररसपानेन नित्यं सुस्थिरयौवनाः ।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥
सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः ।
सर्व्वकामफलः पुण्यः सिद्धचारणसेवितः ॥
द्बीपख्यातिकरः श्रीमान् सहस्रयोजनोच्छ्रितः ।
अरत्नीनां सहस्रञ्च शतानि दश पञ्च च ॥
परिणाहस्तु वृक्षस्य रसानां रसभेदिनाम् ।
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥ * ॥
तथा माल्यवतः शृङ्गे दृश्यते हव्यवाहनः ।
नाम्ना सम्बर्त्तकी नाम कालाग्निः प्रलयेऽन्तकृत् ॥
तथा माल्यवतः शृङ्गे पूर्ब्बे पूर्ब्बानुगण्डिकाः ।
योजनानां सहस्राणि पञ्चषण्माल्यवान् द्विज ! ॥
महारजतसङ्काशा जायन्ते तत्र मानवाः ।
ब्रह्मलोकच्युताः सर्व्वे जायन्ते तत्र वै नराः ॥
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्द्ध्वरेतसः ।
रक्षणार्थन्तु भूतानां न विशन्ति दिवाकरम् ॥
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।
अरुणस्याग्रतो यान्ति परिवार्य्य दिवाकरम् ॥
पृष्ठ ३/५२४
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।
आदित्यतप्तास्ते सर्व्वे विशन्ति शशिमण्डलम् ॥”
इति पाद्मे भूमिखण्डे भूगोले १२९ अध्यायः ॥ * ॥
शेष उवाच ।
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु ।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥
शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः ।
दशवर्षसहस्राणि शतानि दश पञ्च च ॥
जीवन्ति ते महाभाग ! नित्यं मुदितमानसाः ।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥
वर्षं हिरण्मयं नाम तत्र हैमन्वती नदी ।
तत्र चायं महाभाग ! पक्षिराट् पतगोत्तमः ॥
यक्षानुगाश्च बहवो धनिनश्च महाबलाः ।
एकादशसहस्राणि वर्षाणां ते महामते ! ॥
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च ।
शृङ्गाणि च विचित्राणि त्रीण्येव ब्राह्मणर्षभ ! ॥
एकं मणिमयं तत्र द्वितीयं रौक्ममद्भुतम् ।
सर्व्वरत्नमयञ्चैव तृतीयं तत्र शोभते ॥
यत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ।
हेमकूटस्तु सुमहान् कैलासो नाम पर्व्वतः ॥
यत्र वै पवनो राजा गुह्यकैः सह मोदते ।
अस्त्युत्तरेण कैलासं मैनाकं पर्व्वतं प्रति ॥
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ।
तस्य पार्श्वे महद्दिव्यं शुभ्रकाञ्चनबालुकम् ॥
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।
दृष्ट्वा पुण्यापगां गङ्गामुवास बहुलाः समाः ॥
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ।
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ॥
स्रष्टा भूतपतिर्यत्र सर्व्वलोकैः सनातनः ।
उपास्यते तीग्मतेजा यत्र भूतैः समन्ततः ॥
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ।
तत्र दिव्या त्रिपथगा प्रथमन्तु प्रतिष्ठिता ॥
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ।
वस्वोकसा वा नलिनी पावनी च सरस्वती ॥
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ।
अचिन्त्या दिव्यसङ्काशा प्रभावैश्च समन्विता ॥
उपासते यत्र सत्रं सहस्रयुगपर्य्यये ।
दृश्यादृश्या च भवति तत्र तत्र सरस्वती ॥
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ।
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ॥
सपा नागाश्च निषधे गोकर्णञ्च तपोवनम् ।
देवासुराणां सर्व्वेषां श्वेतपर्व्वत उच्यते ॥
गन्धर्व्वा निषये नित्यं नीले ब्रह्मर्षयस्तथा ।
शृङ्गवांश्च महाभाग ! देवानां प्रतिसञ्चरः ।
इत्येतानि महाभाग ! सप्त वर्षाण्यनुक्रमात् ॥
भूतान्यपि निविष्टानि गतिमन्ति ध्रुवाणि च ॥
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।
अशक्या परिसंख्यातुं श्रद्धेया तु बुभुत्सुना ॥
इलावृते तु भगवान् भवान्या सह मोदते ।
इत्येवमष्टौ वर्षाणि कथितानि तवानघ ! ॥ * ॥
कर्म्मक्षेत्रं महापुण्यं भारतं शृणु सांप्रतम् ।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥
पृथोस्तु ब्रह्मन् ! वैण्यस्य तथेक्ष्वाकोर्महात्मनः ।
ययातेरम्बरीशस्य मान्धातुर्नहुषस्य च ॥
तथैव मुचुकुन्दस्य शिवेरौशीनरस्य च ।
सोमकस्य च राजर्षेर्गाधेश्चैव महात्मनः ॥
ऋषभस्य तथैलस्य दिलीपस्य महात्मनः ।
कुशिकस्य च धर्म्मज्ञ ! नृगस्य नृपतेस्तथा ॥
अन्येषाञ्च महाभाग ! क्षत्त्रियाणां बलीयसाम् ॥
शृणु मे गदतो ब्रह्मन् ! सर्व्वपापप्रणाशनम् ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
बिन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्व्वताः ॥
तेषां सहस्रशो ब्रह्मन् ! गिरयस्तु समीपतः ।
धातुचित्राः सत्त्ववन्तो महान्तश्चित्रसानवः ॥
आर्य्या म्लेच्छाश्च धर्म्मज्ञ ! तैर्मिश्राः पुरुषा
द्विज ! ।
नदीं पिबन्ति विपुलां गङ्गां सिन्धु सरस्वतीम् ॥
शतद्रुं चन्द्रभागाञ्च विपापां स्थूलबालुकाम् ।
गोदावरीं नर्म्मदाञ्च यमुनाञ्च महानदीम् ॥
दृशद्वतीं विपाशाञ्च बाहुदां सरिताम्बराम् ।
नदीं वेत्रवतीञ्चैव पयोष्णीं देविकामपि ॥
वेदस्मृतिं वेदशिनीं चित्रसेनाञ्च निम्नगाम् ।
करीषिणीं चित्रवहां कृष्णवेण्वां सुपुण्यदाम् ॥
इराबतीं वितस्ताञ्च त्रिदिवामिक्षुलां कृमिम् ।
गोमतीं धूतपापाञ्च निचितां लोहितावनीम् ॥
कौशिकीं त्रिदिवां कृत्यां सरयूञ्च महामते ! ।
चर्म्मण्वतीं वेत्रवतीं चन्दनाञ्च महानदीम् ॥
रहस्यां शतकुम्भाञ्च हन्तिसोमां दिशन्तथा ।
शरावतीं पयोष्णीञ्च वाजिनीं पुरमालिनीम् ॥
पूर्ब्बाभिरामां धीराञ्च वापीं शीतवलीमपि ।
पलाशिनीं पापहरां सुप्रयोगां महामते ! ॥
कावेरीञ्चुलुकाञ्चापि वेण्वां भीमरथीमपि ।
रहस्यां शतकुम्भाञ्च कुशचीरां महानदीम् ॥
पलाशिनीं पापहरां हेमां घृतवतीं तथा ।
मरुतीं प्रवरां मेलां महेन्द्रां पाटलावतीम् ॥
पुरावतीमनुष्णाञ्च कुशधारां महानदीम् ।
सदानीरामधृष्याञ्च तथा चीरवतीमपि ॥
करीषिणीमशिक्नीञ्च विपुलां सहिरण्मयीम् ।
सदाकान्तां शिवाञ्चैव पञ्चमीञ्च महानदीम् ॥
विण्वां वीरकराञ्चापि विश्वामित्रां कपिञ्जलाम् ।
वसुं सुवस्त्रां गौरीञ्च कुवेरामम्बुवाहिनीम् ॥
रथचित्रां ज्योतिरथां तुङ्गवेण्वां महानदीम् ।
वैलन्दीं पिञ्जलाञ्चैव तुङ्गवेण्वां महानदीम् ॥
विदिशां कृष्णवेण्वाञ्च हविःस्रावां महापगाम् ।
सन्ध्यां समासां वेदास्वां भारद्वाजीञ्च निम्नगाम् ॥
शीघ्राञ्च पिच्छिलाञ्चैव कौशिकीं निम्नगामपि ।
दुर्गां मन्त्रशिलाञ्चैव ब्रह्ममेध्यां दृशद्वतीम् ॥
परोक्षामथ रोहीञ्च सामान्यां वरणामसिम् ।
सुरसां तपसां दासीं पर्णासाञ्च महानदीम् ॥
मालवीं वृषभां भासां ब्रह्ममेध्यां बृहद्वतीम् ।
एताश्चान्याश्च बह्व्यो वै महानद्यो द्विजर्षभ ! ॥
सदा निरामया कृष्णा मन्दगा मन्दवाहिनी ।
चित्रोपला चित्ररथा दुर्गापि पापहारिणी ॥
ब्रह्माणी च महागौरी कोषा चापि महानदी ।
शुक्तिमती मनङ्गा च मञ्जला वाहिनी तथा ॥
कुमारी ऋषिकुल्या च नदी मन्दाकिनी तथा ।
सुवर्णा च तथा गङ्गा मारिषा च सरस्वती ॥
लौहित्यं करतोया च तथैव वृषकाह्वया ।
विश्वस्य मातरश्चैताः सर्व्वाश्चैव महाफलाः ॥
तथा नद्यस्त्वप्रकाशाः शतशश्च सहस्रशः ।
इत्येताः सरितो ब्रह्मन् ! समाख्यातास्तवानघ ! ॥
वक्ष्यामि पर्व्वतांश्चापि भारते सन्ति ये द्विज ! ।
मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः ॥
ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा ।
श्रीशैलो ऋष्यमूकश्च शुक्तिमानृक्ष एव च ॥
द्रोणश्च पारिपात्रश्च रैवतः ककुभस्तथा ।
गोवर्द्धनश्चित्रकूटो नीलो गोकर्ण एव च ॥
कोकामुख इन्द्रकीलस्तथा कामगिरिर्द्विज ! ।
अतःपरं जनपदान् वक्ष्यामि द्बिजसत्तम ! ॥
विख्याताः कुरुपाञ्चालाः शाल्ला माद्रेय-
जाङ्गलाः ।
मत्स्याः कुशट्टा मौद्गल्या भोजाः सिन्धुकुलि-
न्दकाः ॥
सूरसेनाः पुलिन्दाश्च कुन्तयः केशिकोशलाः ।
पाञ्चालाः कौशलाश्चैव बोधा मालास्तथैव च ॥
चेदिमत्स्यकरूषाश्च नैकपृष्ठा युगन्धराः ।
उत्तमाश्च दशार्णाश्च काशयोऽपरकाशयः ॥
कुन्तयोऽवन्तयश्चैव मलजा विजयास्तथा ।
आधिराज्याः सकुट्टाश्च चक्रवक्रातयः शकाः ॥
मानवास्योपवाहाश्च यकृल्लोमान एव च ।
वाह्वीका वाटधानाश्च शङ्कलाशर्म्मचण्डकाः ॥
मल्लाः मुदेष्णाः प्रह्रादा महिषाः शशिका-
स्तथा ।
अपरान्ताः परान्ताश्च आभीराः काल-
तोयकाः ॥
अटवीशिखराश्चैव मेरुभूताश्च मारिष ! ।
उपविष्णानुविष्णाश्च जङ्गलाः कुरुवर्णकाः ॥
कुट्टाः परान्ता माहेया मागधा मालवज्जटाः ।
अन्ध्राश्च बहवो ब्रह्मन् ! कक्षाः सामुद्र-
निष्कुटाः ॥
बहिर्गिर्य्योऽङ्गमलदा अन्तर्गिर्य्यस्तथैव च ।
सह्युत्तराः प्रावृषेयाः सुदेष्टा यामुनास्तथा ॥
शका निषादा निषधा भार्गवाश्च द्विजर्षभ ! ।
पुण्ड्रा भोगाः किराताश्च तथैवानर्त्तनैरृताः ॥
तीरग्रहाः शूरसेनाः कुन्तलाः कुशलास्तथा ।
तिलभावा मसावाश्च गान्धारा दर्शकास्तथा ॥
काश्मीराः सिन्धुसौवीरा इजिका कन्यका-
गणाः ।
अभीसाहा कुलूताश्च मधुमत्ताः कुकुन्दकाः ॥
रत्नवट्टाश्च धर्म्मज्ञ ! सौचला वाह्लिकास्तथा ।
दर्व्वीवरा लता दर्व्वाः मुदामानः सुमल्लिकाः ॥
वनायवो दशाः पार्श्वरोमाणः कुशिकास्तथा ।
रत्नवट्टाश्च धर्म्मज्ञ ! वाडयामरथोरगाः ॥
रन्ध्राः करीषकाश्चापि कुलिन्दोपेत्यकास्तथा ।
कच्छा गोपालकच्छाश्च मूषिका वानवासिकाः ॥
किराता वर्व्वराः सिद्धाः पार्व्वतीयाश्च मारिष ! ।
पृष्ठ ३/५२५
ओड्रम्लेच्छाः ससैरिन्ध्रा वैदेहास्ताम्रलिप्तकाः ॥
तथापरे जनपदा दक्षिणा ब्राह्मणर्षभ ! ।
द्रविडाः केरलाः प्राच्या विकल्पमृषकास्तथा ॥
कोवेट्टकास्तथा चोलाः सौहृदा मलका मलाः ।
ध्वजिन्युत्सवसंकेता कोङ्कवेङ्कटमालवाः ॥
दण्डकाः कोरकाः प्राच्याः कुकुराङ्गार-
मारिकाः ।
तथैव बिन्ध्यचूलिकास्त्रिगर्त्ताः साल्लसेनयः ॥
समङ्गाः कवकाश्चैव तथैवापरवर्त्तकाः ।
मूषकास्तनबालाश्च पुलिन्दा वर्व्वरैः सह ॥
मुनिवाटाः शिवाटाश्च सरा वेगवशास्तथा ।
विदर्भा ऋषिकाः काकजनाश्च ब्राह्मणर्षभ ! ॥
यवनाश्च शकाम्भोजास्तङ्गनाः परतङ्गनाः ।
सकृद्वहाः कुलत्थाश्च दारुणा म्लेच्छजातयः ॥
उत्तराश्चापरे म्लेच्छा हूनाः पारसिकैः सह ।
तथैव च मलाश्चीना दशार्णा दशमालिकाः ॥
अङ्गवङ्गकलिङ्गाश्च पह्नवा गिरिगह्वराः ।
खासीकाश्चान्तचाराश्च वैश्यशूद्रकुलानि च ॥
शूद्राभीराश्च दरदा ये चान्ये म्लेच्छभूमयः ।
आत्रेयाश्च भरद्वाजास्तथैव स्तनपोषकाः ॥
ह्रेषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः ।
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च ।
उद्देशेन मया देशास्तव संकीर्त्तिता द्बिज ! ॥
वर्षे तु भारते ब्रह्मन् ! त्रिवर्गस्य फलं भवेत् ।
दुह्यते कामधुग्धेनुर्भूमिः सम्यगनुष्ठिता ॥
तस्मिन् शुभाशुभं कर्म्म यथोक्तफलदं नृणाम् ।
अन्यानि यानि वर्षाणि भूमिस्वर्गाणि तानि वै ॥
भारते विहितं कर्म्म यागध्यानादिलक्षणम् ।
फलं जनयते सम्यक् विकर्म्म नरकाण्यपि ॥
तत्र सिद्धा नरा ब्रह्मन् ! तपसाराधनेन च ।
प्रयान्त्रि परमं लोकमपवर्गञ्च मारिष ! ॥
कृतं त्रेता द्वापरञ्च कलिश्च ब्राह्मणर्षभ ! ।
भारते तु क्रमेणैवं भवन्ति हि युगानि वै ॥
चत्वारि च सहस्राणि वर्षाणां ब्राह्मणर्षभ ! ।
आयुःसंख्या कृतयुगे संख्याता भारते द्बिज ! ॥
त्रीण्येव तु सहस्राणि त्रेतायां भारते नृणाम् ।
द्वे सहस्रे द्बापरे तु शतमेकं कलौ स्मृतम् ॥
तत्रापि च स्थितिर्नास्ति कलौ ब्राह्मणसत्तम ! ।
गर्भस्थाश्च म्रियन्ते च तथा जाता म्रियन्ति च ॥
महाबला महासत्त्वा ज्ञानिनो धर्म्मतत्पराः ।
तपस्विनो ध्याननिष्ठाः कृते जायन्ति मानवाः ॥
त्रेतायां सर्व्ववर्णाश्च स्वधर्म्मनिरताः सदा ।
द्वापरे च महाभाग ! क्रूराश्च परहिंसकाः ॥
लुब्धाश्चानृतिकाश्चैव क्रोधना दुष्कृते रताः ।
कलौ खलु भविष्यन्ति भारते तापस ! प्रजाः ॥
सर्व्वेषामपि वर्षाणां भारतं प्रवरं द्विज ! ।
सिध्यन्ति मानवा ह्यत्र हरिभक्तिपरायणाः ॥
प्रायो भागवताः सर्व्वे भारते द्बिजसत्तम ! ।
नानारूपाणि तीर्थानि फलदानि नृणामपि ॥ * ॥
जम्बूद्वीपो मया प्रोक्तो लक्षयोजनविस्तृतः ।
समानेन प्रमाणेन वेष्टितो लवणाम्भसा ॥
अष्टावत्र उपद्वीपा मुनिभिः परिकीर्त्तिताः ।
सिन्धुमध्ये महाभाग ! नानाविधजनाश्रिताः ॥
नामानि तेषां वक्ष्यामि शृणु वात्स्यायन
द्विज ! ।
सगरस्य सुतैरश्वान्वेषणे परितो महीम् ॥
खनद्भिः कल्पिता विप्र ! द्वीपा अष्टौ महार्णवे ।
स्वर्णप्रस्थश्चन्द्रशल्कः सिंहलावर्त्तनौ यथा ॥
पञ्चजन्यस्तथा मन्दहरिणो रमणकाह्वयः ।
लङ्केति कथिता विप्र ! जम्बुद्बीपस्य तेऽन्तरा ॥”
इति पाद्मे भूमिखण्डे भूगोलवर्णने १३०
अध्यायः ॥ * ॥
शेष उवाच ।
“प्लक्षद्वीपं प्रवक्ष्यामि शृणु वात्स्यायन द्बिज ! ।
यन्मानं जम्बुद्वीपस्य तथैव लवणोदधेः ॥
ततो द्विगुणमानोऽसौ प्लक्षद्बीपो महामते ! ।
जम्बुद्वीपस्य च यथा वेष्टनं लवणाम्भसा ॥
समानेन प्रमाणेन पुरः परिखया यथा ।
परिखाया उपवनं यथा भवति वेष्टनम् ॥
प्लक्षद्वीपस्तथैवासौ संवेष्ट्य लवणोदधिम् ।
द्विलक्षयोजनायामो वर्त्तते द्विजसत्तम ! ॥
तत्र जम्बूप्रमाणोऽस्त्रि द्बीपख्यातिकरस्तरुः ।
प्लक्षो नाम महाभाग ! स्वर्णवर्णोऽग्निधाम च ॥
तत्र वर्षाणि सप्तैव सुभद्रं यवसं शिवम् ।
अमृताक्षमशान्तानि क्रमादभयमित्यपि ॥
सप्तैव सीमागिरयो नद्यः सप्त च कीर्त्तिताः ।
मणिकूटो वज्रकूटो ज्योतिष्मानिन्द्रसेनकः ॥
हिरण्यष्ठीवो मेघमालः सुपर्णः सेतुशैलका ।
अरुणनृमणा चैव सावित्र्यसिवमी तथा ॥
सत्यम्भवा सुप्रभा च वात्स्यायन ! धृतम्भवा ।
एताः सप्त महानद्यो दर्शनादेव पावनाः ॥
वर्णानां ब्राह्मणादीनां तत्र नामान्यनुक्रमात् ।
हंसश्चैव पतङ्गश्चोर्द्ध्वायनश्च तृतीयकः ॥
सत्याङ्गश्च चतुर्थो वै सर्व्वे धर्म्मार्थकोविदाः ।
अन्ये च पर्व्वतास्तत्र नद्यश्चैव महाफलाः ॥
प्रागायतो महाभाग ! मलयो नाम पर्व्वतः ।
ततो मेघाः प्रवर्त्तन्ते प्रभवन्ति च सर्व्वतः ॥
ततः परेण विप्रेन्द्र ! जलधारस्तु पर्व्वतः ।
तस्माद्गृह्णाति वै तोयं वासवः पृथिवीकृते ॥
वर्षासु हि ततो वृष्टिस्ततः शस्यसमुद्भवः ।
रैवतो नाम तत्राथ गिरिर्यत्र प्रतिष्ठितः ॥
रैवती नाम नक्षत्रं दृश्यते दिवि मोदिता ।
उत्तरेण तु तस्याथ श्यामो नाम गिरिर्महान् ॥
प्रांशुः श्रीमान्महामेघप्रभयोज्ज्वलविग्रहः ।
यस्य श्रिया श्यामवर्णाः प्रजास्तत्र महामते ! ॥
अतःपरं महाभाग ! दुर्गो नाम महागिरिः ।
केशरी केशरयुतो यस्माद्वातः प्रवर्त्तते ॥
प्लक्षो नाम महाद्वोपो यत्र पूज्यस्तु शङ्करः ।
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ॥
धार्म्मिकाश्च प्रजा ब्रह्मन् ! जरामृत्युविवर्ज्जिताः ।
दीर्घायुषः सत्यपरा वर्द्धन्ते भोगवर्द्धिताः ॥
नद्यश्चान्या महापुण्या गङ्गा च बहुधा मता ।
महानदी मणिजला सीतासी वेणिका तथा ।
सहस्राणां शतान्येवं नद्यः संख्या न शक्यते ॥
तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः ॥
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥
मगा ब्राह्मणभूयिष्ठाः स्वकर्म्मनिरता द्बिज ! ।
मशकेषु तु राजन्या धार्म्मिकाः सर्व्वकामदाः ।
मानसे च महाभाग ! वैश्यधर्म्मनिषेविणः ।
मन्दगेषु तथा शूद्राः शूरा धर्म्मार्थनिश्चिताः ॥
न तत्र राजा विप्रेन्द्र ! न दण्डो न च दण्ड्यता ।
सधर्म्मेणैव ते सर्व्वे रक्षन्ति च परस्परम् ॥ * ॥
प्लक्षद्वीपसमानेन समुद्रेण वृतो बहिः ।
इक्षुरसजलेनैव नानारत्नवता द्विज ! ॥
शाल्मलोऽपि तथा द्वीपः प्लक्षाद्द्विगुणमानतः ।
चतुर्लक्षयोजनेन सुरोदेनावृतो महान् ॥
यत्र वै शाल्मली नाम द्बिलक्षयोजनोच्छ्रिता ।
द्वीपख्यातिकरो वृक्षः सुपर्णेन कृतालयः ॥
तत्र वर्षाणि सप्तैव कथ्यन्तेऽत्र सुरोचनम् ।
सौमनस्यं रमणकं देववर्षमिति क्रमात् ॥
पारिभाद्रमाप्यायनमभिज्ञातमिति द्विज ! ।
सेतुशैलाश्च सप्तैव सुरसः शतशृङ्गकः ॥
वामदेवश्च कुन्दश्च कुमुदः पुष्पवर्षकः ।
सहश्रुतिरिति ब्रह्मन् ! नद्यः सप्तैव कीर्त्तिताः ॥
अनुमतिः सिनीवाली नन्दा राका सरस्वती ।
रजनी च कुहूश्चैव महानद्यः सुपुण्यदाः ॥
तत्र विप्रादयो वर्णाः क्रमान्नामानि बिभ्रति ।
आद्यः श्रुतधरो वर्णस्ततो वीर्य्यधरः स्मृतः ।
वसुन्धरस्तृतीयस्तु चतुर्थस्तु इषुन्धरः ।
सर्व्वे ते सोममात्मानं भगवन्तं यजन्ति हि ॥
सुरोदं परिवेष्ट्योऽथ ततो द्बिगुणमानकः । * ।
कुशद्वीपो घृतोदेन समानेनावृतो द्विज ! ॥
कुशस्तम्बो महांस्तत्र द्वीपख्यातिं करोति च ।
जाज्वल्यमानो दीप्त्यैव महाज्वलनराशिवत् ॥
तत्र वर्षाणि सप्तैव समानानि प्रमाणतः ।
वसुदानं दृढरुचिर्नाभिगुप्तं महामते ! ॥
सत्यव्रतं विप्रनाम देवनामेति सप्तमम् ।
सप्तैव सीमागिरयः कीर्त्तिता द्विजसत्तम ! ॥
वभ्रुश्चैव चतुःशृङ्गः कपिलश्चित्रकूटकः ।
देवानीक ऊर्द्ध्वरोमा द्रविणश्चेति सप्तमः ॥
महानद्यश्च सप्तैव सर्व्वपापप्रणाशनाः ।
रसकुल्या मधुकुल्या मित्रविन्दा च मानद ! ॥
श्रुतविन्दा देवगर्भा मन्त्रमाला घृतच्युता ।
तत्र विप्रादयो वर्णा नामान्तरभृतो द्बिज ! ॥
कुशलः प्रथमो वर्णः कोविदम्भूर्द्वितीयकः ।
अतिमुक्तस्तृतीयस्तु चतुर्थः कुलकः स्मृतः ॥
ते सर्व्वे ज्ञानसम्पन्ना जातवेदस्वरूपिणः ।
भजन्ते भगवन्तं वै कर्म्मकौशलयाजिनः ॥ * ॥
घृतोदाच्च तथा द्वीपो द्बिगुणः क्रोञ्चसंज्ञकः ।
क्षीरोदेन समानेन वेष्टितो ब्राह्मणर्षभ ! ॥
क्रोञ्चो नाम गिरिर्यत्र द्वीपख्यातिकरो महान् ।
महासेनशराघातकृतच्छिद्रो महामते ! ॥
क्षीरोदेनाभिषिक्तश्च सततं वीचिसञ्चयैः ।
वर्षाणि तत्र सप्तैव तेषां नामानि मे शृणु ॥
आम्रो मधुरुहो मेघपृष्ठश्चापि वनस्पतिः ।
पृष्ठ ३/५२६
लोहितार्णः सुधामा च भ्राजिष्ठश्चापि सप्तमः ।
गिरयश्चापि सप्तैव वर्षसीमाकरा द्विज ! ।
शुक्लोऽथ वर्द्धमानश्च भोजन उपबर्हणः ॥
नन्दमो नन्दनश्चैव सर्व्वतोभद्र इत्यपि ।
सप्त तत्र महानद्यः पावना ब्राह्मणर्षभ ! ॥
अभया चामृतौघा च तृप्तिरूपवती तथा ।
तीर्थवत्यार्य्यका शुक्ला पवित्रवत्यपि स्मृता ॥
विप्रादयस्तथा वर्णाः ख्याता नामान्तरेण तु ।
पुरुषः प्रथमो वर्णो द्बितीयो ऋषभः स्मृतः ॥
तृतीयो द्रविणो नाम देवसंज्ञश्चतुर्थकः ।
मूर्त्तिं जलमयीं विष्णोर्ध्यायन्ति च यजन्ति च ॥ * ॥
एवं परस्तात् क्षीरोदात् शाकद्वीपो द्विजर्षभ ! ।
आयामेन स विज्ञेयो द्वात्रिंशल्लक्षयोजनः ॥
दधिमण्डोदकेनैव समानेन स सिन्धुना ।
परीतो भाति तत्रास्ति शाको नाम महीरुहः ॥
द्वीपख्यातिकरः श्रीमान् वासयन् द्वीपमेव तम् ।
वर्षाणि तत्र सप्तैव पुरोजवमनोजवौ ॥
धूम्रानीको वेपमानो विश्वाधारश्च मारिष ! ।
बहुरूपश्चित्ररेफो गिरयोऽपि च सप्त वै ॥
ईशान उरुशृङ्गश्च बलभद्रो महानसः ।
शतकेशवनामा च सहस्रस्रोत एव च ॥
देवपालोऽपि सप्तैते वर्षसीमप्रवर्त्तकाः ।
नद्यः सप्तैव विख्याता आयुर्द्धाप्यनघा द्विज ! ॥
सहश्रुतिः पञ्चनदी निरृतिरपराजिता ।
विख्यातोभयसृष्टिश्च महापुण्या महाफलाः ॥
विप्रादयस्तथा वर्णा ख्याता नामान्तरेण तु ।
आद्यो ऋतव्रतो नाम ततः सत्यव्रतः स्मृतः ॥
दानव्रतानुव्रतौ च तृतीयश्च चतुर्थकः ।
भगवन्तं वायुरूपं भजन्ते च यजन्ति च ॥ * ॥
तथैव दधिमण्डोदात् परस्तात् पुष्करो महान् ।
द्विगुणेन प्रमाणेन द्वीपः स्वादूदकेन तु ॥
परिवीतः समानेन सिन्धुना ब्राह्मणर्षभ ! ।
यत्र पुष्करमत्युच्चं ज्वलज्ज्वलनसन्निभम् ॥
द्वीपख्यातिकरं पत्रसहस्रायुतशोभितम् ।
यदाहुरासनं विश्वसृजस्तस्य प्रजापतेः ॥
द्वीपमध्येऽवधिगिरिरेक एव महामते ! ।
स मानसोत्तरो नाम प्राकार इव वेष्टकः ॥
तस्य पूर्ब्बापरौ पार्श्वौ देवर्षे ! तत्र मारिष ! ।
सिन्धोर्वेष्टनमत्रैकं गिरेर्वेष्टनकं परम् ॥
रमणकं धातकञ्च द्वे वर्षे नामतः स्मृते ।
मानं तस्य गिरेर्विप्रायुतयोजनमुच्छ्रितम् ॥
तावदेव तथायामस्तस्योपरि पुराणि च ।
चत्वारि लोकपालानामिन्द्रादीनां द्विजर्षभ ! ॥
यः परिक्रममाणस्य मेरुं विप्र ! विवस्वतः ।
मूर्द्ध्ना बिभर्त्ति शैलेन्द्रश्चक्रं सम्बत्सरात्मकम् ॥
अध्यासते च द्बौ पार्श्वौ प्रजास्तस्य महाबलाः ।
तत्र संज्ञान्तरं नास्ति वर्णानां ब्राह्मणर्षभ ! ॥
स्वादूदकस्य परतो लोकालोकाचलो महान् ।
लोकस्य चाप्यलोकस्य मध्ये गिरिवरः स्थितः ॥
प्राकार इव संवेष्ट्य लोकान् सर्व्वान्महामते ! ।
लोकालोकाचलो नाम तेनासौ परिकीर्त्तितः ॥
मानसोत्तरमेर्व्वोस्तु अन्तरे यावती मही ।
तावती काञ्चनी भूमिर्लोकालोकात्परे द्विज ! ॥
यत्र प्रणिहितं वस्तु कथञ्चिन्नोपलभ्यते ।
सौवर्णी कान्तिरुद्दीप्ता सर्व्ववर्णप्रमाथिनी ॥
अतः सर्व्वाणि सत्त्वानि तां भूमिं वर्जयन्ति हि ।
लोकालोको गिरिर्यस्तु लोकान्ते वर्त्तते महान् ॥
आवृणोति स तेजांसि सूर्य्यादीनामपि द्विज ! ।
तमतिक्रम्य ज्योतींषि क्षमन्ते न प्रवर्त्तितुम् ॥
तावदुन्नाहवान् ब्रह्मन्नायामेन च तादृशः ।
आयामविस्तरे पृथ्वी पञ्चाशत्कोटियोजना ॥
तस्याश्चतुर्थभागोऽयं लोकालोकाचलो गिरिः ।
तस्योपरिष्टाच्चत्वारो गजेन्द्राः सुमहाबलाः ॥
नियुक्ता ब्रह्मणा भूमिं करैराकृष्य संस्थिताः ।
भगवानपि तत्रैव विष्वक्सेनादिभिर्वृतः ॥
पार्श्वदप्रवरैर्ब्रह्मन् ! भुजैर्बहुभिरुच्छ्रितैः ।
धारयन् जगतीमास्ते आकल्पमपि मारिष ! ॥
योऽन्तर्विस्तार एतस्या भूभ्यास्ते परिवर्णितः ।
तावती भूरलोकाख्या सान्द्रसन्तमसावृता ॥
ततो योगेश्वरगतिर्योगिनां प्राप्यमुत्तमम् ।
स्थानं भगवतः साक्षात् श्वेतद्वीप इतीर्य्यते ॥
इति ते कथितं ब्रह्मन् ! भूगोलस्योपवर्ण-
नम् ॥
व्यास उवाच ।
य इदं शृणुयात् सूत ! भूगोलस्यानुवर्णनम् ।
प्रदक्षिणीकृता तेन सशैलवनकानना ।
ससागरा च सद्वीपा सवर्षा च वसुन्धरा ॥
इति श्रीपद्मपुराणे भूमिखण्डे भूगोलवर्णनं नाम
१३१ अध्यायः ॥ * ॥ ज्योतिषशास्त्रोक्तभूगोलम् ॥
यथा, --
“सिद्धिं साध्यमुपैति यत्स्मरणतः क्षिप्रं
प्रसादात्तथा
यस्याश्चित्रपदास्वलंकृतिरलं लालित्यलीला-
वती ।
नृत्यन्ती मुखरङ्गगेव कृतिनां स्याद्भारती
भारती
तं ताञ्च प्रणिपत्य गोलममलं बालावबोधं
ब्रुवे ॥”
गोलग्रन्थकथने कारणमाह ।
‘मध्याद्यं द्युसदां यदत्र गणितं तस्योपपत्तिं
विना
प्रौढिं प्रौढसभासु नैति गणको निःसंशयो न
स्वयम् ।
गोले सा विमला करामलकवत् प्रत्यक्षतो
दृश्यते
तस्मादस्म्युपपत्तिबोधविषये गोलप्रबन्धोद्यतः ॥’
अथ गोलप्रशंसया गोलानभिज्ञगणकोपहास-
माह ।
‘भोज्यं यथा सर्व्वरसं विनाज्यं
राज्यं यथा राजविवर्ज्जितञ्च ।
सभा न भातीव सुवक्तृहीना
गोलानभिज्ञो गणकस्तथैव ॥
वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः
सभां
जल्पन्नल्पमतिः स्मयात् पटुवटुभ्रूभङ्गवक्रो-
क्तिभिः ।
ह्रीतः सन्नुपहासमेति गणको गोलानभिज्ञ-
स्तथा
ज्योतिर्व्वित् सदसि प्रगल्भगणकप्रश्नप्रपञ्चो-
क्तिभिः ॥’
अथ गोलस्वरूपमाह ।
‘दृष्टान्त एवावनिभग्रहाणां
संस्थानमानप्रतिपादनार्थम् ।
गोलः स्मृतः क्षेत्रविशेष एव
प्राज्ञैरतः स्याद्गणितेन गम्यः ॥’
अथ गणितप्रशंसामाह ।
‘ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यते
नूनं लग्नबलाश्रितः पुनरयं तत्स्पष्टखेटाश्रयम् ।
ते गोलाश्रयिणोऽन्तरेण गणितं गोलोऽपि न
ज्ञायते
तस्मात् यो गणितं न वेत्ति स कथं गोलादिकं
ज्ञास्यति ॥’
अथ ज्योतिषशास्त्रश्रवणाधिकारिलक्षणमाह ।
‘द्बिविधगणितमुक्तं व्यक्तमव्यक्तसंज्ञं
तदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः ।
यदि भवति तदेदं ज्योतिषं भूरिभेदं
प्रपठितुमधिकारी सोऽन्यथा नाधिकारी ॥’
व्याकरणवर्णनमाह ।
‘यो वेद वेदवदनं सदनं हि सम्यग्-
ब्राह्म्यं सवेदमपि वेद किमन्यशास्त्रम् ।
यस्मादतः प्रथममेतदधीत्य धीमान्
शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥’
अथ गोलग्रन्थस्य प्रवृत्त्यर्थमन्योक्तप्रकारेणाह ।
‘गोलं श्रोतुं तव यदि मतिर्भास्करीयं शृणु त्वं
नो संक्षिप्तो न च बहु वृथा विस्तरः शास्त्र-
तत्त्वम् ।
लीलागम्यः सुललितपदः प्रश्नरम्यः स यस्मा-
द्विद्वन् ! विद्वत्सदसि पठतां पण्डितोक्तिं व्यनक्ति ॥’
अथ भूसंस्थानं प्रश्नश्लोकद्वयेन आह ।
‘भ्रमद्भचक्रचक्रान्तर्गगने गगनेचरैः ।
वृता धृता धरा केन येन नेयमियादधः ॥
किमाकारा कियम्माना नानाशास्त्रविचार-
णात् ।
कीदृग्द्वीपकुलाद्रीन्द्रसमुद्रैर्मुद्रितोच्यताम् ॥’
अथ ग्रहस्फुटीकरणोपपत्तिप्रश्नं श्लोकद्वयेनाह ।
‘संसिद्धो द्युगणाद्युगादिभगणैः खेटोऽनु-
पातेन यः
स्यात्तस्यास्फुटता कथं कथमभूत् स्पष्टीकृति-
र्नैकधा ।
किं देशान्तरमुद्गमान्तरमहो बाह्वन्तरं किञ्चरं
किञ्चोच्चंमृदु चञ्चलञ्च तदिदं कस्तात ! पातः
स्मृतः ॥
किं केन्द्रं किमु केन्द्रजं किमु चलं किम्बाचलं
तत्फलं
कस्मात्तत्सहितः कुतश्च रहितः खेटस्फुटो
जायते ।
पृष्ठ ३/५२७
किं दृक् कर्म्म तथोदयास्तसमये द्वेधा विदध्यु-
र्बुधाः
सर्व्वं मे विमलं वदामलमलं गोलं विजानासि
चेत् ॥’
अथ त्रिप्रश्नोदितदिनमानभेदप्रश्नं श्लोकद्वयेनाह ।
‘महदहः किमहो रजनी तनु-
र्दिनमणौ गणकोत्तरगोलगे ।
ननु तनुर्दिवसो महती निशा
वद विचक्षण ! दक्षिणदिग्गते ॥
भवति किं द्युनिशं द्युनिवासिनां
द्युमणिवर्षमितञ्च सुरद्विषाम् ।
पितृषु किं शशिमासमितं तथा
युगसहस्रयुगं द्रुहिणस्य किम् ॥’
अथ राश्युदयमानकालभेदप्रश्नञ्चाह ।
‘भवलयस्य किलार्कलवाः समाः
किमसमैः समयैः खलु राशयः ।
समुपयान्त्युदयं किमु गोलवि-
न्नविषयेष्वखिलेष्वपि ते समाः ॥’
अथ द्युज्याकुज्यादिसंस्थानप्रश्नं वृत्तार्द्धेनाह ।
‘द्युज्याकुज्यापमसमनराग्राक्षलम्बादिकानां
विद्वन् ! गोले वियति हि यथा दर्शय क्षेत्र-
संस्थाम् ॥’
अथ चन्द्रार्कग्रहणयोः दिक्कालभेदाद्युपपत्ति-
प्रश्नान् श्लोकोत्तरार्द्बेनाह ।
‘तिथ्यन्ते चेत् ग्रह उडुपतेः किन्न भानोस्तदानीं
इन्दोः प्राच्यां भवति हि रवेः प्रग्रहः किं प्रती-
च्याम् ॥’
लम्बनं वद किं का च नतिमतिमतां वर ! ।
तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥’
अथ शृङ्गोन्नतौ चन्द्रस्य शुक्लस्य क्षयवृद्धिप्रश्न-
माह ।
‘शुक्लस्य द्विजराज एष महसो हान्याः कुवृत्तः
कुतः
सद्वृत्तत्वगतोऽप्यहो भ्रमवशाद्दोषातिसङ्गा-
दिव ।
संप्राप्याथ पुनस्त्रयीतनुमतस्तस्याश्रये नैव किं
शुक्लस्य क्रमशस्तथैव महसो वृद्ध्यैति सद्वृत्त-
ताम् ॥’
अथ प्रथमप्रश्नस्य पृथिवीसंस्थानोपपत्तेरुत्तरं
विवक्षुरादिसर्गे पृथिव्यादीनां तत्त्वानामादितत्त्वं
निखिलजगज्जननैकबीजं परं ब्रह्म मनसा
प्रणिपत्यादौ तावत् तज्जयमाह ।
‘यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भे-
ऽहं कारोऽभूत् खकशिखिजलोर्व्यस्ततः संह-
तेश्च ।
ब्रह्माण्डं यज्जठरगमहीपृष्ठनिष्ठो विरिञ्चि-
र्विश्वं शश्वत् सृजति परमं ब्रह्म तत्तत्त्वमाद्यम् ॥’
अथ भूमेः स्वरूपमाह ।
भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्कि-
नक्षत्रकक्षा
वृत्तैर्वृत्तो वृतःसन्मृदनिलसलिलव्योमतेजो-
मयोऽयम् ।
नान्याधारः स्वशक्त्या वियति च नियतं तिष्ठती-
हास्य पृष्ठे
निष्ठं विश्वञ्च शश्वत् सदनुजमनुजादित्यदैत्यं
समन्तात् ॥
सर्व्वतः पर्व्वतारामग्रामचैत्यद्रुमैश्चितः ।
कदम्बकुमुमग्रन्थिः केशरप्रकरैरिव ॥’
अथ पुराणेषु भूमेराधारपरम्परा या पठिता
तां निराकुर्वन्नाह ।
मूर्त्तो धर्त्ता चेद्धरित्र्यास्तदन्य-
स्तस्याप्यन्योऽप्येवमत्रानवस्था ।
अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये
किं नो भूमिः साष्टमुर्त्तेश्च मूर्त्तिः ॥’
अथ कथमियं भूमेः स्वशक्तिरित्याशङ्कां परि-
हरन्नाह ।
‘यथोष्णतार्कानलयोश्च शीतता
विधौ द्रुतिः के कठिनत्वमश्मनि ।
मरुच्चलो भूरचला स्वभावतो
यतो विचित्राः खलु वस्तुशक्तयः ॥
आकृष्टशक्तिश्च मही तया यत्
खस्थं गुरु स्वाभिमुखं स्वशक्त्या ।
आकृष्यते तत् पततीव भाति
समे समन्तात् कुरियं यतः खे ॥’
अथ बौद्धानां युक्तिमाह ।
‘भपञ्जरस्य भ्रमणावलोका-
दाधारशून्या कुरितिप्रतीतिः ।
खस्थं न दृष्टं गुरु च क्षमातः
खेऽधः प्रयातीति वदन्ति बौद्धाः ॥
द्बौ द्बौ रवीन्दू भगणौ च तद्व-
देकान्तरौ तावुदयं व्रजेताम् ।
यदब्रुवन्नेवमनर्थवादान्
ब्रवीम्यतस्तान् प्रतियुक्तियुक्तम् ॥’
अथ तेषां युक्तिभङ्गमाह ।
‘भूः खेऽधः खलु यातीति बुद्धिर्बौद्ध ! मुधा
कथम् ।
यातायातञ्च दृष्ट्वापि खेयत् क्षिप्तं गुरु क्षितिम् ॥’
अथ जिनानां युक्तिभङ्गमाह ।
‘किं गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथाकृथाः ।
भार्केन्दूनां विलोक्याह्ना ध्रुवमत्स्यपरिभ्रमम् ॥’
भूगोलस्य समतां निराकर्त्तुमाह ।
‘यदि समा मुकुरोदरसन्निभा
भगवती धरणी तरणिः क्षितेः ।
उपरि दूरगतोऽपि परिभ्रमन्
किमु नरैरमरैरिव नेक्षते ॥
यदि निशाजनकः कनकाचलः
किमु तदन्तरगः स न दृश्यते ।
उदगयं ननु मेरुरथांशुमान्
कथमुदेति स दक्षिणभागतः ॥’
अथ प्रत्यक्षविरोधशङ्कां निरस्यन्नाह ।
‘समो यतः स्यात् परिधेः शतांशः
पृथ्वी च पृथ्वी नितरां तनीयान् ।
नरश्च तत्पृष्ठगतस्य कृस्ना
समेव तस्य प्रतिभात्यतः सा ॥’
स्वोक्तस्य भूपरिधिप्रमाणस्य उपपत्तिमाह ।
‘पुरान्तरं चेदिदमुत्तरं स्यात्
तदक्षविश्लेषलवैस्तदा किम् ।
चक्रांशकैरित्यनुपातयुक्त्या
युक्तं निरुक्तं परिधेः प्रमाणम् ॥’
तदेव दृढीकुर्व्वन्नाह ।
‘निरक्षदेशात् क्षितिषोडशांशे
भवेदवन्ती गणितेन यस्मात् ।
तदन्तरं षोडशसंगुणं स्याद्
भमानमस्माद्बहु किं तदुक्तम् ॥
शृङ्गोन्नतिग्रहयुतिग्रहणोदयास्त-
च्छायादिकं परिधिना घटतेऽमुना हि ।
नान्येन तेन जगुरुक्तमहीप्रमाण-
प्रामाण्यमन्वययुजा व्यतिरेककेण ॥’
अथ भूगोलपुरनिवेशमाह ।
‘लङ्का कुमध्ये यमकोटिरस्याः
प्राक्पश्चिमे रोमकपत्तनञ्च ।
अधस्ततः सिद्धपुरं सुमेरुः
सौम्येऽथ याम्ये बडवानलश्च ॥
कुवृत्तपादान्तरितानि तानि
स्थानानि षड्गोलविदो वदन्ति ।
वसन्ति मेरौ सुरसिद्धसंघा
और्व्वे च सर्व्वे नरकाः सदैत्याः ॥
यो यत्र तिष्ठत्यवनीतलस्य-
मात्मानमस्या उपरिस्थितञ्च ।
स मन्यतेऽतः कुचतुर्थसंस्था
मिथश्च ते तिर्य्यगिवामनन्ति ॥
अधःशिरस्का कुदलान्तरस्था
च्छाया मनुष्या इव नीरतीरे ।
अनाकुलास्तीर्य्यगधःस्थिताश्च
तिष्ठन्ति ते तत्र वयं यथात्र ॥’
अथ द्वीपानां समुद्राणाञ्च संस्थानमाह ।
‘भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं
जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः ।
अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये
क्षारक्षीराद्यम्बुधीनां निवेशः ॥
लवणजलधिरादौ दुग्धसिन्धुश्च तस्मा-
दमृतममृतरश्मिः श्रीश्च यस्माद्बभूव ।
महितचरणपद्मः पद्मजन्मादिदेवै-
र्वसति सकलवासो वासुदेवश्च यत्र ॥
दध्नो घृतस्येक्षुरसस्य तस्मान्-
मद्यस्य च स्वादुजलस्य चान्त्यः ।
स्वादूदकान्तर्घडवानलोऽसौ
पाताललोकाः पृथिवीपुटानि ॥
चञ्चत्फणा मणिगणांशुकृतप्रकाशा
एतेषु सासुरगणाः फणिनो वसन्ति ।
दीव्यन्ति दिव्यरमणीरमणीयदेहैः
सिद्धाश्च तत्र हि लसत्कनकावभासैः ॥
शाकं ततः शाल्मलमत्र कौशं
क्रौञ्चञ्च गोमेदकपुष्करे च ।
द्वयोर्द्वयोरन्तरमेकमेकं
समुद्रयोर्द्वीपमुदाहरन्ति ॥’
पृष्ठ ३/५२८
अथ जम्बुद्वीपमध्ये गिरिनिवेशवशेन नवखण्डा-
न्याह ।
‘लङ्कादेशाद्धिमगिरिरुदक् हेमकूटश्च तस्मा-
त्तस्माञ्चान्यो निषध इति ते सिन्धुपर्य्यन्त-
दैर्घ्याः ।
एवं सिद्धादुदगपि पुरात् शृङ्गवच्छुक्लनीला-
वर्षाण्येषां जगुरिह बुधा अन्तरे द्रौणिदेशान् ॥
‘भारतवर्षमिदं ह्युदगस्मात्
किन्नरवर्षमतो हरिवर्षम् ।
सिद्धपुराच्च तथा कुरु तस्माद्-
विद्धि हिरण्मयरम्यकवर्षे ॥
माल्यवांश्च यमकोटिपत्तनाद्-
रोमकाच्च किल गन्धमादनः ।
नीलशैलनिषाधवधी च तौ
अन्तरालमनयोरिलावृतम् ॥
माल्यवज्जलधिमध्यवर्त्ति
यत्तत्तु भद्रतुरगं जगुर्बुधाः ।
गन्धशैलजलराशिमध्यगं
केतुमालकमिला कलाविदः ॥
निषधनीलसुगन्धसुमाल्य-
कैरलमिलावृतमावृतमाबभौ ।
अमरकेलिकुलाय समाकुलं
रुचिरकाञ्चनचित्रमहीतलम् ॥’
अथ मेरुसंस्थानमाह ।
इह हि मेरुगिरिः किल मध्यगः
कनकरत्नमयस्त्रिदशालयः ।
द्रुहिणजन्मकुपद्मजकर्णि-
केति च पुराणविदः समवर्णयन् ॥
विष्कम्भशैलाः खलु मन्दरोऽस्य
सुगन्धशैलो विपुलः सुपार्श्वः ।
तेषु क्रमात् सन्ति च केतुवृक्षाः
कदम्बजम्बूवटपिप्पलाख्याः ॥
जम्बूफलामलगलद्रसतः प्रवृत्ता
जाम्बूनदीरसयुता मृदभूत् सुवर्णम् ।
जाम्बूनदं हि तदतः सुरसिद्धसंघाः
शश्वत् पिबन्त्यमृतपानपराङ्मुखास्ते ॥
वनं तथा चित्ररथं विचित्रं
तेष्वप्सरोनन्दननन्दनञ्च ।
धृत्याह्वयं यत् धृतिकृत् सुराणां
भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् ॥
सरांस्यथैतेष्वरुणञ्च मानसं
महाह्रदं श्वेतजलं यथाक्रमम् ।
सरःसु रामारमणश्रमालसाः
मुरा रमन्ते जलकेलिलालसाः ॥
सद्रत्नकाञ्चनमयं शिखरत्रयञ्च
मेरौ मुरारिकपुरारिपुराणि तेषु ।
तेषामधः शतमखज्वलनान्तकानां
रक्षोऽम्बु पानिलशशीशपुराणि चाष्टौ ॥’
तत्र अन्यविशेषमाह ।
‘विष्णुपदीविष्णुयदात् पतिता मेरौ चतुर्द्धासीत्
विष्कम्भाचलमस्तकशस्तसरः संगता गता
वियति ।
सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम्
चक्षुश्च केतुमालं भद्राख्या चोत्तरान् कुरून्
याता ॥
या कर्णिताभिलसिता दृष्टा स्पृष्टावगाहिता
पीता ।
उक्ता स्मृता स्तुता वा पुनाति बहुधापि पापिनः
पुरुषान् ॥
यां चलिते दलिताखिलबन्धो
गच्छति बल्गति तत्पितृसंघः ।
प्राप्ततटो विजितान्तकदूतो
याति नरो निरयात् सुरलोकम् ॥’
अथ भारतवर्षमध्ये नव खण्डानि सप्त कुका-
चलांश्चाह ।
‘ऐन्द्रं कसेरुसकलं किल ताम्रपर्ण-
मन्यद्गभस्तिमदतश्च कुमारिकाख्यम् ।
नागञ्च सौम्यमिह वारुणमन्त्यण्डं
गान्धर्व्वसंज्ञमिति भारतवर्षमध्ये ॥
वर्णव्यवस्थितिरिहैव कुमारिकाख्ये
शेषेषु चान्त्यजजना निवसन्ति सर्व्वे ।
माहेन्द्रशुक्तिमलयर्क्षकपारिपात्राः
सह्यः सबिन्ध्य इह सप्त कुलाचलाख्याः ॥’
अथ लोकव्यवस्थामाह ।
‘भूर्लोकाख्यो दक्षिणे व्यक्षदेशा-
दस्मात् सौम्योऽयं भुवः स्वश्च मेरुः ।
लभ्यः पुण्यैः खे महः स्याज्जनोऽतो-
ऽनल्पानल्पैः स्वैस्तपः सत्यमन्त्यः ॥’
दिग्व्यवस्थामाह ।
‘लङ्कापुरेऽर्कस्य यदोदयः स्या-
त्तदा दिनार्द्ध्वं यमकोटिपुर्य्यां ।
अधस्ततः सिद्धपुरेऽस्तकालः
स्याद्रोमके रात्रिदलं तदैव ॥
यत्रोदितोऽर्कः किल तत्र पूर्ब्बा
तत्रापरा यत्र गतः स चास्तम् ।
तन्मत्स्यतोऽन्ये च ततोऽखिलाना-
मुदक्स्थितो मेरुरिति प्रसिद्धम् ॥’
अथ विशेषमाह ।
‘अथोज्जयिन्याः कुचतुर्थभागे
प्राच्यां दिशि स्याद्यमकोटिरेव ।
ततश्च पश्चान्न भवेदवन्ती
लङ्कैव तस्याः ककुभि प्रतीच्याम् ॥
तथैव सर्व्वत्र यतो हि यत् स्यात्
प्राच्यां ततस्तन्न भवेत् प्रतीच्याम् ।
निरक्षदेशादितरत्र तस्मात्
प्राचीप्रतीच्यौ च विचित्रसंस्थे ॥’
अथ भचक्रभ्रमणव्यवस्थामाह ।
‘निरक्षदेशे क्षितिमण्डलोपगौ
ध्रुवौ नरः पश्यति दक्षिणोत्तरौ ।
तदाश्रितं खे जलयन्त्रवत्तथा
भ्रमद्भचक्रं निजमस्तकोपरि ॥
उदग्दिशं याति यथा यथा नर-
स्तथा तथा खान्नतमृक्षमण्डलम् ।
उदग्ध्रुवं पश्यति चोन्नतं क्षिते-
स्तदन्तरे योजनजाः पलांशकाः ॥
योजनसंख्या भांशै ३६० र्गुणिता
कुपरिधिहृता ४९६७ भवन्त्यंशाः ।
भूमौ कक्षायां वा
भागेभ्यो योजनानि च व्यस्तम् ॥’
अथ देवदैत्यानां ध्रुवर्क्षसंस्थानमाह ।
‘सौम्यं ध्रुवं मेरुगताः खमध्ये
याम्यञ्च दैत्या निजमस्तकोर्द्ध्वे ।
सव्यापसव्यं भ्रमदृक्षचक्रं
विलोकयन्ति क्षितिजप्रसक्तम् ॥
उत्तरगोले क्षितिजादूर्द्ध्वं परितो भ्रमन्तमादि-
त्यम् ।
सव्यं त्रिदशाः सततं पश्यन्त्यसुरा अपसव्यं
याम्ये ॥
द्वन्द्वान्तमारोहति यैः क्रमेण
तैरेव वृत्तैरवरोहती नः ।
यत्रैव दृष्टः प्रथमं स देवै-
स्तत्रैव तिष्ठन्न विलोक्यते किम् ॥
दिनं सुराणामयनं यदुत्तरं
निशेतरत् सांहितिकैः प्रकीर्त्तितम् ।
दिनोन्मुखेऽर्के दिनमेव तन्मतं
निशा तथा तत्फलकीर्त्तनाय वै ॥
विधूर्द्ध्वभागे पितरो वसन्तः
स्वाधःसुधादीधितिमामनन्ति ।
पश्यन्ति तेऽर्कं निजमस्तकोर्द्ध्वे
दर्शे यतोऽस्माद्युगलं तदैषाम् ॥
कृष्णे दले पक्षदलेऽभ्युदेति
शुक्रेऽस्तमेत्य तत एव सिद्धम् ।
भार्द्धान्तरत्वान्न विधोरधःस्थं
तस्मान्निशीथः खलु पौर्णमास्थाम् ॥
यदतिदूरगतो द्रुहिणः क्षितेः
सततमाप्रलयं रविमीक्षिते ।
भवति तावदयं शयितस्य तद्-
युगसहस्रयुगं द्युनिशं विधेः ॥’
अथ भूपरिधिमानं प्राक्कथितमपि विशेषार्थ-
माह ।
‘प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दा-
ब्धय ४९६७
स्तद्व्यासः कुभुजङ्गशायकभवः सिद्धांशके
नाधिकः । १५८१ । २४
पृष्ठक्षेत्रफलं यथा युगगुणत्रिंशच्छराष्टाद्रयो
७८५३०३४
भूमेः कन्दुकजालवत् कुपरिधिव्यासाहतेः
प्रस्फुटम् ॥’
भूपृष्ठफलस्य लल्लोक्तस्य दूषणमाह ।
‘दुष्टं कन्दुकपृष्ठजालवदिलागोले फलं जल्पितं
लल्लेनास्य शतांशकोऽपि न भवेद्यस्मात्फलं
वास्तवम् ।
तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा चास्तु वा
हे प्रौढा गणका विचारयत तन्मध्यस्थबुद्ध्या
भृशम् ॥’
पृष्ठ ३/५२९
अथ सद्युक्तिमाह ।
‘यत् परिध्यर्द्धविष्कम्भं वृत्तं कृत्वा किलांशुकम् ।
तेनार्द्धं छाद्यते गोलः किञ्चिद्वस्त्रञ्च शिष्यते ॥
गोलक्षेत्रफलाद्यस्माद्वस्त्रक्षेत्रफलं यतः ।
सार्द्धद्बिगुणितासन्नं तावदेवापरे दले ॥
एवं पञ्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु ।
नाधिकं जायते तेन परिधिघ्नं कुतः कृतम् ॥
वृत्तक्षेत्रफलं यस्मात् परिधिघ्नं न युक्तिमत् ।
दुष्टत्वाद्गणितस्यास्य दुष्टं भूपृष्ठजं फलम् ॥”
अथान्यथा प्रतिपाद्यते ।
‘गोलस्य परिधिः कल्प्यो वेदघ्नज्यामितेर्मितः ।
मुखवुध्नगरेखाभिर्यद्वदामलके स्थितः ॥
दृश्यन्ते वप्रकास्तद्बत् प्रागुक्तपरिधेर्मितात् ।
ऊर्द्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत् ॥
तत्रैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते ।
सर्व्वज्यैक्यं त्रिभज्यार्द्धहीनं त्रिज्यार्द्ध्वभाजितम् ॥
एवं वप्रफलं तत् स्याद्गोलव्याससमं यतः ।
परिधिव्यासघातोऽतो गोलपृष्ठफलं स्फुटम् ॥’
अथ भूमेः प्रलयभेदान् प्रलयञ्चाह ।
‘वृद्धिर्विधेरह्नि भुवः समन्तात्
स्याद्योजनं भूभवभूतिपूर्ब्बैः ।
ब्राह्य्य लये योजनमात्रवृद्धे-
र्नाशो भुवः प्राकृतिकेऽखिलायाः ॥
दिने दिने यन्म्रियते हि भूतै-
र्दैनन्दिनं तं प्रलयं वदन्ति ।
ब्राह्मं लयं ब्रह्मदिनान्तकाले
भूतानि यद्ब्रह्मतनुं व्रजन्ति ॥
ब्रह्मात्यये यत् प्रकृतिं प्रायान्ति
सर्व्वाण्यतः प्राकृतिकं कृतीन्द्राः ।
लीनान्यतः कर्म्मपुटान्तरत्वात्
पृथक् क्रियन्ते प्रकृतेर्विकारैः ॥
ज्ञानाग्निदग्धाखिलपुण्यपापा
मनः समाधाय हरौ परेशे ।
यद्योगिनो यान्ति निवृत्तिमस्मा-
दात्यन्तिकं चेति लयश्चतुर्द्धा ॥’
अथ ब्रह्माण्डगोलमाह ।
‘भूभूधरत्रिदशदानवमानवाद्या
ये याश्च धिष्ट्यगगनेचरचक्रकक्षाः ।
लोकव्यवस्थितिरुपर्य्युपरिप्रदिष्टा
ब्रह्माण्डभाण्डजठरे तदिदं समस्तम् ॥”
अथान्योदितं ब्रह्माण्डमानं पूर्ब्बोक्तमपि प्रस-
ङ्गादनुवदति स्म ।
कोटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गेन्दुभि-
र्ज्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां
योजनैः १८७१२०६९२०००००००० ।
तद्ब्रह्माण्डकटाहसम्पुटतटे केचिज्जगुर्वेष्टनं
केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः
सूरयः ॥
करतलकलितामलक-
वदमलं सकलं विदन्ति ये गोलम् ।
दिनकरकरनिकरनिहत-
तमसो नभसः परिधिरुदितस्तैः ॥
ब्रह्माण्डमेतन्मितमस्तु नो वा
कल्पे ग्रहः क्रामति योजनानि ।
यावन्ति पूर्ब्बैरिह तत्प्रमाणं
प्रोक्तं खकक्षाख्यमिदं मतं नः ॥”
इति सिद्धान्तशिरोमणौ गोलाध्याये भुवनकोषः
समाप्तः ॥

भूच्छायं, क्ली, स्त्री, (भुवश्छाया । “विभाषासेना-

सुराच्छायानिशानाम् ।” २ । ४ । २५ । इति
तत्पुरुषे विभाषया नपुंसकम् । छायाबाहुल्ये
तु केवलं क्लीवत्वं) अन्धकारः । इति शब्दमाला ॥

भूजन्तुः, पुं, (भुवो जन्तुरिव ।) उपरसविशेषः । इति

राजनिर्घण्टः ॥ (विशेषोऽस्य भूनागशब्दे
द्रष्टव्यः ॥)

भूजम्बूः, स्त्री, (भूवो जम्बूरिव सादृश्यात्) विकङ्कत-

फलम् । गोधूमः । इति मेदिनी । बे, १४ ॥
भूमिजम्बूः । इति राजनिर्घण्टः ॥

भूतं, क्ली, (भू + क्तः ।) युक्तम् । न्यायः । क्ष्मादिः ।

पृथिव्यप्तेजोवाय्वाकाशपञ्चकम् । (यथा, मनुः ।
१२ । १४ ।
“तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च ॥
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥”
“स च त्रिविधो वैकारिकस्तैजसो भूतादिरिति ।
भूतादेरपि तैजससहायात्तल्लक्षणान्येव पञ्चत-
न्मात्राण्युत्पद्यन्ते । तद्यथा । शब्दतन्मात्रं स्पर्श-
तन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र-
मिति । तेषां विशेषाः शब्दस्पर्शरूपरसगन्धा-
स्तेभ्यो भूतानि व्योमानिलानलजलोर्व्व्यः ।” इति
सुश्रुते शारीरस्थाने प्रथमेऽध्याये ।)
ऋतम् । सत्यम् । इत्यमरभरतौ ॥ पिशाचादि ।
(यथा, श्रीभागवते । ३ । १४ । २१ ।
“एषा घोरतमा वेला घोराणां घोरदर्शना ।
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥”)
जन्तुः । इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा,
मनुः । ६ । ८ ।
“स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समा-
हितः ।
दाता नित्यमनादाता सर्व्वभूतानुकम्पकः ॥”
स्थावरजङ्गमात्मकं द्रव्यम् । यथा, मनुः । ८ । ३०६ ।
“रक्षन् धर्म्मेण भूतानि राजा वध्यांश्च घात-
यन् !
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥”)
वस्तुतत्त्वम् । यथा, --
“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥
छलं प्रमादाभिहितम् । निरस्य परित्यज्य ।
भूतेन वस्तुतत्त्वानुसरणेन । व्यवहारान्नयेदन्तं
नृपः । यस्माद्भूतमपि वस्तुतत्त्वमपि अनुपन्यस्त-
मनभिहितं हीयते हानिमुपगच्छति व्यवहारतो
व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं
कर्त्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा
ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायै-
स्तथा सति साक्ष्यादिनैरपेक्षेणैव निर्णयो भव-
तीति ॥ अथ सर्व्वथापि भूतानुसरणं न शक्यते
कर्त्तुं तथा सति साक्ष्यादिभिर्निर्णयः कार्य्य-
इत्यनुकल्पः । यथोक्तम् । भूतच्छलानुसारि-
त्वाद्विगतिः समुदाहृता । भूतन्तत्त्वार्थयुक्तं यत्
प्रमादाभिहितं छलमिति ॥ तत्र भूतानुसारी
व्यवहारो मुख्यः । छलानुसारी त्वनुकल्पः ।
इति मिताक्षरायां व्यवहाराध्यायः ॥

भूतं, त्रि, (भाव्यते स्मेति । “आधृषाद्बेति णिज-

भावः । भू + क्तः । भूतिरस्त्यस्येति वा । अर्श-
आदित्वात् अच् । अभवदिति वा । भुवो गत्यर्थे
इति । भूतार्थे कर्त्तरि क्तः ।) प्राणी । जन्तुः ।
(यथा, ऋग्वेदे । ३ । २७ । ९ ।
“धिया चक्रे वरेण्यो भूतानां गर्भमादधे ॥”
यथा च चरके शारीरस्थाने तृतीयेऽध्याये ॥
“भूतानाञ्चतुर्व्विधा योनिर्जराय्वण्डस्वेदोद्भिदः ।”)
अतीतम् । (यथा, कथासरित्सागरे । १ । २४ ।
“भूतं भवद् भविष्यद् वा किं तत् स्यात् जगति
प्रिये ।
भवती यन्न जानीयादिति शर्व्वोऽप्युवाच ताम् ॥”)
वृत्तम् । (यथा, सुश्रुते चिकित्सितस्थाने । १०
अध्याये ।
“गोशकृद्भूतानां वा यवानां शक्तून् कार-
यित्वा ॥”)
समम् । सदृशम् । इत्यमरभरतौ ॥ प्राप्तम् ।
(यथा, महाभारते । १३ । ३४ । १५ ।
“यद् ब्राह्मणमुखात् प्राप्तं प्रतिगृह्णन्ति वैवचः ।
भूतात्मानो महात्मानस्ते न यान्ति परा-
भवम् ॥”
“भूतः प्राप्तो वशीकृत आत्मा चित्तं यैस्ते ॥”
इति तट्टीकायां नीलकण्ठः ।) सत्यम् ।
इति मेदिनीशब्दरत्नावल्यौ ॥ (यथा शाकु-
न्तले । प्रथमाङ्के । “सूत्रधारः । सस्मितम् ।
आर्य्ये ! कथयामि ते भूतार्थम् ।”) भूतकालस्य
पर्य्यायो यथा । वृत्तम् २ अतीतम् ३ ह्यस्तनम् ४
निभृतम् ५ गतम् ६ । इति राजनिर्घण्टः ॥
उत्तरपदस्थ एव भूतशब्दः समार्थ इति
शाब्दिकाः । यथा देवभूतोऽयम् । इति भरतः ॥
(उत्तरपदस्थ भूतशब्दः स्वरूपार्थोऽपि । यथा,
मनुः । १ । ५ ।
“आसीदिदं तमोभूतमप्रज्ञातमलज्ञणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः ॥”)

भूतः, पुं, (भू + कर्त्तरि क्तः ।) देवयोनिविशेषः ।

स च अधोमुस्वोर्द्ध्वमुखादिः पिशाचभेदो रुद्रा-
नुचरो बालग्रहः । इत्यमरभरतौ ॥ (यथा,
मार्कण्डेयपुराणे । ५१ । ५३ ।
“विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्त्तयेत् ।
भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये ॥”)
कुमारः । इति मेदिनी । ते, ४१ ॥ योगीन्द्रः ।
इति शब्दरत्नावली ॥ कृष्णचतुर्द्दशी । इति
त्रिकाण्डशेषः ॥ * ॥ भूतनाशकौषधम् । यथा,
“श्वेतापराजितामूलं पिष्टं तण्डलवारिणा ।
तेन नस्यप्रदानं स्याद्भूतबृन्दस्य विद्रवम् ॥
पृष्ठ ३/५३०
अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् ।
भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः ।
गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः ॥
गोरोचना मरीचानि पिप्पली सैन्धवं मधु ।
अञ्जनं कृतमेभिः स्याद् ग्रहभूतहरं शिव ! ॥
अपि च ।
“वचा त्रिकटुकञ्चैव करञ्जं देवदारु च ।
मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥
प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम् ॥
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्च भयं हन्ति राजद्बारे च शासनम् ॥”
इति गारुडे १९२ । १९९ अध्यायः ॥
शम्भुगणभूता यथा, --
“हते वराहस्य गणे भर्गमासाद्य ते गणाः ।
चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः ॥
भूतत्वमभवत्तेषां चतुर्भागवतां तदा ।
वचनात् पद्मजातस्य भूतग्रामास्ततो मताः ॥
यो लोकविदितः पूर्ब्बं भूतग्रामश्चतुर्विधः ।
यतस्तेभ्योऽधिका यत्नैस्तद्भूतग्राम उच्यते ॥
इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा ।”
इति कालिकापुराणे २९ अध्यायः ॥
(वसुदेवस्य पौरवीगर्भजातद्बादशपुत्त्राणां ज्येष्ठ-
तमः । यथा, भागवते । ९ । २४ । ४७ ।
“पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥”)

भूतकेशः, पुं, (भूतस्य केश इव ।) स्वनामख्यात-

तृणम् । तत्पर्य्यायः । गोलोमी २ । इत्य-
मरः । २ । १० । १११ ॥ भूतकेशी ३ अल्प-
केशी ४ केशी ५ । इति रत्नमाला ॥ भूतानां
केश इव भूतकेशः क्लीवञ्चेति केचित् । स्त्री
चेत्यन्ये । अथ द्वयोर्भूतकेशो गोलोमी भूत-
केशिकेति वाचस्पतिः । इति भरतः ॥

भूतकेशी, स्त्री, (भूतकेश + गौरादित्वात् ङीष् ।)

भूतकेशः । इति रत्नमाला ॥ (यथा, सुश्रुते
उत्तरतन्त्रे । ६० अध्याये ।
“गोलोमी चाजलोमी च भूतकेशी जटा
तथा ॥”)
शेफालिका । नीलसिन्दुवारः । इति राजनिर्घण्टः ॥

भूतक्रान्तिः, स्त्री, (भूतानां क्रान्तिः ।) भूतावेशः ।

इति राजनिर्घण्टः ॥

भूतगन्धा, स्त्री, (भूतः मर्द्दनं विनापि प्रकटितो-

गन्धोऽस्याः ।) मुरानामगन्धद्रव्यम् । इति जटा-
धरः ॥

भूतघ्नः, पुं, (भूतं हन्तीति । हन् + टक् ।)

उष्ट्रः । इति हेमचन्द्रः ॥ लशुनः । भूर्जवृक्षः ।
इति राजनिर्घण्टः ॥ भूतनाशके त्रि ॥ (यथा,
तन्त्रसारे ।
“भूतघ्नैस्तु विकीणैस्तैर्विद्रुताः क्रूरचेतसः ।
भूतप्रेतपिशाचाश्च वेताला भैरवादयः ॥”)

भूतघ्नी, स्त्री, (भूतं हन्तीति । हन् + टक् +

ङीप् ।) तुलसी । इति राजनिर्घण्टः ॥ मुण्डि-
तिका । इति रत्नमाला ॥

भूतचतुर्द्दशी, स्त्री, (भूतप्रिया भूतोद्देशे क्रियां

कर्त्तव्या वा चतुर्द्दशी । मध्यपदलोपी समासः ।)
गौणकार्त्तिककृष्णचतुर्द्दशी । सा एव यमचतु-
र्द्दशी । तत्कृत्यं यथा, पाद्मे ।
“चतुर्द्दश्यां धर्म्मराजपूजा कार्य्या प्रयत्नतः ।
स्नानमावश्यकं कार्य्यं नरैर्नरकभीरुभिः ॥
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ।
तस्याब्दिकभवो धर्म्मो नश्यत्येव न संशयः ॥”
स्कान्दे च तत्रैव ।
“कार्त्तिके कृष्णपक्षे तु चतुर्द्दश्यां विधूदये ।
अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः ॥
किञ्च पाद्मे तत्रैव ।
“ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः ।
जीवत्पिता न कुर्वीत तर्पणं यमभीष्मयोः ॥
यज्ञोपवीतिना कार्य्यं प्राचीनावीतिना तथा ॥
देवत्वञ्च पितृत्वञ्च यमस्यास्ते द्बिरूपता ॥
नक्तं यमचतुर्द्दश्यां यः कुर्य्याच्छिवसन्निधौ ।
न तत् क्रतुशतेनापि प्राप्यते पुण्यमीदृशम् ॥
कुमारीवटुकान् पूज्य तथा शैवतपोधनान् ।
राजसूयफलं तेन प्राप्यते नात्र संशयः ॥
कार्त्तिके भौमवारेण चित्रा कृष्णा चतुर्द्दशी ।
तस्यां भूतेशमभ्यर्च्य गच्छेच्छिवपुरं नरः ॥
किञ्च ।
अमावास्याश्चतुद्दश्याः प्रदोषे दीपदानतः ।
वममार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः ॥”
इति श्रीहरिभक्तिविलासः ॥
अपि च । लैङ्गे ।
“कार्त्तिके कृष्णपक्षे च चतुर्द्दश्यां दिनोदये ।
अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः ॥
अपामार्गपल्लवञ्च भ्रामयेच्छिरसोपरि ।
ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः ॥
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।
नरकाय नरकनिवृत्तये ।
अर्थोऽभिधेयो वै वस्तु प्रयोजननिवृत्तिषु ॥
इति निवृत्तावपि तादर्थ्य इत्यनेन चतुर्थीविधा-
नात् । अपामार्गभ्रामणमन्त्रः ।
शीतलोष्णसमायुक्तसकण्टकदलान्वित ।
हर पापमपामार्ग ! भ्राम्यमाणः पुनः पुनः ॥
ततः प्रदोषसमये दीपान् दद्यात् प्रयत्नतः ।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ॥
भविष्ये ।
कार्त्तिके भौमवारे च चित्रा कृष्णचतुर्द्दशी ।
तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवम् ॥
यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् ।
यमुनायां विशेषेण नियतस्तर्पयेद्यमान् ॥
यमाय धर्म्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥
ओडुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥
एकैकस्य तिलैर्मिश्रांस्त्रीस्तु दद्याज्जलाञ्ज-
लीन् ।
सम्बत्सरकृतं पापं तत्क्षणादेव नश्यति ॥”
आचारादत्रचतुर्द्दशशाकभक्षणं कर्त्तव्यम् । तत्र
निर्णयामृतम् ।
“ओलं केमुकवास्तुकं सरषपं कालञ्च निम्बं जयां
शालिञ्चीं हिलमोचिकाञ्च पटुकं शौल्फं
गुडूचीन्तथा ।
भण्टाकीं शुनिषण्णकं शिवदिने खादन्ति ये
मानवाः
प्रेतत्वं न च यान्ति कार्त्तिकदिने कृष्णे च भूते
तिथौ ॥”
जयां जयन्तीं पटुकं पटोलं शौल्फं शुल्फा
इति ख्यातम् । शुनिषण्णकं शुषणिया इति
ख्यातम् । इति तिथ्यादितत्त्वम् ॥

भूतजटा, स्त्री, (भूतस्य जटेव तत्सदृशत्वात् ।)

जटामांसी । इति शब्दमाला ॥ (पर्य्यायो यथा,
“जटामांसी भूतजटा जटिला च तपस्विनी ।”
इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथमे भागे ॥)
गन्धमांसी । इति राजनिर्घण्टः ॥

भूतद्रावी, [न्] पुं, (भूतान् पिशाचान् द्रावयतीति ।

द्रु + णिच् + णिनिः ।) भूताङ्कुशवृक्षः । रक्त-
करवीरः । इति राजनिर्घण्टः ॥

भूतद्रुमः, पुं, (भूतप्रियो द्रुमः ।) श्लेष्मान्तकवृक्षः ।

इति राजनिर्घण्टः ॥

भूतधात्री, स्त्री, (भूतानि धरतीति । धृ + तृच् ।

+ ङीप् ।) पृथिवी । इति त्रिकाण्डशेषः ॥
(यथा, बृहत्संहितायाम् । ८ । ३० ।
“निष्पन्नशालीक्षुयवादिशस्यां
भयौर्वसुक्तामुपशान्तवैराम् ।
संहृष्टलोकां कलिदोषमुक्तां
क्षत्रं तदा शास्ति च भूतधात्रीम् ॥”)

भूतनाथः, पुं, (भूतानां नाथः ।) शिवः । इति

शब्दरत्नावली ॥ (यथा, रघुः । २ । ५८ ।
“तद्भूतनाथानुग ! नार्हसि त्वं ॥”)

भूतनायिका, स्त्री, (भूतानां नायिका नियामिका ।)

दुर्गा । इति हेमचन्द्रः ॥

भूतनाशनं, क्ली, (भूतानि प्राणिजातानि नाश्यन्ते

अनेनेति । नश + णिच् + ल्युट् ।) रुद्राक्षम् ।
इति राजनिर्घण्टः ॥

भूतनाशनः, पुं, (भूतान् नाशयतीति ॥ नश +

णिच् + ल्युः ।) भल्लातकः । इति रत्नमाला ॥
सर्षपः । इति राजनिर्घण्टः ॥

भूतपत्री, स्त्रा, (भूत इव कृष्णं पत्रं यस्याः । ङीष् ।)

तुलसी । इति राजनिर्घण्टः ॥

भूतपुष्पः, पुं, (भूतयुक्तं प्राणिविशिष्टं पुष्पं यस्य ।)

श्योनाकवृक्षः । इति रत्नमाला ॥

भूतपूर्णिमा, स्त्री, (भूतानां पूर्णिमा ।) आश्विनी

पूर्णिमा । तत्पर्य्यायः ॥ शारदी २ कौमुदी ३
अश्वयुजी ४ शतपर्व्वा ५ रङ्गभूतिः ६ कोजा-
गरा ७ । इति शब्दरत्नावली ॥

भूतब्रह्मा, [न्] पुं, (भूतात्मनो ब्रह्मा ब्राह्मणः ।)

देबलः । इति शब्दमाला ॥

भूतभावनः, पुं, (भूतानि क्षित्यादीनि भावयति

जनयतीति । भ + णिच + ल्यः ।) विष्णुः ॥
पृष्ठ ३/५३१
(यथा, महाभारते । १३ । १४९ । १४ ।
“भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ३३ ।
“अभिवाद्यो महाकर्म्मा तपस्वी भूतभावनः ॥”)
वटुकभैरवः । इति विश्वसारतन्त्रोक्तं तस्याष्टो-
त्तरशतनामान्तर्गतनाम ॥ (भूतानि भावयति
पालयतीति । भूतपालके, त्रि । इति श्रीधर-
स्वामी ॥ यथा गीतायाम् । ९ । ५ ।
“भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥”)

भूतभृत्, पुं, (भूतानि बिभर्त्तीति । भृ + क्विप् । तुगा-

गमश्च) विष्णुः । यथा, महाभारते । १३ । १४९ । १४ ।
भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः । इति
तस्य सहस्रनामस्तोत्रम् ॥ (भूतधारके, त्रि ।
यथा, गीतायाम् । ९ । ५ ।
“भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥”)

भूतमारी, स्त्री, (भूतानि मारयतीति । भूत +

मृ + णिच् + णिनिः ।) चीडानामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥

भूतयज्ञः, पुं, (भूतार्थो यज्ञः । भूतानि काकादि-

प्राणिजातानि तान्युद्दिश्य यो यज्ञ इति वा
नित्यं गार्हस्थ्यकरणीय पञ्चयज्ञेषु यज्ञभेदः ।)
भूतबलिः । ते तु पञ्चमहायज्ञान्तर्गतबलिवैश्व-
देवकर्म्मणी । यथा, भूतेभ्यो बलिहरणं भूत-
यज्ञः । इति हारीतसूत्रम् ॥ अस्यानुष्ठानं
बलिशब्दे द्रष्टव्यम् । (यथा, मनुः । ४ । २१ ।
“ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा ।
नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥”)

भूतलिका, स्त्री, (भूतलं पृथ्वीतलं आधारत्वेन

अस्त्यस्या इति । भूतल + ठन् टाप् ।) पृक्वा ।
इति राजनिर्घण्टः ॥

भूतवासः, पुं, (भूतानां वासो यत्र ।) कलिद्रुमः ।

इत्यमरः । २ । ४ । ५८ ॥ (तथा च पर्य्यायः ।
“विभीतकस्त्रिलिङ्गः स्यान्नास्कः कर्षफलस्तु सः ।
कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमेभागे ॥
महादेवः । यथा, हरिवंशे उत्तरभविष्ये ।
१५ । ३३ ।
“भूतवास ! नमस्तुभ्यं सर्व्वावास ! नमोऽस्तुते ॥”)

भूतविक्रिया, स्त्री, (भूतानामिव विक्रियास्याम् ।)

अपस्माररोगः । इति राजनिर्घण्टः ॥

भूतवृक्षः, पुं, (भूतप्रियो वृक्षः ।) शाखोटवृक्षः ।

श्योनाकवृक्षः । इति मेदिनी । षे, ५६ ॥

भूतवेशी, स्त्री, (भूतानामिव वेशोऽस्याः ।

गौरादित्वात् ङीष् ।) श्वेतशेफालिका । इत्य-
मरः । २ । ४ । ७१ ॥ (विशेषोऽस्याः श्वेत-
शेफालिकाशब्दे द्रष्टव्यः ॥)

भूतशुद्धिः, स्त्री, (भूतानां देहारम्भ कपृथिव्यादि

पञ्चभूतानां शुद्धिः शोधनम् ।) पूजादौ बीज-
विशेषद्वारावामकुक्षिस्थितपापपुरुषदहनपूर्ब्बक-
शरीरशोधनम् । तत्प्रयोगो यथा । रमिति
जलधारया वह्निप्राकारं विचिन्त्य स्वाङ्के डत्तानौ
करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं
दीपकलिकाकारं मूलाधारस्थकुलकुण्डलिन्या
सह सुषुम्नावर्त्मना मूलाधारस्वाधिष्ठानमणिपुर-
कानाहतविशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा शिरो
ऽवस्थिताधोमुखसहस्रदलकमलकर्णिकान्तर्गत-
परमात्मनि संयोज्य तत्रैव पृथिव्यप्तेजोवाय्वा-
काशगन्धरसरूपस्पर्शशब्दनासिकाजिह्वाचक्षु-
स्त्वक्श्रोत्र वाक्पाणिपादपायूपस्थप्रकृतिमनो-
बुद्ध्यहङ्काररूपचतुर्व्विंशतितत्त्वानि लीनानि
विभाव्य यमिति वायुबीजं धूम्रवर्णं वामनासा-
पुटे विचिन्त्य तस्य षोडषवारजपेन वायुना
देहमापूर्य्य नासापुटौ धृत्वा तस्य चतुःषष्टि-
वारजपेन कुम्भकं कृत्वा वामकुक्षिस्थकृष्णवर्ण-
पापपुरुषेण सह देहं संशोष्य तस्य द्वात्रिंशद्-
वारजपेन दक्षिणनासया वायुं रेचयेत् ।
दक्षिणनासापुटे रमिति वह्निबीजं रक्तवर्णं
ध्यात्वा तस्य षोडशवारजपेन वायुना देहमा-
पूर्य्य नासापुटौ धृत्वा तस्य चतुःषष्टिवारजपेन
कुम्भकं कृत्वा पापपुरुषेण सह देहं मूलाधारो-
त्थितवह्निना दग्ध्वा तस्य द्बात्रिंशद्वारजपेन
वामनासया भस्मना सहवायुं रेचयेत् । ठमिति
चन्द्रबीजं शुक्लवर्णं वामनासायां ध्यात्वा तस्य
षोडशवारजपेन ललाटे चन्द्रं नीत्वा नासापुटौ
धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन
तस्माल्ललाटस्थचन्द्राद्गलितसुधया मातृका-
वर्णात्मिकया समस्तदेहं विरचय्य लमिति पृथ्वी-
बीजस्य द्वात्रिंशद्वारजपेन देहं सुदृढं विचिन्त्य
दक्षिणेन वायुं रेचयेत् । मात्रासंख्यया वा ॥ * ॥
तदुक्तं गौतमीये ।
“सुषुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् ।
सहस्रारे शिवस्थाने परमात्मनि देशिकः ॥
धूम्रवर्णं ततो वायुबीजं षड्बिन्दुलाञ्छितम् ।
पूरयेदिडया वायुं सुधीः षोडशमात्रया ॥
मात्रया तु चतुःषष्ट्या कुम्भयेच्च सुषुम्नया ।
द्वात्रिंशन्मात्रया मन्त्री रेचयेत् पिङ्गलाख्यया ॥
पूरयेदनया चैव सञ्चिन्त्य नीलमारुतम् ।
रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् ॥
तेन पूरकयोगेन मात्रया षोडशाख्यया ।
चतुःषष्ट्या मात्रया च निर्द्दहेत् कुम्भकेन च ।
वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् ।
ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ॥
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संसर्गि पदद्बन्द्बमङ्गप्रत्यङ्गपातकम् ॥
उपपातकरोमाणं रक्तश्मश्रु विलोचनम् ।
खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत् ॥
मूलाधारोत्थितेनैव वह्निना निर्द्दहेच्च तम् ।
एवं संदह्य परितो द्वात्त्रिंशन्मात्रया ततः ॥
भस्मना सहितं मन्त्री रेचयेदिडया पुनः ।
वामनाड्यां चन्द्रबीजं कुन्देन्दुयुतसप्रभम् ॥
भालेन्दुराजे संयोज्य ततः षोडशमात्रया ।
सुषुम्नया चतुःषष्टिमात्रया तोयबीजकम् ॥
ध्यात्वामृतमयीं वृष्टिं पञ्चाशद्वर्गरूपिणीम् ।
तया देहं विचिन्त्यैवं मनसा पिङ्गलाध्वना ॥
द्वात्रिंशन्मात्रया मन्त्री लं बीजेन दृढं नयेत् ।
स्वस्थाने हंसमन्त्रेण पुनस्तेनैव वर्त्मना ॥
जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः ।
इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ॥ *
संक्षेपभूतशुद्धिर्यथा । पुरश्चरणचन्द्रिकायाम् ।
“अथवान्यप्रकारेण भूतशुद्धिर्विधीयते ।
धर्म्मकन्दसमुद्भूतं ज्ञाननालसुशोभनम् ॥
ऐश्वर्य्याष्टदलोपेतं परं वैराग्यकर्णिकम् ।
स्वीयहृत्कमले ध्यायेत् प्रणवेन विकासितम् ॥
कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभम् ।
जीवात्मानं हृदि ध्यात्वा मूले सञ्चिन्त्य कुण्डलीम् ।
सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् ॥”
इति तन्त्रसारः ॥

भूतसञ्चारः, पुं, (भूतस्य सञ्चारः ।) भूतोन्माद-

रोगः । तत्पर्य्यायः । आवेशः २ भूतक्रान्तिः
३ ग्रहागमः । इति राजनिर्घण्टः ॥

भूतसञ्चारी, [न्] पुं, (भूतेषु सञ्चरति इति

भूत + सम् + चर णिनिः ।) दावानलः । इति
शब्दमाला ॥

भूतसर्गः, पुं, (सृज्यते इति । सृज + भावे घञ् ।

भूतानां सर्गः ।) भूतसृष्टिः । (यथा, मार्कण्डेय-
पुराणे । ४७ । ३१ ।
“प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गः म उच्यते ॥”)
“ब्राह्मं प्रजापतीयञ्च सौम्यमैन्द्रन्तथैव च ।
गान्धर्व्वमथ कौवेरं रक्षःपैशाचमानुषम् ॥
स्थावरं पाशवं मार्गं सार्पं शाकुनिकन्तथा ।
चतुर्द्दशविधं ह्येतद्भूतसर्गं प्रकीर्त्तितम् ॥”
इति वह्निपुराणोक्तं क्लीवत्वमार्षम् ॥

भूतसारः, पुं, (भूतः गतः सारो यस्य ।) श्योनाक-

प्रभेदः । इति राजनिर्घण्टः ॥

भूतहन्त्री, स्त्री, (भूतानि हन्तीति हन + तृच +

ङीप् ।) बन्ध्याकर्कोटकी । नीलदूर्व्वा । इति
राजनिर्घण्टः ॥

भूतहरः, पुं, (भूतानि हरतीति हृ + अच् ।)

गुग्गुलुः । इति राजनिर्घण्टः ॥

भूतहारि, [न्] क्ली, (भूतानि हरतीति हृ +

णिनिः ।) देवदारु । इति राजनिर्घण्टः ॥

भूता, स्त्री, (भूत + टाप् ।) कृष्णचतुर्द्दशी । यथा,

स्कान्दे ।
“ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै ।
पूजितानि भवन्तीह भूतायां पारणे कृते ॥”
अपि च ।
“शिवरात्रिव्रते भूतां कामविद्धां विवर्ज्जयेत् ॥”
इति तिथ्यादितत्त्वम् ॥

भूताङ्कुशः, पुं, (भूतानामङ्कुश इव निवारकत्वात् ।)

स्वनामख्यातवृक्षः । तत्पर्य्यायः । क्षवकः २
क्षुरकः ३ तीक्ष्णः ४ क्ररः ५ क्षवः ६ राजो-
द्वेदनसंज्ञः ७ भूतद्रावी ८ ग्रहाह्वयः ९ । ढ्यस्य
गुणाः । तीव्रगन्धत्वम् । उत्कटत्वम् । उष्णत्वम्
कटुत्वम् । भूतग्रहादिदोषघ्नत्वम् । कफवात-
निकृन्तनत्वञ्च । इति राजनिर्घण्टः ॥
पृष्ठ ३/५३२

भूतात्मा, [न्] पुं, (भूतानामात्मा ।) देहः ।

(यथा, मनुसंहितायाम् । १२ । १२ ।
“यः करोति तु कर्म्माणि स भूतात्मोच्यते बुधैः ॥”
“यः पुनरेष व्यापारान् करोति शरीराख्यः स
पृथिव्यादिभूतारब्धत्वात् भूतात्मेति पण्डितै-
रुच्यते ॥” इति तट्टीकायां कुल्लूकभट्टः ॥)
परमेष्ठी । इति मेदिनी । ने, २०० ॥ शिवः ।
युद्धम् । इति शब्दरत्नावली ॥ विष्णुः । यथा,
“भूतकृत् भूतभृत् भावो भूतात्मा भूतभावनः ॥”
इति महाभारते दानधर्म्मः ॥
(जीवात्मा । यथा, मनुसंहितायाम् । ५ । १०९ ।
“अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥”
यथा च चरके शारीरस्थाने प्रथमेऽध्याये ।
तस्मिंश्चरमसंन्यासे समूलाः सर्व्ववेदनाः ।
समज्ञा ज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः ॥
अतःपरं ब्रह्मभूतो भूतात्मा नोपलभ्यते ।
निःसृतः सर्प्पभावेभ्यश्चिह्नं यस्य न विद्यते ॥
गतिब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम् ।
ज्ञानं ब्रह्मविदाञ्चात्र नाज्ञस्तज्ज्ञातुमर्ह-
तीति ॥”)

भूतार, क्ली, (भूतानां अरिः तन्निवारकत्वात् अभि-

धानात् क्लीवत्वम् ।) हिङ्गु । इति राजनिर्घण्टः ॥

भूतार्त्तः, त्रि, (भूतेन ऋतः) भूताविष्टः । इति

हैमचन्द्रः । ३ । १५५ ॥

भूताली, स्त्री, (भूतानामालीव) भूपाटली ।

मुषली । इति राजनिर्घण्टः ॥

भूतावासः, पुं, (भूतानामावासः) विभीतकवृक्षः ।

इति राजनिर्घण्टः ॥ विष्णुः । यथा, --
“भूतावासो वासुदेवः सर्व्वासुनिलयो लयः ॥”
इति महाभारते दानधर्म्मः ॥ (शरीरम् । यथा,
मनुसंहितायाम् । ६ । ७७ ।
“जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥”
शाखोटः । तत्पर्य्यायो यथा, --
“शाखोटः पीतकनको भूतावासः खरच्छदः ॥”
इति भावप्रकाशस्य पूर्ब्बेखण्डे प्रथमे भागे ॥)

भूताविष्टः, त्रि, (भूतेन आविष्टः) पिशाचग्रस्तः ।

तन्नाशकचक्रम् यथा, --
“पञ्चरेखाः समुल्लिख्य तिर्य्यगूर्द्धक्रमेण हि ।
पदानि षड्दशापाद्य त्वेकमाद्ये मुनौ त्रयम् ॥
नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा ।
द्वितीयेऽष्टावष्ठमे षट् दिशि द्बौ षौडशे श्रुतिः ॥
एकादिना समं ज्ञेयमिच्छाङ्कार्द्धं त्रिकोणके ।
तदा द्वात्रिंशदादिः स्याच्चतुष्कोष्ठेषु सर्व्वतः ॥
दर्शनाद्धारणात्तासां शुभं स्यादेषु कर्म्मसु ।
द्वात्रिंशत् प्रसवे नार्य्याश्चतुस्त्रिंशद्गमे नृणाम् ॥
भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।
द्वासप्ततिस्तु बन्ध्यायां चतुःषष्टी रणाध्वनि ॥
विषे विंशो धान्यकीटेष्वष्टाविंशतिरेव च ।
चतुरष्टौ च बालानां रोदने परिकीर्त्तिताः ॥”
इति ज्योतिस्तत्त्वम् ॥
१ ८ १८ २३
२० २१ ३ ६
७ २ २४ १७
२२ १९ ५ ४
५० ५० ५० ५०

भूताविष्टः, त्रि, (भूतेन आविष्टः ।) भूतक्रान्तः ।

भूतादिना रोगग्रस्तः । (यथा, --
“भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।”
इत्यादि ज्योतिस्तत्त्वम् ॥ भूतविशेषाणामावेश-
समयाः । यथा, --
“देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि ।
गन्धर्व्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ॥
कृष्णपक्षे च पितरः पञ्चम्यामपि चोरगाः ।
रक्षांसि निशि पैशाचाश्चतुर्द्दश्यां विशन्ति च ॥
दर्पणादीन् यथाच्छाया शीतोष्णं प्राणिनो
यथा ।
स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहभृत् ॥
विशन्ति च न दृश्यन्ते ग्रहस्तद्वच्छरीरिणम् ।”
इति सुश्रुते उत्तरतन्त्रे षष्टितमेऽध्याये ॥)

भूतावेशः, पुं, (भूतानामावेशः) भूतसञ्चारः ।

भूते पाओया इति भाषा । अस्य पर्य्याय-
आवेशशब्दे द्रष्टव्यः ॥

भूतिः, स्त्री, (भवत्यनयेति । भू + “क्तिच्क्तौ च

संज्ञायाम् ।” ३ । ३ । १७४ । इति क्तिच् ।)
महादेवस्य अणिमाद्यष्टप्रकारवैभवम् । इत्य-
मरः । १ । १ । ३८ ॥ शम्भुधृतभस्म । इत्यमर-
टीकायां भरतः ॥ भस्म ॥ (यथा, शिशुपाल-
वधे । १ । ४ ।
“क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना
स्फुटोपमं भूतिसितेन शम्भुना ॥”)
सम्पत्तिः । (उत्तरोत्तरवृद्धिः । यथा, भगवद्-
गीतायाम् । १८ । ७४ ।
“यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥”)
हस्तिशृङ्गारः । इति मेदिनी ते, ४० ॥ (हस्ति-
शृङ्गारोऽत्र गजमण्डनम् । यथा, मेघदूते । १९ ।
“रेवां द्रक्ष्यस्यपलविषमे बिन्ध्यपादे विशीर्णाम् ।
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥”)
जातिः । इति विश्वः ॥ (पितृगणभेदः । यथा,
मार्कण्डेयपुराणे । ९६ । ४३ ।
“विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव ॥”
लक्ष्मीः । यथा, भागवते । ४ । १ । ४ ।
“यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक् ।
या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥”
भूतेर्लक्ष्म्याः । इति तट्टीकायां श्रीधरस्वामी ॥)
वृद्धिनामौषधम् । रोहिषतृणम् । भूतृणम् ।
इति राजनिर्घण्टः ॥ (भवनमिति । भू + क्तिन्)
उत्पत्तिः । सत्ता । इति भूघातोर्भावे क्तिप्रत्य-
वेन निष्पन्नम् ॥

भूतिकं, क्ली, (भू + क्तिच् । संज्ञायां कन् ।)

भूनिम्बः । कत्तणम् । इत्यमरः । ३ । ३ । ८ ।
कट्फलम् । यमानी । घनसारः । इति हेम-
चन्द्रः ।

भूतिकः, पुं, (भूति । संज्ञायां कन् ।) यमानी ।

इति रत्नमालाराजनिर्घण्टौ ॥

भूतिकामः, पुं, (भूतिं कामयते इति । कम् +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) राज-
मन्त्री । बृहस्पतिः । इति केचित् । ऐश्वर्य्याभि-
लाषिणि, त्रि । यथा । वायव्यं श्वेतमालभेत
भूतिकामः । इत्यधिकरणमालायां द्वितीयपादे
काम्यपशुकाण्डे विध्यर्थवादबोधिका श्रुतिः ॥

भूतिकीलः, पुं, (भूतेः शस्यादिसम्पत्तेः कील इव

जलदत्वात् ।) भूखातः । इति शब्दमाला ॥
खाना इति भाषा ॥

भूतिगर्भः, पुं, (भूतिः कवित्वसम्पत्तिर्गर्भेऽन्तर्यस्य ।

यद्वा भूतिशब्द उपाधिनाम्नोऽन्तर्यस्य ।)
भवभूतिकविः । इति भूरिप्रयोगः ॥

भूतिनिधानं, क्ली, (निधीयतेऽस्मिन्निति । नि + धा

+ अधिकरणे + ल्युट् । ततः भूत्या निधानमिति,
षष्ठीसमासः ।) धनिष्ठानक्षत्रम् । इति जटा-
धरः ॥

भूतिमान्, [त्] त्रि, ऐश्वर्य्ययुक्तः । भूतिरस्त्यस्य ।

इत्यर्थे मतुप्रत्ययेन निष्पन्नः ॥ (यथा, महा-
भारते । ३ । २०३ । ४३ ।
“आयुष्मान् भूतिमांश्चैव श्रुत्वा भवति
पर्व्वसु ॥”)

भूतीकं, क्ली, (भूतिक । पृषोदरात् साधुः ।)

भूनिम्बः । यमानी । भूस्तृणम् । कत्तृणम् ।
इति मेदिनी । के, १३५ ॥ (यथा, सुश्रुते उत्तर-
तन्त्रे । ३९ अध्याये ।
“वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् ॥”
यथा च भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ।
“कत्तृणं रोहिषं देवजग्धं सौगन्धिकन्तथा ।
भूतीकं ध्यामपौरञ्च श्यामकं धूमगन्धिकम् ॥”)

भूतृणं, क्ली, (भुवस्तृणम् ।) गन्धतृणम् । गन्धस्वड

इति भाषा । तत्पर्य्यायः । गन्धखेडम् २ रौहि-
षम् ३ गोमयप्रियम् ४ । इति रत्नमाला ॥ पटम्
५ रामकर्पूरम् ६ सत्तृणम् ७ शरम् ८ श्याम-
कम् ९ ध्यामकम् १० पौरम् ११ देवजग्धकम् ।
इति रत्नमालान्तरम् ॥ (यथास्य पर्य्यायः ।
“गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुकप्रियम् ।
भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भूतृणः, पुं, (भुवस्तृणः ।) भूस्तृणम् । सुगन्ध

रोहिष इति परिमलदगङ्गनि च अन्ध्रदेशे
प्रसिद्धः । तत्पर्य्यायः । रोहिषः २ भूतिः ३
भूतिकः ४ कुटुम्बकः ५ मालातृणः ६ समालम्बी
७ छत्रः ८ अतिच्छत्रकः ९ गुह्यबीजः १०
सुगन्धः ११ गुच्छालः १२ पुंस्त्वविग्रहः १३
वधिरः १४ अतिगन्धः १५ शृङ्गरोहः १६ करे-
न्दुकः १७ । अस्य गुणाः । कटुत्वम् । तिक्त-
त्वम् । वातसमूहभूतग्रहावेशदारुणविषदोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥
पृष्ठ ३/५३३

भूतेशः, पुं, (भूतानां प्राण्यादीनां प्रमथादीनां

बालग्रहाणाञ्च ईशः ।) शिवः । इत्यमरः ।
१ । १ । ३३ ॥ (यथा, राजतरङ्गिण्याम् । १ ।
१०७ ।
“म्लेच्छैः सञ्छादिते देशे स तदुच्छित्तये नृपः ।
तपः सन्तोषिताल्लेभे भूतेशात् सुकृती सुतम् ॥”)

भूत्तमं, क्ली, (भुवि उत्तमम् ।) सुवर्णम् । इति

हेमचन्द्रः । ४ । १० ॥

भूदरीभवा, स्त्री, (भूदर्य्यां भूविले भवतीति । भू +

अच् । टाप् ।) आखुपर्णी । इति भावप्रकाशः ॥

भूदारः, पुं, (भुवं दारयतीति । दॄ + कर्म्मण्यण् ।

३ । २ । १ । इत्यण् ।) शूकरः । इत्यमरः ।
२ । ५ । २ ॥

भूदेवः, पुं, (भुवो भुवि वा देवः ।) ब्राह्मणः ।

इत्यमरः । ३ । ७ । ४ ॥

भूधनः, पुं, राजा । भूरेव धनं यस्य सः । इति

केचित् ॥

भूधरः, पुं, (धरतीति । धृ + पचाद्यच् । भुवां

धरः इति षष्ठीसमासः ।) पर्व्वतः । इति हेम-
चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । ५७ । ११ ।
“तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥”)
यन्त्रभेदः । यथा, --
“जलकच्छपपातालदोलाभूधरबालुकाः ।
वकाद्या यन्त्रभेदाः स्युर्वज्रान्ध्राद्याश्च मूषकाः ॥”
इति शब्दचन्द्रिका ॥
(यथाचास्य व्यवहारः ।
“द्विपलं शुद्धसूतस्य सूतार्द्धं गन्धकन्तथा ।
कन्यानीरेण संमर्द्द्य दिनमेकं निरन्तरम् ॥
रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटे ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥
शिवः । यथा, महाभारते । १३ । १४ । १५१ ।
“भूधरो नागमौञ्जी च नागकुण्डलकुण्डली ॥”
कृष्णः । यथा, भागवते । ३ । १३ । ४० ।
“दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
विराजते भूधर ! भूः सभूधरा ।
यथा वनान्निःसरतो दता धृता
मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥”)

भूधात्री, स्त्री, (भूलग्ना धात्री ।) भूम्यामली ।

इति राजनिर्घण्टः ॥ (यथास्य गुणाः ।
“भूधात्री वातकृत्तिक्ता कषाया मधुरा हिमा ।
पिपासाकासपित्तास्रकफकण्डूक्षतपाहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वटुकभैरवः । इति विश्वसारतन्त्रे तस्य शत-
नामस्तोत्रम् ॥

भूध्रः, पुं, (भुवं धरतीति । धृ + मूलविभुजादित्वात् ।

३ । २ । ५ । इत्यस्य वार्त्तिकोक्त्या कः ।)
पर्व्वतः । इति हेमचन्द्रः । ४ । ९३ ॥

भूनागः, पुं, उपरसविशेषः । तत्पर्य्यायः । क्षिति-

नागः २ भूजन्तुः ३ रक्तजन्तुकः ४ क्षितिजः ५
क्षितिजन्तुः ६ रक्ततुण्डकः ७ । अस्य गुणाः ।
वज्रमारकत्वम् । नानाविज्ञानकारकत्वम् ।
रसजारणत्वम् । तत्सत्त्वस्य विषापहत्वञ्च ।
इति राजनिर्घण्टः ॥

भूनिम्बः, पुं, (क्षुपविशेषः । चिराता इति भाषा ।

(यथा, सुश्रुते चिकित्सितस्थाने ९ अध्याये ।
“मधूकभूनिम्बगृष्टिका इति समभागाः कल्कः
स्यात् ।”)
तत्पर्य्यायः । अनार्य्यतिक्तः २ कैरातः ३ राम-
सेनकः ४ किराततिक्तः ५ हैमः ६ काण्ड-
तिक्तः ७ किरातकः ८ । इति राजनिर्घण्टः ॥
कटुतिक्तः ९ । इति भावप्रकाशः ॥ (तथा चास्य
पर्य्यायान्तरम् । वैद्यकरत्नमालायाम् ।
“किराततिक्तं कैरातं भूनिम्बः काण्डतिक्तकः ॥”)
अस्य गुणाः । वातिकत्वम् । तिक्तत्वम् । कफ-
पित्तज्वरापहत्वम् । ब्रणसंरोपणत्वम् । पथ्य-
त्वम् । कुष्ठकण्डूतिशोफनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“किरातकोऽन्यो नेपालः सोऽर्द्धतिक्तो ज्वरा-
न्तकः ।
किरातः सारको रूक्षः शीतलस्तिक्तको लघुः ॥
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् ।
कासशोषतृषाकुष्ठज्वरव्रणकृमिप्रणुत् ॥”
इति भावप्रकाशः ॥
अस्य गुणपर्य्यायान्तरे किराततिक्तशब्दे द्रष्टव्ये ॥

भूनीपः, पुं, (भूमिलग्नो नीपः । शाकपार्थिवादि-

वत् समासः ।) भूमिकदम्बः । इति राज-
निर्घण्टः ॥

भूनेता, [ऋ] पुं, (भुवो नेता नायकः ।) राजा ।

इति केचित् ॥

भूपः, पुं, (भुवं पाति रक्षतीति । पा + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
राजा । इत्यमरः । २ । ८ । १ ॥ अर्थलोभेन
प्रजादण्डकरणे तस्य पापं यथा ।
“अर्थलोभेन यो भूपः प्रजादण्डं करोति च ।
वृश्चिकानाञ्च कुण्डे स तल्लोमाब्दं वसेद्ध्रुवम् ॥
ततो वृश्चिकजातिश्च सप्तजन्मसु भारते ।
ततो नरश्चाङ्गहीनो व्याधी शुद्धो भवेन्नरः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

भूपतिः, पुं, (भुवः पतिः ।) वटुकभैरवः । यथा,

“भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ।”
इति विश्वसारतन्त्रोक्तभैरवस्तोत्रम् ॥
राजा । यथा, --
भूपुत्त्री यस्य पत्नी स तु भवति कथं भूपती राम-
चन्द्रः ।
इति रामायणे केकयीवाक्यम् ॥
ऋषभौघम् । इति राजनिर्घण्टः ॥

भूपदः, पुं, (भुवि पदानि मूलान्यस्य ।) वृक्षः ।

इति शब्दचन्द्रिका ॥

भूपदी, स्त्री, (भुवि पदं यस्याः । गौरादित्वात्

ङीष् ।) मल्लिका । इत्यमरः । २ । ४ । ७० ॥
(यथास्याः पर्य्यायः ।
“मल्लिका मदयन्ती च शीतभीरुश्च भूपदी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भूपलाशः, पुं, (भुवि पलाशमस्य ।) वृक्षभेदः ।

विशाली इति भाषा । यथा, --
“अक्षोडकः सुकल्कश्च भूपलाशो विशल्यकृत् ।”
इति रत्नमाला ॥

भूपाटली, स्त्री, (भुवि जाता पाटलीव ।)

वृक्षविशेषः । भूयातानि इति लेनवादवी इति
च हिन्दीभाषा । तत्पर्य्यायः । भूकुम्भी २
भूताली ३ रक्तपुष्पिका ४ । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । पारदे प्रयोजकत्वञ्च ।
इति राजनिर्घण्टः ॥

भूपालः, पुं, (भुवं पालयतीति । पालि रक्षणे +

“कर्म्मण्यण् । ३ । २ । १ । इत्यण् ।) राजा ।
इति शब्दमाला ॥ (यथा, मार्कण्डेये । १८ । ३ ।
“यदर्थं गृह्यते शुल्कं तदनिंष्पादयन् वृथा ।
पण्यानां द्वादशं भागं भूपालाय बणिग्जनः ॥”
सोमपालस्य पुत्त्रः । यथा, राजतरङ्गिण्याम् ।
८ । ३४९५ ।
“सोमपालात्मजो भूभृद् भूपालः प्राकृत-
स्तथा ॥”)

भूपुत्त्री, स्त्री, (भुवः पुत्त्री ।) सीता । इति शब्द-

रत्नावली ॥
(“भूपुत्त्री यस्य पत्नी स भवतु कथं भूपती रामचन्द्रः ॥”
इति रामायणम् ॥)

भूपेष्टः, पुं, (भूपानामिष्टः ।) राजादनीवृक्षः ।

इति राजनिर्घण्टः ॥

भूभर्त्ता, [ऋ] पुं, (भुवो भर्त्ता । “याजकादि-

भिश्च ।” २ । २ । ९ । इति षष्ठीसमासः ।)
पृथिवीपतिः । इति सिद्धान्तकौमुद्यां तत्पुरुष-
समासः ॥ (यथा, राजतरङ्गिण्याम् । ३ । २९१ ।
“तस्मिन्नहनि भूभर्त्त्रा शोकान्निःश्वसता-
निशम् ॥”)

भूभुक्, [ज्] पुं, (भुवं भुनक्ति पालयतीति ।

भुज् + “सत्सूद्विषेति ।” ३ । २ । ६१ । इति
क्विप् ।) राजा । इति जटाधरः ॥ (यथा,
कामन्दकीयनीतिसारे । ४ । ६१ ।
“सापसाराणि दुर्गाणि भुवः सारूपजाङ्गलाः ।
निवासाय प्रशस्यन्ते भूमुजां भूतिमिच्छताम् ॥”)

भूभृत्, पुं, (भुवं बिभर्त्तीति । भृ + क्विप् । “ह्रस्वस्य

पितिकृति तुक् । ६ । १ । ७१ । इति तुगा-
गमश्च ।) राजा । (यथा, रघौ । ११ । ८१ ।
“तेन भूमिनिहितैककोटि तत्
कार्म्मुकञ्च बलिनाधिरोपितम् ।
निष्प्रभश्च रिपुरास भूभृताम्
धूमशेष इव धूमकेतनः ॥”)
पर्व्वतः । इति मेदिनी । ते, १४० ॥ (यथा,
कुमारसम्भवे । ६ । १ ।
“अथ विश्वात्मने गौरी सन्दिदेश मिथः
सखीम् ।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥”)

भूमयी, स्त्री, (भू + मयट् + ङीप् ।) छाया ।

सा तु सूर्य्यपत्नी । इति त्रिकाण्डशेषः ॥ मृदा-
त्मके, त्रि ॥
पृष्ठ ३/५३४

भूमा, [न्] पुं, बहुत्वम् । यथा । “भूयोभूम-

भूयिष्ठाः ।” बहोरीयस्विमन् इष्ठान्तस्य एते
निपात्यन्ते । इति मुग्धबोधव्याकरणम् ॥ ईय-
सोर्यस् ईयस्वादौ बहोर्भूरादेशः । ईयस्विन्नो-
रादिलोपः । इष्ठे यकारागमश्च निपात्यन्ते ।
अतिशयेन बहुः भूयान् । बहोर्भावः भूमा ।
अतिशयेन बहुः भूयिष्ठः । इति तट्टीकायां
दुर्गादासः ॥ बहुत्वविशिष्टः । तत्र वाच्यलिङ्गः ।
यथा । भूयः भूम । इति प्रभूतशब्दपर्य्याये
अमरटीकायां रमानाथः ॥ * ॥ विराट्पुरुषः ।
यथा । “यत्र नान्यत् पश्यति नान्यत् शृणोति
नान्यद्विजानाति स भूमा यो भूमा तदमृतम् ।”
इत्यादि श्रुतिभ्यो ब्रह्मनित्यत्वं सत्त्वशुद्धस्य प्रति-
भाति । इति वेदान्तसारटीका ॥

भूमिः, स्त्री, (भवन्ति भूतान्यस्यामिति । भू +

“भुवः कित् ।” उणा० ४ । ४५ । इति मिः ।
स च कित् ।) पृथिवी । स्थानमात्रम् । इति
मेदिनी । मे, २२ ॥ (यथास्या पर्य्यायः ।
“भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः ।
क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसुन्धरा ॥”
इति वैद्यकरत्नमालायाम् ॥)
जिह्वा । इति संक्षिप्तसारोणादिवृत्तिः ॥
योगिनामवस्थाविशेषः । यथा, --
“निरुद्धे चेतसि पुरा सविकल्पसमाधिना ।
निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ।
अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ।
विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥”
इति गीतागूढार्थदीपिकायां मधुसूदनसरस्वती ॥
भूमेः पर्य्यायादयः पृथिवीशब्दे द्रष्टव्याः ।
अस्या गुणाः ।
“भूमेः स्थैर्य्यं गुरुत्वञ्च काठिन्यं प्रसवार्थता ।
गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः ॥”
इति महाभारते मोक्षधर्म्मः ॥
अस्यार्थः । स्थैर्य्यमचाञ्चल्यम् १ । गुरुत्वं पतन-
प्रतियोगी गुणः २ । काठिन्यम् ३ । प्रसवार्थता
धान्याद्युत्पत्तिस्तदर्थता ४ । गन्धः ५ । गुरुत्वं
पिण्डपुष्टिः ६ । शक्तिः गन्धग्रहणसामर्थ्यम् ७ ।
संघातः श्लिष्टावयवत्वम् ८ । स्थापना मनुष्या-
द्याश्रयम् ९ । धृतिः पाञ्चभौतिके मनसि यो
धृत्यंशः । इति तट्टीका ॥ * ॥
भूमिदानमाहात्म्यम् यथा, --
“सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् ।
यो ददाति महीं राजन् ! विप्रायाकिञ्चनायवै ॥
अङ्गुष्ठमात्रमथवा स भवेत् पृथिवीपतिः ।
न भूमिदानसदृशं पवित्रमिह विद्यते ॥
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ।
उभौ तौ पुण्यमापन्नौ नियतं खर्गगामिनौ ॥
यत्किञ्चिद्भूमिदानन्तु सर्व्वदानोत्तमोत्तमम् ।
महीपते ! नरः कोऽपि भूमिदो भूमिमाप्नुयात् ॥
भूमिदानसमं दानं नास्त्यत्र पृथिवीतले ।
तस्मादल्पमलञ्चैव भुक्तिमुक्तिसुखप्रदम् ॥
यथा तथा प्रकारेण भूमिदाता तु भूमिपः ।
सुखी स्यात् सर्व्वकालेषु चान्ते स्वर्गमवाप्नुयात् ॥
बृहदल्पतरं वापि भूमिदानं महत्तमम् ।
यः कश्चिद्ब्राह्मणे दत्त्वा भवतीह महीपतिः ॥
सर्व्वथा सर्व्वदा देया धरित्री ब्राह्मणस्य तु ।
प्राणान्तेनैव न क्वापि हरणीया जनैरपि ॥
कृत्वा खातादिकं कर्म्म विप्रभूमिं नरो बलात् ।
करोति यदि राजेन्द्र ! तत् सर्व्वं निष्फलं भवेत् ॥
ब्राह्मणाद्दानग्रहणं विनानुज्ञाञ्च पार्थिव ! ।
तथा तत्परितोषञ्च तत्तन्मूल्यादिकं विना ॥
विप्रभूमौ भूसुरोऽपि दैवं पैत्रं तथाध्वरम् ।
हरिसद्म तथारामप्रासादमण्डपं गृहम् ॥
खातादिखननं सेतुबन्धनं भवनं गवाम् ।
सधान्यफलमूलादिशाकादिक्षेत्रमेव च ॥
पञ्चाम्रवपनं पुष्पोद्यानं वृक्षादिरोपणम् ।
सवटाश्वत्थतुलसीधात्रीविल्वादिरोपणम् ॥
नित्यं नैमित्तिकं काम्यं स्नानसन्ध्यादिकं तथा ।
पञ्चयज्ञं तथेष्टार्च्चादिकमेतत्तु चापरम् ॥
श्रीकृष्णसेवनं भक्तभक्तिषोडशपूर्ब्बकम् ।
का कथा वेतरेषान्तु न कुर्य्यात् पारमार्थिकः ॥
यः कर्म्मफलकामेप्सुर्न करोत्यत्र कर्म्म च ।
कुरुते मत्ततामोहादज्ञानाद्वा भ्रमादितः ।
नृपते ! कुर्व्वतामेतत् सर्व्वं स्यान्निष्फलं ध्रुवम् ॥
यद्भू मिरथवा तस्य संपूर्णं फलमेव च ।
अतो लोके हि धर्म्मात्मा ज्ञानी च सर्व्वधर्म्म-
वित् ॥
विवेकी धर्म्मशास्त्रज्ञः पुराणागमवेदवित् ।
वेदान्तज्ञो मुनिः साधुः कार्ष्णादिर्वा महीपते ! ।
न कुर्य्याद्भू मिहरणं ब्राह्मणीहरकल्मषम् ॥”
इति पाद्मोत्तरखण्डे ४९ अध्यायः ॥ * ॥
अपि च । बृहस्पतिः ।
“षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
उच्छेत्ता चानुमन्ता च तावन्ति नरके वसेत् ॥
तथा ।
भूमिं दत्त्वा तु यः पत्रं कुर्य्याच्चन्द्रार्ककालिकम् ।
अनाच्छेद्यमनाहार्य्यं दानलेख्यन्तु तद्बिदुः ॥
महाभारते ।
अपि पापकृतो राज्ञः प्रतिगृह्णन्ति साधवः ।
पृथिवीं नान्यदिच्छन्ति पावनीं जननीं यथा ॥
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ।
दाने वाप्यथवादाने नामास्याः परमं प्रियम् ॥”
दानादानकाले यत् प्रियदत्ता नामास्याः परमं
प्रियमित्युक्तं तेन प्रियदत्तामित्युच्चार्य्य दातव्या
प्रतिग्रहीतव्या च । भूमेः पूजायां दानवाक्ये च
प्रियदत्तेति विशेषणम् । भूमिर्विष्णुदेवताका ।
षष्टिवर्षसहस्रावच्छिन्नस्वर्गवासः फलम् । प्रति-
ग्रहे तद्भूमेः प्रदक्षिणमात्रम् । भूमेरसन्निधाने
तामुद्दिश्य प्रदक्षिणम् । इति शुद्धितत्त्वम् ॥ * ॥
आर्द्राद्यपादगे रवौ भूमी रजोयुक्ता भवति
तत्काले पाठादिनिषेधो यथा ज्योतिषे ।
“रजोयुक् क्ष्माम्बु वाची च रौद्राद्यपादगे रवौ ।
तस्यां पाठो बीजवापो नाहिभीर्दुग्धपानतः ॥
रजोयुक् क्ष्मा ऋतुमती पृथ्वी । ज्योतिषे ।
यस्मिन् वारे सहस्रांशुर्यत्काले मिथुनं व्रजेत् ।
अम्बु वाची भवेन्नित्यं पुनस्तत्कालवारयोः ॥”
मत्स्यसूक्ते ।
“धरण्यामृतुमत्याञ्च भूमिकम्पे तथैव च ।
अन्तरागमने चैव विद्यां नैव पठेद्बुधः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
“न स्वाध्यायं वषट्कारं न देवपितृपूजनम् ।
हलानां योजनञ्चैव बीजानां वपनं तथा ।
दिनत्रयं न कुर्व्वीत यावत् पृथ्वी रजस्वला ॥
यतिनो व्रतिनश्चैव विधवा च द्बिजस्तथा ।
अम्बुवाचीदिनेनैव पाकं कृत्वा न भक्षयेत् ॥
स्वपाकं परपाकं वा अम्बुवाचीदिने तथा ।
भक्षणं नैव कुर्वीत चाण्डालान्नसमं स्मृतम् ॥”
इति राजमार्त्तण्डः ॥
अशुद्धां भूमिमाह देवलः ।
‘सा अमेध्या मलिना दुष्टा एतत्त्रितयान्यतमा
भवति ।’ अत्रामेध्या यथा, --
“प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः ।
चाण्डालैरुषितं यत्र यत्र विन्यस्यते शवः ॥
विण्मूत्रोपहतं यत्तु कुणपो यत्र दृश्यते ।
एवं कश्मलभूयिष्ठा भूरमेध्येति लक्ष्यते ॥”
कुणपः शवः । दुष्टा यथा, --
“कृमिकीटपदक्षेपैर्द्दूषिता यत्र मेदिनी ।
द्रप्सापकर्षर्णेः क्षिप्तैर्वान्तैश्च दुष्टतां व्रजेत् ॥”
द्रप्सा घनीभूतश्लेष्मा । मलिना यथा, --
“नखदन्ततनूजत्वक्तुषपांशुरजोमलैः ।
भस्मपङ्कतृणैर्वापि प्रच्छन्ना मलिना भवेत् ॥
तासाञ्च शुद्धिमाह ।
“दहनं खननं भूमेरुपलेपनवापने ।
पर्य्यन्यवर्षणञ्चैव शौचं पञ्चविधं स्मृतम् ॥”
वापनं मृदन्तरेण पूरणम् । अत्रामेध्याया-
श्चतुष्कं पञ्चकं वा । दुष्टायाः द्विकं त्रिकं वा ।
मलिनायाः दहनादीनामेकधा शोधनमाह
देवलः ।
“पञ्चधा वा चतुर्द्धा वा भूरमेध्या विशुध्यति ।
द्विधा दुष्टा त्रिधा वापि शुध्यते मलिनैकधा ॥”
अन्यपञ्चप्रकारमाह मनुः ।
“सम्मार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ।
गवाञ्च परिवासेन भूमिः शुद्ध्यति पञ्चधा ॥”
सम्मार्जनं तृणाद्यपनयनम् । अञ्जनं गोमये-
नोपलेपनम् । सेको जलेन प्रक्षालनम् । उल्लि-
खनं तक्षणम् । परिवासो गवोपस्थापनम्
अत्र सेकपरिवासयोर्निर्लेपस्थापनविषयत्वम्
अन्येषाममेध्यलिप्तविषयत्वम् । ब्रह्मपुराणे ।
“ग्रामाद्दण्डशतं त्यक्त्वा नगराच्च चतुर्गुणम् ।
भूमेः सर्व्वत्र शुद्धिः स्याद्यत्र लोको न विद्यते ॥”
दण्डं चतुर्हस्तः । नगरं महाग्रामः । इति
गोपालपञ्चाननकृतशुद्धिनिर्णयः ॥ * ॥ भूमौ वर्ण-
लेस्वनादिनिषेधो यथा, --
“न भूभौ विलिखेद्वर्णं मन्त्रं न पुस्तके लिखेत् ।
पृष्ठ ३/५३५
न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् ॥
भूकम्पे ग्रहणे चैव अक्षरं वाथ पुस्तकम् ।
भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता ।
तदा भवति देवेशि ! तस्मात्तत् परिवर्जयेत् ॥”
इति योगिनीतन्त्रे तृतीयभागे ७ पटलः ॥

भूमिकदम्बः, पुं, (भूमिजातः कदम्बः । शाक-

पार्थिवादिवत् समासः ।) कदम्बविशेषः । तत्-
पर्य्यायः । भूनीपः २ भूमिजः ३ भृङ्गवल्लभः ४
लघुपुष्पः ५ वृत्तपुष्पः ६ विषघ्नः ७ व्रण-
हारकः ८ । अस्य गुणाः यथा, राजनिर्घण्टे ।
“त्रिकदम्बाः कटूष्णाश्च वृष्या दोषहरा हिमाः ।
कषायतिक्ताः पित्तघ्ना वीर्य्यवृद्धिकराः पराः ॥”

भूमिका, स्त्री, (भूमिरिव कायतीति । कै + कः ।

स्त्रियां टाप् । यद्वा । भूमिरेव स्वार्थे कन् ।
टाप् ।) रचना । वेशान्तरपरिग्नहः । इति
मेदिनी ॥
पात्राणि नाट्येऽधिकृतास्तत्तद्वेशास्तु भूमिकाः ।
इति हेमचन्द्रः ॥
भूमिः । भूमिरेव भूमिका स्वार्थे कप्रत्ययेन
निष्पन्ना । इति व्याकरणम् ॥ वेदान्तमते चित्त-
स्यावस्थाविशेषः । यथा । क्षिप्तं मूढं विक्षिप्तं
एकाग्रं निरुद्धं इति पञ्चभूमयः । आसुरसम्प-
ल्लोकशास्त्रदेहवासनासु वर्त्तमानं चित्तं क्षिप्त-
भूमिका । १ । निद्रातन्द्रादिग्रस्तं चित्तं मूढ-
भूमिका । २ । कदाचिद्ध्यानयुक्तं चित्तं क्षिप्ता-
द्विशिष्टतया विक्षिप्तभूमिका । ३ । तत्र क्षिप्त-
मूढयोः समाधित्वशङ्कैव नास्ति विक्षिप्ते तु
समाधित्वशङ्का तदितरत् भूमिद्बयं समाधिः ।
एकाग्रे मनसि सम्भूतमर्थं प्रद्योतयति क्षिणोति
च क्लेशान् कर्म्मबन्धनानि श्लथयति निरोधममि-
मुखीकरोतीति सः प्रज्ञातो योग एकाग्र-
भूमिका । ४ । सर्व्ववृत्तिनिरोधरूपा संप्रज्ञात-
समाधिर्निरुद्धभूमिका । ५ । इति वेदान्तसंज्ञा-
निरूपणग्रन्थः ॥

भूमिखर्ज्जूरिका, स्त्री, (भूमिजाता खर्ज्जूरिका ।)

क्षुद्रखर्ज्जूरी । तत्पर्य्यायः । स्वाद्वी २ दुरा-
रोहा ३ मृदुच्छदा ४ । अस्या भेदाः गुणाश्च ।
“भूमिखर्ज्जूरिका स्वाद्वी दुरारोहा मृदुच्छदा ।
अथ स्कन्धफला काककर्क्कटी स्वादुमस्तका ॥
पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् ।
खर्ज्जूरी गोस्तनाकारा पराद्द्वीपादिहागता ॥
जायन्ते पञ्चिमे देशे सा च्छोहोरेति कीर्त्तिता ॥
खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः ।
स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ॥
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भिशुक्रदम् ।
कोष्ठमारुतकृद्वल्यं वाह्यवातकफापहम् ॥
ज्वराभिघातक्षुत्तृष्णाकाशश्वासनिवारणम् ।
मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् ॥
महतीभ्यां गुणैरल्पा स्वल्पखर्ज्जूरिका स्मृता ॥
खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् ॥”
इति भावप्रकाशः ॥

भूमिखर्ज्जूरी, स्त्री, (भूमिजाता खर्ज्जूरी ।)

भूमिखर्ज्जूरिका । इति राजनिर्घण्टः । अस्या
गुणपर्य्यायाः भूखर्ज्जूरीशब्दे द्रष्टव्याः ॥

भूमिचम्पकः, पुं, (भूमिजातश्चम्पकः ।) पुष्पवृक्ष-

विशेषः । भूँ इचाँपा इति भाषा । तत्पर्य्यायः ।
ताम्रपुष्पः २ सन्धिबन्धः ३ द्रुघणः ४ । इति
शब्दचन्द्रिका ॥ अस्य मूलं व्रणपाककारकम् ॥

भूमिजं, क्ली, (भूमेर्जायते इति । जन् + डः ।)

गौरसुवर्णम् । इति राजनिर्घण्टः ॥

भूमिजः, पुं, (भूमेः पृथिव्या जायते इति ।

जन् + डः ।) मङ्गलग्रहः । नरकराजः । इति
मेदिनी । जे, २७ ॥ भूमिकदम्बः । मनुष्यः ।
इति राजनिर्घण्टः ॥ (भूमिजाते, त्रि । यथा,
विष्णुधर्म्मोत्तरे ।
“चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् ॥”)

भूमिजगुग्गुलुः, पुं, (भूमिजो गुग्गुलुः ।) आशा-

पुरगुग्गुलुः । तत्पर्य्यायः । दैत्यमेदजः २
दुर्गाह्वः ३ आशापुरसम्भवः ४ मज्जारः ५
मेदजः ६ महिषासुरसम्भवः ७ । अस्य गुणाः ।
तिक्तत्वम् । कटुत्वम् । कफवातनाशित्वम् ।
उमाप्रियत्वम् । भूतघ्नत्वम् । मेध्यत्वम् । सौर-
भ्यदत्वञ्च । इति राजनिर्घण्टः ॥

भूमिजम्बुः, स्त्री, (भूमिजाता जम्बुः ।) क्षुद्र-

जम्बुः । तत्पर्य्यायः नादेयिका २ नादेयी ३
भूजम्बुः ४ भूमिजम्बुका ५ । इति शब्दरत्नावली ॥
काकजम्बुः ६ शीतपल्लवा ७ । इति रत्नमाला ॥
नादेयिका च नादेयी भूजम्बुर्भूमिजम्बुका ।
भूमिजम्बुलतायां स्यात् केचित्तु भूमिचम्पके ॥
इति शब्दरत्नावली ॥

भूमिजम्बूः, स्त्री, (भूमिजाता जम्बूरिति मध्यपदलोपी

समासः ।) भूजम्बुः । क्षुद्रजम्बुः । तत्पर्य्यायः ।
ह्रस्वफला २ भृङ्गवल्लभा ३ ह्रस्वा ४ भूजम्बुः ५
भ्रमरेष्टा ६ पिकभक्षा ७ काष्ठजम्बूः ८ । अस्या
गुणाः । कषायत्वम् । मधुरत्वम् । श्लेष्मपित्त-
नाशित्वम् । रुच्यत्वम् । संग्राहित्वम् । हृत्-
कण्ठदोषनाशित्वम् । वीर्य्यपुष्टिदत्वञ्च । इति
राजनिर्घण्टः ॥

भूमिजम्बूका, स्त्री, (भूमिजम्बू + स्वार्थे कन् । टाप् ।)

भूमिजम्बुः । इत्यमरः । २ । ४ । ३८ ॥

भूमिजा, स्त्री, (भूमेर्जायते इति । जन् + डः ।

टाप्) सीता । इति त्रिकाण्डशेषः मेदिनी च ।
जे, २७ ॥

भूमिजीवी, [न्] पुं, (भूम्या तत्कर्षणादिना जीव-

तीति । जीव् + णिनिः ।) वैश्यः । इति शब्द-
रत्नावली ॥

भूमिदेवः, पुं, (भूमौ देव इव भूम्या देवो वा ।)

ब्राह्मणः । इति हलायुधः ॥ (यथा, किराता-
र्ज्जुनीये । ३ । ६ ।
“अद्य क्रियाः कामदुघाः क्रतूनां
सत्याशिषः सम्प्रति भूमिदेवाः ।
आसंसृतेरस्मि जगत्सु जात
स्त्वय्यागते यद्बहुमानपात्रम् ॥”)

भूमिपः, पुं, (भूमिं पाति रक्षतीति । पा +

“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
राजा । इति जटाधरः ॥ (यथा, महा-
भारते । १ । १०० । ८ ।
“वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः ।
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः ॥”)

भूमिपक्षः, पुं, (भूमिः पक्ष इव यस्य ।) वाताश्वः ।

इति हारावली ॥

भूमिपिशाचः, पुं, (भूमौ पिशाच इव तद्वदा-

कृतिमत्त्वात् ।) तालवृक्षः । इति हारावली ॥
(विषयोऽस्य तालवृक्षशब्दे ज्ञेयः ॥)

भूमिमण्डः, पुं, (भूमिं मण्डयति भूषयतीति ।

मडि + अण् ।) अष्टपादिका । इति रत्नमाला ॥
मदनलालीति हापरमाली इति च भाषा ॥

भूमिमण्डपभूषणा, स्त्री, (भूमिमण्डपं भूषयतीति ।

भूषि + ल्युः + टाप् ।) माधवीलता । इति राज-
निर्घण्टः ॥

भूमिरक्षकः, पुं, (रक्षतीति । रक्ष + ण्वुल् । भूमेः

रक्षकः । गमनकाले भूमेरुपरि पादाप्रदानात्
तथात्वम् ।) वाताश्वः । इति भूरिप्रयोगः ॥

भूमिलाभः, पुं, (भूमेर्लाभोऽत्र ।) मृत्युः । इति

भूरिप्रयोगः ॥ (भूमेर्लाभः ।) भूमिप्राप्तिश्च ॥

भूमिलेपनं, क्ली, (भूमिर्लिप्यतेऽनेनेति । लिप् +

ल्युट् ।) गोमयम् । इति हेमचन्द्रः । ४ । ३३८ ॥
(भूमेर्लेपनम्) भूमेर्लेपश्च ॥

भूमिवर्द्धनः, पुं, क्ली, (भूमिर्वद्ध्यतेऽनेनेति । वृध् +

णिच् + ल्युट् । स्वीयपार्थिवांशप्रदानेन भूमे-
र्वर्द्धनादस्य तथात्वम् ।) शवः । इति हेमचन्द्रः ॥

भूमिसम्भवा, स्त्री, (भूमेः सम्भव उत्पत्तिर्यस्याः ।)

सीता । इति जटाधरः ॥

भूमिस्पृक्, [श्] पुं, (भूमिं स्पृशतीति । स्पृश् +

“स्पृशोऽनुदके क्विन् ।” ३ । २ । ५८ । इति क्विन् ।)
मानुषः । वैश्यः । इति मेदिनी । शे, ३८ ॥
चौरविशेषः । अन्धः । खञ्जः । इति शब्द-
रत्नावली ॥

भूमी, स्त्री, (भूमिः । कृदिकारादक्तिनः ।” इति

पक्षे ङीष् ।) भूमिः । इति भरतद्विरूपकोषः ॥

भूमीन्द्रः, पुं, (भूम्यामिन्द्र इव । भूमेः इन्द्र ईश्वरो

वा ।) राजा । इति शब्दरत्नावली ॥

भूमीरुहः, पुं, (भूम्यां रोहतीति । रुह + कः ।)

वृक्षः । यथा, --
“दीर्घास्तापयुता यथा विरहिणीश्वासास्तथा
वासरा
यामिन्यश्चपला यथा कुलबधूदृष्टिः सरोषा
प्रिये ! ।
छाया वाञ्छ्यतमा नवोढवनितावाणीव भूमीरुहा
निष्पन्दाः सुचिराद्यथा मिलितयोर्यूनोर्मिथो
दृष्टयः ॥”
इत्युद्भटः श्लोकः ॥

भूमीसहः, पुं, (भूमेः सहते उत्सहते उत्पद्यते

इति सह + अच् । वृक्षविशेषः । भूंरसह इति
पृष्ठ ३/५३६
हिन्दी भाषा । तत्पर्य्यायः । द्वारदातुः २ वर-
दातुः ३ खरच्छदः ४ । अस्य गुणाः । शिशिर-
त्वम् । रक्तपित्तप्रसादनत्वञ्च । इति भाव-
प्रकाशः ॥

भूम्यामलकी, स्त्री, (भूमिलग्ना आमलकी शाक

पार्थिवादित्वात् समासः) क्षुपविशेषः । भूँइ
आमला इति भाषा । तत्पर्य्यायः । बहुपुष्पी २
जडा ३ अध्यण्डा ४ तालिः ५ तामलकी ६
अजटा ७ सूक्ष्मफला ८ क्षेत्रामलकी ९ । इति
रत्नमाला ॥ वितुन्नकः १० झटा ११ अमला १२
अज्झटा १३ ताली १४ शिवा १५ । इत्यमरः ।
२ । ४ । १२७ ॥ झाटा १६ मला १७ झाटामला १८
अमलाज्झटा १९ । इत्यमरटीकायां भरतः ॥
भूम्यामलकिका २० शिवामलकी २१ बहु-
पुत्त्रा २२ बहुफला २३ बहुवीर्य्या २४
भूधात्री २५ । अस्या गुणाः । वातकारित्वम् ।
तिक्तत्वम् । कषायत्वम् । मधुरत्वम् । हिमत्वम् ।
पिपासाकासपित्तासृक्कफपाण्डुक्षतनाशित्वञ्च ।
इति भावप्रकाशः ॥

भूम्यामली, स्त्री, (भूम्या आमलते आत्मानं धारय-

तीति । आ + मल् + अच् ।) भूम्यामलकी ।
अरुनेली इति हिन्दी भाषा । भूँइ आमला
इति वङ्गभाषा । तत्पर्य्यायः । तमाली २
ताली ३ तमालिका ४ उच्चटा ५ दृढपादी ६
वितुन्ना ७ वितुन्निका ८ भूधात्री ९ चारटी
१० वृष्या ११ विषघ्नी १२ बहुपत्रिका १३
बहुवीर्य्या १४ अहिभयदा १५ विश्वपर्णी १६
हिमालया १७ अज्झटा १८ वीरा १९ ।
अस्या गुणाः । कषायत्वम् । अम्लत्वम् । पित्त-
मेहदाहनाशित्वम् । शिशिरत्वम् । मूत्र-
रोधार्त्तिशमनत्वञ्च । इति राजनिर्घण्टः ॥

भूम्याहुल्यं, क्ली, (भूमिमाहोलति आच्छादय-

तीति । आ + हुल् + कः । ततः यत् ।) क्षुप-
विशेषः । भूञितखड् इति हिन्दी भाषा ।
तत्पर्य्यायः । कुष्ठकेतु २ मार्कण्डीयम् ३ महौ-
षधम् ४ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् ।
ज्वरकुष्ठामसिध्मनाशित्वञ्च । इति राज-
निर्घण्टः ॥

भूयः, [स्] व्य, (भुवे भावाय यस्यति यतते

इति । भू + यस् + क्विप् ।) पुनरर्थम् । इति
शब्दरत्नावली ॥ (यथा, विष्णुपुराणे । १ । ४ । २४ ।
“यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ! ।
तत् सर्व्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥”

भूयान्, [स्] त्रि, (अयमनयोरतिशयेन बहु-

रिति बहु + “द्विवचनविभज्योपपदे तरवीय-
सुनौ ।” ५ । ३ । ५७ । इति ईयसुन् । “बहो-
र्लोपोभू च बहोः ।” ६ । ४ । १५८ । इतीयसुन ई
लोपः भूरादेशश्च ।) बहुतरः । इति मेदिनी ।
से, ३० ॥ (यथा, मनुसंहितायाम् । २ । १३७ ।
“पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।”

भूयिष्ठं, त्रि, (अयमेषामतिशयेन बहुरिति । बहु

+ इष्ठन् । “इष्ठस्य यिट् च ।” ६ । ४ । १५९ ।
इति यिडागमो बहोः स्थाने भूरादेशश्चः ।)
प्रचुरः । इत्यमरः । ३ । १ । ६३ ॥ (यथा, ऋग्वेदे ।
८ । ८५ । ३ ।
“इन्द्रस्य वज्र आयासो निमिश्ल इन्द्रस्य बाहो-
र्भूयिष्ठमोजः ॥”)

भूयुक्ता, स्त्री, (भुवा + युक्ता ।) भूमिखर्ज्जुरी ।

इति राजनिर्घण्टः ॥

भूरि, क्ली, (भवति भूयते वेति । भू + “अदि-

शदिभूशुभिभ्यः क्रिन् ।” उणा० । ४ । ६५ । इति
क्रिन् ।) स्वर्णम् । इत्यमरः । ३ । १ । ६३ ॥

भूरिः, पुं, (भवतीति । भू + “अदिशदिभूशुभिभ्यः ।”

उणा० ४ । ६५ । इति क्रिन् ।) विष्णुः । ब्रह्मा ।
शिवः । इति मेदिनी । रे, ७३ ॥ वासवः । इति
शब्दरत्नावली ॥ (सोमदत्तस्य पुत्रभेदः । यथा,
महाभारते । १ । १८७ । १४ ।
“कौरव्यः सोमदत्तश्च पुत्त्राश्चास्य महारथाः ।
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥”)
प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा,
ऋग्वेदे । ७ । ४ । २ ।
“संयोवनायुवते शुचिदन्भूरि
चिदन्नासमिदत्ति सद्यः ॥”)

भूरिक्, [ज्] स्त्री, (भरति सर्व्वं धरतीति भृञ् ।

भृञ उच्चं ।” उणा० २ । ७२ । इति इजिः
स च कित् धातोरुकान्तादेशश्च । पृषोदरादि-
त्वात् साधुः ।) पृथिवी । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

भूरिगन्धा, स्त्री, (भूरिः प्रचुरो गन्धोऽस्याः । तत-

ष्टाप् ।) पुरानामगन्धद्रव्यम् । इति राज-
निर्घण्टः ॥ (गन्धाढ्यायाञ्च, त्रि ॥)

भूरिगमः, पुं, (भूरिभिर्भारैर्गच्छतीति । भूरि +

गम + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ ।
इति अप् ।) गर्द्दभः । इति राजनिर्घण्टः ॥

भूरिदावा, [न्] पुं, भूरि ददाति यः । (भूरि +

दा + वनिप् । प्रचुरदाता । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, ऋग्वेदे । २ । २७ । १७ ।
“माहं मघोनो वरुणप्रियस्य भूरिदाव्ण
आविदं शूनमापेः ॥”)

भूरिदुग्धा, स्त्री, (भूरीणि दुग्धानि निर्यासा

यस्याः ।) वृश्चिकाली । इति राजनिर्घण्टः ॥
(गुणादयोऽस्या वृश्चिकालीशब्दे ज्ञातव्याः ॥)

भूरिपत्रः, पुं, (भूरीणि पत्राण्यस्य ।) उखर्व्वल-

तृणम् । इति राजनिर्घण्टः ॥

भूरिपलितदा, स्त्री, (भूरि पलितं केशपाकं

दायति शोधयति इति दैप् + कः । टाप् ।)
पाण्डुरफली । इति राजनिर्घण्टः ॥

भूरिपुष्पा, स्त्री, (भूरीणि पुष्पाण्यस्याः ।) शत-

पुष्पा । इति राजनिर्घण्टः ॥

भूरिप्रेमा, [न्] पुं, (भूरिः प्रेमा प्रेयस्त्वं यस्य ।)

चक्रवाकः । इति राजनिर्घण्टः ॥

भूरिफेना, स्त्री, (भूरयः फेना यस्याः ।) सप्तला-

वृक्षः । इत्यमरः । २ । ४ । १४३ ॥ चामार-
कसा इति भाषा ॥

भूरिबला, स्त्री, (भूरि बलं यस्याः ।) अतिबला

इति राजनिर्घण्टः ॥

भूरिमल्ली, स्त्री, (भूरि मल्लते इति । मल्ल + अच्

ङीष् ।) अम्बष्ठा । इति राजनिर्घण्टः ॥

भूरिमायः, पुं, स्त्री, (भूरी माया यस्य ।)

शृगालः । इत्यमरः । २ । ५ । ५ ॥

भूरिशः, [स्] व्य, बहुशः । बह्वल्पार्थात् काच्च-

शस् वेति कारकभूरिशब्दात् चशस्प्रत्ययनिष्प-
न्नोऽयं शब्दः । इति मुग्धबोधव्याकरणम् ॥
(भूरीणि भूरीणि इति वीप्सायां शस् । (यथा,
महानिर्व्वाणतन्त्रे । १ । ५२ ।
“बद्धपद्मासनादीनि गदितान्यपि भूरिशः ॥”)

भूरिश्रवाः, [स्] पुं, (भूरि श्रवो यज्ञादिजनितं

यशो यस्य सः । चन्द्रवंशीयसोमदत्तराजपुत्त्रः ।
यथा, महाभारते । १ । १८७ । १४ ।
“समवेतास्त्रयः शूराः भूरिर्भूरिश्रवाः शलः ॥”)
स तु अर्ज्जुनसात्यकिभ्यां हतः । इति महा-
भारतम् ॥ (बहुयशोविशिष्टे, त्रि ॥)

भूरुण्डी, स्त्री, (भुवं पृथिवीं रुणद्धि भुवि रोहतीति

वा । भू + “रुध + वा रुह + कः पृषोदरा-
दित्वात् नकार डकारौ गौरादित्वात् ङीष् ।)
श्रीहस्तिनी वृक्षः । इत्यमरः । २ । ४ । ५९ ॥
(भूरण्डीति च सर्व्वानन्दः ।) हातिशुँडा
इति भाषा ॥

भूरुहः, पुं, (भुवि रोहति प्रादुर्भवतीति भू +

रुह + कः ।) वृक्षः । इति शब्दमाला ॥
(यथा, माघे । ७ । ५० ।
“इदमिदमिति भूरुहाम्प्रसूनैः ।”)

भूर्जः, पुं, (ऊर्ज + घञ् । भूः ऊर्जो बलं यस्य ।

भुवि ऊर्ज्जयते इति भू + ऊर्ज + अच् वा ।)
स्वनामख्यातवृक्षविशेषः । भोजपत्र इति हिन्दी-
भाषा । (यथा, रघौ । ४ । ७३ ।
“भूर्जेषु मर्म्मरीभूताः कीचकध्वनिहेतवः ।”)
तत्प्रर्य्यायः । वल्कद्रुमः २ भुर्जः ३ सुचर्म्मा ४
भूर्जपत्रकः ५ चित्रत्वक् ६ बिन्दुपत्रः ७ रक्षा-
पत्रः ८ विचित्रकः ९ भूतघ्नः १० मृदुमत्रः ११
शैलेन्द्रस्थः १२ । इति राजनिर्घण्टः ॥ भूर्ज-
पत्रः १३ चर्म्मी १४ बहुलवल्कलः १५ । इति
भावप्रकाशः ॥ छत्रपत्रः १६ शिवः १७ स्थिर-
च्छदः १८ । इति रत्नमाला ॥ मृदुत्वक् १९
इत्यमरः । २ । ४ । ४६ । पत्रपुष्पकः २० । इति
भरतधृतमधुः ॥ भुजः २१ बहुपटः २२ बहु-
त्वक्कः २३ मृदुत्वचः २४ । इति भरतधृत-
स्वामी ॥ अस्य गुणाः । बलकारित्वम् । कफ-
रक्तनाशित्वञ्च । इति राजवल्लभः ॥ कटत्वम् ।
कषायत्वम् । उष्णत्वम् । भूतरक्षाकरत्वम् ।
त्रिदोषशमनत्वम् । पथ्यत्वम् । दुष्टकौटिल्य-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ कर्णरोग-
पित्तराक्षसमेदविषहरत्वञ्च । इति भावप्रकाशः ॥
(यथा, वाभटे शरीरस्थाने प्रथमेऽध्याये ॥
“भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः ।
पृथक् द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥”)
पृष्ठ ३/५३७

भूर्जकण्टकः, पुं, वणसङ्करजातिविशेषः । इति

जटाधरः ॥ (यथा, मनौ । १० । २१ ।
“ब्रात्यात्तु जायते विप्रात् पापात्मा भूर्ज-
कण्टकः ॥”)

भूर्ज्जपत्रः, पुं, (भुवि ऊर्ज्जस्वलेभ्यः उपदेवजातिभ्यः

पत्राण्यस्य ।) भूर्ज्जवृक्षः । इति रत्नमाला ॥
(यथा, रामायणे । २ । ९४ । २४ ।
“कुष्ठस्थगरपुन्नागभूर्जपत्रोत्तरच्छदान् ॥”)
तथा चास्य पर्य्यायः ।
“भूर्ज्जपत्रः स्मृतो भूर्ज्जचर्म्मी बहुलबल्कलः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥

भूर्णिः, स्त्री, (बिभर्त्ति सर्व्वमिति । भृ + “घृणिपृश्नि-

पार्ष्णिचूर्णिभूर्णिः ।” उणा० ४ । ५२ । इति निः
निपातनादूत्त्वश्च ।) पृथिवी । मरुभूमिः । इत्यु-
णादिकोषः ॥ (भर्त्ता । यथा, ऋग्वेदे । ७ । ८७ । २ ।
“आत्मा ते वातो रज आनवीनोत्-
पशु र्न भूर्णिर्यवसे स सवान् ॥”
“भूर्णिर्जगतो भर्त्ता ।” इति तद्भाष्ये सायनः ॥)

भूर्लोकः, पुं, (भूःसंज्ञको लोकः । शाकपार्थिवादि-

वत् समासः ।) अन्तरीक्षादधो लोकः । मर्त्य-
लोकः । तस्य लक्षणं यथा, --
“पादगम्यञ्च यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तारोऽस्य मयो-
दितः ॥”
इति विष्णुपुराणे । २ अंशे ५ अध्यायः ॥
चरणसञ्चारयोग्यं गिरिशिखरादि यावत् ताव-
दुत्सेधो भूर्लोक इत्यर्थः । विस्तारो मयोदितः
सर्व्वतो लोकालोकावधिः पञ्चविंशतिकोटि-
प्रमाणः । इति तट्टीकायां स्वामी ॥ अस्य विव-
रणं तत्रैव द्वितीयादिचतुर्थाध्यायेषु भूगोल-
शब्दे च द्रष्टव्यम् ॥ (यथा, भागवते । २ ।
५ । ३८ ।
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य
नाभितः ॥”)

भूलग्ना, स्त्री, (भुवि लग्ना ।) शङ्खपुष्पी । इति

राजनिर्घण्टः ॥

भूलता, स्त्री, (भुवि लता इव ।) किञ्चुलुकः ।

इति हेमचन्द्रः । ४ । २६९ ॥

भूवदरी, स्त्री, (भूलग्ना वदरी शाकपार्थिवादिवत्

समासः ।) क्षुद्रकोली । झडवेर इति हिन्दी-
भाषा । तत्पर्य्यायः । क्षितिवदरी २ वल्लीवदरी
३ वदरवल्ली ४ बहुफलिका ५ लघुवदरी ६
वदरफली ७ सूक्ष्मवदरी ८ । अस्या गुणाः ।
मधुराम्लत्वम् । कफवातविकारहारित्वम् ।
पथ्यत्वम् । दीपनत्वम् । पाचनत्वम् । किञ्चित्
पित्तास्रकारित्वम् । रुच्यत्वञ्च । इति राज-
निर्घण्टः ॥

भूशयः, पुं, (भुवि शेते इति । भू + शीङ् +

“अधिकरणे शेतेः ।” ३ । २ । १५ । इति अच् ।)
नकुलगोधादिः । एतेषां मांसगुणाः । गुरुत्वम् ।
उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् । वायुनाशि-
त्वम् । शुक्रकारित्वञ्च । इति राजवल्लभः ॥ विष्णुः ।
यथा, --
“भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥”
इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥

भूशेलुः, पुं, (भुवि ख्याता शेलुः शाकपार्थिवादि-

वत् समासः ।) भूकर्व्वुदारकः । इति राज-
निर्घण्टः ॥

भूष कि भूषणे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) कि भूषयति भूषति हारो
जनम् । इति दुर्गादासः ॥

भूषणं, क्ली, (भूष्यते अनेनेति । भूष + करणे

ल्युट् ।) अलङ्कारः । इति हेमचन्द्रः । ३ । ३१३ ॥
(यथा, चाणक्यसंग्रहे । ८ ।
“नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ॥”)
देवदेयभूषणादि यथा, --
“भोग्यभूषोत्तमं नित्यं भूषणानि शृणुष्व मे ।
किरीटञ्च शिरोरत्नं कुण्डलञ्च ललाटिका ॥
तालपत्रञ्च हारश्च ग्रैवेयकमथोर्म्मिका ।
प्रालम्बिका रत्नसूत्रमुत्तुङ्गोऽथर्क्षमालिका ॥
पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा ।
कटिलग्नं माणवको मूर्द्धतारा ललन्तिका ॥
अङ्गदो बाहुबलयः शिखाभूषणमिङ्गिका ।
प्रागण्डबन्धं तद्भ्राशं नाभिपूरोऽथ मालिका ॥
सप्तकी शृङ्खलञ्चैव दन्तपत्रञ्च वर्णकः ।
ऊरुसूत्रञ्च नीवी च मुष्टिबद्धं प्रकीर्णकम् ॥
पादाङ्गदं हंसकञ्च नूपुरं क्षुद्रघण्टिका ।
सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः ॥
चत्वारिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः ।
अलङ्काराः प्रदानेन चतुर्व्वर्गप्रदायकाः ॥
एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये ।
तेषां दैवतमुच्चार्य्य पूजयेत्तु विचक्षणः ॥
शिरोगतानि चादद्यात् सौवर्णानि तु सर्व्वदा ।
चूडारत्नादिकानीह भूषणानि तु भैरव ! ॥
ग्रैवेयकादि हंसान्तं सौवर्णं राजतञ्च वा ।
निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम् ॥
रीतिवङ्गादिसंजातं पात्रोपकरणादिकम् ।
दद्यादायसवर्जन्तु भूषणं न कदाचन ॥
घण्टाचामरकुम्भादि पात्रोपकरणादिकम् ।
तद्भूषणान्तरे दद्याद् यस्मात्तदुपभूषणम् ॥
सर्व्वं ताम्रमयं दद्याद्यत्किञ्चिद्भूषणादिकम् ।
सर्व्वत्र स्वर्णवत्ताम्रमर्ध्यपात्रे ततोऽधिकम् ॥
पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् ।
औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा ॥
ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः ।
सर्व्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् ॥
स्वोपयोगे नरः कुर्य्याद्देवानामपि भैरव ! ।
ग्रीवोर्द्ध्वदेशे रौप्यन्तु न कदाचिच्च भूषणम् ॥
प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च ।
पर्य्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम् ॥
अयोमयमृते कांस्यमृते यद्भूषणं भवेत् ।
स्वर्णरौप्यस्य चाभावे त्वधःकाये नियोजयेत् ॥
एतेषां भूषणादीनां यद्दातुं शक्यते नरैः ।
तत्तद्दद्यात् सम्भवे तु सर्व्वमेव प्रदापयेत् ॥
चतुर्व्वर्गप्रदं नित्यं भूषणं सर्व्वसौख्यदम् ।
तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् ॥
इदं ते भूषणं प्रोक्तं सर्व्वदेवस्य तुष्टिदम् ।”
इति कालिकापुराणे ६८ अध्यायः ॥
अथालङ्कारयुक्तिः । तद्धारणदिनमुच्यते ।
“रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु ।
गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणम् ॥
अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कारधारणम् ।
उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥
शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा ।
कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥
प्रधानभूषणान्येषु यथा स्वं याति निश्चयः ।
पद्मरागश्च वज्रञ्च विजयो गोविदस्तथा ॥
मुक्तावैदूर्य्यनीलञ्च यथा मरकतं क्रमात् ।
आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥
सुवणनापि घटना सर्व्वेषामुपयुज्यते ।
प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥
प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते ।
तस्य प्रधानभूततत्वादित्याह भृगुनन्दनः ।
सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ॥”
इति युक्तिकल्पतरुः ॥
तद्धारणफलम् यथा, --
“भूषणं भूषयेदङ्गं यथायोग्यविधानतः ।
शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ॥
ग्रहदृष्टिहरं पुष्टिकरं दुःखप्रणाशनम् ।
पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥
माणिक्यं तरणेः सुजात्यममलं मुक्ताफलम्
शीतगो-
र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य
गारुत्मतम् ।
देवेज्यस्य च पुष्परागमसुराचार्य्यस्य वज्रं शने-
र्नीलं निर्म्मलमन्ययोश्च गदिते गोमेदवैदूर्य्यके ॥
वासः स्रग्गन्धरत्नानां धारणं प्रीतिवर्द्धनम् ।
रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् ॥”
इति भावप्रकाशः ॥

भूषणः, पुं, (भूयषति भक्तबृन्दमिति भूष्यतेऽनेनेति

वा । भूष + ल्युः वा ल्युट् ।) विष्णुः । यथा, --
“भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।”
इति तस्य सहस्रनामस्तोत्रम् ॥
(राजविशेषः । यथा, कथासरित्सागरे ।
४७ । १३ ।
“वसुदत्तादयश्चैते राजानोऽर्थरथा इमे ।
अङ्कुरी सुविशालश्च दण्डिभूषणसोमिलाः ॥”)

भूषा, स्त्री, (भूष + भावे अः टाप् च ।) अल-

ङ्क्रिया । इत्यमरः । २ । ६ । १०१ ॥ (यथा,
भागवते । ३ । २२ । २२ ।
“दम्पत्योः पर्य्यदात् प्रीत्या भूषावासःपरि-
च्छदान् ॥”)

भूषितः, त्रि, (भूष + क्तः ।) अलङ्कृतः । इत्य-

मरः । २ । ६ । १०० ॥ (यथा, भट्टिः । ६ । ७३ ।
“भृङ्गालीकोकिलक्रुङ्भिवर्पशनैः पश्य लक्ष्मण ! ।
रौचनैर्भूषितां पम्पामस्माकं हृदयाविघम् ॥”)
पृष्ठ ३/५३८

भूष्णुः, त्रि, (भू + ग्स्नु ।) भवनशीलः । तत्-

पर्य्यायः । भविष्णुः २ भविता ३ । इत्यमरः ।
३ । १ । २९ ॥ साधुभवनशीलः । इति
तट्टीकायां रायमुकुटः ॥ (यथा, मनौ । ४ ।
१३५ ।
“क्षत्रियं चैव सर्पं च ब्राह्मणञ्च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥”
“भूष्णुः, धनायुरादिना वर्द्धनशीलः ।” इति
तट्टीकायां कुल्लूकभट्टः ॥)

भूसुतः, पुं, (भुवः पृथिव्याः सुतः ।) मङ्गलग्रहःः ।

इति शब्दमाला ॥ (यथा, सूर्य्यसिद्धान्ते ।
२ । ५५ ।
“महत्त्वाच्छीध्रपरिधेः सप्तमे भृगुभूसुतौ ॥”)
सीतायाम् स्त्री ॥

भूस्तृणं, क्ली, (भूलग्नं तृणं भुवस्तृणमिति वा ।

पारस्करादित्वात् सुट् ।) भूतृणम् । इत्यमरः ।
२ । ५ । १६७ ॥ (यथा, मनौ । ६ । १४ ॥
“वर्जयेन्मधुमांसञ्च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ॥”)
अस्य पर्य्यायगुणा यथा, --
“गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम् ।
भूस्तृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥
भूस्तृणं कटुकं तिक्तं तीक्ष्णोष्णं रोचनं
लघु ।
विदाहि दीपनं रूक्षमनेत्र्यं मुखशोधनम् ।
अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम् ॥”
इति भावप्रकाशः ॥

भूस्पृक्, [श्] पुं, (भुवं स्पृशतीति स्पृश् + क्विन् ।)

मनुष्यः । इति हेमचन्द्रः । ३ । १ ॥

भूस्वर्गः, पुं, (भुवि स्वर्ग इव अमरलोकधार-

णात् ।) सुमेरुपर्व्वतः । इति जटाधरः ॥

भृञ, भृतिपुष्ट्योः । इति कविकल्प-

द्रुमः ॥ (भ्वा०-उभ०-सक०-
अनिट् । लि-ह्वा०-उभ०-सक०-अनिट् ।) भृति-
र्भरणं पुष्टिः पोषणम् । लि ञ “बिभर्त्ति शशिनं
शम्भुर्बिभृते जनकः सुतम् । टु भरथुः । ङु
भृत्रिमम् । भ्वादिपक्षे भृतिः पूरणम् । ञ भरति
कुम्भमद्भिर्जनः । भरते । इति दुर्गादासः ॥

भृ लि टु डु ञ भृतिपुष्ट्योः । इति कविकल्प-

द्रुमः ॥ (भ्वा०-उभ०-सक०-
अनिट् । लि-ह्वा०-उभ०-सक०-अनिट् ।) भृति-
र्भरणं पुष्टिः पोषणम् । लि ञ “बिभर्त्ति शशिनं
शम्भुर्बिभृते जनकः सुतम् । टु भरथुः । ङु
भृत्रिमम् । भ्वादिपक्षे भृतिः पूरणम् । ञ भरति
कुम्भमद्भिर्जनः । भरते । इति दुर्गादासः ॥

भृकुंशः, पुं, (कुसि + अच् । कुसो भावदीपनम् ।

पृषोदरादित्वात् सस्य शत्वम् । भ्रुवा कुशो भाव-
प्रकाश इङ्गितज्ञापनं यस्य । निपातनात् सम्प्र-
सारणम् ।) भ्रुकुंशः । स्त्रीवेशधारी नट-
पुरुषः । इत्यमरटीकायां रमानाथः ॥

भृकुंसः, पुं, (चुरादौ पट पुटेत्यादि दण्डकोक्तः

कुसिर्भाषार्थः । स्त्रीवेशं धारयित्वा भ्रुवः कुस-
यति पुरुषत्वमिति संज्ञात्वादुकारस्य अकारः
ह्रस्वश्च वा । कुसि + अच् । यद्वा भ्रुवा कुंस
इङ्गितप्रकाशो यस्य । निपातनात् सम्प्रसार
णम् ।) भ्रुकुंशः । स्त्रीवेशधारी नटपुरुषः ।
इत्यमरटीकायां रमानाथः ॥

भृकुंसकः, पुं, (भृकुंस एवेति स्वार्थे कन् ।)

भ्रुकुंशः । इति शब्दरत्नावली ॥

भृकुटिः, स्त्री, (कुट कौटिल्ये इति कुट + इन् ।

भ्रुवः कुटिः कौटिल्यं निपातनात् वा सम्प्रसार-
णम् ।) भ्रूकुटिः । यथा, --
“रचितभृकुटिबन्धं नन्दिना द्बारि रुद्धे ।”
इति भरतधृतहरविलासः ॥

भृकुटी, स्त्री, (भृकुठि । कृदिकारादिति ङीष् ।)

भ्रूकुटिः । इत्यमरटीकायां भरतः ॥ भृकुटी-
कुटिलाननौ । इति मार्कण्डेयपुराणे देवी-
माहात्म्यञ्च ॥

भृगुः, पुं, (तपसा भृज्ज्यते पञ्चतपादिभिर्वेति ।

भ्रस्ज + “प्रथिम्रादिभ्रस्जां सम्प्रसारणं सलो-
पश्च ।” उणा० १ । २९ । इति कुः सम्प्रसारणं
सलोपः, न्यङ्कादित्वात् कुत्वञ्च । यद्वा भृज्जतीति
क्विप् । भृक् ज्वाला तया सहोत्पन्न इति उः ।)
मुनिविशेषः । स तु ब्रह्मणस्त्वचो जातः ।
(यथास्योत्पत्तिर्नामनिरुक्तिश्च महाभारते ।
१३ । ८५ । १०५ -- १०६ ।
“पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः ।
भृगित्येव भृगुः पूर्ब्बमङ्गरेभ्योऽङ्गिराभवत् ॥
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् ।
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद् भृगुः
स्मृतः ॥”)
अस्य भार्य्या कर्द्दममुनिकन्या ख्यातिः । पुत्त्रः
धाता विधाता च । कन्या श्रीः । इति श्रीभाग-
वतम् ॥ अपि च ।
मुनय ऊचुः ।
“कथितस्ते यदा सर्गः पृष्टः सूत त्वयाधुना ।
भृगुसर्गात् प्रभृत्येष सर्गो नः कथ्यतां पुनः ॥”
सूत उवाच ।
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्ब्बमुदधेः
पुनः ।
तथा धाता विधाता च तस्यां जातौ भृगोः
सुतौ ॥
आयतिर्नियतिश्चैव मेरुकन्ये महाप्रभोः ।
घातुर्विधातुस्ते भार्य्ये ययोर्जातौ सुतावुभौ ॥
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ।
ततो वेदशिरा जज्ञे प्राणस्य द्युतिमान् मुतः ॥
ततो वंशो मुनिश्रेष्ठा विस्तरं भार्गवो गतः ।
इत्याद्ये वह्निपुराणे वरसर्गनामाध्यायः ॥ * ॥
शिवः । शुक्रग्रहः । इति मेदिनी । गे, १५ ॥
सानुः । यमदग्निः । इति हेमचन्द्रः ॥ अरण्य-
कण्टकव्याप्तगिरिपार्श्वोच्चदेशः । निरवलम्बन-
पर्व्वतादिपार्श्वः । आरडि इति ख्यातम् ।
यस्मात् पतने अक्स्थानक्रियाविशेषो नास्ति ।
अतएव भृगुपतनमित्यादिप्रयोगो दृश्यते । इति
भरतः ॥ तत्पर्य्यायः । प्रपातः २ अतटः ३ ।
इत्यमरः । २ । ३ । ४ ॥ दरद् ४ । इति जटाधरः ॥
पतनस्थानम् ५ । इति शब्दरत्नावली ॥

भृगुपतिः, पुं, (भृगूनां तद्वंशीयानां पतिः ।)

परशुरामः । इति शब्दरत्नावली ॥ (यथा,
गीतगोविन्दे । १ । १० ।
“केशवधृत भृगुपतिरूप ! जय जगदीश ! हरे ! ।
तथा च मेघदूते । १ । ५९ ।
“हंसद्वारं भृगुपतियशो वर्त्म यत् क्रौञ्च-
रन्ध्रम् ।”)

भृगुसुतः, पुं, (भृगोः सुतः ।) शुक्रः । इति शब्द-

रत्नावली ॥ परशुरामश्च ॥

भृगुलापतिः, पुं, परशुरामः । इति शब्दरत्नावली ॥

भ्रगूणाम्पतिरित्यपि पाठः ॥

भृङ्गं, क्ली, (बिभर्त्तीति । डु-भृञ् भरणे । “भृञः

कित् नुट् च ।” उणा० १ । १२४ । इति
गन् । स च कित् नुडागमश्च ।) त्वचम् ।
गुडत्वक् इति ख्यातम् । इत्यमरः । २ । ५ ।
१६ ॥ (यथा, --
“त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चेचन्तथोत्-
कटम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अभ्रकम् । इति राजनिर्घण्टः ॥

भृङ्गः, पुं, (विभर्त्त्यनुरागमिति । भृञ् + “भृञः

कित् नुट् च ।” उणा० १ । १२४ । इति गन् ।
स च कित् नुट् च ।) भ्रमरः । कलिङ्गपक्षी ।
इत्यमरः । २ । ५ । १६ । फिङ्गा इति भाषा ॥
(अस्य पर्य्याया धूम्याटशब्दे द्रष्टव्याः ।) अस्य
मांसगुणाः । मधुरत्वम् । स्निग्धत्वम् । कफशुक्र-
विवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ षिड्गः ।
भृङ्गराजः । इति मेदिनी गे, १५ ॥ (यथास्य
पर्य्यायः ।
“भृङ्गराजः केशराजो भृङ्गः पत्तङ्ग मार्कवम्
इति वैद्यकरत्नमालायाम् ॥
तथा च पर्य्यायान्तरम् ।
“भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च ।
अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भृङ्गारः । भृङ्गरोलः । इति शब्दरत्नावली ॥

भृङ्गकः, पुं, (भृङ्ग । संज्ञायां कन् ।) राजवासन-

पक्षी । यथा, --
“अथ भृङ्गो भृङ्गराजो भृङ्गको राजवासनः ॥”
इति शब्दरत्नावली ॥

भृङ्गजं, क्ली, (भृङ्ग इव जायत इति । जन

+ डः ।) अगुरु । इति रत्नमाला ॥ (गुणा-
श्चास्यागुरुशब्दे विहिताः ॥)

भृङ्गजा, स्त्री, (भृङ्गज + स्त्रियां टाप् ।) भार्गी ।

इति राजनिर्घण्टः ॥

भृङ्गपर्णिका, स्त्री, (भृङ्ग इव कार्ष्ण्यात् भृङ्गवर्णं

पर्णमस्याः इति ङीष् । ततः स्वार्थे कन् टाप् ।
अत इत्वञ्च । ईकारस्य ह्रस्वत्वम् ।) सूक्ष्मैला ।
इति शब्दचन्द्रिका ॥

भृङ्गप्रिया, स्त्री, (भृङ्गाणां प्रिया । प्रचुर-

मधुत्वात् ।) माधवीलता । इति राज-
निर्घण्टः ॥

भृङ्गमूलिका, स्त्री, (भृङ्गस्य भृङ्गराजस्येव मूल-

मस्याः कः । अजातिवचनत्वात् टाप् । कापि
अत इत्वञ्च ।) भ्रमरच्छल्ली । इति राज-
निर्घण्टः ॥
पृष्ठ ३/५३९

भृङ्गरजः, पुं, (भृङ्गान् रञ्जयतीति अन्तर्भूत-

ण्यर्थाद् रञ्जोऽच् । पृषोदरादित्वात् न
लोपः ।) भृङ्गराजः । इति भावप्रकाशः ॥
(यथा, --
“भृङ्गरजत्रिफलोत्पलशारि-
लौहपुरीषसमन्वितकारि ॥”
इति वैद्यकचक्रपाणिसंग्रहे क्षुद्राधिकारे ॥)

भृङ्गरजाः, [स्] पुं, (रजयतीति । अन्तर्भूत-

ण्यर्थातः रञ्जे “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ ।
१८८ । इति असुन् । ततो “रजेश्च ।” ६ । ४ । २६ ।
इति नलोपः । ततो भृङ्गाणां रजाः रञ्जकः ।
अथवा भृङ्ग इव कृष्णवर्णं रजः परागोऽस्य ।)
भृङ्गराजः । इत्यमरटीकायां भरतः ॥

भृङ्गराजः, पुं, (भृङ्गैव राजते इति । भृङ्ग + राज्

+ अच् । द्रव्यद्वारेण भृङ्गवत् केशकृर्ष्णीकरणा-
त्तथात्वम् ।) क्षुपविशेषः । केसुरिया इति वङ्ग-
भाषा । भेगरिया इति हिन्दीभाषा । तत्-
पर्य्यायः । केशराजः २ भृङ्गः ३ पत्तङ्गः ४
मार्करः ५ । इति रत्नमाला ॥ भृङ्गाह्वः ६ केश-
रञ्जनः ७ पितृप्रियः ८ अङ्गारकः ९ केश्यः १०
कुन्तलवर्द्धनः ११ । अस्य गुणाः । तिक्तत्वम् ।
उष्णत्वम् । चक्षुष्यत्वम् । केशरञ्जनत्वम् । कफा-
मशोफश्वित्रनाशित्वम् । तत्र नीलो रसायनः ।
इति राजनिर्घण्टः ॥ अपि च ।
“भृङ्गराजो भङ्गरजः मार्करो भृङ्ग एव च ।
भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥
भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् ।
केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ॥
दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्ति-
जित् ॥”
इति भावप्रकाशः ॥
पक्षिविशेषः । (यथा, महाभारते । ३ । १०८ । ७ ।
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥”)
भ्रमरः । इति मेदिनी । जे, ३४ ॥ यज्ञभेदः ।
इति धरणिः ॥

भृङ्गरिटिः, पुं, (भृङ्ग इव रटति इति । भृङ्ग + रट

+ इन् । पृषोदरादित्वादिकारागमः ।) शिव-
द्वारपालः । इति भूरिप्रयोगः ॥

भृङ्गरीटः, पुं, (भृङ्गरिटि । पृषोदरात् ईत्वम् ।)

शिवद्वारपालः । इति भूरिप्रयोगः ॥

भृङ्गरोलः, पुं, (भृङ्ग इव रौति । भृङ्ग + रु +

बाहुलकात् ओलच् । अस्य भृङ्गतुल्यशब्दत्वा-
त्तथात्वम् ।) कीटविशेषः । भीम्रुल् इति
भाषा । तत्पर्य्यायः । विषसृक्का २ वरोलः ३
तृणषट्पदः ४ । इति त्रिकाण्डशेषः ॥

भृङ्गवल्लभः, पुं, (भृङ्गाणां वल्लभः प्रियः ।) धारा-

कदम्बः । भूमिकदम्बः । इति राजनिर्घण्टः ॥

भृङ्गवल्लभा, स्त्री, (भृङ्गाणां वल्लभा ।) भूमिजम्बूः ।

इति राजनिर्घण्टः ॥

भृङ्गसोदरः, पुं, (भृङ्गाणां सोदरस्तुल्यः ।) केश-

राजः । इति त्रिकाण्डशेषः ॥

भृङ्गानन्दा, स्त्री, (भृङ्गाणामानन्दो यस्याः

पञ्चमी तत्पुरुषः । भृङ्गाणां आनन्दा आनन्द-
करी वा ।) यूथिका । इति राजनिर्घण्टः ॥

भृङ्गाभीष्टः, पुं, (भृङ्गाणां अभीष्टः प्रियः । मधु

बाहुल्यात् ।) आभ्रवृक्षः । इति राज-
निर्घण्टः ॥ तन्मुकुलफलयोः क्ली ॥

भृङ्गारं, क्ली, (डुभृञ् धारणपोषणयोरिति । भृ +

“शृङ्गारभृङ्गारौ ।” उणा० ३ । १३६ । इति
आरन् निपातनात् नुम् गुक् च ।) लवङ्गम् ।
सुवर्णम् । इति राजनिर्घण्टः ॥

भृङ्गारः, पुं, (भृ + आरन् नुम् गुक् च । अथवा

“भृङ्गं जलमियर्त्त्यनेनेति ।” भृङ्गं + ऋ + करणे
घञ् । इत्यमरटीकायां रघुनाथः ॥ स्वर्णघटित-
वारिपात्रम् । (यथा मार्कण्डेयपुराणे । ८ । २०३ ।
“नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः ॥”)
तत्पर्य्यायः । कनकालुका २ इत्यमरः ॥ गुडुकः
३ गडुकः ४ । इति शब्दरत्नावली ॥ भृङ्ग-
राजः । इति जटाधरः ॥ अथ भृङ्गारोद्देशः ।
“राज्ञोऽभिषेकपात्रं यद्भृङ्गार इति तन्मतम् ।
तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥
सौवर्णं राजतं भौमं ताम्रं स्फाटिकमेव च ।
चान्दनं लौहजं शार्ङ्गमेतदष्टविधं मतम् ॥
भानुदिङ्नवसप्ताष्टरुद्रलोकसुरोन्मिताः ।
अष्टावष्टौ समाख्याता आयामपरिणाहयोः ॥
द्विचतुर्बाणवेदाब्धिबाणसप्तात्मवृत्तिता ।
यथाक्रमं समुद्दिष्टमादित्यादिदशा भुवाम् ॥
पद्मरागस्तथा वज्रं वैदूर्य्यमौक्तिकन्तथा ।
नीलं मारकतञ्चैव मुक्ता च सप्त कीर्त्तिताः ॥
भृङ्गारसप्तके न्यास्या न भौमो मणिमहति ।
कानकं मृण्मयं वापि सर्व्वेषामुपयुज्यते ॥
कानकन्तु क्षितीशानां मृण्मयं सार्व्वयोगिकम् ।
शङ्खपद्मेन्दुकह्लारं प्रत्यस्रं विन्यसेत् क्रमात् ॥
चतुर्व्विधानां भूपानां चान्द्रः सर्व्वत्र शस्यते ।
श्वेतं रक्तं तथा पीतं कृष्णं चन्दनमुच्यते ।
एतेषां सलिलैः सेकश्चतुर्णां स्यान्महीभुजाम् ॥
मल्ली पद्मञ्च नीलञ्च तथा कृष्णापराजिता ।
एषां पुष्पाणि केशेषु चतुर्जातिमहीभुजाम् ॥
हीरकं पद्मरागश्च वैदूर्य्यं नीलमेव च ।
चत्वारो मणयो धेयाश्चतुर्णां सेचनाम्भसि ॥
इत्थं निश्चित्य यः कुर्य्यान् नृपतिः सेकमात्मनः ।
स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥”
इति युक्तिकल्पतरौ भृङ्गारोद्देशः ॥

भृङ्गारिः, स्त्री, (भृङ्गं भृङ्गवद्वर्णमृच्छतीति । ऋ +

इन् ।) केविकापुष्पम् । इति राजनिर्घण्टः ॥

भृङ्गारिका, स्त्री, (भृङ्ग + ऋ + “कर्म्मण्यश्” ३ ।

२ । १ । इति अण् । भृङ्गारः ततः कन् । टाप्
अत इत्वञ्च ।) झिल्लिका । यथा, --
“झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका
च सा ।”
इति हेमचन्द्रः । ४ । ८२ ॥

भृङ्गारी, स्त्री, (भृङ्गमियर्त्ति रूपेणानुकरोति

“कर्म्मण्यण् ।” ३ । २ । १ । इति अण् । भृङ्गार-
स्ततः गौरादित्वात् ङीप् । रस्य लत्वे भृङ्गाली
च ।) झिल्ली इत्यमरः । २ । ५ । २८ ॥

भृङ्गाह्वः, पुं, (भृङ्गमाह्वयते स्पर्द्धते इति । आ +

ह्वे + कः ।) जीवकः । भृङ्गराजः । इति राज-
निर्घण्टः ॥ (विवृतिरस्य जीवकभृङ्गराजशब्द-
योर्ज्ञातव्या ॥

भृङ्गाह्वा, स्त्री, (भृङ्गमाह्वयते स्पर्द्धते । भृङ्ग + आ

+ ह्ले + कः स्त्रियां टाप् ।) भ्रमरच्छल्ली । इति
राजनिर्घण्टः ॥

भृङ्गिः, पुं, (विभर्त्तीति । भृ + बाहुलकात् गिक्

नुट् च ।) भृङ्गी । यथा, --
“प्राप्ता गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति
स्मृतः ।”
इति वामनपुराणे ४५ अध्यायः ॥

भृङ्गिणी, स्त्री, (भृङ्गवत् वर्णो अस्या अस्तीति

इनिः । ङीप् ।) वटीवृक्षः । इति राज-
निर्घण्टः ॥

भृङ्गी, स्त्री, (भृ + गक् + नुट् + गौरादित्वात्

ङीष् ।) अतिविषा । इति राजनिर्घण्टः ॥

भृङ्गी, [न्] पुं, (भृङ्गः भृङ्गवद्वर्णोऽस्यास्तीति ।

इनिः ।) वटवृक्षः । इति राजनिर्घण्टः ॥ शिव-
द्वारपालविशेषः । तत्पर्य्यायः । भृङ्गेरिटिः २
भृङ्गरीटः ३ शलः ४ नाडीदेहः ५ अस्थिविग्रहः
६ । इति त्रिकाण्डशेषः ॥ भृङ्गरिटिः ७ । इति
भूरिप्रयोगः ॥ तस्य जन्मकारणं यथा, --
ईश्वर उवाच ।
“रतिमात्रेण नोमायां मत्पुत्त्रः संभविष्यति ।
महामैथुनसंत्यागात् स्यादपुत्त्री च पार्व्वती ॥
तस्मादहन्तु देवानां वचनाद्ब्रह्मणस्तथा ।
त्यक्ष्ये महामैथुनन्तु किन्त्वेकं करुतामराः ! ॥
येन मे सुमहत्तेजो महामैथुनकारणम् ।
धार्य्यं तेजस्विनं देवमानयन्त्वमरास्तु तम् ॥
यो निष्कम्पो निर्व्विकारो भूत्वा तेजो ग्रही-
ष्यति ।
तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ॥”
श्रीऔर्व्व उवाच ।
“वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः ।
हरतेजोग्रहायाथ वीतिहोत्रं ययुर्ह्रिया ॥
अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् ।
सेन्द्रा देवगणाः सर्व्वे हरमूचुरिदं वचः ॥”
श्रीदेवा ऊचुः ।
“एष वैश्वानरः श्रीमान् भूरितेजोमयो बली ।
महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति ॥
इत्युक्त्वा त्रिदशाः सर्व्वे बीतिहोत्रं पुरःस्थितम् ।
तस्मै निदेशयामासुः शम्भवे सर्व्वहेतवे ॥
ततः षडङ्गं स्वं रेतो व्यादिते दहनानने ।
उसत्सर्ज महाबाहुर्महामैथुनकारणम् ॥
अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः ।
अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥
तयोः कारणयोः सद्यः सम्भूतौ शङ्करात्मजौ ।
एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ॥
भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरीत् ।
पृष्ठ ३/५४०
महाकृष्णैकरूपस्य महाकालेति लोकभृत् ॥
ततस्तौ लालयामास शङ्करः प्रमथोत्करैः ।
अपर्णया चापि तथा क्रमात्तावभिवर्द्धितौ ॥
प्रवृद्धौ तौ महात्मनौ हरोमाप्रतिपालितौ ।
क्रमाद्गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् ॥”
इति कालिकापुराणे ४५ अध्यायः ॥
तस्य वानरमुखत्वकारणं तच्छापेन हरपार्व्व
त्योश्चापिमनुष्यजन्मग्रहणं यथा, --
“यदा सा नर्म्मणे याता गौरी स्मरहरा-
न्तिकम् ।
तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ ।
नर्म्मावसाने सा देवी मुक्तधम्मिल्लबन्धना ।
निःसृता रतिसङ्केतशालाया जलजानना ॥
तां निःसरन्तीं सहसा तथाभूतामनिन्दिताम् ।
अयोग्यां वीक्षितुं चान्यैर्वृषध्वजमृते प्रियम् ॥
ददर्शतुर्महात्मानौ नातिहृष्टात्ममानसौ ।
भृङ्गी चापि महाकालः प्राप्तकालश्च कोपतः ॥
दृष्ट्वा तौ मातरं दीनौ तदा भूतावधोमुखौ ।
चिन्ताञ्च जग्मतुस्तीव्रां निशश्वसतुरुत्तमम् ॥
तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता ।
चुकोप च तदापर्णा वाक्यञ्चैतदुवाच ह ॥
एवम्भूतान्तु मां कस्मादसम्बद्धामपश्यताम् ।
भवन्तौ तनयौ शुद्धौ ह्रीमर्य्यादाविवर्जितौ ॥
तस्मादिमाममर्य्यादां भवन्तौ निरपत्रपौ ।
अकुर्व्वतां ततो भूयाद्भवतोर्जन्म मानुषे ॥
मानुषीं योनिमासाद्य ममावेक्षणदोषतः ।
भविष्यतो भवन्तौ तु शाखामृगमुखौ भुवि ॥
तौ प्राप्तदुःखौ तु तदा विमनस्कौ हरात्मजौ ।
शापं तस्या न सेहाते प्रोचतुश्चेदमद्रिजाम् ॥
नियोजितौ यथा द्वारि महेशेन त्वया सह ।
तथा नियोगं कुर्व्वन्तौ तिष्टावो द्बारि संयतौ ।
हठान्निःसरणं गेहात्तवैव न हि युज्यते ॥
तस्मात्तत्र प्रतीकारं शृणु मातरनिन्दिते ! ।
त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः ॥
मानुषस्य हरस्यावां जायायां हरतेजसा ।
भवत्याञ्चापि मानुष्या भविष्यावस्तथोदरे ॥
अथ काले व्यतीते तु सर्व्वज्ञो वृषभध्वजः ।
तद्भावि कर्म्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम् ॥
ब्रह्मणो दक्षिणाङ्गुष्ठाद्दक्षो ब्रह्मसुतोऽभवत् ।
अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत् ॥
पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः ।
यस्य तुल्यो नृपो भूमौ न भूतो न भविष्यति ॥
स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ।
शेषे वयसि संप्राप्ते भार्य्याभिस्तिसृभिः सह ॥
पौष्यः परमया भक्त्या ब्रह्माणं पर्य्यतोषयत् ।
तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः ॥
ब्रह्मोवाच ।
शृणु पौष्य ! यथा भावी पुत्त्रस्तव कुलोद्बहः ।
तदहं ते वदिष्यामि भार्य्याभिस्तत् समाचर ॥
इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम ! ।
अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा ॥
फलमेतत् समादाय यावत् संवत्सरद्वयम् ।
आराधय महादेवं सुप्रसन्नो भविष्यति ॥
यथा संभाषते भर्गः फलमेतत्तथा भवान् ।
करिष्यंति फलं राजन् ! भार्य्याभिस्तिसृभिः सह ॥
इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः ।
हरं यष्टुं समारेभे भक्त्या परमया युतः ॥
स तु वर्षद्वयेऽतीते महादेवो जगत्पतिः ।
पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये ॥
ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः ।
ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच ह ॥
ईश्वर उवाच ।
इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा ।
भोजयेस्ताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः ॥
एकस्या जठरे शीर्षं भार्य्यायास्ते भविष्यति ।
अपरस्यास्तथा कुक्षौ मध्यभागो भविष्यति ।
अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति ॥
ततः खण्डत्रयं भूप ! यथास्थानं पृथक् पृथक् ।
योजयिष्यति पश्चात्ते पुत्त्र एको भविष्यति ॥
ततः फले स्वयं देवः प्रविवेश वृषध्वजः ।
तत्क्षणात् तत् फलं भूतं त्रिभागं स्वयमेव हि ।
ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ॥
तत् फलं नृपशार्द्दूल ! गर्भाश्चाप्याहिताः
शुभाः ।
सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ॥
खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ।
तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य च ॥
एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ।
तस्य शीर्षे तदा राजन् ! सहजेन्दुकला शुभा ॥
तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ।
चन्द्रशेखर इत्येवं कान्त्या चन्द्रसमप्रभः ॥
एवं तिसॄणामम्बानां गर्भे जातो यतो हरः ।
अतस्त्र्यम्बकनामाभूत् प्रथितो देवलोकयोः ॥”
इति कालिकापुराणे ४६ अध्यायः ॥
“अवतीर्णे महादेवे पौष्यजायासु स्वेच्छया ।
मानुषेण प्रमाणेन तेन सम्बत्सरद्बये ।
गिरिजापि ककुत्स्थस्य राज्ञो भार्य्यास्वजायत ॥”
“इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्म्मिकः ।
तस्य भार्य्या महाभागा भर्गदेवस्य पुत्त्रिका ॥
सा मनोन्मथिनी नाम्ना पूजिता पतिबल्लभा ।
पुत्त्री न विद्यते तस्यास्तदर्थं सा गृहान्तरे ।
निभृतं स्थण्डिलं कुत्वा चण्डिकां समपूजयत् ॥
पूज्यमाना महादेवी चण्डिका राजभार्य्यया ।
पार्व्वत्यपि स्वयं तस्या गर्भे काले विवेश ह ॥
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् ।
तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां
शुभाम् ॥
ककुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितोऽभवत् ॥
तेनैव हारचिह्नेन तस्यां तारावतीति वै ।
नाम्नाकरोत् पिता काले यथोक्ते नृपसत्तम ! ॥
तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह ।
ककुत्स्थः कारयामास समयेऽथ स्वयम्बरम् ।
स्वयं सा पार्व्वती देवी वव्रे च चन्द्रशेखरम् ॥
इति स्वयं महादेवो मानुषीं योनिमाश्रितः ।
पार्व्वती च स्वयं जाता नरयोनावनिन्दिता ॥
यथा भृङ्गी महाकाल एतयोरभवत् सुतः ।
तथा त्वं शृणु राजेन्द्र ! कथयामि समुद्भवम् ॥
अथोमया समं देवो वियता चन्द्रशेखरः ।
आजगाम तदा गच्छन् प्रासादं प्रतितं नृप ! ॥
ददृशेऽथ चरन्तीं तामुमायाः सदृशीं गुणैः ।
सर्व्वलक्षणसम्पूर्णां माधवस्येव माधवीम् ॥
तां दृष्ट्वा न्यगदद्देवीं गौरीं वृषभकेतनः ।
इयं ते मानुषी मूर्त्तिः प्रिये ! तारावतोति या ॥
भृङ्गी महाकालयोस्ते जन्मने विहिता स्वयम् ।
त्वत्तो ह्यनन्यकान्तोऽहं नान्यां गन्तुमिहोत्-
सहे ॥
त्वमिदानीं स्वयञ्चास्यां मूर्त्त्यां प्रविश
भाविनि ! ।
तत उत्पादयिष्यामि महाकालञ्च भृङ्गिणम् ॥
श्रीदेव्युवाच ।
ममैव मानुषी मूर्त्तिरियं बृषभकेतन ! ।
विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥
प्रविवेश ततो देवी स्वयं तारावतीतनौ ।
महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥
ततः सापर्णयाविष्टा देवी तारावती सती ।
कामयानं महादेवं स्वयमेवाभवन्मुदा ॥
कामावसाने तस्यान्तु सद्योजातं सुतद्वयम् ।
अभवन् नृपशार्द्दूल ! तथा शाखामृगाननम् ॥
ततस्तयोर्नाम चक्रे नारदो वचनान् नृप ! ।
ज्येष्ठो भैरवनामाभूत् भीरोः पुत्त्रो भयङ्करः ॥
वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः ।
इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः ॥
अन्यांश्च सर्व्वसंस्कारान्नारदो मुनिसत्तमः ।
चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः ॥”
इति कालिकापुराणे ४७ । ४८ । ४९ अध्यायेभ्यः
संकलितम् ॥ तस्य जन्मनः प्रकारान्तरं यथा,
वेण उवाच ।
प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥
अथैनमब्रवीद्देवस्त्रैलोक्याधिपतिर्भवः ।
आश्वासनकरञ्चास्य वाक्यविद्वाक्यमुत्तमम् ॥
अहो तुष्टोऽस्मि ते राजन् ! स्तवेनानेन सुव्रत ! ।
बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि ॥
उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः ।
असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ॥
हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि ।
पूर्ब्बाधर्म्मेण घोरेण वेदनिन्दाकृतेन च ॥
साभिलाषो जगन्मातुर्भविष्यसि यदा तदा ।
देहं शूलेन हत्वा ते पातयिष्यामि साध्विमम् ॥
तत्राप्यकल्मषो भूतः स्तुत्वा मां भक्तितः पुनः ।
प्राप्त्वा गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः ।
मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि ॥”
ततः कालान्तरे अन्धककृतस्तवानन्तरं महा-
देववाक्यम् यथा, --
“सिद्धोऽसि दानवपते ! परितुष्टोऽस्मि तेऽन्धक ! ।
वरं वरय भद्रं ते यमिच्छसि विनाम्बिकाम् ॥
पृष्ठ ३/५४१
अन्धक उवाच ।
अम्बिका जननी मह्यं भगबांस्त्र्यम्बकः पिता ।
बन्दामि चरणौ मातुर्बन्दनीया ममाम्बिका ॥
वरदोऽसि यदीशान ! तद्यातु विलयं मम ।
शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम् ॥
तथा मे दानवो भावो ह्यपयातु महेश्वर ! ।
स्थिरा स्यात्तव भक्तिस्तु वरमेतं प्रयच्छ मे ॥
महेश्वर उवाच ।
एवं भवतु दैत्येन्द्र ! पापं ते यातु संक्षयम् ।
मुक्तोऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव ॥
इत्येवमुक्त्वा वरदः शूलाग्रादवतार्य्य तम् ।
निर्म्माज्य निजहस्तेन चक्रे निर्व्रणमन्धकम् ॥
ततः स्वदेहतो देवान् ब्रह्मादीनाजुहाव सः ।
ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम् ॥
गणान् स नन्दी चाहूय सन्निवेश्य तदग्रतः ।
भृङ्गिणं दर्शयामास ब्रुवन्नेषोऽन्धकेति हि ॥
ते दृष्ट्वा दानवपतिं संशुष्कपिशितं रिपुम् ।
गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम् ॥”
इति वामनपुराणे । ४४ । ४५ । ६७ अध्यायेभ्यः
सङ्कलितम् ॥

भृङ्गीफलः, पुं, (भृङ्ग्याः अतिविषायाः फलमिव

फलं यस्य ।) आम्रातकवृक्षः । इति राज-
निर्घण्टः ॥

भृङ्गीशः, पुं, (भृङ्गिणो भृङ्गेर्वा ईशः ।) महा-

देवः । इति शब्दरत्नावली ॥

भृङ्गेरिटिः, पुं, (भृङ्गे भृङ्गविषये रिटति । अभि-

लषतीति । भृङ्गे + रिट् कर्त्तरि इः । अलुक्
समासः ।) भृङ्गी । इति त्रिकाण्डशेषः ॥

भृङ्गेष्टा, स्त्री, (भृङ्गाणामिष्टा ।) घृतकुमारी ।

भार्गी । तरुणी । काकजम्बूः । इति राज-
निर्घण्टः ॥

भृज ई ङ भर्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) भर्जनं पाकविशेषः । ई
भृक्तः । ङ भर्जते तण्डुलान् जनः । इति दुर्गा-
दासः ॥

भृज्जनः, पुं, (भृज्यन्ते तण्डुलादयोऽस्मिन्निति ।

भ्रस्ज् + “भूसूधूभ्रस्जिभ्यश्छन्दसि ।” उणा०
२ । ८० । इति क्युन् ।) अम्बरीषः । इति
उणादिकोषः । भाजना खोला इति भाषा ॥

भृतः, त्रि, भरणीयः । इत्याह्निकतत्त्वम् । पुष्टः ।

इति भृधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥

भृतकः, पुं, (भ्रियते इति । भृ + कर्म्मणि क्तः ।

ततः स्वार्थे कन् । यद्वा, भृतेन वेतनेन उपजीव-
तीति कन् ।) वेतनोपजीविकर्म्मकर्त्ता । तत्-
पर्य्यायः । भृतिभुक् २ कर्म्मकरः ३ वैतनिकः ४ ।
इत्यमरः । २ । १० । १५ ॥ (यथा, मनौ । ३ । १५६ ।
“भृतकाध्यापको यश्च भृताध्यापितस्तथा ॥”)

भृतिः, स्त्री, (भ्रियते अनयेति । भृ + क्तिन् ।)

वेतनम् । इत्यमरः । २ । १० । ३८ ॥ मूल्यम् ।
भरणम् । इति मेदिनी । ते, ४२ ॥ भृतिर्वेतनं
कृतकर्म्मणे दत्तम् । तत्तु सप्तविधदत्तान्तर्गत-
दत्तविशेषः । यथा नारदेन च । दत्तं सप्त-
विधं प्रोक्तमदत्तं षोडशात्मकमिति प्रतिपाद्य
दत्तादत्तयोः स्वरूपं विवृतम् ।
“पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥”
इति मिताक्षरा ॥

भृतिभुक्, [ज्] पुं, (भृत्या भुङ्क्ते उपजीवतीत्यर्थः ।

भुज् + कर्त्तरि क्विप् ।) भृतकः । इत्यमरः ।
२ । १० । १५ ॥

भृत्यः, पुं, (भ्रियते इति । भृ + “भृञोऽसंज्ञा-

याम् ।” ३ । १ । ११२ । इति क्यप् । “ह्नस्वस्य
पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगा-
गमश्च ।) दासः । इत्यमरः । २ । १० । १७ ॥
(तथास्य पर्य्यायान्तरम् ।
“परिकर्म्मा परिचरः सहायः परिचारकः ।
प्रेष्यो भत्य उपस्थाता सेवकोऽभिषवोऽनुगः ॥”
इति वैद्यकरत्नमालायाम् ॥)
तस्य लक्षणं यथा, --
सूत उवाच ।
“भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः ।
नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥
भृत्यपरीक्षणं वक्ष्ये यस्य यस्य हि यो गुणः ।
तमिमं संप्रवक्ष्यामि यद्यदा कथितानि च ॥
यथा चतुर्भिः कनकं परीक्ष्यते
तुलाघर्षणच्छेदनतापनेन ।
तथा चतुर्भिर्भृतकः परीक्ष्यते
श्रुतेन शीलेन कुलेन कर्म्मणा ॥”
कुलशीलगुणोपेतः सत्यधर्म्मपरायणः ।
रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥
मूल्यरूपपरीक्षाकृद्भवेद्रत्नपरीक्षकः ।
बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥
इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः ।
सर्व्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥
बुद्धिमान् मतिमांश्चैव परचित्तोपलक्षकः ।
क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥
समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः ।
शौर्य्यवीर्य्यगुणोपेतो धर्म्माध्यक्षो विधीयते ॥
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः ।
शौचयुक्तः सदाचारी सूपकारः स उच्यते ॥
आयुर्व्वेदकृताभ्यासः सर्व्वज्ञः प्रियदर्शनः ।
आर्य्यशीलगुणोपेतो वैद्य एष विधीयते ॥
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः ।
आशीर्व्वादपरो नित्यमेष राजपुरोहितः ॥
इति गारुडे ११२ अध्यायः ॥

भृत्या, स्त्री, (भ्रियतेऽनया भरणमिति वा । भृ +

“संज्ञायां समजनिषद्निपतमनविदषुञ् शीङ्
भृञिणः ॥” ३ । ३ । ९९ । इति क्यप् । स्त्रियां
टाप् ।) वेतनम् । इत्यमरः । २ । १० । ३८ ॥
(भरणक्रिया । यथा, ऋग्वेदे । १ । ८४ । १६ ।
“आसन्निषून् हृत्स्वसोमयो भून्य
एषां भृत्यामृणधत्स जीवात् ॥”)

भृमिः, पुं, (भ्रमति भ्राम्यति वेति । भ्रम् + “भ्रमेः

संप्रसारणञ्च ।” उणा० ४ । १२० । इति इन् कित्
सम्प्रसारणञ्च ।) वायुविशेषः । घूरणा वातास
इति भाषा । जलादिभ्रमणम् । इत्युणादि-
कोषः ॥ (त्रि, कर्म्मनिर्व्वाहकः । यथा, ऋग्-
वेदे । १ । ३१ । १६ ।
“आपिः पिता प्रमतिः सोम्यानां
मृमिरस्यृषिकृन्मर्त्त्यानाम् ॥”
“भृमिर्भ्रामकः कर्म्मनिर्व्वाहक इत्यर्थः ।” इति
तद्भाष्ये सायनः ॥ भ्रमणशीलः । यथा, ऋग्-
वेदे । ३ । ६२ । १ ।
“इमा उवां भृमयो मन्यमाना
युवावते न तुज्या अभूवन् ॥”
“भृमयः भ्रमणशीलाः ॥” इति तद्भाष्ये सायनः ॥
वीणाविशेषे स्त्री । यथा, ऋग्वेदे । २ । ३४ । १ ।
“अग्नयो न शुशुचाना ऋजीषिणो भृमिं
धमन्तो अपगा अवृण्वत ॥”
“यद्वा, भृम्याख्यो वीणाविशेषस्तं धमन्तो वाद-
यन्तः ॥” इति तद्भाष्ये सायनः ॥)

भृश, इर् य उ अधःपते । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् ।) इर् अभृशत्
अभर्शीत् । पुषादित्वान्नित्य ङ इत्यन्ये । य भृश्यति
भृश्यत्यरिपताकिनीति हलायुधः ॥ उ भर्शित्वा
भृष्ट्वा । इति । दुर्गादासः ॥

भृशं, क्ली, (भृश्यति प्राचुर्य्येण वर्त्तते इति भृश +

कः ।) अतिशयः । तद्वति, त्रि । इत्यमरः
१ । ७० ॥ (यथा, भारवौ । ११ । ४६ ।
“भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥”

भृशम्, व्य, (भृश + कः ।) प्रकर्षार्थः । मुहुरर्थः ।

शोभनम् । इति शब्दरत्नावली ॥

भृषत्, [द्] पुं, पाषाणः । इति शब्दरत्नावली ॥

भृष्टः, त्रि, (भ्रस्ज + कर्म्मणि क्तः ।) जलोपसेकं

विना पक्वः । इति हेमचन्द्रः ॥ भाजा इति
भाषा ॥

भृष्टतण्डुलः, पुं, (भृष्टश्चासौ तण्डुलश्चेति कर्म्म-

धारयः ।) भर्जनविशिष्टधान्यनिकरः । चाल
भाजा इति भाषा ॥ अस्य गुणाः ।
“सुगन्धिः कफहारूक्षः पित्तलो भृष्टतण्डुलः ॥”
इति राजवल्लभः ॥

भृष्टयवः, पुं, (भृष्टश्चासौ यवश्चेति ।) भर्ज्जन-

विशिष्टयवः । यव भाजा इति भाषा । तत्-
पर्य्यायः । धानाः २ । इत्यमरः ॥ वाट्टकम् ३ ।
इति शब्दचन्द्रिका ॥ अस्य गुणा धानाशब्दे
द्रष्टव्याः ॥

भृष्टान्नं, क्ली, (भृष्टं अन्नम् ।) भृष्टतण्डुलः ।

मुडि इति भाषा । तत्पर्य्यायः । कुहरम् २
न्याट्यम् ३ । इति शब्दचन्द्रिका ॥

भृष्टिः, स्त्री, (भ्रस्ज् + भावे क्तिन् ।) भर्जनम् ।

शून्यवाटिका । इति मेदिनी । टे, २५ ॥

भॄ गि भृतौ । भृजि । भर्त्से । इति कविकल्पद्रुमः ॥

(क्र्या०-पर०-सक०-सेट् ।) गि भृणाति भूर्णः ।
भूर्णिः । भृजि भर्जने । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/भूकलः&oldid=44030" इत्यस्माद् प्रतिप्राप्तम्