शब्दकल्पद्रुमः/भारविः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/५०३

भारविः, पुं, कविविशेषः । स च किरातार्ज्जुनीय-

नामकग्रन्थकर्त्ता । तत्पर्य्यायः । शतपुष्पः २ ।
इति त्रिकाण्डशेषः ॥ तस्य ग्रन्थस्य प्रथम-
श्लोकोऽयम् ।
“श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्बैतवने वनेचरः ॥”

भारवृक्षः, पुं, (काक्षीनामकगन्धद्रव्यम् । इति

शब्दचन्द्रिका ॥

भारहरः, पुं, (हरतीति । हृ + पदाद्यच् । भारस्य

हरः ।) भारवाहकः । इति शब्दरत्नावली ॥

भारहारः, पुं, (भारं हरतीति । हृ + अण् ।)

भारवाहकः । इति शब्दरत्नावली ॥

भारिः, पुं, (इभस्य अरिः । पृषोदरादित्वात्

इलोपः ।) सिंहः । इति हेमचन्द्रः ॥

भारिकः, पुं, (भारोऽस्ति वाह्यतयास्य । “अत

इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) भार-
वाहकः । भारी इति ख्यातः । तत्पर्य्यायः ।
भारवाहः २ । इत्यमरः । २ । १० । १५ ॥
भारहरः ३ भारहारः ४ । इति शब्दरत्ना-
वली ॥ (यथा, कथासरित्सागरे । ३७ । ५६ ।
“तत्र चाग्रागताः केचित् तमूचुः काष्ठ-
भारिकाः ॥”)

भारिटः, पुं, पक्षिविशेषः । तत्पर्य्यायः । श्याम-

चटकः २ शैशिरः ३ कणभक्षकः ४ । इति
राजनिर्घण्टः ॥

भारी, [न्] पुं, (भारोऽस्त्यस्यास्मिन् वेति । भार +

इनिः ।) भारवाहकः । इत्यमरटीकायां रमा-
नाथः ॥ (यथा, मनौ । २ । १३८ ।
“चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्रातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥”)
भारयुक्ते, त्रि ॥

भारौही, स्त्री, (भारं वहतीति । वह् + ण्वि ।

स्त्रियां ङीप् । ततः शसादावजादौ ऊट् ।)
भारवाहिका । इति मुग्धबोधव्याकरणम् ॥

भार्गवः, पुं, (भृगोरपत्यम् तद्गोत्रापत्यमिति ।

भृगु + अण् ।) परशुरामः । शुक्राचार्य्यः ।
(यथा, महाभारते । १ । ६६ । ४५ ।
“तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे ।
अन्यमुत्पादयामास पुत्त्रं भृगुरनिन्दितम् ॥”)
धन्वी । गजः । इति मेदिनी । वे, ४५ ॥ भारत-
वर्षमध्ये प्राच्यदेशान्तर्गतदेशविशेषः । यथा, --
“ब्रह्मोत्तराः प्रविजया भार्गवा ज्ञेयमर्द्दकाः ॥”
इति मार्कण्डेयपुराणम् ॥
(कुलालः । यथा, महाभारते । १ । १९२ । १ ।
“गत्वा तु तां भार्गवकर्म्मशालां
पार्थौ पृथां प्राप्य महानुभावौ ॥”
“भृगुः स्वघटवृत्तिः जीविकार्थं भृगुणा व्यव-
हरतीति भार्गवः कुलालः ।” इति तट्टीकायां
नीलकण्ठः ॥ मार्कण्डेयः । यथा, महाभारते ।
१३ । २२ । १५ ।
“इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।
पृथिवीकाश्यपश्चाग्निः प्रकृष्टायुश्च भार्गवः ॥”
शौनकः । यथा, महाभारते । १ । १८ । ६ ।
“तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गवः ॥”
भृगुवंशीये, त्रि ॥ (यथा, महाभारते । ३ ।
९९ । ४१ ।
“शृणु रामस्य राजेन्द्र ! भार्गवस्य च धीमतः ॥”)

भार्गवप्रियः, पुं, (भार्गवस्य प्रियः ।) हीरकः ।

शुक्राधिष्ठातृदेवताकत्वात् ॥

भार्गवी, स्त्री, (भार्गव + ङीप् ।) पार्व्वती ।

(भृगोरपत्यं स्त्री । भृगु + अण् + ङीप् ।)
लक्ष्मीः । (अस्या भृगुसुतात्वमुक्तं यथा, विष्णु-
पुराणे । १ । ९ । १४६ ।
“एतत् ते कथितं ब्रह्मन् ! यन्मां त्वं परि-
पृच्छसि ।
क्षीराब्धौ श्रीयथा जाता पूर्ब्बं भृगुसुता सती ॥”)
दूर्व्वा । इति मेदिनी । वे, ४५ ॥ (यथा, वैद्यक-
रत्नमालायाम् ।
“सहस्रवीर्य्या दूर्व्वा तु मङ्गल्या भार्गवी
रुहा ॥”)
नीलदूर्व्वा । इति शब्दरत्नावली ॥ (यथास्याः
पर्य्यायः ।
“नीलदूर्व्वा रुहानन्ता भार्गवी शतपर्व्विका ।
शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥ (भृगुवंशीय-
स्त्रीमात्रे । यथा, महाभारते । १ । ७३ । ३३ ।
“कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्ग
वीम् ।
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मण-
कन्यया ॥”)

भार्गी, स्त्री, (भृज् + घञ । भर्गोऽस्त्यस्या इति ।

“ज्योत्स्नादिभ्य उपसंख्यानम् ।” ५ । २ । १०३ ।
इत्यस्य वार्त्ति० । इति अण् । ततो ङीप् ।)
वृक्षविशेषः । वामनहाटी इति भाषा । तत्-
पर्य्यायः । गर्द्दभशाखी २ फञ्जी ३ अङ्गार-
वल्लरी ४ ब्राह्मी ५ ब्राह्मण यष्टिः ६ वान्तारिः
७ भृङ्गजा ८ पद्मा ९ यष्टिः १० भारङ्गी ११
वातारिः १२ कामजित् १३ सुरूपा १४
भ्रमरेष्टा १५ शक्रमाता १६ । अस्या गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कासश्वास-
शोफव्रणक्रिमिदाहज्जरनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अन्यत् ब्राह्मणयष्टिकाशब्दे द्रष्टव्यम् ॥

भार्द्वाजी, स्त्री, (भारद्वाजी । पृषोदरादित्वात्

साधुः ।) भारद्वाजी । वनकार्पासी । इति
शब्दरत्नावली ॥

भार्य्या, स्त्री, (भरणीया इति । भृ + “ॠह-

लोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । टाप् ।
यद्वा भया दीप्त्या आर्य्या ।) वेदविधा-
नेनोढा । विधिपूर्ब्बकविवाहिता । तत्पर्य्यायः ।
पत्नी २ पाणिगृहीती ३ द्वितीया ४ सह-
धर्म्मिणी ५ जाया ६ दाराः ७ सहधर्म्मिणी
८ धर्म्मचारिणी ९ दारः १० कलत्रम् ११
कलत्रकम् १२ ॥ इति शब्दरत्नावली ॥ अस्याः
प्रशंसा यथा, --
“सा भार्य्या या प्रियं ब्रूयात् स पुत्त्रो यस्तु
जीवति ।
स जीवति गुणो यस्य धर्म्मो यस्य स जीवति ॥
गुणधर्म्मविहीनो यो निष्फलं तस्य जीवनम् ॥
सा भार्य्या या गृहे दक्षा सा भार्य्या या
प्रियंवदा ॥
सा भार्य्या या पतिप्राणा सा भार्य्या या पति-
व्रता ।
नित्यस्नाता सुगन्धा च नित्यञ्च प्रियवादिनी ॥
अल्पभुक् स्वल्पभाषी च सततं मङ्गलैर्युता ।
सततं धर्म्मबहुला सततञ्च पतिप्रिया ॥
सततं प्रियवक्त्री च सततं ऋतुकामिनी ।
पितृदेवक्रियायुक्ता सर्व्वसौभाग्यवर्द्धिनी ॥
यस्येदृशी भवेद्भार्य्या देवेन्द्रो न स मानुषः ॥”
अस्या दोषा यथा, --
“यस्य भार्य्या विरूपाक्षी कश्मला कलहप्रिया ।
उत्तरोत्तरवादा स्यात् सा जरा न जरा जरा ॥
य स्य भार्य्याश्रितान्यत्र परवेश्माभिकाङ्क्षिणी ।
कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥”
“यस्य भार्य्या गुणज्ञा च भर्त्तारमनुगामिनी ।
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥
दुष्टा भार्य्या शठं मित्रं भृत्याश्चोत्तरदायकाः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ।
आपत्सु मित्रं जानीयात् युद्धे शूरं वने शुचिम् ।
भार्य्याञ्च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥”
इति गारुडे नीतिसारे १०८ । १०९ अध्यायौ ॥
(तथा च महाभारते । १ । ७४ । ३९ -- ४५ ।
“सा भार्य्या या गृहे दक्षा सा भार्य्या या
प्रजावती ।
सा भार्य्या या पतिप्राणा सा भार्य्या या
पतिव्रता ॥
अर्द्धं भार्य्या मनुष्यस्य भार्य्या श्रेष्ठतमः सखा ।
भार्य्यामूलं त्रिवर्गस्य भार्य्यामूलं तरिष्यतः ॥
भार्य्यावन्तः क्रियावन्तः सभार्य्या गृहमेधिनः ।
भार्य्यावन्तः प्रमोदन्ते भार्य्यावन्तः श्रियान्विताः ॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः
पितरो धर्म्मकार्य्येषु भवन्त्यार्त्ताश्च मातरः ॥
कान्तारेष्वपि विश्रामो जनस्याध्वनिकस्य वै ।
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥
संस्मरन्तमपि प्रेतं विषमेष्वेकपातिनम् ।
भार्य्यैवान्वेति भर्त्तारं सततं या पतिव्रता ॥
प्रथमं संस्थिता भार्य्या पतिं प्रेक्ष्य प्रतीक्षते ।
पूर्ब्बं मृतञ्च भर्त्तारं पश्चात् साध्वनुगच्छति ॥”)
बृहस्पतिरुवाच ।
“यस्य नास्ति सती भार्य्या गृहेषु प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
सुशीला सुन्दरी शान्ता गता यस्य गृहोदरात् ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
भावानुरक्ता वनिता हृता यस्य च शत्रुणा ।
पृष्ठ ३/५०४
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
दैवेनापहृता यस्य पतिसाध्या पतिव्रता ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
यस्य माता गृहे नास्ति भार्य्या चाप्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
प्रियाशून्यं गृहं यस्य पूर्णं स्त्रीधनबन्धुभिः ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
भार्य्याशून्या वनसमाः सभार्य्याश्च गृहा गृहाः ।
गृहिणी च गृहं प्रोक्तं न गृहं गृहमुच्यते ॥
अशुचिः स्त्रीविहीनश्च दैवे पैत्रे च कर्म्मणि ।
यदह्ना कुरुते कर्म्म न तस्य फलभाग्भवेत् ॥
दाहिकाशक्तिहीनश्च यथा मन्दो हुताशनः ।
प्रभाहीनो यथा सूर्य्यः शोभाहीनो यथा शशी ॥
शक्तिहीनो यथा जीवो यथात्मा च तनूं विना ।
विनाधारं यथा धेयो यथेशः प्रकृतिं विना ॥
न च शक्तो यथा यज्ञः फलदां दक्षिणां विना ।
कर्म्मिणे च फलं दातुं सामग्रीमूलमेव च ॥
विना स्वर्णं स्वर्णकारो यथाशक्तः स्वकर्म्मणि ।
यथाशक्तः कुलालश्च मृत्तिकाञ्चनवि द्विजाः ! ॥
तथा गृही न शक्तश्च सन्ततं सर्व्वकर्म्मणि ।
भार्य्यामूलाश्च पुत्त्राश्च भार्य्यामूला गृहास्तथा ॥
भार्य्यामूलं सुखं शश्वद्गृहस्थानां गृहे सदा ।
भार्य्यामूलः सदा हर्षो भार्य्यामूलञ्च मङ्गलम् ॥
भार्य्यामूलश्च संसारो भार्य्यामूलञ्च सौरतम् ।
यथा रथश्च रथिनां गृहिणाञ्च तथा गृहम् ।
सारथिस्तु यथा तेषां गृहस्थानां तथा प्रिया ॥
सर्व्वरत्नप्रधानञ्च स्त्रीरत्नं दुष्कुलादपि ।
सा गृहीता गृहस्थेनैवेत्याह कमलोद्भवः ॥
यथा जलं विना पद्मं पद्मं शोभां विना यथा ।
तथैव च गृहं शश्वद्गृहिणां गृहिणीं विना ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः ॥
तस्या अत्याज्यत्वं यथा, --
“अनपत्याञ्च युवतीं कुलजाञ्च पतिव्रताम् ।
त्यक्त्वा भवेद्यः सन्न्यासी ब्रह्मचारी यतीति वा ॥
बाणिज्ये वा प्रवासे वा चिरं दूरं प्रयाति यः ।
तीर्थाय तपसे वापि मोक्षार्थं जन्म खण्डितुम् ॥
न मोक्षस्तस्य भवति धर्म्मस्य स्खलनं ध्रुवम् ।
अभिशापेन भार्य्याया नरकञ्च परत्र च ॥
इहैव च यशोनाश इत्याह कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११२ अः ॥
बहुभार्य्यस्यैकस्या भजने दोषादि यथा, --
“गदतो यत् श्रुतं पूर्ब्बं नारदाय पितुर्मुखे ।
दक्षस्य धर्म्मशास्त्रार्थं तत् शृणुष्व निशापते ! ॥
बहुदारः पुमान् यस्तु रागादेकां भजेत् स्त्रियम् ।
स पापभाक् स्त्रीजितश्च तस्याशौचं सनातनम् ॥
यद्दुःखं जायते स्त्रीणां स्वाम्यसम्भोगजं यथा ।
न तस्य सदृशं दुःखं किञ्चिदन्यद्धि विद्यते ॥
मतीमृतुमतीं जायां यो नेयात् पुरुषाधमः ।
ऋतुघस्रेषु शुद्धेषु भ्रूणहा स हि जायते ॥
भार्य्या स्याद्यावदात्रेयी तावत् कालं विरो-
धकम् ।
तस्यास्तु सङ्गमे किञ्चित् विहितञ्चापि नाचरेत् ॥
बहुभार्य्यस्य भार्य्याणामृतुमैथुननाशनम् ।
न किञ्चिद्विद्यते कर्म्म शास्त्रेणापि यदीरितम् ॥
तोषयेत् सततं भार्य्या विधिवत् पाणिपीडिताः ।
तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा ॥
सन्तुष्टो भार्य्यया भर्त्ता भर्त्त्रा भार्य्या तथैव च ।
यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥
यया विरुध्यते स्वामी सौभाम्यमददृप्तया ।
सपत्नीसङ्गमं कर्त्तुं सा स्याद्वेश्या भवान्तरे ॥
इहापि लोके वाच्यत्वमधर्म्मञ्चापि विन्दति ।
न च पितृकुलं स्वामिकुलं तस्याः प्रमोदते ॥
विरुध्यमाने पत्यौ यत् सपत्न्या वा प्रवर्त्तिते ।
अतीव दुःखं भवति तदकल्याणकृत्तयोः ॥”
इति कालिकापुराणे २० अध्यायः ॥
रजस्वला भार्य्या अत्याज्या । यथा, --
“न धिनोतीह यो दारान् रजसा कलुषीकृतः ।
प्रेतपैत्र्याहृते कुण्डे रेतसाञ्च पिबत्यसौ ॥
यो जहाति रजः कृत्वा पित्र्यं स्वं तेजसा नरः ।
सोऽश्नाति फलमप्येवं यो न दद्यादृतुं पुनः ॥
यो बिभर्त्ति स मत्तो वै बहूनां रजसि स्थितः ।
रेतः पिबति तन्मग्नो पितृभ्यो योऽप्यपिण्डदः ॥
यो जहाति हि निर्द्दोषां भार्य्याञ्चैव रजस्वलाम् ।
शुद्धिमान् संवृतः कृत्तगर्भस्य दुरितं वहेत् ॥”
इति वह्निपुराणम् ॥
कालविशेषे तद्गमननिषेधो यथा, --
“न दिवापि स्त्रियं गच्छेत् कदाचिदिच्छयापि च ।
न पर्व्वसु न सन्ध्यासु नाद्यर्त्तु चतूरात्रिषु ॥
नोदक्यां न दिवा गच्छेत् न सगर्भां न व्रत-
स्थिताम् ।
अभिगच्छेदविद्वान् यस्तदायुःक्षयमेव च ॥
बन्ध्याष्टमे परित्याज्या नवमे च मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥
न वक्त्रेऽभिगमं कुर्य्यात् पाणिग्राही तु
योषितः ।
कुर्य्याच्चेत् पितरस्तस्य पतन्ति रेतसोभुजः ॥
भार्य्याधीनं सुखं पुंसां भार्य्याधीनो धनागमः ।
भार्य्याधीना मखोत्पत्तिर्भार्य्याधीनः सुखोदयः ॥
यत्र भार्य्या गृहं तत्र भार्य्याधीनो गृहे वसेत् ।
न गृहेणगृहस्थः स्यात् भार्य्यया कथ्यते गृही ॥”
इति पराशरस्मृतिः ॥

भार्य्याटः, पुं, (भार्य्यया अटति वर्त्तते इति ।

अट गतौ + पदाद्यच् ।) अन्यार्थं स्वस्त्रीदाता ।
इति त्रिकाण्डशेषः ॥

भार्य्याटिकः, पुं, (अट गतौ + भावे घञ् । भार्य्यया

आटो मतिर्भ्रमणं वा अस्त्यस्येति । भार्य्याट +
ठन् ।) स्त्रीजितः । हरिणविशेषः । इति
मेदिनी । के, २०५ ॥ (मुनिविशेषः । इति
हेमचन्द्रः ॥)

भार्य्यापती, पुं, (भार्य्या च पतिश्च तौ । “राज-

दन्तादिषु परम् ।” २ । २ । ३१ । इति साधुः ।)
योषित्पती । नित्यद्विवचनान्तोऽयं शब्दः ।
तत्पर्य्यायः । दम्पती २ जम्पती ३ जायापती
४ । इत्यमरः । २ । ६ । ३८ ॥

भार्य्यारुः, पुं, (भार्य्यां ऋच्छतीति । ऋ गतौ +

उण् ।) मृगभेदः । क्रीडया परभार्य्यायां पुत्त्रो-
त्पादकः । शैलभेदः । इति मेदिनी । रे, १९२ ॥

भार्य्यावृक्षः, पुं, (भार्य्यावत् प्रियो वृक्षः ।) पत्तङ्ग-

वृक्षः । इति राजनिर्घण्टः ॥

भालं, क्ली, (भाल दीप्तौ + भावे क्विप् । भां लाति

गृह्णातीति । ला + “आतोऽनुपसर्गे कः ।” ३ ।
२ । ३ । इति कः ।) भ्रुवोरूर्द्ध्वभागः । कपाल
इति भाषा । तत्पर्य्यायः । ललाटम् २ अलिकम्
३ गोधि ४ । इति राजनिर्घण्टः ॥ (यथा,
साहित्यदर्पणे ३ परिच्छेदे ।
“स्वामिन् भङ्गुरयालकं सतिलकं भालं विला-
सिन् कुरु
प्राणेश ! त्रुटितं पयोधरतटे हारं पुन-
र्योजय ॥”)
तेजः । इति मेदिनी । ले, ४२ ॥

भालदर्शनं, क्ली, (भाले ललाटे दर्शनमस्येति ।)

सिन्दूरम् । इति शब्दचन्द्रिका ॥

भालदृक्, [श्] पुं, (भाले ललाटे दृक्

नेत्रं यस्य ।) शिवः । इति हेमचन्द्रः ।
२ । ११० ॥

भालाङ्कः, पुं, (भालस्येव अङ्को यत्र भाले अङ्को

यस्येति वा ।) करपत्रम् । शाकभेदः । रोहित-
मत्स्यः । महालक्षणसम्पन्नपुरुषः । कच्छपः ।
हरः । इति मेदिनी । के, १३३ ॥ (भालस्य
अङ्कः ।) ललाटचिह्नञ्च ॥

भाललोचनः, पुं, (भाले ललाटे लोचनं नेत्रं

यस्य ।) शिवः । इति भालदृक्शब्ददर्शनात् ॥
(यथा, काशीखण्डे । २९ । १३० ।
“भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥”)

भालुकः, पुं, (भलते हिनस्ति प्राणिनः इति । भल

हिंसायाम् + बाहुलकात् उकः । ततः प्रज्ञा-
द्यण् ।) भल्लूकः । यथा, भरतधृतकोषान्तरे ।
“भालूको भालुको भल्लोऽच्छभल्लोऽच्छोऽपि
भल्लुकः ॥”

भालूकः, पुं, (भलते हिनस्ति जीवानिति । भल

+ “ऊलूकादयश्च ।” उणा० । ४ । ४१ । इति
ऊकः । ततः प्रज्ञाद्यण् ।) भल्लूकः । यथा, --
“भालूको भालुको भल्लोऽच्छभल्लोऽच्छोऽपि
भल्लूकः ॥”
इति भरतधृतकोषान्तरम् ॥

भाल्लुकः, पुं, भल्लूकः । इत्यमरटीकायां भरतः ॥

भाल्लूकः, पुं, भल्लूकः । इत्यमरटीकायां भरतः ॥

भावः, पुं, (भावयति चिन्तयति पदार्थानिति ।

भू + णिच् + पचाद्यच् । भवतीति । भू + “भव-
तेश्चेति वक्तव्यम् ।” इति काशिकोक्तेर्णो वा ।)
नाट्योक्तौ विद्वान् । मानसविकारः । सत्ता ।
(यथा, श्रीमद्भगवद्गीतायाम् । २ । १६ ।
“नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥”)
स्वभावः । अभिप्रायः । (यथा, रामायणे ।
२ । २ । १९ ।
पृष्ठ ३/५०५
“तस्य धर्म्मार्थविदुषो भावमाज्ञाय सर्व्वशः ।
ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह ॥”)
चेष्टा । आत्मा । जन्म । इत्यमरः । ३ । ३ । २०६ ॥
(चित्तम् । यथा, मनुः । ४ । २२७ ।
“दानधर्म्मं निषेवेत नित्यमैष्टिकपौर्त्तिकम् ।
परितुष्टेन भावेन पात्रमासाद्य भक्तितः ॥”)
क्रिया । लीला । पदार्थः । (यथा, रघुः । ३ । ४१ ।
“अतीन्द्रियेष्वप्युपपन्नदर्शनो
बभूव भावेषु दिलीपनन्दनः ॥”)
विभूतिः । बुधः । जन्तुः । रत्यादिः । इति मेदिनी ।
वे, २१ ॥ गौरवितः । अभिनयान्तरम् । इति
त्रिकाण्डशेषः ॥ (विषयः । यथा, हितोपदेशे ।
“अवश्यम्भाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥”
पर्य्यालोचना । यथा मनुः । ६ । ८० ।
“यदा भावेन भवति सर्व्वभावेषु निस्पृहः ।
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥”
प्रेम । यथा, गीतायाम् । १० । ८ ।
“इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥”)
धात्वर्थः । (यथा, सुग्धबोधे वोपदेवः ।
“देशाध्वकालभावं वाटैः ।” क्रियान्तरापेक्षि-
क्रियाविशिष्टः तत्र सप्तमी विहिता तथा च
मुग्धबोधटीकायां रामतर्कवागीशः । “यस्य
क्रियया क्रियान्तरमपेक्ष्यते स इह भावः ॥”)
योनिः । उपदेशः । इति धरणिः ॥ संसारः ।
इत्यनेकार्थकोषः ॥ नवग्रहाणां शयनादिद्बादश-
चेष्टाः । यथा, --
“शयनञ्चोपदेशश्च नेत्रपाणिः प्रकाशनम् ।
गमनं गमनेच्छा च सभायां वसतिस्तथा ॥
आगमनं भोजनञ्च नृत्यलिप्सा च कौतुकम् ।
निद्रा ग्रहाणां भावाश्च द्वादशैते प्रकीर्त्तिताः ॥”
भावानयनक्रमो यथा, --
“यद्राशौ विद्यते खेटस्तेन तं परिपूरयेत् ।
पुनरंशेन संपूर्य्य स्वर्क्षं तत्र नियोजयेत् ॥
जातदण्डं तथा लग्नमेकीक्वत्य सदा बुधैः ।
रविणा भागहारेण शेषं कार्य्ये नियोजयेत् ॥
अंशेन नवसंख्यया । खर्क्षं ग्रहाणां जन्म-
नक्षत्रम् । तद्यथा, --
“विशाखानलतोयानि वैष्णवं भगदैवतम् ।
पुष्या पौष्णोयमः सर्पो जन्मभान्यर्कतः क्रमात् ॥”
ऋक्षो राशिः । यदा मेषे ग्रहस्तदा १ एक-
पूरितग्रहसंख्याङ्कः । यदा वृषे ग्रहस्तदा २
द्विपूरितो ग्रहसंख्याङ्कः कार्य्यः ॥ * ॥ जाया-
सुतमृत्युतुङ्गस्वगृहत्रिकोणस्थानस्थितपापग्रहाणां
निद्राशयनभावयोः फलम् ।
“निद्रायाञ्च यदा पापो जायास्थाने शुभं वदेत् ।
यदि पापः शुभैर्दृष्टो नाशुभैश्च कदाचन ॥
यदि वा शत्रुगेही स्याच्छयने यदि वेक्षितः ।
तदा नारीसमं तस्य नाशो भवति निश्चितम् ॥
शुभाशुभैर्यदा दृष्टः शुभग्रहसमन्वितः ।
नारी च म्रियते तस्य प्रथमा च विशेषतः ॥
सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ।
तदाशुभं भवेत्तस्य नात्र कार्य्या विचारणा ॥
तुङ्गस्थाने स्वगृहे वा त्रिकोणे वा यदा भवेत् ।
अपत्यस्य तदा नाशो जायते नात्र संशयः ॥
शुभग्रहो यदा तत्र क्रूरो वा यदि वेक्षितः ।
तदा प्रथमापत्यस्य नाशो भवति निश्चितम् ॥
मृत्युस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ।
तदात्मनोऽपमृत्युः स्याद्राजतोऽपरतोऽपि वा ॥
शुभग्रहो यदा तत्र मृत्युस्थानेऽपि संस्थितः ।
तदा च मरणं तस्य मृत्युस्थाने विशेषतः ॥
पापग्रहैर्यदा दृष्टः शुभो वा शत्रुवीक्षितः ।
तदा तस्य शिरश्छेदो मुनिना परिकीर्त्तितः ॥
एवं क्रमेण बोद्धव्यं ग्रहभावे सुबुद्धिना ।
बलाबलविचारेण जायते च शुभाशुभम् ॥
ज्योतिर्वित्सु च सर्व्वेषु परिहारः कृतो मया ।
शयनादिकभावेषु ज्ञातव्यञ्चोपदेशतः ॥
एकादशे वा दशमालये वा
धनालये वा यदि वा विलग्ने ।
पापेन युक्तो न शुभग्रहश्चे-
त्तथापि सिद्धिं महतीं वदन्ति ॥”
फलं यथा, --
“मन्दाग्निः पित्तशूली च जायते शयने नरः । १ ।
उपवेशे भवेच्छिल्पी श्यामवर्णस्तथा नरः ॥ २ ॥
नेत्रपाणौ भवेत् क्रूरो जलदोषो भवेन्नरः । ३ ।
पुण्यवान् धार्म्मिकश्चैव धनवांश्च प्रकाशने ॥ ४ ॥
गमने च रवेर्जातः कृपणो धनसंयुतः ।
बहुभाषी क्षमी क्रोधी लुब्धचित्तः सदा
भवेत् ॥ ५ ॥
अल्पभोक्ता शीघ्रगामी दीर्घायुर्नृपवल्लभः ।
शूरः श्रीमान् सुशीलश्च गमनेच्छाभवो नरः ॥ ६ ॥
सभायाञ्च रवेर्जातः खलो दाता क्षमी भवेत् ।
दयालुः पण्डितो धीमान् गुणवान् पण्डित-
प्रियः ॥ ७ ॥
आगमने भवेन्मूर्खः कुरूपो धनवान् भवेत् । ८ ।
भोजने भक्षको मांसलुब्धो महावपुर्बली ॥ ९ ॥
नृत्यलिप्सौ सुन्दरो वाग्मी पण्डितस्य गृहा-
धिपः । १० ।
उत्साही च महाभोगी कोतुके च दिवाकरे ॥ ११ ॥
दाता भोक्ता प्रियः पुत्त्रकलत्राणां न संशयः ।
लिङ्गे देहे करे चैव गुदे रोगी तथैव च ।
निद्रायाञ्च भवेद्भानोः क्रोधनो रक्तनेत्रकः ॥ १२ ॥
इति रवेस्तुङ्गातुङ्गे बलाबले वा बोध्यम् ॥ * ॥
“शयने च विधौ क्रोधी दरिद्रो बहुलम्पटः । १ ।
उपवेशे महारोगी धनवांश्च भवेन्नरः ॥ २ ॥
नेत्रपाणौ नेत्ररोगी श्लीपदी बहुभाषकः ।
क्रूरः खलोऽतिशूरश्च जायते च विधौ तदा ॥ ३ ॥
प्रकाशने निशानाथे धनवांश्च भवेन्नरः ।
दक्षो बुद्धिमान् दाता च परदारेषु लम्पटः ॥ ४ ॥
अरोगी वित्तहा चैव क्रूरकर्म्मा धनान्वितः ।
शिरोरोगी दन्तशूली जायते गमने विधौ ॥ ५ ॥
नानामतिर्महाक्रोधी सम्पदी च भवेन्नरः ।
गमनेच्छुविधौ जातो धनहीनो भवेत्तदा ॥ ६ ॥
दाता च धार्म्मिकश्चैव राजपात्रो भवेत् सदा ।
सभायाञ्च विधौ नित्यं जायते पुरुषोत्तमः ॥ ७ ॥
नित्यक्रोधी महादुःखी भवेदागमने विधौ । ८ ।
भोजने च भवेल्लुब्धो भक्षकश्च महासुरः ॥ ९ ॥
यो जातो नृत्यलिप्सायां गुणवान् धार्म्मिको
भवेत् ।
बहुपात्रो घनी दाता जायते नात्र संशयः ॥ १० ॥
कौतुके च भवेद्रोगी नानाविद्यासु तत्परः ।
उत्साही च महाक्रोधी जायते च सुनिश्चि-
तम् ॥ ११ ॥
निद्रायां दद्रुरोगी स्यात् क्लेशपापरुजान्वितः ।
पुत्त्रशोकमहादुःखी नित्यं भ्रमति मेदिनीम् ॥ १२
इति चन्द्रस्य ॥ * ॥
शयने च कुजे जातो लक्ष्मीबहुकुरङ्गकः ।
क्षणक्रोधी महादक्षः कृपणो जायते नरः ॥ १ ॥
उपवेशे यदा भौमे जायते च नराधमः ।
धनवान् क्रूरकर्म्मा च निष्ठुरो जातिवर्ज्जितः ॥ २ ॥
नेत्रपाणौ च यो जातः अक्षिरोगी भवेन्नरः ।
पुत्त्रदारधनैर्युक्तो दारिद्र्येणैव दह्यते ॥ ३ ॥
प्रकाशने कुजे जातो धनवान् पण्डितः सुधीः ।
नारी च म्रियते तस्य प्रथमा च विशेषतः ॥ ४ ॥
गमने च यदा जातः प्रवासी नित्यदुःखितः ।
शरीरे च भवेद्रोगः कण्ड्वादिकुष्ठदद्रुकः ॥ ५ ॥
प्रवासी गमनेच्छायां गुदरोगी भवेच्च सः ।
धनहीनः कुकर्म्मा च जायते क्षितिजस्य च ॥ ६
सभायाञ्च यदा जातो धार्म्मिको बहुसम्पदः ।
गुणवांश्च महादाता शिरोरोगी भवेद्धुवम् ॥ ७
कुजस्यागमने नित्यं खञ्जो भवति नान्यथा ।
कर्णरोगी पित्तशूली जायते च नराधमः ॥ ८ ॥
भोजने भूमिजस्यापि यो जातो मांसलुब्धकः ।
बृहत्कायो महाक्रोधी नित्योत्साही धना-
न्वितः ॥ ९ ॥
कुजस्य नृत्यलिप्सायां यो जातो धनवान् भवेत् ।
दाता भोक्ता सदा मानी राजपात्रो भवेच्च
सः ॥ १० ॥
कौतुके क्षितिजस्यापि जातो भवति पण्डितः ।
नानाधनेन संयुक्तो बहुपुत्त्रो द्विभार्य्यकः ॥ ११ ॥
निद्रायां भूमिपुत्त्रस्य यो जातो भूर्ख एव सः ।
कलहो बान्धवैः सार्द्धं शोकक्लेशरुजान्वितः ॥ १२
इति मङ्गलस्य ॥
“बुधस्य शयने जातो धनवान् क्षुधितः सदा ।
अङ्गच्छेदो भवेद्वापि खञ्जो भवति नान्यथा ॥ १ ॥
उपवेशे च यो जातः प्रवासी जायते ध्रुवम् ।
कवितागुणधीयुक्तो गौरवर्णो महाशयः ॥ २ ॥
नेत्रपाणौ च यो जातः श्लीपदादिरुजान्वितः ।
चक्षूरोगी विशेषात् स्यात् पुत्त्रनाशी भवेद्-
ध्रुवम् ॥ ३ ॥
प्रकाशने भवेज्जातो राजपात्री धनान्वितः ।
नानाधनेन संयुक्तो जायते वेदपारगः ॥ ४ ॥
गमने यो नरो जातः प्रवासी नित्यदुःखितः
शरीरे क्षतमाप्नोति नित्यमृणी भवेच्च सः ॥ ५ ॥
यो जातो गमनेच्छायां लम्पटो दुष्टचित्तकः ।
स्त्रीवशो दुष्टभार्य्यश्च कामुको बहुभाषकः ॥ ६ ॥
पृष्ठ ३/५०६
सभायाञ्च बुधे जातो मूर्खो भवति पण्डितः ।
धनवान् धार्म्मिकश्चैव चिररोगी भवेत्तु सः ॥ ७ ॥
क्रूरः खलो हतमूर्खः पापशीलो भवेन्नरः ।
बुधस्यागमने नित्यं जायते च नराधमः ॥ ८ ॥
भोजने च भवेत् सौख्य धनहीनो भवेन्नरः ।
परद्बेषी प्रवासी च शोषगात्रव्यथान्वितः ॥ ९ ॥
यो जातो नृत्यलिप्सायां धनवान् पण्डितः कविः ।
उत्साही च महाहृष्टो भुनक्ति सुख-
मद्भुतम् ॥ १० ॥
कौतुके च यदा जातो भवेत् सर्व्वजनप्रियः ।
अर्शोरोगी दद्रुयुक्तो धनवानल्प शस्यकः ॥ ११ ॥
निद्रायाञ्च यदा जातः सर्व्वदुःखैकपात्रताम् ।
नानाक्लेशमवाप्नोति रोगशोकयमक्षयम् ॥ १२ ॥”
इति बुधस्य ॥ * ॥
“धनवान् लम्पटः श्यामः स्थूलो व्रणरुजान्वितः ।
जीवस्य शयने जातो मानवो नात्र संशयः ॥ १ ॥
उपवेशे गुरोर्जातो बहुभाषी च रोगवान् ।
पशुघाती महाशिल्पी श्लीपदी रोगसंयुतः ॥ २ ॥
नेत्रपाणौ गुरोर्जातः काशरोगी धनी भवेत् ।
क्षतादिश्चरणे नित्यं जायते नात्र संशयः ॥ ३ ॥
गुरोः प्रकाशे धनवान् लिङ्गगुह्ये रुजान्वितः ।
दक्षो लम्पटपापी च श्यामवर्णो रुजान्वितः ॥ ४ ॥
सर्पभीतो गूढकर्म्मा साहसी गमनोन्मुखे ।
परवित्तेन धनवान् पुमान् भवति वाक्पतौ ॥ ५ ॥
गुरोश्च गमनेच्छायां जातो भवति मानवः ।
शूली धनी प्रवासी च सेवाकर्म्मणि तत्परः ॥ ६ ॥
बक्ता दाता च धनवान् राजसेवान्वितो नरः ।
शूलरोगी भवेन्नित्यं सभायां वाक्पतौ स्थिते ॥ ७ ॥
धार्म्मिकस्तीर्थविन्मानी धनी चागमने गुरोः ।
परदारेषु संलुब्धो जायते नात्र संशयः ॥ ८ ॥
भोजने बहुसौख्याढ्यो मांसलुब्धो महासुरः ।
कामुकः प्रियवाक्यश्च जायते नात्र संशयः ॥ ९ ॥
नृत्यलिप्से शठो वाग्मी धनवान् सात्विकस्तथा ।
महदैश्वर्य्यसंयुक्तो जीवस्य च भवेन्नरः ॥ १० ॥
कौतुके च गुरोर्जातो धनवान् धार्म्मिकः सदा ।
नृत्योत्साही महत्सङ्गो भुनक्ति सुखमद्-
भुतम् ॥ ११ ॥
निद्रायाञ्चैव यो जातश्चक्षूरोगी भवेच्च सः ।
कृपणो बहुभाषी च दुःखितो भ्रमते
महीम् ॥ ११ ॥”
इति गुरोः ॥ * ॥
“शुक्रस्य शयने जातो लम्पटो बहुभाषकः ।
दन्तरोगी महाक्रोधी नीचो भवति नित्यशः ॥ १ ॥
उपवेगे तथा जातो बलवान् दाम्भिकः सदा ।
नित्यप्रवासी रोगी च जायते नीचसंस्थिते ॥ २ ॥
नेत्रपाणौ भृगोर्दुःखी रोगशोकसमन्वितः ।
धनहीनो महारोगी मानवः स्यान्न संशयः ॥ ३ ॥
भृगोः प्रकाशने जातो विद्याधनसमन्वितः ।
दाता च धार्म्मिकश्चैव कोर्त्तिमान् जायते नरः ॥ ४ ॥
शुक्रम्य गमने जातः पादमूले रुजान्वितः ।
नित्योत्साही महाशिल्पी भवेत्तीर्थगतौ
रतः ॥ ५ ॥
गमनेच्छौ यदा जातो भ्रातृनाशो भवेद्ध्रुवम् ।
माता च म्रियते तस्य शैशवे व्याधिसंयुतः ॥ ६ ॥
सभायाञ्च भृगोर्जातो राजपात्रो महाधनी ।
कुलशीली महादक्षः केवलं शूलरोगवान् ॥ ७ ॥
भृगोरागमने जातो दुःखितो बहुलम्पटः ।
दद्रुरोगी पुत्त्रशोकी जायते च नराधमः ॥ ८ ॥
शुक्रस्य भोजने जातो बलवान् दाम्भिकः सदा ।
महाधनी भवेन्नित्यं बाणिज्येन विशेषतः ॥ ९ ॥
यो जातो नृत्यलिप्सायां स वाग्मी जायते ध्रुवम् ।
पाण्डित्यं कविता चैव वर्द्धते च दिने दिने ॥
यदि चैव भवेन्नीचे मूर्खो भवति निश्चितम् ।
तुङ्गस्थाने विशेषेण राजपात्रो महाधनी ॥
कामुको बहुकान्तश्च परयोषित्प्रियः सदा ।
श्यामवर्णस्तथा मानी याज्ञिको बहुभा-
षकः ॥ १० ॥
शुक्रस्य कौतुके जातो धनवान् सात्विकः सदा ।
महाहृष्टो महावन्धुः कौतुकी च भवेत् सदा ॥
बहुपुत्त्रकलत्रश्च नानासुखसमन्वितः ।
नीचे तद्विपरीतः स्यात् दुःखशोकसम-
न्वितः ॥ ११ ॥
निद्रायाञ्च भृगोर्जातो भवेद्रोगी स निश्चितम् ।
नित्यक्लेशी महादुःखी जायते नात्र संशयः ॥
जायायाञ्च सुतस्थाने यति निद्रा भृगोर्भवेत् ।
तदा सर्व्वविनाशः स्याद्विष्णुना परिकी-
र्त्तितः ॥ १२ ॥”
इति शुक्रस्य ॥ * ॥
“शयने च शनेर्जातो लम्पटो बहुभाषकः ।
गुह्यस्थाने भवेद्रोगी कोषवृद्धिश्च जायते ॥
लग्नात् सप्ताष्टमे चैव शयनस्थः शनैश्चरः ।
तदा नित्यप्रवासी स्याच्छत्रुक्षयी भवेच्च सः ॥ १ ॥
उपवेशे यदा जातः श्लीपदी दद्रुसंयुतः ।
धनहीनो भवेत्तस्य पीडा भवति नित्यशः ॥ २ ॥
नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः ।
धनवान् धार्म्मिकश्चैव द्विभार्य्यो बहुभाषकः ॥ ३ ॥
प्रकाशने च यो जातो राजपात्रो भवेच्च सः ।
नानागुणेन गुणवान् धार्म्मिकः पण्डितः शुचिः ॥”
मतान्तरे ।
जायास्थाने च लग्ने च प्रकाशने यदा शनिः ।
तदा सर्व्वविनाशः स्याज्जातिध्वंसो भवेद्
ध्रुवम् ॥ ४ ॥
गमने च यदा जातः पादमूले रुजान्वितः ।
तीर्थे च गतिमान्नित्यं पुत्त्रदारैर्विवर्ज्जितः ॥ ५ ॥
यो जातो गमनेच्छायां श्लीपदी रोगसंयुतः ।
दन्ताघाती महाक्रोधी कृपणः परनिन्दकः ॥ ६ ॥
सभायाञ्च शनेर्जातः पुत्त्रदारधनैर्युतः ।
सर्व्वत्र लभते वित्तं नानारत्नसमन्वितम् ॥ ७ ॥
आगमने यदा जातो महाक्रोधी रुजान्वितः ।
सर्पादिभिश्च संदष्टो भ्रातृनाशी भवेद्ध्रुवम् ॥ ८ ॥
भोजने चैव यो जातो मन्दाग्निश्च महानपि ।
अर्शोरोगी तथा शूली चक्षूरोगी भवेच्च सः ॥ ९ ॥
यो जातो नृत्यलिप्सायां नर्त्तको बहुभाषकः ।
जीवतो दुःखितश्चैव प्रवासी परसेवकः ॥ १० ॥
कौतुके च शनेर्जातो राजपुत्त्रो महाशयः ।
दाता भोक्ता महादक्षो धार्म्मिकः पण्डितः
शुचिः ॥ ११ ॥
निद्रायाञ्च शनेर्जातो धनवान् पण्डितः शुचिः ।
चक्षूरोगी पित्तशूली द्विभार्य्या बहुपुत्त्रकः ॥
विशेषतश्च धर्म्मस्थे कर्म्मस्थे च कदाचन ।
यदि दैवाद्भवेन्निद्रा नाशो भवति निश्चितम् ॥
कर्म्मनाशो धर्म्मनाशः क्षुधार्त्तो दुःखितः सदा ।
नित्यप्रवासी रोगी च कार्य्यनाशः पदे पदे ॥
स्वमित्रगेहे षष्ठे वा केन्द्रे वा स्वगृहे पुनः ।
तदा सर्व्वं विचार्य्यञ्च वैपरीत्येन चिन्तनम् ॥
जायायाञ्च सुतस्याने यदि निद्रा भवेत् पुनः ।
तदा सर्व्वं शुभं विद्याद्विष्णुना परि-
कीर्त्तितम् ॥ १२ ॥
इति शनेः ॥ * ॥
शयने च यदा राहोर्जन्म यस्य भवेत् पुनः ।
तस्य क्लेशो महादुःखं जायते च न संशयः ॥ १ ॥
उपवेशे च यो जातः श्लीपदी रोगसंयुतः ।
बहुहानिर्नरेन्द्रस्य पीडा भवति नित्यशः ॥ २ ॥
नेत्रपाणौ यदा जातश्चक्षूरोगी भवेद्ध्रुवम् ।
सर्पाघातो महाभीतिर्द्बिभार्य्यो बहुभाषकः ॥ ३ ॥
प्रकाशने च यो जातो धनवान् धार्म्मिकः पुनः ।
नित्यप्रवासी चोत्साही सात्त्विको धार्म्मिकः
शुचिः ॥ ४ ॥
गमने चैव यो जातो नानारोगैर्धनक्षयः ।
दन्ताघाती महाक्रोधी पिशुनः परनिन्दकः ॥ ५ ॥
यो जातो गमनेच्छायां बहुपुत्त्रो महाधनः ।
पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ ६ ॥
सभायाञ्च यदा जातः कृपणो धनसंयुतः ।
नानागुणेन गुणवान् धार्म्मिकः पण्डितः
शुचिः ॥ ७ ॥
आगमने च यो जातो लम्पटो बहुभाषकः ।
सुहृद्बन्धुविनाशः स्यान्नानाक्लेशश्च जायते ॥ ८ ॥
भोजने च महादुष्टो मन्दाग्निश्च रुजान्वितः ।
कृपणः कलहाढ्यश्च दुःखितो नित्यसेवकः ॥ ९ ॥
यो जातो नृत्यलिप्सायां खञ्जो भवति नान्यथा ।
पुत्त्रनाशो भवेत्तस्य जायानाशो भवेद्ध्रुवम् ॥ १० ॥
कौतुके च यदा जातो गुणैः सर्व्वैः समन्वितः ।
नानाधनेन् धनवान् राजसेवासु तत्परः ॥
यदि दैवाद्भवेत्तुङ्गी स्वगृही वा कदाचन ।
तदा सर्व्वं वैपरीत्यं जायते च न संशयः ॥ ११ ॥
यो जातो राहुनिद्रायां दुःखितः सर्व्वतस्तथा ।
नानास्थाने गतो वापि धनपुत्त्रविवर्ज्जितः ॥
जायायाञ्च सुतस्थाने यदि निद्रां विधुन्तुदः ।
तदा सर्व्वं वैपरीत्यं शतजायासमन्वितः ॥ १२ ॥
नानाशास्त्रं समालोक्य क्रियते ग्रन्थसंग्रहः ।
बलाबलविचारेण युक्त्या सञ्चिन्तयेद्बुधः ॥”
इति ग्रहाणां शयनादिद्बादशभावविवेकः
समाप्तः ॥ इति जातरत्नः कोष्ठीप्रदीपश्च ॥
अथ तन्वादिद्वादशभावाः ।
ते च नराणां जन्मलग्नावधिकद्बादशस्थानानि ।
यथा, --
पृष्ठ ३/५०७
“सामर्थ्यं तनु कल्यते समुदये वित्तं कुटुम्बं ततो
विक्रान्तिं सहजं तृतीयभवने योधञ्च सञ्चि-
न्तयेत् ।
बन्धुं वाह्यसुखालयानपि ततो धीमन्त्रपुत्त्रांस्ततः
षष्ठेऽथ क्षतविद्विषौ मदगृहे कामं स्त्रियं वर्त्म च ॥
रन्ध्रायुर्मृतयोऽष्टमे गुरुतपो भाग्यानि चित्तन्ततो
मानाज्ञास्पदकर्म्मणां दशमभे कुर्य्यात्ततश्चिन्त-
नम् ।
प्राप्त्यायावथ चिन्तयेद्भवगृहे ऋप्फे तु मन्त्रि-
व्ययौ
सौम्यस्वामियुतीक्षणैरुपचयस्तेषां क्षतिस्त्वन्यथा ॥
इति द्वादशभावविवेकः ॥
अरातिव्रणयोः षष्ठे चाष्टमे मृत्युरन्ध्रयोः ।
अयस्य द्वादशस्थाने वैपरीत्येन चिन्तनम् ॥”
अरात्यादिभावापवादः ॥
अथ तन्वादिद्वादशभावस्थग्रहफलम् ।
“लग्ने सूर्य्येऽक्षिरोगी शशिनि बलयुतो रूप-
वान् वित्तयुक्तो
भौमे व्यङ्गः सुवाग्मी शशधरतनये सर्व्व-
शास्त्रार्थवेत्ता ।
जीवे दाता पवित्रः सुकविरथ गते भार्गवे
मण्डलेशः
शौरौ कण्डूतिगात्रस्तमसि च नियतं वञ्चितो
धर्म्महीनः ॥ १ ॥
वित्तेऽर्के चैव रोगी सततगदयुतो रात्रिनाथे
घनाढ्यो
भौमे नित्यं प्रवासी कृषिसुतधनवान् सोमपुत्त्रे
प्रधानः ।
जीवे लक्ष्मीप्रमोदी विलसति भृगुजे दर्पितः
स्त्रीनिकेतः
सौरौ दीनोऽति नित्यं तमसि च नियतं चौरि-
कावित्तिजीवी ॥ २ ॥
भ्रातर्य्यर्के सधर्म्मः स भवति नियतं भ्रातृहा
रात्रिनाथे
हिस्रो भौमेऽनुजानां सपदि वधकरो भूमिका-
वृत्तिजीवी ।
सौम्ये सत्यस्य हन्ता भवति सुरगुरौ कामदेव-
स्वरूपः
शुक्रे राज्याधिकारी रविजदनुजयोर्भ्रातृहन्ता
धनाढ्यः ॥ ३ ॥
अर्के बन्धौ सुदुःखी स्वजनपरिवृतः शीतगौ
जानुरोगी
भौमे कुग्रामवासी भवति शशिसुते भ्रातृपुत्त्रा-
न्बितोऽपि ।
जीवे रत्नोपभोगी त्रिदशरिपुगुरौ सर्व्वसोख्या-
धिकारी
सौरौ गेहे निवासी भवति शशिरिपौ मन्द-
कर्म्मा कुचेलः ॥ ४ ॥
पुत्त्रस्थेऽर्के नरोऽसौ प्रथमसुतहतः सिंहराशौ
सुपुत्त्रः
स्रोमे सर्व्वाधिकारी भवति धरणिजे पुत्त्रशोका-
कुलोऽसौ ।
सौम्ये सुस्थः सुदेहः प्रचुरधनयुतो देवपूज्ये
सुपुत्त्रः
कन्यायुक्तो हि शुक्रे रविजदनुजयोः पुत्त्रपौत्त्रै-
र्विहीनः ॥ ५ ॥
षष्ठेऽर्के शत्रुहन्ता रिपुगणरहितः क्षीणचन्द्रे
गतायुः
पूर्णे शत्रुञ्च हन्याद्भवति धरणिजे हीनदेहो-
ऽतिदीनः ।
सौम्ये शास्त्रार्थयुक्तस्त्रिदशपतिगुरौ राज्य-
सौख्योपभोगी
दैत्याचार्य्येऽतिरोगी रविजदनुजयोः पापभुङ्-
नित्यदुःखी ॥ ६ ॥
पत्न्यामर्के च जायापतिरतिविमुखी शीतरश्मौ
सुपुत्त्रः
सुस्थो भूयान्नरोऽसौ भवति धरणिजे हीन-
भार्य्यश्च नूनम् ।
सौम्ये सुस्थः सुदेहस्त्रिदशपतिगुरौ शास्त्रवेत्ता
शतायुः ।
शुक्रे पुत्त्रप्रमोदी रविजदनुजयोर्हीनभार्य्यश्च
नूनम् ॥ ७ ॥
मृत्यौ चार्के समृत्युर्भवति च नियतं शीतरश्मौ
गतायु-
र्भूमेः पुत्त्रे सुरोगी शशधरतनये शूलरोगी
विकर्म्मा ।
जीवे तीर्थे च मृत्युर्भवति भृगुसुते धार्म्मिक-
स्तीर्थगोऽसौ
सौरौ शूली गतायुर्भवति विधुरिपौ वेदमुक्तो
गतायुः ॥ ८ ॥
धर्म्मे चार्के नरोऽसौ विविधधनयुतः शीतगौ
पुण्यकर्म्मा
लक्ष्मीवान् पुण्यचेता भवति धरणिजे देव-
वित्तापहारी ।
सौम्पे धर्म्म्यः मुशीलस्त्रिदशपतिगुरौ राज-
तुल्यः सुकर्म्मा
शुक्रे तीर्थानुरागी रविजदनुजयोः पापशीलः
सुदुःखी ॥ ९ ॥
कर्म्मण्यर्के प्रतापी प्रचुरधनयुतः श्लीपदी
क्रोधदृष्टिः
सोमे श्लेष्मान्वितोऽसौ विविधधनयुतो भूमिजे
बन्धुहीनः ।
नित्योत्साही च सौम्ये प्रचुरधनयुतो देव-
पूज्यऽभिमानी
दिव्यस्त्रीशोऽपि शुक्रे नृपतिसमधनः सौरिदैत्ये
सुखी च ॥ १० ॥
आये चार्के नरोऽसौ पितृधनसहितः शीतगौ
चारुशीलो
भौमे नित्यं स रोगी शशधरतनये सर्व्वदा
क्रोधयुक्तः ।
जीवे श्रीमान् प्रदाता करितुरगपतिर्भार्गवे
शास्त्रविज्ञः
छत्री रत्नादियुक्तो रविजदनुजयोः क्रूरकर्म्मा
कुचेलः ॥ ११ ॥
अर्के संस्थे व्ययेऽसौ पुरधनरहितः सर्व्वरोगी
सुदुःखी
सोमे खेदान्वितोऽसौ भवति धरणिजे द्यूतरक्तो
विबुद्धिः ।
सौम्ये धर्म्मार्थकारी दिनकररहिते देवपूज्ये-
ऽभिमानी
शुक्रे शास्त्रानुरागी रविजदनुजयोः क्रूरकर्म्मा
कुचेलः ॥ १२ ॥
इति ज्योतिस्तत्त्वम् ॥ * ॥
स्त्रीणां यौवनकाले स्वभावजाष्टाविंशत्यलङ्का-
रान्तर्गताङ्गजप्रथमालङ्कारः । यथा, --
“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥”
तत्र भावः ।
“निर्व्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥”
जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो
विकारो भावः । यथा, --
“स एव सुरभिः कालः स एव मलयानिलः ।
सैवेयमवला किन्तु मनोऽन्यदिव दृश्यते ॥”
इति साहित्यदर्पणे तृतीयपरिच्छेदः ॥ * ॥
भावस्य लक्षणान्तरं यथा, --
“शरीरेन्द्रियवर्गस्य विकाराणां विधायकाः ।
भावा विभावजनिताश्चित्तवृत्तय ईरिताः ॥
पुराणे नाट्यशास्त्रे च द्वयोस्तु रतिभावयोः ।
समानार्थतया चात्र द्बयमैक्येन लक्ष्यते ॥” * ॥
पूर्ब्बोक्तमानसविकाररूपभावस्य विवरणं यथा,
रजःसत्त्वतमोमयश्चित्तविकारो भावः । चित्त-
वृत्तिविशेषो भाव इत्यन्ये । अतएव मनो-
विकारो रत्यादिर्भाव उक्तः । भावयति जनयति
रसान् भावः अन् । तथा च भरतः ।
“नानाभिनयसम्बन्धान् भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाटकोक्तिषु ॥”
भावाश्च त्रिविधाः स्थायिनो व्यभिचारिणः
सात्त्विकाश्च । तत्र स्थायिनो यथा, --
“रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयन्तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्त्तिताः ॥
व्यभिचारिणी यथा, --
“निर्व्वेदग्लानिशङ्काख्यास्तथासूयामदम्रमाः ।
आलस्यञ्चैव दैन्यञ्च चिन्ता मोहो धृतिः स्मृतिः ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्व्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
स्वप्नो विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः प्रयान्ति रससंस्थितम् ॥”
सात्त्विका यथा, --
“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मता इति ॥
रत्यादयः स्थायिनोऽष्टौ निर्व्वेदाद्या व्यभि-
चारिणस्त्रयस्त्रिंशत् स्वेदादयः सात्त्विका अष्टौ
चेति ऊनपञ्चाशद्भावाः पञ्चाशद्भावा इत्यन्ये ।
इत्यमरटीकायां भरतः ॥
पृष्ठ ३/५०८
(प्रधानव्यभिचारिप्रभृतयो भावशब्देनोच्यन्ते ।
यदुक्तं साहित्यदर्पणे तृतीयपरिच्छेदे ।
“सञ्चारिणः प्रधानानि देवादिविषया रतिः ।
उद्बुद्धमात्रः स्यायी च भाव इत्यभिधीयते ॥”)
भगवद्भावो यथा, --
“शुद्धसत्त्वविशेषात्मा प्रेमसूर्य्यांशुसाम्यभाक् ।
रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥”
इति भक्तिरसामृतसिन्धुः ॥ * ॥

भावकः, पुं, (भाव एव स्वार्थे कन् ।) भावः ।

मानसो विकारः । इति हलायुधः ॥ (भवतीति ।
भू + कर्त्तरि ण्वुल् ।) सत्ताश्रये, त्रि । इति
संक्षिप्तसारः ॥

भावतः त्रि, (भवत अयमिति । भवत् + अण् ।)

भवदीयः । शत्रन्तभवच्छब्दादण्प्रत्ययनिष्पन्नः ।
इति सिद्धान्तकौमुदी ॥

भावत्कः, त्रि, (भवतामयमिति । भवत् + “भवत-

ष्ठक्छसौ ।” ४ । २ । ११५ । इति ठक् ।)
भवदीयः । भवच्छब्दात् ठक्प्रत्ययनिष्पन्नः ।
इति सिद्धान्तकौमुदी ॥ यथा, भट्टिपञ्चमसर्गे ।
“भावत्कं दृष्टवत्स्वेतदस्मास्मधि सुजीवितम् ॥”

भावनं क्ली, (भू + णिच् + ल्युट् ।) भव्यम् ।

इति राजनिर्घण्टः ॥ चाल्ता इति भाषा ॥
(भावे ल्युट् ।) भावना । इति मेदिनी । ने,
१०१ ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे ।
“सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम् ॥”
भावयतीति । भू + णिच् + ल्युः । उत्पादके,
त्रि । यथा, महाभारते । १ । २२४ । ४५ ।
“दृष्ट्वैव च स राजानं शङ्करो लोकभावनः ।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥”)

भावना, स्त्री, क्ली, (भू + णिच् + युच् ।) ध्यानम् ।

(यथा, गीतायाम् । २ । ६६ ।
“नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥”)
पर्य्यालोचनम् । अधिवासनम् । इति मेदिनी ।
ने, १०१ ॥ त्रिविधा भावना यथा, --
“त्रिविधा भावना विप्र ! विश्वमेतन्निबोध मे ।
ब्रह्माख्या कर्म्मसंज्ञा च तथा चैवोभयात्मिका ॥
ब्रह्मभावात्मिका ह्येका कर्म्मभावात्मिकापरा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥
सनन्दनादयो ब्रह्मभावभावनया युताः ।
कर्म्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥
हिरण्यगर्भादिषु च ब्रह्मकर्म्मात्मिका द्विधा ।
बोधाधिकारयुक्तेषु विद्यते भावभावना ॥”
इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥
त्रिविधभावनाश्रयजीवात्मकत्वात्तदुपचारेण
त्रिविधा भावनेत्युच्यते । एतद्धि हरेः स्थूलं
रूपम् । अतः पररूपप्राप्त्युपायत्वात् तत्र
प्रथमं मनः मन्धार्य्यमिति भावः । भावना नाम
ज्ञानविशेषजा वासना । तां त्रिविधामपि
संज्ञामादिशति ब्रह्माख्येति । तामेव विषय-
त्रैविध्येन विविनक्ति ब्रह्मभावनात्मिकेति । भाव-
भावना भावो वस्तु तद्बिषया भावना त्रिविधा ।
तत्र वयं ब्रह्मैव भावयामः । वयं कर्म्मैव कुर्म्मः ।
वयन्तूभयमिदमनुसन्दध्म इत्येवं त्रिविधा
भावना । भावनायुक्तान् जीवानुदाहरति सन-
न्दनादय इति द्वाभ्याम् । इति तट्टीका ॥

भावबोधकः, पुं, (भावस्य रत्यादेर्वोधकः अनु-

भावकः ।) अनुभावः । इत्यमरः । २ । ७ । २१ ॥ भावस्य
रत्यादेर्बोधकः सूचको गुणक्रियादिरनुभावः ।
अनुभाव्यते प्रतीतियोग्यतां नीयते रत्यादिरने-
नेति अनुभावः घञ् । तत्र रतेरनुभावाः
लोचनचातुर्य्यभ्रूक्षेपादयः । हासस्य च कपोला-
कुञ्चनानासोत्फुल्लनादयोऽनुभावा एवं अन्यत्रा-
नुमन्तव्यम् । किंवा भावाननुभावयतीति अन्
अनुभावो मुखरागादिः । इति तट्टीकायां
भरतः ॥

भाववृत्तः, पुं, (भावः सत्ता वृत्तः प्रवृत्तोऽस्मा-

दिति । यद्वा, भावः सृष्टिः तत्र वृत्तः प्रवृत्तः ।)
ब्रह्मा । इति सन्ध्याव्याख्यायां स्मृतिः ॥

भावाटः, पुं, (भावं भावेन वाटतीति । अट् +

अण् अच् वा ।) भावकः । साधुः । निवेशः ।
कामुकः । नटः । इति मेदिनी । टे, ५२ ॥

भावानुगा, स्त्री, (भावं मूर्त्तपदार्थमनुगच्छ-

तीति । अनु + गम् + डः । टाप् ।) छाया ।
इति राजनिर्घण्टः ॥ (भक्त्यादिना अनुगते, त्रि ॥)

भावालीना, स्त्री, (भावेषु मूर्त्तपदार्थेषु आलीना ।)

छाया । इति राजनिर्घण्टः ॥

भावितः, त्रि, (भाव्यते स्मेति । भू + णिच् + क्तः ।)

वासितः । प्राप्तः । इति मेदिनी । ते, १४० ॥
विशोधितः । (यथा, महाभारते । १३ । १६ । ३८ ।
“ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः ।
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥”)
चिन्तितः । मिश्रितः । भू क शुद्धिचिन्तयोर्मि-
श्रणे च इत्यस्मात् ञ्यन्तात् क्तप्रत्ययनिष्पन्नो-
ऽयम् ॥ (समर्पितः । यथा, महाभारते । १ ।
५ । ३२ ।
“एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति ! कर्म्म ब्रह्मणि भावितम् ॥”
“भगवति भावितं समर्पितम् ।” इति तट्टीकायां
श्रीधरस्वामी ॥ सिक्ताः । यथा, सुश्रुते चिकि-
त्सितस्थाने । १ अध्याये ।
“भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्र-
भावितम् ॥”)

भावित्रं, क्ली, (भवतीति । भू + “भूवादिगॄभ्यो

णित्रन् ।” उणा० ४ । १७० । इति णित्रन् ।)
त्रैलोक्यम् । स्वर्गमर्त्यपातालम् । इत्युणादिकोषः ॥

भाविनी, स्त्री, स्त्रीविशेषः । इत्यमरः ॥ भावः

शृङ्गारचेष्टाविशेषो विद्यतेऽस्याः भाविनी । इति
तट्टीकायां भरतः ॥ (यथा, हरिवंशे । ११७ । ३६ ।
“सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भाविनी ।
पतिव्रता गुणोपेता रूपशीलगुणान्विता ॥”)
स्त्रीमात्रम् । इति राजनिर्घण्टः ॥ (स्कन्दस्य
मातृगणानामन्पतमा । यथा, महाभारते ।
९ । ४६ । ११ ।
“शतघण्टा शतानन्दा भगनन्दा च भाविनी ।
वपुष्मती चन्द्रशीता भद्रकाली च भारत ! ॥”)
वर्त्तमानप्रागभावप्रतियोगिनी च ॥

भावी, [न्] त्रि, (भविष्यतीति । भू + “भुवश्च ।”

उणा० ४ । ८ । इति इनिः । स च णिद्-
भवति ।) भविष्यत्कालादिः । वर्त्तमानप्राग-
भावप्रतियोग्युत्पत्तिकः । यथा, --
“वीरप्रतिपदा नाम तव भावी महोत्सवः ॥”
इति कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति
भगवद्वाक्यम् । इति तिथ्यादितत्त्वम् ॥

भावुकं, क्ली, (भवतीति । भू + “लषपतपदस्थाभू-

वृषेति ।” ३ । २ । १५४ । इति उकञ् ।) मङ्गलम् ।
(यथा, प्रद्युम्नविजये १ अङ्के ।
“शक्र ! सर्व्वत्र कुशलमस्माकम् । अपि भावुकं
वः सुराणाम् ॥”)
तद्बति, त्रि । इत्यमरः । १ । ४ । २६ ॥

भावुकः, पुं, (भू + उकञ् ।) नाट्योक्तौ भगिनी-

पतिः । इति हेमचन्द्रः ॥

भावुकः, त्रि, भवनाश्रयः । भवति यः । इति

कर्त्तरि भूधातोर्ञुकप्रत्ययेन निष्पन्नः ॥ रसविशेष-
भावनाचतुरः । इति श्रीधरस्वामी ॥ यथा, --
“निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
सुहुरहो रसिका भुवि भावुकाः ॥”
इति श्रीभागवते । १ । १ । ३ ॥
लग्नपलितप्रियान्धस्थूलसुभगाढ्यशब्दोपपदभू-
धातोरभूततद्भावार्थे कर्त्तरि वाच्ये खुकञ्-
प्रत्ययेन लग्नम्भावुक इत्यादयश्च निष्पन्नाः ॥

भाव्यं, क्ली, अवश्यभवितव्यम् । इति भूधातो-

रवश्यम्भावार्थे भावे ध्यण्प्रत्ययेन निष्पन्नम् ।
यथा । विप्रेण शुचिना भाव्यम् । इति मुन्ध-
बोधव्याकरणम् ॥ प्रयोगदर्शनात् कर्त्तरि च तत्र
त्रि । यथा, --
“कृतस्य करणं नास्ति दैवाधिष्ठितकर्म्मणः ।
भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यवाधकः ॥”
इति कालिकापुराणे ३८ अध्यायः ॥

भाष, ङ ऋ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, भाषते । ऋ, अवीभषत्
अवभाषत् । इति तट्टीकायां दुर्गादासः ॥

भाषणं, क्ली, (भाष् + भावे ल्युट् ।) कथनम् ।

यथा । “संलापो भाषणं मिथः ।” इत्यमरः ॥
(यथा, सर्व्वदर्शनसंग्रहे । आर्हतदर्शने ।
“हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् ॥
आलोच्य भाषणेनापि भाषयेत् सूंनृतं व्रतम् ॥”)

भाषा, स्त्री, (भाष्यते शास्त्रव्यवहारादिना प्रयु-

ज्यते इति । भाष् + “मुरोश्च हलः ।” ३ । ३ ।
१०२ । इत्यप्रत्ययः । टाप् ।) रागिणीविशेषः ।
इति हलायुधः ॥ वाक्यम् । वाग्देवता । तत्-
पर्य्यायः । ब्राह्मी २ भारती ३ गीः ४ वाक् ५
वाणी ६ सरस्वती ७ व्याहारः ८ उक्तिः ९
लपितम् १० भाषितम् ११ वचनम् १२ वचः
पृष्ठ ३/५०९
१३ । इत्यमरः । १ । ६ । १ ॥ त्रयोदश वचने । पूर्ब्बसप्तकं
वागधिकृतायां देवतायाञ्च । इति तट्टीकायां
भरतः ॥ शास्त्रीयाष्टादशभाषा यथा । संस्कृतम्
१ प्राकृता २ उदीची ३ महाराष्ट्री ४ मागधी ५
मिश्रार्द्धमागधी ६ शकाभीरी ७ श्रवन्ती ८
द्राविडी ९ ओड्रीया १० पाश्चात्या ११ प्राच्या १२
वाह्लीका १३ रन्तिका १४ दाक्षिणात्या १५
पैशाची १६ आवन्ती १७ शौरसेनी १८ ।
एतासां लक्षणोदाहरणानि प्राकृतलङ्केश्वर-
व्याकरणे द्रष्टव्यानि ॥
अथ भाषाविभागः ।
“पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम् ।
शौरसेनी प्रयोक्तव्या तादृशीबाञ्च योषिताम् ॥
आसामेव तु गाथान्तु महाराष्ट्रीं प्रयोजयेत्।
अत्रोक्ता मागधी भाषा राजान्तःपुरचारि-
णाम् ॥
चेटानां राजपुत्त्राणां श्रेष्ठिनाञ्चार्द्धमागधी ।
प्राच्या विदूषकादीनां धूर्त्तानां स्यादवन्तिका ॥
योधनागरिकादीनां दाक्षिणात्याहि दीव्यताम् ।
शकाराणां शकादीनां शाकारीं संप्रयोजयेत् ॥
वाह्लीकभाषा दिव्यानां द्राविडी द्रविडादिषु ।
आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ॥
आभीरी शावरी चापि काष्ठपत्रोपजीविषु ।
तथैवाङ्गारकारादौ पैशाची स्यात् पिशाच-
वाक् ।
चेटीनामप्यनीचानामपि स्यात् शौरसेनिका ॥
बालानां षण्डकानाञ्च नीचग्रहविचारिणाम् ।
उन्मत्तानामातुराणां सैव स्यात् संस्कृतं
क्वचित् ॥
ऐश्वर्य्येण प्रमत्तस्य दारिद्र्योपस्कृतस्य च ।
भिक्षुबल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥
संस्कृतं संप्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।
देवीमल्लिसुतावेश्याष्वपि कैश्चित्तथोदितम् ॥
यद्देशो नीचपात्रस्तु तद्देशे तस्य भाषितम् ।
कार्य्यतश्चोत्तमादीनां कार्य्यो भाषाविपर्य्ययः ॥
योषित्सखीबालवेश्याकितवाप्सरसां तथा ।
वैदग्ध्यार्थं प्रदातव्यं संस्कृतञ्चान्तरान्तरा ॥
एषामुदाहरणान्याकारेषु बोद्धव्यानि । भाषा-
लक्षणानि भाषार्णवे । इति साहित्यदर्पणे ६
परिच्छेदः ॥
अथ भाषापादः ।
तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती ।
“प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥
यदा त्वेवंविधः पक्षः कथितः पूर्ब्बवादिना ।
दद्यात्तत्पक्षसम्बद्धं प्रतिवादी तदोत्तरम् ॥
प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैः
परस्परविरुद्धार्थपदादिभिस्त्यक्तं साध्यं साधना-
र्हाभिमतं पक्षं विदुः । अन्यथा प्रतिज्ञादोषेण
साध्यदोषः स्यात् । अतएवोक्तम् ।
“वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता ।
असङ्करेण वक्तव्ये व्यवहारेषु वादिभिः ॥”
वक्तव्ये पक्षप्रतिज्ञे पूर्ब्बोक्ते । नारदेनापि ।
“सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥”
उत्तरो विजयी । यद्यप्यन्यत्र साध्यं तद्-
विशिष्टधर्म्माधर्म्मी पक्ष इति भेदः तथाप्यत्र
बाक्प्रतार्य्यर्णादिघर्म्मविशेषविशिष्टतया धर्म्मि-
णोऽधमर्णपदैरेव साध्यत्वात् साध्यपक्षयोरभेदा-
भिधानम् । उपसंहारे च एवंविधः पक्ष इति ।
मिताक्षरायान्तु । भाषा प्रतिज्ञा पक्ष इति
नार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषास्वरूप-
प्रपञ्चमाह । स्वल्पाक्षर इति । निराकुलः
पौर्व्वापर्य्यविपर्य्यासादिशून्यः । तत्र ।
“द्यूते च व्यवहारे च प्रवृत्ते यज्ञकर्म्मणि ।
यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ॥”
इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा
शोधयेत् ॥ * ॥ तच्छोधनमाह बृहस्पतिः ।
“न्यूनाधिकं पूर्ब्बपक्षं तावद्वादी विशोधयेत् ।
न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥”
तल्लिखनप्रकारमाह व्यासः ।
“पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् ।
न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत्”
फलकं काष्ठादिपट्टकम् । कात्यायनः ।
“पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रेऽभिलेखयेत् ॥
शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनम् ।
उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥
अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनां वचः ।
चौरवच्छासयेत्तन्तु धार्म्मिकः पृथिवीपतिः ॥”
स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिना
सुज्ञेयम् । अतएव याज्ञवल्क्यः ।
“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥”
भूतं तत्त्वार्थसम्बन्धम् । नारदः ।
“भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम् ।
किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥
मनुष्यचित्तवैचित्र्यात् परीक्षा साध्वसाधु वा ।
सर्व्वेष्वर्थविवादेषु वाक्छलेनावसीदति ॥
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥”
सर्व्वेष्वर्थविवादेषु प्रमादाभिधानेऽपि नावसी-
दति । अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थ-
विवादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने
प्रकृतार्थादप्यर्थाद्वीयत इति गम्यते । यथाह-
मनेन शिरसि पादेन ताडितः इत्यभिधाय
केवलं हस्तेन ताडितः इति वदन्न केवलं दण्ड्यः
पराजीयते च । ततश्च त्वं मह्यमृणं धारयसि
मत्त ऋणत्वेन गृहीततावद्धनकत्वादिति भाषा-
शरीरम् । एतच्च संस्कृतदेशभाषान्यतरेण यथा-
बोधं वक्तव्यं लेख्यं वा । मूर्खाणामपि वादिप्रति-
वादितादर्शनात् । अतएवाध्यापनेऽपि तथोक्तं
विष्णुधर्म्मोत्तरे ।
“संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः ।
देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥
इति व्यवहारतत्त्वम् ॥

भाषापरिच्छेदः, पुं, विश्वनाथन्यायपञ्चाननकृत-

न्यायपरिभाषाग्रन्थः । अस्य अयमाद्यश्लोकः ।
“नूतनजलधररुचये गोपवधूटीदुकूलचौराय ।
तस्मै नमः कृष्णाय संसारमहीरुहस्य बीजाय ॥”
तस्यायमन्त्यश्लोकः ।
“सोऽयं क इति बुद्बिस्तु साजात्यमवलम्बते ।
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ॥”
अस्य टीका सिद्धान्तमुक्तावली ॥

भाषापादः, पुं, (भाषायाः पादः ।) चतुष्पाद्ब्य-

वहारान्तर्गतप्रथभपादः । तस्य लक्षणं यथा, --
“अर्थवद्धर्म्मसंयुक्तं परिपूर्णमनाकुलम् ।
साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थेञ्च देशकालाविरोधि च ॥
वर्षर्त्तुमासपक्षाहोवेलादेशप्रदेशवत् ।
स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनाम च ।
परात्मपूर्ब्बजानेकराजनामभिरङ्कितम् ॥
क्षमालिङ्गात्मपीडावत्कथिताहर्त्तृदायकम् ।
यदावेदयते राज्ञे तद्भाषेत्यभिधोयते ॥”
इति मिताक्षरायां व्यवहाराध्यायः ॥
अस्य विवरणं भाषाशब्दे द्रष्टव्यम् ॥

भाषितं, क्ली, (भाष्यते इति । भाष् + भावे क्तः ।)

वचनम् । इत्यमरः । १ । ६ । १ ॥ (यथा, मनौ । ८ । २३ ।
“आकारैरिङ्गितैर्गत्या चेष्ठया भाषितेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥”
भाष्यते स्मेति । भाष् + कर्म्मणि क्तः ।) कथिते
त्रि ॥ (यथा, कामन्दकीये नीतिसारे । ५ । २४ ।
“प्रविश्य सानुरागस्य चित्तं चित्तज्ञसम्मतः ।
समर्थयंश्च तत्पक्षं साधु भाषेत भाषितः ॥”)

भाष्यं, क्ली, (भाष्यते विवृततया वर्ण्यते इति ।

भाष + ण्यत् ।) चूर्णिः । इति स्वामी ॥ सूत्र-
विवरणग्रन्थः । तस्य लक्षणम् ।
“सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥”
इति लिङ्गादिसंग्रहटीकायां भरतः ॥ सूत्रो-
क्तार्थप्रपञ्चकम् । इति हेमचन्द्रः ॥ (भाष्यते
अत्रेति । ण्यत् ।) गृहविशेषः । इति माध-
वीति मथुरेशः ॥ (भाष् + ण्यत् ।) कथ-
नीये त्रि ॥

भाष्यकारः, पुं, (भाष्यं चूर्णिं करोतीति । कृ +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) महा-
भाष्यकर्त्ता मुनिः । तत्पर्य्यायः । गोनर्द्दीयः २
पतञ्जलिः ३ चूर्णिकृत् ४ । इति त्रिकाण्डशेषः ॥
“अहञ्च भाष्यकारश्च कुशाग्रीयधियायुभौ ।
नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥”
इति दुर्गसिंहः ॥

भास ऋ ङ भासि । दीप्तौ । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) ऋ
पृष्ठ ३/५१०
अवीभसत् अबभासत् । ङ भासते । इति
दुर्गादासः ॥

भास्, स्त्री, (भासते इति । भास + “भ्राजभास-

र्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ ।
इति क्विप् ।) प्रभा । अस्य शब्दस्य प्रथमान्त-
रूपं भाः । इत्यमरः । १ । ४ । ३४ ॥ मयूखः ।
इति मेदिनी । से, ७ ॥ इच्छा । इति धरणिः ॥

भासः, पुं, (भास्यते इति । भास + भावे घञ् ।)

दीप्तिः । (यथा, महाभारते । ८ । ५८ । ३१ ।
“चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।”)
(भासन्ते गावोऽत्र । भास + आधारे घञ् ।)
गोष्ठम् । (भासते दीप्यते इति । भास् + कर्त्तरि
अच् ।) कुक्कुटः । गृघ्रः । इति विश्वः । स्वनाम-
ख्यातपक्षिविशेषः । तत्पर्य्यायः । शकुन्तः २ ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । १ ।
१३४ । ७० ।
“कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।
अभिज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥”
पर्व्वतभेदः । यथा, महाभारते । १४ । ४३ । ४ ॥
“हिमवान् पारिपात्रश्च सह्यो बिन्ध्यस्त्रिकूट-
वान् ।
श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्व्वतः ॥”)
(स्त्रियां ङीप् । प्राधायाः कन्या । यथा, महा-
भारते । १ । ६५ । ४६ ।
“अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् ।
अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)

भासः, [स्,] क्ली, (भास् + आसस् ।) दीप्तिः ।

इति द्विरूपकोषः ॥

भासन्तः, पुं, (भासते इति । भास् + तॄभूवहि-

वसिभासीति ।” उणा० ३ । १२८ । इति झच् ।)
सूर्य्यः । चन्द्रः । इत्युणादिकोषः ॥ भासपक्षी ॥
इति मेदिनी । ते, १३९ ॥ नक्षत्रम् । इति हेमचन्द्रः ॥

भासन्तः, त्रि, (भासते इति । भास + झच् ।)

सुन्दराकारः । इति मेदिनी । ते, १३९ ॥

भासन्ती, स्त्री, (भासन्त । गौरादित्वात् ङीष् ।)

नक्षत्रम् । इत्युणादिकोषः ॥

भासुः, पुं, (भास् + बाहुलकादुन् ।) सूर्य्यः ।

इति त्रिकाण्डशेषः ॥

भासुरं, क्ली, (भासते इति । भास् + “भञ्जभास-

मिदो घुरच् ।” ३ । २ । १६१ । इति घुरच् ।)
कुष्ठौषधम् । इति जटाधरः ॥

भासुरः, पुं, (भास + घुरच् ।) स्फटिकः । इति

त्रिकाण्डशेषः ॥ वीरः । इति धरणिः । कर्त्तरि
घुरप्रत्ययनिष्पन्नत्वेन दीप्तियुक्ते, त्रि ॥ (यथा,
किरातार्ज्जुनीये । ५ । ५ ।
“मणिमयूखचयांशुकभासुराः
सुरवधूपरिभुक्तलतागृहाः ॥”)

भासुरपुष्पा, स्त्री, (भासुराणि पुष्पाण्यस्याः ।

टाप् ।) वृश्चिकाली । इति राजनिर्घण्टः ॥

भास्करं, क्ली, (भाः करोतीति । कृ + “दिवा-

विभानिशाप्रभा भास्करान्तानन्तादीति ।” ३ । २ ।
२१ । इति टः ।) सुवर्णम् । इति राजनिर्घण्टः ॥

भास्करः, पुं, (भाः करोतीति । कृ + “दिवा-

विभेति । ३ । २ । २१ । इति टः ।) सूर्य्यः ।
(यथा, मनौ । २ । ४८ ।
“प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथाविधि ॥”)
अग्निः । इति मेदिनी । रे, १९१ ॥ वीरः । इति
घरणिः ॥ अर्कवृक्षः । इति राजनिर्घण्टः ॥
भास्कराचार्य्यः । स च सिद्धान्तशिरोमण्यादि-
ज्योतिर्ग्रन्थकर्त्ता ॥

भास्करप्रियः, पुं, (भास्करस्य प्रियः ।) पद्मराग-

मणिः । इति केचित् । चुणि इति भाषा ॥

भास्करेष्टा, स्त्री, (भास्करस्य इष्टा ।) आदित्य-

भक्ता । इति राजनिर्घण्टः ॥

भास्वरं, क्ली, (भासते इति । भास् + “स्थेश

भासपिसकसो वरच् । ३ । २ । १७५ । इति
वरच् ।) कुष्ठौषधम् । इति शब्दचन्द्रिका ॥

भास्वरः, पुं, (भासते इति । भास् + “स्थेशभास-

पिसकसो वरच् । ३ । २ । १७५ । इति वरच् ।)
दिनम् । इति राजनिर्घण्टः ॥ सूर्य्यः । इति
केचित् । दीप्तियुक्ते, त्रि । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, महाभारते । १ । ११ । ११ ।
“स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा ।
स्वं रूपं भास्वरं भूयः प्रतिपेदे महायशाः ॥”
सूर्य्यस्यानुचरविशेषः । स च भगवता सूर्य्येण
तारकासुरवधसाहाय्यार्थं स्कन्दाय दत्तः । यथा,
महाभारते । ९ । ४५ । ३० ।
“सुभ्राजो भास्वरश्चैव यौ तौ सूर्य्यानुयायिनौ ।
तौ सूर्य्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥”)

भास्वान्, [त्] पुं, (भासः सन्त्यस्येति । भास् +

“तदस्यास्त्यस्मिन्नितिमतुप् ।” ५ । २ । ९४ । इति
मतुप् । मस्य वः ।) सूर्य्यः । (यथा, मार्क-
ण्डेयपुराणे । १०१ । १६ ।
“यथा चाराधितो देव्या सोऽदित्या कश्यपेन च ।
आराधितेन चोक्तं यत् तेन देवेन भास्वता ॥”)
अर्कवृक्षः । इत्यमरः ॥ दीप्तिः । इति हेमचन्द्रः ॥
वीरः । इति मेदिनी ॥ दीप्तिविशिष्टे, त्रि ॥
(यथा, कुमारसम्भवे । १ । २ ।
“यं सर्व्वशैलाः परिकल्प्य वत्सं
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥”
प्रकाशकः । यथा, मनौ । १ । ७७ ।
“वायोरपि विकुर्व्वाणाद्विरोचिष्णु तमोनुदम् ।
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥”
“भास्वत् प्रकाशकम् ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥)

भिक्ष, ङ लाभार्थलोभोक्तिक्लिशि । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-याचने द्विक०-लाभे
लोभोक्तौ च सक०-क्लिशि अक०-सेट् ।) अर्थो
याचनम् । लोभादुक्तिर्लोभोक्तिः । ङ, भिक्षते
भूमिं नृपात् पण्डितः । लभत इत्यर्थः । भिक्षते
दातारं धनं भिक्षुः । याचत इत्यर्थः । भिक्षते
दातारं दीनः । लोभाद्वदतीत्यर्थः । भिक्षते
जनः । क्लिश्यतीत्यर्थः । इति दुर्गादासः ॥

भिक्षा, स्त्री, (भिक्ष याचनादौ + “गुरोश्च हलः ।”

३ । ३ । १०२ । इति अः । ततष्टाप् ।) लोभ-
याचनम् । चाओया इति मागा इति च
भाषा । तत्पर्य्यायः । याच्ञा २ अर्थना ३
अर्द्दना ४ । इत्यमरः । ३ । २ । ६ ॥ प्रार्थनम् ५
याचना ६ । इति शब्दरत्नावली ॥ (तदुक्तम् ।
“बाणिज्ये वसते लक्ष्मीस्तदर्द्धं कृषिकर्म्मणि ।
तदर्द्धं राजसेवायां भिक्षायां नैव नैव च ॥”)
सेवा । भृतिः । इति नानार्थे अमरः ॥
भिक्षितवस्तु । इति मेदिनी ॥ (सा च ग्रास-
प्रमाणा । ग्रासमात्रा भवेद्भिक्षेति शातातप-
वचनात् ॥ यथा, मनुः । ३ । ९४ ।
“कृत्वैतद्बलिकर्म्मैवमतिथिं पूर्ब्बमाशयेत् ।
भिक्षाञ्च भिक्षवे दद्याद्बिधिवद् ब्रह्मचारिणे ॥”)
उपनीतस्य भिक्षाविधिर्यथा, --
“भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतो-
ऽन्वहम् ।
निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥
भवत्पूर्ब्बञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥
मातरं वा स्वसारं वा मातुर्व्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥
सजातीयगृहेष्वेव सार्व्ववर्णिकमेव वा ।
भैक्षस्याचरणं प्रोक्तं पतितादिविवर्जितम् ॥
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु ।
ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्जयेत् ॥
सर्व्वद्वारि चरेद्भैक्षं पूब्बोक्तानामसम्भवे ।
नियम्य प्रयतो वाचं दिशन्त्वनवलोकयन् ॥
समाहृत्य तु तद्भैक्षं यावदर्थममायया ।
भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥”
इति कूर्म्मपुराणे उपविभागे १२ अध्यायः ॥ * ॥
सायं प्रातर्भिंक्षाटनाभावो यथा, --
“कारयित्वा तु कर्म्माणि कारुम्पश्चान्न वञ्चयेत् ।
सायं प्रातर्गहद्वारान् भिक्षार्थं नावघट्टयेत् ॥”
इति तत्रैव १५ अध्यायः ॥ * ॥
सा त्रिविधा यथा, --
“हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुद्ध्वैतं परमेश्वरम् ॥
भिक्षामाहुर्ग्रासमात्रमग्रन्तस्माच्चतुर्गुणम् ।
पुष्कलं हन्तकारान्तं तच्चतुर्गुणमुच्यत ॥
गोदोहमात्रं कालं वै प्रतीक्षेदतिथिः स्वयम् ।
अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥
भिक्षां वै भिक्षवे दद्याद्बिधिवद्ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥
सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् ॥”
इति तत्रैव १७ अध्यायः ॥
पृष्ठ ३/५११

भिक्षाकः, पुं, (भिक्षते इति । भिक्ष + “जल्प-

भिक्षकुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ । इति
षाकन् ।) भिक्षुकः । इति सिद्धान्तकौमुदी ॥

भिक्षाकी, स्त्री, (भिक्षाक + षित्वात् ङीष् ।)

भिक्षुकी । इति मुग्धबोधव्याकरणम् ॥

भिक्षाचरः, पुं, स्त्री, (भिक्षां चरतीति । भिक्षा +

चर + “भिक्षासेनादायेषु च ।” ३ । २ । १७ । इति
टः ।) भिक्षुकः । इति सिद्धान्तकोमुदी ॥
(स्वनामख्यातो भोजनरपतेः पुत्त्रः । यथा,
राजतरङ्गिण्याम् । ८ । १७ ।
“राज्ञ्यां विभवमत्यां यं भोजो हर्षनृपात्मजः ।
जातं मृतद्वित्रिपुत्त्रानन्तरं गुरुभिः शिशुम् ।
आयुष्कामैस्तमाबद्ध्वाभव्यभिक्षाचराभिधम् ॥”)

भिक्षाटनं, क्ली, (भिक्षार्थमटनं गमनम् ।)

भिक्षार्थगमनम् । यथा, --
“अर्द्धं दानववैरिणा गिरिजयाप्यर्द्धं हरस्याहृतं
देवेत्थं जगतीतले स्मरहराभावः समुन्मीलति ।
गङ्गा वारिधिमम्बरं शशिकला नागाधिपः
क्ष्मातलं
सर्व्वज्ञत्वमधीश्वरत्वमगमत् त्वां माञ्च भिक्षा-
टनम् ॥”
इत्युद्भटः ॥

भिक्षाशित्वं, क्ली, (भिक्षाशिनो भिक्षुकस्य भावः ।

भिक्षाशिन् + त्व ।) पैशुन्यम् । इति हारा-
वली ॥

भिक्षाशी, [न्] त्रि, (भिक्षां अश्नातीति । अश +

णिनिः ।) भिक्षुकः । इत्युणादिकोषः ॥ यथा, --
“भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि न जीवति ॥”
इति प्रायश्चित्तविवेकः ॥

भिक्षुः, पुं, (भिक्षणशीलः । भिक्ष याचने +

“सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।)
ब्रह्मचार्य्याद्याश्रमचतुष्टयान्तर्गतचतुर्थाश्रमी ।
आश्रमशब्दोऽयं धर्म्मिपरो धर्म्मपरश्च । इति
भरतः ॥ तत्पर्य्यायः । परिव्राट् २ कर्म्मन्दी ३
पाराशरी ४ मस्करी ५ इत्यमरः । २ । ७ । ४२ ॥
परिव्राजकः ६ पराशरी ७ व्रजकः ८ । इति
शब्दरत्नावली ॥ तस्य धर्म्मो यथा, --
“भिक्षोर्धर्म्मं प्रवक्ष्यामि तन्निबोधत सत्तमाः ।
वनाद्गृहाद्वा कृत्वेष्टिं सर्व्ववेदसदक्षिणाम् ॥
प्राजापत्यां तदन्ते तु अग्निमारोप्य चात्मनि ।
सर्व्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥
सर्व्वारामं परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ।
अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नातिलक्षितः ॥
रहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुपः ।
भवेत् परमहंसो वा एकदण्डो यमादिकृत् ॥
सिद्धयोगस्त्यजन् देहममृतत्वमिहाप्नुयात् ।
योगमभ्यस्य मितभुक् परां सिद्धिमवाप्नुयात् ॥
दातातिथिप्रियो ज्ञानी गृही श्राद्धेऽपि मुच्यते ।”
इति गारुडे १०३ अध्यायः ॥ * ॥
अपि च ।
“चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनी-
षिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥
पुत्त्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप ! ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्द्धूतमत्सरः ॥
त्रैवर्णिकांस्त्यजेत् सर्व्वानारम्भानवनीपते ! ।
मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥
जरायुजाण्डजादीनां वाङ्मनःकर्म्मभिः क्वचित् ।
युक्तः कुर्व्वीत न द्रोहं सर्व्वसङ्गांश्च वर्जयेत् ॥
एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथा प्रीतिर्द्बेषो वा नास्य जायते ॥
प्राणयात्रानिमित्तञ्च व्यङ्गारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थे पर्य्यटेद् गृहान् ॥
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु दोषान् परित्यज्य परिव्राण्णिर्म्ममो भवेत् ॥
अभयं सर्व्वसत्त्वेभ्यो दत्त्वा यश्चरते मुनिः ।
न तस्य सर्व्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं
शारीरमग्निञ्च मुखे जुहोति ।
विप्रस्तु भैक्षोपगतैर्हविर्भि-
श्चिताग्निना स व्रजति स्म लोकान् ॥
मोक्षाश्रमं यश्चरते यथोक्तं
शुचिः सुसङ्कल्पितबुद्धियुक्तिः ।
अनिन्धनं ज्योतिरिव प्रशान्तं
स ब्रह्मलोकं श्रयति द्बिजातिः ॥”
इति बिष्णुपुराणे ३ अंशे ९ अध्यायः ॥ * ॥
बुद्धभेदः । इति जटाधरः ॥ श्रावणीक्षुपः ।
इति राजनिर्घण्टः ॥ कोकिलाक्षः । इति भाव-
प्रकाशः ॥

भिक्षुकः, पुं, स्त्री, (भिक्षुरेव । भिक्षु + स्वार्थे

कन् । यद्बा, भिक्षते इति । भिक्ष + उक ।)
भिक्षोपजीवी । तत्पर्य्यायः । मार्गणः २ याच-
नकः ३ वनीयकः ४ याचकः ५ । इति
जटाधरः ॥ अर्थी ६ । इत्यमरः ॥ (यथा,
मनुः । ३ । २४३ ।
“ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् ।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥”
पारिभाषिकभिक्षुका यथा, अत्रिः ।
“ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः ।
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥”)

भिक्षुसंघाटी, स्त्री, (भिक्षुं संघटते इति । भिक्षु

+ सम् + घट + अण् । गौरादित्वात् ङीष् ।)
चीवरम् । इति हेमचन्द्रः ॥ यथा, सुश्रुते
उत्तरतन्त्रे ३३ अध्याये ।
“पुरीषं कौक्कुटं केशांश्चर्म्मसर्पत्वचन्तथा ।
जीर्णञ्च भिक्षुसं घाटीं धूपनायोपकल्पयेत् ॥”)

भिण्डः, पुं, (भण्यते इति । भण् + डः । पृषोदरा-

दित्वात् साधुः ।) भिण्डाक्षुपः । इति राज-
निर्घण्टः ॥

भिण्डकः, (भिण्ड । स्वार्थे कन् ।) भिण्डाक्षुपः ।

इति राजनिर्घण्टः ॥

भिण्डा, स्त्री, (भिण्ड + अजादित्वात् टाप् ।)

क्षुपविशेषः । भिण्डी इति ख्याता । तत्पर्य्यायः ।
भिण्डीतकः २ भिण्डः ३ भिण्डकः ४ क्षेत्र-
सम्भवः ५ चतुष्पदः ६ चतुःपुण्डः ७ सुशाकः ८
अस्रपत्रकः ९ करपर्णः १० वृत्तबीजः ११ ।
अस्या गुणाः । अम्लरसत्वम् । उष्णत्वम् ।
ग्राहित्वम् । रुचिकरत्वञ्च । इति राजनिर्घण्टः ॥

भिण्डीतकः, पुं, (भिण्डी सती तकति हसतीति ।

तक् + अच् ।) भिण्डावृक्षः । इति राज-
निर्घण्टः ॥

भित्तं, क्ली, (भिद्यते स्मेति । भिद् + क्तः । “भित्तं

शकलम् ।” ८ । २ । ५९ । इति निष्ठातकारस्य
नत्वाभावो निपात्यते ।) खण्डम् । इत्यमरः ।
१ । ३ । १६ ॥

भित्तिः, स्त्री, (भिद्यते इति । भिद् + क्तिन् ।)

गृहादेर्मृदिष्टकादिमयी वृतिः । काँथ इति भित्
इति च ख्याता । तत्पर्य्यायः । कूड्यम् २ । इत्य-
मरः । २ । २ । ४ ॥ भित्तिका ३ कुड्यम् ४
कुड्यकम् ५ । इति शब्दरत्नावली ॥ (यथा,
विश्वकर्म्मप्रकाशे । पञ्चमाध्याये ।
“मानेनानेन विस्तारो भित्तीनान्तु विधीयते ।
पादे पञ्चगुणं कृत्वा भित्तीनामुच्छ्रयो भवेत् ॥”)
प्रभेदः । सम्बिभागः । अवकाशः । इति विश्वः ।
प्रदेशः । इति शब्दरत्नावली ॥ (यथा,
रघौ । ५ । ४३ ।
“अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः
प्राक् सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिः
र्वन्यः सरित्तो गज उन्ममज्ज ॥”)

भित्तिका, स्त्री, (भिद्यते भिनत्ति वेति ।

भिदिर विदारणे + “कृतिभिदिलतिभ्यः कित् ।”
उणा० ३ । १४७ । इति तिकन् । कित् स्यात् ।)
कुड्यम् । इति शब्दरत्नावली ॥ पल्ली । इति
हेमचन्द्रः ॥

भित्तिचौरः, पुं, (चोरयतीति । चुर + अच् ।

चौर एव स्वार्थे अण् । चौरः । भित्त्या कुड्यादि-
भेदेन चौरः ।) चौरविशेषः । सिँदाल चोर
इति भाषा । तत्पर्य्यायः । खानिनः २ कूड्य-
च्छित् ३ । इति शब्दरत्नावली ॥

भित्तिपातनः, पुं, (पातयतीति । पत + णिच् ।

कर्त्तरि ल्युः । भित्तीनां पातनः ।) महामूषकः ।
इति राजनिर्घण्टः ॥

भित्, [द्] स्त्री, (भिद्यते इति । भिद् + “सत्

सूद्विषद्रुहदुहयुजविदभिदेति ।” ३ । २ । ६१ ।
इति क्विप् ।) प्रभेदः । इति जटाधरः ॥
(भिनत्तीति । भिद् + तच्छीलादिषु “अन्यतो-
ऽपि दृश्यते ।” इति क्विप् ।) भेदकर्त्तरि त्रि ॥
(यथा, ऋग्वेदे । ७ । १७४ । ८ ।
“भिनत्पुरो न भिदो अदेवीर्न नमो वधरदेवस्य
पीयोः ॥”)

भिद इर् औ ञ ध भिदि । इति कविकल्पद्रुमः ॥

(रुधा०-उभ०-सक०-अनिट् ।) भित् कियद-
वयवविदारणम् । ञ ध भिनत्ति भिन्ते कूलं
नदी । औ भेत्ता । इर् अभिदत् अभैत्सीत् ।
इति दुर्गादासः ॥
पृष्ठ ३/५१२

भिदकं, क्ली, (भिनत्तीति । भिद् + “बहुलमन्य-

त्रापि ।” उणा० २ । ३७ । इति क्वुन् ।) वज्रम् ।
खड्गे, पुं । इत्युणादिकोषः ॥

भिदा, स्त्री, (भेदनमिति भिद् + “षिद्भिदादि-

भ्योऽड् ।” ३ । ३ । १०४ । इति । अङ् । टाप् ।)
वस्त्रादेर्घिदारणम् । चेरा इति भाषा । तत्-
पर्य्यायः । विदरः २ स्फुटनम् ३ । इत्यमरः ।
३ । २ । ५ ॥ धन्याकम् । इति शब्दचन्द्रिका ॥ भेदः ।
यथा । प्रायश्चित्तस्य पूर्ब्बाहकृत्यं बाल्यभिदा
तथा । इति प्रायश्चित्ततत्त्वम् ॥

भिदिः, पुं, (भिनत्तीति । भिद + “कॄगशॄपॄकुटि-

भिदिच्छिदिभ्यश्च ।” उणा० ४ । १४२ । इति
इः । स च कित् ।) वज्रम् । इति द्विरूप-
कोषः ॥

भिदिरं, क्ली, (भिनत्ति विदारयतीति । भिद्

+ “इषिमदिमुदिखिदिच्छिदिभिदिमन्दीति ।”
उणा० १ । ५२ । इति किरच् ।) वज्रम् ।
इत्यमरटीकायां भरतः त्रिकाण्डशेषश्च ॥

भिदुः, पुं, (भिनित्ति विदारयतीति । भिद् +

“पॄभिदिव्यधिगृधिधृषिदृशिभ्यः ।” उणा० १ ।
२४ । इति कुः ।) वज्रम् । इति त्रिकाण्डशेषः ॥

भिदुरं, क्ली, (भिनत्तीति । भिद् + “विदिभिदि-

च्छिदेः कुरच् ।” ३ । २ । १६२ । इति । कुरच् ।)
वज्रम् । इत्यमरः । १ । १ । ५० ॥ प्लक्षवृक्षे पुं ।
इति राजनिर्घण्टः ॥

भिद्यः, पुं, (भिनत्ति कूलमिति । भिद् + “मिद्यो

द्ध्यौ नदे ।” ३ । १ । ११५ । इति क्यप् । निपा-
तितश्च ।) नदः । इति हेमचन्द्रः ॥ मुग्धबोध-
व्याकरणञ्च ॥ (यथा, भट्टौ । ६ । ५९ ।
“समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान् ।
सिध्यतारामिव ख्यातां शवरीमापतुर्वने ॥”)

भिद्रः, पुं, क्ली, (भिनत्तीति । भिद् “स्फायितञ्चि

वञ्चिशकिक्षयिक्षुदिसृपितृपीति ॥” उणा० ३ ।
१३ । इति रक् ।) वज्रम् । इति त्रिकाण्डशेषः
उणादिकोषश्च ॥

भिन्दिपालः, पुं, (भिदि + इन् । भिन्दिं विदारणं

पालयतोति पालि + अण् ।) हस्तप्रमाण-
काण्डः । नालिकास्त्रमिति ख्यातम् । इति
भरतः ॥ हस्तक्षेप्यलगुडः । इति स्वामी ॥
तत्पर्य्यायः । सृगः २ । इत्यमरः । २ । ८ । ९१ ॥
(यथा, वैशम्पायनसंहितायाम् । ३ ।
“भिन्दिपालस्तु वक्राङ्गो नम्रशीर्षो बृहच्छिराः ।
हस्तमात्रोत्सेधयुक्तः करसम्मितमण्डलः ॥”
भिण्डिबालः भिन्दिवालश्चापि इत्येवं पाठद्वयं
दृश्यते ।)

भिन्नः, त्रि, (भिद्यते स्मेति । भिद् + क्तः ।) भेद-

विशिष्टः । भाङ्गा इति भाषा । तत्पर्य्यायः ।
दारितः २ । भेदितः ३ । इत्यमरः । ३ । १ । १०० ॥
विदारितः ४ । इति शब्दरत्नावली ॥ (यथा,
हरिवंशे । भविष्यपर्व्वणि । ५३ । १६ ।
“भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम् ।
आकरं विकरं भिन्नं निर्मर्यादममानुषम् ॥”)
सङ्गतः । अन्यः । फुल्लः । इति मेदिनी । ने, १४ ॥
क्षतरोगविशेषः । तल्लक्षणं यथा, --
“शक्तिकुन्तेषु खड्गाग्रविषाणैराशयो हतः ।
यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नमित्यभिधीयते ॥”
आशयः कोष्ठः । तस्यौषधं यथा, --
“छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् ।
रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥
स्नेहपानपरीषेकलेपांस्तत्रोपनाहनम् ।
कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक् ॥
खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः ।
गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ॥
कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयोजयेत् ।
सद्यो ब्रणानां सप्ताहात् पश्चात् पूर्ब्बोक्त-
माचरेत् ॥
आमाशयस्थे रुधिरे विदध्याद्वमनं नरः ।
तस्मिन् पक्वाशयस्थे तु गृह्णीयात् सविरेचनम् ॥
क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ।
हिङ्गुसैन्धवसंयुक्तः कोष्टस्थं स्रावयेदसृक् ॥
यवकोलकुलत्थानां निःस्नेहेन रसेन च ।
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् ॥
जातीनिम्बपठोलपत्रकटुकादार्व्वीनिशाशारिवा
मञ्जिष्ठाभयतिक्ततुत्थमधुकैर्नक्ताह्वबीजैः समैः ।
सर्पिःसिद्धमनेन सूक्ष्मवदना मर्म्माश्रिताः
स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति
रोहन्ति च ॥
वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः ।
जातीघृते तु संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः ॥”
जात्यादिघृतम् । इति भावप्रकाशः ॥ * ॥
(अथोपाङ्गचिकित्सा ।
“छिन्नं भिन्नं तथा भग्नं क्षतं पिच्छितमेवच ॥
दग्धन्तेषां प्रतीकारः प्रोक्तश्चोपाङ्गसंज्ञकः ॥”
इति हारीते प्रथमे स्थाने द्वितीयेऽध्याये ॥)

भिन्नकः, पुं, (भिन्न + संज्ञायां कन् ।) बौद्धः । यथा,

“भिन्नकः क्षपणोऽर्ह्रीको बौद्धो वैनायिकः
स्मृतः ॥”
इति त्रिकाण्डशेषः ॥
(भिन्न + “अनत्यन्तगतौ क्तात् ।” ५ । ४ । ४ ।
इति कन् । ईषद् भिन्ने, त्रि ।)

भिन्नगात्रिका, स्त्री, (भिन्नं गात्रमस्याः । कप् ।

टाप् । अत इत्वम् ।) कर्कटी । इति शब्द-
चन्द्रिका ॥

भिन्नभिन्नात्मा, [न्] पुं, (भिन्नभिन्नो भेदयुक्त आत्मा

यस्य ।) चणकः । इति शब्दचन्द्रिका ॥

भिन्नयोजनी, स्त्री, (भिन्नं योजयतीति । युज् +

णिच् + णिनिः । ङीप् ।) पाषाणभेदकवृक्षः ।
इति भावप्रकाशः ॥

भिन्नार्थकः, त्रि, (भिन्नोऽर्थो यस्य । कप् ।)

अन्यः । इत्यमरः । ३ । १ । ८२ ॥

भिया, स्त्री, (भीयते इति । भी + “षिद्भिदा-

दिभ्योऽङ् ।” ३ । ३ । १०४ । इति अङ् । इयङ् ।
टाप् ।) भयम् । इति हेमचन्द्रः । २ । ३०१ ॥

भिरिण्टिका, स्त्री, श्वेतगुञ्जा । इति राजनिर्घण्टः ॥

भिल्ल, पुं, (भेलयति भिलत्तीति वा । भिल् +

बाहुलकात् । लक् ।) म्लेच्छजातिविशेषः । भील
इति भाषा । यथा, हेमचन्द्रे ।
“माला भिल्लाः किराताश्च सर्व्वऽपि म्लेच्छ-
जातयः ॥”
अपि च ।
“रजकश्चर्म्मकारश्च नटो वरुड एव च ।
कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥”
इति प्रायश्चित्ततत्त्वम् ॥
स च ब्राह्मणकन्यायां तीवराज्जातः । यथा, --
“पुलिन्दमेदभिल्लाश्च पुल्लो मल्लश्च धावकः ।
कुन्दकारो डोखलो वा मृतपो हस्तिपस्तथा ।
एते वै तीवराज्जाताः कन्यायां ब्राह्मणस्य च ॥”
इति पराशरपद्धतिः ॥

भिल्लगवी, स्त्री, (भिल्लानां गवी ।) गवयी । इति

राजनिर्घण्टः ॥

भिल्लतरुः, पुं, (भिल्लप्रियस्तरुः । लोध्रपुष्पेण हि

भिल्लादयोऽङ्गभूषणादिकं कुर्व्वन्तीति प्रसिद्धे-
रस्य तथात्वम् ।) लोध्रः । इति राजनिर्घण्टः ॥

भिल्ली, स्त्री, (भिल्ल + ङीप् । भिल्लानां प्रियत्वा-

दस्यास्तथात्वम् ।) लोध्रः । इति राजनिर्घण्टः ॥

भिष्, रुग्जये । सौत्रधातुरयम् । इति कविकल्प-

द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) भिषक्
भेषजं भेषति । इति दुर्गादासः ॥

भिषक्, [ज्] बिभेति रोगो यस्मादिति । भीलि

भीत्याम् + “भियः षुक् ह्रस्वश्च ।” उणा० १ ।
१३७ । इति अजिः षुगागमो ह्रस्वत्वञ्च ।)
वैद्यः । इत्यमरः । २ । ६ । ५७ ॥ (अस्य
प्राशस्त्यादिकं यथा, --
“भिषग्बुभूषुर्मतिमान् अतः स्वगुणसम्पदि ।
परं प्रयत्नमातिष्ठेत् प्राणदः स्याद् यथा नृणाम् ॥
तदेव युक्तं भैषज्यं यदारोम्याय कल्प्यते ।
स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत् ॥
सम्यक् प्रयोगं सर्व्वेषां सिद्धिराख्यातिकर्म्मणाम् ॥
सिद्धिराख्यातिसर्व्वैश्च गुणैर्युक्तं भिषक्तमम् ॥”
इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥
“एतदवश्यमध्येयमधीत्य च कर्म्माप्यवश्यमुपा-
सितव्यमुभयज्ञो हि भिषग्राजार्हो भवति ॥”
यस्तु केवलशास्त्रज्ञः कर्म्मस्वपरिनिष्ठितः ।
स मुह्यत्यातुरम्प्राप्य प्राप्य भीरुरिवाहवम् ॥
यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छास्त्रबहिष्कृतः ।
स सत्सु पूजां नाप्नोति वधञ्चार्हति राजतः ॥
उभावेतावनिपुणावसमर्थौ स्वकर्म्मणि ।
अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ ॥
ओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः ।
भवन्त्यज्ञैरुपहृतास्तस्मादेतौ विवर्ज्जयेत् ॥
छेद्यादिष्वनभिज्ञो यः स्नेहादिषु च कर्म्मसु ।
स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः ॥
यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने ।
आहवे कर्म्मनिर्वोढुं द्बिचक्रः स्यन्दनो यथा ॥”
इति सुश्रुते सूत्रस्थाने तृतीयेऽध्याये ॥)
पृष्ठ ३/५१३
दण्डनीयभिषग् यथा, --
“अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।
रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चौरवद्भिषक् ॥”
इति ज्योतिस्तत्त्वम् ॥
तस्यान्नस्याभोज्यत्वं यथा, --
“शूद्रान्नं ब्राह्मणो भुक्त्रा तथा रङ्गावतारिणः ।
चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनाम् ॥
शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥”
व्रती यावकेन । तत्र धेनुद्वयम् । इति प्राय-
श्चित्तविवेकः ॥ अपि च ।
“पूयञ्चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ।
विष्ठा वार्द्धु षिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥”
इति मानवे ४ अध्यायः ॥
(शतधन्वनः क्षेत्रजः पुत्त्रः । यथा, हरिवंशे ।
३८ । ६ ।
“कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः ।
देवर्षेश्च्यवनात् तस्य भिषग्वैतरणश्च यः ॥”
औषधम् । यथा, ऋग्वेदे । १ । २४ । ९ ।
“शतं ते राजन् भिषजः सहस्रमुर्व्वी
गभीरा सुमतिष्टे अस्तु ॥”
“हे राजन् ! वरुण ! ते तव शतं भिषजः
सहस्रं बन्धनिवारकाणि शतसहस्रसंख्याका-
न्यौषधानि वैद्या वा सन्ति ॥” इति तद्भाष्ये
सायनः ॥)

भिषक्प्रिया, स्त्री, (भिषजः प्रिया ।) गुडुची ।

इति राजनिर्घण्टः ॥
(विवृतिरस्या गुडूचीशब्दे ज्ञातव्या ॥)

भिषग्जितं, क्ली, (भिषजा जितम् ।) औषधम् ।

इति त्रिकाण्डशेषः ॥ (चिकित्सा ॥ यथास्य
पर्य्यायः ।
“चिकित्सितं प्रतीकारश्चिकित्सा च भिषग्-
जितम् ॥”
इति वैद्यकरत्नमालायाभ् ॥)

भिषग्भद्रा, स्त्री, (भिषजि औषधे वैद्ये वा भद्रा

शुभदायिका ।) भद्रदन्तिका । इति राज-
निर्घण्टः ॥

भिषङ्माता, [ऋ] स्त्री, (भिषजां मातेव ।)

वासकः । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्यायः ।
“वासको वाशिका वासा भिषङ्माता च
सिंहिका ।
सिंहास्यो वाजिदन्ता स्यादटरूषोऽटरूषकः ॥
आटरूषो वृषस्ताम्रः सिंहपर्णश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भिस्सटा, स्त्री, (भिस्सामन्नं टीकते इति । टीक

गतौ + “अन्येभ्योऽपीति डः । ततः पृषोदरा-
दित्वात् साधुः ।) दग्धान्नम् । इत्यमरः । २ ।
९ । ४९ ॥ अस्य रूपान्तरम् । भिस्सिटा ।
भिष्मिटा । भिष्मिष्टा । भिष्मिका । इति तट्टीका-
सारसुन्दरी ॥

भिस्सा, स्त्री, (बभस्तीति । भस दीप्तौ + बाहुल-

कात् सः । छन्दसि बहुलमितीत्वम् । ब्राह्मण-
भिस्सेति भाष्यप्रयोगाल्लोकेऽपि । यद्बा, भेदन-
मिति भित् । भिद् + क्विप् । भिदं स्यतीति ।
सो + “आतोऽनुपसर्गे कः ।” इति कः । पृषो-
दरादित्वात् साधुः ।) अन्नम् । इत्यमरः । २ ।
९ । ४८ ॥ (अस्याः पर्य्यायो यथा, --
“भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् ।
ओदनोऽस्त्री स्त्रियां भिस्सादीदिविः पुंसि-
भाषितः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

भिस्सिटा, स्त्री, (भिस्सामन्नं टीकते इति । टीक

गतौ + डः । पृषोदरादित्वात् साधुः ।) दग्धा-
न्नम् । इत्यमरटीकासारसुन्दरी ॥

भी, ग गि भृत्याञ्च । इति कविकल्पद्रुमः ॥ (क्र्या०

-पर० सक०-अनिट् ।) ग, भीनाति । गि,
भिनाति । भीनः भीनिः । गिनैव क्र्यादित्वसिद्धौ
ग्रग्रहणं प्वादित्वविकल्पार्थं चकारात् भीत्याञ्च ।
इति दुर्गादासः ॥

भी, ञि लि भीत्याम् । इति कविकल्पद्रुमः ॥

(ह्वा०-पर०-अक०-अनिट् ।) ञि, भीतोऽस्ति ।
लि, बिभेति । इति दुर्गादासः ॥

भीः, स्त्री, (भी भीत्याम् + सम्पदादित्वात् क्विप् ।)

भयम् । इत्यमरः । १ । ७ । २१ ॥ (यथा,
आर्य्यासप्तशत्याम् । ३८७ ।
“पूर्ब्बाधिको गृहिण्याम् बहुमानः प्रेमनर्म्म-
विश्वासः ।
भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥”)

भीतं, क्ली, (भी लि भीत्याम् + क्तः ।) भयम् ।

भययुक्ते, त्रि । इति मेदिनी । ते, ४० ॥ (यथा,
मनुः । ७ । ९४ ।
“यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्त्तुर्यद्दुष्कृतं किञ्चित् तत्सर्व्वं प्रतिपद्यते ॥”)

भीतिः, स्त्री, (भी + क्तिन् ।) भयम् । इत्यमरः ।

१ । ७ । २१ ॥ (यथा, मार्कण्डेये । ८४ । १६ ।
“दुर्गे ! स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥”)
कम्पः । इति विश्वः ॥

भीमं, त्रि, (बिभेत्यस्मादिति । भी + “भियः

षुग्वा ।” उणा० १ । १४७ । बिभेतेर्मक् धातोर्वा
षुगागमश्च । इति मक् ।) भयहेतुः । तत्-
पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४
भीष्मम् ५ घोरम् ६ भयानकम् ७ भयङ्करम् ८
प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ (यथा,
रघुः । १ । १६ ।
“भीमकान्तैर्नृ पगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥”)

भीमः, पुं, (बिभेत्यस्मादिति । भी + मक् ।) भया-

नकरसः । यथा, --
“भयानको भयस्थायिभावः कालाधिदैवतः ।
स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥”
इत्यमरटीकायां भरतः ॥
शिवः । (यथा, मार्कण्डेये । ५२ । ७ ।
“भवं सर्व्वं तथेशानं तथा पशुपतिं प्रभुः ।
भीममुग्रं महादेवमुवाच स पितामहः ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ ।
“अतुलः शरभो भीमः समयज्ञो हविर्हरिः ॥”)
मध्यमपाण्डवः । (यथा, महाभारते । १ ।
१२३ । १३ ।
“तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥”
अस्य विवरणादिकं भीमसेनशब्दे द्रष्टव्यम् ॥)
अम्लवेतसः । इति मेदिनी । मे, २१ ॥ महादेव-
स्याष्टमूर्त्त्यन्तर्गताकाशमूर्त्तिः । यथा । भीमाय
आकाशमूर्त्तये नमः । इति तिथ्यादितत्त्वे
शिवपूजाप्रयोगः ॥ (गन्धर्व्वविशेषः । यथा,
महाभारते । १ । ६५ । ४३ ।
“भीमश्चित्ररथश्चैव विख्यातः सर्व्वविद्बशी ॥”
पुरुवंशीयस्य ईलिनस्य पुत्त्रः । यथा, तत्रैव ।
१ । ९४ । १८ ।
“ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान् ।
दुष्मन्तं शूरभीमौ च प्रवसुं वसुमेव च ॥”)

भीमनादः, पुं, (भीमो भैरवो नादो यस्य ।)

सिंहः । इति शब्दचन्द्रिका ॥ (भीमो नादः
शब्दः । इति विग्रहे भयानकशब्दः । यथा,
चातकाष्टके । १ ।
“वातैर्विधूनय विभीषय भीमनादैः
सञ्चूर्णय त्वमथवा करकाभिघातैः ।
त्वद्वारिबिन्दुपरिपालितजीवितस्य
नान्या गतिर्भवति वारिद ! चातकस्य ॥”
भयानकशब्दविशिष्टे, त्रि । यथा, महाभारते ।
१ । १५६ । ३१ ।
“भीमनादं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महा-
रवम् ॥”)

भीमरथः, पुं, (भीमो भयानको रथोऽस्य ।)

तामसमनुवंशजातासुरविशेषः । स च कूर्म्म-
रूपिणा हरिणा हतः । यथा, --
“हरिणा कूर्म्मरूपेण हतो भीमरथोऽसुरः ॥”
इति गारुडे गयामाहात्म्ये ८६ अध्यायः ॥
(धृतराष्ट्रस्य पुत्त्रभेदः । यथा, महाभारते ।
१ । ११७ । ११ ।
“उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः ॥”)

भीमरथी, स्त्री, जनानामवस्थाविशेषः । यथा, --

“सप्तसप्ततिके वर्षे सप्तमे मासि सप्तमी ।
रात्रिर्भीमरथी नाम नराणां दुरतिक्रमा ॥”
इति शब्दमाला ॥
अपि च ।
“सप्तसप्ततिवर्षाणां सप्तमे मासि सप्तमी ।
रात्रिर्भीमरथी नाम नराणामतिदुस्तरा ।
तामतीत्य नरो योऽसौ दिनानि यानि जीवति ॥
क्रतुभिस्तानि तुल्यानि सुवर्णशतदक्षिणैः ।
गतिः प्रदक्षिणं विष्णोर्जल्पनं मन्त्रभाषणम् ।
ध्यानं निद्रा सुधा चान्नं भीमरथ्याः फलश्रुतिः ॥”
इति वैद्यकम् ॥
नदीभेदः । यथा राजनिर्घण्टे ।
मलापहा भीमरथी च घट्टगा
पथ्या च कृष्णा जलसाम्यगा गुणैः ॥”
पृष्ठ ३/५१४
(इयं हि सह्यपर्व्वतोद्भवा । यथा, विष्णुपुराणे ।
२ । ३ । ११ ।
“गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥”)

भीमविक्रान्तः, पुं, (भीमश्चासौ विक्रान्तश्चेति ।)

सिंहः । इति त्रिकाण्डशेषः ॥ भयानकविक्रम-
विशिष्टे, त्रि ॥

भीमशासनः, पुं, (भीमं शासनं यस्य ।) यमः ।

इति शब्दरत्नावली ॥

भीमसेनः, पुं, मध्यमपाण्डवः । स च कुन्तीगर्भे

पवनाज्जातः । तत्पर्य्यायः । भीमः २ वीरवेणुः
३ वृकोदरः ४ वकजित् ५ कीचकजित् ६
किर्म्मरिजित् ७ जरासन्धजित् ८ हिडिम्बजित्
९ कटव्रणः १० नागबलः ११ गुणाकरः १२ ।
इति शब्दरत्नावली ॥ तस्य जन्मविवरणं यथा,
“धार्म्मिकस्तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।
प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्टं सुतं वृणु ॥
ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा ।
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥
तमप्यतिबलं जातं वागुवाचाशरीरिणी ।
सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ! ॥
इदमत्युद्भुतञ्चासीज्जातमात्रे वृकोदरे ।
यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत् ॥
कुन्ती व्याध्रभयोद्विग्ना सहसोत्पतिता किल ।
नान्बबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम् ॥
वज्रसंहननः सोऽथ कुमारो न्यपतद्गिरौ ।
पतता तेन शतधा शिला गात्त्रैर्विचूर्णिता ॥”
इति महाभारते आदिपर्व्वणि पाण्डवोत्पत्ति-
नामाध्यायः ॥
(गन्धर्व्वविशेषः । यथा, महाभारते । १ । १२३ । ५२ ।
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ॥”)
कर्पूरभेदः । यथा, --
“पोतासो भीमसेनस्तदनुशितकरः शङ्करा-
वाससंज्ञः
पांशुः पिञ्जोऽब्जसारस्तदनु हिमयुता वालुका
जूटिका च ।
पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः
पत्रिकाख्या
कर्पूरस्येति भेदा गुणरसमहसा वैसदृश्येन
दृश्याः ॥”
इति राजनिर्घण्टः ॥

भीमहासं, क्ली, (भीमे ग्रीष्मादौ हासः प्रकाशो

यस्य ।) इन्द्रतूलम् । इति शब्दरत्नावली ॥
युडिर सुता इति भाषा ॥ ग्रीष्महासमपि पाठः ॥

भीमा, स्त्री, (भी + मक् + स्त्रियां टाप् ।) दुर्गा ।

इति शब्दरत्नावली ॥ रोचनाख्यगन्धद्रव्यम् ।
इति शब्दचन्द्रिका ॥ कशा । इति शब्दमाला ॥
(नदीविशेषः । तद्यथा, --
“कावेरी वीरकान्ता च भीमा चैव पयोष्णिका ।
विभावरी विशाला च गौरीदा मदनस्वसा ॥
पार्व्वती चापरा नद्यो दक्षिणाद्रिगमा हिमाः ॥”
इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥)

भीमादेवी, स्त्री, दुर्गा । यथा, --

“पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ।
रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् ॥
तदा मां मुनयः सर्व्वे स्तोष्यन्त्यानम्रमूर्त्तयः ।
भीमादेवीति विख्यातं तन्मे नाम भविष्यति ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

भीमैकादशी, स्त्री, (भीमेनोपासिता एकादशी ।

शाकपार्थिवादिवत् समासः ।) भैमी । सा च
माघशुक्लैकादशी । भीमद्बादशीत्वेन ख्याता च ।
यथा, --
मत्स्य उवाच ।
“पुरा रथन्तरे कल्पे परिपृष्टो महात्मना ।
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥
ब्रह्मोवाच ।
कथमारोग्यमैश्वर्य्यमनन्तममरेश्वर ! ।
स्वल्पेन तपसा देव ! भवेन्मोक्षोऽथ वा नृणाम् ॥
किमज्ञातं मया देव ! त्वत्प्रसादादधोक्षज ! ।
स्वल्पकेनापि तपसा महत् फलमिहोच्यते ॥
मत्स्य उवाच ।
इति पृष्टः स विश्वात्मा ब्रह्मणा सोकभावनः ।
उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥
ईश्वर उवाच ।
अस्माद्रथन्तरात् कल्पात् त्रयोविंशतिमो यदा ।
वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे ॥
वैवस्वताख्ये संजाते सप्तमे सप्तलोकधृक् ।
द्वापराख्यं युगं तस्मिन् सप्तविंशतिमे तदा ॥
तस्यान्ते स महानीलो वासुदेवो जनार्द्दनः ।
भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥
द्वैपायनो मुनिस्तद्वद्रौहिणेयोऽथ केशवः ।
कंसादिदर्पमथनः केशवः शोकनाशनः ॥
पुरी द्वारवती नाम सांप्रतं वा कुशस्थली ।
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः ॥
त्वष्टा ममाज्ञया ब्रह्मन् ! करिष्यति जगत्पतेः ॥
तस्यां कदाचिदासीनः सभायाममितद्युतिः ।
भार्य्याभिर्वृष्णिभिः सार्द्ध्वं भूभृद्भिर्भूरिदक्षिणैः ॥
कुरुभिर्देवगन्धर्व्वैरभितः कैटभार्द्दनः ।
प्रवृत्तासु पुराणीषु धर्म्मसम्बन्धिनीषु च ॥
कथासु भीमसेनेन परिपृष्टः प्रतापवान् ।
त्वया पृष्टस्य धर्म्मस्य रहस्थस्यास्य भेदकृत् ॥
भविता स तदा ब्रह्मन् ! कर्त्ता चैव वृकोदरः ।
प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः ॥
तस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः ।
मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥
अतीवान्नादशीलश्च नागायुतबलो महान् ।
भविष्यत्यजरः साक्षात् कन्दर्प इव बुद्धिमान् ॥
धार्म्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे ।
इमं व्रतमशेषाणां व्रतानामधिकं यतः ॥
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः ।
अशेषयज्ञफलदमशेषाघविनाशनम् ॥
अशेषदुष्टशमनमशेषसुरपूजनम् ॥
पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् ।
भविष्यञ्च भविष्याणां पुराणानां पुरातनम् ॥
वासुदेव उवाच ।
यद्यष्टमीचतुर्द्दश्यां द्वादशीष्वथ भारत ! ।
अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥
ततः पुण्यामिमां भीम ! तिथिं पापप्रणा-
शिनीम् ।
उपोष्य विधिनानेन गच्छेद्बिष्णोः परं पदम् ॥
माघमासस्य दशमी यदा शुक्ला भवेत्तदा ।
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥
तथैव विष्णुमभ्यर्च्य नमो नारायणाय च ।
कृष्णाय पादौ संपूज्य शिरः सर्व्वात्मनेति च ॥
वैकुण्ठायेति वै कण्ठमुरः श्रीवत्सधारिणे ।
शङ्खिने चक्रिणे तद्वद्गदिने वरदाय वै ॥
सर्व्वे नारायणस्यैवं संपूज्या बाहवः क्रमात् ।
दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै ॥
ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ।
नमो नीलाय वै जङ्घे पादौ विश्वसृजे पुनः ॥
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये ।
नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै तथा श्रियै ॥
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे ।
विषप्रमाथिने नित्यं गरुडञ्चाभिपूजयेत् ॥
एवं संपूज्य गोविन्दमुमापतिविनायकौ ।
गन्धैमांल्यैस्तथा धूपैर्भक्षैर्नानाविधैस्तथा ॥
गव्येन पयसा सिद्धां कृशरामथ वाग्यतः ।
सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥
न्यग्रोधन्दन्तधावनमथवा खादिरं बुधः ।
गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः ॥
ब्रूयात् सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ ।
नमो नारायणायेति त्वामहं शरणं गतः ॥
एकादश्यां निराहारः समभ्यर्च्य च केशवम् ।
रात्रिञ्च सकलां स्थित्वा स्नानञ्च पयसापि च ॥
सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः ।
सहैव पुण्डरीकाक्ष ! द्वादश्यां क्षीरभोजनम् ॥
करिष्यामि यतात्माऽहं निर्विघ्नेनास्तु तच्च मे ।
एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः ॥ * ॥
श्रुत्वा प्रभाते संजाते नदीं गत्वा विशाम्पते ! ।
स्नानं कृत्वा मृदा तद्वत् पाषण्डानभिवर्जयेत् ॥
उपास्य सन्ध्यां विधिवत् कृत्वा च पितृतर्पणम् ।
प्रणम्य च हृषीकेशममलञ्चाप्यनीश्वरम् ॥
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः ।
दशहस्तमथाष्टौ वा करान् कुर्य्याद्बिशाम्पते ! ॥
चतुर्हस्तां शुभां कुर्य्याद्वेदीमरिनिसूदन ! ।
चतुर्हस्तप्रमाणञ्च विन्यसेत्तत्र तोरणम् ॥
आरोप्य कलसं तत्र दिक्पालान् पूजयेत्ततः ।
मासमात्रेण संपूर्णमधःकृष्णाजिने स्थितः ॥
तस्य धाराश्च शिरसा धारयेत् सकलां निशाम् ।
धाराभिर्भूरिभिर्भूरिफलं वेदविदो विदुः ॥
यस्मात्तस्मात् कुरुश्रेष्ठ ! धारा धार्य्याः स्वश-
क्तितः ।
तथैव विष्णोः शिरसि क्षीरधाराः प्रपातयेत् ॥
अरत्निमात्रं कुण्डञ्च कृत्वा तत्र त्रिमेखलम् ।
योनिवक्त्रञ्च तं कृत्वा ब्राह्मणैर्यवसर्पिषी ॥
तिलांश्च विष्णुदैवत्यैर्मन्त्रैरेकाग्निवत्तदा ।
पृष्ठ ३/५१५
कृत्वा च वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम् ॥
निष्पावार्द्धप्रमाणां षै धारामाज्यस्य पातयेत् ॥
जलकुम्भान् महावीर ! स्थापयित्वा त्रयोदश ।
भक्षैर्नानाषिधैर्युक्तान् सितवस्त्रैरलङ्कृतान् ।
युतानौडुम्बरैः पात्रैः पञ्चरँत्नसमन्वितान् ॥
चतुर्भिर्बह्वृचैर्होमस्तत्र कार्य्य उदङसुखैः ।
रुद्रजापश्चतुर्भिश्च यजुर्व्वेदपरायणैः ॥
वैष्णवानि च सामानि चतुरः सामवेदिनः ।
अरिष्टवर्द्धसहितान्यभितः परिपाठयेत् ॥
एवं द्वादश तान् विप्रान् वस्त्रमाल्यानुलेपनैः ।
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥
वासोभिः शयनीयैश्च वित्तशाट्यविवर्जितः ।
एवं क्षपातिवाह्या वै गीतमङ्गलनिस्वनैः ।
उपाध्यायस्य च पुनर्द्विगुणं सर्व्वमेव तु ॥ * ॥
ततः प्रभाते विमले समुत्थाय त्रयोदश ।
गा वै दद्यात् कुरुश्रेष्ठ ! सौवर्णमुखसंयुताः ॥
पयस्विनीः शीलवतीः कांस्यदोहनसंयुताः ।
रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः ॥
तांस्तु तेषां ततो भक्त्या भक्ष्यभोज्येन तर्पितान् ।
कृत्वाथ ब्राह्मणान् सर्व्वानन्नैर्नानाविधैस्तथा ॥
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत् ॥
अनुगम्य पदान्यष्टौ पुत्त्रभार्य्यासमन्वितः ।
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः ॥
शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः ।
यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः ॥
एवमुच्चार्य्य तान् कुम्भान् गाश्चैव शयनानि च ।
वासांसि चैव सर्व्वेषां गृहाणि प्रापयेद्बुधः ॥
अभावे बहुशय्यानामेकामपि मुसंस्कृताम् ।
शय्यां दद्याद्गुरौ भीम ! सर्व्वोपस्करसंयुताम् ॥
इतिहासपुराणानि वाचयित्वातिवाहयेत् ।
तद्दिनं नरशार्दूल ! य इच्छेद्बिपुलां श्रियम् ॥
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन ! विमत्सरः ।
कुरु व्रतमिदं सम्यक् स्नेहाद्यद्वाक्यमीरितम् ।
त्वया कृतमिदं वीर ! त्वन्नामाख्यं भविष्यति ।
सा भीमद्वादशी ह्येषा सर्व्वपापहरा शुभा ।
या तु कल्याणिनी नाम पुरा कल्पेषु पट्यते ॥”
त्वमादिकर्त्ता भव शौकरेऽस्मिन्
कल्पे महावीरवरप्रधान ! ।
यस्याः स्मरणकीर्त्तनमप्यशेषं
विनष्टपापस्त्रिदशाधिपः स्यात् ॥
दृष्ट्वा च यामप्सरसामपीशा-
वेश्याकृतामप्यभवान्तरेषु ।
आभीरकन्येति कुतूहलेन
सैवोर्व्वशी संप्रति नाकपृष्ठे ॥
जातापि सा वैश्यकुलोद्भवापि
पुलोमकन्या पुरुहूतपत्नी ।
तत्रापि तस्याः परिचारिकेयं
मम प्रिया संप्रति सत्यभामा ॥
स्नातः पुरा मण्डलमेष तद्ब-
त्तेजोमयं देवशरीरमाप ।
अस्याञ्च कल्याणतिथौ विवस्वान्
सहस्रधारेण सहस्ररश्मिः ॥
इदमेव कृतं महेन्द्रमुख्यै-
र्वसुभिश्चैव पुरा सुरादिभिश्च ।
फलमत्र न शक्यतेऽभिवक्तुं
यदि जिह्वाकोटयो मुखे स्युः ॥
कलिकल्मषविदारिणीमनन्ता-
मिति कथयिष्यति यादवेन्द्रसूनुः ।
अपि नरकगतान् पितॄनशेषा-
नलमुद्धर्त्तुमिहैव यः करोति ॥
य इदमनघं शृणोति चातिभक्त्या
परिपठतीह परोपकारहेतोः ।
तिथिमिह सकलार्थभाङ्नरेन्द्र-
स्तव चरणेन स साम्यतामुपैति ॥
कल्याणिनी नाम पुरा बभूव
या द्वादशी माघदिनेऽभिपूज्या ।
सा पाण्डुपुत्त्रेण कृता भविष्य-
त्यनन्तपुण्यानघ ! भीमपूर्ब्बा ॥”
इति मत्स्यपुराणे भविष्यद्व्रतोद्देशे भीम-
द्वादशी नाम ६५ अध्यायः ॥

भीरुः, त्रि, (बिभेतीति । भी भये + “भियः

क्रुक्लुकनौ ।” ३ । २ । १७४ । इति क्रुः ।) भय-
शीलः । (यथा, मनौ । ७ । ६२ ।
“तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीनाकरकर्म्मान्ते भीरूनन्तर्निवेशने ॥”)
तत्पर्य्यायः । त्रस्नुः २ भीरुकः ३ भीलुकः ४ ।
इत्यमरः । ३ । १ । २६ ॥ भीलुः ५ । इति
शब्दरत्नावली ॥

भीरुः, स्त्री, (बिभेतीति । भी + “भियः क्रुक्लुकनौ ।”

३ । २ । १७४ । इति क्रुः ।) भयशीला स्त्री ।
भयप्रकृतिका । इत्यमरभरतौ ॥ (यथा, विष्णु-
पुराणे । १ । १५ । ३३ ।
“सत्यं भीरु ! वदस्येतत् परिहासोऽथवा शुभे ! ।
दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥”)
शतावरी । इति धरणिः, अमरश्च ॥ (यथा, --
“बहुपुत्त्री वरा भीरुः शतमूली शतावरी ।
महापुरुषदन्ता च पीवरीन्दीवरी वरी ॥”
इति वैद्यकरत्नमालायाम् ॥)
कण्टकारी । इति शब्दचन्द्रिका ॥ शतपादिका ।
इति शब्दरत्नावली ॥ अजा । छाया । स्त्री ।
इति राजनिर्घण्टः ॥

भीरुः, पुं, (बिभेतीति । भी + क्रुः ।) शृगालः ।

इति शब्दमाला ॥ व्याघ्रः । इति राजनिर्घण्टः ॥
इक्षुभेदः । इति रत्नमाला ॥ अस्य गुणाः ।
श्लेष्मकारित्वम् । स्वादुत्वम् । अविदाहित्वम् ।
गुरुत्वञ्च । इति राजवल्लभः ॥

भीरुकं, क्ली, (भीरु + संज्ञायां कन् ।) वनम् । इति

शब्दरत्नावली ॥

भीरुकः, पुं, (भीरु + स्वार्थे संज्ञायां वा कन् ।)

पेचकः । इति शब्दरत्नावली ॥ इक्षुभेदः ।
भोररी इति हिन्दीभाषा ॥ (यथा, सुश्रुते
सूत्रस्थाने । ४५ अध्याये ।
“पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः ।
कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥”)
अस्य गुणाः । यथा, भावप्रकाशे ।
“वातपित्तप्रशमनो मधुरो रसपाकयोः ।
सुशीतो वृं हणो बल्यः पौण्ड्रको भीरुकस्तथा ॥”

भीरुकः, त्रि, (बिभेतीति । ञिभी भये + “भियः

क्रुकन् ।” उणा० २ । ३१ । इति क्रुकन् ।)
भययुक्तः । इत्यमरः ॥ कातरः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

भीरुपत्री, स्त्री, (भीरूणीव पत्राण्यस्याः । गौरादि-

त्वात् ङीष् ।) शतमूली । इत्यमरः । २ । ४ । १०१ ॥

भीरुहृदयः, पुं, (भीरु हृदयमस्य ।) मृगः । इति

जटाधरः ॥

भीरूः, स्त्री, (भीरु + “ऊङुतः ।” ४ । १ । ६६ ।

इति ऊङ् ।) भयशीला नारी । इत्यमर-
टीकायां भरतः ॥

भीलभूषणा, स्त्री, (भूषयतीति । भूष् + कर्त्तरि

ल्युः । टाप् । भीलानां भूषणा ।) गुञ्जा । इति
राजनिर्घण्टः ॥

भीलुः, त्रि, (बिभेतीति । भी + क्लु ।) भीरुः ।

भयशीलः । इति शब्दरत्नावली ॥

भीलुकः, पुं, (बिभेतीति । भी + “भियः क्रुक्लु-

कनौ । ३ । २ । १७४ । इति क्लकन् ।) भीरुः ।
इत्यमरः । ३ । १ । २६ ॥ (यथा, कथासरित्-
सागरे । ३२ । ५२ ।
“एतदेवानिमित्तं नः किमन्येनाध्वभीलुक ! ।
यस्त्वमस्माभिरानीतः काकशङ्की पदे पदे ॥”)
भल्लुकः । इति शब्दरत्नावली ॥

भीषणः, पुं, (भीषयते इति । भी + णिच् +

“भियो हेतुभये षुक् ।” ७ । ३ । ४० । इति
षुक् । भीषिधातुस्ततो नन्द्यादित्वात् ल्युः ।)
भयानकरसः । इत्यमरटीकायां भरतः, मेदिनी
च ॥ कुन्दुरुकः । कपोतः । हिन्तालः । इति
राजनिर्घण्टः ॥ शिवः । इति शब्दरत्नावली ।
शल्लकी इति मेदिनी ॥ (भयोत्पादने क्ली, ।
यथा, महाभारते । १५ । ७ । ४ ।
“व्यसनं भेदनञ्चैव शत्रूणां कारयेत्ततः ।
कर्षणं भीषणञ्चैव युद्धे चैव बलक्षयम् ॥”)

भीषणः, त्रि, (भीषयते इति । भी + णिच् + ततो

नन्द्यादित्वात् ल्युः । षुगागमश्च ।) गाढः ।
दारुणः । इति मेदिनी । णे, ६९ ॥ (यथा,
रघौ । १२ । ४० ॥
“पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्तेन भीषणां तामयोजयत् ॥”)

भीष्मं, त्रि, (बिभेत्यस्मादिति । भी + “भियः षुग्

वा ।” उणा० । १ । १४७ । इति मक् । वा
षुगागमश्च ।) भयानकम् । इत्यमरः । १ । ७ । २० ॥
(यथा, शतपथब्राह्मणे । ११ । ६ । १ । ३ ।
“सहोवाच भीष्मं वत भोः पुरुषान् वा ।”
“भीष्मं भयङ्करं ।” इति तद्भाष्ये महीधरः ॥)

भीष्मः, पुं, (बिभेत्यस्मादिति । भी + मक् । षुग्

वेति पक्षे षुक् ।) भयानकरसः । इत्यमर-
टीकायां भरतः ॥ शिवः । राक्षसः । इति
हेमचन्द्रः ॥ गाङ्गेयः । स च शान्तनुराज-
पृष्ठ ३/५१६
चक्रवर्त्तिनो गङ्गायां भार्य्यायां जातः । स परम-
धर्म्मात्मा महावीरः । येन पितुर्दासकन्या-
विवाहार्थं पितृराज्यं त्यक्तं, यश्च स्वस्य विवाहं
त्यक्त्वा ऊर्द्ध्वरेता जातः । इति श्रीभागवतम् ॥
तस्योत्पत्तिर्यथा, --
“अथ तामष्टमे जाते पुत्त्रे प्रहसतीमिव ।
उवाच राजा दुःखार्त्तः परीप्सन् सुतमात्मनः ॥
मा वधीः कासि कस्यासि किञ्च हंसि सुता-
निति ।
पुत्त्रघ्नि ! सुमहत् पापं संप्राप्तं ते सुगर्हिते ! ॥”
स्त्र्युवाच ।
“पुत्त्रकाम ! न ते हन्मि पुत्त्रं पुत्त्रवतांवर ! ।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता ।
देवकार्य्यार्थसिद्ध्यर्थमुषिताहं त्वया सह ॥
अष्टौ ये वसवो देवा महाभागा महौजसः ।
वशिष्ठशापदोषेण मानुषत्वमुपागताः ॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते ।
मद्विधा मानुषी धात्री लोके नास्ति कदाचन ॥
तेषाञ्च जननीहेतोर्मानुषत्वमुपागता ।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया ।
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः ।
स्वस्ति तेऽस्तु गमिष्यामि पुत्त्रं पाहि महा-
व्रतम् ॥
एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः ।
मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ॥”
इत्यादिपर्व्वणि भीष्मोत्पत्तिनाम १०० अध्यायः ॥

भीष्मजननी, स्त्री, (भीष्मस्य जननी माता ।)

गङ्गा । इति राजनिर्घण्टः ॥

भीष्मपञ्चकं, क्ली, (भीष्मेण कृतमुपदिष्ठं वा पञ्चकं

एकादश्यादिपूर्णिमान्तपञ्चतिथिकर्त्तव्यम् ।)
कार्त्तिकशुक्लपक्षीयैकादश्यादिपूर्णिमान्तपञ्च-
तिथिकर्त्तव्यव्रतविशेषः । यथा, --
श्रीनारद उवाच ।
“भगवन् ! यत् त्वया प्रोक्तं भीष्मस्य च दिनं
महत् ।
माहात्म्यं श्रोतुमिच्छामि तस्य मे कथय प्रभो ! ॥
कथं स्नानञ्च किं दानं को विधिः कस्य पूजनम् ।
किं फलं केन वाकारि तन्मे कथय विस्तरात् ॥”
ब्रह्मोवाच ।
तद्भीष्मपञ्चकस्येदं माहात्म्यं विधिपूर्ब्बकम् ।
वक्ष्यामि फलसंयुक्तं येनेदञ्च कृतं पुरा ॥
अयोध्या नगरी या च कलिकल्मषनाशिनी ।
वैष्णवी स्वर्गरम्या च कलिकल्मषनाशिनी ॥
हस्त्यश्वरथपत्त्याठ्या विष्णुचक्रप्रतिष्ठिता ।
तस्यामासीन्नरवरः सूर्य्यवंशोद्भवो मुने ! ॥
अतिथिर्नाम देवर्षे ! धर्म्मात्मा नैकयज्ञकृत् ।
तेन दत्तं पुरा राज्ञा कृतं यज्ञमनूत्तमम् ॥
भार्य्यया चन्द्रभाविन्या सार्द्ध्वं भीष्मस्य पञ्चकम् ।
चिकीर्षः परिपप्रच्छ वशिष्ठं तद्विधिं द्बिज ! ॥”
वशिष्ठ उवाच ।
“शृणु राजन् ! प्रवक्ष्यामि व्रतं सौभाग्य-
दायकम् ।
रहस्यं भीष्मपञ्चाख्यं विष्णुतुष्टिप्रदायकम् ॥
कार्त्तिके मासि राजेन्द्र ! प्रारभ्यैकादशीतिथिम् ।
यावत् पञ्चदशी रम्या भविता चन्द्रपूर्णिता ।
पञ्चभीष्ममिति ख्यातं तिथयः पुण्यदाः स्मृताः ॥
प्रातःकाले समुत्थाय शौचं कृत्वा यथाविधि ।
स्नात्वा सभार्य्यः पुरुषो नद्यादौ विमले जले ॥
तर्पयेद्भीद्मवर्म्माणं कुरुवंशपितामहम् ।
पितृभिस्तिलयुक्तैश्च जलाञ्जलिभिरुद्धृतैः ॥
वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च ।
तिलतोयाञ्जलिं तस्मै प्रयच्छेद्भीष्मवर्म्मणे ॥
सन्तर्प्य कौरवश्रेष्ठं कुर्य्यादाचमनं ततः ।
अर्च्चयित्वा विधानेन चन्दनादिभिरावृतः ।
अर्घ्यं दद्याद्यतात्मा च मन्त्रेणानेन भूपते ! ॥
बसूनामवताराय शान्तनोरात्मजाय च ।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ॥
इत्थं समापयेद्वतृस ! भीष्मपञ्चविधिं नरः ।
नियमेनोपवासेन पञ्चगव्येन वा पुनः ॥
पयोमूलफलाहारैर्हव्यैर्नानाविधैरपि ।
नरो वा यदि वा नारी मुक्तपापो दिवं व्रजेत् ॥
भुङ्क्ते स विपुलान् भोगान् कार्त्तिकं न
त्यजेद्धि यः ।
अतोऽशक्तो नयेत् पञ्चभीष्माख्यं हरिपूर्णितम् ॥
श्रुत्वैतद्विष्णुभक्तोऽसौ भक्त्या त्वचलया सह ।
दम्पती च यथा भीष्मं लब्ध्वा तौ तु महाफलम् ॥
स्वल्पायासेन विप्रेन्द्र ! कृतं ताभ्यां हि तत् पुरा ।
प्राप्तं राज्यं महीमेतां समुद्रवलयान्विताम् ॥
प्रभुज्य प्रचुरान् कामान् व्रतकामौ यथा मुने ! ।
दिव्याम्बराभरणौ तौ दिव्यमाल्यानुलेपितौ ॥
दिव्यदेहविमानेन सर्व्वकिन्नरसेवितौ ।
अप्सरोगीतनृत्येन स्तुतौ देवमहर्षिभिः ।
सम्प्राप्तौ विष्णुलोकञ्च भीष्मपञ्चव्रतान्मुने ! ॥”
ब्रह्मोवाच ।
“इत्येतत् कथितं वत्स ! माहात्म्यं कात्तिको-
द्भवम् ।
भीष्मपञ्चकमाहात्म्यं सेतिहासं पुरातनम् ॥
तत् सर्व्वं कुरु विप्रेन्द्र ! यदि ते भक्तिरच्युते ।
निश्चलः कायमनसा वचसा सुमनीभव ॥”
“शृण्वन्ति मर्त्याश्च पठन्ति ये वै
भूखण्डमध्ये भगवद्गुणान् मुने ! ।
मतिञ्च लब्ध्वा भगवत्यशेषतः
कथामुपेन्द्रस्य पुरं प्रयान्ति ॥”
कलिमलमपहृत्य प्राणिनो देवदेवं
सुभगसकलभोगान् भोजयित्वा च यान्ति ।
हरिपुरममरेशैर्गीतवाद्यैर्विशालै-
र्विहितसकलकृत्यास्तोषयन्ते हरिं ये ॥
एतत् कार्त्तिकमाहात्म्यं भक्त्या यः शृणुयान्नरः ।
सर्व्वपापविनिर्म्मुक्तः स कृष्णे लभते रतिम् ॥”
इति पाद्मोत्तरखण्डे कार्त्तिकमहात्म्ये १३२
अध्यायः ॥
अपि च ।
“सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने ।
चातुर्म्मास्ये ततस्तस्मात् कार्त्तिके भीष्मपञ्चकम् ॥
ततः श्रेष्ठतमं शुक्ल एकादश्यां समाचरेत् ।
स्नायात्त्रिकालं पित्रादीन् यवाद्यैरर्च्चयेद्धरिम् ॥
यजेन्मौनी घृताद्यैस्तु पञ्चगव्येन वारिभिः ।
स्नापयित्वाथ कर्पू रमुखैश्चैवानुलेपयेत् ॥
घृताक्तगुग्गुलोर्धूपं द्विजः पञ्चदिनं दहेत् ।
नैवेद्यं परमान्नन्तु जपेदष्टोत्तरं शतम् ॥
ॐ नमो वासुदेवाय घृतव्रीहितिलोदकम् ।
षडक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥
प्रथमेऽह्नि हरेः पादौ यजेत् पद्मैर्द्वितीयके ।
विल्वपत्रैर्जानुदेशं नाभिं भृङ्गेण चापरे ॥
स्कन्धौ विल्वैर्जवाभिश्च पञ्चमेऽह्नि शिरोऽर्च्चयेत् ।
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्
क्रमात् ॥
गोमूत्रक्षीरदधि च पञ्चमे पञ्चगव्यकम् ।
नक्तं कुर्य्यात् पञ्चदश्यां व्रती स्याद्भुक्तिमुक्ति-
भाक् ॥”
इति गारुडे भीष्मपञ्चादिव्रतं नाम १२३ अध्यायः ॥
वकपञ्चकम् । यथा, --
“आरभ्यैकादशीं पञ्च दिनानि व्रतमाचरेत् ।
भगवत् प्रीतये भीष्मषञ्चकं यदि शक्रुयात् ॥
तथा धात्रीव्रतं पौर्णमास्यां कुर्व्वीत कार्त्तिके ।
तथा नवम्वां शुक्लायामक्षयं नवमीव्रतम् ॥
पैतामहादिकृच्छ्राणि मासोपोषणमेव च ।
समर्थः कार्त्तिके कुर्य्यात् ज्ञात्वा पाद्मादितो
विधिम् ॥”
इदि श्रीहरिभक्तिविलासे १६ विलासः ॥

भीष्मरत्नं, क्ली, (भीष्मं भयानकं रत्नं दुर्लभत्वात् ।)

हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषः ।
तस्योत्पत्त्यादि यथा, --
सूत उवाच ।
“हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य ।
सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥
शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाः
प्रभावन्तः ।
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ।
हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः ।
भीष्ममणिं ग्रीवादिषु स सम्पदं सर्व्वदा लभते ॥
गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ! ।
विषाणि तानि नश्यन्ति सर्व्वाण्येव महीतले ॥”
विषमानाबाधन्ते ये तमरण्यनिवासिनः समी-
पेऽपि ।
द्वीपिवृक्षशरभकुञ्जरसिंहव्याध्रादयो हिंस्राः ॥
तस्योत्कवलितकृतिनो भवन्ति भयं न चापि
समुपस्थितम् ।
भीष्ममणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गुलित्रितयः ।
पितृतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति ॥
शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिक-
विषाणि ।
सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥
पृष्ठ ३/५१७
सैबलबलाहकाभं परुषं पीतप्रभं प्रभाहीनम् ।
मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्राज्ञः ॥
मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात् ।
दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥”
इति गारुडे भीष्मरत्नपरीक्षा नाम ७६ अः ॥

भीष्मसूः, स्त्री, (भीष्मं सूते प्रसूते इति । सू प्रसवे

+ क्विप् ।) गङ्गा । इत्यमरः । १ । १० । ३१ ॥

भीष्माष्टमी, स्त्री, (भीष्मस्य अष्टमी भीष्मनाशिका

अष्टमी वा ।) माघशुक्लाष्टमी । तत्र भीष्मस्य
तर्पणादिकं कर्त्तव्यम् । यथा, भविष्योत्तरे ।
“शुक्लाष्टम्यान्तु माघस्य दद्याद्भीष्माय यो जलम् ।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥”
धवलधृता स्मृतिः ।
“अष्टम्यान्तु सिते पक्षे भीष्माय तु तिलोदकम् ।
अन्नञ्च विधिवद्दद्युः सर्व्वे वर्णा द्विजातयः ॥”
सर्व्वे वर्णा इत्युपादानात् ब्राह्मणशूद्रयोरप्पधि-
कारः । द्विजातय इति सम्बोधनम् ॥ स्मृति-
रत्नाकरे विष्णुधर्म्मोत्तरम् ।
“मध्याह्नव्यापिनी ग्राह्या श्राद्धे भीष्माष्टमी
तिथिः ।
स्नाने च तर्पणे दाने ग्राह्या सूर्य्योदयी परा ॥
यदा कदाचित् कुम्भांशं गता सूर्य्योदयी परा ।
पूर्ब्बस्यामेव कर्त्तव्यं तर्पणं श्राद्धमेव च ॥
यदैकस्मिन् भवेन्मासि कदाचिन्माकरी द्वयम् ।
भीष्माष्टमी द्बयं वापि तदा ग्राह्या परा तिथिः ॥
व्राह्मणस्त्वन्यवर्णानां यः करोत्यौर्द्ध्वदेहिकम् ।
तद्वर्णत्वमसौ याति इह लोके परत्र च ॥”
इति मरीचिवचनन्तु भीष्मकृत्येतरपरम् ॥
तथा च स्मृतिः ।
“ब्राह्मणाद्यास्तु ये वर्णा दद्युर्भीष्माय नो जलम् ।
संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति ॥
असवर्णजलदाननिषेधस्तु प्रकरणवलादपि
भ्रात्रादिविषय इति श्रीदत्तः ॥ तर्पणमन्त्रस्तु ।
“वैयाघ्रपद्यगोत्राय सांकृतिप्रवराय च ।
अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥
भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।
आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥”
इत्याशंसामन्त्रः । पुत्त्रपौत्त्रोचितामित्यभिधानात्
पितृकर्म्मरीत्या । ब्राह्मणः पितृतर्पणानन्तरं
क्षत्त्रियस्तु तत्पूर्ब्बं तर्पयेत् । इति संवत्सर-
प्रदीपादयः ॥ इति तिथ्यादितत्त्वम् ॥

भुक्तं, त्रि, (भुज् + कर्म्मणि क्तः ।) भक्षितम् ।

इत्यमरः । ३ । २ । ११ ॥ (यथा, मनुः । २ । ५५ ।
“पूजितं ह्यशनं नित्यं बलमूर्ज्जञ्च यच्छति ।
अपूजितन्तु तद्भुक्तमुभयं नाशयेदिदम् ॥”
उपभुक्तम् । यथा, रघुः । ४ । ७ ।
“मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाप्यनन्यपूर्ब्बेव तस्मिन्नासीद्वसुन्धरा ॥”
भावे क्तः ।) भक्षणे, क्ली । इति त्रिकाण्डशेषः ॥
(यथा, रामायणे । २ । ५८ । १२ ।
“आसितं शयितं भुक्तं सूत ! रामस्य कीर्त्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥”)

भुक्तसमुज्झितं, त्रि, (आदौ भुक्तं पश्चात् समु-

ज्झितं परित्यक्तम् । स्नातानुलिप्तवत्समासः ।)
पूर्ब्बं भुक्तं तत् शेषं पश्चात् समुज्झितं त्यक्तम् ।
तत्पर्य्यायः । फेला २ । इत्यमरः । २ । ९ । ५६ ॥
पिण्डम् ३ फेलिः ४ । इति भरतधृतरभसः ॥

भुक्तिः, स्त्री, (भुज् + क्तिन् ।) भोजनम् । इति

शब्दरत्नावली ॥ भोगः । यथा, --
“भुक्तिस्त्रिपुरुषी सिद्ध्येदपरेषां न संशयः ।
अनिर्वृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥
आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि ।
तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥”
इति दायतत्त्वम् ॥
(यथा, मनुः । ८ । २५२ ।
“एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ।
पूर्ब्बभुक्त्या च सततमुदकस्यागमेन च ॥”)
रविर्भुक्तिर्यथा, --
“सार्द्धसप्तझसे मेषे वसुः सार्द्धो घटे वृषे ।
दशैव मकरे द्वन्दे पलानि प्रतिवासरम् ।
कुलीरसिंहप्रमदातुलालिकार्मुकेषु च ।
पलान्येकादश तथा रविभुक्तिं प्रचक्षते ॥”
इति ज्योतीरत्नमाला ॥
भोगः । दखल इति पारस्यभाषा । स च
प्रमाणचतुष्टयान्तर्गतप्रमाणविशेषः । यथा ।
लिखिताद्यभावे दिव्यमाह याज्ञवल्क्यः ।
“प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-
तम् ।
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥”
इति व्यवहारतत्त्वम् ॥
तद्विवरणं यथा । अथ भुक्तिः । तत्र याज्ञ-
वल्क्यः ।
“पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥”
विवादमकुर्व्वतः समक्षं भूस्वामिनः परेणा-
सपिण्डादिना भुज्यमानाया भूमेर्व्विंशतिवर्ष-
निर्वृत्ता स्वत्वहानिः । अत्र लोकव्यवहार-
कर्म्मत्वाद्वर्षगणना सावनेन । यथा च विष्णु-
धर्म्मोत्तरम् ।
“सत्राण्युपास्यान्यथ सावनेन
लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥”
तत्रैव ।
“सावने च तथा मासि त्रिंशत् सूर्य्योदयाः
स्मृताः ॥”
इति ॥
विशेषयति व्यासः ।
“वर्षाणि विंशतिं यस्य भूर्भक्ता तु परैरिह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥”
समर्थस्य बालत्वादिदोषरहितस्य । धनस्य
दशवर्षनिर्वृत्ता स्वत्वहानिः । तथा च मनु-
नारदौ ।
“यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥”
यत्किञ्चिद्धनजातं समक्षमेव प्रीत्यादिव्यति
रेकेण परैर्दशवर्षाणि भुज्यमानं स्वामी तूष्णीं
प्रेक्षते मा भुज्यतामिति प्रतिषेधं न रचयति
नासौ तल्लब्धुं योग्यो भवति तत्र तस्य स्वाम्यं
नश्यतीत्यर्थः । गोतमः । अजडापौगण्डधनं
दशवर्षभुक्तं परैः सन्निधौ भोक्तुरिति । जडो
विकलेन्द्रियः । पौगण्डः पूतोऽनुत्पन्नश्मश्रुर्गण्डः
कपोलो यस्य सः । तदाह नारदः --
“बाल आषोडशाद्वर्षात् पौगण्डश्चापि
शब्द्यते ॥”
अत्रापौगण्डः प्रकीर्त्तित इति कुल्लूकभट्टेन
लिखितम् । तत्पाठेऽपि अपौगण्डस्तु पौगण्ड
इति द्विरूपकोषादविरोधः । तस्माद्याज-
नादिरिव वचनाद्दशवर्षविंशतिवर्षादिकालैर्भोग
एव स्वत्वं जनयति । यथा कालप्राप्तिवशेन
बीजमङ्कुरं जनयति तरवश्च कुसुममिति ।
स्वामिना चापरित्यक्तेऽपि शास्त्रोक्तकालीन-
भोगात् स्वाम्यमन्यस्य भवति । यथा जयेन
राज्ञः परराष्ट्रधन इति । एवमेव श्रीकरवालो-
कजोग्लोकभबदेवभट्टशूलपाणिकुल्लूकभट्टचण्डेश्व-
रनव्यवर्द्धमानोपाध्यायप्रभृतयः ॥ व्यवहारो-
ऽप्येतादृगेव । एतद्विरुद्धवचनान्यन्यथा व्याख्ये-
यानि । तत्रोपेक्षया स्वत्वहानिं भुक्त्या च स्वत्व-
माह नारदः --
“भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते ।
समक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥”
व्यक्तमाह बृहस्पतिः --
“स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया ।”
उपेक्षया क्षमया । तत्कारणञ्च स्वामिनः
सुशीलत्वमहेच्छत्वदयालुत्वादि । एवञ्च विंशति-
वर्षात् पूर्ब्बं स्वकृतिसाध्यकर्षणपालनाद्यैरुत्-
पन्नद्रव्य एव स्वत्वम् । एवं दशवर्षात् पूर्ब्बं
स्वकृतिसाध्यदोहनपालनाद्यैरुत्पन्नदुग्धादौ एव
स्वत्वम् । तत्तत्कालपरतस्तु भूमौ गवादिधने
च स्वत्वमिति । पूर्ब्बं तत्तन्नाशकभोगे तु चौर्य्य-
दोषो भवत्येव ॥ * ॥ भोगे तु स्वत्वहानिमा-
ध्यादीनां व्यावर्त्तयति पश्यतोऽब्रुवत इत्यभिधाय
याज्ञवल्क्यः --
“आधिसीमोपनिःक्षेपजडबालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥”
आधिर्बन्धकद्रव्यम् । उपनिःक्षेपः ।
वासनस्थमनाख्याय समुद्रं यन्निधीयते ॥”
इति नारदोक्तेः ॥
वासनस्थं निःक्षेपाधारभूतसम्पुटादिस्थम् ।
समुद्रं ग्रन्थ्यादियुतम् । जडो बुद्धिविकलः ।
बालोऽप्राप्तषोडशवर्षः । उपनिधिः प्रीत्या
भोगार्थमर्पितः । ततश्च आध्यादिभिर्जडादि-
धनैश्च विना अन्यानि धनानि उक्तभोगकालेन
स्वामिनो नश्यन्ति एतानि तु स्वामिनो न
नश्यन्ति न वा भोक्तुर्भवन्ति ॥ * ॥ मिताक्षरायां
स्मृतिः --
“द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया ।
भुक्तिरेव तु गुर्व्वी स्यान्न दिव्यं न च साक्षिणः ॥”
पृष्ठ ३/५१८
याज्ञवल्क्यः ।
“आगमो ह्यधिको भोगाद्विना पूर्ब्बक्रमागतात् ।
नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र नो ॥
आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विना कृता ॥”
भूम्यादावागमः पूर्ब्बपुरुषक्रमादागतभोगाद्-
बलवान् । अतः क्रमागतभोग आगमाद्वलवान् ।
तथा च बृहस्पतिः --
“अनुमानाद्गुरुः साक्षी साक्षिभ्यो लिखितं
गुरु ।
अव्याहता त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥”
त्रिपुरुषभोगमाह व्यासः --
“प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तम् ।
तौ विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः ॥
पिता पितामहो यस्य जीवेच्च प्रषितामहः ।
त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥”
आगमोऽपि बलवान्न भवति यत्र स्तोकापि
भुक्तिर्नास्ति । तथा च नारदः ।
“विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु ।
विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥”
इति दीपकलिका ॥
यत्र वादिन्यौ स्वस्वागमबलप्रवृत्तौ आगमयोश्च
पूर्ब्बापरभावो न निश्चीयते तत्र यस्य भुक्ति-
स्तस्यागमो बलीयान् न त्वन्यस्येत्यर्थ इति मिता-
क्षरा ॥ अर्थात् यत्रागमपौर्ब्बापर्य्यनिश्चयस्तत्र ।
“सर्व्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्ब्बा तु बलवत्तरा ॥”
इति याज्ञवल्क्यवचनान्निर्णयः ॥
आगमस्त्विति आ सम्यग्गम्यते प्राप्यते स्वं
भवति येन क्रयादिना स आगम इति व्यवहार-
मातृका ॥ आगमः साक्षिपत्रादिकमिति याज्ञ-
वल्क्यदीपकलिका ॥ आगमो धनोपार्ज्जनोपायः
क्रयादिरिति मैथिलाः ॥ तत्रान्येनाभियुक्त
आगमकर्त्ता तत्कूटतामुद्धरेत्तत्पुत्त्रपौत्त्रौ नाग-
ममुद्धरेतां किन्तु भुक्तिरेव तत्र प्रमाणम् । विशे-
षयति बृहस्पतिः ।
“आहर्त्ता शोधयेद्भुक्तिमागमञ्चापि संसदि ।
तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥”
इति शूलपाणिधृतम् ॥
तत्पुत्त्रादौ न किञ्चनेति मैथिलधृतम् ॥ आहर्त्ता
अर्जनकर्त्ता । अत्र पुत्त्रस्य भुक्तिशोधनमात्रम् ।
भुक्तिशोधनमाहतुर्व्यासकात्यायनौ ।
“सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः ।
प्रत्यर्थिसन्निधानञ्च पञ्चाङ्गो भोग इष्यते ॥”
प्रमाणमिति शेषः । सागमः क्रयादियुक्तः ।
एष च भूमिविषयकविंशतिवर्षधनविषयकदश-
वर्षान्यूनकालभोगपरः । योऽभिभुक्त इति यो
भोगे क्रियमाणे परेणाभियुक्तः परेतो मृतः
स्यान्नागमसुद्धृतवान् तदा तत्पुत्त्रादिरेव तमु-
द्धरेत् । तथाह नारदः ।
“अथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्त्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्त्तयेत् ॥
भोगः केवलभोगः । तथा च स एव । आदौ
तु कारणं दानं पश्चाद्भुक्तिस्तु सागमेति । एष
स विवादभोगः षष्ट्यब्देतरपरः । तथाविध-
भोगस्यागमं विनापि प्रामाण्यात् । तथा च
व्यासः ।
“वर्षाणि विंशतिं भुक्ता स्वामिनाव्याहता सती ।
भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषी ॥
त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगमः ॥”
एतद्वचनमसमक्षभोगविषयकमिति समक्षविंश-
तिवर्षभोगविषयकवचनेनाविरुद्धम् । एतादृक्-
स्मृत्युक्तकाश एव कात्यायनः ।
“स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।
अस्मार्त्ते त्वागमाभावात् क्रमात्त्रिपुरुषागता ॥”
षष्टिवर्षैकपुरुषभुक्तौ त्रिपुरुषभुक्तिव्यपदेशस्य
फलमाह न तत्रेत्यादि । अतएव नारदः ।
“अन्यायेन तु यद्भुक्तं पित्रा पूर्ब्बतरैस्त्रिभिः ।
न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतम् ॥”
अन्यायेनेत्यत्रानागममिति शूलपाणिधृतपाठः ।
तुरप्यर्थः । पित्रा सह पितरमादा त्रिभि-
रित्यर्थः । यत्तु ।
“अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चौरदण्डेन तं पापं दण्डयेदवनीपतिः ॥”
इति दण्डविधायकव्यासवचनं तद्धर्म्मशास्त्रविरो-
धात् न मुख्यार्थपरम् । तदाह स एव ।
“यत्र विप्रतिपत्तिः स्याद्धर्म्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रार्थमुत्सृज्य धर्म्मशास्त्रार्थमाचरेत् ॥”
एवमेव शूलपाणिः । वस्तुतस्तु अनागममिति
दण्डविधायकवचनं स्त्रीधननरेन्द्रधनपरम् ।
“स्त्रीधनञ्च नरेन्द्राणां न कदाचन जीर्य्यति ।
अनागमं भुज्यमानमपि वर्षशतैरपि ॥”
इति स्वत्वनिषेधकनारदवचनैकवाक्यत्वात् ।
यत्र विप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदा-
हरणम् । यत्रैकस्य जयेऽवधार्य्यमाणे मित्र-
लब्धिरपरस्य जयेऽवधार्य्यमाणे धनलब्धिस्तत्र ।
“हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्ताविति वेदविदां मतम् ॥”
इति याज्ञवल्क्योक्तार्थशास्त्रमुत्सृज्य क्रोध-
लोभविवर्ज्जित इति धर्म्मशास्त्रमवलम्ब्य व्यव-
हारं पश्येत् । अतएव ।
“सभ्येनावश्यवक्तव्यं धर्म्मार्थसहितं वचः ॥”
इति कात्यायनोक्तमिति । भवदेवस्तु व्यासवच-
नन्तु प्रतिवादिनोऽसन्निधाने पुरुषैकद्वयभोगा-
भिप्रायं त्रैपुरुषिकभोगस्य तत्रापि प्रमाणत्वा-
दित्याहुः ॥
अथ भुक्तिस्वत्वापवादः ।
तत्र बृहस्पतिः ।
“भुक्तिस्त्रैपुरुषी सिद्ध्येदपरेषां न संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिद्ध्यति ॥
अस्वामिना च यद्भुक्तं गृहक्षेत्रापणादिकम् ॥
सुहृद्वन्धुसकुल्यस्य न तद्भोगेव हीयते ॥
विवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।
सुदीर्घेणापि कालेन तेषां तत्तु न सिद्ध्यति ॥”
आपणो विक्रयस्थानम् । विवाह्यो जामाता ।
इति च व्यवहारतत्त्वम् ॥

भुक्तिप्रदः, पुं, (भुक्तिं भोगं प्रददातीति । प्र +

दा + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति
कः ।) मुद्गः । इति राजनिर्घण्टः ॥ भोग-
दातरि, त्रि ॥

भुग्नः, त्रि, (भुज मोटने + क्तः । “ओदितश्च ।”

८ । २ । ४५ । इति निष्ठातस्य नः ।) रोगा-
दिना कुटिलीकृतः । तत्पर्य्यायः । रुग्नः २ ।
इत्यमरः । ३ । १ । ९१ ॥ वक्रः । इति भुज-
धात्वर्थदर्शनात् । (यथा, --
“साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी ।
अक्षिणी पिण्डिकापार्श्वमूर्द्ध्वपर्व्वास्थिरुग्भ्रमः ॥”
इति वाभटे निदानस्थाने द्वितीयेऽध्याये ॥
यथा, च भट्टिः । ११ । ८ ।
“पीने भटस्योरसि वीक्ष्य भुग्नां
स्तनुत्वचः पाणिरुहान् सुभध्या ॥”)

भुज, ओ श औ वक्रणे । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-अनिट् ।) वक्रणमिति
वक्रं करोतीति ञौ रूपम् । ओ, भुग्नः । श,
भुजति लतां वायुः । औ, भोक्ता । इति दुर्गा-
दासः ॥

भुज, ध औ त्राणे । भक्षे । इति कविकल्पद्रुमः ॥

(रुधा०-पर०-सक०-अनिट् ।) ध, भुनक्ति ।
औ, अभौक्षीत् । त्राणं पालनम् उपभोगश्च
तस्मात् पालने परस्मैपदम् । इति बोध्यम् ।
भुनक्ति पृव्यिवीं राजा पालयतीत्यर्थः । उप-
भोगे तु वृद्धो जनो दुःखशतानि भुङ्क्ते इति ।
दिवं मरुत्वानिव भोक्ष्यते महीमिति रघुः ।
एवं सुखमुपभुङ्क्ते इत्यादि च बोध्यम् । भुजोऽ-
शने इत्यत्र भक्षणमात्रस्य ग्रहणेऽपि उपभोगस्य
भक्षणजन्यतृप्तिजनकत्वविवक्षया सिद्धिरिति
विद्यानिवासः । इति दुर्गादासः ॥

भुजः, पुं स्त्री, (भुजति वक्रो भवतीति । भुज +

“इगुपघज्ञेति ।” ३ । १ । १३५ । इति कः ।
यद्वा, भुज्यतेऽनेनेति । भुज + “हलश्चेति ।”
३ । ३ । १२१ । इति घञ् । इत्यत्र काशिकोक्तेः
घञ् । “भुजन्युब्जौ पाण्युपतापयोः ।” ७ । ३ । ६१ ।
इति घञि गुणाभावः कुत्वाभावश्च निपा-
त्यते ।) तत्पर्य्यायः । बाहुः २ प्रवेष्टः ३
दोः ४ । इत्यमरः । २ । ६ । ८० ॥ बाहः ५
वाहा ६ भुजा ७ दोषः ८ दोषा ९ । इत्यमर-
टीकायां भरतः ॥ करः १० । इति मेदिनी ।
जे, १३ ॥ (यथा, रघुः । २ । ७४ ।
“भुजे भुजङ्गेन्द्रसमानसारे
भूयः स भूमेर्धुरमाससञ्ज ॥”)
तस्य शुभाशुभलक्षणम् यथा, --
“कक्षा चाश्वदला श्रेष्ठा सुगन्धिन्यूर्द्धरोमिका ।
अन्यथा अर्थहीनानामसौ निःस्वस्य रोमशौ ॥
निर्म्मांसौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ ।
पृष्ठ ३/५१९
आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥
निःस्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकरप्रभौ ।”
इति गारुडे ६६ अध्यायः ॥
(हस्तिशुण्डः । यथा, महाभारते । ३ । २७० । २१ ।
“नकुलस्तस्य नागस्य समीपपरिवर्त्तिनः ।
सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥”)
ग्रहस्पष्टीकरणार्थं राशित्रयादूनकेन्द्रग्रहादिः ।
राशित्रयादधिकनवपर्य्यन्तषडन्तरितावशेषः ।
नवराशिभ्योऽधिकं चेत् तदा द्वादशराशिभ्यः
शोध्यश्च भुजः स्यात् । यथा, --
“दोस्त्रिभोनं त्रिभोर्द्ध्वं विशेष्यं रसै-
श्चक्रतोऽङ्काधिकं स्याद्भुजोनं त्रिभम् ।
कोटिरेकैककं त्रित्रिभैः स्यात् पदं
सूर्य्यमन्दोच्चमष्टाद्रयोऽंशा भवेत् ॥”
इति ग्रहलाघवम् ॥
क्षेत्रस्य परिमाणविशेषः । यथा, --
“कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का श्रुतिः ।
कोटिं दोः कर्णतः कोटिश्रुतिभ्याञ्च भुजं वद ॥
इष्टो बाहुर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरो बाहुः ।
त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः ॥
तत्कृत्योर्योगपदं कर्णः दोः कर्णवर्गयोर्विवरात् ।
मूलं कोटिः तच्छ्रुतिकृत्योरन्तरात् पदं बाहुः ॥”
इति लीलावत्यां क्षेत्रव्यवहारः ॥

भुजकोटरः, पुं, (भुजस्य कोटर इव ।) कक्षः ।

इति हेमचन्द्रः । ५ । २५३ ॥

भुजगः, पुं, (भुजं वक्रं गच्छतीति । गम् + डः । ३ ।

२ । ३८ । इत्यत्र “खच्च डिद्वाच्यः ।” वार्त्तिकोक्तेः
डित् । ततः टिलोपः ।) सर्पः । इत्यमरः ।
१ । ८ । ६ ॥ (यथा, मेघदूते । ६२ ।
“तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता ।
क्रोडाशैले यदि च विचरेत् पादचारेण गौरी ॥”)

भुजगदारणः, पुं, (भुजगं दारयतीति । दॄ +

णिच् + ल्युः ।) गरुडः । इति राजनिर्घण्टः ॥

भुजगाभोजी, [न्] पुं, (भुजगं आ सम्यक्प्रकारेण

भुङ्क्ते इति । भुजग + आ + भुज + णिनिः ।)
मयूरः । इति राजनिर्घण्टः ॥

भुजान्तकः, पुं, (भुजगस्य अन्तकः ।) गरुडः ।

इति राजनिर्घण्टः ॥

भुजगाशनः, पुं, (भुजगमश्नातीति । अश + ल्युः ।

भुजगः अशनं यस्येति वा ।) गरुडः । इति
त्रिकाण्डशेषः ॥

भुजङ्गः, पुं, (भुजं वक्रं गच्छतीति । गम + खच् ।

“खच्च डिद्वाच्य” इति वार्त्तिं डित्त्वपक्षे टिलोपः ।)
सर्पः । (यथा, रघुः । ९ । ७९ ।
“आक्रान्तपूर्ब्बमिव मुक्तविषं भुजङ्गं
प्रोवाच कोशलपतिः प्रथमापराद्धः ॥”)
षिड्गः । इत्यमरः । १ । ८ । ६ । मेदिनी च ॥
(सीसम् । तद्यथा, --
“सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥”
नागनामकम् । नागः भुजङ्ग इत्यादि ।)
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अपरञ्च तदर्थे ।
“त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ॥
शुरतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम् ।
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ॥”
इति वाभटे उत्तरतन्त्रे त्रयोदशेऽध्याये ॥)

भुजङ्गघातिनी, स्त्री, (भुजङ्गं सर्पं तद्विषं वा

हन्तीति । हन + णिनिः । स्त्रियां ङीप् ।)
वृक्षविशेषः । कङ्कालिका इति ख्यातः । तत्-
पर्य्यायः । सूरिः २ सर्पाक्षी ३ क्षुत्करी ४
स्पृहा ५ । इति शब्दचन्द्रिका ॥ सर्पनाशिनी च ॥

भुजङ्गजिह्वा, स्त्री, (भुजङ्गस्य जिह्वेव आकृति-

र्यस्याः ।) महासमङ्गा । इति राजनिर्घण्टः ॥
(भुजङ्गस्य जिह्वा ।) सर्परसना च ॥ (विवरण-
मस्या महासमङ्गाशब्दे ज्ञातव्यम् ॥)

भुजङ्गप्रयातं, क्ली, (भुजङ्गवत्प्रयातं गतिरिव

भङ्गीमान् शब्दविन्यासो यस्य ।) द्वादशाक्षर-
पादच्छन्दः । यथा, कालिदासकृतश्रुतबोधे ।
“यदाद्यञ्चतुर्थन्तथा सप्तमञ्चेत्-
तथैवाक्षरं ह्रस्वमेकादशाद्यम् ।
शरच्चन्द्रविद्बेषिवक्त्रारविन्दे
तदुक्तं कवीन्द्रेर्भुजङ्गप्रयातम् ॥”
(अधिकन्तु छन्दःशब्दे ज्ञातव्यम् ।)

भुजङ्गभुक्, [ज्] पुं, (भुजङ्गं भुङ्क्ते इति । भुज् +

क्विप् ।) गरुडः । इति शब्दरत्नावली ॥ मयूरः ।
इत्यमरः । २ । ५ । ३० ॥ (मयूरार्थे पर्य्यायो
यथा, --
“मयूरश्चन्द्रकी केकी मेघरावो भुजङ्गभुक् ।
शिखी शिखाबलो वर्ही शिखण्डी नीलकण्ठकः ॥
शुक्लोपाङ्गः कलापी च मेघनादः कलाप्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

भुजङ्गभोजी, [न्] पुं, (मुजङ्गं भुङ्क्ते इति ।

भुज + णिनिः ।) राजसर्पः । इति हेमचन्द्रः ॥

भुजङ्गमः, पुं, (भुज कौटिल्ये + इगुपधेति कः ।

भुजः कुटिलीभवन् गच्छतीति । भुज +
गम् + “गमेः सुपि बाच्यः ।” ३ । १ । ३८८ ।
इत्यस्य वार्क्तिकात् खच् । “खच्चडिद्वाच्यः ।” इति
डिदभावे टिलोपाभावः ।) सर्पः । इत्य-
मरः । १ । ८ । ६ । (यथा, रघुः । ६ । ७७ ।
“आरूढमद्रीनुदधीन् वितीर्णं
भुजङ्गमानां वसतिं प्रविष्टम् ॥”)
सीसके, क्ली । इति राजनिर्घण्टः ॥

भुजङ्गलता, स्त्री, (भुजङ्गवत् कुटिला तत्प्रिया

वा लता ।) नागवल्ली । इति राजनिर्घण्टः ॥

भुजङ्गहा, [न्] पुं, (भुजङ्गं हन्तीति । हन् +

क्विप् ।) गरुडः । इति त्रिकाण्डशेषः ॥

भुजङ्गाक्षी, स्त्री, (भुजङ्गस्य अक्षीव पुष्पं यस्याः ।

“अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।
गौरादित्यात् ङीष् ।) रास्ना । इत्यमरः ।
२ । ४ । ११५ ॥ (रास्ना मेदनाइ इति लोके ।
तथास्याः पर्य्यायान्तरम् ।
“नाकुली सरसा नागसुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भुजङ्गाख्यः, पुं, (भुजङ्गस्य आख्या आख्या यस्य ।)

नागकेशरः । इति शब्दमाला सर्पनामके,
त्रि ॥

भुजशिरः, [स्] क्ली, (भुजस्य शिर इव ।)

स्कन्धः । इत्यमरः ॥ २ । ६ । ७८ ॥

भुजा, स्त्री, (भुज + टाप् ।) बाहुः । करः । इति

मेदिनी । जे, १३ ॥ (यथा, शिशुपालवधे । ७ । ७१ ।
“अविरतकुसुमावचायखेदा
न्निहितभुजालतयैकयोपकण्ठम् ॥”)

भुजाकण्टः, पुं, (भुजायाः करस्य कण्ट इव ।)

हस्तनखः । इति हेमचन्द्रः ॥

भुजादलः, पुं, (भुजाया बाहोर्दल इव ।) हस्तः ।

इति त्रिकाण्डशेषः ॥

भुजान्तरं, क्ली, (भुजयोरन्तरं मध्यम् ।) क्रोडम् ।

इत्यमरः । २ । ६ । ७७ ॥ (वक्षः । यथा, रघुः । ३ । ५४ ।
“दिलीपसूनोः स बृहद्भुजान्तरं
प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्ब्बमाशुगः
कुतूहलेनेव मनुष्यशोणितम् ॥”
भुजस्यान्तरं प्रभेदः ।) हस्तप्रभेदश्च ॥

भुजिः, पुं, (भुनक्ति भुङ्क्ते वा सर्व्वानिति ।

भुज + “भुजेः किच्च ।” उणा० ४ । १४१ । इति
इः । स च कित् । सर्व्वभक्षकत्वादस्य तथा-
त्वम् ।) वह्निः । इत्युणादिकोषः ॥ (भुज + भावे
इः । भोगः । यथा, ऋग्वेदे । ८ । ९१ । ६ ।
“आसवं सवितुर्यथा भगस्येव भुजिं हुवे ।
अग्निं समुद्रवाससम् ॥”
“सवितुः प्रेरकस्य देवस्य सवं यथा प्रसवमिव
भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च
समुद्र वाससमग्निं आहुवे आह्वयामि ।” इति
तद्भाष्ये सायनः ॥ * ॥ भोक्तरि, त्रि । यथा,
ॠग्वेदे । ८ । ८ । २ ।
“भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥”
“हे भुजी हविषां भोक्तारौ ।” इति तद्भाष्ये
सायनः ॥)

भुजिष्यः, पुं, (भुङ्क्ते स्वाम्युच्छिष्टमिति भुज्यते

इति वा भुज + “रुचिभुजिभ्यां किष्यन् ।”
उणा० ४ । १७८ । इति किष्यन् ।) स्वतन्त्रः ।
हस्तसूत्रम् । दासः । इति मेदिनी । ये, ९८ ॥
(यथा, माधे । १५ । ६३ ।
“किमहो नृपाः समममीभि-
रुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं
सह चानया स्थविरराजकन्यया ॥”)
रोगः । इति संक्षिप्तसारोणादिवृत्तिः ॥

भुजिष्या, स्त्री, (भुजिष्य + टाप् ।) दासी ।

(यथा, रघुः । ६ । ५३ ।
“अथाङ्गदाश्लिष्टभुजं भुजिष्या
हेमाङ्गदं नाम कलिङ्गनाथम् ।
आसेदुषीं सादितशत्रुपक्षं
बालामबालेन्दुमुखीं बभाषे ॥”)
गणिका । इति मेदिनी । ये, ९९ ॥
पृष्ठ ३/५२०

भुज्युः, पुं, (भुज्यतेऽत्रेति । भुज भक्षणे + “भुजि

मृङ्भ्यां युक्त्युकौ ।” उणा० ३ । २१ । इति
युक् ।) भाजनम् । इत्युणादिकोषः । २ । २०३ ॥
भाजनम् । (भुङ्क्ते सर्व्वानिति । भुज + कर्त्तरि
युक् ।) अग्निः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(स्वनामख्यातराजविशेषः । यथा, ऋग्-
वेदे । ४ । २७ । ४ ।
“ऋजिप्य ईमिन्द्रावतो न भुज्युं
श्येनो जभार बृहतो अधिष्णोः ॥”
भुनक्ति पालयतीति । भुज पालने + युक् ।
रक्षके, त्रि । यथा, ऋग्वेदे । ८ । २२ । २ ।
“पूर्ब्बापुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्ब्बम् ॥”
“भुज्युं भुजपालने सर्व्वस्य रक्षकम् ॥” इति
तद्भाष्ये सायनः ॥)

भुञ्जन्, [त्] त्रि, (भुज् + शतृ ।) भोगकर्त्ता ।

भुजधातोः शतृप्रत्ययनिष्पन्नोऽयभ् ॥

भुञ्जानः, पुं, (भुज् + शानच् ।) भोगकर्त्ता ।

यथा, --
“भुञ्जानो वर्द्धयेत् पापमसत्यं संसदि बृवन् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(तथा च ।
“अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिबेत् ॥”
इति सुश्रुते सूत्रस्थाने । ४६ अ, ॥)

भुरिक्, [ज्] स्त्री, (भरति सर्व्वं धरतीति ।

भृञ् + “भृञ उच्च ।” उणा० २ । ७२ । इति
इजिः । धातोरुकारान्तादेशः ।) पृथिवी ।
इत्युणादिकोषः ॥ (द्विवचनान्तत्वे । बाहू ।
द्यावापृथिव्यौ च । यथा, ऋग्वेदे । ४ । २ । १४ ।
“रथं न क्रन्तो अपसा भुरिजो
रृतं येमुः सुध्य आशुषाणाः ॥”
“भुरिजोः बिभ्रतः कर्म्मकरणसामर्थ्यं पदार्थान्
वेति भुरिजौ बाहू तयोः । यद्वा, भुरिजोः देवान्
मनुष्यांश्च बिभृत इति भुरिजौ द्यावापृथिव्यौ ।”
इति तद्भाष्ये सायनः ॥)

भुवनं, क्ली, (भवन्त्यस्मिन् भूतानीति । भू + “भूसू-

धूभ्रस्जिभ्यश्छन्दसि ।” उणा० २ । ८० । इत्यत्र
बहुलवचनाद्भाषायामपि प्रयुज्यते ।” इत्युज्ज्वल-
दत्तोक्त्या क्युन् ।) जगत् । (यथा, भट्टिः । १ । १ ।
“गुणैर्व्वरं भुवनहितच्छलेन यं
सनातनः पितरमुपागमत् स्वयम् ॥”)
सलिलम् । गगनम् । जनः । इति मेदिनी । ने,
१०२ ॥ चतुर्द्दशभुवनानि यथा, --
“चतुर्द्दशविधं ह्येतद् भूतसर्गं प्रकीर्त्तितम् ।
भूर्भुवः स्वर्महश्चैव जनश्च तप एव च ॥
सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ।
जम्बूः शाकः कुशः क्रौञ्चः शाल्मलो मेदपुष्करः ।
सप्तद्वीपाः प्रधानानि ह्युपद्वीपैस्तु संयुताः ॥
लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः ।
सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् ।
चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः
स्मृताः ॥
उत्तराः कुरवो रम्यं वर्षं हैमवतं तथा ।
भद्राश्वं केतुमालञ्च तथा वषमिलावृतम् ॥
भारतं हरिवर्षञ्च तथा किंपुरुषावृतम् ।
एतान्यष्टौ तु वर्षाणि पुण्यानि कथितानि तु ॥
इन्द्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागवीथी तथा सौम्यो गन्धर्व्वो वारुणस्तथा ॥
सागराख्यस्तु नवमो भेदभारतवार्षिकः ।
इदन्तु भारतं वर्षं कर्म्मभूमिरिति स्मृतम् ॥
शेषाणि द्वीपवर्षाणि भोगस्थानानि सन्त्यपि ।
भागीरथी पावनी च ह्रदिनी ह्रादिनी तथा ॥
सीता वंक्षुश्च सिन्धुश्च सप्त गङ्गाः प्रकीर्त्तिताः ।
सुप्रभा काञ्चनी चैव विशाला सुमनोह्रदाः ॥
सरस्वत्योघनादा च सुवेणुर्विमलोदका ।
एता गङ्गास्तु विख्याताः सप्त पुण्यप्रदाः शुभाः ॥
हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः ।
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान् गन्धमादनः ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥
लोकालोको महांस्तेषु तथैवोत्तरमानसः ।
एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥
अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् ।
महातलं रसातलं पातालं सप्तमं स्मृतम् ॥
रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् ।
रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥
पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् ।
शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥”
इति वह्निपुराणम् ॥
(भूतजातम् । यथा, ऋग्वेदे । १ । १५७ । ५ ।
“युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवने-
ष्वन्तः ।”
तथा च वाजसनेयसंहितायाम् । ९ । ५ ।
“यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो
देवः सविता धर्म्म साविषत् ॥” * ॥ भावनम् ।
यथा, ऋग्वेदे । १० । ८८ । १ ।
“तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्यधया
पप्रथन्त ॥” * ॥ पुं, मुनिविशेषः । यथा, महा-
भारते । १३ । २६ । ८ ।
“नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ॥”)

भुवनको(श)ष, पुं, (भुवनस्य कोष इव ।) भूगोलः ।

(अस्य विवरणं श्रीभागवते पञ्चमस्कन्धे । १६ ।
१७ । १८ । अध्याये द्रष्टव्यम् ॥ तथाच ।
“जम्बुप्लक्षशाल्मलकुशक्रौञ्च-
शाकपुष्करसंज्ञाः सप्त द्बीपाः ।
लक्षयोजनप्रमाणाज्जम्वु-
द्वीपादुत्तरोत्तरद्विगुणाः ॥ १ ॥
लवणसुरासर्पिर्दधिदुग्धस्वच्छोदकसंज्ञैः पर-
स्परद्विगुणैः ।
सप्तसमुद्रैर्बलयाकारैस्ते द्वीपाः परिधिष्ठिताः ॥
योऽसौ मनुपुत्त्रः प्रियव्रतो नाम स सप्तद्वीपा-
धिपतिर्बभूव । तस्य अग्नीध्रादयो दश पुत्त्रा
बभूवुः ॥ ३ ॥ त्रयः प्रव्रजिताः । शिष्टानां सप्तानां
सप्त द्वीपाः पित्रा दत्ताः । तत्र जम्बुद्बीपाधि-
पतेराग्नीध्रस्य नव पुत्त्रा जाताः ॥ ४ ॥
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ।
रम्यो हिरण्मयश्चैव कुरुभद्रश्च केतुमान् ॥ ५ ॥
नववर्षाणि विभज्य पुत्रेभ्यः पित्रा दत्तानि वनं
प्रविशता । अग्नीध्रोऽयं हिमाह्वयम् । यस्याधि-
पतिर्नाभेः ऋषभः पुत्त्रो बभूव ॥ ६ ॥ ऋषभाद्भरतो
भरेतन चिरकालं धर्मेण पालितत्वादिदं भारतं
वर्षमभूत् । इलावृतस्य मध्ये मेरुः सुवर्णमय-
श्चतुरशीतिसहस्राणि योजनानि तस्योच्छ्रायः ।
षोडशसहस्रमप्यधस्तादवगाढः तद्द्विगुणो मूल-
विस्तारः ॥ ६ ॥ तन्मध्ये ब्रह्मणः पुरी । ऐन्द्र्यामि-
न्द्रस्य चामरावती । आग्नेय्यामग्नेस्तेजोवती ।
याम्यां यमस्य संयमनी । नैरृत्यां निरृतेर्भयं-
करी । वारुण्यां वरुणस्य विश्वावती । वायव्यां
वायोर्गन्धवती । उदीच्यां सोमस्य विभावरीति
नववर्षान्वितं जम्बूद्वीपं पुण्यपर्वतैः पुण्यनदी-
भिरन्वितम् ॥ ७ ॥ किंपुरुषादीन्यष्टवर्षाणि पुण्य-
वतां भोगस्थानानि साक्षाद्भारतवर्षमेकं कर्म-
भूमिश्चातुर्वण्ययुतम् ॥ ८ ॥
तत्रैव कर्म्मभिः स्वर्गं कृतैः प्राप्स्यन्ति मानवाः ।
मुक्तिश्चात्रैव निष्कामैः प्राप्यते ज्ञानकर्मभिः ॥ ९ ॥
अधोगतिमितो विप्र ! यान्ति वै पापकारिणः ।
ये पापकारिणस्तान् विद्धि पातालतले नरके
कोटिसमन्वितान् ॥ १० ॥ अथ सप्तकुलपर्वताः
कथ्यन्ते । माहेन्द्रः । मलयः शुक्तिमान् ऋष्यमृकः
सह्यपर्वतः बिन्ध्यः पारियात्रः । इत्येते भारते
कुलपर्वताः ॥ ११ ॥ नर्मदासुरसाऋषिकुल्याभी-
मरथीकृष्णावेणीचन्द्रभागाताम्रपर्णी इत्येताः
सप्त नद्यः गङ्गायमुनागोदावरीतुङ्गभद्राकावेरी-
सरयूरित्येता महानद्यः पापध्य्नः ॥ १२ ॥
जम्बुनाम्ना च विख्यातं जम्बुद्वीपमिदं शुभम् ।
लक्षयोजनविस्तीर्णमिदं श्रेष्ठं तु भारतम् ॥ १३ ॥
अक्षद्वीपादिपुण्या जनपदाः निष्कामा ये स्वध-
र्मेण नरसिंहं यजन्ति ते तत्र निवसन्ति अधि-
कारक्षयात् मुक्तिं च प्राप्नुवन्ति ॥ १४ ॥ जम्बाद्याः
स्वादूदकान्ताः सप्त पयोधयःः । ततः परा
हिरण्मयी भूमिः । ततो लोकालोकपर्वतः
एष भूर्लोकः ॥ १५ ॥ अस्योपरि अन्तरिक्ष-
लोकः खेचराणां रम्यस्तदूर्ध्वं स्वर्गलोकः ॥ १६ ॥
स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोध मे ।
भारते कृतपुण्यानां देवानामपि चालयम् ॥ १७ ॥
मध्ये पृथिव्यामद्रीन्द्रो भास्वान् मेरुर्हिरण्मयः ।
योजनानां सहस्राणि चतुरशीतिमुच्छ्रितः ॥ १८ ॥
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।
तावत्प्रमाणा पृथिवी पूर्ब्बतश्च समन्ततः ॥ १९ ॥
तस्य शृङ्गत्रयं मूर्ध्रि स्वर्गो यत्र प्रतिष्ठितः ।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥ २० ॥
मध्यमं पश्चिमं पूर्ब्बं मेरोः शृङ्गाणि त्रीणि वै ।
मध्यमं स्फाटिकं शृङ्गं वैदूर्यमणिकामयम् ॥ २१ ॥
इन्द्रनीलमयं पूर्ब्बं माणिक्यं पश्चिमं स्मृतम् ।
योजनानां सहस्राणि नियुतानि चतुर्दश ॥ २२ ॥
उच्छ्रितं मध्यमं शृङ्गं स्वर्गो यत्र त्रिविष्टपः ।
अप्रभान्तरितं शृङ्गं मूर्ध्नि छत्राकृतिस्थितम् ।
पृष्ठ ३/५२१
पूर्व्वमुत्तरशृङ्गाणां अन्तरं मध्यमस्य च ।
त्रिविष्टपो नाकपृष्ठे ह्यप्सराः सन्ति निर्वृताः ॥ २४ ॥
आनन्दोऽथ प्रमोदश्च स्वर्गशृङ्गे तु मध्यमे ।
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ॥ २५ ॥
आह्लादः स्वर्गराजा वै स्वर्गशृङ्गे तु पश्चिमे ।
निर्ममो निरहङ्कारः सौभाग्यश्चातिनिर्म्मलः ॥ २६ ॥
स्वर्गाश्चैव द्बिजश्रेष्ठ ! पूर्ब्बशृङ्गे समास्थिताः ।
एकविंशानि स्वर्गा वै निविष्टा मेरुमूर्द्धनि ॥ २७ ॥
अहिंसादानकर्तारो यज्ञानां तपसां तथा ।
तत्तेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः ॥ २८ ॥
जलप्रवेशे चानन्दं प्रमोदं वह्निसाहसे ।
भृगुप्रपाते सौख्यं च रणं चैवास्य निर्मलम् ॥ २९ ॥
अनाशके तु संन्यासे मृतो गच्छेत्त्रिविष्टपम् ।
क्रतुयाजी नाकपृष्ठं अग्निहोत्री च निर्वृ-
तिम् ॥ ३० ॥
तडागकूपकर्त्ता च लभते पौष्टिकं द्विजः ।
सुवर्णदायी सौभाग्यं लभन् स्वर्गतपःफलम् ॥ ३१ ॥
शीतकाले महावह्निं प्रज्वालयति यो नरः ।
सर्व्वसत्त्वहितार्थाय स्वर्गं सोप्सरसं लभेत् ॥ ३२ ॥
हिरण्यगोप्रदाने हि निरहङ्कारमाप्नुयात् ।
भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥ ३३ ॥
रौप्यदानेन स्वर्गं तु निर्मलं लभते नरः ।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥ ३४ ॥
द्विजेभ्यस्तर्पणं कृत्वा दत्वा वस्त्राणि भक्तितः ।
श्वेतं तु लभते स्वर्गं यत्र गत्वा न शोचते ॥ ३५ ॥
कपिलागोप्रदानेन परमार्थे महीयते ।
गोवृषस्य प्रदानेन स्वर्गं मन्मथमाप्नुयात् ॥ ३६ ॥
माधमासे सरित्स्नायी तिलधेनुप्रदस्तथा ॥
छत्रोपानहदाता च स्वर्गं यात्युपशोभनम् ॥ ३७ ॥
देवतायतनं कृत्वा द्विजशुश्रूषकस्तथा ।
तीर्थयात्रापरश्चैव स्वर्गराज्ये महीयते ॥ ३८ ॥
एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः ।
उपवासी त्रिरात्राद्यैः शान्तः स्वर्गं शुभं
लभेत् ॥ २९ ॥
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।
निर्मलं स्वर्गमाप्नोति यथाभूतहिते रताः ॥ ४० ॥
विद्यादानेन मेधावी निरहङ्कारमाप्नुयात् ।
येन येन हि भावेन यद्यद्दानं प्रयच्छति ॥ ४१ ॥
तत्तत्स्वर्गमवाप्नोति यद्यदिच्छति मानवः ।
चत्वारि अतिदानानि कन्या गौर्भूः सरखती ॥ ४२ ॥
नरकादुद्धरन्त्येते जपवाहनदोहनात् ।
यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रय-
च्छति ॥ ४३ ॥
संप्राप्य न निवर्त्तेत स्वर्गं शान्तमनामयम् ।
शृङ्गे तु पश्चिमे यत्र ब्रह्मा तत्र स्थितः स्वयम् ॥ ४४ ॥
पूर्ब्बशृङ्गे स्वयं विष्णुः मध्ये चैव शिवः स्थितः ।
अतः परं तु विप्रेन्द्र ! स्वर्गाध्वानमिमं शृणु ॥ ४५ ॥
विमलं विपुलं शुद्धमुपर्य्युपरिसंस्थितम् ।
प्रथमे तु कुमारस्तु द्बितीये मातरः स्थिताः ॥ ४६ ॥
तृतीये सिद्धगन्धर्वा तुर्य्ये विद्याधरा द्बिज !
पञ्चमे नागराजा च षष्ठे तु विनतासुतः ॥ ४७ ॥
सप्तमे दिव्यपितरो धर्म्मराजस्तथाष्टमे ।
नवमे तु तथा दक्ष आदित्यो दशमे पथि ॥ ४८ ॥
भूर्लोकाच्छतसाहस्रादूर्द्ध्वं चरति भास्करः ।
योजनानां सहस्रे द्बे विष्टम्भनसमं ततः ॥ ४९ ॥
त्रिगुणं परिणाहेन सूर्य्यबिम्बं प्रमाणतः ।
सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा ।
महेन्द्रस्यामरावत्यां तदा तिष्ठति भास्करः ॥ ५० ॥
मध्याह्ने त्वमरावत्यां यदा भवति भास्करः ।
तदा संयमने याम्ये तत्रोद्यंस्तु प्रदृश्यते ॥ ५१ ॥
मेरुं प्रदक्षिणं कुर्व्वन् भात्येव सविता सदा ।
ध्रुवाधारस्तथोत्तिष्ठन् वालिखिल्यादिभिः
स्तुतः ॥ ५२ ॥
इति श्रीनरसिंहपुराणे भूवनकोशे त्रिंशो-
ध्यायः ॥ ३० ॥)

भुवन्युः, पुं, (भवतीति । “कन्युच् क्षिपेश्च ।”

उणा० ३ । ५१ । इति चकारात् भूधातोरपि
कन्युच् ।) सूर्य्यः । वह्निः । चन्द्रः । इति मेदिनी ।
ये, ९८ ॥ प्रभुः । इत्युणादिकोषः ॥

भुवर्लोकः, पुं, (भुवश्चासौ लोकश्चेति ।) भूरादि-

सप्तलोकान्तर्गतद्वितीयलोकः । यथा, --
“भूमिसूर्य्यान्तरं यच्च सिद्धादिसुनिसेवितम् ।
भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ! ॥”
इति विष्णुपुराणे । २ अंशे ७ अध्यायः ॥
(यथा च भागवते । २ । ५ । ८ ।
“भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य
नाभितः ।
हृदा स्वर्लोक उरसा महर्ल्लोको महात्मनः ॥”)

भुवः, [स्] व्य, (भवतीति । भू + “भूरञ्जिभ्यां

कित् ।” उणा० ४ । २१६ । इति असुन् स च
कित् ।) आकाशः । इति हेमचन्द्रः ॥
(महाव्याहृतिभेदः । यथा, मनुः । २ । ७६ ।
“अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः ।
वेदत्रयान्निरदुहत् भूर्भुवः स्वरितीति च ॥”)

भुविः, [स्] क्ली, (भवतीति भवत्यस्मिन् रत्नादीनि

वा । भू + “भुवः कित् ।” उणा० २ । ११३ ।
इति इसिन् । स च कित् ।) समुद्रः । इत्यु-
णादिकोषः ॥

भू, सत्तायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) सत्तेह द्विविधा । उत्पत्ति-
र्विद्यमानता च । भवति मनुष्योऽथवा विष्णुः ।
इति दुर्गादासः ॥

भू, क शुद्धिचिन्तयोः । मिश्रणे । इति कविकल्प-

द्रुमः । (चुरा०-पर०-सक०-सेट् ।) क, तृण-
वद्भावयति द्विषः सर्व्वान् । त्रयोऽर्थाः । इति
दुर्गादासः ॥

भू, क ङ प्राप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) क ङ, भावयते । इति
दुर्गादासः ॥

भू, ञ प्राप्तौ । इति कविकल्पद्रुमः । (भ्वा०-उभ०-

सक०-सेट् ।) ञ, भवति भवते धनं धीरः ।
भवत्येव सत्तायां प्राप्तिसम्पन्नजन्मस्विति भट्ट-
मल्लः । भवते दुरितक्षयं यथोक्तक्रतुभिर्भावयते
च नाकलोकमिति हलायुधः । केचिदमुं
भ्वाद्यात्मनेपदिनं मत्वा प्राप्तौ परस्मैपदं सत्तार्थ-
स्यैवानेकार्थत्वात् समाधत्ते । इति दुर्गादासः ॥

भू, व्य, (भू + क्विप् ।) रसातलम् । इति हेमचन्द्रः ॥

भूः, स्त्री, (भवत्यस्मिन्निति । भू + अधिकरणे

क्विप् ।) पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा,
मनुः । ७ । ६ ।
“न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षि-
तुम् ॥”
यथा च वैद्यकरत्नमालायामस्याः पर्य्यायः ।
“भूर्भूमिः पृथिवी पृथ्वी मेदिनी वसुधावनिः ।
क्षितिरुर्व्वी मही क्षौणी क्ष्मा धरा कुर्वसु-
न्धरा ॥”)
स्थानमात्रम् । इति मेदिनी । भे, १ ॥ (यथा,
भागवते । ६ । ४ । ३१ ।
“यच्छक्तयो वदतां वादिनां वै
विवादसंवादभुवो भवन्ति ॥”
यज्ञाग्निः । इति जटाधरः ॥

भूकं, क्ली, (भवतीति । भू + “सृकृभूशुषिमुषिभ्यः

कक् ।” उणा० ३ । ४१ । इति कक् ।) छिद्रम् ।
कालः । इति मेदिनी । के, ३० ॥

भूकः, पुं, (भू + कक् ।) अन्धकारः । इति शब्द-

माला ॥

भूकदम्बः, पुं, (भुवि कदम्ब इव ।) अलम्बुषवृक्षः ।

इति रत्नमाला ॥ कोकसीम । इति भाषा ॥

भूकदम्बकः, पुं, (भूकदम्ब + संज्ञायां कन् ।)

यवानी । इति राजनिर्घण्टः ॥ (विवृतिविशेषो-
ऽस्य यवानीशब्दे ज्ञातव्यः ॥)

भूकन्दः, पुं, (भुवः पृथिव्याः कन्द इव ।) महा-

श्रावणिका । इति राजनिर्घण्टः ॥ थुलकुडी ।
इति भाषा ॥

भूकम्पः, पुं, (भुवः पृथिव्याः कम्पः ।) भूमि-

कम्पनम् । स च अद्भुतविशेषः । यथा,
अद्भुतसागरे ।
“मेषे वृश्चिकभे गजः प्रचलति व्यासादिभिः
कथ्यते
चापे मीनकुलीरभे च वृषभे सत्यं चलेत् कच्छपः ।
यूके कुम्भधरे मृगेन्द्रमिथुने कन्यामृगे पन्नग-
स्तेषामेकतमो यदि प्रचलति क्षौणी तदा
कम्पते ॥
“कच्छपे मरणं ज्ञेयं मरणञ्चापि पन्नगे ।
सर्व्वत्र सुखदञ्चैव पृथिव्यां चलिते गजे ॥
प्रथितनरेश्वरमरणं व्यसनान्याग्नेयमारुतयोः ।
क्षुद्भयमतिवृष्टिभिरुपपीड्यन्ते जनाश्चापि ॥
त्रिचतुर्थपञ्चमदिने मासे पक्षे त्रिपक्षके ।
भवति यदा भूकम्पः प्रधाननृपनाशनं कुरुते ॥”
स च भूमिजोत्पातविशेषः । यथा, --
“चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् ।
जलाशयानां वैकृत्यं भौमन्तदपि कीर्त्तितम् ॥
भौमं जाप्यफलं ज्ञेयं चिरेण परिपच्यते ।”
इति ज्योतिस्तत्त्वम् ॥

भूकर्व्वुदारकः, पुं, वृक्षविशेषः । छोटालसोडा

इति हिन्दी भाषा । तत्पर्य्यायः । क्षुद्रश्लेप्मान्तकः
२ भूशेलुः ३ लघुशेलुः ४ लघुपिच्छिलः ५
लघुशीतः ६ सूक्ष्मफलः ७ लघुभूतद्रुमः ८
भूकर्व्वुदारः ९ । अस्य गुणाः । मधुरत्वम् ।
क्रमिशूलनाशित्वम् । वातप्रकोपणत्वम् । किञ्चित्
शीतत्वम् । स्वर्णमारकत्वञ्च । इति राज-
निर्घण्टः ॥