शब्दकल्पद्रुमः/भ

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/४६१

भकारः । स च व्यञ्जनचतुर्विंशतितमः पवर्गीय-

चतुर्थो वर्णः । अस्योच्चारणस्थानं ओष्ठः ।
इति व्याकरणम् ॥ (तथा च सिद्धान्तकौमुद्याम् ।
उपूपध्मानीयानामोष्ठौ ॥”) तस्य स्वरूपादि
यथा, --
“भकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली ।
महामोक्षप्रदं वर्णं तरुणादित्यसंप्रभम् ॥
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।”
इति कामधेनुतन्त्रम् ॥
(वङ्गाक्षराकृतौ) तस्य लिखनक्रमो यथा, --
“ऊर्द्धाधःक्रमतो रेखा वामे वक्रा तु कुण्डली ।
पुनश्चाधोगता सैव अत ऊर्द्धगता पुनः ॥
ब्रह्मा शम्भुश्च विष्णुञ्च क्रमतस्तासु तिष्ठति ॥”
अस्य लेखनप्रकारान्तरं यथा, --
“किञ्चिदाकुञ्चिता रेखा वामद्दक्षिणतो गता ।
ततो वक्रा वामगता तासु वाण्यादयः क्रमात् ॥
ऋजुमात्रा मध्यगता कोणाद्दक्षगता पुनः ।
महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥”
तद्यथा, --
“तडित्प्रभां महादेवीं नागकङ्कणशोभिताम् ॥
षड्भुजां वरदां भीमां रक्तपङ्कजलोचनाम् ॥
रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम् ।
चतुर्वर्गप्रदां देबीं साधकाभीष्टसिद्धिदाम् ॥
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
तत्प्रणाममन्त्रो यथा, --
“त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! ।
आत्मादितत्त्वसंयुक्तं भकारं प्रणमाम्यहम् ॥”
इति वर्णोद्धारतन्त्रम् ॥
तस्य नासानि यथा, --
“भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशाभवम् ।
द्बिरण्डो भूषणो मूलं यज्ञसूत्रस्य वाचकः ॥
नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः ।
नाभिर्भद्रं महाबाहुर्विश्वमूर्त्तिर्विताण्डकः ॥
प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका ।
भीमसेनः सुधासेनः सुखो मायापुरं हरः ॥”
इति नानातन्त्रशास्त्रम् ॥

भं, क्ली, (भातीति । भा दीप्तौ + बाहुलकात् डः ।)

नक्षत्रम् । इत्यमरः । १ । ३ । २१ ॥ (यथा,
सूर्य्यसिद्धान्ते । १ । २६ ।
“प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः ।
परिणाहवशाद्भिन्ना तद्वशाद् भानि भुञ्जते ॥”)
ग्रहः । इति शब्दरत्नावली ॥ राशिः । यथा, --
“राशिनामानि च क्षेत्रं भमृक्षं गृहनाम च ॥”
इति ज्योतिस्तत्त्वम् ॥

भः, पुं, (भातीति । भा दीप्तौ + बाहुलाद् डः ।)

शुक्राचार्य्यः । इति मेदिनी । भे, १ ॥ भ्रमरः ।
इत्येकाक्षरकोषः । भ्रान्तिः । इति शब्दरत्ना-
वली ॥

भक्तं, क्ली, (भज्यते स्मेति भजसेवायां + कर्म्मणि

क्तः ।) अन्नम् । इत्यमरः । २ । ९ । ४८ ॥
अथ भक्तस्य नामानि साधनं गुणाश्च ।
“भक्तमन्नं तथान्धश्च क्वचित् कूरञ्च कीर्त्तितम् ।
ओदनोऽस्त्री स्त्रियां भिस्सा दीदिविः पुंसि
भाषितः ॥”
सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् ।
तद्भक्तं प्रसृतञ्चोष्णं विशदं गुणवन्मतम् ॥
भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ।
अधौतमसृतं शीतं गुर्व्वरुच्यं कफप्रदम् ॥”
इति भावप्रकाशः ॥
हरये निवेदितान्नस्य नित्यं भक्षणे फलं यथा,
“ये विप्रा हरये दत्त्वा नित्यमन्नञ्च भुञ्जते ।
उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ॥”
हरये अदत्त्वा तद्भक्षणे दोषो यथा, --
“न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि ।
पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ॥ * ॥
शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ।
आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥”
अन्नदानफलं यथा, --
“अन्नञ्च सर्व्वजीविभ्यः पुण्यार्थं दातुमर्हति ।
दत्त्वा विशिष्टजीविभ्यो विशिष्टं फलमाप्नुयात् ॥
अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् ।
ततो विशिष्टशूद्रेभ्यो दत्त्वा तद्द्विगुणं फलम् ॥
दत्त्वान्नं घैश्यजातिभ्यस्ततश्चाष्टगुणं फलम् ।
दत्त्वान्नं क्षत्त्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत् ॥
क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च ।
घिप्राणाञ्च शतगुण शास्त्रज्ञे ब्राह्मणे फलम् ॥
शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् ।
स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च
सादरम् ॥
विष्णवे भक्तविप्राथ दत्त्वा दातुश्च यत् फलम् ।
तत् फलं लभते नूनं भक्तब्राह्मणभोजने ॥
भक्त तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः ।
भवन्ति सिक्ताः शाखाश्च यथा मूलनिषे-
चनात् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अध्यायः ।
पृष्ठ ३/४६२
तस्य एकादश्यां पापाश्रयत्वं भक्षणे दोषश्च
यथा, --
“एकादश्यामागतायां पावयन्त्यां जगत्त्रयम् ।
स्थातव्यमन्नमाश्रित्य भवता पापपूरुष ! ॥
अन्नमाश्रित्य तिष्ठन्तं भवन्तं पापपूरुषम् ।
न हनिष्यति मन्मूर्त्तिरियमेकादशी तिथिः ॥
तस्मादन्नं न भोक्तव्यं कदाचिदपि सत्तमैः ।
आत्मनो हितमिच्छद्भिः संप्राप्ते हरिवासरे ॥
संसारे यानि पापानि तान्येवैकादशीदिने ।
अन्नमाश्रित्य तिष्ठन्ति पुण्डरीकेक्षणाज्ञया ॥
कुर्व्वतां सर्व्वपापानि नरकान्निष्कृतिर्भवेत् ।
न निष्कृतिर्भवेन्नणां भुञ्जतां हरिवासरे ॥
मर्त्या भक्तानि यावन्ति भुञ्जते हरिवासरे ।
प्रतिभक्ते ब्रह्महत्याकोटिजं पातकं लभेत् ॥
सर्व्वपापाश्रयं भक्तं त्यक्तव्यं हरिवासरे ।
मोहाद्ये भुञ्जते वापि ते ज्ञेयाः पापिनां
वराः ॥”
इति पाद्मे क्रियायोगसारे २१ अध्यायः ॥
वर्जनीयान्नं यथा, --
“नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्बा यदि-
वान्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥
षण्मासान् यो द्बिजो भुङ्क्ते शूद्रस्यान्नं विग-
र्हितम् ।
जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥
ब्राह्मणक्षत्त्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥
राजान्नं नर्त्तकान्नञ्च तक्षणोऽन्नञ्चक्रकारिणः ।
गणान्नं गणिकान्नञ्च षण्डान्नञ्चैव वर्जयेत् ॥
चक्रोपजीविरजकतस्करध्वजिनां तथा ।
गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्जयेत् ॥
कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य च ।
पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि ॥
सुवर्णकारशैलूषव्याधितस्यातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य च ॥
स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।
उत्सृष्टस्य कदर्य्यस्य तथैवोच्छिष्टभोजनः ॥
अपङ्क्त्यन्नञ्च संघान्नं शस्त्राजीवस्य चैव हि ।
क्लीवस्यान्त्यासिनश्चान्नं मत्तोन्मत्तस्य चैव हि ॥
भीतस्य रुदितस्यान्नं अवक्रुष्टं परिक्षतम् ।
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ॥
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ।
अप्रजानान्तु नारीणां कृतघ्नस्य तथैव हि ॥
कन्दुकान्नं विशेषेण शस्त्रविक्रायणस्तथा ।
शौण्डान्नं नालिकान्नञ्च भिषजामन्नमेव च ।
विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ॥
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।
अवज्ञातञ्चावधूतं सरोषं विस्मयान्वितम् ।
गुरावपि न भोक्तव्यमन्नं सत्कारवर्जितम् ॥
दुग्कुतं हि मनुष्यस्य सर्व्वमन्नेष्वनुष्ठितम् ।
यो यस्यान्नेन जीवेत स तस्याश्नाति किल्विषम् ॥”
“आभीरः कुलमित्रञ्च गोपालो दासनापितौ ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥
कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च ।
एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥”
इति कौर्म्मे उपविभागे १६ अध्यायः ॥
तस्य मुख्यत्वं पारिभाषिकत्वञ्च यथा, --
“तण्डुलोऽम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् ।
फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥”
इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥
(धनम् । यथा, मनौ । ११ । ७ ।
“यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥”
“भक्तं धनम् ।” इति तद्भाष्ये मेधातिथिः ।)

भक्तः, त्रि, (भजते स्मेति । भजसेवायां + क्तः ।)

तत्परः । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । १ । १७३ । १४ ।
“न त्वां दृष्ट्वा पुनरन्यां द्रष्टुं कल्याणि ! रोचये ।
प्रसीद वशगोऽहन्ते भक्तं मां भज भाविनि ! ॥”
पूज्यविषयकानुरागो भक्तिस्तद्वांश्च ।) अथ
श्रीभगवद्भक्तलक्षणानि । लिङ्गपुराणे ।
“व्रतकर्म्मगुणज्ञानभोगजन्मादिमत्स्वपि ।
शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥
श्रीभागवते एकादशस्कन्धे । उत्तमभक्ता यथा,
“ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि
यादृशः ।
भजन्त्यनेन भावेन ते मे भक्ततमा मताः ॥”
मध्यमभक्तो यथा, --
“ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥”
प्राकृतभक्तो यथा, --
“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥”
इति श्रीहरिभक्तिविलासः ॥
अपि च ।
“भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ! ।
येषां स्पर्शनसन्दर्शात् सद्यः पूतो नराधमः ॥
हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः ।
स्वप्रशंसारता धूर्त्ताः शठाश्च साधुनिन्दकाः ॥
पुनन्ति सर्व्वतीर्थानि येषां स्नानावगाहनात् ।
येषाञ्च पादरजसा पूता पादोदकान्मही ॥
येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते ।
सर्व्वेषां परमो लाभो वैष्णवानां समागमः ॥
न ह्यग्नयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन विष्णुभक्तः क्षणादहो ! ॥
सौतिरुवाच ।
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः ।
निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे ॥
श्रीनारायण उवाच ।
भक्तानां लक्षणं लक्ष्मि ! गूढं श्रुतिपुराणयोः ।
पुण्यस्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् ।
सारभूतं गोपनीयं न वक्तव्यं खलेषु च ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ।
वेदान्तवेदवेदाङ्गास्तं पवित्रं वदन्ति हि ॥
पुरुषाणां शतं प्रूर्ब्बं पूतं तज्जन्ममात्रतः ।
स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात् ॥
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु ।
जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम् ॥
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।
मदगुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम् ॥
सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव च ।
न वाञ्छन्ति सुखं मुक्तिं सालोक्यादिचतुष्टयीम् ॥
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ।
इन्द्रत्वञ्च मनुत्वञ्च देवत्वञ्च सुदुर्लभम् ॥
स्वर्गराज्यादिभोगञ्च स्वप्ने च नहि वाञ्छति ।
ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ।
कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति ।
भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ॥
तेऽपि यान्ति महीं पूत्वा नवं तीथ ममालयम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५ अध्यायः ॥
अपि च ।
“रतिः कृष्णकथयाञ्च यस्याश्रुपुलकोद्गमः ।
मनो निमग्नं यस्यैव स भक्तः कथिता बुधैः ॥
पुत्त्रदारादिकं सर्व्वं जानाति श्रीहरेरपि ।
आत्मना मनसा वाचा स भक्तः कथितो बुधैः ॥
दयास्ति सर्व्वभूतेषु सर्व्वं कृष्णमयं जगत् ।
यो जानाति महाज्ञानी स भक्तो वैष्णवोत्तमः ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥
भगवद्भक्ता यथा, तत्रैव ३ अध्याये ।
मद्भक्ताश्चैव निःशङ्का कर्म्मनिर्मूलकारकाः ।
नाहं शक्तश्च भक्तानां संहारे नित्यदेहिनाम् ॥
भक्ता ममानुगा नित्यं मत्पादानततत्पराः ।
अहं भक्तान्तिके नित्यं तेषां रक्षणहेतवे ॥
सर्व्वे नश्यन्ति ब्रह्माण्डे प्रभवन्ति पुनः पुनः ।
न भे भक्ताः प्रणश्यन्ति निःशङ्काश्च निरापदः ॥
हरिभक्तिमाहात्म्यं यथा, --
द्विजानां हरिभक्तानां प्रभावो दुर्लभः श्रुतौ ।
येषां पादाब्जरजसा सद्यः पूता वसुन्धरा ॥
तेषाञ्च पादचिह्नं यत्तीर्थं तत् परिकीर्त्तितम् ।
तेषाञ्च स्पर्शमात्रेण तीर्थपापं प्रणश्यति ॥
आलिङ्गनात् सदालापात्तेषामुच्छिष्टभोजनात् ।
दर्शनात् स्पर्शनाच्चैव सर्व्वपापात् प्रमुच्यते ॥
भ्रमणे सर्व्वतीर्थानां यत् पुण्यं स्रानतो भवेत् ।
हरिदासस्य विप्रस्य तत् पुण्यं दर्शनाल्लभेत् ॥
इति तत्रैव २१ अध्यायः ॥
त्रिविधभक्तलक्षणं यथा, --
भक्तानां त्रिविधानाञ्च लक्षणं श्रूयतामिति ।
तृणशय्यारतो भक्तो मन्नामगुणकीर्त्तिषु ॥
मनो निवेशयेत्त्यक्त्वा संसारसुखकारणम् ।
दास्यं विना न हीच्छन्ति सालोक्यादिचतुष्टयम् ॥
नैव निर्व्वाणमुक्तिञ्च सुधापानमभीप्सितम् ।
ध्यायते मत्पदाब्जञ्च पूजयेद्भक्तिभावतः ॥
श्रीहेतुः किं तस्य देवः सङ्कल्परहितस्य च ।
सर्व्वसिद्धिं न वाञ्छन्ति तेऽणिमादिकमीप्सितम् ॥
पृष्ठ ३/४६३
ब्रह्मत्वममरत्वं वा सुरत्वं सुखकारणम् ।
वाञ्छन्ति निश्चलां भक्तिं मदीयामतुलामपि ॥
स्त्रीपुंविभेदो नास्त्येवं सर्व्वजीवेषु भिन्नता ।
तेषां सिद्धेश्वराणाञ्च प्रवराणां व्रजेश्वर ! ॥
क्षुत्पिपासादिकां निद्रां लोभमोहादिकं रिपुम् ।
त्यक्त्वा दिवानिशं माञ्च ध्यायते च दिगम्बरः ॥
स मद्भक्तोत्तमो नन्द ! श्रूयतां मध्यमादिकम् ॥”
“नासक्तः कर्म्मसु गृही पूर्ब्बप्राक्तनतः शुचिः ॥
करोति सततञ्चैव पूर्ब्बकर्म्मनिकृन्तनम् ।
न करोत्यपरं यत्नात् सङ्कल्परहितश्च यः ॥
सर्व्वं कृष्णस्य यत्किञ्चिन्नाहं कर्त्ता च कर्म्मणः ।
कर्म्मणा मनसा वाचा सततं चिन्तयेदिति ॥
न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः श्रूतौ ।
यमं वा यमदूतं वा स्वप्नेन च न पश्यति ॥
पुरुषाणां सहस्रञ्च पूर्ब्बं भक्तः समुद्धरेत् ।
पुंसां शतं मध्यमश्च तच्चतुर्थञ्च प्राकृतः ॥
भक्तश्च त्रिविधस्तात ! कथितश्च तवाज्ञया ॥”
इति तत्रैव ८४ अध्यायः ॥
कृष्णभक्तशरीरें तीर्थादीनि यथा, --
“पृथिव्यां यानि तीर्थानि पुण्यान्यपि च
जाह्नवि ! ।
मद्भक्तानां शरीरेषु सन्ति पूतेषु सन्ततम् ॥
मद्भक्तपादरजसा सद्यः पूता वसुन्धरा ।
सद्यः पूतानि तीर्थानि सद्यः पूतं जगत्तथा ॥
मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः ।
मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाः
प्रियाः ।
तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः ।
कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले ॥
एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु च ।
मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२८ अः ॥
भगवद्भक्तमाहात्म्यं यथा, --
“संस्मृतः कीर्त्तितो वापि दृष्टः स्पृष्टोऽपि वा
प्रिये ! ।
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥”
इति वाराहे उपविभागे प्रबोधिनीमाहा-
त्म्यम् ॥ हरिभक्तकर्त्तव्यानि यथा, --
“हरेश्चरितमीशस्य सर्व्वलोकेषु कीर्त्तनम् ।
वैष्णवेषु च कार्ष्णेषु भक्तः कुर्य्यादहर्निशम् ॥
दासीर्दासांश्च यत्किञ्चित् स्वकीयं वस्तु चात्मनः ।
कृष्णभक्तस्य गार्हस्थ्यं सर्व्वं कृष्णे निवेदनम् ॥”
भक्तस्य लक्षणान्तरं यथा, --
“प्रेम्णा संजातया भक्त्या तनुमुत्पुलकाञ्जनः ।
विभर्त्त्यलौकिकं भक्तो वदेद्ध्वसति नृत्यति ॥
परमानन्दयुक्तोऽसौ क्वचिद्गायति नन्दति ।
क्रन्दत्यच्युतभावेन गद्गदेन पुनः पुनः ॥
अनुशीलयति भजेत् गोविन्दमनुमोदते ।
तरेदेवं विष्णुमायां दुस्तरां मुनिमोहिनीम् ॥
सर्व्वत्रेश्वरबुद्ध्या यो भजेदीशं सनातनम् ।
स तत्त्ववादी भक्तश्च सर्व्वभूतसुहृत्तमः ॥”
इति पाद्मोत्तरखण्डे १०१ अध्यायः ॥ * ॥
भक्तत्यागे दोषो यथा, --
“ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा ।
तुल्यमेभिर्महापापं भक्तत्यागादुदाहृतम् ॥
भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः मुखम् ।
नेह नामुत्र पश्यामि तस्मात् शक्त ! दिवं व्रज ॥”
इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानम् ॥
(कृतविभागः । यथा, लीलावत्याम् ।
“भक्तो हरः शुध्यति यद्गुणः स्यात् ॥”)

भक्तकरः, पुं, (भक्तं भजनं करोतीति । कृ + टः ।)

कृत्रिमधूपः । यथा, शब्दचन्द्रिकायाम् ।
“वृकधूपे भक्तकरो गिरिः स्यात् समगन्धकः ॥”
भक्तकारके त्रि ॥

भक्तकारः, त्रि, (भक्तमन्नं करोतीति । कृ +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) पाचकः ।
भक्तमन्नं करोति पचति यः । तत्पर्य्यायः ।
सूदः २ औदनिकः ३ गुणः ४ भक्ष्यंकारः ५
सूपकारः ६ सूपः ७ आरालिकः ८ वल्लवः ९ ।
इति हेमचन्द्रः ॥

भक्तता, स्त्री, भक्तत्वम् । भक्तस्य भाव इत्यर्थे

(तल्) तप्रत्ययेन निष्पन्ना ॥

भक्ततूर्य्यं, क्ली, (भक्तस्य तद्भोजनकालस्यावेदकं

यद्वा भक्ते तद्भोजनकाले वादनीयन्तूर्य्यम् ।)
भोजनकाले वादनीयतूर्य्यम् । तत्पर्य्यायः । नृप-
मानम् २ । इति त्रिकाण्डशेषः ॥

भक्तदासः, पुं, (भक्तेनान्नमात्रेण दासः ।) पञ्च-

दशदासान्तर्गतदासविशेषः । यथा, --
“भक्तदासश्च विज्ञेयस्तथैव बडवाकृतः ।
सुभिक्षेऽपि भक्तेनाङ्गीकृतदास्यः । इति दाय-
क्रमसंग्रहः ॥ (यथा, मनौ । ८ । ४१५ ।
“ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्त्रिको दण्डदासश्च सप्तैते दासयोनयः ॥”)

भक्तमण्डः, पुं, क्ली, (भक्तस्यान्नस्य मण्डः ।) अन्नाग्र-

रसः । भातेर माड इति भाषा । तत्पर्य्यायः ।
मासरः २ आचामः ३ निःस्रावः ४ । इत्य-
मरः ॥ (भक्तस्य भजनशीलस्य मण्डोभूषणम् ।)
पिच्छा ५ । इति जटाधरः ॥

भक्तिः, स्त्री, (भज्यते इति । भज + क्तिन् ।)

विभागः । सेवा । इति मेदिनी । ते, ३९ ॥
गौणवृत्तिः । भङ्गी । (अनुरागविशेषः । पूज्ये-
ष्वनुरागो भक्तिरित्युपदेशः ॥ ईश्वरे परानुरक्तिः ।
“अथातो भक्तिजिज्ञासा सा परानुरक्ति-
रीश्वरे ।” इति शाण्डिल्यसूत्रम् ॥ उपासना ॥
परमेश्वरविषये परमप्रेम । उपास्याकारा-
कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या-
सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥
“नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि-
पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥
यथा, विष्णुपुराणे । १ । २० । १८-१९ ।
“नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ।
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥”
“हे अच्युत ! त्वयि मे अच्युता ऐकान्तिकी
भक्तिरस्तु । एकान्तभक्तिः परमप्रीत्यधीनेति
तां प्रीतिं प्रार्थयते येति यादृशी प्रीतिर्विषयेषु
आसक्तानां सा तादृशी प्रीतिर्मे हृदयात
मापसर्पतु मापयातु हृदये सदा तिष्ठत्वित्यर्थः ॥”
इति तट्टीकायां श्रीधरस्वामी ॥ चन्दनादिभि-
स्तिलकादिरचना । यथा, रघौ । १३ । ५५ ।
क्वचित् खगानां प्रियमानसानां
कादम्बसंसर्गषतीव पंक्तिः ।
अन्यत्रकालागुरुदत्तपत्रा
भक्तिर्भवश्चन्दनकल्पितेव ॥”)
श्रद्धा । इति हेमचन्द्रः ॥ (भक्तिविवरणं
यथा, --
“भज इत्येष वै धातुः सेवायां परिकीर्त्तितः ।
तस्मात् सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी ॥
इति गारुडे २३१ अध्यायः ॥ * ॥
अथ श्रीमद्भक्तिलक्षणं तृतीये श्रीकापिलेये ।
“देवानां गुणलिङ्गानामानुश्रविककर्म्मणाम् ।
सत्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीवसी ॥
अथ विशेषलक्षणानि । श्रीगौतमीयतन्त्रे ।
“देवतायाञ्च मन्त्रे च तथा मन्त्रप्रदे गुरौ ।
भक्तिरष्टविधा यस्य तस्य कृष्णः प्रसीदति ॥
तद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् ।
सुमना अर्च्चयेन्नित्यं तदर्थे दम्भवर्जनम् ॥
तत्कथाश्रवणे रागस्तदर्थे चाङ्गविक्रिया ।
तदनुस्मरणं नित्यं यस्तन्नाम्नोपजीवति ॥
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते ।
स मुनिः सत्यवादी च कीर्त्तिमान स भवेन्नरः ॥”
सप्तमस्कन्धे श्रीप्रह्लादोक्तौ ।
“श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्च्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियते भगवत्यध्वा तन्मन्येऽधीतमुत्तमम् ॥”
तत्रैव श्रीनारदयुधिष्ठिरसंवादे ।
“श्रवणं कीर्त्तनञ्चास्य स्मरणं महतां गतेः ।
सेवेज्यावनतिर्दास्यं सख्यमात्मनिवेदनम् ॥”
पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेशसंवादे ।
“श्रवणं कीर्त्तनं पूजा सर्व्वकर्म्मार्पणं स्मृतिः ।
परिचर्य्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥”
तत्रैवोत्तरखण्डे शिवपार्व्वतीसंवादे ।
“आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ।
धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥
अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा ।
कीर्त्तनं श्रवणञ्चैव बन्दनं पादसेवनम् ।
तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥
तदीयानाञ्च संसेवा द्वादशीव्रतनिष्ठता ।
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥
भक्तिः षोडशधा प्रोक्ता भववन्धविमुक्तये ॥”
इति च ।
किञ्च ।
“दर्शनं भगवन्मूर्त्तेः स्पर्शनं क्षेत्रसेवनम् ।
पृष्ठ ३/४६४
आघ्राणं धूपशेषादेर्निर्माल्यस्य च धारणम् ॥
नृत्यं भगवदग्रे च तथा वीणादिवादनम् ।
कृष्णलीलाद्यभिनयः श्रीभागवतसेवनम् ॥
पद्माक्षमालादिधृतिरेकादश्यादिजागरः ।
प्रासादरचनाद्यन्यज्ज्ञेयं शास्त्रानुसारतः ॥
लिखिता भगवद्धर्म्मा भक्तानां लक्षणानि च ।
तानि ज्ञेयानि सर्व्वाणि भक्तेर्वै लक्षणानि च ॥
तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः ।
बहिरङ्गान्तरङ्गाणि प्रेमसिद्धौ च तानि
यत् ॥
भेदास्तु विविधा भक्तेर्भक्तभावादिभेदतः ।
मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम् ॥
प्रेमभक्तौ च सिद्धायां सर्व्वेऽर्थाः सेवकाः स्वयम् ॥
भगवांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुल-
क्षणम् ॥”
अथ प्रेमभक्तिलक्षणम् । नारदपञ्चरात्रे ।
“अनन्यममता विष्णौ ममता प्रेमसङ्गता ।
भक्तिरित्युच्यते भीष्म ! प्रह्नादोद्धवनारदैः ॥
प्रेमभक्तेश्च माहात्म्यं भक्तेर्माहात्म्यतः परम् ।
सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥
चिह्नानि प्रेमसम्पत्तेर्बाह्यान्याभ्यन्तराणि च ।
कियन्त्युल्लिखितान्यस्या महिमैव विलिख्यते ॥”
अथ प्रेमसम्पत्तिचिह्नानि सप्तमस्कन्धे श्रीप्रह्रा-
दस्य बालानुशासने ।
“निशम्य कर्म्माणि गुणानतुल्यान्
वीर्य्याणि लीलातनुभिः कृतानि ।
यद्वातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति नृत्यते च ॥
यदा ग्रहग्रस्त इव क्वचिद्धसत्या-
क्रन्दति ध्यायति बन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे ! जगत्पते !
नारायणेत्यात्ममतिर्गतत्रपः ॥
तदा पुमान् मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः ।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधीक्षजम् ॥”
एकादशे च श्रीकवियोगेश्वरोत्तरे ।
शृण्वन् सुभद्राणि रथाङ्गपाणे-
र्जन्मानि कर्म्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
गायन् विलज्जो विचरेदसङ्गः ॥
एवंव्रतः स्वप्रियनामकीर्त्त्या
जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गाय-
त्युन्मादवन्नृत्यति लोकबाह्यः ॥”
तत्रैव श्रीप्रबुद्धयोगेश्वरोत्तरे ।
“स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हारम् ।
भक्त्या संजातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥
क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि-
द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तष्णीं परमेत्य निर्वृताः ॥
श्रीभगवदुद्धवसंवादे च ।
“कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्दाश्रुकलया शुद्धेद्भक्त्या विनाशयः ॥
वाग्गद्गदा द्रवते यस्य चित्तं
रोदित्यभीक्षणं हसति क्वचिच्च ।
विलज्ज उद्गायति नृत्यते च
मद्भक्तियुक्तो भुवनं पुनाति ॥
यथोक्तभक्त्यशक्तौ तु भगवच्चरणाम्बुजम् ।
शरणागतभावेन कृत्स्नभीतिघ्नमाश्रयेत् ॥”
इति हरिभक्तिविलासे ११ विलासः ॥
अपि च । उत्तमभक्तेर्लक्षणं यथा, --
“अन्याभिलासिताशून्यं ज्ञानकर्म्माद्यनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥
तथा नारदपञ्चरात्रे ।
“सर्व्वोपाधिविनिर्भुक्तं तत्परत्वेन निर्म्मलम् ।
हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥”
श्रीभागवतस्य तृतीयस्कन्धे च ।
“अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ।
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ॥
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ।
स एव भक्तियोगाख्य आन्त्यन्तिक उदाहृतः ॥”
इति ॥
सा उत्तमा भक्तिः षड्विधा यथा, --
“क्लेशघ्नी शुभदा मोक्षलघुताकृत् सुदुर्लभा ।
सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षणी च सा ॥”
तत्रास्याः क्लेशघ्नत्वम् ।
“क्लेशास्तु पापं तद्बीजमविद्या चेति ते त्रिधा ॥”
शुभदत्वं यथा, --
“शुभानि प्रीणनं सर्व्वजगतामनुरक्तता ।
सद्गुणाः सुखमित्यादीन्याख्यातानि मनी-
षिभिः ॥”
मोक्षलघुताकृद्यथा, --
“मनागेव प्ररूढायां हृदये भगवद्रतौ ।
पुरुषार्थास्तु चत्वारस्तृणायन्ते समन्ततः ॥”
सुदुर्लभा यथा, --
“साधनौघैरनासङ्गैरलभ्या सुचिरादपि ।
हरिणाचाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥”
सान्द्रानन्दविशेषात्मा यथा, --
“ब्रह्मानन्दो भवेदेष चेत् परार्द्धगुणीकृतः ।
नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि ॥”
श्रीकृष्णाकर्षणी यथा ।
“कृत्वा हरिम्प्रेमभाजम्प्रियवर्गसमन्वितम् ।
भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षणी च सा ॥”
सा उत्तमा भक्तिस्त्रिधा यथा, --
“सा भक्तिः साधनं भावः प्रेमा चेति त्रिधो-
दिता ॥”
साधनभक्तिर्यथा, --
“कृतिसाध्या भवेत् साध्यभावा सा साधनाभिधा ।
नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥”
भावभक्तिर्यथा, --
“शुद्धसत्त्वविशेषात्मा प्रेमसूर्य्यांशुसाम्यभाक् ।
रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥”
प्रेमभक्तिर्यथा, --
“सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥”
इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥

भक्तिमान् [त्] त्रि, (भक्तिरस्यास्तीति । भक्ति +

“तदस्यास्त्यस्मिन्निति मतुप् ।” ५ । २ । ९४ ।
इति मतुप् ।) भक्तियुक्तः । यथा, --
“गुणवान् पुत्त्रवान् श्रीमान् कीर्त्तिमान् भक्ति-
मान् भवेत् ।
ऐहिके परमैश्वर्य्यमन्ते नाथपदं व्रजेत् ॥”
इति शाम्भवीतन्त्रान्तर्गतमहाकालभैरवस्तोत्रम् ॥
अपि च ।
“अन्येऽपि ये विकर्म्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रसुच्यन्ते कालेन मयि सम्मताः ॥”
इति कौर्म्मे ४ अध्यायः ॥

भक्तियोगः, पुं, (भक्तेर्योगः भक्त्या यो योग इति

वा ।) परमेश्वरे भजनसम्बन्धः । यथा, --
“भक्तियोगप्रकाशाय लोकस्यानुग्रहाय च ।
सन्न्यासाश्रममाश्रित्य कृष्णचैतन्यनामधृक् ॥”
इति चैतन्यभागवतम् ॥
अपि च ।
“वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम् ॥”
इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥
(भक्तियोग उच्यते । यथा, गीतायाम् । १२ ।
१-२ । १४-२० ।
“एवं सततयुक्ता ये भक्तास्त्वां पर्य्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
श्रीभगवानुवाच ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ १४ ॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्व्वारम्भपरित्यागी यो मे भक्तः स मे
प्रियः ॥ १६ ॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान् यः स मे
प्रियः ॥ १७ ॥
समः शत्री च मित्रे च तथामानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्ज्जितः ॥ १८ ॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो
नरः ॥ १९ ॥
ये तु घर्म्मामृतमिदं यथोक्तं पर्य्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे
प्रियाः ॥” २० ॥

भक्तिरसः, पुं, भक्तिरेव रसः । यथा, --

“विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः ।
पृष्ठ ३/४६५
एषा कृष्णरतिः स्थायीभावा भक्तिरसो भवेत् ॥”
इति भक्तिरसामृतसिन्धुः ॥

भक्तिलः, पुं, (भक्तिं भङ्गीं लातीति । ला + कः ।)

साधुघोटकः । यथा, --
प्रभुभक्ता भक्तिलाश्च कुलीनेषु कुलोत्कटाः ।
इति शब्दचन्दिका ॥
भक्तिदातरि त्रि ॥

भक्ष क भक्षे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क भक्षयति । इति
दुर्गादासः ॥

भक्ष ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) ञ भक्षति भक्षते । इति
दुर्गादासः ॥

भक्षकः, त्रि, (भक्षयतीति । भक्ष + “ण्वुल्तृचौ ।”

३ । १ । १३३ । इति ण्वुल् ।) खादकः । भक्षण-
परः । तत्पर्य्यायः । घस्मरः २ अद्मरः ३ । इत्य-
मरः । ३ । १ । १२० ॥ (यथा, हितोपदेशे । १ । १३५ ।
“भक्ष्यभक्षकयोः प्रीतिर्विपत्तेः कारणं महत् ।
शृगालात् पाशबद्धोऽसौ मृगः काकेन
रक्षितः ॥”)

भक्षटकः, पुं, (भक्ष + अटन् । ततः संज्ञायां

कन् ।) क्षुद्रगोक्षुरकः । इति राजनिर्घण्टः ॥

भक्षणं, क्ली, (भक्ष + भावे ल्युट् ।) द्रवेतरद्रव्य-

गलाधःकरणम् । तत्पर्य्यायः । न्यादः २
स्वदनम् ३ खादनम् ४ अशनम् ५ निघसः ६
वल्भनम् ७ अभ्यवहारः ८ जग्धिः ९ जक्षणं १०
लेहः ११ प्रत्यवसानम् १२ घसिः १३ आहारः १४
प्सानम् १५ अवष्वाणम् १६ विष्वाणम् १७
भोजनम् १८ जेमनम् १९ अदनम् २० ।
इति हेमचन्द्रः ॥ द्रव्यविशेषस्य भक्षणनिषेधो
यथा, कर्म्मलोचने ।
“शणशाकं वृथामांसं करेण मथितं दधि ।
तर्ज्जन्या दन्तधावश्च सद्यो गोमांसभक्षणम् ॥”

भक्षणीयं, त्रि, (भक्ष + अनीयर्) भक्ष्यद्रव्यम् ।

भक्षणयोग्यम् । इति भक्षधातोः कर्म्मण्यनीय-
प्रत्ययेन निष्पन्नम् । इति व्याकरणम् ॥ (यथा,
पञ्चतन्त्रे । ४ । २५ । “तन्न भेतव्यम् । त्वद्वचनेन
भक्षणीयास्ते दायादाः ।”) तत्स्थापनविधि-
र्यथा, पाकराजेश्वरे ।
“पुरस्ताद्विमलं पात्रं सुविस्तीर्णं मनोरमम् ।
तत्र भक्तं परिण्यस्तं मध्यभागे सुसंयुतम् ॥
सूपं सर्पिः पलं शाकं पिष्टमन्नन्तु मत्स्यकम् ।
स्थापयेद्दक्षिणे पार्श्वे भुञ्जानस्य यथाक्रमम् ॥
प्रलेहाद्याः द्रवाः सर्व्वे पानीयं पानकं पयः ।
चोष्यं सन्धानकं लेह्यं सव्यपार्श्वे निधापयेत् ॥
सर्व्वान् इक्षुविकारांश्च पक्वान्नं पायसं दधि ।
पुरतः स्थापयेद्भोक्तुर्द्वयोः पंक्त्योश्च मध्यतः ॥”

भक्ष(क्ष्य)पत्रा, स्त्री, (भक्षं वा भक्ष्यं भक्षणीयं

पत्रमस्याः ।) नागवल्ली । इति राजनिर्घण्टः ॥
(गुणादिविवृतिरस्या नागवल्लीशब्दे ज्ञातव्या ॥)

भक्षितं, त्रि, (भक्ष्यते स्मेति । भक्ष + कर्म्मणि

क्तः ।) कृतभक्षणवस्तु । (यथा, हितोपदेशे । १ ।
“भक्षितेनापि भवता नाहारो मम पुष्कलः ॥”)
तत्पर्य्यायः । चर्व्वितम् २ लिप्तम् ३ प्रत्यवसितम्
४ गिलितम् ५ खादितम् ६ प्सातम् ७ अभ्यव-
हृतम् ८ अन्नम् ९ जग्धम् १० ग्रस्तम् ११
ग्लस्तम् १२ अशितम् १३ भुक्तम् १४ । इत्यमरः ।
३ । २ । ११० ॥ जक्षितम् १५ । इति शब्दरत्नावली ॥

भक्ष्यं, त्रि, (भक्ष्यते इति । भक्ष + ण्यत् ।) भक्षि-

तव्यम् । भक्षणीयम् । यथा । ‘प्रतिपदि कुष्माण्डं
न भक्ष्यम् । दशम्यां कलम्बी न भक्ष्या ।’ इति
स्मृतिसर्व्वस्वम् ॥ अपि च, हितोपदेशे ।
“मासमेकं नरो याति द्वौ मासौ मृगशूकरौ ।
अहिरेकदिनं याति अद्य भक्ष्यो धनुर्गुणः ॥”
(भक्ष्यद्रव्याणि तेषां गुणादिकञ्च यथा, --
“वक्ष्याम्यतःपरं भक्ष्यान् रसवीर्य्यविपाकतः ।
भक्ष्याः क्षीरकृतावल्या वृष्या हृद्याः सुगन्धिनः ॥
अदाहिनः पुष्टिकराः दीपनाः पित्तनाशनाः ॥
तेषां प्राणकरा हृद्या घृतपूराः कफावहाः ।
वातपित्तहरा वृष्या गुरवो रक्तमांसलाः ॥
वृंहणा गौडिकाभक्ष्या गुरवोऽनिलनाशनाः ।
अदाहिनः पित्तहराः शुक्रलाः कफवर्द्धनाः ॥
मधुमस्तकसंयावाः पूपा ह्येते विशेषतः ।
गुरवो वृंहणाश्चैव मोदकास्तु सुदुर्ज्जराः ॥
रोचनो दीपनः स्वर्य्यः पित्तघ्नः पवनापहः ।
गुरुर्भृ ष्टतमश्चैव सट्टकः प्राणवर्द्धनः ॥
हृद्यः सुगन्धिर्मधुरः स्निग्धः कफकरो गुरुः ।
वातापहस्तृप्तिकरो बल्यो विष्यन्दनः स्मृतः ॥
वृंहणा वातपित्तघ्ना भक्ष्या वल्यास्तु सामिताः ।
हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥
मुद्गादिवेशवाराणां पूर्णा विष्टम्भिनो मताः ।
वेसवारैः सपिशितैः सम्पूर्णा गुरुवृं हणाः ॥
पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ।
वीर्य्योष्णाः पैष्टिका भक्ष्याः कफपित्त प्रकोपणाः ॥
विदाहिनो नातिवला गुरवश्च विशेषतः ।
वैदला लघवो भक्ष्याः कषायासृष्टमारुताः ॥
विष्टम्भिनः पित्तसमाः श्लेष्मध्ना भिन्नवर्च्चसः ।
बल्या वृष्यास्तु गुरवो विज्ञेया माषसाधिताः ॥
कूर्च्चिका विकृता भक्ष्या गुरवो नातिपित्तलाः ।
विरूढककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥
विदाहोत्क्लेशजनना रूक्षा दृष्टिप्रदूषणाः ।
हृद्याः सुगन्धिनो वृष्या लघवो धृतपाचिताः ॥
वातपित्तहरावल्या वर्णदृष्टिप्रसादनाः ।
विदाहिनस्तैलकृता गुरवः कटुपाकिनः ॥
उष्णा मारुतदृष्टिघ्नाः पित्तलास्त्वक्प्रदूषणाः ।
फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः ॥
भक्ष्या बल्यास्तु गुरवो वृं हणा हृदयप्रियाः ।
कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ॥
सुपक्वास्तनवश्चापि भूयिष्ठं लघवो मताः ।
सकिलाटादयो भक्ष्या गुरवः कफवर्द्धनाः ॥”
“आप्तान्वितमसंकीर्णं शुचिकार्य्यं महानसम् ॥
तत्राप्तैर्गुणसम्पन्नमन्नं भक्ष्यं सुसंस्कृतम् ।
शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक् ॥”
“घृतं कार्ष्ण्यायसे देयं पेया देया तु राजते ॥
फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्वैदलेषु च ।
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥
प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ।
कट्वराणि खडांश्चैव सर्व्वान् शैलेषु दापयेत् ॥
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च ।
दद्याद्वैदूर्य्यपात्रेषु रागषाडवसट्टकान् ॥
पुरस्ताद्विमले पात्रे मुविस्तीर्णे मनोरमे ।
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥
फलानि सर्व्वभक्ष्यांश्च परिशुष्कानि यानि च ।
तानि दक्षिणपार्श्बे तु भुञ्जानस्योपकल्पयेत् ॥
प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः ।
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥
सर्व्वान् गुडविकारांश्च रागषाडवसट्टकान् ।
पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

भक्ष्यकारः, त्रि, (भक्ष्यं भक्ष्यद्रव्यं करोतीति ।

कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।)
पिष्टकविक्रयजीवी । पिष्टकशिल्पी । इतिभरतः ॥
तत्पर्य्यायः । आपूपिकः २ कान्दविकः ३ ।
इत्यमरः । २ । ९ । २८ ॥ पूपिकः ४ पूपविक्रयी ४
मोदकादिविक्रयी ६ । इति शब्दरत्नावली ॥

भक्ष्याभक्ष्यं, क्ली, (भक्ष्यमभक्ष्यञ्च ।) खाद्याखाद्य-

द्रव्यम् । यथा, --
“भक्ष्याभक्ष्याण्यनेकानि ब्राह्मणस्य विशेषतः ।
अत्र शिष्टा यथा ब्रूयुस्तथा कार्य्यविनिर्णयः ॥”
इत्येकादशीतत्त्वे शङ्खवचनम् ॥ * ॥
नारद उवाच ।
“भक्ष्यं किंवाप्यभक्ष्यञ्च द्बिजानां गृहिणां प्रभो ! ।
यतीनां वैष्णवानाञ्च विधवाब्रह्मचारिणाम् ॥
किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव च ।
सर्व्वं कथय सर्व्वज्ञ ! सर्व्वेश ! सर्व्वकारण ! ॥”
श्रीमहेश्वर उवाच ।
“कश्चित्तपस्वी विप्रश्च निराहारी चिरं मुनिः
कश्चित् समीरणाहारी फलाहारी च कश्चन ॥
अन्नाहारी यथा लोके गृही च गृहिणीयुतः ।
येषामिच्छा च या ब्रह्मन् ! रुचीनां विविधा
गतिः ॥
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा ।
नारायणोच्छिष्टमिष्टमनिवेद्यमभक्ष्यकम् ॥
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदनम् ।
विण्मूत्रं सर्व्वपापोक्तमन्नञ्च हरिवासरे ॥
ब्राह्मणः कामतोऽन्नञ्च यो भुङ्क्ते हरिवासरे ।
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ॥
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यञ्च नारद ! ।
गृहिभिर्ब्राह्मणैरन्नं संप्राप्ते हरिवासरे ॥
गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः ।
प्रयाति कालसूत्रञ्च भुक्त्वा च हरिवासरे ॥
क्रमिभिः शालमानैश्च भक्षितस्तत्र तिष्ठति ।
विण्मूत्रभक्षणं कृत्वा यावदिन्द्राश्चतुर्द्दश ॥
जन्माष्टमीदिने रामनवमीदिवसे हरेः ।
शिवरात्रौ च यो भुङ्क्ते सोऽपि द्बिगुणपातकी ॥
पृष्ठ ३/४६६
उपवासासमर्थश्चेत् फलमूलजलं पिबेत् ।
नष्टे शरीरे स भवेदन्यथा चात्मघातकः ॥
सकृद्भुङ्क्ते हविष्यान्नं विष्णोर्नैवेद्यमेव च ।
न भवेत् प्रत्यवायी स चोपवासफलं लभेत् ॥
एकादश्यामनाहारी गृही विप्राश्च भारत ! ।
ते च तिष्ठन्ति वैकुण्ठे यावद्वै ब्रह्मणो वयः ॥
गृहिणां शैवशाक्तानामिदमुक्तञ्च नारद ! ।
विशेषतो वैष्णवानां यतीनां ब्रह्मचारिणाम् ॥
नित्यं नैवेद्यभोजी च श्रीकृष्णस्य च वैष्णवः ।
नित्यं शतोपवासानां जीवन्मुक्तो लभेत् फलम् ॥
वाञ्छन्ति तस्य संस्पर्शं तीर्थानि सर्व्वदेवताः ।
आलापं दर्शनञ्चैव सर्व्वपापप्रणाशनम् ॥
द्विस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।
नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥
अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ।
ताम्बूलञ्च यथा ब्रह्मन् ! तथैते वस्तुनी ध्रुवम् ॥
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ।
तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम् ॥
सर्व्वेषां ब्राह्मणानाञ्च अभक्ष्यं शृणु नारद ! ।
यदुक्तं सामवेदे च हरिणा चाह्निकक्रमे ॥
ताम्रपात्रे पयःपानं उच्छिष्टे घृतभोजनम् ।
दुग्धं लवणसार्द्धञ्च सद्यो गोमांसभक्षणम् ॥
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
ऐक्षवं ताम्रपात्रस्थं मुरातुल्यं न संशयः ॥
उत्थाय वामहस्तेन यत्तोयं पिबति द्विजः ॥
सुरापीती स विज्ञेयः सर्व्वधर्म्मबहिष्कृतः ॥
अनिवेद्यं हरेरन्नं भक्ष्यशेषञ्च नित्यशः ।
पीतशेषं जलञ्चैव गोमांससदृशं मुने ! ॥
वातिङ्गनफलञ्चैव गोमांसं कार्त्तिके स्मृतम् ।
माघे च मूलकञ्चैव कलम्बी शयने तथा ॥
श्वेतवर्णञ्च तालञ्च मसूरं मत्स्य एव च ।
सर्व्वेषां ब्राह्मणानाञ्च त्याज्यञ्च सर्व्वदेशतः ॥
मत्स्यांश्च कामतो भुक्त्वा चोपवासं त्र्यहं वसेत् ।
प्रायश्चित्तं ततः कृत्वा शुद्धिमाप्नोति ब्राह्मणः ॥
प्रतिपत्सु च कुष्माण्डमभक्ष्यमर्थनाशनम् ।
द्वितीयायाञ्च वृहतीभोजको न स्मरेद्धरिम् ॥
अभक्ष्यञ्च पटोलञ्च शत्त्रुवृद्धिकरं परम् ।
तृतीयायाञ्चतुर्थ्याञ्च मूलकं धननाशकम् ॥
कलङ्ककारणञ्चैव पञ्चम्यां विल्वभक्षणम् ।
तिर्य्यग्योनिं प्रापयेत्तु षष्ठ्याञ्च निम्बभक्षणम् ॥
रोगवृद्धिकरञ्चैव सप्तम्यां तालभक्षणम् ।
नारिकेलफलं भक्ष्यमवृन्यां बुद्धिनाशनम् ॥
तुम्बी नवम्यां गोमांसं दशम्याञ्च कलम्बिका ।
एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा ॥
त्रयोदश्यान्तु वार्त्ताकीभक्षणं पुत्त्रनाशनम् ।
चतुर्द्दश्यां माषभक्षं महापापकरं परम् ॥
पञ्चदश्यां तथा मांसमभक्ष्यं गृहिणां मुने ! ।
गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिने दिने ॥
मांसञ्च रक्तशाकञ्च कांस्यपात्रे च भोजनम् ।
निषिद्धं शयने चैव कूर्म्ममांसञ्च प्रोक्षितम् ॥
रात्रौ च दधिभक्तञ्च शयनं सन्ध्ययोर्दिने ।
रजस्वलावीरान्नञ्च पुंश्चलीनामभक्ष्यकम् ॥
शूद्राणां याजकानाञ्च शूद्रश्राद्धान्नमेव च ।
अभक्षाणाञ्च विप्रर्षे ! यदन्नं वृषलीपतेः ॥
ब्रह्मन् ! वार्द्धुषिकान्नञ्च गणकानामभक्ष्यकम् ॥
अग्रदानीद्बिजानाञ्च चिकित्साकारकस्य च ।
हस्ताचित्राहरौ तैलमग्राह्यञ्चाप्यभक्ष्यकम् ।
मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः पाद्मे
स्वर्गखण्डे ३१ अध्यायश्च ॥
नारद उवाच ।
“वर्णानाञ्च चतुर्णाञ्च भक्ष्याभक्ष्यञ्च सांप्रतम् ।
विपाकं कर्म्मणाञ्चैव सर्व्वेषां प्राणिनामपि ॥
कथयस्व महाभाग ! कारणानाञ्च कारण ! ।
त्वत्तोऽन्यं कञ्च पृच्छामि नितान्तं सन्त-
मीश्वर ! ॥
श्रीभगवानुवाच ।
भक्ष्याभक्ष्यं चतुर्णाञ्च वर्णानाञ्च यथोचितम् ।
वेदोक्तं श्रूयतां तात ! सावधानं निशामय ॥
अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च ।
भृष्टादिकं मधु गुडं नारिकेलोदकं तथा ॥
फलं मूलञ्च यत्किञ्चिदभक्ष्यं मनुरब्रवीत् ।
दग्धान्नं तप्तसौवीरमभक्ष्यं ब्रह्मणा मतम् ॥
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
गव्यञ्च ताम्रपात्रस्थं सर्व्वं मद्यं घृतं विना ॥
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।
दुग्धं सलवणञ्चैव सद्यो गोमांसभक्षणम् ॥
अभक्ष्यं मधुमिश्रञ्च घृतं तैलं गुडं तथा ।
आर्द्रकं गुडसंयुक्तमभक्ष्यं श्रुतिसम्मतम् ॥
पीतशेषं जलञ्चैव माघे च मूलकं तथा ।
द्बिर्भोजनञ्च दिवसे सन्ध्ययोर्भोजनं तथा ॥
भक्ष्यञ्च रात्रिशेषे च ध्रुवं प्राज्ञः परित्यजेत् ।
पानीयं पायसं चूर्णं घृतं लवणमेव च ॥
स्वस्तिकं लवणञ्चैव क्षीरं तक्रं तथा मधु ।
हस्ताद्धस्तगृहीतञ्च सद्यो गोमांसभक्षणम् ॥
कर्पूरं रौप्यपात्रस्थमभक्ष्यं श्रुतिसम्मतम् ।
परिवेशनकारी चेद्भोक्तारं स्पृशते यदि ॥
अभक्ष्यञ्च तदन्नञ्च सर्व्वेषामेव सम्मतम् ।
नकुलानां गण्डकानां महिषाणाञ्च पक्षिणाम् ॥
सर्पाणां शूकराणाञ्च गर्द्दभानां विशेषतः ।
मार्जाराणां शृगालानां कुक्कुराणां ब्रजेश्वर ! ॥
व्याघ्राणामपि सिंहानां त्याज्यं मांसं नृणां सदा ।
जलौकसाञ्च नक्राणां गोधिकानां तथैव च ॥
मण्डूकानां कर्क्कटीनां चञ्चुकानाञ्च निश्चितम् ।
गवाञ्च चमरीणाञ्च कलौ मांसमभक्ष्यकम् ॥
हस्तिनां घोटकानाञ्च नृणामेव च रक्षसाम् ।
दंशश्च मशकश्चैव मक्षिका च पिपीलिका ॥
अन्येषाञ्च निषिद्धानां लोके वेदे ब्रजेश्वर ! ।
वानराणां भल्लूकानां शरभाणां तथैव च ॥
निषिद्धं मृगनाभीनां गर्द्दभानाञ्च मांसकम् ।
अभक्ष्यं महिषाणाञ्च दुग्धं दधि घृतं तथा ॥
स्वस्तिकञ्च तथा चक्रं विप्राणां नवनीतकम् ।
मांसमुच्चैःश्रवसकं तस्य दुग्धादिकं तथा ॥
वर्णानाञ्च चतर्णाञ्चाप्यभक्ष्यञ्च श्रुतौ श्रुतम् ।
अभक्ष्यमार्द्रकञ्चैव सर्व्वेषाञ्च रवेर्दिने ॥
पर्य्युषितं जलञ्चान्नं विप्राणां दुग्धमेव च ।
वर्णानाञ्च चतुर्णाञ्चावीरान्नस्य च भक्षणम् ॥
तदन्नञ्च सुरातुल्यं गोमांसाधिकमेव च ।
अवीरान्नञ्च यो भुङ्क्ते ब्राह्मणो ज्ञानदुर्ब्बलः ।
पितृदेवार्च्चनं तस्य निष्फलं मनुरब्रवीत् ॥
ब्राह्मणानां वैष्णवानामभक्ष्यं मत्स्यमेव च ।
इतरेषामभक्ष्यञ्च पञ्चपर्व्वसु निश्चितम् ॥
पितृदेवावशेषे च भक्ष्यं मासं न दूषितम् ।
पञ्चपर्व्वसु त्याज्यञ्च सर्व्वेषां मनुरब्रवीत् ॥
असंस्कृतञ्च लवणं तैलञ्चाभक्ष्यमेव च ।
भक्ष्यं पवित्रं सर्व्वेषां व्यञ्जने वह्रिसंस्कृतम् ॥
एकहस्ते घृतं तोयमभक्ष्यं सर्व्वसम्मतम् ।
आविलं कृमियुक्तञ्चापरिशुद्धन्त्वनिर्म्मलम् ॥
अभक्ष्यं ब्राह्मणानाञ्च वैष्णवानां विशेषतः ।
अनिवेद्यं हरेरेव यतीनां ब्रह्मचारिणाम् ॥
पिपीलिकामिश्रितञ्च मधु गव्यं गुडं तथा ।
यत्किञ्चिद्वस्तु वा तात ! न भक्ष्यञ्च श्रुतौ श्रुतम् ॥
पक्षिभक्ष्यं कीटभक्ष्यं शुद्धं पक्वफलन्तथा ।
काकभक्ष्यमभक्ष्यञ्च सर्व्वेषां द्रव्यमेव च ॥
घृतपक्वं तैलपक्वं मिष्टान्नं शूद्रसंस्कृतम् ।
अभक्ष्यं ब्राह्मणानाञ्च शूद्रभृष्टं चिपीटकम् ॥
सर्व्वेषामशुचीनाञ्च जलमन्नं परित्यजेत् ।
अशौचान्तात् परदिने शुद्धमेव न संशयः ॥
विपाकः कर्म्मणामेव दुष्करः श्रुतिसम्मतम् ।
भक्ष्याभक्ष्यञ्च कथितं यथाज्ञानं व्रजेश्वर ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ८५ अध्यायः ॥
“भक्ष्याभक्ष्यञ्च ते शिष्य ! वेदितव्यं तदन्तरे ।
करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च ॥
सद्यो भक्षी भवेत्तेन अभक्ष्या पूतिवासिका ।
न भक्षणीयं वाराहं मांसं मत्स्यश्च सर्व्वशः ॥
अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितैर्हि न संशयः ॥”
इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः ॥

भक्ष्यालायुः, स्त्री, (भक्ष्या भक्षार्हा अलावुः ।)

राजालावुः । इति राजनिर्घण्टः ॥

भगं, क्ली, पुं, (भज्यते अनेनास्मिन् वेति एतदा-

श्रित्यैव कन्दर्पं सेवते इति भावः । भजसेवा-
याम् + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ ।
११८ । इति घः । “खनो घ च ।” ३ । ३ । १२५ ।
घित्करणमन्यतोऽप्ययमिति विज्ञापनार्थम् इति
वृत्तिकृद्भट्टोजीदीक्षितः ।) स्त्रीचिह्नम् । तत्-
पर्य्यायः । योनिः २ । इत्यमरः । २ । ६ । ७६ ॥ वरा-
ङ्गम् ३ उपस्थः ४ स्मरमन्दिरम् ५ । इति राज-
निर्घण्टः ॥ (भजन्त्यनेनेति भगो मेहनम् । भज-
न्त्यस्मिन्निति भगं योनिः । अत्र भगशब्देन
द्वयमपि कथ्यते । इति भावप्रकाशस्य मध्यखण्डे
चतुर्थे भागे ॥
“ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्य्यस्तथाश्विनौ ।
भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम् ॥”
इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥)
रतिगृहम् ६ जन्मवर्त्म ७ अधरम् ८ अवाच्य-
देशः ९ प्रकृतिः १० अपथम् ११ स्मरकूपः १२
पृष्ठ ३/४६७
अप्रदेशः १३ प्रकूतिः १४ पुष्पी १५ संसारमार्गः
१६ गुह्यम् १७ स्मरागारम् १८ स्मरध्वजम् १९
रत्यङ्गम् २० रतिकुहरम् २१ कलत्रम् २२
अधः २३ । इति शब्दरत्नावली ॥ तस्य लक्ष-
णम् । यथा, --
“विस्तीर्णञ्च गभीरञ्च द्विविधं भगलक्षणम् ।”
तद्गुणा यथा, --
“कूर्म्मपृष्ठं गजस्कन्धं पद्मगन्धं सुकोमलम् ।
अकोमलं सुविस्तीर्णं पञ्चैते च भगोत्तमाः ॥”
तद्दोषा यथा, --
“शीतलं निम्नमत्युष्णं गोजिह्वासदृशं परम् ।
इत्युक्तं कामशास्त्रज्ञैर्भगदोषचतुष्टयम् ॥
विस्तीर्णे मुषलं योज्यं गभीरे वंशबीजकम् ।”
इति रतिमञ्जरी ॥
तस्य शुभाशुभलक्षणम् । यथा, --
“शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः ।
वामोन्नतस्तु कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥
आखुरोमा गूढमणिः स्वाश्लिष्टः संहतः पृथुः ।
तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥
कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः ।
रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥
शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति ।
चिपिटः कर्पराकारः किङ्करीपददो भगः ॥
वंशवेतसपत्राभो गजरोमोच्चनासिकः ।
विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥”
इति स्कान्दे काशीखण्डे ३७ अध्यायः ॥
श्रीः । वीर्य्यम् । इच्छा । ज्ञानम् । वैराग्यम् ।
कीर्त्तिः । माहात्म्यम् । ऐश्वर्य्यम् । (यथा,
भागवते । २ । ७ । ९ ।
“यद्वेणमुत्पथगतं द्विजवाक्यवज्र-
निष्प्लुष्टपौरुषभगं निरये पतन्तम् ॥”
“निष्प्लुष्टं दग्धं पौरुषं भगमैश्वर्य्यञ्च यस्य ।”
इति तट्टीकायां स्वामी ॥) यत्नः । धर्म्मः ।
मोक्षः । इति मेदिनी । गे, १४ ॥ पुंसां गुदमुष्क-
मध्यभागः । इति राजनिर्घण्टः ॥ श्रीः । यशः ।
सौभाग्यम् । (यथा, भागवते । १ । १७ । १० ।
“यस्य राष्ट्रे प्रजाः सर्व्वास्त्य्रस्यन्ते साध्व्य-
साधुभिः ।
तस्य मत्तस्य नश्यन्ति कीर्त्तिरायुर्भगो गतिः ॥”
“भगो भाग्यम् ।” इति तट्टीकायां स्वामी ॥)
कान्तिः । सूर्य्यः । शम्भुविशेषः । चन्द्रः । इत्य-
नेकार्थध्वनिमञ्जरी ॥ पूर्ब्बफल्गुनीनक्षत्रम् ।
यथा, ज्योतिस्तत्त्वे ।
“अक्षतामाषयुक्ताश्च भगे सर्पिस्तदुत्तरे ॥”

भगः पुं, (भज्यते इति । भजसेवायां + “पुंसि

संज्ञायां घ प्रायेण ।” ३ । ३ । ११८ । इति
घ । “खनो घ च ।” ३ । ३ । १२५ । इति
घित्करणाद् वा घ ।) रविः । इति मेदिनी ॥
गे, १४ । क्लीवेऽप्ययम् । यथा, --
“ज्ञानवैराग्ययोर्योनौ भगमस्त्री तु भास्करे ।”
इति रुद्रः ॥”
(भजनीये, त्रि । यथा, ऋग्वेदे । ३ । ३६ । ५ ।
“इन्द्रो भगो वाजदा अस्य गावः
प्रजायन्ते दक्षिणा अस्य पूर्ब्बी ॥”
“भगः सव्वैर्भजनीयः स इन्द्रः ।” इति तद्भाष्ये
सायनः ॥ द्वादशादित्यभेदः । यथा, ऋग्वेदे ।
२ । २७ । १ ।
“इमा गिर आदित्येभ्यो घृतस्नूः
सनाद्राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो अर्य्यमा भगो नस्तुवि
जातो वरुणो दक्षो अंशः ॥”
यथा च महाभारते । १ । ६५ । १५-१६ ।
“धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान् पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।
जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”
रुद्रांशो वीरभद्रोऽस्य भगस्य दक्षयज्ञेनेत्रे उत्-
पाटितवान् । यथा, भागवते । ४ । ५ । १८ ।
“भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सदस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥”
ऐश्वर्य्यादिषट्कम् । यदुक्तम् ।
“ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥”
भोगास्मदत्वम् । यथा, भागवते । १ । १६ । २९ ।
“प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्य्यं स्थैर्य्यमास्तिक्यं कीर्त्तिर्मानोऽनहं-
कृतिः ॥
“भगः भोगास्पदत्वम् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥ स्थूलमण्डलाभिमानी । यथा, रामा-
यणे । ३ । १२ । १८ ।
“विष्णोः स्थानं महेन्द्रस्य स्थानञ्चैव विवस्वतः ।
सोमस्थानं भगस्थानं स्थानं कौवेरमेव च ॥”
“भगः स्थूलमण्डलाभिमानी ।” इति तट्टीकायां
रामानुजः ॥)

भगणः, पुं, (भानां नक्षत्राणां गणः समूहः ।)

नक्षत्रसमूहः । शीघ्रगामिनां ग्रहाणामल्पेन
कालेन मन्दगामिनां ग्रहाणां महता कालेन
पूर्ब्बगत्या पातानां पश्चिमगत्या परिवर्त्तनेनाश्वि-
न्यादिरेवत्यन्तनक्षत्रभोगकालः । षष्टिविकलाभिः
कला षष्टिकलाभिर्भागस्त्रिंशभागैराशिर्द्वादश-
राशिभिर्भगणः । यथा, --
“शीव्रगस्तान्यथाल्पेन कालेन महताल्पगः ।
तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः ॥
विकलानां कलाषष्ट्या तत्षष्ट्या भाग उच्यते ।
तत्त्रिंशता भवेद्राशिर्भगणो द्बादशैव ते ॥
युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः
४३२०००० ।
कुजार्किगुरुशीघ्राणां भगणाः पूर्ब्बयायिनाम् ॥
इन्दो रसाग्नित्रित्रीषुसप्तभूधरमागणाः
५७७५३३३६ ।
दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु
२२९६८३२ ॥
बुधशीघ्रस्य शून्यर्त्तुखाद्रित्र्यङ्कनगेन्दवः
१७९३७०६० ।
बृहस्पतेः खदस्राक्षिवेदषड्वह्रयस्तथा
३६४२२० ॥
सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः
७०२२३७६ ।
शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः १४६५६८ ॥
चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा
४८८२०३ युगे ।
वामं पातस्य सर्पाग्नियमाश्विशिखिदस्रकाः
२३२२३८ ॥
इति सूर्य्यसिद्धान्तः ॥ * ॥
अपि च । ग्रहाणां मन्दोच्चानां चलोच्चानां
ग्रहपातानाञ्च भगणान् श्लोकषट्केनाह ।
अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदा-
ब्धयः । ४३२००००००० एत एव शनिजीव-
भूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥ १ ॥
खाब्भ्रखाब्भ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया
५७७५३३००००० हिमद्युतेः ।
युग्मयुग्मशरनागलोचनव्यालषण्णवयमाश्विनोऽ
सृजः २२९६८२८५२२ ॥ २ ॥
सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो
१७९३६९९८९८४ ज्ञशीघ्रजाः ।
पञ्चपञ्चयुगषट्कलोचनद्ब्यब्धिषड्गुणमिता
३६४२२६४५५ गुरोर्मताः ॥ ३ ॥
द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः
७०२२३८९४९२ सितशीघ्रपर्य्ययाः ।
भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः
सूर्य्यसुतस्य पर्य्ययाः १४६५६७२९८ ॥ ४ ॥
खाष्टाब्धयो ४८० ऽष्टाक्षगजेषुदिग्वियद्द्विपाब्धयो
४८०१०५८५८ द्व्यङ्कयमा २९२ रदाग्नयः ३३२ ।
शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुषागराः ४१
स्युः पूर्ब्बगत्या तरणेर्मृदुच्चजाः ॥ ५ ॥
गजार्ष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृद्र-
साश्विनः २६७ कुद्बिशराः ५२१ क्रमर्त्तवः ६३ ।
त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५८४
निशाकराद्व्यस्तगपातपर्य्ययाः ॥ ६ ॥”
इति सिद्धान्तशिरोमणिः ॥ * ॥
ग्रहाणां पूर्ब्बगमनेन कल्पे एते पर्य्ययाः । तथा
मन्दोच्चानाञ्च प्राग्गत्या एतावन्तः । पातानां
पश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्तिः
सा तु तद्भाषाकुशलेन तत्क्षेत्रसंस्थानज्ञेन शुत-
गोलेनैव श्रोतुं शक्यते नान्येन । ग्रहमन्दशीघ्र-
पाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्य्ययान्
कल्पे कुर्व्वन्तीत्यत्रागम एव प्रमाणम् । इति
तट्टीका ॥

भगदत्तः, पुं, (भगमैश्वर्य्यं दत्तमस्मै इति ।) नरकराजस्य

ज्येष्ठपुत्त्रः । स तु प्राग्ज्योतिषपुराधिपः । यथा,
“ऋतुमत्यान्तु जायायां कालेन नरकः क्रमात् ।
भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् ॥
चतुरो जनयामास पुत्त्रांस्तांश्च क्षितेः सुतः ॥”
श्रीभगवानुवाच ।
“भारावतरणे देवि ! नरकस्य वधः पुरा ।
त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया ॥
पृष्ठ ३/४६८
पालयिष्पेऽस्य सन्तानं देवि ! त्वद्बचनादहम् ।
प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् ॥
पृथिव्यां नारदेनैव सहितः केशवस्तदा ।
भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे ।
अभिषिच्य तदा भूपं पुरमन्ये न्यवेशयत् ॥”
इति कालिकापुराण ३९ अध्यायः ॥
(यथा च महाभारते । २ । २६ । ८ ॥
“स तानपि महेष्वासान् विजिग्ये भरतर्षभ ! ।
तैरेव सहितैः सर्व्वेः प्राग्ज्योतिषमुपाद्रवत् ॥”
तत्र राजामहानासीद्भगदत्तो विशाम्पते ! ।
तनासीत् सुमहद्युद्धं पाण्डुवस्य महात्मनः ॥”)

भगदैवतं, क्ली, (भगो योनिदवतं देवता यस्य ।)

पूर्ब्बफल्गुनीनक्षत्रम् । तत्तु बृहस्पतेर्जन्मनक्ष-
त्रम् । यथा, ज्योतिस्तत्त्वे ।
“विशाखानलतोयानि वैष्णव्यं भगदैवतम् ।
पुष्या पौष्णो यमः सर्पो जन्मभान्यर्कतः
क्रमात् ॥”

भगन्दरः, पुं, (भगं गुह्यमुष्कमध्यस्थानं दारय-

तीति । “दृ + णिच् + पूःसर्व्वयोर्दारिसहोः ।”
२ । २ । ४१ । इत्यत्र । “भगे च दारेरिति वक्त
व्यम् ।” इति काशिकोक्तेः खच् । “खचि
ह्रस्वः ।” ६ । ४ । ९४ । इति ह्रस्वः । मुम्च ।)
अपानदेशे व्रणरोगविशेषः । तस्य रूपमाह ।
“गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकार्त्तिकृत् ।
भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् ॥”
अर्त्तिकृत् पीडाकृत् । पञ्चविधः वातकपैत्तिक-
श्लैष्मिकसान्निपातिकशल्यजभेदैः ॥ भगन्दर-
शब्दस्य निरुक्तिमाह भोजः ।
“भगं परिसमन्ताद्यो गुदवस्ती तथैव च ।
भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः ॥”
भजन्त्यनेनेति भगं मेहनम् । भजन्त्यस्मिन्निति
भगं योनिः । अत्र भगशब्देन द्बयमपि कथ्यते ।
भगवत् योनिवत् ॥ पूर्ब्बरूपादीनि यथा, --
“कटीकपालनिस्तोददाहकण्डुरुजादयः ।
भवन्ति पूर्ब्बरूपाणि भविष्यति भगन्दरे ॥”
कटीकपालमत्र कटीफलकम् ॥ वातिकं शत-
पोनकसंज्ञं भगन्दरमाह ।
“कषायरूक्षैरतिकोपितोऽनिल-
स्त्वपानदेशे पिडकां करोति याम् ।
उपेक्षणात् पाकमुपैति दारुणं
रुजाञ्च भिन्नारुणफेनवाहिनीम् ॥
तत्रागमो मूत्रपुरीषरेतसां
ब्रणैरनेकैः शतपोनकं वदेत् ।
दारुणं अतिदारुणात् । व्रणैरनेकैः सूक्ष्ममुखैः ।
शतपोनकश्चालनी तत्तुल्यम् ॥ पैत्तिकमुष्ट्रग्रीव-
संज्ञमाह ।
“प्रकोपणैः पित्तमतिप्रकोपितं
करोति रक्तां पिडकां गुदे गताम् ।
तदाशुपाकाहिमपूतिवाहिनीं
भगन्दरञ्चोष्ट्रशिरोधरं वदेत् ॥”
आशुपाकाहिमपूतिवाहिनीम् । शीघ्रपाकाम्
उष्मदुर्गन्धवाहिनीञ्च । तदा तं भगन्दरं उष्ट्र-
शिरोधर उष्ट्वग्रीवसंज्ञं वदेत् । उष्ट्रग्रीव-
संज्ञञ्च । पिडकाकालीनवक्रतयोष्ट्रग्रीवाकार-
त्वेन ॥ * ॥ श्लैष्मिकपरिस्राविसंज्ञमाह ।
“कण्डूयनो घनस्रावी कठिनो मन्दवेदनः ।
श्वेतावभासः कफजः परिस्रावी भगन्दरः ॥”
कठिनः पिडकावस्थायां परिस्रावी निरन्तरं
स्रवणशीलः ॥ * ॥ सान्निपातिकशम्बूकावर्त्त-
संज्ञमाह ।
“बहुवर्णरुजास्रावाः पिडका गोस्तनोपमाः ।
शम्बूकावर्त्तवन्नाडी शम्बूकावर्त्तको मतः ॥”
बहुवर्णरुजास्रावाः बहुशब्दो वर्णादिभिः
प्रत्येकं सम्बध्यते । नाडी स्रावमार्गः ॥ * ॥
शल्यजमुन्मार्गसंज्ञमाह ।
“क्षताद्गतिः पायुगताद्बिवर्द्धते
ह्युपेक्षणात् स्युः कृमयो विदाय्यंते ।
प्रकुर्व्वते मार्गमनेकधा मुखै-
व्रणैस्तमुन्मार्गभगन्दरं वदेत् ॥
क्षतात् कण्टकादिना नखेन
कण्डूयनादिना वाभिघातात् ।
गतिः स्रावः उन्मार्गभगन्दरम् । एतस्य कृमि-
कृतमार्गैः पुरीषादिनिर्गमादुन्मार्गसंज्ञा ॥”
कष्टसाध्यमसाध्यञ्चाह ।
“घोराः साधयियुं दुःखाः सर्व्व एव भग-
न्दराः ।
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः ॥
वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा ।
भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ॥”
अथ भगन्दरस्य चिकित्सा । यथा, --
“अथास्य पिडकामेव तथा यत्नादुपाचरेत् ।
शुद्ध्यस्रस्रुतिसेकार्त्तैर्यथा पाकं न गच्छति ॥
पुनर्नवामृताशुण्ठीपिष्टिकावदरैः कृतः ।
लेपाय पिडकावस्थे कल्कः शस्तो भगन्दरे ॥
पयःपिष्टैस्तिलारिष्टमधुकैः शीतलैः कृतः ।
लेपो भगन्दरे शस्तः पैत्तिके वेदनावति ॥”
अरिष्टो निम्बः ॥
“सुमनायाश्च पत्राणि गुडूची विश्वभेषजम् ।
सैन्धवं तक्रसंपिष्टं लेपाद्धन्ति भगन्दरम् ॥”
सुमना जातिस्तस्याः पत्रम् ।
“पिडकानामपक्वानामपतर्पणपूर्ब्बकम् ।
कर्म्म कुर्य्याद्विरेकान्तं भिन्नानां व्रणवत् क्रिया ॥
निशार्कक्षीरसिन्धूत्थपुराश्वहननच्छदैः ।
सिद्धमभ्यञ्जने तैलं भगन्दरहरं परम् ॥”
पुरो गुग्गुलुः । अश्वहननच्छदाः करवीर-
पत्राणि । निशादितैलम् ॥ * ॥
“त्रिफलापुरकृष्णानां त्रिपञ्चांशैकयोगिता ।
गुटिका शोथगुल्मार्शोभगन्दरवतां हिता ॥”
नववार्षिको गुग्गुलुः ॥ * ॥
“शस्त्रक्रियापि कथिता शस्त्रसाध्ये भगन्दरे ।
सा च तेनैव कर्त्तव्या शस्त्रशास्त्रमवैति यः ॥
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च ।
रूढव्रणेऽपि यत्नेन वर्जयेद्बत्सरं नरः ॥”
इति भावप्रकाशे भगन्दराधिकारः ॥
अपि च ।
“लङ्घनं स्वेदनं लेपविम्लापनविरेचनैः ।
रक्तमोक्षादिभिः शीघ्रं गुदजां पिडकां जयेत् ॥
तथा यत्नं भिषक् कुर्य्याद्यथा पाकं नियच्छति ।
अपक्वं वाथ पक्वं वा जलौकापातनं हितम् ॥
तदभावे तु शृङ्गाभ्यामिदं रक्तस्य मोक्षणम् ॥”
वटपत्राष्टकाशुण्ठीगुडूच्यः सपुनर्नवाः ।
पिष्ट्वा तु पिडकारम्भे लेपः शस्तो भगन्दरे ॥
आमावस्थाक्रिया प्रोक्ता पक्वावस्थाक्रियोच्यते ॥
त्र्युषणापाटलाक्षारवह्निदाहादिकं क्रमम् ।
विधाय व्रणवत् कार्य्यं यथा दोषो यथा बलम् ॥
स्नुह्यर्कदुग्धदार्व्वीभिर्वर्त्तिं कृत्वा भगन्दरे ।
दद्यात् सर्व्वशरीरस्था नाडीर्हन्यात् प्रयोगराट् ॥
तिलाभयालोध्रमरिष्टपत्रं
निशा वचा कुष्ठमगारधूमः ।
भगन्दरे नाड्युपदंशयोश्च
दुष्टव्रणे शोधनरोपणोऽयम् ॥
शुनोऽस्थिघृष्टं त्रिफलारसेन
विडालकास्थि त्वथवा विलेपनात् ।
चिरप्रभूतं व्रणरोगदुष्टं
भगन्दरं नाशमुपैति नूनम् ॥ * ॥
जम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः ॥”
शृगालमांसव्यञ्जनं खाद्यम् । अथवा शम्बक-
मांसव्यञ्जनं खाद्यम् ॥
“त्रिकटु त्रिफला मुस्तं विडङ्गामृतचित्रकम् ।
शट्येला पिप्पलीमूलं हवुषा सुरदारु च ॥
तुम्बुरुं पुष्करं चव्यं विशाला रजनीद्वयम् ।
विडं सौवर्च्चलक्षारौ सैन्धवं गजपिप्पली ॥
यावन्त्येतानि चूर्णानि तावद्द्विगुणगुग्गुलुः ।
कोलप्रमाणां गुटिकां खादयेन्मधुना सह ॥
भगन्दरं श्वासकासं क्षयं जीर्णज्वरोदरम् ।
नाडीदुष्टव्रणानाहकुष्ठोन्मादाश्मरीक्रमीन् ॥
मेहान्त्रवृद्धिहृद्रोगशूलं श्लीपदमेव च ।
सप्तविंशतिको हन्ति गुग्गुलुः सर्व्वरोगहा ॥”
हृद्रोगशूलमित्यत्र हृतपार्श्वशूलमित्यपि पाठः ॥
सप्तविंशतिगुग्गुलुः ॥ * ॥
“चित्रकार्कौ त्रिवृत्पाठौ मलपूहयमारकौ ।
सुधां वचां लाङ्गलिकां हरितालं सुवर्च्चलाम् ॥
ज्योतिष्मतीञ्च संहृत्य तैलं वैद्यो विपाचयेत् ।
एतद्बिस्यन्दनं नाम तैलमुक्तं भगन्दरे ॥
शोधनं रोपणञ्चैव सुवर्णकरणं स्मृतम् ।”
विष्यन्दनतैलम् ॥ * ॥
“सूतस्य द्बिगुणेन शुद्धवलिना कन्यापयोभि-
स्त्र्यहं
पिष्ट्वा ताम्रमयं समस्ततुलितं पात्रं विधायोपरि ।
स्वेद्यं यामयुगं सभस्मपिठरे जम्बूजलैः सप्तधा
सार्द्धं तत्पुटयेत् भगन्दरहरो गुञ्जोन्मिता
स्यादिति ॥”
जम्बूजलैरित्यत्र निम्बूजलैरिति च पाठः ।
भगन्दरहरो रसः ॥ * ॥
“शुद्धसूतं समं गन्धं मृतनागं सतुत्थकम् ।
जीरकं सैन्धवं तुल्यं तिक्तकोषातकीद्रवैः ॥
पृष्ठ ३/४६९
पिष्ट्वा तल्लेपनाद्धन्ति भक्षणाच्च भगन्दरम् ।
रसः कालाग्रिरुद्रोऽयं गुञ्जैकं मृत्युजिद्भवेत् ॥”
कालाग्निरुद्रो रसः ॥ * ॥
इति सारदीपिकायां भगन्दरचिकित्साध्यायः ॥
अपि च । गारुडे १८८ अध्याये ।
“गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भग-
न्दरः ॥”
(अस्य सकारणलक्षणचिकित्सितं यथा, --
क्रिम्यस्थि सूक्ष्मलक्षणनव्यवाय-
प्रवाहनान्युत्कटकाश्वपृष्ठैः ।
गुदस्य पाके पिडका भृशार्त्तिः
पक्वप्रभिन्ना तु भगन्दरः स्यात् ॥
विरेचनञ्चैषणपाटनञ्च
विशुद्धमार्गस्य च तैलदाहः ।
स्यात् क्षारमूत्रेण सुपाचितेन
छिन्नस्य चास्य व्रणवच्चिकित्सा ॥”
इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)

भगभक्षकः, पुं, (भगं योनिस्तामुपाश्रित्य भक्षयति

जीविकां निर्व्वाहयतीति । भक्ष + ण्वुल् ।)
कुण्डाशी । इति महाभारते दानधर्म्मः ॥
कोट्ना इति भाषा ॥ तस्यान्नभक्षणनिषेधो
यथा, --
“यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि ।
कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणञ्चरेत् ॥”
इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥

भगवती, स्त्री, (भगः ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य

यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग
इतीङ्गना ॥” इत्युक्तलक्षणम् षडैश्वर्य्यमस्त्य-
स्येति । भग + “तदस्यास्त्यस्मिन्निति मतुप् ।”
५ । २ । ९४ । इति मतुप् । मस्य वः ।
“भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥”
इति काशिकोक्तेर्नित्ययोगेऽत्र मतुप्प्रत्ययः ।
ततः स्त्रियां ङीप् ।) पूज्या । गौरी । इति
मेदिनी । ते, २१४ ॥ (सा च प्रकृतिरूपिणी
महामाया देवी । यथा, मार्कण्डेये । ८१ । ४२ ।
“ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥”)
सरस्वती । यथाह पौराणिकाः ।
“सा मां पातु सरस्वती भगवती निःशेष-
जाड्यापहा ॥”
गङ्गा । यथा, शङ्कराचार्य्यकृतगङ्गास्तोत्रे ।
“भगवति ! भवलीलामौलिमाले तवाम्भः-
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ॥”
तस्याः स्वरूपं यथा, --
“यथा नित्यो हि भगवान् नित्या भगवती तथा ।
स्वमायया तिरोभूता तत्रेशे प्राकृते लये ॥
आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव कृत्रिमम् ।
दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान् यथा ॥
सिद्ध्यैश्वर्य्यादिकं सर्व्वं यस्यामस्ति युगे युगे ।
सिद्ध्यादिके भगो ज्ञेयस्तेन भगवती स्मृता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
अपि च ।
“सेव्यते या सुरैः सर्व्वैस्ताञ्चैव भजते यतः ।
धातुर्भजेति सेवायां भगवत्येव सा स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
तस्याः प्रतिमाविशेषस्य पूजने फलविशेषो यथा,
ब्रह्मोवाच ।
“शृणु तस्याः सुराध्यक्ष ! आराधनविधिं
परम् ।
यथा सा तोषिता पूर्ब्बं शङ्कराद्यैः फलेप्सुभिः ॥
कर्म्मयज्ञेन देवेश ! तथा त्वमपि पूजय ।
शम्भुः पूजयते देवीं मन्त्रशक्तिमयीं शुभाम् ॥
अक्षमालाकरो नित्यं तेनासौ विबुधांवरः ।
अहं शैलमयीं देवीं यजामि सुरसत्तम ! ॥
तेन ब्रह्मत्वमेवेदं मया प्राप्तं सुदुर्लभम् ।
इन्द्रनीलमयीं देवीं विष्णुरर्च्चयते तदा ॥
विष्णुत्वं प्राप्तवांस्तेन अद्भुतैकं सनातनम् ।
देवीं हेममयीं कान्तां धनदोऽर्च्चयते सदा ॥
तेनासौ धनदो देवो धनेशत्वमवाप्तवान् ।
विश्वेदेवा महात्मानो रौप्यां देवीं मनोहराम् ।
यजन्ति विधिवद्भक्त्या तेन विश्वत्वमाप्नुयुः ॥
वायुः पूजयते भक्त्या देवीं पित्तलसम्भवाम् ।
वायुत्वं तेन तत् प्राप्तमनौपम्यं गुणावहम् ॥
वसवः कांसिकां देवीं पूजयन्ते विधानतः ।
प्राप्नुवन्तो महात्मानो वसुत्वं सुमहोदयम् ॥
अश्विनौ पार्थिवां देवीं पूजयन्तौ विधानतः ।
तेन तावश्विनौ देवौ दिव्यदेहं गतायुभौ ॥
स्फाटिकां शोभनां देवीं वरुणोऽर्च्चयते सदा ।
वरुणत्वं हि संप्राप्तं तेन ऋद्ध्या समन्वितम् ॥
देवीमन्नमयीं पुण्यामग्निर्यजति भावितः ।
अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् ॥
ताम्रां देवीं सदाकालं भक्त्या देवो दिवाकरः ।
अर्च्चते तत्र संप्राप्तं तेन सूर्य्यत्वमुत्तमम् ॥
मुक्ताशैलमयीं देवीं सोमः पूजयते सदा ।
तेन सोमोऽपि संप्राप्तः सोमत्वं सततोज्ज्वलम् ॥
प्रबालकमयीं देवीं यजन्ते पन्नगोत्तमाः ।
तेन नागास्तु भोगाढ्याः प्रयान्त्येते परं पदम् ॥
कृष्णायसमयीं देवीं पूजयन्त्यसुरोत्तमाः ।
राक्षसाश्च महात्मानस्तेन वेऽमितविक्रमाः ॥
त्रपुसीसमयीं देवीं पिशाचाः पूजयन्ति ताम् ।
तेन ऋद्धिबलोपेताः प्रयान्ति परमं पदम् ॥
त्रैलोहिकां सदा देवीं यजन्ते गुह्यकादयः ।
तेन भोगबलोपेताः प्रयान्तीश्वरमन्दिरम् ॥
वज्रलौहमयीं देवीं यजन्ते मातरः सदा ।
मातृत्वं प्राप्य ताः सर्व्वाः प्रयान्ति परमं पदम् ॥
एवं देवाः सगन्धर्व्वाः पिशाचोरगराक्षसाः ।
पूजयन्ते सदाकालं चर्च्चिकां सुरनायिकाम् ॥
तथा त्वमपि देवेन्द्र ! यदीच्छसि परां गतिम् ।
शिवां मणिमयीं पूज्य लभसे मनसेप्सितान् ॥
कामान् सुरवराध्यक्ष ! कामिकैः पूजितैः सदा ।
ददाति सर्व्वलोकानां चिन्तामणिर्यथा शिवा ॥”
इत्याद्ये देव्यवतारे द्रव्यविधिपूजामाहात्म्ये ३८
अध्यायः ॥ तस्यै गृहदानस्य फलं यथा, --
ईश्वर उवाच ।
“देव्या गृहन्तु यः शुक्रकरार्पयति शोभनम् ।
सर्व्वोपकरणैर्युक्तं सकपाटार्गलान्वितम् ॥
तस्मिन् घण्टा ध्वजं छत्रं वितानं दर्पणानि च ।
दत्त्वा मुरजवंशादि नित्यं सङ्गीतकानि च ॥
देवीशास्त्रार्थवेत्तारं पूजनं भवने शुभम् ।
एवं प्रवर्त्तते यस्तु तस्य पुण्यफलं शृणु ॥
दशपूर्ब्बापरांस्तात ! आत्मनश्चैकविंशतिम् ।
उद्धृत्य च कुलं पापाद्ब्रह्मलोके महीयते ॥
गच्छते भगवती यत्र परा परमपूजिता ।
तत्र कल्पान्तरं यावद्भुक्त्वा भोगान् मनो-
रमान् ॥
पुनः कालादिहायातः पृथिव्यामेकराड्भवेत् ।
सभृत्यवाहनोपेतः शान्तः पुरपरिच्छदः ॥
पुनर्देव्या द्विजातीनां तद्भक्तानां प्रियो भवेत् ॥
कन्यासम्पूजको नित्यं देवीशास्त्रार्थपारगः ।
लभते परसद्भावं तदन्ते शिवतां व्रजेत् ॥
देव्या गृहन्तु यः शुक्र ! सम्मार्ज्जयति नित्यशः ।
स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥
तदागच्छेच्छिवालोकं सर्व्वकालफलप्रदम् ।
देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् ॥
स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्त-
रम् ।
स लभेदीप्सितान् कामान् देव्या लोकञ्च
गच्छति ॥”
इत्याद्ये देव्यवतारे ४२ अध्यायः ॥

भगवद्भक्तः, पुं, (भगवतो भगवत्या वा भक्तः ।)

श्रीकृष्णभक्तियुक्तः ॥ अथ भगवद्भक्तानां लक्ष-
णानि । सामान्यतः लैङ्गे ।
“विष्णुरेव हि यस्यैष देवता वैष्णवः स्मृतः ॥”
अत्र विशेषः ।
“व्रतकर्म्मशुभज्ञानभोगजन्मादिमत्स्वपि ।
शैवेष्वपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥”
तत्र व्रतिषु मध्ये भगवद्भक्तिहेतुव्रतपरता भग-
वद्भक्तलक्षणम् । तथा च स्कान्दे श्रीमार्कण्डेय-
भगीरथसंवादे ।
“दशमीशेषसंयुक्तं दिनं वैष्णववल्लभम् ।
ह्युपास्यते महीपाल ! ते वै भागवता नराः ॥
प्राणात्यये न चाश्नन्ति दिनं प्राप्यं हरेर्नराः ।
कुर्व्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥
उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् ।
अल्पान्तु साधयेद्यस्तु स वै भागवतो नरः ॥
भक्तिर्न विच्युता येषां न च्युतानि व्रतानि च ।
सुप्रियः श्रीपतिर्येषां ते स्युर्भागवता नराः ॥”
कर्म्मिषु भगवदर्पणादिना तदाज्ञाबुद्ध्या वा
भक्तिहेतुसदाचारपरता तत्रैव ।
“धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् ।
पचनं विप्रमुख्यार्थं ज्ञेयास्ते वैष्णवा नराः ॥
अध्वगन्तु पथि श्रान्तं कालेऽत्र गृहमागतम् ।
योऽतिथिं पूजयेद्भक्त्या वैष्णवः स न संशयः ॥
सदाचाररताः शिष्टाः सर्व्वभूतानुकम्पकाः ।
शुचयस्त्यक्तरागा ये सदा भागवता हि ते ॥”
पृष्ठ ३/४७०
पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसं वादे ।
यथा, --
“जीवितं यस्य धर्म्मार्थे धर्म्मो हर्य्यर्थमेव च ।
अहोरात्राणि पुण्यार्थे तं मन्ये वैष्णवं जनम् ॥”
लैङ्गे च ।
“विष्णुभक्तिसमायुक्तान् श्रौतस्मार्त्तप्रवर्त्तकान् ।
प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्त्तितः ॥”
गुणवत्सु भक्तिहेतुकृपालुत्वादिसद्गुणशीलता
तत्रैव ।
“परदुःखेनात्मदुःखं मन्यन्ते ये नृपोत्तम ! ।
भगवद्धर्म्मनिरतास्ते नरा वैष्णवा नृप ! ॥”
भागवततृतीयस्कन्धे श्रीकपिलदेवहूतिसंवादे ।
यथा, --
“तितिक्षवः कारुणिकाः सुहृदः सर्व्वदेहिनाम् ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥”
पञ्चमस्कन्धे ऋषभदेवस्य पुत्त्रानुशासने । यथा,
“महत्सेवां द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ॥”
एकादशस्कन्धे श्रीभगवत्प्रदत्तोद्धवप्रश्नोत्तरे ।
यथा, --
“कृपलुरक्त्वतद्रोहस्तितिक्षुः सर्व्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा समः सर्व्वोपकारकः ॥
कामाक्षुभितधीर्दान्तो मृदुः शुचिरकिञ्चनः ।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो
मुनिः ॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।
अमानी मानदः कल्यो मैत्रः कारुणिकः
कविः ॥”
विष्णुपुराणे यमतद्भटसंवादे । यथा, --
“न चलति निजवर्णधर्म्मतो यः
सममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न चलति किञ्चिदुच्चैः
स्थिरमनसं तमवेहि विष्णुभक्तम् ॥” * ॥
ज्ञानिषु भक्तिहेतुज्ञानवत्ता एकादशे । यथा, --
“सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा ।
सर्व्वभूतसमः शान्तः स वै भागवतोत्तमः ॥
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि
यादृशः ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ॥
ईश्वरे त्रदधीनेषु वालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥
अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।
ग तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥”
भोगवत्सु भक्तिहेतुभोगानासक्तता हरियोगे-
श्वरोचरे । यथा, --
“गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न काङ्क्षति ।
विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥”
सज्जमविद्यादिमत्सु भक्तिहेतुनिरभिमानिता
तत्रैव । यथा, --
“न यस्य जन्मकर्म्मभ्यां न वर्णाश्रमजातिभिः ।
सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः ॥
भावाः कथञ्चिद्भक्त्यैव ज्ञानानासक्त्यमानिता ।
भक्तिनिष्ठापका जातास्ततो ह्युत्तमतोदिता ॥”
निष्ठापकाः परिपाकं प्रापकाः ॥ * ॥
शैवषु श्रीशिवकृष्णाभेदकता बृहन्नारदीये ।
“शिवे च परमेशाने विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥”
इति ॥ * ॥
“अन्यच्च तेषां भगवच्छास्त्रार्थपरतादिकम् ।
साक्षाद्भक्त्यात्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥”
श्रीभागवतशास्त्रपरता स्कान्दे ।
“येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ ।
पूजयन्ति च ये नित्यं ते स्युर्भागवता नराः ॥
येषां भागवतं शास्त्रं जीवितादधिकं भवेत् ।
महाभागवताः श्रेष्ठा विष्णुना कथिता नराः ॥”
वैष्णवसम्माननिष्ठा लैङ्गे ।
“विष्णुभक्तमथायातं यो दृष्ट्वा सुमुखप्रियः ।
प्रणामादि करोत्येव वासुदेवे यथा तथा ।
स वै भक्त इति ज्ञेयः स पुनाति जगत्त्रयम् ॥
रूक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः ।
प्रणामपूर्व्वं क्षन्त्वा यो वदेद्वै वैष्णवो हि सः ॥
भोजनाच्छादनं सर्व्वं यथाशक्त्या ददाति यः ।
विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥
गारुडे ।
“येन सर्व्वात्मना विष्णुभक्त्या भावो निवेशितः ।
वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥ * ॥
श्रीतुलसीसेवानिष्ठा बृहन्नारदीये श्रीभगवन्
माकण्डेयसंवादे ।
“तुलसीकाननं दृष्ट्वा ये नमस्कुर्व्वते नराः ।
तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥
तुलसीगन्धमाघ्राय सन्तोषं कुर्व्वते तु ये ।
तन्मूलमुद्धृतं यैश्च ते वै भागवतोत्तमाः ॥” * ॥
श्रीभगवतः कथापरता बृहन्नारदीये श्रीभगवन्-
मार्कण्डेयसंवादे ।
“मत्कथाश्रवणे येषां वर्त्तते सात्त्विकी मतिः ।
तद्वक्तरि सुभक्ताश्च ते वै भागवतोत्तमाः ॥”
स्कान्दे श्रीभगवदर्ज्जुनसंवादे ।
“मत्कथां कुरुते यस्तु मत्कथाञ्च शृणोति यः ।
हृष्यते मत्कथायाञ्च स वै भागवतोत्तमः ॥”
तृतीयस्कन्धे तत्रैव ।
“मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥” * ॥
नामपरता बृहन्नारदीये तत्रैव ।
मल्मानसाश्च मद्भक्ता मद्भक्तजनलोलुपाः ।
मन्नामश्रवणासक्तास्ते वै भागवतोत्तमाः ॥
येऽभिनन्दन्ति नामानि हरेः शृण्वन्ति हर्षिताः ।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥”
तत्रैवान्यत्र ।
“अन्येषामुदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः ।
हरिनामपरा ये च ते वै भागवतोत्तमाः ॥”
स्मरणपरता । तत्र स्वधर्म्मनिष्ठया रागद्वेषादि-
निवृत्त्या स्मरणं श्रीविष्णुपुराणे यमतद्भटसंवादे ।
“न चलति उच्चैः श्रीभगवत्पदार-
विन्दे सितमनास्तमवेहि विष्णुभक्तम् ।
कलिकलुषमलेन यस्य नात्मा
विमलमतेर्मलिनीकृतस्तमेनम् ।
मनसि कृतजनार्द्दनं मनुष्यं
सततमवेहि हरेरतीव भक्तम् ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या
तृणमिव यः समवैति वै परस्वम् ।
भवति च भगवत्यनन्यचेताः
पुरुषवरं तमवेहि विष्णुभक्तम् ॥
स्फटिकगिरिशिलामलः क्व विष्णु-
र्मनसि नृणां क्व च मत्सरादिदोषः ।
न हि तुहिनमयूखरश्मिपुञ्जे
भवति हुताशनदीप्तिजः प्रतापः ॥
विमलमतिरमत्सरः प्रशान्तः शुचि-
चरितोऽखिलसत्त्वमित्रभूतः ।
प्रियहितवचनोऽस्तमानमायो
वसति सदा हृदि तस्य वासुदेवः ॥
वसति हृदि सनातने च तस्मिन्
भवति पुमान् जगतोऽस्य सौन्यरूपः ।
क्षितिरसमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैव शालपोतः ॥
अन्यविजयेन वैराग्यादिना च स्मरणं श्रीहरि-
योगेश्वरोत्तरे ।
देहेन्द्रियप्राणमनोधियां यो
जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः ।
संसारधर्म्मैरविमुह्यमानः
स्मृत्या हरेर्भागवतप्रधानः ॥
त्रिभुवनविभवहेतवेऽप्यकुण्ठ-
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दा-
ल्लवनिमिषार्द्धमपि स वैष्णवाग्र्यः ॥
भगवत उरुविक्रमाङ्घ्रिशाखा-
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः स
प्रभवति चन्द्रे इवोदितेऽर्कतापः ॥”
पूजापरता स्कान्दे तत्रैव ।
“येऽर्च्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् ।
देहिनः पुण्यकर्म्माणः सदा भागवता हि ते ॥”
लैङ्गे ।
“विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः ।
प्रतिमाञ्च हरेर्नित्यं पूजयेत् प्रयतात्मवान् ॥
विष्णुभक्तः स विज्ञेयः कर्म्मणा मनसा गिरा ।
नारायणपरो नित्यं भूप ! भागवतो हि सः ॥”
वैष्णवधर्म्मनिष्ठतादि पाद्मोत्तरखण्डे ।
“तापादिपञ्चसंस्कारी नवेज्याकर्म्मकारकः ।
अर्थपञ्चकविद्विप्रो महाभागवतो हि सः ॥”
तापः तप्तमुद्राधारणं तदादिपच्चसंस्कारयुक्तः ।
पञ्चसंस्काराश्च तत्रैवक्ताः ।
“तापः पुण्डस्तथा नाम मन्त्रो यागस्तु पश्चमः ॥” इति ॥
पृष्ठ ३/४७१
अस्यार्थः । नाम श्रीकृष्णदासेत्यादि । मन्त्रः
श्रीगुरोः सकाशात् मन्त्रग्रहणम् । यागः होम-
पूर्ब्बकय थाविधिदीक्षाग्रहणमित्यर्थः । नव इज्या-
कर्म्माणि पूजासम्बन्धिकृत्यानि श्रवणादीनि
पाद्मोक्तार्च्चनादीनि वा सर्व्वेषां तेषां पूजाङ्ग-
त्वात् । तानि च तत्रैवोक्तानि । यथा, --
“अर्च्चनं मन्त्रपठनं यागयोगौ महात्मनः ।
नामसङ्कीर्त्तनं सेवा तच्चिह्रैरङ्कनं तथा ।
तदीयाराधनं चर्य्या नवधा भिद्यते शुभे ! ॥”
अर्थपञ्चकं चत्वारो चत्वारो धर्म्मादयः पुरु-
षार्थाः पञ्चमपुरुषार्थश्च भक्तिः । यद्वा पञ्च-
तत्त्वानि अनात्मात्मपरमात्मपरमेश्वरतद्भक्तानां
याथार्थ्यानि । इति तट्टीका ॥ * ॥
एकान्तिता गारुडे ।
“एकान्तेन सदा विष्णौ यस्माद्देवे परायणाः ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥”
तद्विज्ञानेनानन्यपरता एकादशे उद्धवप्रश्नोत्तरे ।
“ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि
यादृशः ।
भजन्त्यनन्यभावेन ते वै भागवता मताः ॥”
भागवते । ११ । ३ । ५० ।
“न कामकर्म्मबीजानां यस्य चेतसि सम्भवः ।
वासुदेवैकनिलयः स वै भागवतोत्तमः ॥”
सा च एकान्तिता चतुर्द्धा । तत्र धर्म्मानाद-
रेण श्रीमदुद्धवप्रश्नोत्तर एव ।
“अज्ञायैवं गुणान् दोषान् मयादिष्ठानपि
स्वकान् ।
धर्म्मान् सन्त्यज्य यः सर्व्वान् मां भजेत् स च
सत्तमः ॥
गीतायाञ्च ।
सर्व्वधर्म्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्व्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
यदा यस्यानुगृह्णाति भगवानात्मभावितः ।
स जहाति मतिं लोके वेदे च परिनिष्ठताम् ॥”
अन्यसर्व्वनिरपेक्षता भागवते श्रीमद्भगवदुद्धव-
संवादे ऐलोपाख्याने ।
“सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।
निर्म्ममा निरहङ्कारा निर्द्द्वन्द्वा निष्परिग्रहाः ॥”
तत्रैव तृतीये श्रीकपिलदेवहूतिसंवादे ।
“त एते साधवः साध्वि ! सर्व्वसङ्गविवर्ज्जिताः ।
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥”
विघ्नाकुलत्वेऽपि मनोरतिपरता स्कान्दे ।
“यस्य कृच्छ्रगतस्यापि केशवे रमते मनः ।
न विच्युता च भक्तिर्वै स वै भागवतो नरः ॥
आपद्गतस्य यस्येह भक्तिरव्यभिचारिणी ।
नान्यत्र रमते चित्तं स वै भागवतो नरः ॥”
प्रेमैकपरता च भागवते पञ्चमस्कन्धे श्रीऋषभ-
देवस्य पुत्त्रानुशासने ।
“ये वा मयीश कृतसौहृदार्था
जनेषु देहम्मरवार्त्तिकेषु ।
गृहेषु जायात्मजरातिमत्सु
न प्रीतियुक्ता यावदर्याश्च लोके ॥”
राति मित्रं धनं वा ।
“त्रिधा प्रेमैकपरता प्रेम्नः स्यात्तारतम्यतः ।
उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥”
तत्रोत्तमा यथा एकादशे हरियोगेश्वरोत्तरे ।
“सर्व्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥
स्वेष्टदेवस्य भावं यः सर्व्वभूतेषु पश्यति ।
भावयन्ति च तान्यस्मिन्नित्यर्थः सम्मतः सताम् ॥”
तृतीये श्रीकपिलदेवहूतिसंवादे ।
“मय्यनन्येन भावेन भक्तिं कुर्व्वन्ति ये दृढाम् ।
मत्कृते त्यक्तकर्म्माणस्त्यक्तस्वजनबान्धवाः ॥”
एकादशे श्रीहरियोगेश्वरोत्तरे च ।
“विसृजति हृदयं न यस्य साक्षा-
द्धरिरवशाभिहितोऽप्यघौघनाशः ।
प्रणयरसनया धृताङ्घ्रिपद्मः
स भवति भागघतप्रधान उक्तः ॥”
तत्रैव मध्यममाह हरियोगेश्वरोक्तावेव ।
“ईश्वरे तदधीनेषु वालिशेषु द्बिषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥”
कनिष्ठता तत्रैव ।
“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥
श्रद्धया पूजनं प्रेमबोधकं भक्त इत्यपि ।
प्रेम्णो हि करणात्तत्तु स्वलं भक्तानपेक्षणात् ॥
लक्षणानि च यान्यग्रे भक्तेर्लेख्यानि तान्यपि ।
बन्दनादीनि विद्यन्ते येषु भागवता हि ते ॥
एतानि लक्षणानीत्थं गौणमुख्यादिभेदतः ।
ऊह्यानि लक्षणान्येवं विवेच्यानि पराण्यपि ॥
ईदृग्लक्षणवन्तः स्युर्द्दुर्लभा बहवो जनाः ।
दिव्या हि मणयो व्यक्तं न वर्त्तन्ते इतस्ततः ॥”
अतएवोक्तं मोक्षधर्म्मे नारदीये ।
जायमानं हि पुरुषं यं पश्येत्मधुसूदनः ।
सात्त्विकः स तु विज्ञेयो भवेन्मोक्षार्थनिश्चयः ॥”
इति श्रीहरिभक्तिविलासे १० विलासः ॥

भगवान्, [त्] (भगः “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य

यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग
इतीङ्गना ॥” इत्युक्तलक्षणं षडैश्वर्य्यमस्त्यस्येति ।
भग + नित्ययोगे मतुप् मस्य वः ।) पुं बुद्धः ।
इत्यमरः । १ । १ । १३ ॥ श्रीकृष्णः । यथा, --
“भगवानपि ता रात्रीः शारदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥”
इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥
पूज्ये त्रि । इति मेदिनी ॥ भगवत्स्वरूपं यथा,
“मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! ।
तदेतत् श्रूयतामत्र संबन्धे गदतो मम ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥
द्वे विद्ये वेदितव्ये वै इति चाथर्व्वणी श्रुतिः ।
परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।
अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥
विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् ।
व्याप्यव्याप्तं यतः सर्व्वं तं वै पश्यन्ति सूरयः ॥
तद्ब्रह्म तत् परं धाम तद्ध्येयं मोक्षकाङ्क्षिणा ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ॥
वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ।
एवं निगदितार्थस्य स तत्त्वं तस्य तत्त्वतः ॥
ज्ञायते येन तज्ज्ञाने परमन्यत्त्रयीमयम् ॥
अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज ! ।
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ।
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ।
मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥
संभर्त्तेति तथा भर्त्ता भकारोऽर्थद्वयान्वितः ।
तेनागमयिता स्रष्टा गकारार्थस्तथा मुने ! ॥
ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य थशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥
वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥
एवमेव महाबाहो ! भगवानिति सत्तम ! ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण अन्यत्र ह्युपचारतः ॥
उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥
ज्ञानशक्तिबलैश्वर्य्यवीर्य्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥”
इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥
अपि च ।
“परमात्मा च भगवान् विष्वक्सेनो जनार्द्दनः ।
तद्भक्तिमान् भागवतो नाल्पपुण्यैर्हि जायते ॥
भगवच्छासनालम्बी भगवच्छासनप्रियः ।
भगवद्भक्तिमास्थाय वत्स ! भागवतो भव ॥
भगवान् भूतभव्येशो भूतादिप्रभवोऽव्ययः ।
भावेन तं भजस्वेशं भवभङ्गकरं हरिम् ॥
भजस्व भावेन विभुं भगवन्तं भवेश्वरम् ।
ततो भागवतो भूत्वा भवबन्धात् प्रमोक्ष्यसि ॥”
इत्याद्ये वह्रिपुराणे वैष्णवक्रियायोगे यमानु-
शासनो नामाध्यायः ॥ अन्यच्च ।
“महतां क्षुद्रजन्तूनां सर्व्वेषां जीविनां सदा ।
स्रष्टा पाता च शास्ता च भगवान् करुणानिधिः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥
षडैश्वर्य्यान्वितः । स च परमेश्वरः । तन्नाम-
विशेषस्य सेवनं यथा, --
“अथ श्रीभगवन्नाम सदा सेवेत सर्व्वतः ।
तन्माहात्म्यञ्च विख्यातं सङ्क्षेपेणात्र लिख्यते ॥
अथ श्रीभगवन्नामविशेषस्य च सेवनम् ।
ऋषिभिः कृपयादिष्टं तत्तत्कामहतात्मनाम् ॥”
अथकामविशेषेण श्रीभगवन्नामविशेषसेवामाहा-
त्म्यम् । तत्र पापक्षयार्थं कौर्म्मे । यथा, --
“श्रीशब्दपूर्व्वं जयशब्दपूर्ब्बं
जयद्वयादुत्तरतस्तथा हि ।
त्रिः सप्तकृत्वो नरसिंहनाम
जप्तं निहन्यादपि विप्रहत्याम् ॥”
पृष्ठ ३/४७२
महाभयनिवारणार्थं तत्रैव ।
“श्रीपूर्ब्बो नरसिंहो द्विर्ज्जयादुत्तरतस्तु सः ।
त्रिःसप्तकृत्वो जप्तस्तु महाभयनिवारणः ॥”
कालविशेषे तु मङ्गलार्थं बिष्णुधर्म्मोत्तरे
श्रीमार्कण्डेयवज्रसंवादे ।
“पुरुषं वामदेवञ्च तथा सङ्कर्षणं विभुम् ।
प्रद्युम्नमनिरुद्धञ्च क्रमादब्देषु कीर्त्तयेत् ॥”
अब्दषु संवत्सरादिषु पञ्चसु ॥
“वलभद्रं तथा कृष्णं कीर्त्तयेदयनद्बये ।
माधवं पुण्डरीकाक्षं तथा वै भोगशायिनम् ॥
पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् ।
क्रमेण राजशार्द्दूल ! वसन्तादिषु कीर्त्तयेत् ॥
विष्णुञ्च मधुहन्तारं तथा देवं त्रिविक्रमम् ।
वामनं श्रीधरञ्चैव हृषीकेशं तथैव च ॥
दामोदरं पद्मनाभं केशवञ्च यदूत्तमम् ।
नारायणं माधवञ्च गोविन्दञ्च तथा क्रमात् ॥
चेत्रादिषु च मासेषु देवदेवमनुस्मरेत् ।
प्रद्युम्नमनिरुद्धञ्च पक्षयोः कृष्णशुक्लयोः ॥
सर्व्वः शर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
आदित्यादिषु वारेषु क्रमादेवमनुस्मरेत् ॥
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतभृद् भूतकृद् भावो भूतात्मा भूतभावनः ॥
अव्यक्तः पुण्डरीकाक्षो विश्वकर्म्मा शुचिश्रवाः ।
सम्भवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः ॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
अग्राह्यः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत् ॥
देवदेवस्य नामानि कृत्तिकादिषु यादव ! ।
ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ॥
दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ।
भूधरं गदिनं देवं शङ्खिनं पट्मिनं तथा ॥
चक्रिणञ्च महाराज ! प्रथमादिषु संस्मरेत् ॥”
प्रथमादिषु प्रतिपदादिषु ।
“सर्व्वं वा सर्व्वदा नाम देवदेवस्य यादव ! ॥
नामानि सर्व्वाणि जनार्द्दनस्य
कालश्च सर्व्वः पुरुषप्रवीरः ।
तस्मात् सदा सर्व्वगतस्य नाम
ग्राह्यं यथेष्टं वरदस्य राजन् ! ॥”
विविधकामसिद्धये च पुलस्त्योक्तौ ।
“कामः कामप्रदः कान्तः कामपालस्तथा हरिः ।
आनन्दो माधवश्चैव कामसंसिद्धये जपेत् ॥
रामः परशुरामश्च नृसिंहो विष्णुरेव च ।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥
विद्यामभ्यस्यता नित्यं जप्तव्यः पुरुषोत्तमः ।
दामोदरं बन्धगतो नित्यमेव जपेन्नरः ॥
केशवं पुण्डरीकाक्षमनिशं हि तथा जपेत् ।
तेत्रबाधासु सर्ष्वासु हृषीकेशं भयेषु च ॥
अप्युतञ्चामृतञ्चैव जपेदौषधकर्म्मणि ।
संग्रामाभिमुखो गच्छन् संस्मरेद पराजितम् ॥
चक्रिणं गदिनञ्चैव शार्ङ्गिणं खड्गिनं तथा ।
क्षेमार्थी प्रवसन्नित्यं दिक्षु प्राच्यादिषु स्मरेत् ॥
अजितञ्चाधिपञ्चैव सर्व्वं सर्व्वेश्वरं तथा ।
संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्व्वदा ।
नारायणं सर्व्वकालं क्षुतप्रस्खलनादिषु ।
ग्रहनक्षत्रपीडासु देववाधासु सर्व्वतः ॥
दस्युवैरिनिषेधेषु व्याघ्रसिंहादिसङ्कटे ।
अन्धकारे तमस्तीव्रे नरसिंहमनुस्मरेत् ॥
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् ।
गरुडध्वजानुस्मरणाद्विषवीर्य्यं व्यपोहति ॥
स्नाने देवार्च्चने होमे प्रणिपाते प्रदक्षिणे ।
कीर्त्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥
स्थापने वित्तधान्यादेरपध्याने च दुष्टजे ।
कुर्व्वीत तन्मना भूत्वा अनन्ताच्युतकीर्त्तनम् ॥
नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् ।
वामनं खड्गिनञ्चैव दुष्टस्वप्ने सदा स्मरेत् ॥
महार्णवादौ पर्य्यङ्कशायिनञ्च नरः स्मरेत् ।
बलभद्रं समृद्ध्यर्थं सर्व्वकर्म्मणि संस्मरेत् ॥
जगत्पतिमपत्यार्थं स्तुवन् भक्त्या न सीदति ।
श्रीशं सर्व्वाभ्युदयिके कर्म्मण्याशु प्रकीर्त्तयेत् ॥
अरिष्टेषु ह्यशेषेषु विशोकञ्च सदा जपेत् ।
मरुत्प्रपाताग्निजलबन्धनादिषु मृत्युषु ॥
स्वतन्त्रपरतन्त्रेषु वासुदेवं जपेद्बुधः ।
सर्व्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ॥
यथाभिरोचते नाम तत् सर्व्वार्थेषु कीर्त्तयेत् ।
सर्व्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः ॥
सर्व्वाण्येतानि नामानि परस्य ब्रह्मणो हरेः ॥”
एवं विष्णुधर्म्मोत्तरे च मार्कण्डेयवज्रसंवादे ॥
किञ्च ।
“कूर्म्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् ।
भ्राजिष्णुमग्निजनने जपेन्नाम त्वखण्डितम् ॥
गरुडध्वजानुस्मरणादापदो मुच्यते नरः ।
ज्वरजुष्टशिरोरोगविषवीर्य्यञ्च शाम्यति ॥
बलभद्रन्तु युद्धार्थी कृष्यारम्भे हलायुधम् ।
उत्तारणं बाणिज्यार्थी राममभ्युदये नृप ! ॥
माङ्गल्यं मङ्गलं विष्णुं माङ्गल्येषु च कीर्त्तयेत् ।
उत्तिष्ठन् कीर्त्तयेद्विष्णुं प्रस्वपन् माधवं नरः ॥
भोजने चैव गोविन्दं सर्व्वत्र मधुसूदनम् ॥”
तत्रैवान्यत्र ।
“औषधे चिन्तयेद्विष्णुं भोजने च जनार्द्दनम् ।
शयने पद्मनाभञ्च मैथुने च प्रजापतिम् ॥
संग्रामे चक्रिणं क्रुद्धं स्थानभ्रंशे त्रिविक्रमम् ।
नारायणं विषोत्सर्गे श्रीधरं प्रियसङ्गमे ॥
जलमध्ये वराहञ्च पावके जलशायिनम् ।
कानने नरसिंहञ्च पर्व्वते रघुनन्दनम् ॥
दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् ।
मायासु वामनं देवं सर्व्वकार्य्येषु माधवम् ॥”
किञ्च ।
“कीर्त्तयेद्वासुदेवञ्च अनुक्तेष्वपि यादव ! ।
कार्य्यारम्भे तथा राजन् ! यथेष्टं नाम कीर्त्त-
येत् ॥
सर्व्वाणि नामानि हि तस्य राजन् !
सर्व्वार्थसिद्धौ तु भवन्ति पुंसः ।
तस्माद्यथेष्टं खलु कृष्णनाम
सर्व्वेषु कार्य्येषु जपेत भक्त्या ॥”
इति श्रीहरिभक्तिविलासे ११ विलासः ॥
भगवद्वशीकारित्वम् । यथा, महाभारते भग-
वद्वाक्यम् ।
“ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति ।
यद्गोविन्देति चुक्रोश कृष्णे ! मां दूरवासिनम् ॥”
आदिपुराणे श्रीकृष्णार्ज्जुनसंवादे ।
“गीत्वा तु मम नामानि नर्त्तयेन्मम सन्निधौ ।
इदं ब्रवीमि ते सत्यं क्रीतोऽहं तेन चार्ज्जुन ! ॥
गीत्वा च मम नामानि रुदन्ति मम सन्निधौ ।
तेषामहं परिक्रीतो नान्यक्रीतो जनार्द्दनः ॥”
एवं श्रुत्वा च मम नामानीत्यादि ॥ विष्णुधर्म्मे
प्रह्लादेन ।
“जितं तेन जितं तेन जितं तेनेति निश्चितम् ।
जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥”
इति तत्रैव ११ विलासः ॥
भगवत्सान्निध्यलक्षणानि यथा । हयशीर्षे ।
“तस्मिन्नेव मुहूर्त्ते तु हर्षो वा भयमेव च ।
चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥
व्यामोहः परमोहो वा स्तनितं परमं तथा ।
अशुतानां श्रुतिर्वा स्यात् गात्राणां वाथ
वेपथुः ॥”
व्यामोहो मौढ्यविशेषः । परमोहो मूर्च्छा ।
“वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा ।
परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥
दिव्यवादित्रघोषो वा गन्धर्व्वनगरस्य वा ।
दर्शनं जायते काले तस्मिन् सुरगणार्च्चितम् ॥
नरा नार्य्योऽथ दृश्यन्ते गायन्तोऽप्यथ हर्षिताः ।
नन्दितूर्य्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥
दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि ।
लिङ्गैरेतैर्विजानीयात् तत्र सन्निहितं हरिम् ॥
प्रभा चैव विशेषेण ज्वलतीव च दृश्यते ।
स्फुरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥
स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् ।
वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते ॥
एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः ।
विशेषादथवा पश्येच्छक्रचापोपमं क्वचित् ॥
छविं वज्रप्रभां पश्येत् पद्मरागप्रभां यथा ।
सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि ॥
एतैर्लिङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ।
बधिरा इव केचित्तु मूका इव तथापरे ।
विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥
धावन्त इव केचित्तु पतन्त इव चापरे ।
नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि ।
चित्रस्था इव केचित्तु विवशा इव केचन ।
भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे ।
लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥”
इति श्रीहरिभक्तिविलासे ३९ विलासः ॥
(शिवः । यथा, महाभारते । १३ । १७ । १२७ ।
“निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवान् उत्थानः सर्व्व-
कर्म्मणाम् ॥”)

भगालं, क्ली, (भजति मुखदुःखादिकं कर्म्मजन्यमने-

नेति भज्यते अनेनेति वा । भज + “पीयु-
पृष्ठ ३/४७३
क्वणिभ्यां कालनिति ।” उणा० ३ । ७६ । बाहुलकाद्
भजेरपीति उज्ज्वलदत्तः इति कालन् । नङ्क्वादित्वात्
कुत्वञ्च ।) नृकरोटिः । यथा । भगालं नरमस्तकम् ।
इति कश्चित् जटाधरः ॥ भगस्य महादेवस्य
अलं भूषणमितिव्युत्पत्तिः ॥

भगाली, [न्] पुं, (भगालं नृकपालं भूषणत्वेना-

स्त्यस्येति इनिः ।) शिवः । इति त्रिकाण्डशेषः ॥
(चण्डीकान्तो भगाली च । इति उज्ज्वलदत्तधृतो
राजशेखरश्च ।)

भगिनी, स्त्री, सहोदरा । तत्पर्य्यायः । स्वसा २ ।

इत्यमरः । २ । ६ । २९ ॥ भगं यत्नः पित्रादितो द्रव्यदाने
विद्यतेऽस्या इति इनिप्रत्ययेन भगिनी । इति
तट्टीकायां भरतः ॥ (भगं योनिरस्या अस्तीति ।
भग + इनिः डीप् ।) स्त्रीमात्रम् । यथा, --
“परिगृह्या च षामाङ्गी भगिनी प्रकृतिर्नरी ॥”
इति शब्दचन्द्रिका ॥

भगिनीपतिः, पुं, (भगिन्याः पतिः ।) स्वसृभर्त्ता ।

तत्पर्य्यायः । आवुत्त्रः २ भामः ३ । यथा, --
“भगिनीपतिरावुत्तो भावो विद्बानथावुकः ॥”
इति नाट्योक्तावमरः । १ । ७ । १२ ॥
“अहो भगिन्यहो भाम ! मया वां वत पाप्मना ।
पुरुषाद इवापत्यं सुहृदोर्हिंसिताः सुताः ॥”
इति श्रीभागवते १० स्कन्धे ४ अध्यायः ॥

भगीरथः, पुं, (भं ज्योतिष्कमण्डलं गीर्वाङ्मयं तत्र

रथ इन्द्रियाणि रथ इवास्य ।) दिलीपराज-
पुत्त्रः । कपिलशापेन भस्मीभूतानामधः पति-
तानां पितॄणामुद्धरणायानेन मर्त्त्यलोके गङ्गा
आनीता । यथा, मात्स्ये १२ अध्यायः ।
“असमञ्जसस्तनयो ह्यंशुमान्नाम विश्रुतः ।
तस्य पुत्त्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥
येन भागीरथी गङ्गा तपः कृत्वावतारिता ।
भगीरथस्य तनयो नाभाग इति विश्रुतः ॥”

भगोः, पुं, हे भगवन् ! । इति मुग्धबोधव्याकर-

णम् । संक्षिप्तसारश्च ॥ (सम्बोधन-
वाचकाविमौ ॥)

भगोः, व्य, हे भगवन् ! । इति मुग्धबोधव्याकर-

णम् । संक्षिप्तसारश्च ॥ (सम्बोधन-
वाचकाविमौ ॥)

भगोलः, पुं, (भानां नक्षत्राणां गोलः । नक्षत्र-

समूहेन विरचितः गोलाकारः पदार्थ इत्यर्थः ।)
भपञ्जरम् । नक्षत्रचक्रम् । यथा । इदानीं
भगोलमाह ।
“याम्योत्तरक्षितिजवत् सुदृढं विदध्या-
दाधारवृत्तयुगलं ध्रुवयष्टिबद्धम् ।
षष्ट्यङ्कमत्र सममण्डलवत्तृतीयं
नाड्याह्वयञ्च विषुवद्बलयं तदेव ॥”
यथा खगोले क्षितिजं याम्योत्तरञ्च तदाकार-
मपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं कृत्वा तदुपरि
अन्यत्तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं
कार्य्यं तन्नाडीवृत्तं विषुवत् वृत्तसंज्ञम् ॥ * ॥
इदानीं क्रान्तिवृत्तमाह ।
“क्रान्तिवृत्तं गृहाङ्कं विधेयं भ्रम-
त्यत्र भानुश्चं भार्द्धे कुभा भानुतः ।
क्रान्तिपातः प्रतीपं तथा प्रस्फुटा
क्षेपपातश्च तत्स्थानकान्यङ्कयेत् ॥
अथान्यत्तत्प्रमाणमेव वृत्तं कृत्वा तत्र
मेषादीन् प्रकल्प्य द्बादशराशयोऽङ्क्याः ॥”
तत्क्रान्तिवृत्तसंज्ञम् । तस्मिन् वृत्ते रविर्भ्रमति
तथा रवेर्भार्द्धान्तरे भूभा च । तथा तत्र
क्रान्तिपातो मेषादिर्विलोमं भ्रमति । तथा
ग्रहाणां विक्षेपपाताः प्रस्फुटा विलोमं भ्रमन्ति ।
अतः क्रान्तिपातादीनि स्थानानि तत्राङ्क्यानि ॥
इदानीं क्रान्तिवृत्तनिवेशमाह ।
“क्रान्तिपाते च पाताद्भषट्कान्तरे
नाडिकावृत्तलग्नं विदध्यादिदम् ।
पाततः प्राक् त्रिभे सिद्धभागैरुदग्
दक्षिणे तैश्च भागैर्विभागेऽपरे ॥”
क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्य्यम् ।
ते चिह्रे नाडीवृत्तेन संसक्ते कृत्वा पातचिह्रा-
दग्रतः त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंशत्या
उत्तरतो यथा भवति । अपरभागे त्रिभेऽन्तरे
दक्षिणतश्च तैर्मार्गैर्यथा भवति तथा बध्नी-
यात् ॥ * ॥ इदानीं विमण्डलमाह ।
“नाडिकामण्डले क्रान्तिवृत्तं यथा
क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् ।
क्षेपवृत्तन्तु राश्यङ्कितं तत्र च
क्षेपपातेषु चिह्नानि कृत्तोक्तषत् ॥
क्रान्तिवृत्तस्य विक्षेपवृत्तस्य च
क्षेपपाते सषड्भे च कृत्वा युतिम् ।
क्षेपपाताग्रतः पृष्ठतश्च त्रिभे
क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् ॥
शीघ्रकर्णेन भक्तास्त्रिभज्या गुणाः
स्युः परक्षेपभागा ग्रहाणां स्फुटाः ।
क्षेपवृत्तानि षण्णां विदध्यात् पृथक्
स्वस्ववृत्ते भ्रमन्तीन्दुपूर्ब्बा ग्रहाः ॥”
अस्य श्लोकस्य समग्रस्य व्याख्यानम् । यथा
क्रान्तिवृत्तं पृथक् कृतं एवं विमण्डलमपि
राश्यङ्कं पृथक् पृथक् कृत्वा तत्र मेषादेर्व्यस्तं
स्फुटक्षेपपातं दत्त्वाग्रे चिह्नं कार्य्यम् । अथ
क्रान्तिवृत्तस्य बिमण्डलस्य च क्षेपपातचिह्नयोः
सम्पातं कृत्वा तस्मात् षड्भेऽन्तरे अन्यञ्च
सम्पातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्ति-
वृत्तादुत्तरतः स्फुटैः क्षेपभागैः पृष्ठतश्च त्रिभे-
ऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विम-
ण्डलं निवेशनीयम् । अथ पठिता ये विक्षेप-
भागास्ते त्रिज्या गुणाः शीघ्रकर्णेन भक्ताः
स्फु टा ज्ञेयाः ॥ * ॥ अथानुपातः । यदि कर्णाग्रं
एतावदन्तरं तर्हि त्रिज्याग्रे कियदिति । यतो
भगोले त्रिज्यैव व्यासार्द्धम् । एवं चन्द्रादीनां षट्
विमण्डलानि कार्य्याणि । स्वस्वविमण्डले ग्रहा
भ्रमयन्ति ॥ इदानीं क्रान्तिं विक्षेपञ्चाह ।
“नाडिका मण्डला तिर्य्यगत्रापमः
क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः ।
क्षेपवृत्तावधितिर्य्यगेव स्फुटो
नाडिकावृत्तखेटान्तरालेऽपमः ।
क्रान्तिवृत्ते स्फु टग्रहस्थानं तस्य
नाडीवृत्ताद्यत्तिर्य्यगन्तरं सा क्रान्तिः ॥”
अथ विमण्डले च यद्ग्रहस्थानं तस्य क्रान्ति-
वृत्तात् यत्तिर्य्यगन्तरं स विक्षेपः । अथ विम-
ण्डलस्थग्रहस्य नाडीवृत्ताद्यत्तिर्य्यगन्तरं सा
स्फु टा क्रान्तिः ॥ * ॥ इदानीं क्रान्तिपातमाह ।
विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः
स्यात् । तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं
कल्पे ॥ अयनचलनं यदुक्तं मुञ्जालाद्यैः स
एवायम् । तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्त्तु-
नन्दगोचन्द्राः १९९६६९ ॥ तत् सञ्जातं पातं
क्षिप्त्वा खेटेऽपमः साध्यः । क्रान्तिवशात्तच्चर-
मुदयाश्चरदललग्नापमे ततः क्षेप्याः । क्रान्त्यर्थ-
पातः क्रान्तिपातः । पातो नामसन्यातः कयोः
विषुवत्क्रान्तिबलययोः । नहि तयोर्मेषादावेव
सम्पातः । किन्तु तस्यापि चलनमस्ति । ये
अयनचलबभागाः प्रसिद्धास्त एव विलोमगस्य
क्रान्तिपातस्य भागाः । मेषादेः पृष्ठतस्ता-
बद्भागान्तरे क्रान्तिवृत्ते विषुवद्वृत्तं लग्न-
मित्यर्थः । नहि क्रान्तिपातोऽस्तीति वक्तुं न
शक्यते । प्रत्वक्षेण तस्योपलब्धत्वात् । उप-
लब्धिप्रकारमग्रे वक्ष्यति । स कथं ब्रह्मगुप्ता-
दिभिर्निपुणैरपि नोक्त इति चेत् । तदा
स्वल्पत्वात्तैर्नोपलब्धः । इदानीं बहुत्वात्
साम्प्रतैरुपलब्धः । अतएव तस्य गतिरस्तीत्यव-
गतम् । यद्येवमप्यनुपलब्धोऽपि सौरसिद्धा-
न्तोक्तत्वादागमप्रामाण्येन भगणपरिध्यादिवत्
कथं तैर्नोक्तः । सत्यम् । अत्र गणितस्कन्धे
उपपत्तिमानेवागमः प्रमाणम् । तर्हि मन्दोच्च-
पातभगणा आगमप्रामाण्येनैव कथं तैरुक्ता
इति न वक्तव्यम् । यतो ग्रहाणां मन्दफला-
भावस्थानानि प्रत्यक्षेणैवोपलभ्यन्ते तान्येव
मन्दोच्चस्थानानि यान्येव विक्षेपाभावस्थानि
तान्येव पातस्थानानि किन्तु तेषां गतिरस्ति
नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्चपातानां
गतिरस्ति । चन्द्रमन्दोच्चपातवदित्यनुमानेन
सिद्धा । सा च कियती तदुच्यते । यैर्भगणैरुप-
लब्धिस्थानानि तानि गणितेनागच्छन्ति । तद्भ-
गणसम्भवा वार्षिकी दैनन्दिनी वा गतिर्ज्ञेया ।
नैवम् । यदन्यैरपि भगणैस्तान्येवस्थानानि आग-
च्छन्ति । तदा कतरस्यागतेः प्रामाण्यम् । सत्यम्
तर्हि साम्प्रतीपलब्ध्यनुसारिणी कापि गतिरङ्गी-
कर्त्तव्या । यदा पुनर्महता कालेन महदन्तरं
भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां
समानधर्म्मिण एव उत्पत्स्यन्ते । तदुपलब्ध्यनु-
सारिणीं गतिमुररीकृत्य शास्त्राणि व्याकरि-
ष्यन्ति । अतएवायं गणितस्कन्धो महामति-
मद्भिर्दृष्टः सन् अनाद्यनन्ते कालेऽपि खिलत्वं
न याति । अतोऽस्य क्रान्तिपातस्य भगणाः
कल्पेऽयुतत्रयं तावत् सूर्य्यसिद्धान्तोक्ताः । तथा
मुञ्जालाद्यैर्यदयनचलनमुक्तं स एव क्रान्ति-
पातः । ते गोऽङ्गर्त्तुनन्दगोचन्द्रा उत्पद्यन्ते ।
अथ च ते वा ये वा भगणा भवन्तु । यदा
येऽंशा निपुणैरुपलभ्यन्ते तदा स एव क्रान्ति-
पृष्ठ ३/४७४
पात इत्यर्थः । तं विलोमं क्रान्तिपातं ग्रहे
प्रक्षिप्य क्रान्तिः सान्या । इदानीं विक्षेप-
पातानाह । एवं क्रान्तिविमण्डलसम्पाताः
क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः क्षेपानयने
तु ते योज्याः ।
“मन्दस्फुटो द्राक् प्रतिमण्डले स्वे
ग्रहो भ्रमत्यत्र च तस्य पातः ।
पातेन युक्ता गणितागतेन
मन्दस्फुटात् खेचरतः शरोऽस्मात् ॥
पातेऽथवा शीघ्रफलं विलोमं
कृत्वा स्फुटान्तेन युताच्छरोऽतः ।
चन्द्रस्य कक्षाबलये हि पातः
स्फुटाद्बिधोर्मध्यमपातयुक्तात् ॥”
तथा क्रान्तिवृत्तविमण्डलयोः सम्पातः क्षेप-
पातः । तं ग्रहे प्रक्षिप्य क्षेपः साध्यः । एत-
दुक्तं भवति क्रातिपातः प्रसिद्धः । यथा तं
ग्रहे प्रक्षिप्य क्रान्तिः साध्यत एव क्षेपपातं
ग्रहे प्रक्षिप्य क्षेपः साध्य इत्यर्थः । अथ
विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारण-
माह । मन्दस्फुटो द्राक् प्रतिमण्डल इत्यादि ।
यतः शीघ्रप्रतिमण्डले मण्डलस्फुटगत्या ग्रहो
भ्रमति तत्र च वृत्ते पातः । अतो गणितागत-
पातं मन्दस्फुटे प्रक्षिप्य क्षेपः साध्यते । शेषं
स्पष्टार्थम् ॥ * ॥ इदानीं ज्ञशुक्रयोर्विशेषमाह ।
“ये चात्र पातभगणाः कथिता ज्ञभृग्वो
स्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः ।
स्वल्पाः सुखार्थमुदिताश्चलकेन्द्रयुक्तौ
पातौ तथोः पठितचक्रभवौ विधेथौ ॥
चलाद्विशोध्यः किल केन्द्रसिद्ध्यै
केन्द्रे सपाते द्युचरस्तु योज्यः ।
अतश्चलात् पातयुताद् ज्ञभृग्वोः
सुधीभिराद्यैः शरसिद्धिरुक्ता ॥”
“स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः
पातौ भगोले स्फुट एव पातः ॥”
ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुतिं केन्द्रं कृत्वा यो
विक्षेप आनीतः स शीघ्रोच्चस्थान एव भवितु-
मर्हति न ग्रहस्थाने । यतो ग्रहोऽन्यत्र वर्त्तते ।
अत इदमनुपपन्नमिव प्रतिभाति । तथा ब्रह्म-
सिद्धान्तभाष्ये । ज्ञशुक्रयोः शीघ्रोच्चस्थाने
यावान् विक्षेपस्तावानेव यत्रतत्रस्थस्यापि
ग्रहस्य भवत्यत्रोपलब्धिरेव वासना । नान्यत्
कारणं वक्तुं शक्यत इति चतुर्व्वेदे नाप्यनध्य-
वसायोऽत्र कृतः । अत्रोच्यते । येऽत्र ज्ञशु-
क्रयोः पातभगणाः पठितास्ते शीघ्रकेन्द्रभगणै-
र्युताः सन्तस्तद्भगणा भवन्ति । तथा च माध-
वीये सिद्धान्तचूडामणौ पठिताः । अतोऽल्प-
भगणभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्य्यः ।
शीघ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रं तस्मिन् स
पाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः । अतस्तुल्य-
शोध्यक्षेपकयोः नाशे कृते शीघ्रोच्चपातयोग
एवावशिष्यत इत्युपपन्नम् । किञ्च । मन्दस्फु-
दोनं शीघोच्चं प्रतिमण्डले चलकेन्द्रं तत्पाते
क्षेप्तुं युज्यते । एवं कृते सति क्षेपकेन्द्रं मन्द-
फलेनान्तरितं स्यात् । तदङ्गीकृतम् । इतर-
केन्द्रस्यानुपपत्तेः । अतो मन्दफलं पाते व्यस्तं
देयम् । यतोऽनुपातसिद्धं चलकेन्द्रं मध्योनं
शीघ्रोच्चं भवति । यत्तु भगोले क्रान्तिवृत्तं तत्
कक्षावृत्तं तत्र यद्विमण्डलं तत्र स्फुटग्रहः ।
तत्स्फुटपातयोगो हि विक्षेपकेन्द्रं अतः स्फुट-
पातस्थाने सम्पातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटी-
कृतैः परमक्षेपांशैः प्राग्वदुत्तरे दक्षिणे च
विन्यस्यम् । तथा न्यस्ते विमण्डले स्फुटग्रह-
स्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो
दृश्यते नान्यथेत्यर्थः ॥ * ॥ इदानीं ग्रहगोले
विशेषमाह ।
“ग्रहस्य गोले कथितापमण्डलं
प्रकल्प्य कक्षाबलयं यथोदितम् ।
निबध्य शीघ्रप्रतिवृत्तमस्मिन्
विमण्डलं तत् पठितैः शरांशैः ॥
मध्योऽत्र पातो द्युषदां ज्ञभृग्वोः
स्वशीघ्रकेन्द्रेण युतौ तु योज्याः ॥”
भगोल एव तावद्ग्रहगोलः कल्प्यः तत्र एफुट
एव पातः । अथ यदि तदन्तर्ग्रहगोलोऽन्यो
निबध्यते तदा तत्र यथोक्तविषुवद्वृत्तं क्रान्ति-
वृत्तञ्च बद्ध्वा कक्षामण्डलं प्रकल्प्य तत्र छेद्यकोक्त-
विधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले
गणितागतपातं मेषादेर्विलोमं गणयित्वा तत्र
चिह्रं कार्य्यम् । अथ त्रिज्या व्यासार्द्धमेवान्यद्वृत्तं
राश्यङ्कं विमण्डलाख्यं कृत्वा तत्रापि मेषादेर्व्यस्तं
पाताग्रे चिह्नं कृत्वा प्रतिमण्डलविमण्डलयोः
सम्पातचिह्रे प्रथमं सम्पातम् । ततो भार्द्धान्तरे
द्बितीयं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्तरे
परमविक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे
च विमण्डलं न्यस्यम् । तत्र मन्दस्फुटगत्या
पारमार्थिको ग्रहो भ्रमति । अतो मेषादेरनु-
लोममन्दण्फुटो विमण्डले देयः । स तत्रस्थः
प्रतिमण्डलात् यावतान्तरेण विक्षिप्तस्तावान्
तत्प्रदेशे विक्षेपः । यतो वृत्तसंपातस्थे ग्रहे
विक्षेपाभावः त्रिभेऽन्तरे परमो विक्षेपो मध्ये-
ऽनुपातेन । अतो वृत्तसम्पातग्रहयोरन्तरं
ज्ञेयम् । तदन्तरं पातग्रहयोगे कृते भवति ।
पातस्य विलोमगत्वात् । संयोगः शरार्थं
केन्द्रम् । यदि त्रिज्यातुल्यया केन्द्रज्यया परम-
शरस्तदाभीष्टयानया क इति फलं प्रतिमण्डल-
विमण्डलयोस्तिर्य्यगन्तरं स्यात् । विमण्डलस्थ-
ग्रहाद्भूमध्यगं सूत्रं तद्भूमध्यग्रहान्तरं स च
शीघ्रकर्णः । यदि भूमध्यात् कर्णाग्रे एतावान्
विक्षेपस्तदा त्रिज्याग्रे कियानिति द्वितीयत्रैरा-
शिकम् । आद्ये त्रिज्या हरो द्वितीये गुणः ।
तयोर्नाशे कृते केन्द्रज्यायाः परमशरगुणायाः
कर्णो हरः फलं कक्षावृत्तसूत्रयोस्तिर्य्यगन्तरं
स्फुटशरः ॥ * ॥ इदानीमहोरात्रवृत्तमाह ।
ईप्सितक्रान्तितुल्येऽन्तरे सर्व्वतो नाडिकाख्या-
दहोरात्रवृत्ताह्वयं तत्र बद्ध्वा । घटीनाञ्च षष्ट्या-
ङ्कयेदस्य विष्कम्मखण्डं द्युजीवा मता । नाडी-
वृत्तादुत्तरतो दक्षिणतो वा सर्व्वत्रेष्टक्रान्ति-
तुल्यान्तरे यद्वृत्तं निबध्यते तदहोरात्रवृत्तं
तेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः ।
तस्य वृत्तस्य व्यासार्द्धं द्युज्या ॥ * ॥ इदानी-
मन्यदाह । अथ कल्प्या मेषाद्या ह्यनुलोमं
क्रान्तिपाताङ्कात् एषा मेषादीनां द्युरात्र-
वृत्तानि बध्नीयात् । नाडीवृत्तोभयतस्त्रीणि
त्रीणि क्रमोत्क्रमात्तानि । क्रान्तिपातादारभ्य
त्रिंशत्त्रिंशद्भिर्भागैरन्यान् मेषादीन् प्रकल्प्य
तदग्रेषूक्तवदहोरात्रवृत्तानि बध्नीयात् । तानि
च नाडीवृत्तोभयतस्त्रीणि त्रीणि भवन्ति
तान्येव क्रमोत्क्रमतः सायनांशार्कस्य द्वादश-
राशीनाञ्च ॥ * ॥ इदानीमस्योपसंहारः । एष
भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः ।
इति सिद्धान्तशिरोमणिः ॥

भग्नं, त्रि, (भन्ज् + क्तः । संघाद् विश्लिष्टत्वात्

तथात्वम् ।) पराजितम् । इति हेमचन्द्रः ॥
मुटितम् । चूर्णितम् । भाङ्गा इति भाषा ।
यथा, भट्टिः ।
“चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः ।
किं चित्रं यदि रामेण भग्नं क्षत्त्रियकान्तिके ॥”

भग्नं, क्ली, (भज्यते आमर्द्द्यते विश्लेष्यते इति ।

भञ्ज + क्तः ।) रोगविशेषः । अथ भग्नाधिकारः ।
तत्र भग्नस्य भेदमाह ।
“भग्नं समासाद्द्विविधं हुताश !
काण्डे च सन्धावपि तत्र सन्धौ ।
उत्पिष्टविश्लिष्टविवर्त्तितानि
तिर्य्यग्गतं क्षिप्तमधश्च षड्धा ॥”
भग्नमत्र भावार्थे क्तप्रत्ययस्तेन भग्नं भङ्गः स
चात्र विश्लेषोऽभिप्रेतः । तेन भग्नमत्रास्थि-
विश्लेषलक्षणम् । समासात् संक्षेपात् । हुताश !
हे अग्निवेश ! । यतश्चरकेऽग्निवेशस्य हुताशेति
नामान्तरमुक्तम् । काण्डे सन्धिपर्य्यन्ते एक-
खण्डे । अस्थिसन्धौ द्वयोरस्थ्नोः सन्धानस्थाने ।
तत्र सन्धौ उत्पिष्टादिभेदैः षट्प्रकारं भग्नं
भवति । स्वल्पवक्तव्यत्वेन सन्धिभग्नस्यादौ विव-
रणम् । उत्पिष्टेत्यादि । अधः अधोभग्नम् ॥ * ॥
सन्धिभग्नस्य सामान्यं लिङ्गमाह ।
“प्रसारणाकुञ्चनवर्त्तनोग्रा-
रुक्स्पर्शविद्वेषणमेतदुक्तम् ।
सामान्यतः सन्धिगतस्य लिङ्ग-
मुत्पिष्टंसन्धेः श्वयथुः समन्तात् ॥
विशेषतो रात्रिभवा रुजश्च
विश्लिष्टके तौ च रुजा च नित्यम् ॥”
वर्त्तनं परिवर्त्तनम् ॥ * ॥ उत्पिष्टस्य लिङ्गमाह ।
उत्पिष्टसन्धेः उत्पिष्टः द्बाभ्यामस्थिभ्यां पिष्टः
सन्धिर्यस्य तस्य । समन्तात् उभयभागद्वयोः ।
विश्लिष्टमाह विश्लिष्ट इत्यादि । तौ उभयतः
शोथौ । रुजा च नित्यं सदा रुजाधिका भवती-
त्युत्पिष्टाद्भेदः ॥ * ॥ विवर्त्तिततिर्य्यग्गताक्षिप्ताधो-
गतानाह ।
पृष्ठ ३/४७५
“विवर्त्तिते पार्श्वरुजश्च तीव्रा-
स्तिर्य्यग्गते तीव्ररुजो भवन्ति ।
क्षिप्तेऽतिशूलं विषमञ्च सक्थ्नोः
क्षिप्ते त्वधो रुक् विघटश्च सन्धेः ॥”
विवर्त्तिते सन्धावमुक्ते । अस्थिद्बयोपरिवर्त्तिते
पार्श्वरुजः सन्धिस्थितास्थिखण्डद्बयपार्श्वयो
रुजः । तिर्य्यग्गते सन्धिगते । एकस्मिन्नस्थ्नि
सन्धिस्थानं त्यक्त्वा तिर्य्यग्गते क्षिप्ते सक्थ्नोः
ऊरुसन्ध्योः । एकस्मिन्नस्थ्नि परस्यास्थ्न उपरिगते ।
सक्थ्नोः अतिशूलं तत्र विषमं कदाचिदधिकं
कदाचिन्न्यूनम् । अधःक्षिप्ते सन्धिगते एक-
स्मिन्नस्थ्नि अघोगते । रुक् सन्धेर्विघटः विघ-
टनञ्च ॥ * ॥ काण्डभग्नमाह । भग्नञ्च काण्डे
बहुधा प्रयाति विशेषतो नामभिरेव तुल्यम् ।
भग्नं काण्डे काण्डविषये बहुधा बहुभिः प्रकारैः
प्रयाति । अत्र बहुविधत्वं द्वादशविधत्वं
बोद्धव्यम् । बहुविधस्य काण्डभग्नस्य पृथक्
लक्षणं नोक्तं किन्तु काण्डंनामभिरेव तुल्यत्वम् ।
कर्कटकादिनामानुरूपमेव लक्षणं किन्तु
नामभिरेव बोद्धव्यम् ॥ * ॥ तान् प्रकारा-
नाह ।
“काण्डे त्वतः कर्कटकाश्वकर्णौ
विचूर्णितं पिच्चितमस्थि छल्लितम् ।
काण्डेषु भग्नं ह्यतिपातितञ्च
मज्जागतं विस्फुटितञ्च वक्रम् ॥”
छिन्नं द्बिधा द्बादशधा च काण्डे । अतः सन्धि-
भग्नानन्तरं काण्डे काण्डभग्ने तदाह । कर्कटकः
अस्थिविश्लेषपूर्ब्बको मध्ये प्रोन्नतः पार्श्वयोरव-
नतः कर्कटतुल्यरूपत्वात् कर्कटः । अश्वकर्णः
अश्वकर्णवद्विपुलास्थिनिर्गमादश्वकर्णः । विचू-
र्णितं चूर्णितमस्थि तच्च शब्दस्पर्शाभ्यां बोद्धव्यम् ।
पिच्चितमस्थि नियन्त्रितं बहुशोथम् । छल्लितं
विश्लिष्टं सम्यक्स्रवम् । काण्डेषु भग्नं काण्ड-
भग्नम् । यद्यपि कर्कटकादि सर्व्वमेव काण्डभग्नं
तथापि इयं काण्डभग्नसंज्ञांविशिष्टा । अत्र
भग्नं भङ्गः त्रुटिः तेन सर्व्वथा त्रुटितं पृथग्भूतं
त्वचि स्थितं यत्र काण्डं तत्काण्डभग्नम् ।
अतिपातितं अशेषेण छित्त्वा पातितमस्थि ।
मज्जागतं अस्थ्यवयवोऽस्थिमध्ये प्रविश्य मज्जानं
गतम् । विस्फुटितं स्तोकविदीर्णं वक्रं स्थानं
त्यक्त्वा कुब्जीभूतम् । छिन्नं द्बिधा एकं विदीर्णं
सत् लग्नं अपरं विदीर्य्य द्विधाभूतम् । द्वादशधा
च काण्डे । काण्डे च भग्नं द्वादशधेत्यन्वयः ।
तच्चोक्तमेव कर्कटकादि ॥ * ॥ काण्डभग्नस्य
सामान्यं लक्षणमाह ।
“स्रस्ताङ्गता शोथरुजातिवृद्धिः
संपीड्यमाने भवतीह शब्दः ।
स्पर्शासहं स्पन्दनतोदशूलं
सर्व्वास्ववस्थामु न शर्म्मलाभः ॥”
भग्नस्य काण्डे खलु चिह्नमेतत् ॥”
स्पर्शासहमिति काण्डभग्नस्य विशेषणं स्पन्दनं
नाडीनां स्फुरणं शूलं शूलेनेव व्यथा । रुजा
सामान्या पीडा । सर्व्वास्ववस्थासु शयनासना-
दिषु ॥ कष्टसाध्यमाह ।
“अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च ।
उपद्रवैर्वा जुष्टस्य भग्नं कृच्छेण सिध्यति ॥”
अनात्मवतो रोगप्रतीकारे यत्नरहितस्य ।
वातात्मकस्य च वातप्रकृतेः । उपद्रवैः ज्वरा-
ध्मानमोहमूत्रपुरीषसङ्गादिभिः ॥ * ॥ असाध्य-
माह ।
“भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथा
च्युतम् ।
जघनं प्रतिपिष्टञ्च वर्जयेत्तच्चिकित्सकः ॥”
कपालं जानुनितम्बांसगण्डतालुशङ्खवङ्क्षणशिरो
ऽस्थीनि कपालानि तथा च्युतं तथा क्षिप्तम् ।
प्रतिपिष्टं उत्पिष्टम् ॥ पुनरसाध्यमाह ।
“असंश्लिष्टकपालञ्च ललाटे चूर्णितञ्च यत् ।
भग्नं गुदे स्तने पृष्ठे शङ्खे मूर्द्धनि वर्ज्जयेत् ॥”
असंश्लिष्टकपालमिति भग्नविशेषणम् । स्तने
स्तनयोरन्तरे उरसि । मूर्द्धनि चूडस्थाने ॥ * ॥
अपरमप्यसाध्यमाह ।
“सम्यक्संहितमप्यस्थि दुर्न्यासाद्दुष्टबन्धनात् ।
संक्षोभाद्वापि यद्गच्छेद्विक्रियां तच्च वर्ज्जयेत् ॥”
सम्यक्संहितमपि सम्यग्योजितमपि अस्थि
दुर्न्यासात् दुःस्थापनात् संन्यस्तमपि दुष्टबन्धनात्
सुबद्धमपि संक्षोभात् अभिघातादिना सञ्चल-
नात् यद्विक्रियां गच्छेत् विकृतं भवति तद्वर्ज्ज-
येत् ॥ अस्थिविशेषेण भग्नविशेषमाह ।
“तरुणास्थीनि नम्यन्ते भिद्यन्ते नलकानि तु ।
कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च ॥
तरुणास्थीनि घ्राणकर्णाक्षिगुदेषु कोमलास्थीनि
नम्यन्ते वक्रीभवन्ति । तेनात्र वक्रतालक्षणं
भग्नम् । नलकानि नलादीनि नाडीवत् सरन्ध्रा-
ण्यस्थिपर्व्वाणि भिद्यन्ते अस्थ्यन्तरानुप्रवेशाद्वि-
दीर्य्यन्ते । कपालानि जानुनितम्बांसगण्डतालु-
शङ्खशिरोऽस्थीनि विभज्यन्ते स्फुटन्ति रुच-
कानि दन्ताः स्फु टन्ति त्रुटन्ति । अस्थीनि
तरुणानलककपालरुचकबलयभेदात् पञ्च-
विधानि । तत्र रुचकानि चेति । चकाराद्बल-
यान्यपि त्रुटन्तीति बोद्धव्यम् ।
“पाण्योः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु ।
पादयोरपि चास्थीनि बलयानि बभाषिरे ॥”
अथ भग्नस्य चिकित्सा ।
“भग्ने लेपाय मञ्जिष्ठामधुकञ्चाम्बुपेषितम् ।
शतधौतघृतोन्मिश्रं शालिपिष्टञ्च लेपनम् ॥”
लेपात् पिष्टिकलवणैरम्लीका फलरसाभ्यां वा ।
सद्योऽभिघातजनिता रागरुजा श्वयथवः प्रशा-
म्यन्ति ।
“सघृतञ्चास्थिसंहारं लाक्षागोधूममर्ज्जुनम् ।
सन्धिभग्नेऽस्थिसम्भग्ने पिबेत् क्षीरेण वा पुनः ॥”
घृतेन पिबेत् क्षीरेण वेत्यर्थः । अस्थिसंहारः
हडसिंहार इति लोके ।
“रसोनामधुलाक्षाज्यसिताकल्कं समश्नतः ।
छिन्नभिन्नव्युतास्थ्नाञ्च सन्धानमचिराद्भवेत ॥”
“लाक्षास्थिसंहृत् ककुभाश्वगन्धा
चूर्णीकृता नागवला पुरश्च ।
संभग्नमुक्तास्थिरुजो निहन्या-
दङ्गानि कुर्य्यात् कुलिशोपमानि ॥”
अस्थिसंहृत् हडसिंहार । लाक्षादिगुग्गुजुः ॥
“मांसं मांसरसः क्षीरं सर्पिर्यूषः कलायजः ।
बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता ॥
लवणं कटुकं क्षारं मद्यं मैथुनमातपम् ।
रूक्षमन्नं श्रमञ्चापि भग्नः सेवेत न क्वचित् ॥”
इति भावप्रकाशे भग्नाधिकारः ॥
(अथास्य निदानं यथा । पतनपीडनप्रहारा-
क्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै-
रनेकविधमस्थ्नां भङ्गमुपदिशन्ति तत्तु भङ्गजात-
मनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तं
काण्डभग्नञ्च ॥ इति सुश्रुते निदानस्थाने पञ्च-
दशेऽध्याये ॥
अथ भग्नचिकित्सा ।
“भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेष-
जम् ।
मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा ॥
पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ! ।
ग्रीवादेशे चेन्द्रवस्तौ रोहिण्यां कूर्परादधः ॥
स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः ।
उरसि क्रोडके चैव विभग्नं तदसाध्यकम् ॥
विभग्नञ्च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् ।
म्रक्षयेन्नवनीतेनैरण्डपत्रैश्च वेष्टयेत् ॥
उष्णाम्भसा सेचयेच्च बस्त्रेण मृदु बन्धयेत् ।
धवार्ज्जु नकदम्बानां बल्कलं काञ्जिकेन तु ॥
पिष्ट्रा हितः प्रलेपश्च तेन सौख्यं प्रजायते ।
स्वेदयेत्तानि चोष्णेन आवासं कारयेत् पुनः ॥
एवं क्रिया समापत्तौ ततो बन्धं विमोचयेत् ।
एकाहान्तरिते नापि पूर्ब्बवत्तत् प्रबन्धयेत् ॥
यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ॥
इति हारीते चिकित्सितस्थाने । ५६ अः ॥
अथ पथ्यविधिः ।
“शीताम्बुसेचनं पङ्कप्रदेहो बन्धनक्रिया ।
शालिप्रियङ्गुगोधूमा यूषो मुद्गसतीलयोः ॥
नवनीतं घृतं क्षीरं तैलं माषरसो मधु ।
पटोलं लशुनं शिग्रु पत्तूरो बालमूलकम् ॥
द्राक्षा धात्री वज्रवल्ली लाक्षा यच्चापि वृंहणम् ।
तत्सर्व्वं भिषजा नित्यं देयं भग्नाय जानता ॥”
अथात्रापथ्यविधिः ।
“लवणं कटुकं क्षारमम्लं मैथुनमातपम् ।
व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च ॥”
इत्यायुर्व्वेदपथ्यापथ्यग्रन्थस्य भग्नाधिकारे ॥)

भग्नपादर्क्षं, क्ली, (भग्नपदं ऋक्षम् ।) पुष्कराख्य-

नक्षत्रषट्कम् । यथा, --
“पुनर्व्वसूत्तराषाढा कृत्तिकोत्तरफल्गुनी ।
पूर्ब्बभाद्रं विशाखा च षडेते पुष्कराः स्मृताः ॥
भग्नपादर्क्षसंयोगात् द्बितीया द्बादशी यदि ।
सप्तमी चार्कमन्दारे जायते जारजो ध्रुवम् ॥”
इति ज्योतिस्तत्त्वम् ॥
पृष्ठ ३/४७६

भग्नपृष्ठः, पुं, (भग्नं पृष्ठमस्मिन् ।) सम्मुखः । इति

त्रिकाण्डशेषः ॥ मुटितमेरुदण्डः । यथा, --
“भग्नपृष्ठकटिग्रीवं स्तब्धदृष्टि ह्यधोमुखम् ।
कष्टेन लिखितं पुस्तं यत्नेन परिपालयेत् ॥”
इति प्राचीनवाक्यम् ॥
(भग्नं पृष्ठं यस्य । मुटितमेरुदण्डे, त्रि ॥)

भग्नसन्धिः, पुं, (भग्नः सन्धिरत्रास्माद् वा ।)

शरीरस्य सन्धिस्थानभङ्गरोगविशेषः । तस्यौ-
षधं यथा, --
“अभया त्रिफला व्योषः सर्व्वैरेभिः समीकृतैः ।
तुल्यो गुग्गुलुना योज्या भग्नसन्धिप्रसारकः ॥”
इति गारुडे १७५ अध्यायः ॥

भग्नसन्धिकं, क्ली, (भग्नो विश्लिष्टः दध्नः सन्धिः

सवातोऽत्र ।) घोलम् । इति शब्दचन्द्रिका ॥

भग्नात्मा, पुं, (भग्नः क्रमेण हीन आत्मा देहो

यस्य । कृष्णप्रतिपदादिक्रमेणैकैककलाच्छेदेन
भग्नदेहत्वादस्य तथात्वम् ।) चन्द्रः । इति
शब्दचन्द्रिका ॥

भग्नाशः, त्रि, (भग्ना आशा यस्य । हताशः ।

दीर्घतृष्णाभङ्गयुक्तः । यथा, --
“अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥”
इत्याह्रिकतत्त्वम् ॥

भग्नी, स्त्री, (भगिनी । पृषोदरादित्वात् साधुः ।)

भगिनी । इति द्बिरूपकोषः ॥

भङ्कारी, स्त्री, (भमित्यव्यक्तशब्दं करोतीति ।

कृ + अण् । गौरादित्वात् ङीष् ।) दंशः ।
इति त्रिकाण्डशेषः ॥

भङ्क्ता, [ऋ] त्रि, भङ्गकर्त्ता । भन्जधातोः कर्त्तरि

तृन्प्रत्ययेन निष्पन्नः ॥ (यथा, मनौ । ९ । २८९ ।
“प्राकारस्य च भेत्तारं परिखानाञ्च पूरकम् ।
द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥”

भङ्गः, पुं, (भज्यते इति । भञ्ज + कर्म्मणि घञ् ।)

तरङ्गः । इत्यमरः । १ । १० । ५ ॥ पराजयः ।
(भन्ज् + भावे घञ् ।) भेदः । रोगविशेषः ।
इति मेदिनी । गे, १३ ॥ (रोगविशेषार्थे यथा, --
“पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां सन्ध्यसन्धितः ।
प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता ॥
इतरस्मिन् भृशं शोफः सर्व्वावस्थास्वतिव्यथा ।
अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता ॥
समासादिति भङ्गस्य लक्षणं बहुधा तु तत् ।
भिद्यते भङ्गभेदेन तस्य सर्व्वस्य साधनम् ॥
यथास्यादुपयोगाय तथा तदुपदेक्ष्यते ।
प्राप्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत् ।
यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः ।
भग्नं यच्चाभिधातेन किञ्चिदेवावशेषितम् ॥
उन्नम्यमानं क्षतयत् यच्च मज्जति मज्जति ।
तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि ॥
भिन्नं कपालं यत्कट्यां सन्धिमुक्तं च्युतञ्च यत् ।
जघनं प्रतिपिष्टञ्च भग्नं यत्तद्विवर्ज्जयेत् ॥
असंश्लिष्टकपालञ्च ललाटं चूर्णितन्तथा ।
यच्च भग्नं भवेच्छङ्खशिरः पृष्ठस्तनान्तरे ।
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात् ॥
संक्षोभादपि यद्गच्छेद्विक्रियां तद्बिवर्ज्जयेत् ।
आदितो यच्च दुर्ज्जातमस्थिसन्धिरथापि वा ॥
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥
कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा ।
अथावनतमुन्नम्यमुन्नतञ्चावपीडयेत् ॥
आञ्छेदतिक्षिप्तमधो गतञ्चोपरि वर्त्तयेत् ।
आञ्छनोत्पीडनोन्नामचर्म्मसंक्षपबन्धनैः ॥
सन्धीन् शरीरगान् सर्व्वान् चलानप्यचलानपि ।
इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्चलम् ॥
पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः ।
कदम्बोदुम्बराश्वत्थसर्ज्जार्ज्जुनपलाशजैः ॥
वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः ।
सुश्लक्ष्णैः सुप्रतिस्तम्भैर्बल्कलैः शकलैरपि ॥
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ।
शिथिलेन हि वन्धेन सन्धेः स्थैर्य्यं न जायते ।
गाढेनातिरुजादाहपाकश्वयथुसम्भवः ।
त्र्यहात्त्र्यहादृतौ घर्म्मे सप्ताहान्मोक्षयेद्धिमे ॥
साधारणे तु पञ्चाहाद्भङ्गदोषवशेन वा ।
न्यग्रोधादिकषायेण ततः शीतेन सेचयेत् ॥
तं पञ्चमूलपक्वेन पयसा तु सवेदनम् ।
सुखोष्णं वावचार्य्यं स्याच्चक्रतैलं विजानता ॥
विभज्य देशं कालञ्च वातघ्नौषधसंयुतम् ।
प्रततं सेकलेपांश्च विदध्याद्भृशशीतलान् ॥
गृष्टिक्षीरं स सर्पिष्कं मधुरौषधसाधितम् ।
प्रातः प्रातः पिबेद्भग्नः शीतलं लाक्षया युतम् ॥
सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः ।
कषायैः प्रतिसार्य्योऽथ शेषो भङ्गोदितः क्रमः ॥
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा ।
सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत् ॥
तान् समान् सुस्थिताज्ज्ञात्वा फलिनीरोध्र-
कट्फलैः ।
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत् ॥
धातकीरोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः ।
इति भङ्ग उपक्रान्तः स्थिरधातोरॄतौ हिमे ॥
मांसलस्याल्पदोषस्य सुसाध्यो दारुणोऽन्यथा ।
पूर्ब्बमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात् ॥
मासैः स्थैर्य्यं भवेत् सन्धेर्यथोक्तं भजतो विधिम् ।
कटीजङ्घोरुभग्नानां कपाटशयनं हितम् ॥
यन्त्रणार्थं तथाकीलाः पञ्च कार्य्या निबन्धनाः ।
जङ्घोर्व्वोः पार्श्वयोर्द्बौ द्बौ तल एकश्च कीलकः ॥
श्रोण्यां वा पृष्ठवंशे वा वक्त्रस्याक्षकयोस्तथा ।
विमोक्षे भग्नसन्धीनां विधिमेवं समाचरेत् ॥
सन्धींश्चिरविमुक्तांश्च स्निग्धस्विन्नान् मृदूकृतान् ।
उक्तैर्विधानैर्बुद्ध्या च यथास्वं स्थानमाचरेत् ॥
असन्धिभग्ने रूढे तु विषमोल्वणसाधिते ।
आपोथ्य भङ्गं यमयेत्ततो भग्नवदाचरेत् ॥
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
पक्वमांससिरास्नायुसन्धिः श्लेषं न गच्छति ॥
वातव्याधिविनिर्द्दिष्टान् स्नेहान् भग्नस्य
योजयेत् ॥”
इति वाभटे उत्तरस्थाने । २७ अध्यायः ॥)
कौटिल्यम् । भयम् । विच्छित्तिः । इति हेम-
चन्द्रः ॥ (विच्छित्त्यर्थे व्यवहारो यथा, --
“षड्धातुविभागो वियोगः सजीवापगमः
सप्राणनिरोधः स भङ्गः स्वलोकस्वभावः । इति
चरके शारीरस्थाने पञ्चमेऽध्याये ॥)
रोगमात्रम् । इति राजनिर्घण्टः ॥ गमनम् ।
जलनिर्गमः । इत्यजयपालः ॥ (नागभेदः ।
यथा, महाभारते । १ । ५७ । ९ ।
“उच्छिखः शरभा भङ्गो विल्वतेजा विरोहणः ॥”)

भङ्गवासा, स्त्री, (भङ्गेन वासः सौरभमस्याः ।)

हरिद्रा । इति शब्दरत्नावली ॥

भङ्गसार्थः, त्रि, (भङ्गं वक्रभावं अनार्ज्ववत्वमित्यर्थः

स्यति व्यवस्यति यत् या क्रिया इति यावत्
भङ्गसमर्थयतीति अर्थ + अच् । कौटिल्यव्यव-
सायक्रियार्थित्वादस्य तथात्वम् ।) कुटिलः ।
इति हारावली ॥

भङ्गा, स्त्री, (भज्यते इति । भन्ज् + “हलश्च ।”

३ । ३ । १२१ । इति बाहुलकाद् घञ् टाप् ।)
वृक्षविशेषः । तत्पर्य्यायः । मातुलानी २ । इत्य-
मरः । २ । ९ । २० ॥ (अस्याः पर्य्याया गुणाश्च यथा,
“भङ्गा गजा मातुलानी मादिनी विजया जया ।
भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः ॥
तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्द्धिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
द्वे भङ्गायां भङ्गा काश्मीरेषु स्वनामख्याता ।
इति सुभूत्यादयः । इति भरतः ॥ एतस्याः
फलं कलायपरिमाणमिति सर्व्वस्वम् । इति
सारसुन्दरी ॥ शणाख्यशस्यम् । यथा, --
भङ्गा शस्ये शणाह्वये । इति मुकुटधृतरुद्रः ॥
त्रिवृता । तेउडी इति भाषा । यथा, --
“त्रिभण्डी रेचनी भङ्गा कलिङ्गा परिपाकिनी ॥”
इति शब्दचन्द्रिका ॥
औषधविशेषः । भाङ् इति सिद्धि इति च
भाषा । यथा, --
“त्रैलोक्यविजया भङ्गा विजयेन्द्राशनं जया ॥”
इति शब्दचन्द्रिका ॥
अस्या गुणाः विजयाशब्दे द्रष्टव्याः ॥

भङ्गानः, पुं, (भङ्गेन अनिति इति । अन् + अच् ।)

मत्स्यविशेषः । भाङ्गन इति भाषा । तत्-
पर्य्यायः । दीर्घजङ्गलः २ । इति शब्दमाला ॥

भङ्गारी, स्त्री, (भङ्कारी पृषोदरात् साधुः ।)

दंशः । इति त्रिकाण्डशेषः ॥

भङ्गिः, स्त्री, (भज्यतेइति । भन्ज + इन् । नङ्क्वादित्वात्

कुत्वम् ।) विच्छेदः । (यथा, रघौ । १३ । ६९ ।
“यानादवातरदद्रूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः ॥”)
कौटिल्यभेदः । इत्यमरभरतौ ॥ विन्यासः । इति
कलिङ्गः ॥ (भङ्गं करोतीति । भन्ज + णिच् +
इः ।) कल्लोलः । इत्यरुणदत्तः ॥ भङ्गः । इत्यन्ये ॥
व्याजः । छलनिभः । इति रभसः ॥

भङ्गिमा, [न्] पुं, (भङ्ग + बाहुलकात् स्वार्थे

इमनिच् ।) भङ्गिः । यथा, --
पृष्ठ ३/४७७
“अधरे कज्जलं चारु दृशोस्ताम्बूलरङ्गिमा ।
प्राणनाथ ! किमेतत्ते वेशविन्यासभङ्गिमा ॥”
इति काव्यचन्द्रिका ॥

भङ्गी, स्त्री, (भङ्गि + कृदिकारादिति पक्षे ङीप् ।)

भङ्गिः । यथा, --
“जानामि मानमलसाङ्गि ! वचो विभङ्गीं
भङ्गीशतं नयनयोरपि चातुरीञ्च ।
आभीरनन्दनमुखाम्बुजसङ्गशंसी
वंशीरवो यदि न मामवशीकरोति ॥”
इत्युद्भटः ॥

भङ्गुरः, त्रि, (भज्यते स्वयमेवेति । भन्ज + “भञ्ज-

भासमिदो घुरच् ।” ३ । २ । १६१ । इति कर्म्म-
कर्त्तरि घुरच् । घित्वात् कुत्वमिति काशिका ।
स्वयं भञ्जनशीलः । यथा, भागवते । ७ । ७ । ४३ ।
“कामान् कामयते काम्यैर्यदर्थमिह पूरुषः ।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥”)
कुटिलः । इति जटाधरः ॥

भङ्गुरः पुं, (भञ्ज + धुरच् । कुत्वञ्च ।) नद्या वङ्कः ।

इति शब्दमाल्य । नदीर वाँक इति भाषा ॥

भङ्गुरा, स्त्री, (भङ्गुर + टाप् ।) अतिविषा ।

प्रियङ्गुः । इति राजनिर्घण्टः ॥ (अतिविषा-
शब्दे प्रियङ्गुशब्दे चास्य विषयो ज्ञेयः ॥)

भङ्ग्यं, क्ली, (भङ्गाया भवनं क्षेत्रमिति । भङ्ग +

“विमाषा तिलमाषोमाभङ्गाणुभ्यः ।” ५ । २ । ४ ।
इति पक्षे यत् ।) भङ्गाक्षेत्रम् । तत्पर्य्यायः ।
भाङ्गीनम् २ । इत्यमरभरतौ ॥ (भङ्गमर्हतीति ।
भङ्ग + दण्डादित्वाद् यत् । भङ्गार्हे त्रि ॥)

भचक्रं, क्ली, (भानां राशीनां चक्रम् । भानां

स्वस्वसंस्थानविशेषैर्विरचितो गोलाकारः
पदार्थः ।) राशिचक्रम् । यथा, --
“भ्रमावर्त्तो भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः ।
आराचक्रे त्विन्दुभौमौ शुक्रजीवशनैश्चराः ॥
राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः ।
यदा दिक्षु च अष्टासु मेरोर्भूगोलकोद्भवा ॥
छाया भवेत्तदा रात्रिः स्याच्च तद्विरहा-
द्दिनम् ।
सूर्य्येन्दोरुपरागस्तु गोलकच्छायया भवेत् ॥
अन्योन्ययोस्तयोरेव व्यापयोरेव कारणात् ॥
ग्रासमोक्षौ तु जायेते तत्रातः पूर्ब्बपश्चिमौ ॥
तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना ॥”
इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
अथ भचक्रभ्रमणव्यवस्थामाह ।
“निरक्षदेशे क्षितिमण्डलोपगौ
ध्रुवौ नरः पश्यति दक्षिणोत्तरौ ।
तदाश्रितं खे जलयन्त्रवत् सदा
भ्रमद्भचक्रं निजमस्तकोपरि ॥
उदग्दिशं याति यथा यथा नर-
स्तथा तथा खान्नतमृक्षमण्डलम् ।
उदग्ध्रुवं पश्यति चोन्नतं क्षिते-
स्तदन्तरे योजनजाः पलांशकाः ॥
योजनसंख्या भांशै ३६० र्गुणिता
कुपरिधिहृता ४९६७ भवन्त्यंशाः ।
भूमौ कक्षायां वा भागेभ्यो
योजनानि च व्यस्तम् ॥”
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥
(भानां नक्षत्राणां चक्रमितिविग्रहे नक्षत्र-
चक्रम् । नक्षत्रसमूहश्च ॥)

भज, इक् भासि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इक् भञ्जयति । भासि
दीप्तौ । इति दुर्गादासः ॥

भज, क पाके । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क भाजयति । विश्राणने
इति प्राञ्चः । विश्राणनं दानम् । इति दुर्गा-
दासः ॥

भज, ञ औ भागसेवयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-सक०-अनिट् ।) ञ विभजति
विभजते धनं भ्राता । औ अभाक्षीत् कृष्णं
साधुः । इति दुर्गादासः ॥

भजन् [त्] त्रि, (भजति विभजतीति वा । भज

+ लटः शत्रादेशः ।) भागकर्त्ता । सेवा-
कर्त्ता । इति भजधातोः कर्त्तरि शतृप्रत्ययेन
निष्पन्नम् ॥

भजनं, क्ली, (भज + भावे ल्युट् ।) भागः । सेवा ।

इति भजधातोर्भावे अनट्प्रत्ययेन निष्पन्नम् ।
“दारास्ते ये भजनसहायाः
पुत्त्रास्ते ये तद्धनकायाः ।
धनमपि तद्वद्धरिभजनार्थं
नो चेदेतत् सर्व्वं व्यर्थम् ॥”
इति मोहमुद्गरः ॥

भजमानः, त्रि, (भजते फलमनुबध्नातीति । भज +

“ताच्छील्यवयोवचनशक्तिषु चानश् ।” १ ।
२ । १२९ । इति आनश् । शानज् वा ।)
न्याय्यम् । न्यायागतद्रव्यादिः । इत्यमरः । २ । ८ ।
२४ ॥ भागकर्त्ता । सेवाकर्त्ता । इति भजधातोः
कर्त्तरि शानप्रत्ययेन निष्पन्नम् ॥ (सात्वतनृपस्य
पुत्त्रभेदः । यथा, भागवते । ९ । २४ । ६ ।
“पुरुहोत्रस्त्वनोः पुत्त्रस्तस्यायुः सात्वतस्ततः ।
भजमानो भजिर्दिव्योवृष्णिर्देवावृधोऽन्धकः ॥”)

भञ्जकः, त्रि, (भञ्ज् + ण्वुल् ।) भञ्जनकर्त्ता ।

भनक्ति यः इत्यर्थे भन्जधातोः कर्त्तरि णकप्रत्य-
येन निष्पन्नः ॥

भञ्जन्, त्रि, वर्त्तमानभञ्जनाश्रयः । इति भन्ज-

धातोः कर्त्तरि शतृप्रत्ययेन निष्पन्नम् ॥

भञ्जनं, क्ली, मोटनम् । इति भन्जधातोर्भावे

अनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते ।
१२ । ५९ । ६२ ।
“यन्त्राणि विविधान्येव क्रियास्तेषाञ्च वर्णिताः ।
अवमर्द्दः प्रतीघातः केतनानाञ्च भञ्जनम् ॥”)

भञ्जनकः, पुं, (भनक्ति आमर्द्दयतीति । भञ्ज +

ल्युः । ततः स्वार्थे संज्ञायां वा कन् ।) मुखरोग-
विशेषः । तस्य निदानादि यथा, --
“वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते ।
कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥”
इति माधवकरः ॥

भञ्जरुः, पुं, (भनक्तीति । भञ्ज + बाहुलकात् अरु-

प्रत्ययः ।) देवकुलोद्भूततरुः । तत्पर्य्यायः ।
काचिमः २ । इति त्रिकाण्डशेषः ॥

भञ्जा, स्त्री, (भनक्ति भयादिकमिति । भञ्ज +

अच् । टाप् ।) अन्नपूर्णा । यथा, --
“भीतिहा भयहन्त्री च भावनावशवर्त्तिनी ।
भीमाङ्गवासिनी भञ्जा भित्तिसंवित्तिवर्द्धिनी ॥”
इति रुद्रयामले सप्तविद्यारहस्यम् ॥

भट, भृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) भृतिरिह पोषणम् । कर्म्ममूल्य-
मिति गोविन्दभट्टः । भटति भृत्यं स्वामी । इति
दुर्गादासः ॥

भट म भाषणे । इति कविकल्पद्रुमः । (भ्वा०-

पर०-सक०-सेट् घटादिः ।) म भटयति ।
भाषणं कथनम् । इति दुर्गादासः ॥

भटः, पुं, (भट्यते भ्रियते इति । यद्वा भटतीति ।

भट + अच् ।) योद्धा । इत्यमरः । २ । ८ । ६१ ॥
(यथा, भागवते । ८ । १० । ९ ।
“उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः ।
केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥”
म्लेच्छभेदः । इति हेमचन्द्रः ॥ वीरः । (यथा,
नैषधे । १ । १३२ ।
“पदे पदे सन्ति भटा रणोद्भटा
न तेषु हिंसारस एष पूर्य्यते ।
धिगीदृशन्ते नृपते ! कुविक्रमं
कृपाश्रये यः कृपणे पतत्त्रिणि ॥”)
पामरविशेषः । इति मेदिनी । टे, २४ ॥
रजनीचरः । इति शब्दरत्नावली ॥ वर्णसङ्कर-
विशेषः । यथा,
“वर्द्ध्वकाराद्भटो जातो नाटिक्यां वरवाहकः ॥”
इति पराशरपद्धतिः ॥

भटा, स्त्री, (भट + टाप् ।) इन्द्रवारुणी । इति

रत्नमाला । राखालशसा इति भाषा ॥

भटित्रं, क्ली, (भटति भट्यते वेति । भट् + इत्र ।)

शूलपक्वमांसादि । इत्यमरः । २ । ९ । ४५ ॥
कावाव इति पारस्यभाषा ॥

भट्टः, पुं, (भटतीति । भट् + बाहुलकात् तन् ।)

जातिविशेषः । भाट इति भाषा । तस्योत्-
पत्तिर्यथा, --
“वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह ।
स भट्टो वावदूकश्च सर्व्वेषां स्तुतिपाठकः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
अपि च ।
“क्षत्त्रियाद्बिप्रकन्यायां भट्टो जातोऽनुवाचकः ॥”
इति युधिष्ठिरपरशुरामसंवादे जातिसङ्कर-
लक्षणम् ॥ शिविरान्तिके राज्ञा तस्य वासो
देयः । यथा,
“ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ।
भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०१ अः ॥

भट्टाचार्य्यः, पुं, (भट्टः तुतातभट्टः । आचार्य्यः

उदयनाचार्य्यः तौ तुल्यतया तन्मताभिज्ञत्वेना-
पृष्ठ ३/४७८
स्त्यस्येति । अण् ।) तुतातभट्टमतं न्यायशास्त्रम्
उदयनाचार्य्यमतं न्यायशास्त्रम् एतदुभय-
शास्त्रवेत्ता । एतदुभयमतं जानाति यः इत्यर्थे
ढघेकादिति कारकात् कर्त्तरि अणिता
ष्णप्रत्ययेन निष्पन्नः ॥

भट्टारः, त्रि, (भटतीति । भट् + क्विप् । भट्

चासौ तारश्चेति कर्म्मधारयः । पृषोदरादित्वात्
साधुः । यद्वा भट्टं स्वामित्वं ऋच्छतीति ।
अण् ।) पूज्यः । इति त्रिकाण्डशेषः ॥ (यथा,
राजतरङ्गिण्याम् । ७ । ८६७ ।
“नोनसिह्लारभट्टारप्रशस्तकलसादयः ।
बद्द्वाथ हर्षदेवेन कारागारं प्रवेशिताः ॥”)

भट्टारकः, पुं, (भट्टार । संज्ञायां कन् ।) नाट्योक्तौ

राजा । इत्यमरः । १ । ७ । १३ ॥ देवः । तपोधनः ।
इति मेदिनी । के, २५० ॥ पूज्ये त्रि । इति
जटाधरः ॥ (यथा, राजतरङ्गिण्याम् । ६ । २४० ।
“प्रविष्टेषु ततः कोपात् पुरं शुभधरादिषु ।
भट्टारकामठेदिद्दा भूयः पुत्त्रं व्यसर्ज्जयत् ॥”)

भट्टारकवारः, पुं, (भट्टारः संज्ञायां कन् । भट्टा-

रकः सूर्य्यः तस्य वारः ।) रविवारः । यथा, --
“सखे ! स्नायुनिर्म्मितपाशास्तदद्य भट्टारक-
वारे कथमेतान् दन्तैः स्पृशामि ॥” इति हितो-
पदेशे १ परिच्छेदे मृगं प्रति जम्बूकवाक्यम् ॥

भट्टिः, पुं, स्वनामख्यातरामकथाश्रयमहाकाव्यम् ।

तत्तु बलभीवास्तव्यश्रीस्वामिसूनुभट्टमहाब्राह्मण-
महावैयाकरणेन कृतम् । इति जयमङ्गलकृता
तट्टीका ॥ एतत् काव्यं भर्त्तृहरिणा कृतमिति
भरतमल्लिकेनं लिखितम् ॥

भट्टिनी, स्त्री, (भट्टं स्वामित्वमस्या अस्तीति ।

भट्ट + इनिः + ङीप् ।) नाट्योक्तौ अकृताभि-
षेका राजपत्नी । इत्यमर । १ । ७ । १३ ॥
ब्राह्मणभार्य्या । इति मेदिनी । ने, ३१ ॥

ड इक् शिवे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् । इदित् ।) शिवं कल्याण-
क्रिया वेदेष्वेव । प्रतारणे प्रसिद्धोऽयम् । इक्
भण्डयति प्रतारको मुग्धं धनदानाङ्गीकारेण ।
इति दुर्गादासः ॥

ड इ ङ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) परिभाषण इति गोविन्द-
भट्टः । परिहास इति चतुर्भुजः । इ भण्ड्यते ङ
भण्डते षिड्गीं लोकः । इति दुर्गादासः ॥

भडः, पुं, (भडतीति । भड इङ परिहासे परि-

भाषणे वा + अच् ।) वर्णसङ्करजातिविशेषः ।
स तु लेटात् तीवरकन्यायां जातः । यथा, --
“लेटस्तीवरकन्यायां जनयामास षण्णरान् ।
माल्लं मल्लं मातरञ्च भडं कोलञ्च कन्दरम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

भडिलः, पुं, (भडतीति । भडि + “सलिकल्यनि-

महिभडिभण्डीति ।” उणा०-१ । ५५ । इति
इलच् ।) सेवकः । शूरः । इत्युणादिकोषः ॥

भण ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-द्विक०-सेट् ।) ऋ अबीभणत् अबभाणत्
स चेह व्यक्तवाक्यम् । श्रीजयदेवकृतहरिसेवं
भणति परमरमणीयम् । इति दुर्गादासः ॥

भणितं, त्रि, (भण + क्तः ।) शब्दितम् । कथितम् ।

यथा, --
“श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् ।”
इति गीतगोविन्दः ॥

भणितिः, स्त्री, (भण्यते इति । भण + क्तिन् ।)

वाक्यम् । इति भूरिप्रयोगः त्रिकाण्डशेषश्च ॥
(यथा, राजतरङ्गिण्याम् । ४ । ५४ ।
“नियन्त्रिता यद्भणितिस्तद्गुणोदीरणादियम् ।
अतिप्रसङ्गभङ्गात्तन्नेयत्तावाप्तितः पुनः ॥”)

भण्टाकी, स्त्री, (भठ्यते भण्यते वा । भट् भृतौ

भणशब्दे वा + “पिनाकादयश्च ।” उणा० । ४ ।
१५ । इति आक । निपात्यते च । गौरादित्वात्
ङीष् ।) वार्त्ताकी । इत्यमरः । २ । ४ । ११४ ॥
बृहती । इति रत्नमाला ॥ (वृन्ताकम् । तत्-
पर्य्यायो यथा, --
“वृन्ताकं स्त्री तु वार्त्ताकुर्भर्ण्टाकी भाण्टि-
कापि च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भण्टुकः, पुं, (भडतीति । भडि-उकन् ।)

श्योनाकवृक्षः । इति रत्नमाला ॥ कुत्रचित्
भण्डुकोऽपि पाठः ॥

भण्डः, पुं, (भण्डते इति । भडि प्रतारणे + अच् ।)

अश्लीलभाषी । भाँड इति भाषा । इति
संक्षिप्तसारोणादिवृत्तिः ॥ तत्पर्य्यायः । चाटु-
पटुः २ । इति भूरिप्रयोगः ॥

भण्डकः, पुं, (भण्ड + संज्ञायां कन् ।) खञ्जन-

पक्षी । इति जटाधरः ॥

भण्डनं, क्ली, (भडि + भावादौ ल्युट् ।) खली-

कारः । कवचम् । युद्धम् । इति मेदिनी ।
ने, १०० ॥

भण्डहासिनी, स्त्री, (भण्डेन खलीकारेण हसति

या । हस् + णिनिः । ङीप् ।) गणिका । इति
शब्दरत्नावली ॥

भण्डिः, स्त्री, (भडि + इन् ।) वीचिः । इति

हारावली ॥

भण्डिका, स्त्री, मञ्जिष्ठा । इति शब्दरत्नावली ॥

भण्डिरः, पुं, (भण्डिल + रलयोरैक्यम् ।) शिरीष-

वृक्षः । यथा । भण्डिलो भण्डिरो नेमीति भरत-
धृतवाचस्पतिः ॥

भाण्डिलः, पुं, (भण्डते परिहसतीवेति भाषते

इवेति वा । भडि + “सलिकल्यनिमहिभडि
भण्डीति ।” उणा० १ । ५५ । इति इलच् ।)
शिरीषवृक्षः । इत्यमरः । २ । ४ । ६३ ॥
(तत्पर्य्यायो यथा, --
“शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः ।
शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भण्डिलः, त्रि, (भडि + इलच् ।) शुभः । दूतः ।

इत्युणादिकोषः ॥ शिल्पी । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

भण्डी, स्त्री, (भण्डते इति । भडि-इन् ।) कृदि-

कारादिति पक्षे ङीप् ।) मञ्जिष्ठा । इत्यमरः ।
२ । ४ । ९१ ॥ (पर्य्यायोऽस्या यथा, --
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनबल्ल्यपि ॥
रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ।
भण्डीतकी गण्डीरी च मञ्जूषा वस्त्रराजिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शिरीषवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्या-
योऽस्या यथा, --
“शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः ।
शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः ॥”
श्वेतत्रिवृता । तत्पर्य्यायो यथा, --
“श्वेतात्रिवृता भण्डी स्यात् त्रिवृता त्रिपुटापि
च ।
सर्व्वानुभूतिः सरला निशोत्रा रेचनीति च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भण्डीतकी, स्त्री, (भण्डी सती तकतीति । तक +

अच् । गौरादित्वात् ङीष् ।) मञ्जिष्ठा । इति
भावप्रकाशः ॥

भण्डीरः, पुं, (भण्डि + बाहुलकात् ईरन् ।)

समष्ठिलक्षुपः । तण्डुलीयशाकः । (यथा, --
“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ।
भण्डीरस्तण्डुली बीजो विषघ्नश्चाल्पमारिषः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शिरीषवृक्षः । इति राजनिर्घण्टः ॥ (वटवृक्षः ।
यथा, रामायणे । ३ । ७५ । २४ ।
“मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा ।
अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकेः ॥”
“भण्डीरो वटः ।” इति तट्टीकायां रामानुजः ।)

भण्डीरलतिका, स्त्री, (भण्डीर इव लतते इति ।

लतिः सौत्रो धातुः + अच् । स्वार्थे कन् । टाप्
अत इत्वम् ।) मञ्जिष्ठा । इति राजनिर्घण्टः ॥

भण्डीरी, स्त्री, (भण्डीर । गौरादित्वात् ङीष् ।)

मञ्जिष्ठा । इत्यमरः ॥

भण्डीलः, पुं, (भण्डीर । रलयोरेकत्वम् ।) मञ्जिष्ठा ।

इति शब्दरत्नावली ॥

भण्डूकः, पुं, (भडि + ऊक् ।) मत्स्यविशेषः ।

भाकुर इति भाषा । अस्य गुणाः । मधुरत्वम् ।
शीतत्वम् । वृष्यत्वम् । श्लेष्मकरत्वम् । गुरुत्वम् ।
विष्टम्भित्वम् । रक्तपित्तहरत्वञ्च । इति भाव-
प्रकाशः ॥ श्योनाकवृक्षः । इति रत्नमाला ॥

भद इक् शुभे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इक् भन्दयति शुभं कल्याण-
क्रिया । इति दुर्गादासः ॥

भद इ ङ हर्षे । प्रीतौ । शुभे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट्-इदित् ।) इ भन्द्यते ।
ङ भन्दते पण्डितः सदा । इति दुर्गादासः ॥

भदन्तः, पुं, (भन्दते इति । भदि कल्याणे + “भन्दे-

र्नलोपश्च ।” उणा० ३ । १३० । इति झच् ।
नलोपश्च ।) सौगतादिबुद्धः । इति हेमचन्द्रः ॥
मायादेवीमुतः । सुतेजः । पूजिते, त्रि । इत्युणा-
पृष्ठ ३/४७९
दिकोषः ॥ (भदन्तः प्रव्रजितः । इत्युणादौ ।
३ । १३० । सूत्रव्याख्यायां उज्ज्वलदत्तः । यथा,
कथासरित्सागरे । ४९ । १७८ ।
“तत्रान्विष्य यथावत् तं भदन्तमभिगम्य च ।
परिचर्य्यापरो भक्त्या त्रीणि वर्षाण्यशेषतः ॥”)

भदाकः, पुं, क्ली, (भन्दते इति । भदि + “पिना-

कादयश्च ।” उणा० । ४ । १५ । इति आकः ।
नलोपश्च ।) मङ्गलम् । इत्युणादिकोषः ॥

भद्रं, क्ली, (भन्दते इति । भदि कल्याणे +

“ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रेति ।”
उणा ० । २ । २८ । इति रन् । निपात्यते च ।)
मङ्गलम् । (यथा, ऋग्वेदे । २ । २६ । २ ।
“यजस्व वीर ! प्रविहि मनायतो भद्रं मनः
कृणुष्व वृत्रतूर्य्ये ॥”
यथा च कामन्दकीयनीतिसारे । १३ । १२ ।
“किरीटमणिचित्रेषु मूर्द्धसु त्राणसारिषु ।
नाकृत्वा विद्विषां पादं पुरुषो भद्रमश्नुते ॥”)
मुस्तम् । काञ्चनम् । इति मेदिनी । रे, ७१ ॥

भद्रं, क्ली, स्त्री, (भदि + रन् निपात्यते च ।)

करणविशेषः । इति मेदिनी । रे, ७२ ॥
तत्तु विष्टिभद्रात्वेन प्रसिद्धमशुभदम् । इति
ज्योतिषम् ॥

भद्रः, पुं, (भन्द ते इति भदि + रन् निपातितश्च ।)

शिवः । स्वञ्जरीटः । वृषभः । कदम्बकः । करि-
जातिविशेषः । इति मेदिनी । रे, ७० ॥ नव-
शुक्लावलान्तर्गतजिनभेदः । रामचरः । सुमेरुः ।
इति हेमचन्द्रः ॥ स्नुही । इति राजनिर्घण्टः ॥
(चन्दनम् । तत्पर्य्यायो यथा, --
“श्रीखण्डं चन्दनं नस्त्री भद्रः श्रीस्तैलपर्णिकः ।
गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
साध्यमौलिकानां पद्धतिविशेषः । यथा, --
विष्णुर्नागः खिलपिलगूतैन्द्रो गुप्तः पालो भद्रः ।
इति कुलाचार्य्यकारिका ॥ (वसुदेवस्य पुत्त्र-
भेदः । यथा, भागवते । ९ । २४ । ४७ ।
“सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च ।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥”
सरोवरविशेषः । यथा, मत्स्यपुराणे । ११२ । ४६ ।
“अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम् ।
तेषामुपरि चत्वारि सरांसि च वनानि च ॥”
तृतीयमनोरुत्तमस्यान्तरे देवगणभेदे बहुवच-
नान्तोऽयम् । यथा, भागवते । ८ । १ । २४ ।
“वशिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥”
स्वायम्भुवमन्वन्तरे विष्णोर्दक्षिणागर्भजात तुषित-
नामकदेवगणभेदः । यथा, भागवते । ४ । १ । ६-७ ।
“तां कामयानां भगवानुवाह यजुषां पतिः ।
तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥
तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ॥
इध्मः कविर्विभुः स्वाह्रः सुदेवो रोचनो द्विषट् ॥”
पर्व्वतविशेषः । यथा, ब्रह्माण्डपुराणे । भुवन-
कोषे । ४० अध्याये ।
“अरक्षः शिखिरौतश्च सको वैदूर्य्यपर्व्वतः ।
कपिलः पिङ्गलो भद्रः सुरसश्च महाचलः ॥”
एकादशद्वापरजातो महेश्वरस्य ऋषिमूर्त्त्यव-
तार विशेषः । यथा, ब्रह्माण्डे । २७ अध्याये ।
“एकादशद्वापरे तु व्यासस्तु त्रिवृषो यदा ।
तदाप्यहं भविष्यामि गङ्गाद्वारे युगान्तिके ॥
भद्रो नाम महातेजास्तत्रापि मम पुत्त्रकाः ।
भविष्यन्ति महात्मानो सुवृत्ता वेदपारगाः ॥”)

भद्रः, त्रि, (भन्दते इति । भदि कल्याणे रन् ।

निपात्यते च ।) श्रेष्ठः । साधुः । इति मेदिनी ।
रे, ७२ ॥ (यथा, पञ्चतन्त्रे । १ । २६ ।
“भद्र ! कण्टक ! अयं तावदस्मत्स्वामी पिङ्गलक
उदकग्रहणार्थं यमुनाकच्छमवतीर्य्य स्थितः ॥”)

भद्रकं, क्ली, (भद्र + संज्ञायां स्वार्थे वा कन् ।)

भद्रमुस्तकम् । इति रत्नमाला ॥ (देवदारु-
शब्देऽस्य विषयोऽभिहितः ॥) मनोज्ञे, त्रि ।
इति त्रिकाण्डशेषः ॥

भद्रकः, पुं, (भद्र + संज्ञायां कन् ।) देवदारुः ।

इति शब्दरत्नावली ॥

भद्रकण्टः, पुं, (भद्रः कण्टो यस्य ।) गोक्षुरः ।

इति राजनिर्घण्टः ॥

भद्रकाली, स्त्री, (भद्रा मङ्गलमयी चासौ काली चेति

कर्म्मधारयः । यद्वा, भद्रं कल्याणं कालयतीति ।
भद्र + कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।
ङीप् ।) गन्धोली । कात्यायनी । इति
मेदिनी । ले, १५८ । तस्या उत्पत्तिर्यथा, --
श्रीऔर्व्व उवाच ।
“शृणु त्वं नृपशार्दूल ! भद्रकाली यथा पुरा ।
प्रादुर्भूता महाभागा महिषेण सदैव तु ॥
महिषासुर एवासौ निद्रायां निशि पर्व्वते ।
स्वप्नं प्रददृशे वीरो दारुणं घोरदर्शनम् ॥
महामाया भद्रकाली छित्त्वा खड्गेन काशरम् ।
पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा ॥
ततः प्रातर्भययुतः स दैत्यो महिषासुरः ।
तामेव पूजयामास सुचिरं सानुगस्तदा ॥
आराधिता तदा देवी महिषेणासुरेण वै ।
प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता ॥
ततः प्रणम्य महिषो महामायां जगन्मयीम् ।
उवाचेदं वचो नम्रमूर्त्तिर्भक्तियुतोऽसुरः ॥
महिष उवाच ।
देवि ! खड्गेन संछिद्य शोणितानि शिरो मम ।
त्वया भुक्तानि दृष्टानि मया स्वप्ने सुनिश्चितम् ॥
अवश्यं तत्त्वया कार्य्यं मया ज्ञातं प्रमाणतः ।
एतद्रुधिरपानं मे तत्रैकं देहि मे वरम् ॥
वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि ! ।
ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते ॥
किन्तु त्वयैव सहितः शम्भुराराधितः पुरा ।
मम पित्रा मदर्थेन जातः पश्चादहं ततः ॥
मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथा वराः ।
मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् ।
अकण्टकं मया भुक्तमनुतापो न विद्यते ॥
कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् ।
सीमन्तिनी विनाशं ते करिष्यति न संशयः ॥
पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम चोत्तमम् ।
मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके ॥
दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात्तदा ।
मया संमोहितो विप्रोऽत्यजन्मूढस्तदा तपः ॥
न दूरात् संस्थितेनाहं मुनिना कात्यसूनुना ।
ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना ॥
यस्मात्त्वया मे शिष्योऽयं मोहितस्तपसश्च्युतः ।
कृतस्त्वया स्त्रीरूपेण ततस्त्वां स्त्री हनिष्यति ॥
इति मां शप्तवान् पूर्ब्बं मुनिः कात्यायनः पुरा ।
तस्य शापस्य कालोऽयमागत्य समुपस्थितः ॥
देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् ।
किञ्चिन्न शोच्यं तत्रास्ति वाञ्छनीयं हि यन्मया ॥
तस्मात्त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मया ।
तद्देहि देवि दुर्गे ! त्वं भूयस्तुभ्यं नमो नमः ॥
श्रीदेव्युवाच ।
“प्रार्थनीयो वरो यस्ते तं वृणु त्वं महासुर ! ।
दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते ॥”
महिष उवाच ।
“यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः ।
यथा यज्ञेषु सर्व्वेषु पूज्योऽहं स्यां तथा कुरु ॥
त्वत्पादसेवां न त्यक्ष्ये यावत् सूर्य्यः प्रवर्त्तते ।
एवं वरद्वयं देहि यदि देयो वरो मम ॥”
श्रीदेव्युवाच ।
“यज्ञभागाः सुरेभ्यश्च कल्पिता वै पृथक्
पृथक् ।
भागो न विद्यते चान्यो यद्दास्यामि तवाधुना ॥
किन्तु त्वयि मया युद्धे निहते महिषासुर ! ।
नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः ॥
मम प्रवर्त्तते पूजा यत्र यत्र च तत्र ते ।
पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव ! ॥
इति श्रुत्वा वचस्तस्याः प्रत्यूचे महिषासुरः ।
वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा ॥
उग्रचण्डे ! भद्रकालि ! दुर्गे देवि ! नमोऽस्तु ते ।
प्रभूता मूर्त्तयो देवि ! भवत्याः सकलात्मिकाः ॥
काभिस्ते मूर्त्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि ! ।
तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता ॥”
श्रीदेव्युवाच ।
“यानि नामानि चोक्तानि त्वयेहं महिषासुर ! ।
तासु मूर्त्तिषु संस्पृष्टः पूज्यो लोके भविष्यति ॥
उग्रचण्डेति या मूर्त्तिर्भद्रकाली ह्यहं पुनः ।
यया मूर्त्त्या त्वां हतिष्ये सा दुर्गेति प्रकीर्त्तिता ॥
एतासु मूर्त्तिषु सदा पादलग्नो नृणां सदा ।
पूज्यो भविष्यसि त्वं वै देवानामपि रक्षसाम् ॥
आदिसृष्ट्या उग्रचण्डामूर्त्त्या त्वं निहतः पुरा ।
द्बितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः ॥
दुर्गारूपेणाधुना त्वां हनिष्यामि सहानुगम् ।
किन्तु पूर्ब्बं न गृहीतस्त्वं मया पादयोस्तले ॥
अधुना प्रार्थितवरो गृहीतः पूर्ब्बकाययोः ।
ग्रहीतव्यश्च पश्चात्त्वं यज्ञभागोपभुक्तये ॥”
इति कालिकापुराणे ५९ अध्यायः ॥ * ॥
गङ्गायाः पश्चिमे तीरे ग्रामविशेषश्च ॥
पृष्ठ ३/४८०

भद्रकाशी, स्त्री, (भद्राय काशते इति । काश +

अच् । गौरादित्वात् ङीष् ।) भद्रमुस्ता । इति
राजनिर्घण्टः ॥

भद्रकुम्भः, पुं, (भद्रस्य भद्राय वा कुम्भोऽथवा भद्रः

कुम्भः ।) पूर्णकुम्भः । इत्यमरः । २ । ८ । ३२ ॥

भद्रगन्धिका, स्त्री, (भद्रो गन्धोऽस्यास्तीति । ठन् ।

टाप् ।) मुस्तकम् । इति रत्नमाला ॥

भद्रङ्करः, त्रि, (भद्रं करोतीति । कृ + “बाहु-

लकात् खच् । मुम् च ।) मङ्गलकारकः । तत्-
पर्य्यायः । क्षेमङ्करः २ क्षेमकारः ३ मद्रङ्करः ४
शुभङ्करः ५ अरिष्टतातिः ६ शिवतातिः ७
शङ्करः ८ । इति भूरिप्रयोगः ॥

भद्रचूडः, पुं, (भद्रा चूडास्य ।) लङ्कास्थायी ।

इति शब्दचन्द्रिका । लङ्कासिज इति भाषा ॥

भद्रजः, पुं, (भद्राय जायते इति । जन + डः ।)

इन्द्रयवः । इति राजनिर्घण्टः ॥ (गुणादयो-
ऽस्येन्द्रयवशब्दे ज्ञातव्याः ॥)

भद्रतरुणी, स्त्री, (भद्रा तरुणीव ।) कुब्जकवृक्षः ।

इति राजनिर्घण्टः ॥ (तथास्या अन्यतरः
पर्य्यायः ।
“कुब्जको भद्रतरुणी बृहत्पुष्पोऽतिकेसरः ।
महा सहा कण्टकाढ्या नीलालिकुल-
सङ्कुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भद्रतुरगं, क्ली, (भद्रा तुरगा अत्र ।) जम्बू-

द्बीपस्य नववर्षान्तर्गतवर्षविशेषः । यथा, --
“माल्यवज्जलधिमध्यवर्त्ति यत्तत्तु भद्रतुरगं
जगुर्बुधाः ।”
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥

भद्रदन्तिका, स्त्री, (भद्रा दन्तिका ।) दन्तीवृक्ष-

भेदः । भद्रदन्ती इति ख्याता । तत्पर्य्यायः ।
केशरुहा २ भिषग्भद्रा ३ जयावहा ४ आव-
र्त्तकी ५ ज्वराङ्गी ६ जयाह्वा ७ । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । रेचनत्वम् । कृमिशूल-
कुष्ठामदोषतुन्दामयनाशित्वञ्च । इति राज-
निर्घण्टः ॥

भद्रदारु, क्ली, पुं, (भद्रं दारु ।) देवदारु । इत्य-

मरभरतौ ॥ सरलकाष्ठम् । इति रत्नमाला ॥

भद्रदार्व्वादिकः, पुं, (भद्रदारु आदौ यस्य कप् ।)

औषधगणविशेषः । यथा । भद्रदारुकुष्ठहरिद्रा-
वरुणमेषशृङ्गीबलातिबलार्त्तगलकच्छुरासल्लकी-
कुवेराक्षीवीरतरुसहचराग्निमन्थवत्सादन्येर-
ण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवसि-
रकाञ्चनकभार्गीकाप्पासीवृश्चिकालीपत्तूरवदर-
यवकोलकुषत्थप्रभृतीनि । इति सुश्रुतसूत्र-
स्थानस्य संशोधनसंशमनीयाध्यायः ॥ * ॥
अपिच ।
“देवदारु हरिद्रे द्वे वरुणः कुष्ठमेव च ।
महानिम्बं नागबला श्यामला गरलोऽपरः ॥
पाटला चात्मगुप्ता च शुण्ठी पाषाणभेदिका ।
शतावरी चार्कमूतं गुडूची गणिकारिका ॥
पुनर्नवा च वास्तूकसूर्य्यावर्त्तककानतम ।
गोक्षुरं शरमूलञ्च कुशमूलं समांसिकम् ॥
ऊनचत्वारिंशद्द्रव्यैर्भद्रदार्व्वादिको गणः ॥”
इति शब्दचन्द्रिका ॥ * ॥
एतन्मध्ये चतुर्दशद्रव्याणि न प्राप्तानि ॥

भद्रनामा, [न्] पुं, (भद्रं नाम यस्य ।) काष्ठकुट्ठ-

पक्षी । इति त्रिकाण्डशेषः । काठ्ठोक्रा इति
भाषा ॥

भद्रनामिका, स्त्री, (भद्रं नामास्याः । कप् । टाप् ।

अत इत्वम् ।) त्रायन्तीवृक्षः । इति रत्न-
माला । वहला इति भाषा ॥

भद्रनिधिः, स्त्री, (भद्रा निधयोऽत्र ।) महादान-

विशेषः । यथा, --
इन्द्र उवाच ।
“विधानं ब्रूहि मे ब्रह्मन् ! दानस्यास्य महानिधेः ।
यथा देव ! विशेषेण विष्णोरानन्दकारकम् ॥”
ब्रह्मोवाच ।
“पुण्यां तिथिं प्राप्य तु पौर्णमास्यां
तथोपरागे शशिसूरयोर्वा ।
चतुर्युगादिष्वयनद्बये वा
प्रबोधने प्रस्वपनेऽथ विष्णोः ॥
कुर्य्यादथौडुम्बरमेव कुम्भं
हिरण्यमानेन यथात्मशक्त्या ।
तथा पिधानञ्च सुराजतं स्याद्-
हिरण्यभारेण तु पूरयेत्तत् ॥
तदर्द्धतोऽर्द्धेन तदर्द्धतो वा
स्वशक्तितः स्वर्णपलैः शतेन ।
तदर्द्धमध्येन तु वित्तशक्त्या
पलत्रयादूनमथो न कुर्य्यात् ॥
तत्ताम्रभाण्डे कनकं निधेयं
सवज्रनीलोत्तमपद्मरागम् ।
सुमुक्तवैदूर्य्यसविद्रुमञ्च
तद्राजतं पात्रमधोमुखं स्यात् ॥
एवन्तु तं भद्रनिधिं सुविद्वान्
कृत्वासने प्रावरणोपयुक्ते ।
कुशोत्तरे दर्पणचामराढ्यं
सपादुकोपानहच्छत्रयुक्तम् ।
तं क्षौमवस्त्रोत्तमयुग्मयुक्तं
सम्पूजयेन्मन्त्रवरैरथैतम् ॥
आदौ तु पञ्चामृतमाप्य विष्णुं
संस्नाप्य संसारतरं समर्च्च्य ।
तथेश्वरं पावकमेव हुत्वा
आमन्त्रयेद्भद्रनिधिं ततस्तम् ॥
श्रीखण्डकर्पूरसकुङ्कुमेन
पञ्चाक्षरं नाम श्रियः प्रलिख्य ।
नमस्तथोङ्कारयुतञ्च पात्रे
तद्राजतेऽप्येवमथार्च्चयेत्ताम् ॥
त्वया समस्तामरसिद्धयक्ष-
विद्याधरेन्द्रोरगकिन्नरेन्द्रैः ।
गन्धर्व्वदिव्याप्सरदानवेन्द्रै-
र्युतं वृतं विश्वमिदं नमस्ते ॥
समस्तसंसारकरी त्वमेव
विभोः सदानन्दमयी च माया ।
समस्तकल्याणनिधिः समाधि-
र्हरिप्रिये ! भद्रनिधे ! नमस्ते ॥
एवं संपूज्य विधिना ततो विप्रमथार्च्चयेत् ।
किरीटाङ्गदनिष्काग्य्रकुण्डलाङ्गुलिभूषणैः ॥
अलंकृत्य हरिं यद्वत् पीताम्बरधरं ततः ।
पूजयेदच्युतं ध्यात्वा मन्त्रेणानेन भक्तिमान् ॥
भूदेवोऽसि विभो ! नित्यं नित्यानन्द मयो
हरे ! ।
हर मे दुष्करं कृष्ण ! कृपाकर ! नमोऽस्तु ते ॥
भूदेव ! भगवान् भर्ग भवभङ्गकरेश्वर ! ।
भवभूतिकरो जिष्णो ! प्रभविष्णो नमोऽस्तु ते ॥
एवं पूज्य हृदि ध्यात्वा तं द्विजं ब्रह्मरूपिणम् ।
ततो भद्रनिधिं दद्यान्मन्त्रेणानेन वासव ! ॥
स्वगोत्रोच्चारणेनादौ विप्रनाम तथात्मनः ।
यवदर्भतिलैः सार्द्धमुदकं संपरित्यजेत् ॥
पितृसन्तारणार्थाय नित्यानन्दविवृद्धये ।
सर्व्वाघौघविघाताय विष्णोर्दानं मया कृतम् ॥
तदनेन सरत्नेन धातुत्रययुतेन च ।
सक्षौमाम्बरयुक्तेन सादर्शपादुकेन च ॥
सासनेन सच्छत्रेण चामरोपानहेन च ।
सदानन्दनिधानेन प्रीयतां विष्णुरीश्वरः ॥
एवमुच्चार्य्य तं दद्याद्द्विजाय हरिरूपिणे ।
गोप्येन विधिना दद्याद्धेमसंख्यां न कीर्त्तयेत् ॥
प्रकीर्त्तिते कोटियुगायुतं फलं
प्रगोपिते कल्पगणैर्न संक्षयः ।
इतीयमज्ञो न तु कीर्त्तयेत् सुधी-
र्निधानमध्ये निहितञ्च यद्बसु ॥
एवं कृते स्यान्मनुजः कृतात्मा
तपेन्न च स्वामरणं कदाचित् ।
प्रयाति विष्णोः पदमव्ययं तत्
शिवात्मकानन्दमयं सदाख्यम् ॥”
इत्याद्ये वह्रिपुराणे भद्रनिघिदाननामाध्यायः ॥

भद्रपदा, स्त्री, (भद्रं पदमासाम् ।) भाद्रपदा ।

पूर्ब्बभाद्रपदोत्तरभाद्रपदानक्षत्रम् । इत्यमर-
टीकायां रायमुकुटः ॥ (यथा, बृहत्संहि-
तायाम् । ९ । २ ।
“नगा तु पवनयाम्यां
नलानिपैतामहात् त्रिभास्तिस्रः ।
गोवीथ्यामश्विन्यः
पौष्णं द्वे चापि भद्रपदे ॥”)

भद्रपर्णा, स्त्री, (भद्राणि पर्णान्यस्याः । टाप् ।)

कटम्भरावृक्षः । इति शब्दमाला ॥ (गुणादिक-
मस्याः कटम्भराशब्दे विवृतम् ॥)

भद्रपणी, स्त्री, (भद्राणि पर्णान्यस्याः । गौरादित्वात्

ङीष् ।) गाम्भारी । इत्यमरः । २ । ४ । ३६ ॥
(अस्याः पर्य्यायो यथा, --
“गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ॥
काश्मिरी काश्मरी हीरा काश्मर्य्यः पीत-
रोहिणी ।
कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥”)
प्रसारिणी । इति जटाधरः ॥ (अस्याः पर्य्यायो
यथा, --
पृष्ठ ३/४८१
“प्रसारणी राजबला भद्रपर्णी प्रतापनी ।
सरणी सारणी भद्रा बला चापि कटम्भरा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“प्रसारणी च गन्धाली भद्रपर्णी कटम्भरा ॥”
इति वैद्यकरत्नमालायाम् ॥
यथा, शतपथब्राह्मणे । ३ । ४ । १ । १६ । इत्यस्य भाष्ये
“काष्मर्य्यो भद्रपर्णी प्रकृतौ पलाशवैकङ्कता-
दीनामैच्छिकत्वादत्र नियमविधिः ॥”)

भद्रबलनः, पुं, (भद्रं महद्बलनं बलमस्य ।)

बलरामः । इति शब्दमाला ॥

भद्रमल्लिका, स्त्री, (भद्रा मल्लिका ।) गवाक्षी ।

इति शब्दमाला ॥

भद्रमुञ्जः, पुं, (भद्रो मुञ्ज इति कर्म्मघारयः ।)

मुञ्जभेदः । रामशर इति शरपत इति च
भाषा । तत्पर्य्यायः । शरः २ बाणः ३ तेजनः
४ इक्षुवेष्टनः ५ । अथ मुञ्जस्य पर्य्यायः । मुञ्जः
१ मुञ्जातकः २ बाणः ३ स्थूलदर्भः ४ सुमेधसः
५ । एतयोर्गुणाः ।
“मुञ्जद्वयन्तु मधुरं तुवरं शिविरं तथा ।
दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् ॥
दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥”
इति भावप्रकाशः ॥

भद्रमुस्तकः, पुं, (भद्रो मुस्तकः ।) नागरमुस्तकः ।

इत्यमरः । २ । ४ । १६० ॥ (तत्पर्य्यायो यथा, --
“मेघाख्यं मुस्तकं मुस्ता गाङ्गेयं भद्रमुस्तकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

भद्रमुस्ता, स्त्री, (भद्रा मुस्ता ।) नागरमुस्तकः ।

तत्पर्य्यायः । वराही २ गुन्द्रा ३ ग्रन्थिः ४
भद्रकाशी ५ कशेरुः ६ क्रोडेष्टा ७ कुरु-
विन्दाख्या ८ सुगन्धिः ९ ग्रन्थिला १० हिमा
११ बल्या १२ राजकशेरुः १३ कच्छोत्था १४
मुस्ता १५ अर्णोदः १६ वारिदः १७ अम्भोदः
१८ मेघः १९ जीमूतः २० अब्दः २१ नीरदः
२२ अभ्रम् २३ घनः २४ गाङ्गेयः २५ । अस्या
गुणाः । कषायत्वम् । तिक्तत्वम् । शीतत्वम् ।
पाचनत्वम् । पित्तज्वरकफनाशित्वम् । संग्रा-
हित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकः ।
कुरुबिन्दश्च संख्यातोऽपरः क्रोडकशेरुकः ॥
भद्रमुस्तश्च गुन्द्रा च तथा नागरमुस्तकः ।
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् ।
अनूपदेशे यज्जातं मुस्तकं तत् प्रशस्यते ॥
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥”
इति भावप्रकाशः ॥

भद्रयवः, पुं, क्ली, (भद्रः शुभदो यवः ।) इन्द्रयवम् ।

इत्यमरः । २ । ४ । ६७ ॥ (विवरणमस्य इन्द्र-
यवशब्दे ज्ञातव्यम् ॥)

भद्ररेणुः, पुं, (भद्रा रेणवोऽस्य ।) ऐरावतहस्ती ।

इति त्रिकाण्डशेषः ॥

भद्रवत्, क्ली, (भद्रमस्त्यस्मिन्निति । मतुप् मस्य वः ।)

देवदारु । इति राजनिर्घण्टः ॥

भद्रवती, स्त्री, (भद्रं विद्यतेऽस्याम् । भद्र + मतुप् ।

मस्य वः । ङीप् ।) भद्रपर्णी । इति जटाधरः ॥
(कट्फलः । अस्य पर्य्यायो यथा, --
“कट्फलः सोमबल्कश्च कैटर्य्यः कुम्भिकापि च ।
श्रीपर्णी काकुमुदिका भद्रा भद्रवतीति च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
कल्याणविशिष्टे, त्रि । यथा, महाभारते ।
४ । २४ । १८ ।
“इमाञ्च नः प्रियां वीर ! वाचं भद्रवतीं
शृणु ॥”
श्रीकृष्णस्य नाग्नजितीगर्भजाता कन्या । यथा,
हरिवंशे । १६० । १०-११ ।
“मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाः शृणु ।
भद्रकालो भद्रबिन्दः कन्या भद्रवती तथा ॥”
मधोर्माता । यथा, हरिवंशे । ३६ । ३ ।
“आसीन्मरुवसः पुत्त्रः पुरुद्वान् पुरुषोत्तमः ।
मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वह ! ॥”)

भद्रवर्म्मा, [न्] पुं, (भद्रेण वृणाति आत्मान-

मितिशेषः । वृ + मनिन् ।) नवमल्लिका । इति
शब्दचन्द्रिका ॥ (विषयोऽस्य नवमल्लिकाशब्दे
ज्ञातव्यः ॥)

भद्रवला, स्त्री, (भद्रा वला ।) लताविशेषः ।

गन्धभादालिया इति भाषा । तत्पर्य्यायः ।
सरणा २ प्रसारणी ३ कटम्भरा ४ राजबला
५ । इत्यमरः । २ । ४ । १५३ ॥ अस्याः पर्य्या-
यान्तरं गुणाश्च प्रसारिणीशब्दे द्रष्टव्याः ॥
बला । इति राजनिर्घण्टः ॥

भद्रवल्लिका, पुं, (भद्रा वल्लिका ।) गोपवल्ली ।

इति रत्नमाला । अनन्तमूल इति भाषा ॥

भद्रवल्ली, स्त्री, (भद्रा चासा वल्ली चेति कर्म्म-

धारयः ।) मल्लिका । माधवीलता । इति
राजनिर्घण्टः ॥ लताविशेषः । मदनमाली इति
हापरमाली इति च भाषा । तत्पर्य्यायः ।
शातभीरुः २ भूमिमण्डा ३ अष्टपादिका ४ ।
इति रत्नमाला ॥

भद्रश्रयं, क्ली, (भद्राय श्रीयते गृह्यते इति । श्रि +

कर्म्मणि अच् ।) चन्दनम् । इति रत्नमाला ॥

भद्रश्रीः, पुं, (भद्रा श्रीरस्य ।) चन्दनवृक्षः । इत्य-

मरः । २ । ६ । १३१ ॥

भद्रसोमा, स्त्री, (भद्रः सोम इवास्या द्रव

इति । टाप् ।) गङ्गा । इति शब्दमाला ॥
(कुरुवर्षस्थनदीविशेषः । यथा, मार्कण्डेये ।
५९ । २३ ।
“तस्मिन् कुलाचलौ वर्षे तन्मध्ये च महानदी ।
भद्रसोमा प्रयात्युर्व्व्यां पुण्यामलजलौघिनी ॥”)

भद्रा, स्त्री, (भद्र + अजादित्वात् टाप् ।) रास्ना ।

कृष्णा । व्योमनदी । तिथिभेदः । सा तु द्बितीया
सप्तमी द्वादशी च ॥ प्रसारिणी । (अस्याः
पर्य्यायो यथा, --
“प्रसारिणी राजबला भद्रपर्णी प्रतापनी ।
सरणी सारणो भद्रा बला चापि कटम्भरा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कट्फलम् । अनन्ता । इति मेदिनी । रे, ७१ ॥
जीवन्ती । अपराजिता । नीली । बला ।
शमी । वचा । दन्ती । हरिद्रा । श्वेतदूर्व्वा ।
काश्मरी । (पर्य्यायोऽस्या यथा, --
“श्रीपर्णी काश्मरी भद्रा गाम्भारी गोपभद्रिका ।
कुमुदा च सदाभद्रा कट्फला कृष्णवृन्तिका ॥”
इति वैद्यकरत्नमालायाम् ॥
चन्द्रशूरः । तत्पर्य्यायो यथा, --
“चन्द्रिका चर्म्महन्त्री च पशुमेहनकारिका ।
नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सारिवाविशेषः । गौः । इति राजनिर्घण्टः ॥
काकोडुम्बरिका । इति रत्नमाला ॥ (भद्राश्व-
वर्षस्थनदीभेदः । यथा, मार्कण्डेये । ५९ । ७ ।
“शीता शङ्खावती भद्रा चक्रावर्त्तादिका-
स्तथा ॥”)
गङ्गायास्त्रिश्रोतोऽन्तर्गतश्रोतोविशेषः । तत्तु
उत्तरे कुरुवर्षीयगङ्गा । इति पुराणं शब्द-
माला च ॥ बुद्धशक्तिविशेषः । तत्पर्य्यायः ।
तारा २ महाश्रीः ४ ओङ्कारा ४ स्वाहा ५
श्रीः ६ मनोरमा ७ तारिणी ८ जया ९ अनन्ता
१० शिवा ११ लोकेश्वरात्मजा १२ खदूर-
वासिनी १३ वैश्या १४ नीलसरस्वती १५
शङ्खिनी १६ महातारा १७ वसुधारा १८
धनन्ददा १९ त्रिलोचना २० लोचना २१ ।
इति त्रिकाण्डशेषः ॥ छायागर्भजाता सूर्य्य-
कन्या । यथा, --
“यमलौ तु ततस्तस्यां जनयामास भास्करः ।
शनेश्चरञ्च भद्राञ्च छायायाममितद्युतिः ॥
तथा च तेजसा विष्णोस्तस्य चक्रमवर्त्तयत् ।
तदप्रतिहते युद्धे दानवान्तचिकीर्षया ।
तद्भगिनी मुखतो भद्रा नियुक्तैवं विगर्हिता ॥”
इति वह्रिपुराणे वैवस्वतानुकीर्त्तनम् ॥
सुभद्रा । यथा, --
“आषाढस्य सिते पक्षे द्बितीया पुष्यसंयुता ।
तस्यां रथे समारोप्य रामं मां भद्रया सह ॥”
इति स्कान्दे भगवद्वाक्यम् ॥ * ॥
विष्टिभद्रा यथा, --
“एकादश्यां चतुर्थ्यान्तु शेषार्द्धे शुक्लपक्षके ।
अष्टमीपौर्णमास्योस्तु पूर्ब्बार्द्धे विष्टिसम्भवः ॥
कृष्णपक्षे तृतीयाया दशम्याश्च परार्द्धतः ।
सप्तम्याश्च चतुर्द्दश्याः पूर्ब्बार्द्धे विष्टिरीरिता ॥
विहाय विषरोद्राणि विष्टिं सर्व्वत्र वर्जयेत् ।
विष्टिशेषे त्रिदण्डे हि पुच्छे कार्य्यं जयावहम् ॥”
कर्म्मप्रकाशे तस्या अङ्गविशेषो यथा, --
“नाड्यस्तु पञ्चवदनं गलकस्तथैका
वक्षो दशैकसहिता नियतं चतस्रः ।
नाभिः कटिः षडथ पुच्छलता च तिस्रो
विष्टेर्ध्रुवं निगदितोऽङ्गविभाग एषः ॥”
अङ्गविशेषे कार्य्यध्वंसादिफलम् यथा, --
“मुखे कार्य्यध्वंसो भवति मरणञ्चाथ गलके
धनग्लानिर्वक्षस्यथ कटितटैर्बुद्धिविलयः ।
पृष्ठ ३/४८२
कलिर्नाभीदेशे विजयमथ पुच्छे च जगदुः
शरीरे भद्रायाः पृथगिति फलं सर्व्वमुनयः ॥”
मनुवसुमुनितिथियुगदशशिवगुणसंख्यासु तिथिषु
पूर्ब्बाद्यास्यम् । आयाति विष्टिरेषा पृष्ठे शुभदा
पुरस्त्वशुभा ॥ चतुर्द्दश्यादिषु पूर्ब्बाग्न्यादिमुखं
भवतीत्यर्थः । इति ज्योतिस्तत्त्वम् ॥

भद्राकरणं, क्ली, (भद्र + डाच् । कृ + ल्युट् ।)

मुण्डनम् । इति हेमचन्द्रः ॥

भद्रात्मजः, पुं, (भद्रः हितकर आत्मज इव रक्षा-

करत्वात् ।) खड्गः । इति त्रिकाण्डशेषः ॥

भद्रारकः पुं, अष्टादशक्षुद्रद्बीपान्तर्गतद्वीपविशेषः ।

इति शब्दमाला ॥

भद्रालपत्रिका, स्त्री, (भद्राय अलति पर्य्याप्नोतीति ।

अल् + अच् । भद्रालं पत्र यस्याः । कप् ।
टाप् । अत इत्त्वम् ।) गन्धाली । इति शब्द-
माला ॥

भद्राली, स्त्री, (भद्र + अल् + अच् । भद्राल + गौरा

दित्वात् ङीष् ।) गन्धाली । इति शब्दमाला ॥

भद्रावती, स्त्री, (भद्रमस्या अस्तीति । मतुप् ।

मस्य वः । संज्ञायां पूर्ब्बपदस्य दीर्घः ।) कट्
फलवृक्षः । इति राजनिर्घण्टः ॥

भद्राश्रयः, पुं, (भद्रस्याश्रयः ।) चन्दनम् । इति

शब्दचन्द्रिका ॥

भद्राश्वं, क्ली, (भद्रा अश्वा अत्र ।) भुवि जम्बुद्वीपस्य

नववर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥
तद्विवरणं यथा । माल्यवतः पूर्ब्बपार्श्वे पूर्ब्ब-
गण्डिका एकशृङ्गाद्योजनसहस्राणि मानन्तत्र
च भद्राश्वा नाम जनपदाः भद्रशालवनञ्च तत्र
व्यवस्थितं कालाभ्रवृक्षाः पुरुषाः श्वेताः पद्म-
वर्णिनः स्त्रियः कुमुदवर्णाः दशवर्षसहस्राणि च
तेषामायुस्तत्र च पञ्च कुलपर्व्वताः तद्यथा,
शैलवर्णः मालाख्यको वरजस्वः त्रिपर्णोनीलश्चेति
तद्विनिर्गता बह्व्यो नद्यस्तदम्भःस्थितानां देशानां
तान्येव नामानि ते च देशाः एताः नदीः
पिबन्ति । तद्यथा, सीता सुवाहिनी हंसवती
कावेरी सुरसा शाखावती इन्द्रनदी अङ्गार-
वाहिनी हरितोया सोमावर्त्ता शतह्रदा वन-
माला वसुमती हंसा पर्णा पञ्चगङ्गा धनुष्मती
मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया
पुण्योदा नागवती शिवा शैवालिनी मणितटा
क्षीरोदा वरुणावती विष्णुपदी महानदी
हिरण्यस्कन्धवाहा सुरावती वामोदा पताका-
श्चेत्येता महानद्यः एताश्च गड्गासमाः कीर्त्तिताः
आजन्मान्तं पापं विनाशयन्ति क्षुद्रनद्यश्च
कोटिशस्ताश्च बदीर्ये पिबन्ति ते दशवर्षसह-
स्रायुषः रुद्रोमाभक्ता इति । इति वाराहे
भुवनकोषे रुद्रगीता ॥ अपि च । तथैवेलावृत-
मपरेण पूर्ब्बेण च माल्यवद्गन्धमादनावानील
निषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्रा-
श्वयोः सीमानं विदधाते । मन्दरो मेरुमन्दरः
सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा
मेरो अतुर्द्दिगमवष्टम्भगिरय उपकॢप्ताः । चतुर्षु
एतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादप-
प्रवराः पर्व्वतकेतव इवाधिसहस्रयोजनोन्नाहा-
स्तावद्विटपविततयः शतयोजनपरिणाहाः ।
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः यदुप-
स्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभावि-
कानि भरतर्षभ ! धारयन्ति । देवोद्यानानि च
भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं
सर्व्वतोभद्रामति । येष्वमरपरिवृढाः सहसुर-
ललनाललामयूथपतय उपदेवगणैरुपगीयमान-
महिमानः किल विहरन्ति । मन्दरोत्सङ्ग
एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरि-
शिखरस्थूलानि फलान्यमृतकल्पानि निपतन्ति ।
तेषां विशीर्य्यमाणानां अतिमधुरसुरभिसुगन्धि-
बहलारुणरसोदेनारुणोदा नाम नदी मन्दर-
गिरिशिखरान्निपतन्ती पूर्ब्बेणेलावृतमुपप्लाव-
यति । यदुपजोषणाद्भवान्या अनुचरीणां पुण्य-
जनबधूनामवयवस्पर्शसुगन्धिवातो दशयोजनं
समन्तादनुवासयति । एवं जम्बूफलानामत्यु-
च्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय-
निभानां रसेन जम्बूनदी नाम नदी मेरुमन्दर-
शिखरादयुतयोजनादवनितले निपतन्ती दक्षिणे-
नात्मानं यावदिलावृतमुपस्यन्दति । तावदु-
भयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्य-
माना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं
जाम्बूनदं नाम सुवर्णं भवति यदुहवाव विबुधा-
दयः सह युवतिभिर्मुकुटकटककटिसूत्राद्या-
भरणरूपेण खलु धारयन्ति । यस्तु महाकदम्बः
मुपाश्वपार्श्वनिरूढस्तस्य कोटरेभ्यो विनिःसृताः
पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्व-
शिखरात् पतन्त्योऽपरेणात्मानमिलावृतमनु-
मोदयन्ति यो ह्युपयुञ्जानानां मुखनिर्व्वासितो
वायुः समन्तात् शतयोजनमनुवासयति । एवं
कुमुदनिरूढो यः शतवल्लो नाम वटस्तस्य
स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्य-
म्बरशव्यासनाभरणादयः सर्व्व एव कामदुघा
नदाः कुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुप-
योजयन्ति यानुपजुषाणानां न कदाचिदपि
प्रजानां बलीपलितक्लमस्वेददौर्गन्ध्यजरा-
मयापमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखनिरतिशयमेव कुरङ्गकुरर-
कुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषध-
शितिवासकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनाग-
कालञ्जरनीरदादयो गिरयो मेरोः कर्णिकाया
इव केशरभूता मूलदेशे परित उपकॢप्ताः ।
जठरदेवकूटौ मेरुं पूर्ब्बेणाष्टादशयोजनसहस्र-
मुदगायतौ द्विसहस्रपृथुतुङ्गौ भवतः एवमप-
रेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौ
प्रागायतौ एवमुत्तरतस्त्रिशृङ्गमकरौ अष्टाभि-
रेतैः परिवृतोऽग्निरिव परितश्चकास्ते काञ्चन-
गिरिः । मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत
उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतु-
रम्नां शातकौम्भीं वदन्ति तामनुपरितो लोक-
पालानामष्टानां यथादिशं यथारूपं तुरीय-
मानेन पुरोऽष्टावुपकॢप्ताः । इति श्रीभागवते
५ स्कन्धे भुवनकोषवर्णने १६ अध्यायः ॥

भद्रासनं, क्ली, (भद्राय लोकहिताय आसनम् ।)

नृपासनम् । इत्यमरः । २ । ८ । ३१ ॥ (योगि-
नामासनविशेषः । यथा, तन्त्रसारे ।
“सीवन्याः पार्श्वयोर्नंस्येद्गुल्फयुग्मं सुनिश्च-
लम् ।
भद्रासनं समुद्दिष्टं योगिभिः परिकल्पितम् ॥”)

भद्रेश्वरः, पुं, (भद्रः शुभदश्चासावीश्वरश्चेति भद्रा-

त्मकः मङ्गलमय ईश्वरो वेति ।) कल्पग्रामस्थ-
शिवः । यथा, --
“उत्तिष्ठ कान्त ! गच्छावः कल्पग्रामं सुशो-
भनम् ।
तया सार्द्धं जगामाथ कल्पग्रामं वसुन्धरे ! ॥
भद्रेश्वरनिमित्तं हि द्रव्यञ्च कथितं शुभम् ।
नित्यञ्च भुञ्जते यत्र पात्रद्रव्यं समर्पितम् ॥
दृष्ट्वा भद्रेश्वरं देवं चक्रतीर्थफलं लभेत् ।
कल्पग्रामाच्छतगुणं चक्रतीर्थं वसुन्धरे ! ॥”
इति वाराहे मथुरामाहात्म्ये चक्रतीर्थप्रभावो
नामाध्यायः ॥
शिवप्राप्त्यर्थं दुर्गाराधितहिमालयस्थपार्थिव-
शिवलिङ्गम् । यथा, --
“तवार्थाय ग्रहीष्यामि महर्षीन् हिमवद्गृहे ।
यश्चेह रुद्रमीहन्त्या मृण्मयश्चेश्वरः कृतः ॥
असौ भद्रेश्वरेत्येवं ख्याते लोके भविष्यति ।
देवदानवगन्धर्व्वा यक्षकिम्पुरुषोरगाः ॥
पूजयिष्यन्ति सततं मानवाश्च शुभेप्सवः ॥
इति वामनपुराणे ४६ अध्याये उमां प्रति
शिववाक्यम् ॥ गङ्गायाः पश्चिमतीरे गरिट्याख्य-
ग्रामस्योत्तरे पाषाणमयशिवलिङ्गविशेषो ग्राम-
विशेषश्च ॥

भद्रैला, स्त्री, (भद्रा एला ।) स्थूलैला । इति

राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, --
“एला स्यूला च बहुला पृथ्वीका त्रिपुटापि च ।
भद्रैला वृहदेला च चन्द्रबाला च निष्कुटिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

भद्रोदनी, स्त्री, (भद्रं उदनिति अनयेति । उत्

+ अन् + अच् । गौरादित्वात् ङीष् ।) बला ।
नागबला । इति राजनिर्घण्टः ॥

(भन्ज, ओ ध औ मोटने । इति कविकल्पद्रुमः ॥

रुधा०-पर०-सक०-अनिट् । ध, भनक्ति ॥)

भन्दिलं, क्ली, (भदि + इलच् ।) शुभम् । इत्यणादि-

कोषः ॥ कम्पः । दूतः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

भन्ध्रुकः, पुं, भारतवर्षान्तर्गतदेशविशेषः । यथा,

“लक्षाश्चत्वार एवापि ग्रामाणां भन्ध्रुकाः
स्मृताः ॥”
इति स्कान्दे कुमारिकाखण्डे वक्रेश्वरमाहात्म्य-
नामाघ्यायः ॥

भपञ्जरं, क्ली, (भानां नक्षत्राणां पञ्जरम् ।)

नक्षत्रचक्रम् । इति सिद्धान्त्रशिरोमणिः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/भ&oldid=44026" इत्यस्माद् पुनः प्राप्तिः