शब्दकल्पद्रुमः/भपतिः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/४८३

भपतिः, पुं, (भानां नक्षत्राणां पतिः ।) चन्द्रः ।

इति हेमचन्द्रः ॥

भम्भः, पुं, (भम् इत्यव्यक्तशब्देन भातीति । भा +

कः ।) मक्षिका । इति शब्दरत्नावली ॥ धूमः ।
इति त्रिकाण्डशेषः ॥

भम्भरालिका, स्त्री, (भमित्यव्यक्तशब्दस्य भरं

बाहुल्यमालाति गृह्णातीति । आ + ला + कः ।
गौरादित्वात् ङीष् । ततः स्वार्थे कन् टाप्
पूर्ब्बस्य ह्रस्वत्वम् ।) भङ्कारी । इति त्रिकाण्ड-
शेषः ॥ डाँश इति भाषा ॥

भम्भराली, स्त्री, (भमित्यव्यक्तशब्दस्य भरमाला-

तीति । आ + ला + कः । गौरादित्वात् ङीष् ।)
मक्षिका । इति त्रिकाण्डशेषः ॥

भम्भासारः, पुं, मगधराजविशेषः । तत्पर्य्यायः ।

श्रेणिकः २ । इति हेमचन्द्रः ॥

भयं, क्ली, (भी + “एरच् ।” ३ । ३ । ५६ । इत्यत्र

“भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्य-
र्थम् ।” इति वार्त्तिकोक्त्या अपादाने अच् ।) बिभे-
त्यस्मात् तत् । इति भरतः ॥ अस्य लक्षणं यथा,
“रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् ॥”
इति साहित्यदर्पणे ३ परिच्छेदः ॥
अपि च । रागविषयस्य विनाशके समुपस्थिते
तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्या-
त्मकश्चित्तवृत्तिविशेषो भयम् । इति भगवद्-
गीतायां २ अध्याये मधुसूदनसरस्वती ॥
अन्यच्च । परतः स्वानिष्टसम्भावना भयम् ।
यया । व्याघ्राद्बिभेति व्याघ्राधीनत्वेन स्वीयमरणं
सम्भावयति । इति २ व्युत्पत्तिषादे गदाधर-
भट्टाचार्य्यः । तत्पर्य्यायः । दरः २ त्रासः ३
भीतिः ४ भीः ५ साध्वसम् ६ । इत्यमरः । १ ।
७ । २१ ॥ रुद्रासः ७ साधुसंभवः ८ प्रतिभयम्
९ । इति शब्दरत्नावली ॥ आतङ्कः १०
आशङ्का ११ भिया १२ । इति हेमचन्द्रः ॥
आगते भये अभीतवत् स्थातव्यम् । यथा, --
“तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
उत्पन्ने तु भये तीव्रे स्थातव्यं तैरभीतवत् ॥”
इति गारुडे नीतिसारे ११५ अध्यायः ॥
कुब्जकपुष्पम् । घोरे, त्रि । इति मेदिनी । ये,
४१ ॥ पुं रोगः । इति राजनिर्घण्टः ॥
(निरॄतेः पुत्त्रभेदः । यथा, महाभारते । १ ।
६६ । ५५-५६ ।
“तस्यापि निरृतिर्भार्य्या नैरृता येन राक्षसाः ।
घोरास्तस्यास्त्रयः पुत्त्राः पापकर्म्मरताः सदा ॥
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ।
न तस्य भार्य्या पुत्त्रो वा कश्चिदस्त्यन्तको हि
सः ॥”
द्रोणस्य वसोरभिमतिनामिकायां पत्न्यां जातः
पुत्त्रभेदः । यथा, भागवते । ६ । ६ । ११ ।
“द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥”
यवनराजविशेषः । यथा, भागवते । ४ । २७ । २३ ।
“ततो विहतसङ्कल्या कन्यका यवनेश्वरम् ।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥”)

भयङ्करं, त्रि, (भयं करोतीति । भय + कृ +

“मेघर्त्तिभयेषु कृञः ।” ३ । २ । ४३ । इति खच् ।
मुम्च ।) भयजनकम् । तत्पर्य्यायः । भैरवम् २
दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६
भीमम् ७ भयानकम् ८ प्रतिभयम् ९ । इत्यमरः ।
१ । ७ । २० ॥ भयावहम् १० । इति हेम-
चन्द्रः ॥ (यथा, मार्कण्डेयपुराणे । १४ । ८६ ।
“वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते ॥”)
पुं, डुण्डुलपक्षी । इति राजनिर्घण्टः ॥

भयडिण्डिमः, पुं, (भयाय शत्रुभयजननाय

डिण्डिमः ।) संग्रामपटहः । इति पुराणम् ॥

भयद्रुतः, त्रि, (द्रु + कर्त्तरि क्तः । भयेन द्रुतः ।)

भीत्या पलायितः । तत्पर्य्यायः । कान्दिशीकः
२ । इत्यमरः । ३ । १ । ४२ ॥

भयनाशिनी, स्त्री, (भयं रोगभयं नाशयतीति ।

भय + नश् + णिच् + णिनिः ।) त्रायमाणा
लता । इति राजनिर्घण्टः ॥ भयनाशकर्त्री च ॥

भयभीतः, त्रि, (भयेन भीतः ।) त्रासेनातङ्कितः ।

यथा, वह्निपुराणे शिविराजोपाख्याने ।
“एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ।
नातो गुरुतरो धर्म्मः कश्चिदन्योऽस्ति खेचर ! ॥

भयभ्रष्टः, त्रि, (भयेन भ्रष्टः ।) भयद्रुतः । इति

जटाधरः ॥

भयानकः, पुं, (बिभेत्यस्मादिति । भी + “आनकः

शीङ्भियः ।” उणा० । ३ । ८२ । इति आनकः ।)
व्याघ्रः । राहुः । रसविशेषः । इति मेदिनी ।
के, २०५ ॥ स तु शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः ।
तस्य लक्षणं यथा, --
“भयानको भयस्थायिभावः कालाधिदैवतः ।
स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥
यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् ।
चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥
अनुभावोऽत्र वैवर्ण्यं गद्गदस्वरभाषणम् ।
प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥
जुगुप्सावेगसंमोहसंत्रासग्लानिदीनताः ।
शङ्कापस्मारसंभ्रान्तिमृत्य्वाद्या व्यभिचारिणः ॥”
उदाहरणं यथा, --
“नष्टं बर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं
वामनः ॥”
इति साहित्यदर्पणे ३ परिच्छेदः ॥

भयानकः, त्रि, (भी + आनकः ।) भयङ्करः ।

इत्यमरः । १ । ७ । २० ॥ (यथा, भगवद्-
गीतायाम् । ११ । २७ ।
“वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥”

भयापहः, पुं, (भयं अपहन्तीति । हन् + “अन्ये-

भ्योऽपि दृश्यते ।” ३ । २ । १०१ । इति डः ।)
राजा । इति त्रिकाण्डशेषः ॥ (भयनाशके,
त्रि ॥)

भयावहः, त्रि, (आवहतीति । आ + वह् +

अच् । भयस्यावहः इति ।) भयङ्करः । इति
हेमचन्द्रः ॥ (तथा, भगवद्गीतायाम् । ३ । ३५ ।
“श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।
स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः ॥”)

भरः, पुं, (भरतीति । भृ + पचाद्यच् ।) अति-

शयः । इत्यमरः । १ । २ । ६९ ॥ (यथा, गीत-
गोविन्दे । ४१ ।
“पीनपयोधरभारभरेण हरिं परिरभ्य सरा-
गम् ॥”
भारः । यथा, भागवते । १ । ३ । २३ ।
“एकोनविशे विंशतिमे वृष्णिषु प्राप्य नामनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥”)
भरणकर्त्तरि, त्रि । (यथा, ऋग्वेदे । १० । १०० । २ ।
“भराय सु भरत भागमृत्वियं
प्र वायवे शुचिपे क्रन्ददिष्टये ॥”
“भराय सर्व्वेषां पोषकाय ।” इति तद्भाष्ये
सायनः ॥ संग्रामः । यथा, ऋग्वेदे । ४ । ३८ । ५ ।
“उत स्मैनं वस्त्रमथिं न त्रायु
मनुक्रोशन्ति क्षितयो भरेषु ॥”
“भरेषु संग्रामेषु ।” इति तद्भाष्ये सायनः ॥)

भरटः, पुं, (बिभर्त्तीति । भृ + “जनिदाच्युसृवृमदि-

शमिनमिभृञ्भ्य इत्वन्निति ।” उणा० । ४ ।
१०४ । इति अटच् ।) कुम्भकारः । इत्युणादि-
कोषः ॥

भरणं, क्ली, (भ्रियतेऽनेनेति । भृ + करणे ल्युट् ।)

वेतनम् । भृतिः । इति मेदिनी । णे, ६८ ॥
(भृ + भावे ल्युट् ।) पोषणम् । यथा, --
“भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥”
इति दायभागः ॥

भरणः, पुं, (भरतीति । भृ + ल्यु ।) भरणीनक्षत्रम् ।

इति शब्दरत्नावली ॥

भरणी, स्त्री, (भरण + गौरादित्वात् ङीष् ।)

घोषकलता । इति मेदिनी । णे, ६८ ॥ अश्वि-
न्यादिसप्तविंशतिनक्षत्रान्तर्गतद्वितीयनक्षत्रम् ।
तत्पर्य्यायः । यमदैवता २ । इति हेमचन्द्रः ॥
सा तारकात्रयमितत्रिकोणाकृतिः । तस्या
अधिष्ठात्री देवता यमः । यथा, --
“तारकात्रयमिते त्रिकोणके
मध्यगे दिविषदध्वनो यमे ।
पङ्कजाक्षिगणिताः कुलीरतः
सायकाक्षिभुजसंख्यकाः कलाः ॥
दं ३ । ४५ । इति कालिदासकृतरात्रिलग्न-
मानम् ॥ सा च उग्रगणान्तर्गता । अधो-
मुखगणान्तर्गता च । विद्यार्घ्यभूमिखनने
प्रशस्ता । इति ज्योतिस्तत्त्वम् ॥ तत्र जातफलम् ।
“सदापकीर्त्तिर्हि महापवादो
नानाविनोदैश्च विनीतकालः ।
जले विलासी चपलः खलः स्यात्
प्राणिप्रणीतो भरणीषु जातः ॥”
इति कोष्ठीप्रदीपः ॥
पृष्ठ ३/४८४

भरणीभूः, पुं, (भरणी भूरुत्पत्तिस्थानं यस्य ।)

राहुग्रहः । इति हेमचन्द्रः ॥

भरणीयः, त्रि, भरणयोग्यः । पोष्यः । भृधातोः

कर्म्मणि अनीयप्रत्ययेन निष्पन्नः ॥ (यथा, महा-
भारते । ५ । १५० । १७ ।
“सर्व्वं भवतु ते राज्यं पञ्च ग्रामान् विसर्ज्जय ।
अवश्यं भरणीया हि पितुस्ते राजसत्तम् ! ॥”)

भरण्डः, पुं, (बिभर्त्तीति । भृ + “अण्डन्कृसृभृ-

वृञः ।” उणा ० । १ । १२८ । इति अण्डन् ।)
स्वामी । । भूपालः । वृषः । इत्युणादिकोषः ॥
भूः । कृमिः । इति संक्षिप्तसारोणादिवृत्तिः ॥

भरण्यं, क्ली, (भरणे साधु । “तत्र साधुः ।” ४ । ४ ।

९८ । इति यत् ।) मूल्यम् । वेतनम् । इत्य-
मरः । २ । १० । ३१ ॥

भरण्यभुक्, त्रि, (भरण्यं वेतनं भुनक्ति इति ।

भुज् + क्विप् ।) कर्म्मकरः । मूल्यं गृहीत्वा
कर्म्मकारकः । इत्यमरः । ३ । १ । १९ ॥

भरण्या, स्त्री, (भरण्य + अजादित्वात् टाप् ।)

वेतनम् । इत्यमरटीकायां स्वामी ॥

भरण्याह्वा, स्त्री, (भरण्या आह्वा आख्या यस्याः ।)

पर्व्वपुष्पी । इति शब्दचन्दिका ॥ रामदूतीति
ख्याता ॥

भरण्युः, पुं, (कण्ड्वादिगणीयभरण्यधातुः । ततो

बाहुलकात् उण् ।) शरण्युः । मित्रम् । इति
शब्दमाला ॥ अग्निः । चन्द्रमाः । ईश्वरः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

भरतः, पुं, (बिभर्त्ति स्वाङ्गमिति । बिभर्त्ति लोका-

निति वा । भृ + “भृमृदृशियजीति ।” उणा०
३ । ११० । इति अतच् ।) नाट्यशास्त्रम् ।
मुनिविशेषः । स तु अलङ्कारादिशास्त्रस्य सूत्र-
कर्त्ता । (भरतस्य शिष्यः । तस्येदमित्यण् ।
अणो लुक् ।) नटः । रामानुजः । दौष्मन्तिः ।
इति मेदिनी । ते, १३७-३८ ॥ शवरः । तन्तु-
वायः । इति विश्वः ॥ क्षेत्रम् । भरतात्मजः ।
इति हेमचन्द्रः ॥ दुष्मन्तराजपुत्त्रभरतस्य
पर्य्यायः । शाकुन्तलेयः २ दौष्मन्तिः ३ सर्व्व-
दमनः ४ । इति त्रिकाण्डशेषः ॥ यस्त्रयस्त्रिंश-
च्छतमश्वमेधं कृतवान् । पञ्चाशद्राजसूयं एव-
मन्यान् नानाविधान् यज्ञानकरोत् । सप्तविंशति-
सहस्रवत्सरानेकच्छत्रं राज्यं कृतवान् । तस्योत्-
पत्त्यादिर्यथा, --
“दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः ।
तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥
विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् ।
बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥
तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः ।
पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥
का त्वं कमलपत्राक्षि ! कस्यासि हृदयङ्गमे ! ।
किं स्विच्चिकीर्षितं त्वत्र भवत्या निर्ज्जने
वने ॥
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे ! ।
न हि चेतः पौरवाणामधर्म्मे रमते क्वचित् ॥
श्रीशकुन्तलोवाच ।
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद्भगवान् कण्वो वीर ! किं करवाम ते ॥
आस्यतां ह्यरविन्दाक्ष ! गृह्यतामर्हणञ्च नः ।
भुज्यन्तां सन्ति नीवारा उष्यतां यदि रोचते ॥
श्रीदुष्मन्त उवाच ।
उपपन्नमिदं सुभ्रु ! जातायाः कुशिकान्वये ।
स्वयं हि वृणुते राज्ञां कन्यका सदृशं वरम् ॥
ओमित्युक्ते यथाधर्म्ममुपयेमे शकुन्तलाम् ।
गान्धर्व्वविधिना राजा देशकालविधानवित् ॥
अमोघवीर्य्यो राजर्षिर्महिष्यां वीर्य्यमादधे ।
श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥
कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः ।
बद्धा मृगेन्द्रं तरसा क्रीडति स्म स बालकः ॥
तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा ।
हरेरंशांशसम्भूतं भर्त्तुरन्तिकमागमत् ॥
यदा न जगृहे राजा भार्य्यापुत्त्रावनिन्दितौ ।
शृण्वतां सर्व्वभूतानां खे वागाहाशरीरिणी ॥
माता भस्त्रा पितुः पुत्त्रो येन जातः स एव सः ।
भरस्व पुत्त्रं दुष्मन्त ! मावमंस्थाः शकुन्तलाम् ॥
रेतोधाः पुत्त्रो नयति नरदेव ! यमक्षयात् ।
त्वञ्चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥
पितर्य्युपरते सोऽपि चक्रवर्क्ती महायशाः ।
महिमा गीयते तस्य हरेरं शभुवो भुवि ॥
चक्रं दक्षिणहस्तेऽस्य पद्मकोषोऽस्य पादयोः ।
ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड्विभुः ॥
पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः ।
मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥
अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु ।
भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः ॥
सहस्रं बद्धशो यस्मिन् ब्राह्मणा गा विभेजिरे ।
त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् ॥
दौष्मन्तिरत्यगान्मायां देवानां गुरुमाययौ ।
मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् ॥
अदात् कर्म्मणि मष्णारे नियुतानि चतुर्द्दश ।
भरतस्य महत् कर्म्म न पूर्ब्बे नापरे नृपाः ॥
नैवापूर्णैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ।
किरातहूनान् यवनान् पौण्ड्रान् कङ्कान्
खशाञ्छकान् ॥
अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये
ऽखिलान् ।
जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ॥
देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ।
सर्व्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ॥
समास्त्रिनवसाहस्रीर्दिक्षु चक्रमवर्त्तयत् ।
स सम्राट् लोकपालाख्यमैश्वर्य्यमधिराट्श्रियम् ॥
चक्रञ्चाख्खलितं प्राणान्मृषेत्युपरराम ह ।
तस्यासन् नृप ! वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः ॥
जघ्नुस्त्यागभयात् पुत्त्रान्नानुरूपा इतीरिते ॥”
इति श्रीभागवते ९ स्कन्धे १० अध्यायः ॥ * ॥
ऋषभदेवात् इन्द्रदत्तजयन्त्यां कन्यायां जातशत-
पुत्त्रान्तर्गतज्येष्ठपुत्त्रः । यथा । “अथ ह भगवान्
ऋषभदेवः स्वं वर्षं कर्म्मक्षेत्रमनुमन्यमानः प्रद-
र्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृह-
मेधिनां धर्म्माननुशिक्ष्यमाणो जयन्त्यामिन्द्र-
दत्तायामुभयविधं कर्म्म समाम्नायमभियुञ्जन्नात्म-
जानामात्मसमानानां शतं जनयामास । येषां
खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीत्
येनेदं वर्षं भारतमिति व्यपदिशन्ति ।” इति
श्रीभागवते ५ स्कन्धे ४ अध्यायः ॥ * ॥ पावक-
पुत्त्रः । यथा, --
“पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणः स्मृतः ।
ब्रह्मौदनाग्निस्तत्पुत्त्रो भरतो नाम विश्रुतः ॥”
इति मात्स्ये अग्निवंशो नाम ४८ अध्यायः ॥
रामानुजभरतस्य जन्म यथा, --
“भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।
साक्षाद्विष्णोश्चतुर्भागः सर्व्वैः समुदितो गुणैः ॥”
तस्यानुगतः शत्रुघ्नः । यथा, --
“भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ।
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥”
स कुशध्वजकन्यां माण्डवीं परिणीतवान् । यथा,
“भ्राता यवीयान् धर्म्मज्ञ एष राजा कुशध्वजः ।
अस्य धर्म्मात्मनो राजन् ! रूपेणाप्रतिमं भुवि ॥
सुताद्बयं नरश्रेष्ठ ! पत्न्यर्थं वरयामहे ।
तमेवमुक्त्वा जनको भरतञ्चाभ्यभाषत ॥
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ! ॥”
स नन्दिग्रामे राज्यं कृतवान् । यथा, --
“सबल्कलजटाधारी मुनिवेशधरः प्रभुः ।
नन्दिग्रामेऽवसद्धीरः ससैन्यो भरतस्तदा ॥
सबालव्यजनं छत्रं धारयामास स स्वयम् ।
भरतः शासनं सर्व्वं पादुकाभ्यां निवेदयन् ॥
ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके ।
तदधीनस्तदा राज्यं कारयामास सर्व्वदा ॥”
इति रामायणे बालकाण्डे । १८ । ७२ । ७३
अध्यायाः । अयोध्याकाण्डे २४ अध्यायश्च ॥
तस्य द्वौ पुत्त्रौ । यथा, --
“भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।
मातुलेन सुगुप्तौ तु धर्म्मेण सुसमाहितौ ॥
भरतञ्चाग्रतः कृत्वा कुमारौ सबलानुगौ ।
निहत्य गन्धर्व्वसुतान् द्वे पुरे विभजिष्यतः ॥”
इति रामायणे उत्तरकाण्डे १०१ अध्यायः ॥

भरतखण्डं क्ली, भारतवर्षान्तर्गतकुमारिका-

खण्डम् । यथा, --
“कुमारिकेति विख्याता यस्या नाम्ना प्रकथ्यते ।
इदं कुमारिकाखण्डं चतुर्वर्गफलप्रदम् ॥
यथा कृतावनीयश्च नानाग्रामादिकल्पना ।
इदं भरतखण्डञ्च यया सम्यक् प्रकल्पितम् ॥”
इति स्कान्दे कुमारिकाखण्डे भूसंस्थितिनामा-
ध्यायः ॥

भरतपुत्त्रकः, पुं, (भरतस्य नाट्यशास्त्रप्रणेतुः

पुत्त्रकः ।) नटः । इति हेमचन्द्रः ॥

भरतप्रसूः, स्त्री, (प्रसूते इति । प्र + सू + क्विप् ।

प्रसूः । भरतस्य प्रसूः ।) केकयी । इति शब्द-
रत्नावली ॥
पृष्ठ ३/४८५

भरताग्रजः, पुं, (भरतस्य अग्रजः ।) श्रीरामचन्द्रः ।

यथा, वोपदेवः ।
“शेते स चित्तशयने मम मीनकूर्म्म-
कोलोऽभवन्नृहरिवामनजामदग्न्यः ।
योऽभूद्बभूव भरताग्रजकृष्णबुद्धः
कल्की सताञ्च भविता प्रहरिष्यतेऽरीन् ॥”

भरथः, पुं, (बिभर्त्तीति । भृञ् + “भृञश्चित् ।”

उणा० ३ । ११५ । इति अथप्रत्ययः । स च
चित् ।) लोकपालः । इत्युणादिकोषः ॥

भरद्वाजः, पुं, (द्वाभ्यां जायते इति । जन् + डः ।

ततः पृषोदरादित्वात् द्वाजः सङ्करः । भ्रियते
मरुद्भिरिति । भृ + अप् । भरः । भरश्चासौ
द्बाजश्चेति कर्म्मधारयः ।) मुनिविशेषः । स च
उतथ्यपत्न्यां ममतायां बृहस्पतिवीर्य्याज्जातः ।
तस्य जन्मविवरणं यथा । “ततोऽस्य वितथे
पुत्त्रजन्मनि पुत्त्रार्थिने मरुत्सोमयाजिने दीर्घ-
तमसा पार्ष्ण्यपास्ताद्बृहस्पतिवीर्य्यादुतथ्यपत्नी-
ममतासमुत्पन्नो भरद्बाजाख्यो नाम पुत्त्रो मरु-
द्भिर्दत्तः । अस्यापि नामनिर्वचनश्लोकः पठ्यते ।
‘मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ! ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥’ इति ।
भरद्वाजश्च तस्य वितथे पुत्त्रजन्मनि मरुद्भिर्दत्तो
वितथसंज्ञामवाप ॥” * ॥ अस्य टीका । वितथे
अर्थ सति । अत्रैवमितिहासः । बृहस्पते-
रग्रजस्योतथ्यस्य ममताख्या पत्नी गर्भिण्यासीत् ।
तस्यां बृहस्पतिः कामाभिभूतो वीर्य्यं व्यसृजत् ।
तच्च गर्भं प्रविशद्गर्भस्थेन स्थानसङ्कोचभयात्
पार्ष्णिप्रहारेणापास्तं बहिः पतितमपि अमोघ-
वीर्य्यतया बृहस्पतेर्भरद्वाजनामपुत्त्रोऽभूत् ।
गर्भस्थश्च बृहस्पतिना तस्मादेवापराधादन्धो
भवेति शप्तो दीर्घतमा नामाभवत् । तत्र भर-
द्वाजनामनिरुक्तिपरः तत्पित्रोर्विवादकरोऽयं
श्लोको देवैः पठितः । हे मूढे ममते द्बाजं
द्वाभ्यामावाभ्यां जातमिमं पुत्त्रं त्वं भर रक्ष ।
एवं बृहस्पतिनोक्तेव ममता तमाह हे बृह-
स्पते ! द्वाजं द्बाभ्यां जातमिममेकाकिनी किमि-
त्यहं भरिष्यामि । त्वमिमं भरेति परस्परमुक्त्वा तं
पुत्त्रं त्यक्त्वा यस्मात् पितरौ ममताबृहस्पती
ततो यातौ । ततो भरद्वाजाख्योऽयम् । पाठा-
न्तरे एवं विवदमानौ । यद्दुःखात् यन्निमि-
त्ताद् दुःखात् पितरौ यातावित्यर्थः । तदेवं
ताभ्यां त्यक्तो मरुद्भिर्भृतः । मरुत्सोमाख्येन
च यागेनाराधितैर्मरुद्भिस्तस्य वितथे पुत्त्र-
जन्मनि सति दत्तत्वाद्बितथसंज्ञाञ्चावाप ।
इति बिष्णुपुराणे ४ अंशे १९ अध्यायः ॥ * ॥
(द्वादशद्बापरेऽसावेव व्यासः । यथा, देवीभाग-
वते । १ । ३ । २९ ।
“एकादशेऽथ त्रिवृषो भरद्वाजस्ततःपरम् ।
त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे ॥”
यथा च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“रोगाः कार्श्यकरा वलक्षयकरा देहस्य
चेष्टाहराः
दृष्टा इन्द्रियशक्तिसंक्षयकराः सर्व्वाङ्गपीडा-
कराः ।
धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपा
बलात्
प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः
प्राणिनाम् ॥
तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्यो भवद्भिर्बुधै-
र्योग्यैरित्यभिधाय संसदि भरद्वाजं मुनिं
तेऽब्रुवन् ।
त्वं योग्यो भगवन् ! सहस्रनयनं याचस्व लब्धं
क्रमा-
दायुर्व्वेदमधीत्य यं गदभयाम्मुक्ता भवामो
वयम् ॥”)
पक्षिविशेषः । भारुइ इति भाषा । तत्पर्य्यायः ।
व्याघ्राटः २ । इत्यमरः । २ । ५ । १५ ॥ भर-
द्वाजकः ३ । इति शब्दरत्नावली ॥ (गोत्रभेदः ।
यथा, मनौ ।
“शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा ।
भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥”
इत्यादि गोत्रशब्दे द्रष्टव्यम् ॥ भृ + शतृ ।
भरत् + वाजः । संभ्रियमाणहविर्लक्षणान्नेयज-
मानादौ, त्रि । यथा, ऋग्वेदे । १ । ११६ । १८ ।
“यदयातं दिवोदासाय वर्त्तिर्भरद्वाजायाश्विना
हयन्ता ॥”
“भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यज-
मानाय ।” इति तद्भाष्ये सायनाचार्य्यः ॥)

भरद्वाजकः, पुं, (भरद्वाज + स्वार्थे कन् ।) व्याघ्राट-

पक्षी । इति शब्दरत्नावली ॥

भरिणी, स्त्री, (मनो बिभर्त्ति हरतीति । भृ +

णिनिः । गौरादित्वात् ङीष् । पृषोदरादित्वात्
पूर्ब्बादीर्घे साधुः ।) हरिद्वर्णः । इत्युणादि-
कोषः ॥

भरितः, त्रि, (हरितः । पृषोदरादित्वात् हस्य भः ।)

हरिद्वर्णः । इत्युणादिकोषः ॥ पुष्टः । भारयुक्तः ।
भरोऽस्य जात इत्यर्थे इतप्रत्ययेन निष्पन्नः ॥

भरिमा, [न्] पुं, (भृ + “हृभृधृसृस्तृशॄभ्य इम-

निच् ।” उणा० ४ । १४७ । इति भावे इम-
निच् ।) भरणम् । इत्युणादिकोषः ॥ (भ्रियते
इति । कुटुम्बः । इत्यज्ज्वलदत्तः ॥)

भरुः, पुं, (भरति बिभर्त्ति ज्रगदिति । भृञ् भरणे +

“भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः ।”
उणा० १ । ७ । इति उः ।) विष्णुः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः । समुद्रः । स्वामी ।
इति संक्षिप्तसारोणादिवृत्तिः ॥ स्वर्णम् । शिवः
इति । मेदिनी । रे, ६९ ॥

भरुजः, पुं, (भेति शब्देन रुजतीति । रुज् + क ।)

क्षुद्रशृगालः । इति हेमचन्द्रः ॥

भरुटकं, क्ली, (भृ + बाहुलकात् उट । संज्ञायां

कन् ।) भृष्टामिषम् । इति हेमचन्द्रः ॥

भर्गः, पुं, (भृज्यते कामादिरनेनेति । भृज् +

“हलश्च ।” इति घञ् ।) शिवः । इत्यमरः ॥
(यथा, कथासरित्सागरे । १ । ३४ ।
“प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः ।
देवि ! त्वञ्च तथान्याश्च बह्व्योऽजायन्त कन्यकाः ।
स मह्यं भवतीं प्रादात् धर्म्मादिभ्योऽपरा-
श्च ताः ॥
वीतिहोत्रस्य पुत्त्रः । यथा, भागवते । ९ । १७ । ९ ।
“वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ! ॥”)
आदित्यान्तर्गततेजः । यथा, --
“आदित्यान्तर्गतं वर्चो भर्गाख्यं तन्मुमुक्षुभिः ।
जन्ममृत्युविनाशाय दुःखस्य त्रितयस्य च ॥
ध्यानेन पुरुषो यश्च द्रष्टव्यः सूर्य्यमण्डले ॥”
इत्याह्रिकतत्त्वम् ॥

भर्गः, [स्] क्ली, (भर्जते इति । भृज भर्जने +

“अञ्च्यञ्जियुजिभृजिभ्यः कुश्च ।” उणा ० ४ ।
२१५ । इति असुन् कवर्गश्चान्तादेशः ।)
ज्योतिः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(यथा, ऋग्वेदे । ३ । ६२ । १० ।
“तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥”)

भर्ग्यः, पुं, (भृज् + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ ।

इति ण्यत् । चजोरिति कुत्वम् ।) भर्गः । इत्य-
मरटीकायां भरतरायमुकुटौ ॥

भर्जनं, क्ली, (भृज् + ल्युट् ।) भृष्टिः । इति शब्द-

माला ॥ भाजा इति भाषा ॥

भर्त्तव्यं, त्रि, (भृ + तव्य ।) भरणीयम् । पोषणीयम् ।

यथा, दायभागटीकाधृतवचनम् ।
“वृद्धौ च मातापितरौ साध्वी भार्य्या सुतः
शिशुः ।
अप्यकार्य्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत् ॥”

भर्त्ता, [ऋ] पुं, (बिभर्त्ति पुष्णाति पालयति धारय-

तीति वा । भृञ् धारणपोषणयोः + “ण्वुल्
तृचौ ।” ३ । १ । १३३ । इति तृच् ।) अधि-
पतिः । (यथा, रघौ । १ । ७४ ।
“सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्त्तुरथैनं प्रत्यबोधयत् ॥”)
तत्पर्य्यायः । अधिपः २ ईशः ३ नेता ४ परि-
वृढः ५ अधिभूः ६ पतिः ७ इन्द्रः ८ स्वामी ९
नाथः १० आर्य्यः ११ प्रभुः १२ ईश्वरः १३
विभुः १४ ईशिता १५ इनः १६ नायकः १७ ।
इति हेमचन्द्रः ॥ (विष्णुः । प्रपञ्चाधिष्टान-
वत्त्वेन भरणात् ॥) धातरि पोष्टरि च त्रि ।
इति मेदिनी । ते, ३८ ॥ (यथा, ऋम्वेदे । १० ।
२२ । ३ ।
“भर्त्ता वज्रस्य धृष्णोः पिता पुत्त्रमिष प्रियम् ॥”
विवाहितायाः पतिः । यथा, महाभारते ।
१ । १०४ । २८ ।
“भार्य्याया भरणाद्भर्त्ता पालनाच्च पतिः स्मृतः ।
अहं त्वां भरणं कृत्वा जात्यन्धं ससुतं तदा ।
नित्यकालं श्रमेणार्त्ता न भरेयं महातपः ॥”)

भर्त्तृघ्नी, स्त्री, (भर्त्तारं हन्तीति । हन् + टक् ।

ङीप् ।) पतिघातिनी । इति महाभारतम् ॥

भर्त्तृदारकः, पुं, (भर्त्त्रा द्रियते इति । दृङ् आदरे +

कर्म्मणि घञ् । ततः स्वार्थे कः ।) नाट्योक्तौ
युवराजः । इत्यमरः । १ । ७ ।
पृष्ठ ३/४८६

भर्त्तृदारिका, स्त्री, (भर्त्तृदारक + टापि अत

इत्वम् ।) नाट्योक्तौ राजसुता । इत्यमरः ।
१ । ७ । १३ ॥

भर्त्तृहरिः, पुं, स्वनामख्यातः काव्यकर्त्तृराज-

विशेषः । इति जटाधरः । स च विक्रमादित्य-
भ्राता ॥ (अयमेव गन्धर्व्वसेनात् दासीगर्भ-
जातः । यथा, राजावल्याम् । ४ । १-२ ।
“अथ कालेन कियता रममाणो महीतले ।
दास्यां गन्धर्व्वसेनस्तु पुत्त्रमेकमजीजनत् ॥
तस्य भर्त्तृहरीत्येवं नाम चक्रे महामतिः ॥”)

भर्त्स, क ङ ञ भर्त्से । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-उभ० च-सक० सेट् ।) रेफ-
युक्तः । दन्त्यवर्गाद्योपधः । भर्त्सो भर्त्सनम् ।
भर्त्सनन्त्वपकारगीरित्यमरः । १ । ६ । १४ ॥ क
ङ, भर्त्सयते खलं राजा । ञ, भर्त्सयति भर्त्सयते ।
अयमात्मनेपदीत्यन्ये । कदाचित् परस्मैपदार्थो
ञकारः । इति दुर्गादासः ॥

भर्त्सनं, क्ली, (भर्त्स + ल्युट् ।) अपकारगीः ।

इत्यमरः । १ । ६ । १४ ॥ चौरोऽसि त्वां घात-
यिष्यामि इत्याद्यपकारार्थं वचनम् । इति
भरतः ॥ तत्पर्य्यायः । कुत्सा २ निन्दा ३ जुगुप्सा
४ गर्हा ५ गर्हणम् ६ निन्दनम् ७ कुत्सनम् ८
परिवादः ९ परीवादः १० जुगुप्सनम् ११
आक्षेपः १२ अवर्णः १३ निर्व्वादः १४ अप-
क्रोशः १५ । इति शब्दरत्नावली ॥ (भर्त्स +
युच् । भर्त्सनाप्यत्रार्थे । यथा, कथासरित्-
सागरे । ३२ । ५३ ।
“इत्यादि भर्त्सनां कृत्वा गच्छद्भिस्तैः समं स च ।
विवशः प्रययौ विष्णुदत्तस्तूष्णीं बभूव च ॥”)

भर्त्सपत्रिका, स्त्री, (भर्त् स्यते स्मेति । भर्त्स +

घञ् । भर्त्सं निन्दितं पत्रं यस्याः । कप् ।
टाप् । अत इत्वम् ।) महानीली । इति राज-
निर्घण्टः ॥ (भर्त्स्यपत्रिकापि पाठः ॥)

भर्म्मं, क्ली, (भ्रियतेऽनेनेति । भृ + बाहुलकात्

मन् ।) स्वर्णम् । भृतिः । नाभिः । इति द्विरूप-
कोषः ॥

भर्म्म, [न्] क्ली, (भरति भ्रियते वेति । भृञ् +

“सर्व्वधातुभ्यो मनिन् ।” उणा ० ४ । १४४ । इति
मनिन् ।) वेतनम् । इति हेमचन्द्रः ॥ स्वर्णम् ।
धुस्तूरम् । इत्यमरः । २ । ९ । ९४ ॥ नाभिः । इति
विश्वः ॥ (भरणम् । यथा, ऋग्वेदे । १० । ८८ । १ ।
“हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं
जुष्टमग्नौ ।
तस्य भर्म्मणे भुवनाय देवा धर्म्मणे कं स्वधया
पप्रथन्त ॥”
“भर्म्मणे भरणाय ।” इति तद्भाष्ये सायनः ॥)

भर्म्मण्या, स्त्री, (भर्म्मणि भरणे साधुरिति ।

भर्म्मन् + यत् । टाप् ।) वेतनम् । इति हेम-
चन्द्रः ॥

भर्भ, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेफोपधः । भर्भति । इति दुर्गा-
दासः ॥

भर्व्व, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) भर्व्वति । अन्तःस्थवान्तोऽयम् ।
इति दुर्गादासः ॥

भल, क ङ निरूपणे । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-सेट् ।) क ङ, भालयते ।
इति दुर्गादासः ॥

भल, ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ङ, भलते । इति
दुर्गादासः ॥

भलता, स्त्री, (भातीति । भा + बाहुलकात् डः ।

भा चासौ लता चेति कर्म्मधारयः ।) राजबला ।
इति शब्दरत्नावली ॥

भलन्दनः, पुं, कान्यकुब्जदेशीयनृपविशेषः । यथा,

“कलावती कान्यकुब्जे बभूवायोनिसम्भवा ।
जातिस्मरा महासाध्वी सुन्दरी कमला कला ॥
कान्यकुब्जे नृपश्रेष्ठो भलन्दन उरुक्रमः ।
स तां संप्राप योगान्ते यज्ञकुण्डसमुत्थिताम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥

भल्ल, ङ दानवधनिरूपणेषु । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) लद्वयान्तः । ङ,
भल्लते । इति दुर्गादासः ॥

भल्लः, पुं, (भल्लते इति । भल्ल + अच् ।) भल्लूकः ।

इत्यमरः । २ । ५ । ४ ॥ (देशभेदः । यथा,
बृहत्संहितायाम् । १४ । ३० ।
“ब्रह्मपुरदार्व्वडामर-
वनराज्यकिरातचीनकौणिन्दाः ।
भल्लापलोलजटासुर-
कुनठखषखोषकुचिकाख्याः ॥”)

भल्लः, पुं, क्ली, (भल्लते हन्तीति । भल्ल + अच् ।)

शस्त्रभेदः । इति मेदिनी शब्दमाला च । भाला
इति भाषा ॥ (यथा महाभारते । १ । १४० । ६ ।
“प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा ।
क्षुरनाराचभल्लानां विपाठानाञ्च तत्त्ववित् ॥”
अनेन देहविद्धशल्यादिकमुद्धरति । यथा, --
“स च शल्योद्धरणकः प्रोच्यते वैद्यकागमे ।
नाराचबाणशूलाद्यैर्भल्लैः कुन्तैश्च तोमरैः ॥”
इति हारीते प्रथमे स्थाने द्बितीयेऽध्याये ॥)

भल्लकः, पुं, (भल्ल + स्वार्थे कन् ।) भल्लूकः । इति

द्विरूपकोषः ॥ (पक्षिभेदः । यथा, भागवते ।
३ । १० । २३ ।
“काकगृध्रवकश्येनभासभल्लकवर्हिणः ।
हंससारसचक्राह्वकाकोलूकादयः खगाः ॥”)

भल्लपुच्छी, स्त्री, (भल्लस्य पुच्छमिव पुष्पं यस्याः ।)

गवेशका । इति शब्दचन्द्रिका ॥ गोरक्षतण्डुला
इति ख्याता ॥

भल्लाटं, क्ली, शशिध्वजराजपुरम् । यथा, --

“सेनागणैः परिवृतः कल्किर्नारायणः प्रभुः ।
भल्लाटनगरं प्रायात् खड्गधृक् सप्तिवाहनः ॥”
इति कल्किपुराणे । २२ अध्यायः ॥
(दण्डसेनस्य पुत्त्रे, पुं । यथा, हरिवंशे । २० । ३२ ।
“विष्वक्सेनस्य पुत्त्रोऽभूत् दण्डसेनो महीपतिः ।
भल्लाटो तत्कुमारोऽभूद्राधेयेन हतः पुरा ॥”)

भल्लातः, पुं, (भल्लं भल्लास्त्रमिव अतति आत्मानं

ज्ञापयतीति । अत + अच् ।) भल्लातकवृक्षः ।
इति रत्नमाला ॥ (यथा, भावप्रकाशस्य पूर्ब्ब-
खण्डे प्रथमे भागे ।
“भल्लाताभावतश्चित्रं नलञ्चेक्षोरभावतः ॥”)

भल्लातकः, पुं, (भल्ल इवाततीति । अत + क्वुन् ।

यद्वा, भल्लात + स्वार्थे कन् ।) वृक्षविशेषः ।
भेला इति भाषा । तत्पर्य्यायः । अरुष्करः २
भल्लातः ३ शोथहृत् ४ वह्निनामा ५ वीरतरुः
६ व्रणकृत् ७ भूतनाशनः ८ । इति रत्नमाला ॥
भल्लातकी ९ अग्निमुखी १० वीरवृक्षः ११ ।
इत्यमरः ॥ निर्दहनः १२ तपनः १३ अनलः
१४ कृमिघ्नः १५ शैलबीजः १६ वातारिः १७
स्फोटबीजकः १८ पृथग्बीजः १९ धनुर्वृक्षः २०
बीजपादपः २१ वह्निः २२ । (यथा, सुश्रुते ।
सूत्रस्थने । ४६ ।
“उष्णोदकानुपानन्तु स्नेहानामथ शस्यते ।
ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ॥”)
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषाय-
त्वम् । उष्णत्वम् । कृमिकफवातोदरानाहमेह-
दुर्नामनाशित्वञ्च । तत्फलगुणाः । कषायत्वम् ।
मधुरत्वम् । कोष्णत्वम् । कफार्त्तिश्रमश्वासानाह-
विबन्धशूलजठराध्मानकृमिनाशित्वञ्च । तन्-
मज्जगुणाः । विशेषेण दाहशमनत्वम् । पित्ता
पहत्वम् । तर्पणत्वम् । वातारोचकहारित्वम् ।
दीप्तिजनकत्वम् । पित्तनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करोऽग्निकः ।
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफहृत् ॥
भल्लातकफलं पक्वं स्वादुपाकरसं लघु ।
कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेद-
नम् ॥
मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् ।
कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रमीन् ॥
तन्मज्जा मधुरो वृष्यो वृं हणो वातपित्तहा ।
वृत्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् ॥
भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः ।
वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् ॥
हन्ति गुल्मज्वरं चित्रवह्निमान्द्यकृमिव्रणान् ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“भल्लातकफलं स्निग्धं क्रिमिदुर्नामनाशनम् ।
दन्तस्थैर्य्यकरं ग्राहि कषायं मधुंरञ्च तत् ॥
भल्लातवृन्तं मधुरं कषायं वातकोपनम् ॥”
इति राजवल्लभः ॥

भल्लातकी, स्त्री, (भल्लातक + गौरादित्वात् ङीष् ।)

भल्लातकवृक्षः । इत्यमरः ॥

भल्लिका, स्त्री, (भल्ल् + अच् । स्वार्थे कन् । टाप् ।

अत इत्वम् ।) भल्लातकः । इति शब्द-
चन्द्रिका ॥

भल्ली, त्रि, (भल्ल + गौरादित्वात् ङीष् ।) भल्ला-

तकः । इति शब्दरत्नावली ॥ (अस्याः पर्य्यायः ।
पृष्ठ ३/४८७
“भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करोऽग्निकः ।
तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भल्लुकः, पुं, (भल्लूक + पृषोदरादित्वात् ह्रस्वः ।)

भालूकः । इत्यमरः ॥

भल्लूकः, पुं, (भल्लते इति । भल्ल + “उलूकादयश्च ।”

उणा० ४ । ४१ । इति ऊकप्रत्ययेन साधुः ।)
जन्तुविशेषः । भालूक इति भाषा । तत्पर्य्यायः ।
ऋक्षः २ भल्लः ३ सशल्यः ४ दुर्घोषः ५ भल्लुकः
६ पृष्ठदृष्टिः ७ द्राघिष्ठः ८ दीर्घकेशः ९ चिरायुः
१० दुश्चरः ११ दीर्घदर्शी १२ । इति राज-
निर्घण्टः ॥ भालुकः १३ भालूकः १४ अच्छः १५
भाल्लूकः १६ भीलूकः १७ । इति शब्दरत्नावली ॥
(यथा, महाभारते । १२ । ११६ । ६ ।
“सिंहव्याघ्रगणाः क्रूरा मत्ताश्चैव महागजाः ।
द्वीपिनः खड्गभल्लूका ये चान्ये भीम-
दर्शनाः ॥”
कोशस्थप्राणिविशेषः । तद्यथा, --
“शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः को-
शस्थाः ।” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
श्योनाकप्रभेदः । (यथास्य पर्य्यायः ।
“श्योनाको भूतपुष्पश्च पूतिवृक्षो मुनिद्रुमः ।
दीर्घवृन्तश्च कट्वङ्गो भल्लूकष्टुण्टकोऽरणुः ॥”
इति वैद्यकरत्नमाला ॥)
कुक्कुरः । इति राजनिर्घण्टः ॥

भवं, क्ली, (भवति भूयते वा । भू + अच् अप् वा ।)

भव्यम् । इति राजनिर्घण्टः ॥ चाल्ता । इति
भाषा ॥

भवः, पुं, (भूयते इति । भू + भावे अप् ।) जन्म ।

(यथा, याज्ञवल्क्ये । ३ । १६४ ।
“भवो जातिसहस्रेषु प्रियाप्रियविपर्य्ययः ॥”
भवत्यस्मादिति । भू + अपादाने अप् । शिवः ।
इत्यमरः ॥ यथा, शतपथब्राह्मणे । ६ । १ । ३ । १५ ।
“तमब्रवीद् भवोऽसीति तद्यदस्य तन्नामा-
करोत्पर्जत्र्यस्तद्रूपमभवत् पर्जन्यो वै भवः ॥”)
स च जलमूर्त्तिः । यथा, --
“भवाय जलमूर्त्तये नमः ।”
इति पार्थिवशिवलिङ्गपूजाप्रयोगः ॥
(भवति प्रभवत्यनेनेति । भू + अप् ।) क्षेमः ।
(यथा, महाभारते । १ । २२१ । २८ ।
“को हि नाम भवेनार्थी साहसेन समाचरेत् ॥”
भवति उत्पद्यतेऽस्मिन्निति । भू + आधारे
अप् ।) संसारः । (यथा, मार्कण्डेये । १९ । ७ ।
“अनघस्त्वं तथैवेयं देवी सर्व्वभवारणिः ॥”)
सत्ता । प्राप्तिः । इति मेदिनी ॥

भवकः, पुं, (भवतादिति । भू + वुन् ।) आशी-

र्वाचकः । इति संक्षिप्तसारः ॥

भवघस्मरः, पुं, (भवस्य वनस्य घस्मरः ध्वंस-

कारकः ।) दावानलः । इति शब्दमाला ॥

भवत्, त्रि, (भाति विद्यते इति । भा + डवतु-

प्रत्ययः ।) युष्मदर्थम् । अत्र भाधातोर्डवतुप्रत्य-
येन निष्पन्नम् । तस्य लिङ्गत्रये रूपम् । भवान्
भवती भवत् । (यथा, मार्कण्डेये देवी-
माहात्म्ये । ८५ । ५ ।
“भवतां नाशयिष्यामि तत्क्षणात् परमापदः ॥”)
वर्त्तमानार्थम् । इति मेदिनी । ते, १३७ ॥ अत्र
भूधातोः शतृप्रत्ययेन निष्पन्नम् । तस्य लिङ्गत्रये
रूपं भवन् भवन्ती भवत् ॥ (यथा, मनौ ।
१२ । ९७ ।
“चातुर्व्वर्ण्यं त्रयो लोका श्चत्वारश्चाश्रमाः पृथक् ।
भूतं भवद्भविष्यञ्च सर्व्वं वेदात् प्रसिध्यति ॥”)

भवती, स्त्री, (भवत् + ङीप् ।) बाणभेदः । स तु

विषाक्तः । इति शब्दरत्नावली ॥ दीप्तिमती ।
यथा । वाल्मीकिकृतगङ्गास्तोत्रम् ।
“स्वर्गारोहणवैजयन्ति भवतीं भागीरथीं
प्रार्थये ॥”

भवदारु, क्ली, (भवाख्यं भवप्रियं वा दारु ।) देव-

दारुवृक्षः । इति राजनिर्घण्टः ॥

भवदीयं, त्रि, (भवत् + “मवतष्ठक्छसौ ।” ४ । २ ।

११५ । इति छस् ।) भवत इदम् । युष्मत्-
सम्बन्धि । यथा, उद्भटे ।
“श्रुत्वातिदूरे भवदीयकीर्त्तिं
कर्णौ च तुष्टौ न च चक्षुषी मे ।
द्बयोर्विवादं परिहर्त्तुमिच्छन्
समागतोऽहं तव दर्शनाय ॥”
(यथा, भागवते । ९ । १८ । ३९ ।
“वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥”)

भवनं, क्ली, (भवत्यस्मिन्निति । भू + अधिकरणे

ल्युट् ।) गृहम् । (यथा, मनौ । ११ । १८ ।
“स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ॥”
प्रासादः । यथा, महाभारते । ३ । ५४ । १३ ।
“देवराजस्य भवनं विविशाते सुपूजितौ ॥”
भू + भावे ल्युट् ।) भावः । इति मेदिनी ॥ (यथा,
“ननु प्रागसतो घटस्य भवनं दृश्यते ॥”
इति तार्किकाः ॥)

भवनाशिनी, स्त्री, (भवं संसारं जन्मादिकं वा

नाशयति उत्सारयति नाशयितुं शीलमस्येति
वा । नश + णिच् + णिनिः ।) सरयूनदी । इति
पुराणम् ॥

भवनीयं, त्रि, (भवितुमर्ह्यमिति । भू + अनीयर ।)

भवितव्यम् । भव्यम् । उत्पत्त्यर्हम् । इति मुग्ध-
बोधव्याकरणम् ॥

भवन्तः, पुं, (भवत्यत्रेति । भू + “तॄभूवहिवसीति ।”

उणा० ३ । १२८ । इति झच् । स च षिद्भवति ।)
कालभेदः । स तु वर्त्तमानः । इत्युणादिकोषः ॥
(भान्ति इति । भा + डवतु प्रत्ययः ।) भव-
च्छब्दस्य प्रथमाबहुवचनान्तरूपोऽप्ययम् ॥
(यथा, महाभारते । ३ । ५४ । २ ।
“के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ॥”)

भवन्तिः, पुं, (भू + “भुबो झिच् ।” उणा० ३ ।

५० । इति झिच् ।) वर्त्तमानकालः । इत्युणा-
दिकोषः संक्षिप्तसारोणादिवृत्तिश्च ॥

भवभूतिः, पुं, (भवेन शिवेन भूतिरैश्वर्य्यादिकं

यस्य भव एव भूतिर्यस्येति वा । शिवोपासन-
यैवास्य विद्याद्युत्पत्तेस्तथात्वम् ।) कविविशेषः
स च भोजराजस्य पण्डितः । मालतीमाध-
वादिनाटककर्त्ता च । तत्पर्य्यायः । भूगर्भः २ ।
इति जटाधरः ॥ (यथा, राजतरङ्गिण्याम् ।
४ । १४४ ।
“कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः ॥”
भवस्य महादेवस्य भूतिरिति विग्रहे तु ।)
महादेवस्य ऐश्वर्य्यञ्च ॥

भवरुत्, [द्] स्त्री, (भवे जन्मादिप्रदे संसारे

रोदिति अनेनेति भवे जन्मान्ते रोदित्यनेन
वेति । रुद् + क्विप ।) प्रेतपटहः । इति
त्रिकाण्डशेषः ॥

भवात्मजा, स्त्री, (भवस्य शिवस्य आत्मजेति ।)

मनसादेवी । इति शब्दमाला ॥

भवादृक्, [श्] त्रि, युष्मत्सदृशः । भवानिव

दृश्यते य इति व्युत्पत्त्या भवच्छब्द-
पूर्ब्बकदृशधातोः कर्म्मणि क्रमेण क्विप्-
टक्सक्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

भवादृक्षः [श्] त्रि, युष्मत्सदृशः । भवानिव

दृश्यते य इति व्युत्पत्त्या भवच्छब्द-
पूर्ब्बकदृशधातोः कर्म्मणि क्रमेण क्विप्-
टक्सक्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

भवादृशः [श्] त्रि, युष्मत्सदृशः । भवानिव

दृश्यते य इति व्युत्पत्त्या भवच्छब्द-
पूर्ब्बकदृशधातोः कर्म्मणि क्रमेण क्विप्-
टक्सक्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

भवानी, स्त्री, भवस्य भार्य्या । (भव + “इन्द्रवरुण-

भवशर्व्वेति ।” ४ । १ । ४९ । इति स्त्रियां ङीष्
ततः आनुक् चागम इति ।) दुर्गा । इत्य-
मरः । १ । १ । ३१ ॥ एतन्नामकारणं यथा, --
“रुद्रो भवः समाख्यातो भवः संसारसागरः ।
भवः कामस्तथा सृष्टिर्भवानी परिकीर्त्तिता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
(यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ६ ।
“भवानी तत्र मे देव ! परिचर्त्तुं तदाभवत् ॥”) ।

भवानीगुरुः, पुं, (भवान्याः शिवपत्न्या गुरुः पिता ।)

हिमालयपर्व्वतः । इति हेमचन्द्रः ॥

भवाभीष्टः, पुं, (भवे अभीष्टः ।) गुग्गुलुः । इति

राजनिर्घण्टः ॥

भवाब्धिः, पुं, (भवः अब्धिरिवेत्युपमितसमासः ।

भव एव अब्धिर्वा ।) संसाररूपसमुद्रः । यथा,
“ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शंरण्यम् ।
भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं
वन्दे महापुरुष ! ते चरणारविन्दम् ॥”
इति श्रीभागवते ११ स्कन्धे ५ अध्यायः ॥

भवायना, स्त्री, (भवः शिव एवायनमाश्रयस्थल-

मस्याः । शिवशिरसि स्थितत्वादस्यास्तथात्वम् ।)
गङ्गा । इति शब्दरत्नावली ॥ (भवायनी-
त्येके ॥)

भविकं, क्ली, (भवः प्रभाव ऐश्वर्य्यादिकमित्यर्थः

उत्पाद्यत्वेनास्त्यस्येति ठन् ।) मङ्गलम् । तद्बति
त्रि । इत्यमरः ॥

भवितः, त्रि, (भवो मङ्गलं जातोऽस्येति तारका-

दित्वात् इतच् ।) अतीतोत्पत्तिकः । भूतः ।
इति जटाधरः ॥

भवितव्यं, त्रि, भवनीयम् । भव्यम् । इति भवि-

ष्यत्काले कर्म्मणि भावे शक्यार्हप्रेष्यानुज्ञाप्राप्त-
कालार्थे च भूधातोस्तव्यप्रत्ययेन निष्पन्नम् ।
इति व्याकरणम् ॥ यथा, वह्निपुराणे ।
पृष्ठ ३/४८८
“न भवद्भ्यामहं शोच्यो नायं राजापराध्यति ।
भवितव्यमनेनैव येनाहं निधनं गतः ॥”

भवितव्यता, स्त्री, (भवितव्य + भावे तल् ।)

भाग्यम् । इति जटाधरः ॥ (यथा, कथासरित्-
सागरे । २७ । ८६ ।
“तन्ममाचक्ष्व तावत् त्वं कथयिष्याम्यहञ्च ते ।
यदस्तु कोऽन्यथा कर्त्तुं शक्तो हि भवितव्य-
ताम् ॥”)

भविता, [ऋ] त्रि, (भू + शीलार्थे तृच् ।) भवन-

शीलः । इति भरतः ॥ साधु भवनशीलः । इति
मुकुटः । तत्पर्य्यायः । भूष्णुः २ भविष्णुः ३ ।
इत्यमरः ॥ (भविष्यदर्थेऽपि तृच्प्रत्ययः स्यात्
यथा, मार्कण्डेये । २४ । २९ ।
“नान्या भार्य्या भवित्रीति वर्ज्जयित्वा मदा-
लसाम् ।”)

भविनः, पुं, (भवाय काव्यादिप्रकाशाय इनः सूर्य्यः

इव । ततः पृषोदरादित्वात् साधुः ।) काव्य
कर्त्ता । इति त्रिकाण्डशेषः ॥

भविलः, पुं, (भू + “सलिकल्यनिमहिभडिभण्डि-

शण्डिपिण्डितुण्डिकुकिभूभ्य इलच् ।” उणा० ।
१ । ५५ । इलच् ।) षिड्गः । इति त्रिकाण्ड-
शेषः । भव्यः । इति सिद्धान्तकौमुद्यामुणादि-
पादः ॥

भविष्णुः, त्रि, (भू + “भुवश्च ।” ३ । २ । १३८ । इति

इष्णुच् । भवतेर्धातोश्छन्दसि विषये तच्छीला-
दिषु इष्णुच् प्रत्ययो भवतीति काशिका ।)
भविता । इत्यमरः ॥

भविष्यः, त्रि, (भू + ऌटः सद्वेति शतृस्यट् च ततो

विभाषायां पृषोदरात् तस्य लोपः ।) भविष्यत्-
कालः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे ।
८१ । २८ ।
“अयं भविष्ये कथितो भविष्यकुशलैर्द्विजैः ॥”)
पुराणविशेषे, क्ली । यथा, --
“चतुर्द्दशं भविष्यं स्यात्तथा पञ्चशतानि च ॥”
इति श्रीभागवते १२ स्कन्धे १३ अः ॥
(फलविशेषे, क्ली ॥)

भविष्यत्, त्रि, (भू + ऌटः शतृस्यट् च ।) काल-

विशेषः । तस्य लक्षणम् ॥ वर्त्तमानप्रागभाव-
प्रतियोगित्वम् । इति सारमञ्जरी ॥ वर्त्तमान-
कालोत्तरकालीनोत्पत्तिकत्वम् । इति शिरो-
मणिकृतपदार्थटीकाखण्डनम् ॥ तत्पर्य्यायः ।
अनागतम् २ श्वस्तनम् ३ प्रगेतनम् ४ वर्त्स्यत्
५ वर्त्तिष्यमाणम् ६ आगामि ७ भावि ८ ।
इति राजनिर्घण्टः ॥ अद्यतने भव्ये डी दूरभव्ये
ती । इति सांप्रदायिकः । यथा श्वो भविता
वर्षान्तरे भविष्यति । इति दुर्गादासः ॥

भव्यं, क्ली, (भवतीति भूयते इति वा । भू +

“भव्य गेयेति ।” ३ । ३ । ६८ । इति यत् ।
भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । इति
काशिका ।) फलविशेषः । चाल्ता इति
भाषा ॥ तत्पर्य्यायः । भवम् २ भविष्यम् ३
भावनम् ४ वक्त्वशोधनम् ५ लोमफलम् ६
पिच्छिलबीजम् ७ । अस्य गुणाः । अम्लत्वम् ।
कटुत्वम् । उष्णत्वञ्च । बालस्य तस्य गुणः ।
वातकफापहत्वम् । पक्वस्य तस्य गुणः । मधु-
राम्लत्वम् । रुचिकारित्वम् । श्रमशूलहरत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् ।
तदेव पक्वं दोषघ्नं गुरु ग्राहि विषापहम् ॥”
इति राजवल्लभः ॥
अस्थि । इति मेदिनी । ये, ४३ ॥

भव्यं, त्रि, (भवतीति । भू + कर्त्तरि निपातनात् वा

यत् ।) शुभम् । (यथा, भागवते । ४ ।
१४ । ३० ।
“भग्नायां भव्ययाच्ञायां तस्मै विदुर ! चुक्रुधुः ॥”)
सत्यम् । योग्यम् । भावि । इति मेदिनी शब्द-
रत्नावली च ॥ (यथा, मार्कण्डेये । ७९ । ७ ।
“भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ! ॥”
श्रेष्ठम् । यथा, भागवते । १ । १५ । १७ ।
“यत्पादपद्ममभवाय भजन्ति भव्याः ॥”
“भव्याः श्रेष्ठाः ।” इति तट्टीकायां स्वामी ॥
प्रसन्नम् । यथा, रामायणे । १ । ६२ । ७ ।
“स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ॥”
भव्येन प्रसन्नेन चेतसेति तट्टीकायां रामानुजः ॥)

भव्यः, पुं, (भवति उत्पद्यते भू + निपातनात्

कर्त्तरि वा यत् ।) कर्म्मरङ्गवृक्षः । इति मेदिनी ।
ये, ४२ ॥ रसभेदे, पुं क्ली । इति शब्दरत्ना-
वली ॥

भव्या, स्त्री, (भव्य + टाप् ।) उमा । गजपिप्पली ।

इति मेदिनी । ये, ४२ ॥

भष, वुक्के । पिशुनोक्तौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-श्वशब्दे अक० पिशुनोक्त्यादौ सक०-
सेट् ।) बुक्कः कुक्कुरादिकर्त्तृकशब्दः । भषति
श्वा । भषत्यन्यदोषं खलः सूचयतीत्यर्थः । भर्त्-
सने इति प्राञ्चः । भषति श्वा पान्थं शब्देन
निर्भर्त्सयतीत्यर्थः । इति रमानाथः । इति
दुर्गादासः ॥

भषः, पुं, (भषतीति । भष कुक्कुरादि शब्दे +

अच् ।) कुक्कुरः । इति रत्नमाला ॥

भषकः, पुं, स्त्री, (भषातीति । भष + “क्वुन् शिल्पि-

संज्ञयोरपूर्ब्बस्यापि ।” उणा० २ । ३२ । इति
क्वुन् ।) कुक्कुरः । इत्यमरः । २ । १० । २२ ॥

भषणं, क्ली, (भष् + ल्युट् ।) वुक्कनम् । कुक्कुर-

शब्दः । इति हेमचन्द्रः ॥

भषा, स्त्री, स्वर्णक्षीरी । इति रत्नमाला ॥

भषी, स्त्री, (भष + स्त्रियां जातित्वात् ङीष् ।)

शुनी । इति शब्दरत्नावली ॥

भस, र लि द्युतौ । भर्त्से । इति कविकल्पद्रुमः ॥

(ह्वा०-पर०-अक०-सक० च सेट् ।) र वैदिकः ।
लि, वभस्ति । इति दुर्गादासः ॥

भसत्, स्त्री, (बभस्तीति । भस् + “शॄदॄभसो-

ऽदिः ।” उणा ० १ । १२९ । इति अदिः ।)
काष्ठम् । अश्वमांसम् । जघनम् । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

भसत्, [द्] स्त्री, (भस + अदिः ।) भास्करः ।

योनिः । इति मेदिनी ॥ मांसम् । कारण्डव-
पक्षी । प्लवः । इत्युणादिकोषः ॥ कालः । इति
त्रिकाण्डशेषः ॥

भसनः, पुं, (बभस्तीति । भस् + ल्युः ।) भ्रमरः ।

इति भूरिप्रयोगः ॥

भसन्तः, पुं, (बभस्तीति । भस + बाहुलकात्

झच् ।) कालः । इति त्रिकाण्ड शेषः ॥

भसितं, क्ली, (भस् + क्त ।) भस्म । इति हेम-

चन्द्रः ॥ (यथा, शिवपुराणे बायुसंहितायाम् ।
२९ । ४१ ।
“चन्दनं वामदेवाख्ये हरितालञ्च पौरुषे ।
ईशाने भसितं केचिदालेपनमितीदृशम् ॥”)

भसूचकः, पुं, (भानां नक्षत्राणां सूचकः ।)

दैवज्ञः । इति शब्दरत्नावली ॥

भस्त्रका, स्त्री, (भस्यते इति । भस दीप्तौ + त्रन् +

टाप् । भस्त्रा ततः स्वार्थे कन् । “भस्त्रैषा-
जाज्ञेति ।” ७ । ३ । ४७ । इति इत्वं न । आतः
स्थाने योऽकारस्तस्य इत्वं न भवति उदीचा-
माचार्य्याणां मतेन । इति काशिका ।) चर्म्म-
प्रसेविका । इति शब्दरत्नावली ॥

भस्त्रा, स्त्री, (भस्यतेऽनयेति । भस + “हुयमाश्रू-

भसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन्
अजादित्वात् टाप् ।) अग्निदीपकचर्म्मनिर्म्मित-
यन्त्रविशेषः । भाथी इति याँता इति च
भाषा । तत्पर्य्यायः । चर्म्मप्रसेविका २ । इत्य-
मरः । २ । १० । ३३ ॥ चर्म्मप्रसेवकः ३ । इति भरतः ॥
भस्त्राका ४ भस्त्रका ५ भस्त्री ६ । इति शब्द-
रत्नावली ॥ भस्त्रिका ७ । इति व्याकरणम् ॥
(यथा, भागवते । ९ । २० । २१ ।
“माता भस्त्रा पितुः पुत्त्रो येन जातः स एव सः ।
भरस्व पुत्त्रं दुष्मन्त ! मावमंस्थाः शकुन्तलाम् ॥”)

भस्त्राका, स्त्री, भस्त्रा । इति शब्दरत्नावली ॥

भस्त्री, स्त्री, (भस्यतेऽनयेति । भस् + त्रन् । गौरा-

दित्वात् ङीष् ।) भस्त्रा । इति शब्दरत्नावली ॥

भस्म, [न्] क्ली, (बभस्तीति । भस् भर्त्सनदीप्त्योः +

“सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ ।
इति मनिन् ॥ दग्धकाष्ठादिविकारः ।) शिवाङ्ग-
भूषणम् । छाइ इति भाषा । यथा, --
“अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।”
इति शब्दरत्नावली ॥
तद्भस्म कामदेवशरीरजम् । यथा, --
“प्रसीद सर्व्वभूतेश ! भक्त्या त्वत्प्रणता वयम् ।
इति स्म वदतां तेषाममराणां तदानलः ।
ललाटचक्षुः सम्भूतो भस्माकार्षीन्मनोभवम् ॥
दग्ध्वा कामं तदा वह्निर्ज्वालामालातिदीपितः ।
संस्तम्भितोऽथ विधिना हरं गन्तुं शशाक न ॥
महादेवोऽथ तद्भस्म मनोभवशरीरजम् ।
आदाय सर्व्वगात्रेषु भूतिलेपं तदाकरोत् ॥
लेपशेषाणि भस्मानि समादाय तदा हरः ।
सगणोऽन्तर्दधे कालीं विहाय विधिसम्मते ॥”
इति कालिकापुराणे ४१ अध्यायः ॥ * ॥
पृष्ठ ३/४८९
भस्मम्रक्षणं सप्तविधास्नानान्तर्गताग्नेयस्नानम् ।
यथा, --
“आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ।”
इति यामलः ॥
शिवपूजायां ललाटे तस्य धारणमावश्यकम् ।
यथा, --
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥”
इत्याह्रिकतत्त्वम् ॥
तेन कांस्यशुद्धिर्यथा, --
“अम्भसा हेमरूप्यायः कांस्यं शुध्यति भस्मना ।
अम्लैस्ताम्रञ्च रैत्यञ्च पुनःपाकेन मृण्मयम् ॥”
इति शुद्धितत्त्वम् ॥ * ॥
अश्मरीविकारः । यथा, --
“शर्क्करासिकतामेहो भस्माख्योऽश्मरीवैकृतम् ।
अश्मर्य्याः शर्क्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥”
इति सुश्रुते निदानस्थाने अश्मरीनिदानम् ॥

भस्मकं, क्ली, (भस्म + संज्ञायां कन् ।) रोग-

भेदः । भस्मकोट इति ख्यातः । विडङ्गः ।
(यथास्य पर्य्यायः ।
“जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतण्डुलम् ।
क्रिमिशत्रु विडङ्गश्च गर्द्दभं तच्च कैवलम् ॥”
इति वैद्यकरत्नमालायाम् ॥)
कलधौतम् । इति मेदिनी । के, १३३ ॥ * ॥
भस्मकस्य निदानसंप्राप्तिपूर्ब्बकं लक्षणमाह ।
“कट्वादिरूक्षान्नभुजां नराणां
क्षीणे कफे मारुतपित्तवृद्धौ ।
अतिप्रवृद्धः पवनान्वितोऽग्नि-
र्भुक्तं क्षणाद्भस्म करोति यस्मात् ।
तस्मादसौ भस्मकसंज्ञकोऽभू-
दुपेक्षितोऽयं पचते च धातून् ॥”
भस्मकस्य सोपद्रवमरिष्टमाह ।
“तृट्स्वेददाहमूर्च्छादीन् कृत्वैवात्यग्निसम्भवान् ।
पक्त्वान्नमाशु धात्वादीन् स क्षिप्रं नाशयेद्-
ध्रुवम् ॥”
इति भावप्रकाशः ॥
(अत्र तीक्ष्णाग्निव्याख्याने विजयेनोक्तम् ।
तीक्ष्णग्रहणेन भस्मकस्यावरोधः । अत्यन्त-
तीक्ष्णाग्निरेव हि भस्मकमित्युच्यते ॥ यदुक्त-
ञ्चरके चिकित्सास्थाने ऊनविंशेऽध्याये ।
भस्मकचिकित्सामाह ।
“बरे क्षीणकफे पित्तं कुपितं मारुतानुगम् ।
स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति ॥
तथा लब्धबलो देहे विरूक्षे सानिलोऽनलः ।
परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः ॥
पक्त्वान्नं सततं धातून् शोणितादीन् पचत्यपि ।
ततो दौर्ब्बल्यमातङ्कान् मृत्युञ्चोपनयेन्नरम् ॥
भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति ॥”
“तमत्यग्निं गुरुस्निग्धशीतमधुरविज्वलैः ॥
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः ।
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत् ॥
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत् ।
पायसं कृशरं स्निग्धं पैष्टिकं गुडवैकृतम् ॥
अद्यात्तथौदकानूपपिशितानि घृतानि च ।
मत्स्यान् विशेषतः स्निग्धान् स्थिरतोयचरां-
स्तथा ॥
आविकं सघृतं मांसमद्यादत्यग्निनाशनम् ।”
“पिबेत् शीताम्बुना सर्पिर्मधूच्छिष्टेन वा युतम् ।
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नरः ॥
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्ज्जितान् ।
गोधूमचूर्णमन्थं वा व्यधयित्वा शिरां पिबेत् ॥”
“श्यामा त्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम् ।
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम् ॥
यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरुभोजनम् ।
तदत्यग्निहितं सर्व्वं भुक्त्वा प्रस्वपनं दिवा ॥
कफे वृद्धे जिते पित्ते मारुते चानलः समः ।
समधातोः पचत्यन्नं पुष्ट्यायुर्बलवृद्धये ॥”)

भस्मकारः, पुं, (भस्म करोतीति । कृ + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इति अण् ।) रजकः ।
इति शब्दमाला ॥

भस्मकूटः, पुं, कामरूपस्थपर्व्वतभेदः । यथा, --

“नन्दनात पूर्ब्बभागे तु भस्मकूटो महागिरिः ।
यत्र तिष्ठति भूतेशो महादेवो वृषध्वजः ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

भस्मगन्धा, स्त्री, (भस्मन इव गन्धो यस्याः ।)

रेणुका । इति भावप्रकाशः ॥

भस्मगन्धिका, स्त्री, (भस्मगन्धोऽस्त्यस्या इति ।

भस्मगन्ध + “अत इनिठनौ ।” ५ । २ । १५५ ।
इति ठन् । टाप् ।) रेणुकाख्यगन्धद्रव्यम् । इति
जटाधरः ॥

भस्मगन्धिनी, स्त्री, (भस्मन इव बाहुल्येन गन्धो-

ऽस्त्यस्या इति । भस्मगन्ध + इनिः । ङीप् ।)
रेणुकाख्यगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२० ॥

भस्मगर्भः, पुं, (भस्म गर्भेऽस्य ।) तिनिशवृक्षः ।

इति राजनिर्घण्टः ॥ (विवरणमस्य तिनिश-
शब्दे ज्ञातव्यम् ॥)

भस्मगर्भा, स्त्री, (भस्म गर्भेऽस्या इति । टाप् ।)

कपिलशिंशपा । इत्यमरः । २ । ४ । ६३ ॥ (अस्याः
पर्य्यायो यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ।
“शिं शपा पिच्छिला श्यामा कृष्णसारा च सा
गुरुः ।
कपिला सैव मुनिभिभस्मगर्भति कीर्त्तिता ॥”)
रेणुकानामगन्धद्रव्यम् । इति जटाधरः ॥

भस्मतूलं, क्ली, (भस्म तूलति तूलयति वेति । तूल

+ क ।) ग्रामकूटः । पांशुवर्षणम् । हिमम् ।
इति मेदिनी । ले, १६८ ॥

भस्मरोहा, स्त्री, (भस्मनि रोहति इति । रुह् +

अच् । टाप् ।) दग्धावृक्षः । इति राज-
निर्घण्टः ॥

भस्मवेधकः, पुं, (भस्म इव वेधकः ।) कर्पूरः । इति

शब्दरत्नावली ॥

भस्माचलः, पुं, कामरूपस्थपर्व्वतभेदः । यथा, --

“सर्व्वतीर्थजले स्नात्वा स्पृष्ट्वा चन्द्रं सवा-
सवम् ।
मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते ॥”
इति श्रीकालिकापुराणे ८१ अध्यायः ॥

भस्माह्वयः, पुं, (भस्म आह्वयते स्पर्द्धते इति ।

आ + ह्वे + बाहुलकात् शः ।) कर्पूरः । इति
त्रिकाण्डशेषः ॥ (विषयोऽस्य कर्पूरशब्दे
ज्ञातव्यः ॥)

भा, ल ष दीप्तौ । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-अक०-अनिट् ।) ल, भाति । ष, भा ।
इति दुर्गादासः ॥

भा, स्त्री, (भा दीप्तौ + “षीद्भिदादिभ्योऽङ् ।” ३ ।

३ । १०४ । इत्यङ् । टाप् ।) प्रभा । दीप्तिः ।
इत्यमरः । १ । ४ । ३४ ॥ (यथा, वाजसनेय-
संहितायाम् । ३० । १२ ।
“भायै दार्व्वाहारमिति ॥”)

भाः, [स्] पुं, (भासते इति । भासृ दीप्तौ +

“भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।”
३ । २ । १७७ । इति क्विप् ।) सूर्य्यः । इति
त्रिकाण्डशेषः ॥ (स्त्री, दीप्तिः । इत्यमरः । १ । ४ ।
३४ ॥ यथा, ऋग्वेदे । १ । ४६ । १० ।
“अभूदु भा उ अंशवे हिरण्यं प्रति सूर्य्यः ॥”)

भाकुटः, पुं, (भया दीप्त्या कुटतीति । कुट + क ।)

मत्स्यविशेषः । भेक्टी इति भाषा ॥ अस्य
गुणाः । मधुरत्वम् । शीतत्वम् । वृष्यत्वम्
श्लेष्मकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥

भाकूटः, पुं, (भायुक्ताः कूटाः शिखराणि यस्य ।)

पर्व्वतभेदः । मत्स्यभेदः । इति मेदिनी । टे, ५३ ॥

भाकोषः, पुं, (भानां दीप्तीनां कोष इव ।) सूर्य्यः ।

इति त्रिकाण्डशेषः ॥

भाक्तं, त्रि, (भक्तेः गौण्यावृत्तेरागतमिति । भक्ति

+ अण् ।) पारिभाषिकम् । गौणम् । लाक्ष-
णिकम् । औपचारिकम् । यथा । “नन्वेवं परत्र
सप्तमे मासि क्रियमाणस्य कथं षाण्मासिकत्वम् ।
इति चेद्भाक्तम् ।” इति तिथ्यादितत्त्वम् ॥ (भक्त-
स्येदमिति तस्येदमित्यण् ।) भक्तसम्बन्धिनि च ॥
(भक्तमस्मै दीयते नियुक्तमिति । भक्त + “भक्ता-
दणन्यतरस्याम् ।” ४ । ४ । ६८ । इत्यण् । अन्नेन
पोष्ये च ॥)

भाक्तिकः, त्रि, (भक्तमस्मै नियुक्तं दीयते इति ।

भक्त + “भक्तादणन्यतरस्याम् ।” ४ । ४ । ६८ ।
इति पक्षे ठक् ।) अन्नेन पोष्यः । भक्तमस्मै
दीयते । इति सिद्धान्तकौमुदी ॥

भागः, पुं, (भज्यते इति । भज भागसेवयोः

+ कर्म्मणि घञ् ।) अंशः । इत्यमरः । २ । ९ । ८९ ॥
रूप्यार्द्धकः । भाग्यम् । एकदेशः । इति शब्द-
रत्नावली ॥ राशेस्त्रिंशभागैकभागः । यथा, --
“त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ॥”
इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥
(भज + भावे घञ् । भजनम् । भगानामैश्व-
र्य्याणां समूहः इति अण् । ऐश्वर्य्यसमूहः ॥)

भागधेयं, क्ली, (भाग एव । भाग + “भागरूप-

नामभ्यो धेयः ।” इति धेयप्रत्ययः । अभिधाना-
न्नपुसकत्वम् ।) भाग्यम् । इत्यमरः । १ । ४ । २८ ॥
पृष्ठ ३/४९०

भागधेयः, पुं, (भागेन धीयते इति । धा + कर्म्मणि

यत् ।) राजकरः । इत्यमरः । २ । ८ । २७ ॥
दायादः । इत्यजयपालः ॥

भागवतं, क्ली, (भगवतो भगवत्या वेदम् । भगवत् +

तस्येदमित्यण् ।) अष्टादशपुराणान्तर्गतमहा-
पुराणविशेषः । स च वेदव्यासकृतद्बादशस्कन्ध-
द्बात्रिंशत्त्रिशताध्यायसमन्विताष्टादशसहस्र-
श्लोकसंख्याक-भगवन्माहात्म्यवर्णन-प्रधानको
ग्रन्थः । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे ।
“यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः ।
वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ।
प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् ॥
अष्टादशसहस्राणि पुराणं तत् प्रकीर्त्तितम् ॥”
पुराणान्तरे च ।
“ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः ।
हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ॥
गायत्त्र्या च समारम्भस्तद्वै भागवतं विदुरिति ॥”
पद्मपुराणे च अम्बरीषं प्रति गोतमवचनम् ॥
“अम्बरीष ! शुकप्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्वमुखेनापि यदीच्छसि भवक्षयमिति ॥”
इति श्रीभागवतटीकायां श्रीधरस्वामी ॥
(तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धम् ।
एकं महापुराणान्तर्गतमपरमुपपुराणान्तगतम् ।
लोकेऽप्युपलम्भो द्वयोर्देवीभागवतनाम्ना विष्णु-
भागवतनाम्ना चास्त्येव । तत्रैकं महापुरा-
णान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्व्वि-
वादमेव । तथापि किं देवीभागवतं महापुराण-
मन्यदुपपुराणमथवा विष्णुभागवतं महापुराण-
मन्यदुपपुराणमिति संशये केचित् विष्णुभाग-
वतमेव महापुराणमिति वदन्ति । केचित्
देवीभागवतमेव महापुराणमिति वदन्ति ।
तत्र प्रथमपक्षैकदेशिनः केचिदुपपुराणेषु
द्बितीयं भागवतं नास्त्येव महापुराणेष्वेवैकं
भागवतं प्रसिद्धम् । तच्च विष्णुभागवतमेव न
देवीभागवतम् । देवीभागवतन्तु निर्मूलमेवेति
वदन्ति । द्वितीवपक्षैकदेशिनोऽपि विष्णुभाग-
वतं वोपदेवकृतमिति वदन्ति । वस्तुतस्तूभयो-
रपि पुराणयोः पुराणमतभेदेन महापुराणत्व-
मुपपुराणत्वञ्च । ननु महापुराणेष्वेवैकं भाग-
वतं प्रसिद्धम् । नतूपपुराणेषु द्वितीयमस्तीति
चेन्न । कूर्मगरुडपाद्मादिषूपपुराणेषु द्वितीयस्य
स्पष्टपरिगणनात् । तथाहि हेमाद्रौ दानप्रस्तावे
कूर्मपुराणेऽष्टादशपुराणान्युक्त्वा, --
“अन्यान्युप्रपुराणानि मुनिभिः कथितानि तु ।
आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥”
इत्यादि ॥
“पराशरोक्तं प्रवरं तथा भागवताह्वयम् ॥” इति ।
तथा गारुडे तत्त्वरहस्ये द्वितीयांशे धर्म्मकाण्डे
प्रथमाध्याये प्रथमतो महापुराणानां सात्त्वि-
कादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्त्वि-
कादिभेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तम् ।
“पुराणं भागवतं दौर्गं नन्दिप्रोक्तं तथैव च ।
पाशुपत्यं रैणुकञ्च भैरवञ्च तथैव च ॥”
इति ॥
तथा तत्पूर्ब्बमपि ।
“विष्णुधर्म्मोत्तरे चैव तत्र भागवतं तथेति ॥”
तन्त्रं भागवतं तथेति पाठे तन्त्रं शास्त्रमित्यर्थः ।
तद्विशेषणेन चोत्तमत्वं सूचितम् । तथा पाद्मे
शकुनपरीक्षायाम् ।
“ब्राह्मं पाद्मं वैष्णवञ्च मार्त्तण्डं नारदेरितम् ॥”
इत्यादि ॥
“तथैव गदितं राम ! पुराणं कापिलं तथा ।
वाराहं ब्रह्मवैवर्त्तं शकुनेषु प्रशस्यते ।
शैवं भागवतं दौर्गं भविष्योत्तरमेव च ॥” इति ॥
तथा पाद्मे भागवतमाहात्म्ये एकोनविंशेऽध्याये
उपपुराणेषु ।
“शैवमादिपुराणञ्च देवीभागवतं तथा ॥” इति ॥
तथा मधुसूदनसरस्वतीकृतसर्व्वशास्त्रार्थसंग्रहे-
ऽप्युपपुराणमध्ये भागवतं परिगणितम् ।
नागोजीभट्टादिभिश्च धर्म्मशास्त्रग्रन्थेष्वेवमन्यैरपि
निबन्धकारैरिति । ननु देवीभागवतस्य ।
“तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ॥”
इति प्रथमाध्यायस्थस्ववचनेनाष्टादशमहापुरा-
णेषु पञ्चममिदं पुराणमिति स्वस्य महापुरा-
णत्वं बोधयतः कथमन्यपुराणमुपपुराणत्वं बोध-
येन्नह्येवं क्वचिद्दृष्टचरमिति चेन्न । नारदीय-
शिववायव्यादित्यपुराणानां स्वमुखेनान्यमुखेन
वा महापुराणत्वेन ज्ञायमानानामन्यपुराणैरुप-
पुराणत्वस्य व्यवस्थापनात् । पुराणमतभेदेनै-
कस्यापि पुराणस्य महापुराणत्वोपपुराणत्व-
सिद्ध्या तद्विरोधाभावात् पुराणभेदेन मतभेदस्तु
बहुशः प्रसिद्धः । वैष्णवपुराणेषु सात्त्विकत्वं
शैवपुराणेषु तामसत्वं वैष्णवपुराणमतेन । शैव-
पुराणेषु सात्त्विकत्वं वैष्णवपुराणेषु तामसत्वम् ।
“दश शैवपुराणानि सात्त्विकानि विदुर्बु धाः ।
तामसानि च चत्वारि वैष्णवानि प्रचक्षते ॥”
इति स्कान्दे ॥
शैवपुराणमतेनेत्येवं प्रकारेणेति । तथाहि
नारदीयस्य पुराणस्य स्वान्तर्गतमहापुराण-
ग्रन्थसूच्या स्वमुखेनैव स्वात्मनो महापुराणत्वं
बोघयतः ।
“मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
आलिंपाग्निपुराणानि कूस्कंगारुडमेव च ॥”
इति वचनेन वक्ष्यमाणमुद्गलपुराणवचनेन च
महापुराणबहिर्भूतत्वं बोध्यते । आलिंपाग्नी-
त्यत्राऽऽशब्देनादित्यपुराणं तथा शैवपुराणस्य
स्वमुखेन स्वस्य महापुराणत्वं बोधयतो मद्वयं
भद्बयमित्येव वचनं तद्बहिर्भूतत्वं बोधयति ।
ननु वायव्यं पुराणमेव शैवं शिवप्रतिपादकत्वा-
त्तस्य च वचतुष्टयपदेन संग्रहात्तदुदाहरणं न
सम्भवतीति चेन्न । मुद्गलपुराणे ।
“ब्राह्मञ्च वैष्णवं पाद्मं शैवं भागवतं तथा ।
भविष्यं ब्रह्मवैवर्त्तं मार्कण्डेयञ्च वामनम् ॥
आग्नेयं वायवं मात्स्यम् ।” इति वचनेन शैव-
वायव्यपुराणयोः परस्परं पृथक्त्वेन परिगणनात् ।
तथा वायव्यपुराणस्य स्ववचनेन स्वस्य महा-
पुराणत्वं बोधयतो वक्ष्यमाणशैवपुराणवचनं
महापुराणबहिर्भूतत्वं बोधयति । तथादित्य-
पुराणस्यापि आलिंपाग्निपुराणानीति क्वचित्
पुराणसम्मतपाठेन महापुराणत्वम् । अनाप-
लिङ्गकूस्काख्यमिति क्वचित् पुराणसम्मतपाठेन
महापुराणबहिर्भूतत्वं यथा चैतेषां चतुर्णां
क्वचित् पुराणेषु महापुराणत्वेन क्वचिच्चोप-
पुराणत्वेन ग्रहणम् । तथा देवीभागवतस्यापि
भविष्यतीति को विरोधः । मतभेदेनोभयोरपि
वचनयोः प्रमाणत्वात् । ननु अन्यान्युपपुरा-
णानि मुनिभिः कथितानि त्वित्यादिवचनै-
रुपपुराणानि व्यासान्यमुनिकृतान्येव सन्ति ।
देवीभागवतं तु व्यासकृतमेवेति । तस्य कथ-
मुपपुराणेष्वन्तर्भाव इति चेन्न । नारदशैव-
वायव्यादित्यपुराणेषु व्यासकृतत्वेऽपि कस्यचित्
पुराणमते उपपुराणत्वदर्शनात्तादृशनियमस्या-
स्वीकारात् प्रायशस्तथा सत्त्वाभिप्रायेण तु
तद्वचनम् । इत्थं भागवतद्वयस्य महापुराण-
मध्ये उपपुराणमध्ये च सत्त्वसिद्धौ कस्य पुरा-
णस्य मते किं भागवतं महापुराणान्तर्गतमिति
चेदुच्यते । शैवपुराणमते मात्स्यपुराणमते च
देवीभागवतमेव महापुराणमिति । तथाहि
शैवपुराणे उत्तरखण्डे मध्यमेश्वरमाहात्म्ये
शिवाल्लब्धवरेण व्यासेन महापुरणानि प्रणी-
तानीत्युक्त्यनन्तरं तेषां नामान्यष्टादशोक्त्वा तेषां
योगरूढानां नाम्नां निर्व्वचनं तत्रैव कृतम् ।
तद्यथा, --
“यत्र वक्ता स्वयं तण्डे ! ब्रह्मा साक्षाच्चतुर्मुखः ।
तस्माद्ब्राह्मं समाख्यातं पुराणं प्रथमं मुने ! ॥”
तण्डे इति मुनिसम्बोधनम् ।
“पद्मकल्पस्य माहात्म्यं तत्र यस्मादुदाहृतम् ।
तस्मात् पाद्मं समाख्यातं पुराणञ्च द्बितीयकम् ॥
पराशरकृतं यत्तु पुराणं विष्णुबोधकम् ।
तदेव व्यासकथितं पुत्त्रपित्रोरभेदतः ॥
यत्र पूर्ब्बोत्तरे खण्डे शिवस्य चरितं बहु ।
शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति च ॥
भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम् ॥
नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते ॥
यत्र वक्ताभवत्तण्डे ! मार्कण्डेयो महामुनिः ।
मार्कण्डेयपुराणं हि तदाख्यातञ्च सप्तमम् ॥
अग्नियोगात्तदाग्नेयं भविष्योक्तेर्भविष्यकम् ।
विवर्त्तनाद्ब्रह्मणस्तु ब्रह्मवैवर्त्तमुच्यते ॥
लिङ्गस्य चरितोक्तत्वात् पुराणं लिङ्गमुच्यते ।
वराहस्य च वाराहं पुराणं द्वादशं मुने ! ॥
यत्र स्कन्दः स्वयं वक्ता श्रोता साक्षात् महेश्वरः ।
तत्तु स्कान्दं समाख्यातं वामनस्य तु वामनम् ॥
कौर्म्मं कूर्म्मस्य चरितं मात्स्यं मत्स्यस्य
कीर्त्तितम् ।
पृष्ठ ३/४९१
गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ॥
ब्रह्माण्डचरितोक्तत्वाद् ब्रह्माण्डं परिकीर्त्ति-
तम् ॥”
अत्र क्वचिद्वक्तृसम्बन्धः क्वचिच्छ्रोतृसम्बन्धः
क्वचित्प्रतिपाद्यमुख्यदेवताचरितसम्बन्धः । प्रवृत्ति-
निमित्तमिति स्पष्टमेव दर्शितम् । तत्र भागवत-
नाम्नो निर्व्वचनवाक्यमेतत् ।
“भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
तत्तु भागवतं प्रोक्तं न तु देवीपुराणकम् ॥”
अनेन च वाक्येन भगवत्या इदं भागवतमिति
व्युत्पत्या ग्रन्थप्रतिपाद्यमुख्यदेवताचरितसम्बन्धः ।
प्रवृत्तिनिमित्तमिति स्पष्टमेव दर्शितम् । का सा
भगवतीत्यपेक्षायामाह दुर्गाया इति । तत्तु
भागवतं तु शब्दो निश्चयार्थकः । तदेव भाग-
वतपदवाच्यं प्रोक्तमित्यर्थः । न तु पुराणान्तर-
मतप्राप्तं विष्णुभागवतं महापुराणान्तर्गतं
भागवतमित्यर्थ इति शैवपुराणेन स्वमतं प्रद-
र्शितम् । कश्चिदेतत् पुराणान्तरमतेन उप-
पुराणं जानीयात्तत्राह न तु देवीपुराणक-
मिति । पुराणकमित्यत्र कप्रत्ययोऽल्पार्थकः ।
अल्पे इति सूत्रात् पुराणकमल्पं पुराणमिति
यावत् । देव्याः पुराणकं देवीपुराणकम् ।
यदिदमुक्तं तद्देव्या उपपुराणं नैवास्तीत्यर्थः ।
अनेन च वाक्येनान्यस्य महापुराणत्वनिषेधेन
स्वाभिप्रेतस्य च उपपुराणत्वनिषेधेन श्रीमद्देवी-
भागवतस्यैव महापुराणत्वं बोधयति व्यासः ।
सुख्यत्वेन भगवतीचरितप्रतिपादकस्य महा-
पुराणमध्ये कस्यचित् पुराणस्यान्यस्याभावात् ।
ननु नारदादिपुराणवचनबलात् विष्णुभागवतस्य
महापुराणान्तर्गतत्वे निर्व्विघ्नं निश्चिते तद्बलात्
भागवतद्वयस्य मतंभेदेन महापुराणत्वकल्पना-
पेक्षया यत्किञ्चित् भगवतीचरितस्यास्मिन्वचने
ग्रहणेनानेन वचनेन विष्णुभागवतनाम्न एव
निरुक्तिः कृतेति कुतो न कल्प्यते । वर्त्तते च
विष्णुभागवते दशमस्कन्धे किञ्चिद्विन्ध्यवासिन्या-
श्चरितमिति चेन्न । तथा सति मुनेर्विष्णुर्भाग-
वतविषय एव तात्पर्य्यसत्त्वे भगवत इदं भाग-
वतमित्येव व्युत्पत्तिं कुर्य्यान्नहि केनचिन्मुनेः
शिरसि भारः स्थापितो यत् स्वाभिप्रेतां युक्ति-
युक्तां निरुक्तिं त्यक्त्वा निष्प्रयोजनोऽनभिप्रेतां
निरुक्तिं करोति । किञ्च सर्व्वत्रैतद्वचनप्रकरणे
“यत्र पूर्ब्बोत्तरे खण्डे शिवस्य चरितं बहु ।
शैवमेतत् पुराणं हि पुराणज्ञा वदन्ति च ॥”
इति बहुवचनैर्ब्बहुचरितमुख्यचरितसम्बन्धरूप-
प्रवृत्तिनिमित्तस्यैवाभिप्रेतत्वं मुनेरवसीयते ।
मतभेदेन पुराणभेदकल्पना तु नात्रैव नवी-
नास्ति । पूर्ब्बोक्तयुक्त्या नारदशैववायव्यादित्य-
पुराणेष्वन्यत्रापि सत्त्वात् । अस्तु वा गौरवं
नहि तद्भयात् मुनेस्तात्पर्य्यमन्यथाकर्त्तुं कश्चि-
दीष्टे । तस्मात् पूर्ब्बोक्तं तात्पर्य्यं विहायान्य-
तात्पर्य्येणान्यार्थकरणं महासाहसमेव । ननु
लक्षणवाक्यमेतत् । ततश्च दुर्गाचरितं यत्र
वर्त्तते तद्भागवतमित्यर्थः । तच्च न देवीभागवतं
भवितुमर्हति । तस्य तल्लक्षणलक्ष्यत्वे न तु
देवीपुराणकमिति निषेधविषयत्वेन निषेध-
विध्योः समानविषयत्वापत्तेः । किन्तु विष्णु-
भागवतमेव । ननु तथाप्येतल्लक्षणमन्यपुराणे-
ष्वतिप्रसक्तमिति चेन्न । यथा वृत्रासुरवध-
लक्षणमन्यपुराणेषु प्रसक्तमपि यथा लक्षणत्वेन
गृहीतम् । तद्वदत्रापि सत्त्वादिति चेन्न ।
पूर्ब्बोक्तनिरुक्तिवचनप्रकरणस्थत्वविरोधात् ।
किञ्च लक्षणवाक्यमेतदितिपक्षेऽप्येतस्य लक्ष-
णस्य महापुराणोद्देशेनैव सत्त्वादुपपुराणेष्वस्य
प्रसक्त्यभावाद्देवीपुराणकालिकापुराणयोरुप-
पुराणत्वस्य निश्चितत्वात् तत्रैतल्लक्षणस्य प्रसक्ति-
रेव नास्तीति न तु देवीपुराणकमिति निषेधो
व्यर्थ एव स्यात् । तस्मादेव तद्वचनस्य पूर्ब्बोक्त
एवार्थः । किञ्च लक्षणवाक्यमेतदिति पक्षे यत्
किञ्चिच्चरितं गृह्यते उत यावच्चेरितम् । यत्-
किञ्चिच्चरितस्य सर्व्वमहापुराणेषु सत्त्वाद्देवी-
पुराणमात्रनिषेधेन न निर्व्वाहः । तस्माद्देवी-
पुराणस्यैव निषेधस्वारस्याद्यावच्चरितं मुख्यत्वेन
भगवतीचरित्रमेव ग्राह्यम् । तदा तव नाभी-
ष्टार्थसिद्धिः । मुख्यत्वेन विष्णुभागवते दुर्गा-
चरितस्याभावान्ममैव त्वभीष्टार्थसिद्धिः । निषेध-
विध्योः समानविषयकत्वरूपं दूषणन्तु नैव सम्भ-
वति । प्रकरणबलात् तात्पर्य्ये निश्चिते तद्विषयं
विहायैव निषेधप्रवृत्तेः । वृत्रासुरवधोपेतत्व-
लक्षणं तु गायत्र्यारम्भविशिष्टमिति न तदति-
प्रसक्तं तस्मात् पूर्ब्बोक्त एव तद्बचनार्थे इति
तद्वचनाद्देवीभागवतं महापुराणं न तु विष्णु-
भागवतमिति शिवपुराणमतम् । अत्र च
नियमद्वयस्य पूर्ब्बोक्तस्य सत्त्वाद्विष्णुभागवत-
विषये तथा नियमद्वयाभावादिदं शिवपुराण-
मतमेव मुख्यमन्यपुराणमतं त्वेकदेशीति नियम-
द्वयप्रदर्शकव्यासवाक्येन स्पष्टमेव बोधितमिति
सुधियो विभावयन्तु । किञ्च ।
“शैवमादिपुराणञ्च देवीभागवतं तथा ।”
इति पाद्मवचनसंवादितया, --
“नवरात्रे तु देवेशि ! दौर्गं भागवतं पठेत् ।
जपेत् सप्तशतीं चण्डीं नियमेन समाहितः ॥”
इति दुर्गातरङ्गिणीधृतयामलवचनेन तथा, --
“देवीभागवतं नित्यं पठेद्भक्त्या समाहितः ।
नवरात्रे विशेषेण श्रीदेवीप्रीतये मुदा ॥”
इति महेशठक्कुरकृतदुर्गाप्रदीपधृतदेवीयामल-
वचनेन च सप्रमाणस्य देवीभागवतस्य सर्व्वथो-
पपुराणमध्ये एव निवेशात् ।
“तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ।”
इति प्रथमस्कन्धस्थस्य महापुराणेषु पञ्चममिदं
पुराणमित्यर्थकस्य देवीमागवतोक्तवचनस्य
निरालम्बनत्वादप्रामाण्यापत्तेः । मन्मते तु तस्य
विषयलाभान्नाप्रामाण्यं तद्बचनप्रामाण्यादपि
देवीभागवतमेव महापुराणमिति । किञ्च
हेमाद्रौ कालिकापुराणे ।
“यदिदं कालिकाख्यं तन्मूलं भागवतं स्मृतम् ।”
इति वचनं तदपि देवीभागवतस्यैव महापुरा-
णत्वं बोधयति । तथाहि ।
“अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते ।
विजानीध्वं द्बिजश्रेष्ठास्तथा तेभ्यो विनिर्गतम् ॥”
इति मात्स्यवचनेनोपपुराणानां महापुराण-
मूलकत्वनियमादिदं कालिकापुराणं किम्-
पुराणमूलकमित्याकाङ्क्षायां तस्यानिवर्त्तकमिदं
वाक्यं यदिदं कालिकाख्यं पुराणं तन्मूलं तस्य
मूलं भागवतं विदुरिति हि तस्यार्थो निबन्ध-
कारैर्द्दर्शितः । यथान्यान्युपपुराणान्येकैकस्मा-
न्महापुराणान्निर्गतानि तद्वदिदं भागवतादुत्-
पन्नमिति यावत् । तच्च भागवतं न वैष्णवं
तन्मूलं भवितुमर्हति । देव्युपपुराणस्य देवी-
पुराणमूलकत्वे एव सामञ्जस्यात् । शैवोप-
पुराणानां शैवेभ्य एव वैष्णवोपपुराणानां
वैष्णवेभ्य एवोत्पत्तिदर्शनादिति देवीभागवत-
मेव तन्मूलमिति तस्य महापुराणत्वं सिद्धम् ।
यत्र तु क्वचित् क्वचित् महापुराणमूलकत्वमप्र-
सिद्धं तत्र यथायोग्यमनुमेयमिति । किञ्चा-
दित्यपुराणदृष्ट्यापि देवीभागवतमेव महा-
पुराणम् । तथाहि आदित्यपुराणे रक्तासुर-
वधप्रस्तावे ।
“या जघ्ने महिषं दैत्यं क्रूरं वृत्रासुरं तथा ।
साद्य रक्तासुरं हत्वा स्वाराज्यं ते प्रदास्यति ॥”
इति वचनम् । अनेन वचनेन देवीभागवते
स्वसम्मतिर्द्दर्शिता । न हि देवीभागवताति-
रिक्तसर्व्वपुराणेषु देवीकृतो वृत्रासुरवधः क्वचि-
दप्यस्ति । इन्द्रकृतस्यैव तस्य सत्त्वात् केवलं
देवीभागवत एव देवीकृतः सोऽस्ति । तद्ग्रह-
णेन तु देवीभागवते स्वसम्मतिर्द्दशितेति युक्त-
मेव । अनन्तरञ्च तत्रैव पुराणदानप्रस्तावे ।
“ददाति सूर्य्यभक्ताय यस्तु भागवतं द्बिजाः ।
सर्व्वपापविनिर्मुक्तः सर्व्वव्याधिविवर्ज्जितः ॥
जीवेद्वर्षशतं साग्रमन्ते वैवस्वतं पदम् ॥”
इति पठितम् ॥
अत्र च स्वसम्मतं भागवतमेव ग्रहीतुमुचितम् ।
किञ्चेदं षचनं देवीभागवतपक्षे एव स्वरसतः
सङ्गच्छते । प्रथमश्लोके एकादशद्वादशस्कन्ध-
योश्च सविस्तरं गायत्त्रीविधानसहस्रनामादेः
कथनात् सूर्य्यस्य गायत्त्रीदेवतात्वात् । तद्भाग-
वतपक्षे तु वैकुण्ठं गच्छेदित्येव वदेदिति । किञ्च
“यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः ।
वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥”
इति मात्स्यवचनमपि देवीभागवतस्यैव महा-
पुराणत्वं बोधयति । वेदे त्रिपदा गायत्त्रीति
गायत्त्रीलक्षणं श्रूयते । तेन च त्रिपाच्छन्दो-
ऽधिकृत्य यत्र धर्म्मविस्तरो वर्ण्यते तद्भागवत-
मिति तदर्थः । त्रिपाच्छन्दश्च देवीभागवते
प्रथमश्लोके ।
“सर्व्वचैतन्यरूपां तामाद्यां विद्याञ्च धीमहि ।
बुद्धिं या न प्रचोदयात् ॥” इति श्रूयते ।
पृष्ठ ३/४९२
न विष्णुभागवते तच्छन्दोऽस्ति मुख्यार्थसम्भवे
गायत्त्रीपदस्य लक्षणया धीमहीत्यर्थकरणेन
विष्णुभागवतपरत्वकल्पनमस्य वचनस्य तु
साहसमेव । क्वचित्पुराणेषु यदि तादृशान्येव
विष्णुभागवतपराणि वचनानि सन्ति । तत्र
गत्यन्तराभावादस्तु लक्षणा । उदासीने मात्स्य-
वाक्ये तु मुख्यविषयसम्भवे सानुचिता । यद्य-
प्याधुनिकपुस्तकेषु क्वचिच्चतुश्चरणश्लोकोऽपि
दृश्यते तथापि सप्तशत्यां गुप्तवतीटीकाकारा-
दिभिस्त्रिपात्श्लोकस्यैव व्याख्यातत्वेन स एव
सांप्रदायिकः पाठ इति बोध्यम् । यत्तु गाय-
त्त्र्यर्थश्च विष्णु ध्यानं न तु शिवशक्तिसूर्य्यादि-
ध्यानमित्युक्तं तत्तु नास्तिकत्वमूलकमेव ।
“मैत्रायणीयानां भर्गो वै रुद्रः ।” इति श्रुतौ
प्रपञ्चसारादिसर्व्वतन्त्रेषु पुराणादिषु च शिव-
सूर्य्यशक्त्यादिरूपार्थस्योक्तत्वाच्च तदुदाहृत-
माग्नेयवाक्यन्तु विरोधत्वे नापेक्षं स्यादसति
ह्यनुमानमिति न्यायात् स्तावकमेवेति । किञ्च ।
“हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।
गायत्त्र्या च समारम्भस्तद्वै भागवतं विदुः ॥”
इति पुराणान्तरवाक्यमपि देवीभागवतस्यैव
महापुराणत्वबोधकम् । तथा हि हयग्रीव-
नामासुरो देवीभागवते प्रथमस्कन्धे प्रसिद्ध-
स्तेनोपासिता ब्रह्मप्रतिपादिका विद्या स्त्री-
दैवत्यो मन्त्रः । सा विद्या यत्र वर्त्तते तद्भागवत-
मित्यर्थः । स दैत्यस्तदुपासिता विद्या चेत्युभय-
मपि तत्रैव प्रथमस्कन्धे दर्शितम् ।
“जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम ॥”
इत्यादिना ॥
ननु विष्णुभागवते पञ्चमस्कन्धेऽपि हयग्रीव-
मन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारण
मिति चेन्न । नारदीये शारदातिलकादिनिब-
न्धेषु च ।
“मन्त्राः पुंदेवताः प्रोक्ता विद्याः स्त्रीदेवताः
स्मृताः ॥”
इत्यादिवचनैः स्त्रीदैवत्यमन्त्रेष्वेव विद्यापद-
प्रयोगो न पुंदैवत्यमन्त्रेष्विति प्रतिपादनात् ।
क्वचित् पुंदैवत्यमन्त्रे तथाप्रयोगस्तु गौणः । न
च गौणार्थमादाय तद्वचनस्य विष्णुभागवत-
परत्वं कल्पितुमुचितम् । लक्षणारूपदोषापत्तेः ।
तस्मान्न तद्वचनमुभयसाधारणमिति देवीभाग-
वतस्यैव महापुराणत्वं बोधयति । किञ्च सार-
स्वतस्य कल्पस्येति मात्स्यवचनादपि देवीभाग-
वतमेव महापुराणम् । अत्र ह्येवं प्रकरणशुद्धिः ।
ऋषय ऊचुः ।
“पुराणसंख्यामाचक्ष्व सूत ! विस्तरतः क्रमात् ।”
इति मुनिप्रश्नोत्तरं ब्रह्मणाऽभिहितं पूर्ब्बं
यत्तद्ब्राह्मं पद्मकल्पवृत्तान्ताश्रयं पाद्मं वराह-
कल्पवृत्तान्ताश्रयं वैष्णवं श्वेतकल्पवृत्तान्ताश्रयं
वायवीयमित्येवं तत्तत्कल्पवृत्तान्ताश्रयाणि पुरा-
णान्युक्त्वा तदुत्तरम् ।
“यत्राधिकृत्य गायत्त्रीं वर्ण्यते धर्म्मविस्तरः ।
वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥” इति ॥
“स्वारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ।
तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते ॥”
इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्-
कल्पवृत्तान्ताश्रयाणि दर्शितानि । पश्चादुप-
पुराणकथनार्थमुपभेदान् प्रवक्ष्यामीति प्रतिज्ञाय
पद्मपुराणान्नारसिंहं निर्गतमेवं नन्दिसाम्बा-
दित्यसंज्ञकान्युक्त्वा अन्योपपुराणान्यपि महा-
पुराणेभ्य एव निर्गतानीति ।
“अष्टादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते ।
विजानीध्वं द्विजश्रेष्ठास्तदा तेभ्यो विनिर्गतम् ॥”
इति वचनेन सूतऋषिरुक्तवान् ॥ ततः ।
“सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥”
इत्यादिना पुराणलक्षणान्युक्त्वा, --
“सात्त्विकेषु च कल्पेषु महात्म्यमधिकं हरेः ।
राजसेषु च कल्पेषु माहात्म्यं ब्रह्मणो विदुः ।
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥”
इति वचनेन पुराणप्रतिपाद्यहरिब्रह्माग्निहर-
सरस्वतीपितॄणां माहात्म्यसम्बन्धात् कल्पानां
सात्त्विकराजसतामसत्वसङ्कीर्णत्वभेदैश्चातुविं-
ध्यत्वमुक्तवानिति । तत्र कल्पानां तत्तद्देषता-
सम्बन्धज्ञानन्तु तत्तत्कल्पाश्रिततत्तत्पुराणप्रति-
पाद्यमुख्यदेवताज्ञानेनैव बोध्यम् । अन्यप्रकारस्य
क्वचिदपि पुराणेष्वनुपलम्भात्तत्रैवं सति ।
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ।
तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते ॥”
इति वचनं भागवतस्य लक्षणप्रतिपादकं प्रति-
पादितम् । तदर्थस्तु यथा गारुडकल्प इत्यत्र
गरुडस्यायं गारुडः । यथा वा वाराहकल्प
इत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिः
प्रसिद्धा । तद्वदेव सरस्वत्या अयं सारस्वत
इति विग्रहः ।
“सरस्वत्यास्तथा कल्पो गौरीकल्पस्तथैव च ॥”
इति कल्पनामसु सरस्वतीकल्पत्वेनैव कथित
त्वाच्च । मत्स्यपुराणे उपन्त्याध्याये ।
“सङ्कीर्णेषु सरस्वत्याः पितॄणां कल्प उच्यते ॥”
इति वचनेन तथैवोक्तत्वाच्च ब्रह्मविष्णुरुद्राणां
कल्पवद्गौरीलक्ष्म्योः कल्पवच्च सरस्वतीकल्प-
स्यार्थप्राप्तत्वाच्च तादृशसारस्वतकल्पसम्बन्धिनो
ये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्पत्तिर्यस्मात्
तत्पुराणं भागवतं विदुः । तद्वृत्तान्तप्रदशकं
यत् पुराणं तद्भागवतसं ज्ञकमिति यावत् । अत्र
च तत्तद्देवतानामाविर्भावाश्रया ये ये कल्पास्ते
तत्तन्नाम्ना व्यवह्रियन्ते । एतच्च तत्तन्नामक-
कल्पाश्रितेषु पुराणेषु तत्तद्देवताया एव मुख्यत्वे-
नोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादिकल्पाश्रित-
कूर्म्मपुराणादिषु सर्व्वत्र प्रसिद्धमेव । तथा च
मुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणं
यत् तद्भागवतमित्यतिरहस्यार्थः । तत्र सार-
स्वतकल्प इति पदेनैव कल्पस्य सरस्वतीसम्बन्धे
बोधिते तस्य सङ्कीर्णत्वं सङ्कीर्णेषु सरस्वत्या
इति वचनेनेश्वरप्रेरणां विनापि गृहागतमेव ।
अस्मिंश्च वचने भागवतपदेन विष्णुभागवतस्य
ग्रहणं बन्ध्यापुत्त्रोपममेव । तत्र मुख्यत्वेन सर-
स्वत्याविर्भावस्यासत्त्वात् । विष्णुभागवते द्वितीय-
स्कन्धे । “पाद्मं कल्पमथो शृणु ।” इति वचनेन
स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्त-
त्वात् । तद्विरोधाच्च न च पाद्मकल्प एव सार-
स्वतः । सरस्वान् समुद्रस्तस्माज्जातं कमलं सार-
स्वतं तस्य कल्प इति व्यत्पत्त्येति वाच्यम् ।
“पद्मकल्पस्य वृत्तान्तं तत्र यस्मादुदाहृतम् ।
तस्मात् पाद्मं समाख्यातम् ॥”
इति पूर्ब्बोदाहृतशिवपुराणवचनेन ।
“एतदेव यदा पाद्ममभूद्धैरण्मयं जगत् ।
तद्वृत्तान्ताश्रयं तद्बत् पाद्ममित्युच्यते बुधैः ॥
पाद्मं तत् पञ्चपञ्चाशत्सहस्राणीह कथ्यते ॥”
इति मत्स्यपुराणवचनेन ।
“सारस्वतस्य कल्पस्य मध्ये येस्युर्नरामराः ।”
इति वचनेन च पाद्मकल्पसारस्वतकल्पयोः
पृथक्कथनात् । किञ्च सारस्वतकल्पपाद्मकल्पयो-
रेकत्वे पद्मकल्पस्य प्रतिपादकं पुराणद्वयं पाद्मं
भागवतञ्चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्त-
मित्यत्राभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुता
इति न्यायेन पूर्ब्बं बुद्ध्यारूढं प्रसिद्धं पाद्मशब्दं
विहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य
वाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयो-
जनाभावः । किञ्च सरस्वत्यास्तथा कल्प
इत्यादेः । पूर्ब्बोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्य
वचनसमूहस्य विरोधश्च । न च पाद्मकल्प-
सारस्वतकल्पयोः पृथक्त्वे त्रिंशत्कल्पेषु मत्स्य-
पुराणान्तिमाध्याये कीर्त्तितेषु सारस्वतपदेन
पाद्मस्य ग्रहणं न स्यादिति वाच्यम् । प्रभास-
खण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्पसुपु-
मान्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा
मात्स्यान्तिमाध्याये न ग्रहणं तथा पाद्मस्यापि
न ग्रहणमित्यस्य तुल्यत्वात् । यदि तेषां पर्य्याय-
त्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्र-
चिदन्तर्भावोऽस्तु अतएव विष्णुभागवतस्य
प्रबन्धटीकाकारेण पितृकल्पे एव पूर्ब्बार्द्धान्ते
पद्मस्योद्भवात् पितृकल्पपदेन पाद्मसंग्रहो वेदि-
तव्य इत्युक्तम् । पुराणकल्पकथनप्रस्तावे सार-
स्वतकल्पपाद्मकल्पयोः पृथक्त्वकरणेन सारस्वत-
पदेन पाद्मस्य सर्व्वथा न ग्रहणम् । वस्तुतस्तु
त्रिंशत्कल्पा ब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंश-
त्तिथिषु प्रतिपदादिषूत्पद्यन्ते । भूर्भुवःसुवः
भूर्भूवःसुव इत्यादयस्त्रयस्त्रिंशत्कल्पाः । पाद्मा-
दयश्च वायुपुराणोक्ता दिनकल्पा ब्रह्मणः प्रति
दिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां
सुतरां भेदात्तिथिकल्पेषु दिनकल्पानां पाद्मा-
दीनां न ग्रहणमिति सिद्धान्तः ।
यत्तु विष्णुभागवतस्यारम्भतः पाद्मकल्पाश्रय-
त्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वतकल्पभवत्वेन
तस्य च दशमस्कन्धे सत्त्वात् ।
पृष्ठ ३/४९३
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ॥”
इति वचनस्य विष्णुभागवतं विषयोऽस्तीत्याहु-
स्तदसत् । कृष्णजन्मखण्डस्य सारस्वतकल्पभवत्व-
प्रतिपादकानां वचनानां निर्मूलत्वात् समूल-
त्वेऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतः
प्रतिपादनं तत्कल्पप्रतिपादकमेव तत्पुराणमिति
नियमः सर्व्वपुराणे तथा दृष्टत्वात् । तथा च
कृष्णजन्मखण्डस्य दशमस्कन्धे विद्यमानत्वेऽपि
प्रथमतस्तत्कथाया अभावात्पाद्मकल्पकथायाः
प्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्च । न
सारस्वतस्य कल्पस्येति वचनस्य विष्णुभागवतं
विषयः । किञ्च कृष्णजन्मखण्डस्य यथा दशम-
स्कन्धे कथनं तदा सर्व्वपुराणेषु तत्कथनं वर्त्तत
एवेति सर्व्वपुराणानां तद्वचनविषयत्वं स्यात्तथा
च सर्व्वपुराणानि भागवतपदवाच्यानि स्युस्त-
स्मात्सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनं
स एव तद्वचनस्य विषयो वक्तव्यस्तादृशञ्च
देवीभागवतमेवास्तीति देवीभागवतमेव तद्वि-
षयो वक्तव्य इति । किञ्च शिवपुराणे उमा-
संहितायाम् ।
“ब्रह्मणा संस्तुता सेयं मधुकैटभनाशने ।
महाविद्या जगद्धात्री सर्व्वविद्याधिदेवता ॥
द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृप ! ॥”
इति वचनात् फाल्गुनशुक्लद्वादश्यां देव्या
उद्भवस्तद्दिने एव सारस्वतकल्पोद्भवस्तदुक्तं
हेमाद्रौ कल्पश्राद्धप्रकरणे नागरखण्डे ।
“सारस्वतस्तु द्बादश्यां शुक्लायां फाल् गुनस्य
च ।” इति ॥
तथा च सरस्वत्याः कल्प इत्यर्थकस्य ।
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ॥”
इति वचनस्य सर्व्वथा देवीभागवतमेव विषयो
न विष्णुभागवतमिति बोध्यम् । किञ्च तस्य
ग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात् ।
तदाश्रितकल्पस्य सात्त्विकत्वमेवायास्यति ।
“सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।”
इति वचनात् । ततश्च संकीर्णेषु सरस्वत्या इति
वचनेन सारस्वतकल्प इति नाम्ना च पारम-
हंस्यसामग्र्येव कर्त्तव्या स्यात् । अतो विष्णु-
मागवतं विहाय देवीभागवतमेवास्य वचनस्य
विषयोऽनिच्छतापि वक्तव्यस्तस्मात् सारस्वतस्य
कल्पस्येति व चनाद्देवीभागवतमेव महापुराणम् ।
अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वच-
नम् । तदुक्तं देवीभागवते प्रथमस्कन्धे ।
“तस्यास्तु सात्त्विकी शक्ती राजसी तामसी
तथा ।
महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः ।
तासां तिसृणां शक्तीनां देहाङ्गीकारलक्षणः ।
सृष्ट्यर्थञ्च समाख्यातः सर्गः शास्त्रविशारदैः ॥”
इति ।
“अम्बरीषशुकप्रोक्तं नित्यं भागवतं शृणु ।”
इति वचनमपि शुकाय प्रोक्तमिति व्युत्पत्त्या
देवीभागवतपरमपि सङ्गच्छते । भवति हि
देवीभागवतं शुकायैव प्रोक्तं व्यासेनेति । किञ्च
“अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥”
इति मात्स्यवचनमपि देवीभागवतस्यैव महा-
पुराणत्वं बोधयति । अष्टादशपुराणोत्तरं
भारतस्य जातत्वात् । भारतोत्तरञ्च विष्णु-
भागवतस्य जातत्वात् । भारतोत्तरकालं
निर्व्विण्णो व्यासश्चकारेति विष्णुभागवते एवोक्त-
त्वात् । ननु
“वेदशाखाः पुराणानि वेदान्तं भारतन्तथा ।
कृत्वा सम्मोहसंमूढोऽभवं राजन् ! मन-
स्यपि ॥”
इति देवीभागवते तृतीयस्कन्धे एवोक्तत्वात्त-
त्रापि सविरोधस्तदवस्थ एवेति चेन्न । मन्मते
तदानीं ग्रन्थो नैव जातः किन्तु जनमेजयं
प्रति एवं वक्तास्मीति ज्ञानचक्षुषा ज्ञात्वा भार-
तात् पूर्ब्बमेव देवीभागवतं कृतमित्यर्थस्य कल्प-
नात् । त्वन्मते तु तथा कल्पयितुं न शक्यते ।
चतुःश्लोकीभागवतोपदेशस्य जायमानत्वात् ।
उपदेशात् पूब्ब तज्ज्ञानाभावस्यावश्यं कल्प-
नीयत्वात् । यदि तत्रापि पूर्ब्बं व्यासस्य ज्ञान-
मस्तीति स्वीक्रियते तदा वक्ष्यमाणः सर्व्वोप्यर्थ-
वादः स्यात् । ततश्च ग्रन्थसारस्यभङ्गप्रसङ्ग
इत्यास्तां तावत् । वस्तुतस्तु वेदशाखाः पुराणा-
नीति पाठोऽसङ्गत इति वक्ष्यते तृतीयस्कन्धे
तदा न कोऽपि विरोधः । यत्तु पाद्मे भागवत-
माहात्म्ये श्रीमद्भागवतकथाश्रवणाय समा-
गतानां परिगणनप्रसङ्गे ।
“वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राणि संहिताः ।
दशसप्तपुराणानि षट्शास्त्राणि समाययुः ॥”
इत्युक्तम् । तत्र व्यासकृतपुराणानामष्टादशत्वा-
दष्टादशेति वक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवत-
स्याष्टादशत्वं गमयति तस्याष्टादशानन्तर्गतत्वे
देवीभागवतस्याष्टादशान्तर्गतत्वे वाष्टादशानां
श्रोतृत्वसम्भवेन श्रोतुमागतानां पुराणाना-
मष्टादशत्वानुक्तेर्निर्बीजत्वप्रसङ्गात् । एवं पाद्मे
“सप्तदशपुराणानि कृत्वा सत्यवतीसुतः ।
नाप्तवान्मनसा तोषं भारतेनापि भामिनि ! ॥
चकार संहितामेतां श्रीमद्भागवतीं पराम् ॥”
इति सप्तदशत्वोक्तिः श्रीमद्भागवतस्यैवैतां संहि-
तामिति निर्द्दिष्टस्याष्टादशत्वं गमयति ।
देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्य-
नुक्तेर्निर्बीजत्वप्रसङ्गादित्याहुस्तदसत् । तेषा-
मेव वचनैर्विष्णुभागवतस्याष्टादशपुराणान्त-
र्गतत्यं न सिध्यति । किन्तु देवीभागवतस्यैवेति
वार्द्धुषिकत्वं कुर्व्वाणो मूलमेव विनाशितवा-
निति न्याय आगतः । तथा हि भारतं व्यास-
मुखाच्छ्रुत्वा तत्र सन्दिहानः क्रौष्टुकिर्मार्कण्डेयं
प्रत्यागत्य सन्देहं पृष्ठवान् तस्मै मार्कण्डेयो
मार्कण्डेयपुराणमुक्तवान् । तदुक्तं मार्कण्डेय-
पुराणे
“तदिदं भारताख्यानं बह्वर्थं श्रुतिविस्तरम् ।
तत्त्वतो ज्ञातुकामोऽहं भगवन्तमुपस्थितः ॥”
इति ।
तथा च भारतोत्तरं मार्कण्डेयपुराणमभवत् ।
तथैव त्वदुक्तरीत्यैव विष्णुभागवतमपि । तथा च
भारतात् पूर्ब्बं षोडशपुराणान्येव सिद्धानि ।
तथा च पूर्ब्बोक्तवचनमध्ये षोडशेत्येव वक्तव्ये
सप्तदशेत्युक्तत्वात् । देवीभागवतमेव महापुराण-
मन्यथा सप्तदशत्वपूर्त्तिर्न स्यात् । तस्मात्तद्वचन-
प्रामाण्याद्देवीभागवतमेव महापुराणमिति
सिध्यति न तु विष्णुभागवतम् । भारतात् पूर्ब्बं
सप्तदश मदीयभागवतसहितानि मार्कण्डेयमष्टा-
दशमुभयमतसिद्धमेव विष्णुभागवतस्य भारतो-
त्तरं जायमानत्वेन तन्मध्ये तस्यावस्थानस्थला-
भावादित्येवं लापनेनापि दोषाभावादिति
सुधियो विभावयन्तु । यत्तु किञ्च पाद्मे ।
“वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।
गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ! ।
सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥”
इत्युक्या च भागवतस्य सात्त्विकत्वमुक्तम् ।
सात्त्विकेषु पुराणेष्विति कौर्म्मोक्त्या च सात्त्विक-
पुराणानां विष्णुपरत्वमुक्तम् । अतो विष्णु पर-
मेव भागवतमष्टादशपुराणान्तर्गतं न तु देवी-
भागवतमिति । अपि च स्कान्दे प्रभासखण्डे ।
“चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः ।
अष्टादशपुराणेषु शेषेषु भगवान् भवः ॥”
इत्युक्तम् । स्कान्दे सौरसंहितायाञ्च ।
“कथ्यते दशभिर्विप्राः पुराणैः परमेश्वरः ।
चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकीर्त्तितः ॥
एकेनाग्निस्तथैकेन भगवांश्चण्डभास्करः ॥”
इत्युक्तमतोऽपि विष्णुभागवतमष्टादशान्तर्गतं
नत्वन्यदित्याहुस्तदसत् । त्वन्मते मत्स्योक्त-
सात्त्विकराजसतामससङ्कीर्णपुराणेषु मध्ये
त्रयाणां व्यवस्था पूर्ब्बवचनैस्त्वयोक्ता । सङ्कीर्ण-
पुराणानान्तु नोक्ता । तेषां केषु पुराणेष्वन्तर्भाव
इति वद । करिष्यामि कुत्रचिदिति चेन्मम
मतेऽपि श्रीभगवत्या विष्णु शक्तित्वाभिमानेन
मन्त्राधिष्ठात्रीं देवतां वेदमानो दुर्गां दुर्ब्बोध-
ध्वान्तभानुं गुरुञ्च इति श्रीक्रमदीपिकोक्तप्रका-
रेण विष्णु मन्त्राणां दुर्गायाः अधिष्ठातृत्वेन
तयोरैक्याद्वा तत्प्रतिपादकभागवतस्य वैष्णवे-
ष्वेवान्तर्भावात् । अतएव
“हरिर्द्वाभ्यां रविर्द्वाभ्यां द्वाभ्यां चण्डीविना-
यकौ ।
द्वाभ्यां ब्रह्मा समाख्यातः शेषेषु भगवान्
शिवः ॥”
इति वचनं सङ्गच्छते । वस्तुतस्तु द्वयोरपि
भागवतयोरस्मन्मते प्रमाणत्वात् । विष्णुभाग-
वतपक्षपातिनां वचनानामस्माकं विरोधाभावेन
तल्लापने प्रयोजनाभाव एव । तथा च नार-
दीयादिपुराणमतेन श्रीविष्णु भागवतं महा-
पुराणं तद्वचनानि प्रसिद्धान्येवेति न लिखितानि ।
देवीभागवतन्तु तन्मते उपपुराणम् । शैव-
पृष्ठ ३/४९४
मात्म्यपुराणादिमते तु देवीभागवतं महापुरा-
णम् । विष्णुभागवतमर्थादुपपुराणमिति सिद्धम् ।
अत्र केचिद्देवीभागवतसम्मतित्वेन देवीयामल-
तन्त्रस्थम् ।
“श्रीमद्भागवतं नाम पुराणं वेदसम्मितम् ।
पारीक्षितायोपदिष्टं सत्यवत्यङ्गजन्मना ॥
तत्र देव्यवताराश्च बहवः प्रतिपादिताः ॥”
इति ।
तथा
“इदं रहस्यञ्चरितं राधोपासनमुत्तमम् ।
व्यासाय मम भक्ताय प्रोक्तं पूर्ब्बं मयाद्रिजे ! ॥
मत्तो रहस्यं ज्ञात्वैव राधामाहात्म्यमुत्तमम् ।
एतस्य विस्तरं चक्रे श्रीमद्भागवते तथा ॥
नारदे ब्रह्मवैवर्त्ते लोकानां हितकाम्यया ॥”
इति ।
सौभाग्यकल्पलतायां संहारभैरवतन्त्रस्थं वचनं
लिखन्ति । तत्र परे विवदन्ते । तदुभयमपि
गौरवभिया न लिख्यत इति ॥ * ॥)
तत्र विष्णुभागवते प्रथमस्कन्धे परिक्षिन्नारदयो-
रुपाख्यानम् । विप्रशापात् परीक्षितस्य प्रायोप-
वेशः । शुकपरीक्षितसंवादश्च ॥ १ ॥ * ॥ द्वितीय-
स्कन्धे । योगधारणयोत्क्रान्तिः । नारदाजयोः
संवादः । अवतारानुगीतम् । महदादिक्रमेण
सृष्टिश्च ॥ २ ॥ * ॥ तृतीयस्कन्धे । विदुरोद्धव-
संवादः । क्षत्तृमैत्रेययोः संवादः । पुराण-
संहिताप्रश्नः । महापुरुषसंस्थितिः । प्राकृ-
तिकः सर्गः । वैकृतिकाः सप्त सर्गाः । ब्रह्माण्ड-
सम्भूतिः । विराट्पुरुषोत्पत्तिः । कालस्य स्थूल-
सूक्ष्मस्य गतिः । पाद्मसमुद्भवः । अम्भोधेर्भव
उद्धारणा । हिरण्याक्षवधः । ऊर्द्धतिर्य्यगर्वाक्
सर्गः । रुद्रसर्गः । अर्द्धनारीनरस्य सर्गः । यतः
स्वायम्भुवमनुः स्त्रीणां आद्या प्रकृतिः शतरूपा
च । कर्द्दमप्रजापतेर्धर्म्मपत्नीनां सन्तानः । भग-
वत्कपिलावतारः । कपिलेन देवहूतिसंवा-
दश्च ॥ ३ ॥ * ॥ चतुर्थस्कन्धे । नवब्रह्मसमुत्पत्तिः ।
दक्षयज्ञविनाशनम् । ध्रुवचरितम् । पृथोः
प्राचीनवर्हिषश्च चरितम् । नारदस्य संवा-
दश्च ॥ ४ ॥ * ॥ पञ्चमस्कन्धे । प्रियव्रतचरितम् ।
द्वीपसमुद्रादिवर्षनद्युपवर्णनम् । ज्योतिश्चक्रस्य
संस्थानम् । पातालनरकस्थितिश्च ॥ ५ ॥ * ॥
षष्ठस्कन्धे । दक्षजन्म । तत्पुत्त्रीणां सन्ततिः ।
यतः देवासुरनरतिर्य्यङ्नगखगादयः । त्वाष्ट्रस्य
जन्म च ॥ ६ ॥ * ॥ सप्तमस्कन्धे । दितेः पुत्त्रयो-
र्निधनम् । प्रह्लादचरितञ्च ॥ ७ ॥ * ॥ अष्टम-
स्कन्धे । मन्वन्तरानुचरितम् । गजेन्द्रविमोक्ष-
णम् । मन्वन्तरावताराः । हयशीर्षादयोऽव-
ताराः । जगत्पतेः कौर्म्ममात्स्यनारसिंह-
वामनरूपाणि । क्षीरोदमथनम् । देवासुर-
युद्धश्च ॥ ८ ॥ * ॥ नवमस्कन्धे । राजवंशानु-
कीर्त्तनम् । इक्ष्वाकुजन्म तद्वंशः । सुद्मुम्नवंशः ।
इलोपाख्यानम् । तारोपाख्यानम् । सूर्य्यवंशानु-
कथनम् । शशादनृगसौकन्यस्वर्जातिककुत्स्थ-
खट्वाङ्गमान्धातृसौभरिरामाणां चरितम् । निमे-
रङ्गपरित्यागः । जनकानां सम्भवः । परशुराम-
जन्म । भुवो निःक्षत्त्रीकरणम् । ययाति-
नहुषभरतशान्तनुतत्सुतयदूनां वंशानुकीर्त्त-
नञ्च ॥ ९ ॥ * ॥ दशमस्कन्धे । श्रीकृष्णस्य वसु-
देवगृहे जन्म । गोकुले तस्य वृद्धिः । तस्य
पूतनापयःपानम् । शकटोच्चाटनम् । तृणावर्त्त-
वधः । वकवत्सयोर्वधः । अधासुरवधः । धात्रा
वत्सपालावगूहनम् । भ्रात्रा सह धेनुकस्य
वधः । प्रलम्बवधः । गोपालानां दावाग्नेः परि-
त्राणम् । कालीयदमनम् । महाहेर्नन्दमोक्ष-
णम् । कन्यानां व्रतचर्य्या । यज्ञपत्नीभ्यः प्रसादः ।
विप्राणामनुपालनम् । गोवर्द्धनोद्धारणम् । शक्र-
सुरभिकर्त्तृककृष्णस्य यज्ञाभिषेकः । रात्रिषु
स्त्रीभिः क्रीडा । शङ्खचूडस्य वधः । केशिवधः ।
अक्रूरागमनम् । रामकृष्णयोर्मथुराप्रस्थानम् ।
व्रजस्त्रीणां विलापः । मथुरालोकनम् । गज-
मुष्टिकचानूरकंसादीनां वधः । सान्दीपनेर्मृत-
पुत्त्रानयनम् । उद्धवरामाभ्यां सह हरिणा
यदुचक्रस्य प्रियकरणम् । जरासन्धसमानीत-
बहुसैन्यवधः । यवनेन्द्रस्य घातनम् । कुशस्थल्या
निवेशनम् । पारिजातहरणम् । रुक्मिणीहर-
णम् । बाणेन सह युद्धम् । प्रागजोतिषपतिं
हत्वा कन्यानां हरणम् । चैद्यपौण्ड्रकशाल्वदन्त-
वक्रशम्बरद्विविदपीटमुरपञ्चजनानां माहात्म्य
वधश्च । वाराणस्या दाहः । पाण्डवान्
निमित्तीकृत्य भूमेर्भारावतरणञ्च ॥ १० ॥ * ॥
एकादशस्कन्धे । विप्रशापापदेशेन स्वकुल-
संहारः । उद्धवसंवादः । उद्धवाय आत्म-
विद्याकर्म्मविनिर्णयकथनम् । आत्मयोगानु-
भावतो मर्त्यपरित्यागश्च ॥ ११ ॥ * ॥ द्वादश-
कन्धे । युगलक्षणवृत्तिः । कलौ नॄणामुपप्लवः ।
चतुर्विधप्रलयः । त्रिविधोत्पत्तिः । परिक्षित-
देहत्यागः । व्यासकर्त्तृकशाखाप्रणयनम् । मार्क
ण्डेयस्य सत्कथा । सूर्य्यस्य विन्यासश्च ॥ १२ ॥ * ॥
इति श्रीभागवते १२ स्कन्धे अनुक्रमणिकाध्यायः ॥

भागवतः, त्रि, (भगवान् हरिः भगवती दुर्गा वास्य

देवतेति । भगवत् + “सास्य देवता ।” ४ । २ । २४ ।
इति अण् ।) भगवद्भक्तः । तस्य लक्षणम् । यथा,
“सर्व्वदेवान् परित्यज्य नित्यं भगवदाश्रयः ।
रतस्तदीयसेवायां स भागवत उच्यते ॥”
इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥
स च यमदूतैस्त्याज्यः । यथा, --
“ये तु भागवता लोके तच्चित्तास्तत्परायणाः ।
पूजयन्ति सदा विष्णुं ते च त्याज्याः सुदूरतः ॥”
इति वह्निपुराणे दूतान् प्रति यमवचनम् ॥
स्कान्दे श्रीमार्कण्डेयभगीरथसंवादे ।
“दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् ।
ह्युपासते महीपाल ! ते वै भागवता नराः ॥
प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर्नराः ।
कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥
उपोष्य द्बादशीं शुद्धां रात्रौ जागरणान्विताम् ।
अल्पां तु साधयेद्यस्तु स वै भागवतो वरः ॥
भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च ॥
सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥
सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः ।
शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥”
एकादशस्कन्धे ।
“सर्व्वभूतेषु यः पश्येद्गगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥
न यस्य स्वपर इति वित्तेष्वात्मनि वा भिदा ।
सर्व्वभूतसमः शान्तः स वै भागवतोत्तमः ॥”
हरियोगेश्वरोत्तरे ।
“गृहीत्वापीन्द्रियैरर्थान् यो न द्बेष्टि न काङ्क्षति ।
विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥”
बृहन्नारदीये ।
“शिवे च परमेशाने विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥”
स्कान्दे ।
“येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ ।
पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः ॥
येषां भागवतं शास्त्रं जीवितादधिकं भवेत् ।
महाभागवताः श्रेष्ठा विष्णुना कथिता नराः ॥”
लैङ्गे ।
“भोजनाच्छादनं सर्व्वं यथाशक्त्या ददाति यः ।
विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥”
गारुडे ।
“येन सर्व्वात्मना विष्णुभक्त्या भावो निवेशितः ।
वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥”
बृहन्नारदीये ।
“तुलसीकाननं दृष्ट्वा ये नमस्कुर्व्वते नराः ।
तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्व्वते तु ये ।
तन्मूलमृद्धृता यैश्च ते वै भागवतोत्तमाः ॥
मत्कथाश्रवणे येषां वर्त्तते सात्त्विकी मतिः ।
तद्वक्तरि सुभक्ताश्च ते वै भागवतोत्तमाः ॥”
स्कान्दे ।
“मत्कथां कुरुते यस्तु मत्कथाञ्च शृणोति च ।
हृष्यते मत्कथायाञ्च स वै भागवतोत्तमः ॥”
बृहन्नारदीये ।
“मन्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः ।
मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः ॥
येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः ।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥
अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः ।
हरिनामपरा ये च ते वै भागवतोत्तमाः ॥”
स्कान्दे ।
“येऽर्च्चयन्ति सदा विष्णुं यज्ञेश वरदं हरिम् ।
देहिनः पुण्यकर्म्माणः सदा भागवता हि ते ॥”
लैङ्गे ।
“विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः ।
प्रतिमाञ्च हरिर्नित्यं पूजयेत् प्रयतात्मवान् ॥
विष्णुभक्तः स विज्ञेयः कर्म्मणा मनसा गिरा ।
नारायणपरो नित्यं भूप ! भागवतो हि सः ॥”
पृष्ठ ३/४९५
पाद्मोत्तरखण्डे ।
“तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः ।
अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥
एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥”
एकादशस्कन्धे ।
“ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि
यादृशः ।
भजन्त्यनन्यभावेन ते वै भागवता मताः ॥
न कामकर्म्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवैकनिलयः स वै भागवतोत्तमः ॥”
स्कान्दे ।
“यस्य कृच्छ्रगतस्यापि केशवे रमते मनः ।
न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥
आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी ।
नान्यत्र रमते चित्तं स वै भागवतो नरः ॥”
हरियोगेश्वरोत्तरे ।
“विसृजति हृदयं न यस्य साक्षा-
द्धरिरवशाभिहितोऽप्यघौघनाशः ।
प्रणयरसनया धृताङ्घ्रिपद्मः
स भवति भागवतप्रधान उक्तः ॥”
मध्यममाह तत्रैव ।
“ईश्वरे तदधीनेषु वालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥”
कनिष्ठस्तत्रैव ।
“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥”
इति श्रीहरिभक्तिविलासे १० विलासः ॥

भागिकं, त्रि, (भाग + “भागाद्यच्च ।” ५ । १ । ४९ ।

इति पक्षे ठन् ।) वृद्ध्यर्थदत्तमुद्रादि । सुदी
टाका इत्यादि भाषा । यथा । भागो वृद्ध्यादि-
रस्मिन् दीयते भाम्यं भागिकं शतम् । भाग्या
भागिका विंशतिः । इति सिद्धान्तकौमुदी ॥

भागिनेयः, पुं, (भगिन्या अपत्यम् । भगिनी +

“स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
भगिनीपुत्त्रः । तत्पर्य्यायः । स्वस्रीयः २ । इत्य-
मरः । २ । ६ । ३२ ॥ स्वस्रियः ३ । इति शब्दरत्ना-
वली ॥ स च मुख्यप्रतिनिधिः । यथा, --
“ऋत्विक् पुत्त्रो गुरुर्भ्राता भागिनेयोऽथ
विट्पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥”
इति तिथ्यादितत्वम् ॥ * ॥
तस्यावश्यपोष्यत्वम् यथा, --
“पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥”
इत्यपुत्त्रधनाधिकारे दायभागः ॥ * ॥
भागिनेयदत्तककरणं शूद्रस्यैव न तु द्विजानाम् ।
यथा, दत्तकचन्द्रिकायां शौनकवचने ।
“दौहित्रो भागिनेयश्च शूद्रैस्तु क्रियते सुतः ।
ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् ॥”
तन्मरणे मातुलस्य पक्षिण्यशौचम् । यथा ।
“पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।
योनिसम्बन्धे मातृष्वस्रीयपितृष्वस्रीयगागिनेयेषु ।
मातुलमरणे भागिनेयस्यापि पक्षिण्यशौचम् ।”
इति शुद्धितत्त्वम् ॥

भागिनेयी, स्त्री, (भगिनी + ढक् । स्त्रियां ङीप् ।)

भगिन्याः स्त्र्यपत्यम् । भाग्नी इति भाषा ।
भगिनीशब्दात् स्त्र्यपत्यार्थे ष्णेये षित्त्वादीप्-
प्रत्ययनिष्पन्ना । इति व्याकररणम् ॥

भागीरथी, स्त्री, (भगीरस्येयम् । भगीरथ + अण् ।

ङीप् ।) गङ्गा । इत्यमरः । १ । १० । ३१ ॥
पृथिव्यां तस्यावतरणम् । यथा, --
सूत उवाच ।
“ततो भगीरथो राजा तपः परमदुश्चरम् ।
कृत्वा सन्तोषयामास उमाकान्तं महेश्वरम् ॥
धारणायानुमत्वा तं जगाम ब्रह्मणोऽन्तिकम् ।
ततो भगीरथः प्राह गङ्गा ब्रह्मन् ! विसृज्यताम् ॥
स तच्छ्रुत्वा वचस्तस्य सम्मान्य विबुधप्रियम् ।
गङ्गां प्रस्थापयामास सापतद्ब्रह्मणोऽन्तिकात् ॥
वायुना प्रेर्य्यमाणापि आकाशपथगा नदी ।
विख्याताकाशगङ्गेति तत्र संसेविता गजैः ॥
विष्णोः पदं समायाता तस्माद्विष्णुपदीति सा ।
पूज्यमाना सुरैः सिद्धैर्मुनिविद्याधरोरगैः ॥
सुरालयमनुप्राप्ता तस्माद्देवनदी तु सा ।
तस्मात् प्रपतिता गङ्गा शम्भोः शिरसि संस्थिता ॥
धृतैकेनैव तेनापि शम्भुना योगमायया ।
दिव्यं वर्षशतं साग्रं पुनराराधितेन वै ॥
मुक्ता भगीरथेनैव मलहन्त्री विनिर्गता ।
जटाजूटात् पपातोर्द्धे मेरोस्तस्मात्ततोऽगमत् ॥
देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् ।
मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् ॥
तामायान्तीं तु रोधाय स्वलीनो नाम दानवः ।
पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्विजाः ॥
ततो भगीरथो राजाराधयामास कौशिकम् ।
स तुष्टः प्रददौ नागं वाहनं वै भगीरथः ॥
तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ।
तेन नागेन तं दैत्यं संविदार्य्य न सङ्गतः ॥
शतधा तां समाधाय मूर्द्धन्यैरावणो गजः ।
महीतलं समापेदे स यावन्नागसाह्वयम् ॥
तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् ।
प्लावयन्ती महीं गङ्गा जह्नोराश्रममभ्यगात् ॥
तां दृष्ट्वाथ पपौ सोऽपि प्रसृत्या कुपितो मुनिः ।
जह्रुना नाशितां दृष्ट्वा गङ्गां त्रिपथगां नदीम् ॥
सशोकस्तोषयामास जह्नुं भगीरथो मुनिम् ।
मुमोच कर्णरन्ध्रेण गङ्गा स दक्षिणेन ताम् ॥
एतस्माज्जाह्रवी भूता सुता तस्य मुनेस्तथा ।
ततः सा विविधान् देशान् पर्व्वतांश्च तथा-
श्रमान् ॥
संप्लाव्य वारिणा भूयो जगाम पूर्ब्बसागरम् ॥
यत्र तत्रोदकं तस्थौ तस्याः पुण्यमभूद्द्विजाः ।
सुतीर्थं सर्व्वमर्त्यानां तारणं पापनाशनम् ॥
ततः सम्पूरयामास समुद्रं सर्व्वतो दिशम् ।
प्रपन्नं सागरैः सर्व्वं ततः पातालमाविशत् ॥
सागराणां तनोस्तस्मात् संप्लाव्य वारिणा ततः ।
देवैः संपूज्यमानापि जगाम ब्रह्मणोऽन्तिकम् ॥
जग्मुस्ते सागराः स्वर्गं ब्रह्मणोपहताश्च ये ।
रक्षकास्ते विनिर्द्दिष्टा गङ्गाया ब्रह्मणा स्वयम् ॥
भवद्भिरनिशं नॄणां कर्त्तव्यं विघ्ननाशनम् ॥
सूत उवाच ।
एतद्बः कथितं सर्व्वं यथावतरणं दिवः ।
गङ्गायाश्चैव माहात्म्यं श्रूयतां गदतो मम ॥”
इत्याद्ये वह्निपुराणे गङ्गावतरणनामाध्यायः ॥
तस्या मुख्यनामानि यथा, --
वराह उवाच ।
“धर्म्मस्तु द्रवरूपेण ब्रह्मणा निर्म्मितः पुरा ।
यद्वै गङ्गेति विख्याता शृणु स्तोत्रं वसुन्धरे ! ॥
किन्तैर्नामसहस्रैस्तु मुख्यामुख्यैः सुविस्तरैः ।
यानि नामानि मुख्यानि तानि वक्ष्याम्यनुक्रमात् ॥
गङ्गा भागीरथी पुण्या जाह्रवी सुरनिम्नगा ।
विष्णुपादाब्जसम्भूता शम्भोः शिरसि संस्थिता ॥
सुमेरुशृङ्गसंस्पृष्टा हिमाचलंकृताश्रया ।
शङ्खकुन्देन्दुधवला महापातकनाशिनी ॥
नदीश्वरी त्रिपथगा वैष्णवी सुरसुप्रिया ।
धर्म्मद्रवी भोगवती बिन्ध्यपाषाणदारिणी ॥
क्षमा शान्तिः प्रजाशान्तिः पुण्यदा पूतिका
शिवा ।
महानदी शतमुखी शुक्ला मकरवाहिनी ॥
ब्रह्महस्तात् परिभ्रष्टा सौम्यरूपातिशोभना ।
मुनिभिः पूजिता सर्व्वैः सर्व्वैर्देवैर्नमस्कृता ॥
महायज्ञमयी देवी मर्त्यानामुपकारिणी ।
सर्व्वत्र दुर्लभा गङ्गा त्रिभिः स्थानैर्विशेषतः ॥
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥
इदं स्तोत्रं मया ख्यातं पूर्ब्बमुक्तं स्वयम्भुवा ।
यः पठेत् प्रातरुत्थाय तस्य नश्यति दुर्गतिः ॥
यत् पापं यौवने बाल्ये कौमारे वार्द्धके च यत् ।
तत् सर्व्वं विलयं याति तोयस्थं लवणं यथा ॥
कीर्त्तिं प्रीतिं महालक्ष्मीमायुरारोग्यसन्ततिम् ।
ददाति जाह्रवी तुष्टा सर्व्वभावेन माधवि ! ॥”
इति वाराहे सर्व्वपापप्रशमनगङ्गास्तवः ॥
अपि च ।
ब्रह्मोवाच ।
“श्रोतुमिच्छामि देवेश ! लक्ष्मीकान्त ! जगत्
प्रभो ! ।
विष्णो ! विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥
श्रीनारायण उवाच ।
शिवसंगीतसंमुग्ध श्रीकृष्णाङ्गद्रवोद्भवाम् ।
राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥
या जन्मसृष्टेरादौ च गोलोके रासमण्डले ।
सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥
गोपैर्गोपीभिराकीर्णैः शुभे राधामहोत्सवे ।
कार्त्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥
कोटियोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥
षष्टिलक्षयोजनां या ततो दैर्घ्ये चतुर्गुणा ।
समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥
विंशलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।
पृष्ठ ३/४९६
आवृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥
त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।
आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये शतगुणा ततः ।
आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।
आवृता सूर्य्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥
लक्षयोजनविस्तीर्णा दैर्घ्ये च षड्गुणा ततः ।
आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥
दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः ।
आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥
सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः ।
आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥
सहस्रयोजनायामा दैर्घ्ये सप्तगुणा ततः ।
आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥
शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ।
मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥
पाताले या भोगवती विस्तीर्णदशयोजना ।
ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ।
क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥
सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा ।
द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥
जलप्रभा कलौ या च नान्यत्र पृथिवीतले ।
स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥
यस्याः प्रभावमतुलं पुराणे च श्रुतौ श्रुतम् ।
या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥
यत्तोयकणिकास्पर्शः पापिनाञ्च पितामह ! ।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥
इत्येवं कथितं ब्रह्मन् ! गङ्गापद्यैकविंशतिः ।
स्तोत्ररूपञ्च परमं पापघ्नं पुण्यकारकम् ॥
नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् ।
अश्वमेधफलं नित्यं लभते नात्र संशयः ॥
अपुत्त्रो लभते पुत्त्रं भार्य्याहीनो लभेत् प्रियाम् ।
रोगात् प्रमुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥
अस्पष्टकीर्त्तिः सुयशा मूर्खो भवति पण्डितः ॥
यः पठेत् प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥
शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत् ॥”
इति गङ्गास्तोत्रम् ॥
नारायण उवाच ।
“भगीरथोऽनेन स्तोत्रेण स्तुत्वा गङ्गाञ्च
नारद ! ।
जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ।
वैकुण्ठं ते ययुस्तृर्णं गङ्गायाः स्पर्शवायुना ॥
भगीरथेन सानीता तेन भागीरथी स्मृता ।
इत्येवं कथितं सर्व्वं गङ्गोपाख्यानमुत्तमम् ॥
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्याने ८ अः ॥

भागुरिः, पुं, स्मृतिव्याकरणादिकर्त्तृमुनिविशेषः ।

तत्पर्य्यायः । शतलुम्पकः २ । इति जटाधरः ॥
(यथा । “वष्टि भागुरिरल्लोपमवाप्योरुप-
सर्गयोः ।” इति सिद्धान्तकौमुदी ॥)

भाग्यं, क्ली, (भज्यतेऽनेन इति । भज + “ऋहलो-

र्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । “चजोः
कु घिण्ण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् ।)
प्राक्तनशुभाशुभकर्म्म । तत्पर्य्यायः । दैवम् २
दिष्टम् ३ भागधेयम् ४ नियतिः ५ विधिः ६ ।
इत्यमरः । १ । ४ । १८ ॥ प्राक्तनकर्म्म ७ भागः
८ भवितव्यता ९ । इति जटाधरः ॥ अदृष्टम्
१० । इति शब्दरत्नावली ॥ फलोन्मुखीभूत-
पूर्ब्बदैहिकशुभाशुभं कर्म्म । इति मलमास-
तत्त्वम् ॥ (यथा, --
“समुद्रमन्थने लेभे हरिर्लक्ष्मीं हरो विषम् ।
भाग्यं फलति सर्व्वत्र न विद्या न च पौरुषम् ॥”
इति प्राञ्चः ॥
उत्तरफल्गुनीनक्षत्रम् । यथा, बृहत्संहि-
तायाम् । १० । १ ।
“श्रवणानिलहस्तार्द्रा-
भरणीभाग्योपगः सुतोऽर्कस्य ।
प्रचुरसलिलोपगूढां
करोति धात्रीं यदि स्निग्धः ॥”
भागो वृद्धादिरस्मिन् दीयते इति । भाग +
“भागाद्यच्च ।” ५ । १ । ४९ । इति यत् ।)
भागिके, त्रि । इति सिद्धान्तकौमुदी ॥ (भाग-
मर्हति । भाग + “दण्डादिभ्यो यत् ।” ५ । १ ।
६६ । इति यत् ।) भागार्हम् । (भज + ण्यत् ।
भजनीयम् ॥)

भाङ्गीनं, त्रि, (भङ्गाया भवनं क्षेत्रमिति । “विभाषा

तिलमाषोमाभङ्गाणुभ्यः ।” ५ । २ । ४ । इति पक्षे
खञ् ।) भङ्गाक्षेत्रम् । तत्पर्य्यायः । भाङ्ग्यम् २ ।
इत्यमरहेमचन्द्रौ ॥ (यथा, शब्दरत्नावल्याम् ।
“एवं माष्यन्तु माषीणं कौद्रव्यं कोद्रवीणवत् ।
तथा भाङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि ॥”)

भाज, त् क पृथक्कृत्याम् । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) अवभाजत्
धनं भ्रातृवर्गः । इति दुर्गादासः ॥

भाजनं, क्ली, (भाज्यते इति । भाज पृथक्करणे +

ल्युट् ।) पात्रम् । इत्यमरः । २ । ९ । ३३ ॥
(यथा, महाभारते । १३ । १११ । १०२ ।
“राजतं भाजनं हृत्वा कपोतः संप्रजायते ॥”)
योग्यम् । इति मेदिनी । ने, १०१ ॥ (यथा,
कथासरित्सागरे । ३४ । २०५ ।
“तस्माज्जितात्मा राजा स्याद्युक्तदण्डो विशेष-
वित् ।
प्रजानुरागादेवं हि स भवेद्भाजनं श्रियः ॥”)
“यः संवादयते नित्यं योऽभिवादांस्तितिक्षति ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥”
इति मत्स्यपुराणम् ॥
आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥

भाजितं, त्रि, (भाज्यते स्मेति । भाज + क्त ।)

पृथक्कृतम् । विभक्तम् । इति भाजधातोःकर्म्मणि
क्तप्रत्ययेन निष्पन्नम् ॥ (भावे + क्त ।) भागे, क्ली ॥

भाजी, स्त्री, (भाज्यते इति । भाज + कर्म्मणि

घञ् । भाज + “जानपदकुण्डगौणस्थलभाज-
नागेति ।” ४ । १ । ४२ । इति ङीष् ।) अञ्जन-
विशेषः । अन्यत्र भाजा । इति स्त्रीत्यटीकायां
दुर्गादासः ॥

भाज्यं, त्रि, भागार्हम् । भाजनीयम् । इति भाज-

धातोः कर्म्मणि यप्रत्ययेन निष्पन्नम् ॥

भाटकः, पुं, क्ली, (भटतीति । भट पोषणे + ण्वुल् ।)

व्यवहारार्थं दत्तशकटादिलभ्यधनम् । इति
हलायुधः ॥ भाडा इति माषा ॥ अथ गृहादि-
भाटकम् ।
“परभूमौ गृहं कृत्वा भाटयित्वा वसेत्तु यः ।
स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥
स्तोमं विना वसित्वा तु परभूमावनिच्छतः ।
निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन ॥”
कात्यायनः ।
“गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः ।
स्वामिनो नार्पयेद्यावत्तावद्दाप्यः स भाटकम् ॥”
वापी परकृता प्रतिष्ठितेति विवक्षितम् ।
“हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ॥
स्वामिनो नार्पयेद्यावत् तावद्दाप्यः स भाट-
कम् ॥”
वृद्धमनुः ।
“यो भाटयित्वा शकटं नीत्वा नान्यत्र गच्छति ।
भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम् ॥”
शकटं वृषनौकादेरप्युपलक्षणम् । अनूढस्या-
वाहितस्यापि शकटादेः । इति विवादचिन्ता-
मणिः ॥

भाणः, पुं, (भण्यतेऽत्रेति । भण + अधिकरणे

घञ् ।) नाटकादिदशरूपकान्तर्गतरूपक-
विशेषः । इति हेमचन्द्रः । २ । १९८ ॥ तस्य
लक्षणादि यथा, --
“भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः ।
एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥
रङ्गे प्रकाशयेत् स्वेनानुभूतमितरेण वा ।
सम्बोधनोक्तिप्रत्युक्ती कुर्य्यादाकाशभाषितैः ॥
सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाम्यवर्णनैः ।
तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ॥
मुखनिर्व्वहणे सन्धी लास्याङ्गानि दशापि च ॥
अत्राकाशभाषितरूपं परवचनमपि स्वयमेवा-
नुवदन्नुत्तरप्रत्युत्तरे कुर्य्यात् । शृङ्गारवीररसौ
च सौभाग्यशौर्य्यवर्णया सूचयेत् । प्रायग्रहणात्
कौशिक्यपि वृत्तिर्भवति । उदाहरणं लीला-
मधुकरः ।” इति साहित्यदर्पणे ६ परिच्छेदः ॥

भाण्डं, क्ली, (भण्यते भणति वेति । भण् शब्दे +

“ञमन्ताड्डः ।” उणा० १ । ११३ । इति डः ।
ततः प्रज्ञादित्वादण् ।) पात्रम् । (यथा, महा-
भारते । १३ । ११ । १०२ ।
“हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥”)
बणिङ्मूलधनम् । भूषा । अश्वभूषा । इति
मेदिनी । डे, २१ ॥ (यथा, महाभारते । ७ ।
२६ । २३ ।
पृष्ठ ३/४९७
“विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः ।
सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ॥”)
नष्टभाण्डस्य दण्डादिविधिर्यथा, --
“अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥
भाण्डं व्यसनमागच्छेत् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नश्येत्तु दैवराजकृतादृते ॥”
इति मिताक्षरायां नारदः ॥
नदीकूलद्वयमध्यम् । इति हेमचन्द्रः । ४ । ९२ ॥
(भण्डते इति । भडि + अच् । भण्डस्तस्य भावः
इत्यण् ।) भण्डवृत्तिः । इत्यजयपालः ॥ भाँडामि
इति भाषा ॥

भाण्डः, पुं, गर्द्धभाण्डवृक्षः । इति शब्दचन्द्रिका ॥

भाण्डपुटः, पुं, (भाण्डे पुटा यस्य ।) नापितः ।

इति जटाधरः ॥

भाण्डपुष्पः, पुं, सर्पविशेषः । तत्पर्य्यायः । कौक्कुटि-

कन्दलः २ । इति त्रिकाण्डशेषः ॥

भाण्डागारः, पुं, (भाण्डानां पात्रादीनामागारः ।)

गृहविशेषः । भाँडार इति भाषा ॥ तत्-
पर्य्यायः । मन्थरः २ । इति शब्दमाला ॥
(यथा, महाभारते । १२ । ६९ । ५४ ।
“भाण्डागारायुधागारान् योधागारांश्च सर्व्वशः ।
अश्वागारान् गजागारान्बलाधिकरणानि च ॥”)

भाण्डारी, [न्] पुं, (भाण्डारोऽधिकारित्वेना-

स्त्यस्येति । भाण्डार + इनिः ।) भाण्डाराध्यक्षः ।
भाँडारी इति भाषा । यथा, व्यवहारप्रदीपे ।
“क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः ।
भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत् ॥

भाण्डिः, पुं, (भडि + इन् । पृषोदरादित्वात्

साधुः ।) नापितस्य क्षुराद्याधारः । भाँडि
इति भाषा । इति भाण्डिवाहशब्ददर्शनात् ॥

भाण्डिलः, पुं, (भाण्डिरस्त्यस्येति । भाण्डि +

लच् ।) नापितः । इति शब्दमाला ॥

भाण्डिवाहः, पुं, (भाण्डिं क्षुराद्याधारं वहतीति ।

वह् + अण् ।) नापितः । इति शब्दमाला ॥

भाण्डीरः, पुं, (भण्ड + ईरच् । पृषोदरादित्वात्

साधुः ।) वटवृक्षः । इति जटाधरः ॥ व्रज-
मण्डलान्तरे षोडशवटवनमध्ये द्वितीयवटवनम् ।
यथा, --
“सङ्केतवटमादौ तु भाण्डीराख्यं वटं द्बयम् ॥”
इति नारायणभट्टकृतव्रजभक्तिविलासः ॥

भातं, क्ली, (भा दीप्तौ + क्तः ।) प्रभातम् । इति

शब्दमाला ॥ (भा + भावे क्तः ।) दीप्तिः ॥
तद्वति, त्रि ॥

भातिः, स्त्री, (भा + क्तिन् ।) शोभा । इति राज-

निर्घण्टः ॥ (यथा, श्रीमद्भागवते । ८ । १८ । १२ ।
“यत्तद्वपुर्भातिविभूषणायुधै-
रव्यक्तचिद्व्यक्तमधारयद्धरिः ।
बभूव तेनैव स वामनो वटुः
संपश्यतोर्दिव्यगतिर्यथा नटः ॥”)

भातुः, पुं, (भातीति । भा + “कमिमनिजनिगा-

भायाहिभ्यश्च ।” उणा० १ । ७३ । इति तुः ।)
सूर्य्यः । इति त्रिकाण्डशेषः ॥ दीप्तः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

भाद्रः, पुं, (भाद्री पौर्णमास्यस्मिन्निति । भाद्री +

“सास्मिन् पौर्णमासीति ।” ४ । २ । २१ ।
इत्यण् ।) भाद्रपदनक्षत्रयुक्ता पौर्णमासी यस्मिन्
मासे सः । वैशाखादिद्वादशमासान्तर्गतपञ्चम-
मासः । तत्पर्य्यायः । नभस्यः २ प्रौष्ठपदः ३ भाद्र-
पदः ४ । इत्यमरः । १ । ४ । १७ ॥ स च द्विविधः ।
सिंहस्थरविकालः सौरः । १ । सिंहस्थरव्या-
रब्धशुक्लप्रतिपदादिदर्शान्तो मुख्यचान्द्रः । कृष्ण-
प्रतिपदादिपौर्णमास्यन्तो गौणचान्द्रः । २ । इति
मलमासतत्त्वम् ॥ * ॥ तत्र जातफलम् ।
“नभस्यमासे खलु जन्म यस्य
धीरो मनोज्ञश्च वराङ्गनानाम् ।
रिपुप्रमाथी कुटिलोऽतिमर्म्मा
प्रपन्नभर्त्ता स भवेत् सहासः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र गोः प्रसवे नारदः ।
“भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते ।
मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥
तत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥
ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः ।
आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥”
व्याहृतिभिश्चायं होमः ।
“सोपवासः प्रयत्नेन दद्याद्बिप्राय दक्षिणाम् ॥”
इति ॥
तथा ।
“सिंहराशौ गते सूर्य्ये गोः प्रसूतिर्यदा भवेत् ।
पौषे च महिषी सूते दिवैवाश्वतरी तथा ।
तदानिष्टं भवेत् किञ्चित् तच्छान्त्यै शान्तिकं
चरेत् ॥
अस्य वामेतिसूक्तेन तद्विष्णोरिति मन्त्रतः ।
जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् ॥
मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् ।
श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥
मध्यरात्रौ निशीथे वा यदा गौः क्रन्दते तदा ।
ग्रामे वास्य गृहे वापि शान्तिकं पूर्ब्बवद्दिशेत् ॥”
संक्रमणोत्तरषोडशदण्डात्मकपुण्यकालाभ्यन्तरे
गोः प्रसवे विप्रसम्प्रदानकगोप्रदानपूर्ब्बकशान्तिः
कार्य्या इति विशेषः । तदतिरिक्तसिंहस्थरवौ
गोः प्रसवे शान्तिमात्रं कर्त्तव्यं न गोः प्रदानम् ।
निर्णयसिन्धुधृताद्भुतसागरग्रन्थीयवचनजात-
मीमांसानुसारादिति ॥ * ॥ अथ भाद्रकृत्यम् ।
तत्र जन्माष्टमीव्रतप्रमाणन्तिथितत्त्वेऽनुसन्धेयम् ।
श्रावणपौर्णमास्यनन्तरितभाद्रकृष्णाष्टम्यां रात्रि-
मध्ये मुहूर्त्ताष्टमीरोहिणीयोगरूपजयन्तीलाभे
तत्रैवोपवासः । उभयदिने चेत्तदा परदिने ।
जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्यां उभयदिने
रोहिणीयुताष्टमीलाभे परदिने । रोहिण्यलाभे
तु निशीथसम्बन्धिन्यामष्टम्याम् । उभयदिने
निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति ।
तत्र प्रयोगः पूर्ब्बदिने संयमं विधाय तद्दिने
कृतप्रातःस्नानादिराचान्तः । ॐ सूर्य्यः सोम
इति पठित्वा ॐ तद्विष्णोः परमं पदमित्यादि-
मन्त्रेण नारायणं संस्मृत्य ॐ तत् सत् इत्युच्चार्य्य
उदङ्मुखो दर्भहस्तस्ताम्रपात्रे कुशतिलजला-
न्यादाय ॐ अद्य भाद्रे मासि कृष्णे पक्षे अष्टम्यां
तिथौ अमुकगोत्रः श्रीअमुकदेवशर्म्मा विष्णु-
लोकप्राप्तिकामः श्रीविष्णुप्रीतिकामो वा श्रीकृष्ण-
जन्माष्टमीव्रतमहं करिष्ये इति संकल्पयेत् ।
यद्युपवासदिने प्रातः सप्तमी तदाष्टम्यां तिथौ
इत्यत्र सप्तम्यां तिथावारभ्य इति वक्तव्यम् ।
ततः सामगस्तु ॐ देवो वो द्रविणोदा पूर्णां
विवष्टासिचं उद्वासिञ्चद्धमुपवा प्रणुद्धमादिदिवो
देव ओहते । इति पठेत् । ॐ धर्म्माय धर्म्मे-
श्वराय धर्म्मपतये धर्म्मसम्भवाय गोविन्दाय
नमो नमः । इत्युच्चार्य्य
“ॐ वासुदेवं समुदिश्य सर्व्वपापप्रशान्तये ।
उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥
अद्य कृष्णाष्टमीं देवीं नभश्चन्द्रसरोहिणीम् ।
अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि ॥
एनसो मोक्षकामोऽस्मि यद्गोविन्द त्रियोनिजम् ।
तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे ॥
आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् ।
तत् प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ॥”
इति पठेत् ।
तत आह्निकं समाप्यार्द्धरात्रे तत्तत्प्रतिमासु
पटादिषु वा आवाहनविसर्ज्जनसहितं शाल-
ग्रामे घटादिस्थजले वा आवाहनविसर्ज्जन-
रहितं पूजयेत् । ततो ध्यानम् ।
“माञ्चापि बालकं सुप्तं पर्य्यङ्के स्तनपायिनम् ।
श्रीवत्सवक्षःपूर्णाङ्गं नीलोत्पलदलच्छविम् ॥”
इति ध्यात्वा श्रीकृष्ण स्वागतं इति पृच्छेत् ।
इदमासनं ॐ कृष्णाय नमः । इत्यासनं दत्त्वा
एतत् पाद्यम् ॐ श्रीकृष्णाय नमः ॐ यज्ञाय
यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय
नमो नमः । इत्युच्चार्य्य इदमर्घ्यम् ॐ श्रीकृष्णाय
नमः । इदमाचमनीयम् ॐ श्रीकृष्णाय नमः ।
इदमाचमनीयम् ॐ श्रीकृष्णाय नमः । ततो
दधिमधुघृतात्मकं मधुपर्कमानीय एष मधुपर्कः
ॐ श्रीकृष्णाय नमः । इदमाचमनीयम् ॐ
श्रीकृष्णाय नमः । लौकिकषष्ट्यधिकशतत्रय-
तोलकपरिमितान्यूनं जलमानीय ॐ योगाय
योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय
नमो नमः । इदं स्नानीयजलम् ॐ श्रीकृष्णाय
नमः । इदं वस्त्रं इदमाभरणम् एष गन्धः इदं
पुष्पम् एष धूपः एष दीपः इदं नैवेद्यम् ॐ
विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय
गोविन्दाय नमो नमः । इत्यनेन नैवेद्यं दद्यात्
स्वापयेच्च । ततो नमो देव्यै श्रियै नमः ।
इति मन्त्रेण श्रियं पूजयेत् । ततः स्वगृह्योक्त-
विधिनाग्निं संस्थाप्य घृततिलाभ्याम् । ॐ
धर्स्माय धर्म्मेश्वराय धर्म्मपतये धर्म्मसम्भवाय
पृष्ठ ३/४९८
गोविन्दाय नमो नमः स्वाहा । इत्यन्तेनाष्टो-
त्तरशतमष्टाविंशतिमष्टौ वा जुहुयात् । ततो
गुडघृतेन वसोर्धारां भित्तौ दद्यात् । ततो
नाडीच्छेदं भावयेत् । ॐ षष्ठ्यै नम इति षर्ष्ठां
पूजयेत् । ततो भगवतः श्रीकृष्णस्य नामकरणान्न-
प्राशनचूडाकरणोपनयनोद्वाहसंस्कारान् भाव-
येत् । ततः प्रणवादिनमोऽन्तेन तत्तन्नामभिः
पूजयेत् । ॐ देवक्यै नमः एवं वसुदेवाय यशो-
दायै नन्दाय रोहिण्यै चण्डिकायै बलदेवाय
दक्षाय गर्गाय चतुर्म्मुस्वाय इत्यनेन यथाशक्ति
पञ्चोपचारैः पूजयेत् । ततः शङ्खेन कुशपुष्प-
चन्दनजलान्यादाय भूमौ जानुनी पातयित्वा,
ॐ क्षीरोदार्णवसंभूत अत्रिनेत्रसमुद्भव ! ।
गृहाणार्ध्यं शशाङ्केदं रोहिण्या सहितो मम ॥
ॐ सोमाय सोमेश्वराय सोमपतये सोमसम्भवाय
गोविन्दाय नमो नमः । इत्यर्ध्यं दद्यात् । ततः
प्रणाममन्त्रौ ।
“ॐ ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये
नमः ।
नमस्ते रोहिणीकान्त ! सुधावास नमोऽस्तु ते ॥
नभोमण्डलदीपाय शिरोरत्नाय धूर्ज्जटेः ।
कलाभिर्वर्द्धमानाय नमश्चन्द्राय चारवे ॥”
ततश्च ।
“अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् ।
वासुदेवं हृषीकेशं माधवं मधुसूदनम् ॥
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ।
दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥
गोविन्दमच्युतं देवमनन्तमपराजितम् ।
अधोक्षजं जगद्बीजं स्वर्गस्थित्यन्तकारिणम् ॥
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ।
नारायणं चतुर्ब्बाहुं शङ्खचक्रगदाधरम् ॥
पीताम्बरधरं नित्यं वनमालाविभूषितम् ।
श्रीवत्साङ्कं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम् ।
प्रपद्येऽहं सदा देवं सर्व्वकामप्रसिद्धये ॥”
इति स्तवः ॥
ततः प्रणमेत् ।
“प्रणमामि सदा देवं वासुदेवं जगत्पतिम् ।
त्राहि मां सर्व्वदेवेश हरे ! संसारसागरात् ॥”
ततः प्रार्थयेत् ।
“ॐ त्राहि मां सर्व्वपापघ्न दुःखशोकार्णवाद्धरे ! ।
सर्व्वलोकेश्वर त्राहि पतितं मां भवार्णवे ॥
देवकीनन्दन श्रीश हरे संसारसागरात् ।
त्राहि मां सर्व्वदुःखघ्न रोगशोकार्णवाद्धरे ! ॥
दुर्गतांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत् ।
सोऽहं देवातिदुर्व्वृत्तस्त्राहि मां दुःखसागरात् ॥
पुष्कराक्ष निमग्नोऽहं मायाविज्ञानसागरे ।
त्राहि मां देवदेयेश ! त्वत्तो नान्योऽस्ति
रक्षिता ॥”
इति प्रार्थयेत् ॥
“यद्वाल्ये यच्च कौमारे वार्द्धके यच्च यौवने ।
तत् पुण्यं वृद्धिमाप्नोतु पापं हर हलायुध ! ॥”
इति वदेत् ॥
ततो नृत्यगीतवादित्रस्तवैः कालं नयेत् । पर-
दिने प्रातःस्नानादिकं कृत्वा भगवन्तं श्रीकृष्णं
यथाविधि संपूज्य दुर्गायाश्च महोत्सवः कार्य्यः ।
ततो ब्राह्मणान् भोजयेत् तेभ्यो दक्षिणां दद्यात्
सुवर्णादि यत् किञ्चिदिष्टतमं श्रीकृष्णो मे प्रीयता-
मिति ।
“ॐ यं देवं देवकी देवी वसुदेवादजीजनत् ।
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ॥
सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ।
शान्तिरस्तु शिवञ्चास्तु इत्युच्चार्य्य विसर्ज्जयेत् ॥”
ततश्चोपवासपरदिने तिथिनक्षत्रयोरवसाने
पारणम् । यदा तु महानिशायाः पूर्ब्बमेकतर-
स्यावसानं अन्यतरस्य महानिशायां तदनन्तरं
वा तदैकतरावसाने पारणम् । यदा तु महानि-
शायामुभयस्थितिः तदा उत्सवान्ते पारणं
कुर्य्यात् । तत्र मन्त्रः । ॐ सर्व्वाय सर्व्वेश्वराय
सर्व्वपतये सर्व्वसम्भवाय गोविन्दाय नमो नमः ।
पारणानन्तरन्तु समापनमन्त्रः । ॐ भूताय
भूतेश्वराय भूतपतये भूतसम्भवाय गोविन्दाय
नमो नमः । इत्यनेन व्रतं समापयेत् ॥ * ॥
भाद्रशुक्लपञ्चमीमधिकृत्य भविष्योत्तरे ।
“तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।
यस्त्वालिख्य नरो भक्त्या कृष्णवर्णादिवर्णकैः ।
पूजयेद्गन्धपुष्पैश्च सर्पिर्गुग्गुलुपायसैः ॥
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः ।
आसप्तमात् कुलात्तस्य न भयं सर्पतो भवेत् ।
तस्मात् सर्व्वप्रयत्नेन नागान् संपूजयेन्नरः ॥
इयमेवालेख्यनागपञ्चमीति वाचस्पतिमिश्राः ।
आलेख्यनागाः कर्कोटकादयः पूर्ब्बलिखिताः
पूजा च श्रावणपञ्चमीविहितेति बोध्यम् ॥ * ॥
अथ हरेः पार्श्वपरिवर्त्तनम् । तत्र द्वादश्यां
सन्धिसमये नक्षत्राणामसम्भवे । आभाका-
सितपक्षेषु शयनावर्त्तनादिकमिति ब्रह्मपुरा-
णात् ॥ भाद्रशुक्लद्वादश्यां श्रवणमध्ययुक्तायां
सन्ध्यासमये द्वादश्यामृक्षाभावे एकादश्यादिषु
पादयोगे तदभावेऽपि द्वादश्यां केवलायां वा
कृताह्निकः सायं सन्ध्यायां देवं संपूज्य ।
“ॐ वासुदेव जगन्नाथ प्राप्तेयं द्बादशी तव ।
पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ! ॥”
इति प्राञ्जलिः पठेत् ॥
“त्वयि सुप्ते जगन्नाथ ! जगत् सुप्तं भवेदिति ।
प्रबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥”
इत्यनेन पूजयेत् ॥ * ॥
अथ सिंहार्के चतुर्थ्यां चन्द्रदर्शनप्रायश्चित्तम् ।
सिंहार्कमधिकृत्य ब्रह्मपुराणम् ।
“नारायणोऽभिशप्तस्तु निशाकरमरीचिषु ।
स्थितश्चतुर्थ्यामद्यापि मनुष्यानापतेच्च सः ॥
अतश्चतुथ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः ।
पठेद्धात्रेयिकावाक्यं प्राङ्मुखो वाप्युदङ्मुखः ॥”
अभिशप्तो मिथ्यापरीवादविषयीभूतः । सोऽभि-
शापः अद्यापि मनुष्यान् पतेत् । ततश्च
प्राङ्मुख उदङ्मुखो वा कुशतिलजलान्यादाय
ॐ अद्येत्यादि सिंहार्कचतुर्थीचन्द्रदर्शनजन्य-
पापक्षयकामो धात्रेयीवाक्यमहं पठिष्ये । इति
संकल्प्य ।
“ॐ सिंहः प्रसेनमवधीत् सिंहो जाम्बवता
हतः ।
सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥”
इति विष्णुपुराणोक्तं धात्रेयीवाक्यं पठेत् ॥ * ॥
अथानन्तव्रतम् । तत्र यद्दिने पूर्ब्बाह्णलाभस्तद्दिने
व्रतम् । उभयदिने चेत् परदिने युग्मात् । व्रतानु-
ष्ठानविधिस्तु पद्धतौ ज्ञेयः ॥ * ॥ अथागस्त्यार्घ्य-
दानम् । प्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् ।
सिंहस्थरविकर्त्तव्यत्वेन सौरमासादरः । कन्यार्क-
संक्रान्तिपूर्ब्बदिनत्रयाभ्यन्तरे कृतस्नानादिकृता-
ह्निकस्तिलकुशजलान्यादाय ॐ तत् सदित्युच्चार्य्य
ॐअद्येत्यादि सर्व्वाभिलषितसिद्धिकामोऽगस्त्य-
पूजनमहं करिष्ये इति संकल्प्य शालग्रामे
जले वा दक्षिणामुखः एतत् पाद्यम् ॐ अग-
स्त्याय नमः । सितपुष्पाक्षतयुक्तं जलं शङ्खेन
गृहीत्वा इदमर्घ्यम् ।
ॐ काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।
मित्रावरुणयोः पूत्त्र कुम्भयोने नमोऽस्तु ते ॥
ॐ अगस्त्याय नमः । एवमाचमनीयस्नानीय-
गन्धपुष्पधूपदीपनैवेद्यादिकं दद्यात् ।
ॐ आतापिर्भक्षितो येन वातापिच्च महासुरः ।
समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु ॥”
इति प्रार्थयेत् ॥ इति कृत्यतत्त्वम् ॥

भाद्रपदः, पुं, (भाद्रपदानक्षत्रयुक्ता पौर्णमासी

भाद्रपदी सा यत्र मासे सः । भाद्रपदी + अण् ।)
भाद्रमासः । इत्यमरः । १ । ४ । १७ ॥ (यथा, --
“ते तु भाद्रपदाद्येन द्बिमासिकेन व्याख्याताः ।
तद्यथा । भाद्रपदाश्वयुजौ वर्षाः ।” इति
सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)

भाद्रपदा, स्त्री, पूर्ब्बभाद्रपदानक्षत्रम् । उत्तर-

भाद्रपदानक्षत्रम् । तत्पर्य्यायः । प्रौष्ठपदा २ ।
इत्यमरः । १ । ३ । २२ ॥

भाद्रमातुरः, पुं, (भद्रमातुरपत्यमिति । भद्रमातृ +

“मातुरुत्संख्यासम्भद्रपूर्ब्बायाः ।” ४ । १ । ११५ ।
इति अण् । “उकाराश्चान्तादेशः ।” इति
काशिका ।) सतीतनयः । “सत्यास्तु तनये साम्मा-
तुरवद्भाद्रमातुरः ।” इति हेमचन्द्रः । ३ । २१० ॥

भानुः, पुं, (भाति चतुर्द्दशभुवनेषु स्वप्रभया दीप्यते

इति । भा + “दाभाभ्यां नुः ।” उणा० १ ।
३२ । इति नुः ।) सूर्य्यः । (यथा, महा-
भारते । ३ । ३ । २४ ।
“अनन्तः कपिलो भानुः कामदः सर्व्वतोमुखः ॥”
विष्णुः । यथा, तत्रैव । १३ । १४९ । २७ ।
“सर्व्वगः सर्व्वविद्भानुर्विष्वक्सेनो जनार्द्दनः ॥”
प्राधायाः पुत्त्रभेदः । यथा, तत्रैव । १ । ६५ । ४८ ।
“विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ।
इत्येता देवगन्धर्व्वा प्राधायाः परिकीर्त्तिताः ॥”
अङ्गिरःसृष्टस्तपसः पुत्त्रभेदः । यथा, तत्रैव ।
३ । २२० । ८ ।
पृष्ठ ३/४९९
“तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ॥”
यादवविशेषः । यथा, हरिवंशे । १४७ । २ ।
“कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ! ।
जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥”)
किरणः । (यथा, ऋग्वेदे । ६ । ६४ । २ ।
“भद्राददृक्षौविया विभास्युत्ते शोचिर्भानवो
द्यामपप्तन् ॥”
“भानवो रश्मयः ।” इति तद्भाष्ये सायनः ॥)
अर्कवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ प्रभुः ।
राजा । इति धरणिः ॥ वृत्तार्हत्पितृविशेषः ।
इति हेमचन्द्रः । २ । १४ ॥

भानुः, स्त्री, (भातीति । भा + नुः) भातुमती ।

इति शब्दरत्नावली ॥ (दक्षकन्याभेदः । यथा,
मत्स्यपुराणे । ५ । १५ ।
“शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः ।
मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ॥”)

भानुफला, स्त्री, (भानुरिव दीप्तिमत् फलमस्याः ।)

कदली । इति जटाधरः ॥

भानुमती, स्त्री, (भानु + मतुप् + ङीप् ।) विक्र-

मादित्यराजपत्नी । यथा, --
“देवगुरोः प्रसादेन जिह्वाग्रे मे सरस्वती ।
तेनाहं नृप ! जानामि भानुमत्यास्तिलं यथा ॥”
इति वररुचिः ॥
(कृतवीर्य्यस्य दुहिता । सा च अहंयातेः पत्नी ।
“यथा, महाभारते । १ । ९५ । १५ ।
“अहंयातिः खलुकृतवीर्य्यदुहितरमुपयेमे भानु-
मतीं नाम । तस्यामस्य जज्ञे सार्व्वभौमः ॥”
अग्निरसः प्रथमा सुता । यथा, महाभारते ।
३ । २१७ । ३ ।
“प्रजासु तासु सर्व्वासु रूपेणाप्रतिमाभवत् ।
देवी भानुमती नाम प्रथमाङ्गिरसः सुता ॥”
यादवभानोः कन्या । यथा, हरिवंशे । १४७ । २ ।
“कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ! ॥”
दुर्य्योधनपत्नी । यथा, वेणीसंहारनाटके २
अङ्के ।
“आर्य्य ! एषा भानुमती देवी पत्युः समर-
विजयासंशया निर्वर्त्तितगुरुपादवन्दनाद्यप्रभृति
आरब्धनियमा बालोद्याने तिष्ठतीति ॥”
गङ्गा । यथा, काशीखण्डे । २९ । १२९ ।
“भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा ।
भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥”)

भानुमान्, [त्] पुं, (भानवः सन्त्यस्येति । भानु +

मतुप् ।) सूर्य्यः । इति शब्दरत्नावली ॥ (यथा,
कुमारसम्भवे । ३ । ६५ ।
“अथोपनिन्ये गिरिशाय गौरी
तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखै-
र्मन्दाकिनी पुष्करबीजमालाम् ॥”
कलिङ्गदेशजनृपतिविशेषः । यथा, महाभारते ।
६ । ५१ । ३३ ।
“भानुमांस्तु ततो भीमं शरवर्षेण दारयन् ।
ननाद बलवन्नादं नादयानो नभस्तलम् ॥”
केशिध्वजस्य पुत्त्रः । यथा, भागवते । ९ । १३ । २१ ।
“भानुमांस्तस्य पुत्त्रोऽभूच्छतद्युम्नस्तु तत्-
सुतः ॥”)
दीप्तियुक्ते, त्रि ॥ (यथा, महाभारते । १ । ३० । ४७ ।
“चर्म्माण्यपि च गात्रेषु भानुमन्ति दृढाणि च ॥”)

भानुवारः, पुं, (भानोर्वारः ।) रविवारः । यथा, --

“अमाव्यास्या द्वादशी च संक्रान्तिश्च विशेषतः ।
एताः प्रशस्तास्तिथयो मानुवारस्तथैव च ॥
अत्र स्नानं जपो होमो देवतानाञ्च पूजनम् ।
उपवासस्तथा दानमेकैकं पावनं स्मृतम् ॥”
इति तिथितत्त्वे सम्बर्त्तवचनम् ॥

भानेमिः, पुं, (भानां प्रभाचक्राणां नेमिरिव ।)

सूर्य्यः । इति त्रिकाण्डशेषः ॥

भाम, ङ क्रोधे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ङ, भामते । इति दुर्गा-
दासः ॥

भाम, त् क कोपने । इति कविकल्पद्रुमः ॥ अदन्त-

चुरा०-पर०-अक०-सेट् ।) अवभामत् । इति
दुर्गादासः ॥

भामः, पुं, (भामनमिति । भाम क्रोधे + घञ् ।)

क्रोधः । (यथा, ऋग्वेदे । ५ । २ । १० ।
“मदेचिदस्य प्ररुजन्ति भामा
न वरन्ते परिबाधो अदेवीः ॥”
“भामाः क्रोधा दीप्तयो वा ।” इति तद्भाष्ये
सायनः ॥ भातीति । भा + “अर्त्तिस्तुसुहुसृधृ-
क्षिक्षुभायावापदीति ।” उणा० १ । १३९ । इति
मन् ।) सूर्य्यः । (भा + भावे मन् ।) दीप्तिः । इति
मेदिनी । मे, २१ ॥ भगिनीपतिः । इति शब्द-
रत्नावली ॥ (यथा, देवीभागवते । ६ । १६ । ४९ ।
“गुरुं मित्रं तथा भामं पुत्त्रञ्च भगिनीं तथा ॥”)

भामकः, पुं, (भाम एव । स्वार्थे कन् ।) भगिनी-

पतिः । इति शब्दरत्नावली ॥

भामा, स्त्री, (भामते इति । भाम् + अच् + टाप् ।)

कोपना स्त्री । इति शब्दरत्नावली ॥

भामिनी, स्त्री, (भामते इति । भाम् + णिनिः +

ङीप् ।) कोपना स्त्री । इत्यमरः । २ । ६ । ४ ॥
स्त्रीमात्रम् । इति राजनिर्घण्टः ॥ (यथा,
भागवते । ९ । १८ । ६ ।
“एकदा दानवेन्द्रस्य शर्म्मिष्ठा नाम कन्यका ।
सखी सहस्रसंयुक्ता गुरुपुत्त्रा च भामिनी ॥”
तुनयनामकगन्धर्व्वस्य दुहिता । यथा, मार्क-
ण्डेयपुराणे । १२८ । ७ ।
“राजपुत्त्र ! सुतेयं मे भामिनी नाम मानिनी ।
अभिशापादगस्त्यस्य विशालतनयाभवत् ॥”)

भामिनीविलासः, पुं, (भामिन्या विलासो यत्र ।)

जगन्नाथमिश्रपण्डितराजकृतकाव्यग्रन्थविशेषः ।
तस्याद्यश्लोकोऽयम् ।
“दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥
तस्य पुष्पिका । इति श्रीमत्पण्डितराजजग-
न्नाथविरचिते भामिनीविलासे प्रास्ताविकः
प्रथमो विलासः । शृङ्गारवर्णनं द्वितीयो
विलासः । श्रीकृष्णगुणानुवर्णनं तृतीयो विला-
सश्च ॥

भामी, [न्] त्रि, (भामः क्रोधोऽस्त्यस्येति । भाम +

“अत इनिठनौ ।” ५ । २ । ११५ । इति इनि ।)
क्रोधी । (तेजस्वी । यथा, ऋग्वेदे । १ । ७७ । १ ।
“कथा दाशेमाग्नये कास्मै देवजुष्ठोच्यते भामिने
गीः ॥”
“भामिने तेजस्विने ।” इति तद्भाष्ये सायनः ॥)

भारः, पुं, (भ्रियते इति । भृञ् भरणे + “अकर्त्तरि

च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति
घञ् ।) विंशतितुलापरिमाणम् । इत्य-
मरः ॥ तत्तु अष्टसहस्रतोलकात्मकमिति यावत् ।
बीवधः । यथा, --
“अविश्रामं वहेद्भारं शीतोष्णञ्च न विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्द्दभात् ॥”
इति चाणक्यम् ॥ * ॥
विष्णुः । इति मेदिनी । रे, ७२ ॥ गुरुत्वञ्च ॥
(गुरुत्वगुणवद्वस्तु ॥)

भारण्डः, पुं, उत्तरकुरुदेशजशकुनपक्षी । इति

पुराणम् ॥

भारतं, क्ली, (भरतान् भरतवंशीयानधिकृत्य कृतो

ग्रन्थ इत्यण् । यद्बा, भारं चतुर्वेदादिशास्त्रे-
भ्योऽपि सारांशं तनोतीति । तन् + डः ।)
ग्रन्थभेदः । इति मेदिनी । ते, १३८ ॥ तत्तु
व्यासप्रणीतलक्षश्लोकात्मकमहाभारतसंज्ञकेति-
हासः । तस्य श्रवणादिफलं यथा, --
“भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे सुबहुश्रुताय ।
पुण्याञ्च भारतकथां शृणुयाच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव ॥
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठश्चतुष्पदाम् ।
यथैतानीतिहासानां तथा भारतमुच्यते ॥
यश्चैनं श्रावयेत् श्राद्धे ब्राह्मणान् पादमन्ततः ।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥
कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्वुते ।
भ्रूणहत्याकृतञ्चापि पापं जह्यादसंशयः ॥”
इति महाभारतम् ॥ * ॥
तद्वृत्तान्तो यथा, --
ब्रह्मोवाच ।
“भारतं संप्रवक्ष्यामि भारावतरणं भुवः ।
चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्त्रोऽत्रिरत्रितः ।
सोमस्ततो बुधस्तस्मादुर्व्वश्यान्तु पुरोरवाः ॥
तस्माद्यस्तस्य पुत्त्रोऽभूद्ययातिर्भरतः कुरुः ।
शान्तनुस्तस्य वंशेऽभूद्गङ्गायां शान्तनोः सुतः ॥
पृष्ठ ३/५००
भीष्मः सर्व्वगुणैर्युक्तो ब्रह्मवैवर्त्तपारगः ।
शान्तनोः सत्यवत्याञ्च द्वौ पुत्त्रौ संबभूवतुः ॥
चित्राङ्गदन्तु गन्धर्व्वः पुत्त्रं चित्ररथोऽवधीत् ।
अन्यो विचित्रवीर्य्योऽभूत् काशिराजसुतापतिः ॥
विचित्रवीर्य्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ।
धृतराष्ट्रोऽग्विकापुत्त्रः पाण्डुरम्बालिकासुतः ॥
भुजिव्यायान्तु विदुरो गान्धार्य्यां धृतराष्ट्रतः ।
दुर्य्योधनप्रधानास्तु शतसंख्या महाबलाः ॥
पाण्डोः कुन्त्याञ्च माद्य्राञ्च पञ्च पुत्त्राः प्रजज्ञिरे ।
युधिष्ठिरो भीमसेनः अर्ज्जुनो नकुलस्तथा ।
सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥
कुरुपाण्डवयोर्वैरं दैवयोगाद्बभूव ह ।
दुर्य्योधनेन वीरेण पाण्डवाः स्रमुपद्रुताः ।
दग्धा जतुगृहे वीरास्ते मुक्ताः सुधियामलाः ॥
ततस्त एकचक्रायां ब्राह्मणस्य निवेशने ।
विप्रवेशा महात्मानो निहत्य वकराक्षसम् ॥
ततः पाञ्चालविषये द्रौपद्यास्ते स्वयंवरम् ।
विज्ञाय वीर्य्यशुल्कां तां पाण्डवा उपयेमिरे ॥
द्रोणभीष्मानुमत्या च धृतराष्ट्रः समानयत् ।
अर्द्धं राज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥
राजसूयं ततश्चक्रुः सभां कृत्वा यतव्रताः ।
अर्ज्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान् प्रियाम् ॥
वासुदेवस्य भगिनीं मित्रं देवकिनन्दनम् ॥
गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् ।
अक्षयान् शायकांश्चैव तथाभेद्यञ्च दंशनम् ॥
स तेन धनुषा वीरः पाण्डवो जातवेदसम् ।
कृष्णद्वितीयो वीभत्सुरतर्पयत वीर्य्यवान् ॥
नृपान् दिग्विजये जित्वा रत्नान्यादाय वै ददौ ।
युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥
युधिष्ठिरोऽपि धर्म्मात्मा भ्रातृभिः परिवारितः ।
जितो दुर्य्योधनेनैव मायाद्यूतेन पापिना ।
कर्णदुःशासनमते स्थितेन शकुनेर्मते ।
अथ द्वादशवर्षाणि वने तेपुर्म्महत्तपः ॥
सधौम्या द्रौपदीसत्या मुनिवृन्दाभिसंवृताः ।
ययुर्विराटनगरं गुप्तरूपेण संस्थिताः ॥
वर्षमेकं महाप्राज्ञा गोग्रहादिमपालयन् ।
ततो ज्ञाताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः ॥
पञ्च ग्रामानर्द्धराज्यं वीरा दुर्य्योधनं नृपम् ।
नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः ॥
अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ।
एकादशभिरुद्युक्तास्तेऽपि दुर्य्योधनादयः ॥
आसीद्युद्धं स्वर्गमार्गं देवासुरबलोपमम् ।
भीष्मः सेनापतिरभूदादौ दौर्य्योधने बले ॥
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
शस्त्राशस्त्रैर्महाघोरं दशरात्रं शराशनिः ॥
शिखण्ड्यर्ज्जुनबाणैश्च भीष्मः शरशितैश्चितः ।
उत्तरायणमीक्ष्याथ ध्यात्वा देवं गदाधरम् ॥
उक्त्वा धर्म्मान् बहून् वर्षांस्तर्पयित्वा पितॄन्
बहून् ।
आनन्दे तु पदे लीनो विमले मुक्तकिल्विषे ॥
ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन वीर्य्यवान् ।
दिनानि पञ्च तद्युद्धमासीत् परमदारुणम् ॥
य एते पृथिवीपाला हताः पार्थास्त्रसागरे ।
शोकमासाद्य पुत्त्रेण द्रोणोऽपि स्वर्गमाप्नुयात् ॥
ततः कर्णो ययौ योद्धुमर्ज्जुनेन महात्मना ।
दिनद्वयं महद्युद्धं कृत्वा पार्थास्त्रसागरे ॥
निमग्नः सूर्य्यलोकन्तु ततः प्राप स वीर्य्यवान् ।
ततः शल्यो ययौ योद्धुं धर्म्मराजेन धीमता ॥
दिनार्द्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः ।
दुर्य्योधनोऽथ वेगेन गदामादाय वीर्य्यवान् ॥
अभ्यधावत वै भीभं कालान्तकयमोपमम् ।
अथ भीमेन वीरेण गदया विनिपातितः ॥
अश्वत्थामा ततो द्रौणिः सुप्तं सैन्यं ततो निशि ।
जघान बाहुवीर्य्येण पितुर्व्वधमनुस्मरन् ॥
धृष्टद्युम्न जघानाथ द्रौपदेयांश्च वीर्य्यवान् ।
द्रौपद्यां रोदमानायामश्वत्थाम्नः शिरोमणिम् ।
ऐषीकास्त्रेण तं जित्वा जग्राहार्ज्जुन उत्तमम् ॥
युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसङ्कुलम् ।
स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् ।
आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् ॥
विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता ।
राज्ये परिक्षितं स्थाप्य यादवानां विनाशनम् ॥
श्रुत्वा तु मौषले राजा जप्त्वा नामसहस्रकम् ।
विष्णोः स्वग जगामाथ भीमाद्यैर्भ्रातृभिर्युतः ॥”
इति गारुडे १५० अध्यायः ॥ * ॥
वर्षभेदः । इति मेदिनी ॥ स तु जम्बुद्वीपस्य
नववंर्षान्तर्गतनवमवर्षः । तद्विवरणं यथा, --
“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ।
बिन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः ॥
अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च ।
तिर्य्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ! ॥
इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तश्च गम्यते ।
न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते ॥
भारतस्यास्य वर्षस्य नव भेदान्निशामय ।
इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्व्वस्त्वथ वारुणः ।
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ॥
योजनानां सहस्रन्तु द्बीपोऽयं दक्षिणोत्तरात् ।
पूर्ब्बे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥
ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुद्धबणिज्याद्यैर्व्वर्त्तयन्तो व्यवस्थिताः ॥
शतद्रुश्चन्द्रभागाद्या हिमवत्पादनिःसृताः ।
वेदस्मृतिमुखाश्चान्याः पारिपात्रोद्भवा मुने ! ॥
नर्म्मदासुरसाद्याञ्च नद्यो बिन्ध्यविनिःसृताः ।
तापी पयोष्णी निर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥
गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥
कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ।
त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥
ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसम्भवाः ।
आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥
तास्विमे कुरुपाञ्चालमध्यदेशादयो जनाः ।
पूर्ब्बदेशादिकाश्चैव कामरूपनिवासिनः ॥
ओड्राः कलिङ्गा मगधा दाक्षिणात्याश्च कृत्-
स्नशः ।
तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्व्वुदाः ॥
मारुका मालवाश्चैव पारिपात्रनिवासिनः ।
सौवीराः सैन्धवा हूणाः शाल्वाः शाकल-
वासिनः ॥
मद्रा रामास्तथाम्बष्ठाः पारसीकादयस्तथा ।
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥
समीपतो महाभाग ! हृष्टपुष्टजनाकुलाः ।
चत्वारि भारते वर्षे युगान्यत्र महामुने ! ॥
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ।
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ॥
दानानि चात्र दीयन्ते परलोकार्थमादरात् ।
पुरुषैर्यज्ञपुरुषो जम्बुद्बीपे सदेज्यते ॥
यज्ञैर्यज्ञपतिर्विष्णुरन्यद्वीपेषु चान्यथा ।
तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ॥
यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ।
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ! ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
गायन्ति देवाः किल गीतकानि
धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ॥
कर्म्माण्यसङ्कल्पिततत्फलानि
संन्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्म्ममहीमनन्ते
तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥
जानीम नैतत् क्व वयं विलीने
स्वर्गप्रदे कर्म्मणि देहबन्धम् ।
प्राप्स्याम धन्याः खलु ते मनुष्या
ये भारते नेन्द्रियविप्रहीनाः ॥
नववर्षन्तु मैत्रेय ! जम्बुद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात् कथितं तव ॥
जम्बूद्बीपं समावृत्य लक्षयोजनविस्तरः ।
मैत्रेय ! वलयाकारः स्थितः क्षारोदधिर्बहिः ॥”
इति श्रीविष्णुपुराणे २ अंशे ३ अध्यायः ॥ * ॥
आस्मिन् वर्षे जन्मकारणं तत्साफल्यञ्च यथा, --
“शतजन्मतपः कृत्वा जन्मेदं भारते लभेत् ।
करोति सफलं जन्म श्रुत्वा हरिकथामृतम् ॥
अर्च्चनं वन्दनं मन्त्रजपः सेवनमेव च ।
स्मरणं कीर्त्तनं शश्वद्गुणश्रवणमीप्सितम् ॥
निवेदनं स्वस्य दास्यं नवधा भक्तिलक्षणम् ।
करोति सफलं जन्म कृत्वैतानि च भारते ॥” * ॥
अस्य पुण्यस्थलत्वं कर्म्मभूमित्वं परिमाणञ्च
यथा, --
“कर्म्मणां फलभोगश्च सर्व्वेषां सुरसुन्दरि ! ।
नैव स्वर्गे न पाताले नान्यद्वीपे श्रुतौ श्रुतम् ॥
कृत्वा शुभाशुभं कर्म्म पुण्यक्षेत्रे च भारते ।
अन्यत्र तत्फलं भुङ्क्ते कर्म्मी कर्म्मनिबन्धनात् ॥
पृष्ठ ३/५०१
हिमालयादासमुद्रं पुण्यक्षेत्रञ्च भारतम् ।
श्रेष्ठं सर्व्वस्थलानाञ्च मुनीनाञ्च तपःस्थलम् ॥
लब्ध्वा तत्र जन्म जीवो वञ्चोतो विष्णुमायया ।
शश्वत् करोति विषयं विहाय सेवनं हरेः ॥
कृत्वा तत्र महत् पुण्यं स्वर्गं गच्छति पुण्यवान् ।
गृहीत्वा स्वर्गकन्याश्च चिरं स्वर्गे प्रमोदते ॥
स्वर्गमागच्छति नरो विहाय मानवीं तनूम् ॥”
इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे । १ । ५९ ।
अध्यायौ ॥

भारतः, पुं, (भरतस्य मुनेरयमिति । भरत +

अण् ।) नटः । इति जटाधरः ॥ अग्निः ।
इति त्रिकाण्डशेषः ॥ (भरतस्य गोत्रापत्य-
मिति । भरत + अण् ।) भरतस्य गोत्रापत्यम् ॥
(यथा, महाभारते । ३ । ११ । ७४ ।
“तत्राश्रौषमहञ्चैतत् कर्म्म भीमस्य भारत ! ॥”)

भारतवर्षं, क्ली, (भारतं भरतसम्बन्धि वर्षमिति ।)

जम्बुद्वीपस्य नववर्षान्तर्गतवर्षविशेषः । यथा, --
“हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता ।
तस्माच्च भारतं वर्षं तस्य नाम्ना महात्मनः ॥”
तस्य नव भागा यथा, --
“भारतस्यास्य वर्षस्य नवभेदान्निबोध मे ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गान्धर्व्वो वारुणस्तथा ॥
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरात् ॥
पूर्ब्बे किराता यस्यान्ते पश्चिमे यवनाः स्मृताः ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्तःस्थिता
द्विज ! ॥
इज्यायुद्धबणिज्याद्यैः कर्म्मभिः कृतपावनाः ।
तेषां संव्यवहारश्च एभिः कर्म्मभिरिष्यते ॥
स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तथा ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ॥
बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ।
तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥
विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः ।
कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः ॥
वातन्धमो वैद्युतश्च मैनाकः सुरसस्तथा ।
तुङ्गप्रस्थो नामगिरिर्गोधनः पाण्डुराचलः ॥
पुष्पवीर्य्यजयन्तौ च रेवतोऽर्व्वुद एव च ।
ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः ॥
श्रीपर्व्वतश्चकोरश्च शतशोऽन्येऽल्पपर्व्वताः ।
तैर्विमिश्रा जनपदा म्लेच्छाश्चार्य्याश्च भागशः ।
तैः पीयन्ते सरिच्छ्रेष्ठा यास्ताः सम्यङ्निबोध मे ॥
गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापगा ।
यमुना च शतद्रुश्च वितस्तैरावती कुहूः ॥
गोमती धूतपापा च बाहुदा च दृषद्वती ।
विपाशा देविका वङ्क्षुर्विशाला गण्डकी तथा ।
कौशिकी चापरा विप्र ! हिमवत्पादनिःसृताः ॥
वेदस्मृतिर्वेतसिनी रात्रिघ्नी सिन्धुरेव च ।
वेण्वा च स्यन्दना चैव सवानीरा मही तथा ॥
पारा चर्म्मण्वती लूपी विदिशा वेत्रवत्यपि ।
सिप्रा ह्यवन्ती च तथा पारिपात्राश्रयाः
स्मृताः ॥
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ।
मन्दाकिनी दशार्णा च चित्रकूटा तथापगा ॥
चित्रोत्पलाथ तमसा करतोया पिशाचिका ।
तथान्या पिप्पला श्रोणी विपाशा वञ्जुला नदी ॥
सरोरुजा शुक्तिमती मङ्गुली त्रिदिवा क्रतुः ।
ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥
शिप्रा पयोष्णी निर्बिन्ध्या तापी च निषधावती ।
वेणा वैतरणी चैव शिनीवाली कुमुद्बती ॥
तोया चैव महागौरी दुर्गा चान्तःशिवा तथा ।
बिन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥
गोदावरी भीमरथी कृष्णवर्णा तथापगा ।
तुङ्गभद्रा सुप्रयोगा वाह्या कावेय्यथापगा ।
सह्यपादविनिष्क्रान्ता इमास्ताः सरिदुत्तमाः ॥
कृतमाला ताम्रपर्णी पुष्यजात्युत्पलावती ।
मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः ॥
पितृसोमर्षिकुल्या च इक्षला त्रिदिवालया ।
लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ॥
ऋषिका च कुमारी च मन्दगा मन्दवासिनी ।
कृशा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥
सर्व्वाः पुण्याः सरस्वत्यः सर्व्वा गङ्गाः समु-
द्रगाः ।
विश्वस्य मातरः सर्व्वाः सर्व्वाः पापहराः
स्मृताः ॥
अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम ! ।
प्रावृट्कालवहाः सन्ति सर्व्वकालवहाश्च याः ॥
मत्स्याः कुशूलाः कुल्याश्च कुन्तलाः काशिको-
शलाः ॥
अर्व्वुदाश्च पुलिङ्गाश्च समकाश्च वृकैः सह ।
मध्यदेशे जनपदाः प्रायशोऽमी प्रकीर्त्तिताः ॥
सह्यस्य चोत्तरेणैव यत्र गोदावरी नदी ।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥
गोवर्द्धनपुरं रम्यं भार्गवस्य महात्मनः ।
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ॥
अपरान्ताश्च शूद्राश्च पह्नवाश्चर्म्मखण्डिकाः ।
गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥
शतह्रदा ललित्थाश्च पारदाहारमूषिकाः ।
माठरा रक्षहतकाः कैकया दशमानिकाः ॥
क्षत्त्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
काम्बोजा दरदाश्चैव वर्व्वरा ह्यङ्गलौकिकाः ॥
नीचाश्चैव तुषाराश्च पह्नवा वाह्यतोदराः ।
आत्रेयाः सभरद्वाजाः प्रस्थलाश्च दशेरकाः ॥
लम्पकाः सूनकाराश्च चूलिका जाह्नवैः सह ।
अपधाश्चालिमद्राश्च किरातानाञ्च जातयः ॥
तामसा हंसमार्गाश्च काश्मीरास्तङ्गनास्तथा ।
चूलिका हुडुकाश्चैव ऊर्णा दार्व्वास्तथैव च ॥ * ॥
एते देशा ह्युदीच्यास्तु प्राच्यान् देशान्निबोध मे ।
अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः ॥
तथा प्लवङ्गा वङ्गेया मलदा मलवर्त्तिकाः ।
ब्रह्मोत्तराः प्रविजया भार्गवाङ्गेयमर्द्दकाः ॥
प्राग्ज्योतिषाश्च मद्राञ्च विदेहास्ताम्रलिप्तकाः ।
मल्वा मगधगोमेदाः प्राच्या जनपदाः स्मृताः ॥
अथापरे जनपदा दक्षिणापथवासिनः ।
पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥
सेतुका मूषिकाश्चैव कुमारा वानवासिकाः ।
महाराष्ट्रा माहिषिकाः कलिङ्गाच्चैव सर्व्वशः ॥
आभीराः सह चैषीका आटव्याः शवराश्च ये ।
पुलिन्दा बिन्ध्यमालेया वैदर्भा दण्डकैः सह ॥
पौरिका मौलिकाश्चैव अश्मका भोगवर्द्धनाः ।
तैलिकाः कुन्तला ह्यन्धा उद्भिदा नाल-
कारकाः ॥ * ॥
दाक्षिणात्यास्त्विमे देशा अपरान्तान्निबोध मे ।
सौर्पारकाः कालनदा दुल्लास्तालीयकैः सह ॥
कारस्करा लोहजङ्घा वानेया राजभद्रकाः ।
तोसलाः कोशलाश्चैव त्रैपुरा विदिशास्तथा ॥
तुषारास्तुम्बराश्चैव पाटवो नैषधैः सह ।
पुलिन्दाश्च सुशीलाश्च रूपपास्तामसैः सह ॥
तथा कुरुमिणश्चैव सर्व्वे चैव करस्कराः ।
नासिकाख्याश्च ये चान्ये ये चैवान्तरनर्म्मदाः ।
मारुकच्छाः समाहेयाः सर्व्वे सारस्वतैः सह ।
कच्छीयाश्च सुराष्ट्राश्च आवन्त्याश्चार्व्वुदैः सह ॥
इत्येते ह्यपरान्ताश्च शृणु बिन्ध्यनिवासिनः ।
मलजाश्च करूषाश्च मेकलाश्चोत्कलैः सह ॥
उत्तमर्णा दशार्णाश्च भोजाः किस्किन्धकैः सह ।
अनूपास्तुण्डिकेराश्च वीरहोत्रा ह्यवन्तयः ॥
एते जनपदाः सर्व्वे बिन्ध्यपृष्ठनिवासिनः ॥
अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये ॥ * ॥
निर्हारा हंसमार्गाश्च कुपथास्तङ्गनाः खसाः ।
कुत्साः प्रावरणाश्चैव ऊर्णा दर्व्वाः सहूहुकाः ॥
त्रिगर्त्ता मालवाश्चैव किरातास्तामसैः सह ।
कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥ * ॥
एतत्तु भारतं वर्षं चतुःसंस्थानसंस्थितम् ॥
दक्षिणे परतो ह्यस्य पूर्ब्बेण च महोदधिः ।
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥
तदेतद्भारतं वर्षं सर्व्वबीजं द्विजोत्तम ! ।
देवत्वममरेशत्वं देवत्वं मर्त्यतां तथा ॥
मृगपश्वम्बरचरा योनीस्तद्वत् सरीसृपाः ।
स्थावराणाञ्च सर्व्वेषामतो ब्रह्मन् ! शुभाशुभैः ॥
प्रयान्ति कर्म्मभूर्ब्रह्मन्नान्यलोकेषु विद्यते ।
देवानामपि विप्रर्षे ! सदैवैष मनोरथः ॥
अपि मानुषमाप्स्यामो देवत्वात् प्रच्युताः
क्षितौ ।
मनुष्याः कुरुते तत्तु यन्न शक्यं सुरासुरैः ॥
स्वकर्म्मनिगडग्रस्तैः स्वकर्म्मक्षपणोत्सुकैः ।
न किञ्चित् क्रियते कर्म्म सुखलेशोपबृंहितैः ॥”
इति श्रीमार्कण्डेयपुराणे भारतखण्डवर्णन-
नामाध्यायः ॥ ५७ ॥ * ॥ अपि च ।
“भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः ।
मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः
कूटकः कोण्वः सह्यो देवगिरिरृष्यमूकः
श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो बिन्ध्यः
शुक्तिमानृक्षगिरिः पारिपात्रो द्रोणश्चित्रकूटो
गोवर्द्धनो रैवतकः ककुभो नीलो गोकामुखः
पृष्ठ ३/५०२
इन्द्रकीलः कामगिरिरिति चान्ये शतसहस्रशः
शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसं-
ख्याताः । एतासामपो भारत्यः प्रजा नामभिरेव
पुनन्तीनामात्मना चोपस्पृशन्ति चन्द्रवशा
ताम्रपर्णी अवटोदा कृतमाला वैहायसी
कावेरी वेण्वा पयस्विनी शर्करावर्त्ता तुङ्गभद्रा
कृष्णवेण्वा भीमरथी गोदावरी निर्बिन्ध्या
पयोष्णो तापी रेवा सुरसा नर्म्मदा चर्म्मण्वती
अन्धः शोणश्च नदौ महानदी वेदस्मृतिरृषि-
कुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना
सरस्वती दृशद्वती गोमती सरयूरोघवती षष्ठ-
वती सप्तवती सुषोमा शतद्रुश्चन्द्रभागा मरुद्-
वृधा वितस्ता असिक्नी विश्वेति महानद्यः ।
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहित-
कृष्णवर्णेन स्वारब्धेन कर्म्मणा दिव्यमानुषनारक-
गतयो बह्व्य आत्मन आनुपूर्ब्ब्येण सर्व्वा ह्येव
सर्व्वेषां विधीयन्ते । यथावर्णविधानमपवर्ग-
श्चापि भवति । योऽसौ भगवति सर्व्वभूतात्मनि
अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवे
अनन्यनिमित्तभक्तियोगलक्षणो नानागति-
निमित्ताविद्याग्रन्थिबन्धनद्वारेण यदा हि महा-
पुरुषपूरुषप्रसङ्गः । एतदेव हि देवा गायन्ति ।
“अहो वतैषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकस्पृहा हि नः ॥
किं दुष्करैर्न्नः क्रतुभिस्तषोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कज-
स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥
कल्पायुषां स्थानजयात् पुनर्भवात्
क्षणायुषां भारतभूजयो वरः ।
क्षणेन मर्त्येन कृतं मनस्विनः
संन्यस्य संयान्त्यभयं पदं हरेः ॥
न यत्र वैकुण्ठकथा सुधापगा
न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम् ॥
प्राप्ता नृजातिन्त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न चेद्यतेरन्न पुनर्मृतायते
भूयो वनौका इव यान्ति बन्धनम् ।
यैः श्रद्धया वर्हिषि भागशो हवि-
र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ्नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः ॥
सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत् पुनरर्थिता यतः ।
म्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥
यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्मनः स्या-
द्वर्षे हरिर्यद्भजतां शं तनोति ॥”
श्रीशुक उवाच । जम्बूद्वीपस्य च राजन्नुपद्बीपा-
नष्टौ हैक उपदिशन्ति सागरात्मजैरश्वान्वेषण
इमां महीं परितो निखनद्भिरुपकल्पितान् ।
तद्यथा । स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणको
नन्दहरिणः पाञ्चजन्यः सिंहलो लङ्केति । एवं
तव भारतोत्तमजम्बुद्वीपवर्षविभागो यथोप-
देशमुपवर्णितः ।” इति श्रीभागवते महापुराणे
५ स्कन्धे द्वीपवर्षवर्णनं नाम १९ अध्यायः ॥
(विष्णुपुराणे च । २ अंशे ३ अध्याये ।
“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तत् भारतं नाम भारती यत्र सन्ततिः ॥ १ ॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥” २ ॥
अपरञ्च ।
“अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति वै ।
तिर्य्यक्त्वं नरकञ्चापि यान्त्यतः पुरुषा मुने ! ॥ ४ ॥
इतः स्वर्गश्च मोक्षश्च मध्यमन्तश्च गम्यते ।
नखल्वन्यत्र मर्त्त्यानां कर्म्मभूमौ विधीयते ॥” ५ ॥
अपि च ।
“चत्वारि भारते वर्षे युगान्यत्र महामुने ! ।
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ १९ ॥
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥” २० ॥
“अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ।
यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ॥ २२ ॥
अत्र जन्म सहस्राणां सहस्रैरपि सत्तम ! ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २३ ॥
गायन्ति देवाः किल गीतकानि
धन्यास्तु ते भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २४ ॥
कर्म्माण्यसङ्कल्पिततत्फलानि
संन्यस्य विष्णौ परमात्मभूते ।
अवाप्य तां कर्म्म महीमनन्ते
तस्मिल्लयं येत्वमलाः प्रयान्ति ॥ २५ ॥
जानीम नैतत् क्व वयं विलीने
स्वर्गप्रदे कर्म्मणि देहबन्धम् ।
प्राप्स्याम धन्याः खलु ते मनुष्या
ये भारते नेन्द्रियविप्रहीनाः ॥” २६ ॥)

भारती, स्त्री, (भृ + अतच् । स्त्रियां ङीप् ।)

वचनम् । (यथा, कुमारे । ६ । ७९ ।
“तमर्थमिव भारत्या सुतया योक्तुमर्हसि ॥”)
सरस्वती । (यथा, कालिदासः ।
“वीणापुस्तकरञ्जितहस्ते
भगवति भारति देवि ! नमस्ते ॥”)
पक्षिभेदः । वृत्तिभेदः । इति मेदिनी । ने,
१३८ ॥ यथा, --
“शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः ।
रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती ॥”
भारती वृत्तिस्तु भारती संस्कृतप्रायो वाग्-
व्यापारो नराश्रयः । इति साहित्यदर्पणस्य ६
परिच्छेदः ॥ ब्राह्मी । इति राजनिर्घण्टः ॥
(शङ्कराचार्य्यशिष्यतोटकस्य शिष्याणामन्य-
तमस्य उपाधिविशेषः । यथा, प्राणतोषिण्या-
मवधूतप्रकरणे ।
“विद्याभारेण सम्पूर्णः सर्व्वभारं परित्यजेत् ।
दुःखभारं न जानाति भारती परिकीर्त्तिता ॥”
नदीविशेषः । यथा, महाभारते । ३ । २२१ । २५ ।
“भारती सुप्रयोगा च कावेरी मुर्म्मुरायथा ॥”)

भारद्वाजं, क्ली, अस्थि । इति हेमचन्द्रः । ३ । २८९ ॥

भारद्वाजः, पुं, (भरद्वाजस्य अपत्यं गोत्रापत्य-

मिति वा । भरद्वाज + “अनृष्यनान्तर्य्ये विदा-
दिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।)
द्रोणाचार्य्यः । (यथा, महाभारते । ७ । ६ । २३ ।
“ततः प्रयाते सहसा भरद्वाजे महारथे ।
आर्त्तनादेन घोरेण वसुधा समकम्पत ॥”)
ऋषिभेदः । इति मेदिनी । जे, ३४ ॥ अगस्त्य-
मुनिः । इति शब्दरत्नावली ॥ मङ्गलग्रहः ।
इति ग्रहयज्ञतत्त्वम् ॥ व्याघ्राटपक्षी । बृहस्पति-
पुत्त्रः । इति हेमचन्द्रः ॥ (देशभेदः । यथा,
“कृकणपर्णाद्भारद्वाजे ।” ४ । २ । १४५ ।
इति सूत्रे “भारद्वाजशब्दोऽपि देशवचन
एव नगोत्रशब्दः ।” इति काशिका ॥ भर-
द्वाजवंशीये, त्रि ॥ यथा, महाभारते । १ ।
१३१ । ३ ।
“इति सञ्चिन्त्य गाङ्गेयस्तदा भारतसत्तम ! ।
द्रोणाय वेदविदुषे भारद्वाजाय धीमते ।
पाण्डवान् कौरवांश्चैव ददौ शिष्यान्नरर्षभ ! ॥”)

भारद्वाजी, स्त्री, वनकार्पासी । इति शब्दरत्ना-

वली ॥ (नदीभेदः । यथा, महाभारते । ६ ।
९ । २९ ।
“शीघ्राञ्च पिच्छिलाञ्चैव भारद्वाजीञ्च निम्न-
गाम् ।
कौशिकीं निम्नगां शोणां बाहुदामथ चन्द्र-
माम् ॥”)

भारयः पुं, (भां दीप्तिं रयते प्राप्नोतीति । रय

गतौ + पदाद्यच् ।) भारद्बाजपक्षी । इति
शब्दचन्द्रिका ॥ भारै इति भाषा ॥

भारयष्टिः, स्त्री, (भारस्य यष्टिः ।) भारवहन-

दण्डः । वाँक इति भाषा । तत्पर्य्यायः । विह-
ङ्गिका २ । इत्यमरः । २ । १० । ३० ॥

भारवं, क्ली, (भारं वातीति । भार + वा +

“आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।)
धनुर्गुणः । इति त्रिकाण्डशेषः ॥

भारवाहः, पुं, (भारं वहतीति । वह् + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) भारिकः ।
इत्यमरः । २ । १० । १५ ॥ (यथा, महाभारते ।
३ । १३३ । १ ।
“अन्धस्य पन्था वधिरस्य पन्थाः
स्त्रियाश्च पन्था भारवाहस्य पन्थाः ॥”)

भारवाही, स्त्री, (भारवाह + गौरादित्वात्

ङीष् ।) नीली । इति राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/भपतिः&oldid=44027" इत्यस्माद् प्रतिप्राप्तम्