शब्दकल्पद्रुमः/ब्रह्मदत्तः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/४४७

ब्रह्मदत्तः, पुं, इक्ष्वाकुवंशीयराजविशेषः । तत्-

पर्य्यायः । ब्रह्मसूनुः २ । इति हेमचन्द्रः । ३ ।
३५८ ॥ (यथा महाभारते । २ । ८ । २० ।
“ब्रह्मदत्तस्त्रिगर्त्तश्च राजोपरिचरस्तथा ॥”
स्वनामख्यातो नीपपुत्त्रः । यथा, भागवते । ९ ।
२१ । २५ ।
पारस्य तनयो नीपस्तस्य पुत्त्रशतं त्वभूत् ।
स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ॥”
ब्रह्मणा दत्त इति विग्रहे वाच्यलिङ्गः । यथा,
रामायणे । ३ । १८ । ३८ ।
“अमोघा इषवश्चेमे ब्रह्मदत्ताः सुतेजसः ।
दत्ता मह्यं महेन्द्रेण तूणौ चाक्षयसायकौ ॥”)

ब्रह्मदर्भा, स्त्री, (ब्रह्मणे हितो दर्भो यस्याः ।)

यमानिका । इत्यमरः । २ । ४ । १४५ ॥
(यथास्याः पर्य्यायः ।
“यमानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका ।
सैवोक्ता दीप्यका दीप्या तथा स्याद्यवसा-
ह्वया ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

ब्रह्मदारु, क्ली, (ब्रह्मणो ब्राह्मणस्य हितकरो

दारुः ।) स्वनामख्याताश्वत्थाकारवृक्षविशेषः ॥
तत्पर्य्यायः । नूदः २ पूषः ३ क्रमुकः ४ ब्रह्मण्यः
५ तूलम् ६ । इत्यमरः । २ । ४ । ४१ ॥
पलाशिकम् ७ । इति वाचस्पतिः ॥ तलम् ८ ।
इति भरतः ॥ पूगः ९ यूषः १० । इति शब्द-
रत्नावली ॥ (क्रमुकार्थे पर्य्यायो यथा,
“तूतः स्थूलश्च पूगश्च क्रमुको ब्रह्मदारु च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

ब्रह्मदैत्यः, पुं, (ब्रह्मा ब्राह्मणरूपी दैत्यः ।) प्रेत-

योनिप्राप्तब्राह्मणः । इत्यैतिह्यम् ॥

ब्रह्मनालं, क्ली, (ब्रह्मणो ब्रह्मलोकप्राप्तेर्नालमिव ।)

काश्यां चक्रतीर्थस्य पूर्ब्बभागे पितामहेश्वर-
लिङ्गस्याधस्तीर्थविशेषः यथा, --
“पितामहेश्वरं लिङ्गं ब्रह्मनालोपरिस्थितम् ।
पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ॥
ब्रह्मस्रोतःसमीपे तु कृतं कर्म्म शुभाशुभम् ।
परामक्षयतामेति शुभमेव ततश्चरेत् ॥
अनल्पमपि यत् कर्म्म कृतमत्र शुभाशुभम् ।
प्रलयेऽपि न तस्यास्ति प्रलयो मुनिसत्तम ! ॥
नाभितीर्थमिदं प्रीक्तं नाभीभूतं यतः क्षितेः ।
अपि ब्रह्माण्डगोलस्य नाभिरेषा शुभोदया ॥
सा माणिकर्णिकेकीयं नाभिगाम्भीर्य्यभूमिका ।
ब्रह्माण्डगोलकं सर्व्वं यस्यामेति लयोदयम् ॥
ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्सङ्गमे नरः स्नातः कोटिजन्ममलं हरेत् ॥
ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ॥
ब्राह्मण्डमण्डपान्तस्ते न विशन्ति कदाचन ॥”
इति स्कन्दपुराणे काशीखण्डे बिन्दुमाधवाग्नि-
बिन्दुसंवादे वैष्णवतीर्थभाहात्म्यं नाम ६१ अः ॥

ब्रह्मनिर्व्वाणं, क्ली, (ब्रह्मणि परब्रह्मे निर्व्वाणं लयः ।)

ब्रह्मणि निर्वृत्तिः । यथा, श्रीभगवद्गीतायाम् ।
२ । ७२ ।
“एषा ब्राह्मी स्थितिः पार्थ ! नैनां प्राप्य
विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्व्वाणमृच्छति ॥”

ब्रह्मपत्रं, क्ली, (ब्रह्मणस्तदाख्यया प्रसिद्धस्य वृक्षस्य

पत्रम् । पलाशपत्रम् । यथा, --
“भोजनं ब्रह्मपत्रेषु कथयालोचनं हरेः ।
दर्शनं वैष्णवानाञ्च महापातकनाशनम् ॥”
इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये ११८ अः ॥

ब्रह्मपर्णी, स्त्री, (ब्रह्मेव विस्तीर्णानि आमूलं

स्थितानि पत्राणि यस्याः ।) पृश्निपर्णी । इति
राजनिर्घण्टः ॥

ब्रह्मपवित्रः, पुं, (ब्रह्मणि वेदोक्तकर्म्मणि पवित्रः ।)

कुशः । इति राजनिर्घण्टः ॥

ब्रह्मपादपः, पुं, (ब्रह्मा तदाख्यया प्रसिद्धः पादपः ।)

पलाशवृक्षः । इति हेमचन्द्रः । ४ । २०२ ॥

ब्रह्मपुत्त्रः, पुं, विषभेदः । इत्यमरः । १ । ८ । १० ॥

तस्य लक्षणं यथा, --
“वर्णतः कपिलो यः स्यात्तथा भवति सारकः ।
ब्रह्मपुत्त्रः स विज्ञेयो जायते मलयाचले ॥”
इति भावप्रकाशः ॥
(पर्य्यायोऽस्य यथा,
“काकोली गरलः क्ष्वेडो वत्सनाभः प्रदीपनः ।
शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः ॥”
इति वैद्यकरत्नमालायाम् ॥
ब्रह्मणः पुत्त्रः । सत्यम् । धर्म्मः । मरीच्यादिः ॥
भनुः । यथा मार्कण्डेये । ९४ । ११ ।
“मन्वन्तरे च दशमे ब्रह्मपुत्त्रस्य धीमतः ।
सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराः
स्मृताः ॥”
नारदः । वशिष्ठः ॥) क्षेत्रभेदः । नदभेदः ।
इति मेदिनी । रे, २८५ ॥ शेषस्य पर्य्यायः ।
अमोघानन्दनः २ लौहित्यः ३ लोहितः ४ ।
इति शब्दरत्नावली ॥ * ॥ अस्य नदस्योत्पत्ति-
माहात्म्ये यथा, --
सगर उवाच ।
“अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः ।
कथं शान्तनुभार्य्यायां रेतः स कमलासनः ॥
पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् ।
तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ! ॥
और्व्व उवाच ।
शृणु त्वं नृपशार्द्दूल ! कथयामि महत्तरम् ।
आख्यानं ब्रह्मपुत्त्रस्य लौहित्यस्य महात्मनः ॥
हरिवर्षे महावर्षे शान्तनुर्नाम नामतः ।
मुनिरासीन्महामागो ज्ञानवान् सुतपोधनः ॥
तस्य भार्य्या महाभागा अमोघाख्या महासती ।
हिरण्यभर्गस्य मुनेस्तृणवृन्दाश्रमोद्भवा ॥
तया सार्द्धं स कैलासमर्य्यादापर्व्वतेऽवसत् ।
लौहित्याख्यस्य सरसस्तीरे वै गन्धमादने ॥
एकदा स तपोनिष्ठो निजपुष्पादिगोचरे ।
जगाम वनमध्यन्तु चिन्वन् बहुफलानि च ॥
तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः ।
तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया ॥
तां दृष्ट्वा देवगर्भाभां युवतीमतिसुन्दरीम् ।
मोहितो मदनेनाशु तथाभूद्भूषितेन्द्रियः ॥
उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् ।
अथाधावत्तदा ब्रह्मा सम्मुखो मदनार्द्दितः ॥
धावमानं विधातारं दृष्ट्वामोघा महासती ।
मैवं मैवमिति प्रोक्ता पर्णशालां व्यलीयत ॥
इदञ्चोवाच धातारममोघा कुपिता तदा ।
पर्णशालान्तरगता द्वारमावृत्य तत्क्षणात् ॥
अकार्य्यं न मया कार्य्यं मुनिपत्न्या विगर्हितम् ।
बलात् प्रमथ्या चाहं तत्त्वया त्वाञ्च शपाम्यहम् ॥
अमोघया चैवमुक्ते विधातुश्च तदा नृप ! ।
रेतश्चस्कन्द च तदैवाश्रमे शान्तनोर्मुनेः ॥
च्युते रेतसि धातापि हंसयानं समास्थितः ।
लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ ॥ * ॥
गते वेधसि शान्तनुर्निजमाश्रममागतः ।
आगत्य दृष्ट्वा हंसानां पदक्षोभं तथा भुवि ॥
तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् ।
अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ॥
किमेतदत्र सुभगे ! प्रवृत्तं दृश्यते तु यत् ।
पक्षिणाञ्च पदक्षोभस्तेजश्चेदञ्च कीदृशम् ॥
सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् ।
अमर्षितेव न्यगददाकुला विकलानना ॥
हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः ।
कमण्डलुकरो भीरू रतिं मां समयाचत ॥
ततो मया भर्त्सितः स कुटजान्तरलीनया ।
प्रच्याव्य तेजः स यातो मया शापभयार्द्दितः ॥
कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो ! ।
न हि मां धर्षणां सोढं कश्चित् शक्नोति जीव-
भृत् ॥
स तस्या वचनं शुत्वा स्वयं ब्रह्मा समागतः ।
इति निश्चित्य मनसा तत्र ध्यानपरोऽभवत् ॥
दिव्यज्ञानेन स ज्ञात्वा देवकार्य्यमुपस्थितम् ।
तीर्थावतारणञ्चापि हिताय जगतां मुनिः ।
ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत् ॥
इदं तेजो ब्रह्मणस्त्वं पिवामोघे ! ममाज्ञया ।
हिताय सर्व्वजगतां देवकार्य्यार्थसिद्धये ॥
भवत्या निकटं ब्रह्मा स्वयमेव समागतः ।
त्वामप्राप्य स महात्मा आवयोः स समर्प्य च ।
गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः ॥
तत् शुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता ।
शान्तयन्तीव तं प्राह पतिं नला महासती ॥
नान्यस्य तेजो धास्यामि न चेत्ते विमनस्कता ।
अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज ॥
ततस्तस्या वचः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः ।
स्वयं पीत्वा च तत्तेजस्तस्या गर्भे व्यसेचयेत् ॥
संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती ।
गर्भं दधानामोघाख्या हिताय जगतां ततः ॥
तस्यां काले तु संप्राप्ते संजातो जलसञ्चयः ।
तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक् ॥
पृष्ठ ३/४४८
रन्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् ।
चतुर्भुजः पद्मविद्यावरशक्तिधरस्तथा ।
शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः ॥
तं जातञ्च तथाभूतं शान्तनुर्लोकशान्तनुः ।
चतुर्णां पर्व्वतानाञ्च मध्यदेशे न्यवेशयत् ॥
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः ।
जारुधिः पश्चिमे शैलः पुर्ब्बे सम्बर्त्तकाह्वयः ॥
तेषां मध्ये स्वयं कुण्डं पर्व्वतानां विधेः सुतः ।
कृत्वातिववृधे नित्यं शरदीव निशाकरः ॥
तं तोयमध्यगं पुत्त्रमासाद्य द्रुहिणः स्वयम् ।
क्रमतस्तस्य संस्कारानकरोद्देहशुद्धये ॥
अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।
तोयराशिस्वरूपेण ववृधे पञ्च योजनान् ॥
तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे ।
शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः ॥
तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् ।
चक्रे मातृवधं घोरमत्युग्रं पितुराज्ञया ॥
तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।
स जगाम महाकुण्डं ब्रह्माख्यं स्नातुमिच्छया ॥
तत्र स्नात्वा च पीत्वा च मातृहत्यां व्यपानयत् ।
वीथिं परशुना कृत्वा तञ्च क्ष्मामवतारयत् ॥ * ॥
अपि च ।
ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिता-
ह्वये ।
कैलासोपत्यकायान्तु न्यपतद्ब्रह्मणः सुतः ॥
तस्यापि सरसस्तीरं समुत्थाय महाबलः ।
कुठारेण दिशं पूर्ब्बामनयद्ब्रह्मणः सुतम् ॥
ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च ।
कामरूपान्तरं पीठमवाहयदमुं हरिः ॥
तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् ।
लौहित्यात् सरसो जातो लौहित्याख्यस्ततोऽ-
भवत् ॥
स कामरूपमखिलं पीठमाप्लाव्य वारिणा ।
गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥
प्रागेव दिव्ययमुनां स त्यक्त्वा ब्रह्मणः सुतः ।
पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥ * ॥
चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः ।
स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥
चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः ।
लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥”
इति कालिकापुराणे ८४ । ८५ अध्यायः ॥
अन्यच्च ।
मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् ।
पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि ॥
पुनर्व्वमी वृषे लग्ने चैत्रे मासि सिताष्टमीम् ।
लोहित्ये विरजे स्नायात् सर्व्वपापैः प्रमुच्यते ॥ * ॥
स्नानमन्त्रो यथा, --
“पृथिव्यां यानि तीर्थानि सरितः सागरादयः ।
सर्व्वे लौहित्यमायान्ति चैत्रे मासि सिताष्टमीम् ॥
ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ! ।
अमोघागर्भसम्भूत पापं लौहित्य मे हर ॥”
इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम् ॥

ब्रह्मपुत्त्री, स्त्री, (ब्रह्मणः पुत्त्री कन्या ।) सर-

स्वती नदी । इति हेमचन्द्रः । ४ । १५१ ॥
वाराहीकन्दः । इति राजनिर्घण्टः ॥

ब्रह्मपुरी, स्त्री, (ब्रह्मणः पुरी ।) विधातुर्धाम ।

यथा । भूलोकान्तरीक्षस्वर्गलोकादि ब्रह्माण्डो-
दरवर्त्ति च ब्रह्मपुरीनामकं त्रैलोक्यस्वरूपं मम
हृदयमध्ये वाह्ये च सूर्य्यमण्डलमध्यवर्त्ति तेजसा
स एकीभूतं ज्योतिरहमिति चिन्तयन् जपं
कुर्य्यात् । इति गायत्त्रीव्याख्या ॥ * ॥ काशी ।
यथा, --
“विद्याप्रबोधोदयजन्मभूमि-
र्वारानसी ब्रह्मपुरी दुरत्यया ॥”
इति प्रबोधचन्द्रोदयनाटकम् ॥

ब्रह्मबन्धुः, पुं, (ब्रह्मणो बन्धुरिव ।) अधिक्षेपः ।

निन्दितब्राह्मणः । निर्द्देशः । अग्राह्यनामक-
ब्राह्मणः । इत्यमरः । ३ । ३ । १०३ ॥ तथा हि ।
अधिक्षेपे निन्दायां गम्ये अधिक्षेप्यो ब्रह्मबन्धुः ।
यथा ब्रह्मबन्धो ! किमेतत्ते इति । अधिक्षिप्यते-
ऽसौ अधिक्षेपोऽधिक्षेप्यः कर्म्मणि घञ् वा ।
ब्रह्मैव बन्धुरस्य नान्यः । ब्रह्मकर्म्माभावात् निन्दा
अधिक्षेपे समासोऽभिधानात् । ब्रह्मबन्धुः निर्द्देशे
यस्य द्वेषान्नाम न गृह्यते स ब्रह्मबन्धुरितिनिर्द्दि-
श्यते इत्यर्थः । स्त्रियां (“ऊङुतः ।” ४ । १ । ६६ ।
इति ऊङ् ।) ब्रह्मबन्धूः । ब्रह्मबन्धुर्ब्राह्मणजाति-
विशेषे च । ब्राह्मणजातिविशेषे निर्द्देशे ब्रह्म-
बन्धुरधिक्षेपे इति वोपालितः । इति भरतः ॥ * ॥
(यथा, मार्कण्डेये । ७५ । ६० ।
“ब्रह्मबन्धोः सुता न त्वं बाले ! नैव तपस्विनः ।
सुता त्वं मम यो देवान् कर्त्तुमन्यान् समुत्-
सहे ॥”)
तस्य दैहिकवधनिषेधो । यथा, भागवते १
स्कन्धे ।
“वपनं द्रविणादानं स्थानान्निर्यापणन्तथा ।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥”

ब्रह्मभूतिः, स्त्री, (ब्रह्मणो भूतिरङ्गसम्पदिव भूति

र्यस्याः ।) सन्ध्या । इति शब्दरत्नावली ॥
(ब्रह्मणो भूतिरुत्पत्तिर्यस्या इति विग्रहे
वाच्यलिङ्गः ॥)

ब्रह्मभूमिजा, स्त्री, (ब्रह्मभूमेर्जायते या । ब्रह्म-

भूमि + जन + ड । टाप्) सिंहली । इति राज-
निर्घण्टः ॥

ब्रह्मभूयं, क्ली, (ब्रह्मणो भावः । ब्रह्म + भू +

“भुवो भावे ।” ३ । १ । १०७ । इति क्यप् ।)
ब्रह्मत्वम् । इत्यमरः । २ । ७ । ५२ ॥ (यथा
मनुः । १२ । १०२ ।
“वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥”
“अस्मिन्नेव लोके तिष्ठन् ब्रह्मभूयाय ब्रह्मत्वाय
कल्पते ।” इति तट्टीकायां कुल्लूकभट्टः ॥
मोक्षः । यथा गीतायाम् । १४ । २६ ।
“माञ्च योऽव्यभिचारेण भक्तियोगेन सेवते ।
सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥”
“ब्रह्मभूयाय बृह्मभावाय मोक्षायकल्पते समर्थो
भवति ।” इति तट्टीकायां स्वामी ॥)

ब्रह्ममूर्द्धभृत्, पुं, (ब्रह्मणो मूर्द्धभृत् शिरोमणिरिव ।)

शिवः । इति वटुकभैरवस्य वकारादिसहस्र-
नामान्तर्गतनाम ॥

ब्रह्ममेखलः, पुं, (ब्राह्मनां ब्रह्मणानां मेखला पुंवद्

भावः ।) मुञ्जः । इति केचित् ॥

ब्रह्मयज्ञः पुं, (ब्रह्मणो ब्रह्मणे वा यज्ञः ।) विधिना

वेदस्याभ्यसनम् । शिष्याणामध्यापनञ्च । इत्य-
मरभरतौ ॥ यथा, मनौ । ३ । ७० ।
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम् ॥”

ब्रह्मयष्टिः, स्त्री, (ब्रह्मणो यष्टिरिव ।) भार्गी ।

इति शब्दरत्नावलो ॥ (वृक्षविशेषः । यथा,
गारुडे १९२ अध्याये ।
“ब्रह्मयष्टिफलं पिष्टं वारिणा तेन लेपतः ।
तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥”
ब्रह्मणो ब्राह्मणस्य यष्टिर्लगुडः । विप्रयष्टिः ॥)

ब्रह्मयोनिः, पुं, (ब्रह्मणो योनिरुत्पत्तिस्थानम् ।)

ब्रह्मगिरिः । इति शब्दरत्नावली ॥ (ब्रह्मप्राप्ति-
कारणब्रह्मध्यानम् । यथा मनुः । १० । ७४ ।
“ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिता ।
ते सम्यगुपजीवेषुः षट् कर्म्माणि यथाक्रमम् ॥”
“ये ब्राह्मणा ब्रह्मप्राप्तिकारणब्रह्मध्याननिष्ठाः
स्वकर्म्मानुष्ठाननिरताश्च ते षट्कर्म्माणि वक्ष्य-
माणान्यध्यापनादीनि क्रमेण सम्यगनुतिष्ठेषुः ॥”
इति तट्टीकायां कुल्लूकभट्टः ॥ अपरस्य ब्रह्मणो
योनिरुत्पत्तिकारणम् । यद्वा ब्रह्म सत् योनिः
सर्व्वेषामुत्पत्तिकारकं ब्रह्म । यथा, मुण्डकोप-
निषदि । ३ । १ । ३ ॥
“यदा पश्यः पश्यते रुक्मवर्णम्
कर्त्तारमीशं पुरुषं ब्रह्मयोनिम् ॥”
तीर्थविशेषः । यथा महाभारते । ३ । ८३ । १३१ ।
“ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।
तत्र स्नात्वा नरव्याघ्र ! ब्रह्मलोकं प्रपद्यते ॥”
ब्रह्मा योनिरुत्पत्तिकारणं यस्य इति विग्रहे
वाच्यलिङ्गः । यथा रघौ । १ । ६४ ।
“त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धा कथं न स्युः सम्पदो मे निरापदः ॥”
यथा च मार्कण्डेये । २३ । ३० ।
जगद्धात्रीमहं देवी मारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसाब्रह्मयोनिं सरस्वतीम् ॥”)

ब्रह्मयोनी, स्त्रो, (ब्रह्मा योनिरुत्पत्तिकारणं यस्याः ।

स्त्रियां पक्षे ङीप् ।) कुरुक्षेत्रे सरस्वतीतीरे
पृथूदकनिकटे तीर्थविशेषः । तत्र ब्रह्मणा
चत्वारो वर्णाः सृष्टाः । यथा, --
“सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नैनं श्वो मरणं लभेत् ॥
तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्म्मिताः ।
पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥
चतुर्व्वर्णस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् ।
तस्याभिध्यायतः सृष्टिर्ब्रह्मणोऽव्यक्तजन्मनः ॥
पृष्ठ ३/४४९
मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्त्रिया-
स्तथा ।
ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन् ॥
चातुर्व्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः ।
एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीतिसंज्ञितम् ॥
तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति ।”
इति वामनपुराणे ३८ अध्यायः ॥

ब्रह्मरन्ध्रं, क्ली, (ब्रह्मणः परमात्मनः अधिष्ठानाय-

रन्ध्रं आकाशः यद्वा, ब्रह्मणे ब्रह्मप्राप्तये रन्ध्रम् ।
एतद्रन्ध्रेण प्राणोत्क्रमणे ब्रह्मलोकप्राप्तेरस्य
तथात्वम् ।) उत्तमाङ्गम् । ब्रह्मतालु इति भाषा ।
यथा । अं नमः ब्रह्मरन्ध्रे । इति तन्त्रसारः ॥
अपि च । ब्रह्मरन्ध्रसरसीरुहोदरे इत्यादि
गुरुपादुकास्तोत्रम् ॥ (यथा च हठयोग-
प्रदीपिकायाम् । ४ । १६ ।
“ज्ञात्वा सुषुम्नासद्भेदं कृत्वा वायुञ्च मध्यगम् ।
स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रेनिरोधयेत् ॥”)

ब्रह्मरात्रः, पुं, (रात्रेरयं रात्रः । ब्रह्मणो रात्रः ।)

ब्राह्ममुहूर्त्तः । इति श्रीधरस्वामी ॥ यथा, --
“ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।
अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥”
इति श्रीभागवते । १० । ३३ । ४९ ॥

ब्रह्मरात्रिः, पुं, (याज्ञवल्क्यमुनिः । इति हेमचन्द्रः ॥

ब्रह्मज्ञानं राति ददाति यः । ब्रह्मशब्दात्
राधातोर्नाम्नीति त्रिप्रत्ययनिष्पन्नोऽयम् । इति
तट्टीका ॥ ब्रह्मणो निशायां स्त्री । सा दैव-
सहस्रयुगेन भवति । इति पुराणम् ॥ (मनुष्य-
कालपरिमाणतो ब्रह्मणो रात्रिपरिमाणमुच्यते ।
नेत्रपरिस्पन्दनकालो निमेषः । अष्टादशनिमे-
षास्तु काष्ठा । त्रिंशत् काष्ठास्तु कला । त्रिंशत्
कलास्तु क्षणः । क्षणास्तु द्वादश मिलित्वा एको
मुहूर्त्तः ।
“तास्तु त्रिंशत्क्षणस्ते तु मुहूर्त्तो द्वादशा-
स्त्रियाम् ॥”
इत्यमरः । १ । ४ । ११ ॥
मनुमते तु त्रिंशत्कला मिलित्वा एको मुहूर्त्तः
स्यात् यदुक्तं तत्रैव । १ । ६४ ।
“त्रिंशत्कला मुहूर्त्तः स्यादहोरात्रन्तु तावतः ॥”
ते त्रिंशन्मुहूर्त्ता एकोऽहोरात्रः । अहो-
रात्रास्तु पञ्चदशसंख्यका एकः पक्षः । पक्ष स्तु
शुक्लकृष्णभेदात् द्विविधः । ताभ्यामुभाभ्यां
पक्षाभ्यां मासः स्यात् । मासस्तु पित्र्ये रात्र्य-
हनी । कृष्णपक्षस्तु पितॄणामहः शुक्लपक्षस्तु
शर्व्वरी । षड्भिर्मासैरयनं भवेत् । अयनन्तु
दक्षिणोत्तरभेदात् द्बिविधम् । द्वाभ्यामयनाभ्यां
वत्मरः स्यात् । वत्सरस्तु दैवे रात्र्यहनी ।
उत्तरायणं देवानामहः दक्षिणायनन्तु रात्रिः ।
मानुषाणां यत्कृतादियुगचतुष्टयं तद्दैवं युगं
ज्ञेयम् । एवं दैवयुगसहस्रेण ब्रह्मणोऽहः
दैवयुगसहस्रेण च रात्रिर्भवति । तथा च
मनौ । १ ७१ । श्लोकस्य टीकायां कुल्लूकभट्टः ।
“विष्णुपुराणे मानुषचतुर्युगसहस्रेण ब्रह्माह-
कीर्त्तनान्मानुषचतुर्युगेनैव दिव्ययुगानुगमनात् ।
तथा च विष्णुपुराणम् ।
“कृतं त्रेताद्वापरञ्च कलिश्चेति चतुर्युगम् ।
प्रोच्यते तत्सहस्रन्तु ब्रह्मणो दिवसो मुने ! ॥”
तथा च मनुः । १ । ६८-७३ ।
“ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।
एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥
चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥
यदेतत्परिसंख्यातमादावेव चतुर्युगम् ।
एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥
दैविकानां युगानान्तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।
रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः ॥”
“यदेतदिति । एतस्य श्लोकस्यादौ यदेतन्मानुषं
चतुर्युगं परिगणितं एतद्देवानां युगमुच्यते ।
चतुर्युगशब्देन सन्ध्यासन्ध्यांशयोरप्राप्तिशङ्काया-
माह एतद्द्वादशसाहस्रमिति स्वार्थेऽण् । चतु-
र्युगैरेव द्वादशसहस्रसंख्यैर्दिव्यं युगमिति तु
मेधातिथेर्भ्रमो नादर्त्तव्यः मनुनानन्तरं दिव्य-
युगसहस्रेण ब्रह्माहस्याप्यभिधानात् ॥” इति
तट्टीकायां कुल्लूकभट्टः ॥)

ब्रह्मराक्षसः, पुं, (आदौ ब्रह्मा ब्राह्मणः पश्चात्

राक्षसः कुकर्म्मभिः राक्षसयोनिं गतः ।)
भूतविशेषः । यथा, --
“संयोगं पतितैर्गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥”
इति मानवे । १२ । ६० ॥
(स च यज्ञविनाशकारी भूतयोनिगतत्वात् ।
यथा, रामायणे । १ । ११ । २१ ।
“शक्योऽवाप्तुमयं यज्ञो नाशक्तेन महीक्षिता ।
नचैवाश्रद्दधानेन न चाल्पद्रविणेन च ॥
छिद्रं हि मृगयन्त्यत्र यज्ञघ्ना ब्रह्मराक्षसाः ॥”)
महादेवस्य गणविशेषः । यथा, --
“डाकिनीर्जातुधानांश्च वेतालान् सविनायकान् ।
भूतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्ष-
सान् ॥”
इति श्रीभागवते बाणयुद्धे ६३ अध्यायः ॥
पारिभाषिकब्रह्मराक्षसाः । यथा, --
“मूर्खः स्त्री कच्छपश्चैव वाजी वधिर एव च ।
गृहीतार्थं न मुञ्चन्ति पञ्चैते ब्रह्मराक्षसाः ॥”
इति व्यवहारप्रदीपः ॥

ब्रह्मरीतिः, स्त्री, (ब्रह्मवर्णा रीतिः ।) पित्तलभेदः ।

यथा, हेमचन्द्रः । ४ । ११४ ॥
“पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् ।
रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् ॥
ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥”
राजरीतिः । इति राजनिर्घण्टः ॥ (तथास्याः
पर्य्यायान्तरम् ।
“पित्तलन्त्वारकूटं स्यादारोरीतिश्च कथ्यते ।
राजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलापि च ॥”
इति वैदकरत्नमालायाम् ।
ब्रह्मणो ब्राह्मणस्य रीतिश्च ॥)

ब्रह्मर्षिः, पुं, (ब्रह्मा ब्राह्मणः ऋषिः । यद्बा,

ब्रह्म वेदं परब्रह्म वा ऋषति वेत्ति इति । वशि-
ष्ठादिमुनिगणः । इति हेमचन्द्रः ॥ (यथा,
रामायणे । १ । ६३ । २० -- २१ ।
“ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः ।
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्म्मभिः शुभैः ।
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः ॥”
तथा च महाभारते । १३ । १९ । ३७ ।
“ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।
विधिवत् कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥”)

ब्रह्मर्षिदेशः, पुं, (ब्रह्मर्षीणां देशः वासयोग्य-

स्थानम् ।) कुरुक्षेत्रादिदेशचतुष्टयम् । यथा,
“कुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः ।
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥
इति मानवे । २ । १९-२० ॥

ब्रह्मलोकः, (ब्रह्मणो लोको भुवनम् ।) ब्रह्मणो

भुवनम् । यथा, --
“सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् ।
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥”
इति देवीपुराणम् ॥
अपि च ।
“षड्गुणेन तपोलोकात् सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥”
अस्य टीका । जनलोकापेक्षयैव षड्गुणेन
द्वादशको ह्युच्छ्रायेण तपोलोकानन्तरं सत्य-
लोकः । न तु तपोलोकात् षड्गुणेनेति मन्त-
व्यम् । तथासत्याष्टचत्वारिंशत्को ह्युच्छ्राय-
त्वेन ब्रह्माण्डे तस्यावकाशाभावात् । सूर्य्याण्ड-
गोलयोरन्तः कोट्यः स्युः पञ्चविंशतिरिति
शुकोक्तेः । सत्यलोक एव कक्षाभेदेन ब्रह्म-
धिष्ण्यात् परं वैकुण्ठलोकादि ज्ञेयम् । एवञ्च
भूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविंशतिकोट्यो
भवन्ति । सत्यलोकादूर्द्ध्वञ्च पञ्चदशलक्षोनको-
टिद्वयादण्डकटाह इति ज्ञेयम् । अपुनर्मारकाः
पुनर्मृत्युशून्याः । इति विष्णुपुराणे । २ अं । ७ अः ॥
(ब्रह्मैव लोकः । तुरीयब्रह्मस्वरूपम् । यदुक्तं
शतपथब्राह्मणे । १४ । ७ । १ । ३१ ।
“एषोऽस्य परमो लोक एषोऽस्य परम आनन्द
एतस्येवानन्दस्यान्यानि भूतानि मात्रामुप-
जीवन्ति । स यो मनुष्याणां राद्धः समृद्धो
भवति । अन्येषामधिपतिः सर्व्वैर्मानुष्यकैः
कामैः सम्पन्नतमः स मनुष्याणां परम
आनन्दः । अथ ये शतं मनुष्याणामानन्दाः ।
स एकः पितॄणां जितलोकानामानन्दः । अथ
ये शतं पितॄणां जितलोकानामानन्दाः स एक
पृष्ठ ३/४५०
कर्म्मदेवानामानन्दः ये कर्म्मणा देवत्वमभि-
सम्पद्यन्ते अथ ये शतं कर्म्मदेवानामानन्दाः ।
स एक आजानदेवानामानन्दो यश्च श्रोत्रियो-
ऽवृजिनोऽकामहतः । अथ ये शतं आजान-
देवानामानन्दाः । स एको देवलोक आनन्दो
यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये
शतं देवलोक आनन्दाः । स एको गन्धर्व्वलोक
आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतं गन्धर्व्वलोक आनन्दाः । स एकः
प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजृणो-
ऽकामहतः । अथ ये शतं प्रजापतिलोक
आनन्दाः । स एको ब्रह्मलोक आनन्दो यश्च
श्रोत्रियोऽवृजिनोऽकामहतः । एषः ब्रह्मलोकः
सम्राट् ॥ शिवः यथा, महाभारते । १३ ।
१७ । १४२ ।
“निर्व्वाणं ह्वादनञ्चैव ब्रह्मलोकः परागतिः ॥”)

ब्रह्मवद्यं, क्ली, (ब्रह्म वेदस्तस्य वदनम् । “वद

सुपि क्यप् च ।” १३ । १ । १०६ । इति भावे
यत् ।) ब्रह्मणो वाक्यम् । इति ल्यप्रकरणे
मुग्धबोधटीकायां दुर्गादासः ॥

ब्रह्मवद्या, त्रि, (ब्रह्मणा वेदेन उद्यते या । “वदः

सुपि क्यप् च ।” ३ । १ । १०६ । इति कर्म्मणि
यत् स्त्रियां टाप् ।) कथा । इति मुग्धबोध-
व्याकरणे ल्यप्रकरणम् ॥

ब्रह्मवर्च्चसं, क्ली, (ब्रह्मणो वेदस्य तपसो वा वर्च्च-

स्तेजः । “ब्रह्महस्तिभ्यां वर्च्चसः ।” ५ । ४ ।
७८ । इति अच् ।) ब्राह्मणस्य वृत्ताध्ययनर्द्धिः ।
इत्यमरः । २ । ७ । ३९ ॥ अस्य टीका । वेद-
बोधितस्याचारस्य परिपालनं वृत्तम् । व्रत-
ग्रहणपूर्ब्बकं गुरुमुखेन वेदाभ्यासोऽध्ययनम् ।
तयोरृद्धिस्तत्परिपालनकृतस्तेजस उपचयो
ब्रह्मवर्च्चसं स्यात् । ब्रह्महस्तिराजेति अः । इति
भरतः ॥ तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मवर्च्च-
सम् । इति जटाधरः ॥ (तथा च मनुः । ४ । ९४ ।
“ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः ।
प्रज्ञां यशश्च कीर्त्तिञ्च ब्रह्मवर्च्चसमेव च ॥”)

ब्रह्मवर्त्तः, पुं, (ब्रह्मणां ब्राह्मणानां वर्त्तः वर्त्तनं

यस्मिन् ।) ब्रह्मावर्त्तदेशः । इति शब्दरत्नावली ॥
(सरस्वतीदृशद्बत्यो र्देवनद्यो र्मध्यगतोऽयं
प्रदेशः ॥)

बह्मवर्द्धनं, क्ली, (ब्रह्मणस्तपसो वर्द्धनं यस्मात् ।)

ताम्रम् । इति हेमचन्द्रः । ४ । १०६ ॥

ब्रह्मवादः पुं, (ब्रह्मणो वेदस्य वादो वदनं पठन-

मिति यावत् ।) वेदपाठः । तत्पर्य्यायः ।
श्रुतादानम् २ । इति हारावली । २२१ ॥
(यथा भागवते । ४ । २२ । ६२ ।
“बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः ॥”
ब्रह्मणो ब्रह्मनिर्णयस्य वादः कथनमिति विग्रहे
ब्रह्माधिकारेण तत्त्वनिर्णयवाक्यम् ॥ ब्रह्मवादो
वेदपाठोऽस्यास्तीति ब्रह्मवादविशिष्टे, त्रि ।
यथा, हरिवंशे । ८१ । ३४ ।
“ब्राह्मणैर्ब्रह्मवादैञ्च पुराणोऽयं हि गीयते ॥”)

ब्रह्मवादी, [न्] पुं, (ब्रह्मवादो वेदपाठोऽस्या-

स्तीति । ब्रह्मवाद + णिनि ।) वेदवक्ता । तत्-
पर्य्यायः । वेदान्ती २ । इति जटाधरः ॥ यथा,
गीतायाम् । १७ । २४ ।
“तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”)

ब्रह्मवादिनी, स्त्री, गायत्त्री । यथा, --

“आयाहि वरदे देवि ! त्र्यक्षरे ब्रह्मवादिनि ! ॥”
इत्यादि गायत्त्र्या आवाहनम् ॥

ब्रह्मविद्या, स्त्री, (ब्रह्मणो ब्रह्मविषयिणी या

विद्या ।) ब्रह्मज्ञानम् । यथा, --
“न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः ।
स्वधर्म्मपालको नित्यं सोऽमृतत्वाय कल्प्यते ॥”
इति कौर्म्मे ३ अध्यायः ॥
(दुर्गा । यथा, महाभारते । ६ । २२ । २७ ।
“त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहि-
नाम् ।
स्कन्दमातर्भगवति ! दुर्गे कान्तारवासिनि ! ॥”)

ब्रह्मविन्दुः, पुं, (ब्रह्मणो विन्दुः ।) वेदपाठे मुख-

निर्गतविन्दुः । इति भरतः ॥

ब्रह्मवृक्षः, पुं, (तंदाख्यया प्रसिद्धो वृक्षः । यद्बा,

ब्रह्मणे वेदकर्म्मार्थं यो वृक्षः ।) पलाशवृक्षः ।
इति हलायुधः ॥ उडुम्बरः । इति रत्नमाला ॥

ब्रह्मवृत्तिः, स्त्री, (ब्रह्मणो ब्राह्मणस्य वृत्तिर्जीव-

नोपायः ।) ब्राह्मणस्य जीवनोपायः । यथा, --
“स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥”
इति श्रीभागवतम् ॥

ब्रह्मवेदः, पुं, (ब्रह्मणो वेदः ज्ञानम् ।) ब्रह्म-

ज्ञानम् । यथा, --
“प्राणायामः परं ब्रह्म परमात्मा चतुर्मुखः ।
प्राणायामः पदं विष्णोर्ब्रह्मवेदस्वरूपकम् ॥”
इति गीतासारः ॥

ब्रह्मवेदिः, स्त्री, (ब्रह्मणो वेदिरिव ।) देश-

बिशेषः । यथा, --
“ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामह्रदान्तरम् ॥”
इति हेमचन्द्रः । ४ । १६ ॥

ब्रह्मवैवर्त्तं, क्ली, (विवृतिरेव वैवर्त्तम् । स्वार्थे

अण् । ब्रह्मणो वैवर्त्तं विशेषेण विवृतिर्यत्र ।)
यथा च ब्रह्मवैवर्त्ते ब्रह्मखण्डे । १ । ५८ ।
“विवृतं ब्रह्म कार्त् सेन कृष्णेण यत्र शौनक ! ।
ब्रह्मवैवर्त्तकं तेन प्रवदन्ति पुराविदः ॥”)
अष्टादशमहापुराणान्तर्गतदशमपुराणम् । यथा,
“अष्टादशसहस्रञ्च ब्रह्मवैवर्त्तमीप्सितम् ।
सर्व्वेषाञ्च पुराणानां सारमेव विदुर्बुधाः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अः ॥

ब्रह्मशल्यः, पुं, (ब्रह्मेव सूक्ष्मं शल्यमग्रभागो यस्य ।

अतिसूक्ष्माग्रत्वात्तथात्वम् ।) सोमवल्कः । इति
रत्नमाला ॥ वावला इति भाषा ॥

ब्रह्मशासनं, क्ली, (ब्रह्मणः शासनं निर्णयो उपदेशो

वा यस्मिन् ।) ब्रह्मविचारगृहम् । तत्पर्य्यायः ।
धर्म्मकीलकः २ । इति शब्दरत्नावली ॥ ब्रह्मण
आज्ञा ॥ नवद्वीपस्य पूर्ब्बदक्षिणकोणे गङ्गापारे
ग्रामविशेषे, पुं ॥ (ब्रह्मणो विधातुः शासनम् ।
वेदः ॥ प्रतिपादितमेतत् वृहन्नारदीये ४ पादे
१०१ अध्याये ॥)

ब्रह्मसंहिता, स्त्री, (ब्रह्मणः संहिता ।) भगवत्-

सिद्धान्तसंग्रहग्रन्थविशेषः । यथा, --
“अध्यायशतसम्पन्ना भगवद्ब्रह्मसंहिता ।
कृष्णोपनिषदां सारैः सञ्चिता ब्रह्मणोदिता ॥”
इति ब्रह्मसंहितायां भगवत्सिद्धान्तसंग्रहे
मूलसूत्राख्यपञ्चमाध्यायस्य जीवगोस्वामिकृत-
टीका ॥

ब्रह्मसम्भवः, पुं, द्बिपृष्ठनामकजैनविशेषः । इति

हेमचन्द्रः ॥

ब्रह्मसर्पः, पुं, (ब्रह्म बृहान् सर्पः ।) सर्प-

विशेषः । तत्पर्य्यायः । हलाहलः २ अश्व-
लाला ३ । इति त्रिकाण्डशेषः ॥

ब्रह्मसायुज्यं, क्ली, (युनक्तीति युजः । “इगुप-

धेति ।” ३ । १ । १३५ । कः । ततः “तेन
सहेति ।” २ । २ । २८ । इति बहुब्रीहिः ।
“वोपसर्जनस्य ।” ६ । ३ । ८२ । इति सहस्य
सः । ततः सयुजस्य भावः सायुज्यं । यद्वा,
योजयतीति युक् सम्पदादित्वात् क्विप् । ततो
बहुब्रीहिस्ततः सयुजो भावः । ततः ब्रह्मणः
सायुज्यं योजकत्वम् ।) ब्रह्मणो भावः । तत्-
पर्य्यायः । ब्रह्मभूयम् २ ब्रह्मत्वम् ३ । इत्यमरः ।
२ । ७ । ५२ ॥ ब्रह्मसापूज्यम् ४ । इति शब्द-
रत्नावली ॥ (मुग्धबोधमतेऽस्य व्युत्पत्तिर्यथा ।)
ब्रह्मणो भवनं ताद्रूप्यं ब्रह्मभूयं भूहनः क्यविति
क्यप् । त्वतौ भावे इति त्वे ब्रह्मत्वं । योजनं
युक् तत्सहितः सयुक् तद्भावः सायुज्यं ततो
ब्रह्मणा विग्रहः । इति भरतः ॥

ब्रह्मसावर्णिः, पुं, (ब्रह्मपुत्त्रो सावर्णिः ।) दशम

मनुः । अस्मिन् मन्वन्तरे विश्वक्सेनोऽवतारः ।
शम्भुरिन्द्रः । सुरसेनविरुद्धाद्याः देवाः । हविष्म-
दाद्याः सप्तर्षयः । भूरिसेनाद्या मनुपुत्त्रा भवि-
ष्यन्ति । इति श्रीभागवतम् । ८ । १३ । २१-२२ ॥
अन्यच्च ।
“मन्वन्तरे तु दशमे ब्रह्मपुत्त्रस्य धीमतः ।
सुरसेना विरुद्धाश्च द्विप्रकारास्तथा स्मृताः ॥
शतसंख्या हि ते देवा भविष्यास्तत्र वै
मनौ ।
तत्पुत्त्राणां शतं भावि तद्देवानां तदा
शतम् ॥
शास्तिरिन्द्रस्तदा भावी सर्व्वैरिन्द्रगुणैर्युतः ।
सप्तर्षी स्तु निबोध त्वं ये भविष्यन्ति वै तदा ॥
आपो मूर्त्तिर्हविष्मांश्च सुकृती सत्य एव च ।
नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः ॥
सुक्षेत्त्रश्चोत्तमौजाश्च भूरिसेनः सुवीर्य्यवान् ।
शतानीकोऽथ वृषभो अनमित्रो जयद्रथः ॥
भूरिद्युम्नः सुवर्च्चाश्च तस्यैते तनया मनोः ।”
इति ब्रह्मसावर्णिकम् ।
इति मार्कण्डेयपुराणे ॥ ९४ । ११-१६ ॥
पृष्ठ ३/४५१

ब्रह्मसूः, पुं, प्रद्युम्नः । इत्यमरः । १ । १ । २८ ॥

कामदेषः । इत्यमरमाला ॥ अनिरुद्धपक्षे ब्रह्माणं
सूतषान् ब्रह्मसूः ॥ (सूङलप्रसवे । “अन्येभ्यो-
पीति ।” ३ । २ । १७८ । क्विप् ।) कल्पान्तरे
किलानिरुद्धमूर्त्तेर्भगवतो ब्रह्मा जातः । तथा च
ब्रह्मपुराणम् । अनिरुद्धात्ततो ब्रह्मा तन्नाभि-
कमलोद्भवः ॥ कामदेवपक्षे । ब्रह्म तपः सुवति
प्रेरयति ब्रह्मसूः । सूश प्रेरणे (“अन्येभ्योऽपि
दृश्यते ।” ३ । २ । १७८ । इति) क्विप् । इति भरतः ।
(कामेनैष सर्व्वतपःसु प्रवर्त्तनादस्य तथात्वम् ॥)

ब्रह्मसूत्रं, क्ली, (ब्रह्मणि वेदग्रहणकाले उपनयन-

समये इत्यर्थः धृतं यत् सूत्रम् ।) यज्ञसूत्रम् ।
तत्पर्य्यायः । पवित्रम् २ यज्ञोपवीतम् ३ द्बिजा-
यनी ४ । इति त्रिकाण्डशेषः ॥ उपवीतम् ५
सावित्रम् ६ सावित्रीसूत्रम् ७ । इति शब्द-
रत्नावली ॥ (यथा भागवते । ८ । १८ । १४ ।
“तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
बृहस्पति र्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥”
तटस्थलक्षणपरं उपनिषद्वाक्यम् । ब्रह्मनिर्णय-
सूत्रम् । यथा गीतायाम् । १३ । ४ ।
“ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥”
अस्य व्याख्याने श्रीधरस्वामिना यदुक्तं तदुच्यते ।
“ऋषिभिर्वशिष्ठादिभिर्योगशास्त्रेषु ध्यानधार-
णादिविषयत्वेन वैराग्यादिस्वरूपेण बहुधा
गीतं निरूपितम् । विविधैर्विचित्रैर्नित्यनैमित्तिक-
काम्यकर्म्मादिविषयैञ्छन्दोभिर्वेदैर्नानापूजनीय-
देवतारूपेण गीतं ब्रह्मणः सूत्रैः पदैश्च
ब्रह्म सूत्र्यते सूच्यते एभिरिति ब्रह्मसूत्राणि
यतो वा इमानि भूतानि जायन्त इत्यादीनि
तटस्थलक्षणपराणि सत्यं ज्ञानमनन्तं ब्रह्मे-
त्यादीनि तैश्च बहुधा गीतम् । किञ्च हेतु-
मद्भिः सदेव सौन्येदमग्र आसीत् कथमसतः
सदजायत इति । को ह्येवान्यात् कः प्राण्यात्
यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द-
यातीत्यादि युक्तिमद्भिः । अन्यात् अपानचेष्टां
कः कुर्य्यात् प्राण्यात् प्राणव्यापारं वा कः
कुर्य्यादिति श्रुतिपदयोरर्थः । विनिश्चितैरुप-
क्रमोपसंहारैकवाक्यतया असन्धिग्धार्थप्रति-
पादकैरित्यर्थः । तदेवमेतैर्विस्तरेणोक्तं दुःसं-
ग्रहं संक्षेपतस्तुभ्यं कथयिष्यामि तत् शृण्वि-
त्यर्थः । यद्वा “अथातो ब्रह्मजिज्ञासा” इत्या-
दीनि ब्रह्मसूत्राणि गृह्यन्ते तान्येव ब्रह्म पद्यते
निश्चीयते एभिरिति पदानि तैर्हेतुमद्भिरीक्ष-
तेर्ना शब्दं आनन्दमयोऽभ्यासादित्यादि युक्ति-
मद्भिर्विनिश्चितार्थैः ॥)

ब्रह्मसूनुः, पुं, (ब्रह्मणः सूनुः पुत्त्रः ।) इक्ष्वाकु-

वंशोद्भवराजविशेषः । तत्पर्य्यायः । ब्रह्मदत्तः २ ।
इति हेमचन्द्रः । ३ । ३२८ ॥ (ब्रह्मपुत्त्रे वशि-
ष्ठादौ च ॥)

ब्रह्मस्वं, क्ली, (ब्रह्मणो ब्राह्मणस्य स्वं धनम् ।)

ब्राह्मणसम्बन्धि धनम् । तस्य हरणे दोषो यथा,
“ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वापि यो हरेत् ।
स कृतघ्न इति ज्ञेयो महापापी च भारते ॥
अवटोदे वसेत् सोऽपि यावदिन्द्रशतं शतम् ।
ततो भवेत् सुरापीती ततः शूद्रस्ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्याय ॥

ब्रह्महत्या, स्त्री, ब्रह्मणो हननम् ॥ (हनस्त च । ३ ।

१ । १०८ । इति भावे क्यप् तकारोऽन्तादे-
शश्च । स्त्रीत्वं लोकात् ।) ब्राह्मणवधः । यथा,
“एकदा च गुरोः कोपात् प्रकृतेरवहेलनात् ।
ब्रह्महत्या वज्रभृतो बभूव हतचेतसः ॥”
तस्या रूपं यथा, --
“रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी ।
सप्ततालप्रमाणा सा शुष्ककण्ठौष्ठतालुका ॥
ईशाप्रमाणदशना महाभीतञ्च कातरम् ।
धावन्तं परिधावन्ती बलिष्ठा हतचेतनम् ॥
खड्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि-
तम् ॥
इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः
पदम् ॥
विवेश मानससरो मृणालसूक्ष्मसूत्रतः ।
तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४७ अः ॥
आतिदेशिकब्रह्महत्या यथा, --
यम उवाच ।
“श्रीकृष्णे च तदर्च्चायां मृण्मव्यां प्रकृतौ यथा ।
शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ यथा ॥
गणेशे वा तदर्च्चायामेवं सर्व्वत्र सुन्दरि ! ।
यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥
स्वगुरौ स्वेष्टदेवेषु जन्मदातरि मातरि ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥
वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च ।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥
हरेः पादोदकेष्वन्यदेवपादोदके तथा ।
करोति समता यो हि ब्रह्महत्यां लभेत्तु सः ॥
यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा ।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥
सर्व्वेश्वरेश्वरे कृष्णे सर्व्वकारणकारणे ।
सर्व्वाद्ये सर्व्वदेवानां सेव्ये सर्व्वात्मनात्मनि ॥
माययानेकरूपे वाप्येक एव हि निर्गुणे ।
करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ॥
पितृदेवार्च्चनं पौर्व्वापरं वेदविनिर्म्मितम् ।
यः करोति निषेधञ्च ब्रह्महत्यां स बिन्दति ॥
ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ।
पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते ॥
ये निन्दन्ति विष्णुमायां विष्णुभक्तिप्रदां सतीम् ।
सर्व्वशक्तिस्वरूपाञ्च प्रकृतिं सर्व्वमातरम् ॥
सर्व्वदेवीस्वरूपाञ्च सर्व्वाद्यां सर्व्ववन्दिताम् ।
सर्व्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते ॥
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ।
शिवरात्त्रिन्तथा चैकादशीं वारं रवेस्तथा ॥
पञ्च पर्व्वाणि पुण्यानि ये न कुर्व्वन्ति मानवाः ।
लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥
अन्बुवाच्यां भूखननं जले शौचादिकञ्च ये ।
कुर्व्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥
गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् ।
अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥
विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः ।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।
पुण्यं पार्थिवलिङ्गं वा ब्रह्महत्यां लभेत्तु सः ॥
अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।
यस्त्रिसन्ध्याविहीनश्च ब्रह्महत्यां लभेत् तु सः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ३० । १४४-१५९ ॥
तथा च मनुः । ११ । ५४-५५ ।
“ब्रह्महत्या मुरापानं स्तेयं गुर्व्वङ्गनागमः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥
अनृतञ्च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्व्वन्धः समानि ब्रह्महत्यया ॥”
तथा च चिन्तामणिधृतदेवीभागवतवचनम् ।
“निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् ।
शिशुमातृविभेदश्च ब्रह्महत्या समं स्मृतम् ॥”)
ब्रह्महत्याप्रायश्चित्तं प्रायश्चित्तशब्दे महापातक-
प्रायश्चित्तव्यवस्थायामादौ द्रष्टव्यम् ॥

ब्रह्महा, [न्] पुं, (ब्रह्माणं ब्राह्मणं हतवान् ।

ब्रह्म + हन् + “ब्रह्मभ्रूणवृत्रेषु क्विप् ।” ३ । २
८७ । इति क्विप् ।) ब्रह्मघ्नः ब्राह्मणवधकर्त्ता ।
यथा, --
“ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।
भिक्षाण्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥
भिक्षाशी विचरेद्ग्रामं वन्यैर्यदि न जीवति ।
ब्रह्महत्यापनोदाय मितभुक् संयतेन्द्रियः ॥
स सर्व्वस्वं वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥”
इति प्रायश्चित्तविवेकः ॥
तस्य नरकभोगान्ते जन्मानि यथा, --
“श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुक्कशानाञ्च ब्रह्महा योनिमृच्छति ॥”
इति मानवे । १२ । ५५ ॥

ब्रह्महविः, [स्] क्ली, (ब्रह्मैव हविरर्प्यमाणमाज्यम् ।)

अर्प्यमाणं हविरपि ब्रह्मैव । यथा, --
“ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म्मसमाधिना ॥”
इति श्रीभगवद्गीतायाम् । ४ । २४ ॥

ब्रह्महुतं, क्ली, (ब्रह्मणि ब्राह्मणे हुतम् दत्तम् ।

ब्रह्मपदमत्र उपलक्षणं तेन नृमात्रे बोध्यम् ।)
पञ्चमहायज्ञान्तर्गतयज्ञविशेषः । स तु नृयज्ञः ।
अतिथिपूजनरूपः । इति जटाधरः ॥

ब्रह्मा, [न्] पुं, (वृंहति वर्द्धते यः । वृहि वृद्धौ +

“वृं हेर्नोऽच्च ।” उणा० ४ । १४५ । मनिन् नकार-
स्याकारश्च ।) ऋत्विग्भेदः । तस्य स्थापन-
विधिर्यथा । ततः प्रादेशप्रमाणां घृताक्तां
समिधं तूष्णीमग्नौ हुत्वा ब्रह्मस्थापनं कुर्य्यात् ।
समाग्रपञ्चाशत्कुशपत्ररचितं द्विर्दक्षिणावर्त्त-
मूर्द्धमुखं दर्भवटुं अधीतवेदं ब्राह्मणं वा छत्र-
पृष्ठ ३/४५२
मुत्तरासङ्गं वा कमण्डलुं वा ब्रह्मत्वेन परि-
कल्प्य धारासहितमुदकपात्रं गृहीत्वा अग्ने-
रुत्तरतः प्रभृति दक्षिणावर्त्तेन दक्षिणदेशं गत्वा
अरत्निमात्रान्तरिते देशे पूर्ब्बाभिमुखीं वारि-
धारां दत्त्वा तदुपरि प्रागग्रान् कुशानास्तीर्य्य
पश्चिमाभिमुखोऽनुपविष्टस्तिष्ठेत् । वामहस्ता-
नामिकाङ्गुष्ठाभ्यामास्तीर्णकुशमेकं गृहीत्वा
प्रजापतिरृषिरनुष्टुप् छन्दोऽग्निर्देवता तृण-
निरसने विनियोगः । ॐ निरस्तः परावसु-
रित्यनेन दक्षिणपश्चिमकोणे प्रक्षिपेत् । तत
अप उपस्पृश्य दक्षिणपादेन सव्यपादमवष्टभ्य
उत्तराभिमुखीभूय आस्तीर्णकुशानद्भिरभ्युक्ष्य
प्रजापतिरृषिरनुष्टुप् छन्दोऽग्निर्देवता ब्रह्मोप-
वेशने विनियोगः ॐ आवसोः सदने सीद इति ।
ब्राह्मणब्रह्मपक्षे तु ब्राह्मण एव सीदामीति
ब्रूयात् अनेन कुशोपरि पूर्ब्बाग्रं कुशब्राह्मणं
ब्राह्मणब्रह्मपक्षे तु उत्तराभिमुखं स्थापयित्वा
तदुपरि कुशान् दत्त्वा अद्भिरभ्युक्ष्य कुशकुसुमै-
रर्च्चयेत् । ततस्तेनैव पथा प्रत्यावृत्य आसने
पूर्ब्बाभिमुख उपविष्टो भूमिजपादिकं कुर्य्यात् ।
यदि तु ब्रह्मत्वेनारोपितो ब्रह्मा अयज्ञीयवाचं
वदेत् तदा इमं मन्त्रं जपेत् । प्रजापतिरृषि-
र्गायत्त्रीच्छन्दो विष्णुर्देवता अयज्ञीयवाग्वचन-
निमित्तजपे विनियोगः । ॐ इदं विष्णुर्विचक्रमे
त्रेधा निदधे पदं समूढमस्य पांशुले इति जपेत् ।
कुशादिब्रह्मपक्षे तु कर्म्मकर्त्तुरेव कृताकृतावेक्ष-
णादिब्रह्मकार्य्यकर्त्तव्यत्वादयज्ञीयवाग्वचननि-
मित्तं स एव जपेत् । इति भवदेवभट्टः ॥ * ॥
योगभेदः । स तु विष्कम्भादिसप्तविंशतियोगा-
न्तर्गतपञ्चविंशयोगः । तत्र जातफलम् ।
“नानाशास्त्राभ्याससंनीतकालो
वर्णाचारैः संयुतश्चारुकीर्त्तिः ।
शान्तो दान्तो जायते चारुकर्म्मा
सूतौ यस्य ब्रह्मयोगप्रयोगः ॥”
इति कोष्ठीप्रदीपः ॥
विप्रः । इति मेदिनी ॥ अर्हदुपासकविशेषः ।
इति हेमचन्द्रः ॥ सृष्टिकर्त्तृदेवताविशेषः ।
वृंहति प्रजा यः । तत्पर्य्यायः । आत्मभूः २
सुरज्येष्ठः ३ परमेष्ठी ४ पितामहः ५ हिरण्य-
गर्भः ६ लोकेशः ७ स्वयम्भूः ८ चतुराननः ९
धाता १० अब्जयोनिः ११ द्रुहिणः १२ विरिञ्चिः १३
कमलासनः १४ स्रष्टा १५ प्रजापतिः १६
वेधाः १७ विधाता १८ विश्वसृक् १९ विधिः २० ।
इत्यमरः । १ । १ । १६-१७ ॥ द्रुघणः २१ विरिञ्चः २२
स्वयम्भुः ४३ पद्मयोनिः २४ पद्मासनः २५
बिश्वसृग्विधिः २६ । इति भरतः ॥ देवदेवः २७
पद्मगर्भः २८ गुणसागरः ३९ वेदगर्भः ३०
बहुरेताः ३१ स्वभूः ३२ सन्ध्यारामः ३३ सुधा
वर्षी ३४ कृपाद्बैतः ३५ खसर्पणः ३६ लोक-
नाथः ३७ महावीर्य्यः ३८ सरोजी ३९ मञ्जु-
प्राणः ४० नाभिजन्मा ४१ बहुरूपः ४२ जटा-
घरः ४३ सनत्शतधृतिः ४४ कञ्जजः ४५ प्रभुः ४६
चिन्तामणिः ४७ पद्मपाणिः ४८ पुराणगः ४९
अष्टकर्णः ५० हंसरथः ५१ सर्व्वकर्त्ता ५२ चत्-
र्मुखः ५३ । इति शब्दरत्नावली ॥ कः ५४ ।
इत्येकाक्षरकोषः ॥ आः ५५ शतपत्रनिवासः ५६
स्वायम्भुवमनुपिता ५७ । इति कविकल्पलता ॥
मः ५८ । इति प्रणवव्याख्या ॥ (नाभिजन्मा ५९ ।
अण्डजः ६० । पूर्ब्बः ६१ । निधनः ६२ ।
कमलोद्भवः ६३ । सदानन्दः ६४ । रजो-
मूर्त्तिः ६५ । सत्यकः ६६ । हंसवाहनः ६७ ।
इति कस्मिंश्चिदमरकोषे दृश्यते । १ । १ । १७ ॥)
तस्य स्वरुपं यथा, --
मार्कण्डेय उवाच ।
“ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे ।
ववृधे तोयराशिस्थं ब्रह्माण्डञ्च यथा पुरा ॥
तन्मध्ये पद्मगर्भाभं ब्रह्माणं जगतः पतिम् ।
ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थञ्च पृथग्गतम् ॥
शरीरिणं स ददृशे ब्रह्माण्डान्तर्गतं मुहुः ।
चतुर्भुजं प्रकाशन्तं ज्योतिर्भिः कमलासनम् ॥
तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श सः ।
ऊर्द्ध्वमध्यान्तमागैस्तु ब्रह्मविष्णुशिवात्मिकान् ॥
अथोर्द्ध्वभागो वपुषो ब्रह्मत्वमगमत्तथा ।
मध्यो यथा विष्णुभूतां ददर्शान्तस्य शम्भूताम् ॥
एकमेव शरीरन्तु त्रिधाभूतं मुहुर्मुहुः ।
हरो ददर्श स्वे गर्भे तथा सर्व्वमिदं जगत् ॥
कदाचिद्वैष्णवं कायं ब्राह्म्ये काये लयं व्रजेत् ।
ब्राह्म्यं तथा वैष्णवे च शाम्भवे वैष्णवं तथा ॥
शाम्मवं वैष्णवे काये ब्राह्म्ये चाप्यथ शाम्भवम् ।
गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्मुहुः ॥
ददर्श वामदेवोऽपि भिन्नं चाप्यपृथग्गतम् ।
परमात्मनि गच्छन्तं लीनतां तद्वपुश्च यत् ॥”
इति कालिकापुराणे १४ अध्यायः ॥ * ॥
तस्य पूजाविधिर्यथा ।
“शृणु राजन्नवहितो ब्रह्मणः पूजनक्रमम् ॥
ब्रह्मबीजं पुरा प्रोक्तं यन्मन्त्रं पूर्ब्बतश्चरेत् ।
तेनैव तन्तु संपूज्य परं निर्व्वाणमाप्नुयात् ॥
एतस्य चाङ्गमन्त्रन्तु यथा भर्गेण भाषितम् ।
वेतालभैरवाद्यांस्तु रूपञ्च शृणु भूमिप ! ॥
तस्य मन्त्रोद्धारो यथा, --
“पतृतीयश्च वह्निश्च शेषस्वरसमन्वितः ।
चन्द्रबिन्दुसमायुक्तो ब्रह्ममन्त्रः प्रकीर्त्तितः ॥
अनेनैव तु मन्त्रेण ब्रह्माणं यः प्रपूजयेत् ।
स काममिष्टं संप्राप्य ब्रह्मलोके प्रमोदते ॥”
तस्य ध्यानं यथा, --
“ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः ।
कदाचिद्रक्तकमले हंसारूढः कदाचन ॥
वर्णेन रक्तगौराङ्गः प्रांशुस्तुङ्गाङ्ग उन्नतः ।
कमण्डलुर्वामकरे स्रुवो हस्ते तु दक्षिणे ॥
दक्षिणाधस्तथा माला वामाधश्च तथा स्रुवः ।
आज्यस्थाली वामपार्श्वेवेदाः सर्व्वेऽग्रतः स्थिताः ॥
सावित्री वामपार्श्वस्था दक्षिणस्या सरस्वती ।
सर्व्वे च ऋषयो ह्यग्रे कुर्य्यादेभिश्च चिन्तनम् ॥
चतुष्कोणं चतुर्द्बारमष्टपत्रसमन्वितम् ।
चतुष्कोणे सङ्गतन्तु शुक्लमण्डलस्रुक्स्रुवैः ॥
सम्मार्जनादिकं सर्व्वं याश्चान्याः प्रतिपत्तयः ।
ग्राह्या उत्तरतन्त्रोक्ता योगपीठेऽङ्गकादिका ॥”
तस्य पूजाक्रमो गायत्त्री च यथा, --
“आधारशक्तिप्रमुखांस्तथा सर्व्वांस्तु पूजयेत् ।
अष्टपत्रेषु पद्मस्याष्टौ दिकपालान् प्रपूजयेत् ॥
पद्मासनाय विद्महे हंसारूढाय धीमहि ।
तन्नो ब्रह्मन्निति पदं ततश्चानु प्रचोदयात् ॥
एषा तु ब्रह्मगायत्त्री पूजयेदनया विधिम् ।
निर्म्माल्यधारी चैतस्य सनत्कुमार उच्यते ॥
उपचाराः पूर्ब्बवत्तु नेत्ररञ्जनरञ्जिताः ।
रक्तकौषेयवस्त्रन्तु ब्रह्मप्रीतिकरं परम् ॥
आज्यं सपायसं सर्पिस्तिलयुक्तस्य भोजनम् ।
सितरक्तसमायुक्तं चन्दनं परिकीर्त्तितम् ॥
पार्श्वयोः शङ्करं विष्णुं पूजने पूजयेन्नरः ।
सवादीन् करसंस्थांस्तु मण्डले परिपूजयेत् ॥
सरस्वतीञ्च सावित्रीं हंसं पद्मन्तथैव च ।
अयं विशेषः कथितः प्रणामश्चास्य दण्डवत् ॥
पद्मबीजभवा माला जपकर्म्मणि कीर्त्तिता ।
पूर्णादर्शौ तिथी ग्राह्ये पूजाकर्म्मणि सर्व्वदा ॥
क्षीरेणार्घ्यं प्रदद्यात्तु सर्व्वदा ब्रह्मणे मृप ! ।
अयन्ते कथितो भूप ! यथा भर्गेण भाषितः ॥
दर्शयता स्वपुत्त्राभ्यां कामरूपाह्वयं शुभम् ।
यत्र तत्र विधिञ्चैव साधकः परिपूजयेत् ॥
पीठे सम्यक् पूजयित्वा परं निर्व्वाणमाप्नुयात् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥
तस्यापूज्यत्वकारणम् यथा । मोहिन्युवाच ।
“उत्तिष्ठ जगतीनाथ ! पारं कुरु स्मरार्णवे ।
निमग्नां दुस्तरे घोरे कर्णधार ! भयानके ॥
अतीवनिर्जनस्थाने सर्व्वजन्तुविवर्जिते ।
सुगन्धिवायुना रम्ये पुंस्कोकिलरुतशुते ॥
सन्ततं त्वन्मनस्कामां दासीं जन्मनि जन्मनि ।
क्रीणीहि रतिपण्येनामूल्यरत्नेन सत्वरम् ॥
इत्युक्त्वा मोहिनी सद्यो जगत्स्रष्टुश्च ब्रह्मणः ।
विचकर्ष करं वस्त्रं सस्मिता कामविह्वला ॥
विज्ञाय समयं धाता तामुवाच भयातुरः ।
पीयषतुल्यवचनं परं विनयपूर्ब्बकम् ॥”
ब्रह्मोवाच ।
“शृणु मोहिनि ! मद्वाक्यं सत्यं सारं हितं
स्फुटम् ।
न कुरु त्वञ्च त्रैलोक्ये स्त्रीजातीनामपत्रपाम् ॥
त्यज मामम्बिके ! पुत्त्रं वृद्धं निष्काममेव च ।
त्वत्कर्म्मयोग्यं रसिकं युवानं पश्य सस्मिते ! ॥
निषेकाल्लभ्यते पत्नी गुरुर्भर्त्ता शुभाशुभम् ।
मन्त्रः शिल्पमपत्यञ्च सर्व्वमेतन्न यत्नतः ॥
त्वया सह मम रतेर्निर्बन्धो नास्ति सुव्रते ! ।
क्षुद्रं महद्वा यत् कर्म्म सर्व्वं दैवनिबन्धकम् ॥
इत्युक्तवन्तं ब्रह्माणं स्मरन्तं मत्पदाम्बु जम् ।
विचकर्ष पुनर्वेश्या कामेन हतचेतना ॥
एतस्मिन्नन्तरे शीघ्रं स्थानं तत् सुमनोहरम् ।
आजग्मुर्मुनयः सर्व्वे ज्वलन्तो ब्रह्मतेजसा ॥
दृष्ट्वैतांश्च मुनिश्रेष्ठानागतांश्च ममेच्छया ।
पृष्ठ ३/४५३
तत्याज मोहिनी शीघ्रं व्रीडया कमलोद्भवम् ॥
तत्रोवास जगद्धाता तद्बामपार्श्वतश्च सा ।
प्रणेमुर्मुनयस्तञ्च भक्तिनम्रात्मकन्धराः ॥
आशिषं युयुजे ब्रह्मा वासयामास तान् प्रभुः ।
तेषु मध्ये प्रजज्वाल यथा तारासु चन्द्रमाः ॥
पप्रच्छुर्मुनयो देवं कथमेषा तवान्तिके ।
स्वर्व्वेश्यानाञ्च प्रवरा मोहिनीत्येवमेव च ॥
श्रुत्वा मुनीनां वचनमुवाच तान् प्रजापतिः ॥
ब्रह्मोवाच ।
अपूर्ब्बं नृत्यगीतञ्च चिरं कृत्वा शुभावहा ।
उवासेयं परिश्रान्ता यथा कन्या पितुः पुरः ॥
इत्युक्त्वा जगतां धाता जहास मुनिसंसदि ।
जहसुर्मुनयः सर्व्वे सर्व्वज्ञास्तत्र राधिके ! ॥
सर्व्वं रहस्यं विज्ञाय जगत्स्रष्टुश्च मानसम् ।
सद्यश्चुकोप कुलटा हास्यव्याजेन संसदि ॥
सर्व्वाङ्गकम्पमाना सा कुलटा कुटिलानना ।
रक्तपङ्कजनेत्रा च कोपप्रस्फुरिताधरा ॥
उत्थाय च सभामध्ये तेषाञ्च पुरतः स्थिता ।
संबुध्योवाच ब्रह्माणं मृत्युकन्या यथा रुषा ॥
मोहिन्युवाच ।
अये ब्रह्मन् ! जगन्नाथ ! वेदकर्त्ता त्वमेव च ।
किंवा वेदप्रणिहितं कर्म्म किन्तद्विपर्य्ययम् ॥
विचारं मनसा स्वेन कुरु वेदविदां गुरो ! ।
स्वकन्यायां यत्स्पृहा स कथं हसति नर्त्तकीम् ॥
निर्म्मिताहमीश्वरेण स्वर्व्वेश्या सर्व्वगामिनी ।
सतां कर्म्म विरुद्धं यत्तदत्यन्तविडम्बनम् ॥
दासीतुल्यां विनीताञ्च दैवेन शरणागताम् ।
यतो हससि गर्व्वेण ततोऽपूज्यो भवाचिरम् ॥
अचिराद्दर्पभङ्गन्ते करिष्यति हरिः स्वयम् ।
निबोध शरणं ब्रह्मन् ! वेश्यायाश्चैव साम्प्रतम् ॥
तवैव वचनं स्तोत्रं मन्त्रं गृह्णाति यो नरः ।
भविता तस्य विघ्नश्च स यास्यत्युपहास्यताम् ॥
भविता वार्षिकी पूजा देवतानां युगे युगे ।
तव माघ्याञ्च संक्रान्त्यां न भविष्यति सा पुनः ॥
कल्पान्तरेऽत्र कल्पे वा देहे देहान्तरेऽत्र ते ।
पुनः पूजा न भविता या गता सा गतैव च ॥
इत्युक्त्वा मोहिनी शीघ्रं जगाम मदनालयम् ।
तेन सार्द्धं रतिं कृत्वा बभूव विज्वरा पुनः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे मोहिनीशाप-
ब्रह्मदर्पभङ्गप्रस्तावः ३३ अध्यायः ॥
तस्य सृष्टिक्रमो यथा । मनुरुवाच ।
“चतुमुंखत्वमगमत् कस्माल्लोकपितामहः ।
कथञ्च लोकानसृजद्ब्रह्मा ब्रह्मविदांवरः ॥”
मत्स्य उवाच ।
“तपश्चचार प्रथमममराणां पितामहः ।
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः ॥
पुराणं सर्व्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।
नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥
अनन्तरञ्च वक्त्वेभ्यो वेदास्तस्य विनिःसृताः ।
मीमांसा न्यायविद्या च प्रमाणात्मकसम्मता ॥”
तस्य मानसदशपुत्त्रसृष्टिर्यथा, --
“वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः ।
मनसः पूर्ब्बसृष्टा वै जाता ये तेन मानसाः ॥
मरीचिरभवत् पूर्ब्बं ततोऽत्रिर्भगवानृषिः ।
अङ्गिराश्चाभवत् पश्चात् पुलस्त्यस्तदनन्तरम् ॥
ततः पुलहनामा वै ततः क्रतुरजायत ।
प्रचेताश्च ततः पुत्त्रो वशिष्ठश्चाभवत् पुनः ॥
पुत्त्रो भृगुरभूत्तत्र नारदोऽपि चिरादभूत् ।
दशेमान् मानसान् ब्रह्मा जपन् पुत्त्रानजी-
जनत् ॥”
तस्य शारीरदशप्रजासृष्टिर्यथा, --
“शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः ।
अङ्गुष्ठाद्दक्षिणाद्दक्षप्रजापतिरजायत ॥
धर्म्मस्तनान्तादभवद्धृदयात् कुसुमायुधः ।
भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः ॥
बुद्धर्मोहः समभवदहङ्कारादभून्मदः ।
प्रमोदश्चाभवत् कण्ठान्मृत्युर्लोचनतो नृप ! ॥
रभसः करमध्यात्तु ब्रह्मसूनुरभूत्ततः ।
एते नव सुता राजन् ! कन्या च दशमी पुनः ॥
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ॥”
तस्य चतुर्मुखत्वस्य कारणं यथा, --
“ततः स्वदेहसम्भू तामात्मजामित्यकल्पयत् ।
दृष्ट्वा तां व्यथितस्तावत् कामवाणार्द्दितो विभुः ।
अहो रूपमहो रूपमिति चाह प्रजापतिः ॥
ततो वशिष्ठप्रमुखा भगिनीमिति चुक्रुशुः ।
ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनादृते ॥
अहो रूपमहो रूपमिति प्राह पुनः पुनः ।
ततः प्रणामनम्रां तां पुरस्तादभ्यलोकयत् ॥
अथ प्रदक्षिणञ्चक्रे सा पितुर्वरवर्णिनी ।
पुत्त्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ।
आविर्भूतं ततो वक्त्वं दक्षिणं पाण्डुगण्डवत् ॥
विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः ।
चतुर्थमभवत् पश्चाद्वामं कामशरातुरम् ॥
ततोऽन्यदभवत्तस्य कामातुरतया तथा ।
उत्पतन्त्यास्तदाकाशमालोकनकुतूहलात् ॥
सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम् ।
तत् सर्व्वं नाशमगमत् स्वसुतोपगमेच्छया ॥
तेनाशु वक्त्रमभवत् पञ्चमन्तस्य धीमतः ।
आविर्भवज्जटाभिश्च तद्बक्त्वञ्चावृणोत्प्रभुः ॥”
इति मत्स्यपराणे ३ अध्यायः ॥ * ॥
नव ब्रह्माणो यथा, मार्कण्डेयपुराणे ।
“भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा ।
मरीचिं दक्षमत्रिञ्च वशिष्ठञ्चैव मानसम् ।
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥”
कल्पभेदे तस्य जन्मानि यथा, --
“त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् ॥
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ।
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ! ॥
नासत्यञ्चापि मे जन्म त्वत्तः पञ्चममुच्यते ।
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्म्मितम् ॥
इदञ्च सप्तमं जन्म पद्मजन्मेति मे प्रभो ! ।
सर्गे सर्गे ह्यहं पुत्त्रस्तव त्रिगुणवर्ज्जित ! ॥”
इति महाभारते शान्तिपर्व्वणि मोक्षधर्म्मे
अनिरुद्धरूपविष्णुं प्रति पाद्मकल्पीयब्रह्मवच-
नम् ॥ * ॥ तस्य पतनकालो यथा, --
“द्वात्रिंशदब्दकोट्यस्तु तथा वृन्दाष्टकं भवेत् ।
खर्व्वद्वयं निखर्व्वञ्च शङ्कुत्रययुतं तथा ॥
पद्ममेकं समुद्राश्च त्रयो ब्रह्मसमागते ।
ब्रह्मा विष्णुदिने चैकः पतत्येवं वदन्ति ते ॥
मनीषिणस्तथा विष्णुरहन्युंग्रस्य शङ्करः ।
ईश्वरस्य तथा चासौ स सांख्यप्रकृतेस्तथा ॥
अतः परं परे धाम्नि कालसंख्या न विद्यते ।
ब्रह्मणोऽतः परं संख्या नास्ति चैतन्मतं हि नः ॥”
अपि च ।
“एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यागतः शेते त्रैलोक्यग्रासवृंहितः ॥
जलस्थैर्योगिभिर्देवश्चिन्त्यमानोऽब्जसम्भवः ।
व्यतीतायान्तु शर्व्वर्य्यां स बुद्ध्वा सृजते पुनः ॥
एवन्तु ब्रह्मणो वर्षं तथा वर्षशतं भवेत् ।
गते वर्षे शते ब्रह्मा परमात्मनि लीयते ॥”
इत्यग्निपुराणम् ॥

ब्रह्माग्रभूः, पुं, (ब्रह्मणोऽग्रेसम्मुखे भवतीति । भू +

क्विप् । यज्ञार्थं ब्रह्मणो देहाज्जातत्वात्तथात्वम् ।)
घोटकः । इति हारावली । ५२ ॥

ब्रह्माञ्जलिः, पुं, (ब्रह्मणे वेदपाठार्थं कृतो यो-

ऽञ्जलिः ।) सामवेदपाठे स्वरविभागार्थं यो-
ऽञ्जलिः क्रियते सः । अध्ययनस्यादावन्ते च
गुरवे प्रणवोच्चारणपूर्ब्बकोऽञ्जलिः क्रियते सः ।
तत्पाठार्थत्वात् ब्रह्मणोऽञ्जलिः । इत्यमर-
टीकायां भरतः । २ । ७ । ३९ ॥ (यथा, मनुः ।
२ । ७०-७१ ।
“अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जिते-
न्द्रियः ॥
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं सहि ब्रह्माञ्जलिः स्मृतः ॥”)

ब्रह्माणी, स्त्री, (ब्रह्माणमणति कीर्त्तयतीति ।

अण शब्दे कर्म्मण्यण् । ङीप् । यद्वा, ब्रह्माण-
मानयति जीवयतीति । अनघ्लुप्राणने ण्यन्ता-
दस्मात् कर्म्मणि अणि कृते “णेरनिटि । ६ । ४ ।
५१ । इति णिलोपः “टिड्ढेति ।” ४ । १ । १५ ।
इति ङीप् पूर्ब्बपदादितिणत्वञ्च ।) ब्रह्मणः पत्नी ।
इति शब्दमाला ॥ ब्रह्मणोऽर्द्धशरीरात् तस्या
उत्पत्तिर्नामान्तरञ्च यथा, --
“ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ।
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् ॥
शतरूपा च सा ख्याता सावित्री च निगद्यते ।
सरस्वत्यथ गायत्त्री ब्रह्माणी च परन्तप ! ॥”
इति मत्स्यपुराणे ३ अध्यायः ॥ * ॥
अपि च ।
“हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्मार्णी साभिधीयते ॥”
इति मार्कण्डेयपुराणे । ८८ । १४ ॥ * ॥
(इयं हि पूर्णशक्तेर्दुर्गायाः कलाशक्तिः । यदुक्तं
मार्कण्डेये । ९० । ३४ ।
पृष्ठ ३/४५४
देव्युवाच ।
“एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट ! मय्येव विशन्त्यो मद्विभूतयः ॥
ततः समस्तास्ता देव्यो ब्रह्माणी-प्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥”)
दुर्गा । यथा, --
“ब्रह्माणी ब्रह्मजननाद्ब्रह्माक्षरपरा मता ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
रेणुकानामगन्धद्रव्यम् । इति रत्नमाला ॥ राज-
रीतिः । इति राजनिर्घण्टः ॥

ब्राह्मण्डं, क्ली, (ब्रह्मणो जगत्स्रष्टुरण्डम् । चतुर्द्दश-

भुवनगोलकः । यद्वा, ब्रह्मणा विश्वसृजा कृत-
मण्डम् ।) भुवनकोषः । विश्वगोलकः । यथा, --
“ब्रह्माण्डरचनाख्यानं श्रूयतां सावधानतः ।
ब्रह्माण्डरचनार्थञ्च भक्ता जानन्ति यत्नतः ॥
मुनयश्च सुराः सन्तः किञ्चिज्जानन्ति दुःखतः ।
जानामि विश्वसर्व्वार्थं ब्रह्मानन्तो महेश्वरः ॥
धर्म्मः सनत्कुमारश्च नरनारायणावृषी ।
कपिलश्च गणेशश्च दुर्गा लक्ष्मीः सरस्वती ॥
वेदाश्च वेदमाता च सर्व्वज्ञा राधिका स्वयम् ।
एते जानन्ति विश्वार्थं नान्यो जानाति कश्चन ॥
वैषम्यार्थञ्च सुधियः सर्व्वे विज्ञातुमक्षमाः ।
नित्याकाशो यथात्मा च तथा नित्या दिशो
दश ॥
यथा नित्या च प्रकृतिस्तथैव विश्वगोलकः ।
गोलोकश्च यथा नित्यस्तथा वैकुण्ठ एव च ॥
एकदा मयि गोलोके रासे नृत्यं प्रकुर्व्वति ।
आविर्भूता च वामाङ्गाद् बाला षोडश-
वार्षिकी ॥
श्वेतचम्पकवर्णाभा शरच्चन्द्रसमप्रभा ।
अतीवसुन्दरी रम्या रमणीनां परात्परा ॥
ईषद्धास्या प्रसन्नास्या कोमलाङ्गी मनोहरा ।
वह्रिशुद्धांशुकाधाना रत्नाभरणभूषिता ॥
यथा जलदपङ्क्तिश्च बलाकाभिर्विभूषिता ।
सिन्दूरबिन्दुना चारुचन्द्रचन्दनबिन्दुभिः ॥
कस्तूरीबिन्दुभिः सार्द्धं सीमन्ताधःस्थलोज्ज्वला ।
अमूल्यरत्ननिर्म्माणसुस्निग्धकिरणोज्ज्वला ॥
रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वला ।
कुङ्कुमालक्तकस्तूरीचारुचन्दनपत्रकैः ॥
विचित्रैश्च सुचित्रैश्च सुकपोलस्थलोज्ज्वला ।
खगेन्द्रचञ्चुविजितनासा चार्व्वी सुशोभिता ॥
गजेन्द्रगण्डनिर्मुक्तमुक्ताभूषणभूषिता ।
सूक्र्या विमुक्तमुक्ताभदन्तपङ्क्तिमनोहरा ॥
वलिता ललितातीव पक्त्रविम्बाधरा वरा ।
शश्वत्पूर्णेन्दुनिन्दास्या पद्मनिन्दितलोचना ॥
कृष्णसारनिभोद्भिन्नसुचारुकज्जलोज्ज्वला ।
अमूल्यरत्ननिर्म्माणकेयूरकङ्कणोज्ज्वला ॥
मणीन्द्रराजराजीभिः शङ्खयुग्मकरोज्ज्वला ।
रत्नाङ्गुरीयकैरेभिरमृताङ्गुलिभूषिता ॥
रत्नेन्द्रराजराजेन क्वणन्मञ्जीररञ्जिता ।
रत्नपायकराजीभिः पादाङ्गुलिविराजिता ।
सुन्दरालक्तरागेण चरणाधःस्थलोज्ज्वला ॥
गजेन्द्रगामिनी रामा कामिनी वामलोचना ।
मां ददर्श कटाक्षेण रमणी रमणोत्सुका ॥
रासे संभूय रामा सा दधाव पुरतो मम ।
तेन राधा समाख्याता पुराविद्भिः प्रपूजिता ॥
प्रकृष्टप्रकृतिश्चास्यास्तेन प्रकृतिरीश्वरी ।
शक्ता स्यात् सर्व्वकार्य्येषु तेन शक्तिः प्रकी-
र्त्तिता ॥
सर्व्वाधारा सर्व्वरूपा मङ्गलार्च्चा च सर्व्वतः ।
सर्व्वमङ्गलदक्षा सा तेन स्यात् सर्व्वमङ्गला ॥
वैकुण्ठे सा महालक्ष्मीर्मूर्त्तिभेदे सरस्वती ।
प्रसूय वेदान् विदिता वेदमाता च सा सदा ॥
सावित्री सा च गायत्त्री धात्री त्रिजगतामपि ।
पुरा संहृत्य दुर्गञ्च सा दुर्गा च प्रकीर्त्तिता ॥
तेजःसु सर्व्वदेवानामाविर्भूता पुरा सती ।
तेनाद्यप्रकृतिर्ज्ञेया सर्व्वासुरविमर्द्दिनी ॥
सर्व्वानन्दा च सानन्दा दुःखदारिद्र्यनाशिनी ।
शत्रूणां भयदात्री च भक्तानां भयहारिणी ॥
दक्षकन्या सती सा च शैलजा तेन पार्व्वती ।
सर्व्वाधारस्वरूपा सा कलया सा वसुन्धरा ॥
कलया तुलसी गङ्गा कलया सर्व्वयोषितः ।
सृष्टिं करोमि च यया तया शक्त्या पुनःपुनः ॥
दृष्ट्वातां रासमध्यस्थां मम क्रीडा तया सह ।
बभूव सुचिरं तात ! यावद्वै ब्रह्मणः शतम् ॥
अत्यद्भुतं कौतुकञ्च महाशृङ्गारमीप्सितम् ।
तयोर्द्वयोर्घर्म्मराशिः सुस्राव रासमण्डले ॥
तस्मान्मनोहरं जज्ञे नाम्ना कामसरोवरम् ।
पपात घर्म्मधाराधो वेगेन विश्वगोलके ॥
बभूव जलपूर्णञ्च ब्रह्माण्डानाञ्च गोलकम् ।
जलपूर्णं पुरा सर्व्वं सृष्टिशून्यं व्रजेश्वर ! ॥
शृङ्गारान्ते च तस्याञ्च वीर्य्याधानं मया कृतम् ।
दधार गर्भं सा राधा यावद्बै ब्रह्मणः शतम् ॥
सुसाव सा तदन्ते च डिम्बं तत् परमाद्भुतम् ।
चुकोप देवी तं दृष्ट्वा रुरोद विषसाद सा ॥
पादेन प्रेरयामास तमधो विश्वगोलके ।
स पपात जले तात ! सर्व्वाधारो महान् विराट् ॥
दृष्ट्वापत्यं जलस्थञ्च मया शप्ता च सा पुरा ।
अनपत्या च सा राधा मत्शापेन पुरा विभो ! ॥
तेन प्रसूता क्रमतो दुर्गा लक्ष्मीः सरस्वती ।
चतस्रः परिपूर्णा सा प्रसूताश्च सुनिश्चितम् ॥
देव्योऽन्याश्चापि कामिन्यो न प्रसूता व्रजेश्वर ! ।
कलया प्रभवो यासां कलांशांशेन वा व्रज ॥
जज्ञे महान् विराट् तेन डिम्बेन कलयाश्रयः ।
अमृताङ्गुष्ठपीयूषं मया दत्तं पपौ च सः ॥
जले स्थावररूपश्च स शेते निजकर्म्मणः ।
उपाधानं जलं तल्पं तस्य योगबलेन च ।
तस्य लोम्नाञ्च कूपानि जलपूर्णानि सन्ततम् ।
प्रत्येकं क्रमतस्तेषु शेते क्षुद्रविराट् पुनः ॥
सहस्रपत्त्रं कमलं जज्ञे क्षुद्रस्य नाभितः ।
तत्र जज्ञे स्वयं ब्रह्मा तेनायं कमलोद्भवः ॥
तत्राविर्भूय स विधिश्चिन्ताग्रस्तो बभूव च ।
कस्माद्देहः क्व माता मे पिता वा क्व च
बान्धवः ॥
दिव्यं त्रिलक्षवर्षञ्च बभ्राम कमलान्तरे ।
ततो दण्डे पञ्चलक्षं सस्मार तपसा च माम् ॥
तदा मया दत्तमन्त्रं जजाप कमलान्तरे ।
दिव्यं सप्तवर्षलक्षं नियतं संयतः शुचिः ॥
तदा मत्तो वरं लब्धा स्रष्टा सृष्टिञ्चकार सः ।
मायया प्रतिब्रह्माण्डे ब्रह्मविष्णुशिवात्मकाः ॥
दिक्पाला द्वादशादित्या रुद्राश्चैकादशापि वा ।
नव ग्रहाष्टौ वसवो देवाः कोटित्रयस्तथा ॥
ब्राह्मणक्षत्त्रविट्शूद्रा यक्षगन्धर्व्वकिन्नराः ।
भूतादयो राक्षसाश्चाप्येवं सर्व्वं चराचरम् ॥
विश्वे विश्वे विनिर्म्माणं स्वर्गाः सप्त क्रमेण वै ।
सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा ॥
काञ्चनीभूमिसंयुक्ता तमोयुक्तस्थलं ततः ।
पातालाश्च तथा सप्त ब्रह्माण्डमेभिरेव च ॥
विश्बे विश्वे चन्द्रसूर्य्यौ पुण्यक्षेत्रञ्च भारतम् ।
तीर्थान्येतानि सर्व्वत्र गङ्गादीनि व्रजेश्वर ! ॥
यावन्ति लोमकूपानि महाविष्णोः क्रमेण च ।
विश्वान्येव हि तावन्ति ह्यसंख्यानि पितर्ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८४ । ५२-१०१ ॥
अपि च ।
“देवीगुणत्रयाविष्टमण्डञ्च कोटिविस्तरम् ।
ब्रह्मादिस्तम्बपर्य्यन्तमुत्पन्नं सचराचरम् ॥
अण्डे हिरण्यगर्भस्य यदूर्द्ध्वं गर्भसंश्रितम् ।
तत्रोत्पन्नमिदं व्योमरूपाणि र्द्यौर्मही भवेत् ॥
अधोर्द्ध्वं काञ्चनमयश्चतुरस्रोच्छ्रितो महान् ।
उत्पन्नः स चतुःशृङ्गो मेरुर्दैवतसंश्रयः ॥
पृथिवी पद्मदिक् क्षेत्रं मेरुस्तस्य तु कर्णिका ।
युगाक्षकोटिविस्तीर्णं तत्र कृत्वा रथं रविः ।
देवीवशवृतो देवैर्याति तस्य प्रदक्षिणम् ॥”
इति देवीपुराणम् ॥
अथ ब्रह्माण्डगोलमाह ।
“भूभूधरत्रिदशदानवमानवाद्या
ये याश्च धिष्ण्यगगनेचरचक्रकक्षाः ।
लोकव्यवस्थितिरुपर्य्युपरिप्रदिष्टा
ब्रह्माण्डभाण्डजठरे तदिदं समस्तम् ॥”
अथान्योदितं ब्रह्माण्डमानं पूर्व्वोक्तमपि प्रस-
ङ्गादनुवदतिस्म ।
कोटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गेन्दुभि-
र्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां
योजनैः ।
तद्ब्रह्माण्डकटाहसम्पुटतटे केचिज्जगुर्वेष्टनं
केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः
सूरयः ॥
करतलकलितामलकवदमलं
सकलं विदन्ति ये गोलम् ।
दिनकरकरनिकरनिहततमसो
नभसः परिधिरुदितस्तैः ॥
ब्रह्माण्डमेतन्मितमस्तु नो वा
कल्पे ग्रहः क्रामति योजनानि ।
यावन्ति पूर्ब्बैरिह तत्प्रमाणं
प्रोक्तं खकक्षाख्यमिदं मतं नः ॥”
इति सिद्धान्तशिरोमणौ गोलाध्याये भुवनकोषः ॥
पृष्ठ ३/४५५
महादानविशेषः । यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि ब्रह्माण्डविधिमुत्तमम् ।
यच्छ्रेष्ठं सर्व्वदानानां महापातकनाशनम् ॥
पुण्यं दिनमथासाद्य तुलापुरुषदानवत् ।
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
लोकेशावाहनं तद्बदधिवासनकं यथा ।
कुर्य्याद्विंशपलादूर्द्ध्वमासहस्राच्च शक्तितः ॥
कलसद्बयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः ।
दिग्गजाष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम् ॥
लोकपालाष्टकोपेतं मध्यस्थितचतुर्म्मुखम् ।
शिवाच्यतार्कशिखरमुमालक्ष्मीसमन्वितम् ॥
वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम् ।
वितस्तेरङ्गुलशतं यावदायामविस्तरम् ॥
कौशेयवस्त्रसम्बीतं तिलद्रोणोपरि न्यसेत् ।
तथाष्टादश धान्यानि समन्तात् परिकल्प-
येत् ॥
पूर्ब्बेणानन्तशयनं प्रद्युम्नं पूर्ब्बदक्षिणे ।
प्रकृतिं दक्षिणे देशे सङ्कर्षणमतः परम् ॥
पश्चिमे चतुरो वेदाननिरुद्धमतः परम् ।
अग्निमुत्तरतो हैमं वासुदेवमतःपरम् ॥
समन्ताद्गुडपीठस्थानर्च्चयेत् काञ्चनान् बुधः ।
स्थापयेद्बस्त्रसंयुक्तान् पूर्णकुम्भान् दशैव तु ॥
दशैव घेनवो देयाः सहेमाम्बरदोहनाः ।
पादुकोपानहच्छत्रचामरासनदर्पणैः ॥
भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः ।
होमाधिवासनान्ते तु स्थापितो वेदपुङ्गवैः ।
इममुच्चारयेन्मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम् ॥
नमोऽस्तु विश्वेश्वर ! विश्वधाम
जगत्सवित्रे भगवन्नमस्ते ।
सप्तर्षिलोकामरभूतलेश !
गर्भेण सार्द्धं वितरामि रक्षाम् ॥
ये दुःखितास्ते सुखिनो भवन्तु
प्रयान्तु पापानि चराचराणाम् ।
त्वद्दानशस्त्राहतपातकानां
ब्रह्माण्डदोषाः प्रलयं व्रजन्तु ॥
एवं प्रणम्यामरविश्वगर्भं
दद्याद्द्विजेभ्यो दशघा विभज्य ।
भागद्वयं तत्र गुरोः प्रकल्प्य
समं भजेच्छेषमतः क्रमेण ॥
स्वल्पे तु होमे गुरुरेक एव
कुर्य्यादथैकाग्निविधानयुक्त्या ।
स एव संपूज्यतमोऽल्पवित्तै-
र्यथोक्तवस्त्राभरणादिकेन ॥
इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्याद्
ब्रह्माण्डदानमघिगम्य महद्विमानम् ।
निर्द्धूतकल्मषविशुद्धतनुर्मुरारे-
रानन्दकृत्पदमुपैति सहाप्सरोभिः ॥
सन्तारयेत् पितृपितामहपुत्त्रपौत्त्रान्
बन्धुप्रियातिथिकलत्रशताधिकः सः ।
ब्रह्माण्डदानशकलीकृतपापकौघ-
मानन्दयेच्च जननीकुलमप्यशेषम् ॥
इति पठति शृणोति वा य एतत्
सुरभवनेषु गृहेषु धार्म्मिकाणाम् ।
मतिमपि च ददाति मोदतेऽसा-
वमरपतेर्भवने सहाप्सरोभिः ॥”
इति मत्स्यपुराणे महादानानुकीर्त्तने ब्रह्माण्ड-
दानको नाम २५० अध्यायः ॥ * ॥ अपि च ।
“इदानीं कार्त्तिकी चेयं वर्त्ततेऽद्य नराधिप ! ।
ब्रह्माण्डं सर्व्वसम्पन्नं भूतरत्नौषधीयुतम् ॥
देवदानवयक्षैश्च युक्तमेतत् सदा विभो ! ।
एतद्धेममयं कृत्वा सर्व्वबीजरसान्वितम् ॥
सरत्नं पुरुषं कृत्वा कार्त्तिक्यां द्बादशीदिने ।
अथवा पञ्चदश्यां वै कार्त्तिक्याञ्चैव नान्यतः ॥
पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः ।
ब्रह्माण्डोदरवर्त्तीनि यानि भूतानि पार्थिव ! ।
तानि दत्तानि तेन स्युः समासात् कथितं तव ॥
यो यज्ञैर्यजते राजन् ! सहस्रवरदक्षिणैः ।
सैकोद्देशो यजेत्तस्य ब्रह्माण्डस्य विशेषतः ॥
यः पुनः सकलञ्चेदं ब्रह्माण्डं दातुमिच्छति ।
तेन यष्टं कृतं दत्तं पठितं कीर्त्तितं भवेत् ॥”
वराह उवाच ।
“एतत् कृत्वा ततो राजा हेमकुम्भे प्रकल्पनम् ।
ब्रह्माण्डमृषये प्रादात् सपिधानञ्च तत्क्षणात् ॥
सर्व्वकामैः सुसम्बीतो ययौ स्वर्गं नराधिपः ॥”
इति वराहपुराणम् ॥

ब्रह्मात्मभूः, पुं, (ब्रह्मण आत्मनः शरीरात् भव-

तीति । ब्रह्मात्मन् + भू + क्विप् ।) अश्वः । इति
शब्दमाला ॥ (अस्य ब्रह्मशरीरजातत्वमुक्तं
बृहदारण्यकौपनिषदि । १ । २ । ६-७ । तद् यथा, --
“प्राणा वै यशोवीर्य्यं तत्प्राणेषूत्क्रान्तेषु शरीरं
श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ।
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्या-
मिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यम-
भूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।” अत्र
शाङ्करभाष्यं यथा, --
“प्राणाश्चक्षुरादयः । वै यशो यशोहेतुत्त्वात्तेषु
हि सत्सुख्यातिर्भवति । तथा वीर्य्यं बलमस्मिन्
शरीरे । नह्युत्क्रान्तप्राणो यशस्वी बलवान्
भवति । तस्मात् प्राणा एव यशो वीर्य्यं चास्मिन्
शरीरे । तदेवं प्राणलक्षणं यशोवीर्य्यमुदक्रामत्
उत्क्रान्तवत् तदेवं यशोवीर्य्यभूतेषु प्राणेषुत्-
क्रान्तेषु शरिरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः
श्वयितुमुच्छूनभावङ्गन्तुमध्रियतामेध्यञ्चाभवत् ।
तस्य प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेव
शरीरे मन आसीत् । यथा कस्यचित् प्रिये
विषये दूरङ्गतस्यापि मनो भवति तद्बत् । स
तस्मिन्नेव शरीरे गतमनाः सन् किमकरोदिति ॥
उच्यते सोऽकामयत कथं मेध्यं मेधार्हं यज्ञियं
मे ममेदं शरीरं स्यात् । किञ्चात्मन्वी आत्मवां-
श्चानेन शरीरेण शरीरवान् स्यामिति प्रविवेश ।
यस्मात्तच्छरीरं मद्वियोगाद्गतयशोवीर्य्यं सदश्व-
दश्वयत्ततस्तस्मादश्वः समभवत् । ततोऽश्वनामा
प्रजापतिरेव साक्षादत्र स्तूयते । यस्माच्च पुन-
स्तत्प्रवेशात् गतयशोवीर्य्यत्वादमेध्यं सन्मेध्यम-
भूत् तदेव तस्मादेवाश्वमेधस्याश्वमेधनाम्नः क्रतो-
रश्वमेधत्वमश्वमेधनाम लाभः ॥”)

ब्रह्मादनी, स्त्री, हंसपदी । इति राजनिर्घण्टः ॥

ब्रह्मादिजाता, स्त्री, (ब्रह्मणः आदिजाता सम्भूता ।

क्वचित् ब्रह्माभिजाता इति पाठो दृश्यते ।)
गोदावरी । इति राजनिर्घण्टः ॥

ब्रह्मापेतः, पुं, (ब्रह्माणं ब्रह्मतेजःस्वरूपं सूर्य्य-

मुपेत उपगतः ततः पृषोदरात् साधुः ।) माघ-
मासे सूर्य्यनिकटस्थितराक्षसः । यथा, --
“त्वष्टा च यमदग्निश्च कम्बलोऽथ तिलोत्तमा ।
ब्रह्मापेतोऽथ ऋतजिद्धृतराष्ट्रश्च सप्तमः ॥
माघमासे वसन्त्येते सप्त मैत्रेय ! भास्करे ।”
इति विष्णुपुराणे । २ । १० । १५ ॥

ब्रह्मारण्यं, क्ली, (ब्रह्मणोवेदस्य अरण्यमिव ।)

वेदपाठभूमिः । इति त्रिकाण्डशेषः ॥

ब्रह्मार्प्रणं, क्ली, (ब्रह्मैवार्पणमितिविग्रहे यदर्पणं

तद्ब्रह्मैव । यथा, गीतायाम् । ४ । २४ ॥
“ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् ॥”
“ब्रह्मार्पणं येन करणेन प्रकारेण ब्रह्मविद्भि-
रग्नावर्पयति तद्ब्रह्मैवेति पश्यति तस्यात्म-
व्यतिरेकेणाभावं पश्यति यथा शुक्तिकायां
रजताभावं पश्यति तद्बदुव्यते ब्रह्मैवार्पणमिति
यथा यद्रजतं तच्छुक्तिकैवेति । ब्रह्म अर्पण-
मित्यसमस्ते पदे यदर्पणबुद्ध्या गृह्यते लोके
तदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः । इति शाङ्कर-
भाष्यम् ॥) ब्रह्मणि समर्पणम् । तत्प्रकारा यथा,
“ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥
नाहं कर्त्ता सर्व्वमेतद्ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तं ऋषिभिस्तत्त्वदर्शिभिः ॥
प्रीणातु भगवानीशः कर्म्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥
यद्वा फलानां संन्यासं प्रकुर्य्यात् परमेश्वरे ।
कर्म्मणामेतदप्याहुर्ब्रह्मार्पणमनुत्तमम् ॥”
इति कूर्म्मपुराणे ४ अध्यायः ॥

ब्रह्मावर्त्तः, पुं, (ब्रह्मणां ब्रह्मनिष्ठब्राह्मणानामा-

वर्त्त इव । बहुलब्राह्मणाश्रयत्वादस्य तथा-
त्वम् ।) देशविशेषः । तत्पर्य्यायः । तपोवटः २ ।
इति त्रिकाण्डशेषः ॥ तत्परिमाणादि यथा, --
“सरस्वतीदृशद्बत्योर्द्देवनद्योर्यदन्तरम् ।
तद् देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥
तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥
कुरुक्षेत्रञ्च मत्स्याश्च पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः ॥
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्व्वमानवाः ॥
इति मानवे । २ । १७-२० ॥
(तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । ५० ।
“ततो गच्छेत धर्म्मज्ञ ! ब्रह्मावर्त्तं नराधिप ! ।
ब्रह्मावर्त्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥”
पृष्ठ ३/४५६
अपरञ्च तत्रैव । ३ । ८४ । ४० ।
“ब्रह्मावर्त्तं ततो गच्छेत् ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति सोमलोकञ्च गच्छति ॥”)

ब्रह्मासनं, क्ली, (ब्रह्मणे ब्रह्मप्राप्त्यै आसनम् ।)

ध्यानासनम् । योगासनम् । इत्यमरः । २ । ७ । ४० ॥
ध्यानं परमार्थचिन्तनम् । योगश्चित्तवृत्तिनिरोध-
मात्रम् । ध्यानं निराकारभावनम् । योगः
साकारभावनमिति वा । तयोः पद्मस्वस्तिका-
द्यासनं यत् तत्र ब्रह्मासनं स्यात् । इति भरतः ॥
(आसनविशेषः । तल्लक्षणं यथा, --
“ब्रह्मासनं तदा वक्ष्ये यत्कृत्वा ब्राह्मणो भवेत् ।
एकपादमुरौ दत्त्वा तिष्ठेद्दण्डाकृतिर्भवेत् ॥”
ब्रह्मण आसनमितिविग्रहे ब्रह्मास्तरणम् ॥)

ब्रह्मास्त्रं, क्ली, (ब्रह्मस्वरूपमस्त्रम् ।) ब्रह्मस्वरू-

पास्त्रम् । यथा, देवीपुराणे ।
“तदा रामेण क्रुद्धेन ब्रह्मास्त्रं प्रति रावणे ।
नारायणविघातार्थं चिन्तितं चतुराननम् ॥
मुञ्जमेखलदण्डाक्षस्रुवदर्भकृताजिनम् ।
हूङ्काररावबहुलमागत्य पुरतः स्थितम् ॥”

ब्रह्मिष्ठा, स्त्री, (अतिशयेन ब्रह्म । ब्रह्म + इष्ठन् +

टाप् च ।) दुर्गा । यथा, --
“ब्रह्मिष्ठा वेदमातृत्वात् गायत्त्री चरणाग्रजा ।
वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी ॥”
इति देवीपुराणे ४५ व्यध्यायः ॥

ब्रह्मी, स्त्री, (मेधाजनकत्वात् ब्रह्मणे हिता ।

ब्रह्म + अण् । बाहुलकात् न वृद्धिः । ततो
ङीप् ।) पङ्कगडकमत्स्यः । इति त्रिकाण्ड-
शेषः ॥ पाँकाल इति भाषा । फञ्जिकावृक्षः ।
शाकभेदः । ब्रमी इति भाषा । इति मेदिनी ।
मे, १९ ॥ ब्रह्मीशाकस्य पर्य्यायः । मत्स्याक्षी २
सुरसा ३ वयस्था ४ ब्रह्मचारिणी ५ । इति
रत्नमाला ॥ (यथा, भैषज्यरत्नावल्यां कुष्ठरोग
चिकित्सायाम् ।
“तैलतुल्यं प्रदातव्यं स्वरसञ्च पृथक् पृथक् ।
महाकालवचाब्रह्मी तुम्ब्यग्निगृहपुत्रिका ॥”)
अस्या गुणाः । भेदकत्वम् । स्वरकारित्वम् ।
पित्तकफनाशित्वञ्च । इति राजवल्लभः ॥ अस्याः
पर्य्यायान्तरं गुणाश्च ब्राह्मीशब्दे द्रष्टव्याः ॥

ब्रह्मीघृतं, क्ली, (ब्रह्मीजातं घृतम् ।) औषध-

विशेषः । सारस्वतघृतमिति ख्यातम् । यथा, --
“समूलपत्रामुत्पाट्य ब्रह्मीं प्रक्षाल्य वारिणा ।
उदूखले खोदयित्वा रसं वस्त्रेण गालयेत् ॥
रसे चतुर्गुणे तस्मिन् धृतप्रस्थं विपाचयेत् ।
हरिद्रा मालती कुष्ठं बृहती सहरीतकी ।
एतेषां पलिकैर्भागैः शेषास्तु कार्षिकाः स्मृताः ॥
पिप्पल्योऽथ विडङ्गानि सैन्धवे शर्करा वचा ।
सर्व्वमेतत् समालोड्य शनैर्मृद्वग्निना पचेत् ॥
एतत्प्राशितमात्रेण वाग्विशुद्धिः प्रजायते ।
सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥
अर्द्धरात्रप्रयोगेण स्वरो भवति कौकिलः ।
मासमेकं प्रयोगेण भवेत् श्रुतिधरो नरः ॥
पञ्च गुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ।
बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् ।
घृतं सारस्वतं नाम बलवर्णवपुःप्रदम् ॥”
इति जयनारायणकृतचिकित्सारत्नसंग्रहः ॥
(अपरञ्च ।
“ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेवच ।
पुराणं मेध्यमुन्मादग्रहापस्मारनाशनम् ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽपस्माराधिकारे ॥)

ब्रह्मोतं, त्रि, ब्रह्मणि आ सम्पक् प्रकारेण ऊतं

ग्रथितम् । (“लोपोऽस्योमाडोः ।” इति सूत्रेण
अकार लोपः ।) इति मुग्धबोधव्याकरणम् ॥

ब्रह्मोत्तरं, त्रि, ब्रह्मा ब्राह्मणः उत्तरः प्रधानं

यस्य । ब्राह्मणस्वामिकभूम्यादि । इति व्यवहार
प्रसिद्धम् ॥ (देशभेदः । इति मास्यम् । १२० । ५० ॥)

ब्रह्मोद्यं, क्ली, (ब्रह्मणो वेदस्य वदनम् । ब्रह्म +

वद् + क्यप् ।) ब्रह्मणो वाक्यम् । इति मुग्ध-
बोधव्याकरणम् ॥

ब्रह्मोद्या, त्रि, (ब्रह्म + वद् + क्यय् + टाप् ।) ब्रह्मणः

कथा । इति मुग्धबोधव्याकरणम् ॥ (यथा,
मनुः । २ । २३१ ।
“ब्रह्मोद्याश्च कथाः कुर्य्यात् पितॄणामेतदीप्मि-
तम् ॥”
“परमात्मनिरूपणपराः कथाश्च कुर्य्यात् ।”
इति तट्टीकायां कुल्लूकभट्टः ॥)

ब्रह्मोपनेता, [ऋ] पुं, (ब्रह्माणं ब्राह्मणं उपनयते

इति । ब्रह्म + उप + णि + तृच् । उपनयन-
हेतुकदण्डत्वात्तथात्वम् ।) पलाशवृक्षः । इति
राजनिर्घण्टः ॥ ब्राह्मणोपनयनकर्त्ता च ॥

ब्रह्मौदनं, क्ली, (ब्रह्मणे देयमोदनम् ।) यज्ञे

ऋत्विग्भ्यो दत्तमन्नम् । इति वैदिकाः । (यथा,
अथर्व्ववेदे । ४ । ३५ । ७ ।
“ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्ध-
धानस्य देवाः ॥”)

ब्राह्मं, क्ली, (ब्रह्मण इदम् । ब्रह्मन् + “तस्ये-

दम् ।” ४ । ३ । १२० । इत्यण् । ‘नस्तद्धिते ।’ ६ । ४ । १४४ ।
इति टिलोपः ।) ब्रह्मतीर्थं । तत्तु अङ्गुष्ठस्य
मूले वर्त्तते । इत्यमरः ॥ २ । ७ । ५१ ॥ अनेन
तीर्थेन द्बिजस्याचमनं यथा, आह्निकतत्त्वे ।
“अन्तर्जानुशुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्बिजो नित्यमुपस्पृशेत् ॥
अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च ।
एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥”
ब्रह्मपुराणम् । यथा, --
“ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥”
इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥
(ब्रह्मसम्बन्धिनि, त्रि । यथा, मनुः । १ । ६८ ।
“ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।
एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥”
ब्रह्मा देवतास्य इति । ब्रह्मन् + “सास्य
देवता ।” ४ । २ । २४ । इत्यण् । टिलोपः ।
ब्रह्मदेवताकमस्त्रादि । यथा, रघुः । १२ । ९७ ।
“अमोघं सन्दधे चास्मै धनुष्येकधनुर्द्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥”)

ब्राह्मः, पुं, (ब्रह्मणोऽपत्यं पुमान् इति । ब्रह्मन् +

“तस्यापत्यम् । ४ । १ । ९२ । इत्यण् । “नस्त-
द्धिते ।” ६ । ४ । १४४ । इति टिलोपः ।)
नारदः । इति जटाधरः ॥ (ब्रह्मण इवायमिति
अण् ।) विवाहविशेषः । यथा, --
“वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र
दीयते सः ।”
यथा, --
“आच्छाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्म्मः प्रकीर्त्तितः ॥”
इत्युद्बाहतत्त्वम् ॥
(“रात्रेश्च पञ्चिमे यामे मुहूत्तो ब्राह्म उच्यते ।”
इति नियमात् रात्रिशेषयामार्द्धस्थितोऽरुण-
दयात् प्राक्दण्डद्वयात्मको कालविशेषः । यथा,
मनुः । ४ । ९१ ।
“ब्राह्मे मुहूर्त्ते बुद्ध्येत धर्म्मार्थौ चानुचिन्त-
येत् ॥”)

ब्राह्मणं, क्ली, (ब्रह्मन् + अण् न टिलोपः ।) ब्रह्म-

संघातः । ब्राह्मणसमूहः । वेदभागः । इति
मेदिनी । ने, ६७ ॥

ब्राह्मणः, पुं, ब्राह्मणो विप्रस्य प्रजापतेर्वा अपत्यम् ।

ब्रह्म वेदस्तमधीते वा सः । इति भरतः ॥ (ब्रह्मन्
+ अण् “ब्राह्मोऽजातौ ।” ६ । ४ । १७१ ।
इति नटिलोपः ।) तत्पर्य्यायः । द्विजातिः २
अग्रजन्मा ३ भूदेवः ४ बाडवः ५ विप्रः ६ ।
इत्यमरः ॥ २ । ७ । ४ । ॥ द्बिजः ७ सूत्र-
कण्ठः ८ ज्येष्ठवर्णः ९ अग्रजातकः १०
द्विजन्मा ११ वक्त्रजः १२ मैत्रः १३ वेदवासः १४
नयः १५ गुरुः १६ । इति शब्दरत्नाबली ॥
ब्रह्मा १७ षट्कर्म्मा १८ द्विजोत्तमः १९ । इति
राजनिर्घण्टः ॥ * ॥ अयं सर्व्ववर्णश्रेष्ठः । ब्रह्मणो
मुखाज्जातः । प्लक्षद्वीपे तस्य संज्ञा हंसः ।
शाल्मलद्वीपे श्रुतिधरः । कुशद्वीपे कुशलः ।
क्रौञ्चद्वीपे गुरुः । शाकद्वीपे ऋतव्रतः । पुष्कर-
द्वीपे सर्व्वे एकवर्णाः । अस्य शास्त्रनिरूपित-
धर्म्मास्त्रयः अध्ययनं यजनं दानञ्च । जीविका-
स्तिस्रः अध्यापनं याजनं प्रतिग्रहश्च । अयमा-
श्रमचतुष्टयवान् भवति । यथा । ब्रह्मचारी
गृहस्थः वानप्रस्थः सन्न्यासी च । क्षत्त्रियवैश्य-
योस्तु क्रमश एकैकपादहीनत्वमिति बोध्यम् ।
इति श्रीभागवतम् ॥ * ॥ ब्राह्मणीक्षत्त्रिया-
वैश्यासु ब्राह्मणाज्जातो ब्राह्मणः । यथा, --
“ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।
क्षत्त्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥”
इति महाभारते अनुशासने । ४७ । २८ ॥
तस्य लक्षणं यथा, --
“जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च ।
एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्बिज उच्यते ॥”
इति वह्रिपुराणम् ॥
अपि च ।
“न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।
सर्व्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥
पृष्ठ ३/४५७
अहेरिव गणाद्भीतः लौहित्यान्नरकादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥
विमुक्तं सर्व्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् ।
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥
जीवितं यस्य धर्म्मार्थं धर्म्मो रत्यर्थमेव च ।
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।
अक्षीणं ज्ञीणकर्म्माणं तं देवा ब्राह्मणं विदुः ॥”
इति महाभारते मोक्षधर्म्मः ॥ * ॥
अपि च । विशाखयूप उवाच ।
“विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता ।
यतस्तवानुग्रहेण वाग्वाणाः ब्राह्मणाः कृताः ॥
कल्किरुवाच ।
वेदा मामीश्वरं प्राहुरव्यक्तं व्यक्तिमत् परम् ।
ते वेदा ब्राह्मणमुखे नाना धर्म्माः प्रकाशिताः ॥
यो धर्म्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला ।
तयाहं तोषितः श्रीशः संभवामि युगे युगे ॥
ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः ।
तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः ॥
त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसस्मितम् ।
शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् ॥
यजुर्विदां नाभिमितं सामगानामयं विधिः ।
वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम् ॥
मृद्भस्मचन्दनाद्यैस्तु धारयेत्तिलकं द्विजः ।
भाले त्रिपुण्ड्रं कर्म्माङ्गं केशपर्य्यन्तमुज्ज्वलम् ॥
पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधाकृतम् ।
ब्रह्मविष्णुशिवावासं दर्शनात् पापनाशनम् ॥
ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः ।
गात्रे तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत् ॥
सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम् ।
तेषां स्तनान्तरे धर्म्मः पृष्ठेऽधर्म्मः प्रकीर्त्तितः ॥
भूदेवा ब्राह्मणा राजन् ! पूज्या वन्द्याः सदु-
क्तिभिः ।
चातुराश्रम्यकुशला मम धर्म्मप्रवर्त्तकाः ॥
बालाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः ।
तेषां वचः पालयितुमवताराः कृता मया ॥
महाभाग्यं ब्राह्मणानां सर्व्वपापप्रणाशनम् ।
कलिदोषहरं श्रुत्वा मुच्यते सर्व्वतो भयात् ॥”
इति कल्किपुराणे ४ अध्यायः ॥ * ॥
अपि च ।
“कर्म्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् ।
स्वधर्म्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्यते ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे ३५ अध्यायः ॥ * ॥
अपि च ।
“जातकर्म्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः ॥
शौचाचारपरो नित्यं विघसाशी गुरुप्रियः ।
नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते ॥
सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ * ॥
तस्य धर्म्मो यथा, --
ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम् ।
दममेव महाराज ! धर्म्ममाहुः पुरातनम् ॥
स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते ।
तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्म्मणि ॥
अकुर्व्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम् ।
कुर्व्वीतोपेत्य सन्तानमथ दद्याद्यजेत च ॥
संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते ।
परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः ॥
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ।”
इति पाद्मे स्वर्गखण्डे २६ अध्यायः ॥ * ॥
तस्य माहात्म्यादि यथा, --
“सर्व्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ।
तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः ॥
सर्व्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि ।
स तारयति दातारं दुस्तरे विश्वसागरे ॥
हरिशर्म्मोवाच ।
सर्व्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम ! ।
तेषां मध्ये च कः श्रेष्ठः कस्मै दानं प्रदीयते ॥
ब्रह्मोवाच ।
सर्व्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि ।
अविद्या वा सविद्या वा नात्र कार्य्या विचारणा ॥
स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोत्तम ! ।
आत्मभ्यो द्वेषिणस्तेऽपि परेभ्यो न कदाचन ॥
अनाचारा द्विजाः पूज्या न च शूद्रा जिते-
न्द्रियाः ।
अभक्ष्यभक्षका गावः कोलाः सुमतयो न च ॥
माहात्म्यं भूमिदेवानां विशेषादुच्यते मया ।
तव स्नेहाद्द्विजश्रेष्ठ ! निशामय समाहितः ॥
क्षत्त्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः ।
अन्योन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर ! ॥
ब्राह्मणं प्रणमेद्यस्तु विष्णुबुद्ध्या नरोत्तमः ।
आयुः पुत्त्राश्च कीर्त्तिश्च सम्पत्तिस्तस्य वर्द्धते ॥
न च नौति द्विजं यस्तु मूढधीर्मानवो भुवि ।
सुदर्शनेन तच्छीर्षं हन्तुमिच्छति केशवः ॥”
पुष्पादिहस्तब्राह्मणस्य प्रणामनिषेधो यथा, --
“पुष्पहस्तं पयोहस्तं देवहस्तञ्च भूसुर ! ।
न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यङ्गितविग्रहम् ॥
जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसम् ।
देवपूजाञ्च कुर्व्वन्तं न नमेद्ब्राह्मणं बुधः ॥
बहिष्क्रियां प्रकुर्व्वन्तं भुञ्जानञ्च द्विजोत्तम ! ।
तथा सामानि गायन्तं न नमेद्ब्राह्मणं बुधः ॥
ब्राह्मणा यत्र तिष्ठन्ति बहवो द्विजसत्तम ! ।
प्रत्येकन्तु नमस्कारस्तत्र कार्य्यो न धीमता ॥
कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् ।
स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि च ॥
कृतप्रणामं तनयं नमेतां पितरौ न च ।
कृतप्रणामाः सर्व्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः ॥
कृतदोषान् द्बिजान् गाश्च न द्बिषन्ति विच-
क्षणाः ।
द्विषन्ति वापि मीहेन तेषां रुष्टः सदा हरिः ॥
याचकान् ब्राह्मणान् यस्तु कोपदृष्ट्या प्रपश्यति ।
सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः ॥
विप्रनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्व्वते ।
तस्मिन् वक्त्रे यमस्तप्तं लौहपिण्डं ददाति वै ॥
ब्राह्मणो यद्गृहे भुङ्क्ते तद्गृहे केशवः स्वयम् ।
देवताः सकला एव पितरश्च मुरर्षयः ॥”
तस्य पादोदकादिमाहात्मम् यथा, --
विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः ।
देहस्थं पातकं तस्य सर्व्वमेवाशु नश्यति ॥
कोटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि वै ।
तीर्थानि तानि सर्व्वाणि वसन्ति द्विजपादयोः ॥
विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकम् ।
स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ॥
सर्व्वपापानि घोराणि ब्रह्महत्यादिकानि च ।
सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात् ॥
क्षयाद्या व्याधयः सर्व्वे परमक्लेशदायकाः ।
गच्छन्ति विलयं सद्यो विप्रपादाम्बुभक्षणात् ॥
पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः ।
तैस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्रतारकम् ॥
प्रक्षाल्य विप्रचरणौ दूर्व्वाभिर्योऽर्च्चयेद्बुधः ।
तेनार्च्चितो जगत्स्वामी विष्णुः सर्व्वसुरोत्तमः ॥
विप्राणां पादनिर्म्माल्यं यो मर्त्यः शिरसा वहेत् ।
सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती ॥
तस्य प्रदक्षिणफलम् ।
“विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥”
तस्य पादसेचनफलम् ।
यो दद्यात् फलताम्बूलं विप्राणां पादसेचने ।
इह लोके सुखं तस्य परलोके ततोऽधिकम् ॥
पुत्त्रार्थी लभते पुत्त्रं धनार्थी लभते घनम् ।
मोक्षार्थी लभते मोक्षं विप्रपादस्य सेचनात् ॥
रोगी रोगात् प्रमुच्येत पापी मुच्येत पातकात् ।
मुच्येत बन्धनाद्वद्धो विप्राणां पादसेचनात् ॥
अनपत्याश्च या नार्य्यो मृतापत्याश्च याः स्त्रियः ।
बह्वपत्या जीववत्साः स्युर्विप्रपादसेचनात् ॥”
इति पाद्मे क्रियायोगसारे २० अध्यायः ॥
तस्य सन्ध्याया अकरणे दोषो यथा, --
“नोपतिष्टति यः पूर्ब्बां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्वहिः कार्य्यः सर्व्वस्माद्द्विजकर्म्मणः ॥”
तस्य सन्ध्याकरणफलं यथा, --
“यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति च ।
स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ॥
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।
जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्बिजः ॥
तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः ।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥
सन्ध्याया अकरणे दोषो यथा, --
“न गृह्णन्ति मुरास्तेषां पितरः पिण्डतर्पणम् ।
स्वेच्छया त्त द्विजातेश्च त्रिसन्ध्यरहितस्य च ॥”
तस्य निन्दितकर्म्माणि यथा, --
“विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ।
एकादशीविहीनश्च विषहीनो यथोरगः ॥
हरेर्नैवेद्यभोजी न धावको वृषवाहकः ।
पृष्ठ ३/४५८
शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ॥
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः ।
शूद्राणां सूपकारी च शूद्रयाजी च यो द्विजः ।
असिजीवी मसीजीवी विषहीनो यथोरगः ॥
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।
भगजीवी वार्द्धुषिको विषहीनो यथोरगः ।
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।
यो विद्याविक्रयी विप्रो विषहीनो यथोरगः ॥
सूर्ष्योदये च द्विर्भोजी मत्स्यभोजी च यो
द्बिजः ।
शिलापूजादिरहितो विषहीनो यथोरगः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥
अपि च ।
“यदि शूद्रां ब्रजेद्विप्रो वृषलीपतिरेव सः ।
स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः
स्मृतः ॥
विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् ।
तत्पितॄणां सुराणाञ्च पूजने तत्समं सति ॥
कोटिजन्मार्जितं पुण्यं सन्ध्यार्च्चातपसार्जितम् ।
द्बिजस्य वृषलीभोगान्नश्यत्येव न संशयः ॥
ब्राह्यणश्च मुरापीती विड्भोजी वृषलीपतिः ।
हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम् ॥”
अपि च ।
“करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां वा न करोति यः ।
त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥
नारायणक्षेत्रादितीर्थे तस्य प्रतिग्रहदोषो यथा,
“तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे ।
वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे ॥
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।
हरिद्बारे च केदारे सोमे वदरपाचने ॥
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।
गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये ॥
एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ॥”
पारिभाषिकमहापातकिब्राह्मणा यथा, --
“शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः ।
देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः ॥
शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ।
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥
विप्राणामाशीर्वचनं पूर्णस्वस्त्ययनं यथा, --
“आशिषं कर्त्तुमर्हन्ति प्रसन्नमनसा शिशुम् ।
पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥
ब्राह्मणस्य स्वधर्म्मो यथा, --
“ब्राह्मणस्य स्वधर्म्मश्च त्रिसन्ध्यमर्च्चनं हरेः ।
तत्पादोदकनैवेद्यभक्षणञ्च सुधाधिकम् ॥
अन्नं विष्ठा जलं मूत्रमनिवेद्यं हरेर्नृप ! ।
भवन्ति शूकराः सर्व्वे ब्राह्मणा यदि भुञ्जते ॥
आजीवं भुञ्जते विप्रा एकादश्यां न भुञ्जते ।
कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चितम् ॥
तथा रामनवम्याञ्च यत्नतः पुण्यवासरे ।
ब्राह्मणानां स्वधर्म्मश्च कथितो ब्रह्मणा नृप ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५९ अध्यायः ॥
गृहस्थब्राह्मणनियमा यथा, --
“वेदं वेदौ तथा वेदानधीत्य तु समाहितः ।
तदर्थमभिगम्याथ तत्र स्नायाद्द्विजोत्तमः ॥
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति ॥
वैणवीन्धारयेद्यष्टिमन्तर्व्वासमथोत्तरम् ।
यज्ञोपवीतद्बितयं सोदकञ्च कमण्डलुम् ॥
छत्रञ्चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले धार्य्ये कृत्तकेशनखः शुचिः ॥
स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत् ।
अन्थत्र काञ्चनाद्विप्रो न रक्तां बिभृयात् स्रजम् ॥
शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेच्च विभवे सति ॥
न रक्तमुल्वणञ्चास्य घृतं वासो न कुण्डिकाम् ।
नोपानहौ स्रजं वाथ पादुके च प्रयोजयेत् ॥
उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि च ।
नापसव्यं परीदध्याद्वासो न विकृतं वसेत् ॥
आहरेद्विधिवद्धीमान् सदृशामात्मनः शुभाम् ।
रूपलक्षणसंयुक्तां योनिदोषविवर्ज्जिताम् ॥
अमातृगोत्रप्रभवामसमानार्षगोत्रजाम् ।
आहरेद्ब्राह्मणो भार्य्यां शीलशौचसमन्विताम् ॥
ऋतुकालाभिगामी स्याद्यावत् पुत्त्रोऽभिजायते ।
वजयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥
षष्ठ्यष्टमी पञ्चदशी द्वादशी च चतुद्दशी ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥
वेदोदितं स्वकं कर्म्म नित्यं कुर्य्यादतन्द्रितः ।
अकुर्व्वाणः पतत्याशु नरकानतिभीषणान् ॥
अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न हापयेत् ।
कुर्य्याद्गृह्याणि कर्म्माणि सन्ध्योपासनमेव च ॥
सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत्तु कुर्य्याद्भार्य्याभिपोषणम् ॥
न धर्म्मं ख्यापयेद्विद्बान् न पापं गूहयेदपि ।
कुर्व्वीतात्महितं नित्यं सर्व्वभूतानुकम्पकः ॥
वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
देशवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥
श्रुतिस्मृत्युदितं सम्यक् साधुभिर्यश्च सेवितः ।
तमातरन्निषेवेत नेहेतान्यत्र कर्हिचित् ॥
येनास्य पितरो याता येन याताः पितामहाः ।
येन याति सतां मार्गं तेन गच्छंस्तरिष्यति ॥
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतिमान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्प्यते ॥
सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः ।
अनसूयुर्मृदुर्दान्तो गृहस्थः प्रत्यवर्द्धत ॥
वीतरागभयक्रोधो लोभमोहविवर्ज्जितः ।
सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही ॥
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दाता यज्ञी देवभक्तो ब्रह्मलोके महीयते ॥
त्रिवर्गसेवी सततं देवतानाञ्च पूजनम् ।
कुर्य्यादहरहर्न्नित्यं नमस्येत् प्रयतः सुरान् ॥
विभागशीलः सततं क्षमायुक्तो दयात्मकः ।
गृहस्थस्तु समायुक्तो न गृहे न गृही भवेत् ॥
क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः ।
अध्यात्मं नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥
एतस्मान्न प्रमाद्येत विशेषेण द्बिजोत्तमः ।
यथाशक्ति चरन् कर्म्म निन्दितानि विवर्जयेत् ॥
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धान्नात्र कार्य्या विचारणा
विगर्हातिक्रमक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां वर्जनं क्षमा ॥
स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात् ।
दया यन्मुनयः प्राहुः साक्षाद्धर्म्मस्य साधनम् ॥
चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते ॥
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।
धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥
सत्येन लोकं जयति सत्यन्तत् परमं पदम् ।
यथा भूतप्रसादस्तु सत्यमाहुर्मनीषिणः ॥
दमः शरीरावनतिः शमः प्रज्ञा प्रसादजः ।
अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति ॥
यया स देवो भगवान् विद्यते यत्र विद्यते ।
साक्षादेव महादेव ! तज्ज्ञानमिति कीर्त्तितम् ॥
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥
धर्म्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्र ! पुरुषैर्विद्यते परः ॥
नित्यं धर्म्मार्थकामेषु युञ्जीत नियतो द्बिजः ।
न धर्म्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥
सीदन्नपि स्वधर्म्मेण नत्वधर्म्मं समाचरेत् ।
धर्म्मो हि भगवान्देवो गतिः सर्व्वेषु जन्तुषु ।
भूतानां प्रियकारी स्यान्न परद्रोहकर्म्मधीः ॥
न वेददेवतानिन्दां कुर्य्यात्तैश्च न सम्बदेत् ।
यस्त्विमं नियतो विप्रो धर्म्माध्यायं पठेत् शुचिः ।
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥”
इति कौर्म्मे उपविभागे १४ अध्यायः ॥
अपि च । सूत उवाच ।
“आनृशंस्यं क्षमा सत्यमहिंसा दममार्द्दवम् ।
ध्यानं प्रसादो माधुर्य्यमार्ज्जवं शौचमेव च ॥
इज्या दानं तपः सत्यं स्वाध्यायो ह्यात्मनिग्रहः ।
व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम् ॥
एभिर्युक्तो मुनिश्रेष्ठा यः सदा वर्त्तते द्विजः ।
हुत्वा तु पावकं सर्व्वं परं ब्रह्माधिगच्छति ॥
अविद्यो वा सविद्यो वा निरग्निः साग्निकोऽपि
वा ।
यो विप्रस्तपसा युक्तः स परं स्वर्गमाप्नुयात् ॥
सर्व्वेषामुत्तमं श्रेष्ठं विमुक्तिफलदायकम् ॥
ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु ।
सायं प्रातश्च यः सन्ध्यामुपास्ते स्कन्नमानसः ॥
जपन् हि पावनीं देवीं गायत्त्रीं वेदमातरम् ।
तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः ॥
पृष्ठ ३/४५९
न सीदेत् प्रतिगृह्णन् स त्वयि पृथ्वीं ससागराम् ।
द्वे सन्ध्ये ह्युपतिष्ठेत गायत्त्रीं प्रयतः शुचिः ॥
यस्तस्य दुष्कृतं नास्ति पूर्ब्बतः परतोऽपि वा ।
यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः ॥
गायत्त्रीध्यानपूतस्य कलां नार्हन्ति षोडशीम् ।
एवं किल्विषयुक्तस्तु विनिर्दहति पातकम् ॥
उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः ॥
तस्य देहापवित्रत्वं यथा, --
“यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् ।
देवर्षे ! शृणु तत्सर्व्वं नराणामानुपूर्ब्बिकम् ॥
जातके मृतकेऽस्नाते जलौकाभिः क्षते तथा ।
अपवित्रो द्विजातीनां देहः सन्ध्यादिकर्म्मसु ॥
अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः ।
अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु ॥
रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते ।
विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः ॥
भुक्तहस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने ।
शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि ॥
ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् ।
वपुरप्रयतं पूजादानहोमजपादिषु ॥
धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः ।
तथा च रेतःस्खलने मर्त्यदेहापवित्रता ॥
अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने ।
गर्हितदानग्रहणे पतिते पातकादिभिः ॥
अशौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज ! ॥
सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु ॥”
इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥
अथ श्राद्धीयब्राह्मणनिर्णयः ।
मान्धातोवाच ।
“कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं महामुने ! ।
द्बिजेभ्यः किंगुणिभ्यो वा तन्मे व्याख्यातुमर्हसि ॥
नारद उवाच ।
ब्राह्मणान्न परीक्षेरन्नान्यवर्णास्त्रयो नृप ! ।
दैवे कर्म्मणि पित्रे च न्याय्यमाहुः परीक्षणम् ॥
देवताः पूजयन्तीह दैवेनैव हि तेजसा ।
उपेये तस्माद्भावेभ्यः सर्व्वेभ्यो दापयेन्नरः ॥
श्राद्धे त्वथ महाराज ! परीक्षेद्ब्राह्मणं बुधः ।
कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥
तेषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः ।
अपाङ्क्तेयास्तु ये राजन् ! कीर्त्तयिष्यामि तान्
शृणु ॥”
अपाङ् क्तेया यथा, --
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ।
ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्व्वविक्रयी ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सामुद्रिको राजदूतस्तैंलिकः कूटकारकः ॥
पित्रा विवदमानश्च यस्य चोपपतिर्गृ हे ।
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥
पर्व्वकारश्च सूची च मित्रध्रुक् पारदारिकः ।
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥
श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च ।
परिवित्तिस्तु यश्च स्याद्दुश्चर्म्मा गुरुतल्पगः ॥
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ।
ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः ॥
रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते ।
श्राद्धे मुक्त्वा महाराज ! दुश्चर्म्मा गुरुतल्पगः ॥
श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते ।
सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप ! ॥
भिषजे शोणितसमं नष्टं देवलके तथा ।
अप्रतिष्ठं बार्द्धषिके निष्फलं परिकीर्त्तितम् ॥
बहुबाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥
ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु च ।
हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्राय नश्यति ॥
ज्ञानपूर्ब्बन्तु ये तेभ्यः प्रयच्छन्त्य ल्पबुद्धयः ।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम् ॥
एतान् विद्धि महावाहो ! अपाङ्क्तेयान् द्विजा-
धमान् ।
शूद्राणामुपदेशन्तु ये कुर्व्वन्त्यल्पबुद्धयः ॥
षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति ।
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ! ॥
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥
असूयते च यद्दत्तं यच्च श्रद्धादिवर्जितम् ।
सर्व्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन ।
तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत् ॥
तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ।
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥
अपाङ्क्तेयो यतः पङ्क्त्यां भुञ्जानो ननु पश्यति ।
तावत् फलाद्भ्रंशयति दातारं तस्य वालिशम् ॥”
पङ्क्तिपावना यथा, --
“इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः ।
विद्यावेदव्रतस्नाताः ब्राह्मणाः सर्व्व एव हि ॥
सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः ।
मातापित्रोर्यश्च बश्यः श्रोत्रियो दशपूरुषः ॥
ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा ।
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥
अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।
सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः ॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।
मखेषु च समस्तेषु भवन्त्ववभृतप्लुतः ॥
अक्रोधना ह्यचपलाः क्षान्ता दान्ता जिते-
न्द्रियाः ।
सर्व्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।
यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः ॥
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ।
ये च भाष्यविदः केचिद् ये च व्याकरणे रताः ॥
अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत ।
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥
उपपन्नो गुरुकुले सत्यवादी सहस्रदः ।
अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु च ॥
यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च ।
ततो हि पावनात् पङ्क्त्या उच्यन्ते पङ्क्ति-
पावनाः ॥
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ।
ऋत्विग्भिरनमुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥
अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्विवर्जितः ।
न च स्यात् पतितो राजन् ! पङ्क्तिपावन
उच्यते ॥
तस्मात् सर्व्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।
स्वकर्म्मनिरतान् शान्तान् कुले जातान् बहु-
श्रुतान् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
न प्रीणाति पितॄन् देवान् स्वर्गञ्च न स गच्छति
ब्राह्मणो ह्यनधीयानस्तृणादिरिव शाम्यति ।
तस्मिन् श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥
ऋषीणां समये नित्यं ये चरन्ति महीपते ! ।
निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवा ब्राह्मणान्
विदुः ॥
स्वाध्यायनिष्ठानिरता ज्ञाननिष्ठास्तथैव च ।
तपोनिष्ठाश्च बोद्धव्याः कर्म्मनिष्ठाश्च पार्थिव ! ।
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भूमिप ! ।
तत्र ये ब्राह्मणान् केचिन्न निन्दन्ति हि ते वराः ॥
ये तु निन्दन्ति जल्पेषु न तान् श्राद्धेषु योजयेत् ।
ब्राह्मणा निन्दिता राजन् ! हन्युस्ते पुरुषं सदा ॥
वैखानसानां वचनमृषीणां श्रूयते नृप ! ।
दूरादेव निरीक्षेत ब्राह्मणान् वेदपारगान् ॥
प्रियो वा यदि वा द्बेष्यस्तेषां न श्राद्धमावपेत् ॥”
इति पाद्मे स्वर्गखण्डे श्राद्धपात्रनिर्णयो नाम ३५
अध्यायः ॥ आततायिब्राह्मणवधे दोषाभावो
यथा, --
“आत्मानं हन्तुमायान्तमपि वेदान्तपारगम् ।
न दोषो हनने तस्य न तेन ब्रह्महा भवेत् ॥
प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम् ।
वधे समुचिते तेषामित्याह कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे २५ अध्यायः ॥
(क्ली, मन्त्रेतरवेदभागः । आशङ्कोपन्यास तन्निर-
सनपूर्ब्बकं तल्लक्षणमाह ऋग्वेदभाष्योपद्घात-
प्रकरणे यथा । “तत्र ब्राह्मणस्य लक्षणं नास्ति ।
कुतः ? वेदभागानामियत्तानवधारणेन बाह्मण-
भागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः
शोधयितुमशक्यत्वात् । पूर्ब्बोक्तमन्त्रभाग एकः ।
भागान्तराणि च कानिचित् पूर्ब्बैरुदाहर्त्तुं
संगृहीतानि ।
“हेतुर्निर्बचनं निन्दा प्रशंसा संशयो विधिः ।
परक्रिया पुराकल्पो व्यवधारणकल्पना ॥” इति ।
तेन ह्यन्नं क्रियते इति हेतुः १ । तद्दध्नोदधित्व-
मिति निर्वचनम् २ । अमेध्या वै माषाः इति
निन्दा ३ वायुर्वै क्षेपिष्ठादेवतेति प्रशंसा ४ ।
तद्व्यचिकित्स जुहवानीमा हौषामिति संशयः ५ ।
यजमानेन सम्मितौदुम्भरी भवतीति विधिः ६ ।
माषानेव मह्यं पचन्तीति परकृतिः ७ पुरा
ब्राह्मणा अभैषुरिति पुराकल्पः ८ । यावतो-
ऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपाला-
पृष्ठ ३/४६०
न्निर्वपेदिति विशेषावधारणकल्पना ९ । एव-
मन्यदपि उदाहार्य्यम् ॥ न च हेत्वादीनामन्यतमं
ब्राह्मणमिति लक्षणम् । मन्त्रेष्वपि हेत्वादि-
सद्भावात् । इन्दवोवामुशन्तिहीति हेतुः ।
उदानिषुर्महीरिति तस्मादुदकसुच्यते इति
निर्वचनम् । मोघमन्नं विन्दते अप्रचेताः इति
निन्दा । अग्निर्मूर्द्धादिवः इति प्रशंसा । अधः
स्विदासीदुपरिस्विदासीति संशयः वसन्ताय
कपिञ्जलानालभत इति विधिः सहस्रमयुताद-
द्दितिपरकृतिः । यज्ञेन यज्ञमयजन्त देवा इति
पुराकल्पः । इति करणबहुलं ब्राह्मणमिति
चेत् न इत्यददा इत्ययजथा इत्यपच इति
ब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्ये
मन्त्रेऽतिव्याप्तेः । इत्याहेत्यनेन वाक्येनोपनिबद्धं
ब्राह्मणमिति चेन्न राजाचिद्यं भगं भक्षीत्याह
यो वा रक्षाः शुचिरस्मीत्याह इत्यनयोर्मन्त्रयो-
रतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेन्न
यमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्ति
ब्राह्मणस्य लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मण-
रूपौ द्वावेव वेदभागौ इत्यङ्गीकारात् मन्त्र-
लक्षणस्य पूर्ब्बमभिहितत्वादवशिष्टो वेदभागो
ब्राह्मणमित्येतल्लक्षणं भविष्यति । तदेतल्लक्षण-
द्वयं जैमिनिः सूत्रयामास तच्चोदकेषु मन्त्रा-
ख्याशेषे ब्राह्मणशब्द इत्यादि ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ८४ ।
“ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥”
शिवः । यथा, तत्रैव । १३ । १७ । १३३ ।
गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः ॥”
ब्रह्म जानातीति व्युत्पत्त्या परब्रह्मवेत्तरि, त्रि ॥)

ब्राह्मणब्रुवः, पुं, (ब्राह्मणवंशोत्पन्नतया वेदोक्त-

कर्म्माकुर्व्वन्नपि आत्मानं ब्राह्मणं ब्रवीतीति ।
ब्राह्मण + ब्रू + क + बाहुलकात् न वच्यादेशः ।)
ब्राह्मणजातिमात्रोपजीवी । यथा, --
“विप्रः संस्कारयुक्तो न नित्यं सन्ध्यादि कर्म्म यः ।
नैमित्तिकन्तु नो कुर्य्यात् ब्राह्मणब्रुव उच्यते ॥
युक्तः स्यात् सर्व्वसंस्कारैर्द्विजस्तु नियमव्रतैः ।
कर्म्म किञ्चिन्न कुरुते वेदोक्तं ब्राह्मणब्रुवः ॥
गर्भाधानादिभिर्युक्तस्तथोपनयनेन च ।
न कर्म्मकृन्न चाधीते स ज्ञेयो ब्राह्मणब्रुवः ॥
अध्यापयति नो शिष्यान्नाधीते वेदमुत्तमम् ।
गर्भाधानादिसंस्कारैर्युतः स्याद्ब्राह्मणब्रुवः ॥”
इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥
तस्मै दाने फलविशेषो यथा, --
“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
अधीते शतसाहस्रमनन्तं वेदपारगे ॥”
इति मानवे ७ । ८५ ॥

ब्राह्मणयष्टिका, स्त्री, (ब्राह्मणस्य यष्टिरिव । ततः

स्वार्थे संज्ञायां वा कन् अत इत्वञ्च ।) वृक्ष-
निशेषः । वामनहाटी इति भाषा । तत्पर्य्यायः ।
फञ्जिका २ ब्राह्मणी ३ पद्मा ४ भार्गी ५ अङ्गार-
वल्ली ६ वालेयशाकः ७ वर्व्वरः ८ वर्द्धकः ९ ।
इत्यमरः । २ । ४ । ८९ ॥ ब्रह्मयष्टिः १० ब्रह्म-
यष्टी ११ फञ्जीका १२ यष्टी १३ ब्रह्मयष्टिका १४
दुर्व्वरा १५ अङ्गारवल्लरी १६ बालेयः १७
ब्राह्मिका १८ । इति शब्दरत्नावली ॥ भृगु-
भवा १९ पथ्या २० खरशाकः २१ हञ्जिका
२२ । अस्या गुणाः ।
“भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी
लघुः ।
दीपनी तुवरा गुल्मरक्तनुन्नाशयेद्ध्रुवम् ॥
शोथकासकफश्वासपीनसज्वरमारुतान् ।”
इति भावप्रकाशः ॥

ब्राह्मणयष्टी, स्त्री, (ब्राह्मणस्य यष्टीव ।) भार्गी ।

इति राजनिर्घण्टः ॥

ब्राह्मणहितः, त्रि, (ब्राह्मणस्य हितः ।) ब्राह्म-

णस्य हितकारी । तत्पर्य्यायः । ब्राह्मण्यः २ ।
इति जटाधरः ॥

ब्राह्मणायनः, पुं, (ब्राह्मणस्यापत्यम् । “नडादिभ्यः

फक् ।” ४ । १ । ९९ । इति फक् ।) शुद्ध-
सन्तानजो विप्रः । इति त्रिकाण्डशेषः ॥

ब्राह्मणी, स्त्री, फञ्जिका । पृक्का ।

(“स्पृक्कासृक् ब्राह्मणीदेवी मरुन्माला लता
लघुः ।
समुद्रान्ता बधूः कोटिवर्षालष्को पिकेत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
भार्गी । तत्पर्य्याया यथा, --
“पद्मा गन्धर्व्वशाका च काञ्जी चाङ्गारपर्ण्यपिं ।
भार्ग्यम्बुयष्टिका ब्राह्मो ब्राह्मणी ब्रह्मचारिणी ॥”
“हरेनुरेणुका कौन्ती ब्राह्मणी हेमगन्धिनी ॥”
इत्युभे वैद्यकरत्नमालायाम् ॥
ब्राह्मण + ङीष् ।) ब्राह्मणपत्नी । इति विश्वः ।
(यथा, मनुः । ८ । ३७६ ।
“ब्राह्मणीं यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्य्यात् क्षत्रियन्तु सहस्रिणम् ॥”)
वरटी । इति त्रिकाण्डशेषः ॥ पिपीलिकाभेदः ।
तत्पर्य्यायः । स्थूलशीर्षिका २ । इति हेमचन्द्रः ॥
ब्राह्मणीगमने दोषो यथा, --
“कुलटाविप्रपत्नीनां गमने सुरविप्रयोः ।
ब्रह्महत्याषोडशांशं पातकन्तु भवेद्ध्रुवम् ॥
तासामुपस्थितानाञ्च गमने तच्चतुर्थकम् ।
त्यागे धर्म्मो नास्ति पापमित्याह कमलोद्भवः ॥
विप्रपत्नीसतीनाञ्च गमनेन बलेन चेत् ।
ब्रह्महत्याशतं पापं भवेदेव श्रुतौ श्रुतम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४५ अध्यायः ॥
(बुद्धिः । इयं हि भगवता ब्राह्मणीत्वेन
कल्पिता अर्ज्जुनाय कथिता । यथा, महा-
भारते १४ । ३४ । ११-१२ ।
अर्ज्जुन उवाच ।
“क्व नु सा ब्राह्मणी कृष्ण ! क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ! ॥
श्रीभगवानुवाच ।
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जयः ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८४ । ५५ ।
“ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥”)

ब्राह्यण्यं, क्ली, (ब्राह्मणानां समूहः । ब्राह्मण +

“ब्राह्मणमानवबाडवाद्यत् ।” ४ । २ । ४२ ।
इति यत् ।) ब्राह्मणसमूहः । इत्यमरः । ३ ।
३ । ४१ ॥ ब्राह्मणत्वम् । इति मेदिनी । ये, ९७ ।
(यथा, मनुः । ३ । १७ ।
“शूद्रां शयनमारोप्यं ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥”)

ब्राह्मण्यः, पुं, शनिग्रहः । इति शब्दमाला ॥

ब्राह्ममुहूर्त्तः, पुं, (ब्राह्मो ब्रह्मदेवताको मुहूर्त्तः ।)

अरुणोदयकालस्य प्रथमदण्डद्बयम् । ब्राह्म-
मुहूर्त्तमाह पितामहः ।
“रात्रेश्च पश्चिमे यामे मुहूर्त्तो ब्राह्म उच्यते ।”
पश्चिमे यामे शेषार्द्धप्रहरे । शेषार्द्धप्रहरे ब्राह्मो
मुहूर्त्त इति मदनपारिजातात् । तत्रापि सूर्य्यो-
दयात् प्राक् अर्द्धप्रहरे द्बौ मुहूर्त्तो तत्राद्यो
ब्राह्मः द्वितीयो रौद्रः । इत्याह्निकतत्त्वम् ॥ * ॥
“ब्राह्मे मुहूर्त्ते चोत्तिष्ठेत् सुस्थो रक्षार्थमायुषः ।
शरीरचिन्तां निर्वर्त्य मैत्रं कर्म्म समाचरेत् ॥”
इति राजवल्लभः ॥
तत्कृत्यं प्रातःकृत्यशब्दे द्रष्टव्यम् । ब्रह्मणो
मुहूर्त्तः । स तु एकमनुस्थितिकालः ।
“दैविकानां युगानान्तु सहस्रं ब्रह्मणो दिनम् ।
मन्वन्तरं तथैवैकं तस्य भागश्चतुर्द्दशः ॥”
इति लिङ्गपुराणदर्शनात् ॥

ब्राह्माहोरात्रः, पुं, (ब्रह्मणोऽहोरात्रः ।) ब्रह्मणो

दिनयामिन्यौ । स तु दैवयुगसहस्रद्बयेन भवति ।
स च नृणां कल्पद्वयकालः । तत्र दिनमुदय-
कल्पः रात्रिश्च क्षयकल्पः । इत्यमरटीकायां
भरतः ॥
“दैविकानां युगानान्तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्व्विदुः ।
रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः ॥”
इति मानवे १ । ७३ ॥

ब्राह्मिका, स्त्री, (ब्राह्मी एव । संज्ञायां स्वार्थे वा

कन् अतैत्वञ्च ।) ब्राह्मणयष्टिका । इति
शब्दरत्नावली ॥

ब्राह्मी, स्त्री, (ब्रह्मण इयम् । ब्रह्म + अण् ।

टिलोपः । स्त्रियां ङीष् ।) दुर्गा । यथा, --
“बृहदश्वशरीरं यदप्रमेयं प्रमाणतः ।
बृहद्विस्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
शिवस्याष्टमातृकान्तर्गतमातृकाविशेषः । सा
च ब्रह्मशक्तिः । सरस्वती । शाकभेदः । तत्-
पर्य्यायः । मत्स्याक्षी २ वयस्था ३ सोम-
वल्लरी ४ । इत्यमरः । २ । ४ । १३७ ॥ चत्वारि
सोमलतायां । ब्राह्मीशाके इति केचित् । इति
तट्टीकायां भरतः ॥ (यथा, गारुडे १९९ अध्याये ।
“वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ।
ब्राह्मीरसे भावितञ्च मधुसर्पिसमन्वितम् ।
पृष्ठ ३/४६१
सप्ताहं भक्षितं कुर्य्यान्महैश्वर्य्यं मात पराम् ॥”)
ब्रह्मीशाकस्य पर्य्यायान्तरं यथा । सरस्वती ५
सौम्या ६ सुरश्रेष्ठा ७ सुवर्च्चला ८ कपोतवेगा ९
वैधात्री १० दिव्यतेजाः ११ महौषधी १२
स्वायम्भुवी १३ सौम्यलता १४ सुरेष्टा १५
ब्रह्मकन्यका १६ मण्डूकमाता १७ मण्डूकी १८
सुरसा १९ मेध्या २० वीरा २१ भारती २२
वरा २३ परमेष्ठिनी २४ दिव्या २५ शारदा २६ ।
अस्या गुणाः । हिमत्वम् । कषायत्वम् ।
तिक्तत्वम् । वातास्रपित्तनाशित्वम् । बुद्धिप्रज्ञा-
मेधाकारित्वम् । आयुर्वर्द्धकत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“ब्राह्मी कपोतवल्ली स्यात् सोमवल्ली सरस्वती ॥”
अथ ब्रह्ममाण्डूकी ।
“मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौ-
षधी ॥”
अस्या गुणाः ।
“ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च
शीतला ।
कषाया मधुरा स्वादुपाकायुष्या रसायनी ॥
स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहास्रकासजित् ।
विषशोथज्वरहरी तद्वन्मण्डूकपर्णिनी ॥”
इति भावप्रकाशः ॥ * ॥
फञ्जिका । वामनहाटी इति भाषा । पङ्क-
मडमत्स्यः । पाँकाल इति भाषा । सोमवल्लरी ।
सोमलता इति ख्याता । इति मेदिनी ॥
महाज्योतिष्मती । वडी मालकङ्गुनी इति
हिन्दी भाषा । मत्स्याक्षी । मच्छाछी इति
छछमछरिया इति च हिन्दी भाषा । वाराही-
कन्दः । हिलमोचिका । इति राजनिर्घण्टः ॥
हिंचा इति भाषा । रोहिणीनक्षत्रम् । इति
हेमचन्द्रः ॥ (ब्रह्म + अण् + ङीप् ।) ब्रह्माधि-
ष्ठातृदेवताकत्वात् तथात्वम् ॥ सूर्य्यमूर्त्तिः ।
यथा, माकण्डेये । १०९ । ७१ ।
“ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः ।
त्रिधा यस्य स्वरुपन्तु भानोर्भास्वान् प्रसीदतु ॥”
त्रि, ब्रह्मप्राप्तियोग्या । यथा, मनुः । २ । २८ ।
“स्वाध्यायेन ब्रतैर्होभै स्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”)
ब्रह्मभवा । यथा गीतायाम् । २ । ७२ ।
“एषा ब्राह्मी स्थितिः पार्थ ! नैनां पाप्य
विमुह्यति ॥”)

ब्राह्मीकन्दः, पुं, (ब्राह्म्याः कन्द इव कन्दो यस्य ।)

वाराहीकन्दः । इति राजनिर्घण्टः ॥

ब्राह्म्यं, क्ली, विस्मयः । दृश्यम् । इति धरणिः ॥

(ब्रह्मण इदम् । ब्रह्मन् + ष्यञ् ।) ब्रह्मसम्बन्धिनि
त्रि । (यथा, मार्कण्डेये । ६ । ३८ ।
“चतुर्द्दश गुणो ह्येष कालो ब्राह्म्यमहः
स्मृतम् ॥”)
निर्यकारब्राह्मशब्दार्थीऽप्यत्र ॥ (यथा, रघुः ।
१२ । ९७ ।
“ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥”)

ब्रुवन् [त्] त्रि, (ब्रवीतीति । ब्रू + शतृ ।) कथयन् ।

वक्ता । यथा, --
“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः ।
भुञ्जानो वर्द्धयेत् पापमसत्यं संसदि ब्रुवन् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

ब्रुवाणः, त्रि, (ब्रूते इति । ब्रू + शानच् ।) वक्ता ।

यथा, --
“इति ब्रुवाणो मधुरं हितञ्च
तमाञ्जिहन्मैथिलयज्ञभूमिम् ।
रामं मुनिः प्रीतिमना मखान्ते
यशांसि राज्ञां निजिघृक्षयिष्यन् ॥”
इति भट्टिः । २ । ४० ॥

ब्रू ल ञ उक्तौ । इति कविकल्पद्रुमः ॥ (अदा०-

उभ०-द्विक०-सेट् ।) ल ञ ब्रवीति । ब्रूते ।
विब्रूतिः कटके कृतेत्यत्र अरविहितकार्य्य-
स्यानित्यत्वान्न वचादेशः । इति दुर्गादासः ॥