शब्दकल्पद्रुमः/ब

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/३८७

, बकारः । स च त्रयोविंशव्यञ्जनवर्णः । (पवर्गस्य

तृतीयवर्णश्च ।) तस्योच्चारणस्थानं ओष्ठः । इति
व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् ।
“उपूपध्मानीयानामोष्ठौ ॥”) तस्य स्वरूपं
यथा, कामधेनुतन्त्रे ।
“बकारं शृणु चार्व्वङ्गि ! चतुर्वर्गप्रदायकम् ।
शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा ॥
पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा ॥”
(वङ्गीयवर्णमालायामस्य स्वरूपमाह ।)
“त्रिकोणरूपिणी रेखा विष्ण्वीशब्रह्मरूपिणी ।
मात्रा शक्तिः परा ज्ञेया ध्यानमस्य प्रचक्षते ॥”
अस्य ध्यानं यथा, --
“नीलवर्णां त्रिनयनां नीलाम्बरधरां पराम् ।
नागहारोज्ज्वलां देवीं द्विभुजां पद्मलोचनाम् ॥
एवं ध्यात्वा बकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
तत्प्रणाममन्त्रो यथा, --
“त्रिशक्तिसहितं वर्णं विविधामृतलेपितम् ।
स्वयं कुण्डलिनीं देवीं सततं प्रणमाम्यहम् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य नामानि यथा, --
“बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः ।
प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥
पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः ।
मुखबिन्दुर्ब्बली घण्टा योद्धा त्रिलोचनप्रियः ॥
क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः ।
सुरभिर्म्मुखविष्णुश्च संहारो वसुधाधिपः ॥
षष्ठापुरं चपेटा च मोदको गगनं प्रति ।
पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥”
इति नानातन्त्रशास्त्रम् ॥

बंहिष्ठः, त्रि, (अयमेषामतिशयेन बहुलः । बहुल +

“अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ । इति
इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति
बंहि-आदेशः ।) अतिशयबहुलः । इत्यमरः ॥
(यथा, महाभारते । १२ । ३२८ । ३९ ।
“योऽद्भिः संयोज्य जीमूतान् पर्य्यन्याय प्रय-
च्छति ।
उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥”)

बंहीयान्, [स्] त्रि, (अयमनयोरतिशयेन बहुलः ।

बहुल + “द्बिवचनविभज्योपपदे तरबीयसुनौ ।”
५ । ३ । ५७ । इति ईयसुन् । “प्रियस्थिर-
स्फिरोरुबहुलेति ।” ६ । ४ । १५७ । इति बंहि-
आदेशश्च ।) अतिशयवहुलः । अयमनयो-
रतिशयेन बहुः इत्यर्थे बहुशब्दादीयसुप्रत्ययेन
निष्पन्नः । इति मुग्धबोधमतम् ॥

बः, पुं, वरुणः । कुम्भः । इति शब्दरत्नावली ॥

“बः पुमान् वरुणे सिन्धौ भगे तोये गतेऽपि च ।
गन्धने तन्तुसन्ताने पुंस्येव वपने स्मृतः ॥”
इति मेदिनी । बे, १ ॥ * ॥
तस्य साङ्केतिकनामानि यथा । युगन्धरः १
सुरभिः २ मुखविष्णुः ३ संहारः ४ वसुधा-
धिपः ५ । इति बीजवर्णाभिधानम् । भूधरः ६
दशगण्डः ७ । इति रुद्रयामलोक्तबीजाभिधानम् ॥
अपि च ।
“बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः ।
प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥
पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः ।
मुखबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः ।
क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः ।
सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥
षष्ठापुरं चपेठा च मोदको गगनं प्रति ।
पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥”
इति तन्त्रान्तरम् ॥

ब(व)क, इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सक० च-सेट् ।) कौटिल्य-
मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते ।
ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते
काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥

ब(व)कः, पुं, (ब(व)ङ्कते कुटिलीभवतीति । वकि +

अच् । पृषोदरादित्वात् नलोपः ।) स्वनाम-
ख्यातपक्षिविशेषः । तत्पर्य्यायः । कह्वः २ ।
इत्यमरः । २ । ५ । २२ ॥ द्वारवलिभुक् ३
कक्षेरुः ४ शुक्लवायसः ५ दीर्घजङ्घः ६ बकोटः ७
गृहवलिप्रियः ८ । इति शब्दरत्नावली ॥ निशैतः
९ शिखी १० चन्द्रविहङ्गमः ११ । इति त्रिकाण्ड-
शेषः ॥ तीर्थसेवी १२ तापसः १३ मीन-
घाती १४ मृषाध्यायी १५ निश्चलाङ्गः १६
दाम्भिकः १७ । इति राजनिर्घण्टः ॥ अस्य
मांसस्य गुणाः ।
“शरारिबककाकाश्च दात्यूहाः पवनापहाः ॥”
इति रत्नावली ॥
अपि च ।
“हंससारसकाचाक्षवकक्रौञ्चशरारिकाः ।
नन्दीमुखीसकादम्बावलाकाद्याः प्लवाः स्मृताः ॥
प्लवन्ते सलिले यस्मात् एते तस्मात् प्लवाः स्मृताः ॥
कुलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा ।
मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥
आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः ।
श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम् ॥
तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः
स्मृताः ॥”
इति भावप्रकाशः ॥
स्वनामख्यातपुष्पवृक्षः । तत्पर्य्यायः । शिव-
वल्ली २ पाशुपतः ३ एकाष्ठीलः ४ वसुः ५ ।
इत्यमरः ॥ एकाष्ठीला ६ बुकः ७ वसुकः ८
वसूकः ९ । इति तट्टीका ॥ बकपुष्पः १०
शिवमल्ली ११ । इति शब्दरत्नावली ॥ काक-
शीर्षः १२ स्थूलपुष्पः १३ शिवप्रियः १४ काक-
नामा १५ वसहट्टः १६ स्वपूरकः १७ रक्त-
पुष्पः १८ मुनितरुः १९ अगस्तिः २० वङ्ग-
सेनकः २१ । इति रत्नमाला ॥ अगस्त्यः २२
शीघ्रपुष्पः २३ मुनिद्रुमः २४ व्रणारिः २५
दीर्घफलकः २६ वक्रपुष्पः २७ सुरप्रियः २८ ।
“सितपीतनीललोहितकुसुमभेदाच्चतुर्विधो-
ऽगस्तिः ।
मधुरशिशिरदोषश्रमकासविनाशनश्च भूतघ्नः ॥”
तथा च ।
“अगस्ति शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् ।
बलासकासवैवर्ण्यभूतघ्नञ्च बलावहम् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“अगस्तिकुसुमं शीतं चातुर्थकनिवारकम् ।
नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च ।
पीनसश्लेष्मपित्तघ्नं वातघ्न मुनिभिर्मतम् ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“वासकस्य च पुष्पा वङ्गसेनस्य चैव हि ।
कटुपाकानि तिक्तानि कासक्षयकराणि च ॥”
इति राजवल्लभः ॥
“बकः पाशुपतश्चैव शिवापीडश्च सुव्रतः ।
वसुकश्च शिवाङ्कश्च शिवेष्टः क्रमपूरकः ॥
शिवमल्लिः शिवाह्लादः शाम्भवो रविसंमितः ।
पृष्ठ ३/३८८
बकोऽतिशिशिरस्तिक्तो मधुरो मधुगन्धकः ॥
पित्तदाहकफश्वासश्रमहारी च दीपनः ॥”
इति च राजनिर्घण्टः ॥
“शिवमल्ली पाशुपत एकाष्ठीला वुको वसुः ।
वुकोऽनुष्णः कटुस्तिक्तः कफपित्तविषापहः ।
योनिशूलतृषादाहकुष्ठशोथास्रनाशनः ॥”
इत्यपि भावप्रकाशः ॥
तालव्यशकारः । यथा, --
“ -- शो वान्तो वपरो बकः ।”
इति बीजवर्णाभिधानम् ॥ * ॥
कुवेरः । रक्षोविशेषः । इति मेदिनी । के, ३० ॥ स
च भीमेन हतः । (यथा महाभारते । १ । ९५ । ७३ ।
“तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा
पाञ्चालनगरमभिगताः ॥”) अत्र कोषे पवर्गीय
बकारादौ पठितोऽयं शब्दः किन्तु अमर-
टीकायां भरतेन अन्तःस्थवकारादिवचवक-
धातुभ्यां क्रमेण घप्रत्ययेन अन्प्रत्ययेन च
साधितः ॥ * ॥ यन्त्रविशेषः । यथा, --
“जलकच्छपपातालदोलाभूधरवालुकाः ।
बकाद्या यन्त्रभेदाः स्युर्व्वज्रान्धाद्याश्च मूषिकाः ॥”
इति शब्दचन्द्रिका ॥
अस्य विवरणं यथा, वैद्यके ।
“दीर्घकण्ठकाचकूप्या गिलयेत् स्वल्पभाण्डकम् ।
तिर्य्यक् कृत्वा पचेत् चुल्यां बकयन्त्रमिति
स्मृतम् ॥”
असुरविशेषः । स च श्रीकृष्णेन हतः । यथा, --
“स्वं स्वं वत्सकुलं सर्व्वे पाययिष्यन्त एकदा ।
गत्वा जलाशयाभ्यासं पाययित्वा पपुर्जलम् ॥
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ।
तत्र सुवज्रनिर्भिन्नं गिरेः कूटमिव च्युतम् ॥
स वै बको नाम महानसुरो बकरूपधृक् ।
आगत्य तरसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥
तँतालुमूलं प्रदहन्तमग्निवद्
गोपालसूनुं पितरं जगद्गुरोः ।
चच्छर्द्द सद्योऽतिरुषाक्षतं बक-
स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥
तमापतन्तं स निगृह्य तुण्डयो-
र्दीर्भ्यां बकं कंससखं सतां गतिः ।
पश्यत्सु बालेषु ददार लीलया
मुदावहो वीरणवद्दिवौकसाम् ॥”
इति श्रीभागवते १० स्कन्धे ११ अध्यायः ॥

ब(व)कचिञ्चिका, स्त्री, मत्स्यविशेषः । तत्पर्य्यायः ।

बकाची २ । इति हारावली । १८८ ॥

ब(व)कजित्, पुं, (बकं जितवान् इति । जि + क्विप् ।)

भीमसेनः । इति त्रिकाण्डशेषः ॥ श्रीकृष्णश्च ॥

ब(व)कधूपः, पुं, (बक इव शुभ्रवर्णो धूपः ।) वृक-

धूपः । इत्यमरटीका ॥

ब(व)कनिसूदनः, पुं, (निसूदयति हन्तीति । सूदि +

ल्युः । बकस्य निसूदनो घातकः ।) भीमसेनः ।
इति हेमचन्द्रः । ३ । ३७२ ॥ श्रीकृष्णश्च ॥

ब(व)कपञ्चकं, क्ली, (बकोपलक्षिताः पञ्च तिथयो

यत्र कप् । बकोऽपि तत्र नाश्नीयादिति वचना-
देव तथात्वम् ।) कार्त्तिकशुक्लैकादश्यादिपञ्च-
तिथ्यात्मकम् । यथा, --
“तत्रैकादश्यादितिथिपञ्चके बकपञ्चकम् ।
बकोऽपि तत्र नाश्नीयान्मत्स्यञ्चैव कदाचन ॥
इति वचनात् ।” इति कृत्यतत्वम् ॥
“किञ्च । कार्त्तिकमधिकृत्य ब्रह्मपुराणम् ।
‘एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु ।
दिने दिने च स्नातव्यं शीतलासु नदीषु च ।
वर्ज्जितव्या तथा हिंसा मांसभक्षणमेव च ॥’
ततश्च मांसभक्षणनिषेधे कार्त्तिकमासतच्छुक्ल-
पक्षतदेकादश्यादिपञ्चदिनानि शक्ताशक्तभेदात्
पापतारतम्याद्वा निषिद्धानि ।” इति तिथ्यादि-
तत्त्वम् । अपि च ।
“एकादशीं समारभ्य यावत् पञ्चदशी भवेत् ।
बकोऽपि तत्र नाश्नीयान्मीनं मांसञ्च किं नरः ॥”
इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥

ब(व)कपुष्पः, पुं, (बक इव वक्रं पुष्पं यस्य ।) बक-

वृक्षः । इति शब्दरत्नावली ॥ (वकस्य पुष्पम् ।)
अगस्तिकुसुमे, क्ली ॥

ब(व)कवृत्तिः, पुं, (बकस्येव स्वार्थसाधिका वृत्ति-

र्यस्य ।) बकतुल्यवर्त्तनविशिष्टः । यथा, --
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्
शठान् ।
हैतुकान् बकवृर्त्तीश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”
इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥
तस्य लक्षणं यथा, --
“अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥”
इति तट्टीकायां श्रीधरस्वामी ॥
अपि च ।
“अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठः शिल्पी विनीतश्च बकवृत्तिरुदाहृतः ॥”
इति पाद्मोत्तरखण्डे ११५ अध्यायः ॥

ब(व)कवैरी, [न्] पुं, (बकस्य वैरी घातकत्वात् ।)

भीमसेनः । इति जटाधरः ॥ श्रीकृष्णश्च ॥

ब(व)कव्रती, [न्] पुं, (बकव्रतमस्यास्तीति इनिः ।)

मिथ्याविनीतः । बकवृत्तिः । इति जटाधरः ॥
तस्य लक्षणं यथा, --
“अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च बकव्रतधरो द्विजः ॥”
इति दानसागरे मनुः ॥

ब(व)काची, स्त्री, बकचिञ्चिकामत्स्यः । इति

हारावली । १८८ ॥

ब(व)कारिः, पुं, (बकस्य अरिः ।) श्रीकृष्णः । यथा,

“तदा बकारिं सुरलोकवासिनः
समाकिरन्नन्दनमल्लिकादिभिः ।
समीडिरे चानकशङ्खसंस्तवै-
स्तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥”
इति श्रीभागवते । १० । ११ । ५२ ॥
(भीमसेनश्च । बकराक्षसघातकत्वात् ॥)

ब(व)कुलः, पुं, (ब(व)ङ्कते इति । ब(व)कि कौटिल्ये

+ “मद्गुरादयश्च ।” उणा० १ । ४२ ।
इति उरच् प्रत्ययरेफस्य लत्वं बङ्केर्नलोप-
श्चेत्युज्ज्वलदत्तः ।) स्वनामख्यातपुष्पवृक्षः । तत्-
पर्य्यायः । केसरः २ । इत्यमरः । २ । ४ । ६४ ॥
केशरः ३ । इति भरतः ॥ बकूलः ४ सिंह-
केसरः ५ वरलब्धः ६ सीधुगन्धः ७ मुकूलः ८
मुकुलः ९ । इति शब्दरत्नावली ॥ स्त्रीमुख-
मधु १० दोहलः ११ मधुपुष्पः १२ सुरभिः १३
भ्रमरानन्दः १४ स्थिरकुसुमः १५ शारदिकः १६
करकः १७ सीसंज्ञः १८ विशारदः १९ गूढ-
पुष्यकः २० धन्वी २१ मदनः २२ मद्यामोदः
२३ चिरपुष्पः २४ ॥ (यथा, महाभारते । १ ।
६३ । ४२ ।
“पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥”)
अस्य गुणाः । शीतलत्वम् । हृद्यत्वम् । विष-
दोषनाशित्वम् । मधुरत्वम् । कषायत्वम् ।
मदाढ्यत्वम् । हर्षदायकत्वञ्च ॥ तत्कुसुमगुणाः ।
रुच्यत्वम् । क्षीराढ्यत्वम् । सुरभित्वम् । शीत-
लत्वम् । मधुरत्वम् । स्निग्धत्वम् । कषायत्बम् ।
मलसंग्रहकारकत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“बकुलो मधुगन्धश्च सिंहकेसरकस्तथा ।
बकुलस्तु वरोऽनुष्णः कटुः पाके रसे गुरुः ॥
कफपित्तविषश्वित्रकृमिदन्तगदापहः ॥”
इति भावप्रकाशः ॥
तत्फलगुणाः ।
“बकुलं मधुरं ग्राहि दन्तस्थैर्य्यकरं परम् ॥”
तत्पुष्पगुणाः ।
“पद्मं कषायं मधुरं शीतं पित्तकफास्रनुत् ।
तद्बत् बकुलपुन्नागकह्लारोत्पलपाटलम् ॥”
इति राजवल्लभः ॥
अस्योत्पत्तिर्यथा, --
“विचरन्तं तदा भूयो महेशं कुसुमायुधः ।
आरात् स्थित्याग्रतो धन्वी सन्तापयितुमुद्यतः ॥
ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः ।
स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥
आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि ।
प्रादह्यत तदा ब्रह्मन् ! पादादारभ्य कक्ष्यवत् ॥
प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः ।
उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥
यदासीन्मुष्टिबन्धन्तद्रुक्मपृष्ठं महाप्रभम् ।
स चम्पकतरुर्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥
नाहस्थानं शुभाकारं यदासीद्बज्रभूषितम् ।
तज्जातं केशवारण्यं बकुलं नामतो नगैः ॥
या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता ।
जाता सा पाटला रम्या भृङ्गराजिविराजिता ॥
नाहोपरि तथा मुष्टौ स्थानं चन्द्रमणिप्रभम् ।
पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥
ऊर्द्ध्वं मुष्ठ्या अधः कोट्याः स्थानं विद्रुमभूषितम् ।
तस्मात् बहुपुटा मल्ली संजाता विविधा मुने ! ॥”
इति श्रीवामनपुराणे ६ अध्यायः ॥
पृष्ठ ३/३८९
(शिवः । यथा, महाभारते तस्य सहस्रनाम-
कीर्त्तने । १३ । १७ । १०९ ।
“बणिको वर्द्धकी वृक्षो बकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥”)

ब(व)कुला, स्त्री, (बकुल + टाप् ।) कटुका । इति

राजनिर्घण्टः ॥

ब(व)कुली, स्त्री, (बकुल + गौरादित्वात् ङीष् ।)

काकोली । इति शब्दचन्द्रिका ॥

ब(व)कूलः, पुं, (बकुल । पृषोदरादित्वात् दीर्घः ।)

बकुलवृक्षः । इति शब्दरत्नावली ॥

ब(व)केरुका, स्त्री, (बकानां बकसमूहानां ईरुकं

गतिर्यत्र ।) बलाका । वातावर्ज्जितशाखा । इति
मेदिनी । के, २०२ ॥

बकोटः, पुं, बकः । इति त्रिकाण्डशेषः ॥

बठ, पैन्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) पैन्यमिह सामर्थ्यम् । वठति
वीरो योद्धुं समर्थः स्यादित्यर्थः । इति
दुर्गादासः ॥

ब(व)डवा, स्त्री, (बलं वातीति । बल + वा + कः ।

टाप् । डलयोरैक्यात् लस्य डत्वम् ।) घोटकी ।
इत्यमरः । २ । ८ । ४३ ॥ (यथा, महाभारते ।
१ । २२२ । ४५ ।
“वडवानान्तु शुद्धानां चन्द्रांशुसमवर्च्चसाम् ।
ददौ जनार्द्दनः प्रीत्या सहस्रं हेमभूषितम् ॥”
अस्या दुग्धगुणा यथा, --
“रूक्षोष्णं बडवाक्षीरं बल्यं शोषानिलापहम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
बडवारूपधारिणी सूर्य्यपत्नी संज्ञा । यथा,
मार्कण्डेयपुराणे । ७७ । २३ ।
“सूर्य्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।
तपश्चचार तत्रापि बडवारूपधारिणी ॥”
अस्या विशेषविवरणन्तु तत्रैव विशेषतो द्रष्टव्यम् ॥
तृतीया सूर्य्यपत्नी । इति केचित् । यथा, भाग-
वते । ८ । १३ । ८ -- ९ ।
“विवस्वतश्च द्वे जाये विश्वकर्म्मसुते उभे ।
संज्ञा छाया च राजेन्द्र ! ये प्रागभिहिते तव ॥
तृतीयां बडवामेके तासां संज्ञासुतास्त्रयः ।
यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृणु ॥”)
अश्विनीनक्षत्रम् । इति ज्योतिषम् ॥ (नारी-
विशेषः । इति हेमचन्द्रः ॥ दासी । यथाह नारदः ।
“भक्तदासञ्च विज्ञेयस्तथैव बडवाकृतः ॥”
वासुदेवस्य स्वनामख्याता परिचारिका । इति
हरिवंशः । ३५ । ३ ॥) बाडवाग्निः । अस्योत्-
पत्तिर्यथा, --
“अथाकाशगता देवाः क्रुद्धं दृष्ट्वा महेश्वरम् ।
प्रसीद जगतां नाथ ! कामे क्रोधं परित्यज ॥
इति स्म वदतां तेषाममराणां तदानलः ।
ललाटचक्षुःसम्भूतो भस्माकार्षीन्मनोभवम् ॥
ब्रह्मा क्रोधानलं शम्भोर्धक्षन्तं सकलान् जनान् ।
बडवारूपिणं चक्रे देवानां पुरतस्तदा ॥
बडवां तां तदा देवाः सौम्वां ज्वालामुखीं
शुभाम् ।
दृष्ट्वा निर्विघ्नमनसो बभूवुः पूर्ब्बपीडिताः ॥
बडवां तां समादाय तदा ज्वालामुखीं विधिः ।
सागरं प्रययौ लोकहिताय जगतां प्रभुः ॥
गत्वाथ सागरं ब्रह्मा प्रोवाच परिपूजितः ।
यथावत्तेन विप्रेन्द्राः समयञ्च निदेशयन् ॥
अयं क्रोधो महेशस्य बडवारूपधृक् त्वया ।
ज्वालामुखः सदा धार्य्यो यावन्न विलयाम्यहम् ॥
यदा त्वामहमागम्य वदामि सरितांपते ! ।
तदा त्वया परित्याज्यः क्रोधोऽयं बडवामुखः ॥
भोजनं भवतस्तोयमेतस्य तु भविष्यति ।
यत्नादेव विधार्य्योऽयं यथा नो याति चान्तरम् ॥
इत्युक्तो ब्रह्मणा सिन्धुरङ्गीचक्रे तदा क्रुधम् ।
ग्रहीतुं बडवावक्त्रं शम्भोश्चाशक्यमप्यरम् ॥
ततः प्रविष्टो जलधौ पावको बडवामुखः ।
वार्य्योघविद्धहंसस्य ज्वालामालातिदीपितः ॥”
इति कालिकापुराणे ४१ अध्यायः ॥
(नदीविशेषः । यथा, महाभारते । ३ । २२१ । २४ ।
“तमसा नर्म्मदा चैव नदी गोदावरी तथा ।
वेण्णोपवेण्णा भीमा च बडवा चैव भारत ! ॥”
तीर्थभेदः । यथा, महाभारते । ३ । ८२ । ८८ ।
“ततो गच्छेत बडवां त्रिषु लोकेषु विश्रुताम् ।
पश्चिमायान्तु सन्ध्यायां उपस्पृश्य यथाविधि ॥”)

ब(व)डवाकृतः पुं, (बडवया दास्या कृतः ।)

पञ्चदशदासान्तर्गतदासविशेषः । यथा, --
“भक्तदासश्च विज्ञेयस्तथैव बडवाकृतः ॥”
इति नारदः ॥
बडवा दासी तल्लोभादङ्गीकृतदास्यः । इति
दायक्रमसंग्रहः ॥ कुत्रचित् बडवाभृतो बडवा-
हृतोऽपि पाठः ॥

ब(व)डवाग्निः, पुं, (बडवायाः समुद्रस्थितायाः

घोटक्या मुखस्थोऽग्निः ।) समुद्रस्थाग्निः । (अस्य
विवरणन्तु बडवानलशब्दे द्रष्टव्यम् ॥)

ब(व)डवानलः, पुं, (बडवाया अनलः ।) बडवाग्निः ।

तत्पर्य्यायः । सलिलेन्धनः २ बडवामुखः ३ काक-
ध्वजः ४ बाणिजः ५ स्कन्दाग्निः ६ तृणधुक् ७
काष्ठधुक् ८ । इति त्रिकाण्डशेषः ॥ और्व्वः
९ बाडवः १० । इत्यमरः । १ । १ । ५९ ॥ उर्व्वस्य
ऋषेरपत्यम् और्व्वः ष्णः । बडवायां विद्यमानो
बाडवः ष्णः । बडवाया अनलो बडवानलः ।
आधाराधेयभावसम्बन्धः । पुरा किल उर्व्वेण
मुनिना अयोनिजं पुत्त्रमिच्छता वक्षो मथितं
तत्र ज्वालामयः पुरुषो जातः स च समुद्रे
बडवामुखे अवस्थापितः । इति पौराणिकाः ॥
इति तट्टीकायां भरतः ॥ * ॥ तस्य विवरणं
यथा, --
“और्व्वस्तु तपसाविष्टो निवेश्योरुं हुताशने ।
ममन्थैकेन दर्भेण सुतस्य व्रतधारिणम् ॥
तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्दनः ।
जगतो दहनाकाङ्क्षी पुत्त्रोऽग्निः समपद्यत ॥
और्व्वस्योरुं विनिर्भिद्य और्व्वो नामान्तको-
ऽनलः ।
दिधक्षन्निव लोकांस्त्रीन् जज्ञे परमकोपनः ॥
उत्पन्नमात्रश्चोवाच पितरन्दीनया गिरा ।
क्षुधा मे वाधते तात ! जगद्भक्षे त्यजस्व माम् ॥
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
निर्दहन् सर्व्वभूतानि ववृधे सोऽन्तकोऽनलः ॥
एतस्मिन्नन्तरे ब्रह्मा मुनिमौर्व्वं समागतः ।
उवाच वार्य्यतां पुत्त्रो जगतस्त्वं दयां कुरु ॥
अस्यापत्यस्य ते विप्र ! करिष्ये स्थानमुत्तमम् ।
तथ्यमेतन्मंम वचः शृणु त्वं वदतांवर ! ॥
और्व्व उषाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवान्
शिशोः ।
मतिमेतान्ददातीह परमानुग्रहाय वै ॥
प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे ।
भगवंस्तर्पितः पुत्त्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥
कुत्र वास्य निवासः स्याद्भोजनन्तु किमात्मकम् ।
विधास्यतीह भगवान् वीर्य्यतुल्यं महौजसः ॥
ब्रह्मोवाच ।
बडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति ।
मम योनिर्जलं विप्र ! तत्र मे तोयदं मुखम् ॥
अत्राहमासे नियतं पिबन् वारिमयं हविः ।
तद्धविस्तव पुत्त्रस्य विसृजन्नानयंश्च तम् ॥
ततो युगान्ते भूतानां मेघवाहञ्च पुत्त्रक ! ।
सहितौ विचरिष्यावो निष्पुराणकराविह ॥
एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।
दहनः सर्व्वभूतानां सदेवासुररक्षसाम् ॥
एवमस्त्विति तं सोऽग्निः संवृतज्वालमण्डलः ।
प्रविवेशार्णवमुखं विप्रनष्टान्तरप्रभम् ॥”
इति मात्स्ये १५० अध्यायः ॥
(मदनदहनाय हरनेत्रसमुद्भूतोऽग्निरपि बडवा-
नलः । अस्य प्रमाणादिकं बडवाशब्दे द्रष्टव्यम् ॥)
लङ्काया दक्षिणे पृथिव्याश्चतुर्थभागरूपस्थान-
विशेषः । इति सिद्धान्तशिरोमणिः ॥ (वटि-
कौषधविशेषः । यथा, --
“शुद्धताम्रस्य भागैकं मरिचस्य तथैव च ।
विषं तत्तु ल्यकं दद्यात् तत्सर्व्वं श्लक्ष्णचूर्णितम् ॥
लाङ्गलीरससंयुक्तं तत्सर्व्वं पुटके पचेत् ।
रक्तिकाद्वितयं वापि त्रितयं वा प्रकल्पते ॥
दोषे व्योषसमायुक्तस्त्रिदोषशमनो भवेत् ।
भक्षयेत् पवने चोग्रे बडवानलसंज्ञितम् ॥
इति बडवानलो रसः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)

ब(व)डवामुखः, पुं, (बडवाया घोटक्या मुखमाश्रय-

त्वेनास्त्यस्य । अर्श आदित्वात् अच् ।) बडवा-
नलः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे ।
९७ । २२ ।
“सा यथैवार्णवगता तथैव बडवामुखे ॥”
महादेवस्य मुखमित्येके । यथा, महाभारते ।
७ । २०० । १११ ।
“तस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ।
बडवामुखेति विख्यातं पिबत्तोयमयं हविः ॥”
महादेवस्य नामभेदः । यथा, महाभारते ।
१३ । १७ । ५५ ।
पृष्ठ ३/३९०
“विष्णुः प्रसादितो यज्ञः समुद्रो बडवामुखः ॥”
कूर्म्मस्य दक्षिणकुक्षिस्थजनपदविशेषः । यथा,
मार्कण्डेये । ५८ । ३० ।
“कूर्म्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम् ।
काम्बोजाः पह्नवाश्चैव तथैव बडवामुखाः ॥”)
वटिकौषधविशेषः । यथा, --
“शुद्धसूतं समं गन्धं मृतताम्राभ्रटङ्गणम् ।
सामुद्रञ्च यवक्षारं स्वर्ज्जिसैन्धवनागरम् ॥
अपामार्गस्य च क्षारं पलाशवरुणस्य च ।
प्रत्येकं सूततुल्यं स्यादम्लयोगेन मर्द्दयेत् ॥
हस्तिशुण्डीद्रवैश्चाग्नौ मर्द्दयित्वा पुटेल्लघु ॥
माषमात्रः प्रदातव्यो रसोऽयं बडवामुखः ।
ग्रहणीं विविधां हन्ति संग्रहग्रहणीं ज्वरम् ॥
इति बडवामुखो रसः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे ग्रहण्यधिकारे ॥)

ब(व)डवासुतौ, पुं, (बडवाया घोटकीरूपायाः त्वष्टृ-

सुतायाः संज्ञायाः सुतौ ।) अश्विनीकुमारौ ।
यथा, हेमचन्द्रः ।
“स्वर्वैद्यावश्विनीपुत्त्रावश्विनौ बडवासुतौ ॥”
(तयोरुत्पत्तिकथा यथा, हरिवंशे । ९ । ४९ -- ५३ ।
“गच्छ देव ! निजां भार्य्यां कुरूंश्चरति सोत्त-
रान् ।
बडवारूपमास्थाय वने चरति शाद्वले ॥
स तथा रूपमस्थाय स्वभार्य्यारूपलीलया ।
ददर्श योगमास्थाय स्वां भार्य्यां बडवां ततः ॥
अधृष्यां सर्व्वभूतानां तपसा नियमेन च ।
बडवावपुषा राजंश्चरन्तीमकुतोभयाम् ॥
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥
मैथुनाय विचेष्टन्ती परपूरुषशङ्कया ।
सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः ॥
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥”)

ब(व)डवाहृतः, पुं, (बडवया दास्या हृतः ।) बडवा-

कृतः । पञ्चदशदासान्तर्गतदासविशेषः । यथा,
बडवागृहदासी तया हृतस्तल्लोभेन तामुद्वाह्य
दासत्वेन प्रविष्टः । इति मिताक्षरा ॥

बडिशं, क्ली, (बलिनो मत्स्यान् श्यति नाशय-

तीति । शो + कः । लस्य डत्वम् ।) मत्स्यधर-
णार्थं वक्रलौहकण्टकविशेषः । वँड्शी इति
भाषा । तत्पर्य्यायः । मत्स्यवेधनम् २ । इत्यमरः ।
१ । १० । १६ ॥ बलिशम् ३ बडिशी ४ बडिशा ५ ।
इति भरतः ॥ बलिशी ६ मत्स्यवेधनी ७ । इति
तट्टिकान्तरम् ॥ बलिसी ८ बलिसम् ९ वरिशी
१० बलिशिः ११ । इति शब्दरत्नावली ॥ मत्स्य-
भेदनम् १२ । इति जटाधरः ॥ (यथा, महा-
भारते । १ । २८ । १० ।
“यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा ।
दहेदङ्गारवत् पुत्त्र ! तं विद्यात् ब्राह्मणर्षभम् ॥”)

बडिशी, स्त्री, (बडिश + गौरादित्वात् ङीष् ।)

बडिशम् । इति शब्दरत्नावली ॥

बण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-

अक०-सेट् ।) बणति । इति दुर्गादासः ॥

बणः, पुं, (बणनमिति । बण् + अप् ।) शब्दः ।

इत्यमरटीकायां रमानाथः ॥

ब(व)णिक्, [ज्] पुं, (पणते क्रयविक्रयादिना व्यव-

हरतीति । पण + “पणेरादेश्च बः ।” उणा०
२ । ७० । इति इजिः पस्य च बः ।) क्रय-
विक्रयकर्त्ता । बाणिज्यकारकः । तत्पर्य्यायः ।
वैदेहकः २ सार्थवाहः ३ नैगमः ४ बणिजः ५
पण्याजीवः ६ आपणिकः ७ क्रयविक्रयिकः
८ । इत्यमरः । २ । ९ । ७८ ॥ वैदेहः ९ विदेहः
१० बाणिजः ११ बाणिजिकः १२ क्रायिकः
१३ विक्रयिकः १४ । इति भरतादयः ॥ बाणि-
जकः १५ बाणिज्यकारः १६ । इति शब्द-
रत्नावली ॥ (यथा, माघे । १२ । २६ ।
“स्थाणौ निषङ्गिण्यनसि क्षणम्पुरः
शुशोच लाभाय कृतक्रयो बणिक् ॥”)
करणान्तरम् । इति मेदिनी । जे, २६ ॥ वैश्यः ।
इति राजनिर्घण्टः ॥ (बाणिज्ये अधिकारा-
देवास्य तथात्वम् ॥ करणविशेषः । यथा, बृहत्-
संहितायाम् । ९९ । ७ ।
“कृषिबीजगृहाश्रयजानि गरे
बणिजिध्रुवकार्य्यबणिग्युतयः ॥”)

ब(व)णिक्, [ज्] स्त्री, (पण्यते व्यवह्रीयते इति ।

पण + इजि । पस्य बः । अभिधानात् स्त्रीत्वम् ।)
बाणिज्यम् । इति मेदिनी । गे, २६ ॥

ब(व)णिग्बन्धुः, पुं, (बणिजः पण्याजीवस्य बन्धुर्धन-

दत्वात् ।) नीलीवृक्षः । इति शब्दचन्द्रिका ॥

बणिग्भावः, पुं, (बणिजो भावः ।) बाणिज्यम् ।

बणिजां धर्म्मः । तत्पर्य्यायः । सत्यानृतम् २ ।
इत्यमरः ॥ बाणिज्यम् ३ बाणिज्या ४ बणिक्
पथः ५ । इति जटाधरः ॥ बणिज्यम् ६ ।
इति शब्दरत्नावली ॥

ब(व)णिग्वहः, पुं, (वहतीति । वह + अच् । वहः ।

बणिजां बाणिज्यद्रव्याणां षहः ।) उष्ट्रः । इति
शब्दचन्द्रिका ॥

ब(व)णिजः, पुं, (वणिगेव । बणिज् + स्वार्थे अण् ।

अभिधानात् न वृद्धिः ।) बणिक् । इत्यमरः ।
२ । ९ । ७८ ॥ ववाद्येकादशकरणान्तर्गतषष्ठ-
करणम् । तज्जातफलं यथा, कोष्ठीप्रदीपे ।
“प्राज्ञः कृतज्ञो गुणवान् गुणज्ञो
बणिग्जनप्राप्तमनोरथः स्यात् ।
यस्य प्रसूतौ बणिजाभिधानं
भाण्डप्रधानं द्रविणं हि तस्य ॥”

ब(व)णिज्यं, क्ली, (बणिजो भावः कर्म्म वा । बणिज्

+ “दूतबणिग्भ्यां च ।” ५ । १ । १२६ । इत्यत्र
काशिकोक्तेर्यः ।) बाणिज्यम् । इत्यमरभरतौ ॥
(यथा, मार्कण्डेये । ५० । ७६ ।
“त्रिभिः पूर्ब्बगुणैर्युक्तं पाशुपाल्यबणिज्ययोः ॥”)

बणिज्या, स्त्री, (बणिजां कर्म्म । बणिज् + य ।

टाप् । स्वभावात् स्त्रीलिङ्गोऽयम् ।) बाणिज्यम् ।
(यथा, कथासरित्सागरे । १३ । ३८ ।
“ततः स तत्पिता तेन तनयेन समं ययौ ।
द्वीपान्तरं स्नुषाहेतोर्बणिज्याव्यपदेशतः ॥”)

बद, स्थैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) बदति पर्व्वतः । आबादीत्
अबदीत् । हसादेः सेम इत्यादिना वा दीर्घः ।
व्रजवदेत्यादौ दन्त्यादिवदेरग्रहणादिति प्राञ्चः ।
इति दुर्गादासः ॥

ब(व)दरं, क्ली, (बदति स्थिरीभवति छिन्नेऽपि पुनः

प्ररोहतीति । बद + अर ।) सेविफलम् । इति
राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, --
“मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कार्पासफलम् । कोलिफलम् । इति हेमचन्द्रः ॥
शृगालकोलिः । शेयाकुल इति भाषा । बदति
स्थिरीभवति छिन्नस्यापि पुनःप्ररोहणात् । बदरं
वृक्षफलेऽपि क्लीवम् । इति भरतः ॥ तत्-
पर्य्यायः । घोण्टा २ । इत्यमरः ॥ गोपघोण्टा
३ । इति सुभूतिः ॥ हस्तिकोलिः ४ गोपघण्टी
५ बदरीच्छदा ६ शृगालकोलिः ७ कर्कन्धुः
८ । इति रत्नकोषः ॥ बादिरम् ९ । इति
शब्दरत्नावली ॥ अस्य विवरणं कोलशब्दे द्रष्ट-
व्यम् ॥ * ॥ बृहत्कोलिः । तत्पर्य्यायः । सौवीरम्
२ । इति रत्नमाला ॥ * ॥ कोलिमात्रम् । तत्प-
र्य्यायः । कर्कन्धुः २ वदरी ३ कोलम् ४ फेनिलम्
५ कुवलम् ६ घोण्टा ७ सौवीरम् ८ अजाप्रिया
९ कुहा १० कोलिः ११ विषमः १२ भयकण्टकः
१३ । इति भावप्रकाशः ॥ सौवीरकः १४ गुड-
फलः १५ बालेष्टः १६ फलशैशिरः १७ दृढ-
बीजः १८ वृत्तफलः १९ कण्टकी २० वक्र-
कष्टकः २१ सुरसः २२ सुफलः २३ स्वच्छः
२४ कर्कन्धूः २५ बदरः २६ कोला २७ कोली
२८ कुवली २९ स्वादुफला ३० गृध्रनखी ३१
पिच्छिला ३२ कुवलः ३३ । इति च शब्दरत्ना-
वली ॥ (यथा, भागवते । ४ । ८ । ७२ ।
“त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशबः ।
आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥”)
अस्य गुणाः । मधुरत्वम् । कषायत्वम् । अम्ल-
त्वञ्च ॥ परिपक्वस्य तस्य गुणाः । मधुराम्लत्वम् ।
उष्णत्वम् । कफकारित्वम् । पवनातिसाररक्त-
श्रमदोषार्त्तिविनाशित्वम् । रुच्यत्वञ्च । इति राज-
निर्घण्टः ॥ राजबदरभूबदरलघुबदराणां पर्य्याय-
गुणास्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥ अथ बदरविशे-
षाणां लक्षणानि गुणाश्च ।
“पच्यमानं सुमधुरं सौवीरं बदरं महत् ।
सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम् ॥
बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् । * ।
सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते ॥
कोलन्तु बदरं दाहि रुच्यमुष्णञ्च वातहृत् ।
कफपित्तकरञ्चापि गुरु सारकमीरितम् ॥ * ॥
कर्कन्धुः क्षुद्रबदरं कथितं पूर्ब्बसूरिभिः ।
अम्लं स्यात् क्षुद्रबदरं कषायं मधुरं मनाक् ॥
स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् ।
शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित् ॥”
इति भावप्रकाशः ॥
पृष्ठ ३/३९१

ब(व)दरः, पुं, (बदति स्थिरीभवति छिन्नेऽपि पुनः

प्ररोहतीति । बद् + अर ।) कोलिवृक्षः ।
तत्पत्रादिगुणाः ।
“बदरस्य पत्रलेपो ज्वरदाहविनाशनः ।
त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥”
इति राजनिर्घण्टः ॥
अस्य पर्य्यायः फलगुणाश्च क्लीवलिङ्गबदरशब्दे
द्रष्टव्याः ॥ * ॥ देवसर्षपवृक्षः । इति राज-
निर्घण्टः ॥ कार्पासास्थि । इति मेदिनी ॥ कापा
सेर विचि इति भाषा ॥ तत्र अन्तःस्थवका-
रादिशब्दमध्ये गृहीतोऽयम् ॥

ब(व)दरफली, स्त्री, (बदरस्येव फलमस्याः । बदर-

फल + ङीप् ।) भूबदरी । इति राजनिर्घण्टः ॥

ब(व)दरवल्ली, स्त्री, (बदरा बदरफलबहुला वल्ली

लता ।) भूबदरी । इति राजनिर्घण्टः ॥

बदरा, स्त्री (बदति छिन्नायामपि पुनः प्ररोह-

णात् स्थिरीभवति या । बद् + बाहुलकादरः ।
टाप् ।) वराहक्रान्तावृक्षः । (तत्पर्य्यायो यथा,
“वाराहीकन्द एवान्यैश्चर्म्मकारालुको मतः ।
अनूपसम्भवे देशे वाराह इव लोमवान् ।
विदारी स्वादुकन्दा च सा तु क्रोष्ट्री सिता स्मृता ॥
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी ।
वाराहवदना गृष्टिर्बदरेत्यपि कथ्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कार्पासीवृक्षः । इत्यमरः । २ । ४ । ११६ ॥
एलापर्णी । इति मेदिनी । रे, २०७ ॥ विष्णु-
क्रान्ता । इति विश्वः ॥

बदरामलकं, क्ली, (बदरफलमिवामलकम् ।)

प्राचीनामलकम् । इति हारावली । १०२ ॥

बदरिः, स्त्री, (बद + बाहुलकादरिः ।) कोलि-

वृक्षः । इति शब्दचन्द्रिका ॥

बदरिकाश्रमः, पुं, क्ली, (बदरिकाचिह्नित आश्रमः ।)

तीर्थविशेषः । (असौ च हिमालयपर्व्वतैकदेशे
श्रीनगरसमीपे अलकनन्दानद्याः पश्चिमस्थतीरे
अवस्थितः ।) स तु नारायणस्य व्यासस्य
चाश्रमः । यथा, महाभारते । ३ धौम्यतीर्थ-
यात्रापर्व्वणि ९० । २३ -- ३३ ।
“नारायणो विभुर्विष्णुः शाश्वतः पुरुषोत्तमः ।
तस्यातियशसः पुण्यां विशालां वदरीमनु ॥
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ।
उष्णतोयवहा गङ्गा शीततोयवहा पुरा ॥
सुवर्णसिकता राजन् ! विशालां वदरीमनु ।
ऋषयो यत्र देवाश्च महाभागा महौजसः ॥
प्ताप्य नित्यं नमस्यन्ति नारायणमजं विभुम् ।
यत्र नारायणो देवः परमात्मा सनातनः ॥
तत्र कृत्स्नं जगत् पार्य ! तीर्थान्यायतनानि च ।
तत् पुण्यं तत् परं ब्रह्म तत्तीर्थं तत्तपोवनम् ॥
तत् परं परमं दैवं भूतानां परमीश्वरम् ।
शाश्वतं परमञ्चैव धातारं परमं पदम् ॥
यं विदित्वा न शोचन्ति विद्वांसः शास्त्रदृष्टयः ।
तत्र देवषंयः सिद्धाः सर्व्वे चैव तपोधनाः ॥
आदिदेवो महायोगी यत्रास्ते मधुसूदनः ।
पुण्यानामपि तत् पुण्यं तत्र ते संशयोऽस्तु मा ॥
एतानि राजन् ! पुण्यानि पृथिव्यां पृथिवीपते ! ।
कीर्त्तितानि नरश्रेष्ठ ! तीर्थान्यायतनानि च ॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।
ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ॥
चरन्नेतानि कौन्तेय ! सहितैर्ब्रह्मवादिभिः ।
भ्रातृभिश्च महाभागैरुत्कण्ठां विहरिष्यसि ॥”
(तथा च भागवते । ७ । ११ । ६ ।
“योऽवतीर्य्यात्मनोऽंशेन दाक्षायण्यान्तु धर्म्मतः ।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥”)

बदरी, स्त्री, (बदर + गौरादित्वात् ङीष् । बदरि

+ कृदिकारादिति पक्षे ङीष् वा ।) कोलि-
वृक्षः । इत्यमरः । २ । ४ । ३६ ॥ (अस्याः पर्य्यायो
बदरशब्दे द्रष्टव्यः । यथा, भागवते । १ ।
७ । ३ ।
“तस्मिन् स आश्रमे व्यासो बदरीखण्डमण्डिते ॥”)
कार्पासी । इति शब्दरत्नावली ॥ कपिकच्छुः ।
इति राजनिर्घण्टः ॥ (बदर्य्याः फलम् हरी-
तक्यादिभ्यश्चेति विकारार्थस्य लुक् । बदरी-
फलम् ॥)

बदरीच्छदा, स्त्री, (बदर्य्याश्छदा इव च्छदा

यस्याः ।) हस्तिकोलिवृक्षः । शङ्खनखी । इति
रत्नमाला ॥

बदरीपत्रः, पुं, (बदर्य्याः पत्रमिव आकृतिर्यस्य ।)

नखीनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥
(यथा, --
“बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ।
स्वरोपघाते कासे च लेहमेतत् प्रयोजयेत् ॥”
इति वैद्यकचक्रपाणिसंग्रहे स्वरभेदाधिकारे ॥)

बदरीपत्रकं, क्ली, (बदरीपत्र + स्वार्थे कन् ।)

नखीनामगन्धद्रव्यम् । इति जटाधरः ॥

बदरीफला, स्त्री, (बदर्य्याः फलमिव फलं यस्याः ।)

नीलशेफालिका । इति शब्दमाला ॥

बदरीशैलः पुं, (बदरीबहुलः शैलः पर्व्वतः ।)

हिमालयपर्व्वतैकदेशः । बदरीवनं बदरिका-
श्रम इति च ख्यातः । स तु श्रीनगराख्यदेशे
अलकनन्दानदीपश्चिमतीरे वर्त्तते । इति पुरा-
णान्तरम् ॥

बद्धं, त्रि, (बध्यते स्म इति । बन्ध + कर्म्मणि क्तः ।)

बन्धनयुक्तम् । बाँधा इति भाषा । तत्पर्य्यायः ।
सन्दानितम् २ मूर्णम् ३ उद्धितम् ४ सन्दितम् ५
सितम् ६ । इत्यमरः । ३ । १ । ९५ ॥ निग-
डितम् ७ नद्धम् ८ कीलितम् ९ यन्त्रितम् १०
संयतम् ११ । इति हेमचन्द्रः ॥ (यथा, मनुः ।
९ । ३०८ ।
“वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते ।
तथा पापान्निगृह्णीयात् व्रतमेतद्धि वारुणम् ॥”
तथा च मेघदूते । ७९ ।
“तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टि-
र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥”
तथा च शाकुन्तले २ अङ्के ।
“छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ॥”)

बद्धगुदं, क्ली, (बद्धं गुदं पायुर्येन ।) उदररोग-

विशेषः । तस्य निदानं यथा, --
“यस्यान्त्रमन्नैरुपलेपिभिर्व्वा
बालाश्मभिर्वा पिहितं यथावत् ।
सञ्चीयते तस्य मलः सदोषात्
शनैः शनैः सङ्करवच्च नाड्याम् ॥
निरुध्यते तस्य गुदे पुरीषं
निरेति कृच्छ्रादपि चाल्पमल्पम् ।
हृन्नाभिमध्ये परिवृद्धिमेति
तस्योदरं बद्धगुदं वदन्ति ॥”
इति माधवकरः ॥ * ॥
तस्य चिकित्सा यथा । “स्निग्ध स्विन्नस्याभ्यक्त-
स्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय रोम-
राज्या उदरं पाटयित्वा चतुरङ्गुलप्रमाण-
मन्त्राणि निष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रति-
रोधकरमश्मानं बालं वापोह्य मलजातं वा
ततो मधुसर्पिर्भ्यामभ्यज्यान्त्राणि यथास्थानं
स्थापयित्वा वाह्यं व्रणमुदरस्य सीव्येत् द्बिव्रणी-
योक्तेन विधानेन च रोपयेत् ।” इति सुश्रुते
चिकित्सितस्थाने १४ अध्यायः ॥ (तथास्य-
सकारणलक्षणम् ।
“पक्षवालैः सहान्नेन भुक्तैर्बद्धायने गुदे ।
उदावर्त्तस्तथार्शोभिरन्त्रसंमूर्च्छनेन वा ॥
अपानी मार्गसंरोधात् हत्वाग्निं कुपितोऽनिलः ।
वर्च्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः ॥”
तस्य रूपाणि ।
“तृष्णादाहज्वरमुखतालुशोषोरुसादकासंश्वास-
दौर्ब्बल्यारोचकाविपाकवर्च्चोमूत्रसङ्गाध्मानच्छर्दि-
क्षवथुशिरोहृन्नाभिगुदशूलान्यपिचोदरं मूढवातं
स्थिरमरुणनीलराजीसिरावनद्धमवाजिकं वा
प्रायो नाभ्युपरिगोपुच्छवदभिनिर्व्वर्त्तयति इत्येतत्
बद्धगुदोदरमिति विद्यात् ॥”
तथास्य चिकित्सा ।
“स्विन्नाय बद्धोदरिणे मूत्रं तीक्ष्णौषधान्वितम् ।
सतैललवणं दद्यात् निरूहं सानुवासनम् ॥”
इति चरके चिकित्सितस्थाने त्रयोदशेऽध्याये ॥)

बद्धप्पि, क्ली, बद्धपाणिः । मुष्टिः । इति पुराणा-

न्तरम् ॥ बद्धाप्पीति च पाठः ॥

बद्धफलः, पुं, (बद्धानि फलानि यस्येति ।) करञ्ज-

वृक्षः । इति राजनिर्घण्टः ॥ (विवृतिरस्य करञ्ज-
शब्दे ज्ञातव्या ॥)

बद्धमुष्टिः, त्रि, (बद्धा दृढा दानान्निवृत्ता वा मुष्टि-

र्यस्येति ।) दृढमुष्टिः । कृपणः । यथा, नैषधे ।
३ । ८५ ।
“सजीवमप्यर्थिमुदे ददद्भ्य-
स्तव त्रपा नेदृशबद्धमुष्टेः ॥”

बद्धमूलं, त्रि, (बद्धं मूलं यस्येति ।) दृढमूलम् ।

उत्प्राटनानर्हमूलम् । यथा, माघे । २ । ३८ ।
“त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ! ।
बद्धमूलस्य मूलं हि महद्बैरतरोः स्त्रियः ॥”

बद्धरसालः, पुं, (बद्धो रसेन आवृतः अतएव

रसालः रसवान् ।) त्रिविधराजाम्रान्तर्गता-
पृष्ठ ३/३९२
त्युत्तमाम्रः । तत्पर्य्यायः । चक्रतलाम्रः २
मध्वाम्रः ३ सितजाम्रकः ४ वनेज्यः ५ मन्मथा-
नन्दः ६ मदनेच्छाफलः ७ । तस्य कोमलफल-
गुणाः । कटुत्वम् । अम्लत्वम् । पित्तदाहदत्वञ्च ।
तस्य सुपक्वफलगुणाः । स्वादुत्वम् । मधुरत्वम् ।
पुष्टिवीर्य्यबलप्रदत्वञ्च । इति राजनिर्घण्टः ॥

बद्धशिखः, त्रि, (बद्धा शिखा चूडा यस्येति ।)

शिशुः । इति मेदिनी । खे, १५ ॥ शिखाबन्धन-
विशिष्टः । यथा, प्रायश्चित्ततत्त्वधृतवचनम् ।
“सदोपवीतिना भाव्यं सदा बद्धशिखेन तु ।
विशिखो व्युपवीतश्च यत् करोति न तत् कृतम् ॥”

बद्धशिखा, स्त्री, (बद्धा शिखा यस्याः ।) उच्चटा ।

इति मेदिनी । खे, १५ ॥ (बद्धा शिखा केश-
कलापो यस्याः ।) सम्बद्धकेशा च ॥

बध, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, बाधयति । इति दुर्गा-
दासः ॥

बध, ङ निन्दे । बन्धे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ङ, बीभत्सते खलं
लोकः । बधते तत्र त्यादयो न प्रयुज्यन्ते । इति
रमानाथः ।
‘माबधिष्ठा जटायुं मां सीतां रामाहमैक्षिषि ।’
इति भट्टिः । ६ । ४१ ॥ इति दुर्गादासः ॥

बधिरः, त्रि, (बध्नाति कर्णमिति । बन्ध + “इषिमदि-

मुदीति ।” उणा० १ । ५२ । इति किरच् ।)
श्रवणेन्द्रियरहितः । श्रुतिशक्तिहीनः । काला
इति भाषा । तत्पर्य्यायः । एडः २ । इत्य-
मरः । २ । ६ । ४८ ॥ कल्लः ३ श्रवणापटुः ४ ।
इति शब्दरत्नावली ॥ उच्चैःश्रवाः ५ । इति
संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, मनुः । ११ । ५२ ।
“एवं कर्म्मविशेषेण जायन्ते सद्बिगर्हिताः ।
जडमूकान्धबधिराविकृताकृतयस्तथा ॥”
बाधिर्य्यनिदानं यथा, --
“यदा शब्दवहं वायुः श्रोत आवृत्य तिष्ठति ।
शुद्धः श्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते ॥”
इति माधवकरः ॥
असाध्यबाधिर्य्यमाह ।
“बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत् ।”
इति भावप्रकाशः ॥ * ॥
अस्यौषधम् ।
“कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च ।
चतुर्ष्वपि च रोगेषु सामात्यं भेषजं स्मृतम् ॥
शृङ्गवेरञ्च मधु च सैन्धवं तैलमेव च ।
कटूष्णं कर्णयोर्धार्य्यमेतत् स्याद्बेदनापहम् ॥ १ ॥
कर्णशूले कर्णनादे बाधिर्य्ये क्षेड एव च ।
पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥ २ ॥
शिखरिक्षारजवारितत्कृतकल्केन साधितं
तैलम् ।
अपहरति कर्णनादं वाधिर्य्यञ्चापि पूरणतः ॥
शिखरी अपामार्गः ॥ ३ ॥
गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ।
सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम् ॥
क्षीरमत्राजं ग्राह्यम् । बिल्वतैलम् ॥ ४ ॥” इति
भावप्रकाशः ॥ यथा च ।
“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।
क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥” ५
इति गारुडे १९७ अध्यायः ॥

ब(व)धूः, स्त्री, (बध्नाति प्रेम्णा या । बन्ध + ऊः

नलोपश्च । अन्तःस्थवादौ तु वहति संसारभारं
उह्यते भर्त्त्रादिभिरिति वा । वह + “वहेर्धश्च ।”
उणा० १ । ८५ । इति ऊः धश्चान्तादेशः ।)
नारी । स्नुषा । पृक्का । इत्यमरः । ३ । ३ । १०१,
२ । ४ । १३३ ॥ (अस्याः पर्य्यायो यथा, --
“पृक्का स्याद्ब्राह्मणी देवी मरुन्माला लता
लघुः ।
समुद्रान्ता बधूः कोटिवर्षालङ्कापिकेत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)
शारिवौषधिः । शटी । (अस्याः पर्य्यायो यथा,
“शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका ।
गन्धारिका गन्धबधूर्बधूः पृथुपलाशिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नवोढा । (यथा, रघुः । ७ । ४ ।
“वरः स बध्वा सह राजमार्गं
प्राप ध्वजच्छायनिवारितोष्णम् ॥”)
भार्य्या । इति मेदिनी । धे, १४ ॥ भरतेन
अमरकोषटीकायां पवर्गीयबकारादिबन्धधातुना
निष्पादितोऽयम् । मेदिनीकारेण तु अन्तःस्थ-
वकारादिशब्दमध्ये संगृहीतः ॥ अथ नवबध्वा
द्विरागमनयात्रा । तत्राष्टमदशमद्बादशषष्ठचतुर्थ-
वर्षाणि निषिद्धानि । मासाः मार्गशीर्षफाल्गुन-
वैशाखा विहिताः । पक्षः शुक्लः । पुष्यस्वाती
हस्ताधनिष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपद्-
रेवतीमृगशिरोरोहिणीपुनर्व्वसुपूर्ब्बाषाढा ए-
तानि नक्षत्राणि विहितानि । सोमबुधबृह-
स्पतिशुक्राणां वाराः विहिताः । तिथयो यात्रा-
प्रकरणोक्ताः । चन्द्रताराशुद्धौ कालशुद्धौ त्र्यह-
स्पर्शवारवेलादिक्शूलादीन् परित्यज्य कर्त्तव्या ।
इति ज्योतिषम् ॥
“वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति ।
पुनरागमनं बध्वास्तद्द्विरागमनं विदुः ॥
विवाहमासि प्रथमं बध्वा नागमनं यदि ।
तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः ॥
भुक्त्वा पितृगृहे नारी भुङ्क्ते स्वामिगृहे
यदि ।
दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः ॥”
इति ज्योतिस्तत्त्वम् ॥

बधूजनः, पुं, (बधूरेव जनः ।) योषित् । इति

त्रिकाण्डशेषः ॥ (यथा, माघे । ३ । ५२ ।
“क्षितिप्रतिष्ठोऽपि मुखारविन्दै-
र्बधूजनश्चन्द्रमधश्चकार ॥”)

बधूटशयनं, क्ली, (बधूटीनां शयनमिव । पृषो-

दरादिकारस्याकारः ।) गवाक्षः । यथा, --
“वातायनं गृहाक्षः स्याद्बधूटशयनन्तथा ॥”
इति त्रिकाण्डशेषः ॥

बधूटिः स्त्री, (अल्पवयस्का बधूः । अल्पार्थे

टीः । पक्षे ङीष् । यद्बा, बधू + “वयस्य-
चरम इति वाच्यम् ।” ४ । १ । २० । इत्यस्य
वार्त्ति० इति ङीप् ।) पुत्त्रभार्य्या । इति भरत
धृतरत्नकोषः । सुवासिनी । इति हेमचन्द्रः ॥
अल्पा बधूः । यथा, --
“नूतनजलधररुचये गोपबधूटीदुकूलचौराय ।
तस्मै नमः कृष्णाय संसारमहीरुहस्य बीजाय ॥”
इति भाषापरिच्छेदः । १ ॥

बधूटी, स्त्री, (अल्पवयस्का बधूः । अल्पार्थे

टीः । पक्षे ङीष् । यद्बा, बधू + “वयस्य-
चरम इति वाच्यम् ।” ४ । १ । २० । इत्यस्य
वार्त्ति० इति ङीप् ।) पुत्त्रभार्य्या । इति भरत
धृतरत्नकोषः । सुवासिनी । इति हेमचन्द्रः ॥
अल्पा बधूः । यथा, --
“नूतनजलधररुचये गोपबधूटीदुकूलचौराय ।
तस्मै नमः कृष्णाय संसारमहीरुहस्य बीजाय ॥”
इति भाषापरिच्छेदः । १ ॥

बधूत्सवप्रसवः, पुं, (बध्वा उत्सव आर्त्तवः स इव

प्रसवः पुष्पादिर्यस्य ।) रक्ताम्लानः । इति
राजनिर्घण्टः ॥

बध्रं, क्ली, (बध्यतेऽनेनेति । बन्ध + “सर्व्वधातुभ्य-

ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।) सीस-
कम् । इत्यमरः ॥ वप्रमिति पठति स्वामी ॥
(अस्य पर्य्यायो यथा, --
“सीसं बध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बध्री, स्त्री, (बध्यतेऽनया । बन्ध + “सर्व्वधातुभ्य-

ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् षित्वात्
ङीष् ।) चर्म्मरज्जुः । इत्यमरः । २ । १० । १३ ॥
बध्री द्बिरेफेति केचित् । बर्द्ध्र्यां चर्म्मबन्धे भवा
बार्द्ध्री दीर्घादिरिति हड्डः ॥

बन, द ङ उ याचने । इति कविकल्पद्रुमः ॥

(तना०-आत्म०-द्विक०-सेट् । क्त्वावेट् ।) द ङ,
बनुते । उ, बनित्वा बत्वा । इति दुर्गादासः ॥

बन्ध, औ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-सक०-अनिट् ।) औ, अबानत्सीत् । ग,
बध्नाति । वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं
धूर्त्त निर्ब्बन्धसे । इत्यपपाठः । निर्व्वध्यते इति
पाठ्यमिति रमानाथः । वस्तुतस्तु अस्य गण-
कृतानित्यतया ञेरभावे आत्मनेपदे च सिद्धम् ।
इति दुर्गादासः ॥

बन्ध, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-

सक०-सेट् ।) क, बन्धयति । इति दुर्गादासः ॥
(यथा, रामायणे । २ । ८४ । ४ ।
“बन्धयिष्यति वा पाशैरथवास्मान् वधिष्यति ॥”

बन्धः, पुं, (बन्ध + हलश्चेति घञ् ।) आधिः ।

बन्धनम् । इति मेदिनी । धे, ९ ॥ शरीरम् ।
इति हेमचन्द्रः ॥ (कर्म्मजनितादृष्टवशात् देहा
द्देहान्तरोत्पत्तेः शरीरस्य तथात्वम् ।) गृहादि
वेष्टनम् । इति शब्दरत्नावली ॥ तद्विवरणं यथा
“रूपाष्टकैर्विनिहतो भवनस्य बन्धः
कर्त्तुः स्वमृक्षमिह युग्मशरैकनिघ्नम् ।
एकीकृतं रसनिशाकरयुग्मभुक्त-
शेषं ततो भवति पिण्डपदं गृहस्य ॥
गृहभूमिसमाहृतपिण्डपदं
वसुलोचनरन्ध्रगजैर्गुणितम् ।
रविभूधरत्रिंशद्योगहृत-
मायव्ययस्थितिऋक्षपदम् ॥”
पृष्ठ ३/३९३
रूपाष्टकैरेकाशीत्या विनिहतः पूरितो भव-
नस्य बन्धः दीर्घप्रस्तारमिलितहस्ताः स्वमृक्षं
तत्संख्यानं युग्मशरैकनिघ्नं द्बिपञ्चाशदुत्तर-
शतपूरितम् एकीकृतं पूर्ब्बाङ्केन मिलितं रस-
निशाकरयुग्मभुक्तशेषं षोडशाधिकद्विशतहृता-
षशिष्टं तत्संख्यानं पिण्डपदसंज्ञं गृहस्य भवति
तद्गृहभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्र-
गजैः । अष्टद्विनवाष्टभिर्यथाक्रमं गुणितं पूरितं
यथाक्रमं रविभूधरत्रिंशद्योगहृतं द्वादशसप्त-
त्रिंशत्सप्तविंशतिभिर्हृतं गृहस्य यथाक्रममाय-
व्ययस्थितिऋक्षपदं भवतीत्यर्थः ।
“रुद्रहस्तमिते बन्धे भरण्या योगतो यथा ।
आयादयो भवन्त्यत्र वसुषट्तिथियुङ्मिताः ॥
अत्र नक्षत्रं दीयते पश्चात्तदेवायाति ।
प्रत्यक्दक्षिणयोर्भं द्रविणाद्यं विदिक्षु दहनादि ।
पूर्ब्बोत्तरयोर्गृहयोरश्विन्यादिभानि स्युः ।
यत्र तु शेषो नास्ति तत्र हारकाङ्कः शेषः ॥
शेषाङ्केन फले बोध्ये शेषाभावे तु हारकात् ।
अङ्कादेव फलं बोध्यमिति तन्त्रविदाम्मतम् ॥
इत्युक्तत्वात् ॥
व्ययाधिकं न कर्त्तव्यं गृहमायाधिकं शुभम् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
षोडशप्रकारा रतिबन्धा यथा, रतिमञ्जर्य्याम् ।
४० -- ४१ ।
“पद्मासनो नागपदो लतावेष्टोऽर्द्धसम्पुटः ।
कुलिशं सुन्दरश्चैव तथा केशर एव च ॥
हिल्लोलो नरसिंहोऽपि विपरीतस्तथापरः ।
क्षुब्धो वै धेनुकश्चैव समुत्कण्ठस्ततः परः ।
सिंहासनो रतिनागो विद्याधरस्तु षोडश ॥”
(एतेषां लक्षणानि तत्रैव । ४२-५७ । उक्तानि ।
यथा, --
“हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि ।
रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥
पादौ स्कन्धयुगे हस्तौ क्षिपेल्लिङ्गं भगे लघु ।
प्ररमेत् कामुको नारीं बन्धो नागपदो मतः ॥
बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा रमेत् स्त्रियम् ।
लघु लिङ्गं ताडयेद् योनौ लतावेष्टोऽयमुच्यते ॥
स्त्रीपादावन्तरीक्षे तु किञ्चिद्भूमौ च जानुनि ।
स्तनयोर्मर्द्दनं पीडा बन्धोऽयं मर्द्दसंपुटः ॥
स्त्रीपादद्बयमास्फाल्य हठाल्लिङ्गस्य ताडनम् ।
योनिमापीडयेत् कामी बन्धः कुलिशसंज्ञकः ॥
नारीपादद्वयं कामी धारयेदूर्द्ध्वदेशतः ।
कुचौ धृत्वा पीबेद्बक्त्रं बन्धोऽयं रतिसुन्दरः ॥
स्त्रियो जङ्घे समापीड्य दोर्भ्यां गात्रस्य मर्द्दनम् ।
पुनः प्रपीडयेद् योनिं बन्धः केशरसंज्ञकः ॥
हृदि कृत्वा स्त्रियः पादौ कराभ्यां धारयेत् करौ ।
यथेष्टं ताडयेत् योनिं बन्धो हिल्लोलसंज्ञकः ॥
पादौ संपीड्य योनौ च हठाल्लिङ्गप्रवेशनम् ।
हस्तयोर्वेष्टनं गाढं बन्धो नृसिंहसंज्ञकः ॥
पादमेकमुरौ कृत्वा द्बितीयं कटिसंस्थितम् ।
नारीञ्च सुरमेत् कामी विपरीतस्तु बन्धकः ॥
पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् ।
बाहुभ्यां ताडयेद्गाढं क्षुब्धको बन्ध एव सः ॥
सुप्तां स्त्रियं समालिङ्ग्य स्वयं सुप्तो रमेत् पुनः ।
यल्लिङ्गं चालयेत् योनौ बन्धोऽयं धेनुकः स्मृतः ॥
नारीपादौ च हस्तेन धारयेत् गलके पुनः ।
स्तनार्पितकरो कामी बन्धश्चोत्कण्ठसंज्ञकः ॥
स्वयं जङ्घाद्वयं बाहौ कृत्वा योषित्पदद्बयम् ॥
स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः ॥
पीडयेदुरुयुग्मेन कामुकः कामिनीं यदि ।
रतिर्नागः समाख्यातः कामिनीनां मनोहरः ॥
नार्य्याश्चोरुयुगं धृत्वा कराभ्यां ताडयेत् पुनः ।
रमयेन्निर्भरं कामी बन्धो विद्याधरो मतः ॥”
इति ॥)
संज्ञाप्रभेदेन अन्योऽपि बन्धोऽस्ति । यथा, --
“कामप्रदी विपरीतो नागरो रतिपाशकः ।
केयूरः प्रियतोषश्च ततः समपदस्तथा ॥
ततश्चैकपदो ज्ञेयः सम्पुटश्चोर्द्ध्वसम्पुटः ।
ततः स्तनभवश्चैव ततो नु रतिसुन्दरः ॥
ऊरुपीडस्मरचक्रौ ततश्चोरुक्रमः स्मृतः ।
वेष्टको हंसकीलस्तु ततो लीलासनस्तथा ॥
अष्टादशक्रमाद्बन्धाः स्त्रीणां बहुसुखप्रदाः ।
पुंसां सुखकराश्चैव कथितास्तु क्रमात्ततः ॥”
इति स्मरदीपिका ॥ * ॥
अनभिसन्धितकर्म्मकर्त्तुर्बन्धाभावो यथा, --
“पञ्चर्णदानैरशुभं नुद्यतेऽनभिसन्धितैः ।
फलैस्तथोपभोगैश्च पूर्ब्बकर्म्मशुभाशुभैः ॥
एवं न बन्धो भवति कुर्व्वतः कारणं विना ।
न च बन्धाय तत् कर्म्म भवत्यनभिसन्धितम् ॥”
इति मार्कण्डेयपुराणम् ॥
(हठयोगप्रदीपोक्ता योगसाधकबन्धा यथा,
तत्रैव । ३ । ५५ -- ५७ ।
अथोड्डीयानबन्धः ।
“बद्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ।
तस्मादुड्डीयनाख्योऽपं योगिभिः समुदाहृतः ॥
उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः ।
उड्डीयानं तदेव स्यात् तत्र बन्धोऽभिधीयते ॥
उदरे पश्चिमं तानं नाभेरूर्द्ध्वञ्च कारयेत् ।
उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेशरी ॥”
अथ मूलबन्धः । तल्लक्षणादिकमुक्तं तत्रैव
३ । ६१ -- ६२ ।
“पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ।
अपानमूर्द्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥
अधोगतिमपानं वा ऊर्द्ध्वगं कुरुते बलात् ।
आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः ॥”
अथ जालन्धरबन्धः । अस्य लक्षणादिकमुक्तं
तत्रैव । ३ । ७० -- ७१ ।
“कण्ठमाकुञ्च्य हृदये स्थापयेच्चियुकं दृढम् ।
बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥
बध्नाति हि शिराजालमधोगामि नभोजलम् ।
ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥”)

बन्धकं, क्ली, (बध्नातीति । बन्ध + ण्वुल् ।) ऋणाय

स्थापितं वस्तु । बाँधा इति भाषा । इति
आधिशब्दनानार्थे अमरः ॥ इदानीमाधि-
र्निरूप्यते । आधिर्नाम गृहीतस्य द्रव्यस्योपरि
विश्वासार्थमधमर्णेनोत्तमर्णेऽधिक्रियते आधी-
यत इत्याधिः । स च द्विधैव । कृतकालो-
ऽकृतकालश्च । पुनश्चैकैकशो द्बिविधः गोप्यो
भोग्यश्च । यथाह नारदः ।
“अधिक्रियत इत्याधिः स विज्ञेयो द्बिलक्षणः ।
कृतकालापनेयश्च यावद्देयोद्यतस्तथा ॥
स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव चेति ॥”
कृते काले आधानकाल एवामुस्मिन् काले
दीपोत्सवादौ मयायमाधिर्मोक्तव्योऽन्यथा तवै-
वाधिर्भविष्यतीत्येवं निरूपिते कालेऽपनेयः
आत्मसमीपे नेतव्यो मोचनीय इत्यर्थः देयं दानं
देयमनतिक्रम्य यावद्देयम् उद्यतो नियतः
स्थापित इत्यर्थः । यावद्देयम् उद्यतो यावद्देयो-
द्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल
इत्यर्थः । गोप्यो रक्षणीयः । एवञ्चतुर्विधस्या-
धेर्विशेषमाह ।
“आधिः प्रणश्येत् द्बिगुणे धने यदि न मोच्यते ।
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥”
प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्बिगुणी-
भूते यद्याधिरधमर्णेन द्रव्यदानेन मोच्यते तदा
नश्यत्यधमर्णस्य धनं प्रयोक्तुः स्वम्भवति । काल-
कृतः कृतकालः आहिताग्न्यादिषु पाठात् काल-
शब्दस्य पूर्ब्बनिपातः स तु काले निरूपिते प्राप्ते
नश्येत् द्वैगुण्यात् प्रागूर्द्ध्वं वा । फलभोग्यः फलं
भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स न
कदाचिदपि नश्यति । कृतकालस्य गोप्यस्य
भोग्यस्य च तत्कालातिक्रमे नाश उक्तः । काले
कालकृतो नश्येदिति । अकृतकालस्य भोग्यस्य
नाशाभाव उक्तः फलभोग्यो न नश्यतीति
पारिशेष्यादाधिः प्रणश्येदित्येतदकृतकालगोप्या-
धिविषयमवतिष्ठते द्वैगुण्यातिक्रमेण निरूपित-
कालातिक्रमेण च विनाशे चतुर्द्दशदिवसप्रती-
क्षणं कर्त्तव्यं बृहस्पतिवचनात् ।
“हिरण्ये द्बिगुणीभूते पूर्णे काले कृतावधौ ।
बन्धकस्य धनी स्वामी द्बिसप्ताहं प्रतीक्ष्य च ।
तदन्तराधनं दत्त्वा ऋणी बन्धमवाप्नुयादिति ॥”
किञ्च ।
“गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते ।
नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥”
गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति ।
अल्पेऽप्युपभोगे महत्यपि वृद्धिर्हातव्या सम-
यातिक्रमात् तथा सोपकारे उपकारकारिणि
बलीवर्द्दताम्रकटाहादौ भोग्याधौ सवृद्धिके
हापिते हानिं व्यवहाराक्षमत्वं गमिते नो
वृद्धिरिति सम्बन्धः । नष्टो विकृतिं गतस्ताम्र-
कटाहादिश्छिद्रभेदादिना पूर्ब्बवत्कृत्वा देयः तत्र
गोप्याधिर्नष्टश्चेत् पूर्ब्बवत् कृत्वा देयः । उपभुक्तो-
ऽपि चेत् वृद्धिरपि हातव्या भोग्याधिर्यदि नष्ट-
स्तदा पूर्ब्बवत् कृत्वा देयः । वृद्धिसद्भावे वृद्धिर्वा
हातव्या । विनष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि
देयो मूल्यादिद्वारेण तद्दाने सवृद्धिकं मूल्यं लभते
पृष्ठ ३/३९४
यदि न ददाति तदा मूलनाशः । ‘विनष्टे मूल-
नाशः स्याद्दैवराजकृतादृते ।’ इति नारदवच-
नात् । दैवराजकृतादृते । दैवमग्न्युदकदेशो-
पप्लवादि । दैवकृताद्बिनाशाद्विना । तथा स्वाप-
राधरहिताद्राजकृतात् । दैवराजकृते तु विनाशे
सवृद्धिकं मूल्यं दातव्यमधमर्णेनाध्यन्तरं वा
यथाह ।
“स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।
आधिरन्योऽथ कर्त्तव्यो देयं वा धनिने धनमिति ॥”
तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् ।
अपि च ।
“आधेः स्वीकरणात् सिद्धी रक्ष्यमाणोऽप्यसार-
ताम् ।
यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥
आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादुपभोगा-
दाधिग्रहणसिद्धिर्न साक्षिलिखनमात्रेण नाप्यु-
द्देशमात्रेण यथाह नारदः ।
“आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा ।
सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥”
अस्य च फलम् ।
“आधौ प्रतिग्रहे क्रीते पूर्ब्बा तु बलवत्तरेति ।”
या स्वीकारान्ता क्रिया सा पूर्ब्बा बलवती
स्वीकाररहिता तु पूर्ब्बापि न बलवतीति स
चाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्य-
सारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्य्याप्ततां
गतस्तदाधिरन्यः कर्त्तव्यः । धनिने वा धनं देयं
रक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रय-
त्नेन रक्षणीयो धनिनेति ज्ञापितम् । आधिः
प्रणश्येद्द्विगुण इत्यस्यापवादमाह ।
“चरित्रबन्धककृतं सवृद्ध्या दापयेद्धनम् ।
सत्यङ्कारकृतं द्रव्यं द्बिगुणं प्रतिदापयेत् ॥”
चरित्रं शोभनाचरितम् । चरित्रेण बन्धकं
चरित्रबन्धकम् । तेन यत् द्रव्यमात्मसात् कृतं
पराधीनं वा कृतम् । एतदुक्तं भवति धनिनः
स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्या-
धमर्णेनाल्पमेव द्रव्यमात्मसात् कृतम् । यदि वाध-
मर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा
बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति तद्धनं
नृपो वृद्ब्या सह दापयेत् अयमाशयः एवंरूपं
बन्धकं द्बिगुणीभूतेऽपि द्रव्ये न नश्यति किन्तु
द्रव्यमेव द्बिगुणं दातत्वमिति । तथा सत्यङ्कार-
कृतं करणं कारः भावे घज् सत्यस्य कारः
सत्यङ्कारः कारे सत्यागदस्येति मुम् सत्यङ्कारेण
कृतं सत्यङ्कारकृतम् । अयमभिसन्धिः । यदा
बन्धकार्पणसमय एव इत्थं परिभाषितं द्विगुणी-
भूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यम् ।
नाधिनाश इति तदा तद्द्विगुणं दापयेदिति ।
अन्योऽर्थः । चरित्रशब्देन गङ्गास्नानाग्नि-
होत्रादिजनितमपूर्ब्बमुच्यते यत्र तदेवाधी-
कृत्य यत् द्रव्यमात्मसात् कृतम् । तत्र तदेव
द्बिगुणीभूतं दातव्यं नाधिनाश इति । आधि-
प्रसङ्गादन्यदुच्यते । सत्यङ्कारकृतमिति क्रय-
विक्रयादिव्यवस्थानिर्व्वाहणाय यद्यङ्गुलीयकादि-
परहस्ते कृतं तद्ब्यवस्थातिक्रमे द्विगुणं दातव्यं
तत्रापि येनाङ्गुलीयकाद्यर्पितं स एव चेद्ब्यव-
स्थातिवर्त्ती तेन तदेव हातव्यम् । इतरश्चेद्व्यव-
स्थातिवर्त्ती तदा तदेवाङ्गुलीयकादिद्बिगुणं प्रति-
दापयेदिति । किञ्च ।
“उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा
भवेत् ।
प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात् ॥”
धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्यो
धनिना वृद्धिलोभेन न स्थापयितव्यः । अन्यथा
अमोक्षणे स्तेनश्चौरवद्दण्ड्यो भवेत् असन्निहिते
पुनःप्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं
निधायाधमर्णः स्वीयं बन्धकं गृह्णीयात् । अथ
प्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्य ग्रहीतारो
न सन्ति यदि वा असन्निहिते प्रयोक्तरि आधि-
विक्रयेण धनदित्साधमर्णस्य तत्र किं कर्त्तव्य-
मित्यपेक्षित आह ।
“तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।”
तस्मिन् काले यत्तस्याधेर्मूल्यं तत् परिकल्प्य
तत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेन्न तत
ऊर्द्ध्वं धनं वर्द्धते यावद्धनी धनं गृहीत्वा तमाधिं
मुञ्चति यावद्वा तन्मूल्यद्रव्यमृणिने प्रवेशयति ।
यदा तु द्बिगुणीभूतेऽपि धने द्बिगुणं घनमेव
ग्रहीतव्यं न त्वाधिनाश इति विचारितमृण-
ग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असन्नि-
हिते वाधमर्णे धनिना किं कर्त्तव्यमित्यत आह ।
“विनाधारणकाद्वापि विक्रीणीत ससाक्षिकम् ।”
धारणकादधमर्णाद्विना अधमर्णे असन्निहिते
साक्षिभिस्तदाप्तैश्च सह तमाधिं विक्रीय तद्धनं
गृह्णीयाद्धनी वाशब्दो व्यवस्थितविकल्पार्थः ।
यदर्णग्रहणकाले द्बिगुणीभूतेऽपि धने धनमेव
ग्रहीतव्यं न त्वाधिनाश इति न विचारितम् ।
तदा आधिः प्रणश्येद्द्विगुण इत्यस्याधिनाशः ।
विचारिते त्वयं पक्ष इति ॥ * ॥ भोग्याधौ
विशेषमाह ।
“यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥”
यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्बिगुणीभूतं
तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्बिगुणे धनिनः
प्रविष्टे धनिनाधिर्मोक्तव्यः । यदि वादावेवाधा
दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परि-
भाषया कारणान्तरेण वा भोगाभावेन तदा
द्विगुणीभूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टे
तदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधि-
कोपभोगे तदपि देयम् । सर्व्वथा सवृद्धिकमूल्य-
र्णापाकरणार्थाध्युपभोगविषयमिदं वचनम् ।
तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तु
वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र
द्वैगुण्यातिक्रमेऽपि यावन्मूल्यदानं तावदुप-
भुड्क्ते एवाधिम् एतदेव स्पष्टीकृतं बृहस्पतिना
“ -- ऋणी बन्धमवाप्नु यात् ।
फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम् ॥
यदि प्रकर्षितं तत् स्यात्तदा न धनभाग्धनी ।
ऋणी च न लभेद् बन्धं परस्परमतं विना ॥”
अस्यार्थः । फलं भोग्यं यस्यासौ फलभोग्यो बन्ध
आधिः स च द्बिविधः सवृद्विकमूल्यापाकरणार्थो
वृद्धिमात्रापाकरणार्थश्च तत्र च वृद्धिमूल्यापा-
करणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ
पूर्णकालस्तमाप्नु यादृणी । यदा सवृद्धिकं मूल्यं
फलद्बारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नुयादि-
त्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकं
दत्त्वाप्नुयादृणी । समं मूल्यं सममेव सामकम् ।
अस्यापवादमाह । यदि प्रकर्षितं तत् स्यात्त-
द्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलं
यदि स्यात्तदा न धनभाग्धनी । सामकं न
लभेद्बन्धं मूल्यमदत्त्वैवर्णी बन्धमवाप्नुयादिति
यावत् । अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्य-
पर्य्याप्तन्तदा सामकं दत्त्वापि बन्धं लभेताधमर्णः
वृद्धिशेषमदत्त्वैव लभेतेत्यर्थः । पुनरुभयत्राप-
वादमाह । परस्परमतं विना उत्तमर्णाध-
मर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितं
इत्याद्युक्तम् । परस्परानुमतौ तूत्कृष्टमपि
बन्धकं यावन्मूल्यदानन्तावदुपभुङ्क्ते धनी निकृ-
ष्टमपि मूलमात्रदाने नैवाधमर्णो लभते । इति-
मिताक्षरा ॥

बन्धकः, पुं, (बन्ध + स्वार्थे कन् ।) विनिमयः ।

इति विश्वमेदिन्यौ ॥ आधिः । इति शब्दरत्ना-
वली ॥ रतहिण्डकः । इति नानार्थरत्नमाला ॥
(बध्नातीति । बन्ध + ण्वुल् । बन्धनकर्त्तरि, त्रि ।
यथा, देवीभागवते । ५ । १ । ३९ ।
“न नारी न धनं गेहं न पुत्त्रा न सहोदराः ।
बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः ॥”)

बन्धकी, स्त्री, (बध्नाति मानसमिति । बन्ध + ण्वुल् ।

गौरादित्वात् ङीष् ।) पुंश्चली । इत्य-
मरः । २ । ६ । १० ॥ (यथा, मार्कण्डेय-
पुराणे । ३४ । ८८ ।
“न बन्धकीभिर्न न्यूनैर्बन्धकीपतिभिस्तथा ॥”)
इभी । इति मेदिनीहेमचन्द्रौ ॥ पञ्चपुरुष-
गामिनी । (यथा, महाभारते । १ । १२३ । ७४ ।
“नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत ।
अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत् ॥”)

बन्धनं, क्ली, (बन्ध + भावे ल्युट् ।) बन्धनक्रिया ।

बाँधा इति भाषा । तत्पर्य्यायः । उद्दानम् २ ।
इत्यमरः । २ । ८ । २६ ॥ कङ्कनम् ३ बन्धः ४
संयमनम् ५ । इति शब्दरत्नावली ॥ (यथा,
हितोपदेशे । १ । ९५ ।
“आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥”)
वधः । इति मेदिनी । ने, ९७ ॥ हिंसा ।
इति शब्दरत्नावली ॥ रज्जुः । इति हेम-
चन्द्रः ॥ बध्यतेऽनेनेति करणव्युत्पत्त्या त्रि ॥
(बध्यतेऽस्मिन् इति अधिकरणे ल्युट् । कारा-
गारम् । बन्धनस्थानम् । यथा, भागवुते । ३ । २ । २५ ।
पृष्ठ ३/३९५
“वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ॥”
बन्ध + कर्त्तरि ल्युः । महादेवस्य नामभेदे, पुं ।
यथा, महाभारते । १३ । १७ । १०० ।
“बन्धनो बन्धकर्त्ता च सुबन्धनविमोचनः ॥”
बन्धनकर्त्तरि, त्रि । यथा, तत्रैव । १३ । १७ । ६१ ।
“बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥”)

बन्धनवेश्म, क्ली, (बन्धनाय बन्धनस्य वा वेश्म

गृहम् ।) कारागारम् । इति हारावली । १९९ ॥

बन्धनालयः, पुं, (बन्धनाय बन्धनस्य वा आलयः ।)

कारागारम् । इत्यमरः । २ । ८ । ११९ ॥

बन्धस्तम्भः, पुं, (बन्धाय स्तम्भः ।) हस्तिबन्धन-

स्तम्भः । तत्पर्य्यायः । आलानम् २ । इत्य-
मरः । २ । ८ । ४१ ॥ शङ्कुः ३ अक्षोडः ४ ।
इति शब्दरत्नावली ॥

बन्धित्रं, क्ली, (बन्ध + इत्र ।) कामदेवः । इत्यु-

णादिकोषः ॥ चर्म्मव्यजनम् । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

बन्धुः, पुं, (बन्ध बन्धने + “शॄस्वृस्निहित्रपीति ।”

उणा० १ । ११ । इति उः ।) स्नेहेन मनो बध्नाति
यः । तत्पर्य्यायः । सगोत्रः २ बान्धवः ३ ज्ञातिः
४ स्वः ५ स्वजनः ६ । इत्यमरः । २ । ६ । ३४ ॥
दायादः ७ गोत्रः ८ । इति शब्दरत्नावली ॥
बन्धवश्च त्रिविधा । आत्मबन्धवः पितृबन्धवो
मातृबन्धवश्चति । यथोक्तम् ।
“आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्त्राश्च विज्ञेया ह्यात्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्त्राः पितुर्मातृष्वसुः सुताः ।
पितुर्मातुलपुत्त्राश्च विज्ञेयाः पितृबान्धवाः ॥
मातुःपितृष्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः ।
मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥”
तत्रचान्तरङ्गत्वात् प्रथममात्मबन्धवो धनभाज-
स्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति
क्रमो वेदितव्यः । बन्धूनामभावे आचार्य्यः ।
इति मिताक्षरा ॥ * ॥ (यथा, मनुः । २ । १३६ ।
“वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥”
“बन्धुः पितृव्यादिः ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥) बन्धूकः । (यथा, अशोकवधे । २९ ।
“अभ्यर्च्य बन्धुपुष्पमालयेति ॥”)
मित्रम् । (यथा, मेघदूते । ३४ ।
“बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ॥”)
भ्राता । इति मेदिनी ॥ (यथा, रघुः । १२ । १२ ।
“अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥”)

बन्धुकः, पुं, (बन्ध + उकः । यद्वा, र्बन्धुर्बन्धूकवृक्ष

एव । बन्धु + स्वार्थे कन् ।) बन्धूकवृक्षः । इति
शब्दरत्नावली ॥

बन्धुजीवः । बन्धुरिव जीवयति रसादिनेति । बन्धु

+ जीव + अच् ।) बन्धूकवृक्षः । इति शब्दरत्ना-
वली ॥ (यथा, रघुः । ११ । २५ ।
“वीक्ष्य वेदिमथ रक्तबिन्दुभि-
र्बन्धुजीवपृथुभिः प्रदूषिताम् ॥”)

बन्धुजीवकः, पुं, (बन्धुवत् जीवयति रसादिना

इति । बन्धु + जीव + ण्वुल् । यद्बा, बन्धुजीव
एव । स्वार्थे कन् ।) बन्धूकवृक्षः । इत्य-
मरः । २ । ४ । ७३ ॥

बन्धुता, स्त्री, (बन्धोर्भावः बन्धूनां समूहो वा

इति । “ग्रामजनबन्धुभ्यस्तल् ।” ४ । २ । ४३ । इति
तल् ।) बन्धूनां समूहः । बन्धोर्भावः । इत्य-
मरः । २ । ६ । ३५ ॥ (यथा, ऋग्वेदे । ४ । ४ । ११ ।
“महो रुजामि बन्धुता वचोभिः ॥”)

बन्धुदत्तम्, क्ली, (बन्धुना दत्तम् ।) पितृमातृभ्यां

दत्तं स्त्रीधनम् । यथा । याज्ञवल्क्यः ।
“बन्धुदत्तं यथा शुक्लमन्वाधेयकमेव च ।
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ॥”
बन्धुदत्तपदेन कन्यादशायां यत् पितृभ्यां दत्तं
तदुच्यते । इति दायभागः ॥

बन्धुरं, क्ली, (बन्ध बन्धने + “मद्गुरादयश्च ।”

उणा० १ । ४२ । इति उरप्रत्ययेन निपातनात्
साधुः ।) मुकुटम् । इति शब्दरत्नावली ॥ (रथ-
बन्धनम् । यथा, महाभारते । ३ । ३२ । ३१ ।
“अन्ये छत्रं वरूथञ्च बन्धुरञ्च तथापरे ।
गन्धर्व्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥”
तथा च भागवते । ४ । २६ । १ ।
“द्वीषं द्बिचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥”)

बन्धुरः, पुं, (बन्ध + “मद्गुरादयश्च ।” उणा० १ । ४२ ।

इति उरः निपातनात् साधुः ।) स्त्रीचिह्नम् ।
तिलकल्कम् । बन्धूकः । वधिरः । हंसः । इति
मेदिनी । रे, १८९ ॥ विडङ्गः । इति हेमचन्द्रः ॥
ऋषभौषधम् । इति राजनिर्घण्टः ॥ बकः ।
विहङ्गः । इति शब्दरत्नावली ॥

बन्धुरः, त्रि, (बन्ध + उर ।) रम्यम् । (यथा, महा-

गणपतिस्तोत्रे । १५ ।
“श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं
सिन्धुरास्यः ॥”)
नम्रम् । इति मेदिनी । रे, १८९ ॥ उन्नता-
नतम् । इत्यमरः ॥ (यथा, रघुः । १३ । ४७ ।
“बध्नाति मे बन्धुरगात्रि ! चक्षु-
र्दृप्तः ककुद्मानिव चित्रकूटः ॥”)

बन्धुरा, स्त्री, (बन्धुर + टाप् ।) पण्ययोषा ।

इति मेदिनी । रे, १९० ॥

बन्धुराः, पुं, शक्तवः । इति मेदिनी । रे, १९० ॥

बहुवचनान्तोऽयम् ॥

बन्धुलः, पुं, (बन्धुं लातीति । बन्धु + ला + क ।)

असतीसुतः । इत्यमरः । २ । ६ । २६ ॥ (यथा,
मृच्छकटिकनाटके चतुर्थे अङ्के ।
“परगृहललिताः परान्नपुष्टाः
परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या
गजकलभा इव बन्धुला नमामः ॥”)
बन्धूकः । इति शब्दरत्नावली ॥

बन्धुलः, त्रि, (बन्धून् लाति स्नेहेन गृह्णातीति ।

बन्धु + ला + क ।) सुन्दरः । नम्रः । इत्यजय-
पालः ॥

बन्धूकः, पुं, (बध्नाति सौदर्य्येण चित्तमिति ।

बन्ध + “उलूकादयश्च ।” उणा० ४ । ४१ । इति
ऊकः ।) पीतशालकः । इति मेदिनी । के, १२८ ॥
पुष्पवृक्षविशेषः । वाँदुली इति वङ्गभाषा ।
दोपहरिया इति हिन्दी भाषा । तत्पर्य्यायः ।
रक्तकः २ बन्धूजीवकः ३ । इत्यमरः । २ । ४ । ७३ ॥
बन्धुकः ४ बन्धुः ५ बन्धुलः ६ बन्धुजीवकः ७
बन्धुजीवः ८ बन्धूलिः ९ बन्धुरः १० । इति
शब्दरत्नावली ॥ रक्तः ११ माध्याह्निकः १२ ।
इति भावप्रकाशः ॥ ओष्ठपुष्पः १३ अर्क-
वल्लभः १४ मध्यन्दिनः १५ रक्तपुष्पः १६ राग-
पुष्पः १७ हरिप्रियः १८ । अस्य गुणाः ।
“असितसितपीतलोहितपुष्पविशेषात् चतुर्व्विधो
बन्धूकः ।
ज्वरहरो विविधारिग्रहपिशाचशमनः प्रसादनः
सवितुः स्यात् ॥”
इति राजनिर्घण्टः ॥
“बन्धूकः कफकृद्ग्राही रक्तपित्तहरो लघुः ॥”
इति भावप्रकाशः ॥
खधूपे, क्ली । वन्दूक इति ख्यातम् । यथा, --
“बन्धूको बन्धुजीवे स्यात् खधूपे स्यान्नपुंसकम् ॥”
इति हड्डचन्द्रः ॥

बन्धूकपुष्पः, पुं, (बन्धूकस्य बन्धूजीवस्य पुष्पमिव

पुष्पं यस्य ।) पीतशालः । इत्यमरः । २ । ४ । ४४ ॥
वीजकः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“वीजकः पीतसारश्च पीतशालक इत्यपि ।
बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥”)

बन्धूरः, पुं, (बन्ध बन्धने । बन्ध + “मद्गुरादयश्च ।”

उणा० १ । ४२ । इत्यत्र खर्ज्जूरादित्वादूरप्रत्य-
येन सिद्धम् इत्युज्ज्वलदत्तः ।) विवरम् । इत्यु-
णादिकोषः ॥

बन्धूरः, त्रि, (बन्ध + खर्ज्जूरादित्वादूरप्रत्ययः ।)

रम्यः । नम्रः । यथा, रभसे ।
“बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः ॥”
उन्नतानतम् । स्वभावात् यदुन्नतं उपाधि-
वशादीषन्नतं तत् । क्वचिदुन्नतं क्वचिदानतं
स्थलादिकम् । इति केचित् । इत्यमरटीकायां
भरतः ॥

बन्धूलिः, पुं, (बन्ध बन्धने । बन्ध + ऊलि ।) बन्धूक-

वृक्षः । इति शब्दरत्नावली ॥

बन्ध्यः, त्रि, (बन्ध + यक् ।) ऋतुप्राप्तावधिफल-

रहितवृक्षादिः । (यथा, रघुः । १ । ७० ।
“सिक्तं स्वयमिव स्नेहाद्बन्ध्यमाश्रमपादपम् ॥”)
तत्पर्य्यायः । अफलः २ अवकेशी ३ । इत्यमरः ।
२ । ४ । ७ ॥ विफलः ४ निष्फलः ५ । इति
राजनिर्घण्टः ॥ बन्धनीयः । इति बन्धधातोः
कर्म्मणि यप्रत्ययः ॥ (यथा, याज्ञवल्क्यः । २ । २४६ ।
“अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ॥”
पुं, निवर्त्तितवारिः सेतुः । यथा, मिताक्षरायाम् ।
“सेतुश्च द्बिविधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।
तोयप्रवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात् ॥”)
पृष्ठ ३/३९६

बन्ध्या, स्त्री, (बन्ध + “अघ्न्यादयश्च ।” उणा०

४ । १११ । इति यक् ।) अप्रजस्त्री । इति मेदिनी ॥
बाँजा इति भाषा ॥ (यथा, भागवते । ६ ।
१४ । १२ ।
“रूपौदार्य्यवयोजन्मविद्यैश्वर्य्यश्रियादिभिः ।
संपन्नस्य गुणैः सर्व्वैश्चिन्ता बन्ध्यापतेरभूत् ॥”
बन्ध्या स्त्री अष्टमे वर्षे अधिवेदनीया भवति
यथाह मनुः । ९ । ८१ ।
“बन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा ॥”)
अपत्यशून्यगौः । तत्पर्य्यायः । वशा २ । इत्य-
मरः । २ । ९ । ६९ ॥ बालाख्यगन्धद्रव्यम् । इति
शब्दचन्द्रिका ॥ वृषलीविशेषः । यथा, --
“बन्ध्या च वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥”
इति प्रायश्चित्तविवेके उशनसो वचनम् ॥ * ॥
योनिरोगविशेषः । यथा, --
“उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता ।
वातला योनिजो रोगो वातदोषेण पञ्चधा ॥”
तस्या लक्षणं यथा, --
“सा फेनिलमुदावर्त्ता रजःकृच्छ्रेण मुञ्चति ।
बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना ॥
परिप्लुता या भवति ग्राम्यधर्म्मे रुजा भृशम् ।
वातला कर्कशास्तब्धा शूलनिस्तोदपीडिता ॥”
तस्याश्चिकित्सा यथा, --
“बला सिता सातिबला मधूकं
वटस्य शुङ्गं गजकेशरञ्च ।
एतन्मधुक्षीरघृतैर्निपीय
बन्ध्या सुपुत्त्रं नियतं प्रसूते ॥
अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम् ।
ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भं दधाति हि ॥
पुष्पोद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया ।
पिष्ट्वा पीत्वा ऋतुस्नाता गर्भं धत्ते न संशयः ॥
कुरुण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः ।
नीलोत्पलं पयोयुक्तमेवं गर्भप्रदं ध्रुवम् ॥
या बला पिबति पार्श्वपिप्पलं
जीरकेण सहितं हिताशना ।
श्वेतया विशिखपुङ्खया युतं
सा सुतं जनयतीह नान्यथा ॥”
इति भावप्रकाशः ॥
(चिकित्सान्तरमस्या यथा, --
“पिप्पल्यः शृङ्गवेरञ्च मरिचं केशरन्तथा ।
घृतेन सह पातव्यं बन्ध्यापि लभते सुतम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधिकारे ॥
“बला चातिबला यष्टिशर्करा मधुसंयुता ।
बन्ध्यागर्भकरी पीता नात्र कार्य्या विचारणा ॥”
इति भैषज्यधन्वन्तरौ स्त्रीरोगाधिकारे ॥)

बन्ध्याकर्कोटकी, स्त्री, (बन्ध्यायाः कर्कोटकी ।

पुत्त्रदातृतया बन्ध्यायाः उपकारिणी अतो-
ऽस्यास्तथात्वम् ।) तिक्तकर्कोटकी । बाँझ-
खखसा इति बाँझचठेल इति बाँझककरोल
इति च हिन्दीभाषा । तत्पर्य्यायः । बन्ध्या २
देवी ३ नागारातिः ४ नागहन्त्री ५ मनोज्ञा ६
पथ्या ७ दिव्या ८ पुत्त्रदा ९ सकन्दा १०
श्रीकन्दा ११ कन्दवल्ली १२ ईश्वरी १३ सुगन्धा
१४ सर्पदमनी १५ विषकण्टकिनी १६ परा १७
कुमारी १८ भूतहन्त्री १९ । अस्या गुणाः ।
तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । कफापहत्वम् ।
स्थावरादिविषघ्नत्वम् । रसायनत्वञ्च । इति
राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“बन्ध्याकर्क्कोटकी देवी कन्या योगेश्वरीति च ।
नागारिर्भक्तदमनी विषकण्टकिनी तथा ॥
बन्ध्याकर्क्कोटकी लघ्वी कफनुद्व्रणशोधिनी ।
सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी ॥”
इति भावप्रकाशः ॥

ब(व)भ्र, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) ब(व)कारादिः । ओष्ठ्यवर्गचतुर्थो-
पधः । ब(व)भ्रति । इति दुर्गादासः ॥

बभ्रवी, स्त्री, (बभ्रोः शिवस्येयं पत्नी । बभ्रु + अण्

+ ङीप् । न वृद्धिः ।) दुर्गा । इति भूरिप्रयोगः ॥

बभ्रिः, पुं, (बभ्र + इन् ।) वज्रम् । इति केचित् ॥

(भरणकर्त्तरि धारके च त्रि । यथा, ऋग्वेदे ।
६ । २३ । ४ ।
“गन्तेयान्ति सवना हरिभ्यां
बभ्रिर्वज्रं पपिः सोमं ददिर्गाः ॥”)

बभ्रुः, पुं, (बिभर्त्ति भरति वा । भृ + “कुभ्रश्च ।”

उणा० १ । २३ । इति कुर्द्वित्वञ्च ।) अग्निः ।
शिवः । (यथा, महाभारते १३ । महादेवस्य
सहस्रनामकथने । १७ । १४८ ।
“शृङ्गीशृङ्गप्रियो बभ्रू राजराजो निरामयः ॥”)
विष्णुः । (यथा, महाभारते १३ । विष्णोः
सहस्रनामकथने । १४९ । २६ ।
“रुद्रो बहुशिरा बभ्रुर्व्विश्वयोनिः शुचिश्रवाः ॥”)
विशालः । नकुलः । इति मेदिनी ॥ (यथा,
मार्कण्डेये । १५ । ९ ।
“सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ॥”)
मुनिविशेषः । इति हेमचन्द्रः ॥ देशभेदः । इति
शब्दरत्नावली ॥ सितावरशाकः । इति राज-
निर्घण्टः ॥ खलतिः । इति हेमचन्द्रः । ३ । ११७ ॥
(कपिलो वर्णः । इति मेधातिथिः ॥ तद्गुणयुक्ते
तु वाच्यलिङ्गः । यथा, मनुः । ४ । १३० ।
“नाक्रामेत्कामतच्छायां बभ्रुणो दीक्षितस्य च ॥”
लोमपादसुतः । यथा, भागवते । ९ । २४ । १ ।
“रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।”
देवावृधसुतः । यथा, तत्रैव । ९ । २४ । ९ ।
“वभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू ॥”
ययातिपुत्त्रस्य द्रुह्योः सुतः । यथा, तत्रैव । ९ ।
२३ । १४ ।
“द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥”
पञ्चगन्धर्व्वपतिषु अन्यतरः । यथा, रामायणे ।
४ । ४१ । ४२ ।
“तत्र गन्धर्व्वपतयः पञ्च सूर्य्यसमप्रभाः ।
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च ॥”
विश्वामित्रपुत्त्रभेदः । यथा, महाभारते । १३ ।
४ । ५० ।
“अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥”
विश्वगर्भस्य पुत्त्रः । स तु यादवानामन्यतमः ।
यथा, हरिवंशे । ९४ । ४८ ।
“वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्य्यवान् ।
यदुप्रवीरा विख्याता लोकपाला इवापरे ॥”
यथा च माघे । २ । ४० ।
“आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ॥”
स च विनष्टप्राये यादवकुले पथि गच्छन् दस्युभि-
र्हतः । तत्कथा च महाभारते । १६ । मौषल-
पर्व्वणि द्रष्टव्या ॥ स्त्री, कपिला गौः । सा च
निशि अजानता पृषध्रेण खड्गेन हता । यथा,
भागवते । ९ । २ । ६ ।
“खड्गमादाय तरसा प्रलीनोडुगमे निशि ।
अजानन्नहनद्बभ्रोः शिरः शार्द्दूलशङ्कया ॥”)

बभ्रुः, त्रि, (बिभर्त्तीति । भ्रू + “कुभ्रश्च ।” उणा०

१ । २३ । इति कुर्द्वित्वञ्च ।) पिङ्गलः । इत्य-
मरः ॥ (यथा, कुमारे । ५ । ८ ।
“बबन्ध बालारुणबभ्रुवल्कलं
पयोधरोत्सेधविशीर्णसंहतिः ॥”
यथा च रघुः । १५ । १६ ।
“धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ॥”)

बभ्रुधातुः, पुं, (बभ्रुः पिङ्गलो धातुः ।) सुवर्ण-

गैरिकम् । इति राजनिर्घण्टः ॥

बभ्रुवाहनः, पुं, मणिपुरस्य राजविशेषः । स च

चित्राङ्गदायां अर्ज्जुनाज्जातः । यथा, --
“करेणुमत्यां नकुलो निरमित्रं तथार्ज्जुनः ।
इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् ॥
मणिपुरपतेः सोऽपि तत्पुत्त्रः पुत्त्रिकासुतः ॥”
इति श्रीभागवते । ९ । २२ । ३२ ॥
अपि च ।
वैशम्पायन उवाच ।
“श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः ।
निर्ययौ विनयेनाथ ब्राह्मणार्थपुरःसरः ॥
मणिपुरेश्वरन्त्वेवमुपायातं धनञ्जयः ।
नाभ्यनन्दत् स मेधावी क्षात्त्रधर्म्ममनुस्मरन् ॥”
“भर्त्तारं निहतं दृष्ट्वा पुत्त्रञ्च पतितं भुवि ।
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे ॥”
इति महाभारते । १४ । ७९ अध्यायः ॥
(अस्यार्ज्जुनादिना युद्धादिकं तत्रैव विस्तरशो
द्रष्टव्यम् ॥)

बम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) बम्बति । इति दुर्गादासः ॥

बर्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) बर्ब्बति । इति दुर्गादासः ॥

बर्ब्बटः, पुं, (बर्ब्ब + अटन् ।) राजमाषः । इति

त्रिकाण्डशेषः ॥ बर्ब्बटी इति ख्यातः ॥ (विवृति-
रस्या राजमाषशब्दे ज्ञेया ॥)

बर्ब्बटी, स्त्री, (बर्ब्बट + गौरादित्वात् ङीष् ।)

पण्ययोषा । व्रीहिभेदः । इति मेदिनी । टे,
५१ ॥

बर्ह, ङ स्तृतौ । हिंसायाम् । दाने । वाचि ।

इति कविकल्पदुमः ॥ (भ्वा०-आत्म०-सक०
पृष्ठ ३/३९७
सेट् ।) रेफोपधः । ङ, बर्हते । इति दुर्गा-
दासः ॥

बल, क ङ निरूपणे । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-सेट् ।) क ङ, बाल-
यते धर्म्मं धीरः । अयं कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥

बल, क म जीवने । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सेट् ।) बलयति । इति
दुर्गादासः ॥

बल, ङ दाने । वधे । निरूपणे । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ङ,
बलते । इति दुर्गादासः ॥

बल, ज धान्यावरोधे । जीवने । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-अक० च-सेट् ।) बालः बलः ।
धनस्य भावो धान्यं समृद्धिस्तस्य अवरोधः
प्रतिबन्धः धान्यावरोधः । बलति पुण्यहीनं
विधिः । पुण्यहीनस्य समृद्धिं प्रतिबध्नाति
इत्यर्थः । अयमर्थो अन्यैर्न्न मन्यते । बलत्य-
न्नेन लोकः । इति दुर्गादासः ॥

ब(व)लं, क्ली, (बलते विपक्षान् हन्तीति । बल + पचा-

द्यच् ।) सैन्यम् । (यथा, भगवद्गीतायाम् । १ । १० ।
“अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्य्याप्तन्त्विदमेतेषां बलं भीमाभिरक्षितम् ॥”)
स्थौल्यम् । सामर्थ्यम् । अत्र शेषस्य पर्य्यायः ।
द्रविणम् २ तरः ३ सहः ४ शौर्य्यम् ५ स्थाम ६
शुष्मम् ७ शक्तिः ८ पराक्रमः ९ प्राणः १० ।
इत्यमरः । २ । ८ । १०२ ॥ महः ११ शूष्म १२ । इति
शब्दरत्नावली ॥ ऊर्ज्जः १३ । इति जटाधरः ॥
तद्वैदिकपर्य्यायः । ओजः १ पा(वा)जः २ शवः ३
तरः ४ तवः ५ त्वक्षः ६ शर्द्धः ७ बाधः ८
नृम्णम् ९ तविषी १० शुष्मम् ११ शुष्णम् १२
शूषम् १३ दक्षः १४ वीळुः १५ च्यौत्नम् १६
सहः १७ यहः १८ वधः १९ वर्गः २०
वृजनम् २१ वृक् २२ मज्मना २३ पौंस्यानि २४
धर्णसिः २५ द्रविणम् २६ स्यन्द्रासः २७ शम्बरम्
२८ । इत्यष्टाविंशतिर्ब्बलनामानि । इति वेदनि-
घण्टौ । २ । ९ ॥ (यथा, मनुः । २ । ५५ ।
“पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति ॥”)
तत्तु गर्भस्थबालकस्य षष्ठे मासि भवति । इति
सुखबोधः ॥ गन्धरसः । रूपम् । इति मेदिनी । ले,
३७ ॥ शुक्रम् । इति हेमचन्द्रः । ३ । २९३ ॥ (यथाह
सुश्रुतः । “धातूनां यत्परं तेजस्तत् खल्वोज
स्त्रदेव बलमित्युच्यते ॥”) वपुः । इति जटाधरः ॥
(यथा, रामायणे । ७ । १ । ३३ ।
“कीदृशो वै प्रभावोऽस्य किं बलं कः परा-
क्रमः ॥”)
पल्लवम् । इति शब्दरत्नावली ॥ रक्तः । इति
शब्दचन्द्रिका ॥ (बलमस्यास्तीति । बल + अर्श
आद्यच् ।) बलयुक्ते, त्रि । इति मेदिनी ॥ * ॥
सद्योबलकराणि बलहराणि च यथा, --
“सद्योबलकरास्त्रीणि बालाभ्यङ्गं सुभोजनम् ।
सद्योबलहरास्त्रीणि अध्वानं मैथुनं ज्वरः ॥”
बलकारकौषधं यथा, गारुडे । ११५ । १९६ अः ।
“शिवामलकचूर्णं वै मधुना उदकेन वा ।
बलानि कुर्य्यान्नासाया प्रत्युषे भक्षणं शिव ! ॥”
पारिभाषिकबलानि । यथा, --
“विद्याभिजनमित्राणि वृद्धिसत्त्वधनानि च ।
तपःसहायवीर्य्याणि दैवञ्च दशमं बलम् ॥”
इति महाभारते आपद्धर्म्मः ॥
अपि च ।
“अबलस्य बलं राजा बालस्य रुदितं बलम् ।
बलं मूर्खस्य मौनन्तु तस्करस्यानृतं बलम् ॥” * ॥
अपि च ।
“क्षत्त्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् ।
भिक्षा बलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ॥
हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः ।
हिंसा बलं खलानाञ्च तपस्या च तपस्विनाम् ॥
बलं वेशश्च वेश्यानां योषितां यौवनं बलम् ।
बलं प्रतापो भूपानां बालानां रुदितं बलम् ॥
सतां सत्यं बलं मिथ्या बलमेवासतां सदा ।
अनुगानामनुगमः स्वल्पस्वानाञ्च सञ्चयः ॥
विद्या बलं पण्डितानां बाणिज्यं बणिजां बलम् ।
शश्वत्सुकर्म्मशीलानां गाम्भीर्य्यं साहसं बलम् ॥
धनं बलञ्च धनिनां शुचीनाञ्च विशेषतः ।
बलं विवेकः शान्तानां गुणिनां बलमेकता ॥
गुणो बलञ्च गुणिनां चौराणाञ्चौर्य्यमेव च ।
विप्रवाक्यञ्च कापट्यमधर्म्ममृणिनां बलम् ॥
हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् ।
वरशापौ सुराणाञ्च शिष्याणां गुरुसेवनम् ॥
बलं धर्म्मो गृहस्थानां भृत्यानां राजसेवनम् ।
बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ॥
यतीनाञ्च सदाचारो न्यासः सन्न्यासिनां बलम् ।
पापं बलं पातकिनां सुभक्तानां हरिर्बलम् ॥
पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् ।
फलं बलञ्च वृक्षाणां जलधीनां जलं बलम् ॥
जलं बलञ्च शस्यानां मत्स्यानाञ्च जलं बलम् ।
शान्तिर्बलञ्च भूपानां विप्राणाञ्च विशेषतः ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे ३५ अध्यायः ॥

ब(व)लः, पुं, (बलते निरूपयति स्वेष्टमिति । बल +

अच् । बलदेवपक्षे नामैकदेशग्रहणाच्चापि
सिध्यति भीमादिवत् ।) काकः । (यथा, महा-
भारते । ७ । ६ । २५ ।
“गृध्राः श्वेना बलाः कङ्का वायसाश्च सहस्रशः ॥”)
बलदेवः । इत्यमरः ॥ (यथा, भागवते । ४ । ५ । १९ ।
“पूष्णो ह्यपातयत् दन्तान् कलिङ्गस्य यथा बलः ॥”)
अस्य पत्न्यादीनां नामानि यथा, --
“रेवतीं नाम तनयां रेवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशठोल्मकौ ॥”
इति विष्णुपुराणे । ५ । २५ । १९ ॥
वरुणवृक्षः । इति शब्दचन्द्रिका ॥ (वायुना
प्रदत्तः कार्त्तिकेयानुचरभेदः । यथा, महा-
भारते । ९ । ४५ । ४२ ।
“बलञ्चातिबलञ्चैव महावक्त्रौ महाबलौ ।
प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ! ॥”
रामपुत्त्रस्य कुशस्यान्वये जातस्य पारियात्रस्य
पुत्त्रविशेषः । यथा, भागवते । ९ । १२ । २ ।
“देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः ।
ततो बलः स्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः ॥”
दनायुषः पुत्त्रविशेषः । यथा, महाभारते । १ ।
६५ । ३३ ।
“दनायुषः पुनः पुत्त्राश्चत्वारोऽसुरपुङ्गवाः ।
विक्षयो बलवीरौ च वृत्रश्चैव महामुरः ॥”
मेघः । इति निघण्टुः । १ । १० ॥) दैत्य-
विशेषः । इति मेदिनी । ले, ३७ ॥ तस्य
विवरणं यथा, --
“आसीद्दैत्यो बलो नाम महाबलपराक्रमः ।
देवगन्धर्व्वयक्षाणां चन्द्रेन्द्रभयकारकः ॥
येन विष्णुर्यमः सूर्य्यो भग्न आजौ प्रपीडिताः ।
अनिलानलरक्षश्च वरुणश्च वशीकृताः ॥
संयम्य येन नागेन्द्रा महाभोगा महाविषाः ।
गरुडश्च कृतो भृत्यः सदाज्ञामभिवर्त्तिनः ॥
येन संलिख्य शैलेन्द्रः कन्दुकाकारकारितः ।
क्रीडार्थं येन विप्रेन्द्र ! गिरयः प्रथिता भुवि ॥
तेन देवाः सब्रह्माद्या दिवः सर्व्वे पलायिताः ।
दत्तं स्थानन्तु पातालं समयं शरदां शतम् ॥
तथा ते भयमापन्ना मानं त्यक्त्वा गता गुरुम् ।
पृच्छन्ति विनयात् सर्व्वे शक्रस्य हितकारिणः ॥
केनोपायेन देवानां स्वर्गवासो भवेद्द्विज ! ।
भवान् हि नयवेत्ता च उपायं वद पृच्छताम् ॥
त्वमेव शास्त्रवेत्ता च हितः शक्रस्य नित्यशः ।
शङ्कोदधिनिमग्नानामतिपोतो भव द्विज ! ॥
एवं पृष्टः स देवैस्तु गुरुर्व्वचनमब्रवीत् ॥
बृहस्पतिरुवाच ।
यदयं दानवः शक्र ! न युद्धे भवतो वशः ।
रणे न क्षयमायाति अजेयः सङ्गरे यतः ॥
अतः कपटमास्थाय प्रार्थनीयः क्रतुं प्रति ।
दाता सत्त्वबलोपेतः स्वकायमर्थितेष्वपि ॥
अतस्तस्य प्रार्थयिता विष्णुर्म्मायामहोदधिः ।
द्बिजरूपधरो भूत्वा याचनाय वधाय च ॥
गुरुणा चोदिता देवाः स्तुतास्ते निधनम्प्रति ।
गताः सर्व्वे ततः शान्ता यत्र देवो जनार्द्दनः ॥
माधवेन तदा देवा दृष्टा भयसमाकुलाः ।
क्रमार्घ्यासनसंलापैः सर्व्वे ते संस्तुतां भृशम् ॥
संपृच्छितास्तदा सर्व्वे किमायातावदन् सुराः ॥
देवा ऊचुः ।
बलेन बलिना देव ! सर्व्वे षित्रासिता वयम् ।
मायावी त्वं वधे तस्य नान्योपायो भवेत् क्वचित् ॥
षिष्णुरुवाच ।
करोमि भवतामिष्टं किन्त्वसौ बलसंयुतः ।
सात्विको नयवेत्ता च सर्व्वशास्त्रार्थपारगः ॥
गूढमन्त्रविचारी स्याद्धर्म्मैककृतनिश्चयः ।
तस्य मायां कथं कर्त्तुं शक्यते सुरसत्तमाः ॥
पुरैका भवते विद्या मम दत्ता तु शूलिना ।
मोहिनी नाम विख्याता मोहं सा कुरुते भृशम् ॥
ततोऽहं तस्य नाशाय स्मरामि परमेश्वरीम् ।
स्मरित्वा परमां विद्यां द्बिजभावो जनार्द्दनः ॥
पृष्ठ ३/३९८
मध्यकायसुवेशश्च वेदपाठी सविष्टरः ।
परिग्राही हुताशस्य क्षपयन्नो व्रजेद्यजेत् ॥
यज्ञार्थं याचनां कस्य करोमि कथ्यतां मम ।
तं दृष्ट्वा सूर्य्यतेजाभमुक्तो विप्रैर्व्रजन् स च ॥
बलस्ते यज्ञनिष्पत्तिं करोति द्विजसत्तम ! ।
हेमकूटे महाशैले तिष्ठते दानवोत्तमः ॥
सर्व्वज्ञोऽपि महामायी वञ्चनाय तदा गतः ।
मोहिनीं जपमानस्तु विद्यां परमसिद्धिदाम् ॥
विचित्रं दनुराजस्य पुरं सर्व्वपुरोत्तमम् ।
प्राविशद्वेदं वेदात्मा पठमानो जनार्द्दनः ॥
दानवन्तु पुरं रम्यं जानासि त्वं ग्रहोत्तम ! ।
द्वारं गतोऽसुरेन्द्रस्य कुर्य्यां प्राध्ययनं तदा ॥
द्बारपालो वदत्येवं श्रुत्वा वेदध्वनिं शुभम् ।
पुराणि रत्नानि शुभं ददामि याचतां वर ! ॥
इष्टं दानं द्बिजश्रेष्ठ ! दुर्लभञ्च महामते ! ।
तेनोक्तं दर्शनं द्बाःस्थ दीयतां दनुसत्तमे ॥
तदा स पूर्ब्बमादिष्टः प्रेषयामास तं नृपम् ।
बलिनं बलसम्पन्नं दानवं सुरमर्द्दनम् ॥
दानोद्यतकरो भद्रं दृष्ट्वा प्रीत्यावभाषत ।
किमायातो भवांश्चात्र कार्य्यं विप्र ! तदुद्दिश ॥
मोहिनीं जपमानस्तु वदते द्बिजकेशवः ॥
ब्रह्मोवाच ।
अहं संप्रेषयामास विद्धि मां कश्यपात्मजम् ।
यज्ञाः सेन्द्रैः समारब्धा ऋषिभिश्चासुरा-
धिप ! ॥
तस्य निष्पत्तये नाथ ! आगतोऽहं तवान्ति-
कम् ।
दानं मे दीयतां राजन् ! सिध्यते येन तन्मखः ॥
बल उवाच ।
येन संसिध्यते यज्ञो देवारब्धो द्विजोत्तम ! ।
तथा चाहं धनं दारान् शिरमद्य ददामि ते ॥
ब्रह्मोवाच ।
येन संसिध्यते यज्ञो देवानामसुराधिप ! ।
तद्देयं तच्च आदिष्टं सत्यमत्रावयोरपि ॥
बल उवाच ।
याच्यतां येन ते कार्य्यं सत्यं विप्र ! ददामि ते ।
संस्मृत्य मोहिनीं विद्यां वदते द्बिजसत्तमः ॥
ब्राह्मण उवाच ।
न मे धनैः स्वदारैर्वा न भूम्या गजवाजिभिः ।
रत्नैः कार्य्यं महाबाहो ! देवयज्ञोऽसुरा-
धिप ! ॥
येन निष्पाद्यते यज्ञः सुखदश्च दिवौकसाम् ।
तमहं याचयिष्यामि दीयतां तद्व्रतं तव ॥
एतत् कार्य्यं मम भद्रं ऋषीणाञ्च विशेषतः ।
देवार्थं तव कायेन सिध्यते तन्मखोत्तमः ॥
तदा दत्ता तनुस्तेन दानवेन महात्मना ।
विष्णुनापि स्वचक्रेण शिरस्यभिहतोऽसुरः ॥
प्राकृतं देहमुत्सृज्य दिव्यकायस्त्वभूत्तदा ।
तस्यावयवसंजाता वज्राद्या रत्नजातयः ॥
लोचने सुरतेजांसि पद्मरागाणि चाभवन् ।
विशुद्धपात्रदानेन कायो रत्नाकरोऽभत् ॥”
इति देवीपुराणे ४७ अध्यायः ॥

ब(व)लक्षः, पुं, धवलः । इत्यमरः । १ । ५ । १३ ॥ बलतेः

क्विप् बलं अक्षत्यस्मिन् घञ् बलक्ष इति कष
संयोगवान् । इति रायमुकुटः ॥ अवलक्षते
इति वलक्षः घञ् अकारलोपः । इति स्वाम्या-
दयः ॥ एतन्मते अन्तःस्थवकारादिः ॥ (यथा,
माघे । ६ । ३४ ।
“द्विरददन्तबलक्षमलक्ष्यत
स्फु रितभृङ्गमृगच्छविकेतकम् ॥”)

बलजं, क्ली, (बलात् जायते इति । बल + जन +

ड ।) क्षेत्रम् । पुरद्वारम् । इत्यमरः । ३ । ३ । ३१ ॥
शस्यम् । (धान्यराशिः । इति वैजयन्ती ॥ यथा,
माघे । १४ । ७ ।
“त्वं समीरण इव प्रतीक्षितः
कर्षकेण बलजान् पुपूषता ॥”)
युद्धम् । इति मेदिनी ॥ बलजन्ये, त्रि ॥

बलजा, स्त्री, (बलात् बलकृतसाहसयुद्धादिकात्

जायते या । बल + जन + ड + टाप् ।) वरयोषा ।
यूथी । इति मेदिनी । जे, २६ ॥

बलती, स्त्री, प्रासादोपरिमण्डलिका । इति

पुराणम् ॥

बलदः, पुं, (बलं ददातीति । बल + दा + कः ।)

जीवकः । इति राजनिर्घण्टः । पौष्टिककर्म्माङ्ग-
होमाग्निः । यथा । पौष्टिके बलदः स्मृतः ।
इति तिथ्यादितत्त्वम् ॥ (वृषभः । यथा, कथा-
सरितसागरे । ३७ । १५३ ।
“अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम् ।
गलेऽबध्नादहं दान्तस्तत्क्षणं बलदोऽभवम् ॥”)
बलदातरि, त्रि ॥ (यथा, ऋग्वेदे । ३ । ५३ । १८ ।
“बलं तोकाय तनयाय जीवसे त्वं हि बलदा
असि ॥”)

बलदा, स्त्री, (बलद + टाप् ।) अश्वगन्धा । इति

राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, --
“गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया ।
बराहकर्णी बरदा बलदा कुष्ठगन्धिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बलदीनता, स्त्री, (बलस्य दीनता ।) ग्लानिः ।

इति हेमचन्द्रः ॥

बलदेवः, पुं, (बलेन दीव्यतीति । दिव + अच् ।)

बलरामः । तत्पर्य्यायः । बलभद्रः २ प्रल-
म्बघ्नः ३ अच्युताग्रजः ४ रेवतीरमणः ५ रामः ६
कामपालः ७ हलायुधः ८ नीलाम्बरः ९ रौहि-
णेयः १० तालाङ्कः ११ मुषली १२ हली १३
सङ्कर्षणः १४ सीरपाणिः १५ कालिन्दी-
भेदनः १६ बलः १७ । इत्यमरः । १ । १ । २४ ॥
रुक्मिदर्पः १८ मधुप्रियः १९ हलधरः २०
हलभृत् २१ हालभृत् २२ सौनन्दी २३ गुप्त-
वरः २४ संवर्त्तकः २५ बली २६ । इति
शब्दरत्नावली ॥ (यथा भागवते । ९ । ३ । ३३ ।
“तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥”)
अस्य ध्यानम् ।
“बलदेवं द्बिबाहुञ्च शङ्खकुन्देन्दुसन्निभम् ।
वामे हलायुधधरं मुषलं दक्षिणे करे ॥
हालालोलं नीलवस्त्रं हेलावन्तं स्मरेत् परम् ॥”
इति कश्चिन्निबन्धः ॥
(अयं हि शेषसर्पस्यांशावतारः । यथा, महा-
भारते । १ । ६७ । १५१ ।
“शेषस्यांशश्च नागस्य बलदेवो महाबलः ॥”
नाम्नामस्य कारणानि बलभद्रशब्दे द्रष्टव्यानि ॥)
वायुः । इति मेदिनी । वे, ६२ ॥

बलदेवा, स्त्री, त्रायमाणौषधिः । इति मेदिनी ।

वे, ६२ ॥ (गुणादयोऽस्यास्त्रायमाणाशब्दे
ज्ञातव्याः ॥)

बलप्रसूः, स्त्री, (प्रसूते इति प्रसूर्जननी । बलस्य

बलदेवस्य प्रसूः ।) रोहिणी । बलराममाता ।
इति शब्दरत्नावली ॥

बलभद्रः, पुं, (बलं भद्रं श्रेष्ठमस्य । यद्बा, बलमस्या-

स्तीति बलः । अर्श आद्यच् । बलो बलवानपि
भद्रः सौम्यः ।) बलदेवः । इत्यमरः । १ । १ । २४ ॥
अनन्तः । बलशाली । इति हेमचन्द्रः । २ । १३९ ॥
लोध्रः । इति शब्दचन्द्रिका ॥ गवयः । इति
राजनिर्घण्टः ॥ बलदेवस्य नाम्नां कारणानि
यथा, --
“कृतं निरूपितं नाम्नां कनिष्ठस्य यथाश्रुतम् ।
ज्येष्ठस्य हलिनो नाम्नः सङ्केतं शृणु मन्मुखात् ॥
गर्भसङ्कर्षणादेव नाम्ना सङ्कर्षणः स्मृतः ।
नास्त्यन्तोऽस्यैव वेदेषु तेनानन्त इति स्मृतः ॥
बलदेवो बलोद्रेकाद्धली च हलधारणात् ।
सितिवासो नीलवासात् मुषली मुषलायुधात् ।
रेवतीसहसम्भोगाद्रेवतीरमणः स्वयम् ॥
रोहिणीगर्भवासात्तु रौहिणेयो महामतिः ।
इत्येवं ज्येष्ठपुत्त्रस्य श्रुतं नाम निवेदितम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥
विष्णुपूजनोक्ताष्टदलपद्मस्थयोगिविशेषः । यथा,
“सर्व्वत्र मण्डलं कार्य्यं बासुदेवस्य पूजने ।
एवमेव नृपश्रेष्ठ ! निष्फलं चान्यथेतरत् ॥
बलभद्रश्च कामश्च अनिरुद्धस्तदुद्भवः ।
नारायणस्तथा ब्रह्मा विष्णुः षष्ठः प्रकीर्त्तितः ॥
नरसिंहो बराहश्च योगिनोऽष्टौ प्रकीर्त्तिताः ।
पूर्ब्बाद्यष्टदलेष्वेतान् वर्णतो मन्त्रतः पृथक् ॥
पूजयेत् कर्णिकामध्ये वासुदेवन्तु नायकम् ।
विमला नायिका तस्य वासुदेवस्य कीर्त्तिता ।
बलभ्रद्रमुखानान्तु योगिन्यः शृणु पार्थिव ! ॥
आदावुत्कर्षिणी ज्ञेया ज्ञाना पश्चात् क्रिया
परा ।
योगा प्रज्ञा तथेशानी अनुप्राती तथा स्तनी ॥
सर्व्वाश्चतुर्भुजाः प्रोक्ताः शङ्खचक्रगदाधराः ।
योगिन्यो बलभद्रन्तु कामं विधियुते तथा ॥
विधे रूपन्तु पूर्ब्बोक्तं हलञ्च मुषलन्तथा ।
शङ्खञ्चक्रञ्च धत्ते स गदां पार्श्वस्थितान्तथा ॥”
इति कालिकापुराणे ८२ अध्यायः ॥
(पर्व्वतविशेषः । यथा, भागवते । ५ । २० । २६ ।
“एतेषां वर्षमर्य्यादा गिरयो नद्यश्च सप्त सप्तैव ।
ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्र-
स्रोतो देवपालो महानस इति ॥”)
पृष्ठ ३/३९९

बलभद्रा, स्त्री, कुमारी । त्रायमाणा । इति

मेदिनी । दे, २८४ ॥ (अस्याः पर्य्यायो यथा, --
“बलभद्रा त्रायमाणा त्रायन्ती गिरिसानुजा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बलभद्रिका, स्त्री, (बलभद्रैव । बलभद्रा + स्वार्थे

कन् । कापि अत इत्वम् ।) त्रायमाणा । इत्य-
मरः । २ । ४ । १५० ॥

बलरामः, पुं, (रम + भावे घञ् । बलेन रामो

रमणं यस्य ।) बलदेवः । यथा, --
“बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥”
इति नारदपञ्चरात्रे चतुर्थरात्रीयः ८ अध्यायः ॥
अस्य ध्यानम् ।
“अन्तरे दिव्य उद्याने हरिचन्दनसंज्ञके ।
तत्राधस्तात् स्वर्णपीठे विचित्रे मणिमण्डपे ॥
तन्मध्ये मणिमाणिक्यदिव्यसिंहासनोज्ज्वले ।
तत्रोपरि च रेवत्या सङ्कर्षणहलायुधम् ॥
ईश्वरस्याभयानन्तमभिन्नगुणरूपिणम् ।
शुद्धस्फटिकसंकाशं रक्ताम्बुजदलेक्षणम् ॥
नीलचेलधरं स्निग्धं दिव्यगन्धानुलेपनम् ।
कुण्डलाश्लिष्टसद्गण्डं दिव्यमूषाम्बरस्रजम् ॥
मधुपाने सदासक्तं मदाघूर्णितलोचनम् ।
मुषलं दक्षिणे पाणौ बलरामं सदा स्मरेत् ॥”
इति कश्चिन्निबन्धः ॥

बललः, पुं, (बलं लातीति । बल + ला + क ।)

बलरामः । इत्यमरटीकायां भरतः ॥

बलवत्, व्य, (बलमस्यास्तीति । बल + मतुप् । मस्य

वः ।) अतिशयम् । इत्यमरः । ३ । ४ । १ ॥ (यथा,
शाकुन्तले प्रस्तावनायां सूत्रधारस्योक्तिः ।
“बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥”)

बलवान् [त्], त्रि, (बलमस्यास्तीति । बल +

मतुप् । मस्य वः ।) बलविशिष्टः । तत्पर्य्यायः ।
मांसलः २ अंशलः ३ । इत्यमरः । २ । ६ । ४४ ॥
वीर्य्यवान् ४ बली ५ । इति शब्दरत्नावली ॥
(यथा, मनुः १ । ७६ ।
“आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः ।
बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)

बलवर्द्धिनी, स्त्री (बलं वर्द्धयतीति । बल + वृध् +

णिनिः । ङीप् ।) जीवकौषधिः । इति जटाधरः ॥

बलविन्यासः, पुं, (बलानां सैन्यानां विशेषेण

दुर्भेद्यत्वेन न्यासः स्थापनम् ।) युद्धार्थं सैन्यस्य
देशविशेषे विभज्य दुर्लङ्घ्यत्वनिमित्तं स्थापनम् ।
तत्पर्य्यायः । व्यूहः २ । इत्यमरः । २ । ८ । ७९ ॥
(बलविन्यासास्तु मकरपद्मादिभेदात् बहवः ।
तत्र संक्षेपतो मनुना युद्धयात्रार्थं केचि-
न्निर्द्दिष्टाः । यथा, मानवे । ७ । १८७ -- १९१ ।
“दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गारुडेन वा ॥
यतश्च भयमाशङ्कत् ततो विस्तारयेद्बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥
सेनापतिबलाध्यक्षौ सर्व्वदिक्षु निवेशयेत् ।
यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद्दिशम् ॥
गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥”)

बलसूदनः, पुं, (बलं तन्नाम्ना प्रसिद्धं असुरं

सूदयतीति । बल + सूद + ल्यु ।) इन्द्रः ।
इति हलायुधः ॥ (यथा, देवीभागवते । ५ । ३ । १३ ।
“नोचेद्वज्रं गृहाणाशु युद्धाय बलसूदन ! ॥”
विष्णुः । इति देवीपुराणे ४७ अध्यायः ॥)

बलस्थितिः, स्त्री, (बलानां स्थितिरवस्थानं यत्र ।

अभिधानात् स्त्रीत्वम् ।) शिविरम् । इति
त्रिकाण्डशेषः ॥

बलहा, [न्], पुं, (बलं सामर्थ्यं हन्तीति । बल +

हन् + क्विप् ।) श्लेष्मा । इति शब्दरत्नावली ॥
(बलं तन्नामानमसुरं हन्तीति । इन्द्रः ॥ पर-
बलविनाशके, त्रि । यथा, हरिवंशे । ११० । ४२ ।
“तत्राहं युध्यमानस्तु भ्रातास्य बलहा बली ।
स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ॥”)

ब(व)ला, स्त्री, (कार्य्यकारित्वेन बलमस्त्यस्याः ।

बल + अर्श आद्यच् ततष्टाप् ।) क्षुपविशेषः ।
बाला इति वाडियाला इति भाषा । तत्पर्य्यायः ।
वाठ्यालकः २ । इत्यमरः । २ । ४ । १०७ ॥ समङ्गा ३
ओदनिका ४ भद्रा ५ भद्रोदनी ६ खरका-
ष्ठिका ७ कल्याणिनी ८ भद्रबला ९ मोटा १०
पाटी ११ बलाद्या १२ । इति राजनिर्घण्टः ॥
शीतपाकी १३ बाट्या १४ वाटी १५ विनया १६
वाट्याली १७ वाटिका १८ । इति शब्दरत्ना-
वली ॥ अपि च ।
“वाट्यालको बाठ्यपुष्पी समांसा विलला बला ।
श्वेतवाडियाला इति भाषा ॥
ऋष्यप्रोक्ता त्वतिबला पीतपुष्पी महाबला ।
पीतवाडीयाला ।” इति रत्नमाला ॥ अस्या
गुणाः । अतितिक्तत्वम् । मधुरत्वम् । पित्ताति-
सारनाशित्वम् । बलवीर्य्यप्रदत्वम् । पुष्टिकफ-
रोधविशोधनञ्च । इति राजनिर्घण्टः ॥ अथ
बलाचतुष्टयनामादि ।
“बला वाट्यालिका वाट्या सैव वाट्यालकोऽपि च ।
महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥
ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह ।
गाङ्गेरुकी नागबला झषा ह्रस्वा गवेधुका ॥
बलाचतुष्टयगुणाः ।
बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् ।
स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥
बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् ।
मूत्रातिसारं हरति दुष्टमेतन्न संशयः ॥”
इति भावप्रकाशः ॥
“स्निग्धायुष्या बला वृष्या ग्राहिणी वात-
पित्तजित् ॥”
इति राजनिर्घण्टः ॥
(विद्याविशेषः । सा च ब्रह्मणः सुता । विश्वा-
मित्रेण रामाय प्रदत्ता । अस्याः प्रभावात्
क्षुधातृष्णादिजनितक्लेशो न भवेत् । यथा, रामा-
यणे । १ । २२ । ११ -- २२ ।
“अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥
गृहाण वत्स्य ! सलिलं माभूत् कालविपर्य्ययः ।
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥
न श्रमो न ज्वरो वा ते न रूपस्य विपर्य्ययः ।
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरॄताः ॥
न बाह्वोः सदृशो वोर्य्ये पृथिव्यामस्ति कश्चन ।
त्रिषु लोकेषु वा राम ! न भवेत् सदृशस्तव ॥
बलामतिबलाञ्चैव पठतस्तात राघव ! ॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
नोत्तरे प्रतिबक्तव्ये समो लोके तवानघ ! ॥
एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव ।
बला चातिबला चैव सर्व्वज्ञानस्य मातरौ ॥
क्षुत्पिपासे न ते राम ! भविष्येते नरोत्तम ! ।
बलामतिबलाञ्चैव पठतस्तात राघव ! ॥
विद्याद्वयमधीयाने यशश्चाथ भवेद्भवि ॥
पितामहसुते ह्येते विद्ये तेजःसमन्विते ।
प्रदातुं तव काकुस्थ ! सदृशस्त्वं हि पार्थिव ! ॥
कामं बहुगुणाः सर्व्वे त्वय्येते नात्र संशयः ।
तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥
ततो रामो जलं पृष्ट्वा प्रहृष्टवदनः शुचिः
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥
विद्यासमुदितो रामः शुशुभे भीमविक्रमः ।
सहस्ररश्मिर्भगवान् शारदीव दिवाकरः ॥”)

ब(व)लाकः, पुं, (बलेन अकतीति । बल + अक +

पचाद्यच् ।) बकजातिः । इति भरतः ॥ (पूरु-
पुत्त्रः । स च पीतगङ्गस्य जह्नोः पौत्रः ।
यथा, भागवते । ९ । १५ । ३ ।
“जह्नोस्तु पूरुस्तत् पुत्त्रो बलाकश्चात्मकोऽजकः ॥”
वत्सप्रीपुत्त्रभेदः । यथा, मार्कण्डेये । ११८ । २ ।
“तस्य तस्यां सुनन्दायां पुत्त्रा द्बादश जज्ञिरे ।
प्रांशुः प्रचीरः शूरश्च सुचक्रो विक्रमः क्रमः ॥
बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ॥”
जातूकर्ण्यस्य मुनेः शिष्यविशेषः । यथा, श्रीभाग-
वते । १२ । ६ । ५८ ।
“जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् ।
बलाकपैलजावालविरजेभ्यो ददौ मुनिः ॥”
राक्षसभेदः । यथा, मार्कण्डेये । ६९ । ६४ ।
“तां जहाराद्रितनयो बलाको नाम राक्षसः ॥”
स्वनामख्यातो व्याधविशेषः । यथा, महा-
भारते । ८ । ६९ । ४० ।
“मृगव्याध्योऽभवत् कश्चित् बलाको नामभारत ॥”)

ब(व)लाका, स्त्री, (बलते इति । बल संवरणे + बला-

कादयश्च ।” उणा० ४ । १४ । इति अक । यद्बा,
बलेन अकतीति । बल + अक कुटिलगतौ +
पचाद्यच् ।) बकजातिविशेषः । (यथा, मनुः ।
५ । १४ ।
“बकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम् ॥”)
तत्पर्य्यायः । विषकण्ठिका २ । इत्यमरः । २ ।
५ । २५ ॥ विषकण्ठी ३ बलाकी ४ । इति
शब्दरत्नावली ॥ कारायिका ५ लिङ्गलिका ६ ।
इति जटाधरः ॥ विषकण्ठी ७ शुष्काङ्गा ८
पृष्ठ ३/४००
दीर्घकन्धरा ९ धर्म्मान्ता १० कामुकी ११ श्येता
१२ मेघानन्दा १३ जलाश्रया १४ । बलेन शक्त्या
दूरमूर्द्धमकति । वल वल्ल संवरणे बलाकादय-
श्चेत्याकन् वलाका । इति रायमुकुटकृतव्युत्पत्ति-
द्बयेन पवर्गीयबकारादिरन्त्यवकारादिश्चायं
शब्दः ॥ * ॥ अस्या मांसगुणाः । वायुनाशित्वम् ।
स्निग्धत्वम् । सृष्टमलत्वम् । वृष्यत्वम् । कफपित्त-
हरत्वम् । हिमत्वञ्च । इति राजवल्लभः ॥ सारस-
हंसबलाकाचक्रक्रौञ्चादयो जले प्लवनात् प्लव-
संज्ञाः कथितास्ते तन्मांसं गुरूष्णञ्च बलदायि ।
अपि च ।
“अन्ये बकबलाकाद्या गुरवः प्राणिभक्षणात् ।”
इति राजनिर्घण्टः ॥
अन्यच्च ।
“हंससारसकाचाक्षबकक्रौञ्चसरारिकाः ।
नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः ।
प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥
प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।
वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥”
इति भावप्रकाशः ॥
(कामुकी । इति शाश्वतः ॥)

बलाञ्चिता, स्त्री, (बलेन अञ्चिता ।) रामवीणा ।

इति शब्दरत्नावली ॥

बलाटः, पुं, (बलेन अट्यते प्राप्यते इति । अट् +

घञ् ।) मुद्गः । इति हेमचन्द्रः ॥

बलात्, व्य, (बलमततीति । बल + अत् + क्विप् ।)

हठात् । बलादिति निपातो हठार्थे इति
स्वामी । इत्यमरटीकायां भरतः ॥ यथा, --
“बलात् संदूषयेद्यस्तु परभार्य्यां नरः क्वचित् ।
वधदण्डो भवेत्तस्य नापराधो भवेत् स्त्रियाः ॥”
इति मात्स्ये २०१ अध्यायः ॥

बलात्कारः, पुं, (बलात्करणम् । बलात् + कृ +

भावे घञ् ।) हठात्करणम् । तत्पर्य्यायः ।
प्रसभम् २ हठः ३ । इत्यमरः । २ । ८ । १०८ ॥
हठात्कारः ४ प्रसभः ५ । इति शब्दरत्नावली ॥
“मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् ।
तदप्रमाणं लिखितं भयोपधिकृतन्तथा ॥”
इति ऋणादाने मिताक्षराधृतनारदवचनम् ॥
(यथा, रघुः । १० । ४७ ।
“शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥”)

बलात्मिका, स्त्री, (बलमेव आत्मा स्वरूपं यस्याः ।)

हस्तिशुण्डीवृक्षः । इति शब्दरत्नावली ॥

बलाद्या, स्त्री, (बलाय आद्या श्रेष्ठा ।) बला ।

इति राजनिर्घण्टः ॥ (बलाशब्देऽस्या विवरणं
ज्ञातव्यम् ॥)

बलानुजः, पुं, (बलस्य बलरामस्य अनुजः कनिष्ठः ।)

श्राकृष्णः । इति पुराणम् ॥

बलामोटा, स्त्री, (बलमामोटयतीति । बल +

आ + मुट् + अच् । टाप् ।) नागदमनी । इति
भावप्रकाशः ॥ (यथास्या गुणाः ।
“बलामोटा कटुस्तिक्ता लघुः पित्तकफापहा ।
मूत्रकृच्छ्रव्रणान् रक्षो नाशयेज्जालगर्द्दभान् ॥
सर्व्वग्रहप्रशमनी निःशेषविषनाशिनी ।
जयं सर्व्वत्र कुरुते धनदा सुमतिप्रदा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)

बलायः, पुं, (अयतीति अयः प्रापकः । बलस्य

अयः ।) वरुणवृक्षः । इति शब्दचन्द्रिका ॥
(गुणादयोऽस्य वरुणशब्दे ज्ञातव्याः ॥)

बलारातिः, पुं, (बलस्य तन्नाम्ना प्रसिद्धस्यासुरस्य

अरातिः शत्त्रुः ।) इन्द्रः । इत्यमरः । १ । १ । ४६ ॥

बलालकः, पुं, (बलाय अलति समर्थो भवतीति ।

बल + अल् + ण्वुल् ।) पानीयामलकम् । इति
शब्दचन्द्रिका ॥

बलाशः, पुं, (बलमश्नातीति । बल + अश + अण् ।)

श्लेष्मा । इति हेमचन्द्रः । ३ । १२६ ॥ (यथा,
“बलाश एवायतमुन्नतञ्च
शोफं करोत्यन्नगतिं निवार्य्य ॥”
कण्ठगतरोगविशेषः । तल्लक्षणं यथा, --
“गले च शोफं कुरुतः प्रवृद्धौ
श्लेष्मानिलौ श्वासरुजोपपन्नम् ।
मर्म्मच्छिदं दुस्तरमेतमाहु-
र्ब्बलाशसंज्ञं निपुणा विकारम् ॥”
इति सुश्रुते निदानस्थाने षोडशेऽध्याये ॥
दन्त्यसान्तोऽप्ययं शब्दो दृश्यते ॥)

बलासमः, पुं, बुद्धः । इति त्रिकाण्डशेषः ॥

ब(व)लाहकः, पुं, (बलेन हीयते इति ।

बल + हा + क्वुन् । यद्बा, वारीणां वाहकः ।
पृषोदरादित्वात् साधुः ।) मेघः । (यथा,
कुमारे । १ । ४ ।
“बलाहकच्छेदविभक्तरागा-
मकालसन्ध्यामिव धातुमत्ताम् ॥”)
मुस्तकः । इत्यमरः । १ । ३ । ६ ॥ पर्व्वतः ।
दैत्यविशेषः । नागविशेषः । इति मेदिनी ॥
(यथा, महाभारते । २ । ९ । ९ ।
“कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ॥”
बलाहकसर्पस्तु दर्व्वीकरणामन्तर्गतः । इति
सुश्रुते कल्पस्थाने ४ अध्यायः ॥) रमागर्भोद्भवः
कल्किदेवपुत्त्रः । यथा, --
“तथा रमा सिते पक्षे वैशाखे द्बादशीदिने ।
जामदग्न्याद्व्रतं चक्रे पूर्णं वर्षचतुष्टयम् ॥
पट्टसूत्रं करे बद्ध्वा भोजयित्वा द्विजान् बहून् ॥
भुक्त्वा हविष्यं क्षीराक्तं सुमिष्टं स्वामिना सह ॥
बुभुजे पृथिवीं सर्व्वामपूर्ब्बां स्वजनैर्वृता ।
सा पुत्त्रौ सुषुवे साध्वी मेवमालबलाहकौ ॥
देवानामुपकर्त्तारौ यज्ञदानतपोव्रतौ ।
महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥”
इति कल्किपुराणे ३१ अध्यायः ॥
श्रीकृष्णरथाश्वविशेषः । यथा, --
“स्यन्दनस्तु शतानन्दः सारथिश्चास्य दारुकः ।
तुरङ्गाः शैव्यसुग्रीवमेघपुष्पबलाहकाः ॥”
इति त्रिकाण्डशेषः ॥
(यथाच भागवते । १० । ५३ । ५ ।
“स चाश्वैः शव्यसुग्रीवमेघपुष्पबलाहकैः ।
युक्तं रथसुपानीय तस्थौ प्राञ्जलिरग्रतः ॥”
जयद्रथस्य भ्रातृविशेषः । यथा, महाभारते ।
३ । २५४ । १२ ।
“जयद्रथो नाम यदि श्रुतस्ते
सौवीरराजः सुभगे ! स एषः ।
तस्यापरे भ्रातरोऽदीनसत्त्वा
बलाहकानीकविदारणाद्याः ॥”
नदविशेषः । स तु लवणसमुद्रगामी । यथा,
मात्स्ये । १२० । ७२ ।
“बलाहकश्च ऋषभश्चक्रो मैनाक एव च ।
विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम् ॥”
कुशद्वीपस्थपर्व्वतविशेषः । यथा, तत्रैव । १२१ । ५५ ।
“बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरिः ॥”
तारापीडस्य राज्ञः स्वनामख्यातो बलाधि-
कारी । यथा, कादम्बर्य्यां चन्द्रापीडविद्या-
भ्यासकथने । “चन्द्रापीडमानेतुं राजा बलाधि-
कृतं बलाहकनामानं आहूय बृहत्तुरगबल-
पदातिपरिवृतमतिप्रशस्तेऽहनि प्राहिणोत् ॥”)

बलाह्वकन्दः, पुं, (बलं आह्वयतीति बलाह्वस्ता-

दृशः कन्दः ।) गुलञ्चकन्दः । इति राजनिर्घण्टः ॥

बलिः, पुं, (बल्यते दीयते इति । बल दाने + “सर्व्व-

धातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।)
करः । राजग्राह्यो भागः । (यथा, मनुः । ७ । ८० ।
“सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ॥”
“राजा शक्तैरमात्यैर्वर्षग्राह्यं धान्यादिभाग-
मानयेत् ।” इति कुल्लूकभट्टः ॥) उपहारः ।
पूजासामग्री । इत्यमरभरतौ ॥ (यथा, मार्क-
ण्डेये । ९३ । ८ ।
“ददतुस्तौ बलिञ्चैव निजगात्रासृगुक्षितौ ॥”)
चामरदण्डः । बलिवैश्वनामकपञ्चमहायज्ञान्त-
र्गतभूतयज्ञः । इति हेमचन्द्रः । ३ । ४८६ ॥ (गृहस्थो
हि पञ्चसूनापापेन प्रतिदिनं संबध्यते । तन्निष्कृ-
त्यर्थं प्रत्यहं पञ्च महायज्ञाः कर्त्तव्याः । यथाह
मनुः । ३ । ६८ -- ७१ ।
“पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥
तासां क्रमेण सर्व्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च कॢप्ता महायज्ञा प्रत्यहं गृहमेधिनाम् ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥
पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥”
“पशुवधस्थानं सूना । सूना इव सूना हिंसा-
स्थानगुणयोगात् । चुल्ल्यादयः पञ्च गृहस्थस्य
जीवहिंसास्थानानि । चुल्ली उद्बाहनी । पेषणी
दृषदुपलात्मिका । उपस्करः गृहोपकरण-
कुण्डसंमार्जन्यादिः । कण्डनी उदूखलमूषले ।
उदकुम्भो जलाधारकलशः ।” इति तट्टीकायां
कुल्लूकभट्टः ॥ * ॥ गृहस्थानां बलिरूपभूत-
यज्ञस्य प्रतिदिनकर्त्तव्यतया तस्य विस्तृतिरुच्यते ।
गृहस्थः अनन्यचित्तो देवताध्यानपर एव
होमान् कृत्वा प्राच्यादिषु दिक्षु बलिं हरेत् ।
तत्प्रकरणमाह । प्राच्यां इन्द्राय नमः । इन्द्र-
पृष्ठ ३/४०१
पुरुषेभ्यो नमः । दक्षिणस्यां यमाय नमः ।
यमपुरुषेभ्यो नमः । पश्चिमायां वरुणाय नमः ।
वरुणपुरुषेभ्यो नमः । उत्तरस्यां सोमाय
नमः । सोमपुरुषेभ्यो नमः । ननु मनौ । ३ । ८७ ।
“इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ।”
इत्युक्तेः अन्तकाय नमः । अन्तकपुरुषेभ्यो नमः
इत्यादिप्रयोगः साधुः स्यात् । अत उच्यते
यद्यपि शब्दावगम्यत्वाद्देवतात्वस्यान्तकाप्पतीन्दु-
शब्दैरेवोद्देशो युक्तस्तथापि बह्वृचानुष्ठानसंवा-
दाद्बह्वृचगृह्ये च यमाय यमपुरुषेभ्यो वरु-
णाय वरुणपुरुषेभ्यो सोमाय सोमपुरुषेभ्य
इति प्रतिदिशमिति पाठात् यथोक्त एव
प्रयोगः । मरुद्भ्यो नमः इति द्वारे बलिं
दद्यात् । जले अद्भ्यो नमः । मुषलोलूखले वन-
स्पतिभ्यो नमः । वास्तुपुरुषस्य शिरःप्रदेशे
उत्तरपूर्ब्बस्यां दिशि श्रियै नमः इति बलिं
दद्यात् । वास्तुपुरुषस्य पाददेशे दक्षिणपश्चि-
मायां दिशि भद्रकाल्यै नमः । इत्यनेन दद्यात् ।
केचित्तु गृहस्थशयनस्य शिरःस्थान-भूप्रदेशे
श्रियै नमः । चरणभूप्रदेशे भद्रकाल्यै नमः
इत्याहुः । ततो गृहमध्ये ब्रह्मणे पतये नमः
बास्तोः पतये नमः इत्यनेन बलिं हरेत् । गृहा-
क्राशे विश्वेभ्यो देवेभ्यो नमः । दिवाचरेभ्यो
भूतेभ्यो नमः । दिवानक्तञ्चारिभ्यो भूतेभ्यो
नमः इत्यनेन दद्यात् । गृहस्योपरिस्थितगृहे
सर्व्वात्मभूतये नमः इत्यनेन बलिं दद्यात् ।
केचित् बलिदातुः पृष्ठदेशस्थभूभागे सर्व्वात्म-
भूतये नम इत्यनेन दद्यादित्याहुः । ततो बलि-
दात्रा प्राचीनावीतिना दक्षिणामुखेन च सता
उक्तबलिदानावशिष्टं सर्व्वमन्नं दक्षिणस्यां दिशि
पितृभ्यः स्वधा इत्यनेन देयम् । ततोऽन्यदन्नं
पात्रे समुद्धृत्य यथा रजसा न संगृह्यते तथा
भुवि शनकैः श्वपतितचाण्डालपापरोगिव्रायस-
कृमिप्रभृतिभ्यो दद्यात् । एवं नित्यं कुर्व्वन् परं
स्थानमभ्येतीति ॥ * ॥) यथा, --
“येऽर्च्चयन्ति सदा विष्णुं निश्चलेनान्तरात्मना ।
न ते भूयोऽभिजायन्ते श्वेतद्वीपनिवासिनः ॥
एवं पूज्य विधानेन अतिथिं भोजयेत्ततः ।
सायं प्रातर्यदन्नं स्याद्धुत्वाग्निं तेन तद्बलिम् ॥”
इति वह्निपुराणम् ॥ * ॥
“ततोऽग्नेस्तर्पणं कुर्य्याद्दद्याच्च बलिमित्यथ ।
ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ॥
धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां वलिं क्षिपेत् ।
प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ॥
प्रतीच्यां वरुणायैव सोमायोत्तरतो बलिम् ।
दद्याद्धात्रे विधात्रे च बलिं द्वारे गृहस्य च ॥
अर्य्यम्णे च बलिं दद्यात् गृहेभ्यश्च समन्ततः ।
नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ॥
पितॄणां निर्व्वपेच्चैव दक्षिणाभिमुखः स्थितः ।
गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः ॥
ततस्तोयमुपादाय तिष्ठेदाचमनाय वै ।
स्थानेषु निक्षिपेत् प्राक्षस्तास्ता उद्दिश्य देवताः ॥
एवं गृहबलिं कृत्वा गृहे गृहपतिः शुचिः ।
आप्यायनाय भूतानां कुर्य्यादुत्सर्गमादरात् ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भु वि ।
वैश्वदेवं हि नामैतत् सायं प्रातरुदाहृतम् ॥”
इति मार्कण्डेयपुराणम् ॥ * ॥
अथ बलिः । वैश्वदेवपश्चाद्भूमौ जलं क्षिप्त्वा
तच्छेषान्नेन साङ्गुष्ठेन देवतीर्थेन ॐ विश्वेभ्यो
देवेभ्यो नमः इति बलिं दद्यात् तदुपरि जल-
मनेन मन्त्रेण दद्यात् एवं सर्व्वत्र जलप्रक्षेपः ।
तदुत्तरे ॐ सर्व्वेभ्यो देवेभ्यो नमः । उभयो-
र्द्दक्षिणे प्राचीनावीती पातितवामजानुर्दक्षिणा-
मुखो दक्षिणाग्रकुशत्रयोपरि सतिलमन्नं भुग्न-
कुशत्रयेण पितृतीर्थेन ॐ पितृभ्यः स्वधा । ततः
सर्व्वेषां बलीनामुपरि सर्व्वत्र प्रत्येकं जल-
निषेकः । तत उपवीती देवतीर्थेन बलिपात्र-
प्रक्षालनोदकेनान्नेन ऐशान्यां ॐ यक्ष्णैतत्ते
नमस्तेऽस्तु मा माहिंसीः ॐ यक्ष्मणे नमः इत्य-
नेन दद्यात् जलञ्च देयम् ॥ इत्यावश्यकबलिः ॥ * ॥
अथ काम्यबलिः । बलीनां पश्चिमे जलेनोत्तराग्रां
रेखां कृत्वा भूमौ जलं दत्त्वा, --
“ॐ देवा मनुष्याः पशवो वयांसि
सिद्धाः सयक्षोरगदैत्यसंघाः ।
प्रेताः पिशाचास्तरवः समस्ता
ये चान्नमिच्छन्ति मया प्रदत्तम् ॥
पिपीलिकाः कीटपतङ्गकाद्या
बुभुक्षिताः कर्म्मनिबन्धदेहाः ।
प्रयान्तु ते तृप्तिमिदं मयान्नं
तेभ्यो विसृष्टं सुखिनो भवन्तु ॥
येषां न माता न पिता न बन्धु-
र्नैवान्नसिद्धिर्न तथान्नमस्ति ।
तत्तृप्तयेऽन्नं भुवि दत्तमेतत्
प्रयान्तु तृप्तिं मुदिता भवन्तु ॥
ॐ भूतानि सर्व्वाणि तथान्नमेत-
दहञ्च विष्णुर्न यतोऽन्यदस्ति ।
तस्मादहं भूतनिकायभूत-
मन्नं प्रयच्छामि भवाय तेषाम् ॥
चतुर्द्दशो भूतगणो य एष
तत्र स्तिता येऽखिलभूतसंघाः ।
तृप्त्यर्थमन्नं हि मया विसृष्टं
तेषामिदन्तेऽमुदिता भवन्तु ॥”
इत्युच्चार्य्य बलिं दद्यात् ।
“ॐ ऐन्द्रवारुणवायव्याः सौम्या वै नैरृ ता-
स्तथा ।
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥”
ॐ वायसेभ्यो नम इति पुनर्जलं देयम् ।
भूमौ जलं दत्त्वा, --
“ॐ श्वानौ द्वौ श्यावशवलौ वैवश्वतकुलोद्भवौ ।
ताभ्यां पिण्डं प्रयच्छामिस्यातामेतावहिंसकौ ॥”
ॐ श्वभ्यां नमः ततः पुनर्जलं देयम् । भूमौ
जलं दत्त्वा ॐ चण्डालपतितपापरोगिभ्यो नमः
पुनर्जलं देयम् । भूमौ जलं दत्त्वा ॐ धर्म्म-
राजचित्रगुप्ताभ्यां नमः ततः पुनर्जलदानम् ।
ततो जलं स्पृष्ट्वा अग्निं विसृज्य नमस्कत्य
संप्राप्य जले क्रियमाणे बलीनग्नौ जले वा
क्षिपेत् पिण्डवत् । अन्नाभावे केवलजलेन
पात्रान्तरस्थजले कुर्य्यात् । ततः कुशकुसुम-
सहितं जलपूर्णं ताम्रादिपात्रं हस्ते निधाय
महावामदेव्य ऋषिर्विराड्गायत्त्री छन्द इन्द्रो
देवता शान्तिकर्म्मणि जपे विनियोगः । ॐ
कयानश्चित्र आभूवदूती सदा वृधः सखा कया
सचिष्ठया वृता । ॐ कस्त्वा सत्यो मदाना-
मंहिष्ठो मत्सदन्धसः दृढाचिदारुजे वसु । ॐ
अभीषूणः सखीनामविता जरितॄणां शतम्भवा-
स्यूतये । इति वामदेव्यं गीत्वा गानाशक्तौ त्रिः
पठित्वा ॐ स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः
पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिः
स्वस्तिनो बृहस्पतिर्दधातु । ॐ स्वस्तीति त्रिः
पठेत् । पार्व्वणश्राद्धादिकरणे पार्व्वणादिकं
कृत्वैव वैश्वदेवादिकं कार्य्यं रात्रावपि पाकसत्त्वे
यत्किञ्चिद्द्रव्यसत्त्वे वा वैश्वदेववलिकर्म्मणी
कुर्य्यात् । शूद्रस्तु ब्राह्मणाभावे मन्त्रार्थं भावयन्
नमो नम इति मन्त्रेण कुर्य्यात् । अषिभक्ताना-
मेककरणादेव सर्व्वेषां सिद्धिः । इत्याह्निका-
चारप्रयोगतत्त्वम् ॥ * ॥ नवग्रहबलिर्यथा, --
“गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम् ।
यावकं मङ्गलायैव क्षीरान्नं सोमसूनवे ॥
दध्योदनञ्च जीवाय शुक्राय तु घृतौदनम् ।
शनैश्चराय कृशरमाजमांसञ्च राहवे ॥
चित्रौदनञ्च केतुभ्यः सर्व्वभक्ष्यैः समर्च्चयेत् ॥”
सर्व्वभक्ष्यैस्तु तत्तद्द्रव्याभावे यथालाभोपपन्नै-
र्भक्ष्यैः । इति ग्रहयज्ञतत्त्वम् ॥ * ॥
दैत्यभेदः । इति मेदिनी । (अयं सावर्णस्य मनो-
रन्तरे इन्द्र आसीत् । यथा, मार्कण्डेये । ८० । १० ।
“तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ! ॥”)
स च दैत्यो विरोचनपुत्त्रः । तस्य अशनायां
पत्न्यां वाणज्येष्ठं पुत्त्रशतं जातम् । इति
श्रीभागवतम् ॥ यथा, --
“विरोचनस्य पुत्त्रस्तु बलिरेकः प्रतापवान् ।
बलेः पुत्त्रशतं जज्ञे राजानः सर्व्व एव ते ॥
तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः ।
सहस्रबाहुर्ज्येष्ठश्च कन्ये द्वे च बलेः शुभे ॥
बलेः पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः ।
बालेयो नाम विख्यातो गणो विक्रान्तपौरुषः ॥”
इत्यग्निपुराणम् ॥
तस्य पूर्ब्बजन्मवृत्तान्तो यथा, --
शुक्र उवाच ।
“धर्म्मध्वजो नाम बभूव राजा
विदेहदेशे निजधर्म्मशीलः ।
यज्वा सुवाग्मी शुभकर्म्मकर्त्ता
स विष्णुभक्तोऽनुदिनं महात्मा ॥
तस्य त्वमासीर्नृपतेः सुभृत्यो
द्वेष्टा द्विजानां पिशुनोऽविवेकी ।
द्वेष्टा गुरूणां सततं त्वदाता
नो साध्वसं ते वत पारलौक्यम् ॥
पृष्ठ ३/४०२
एवंविधस्त्वं वृपसत्तमेन
प्रोक्तः कुरुष्वाघविनाशनाय ।
स्नानं हरेर्येन सुखं हि लप्स्ये
लोके परे गव्यघृतेन वापि ॥
श्रुत्वा भवांस्तद्वचनञ्चकार
स्नानं ह्यनेनापि जनार्द्दनस्य ।
दानं तथा गोः कृतवान् विभक्त्या
तस्मात् फलं विद्धि तवाप्रमेयम् ॥
एवं त्वया प्राप्यमशेषराज्यं
देवासुराणामहतं विपक्षैः ।
संलप्स्यसे त्वं पुनरेव सर्व्वं
संपूजयन् भक्तियुतः सुरेशम् ॥”
इत्यग्निपुराणम् ॥
बलिराजयज्ञे वामनदेवभिक्षा । यथा, --
लोमहर्षण उवाच ।
“सपर्व्वतवनामुर्व्वीं दृष्ट्वा संक्षुभितां बलिः ।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥
आचार्य्य क्षोभमायाति साब्धिभूभृद्बना मही ।
कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः ॥
इति पृष्टोऽथ बलिना काव्यो वेदविदांवरः ।
उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ॥
अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः ।
वामनेनेह रूपेण परमात्मा सनातनः ॥
स नूनं यज्ञमायाति तव दानवपुङ्गव ! ।
तस्य पादप्रविक्षेपादियं प्रचलिता ही ॥
इत्यमस्य जगद्धातुर्माया कृष्णस्य सात्वती ।
तत्सन्निधानादसुरा भागार्हा नासुरोत्तम ! ॥
भुञ्जते नासुरान् भागानपि तेन त्रयोऽग्नयः ।
शुक्रस्य वचनं श्रुत्वा हृष्टलोमाब्रवीद्बलिः ॥
धन्योऽहं कृतपुण्यश्च यतो जगत्पतिः स्वयम् ।
यज्ञमभ्यागतो ब्रह्मन् ! मत्तः कोऽन्योऽधिकः
पुमान् ।
यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ॥
द्रष्टुमिच्छन्ति देवोऽसौ ममाध्वरमुपैष्यति ।
यन्मयाचार्य्य ! कर्त्तव्यं तन्ममादेष्टुमर्हसि ॥
शुक्र उवाच ।
त्वयास्य दैत्याधिपते ! स्वल्पकेऽपि हि वस्तुनि ।
प्रतिज्ञा नैव वोढव्या वाच्यं साम तथा फलम् ॥
बलिरुबाच ।
ब्रह्मन् ! कथमहं ब्रूयामन्येनापि हि याचितः ।
नास्तीति किमु देवेशे संसाराघौघहारिणि ॥
लोमहर्षण उवाच ।
इत्येवं वदतस्तस्य सम्प्राप्तः स जनार्द्दनः ।
सर्व्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् ॥
तं दृष्ट्वा यज्ञवाटन्तु प्रविष्टमसुराः प्रभुम् ।
जग्मुः प्रभावात् क्षोभन्ते तेजसा तस्य निष्प्रभाः ॥
स चार्घ्यमादाय बलिः प्रोद्भूतपुलकस्तदा ।
पूजयामास गोविन्दं प्राह चेदं महासुरः ॥
बलिरुवाच ।
सुवर्णरत्नसंघातान् गजाश्वमहिषांस्तथा ।
स्त्रियो वस्त्राण्यलङ्कारान् गावः कुप्यञ्च पुष्क-
लम् ।
तद्ददामि वृणुष्वेष्टं ममार्थी सततं प्रियः ॥
इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः ।
प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ॥
ममाग्निशरणार्थाय देहि भूमिं पदत्रयाम् ।
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ॥
एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः ।
ददौ तस्मै महाबाहुर्व्वामनाय पदत्रयम् ॥
पाणौ तु पतिते तोये वामनोऽभूदवामनः ।
सर्व्वदेवमयं रूपं दर्शयामास तत्क्षणात् ॥
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥
सुतलं नाम पातालमधस्ताद्वसुधातलम् ।
बलेर्द्दत्तं भगवता विष्णुना प्रभविष्णुना ॥
अथ दैत्येश्वरं प्राह विष्णुः सर्व्वेश्वरेश्वरः ।
यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ॥
कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् ।
वैवस्वते तथातीते बले ! मन्वन्तरे तथा ॥
सावर्णिके तु संप्राप्ते भवानिन्द्रो भविष्यति ।
इदानीं भुवनं दत्तं सर्व्वं शक्राय सर्व्वदा ॥
यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि ।
बन्धिष्यति तदा पाशो वारुणो घोरदर्शनः ॥
बलिरुवाच ।
तत्रासतो मे पाताले भगवन् ! भवदाज्ञया ।
किं भविष्यत्युपादानमुपभोगोपयोगकम् ॥
श्रीभगवानुवाच ।
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च ।
कृतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ॥
अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः ।
फलानि तव दास्यन्ति ह्यधीतान्यव्रतानि च ॥
उदकेन विना पूजा विना दर्भेण या क्रिया ।
आज्येन च विना होमं फलदास्ते च ते बले ! ॥”
इति वामनपुराणे ३१ अध्यायः ॥ * ॥
ययातिवंशोद्भवसुतपोराजपुत्त्रः । यथा, विष्णु-
पुराणे । ४ । १८ । १ । “तिति क्षोरपि रुष-
द्रथः पुत्त्रोऽभूत् तस्यापि हेमः हेमस्य सुतपाः
सुतपसश्च बलिः ॥” (तथा च भागवते । ९ ।
२३ । ४ ।
“ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥”
मुनिविशेषः । यथा, महाभारते । २ । ४ । १० ।
“अर्व्वावसुः सुमित्रश्च मैत्रेयः सुनको बलिः ॥”)
देवतोद्देशेन घातार्थोपकल्पितच्छागादिः । यथा,
भविष्ये ।
“अजानां महिषाणाञ्च मेषाणाञ्च तथा वधात् ।
प्रीणयेद्विधिवत् दुर्गां मांसशोणिततर्पणैः ॥”
इति ।
पशुघातपूर्ब्बकरक्तशीर्षयोर्ब्बलित्वम् । यथा, --
“स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम् ।
एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः ॥”
इति च दुर्गोत्सवतत्त्वम् ॥ * ॥
तच्छेदनार्थखड्गलक्षणमाह निबन्धतन्त्रे ।
“द्वादशाङ्गुलिको मुष्ट्या दीर्घो द्वात्रिंशदङ्गुलः ।
षडङ्गुलस्तु विस्तारः खड्गः कार्य्यो विधूपमः ॥
छेदयेत्तेन खड्गेन बलिं पूर्ब्बमुखस्थितम् ।
अथवोत्तरवक्त्रञ्च स्वयं पूर्ब्बाननस्ततः ॥” * ॥
सकृत्प्रहारेण बलिहननं तदभावे दोषञ्चाह
तत्रैव ।
“हन्यादेकप्रहारेण स्वयं वा चान्यतोऽपि वा ॥
यद्यप्येकेन घातेन बलिच्छेदो न जायते ।
तदब्दं व्याप्य च महान् कर्त्तुर्हानिः पदे पदे ॥”
तन्त्रान्तरे ।
“एकखड्गप्रहारेण पशुर्यत्र न हन्यते ।
तदा विघ्नं विजानीयात् कर्त्तुर्व्वा छेत्तुरेव वा ॥”
निबन्धेऽपि ।
“यशोहानिर्ज्ञानहानिश्चार्थहानिस्ततः परम् ।
पुत्त्रहानिः सुते सत्त्वे तदसत्त्वे निजक्षयः ॥
अतः सद्यो महेशानि ! तन्मांसैर्होमयेत् सुधीः ।
होमादेष भवेच्छान्तिर्म्महत्येव न संशयः ॥” * ॥
प्रकारान्तरशान्तिमाह तत्रैव ।
“हन्यादेकप्रहारेण चान्यथा दोषमावहेत् ॥
तच्छान्तये जपेद्विद्यां तारादेव्याः सहस्रकम् ।
सहस्रं जुहुयान्मांसैद्दद्याद्बा स्वर्णमाषकम् ॥
रुधिरं तत्तु पार्व्वत्यै न तु देयं कदाचन ।
बलिमन्यं समादाय भगवत्यै निवेदयेत् ॥” * ॥
निबन्धे ।
“यद्यप्येकेन घातेन महिषो नैव छिद्यते ।
तदब्दं महती हानिः कर्त्तुः पुत्त्रादिसम्पदाम् ॥
यस्मात् प्रजायते देवि ! ततः शान्तिं समाचरेत् ॥
आनीय महिषं तत्र घातयित्वा च तत्र वै ।
सास्थिभिर्लोमसहितैर्हुनेद्देवि ! यथार्थतः ॥
तच्छान्तये जपेद्विद्यां कालीं वा तारिणां पराम् ।
अयुतं परमेशानि ! सहस्रं वापि साधकः ॥
सहस्रं विल्वपत्रैस्तु जुहुयात् संस्कृतेऽनले ।
ब्राह्मणं वा गुरुं वापि वरयेद् वसुभिः प्रिये ! ॥
पण्डितं वरयेद्वाथ बहुमानपुरःसरः ।
ततः स्वर्णं ब्राह्मणाय तस्मे दद्यात् शुभाप्तये ॥
एवञ्चेद्यजमानस्य शान्तिभवति नित्यशः ।
कुतस्तस्यैव शङ्का स्यात् वृद्धिस्तद्वत्सरावधि ॥ *
अथवा सर्व्वतोभद्रे नवकुम्भं निधापयेत् ।
सौवर्णं राजतं वापि ताम्रं वा तैजसन्तु वा ।
मार्त्तिक्यं वा चरेत्तत्र वित्तशाठ्यं न चाचरेत् ॥
तत्रैव कालिकां तारां तथा महिषमर्द्दिनीम् ।
यजेद्वा त्रिपुरां देवीं समस्तरश्मिमण्डिताम् ॥
कुलदीपैस्तथा वस्त्रैर्धनधान्यादिभिः प्रिये ! ।
पूजयेत् परमेशानीं वित्तशाठ्यविवर्ज्जितः ॥
बलिमन्यं छागलं वा तरुणञ्च सुलक्षणम् ।
घातयित्वा पुरोभागे चतुर्धा शोणितं न्यसेत् ॥
अपरं शोणितं तत्र राजते खर्परे न्यसेत् ।
असृग्भिस्तर्पयेद्दवीं वक्ष्यमाणविधानतः ॥
एकेन वटुकादींश्च तथैकेनापि भैरवान् ।
अपरेणापि क्षेत्रेशानन्येन योगिनीगणम् ॥
तर्पयित्वा ततः पश्चाद्देव्यास्तर्पणमाचरेत् ।
दक्षिणान्तं ततः कृत्वा पठेन्नामसहस्रकम् ॥
यथाशक्ति महेशानि ! भूयो देवीं घटे यजेत् ।
घटवक्त्रे वटाश्वत्थप्लक्षोडम्बरशाखिकाम् ॥
पृष्ठ ३/४०३
ब्रह्मकूर्च्चञ्च निःक्षिप्य चषकं सफलाक्षतम् ।
पिधाय कुम्भवक्त्रञ्च क्षौमेणाच्छादयेत् पुनः ॥
जप्त्वा नत्वा ततः साध्यं तत्रानीय सुहृद्वृतम् ।
नदतसु पञ्चवाद्येषु मुहूर्त्ते शोभने सुधीः ॥
अभिषिञ्चेन्मातृकार्णैर्यजमानञ्च साधकः ।
सुमङलाभिर्नारीभिः क्षिप्तपुष्पाक्षताञ्चितम् ॥
अर्च्चितानां द्विजातीनामाशीर्व्वादपुरःसरम् ।
करेणास्य शिरः स्पुष्ट्वा प्रयुञ्जीताशिषं पुनः ॥
भद्रमस्तु शिवञ्चास्तु महामाया प्रसीदतु ।
रक्षन्तु त्वां सदा देवाः सम्पदः सन्तु सर्व्वदा ॥
अथोत्थायाभिषिक्तः सन् तोषयेद्ब्राह्मणान्
धनैः ।
एवञ्चेद्यजमानस्य शान्तिर्भवति नित्यदा ॥
प्रसङ्गाद्बलिविघ्नस्य शान्तिकर्म्म निरूपितम् ।
सर्व्वसम्पत्करं पुंसां सर्व्वसौभाग्यसिद्धिदम् ।
भूते च दुर्निमित्तादावप्येवं शान्तिमाचरेत् ॥”
इति निबन्धतन्त्रोक्तबलिविघ्नशान्तिसंग्रहः ॥ * ॥
अन्यच्च ।
“एकखड्गप्रहारेण पशुर्यत्र न हन्यते ।
तदा विघ्रं विजानीयाद्दातुर्व्वा च्छेत्तुरेव
वा ॥”
प्रायश्चित्तमाह ।
“हन्यादेकप्रहारेण अन्यथा दोषमावहेत् ।
तच्छान्तये जपेद्विद्यां दुर्गाबीजसहसकम् ।
सहस्रं जुहुयाद्देव्यै प्रदद्यात् स्वर्णमाषकम् ॥”
इति कृत्यमहार्णवे वाचस्पतिमिश्रैरुक्तम् ॥ * ॥
अपरञ्च कालिकापुराणे ।
“चन्द्रहासेन कट्टारैश्छेदनं मुख्यमिष्यते ।
हस्तेन च्छेदयेद्यस्तु प्रोक्षितं साधकः पशुम् ।
पक्षिणं वाथ राजेन्द्र ! ब्रह्महत्यामवाप्नुयात् ॥”
मत्स्यसूक्ते ।
“छेदयेत्तीक्ष्णखड्गेन प्रहारेण सकृद्बुधः ॥”
इति दुर्गोत्सवतत्त्वम् ॥
पश्वादिबलिदानविधिर्यथा, --
“बलिदानषिधानञ्च श्रूयतां मुनिसत्तम ! ।
मायातिं महिषं छागं दद्यान्मेषादिकन्तथा ॥
सहस्रवर्षं सा प्रीता दुर्गा मायातिदानतः ।
महिषेण वर्षशतं दशवर्षञ्च छागलात् ॥
वर्षमेकेन कुष्माण्डैः पक्षिभिर्हरिणैस्तथा ।
दशवर्षं कृष्णसारैः सहस्राब्दञ्च गण्डकैः ॥
कृत्रिमैः पिष्टनिर्म्माणैः षण्मासं पशुभिस्तथा ।
मासं सुशाखादिफलैरक्षतैरिति नारद ! ॥
युवकं व्याधिहीनञ्च सशृङ्गं लक्षणान्वितम् ।
विशुद्धमविकाराङ्गं सुवर्णं पुष्टमेव च ॥
शिशुना बलिना दातुर्हन्ति पुत्त्रञ्च चण्डिका ।
वृद्धेनैव गुरुजनं कृशेन बान्धवन्तथा ॥
कुलञ्चैवाधिकाङ्गेन हीनाङ्गेन प्रजान्तथा ।
कामिनीं शृङ्गभङ्गेन काणेन भ्रातरन्तथा ॥
घण्टिकेन भवेन्मृत्युर्विघ्नञ्च चित्रमस्तके ।
मृतं मित्रं ताम्रपृष्ठे भ्रष्टश्रीः पुच्छहीनके ॥
मायातीनाञ्च निर्णीतं श्रूयतां मुनिसत्तम् ! ।
वक्ष्याम्यथर्व्ववेदोक्तं फलहानिर्व्यतिक्रमे ॥” * ॥
अथ नरबलिः ।
“पितृमातृविहीनञ्च युवकं व्याधिवर्जितम् ।
विवाहितं दीक्षितञ्च परदारविहीनकम् ॥
अजारिकं विशुद्धञ्च सच्छूद्रं मूलकं वरम् ।
तद्बन्धुभ्यो धनं दत्त्वा क्रीतं मूल्यातिरेकतः ॥
स्नापयित्वा च तं धर्म्मी संपूज्य वस्त्रचन्दनैः ।
माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ॥
तञ्च वर्षं भ्रामयित्वा चरद्बारेण यत्नतः ।
वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ॥
अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च ।
इत्येवं कथितं सर्व्वं बलिदानप्रसङ्गतः ॥” * ॥
अपि च ।
“सप्तम्यां पूजनं कृत्वा बलिं दद्याद्विचक्षणः ।
अष्टम्यां पूजनं शस्तं बलिदानविवर्ज्जितम् ॥
अष्टम्यां बलिदानेन विपत्तिर्जायते ध्रुवम् ।
दद्याद्विचक्षणो भक्त्या नवम्यां विधिवद्बलिम् ॥
बलिदानेन विप्रेन्द्र ! दुर्गाप्रीतिर्भवेन्नृणाम् ।
हिंसाजन्यञ्च पापञ्च लभते नात्र संशयः ॥
उत्मर्गकर्त्ता दाता च च्छेत्ता पोष्टा च रक्षकः ।
अग्रपश्चान्निरोद्धा च सप्तैते वधभागिनः ॥
योऽयं हन्ति स तं हन्ति चेति वेदोक्तमेव च ।
कुर्व्वन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना ॥”
इति ब्र ह्मवैवर्त्ते प्रकृतिखण्डे । ६१-६२ । अध्यायौ ॥
श्रीभगवानुवाच ।
“क्रमन्तु बलिदानस्य स्वरूपं रुधिरादिभिः ।
यथा स्यात् प्रीतये सम्यक् तथा वक्ष्यामि
पुत्त्रकौ ॥
वैष्णवीतन्त्रकल्पोक्तः क्रमः सर्व्वत्र सर्व्वदा ।
साधकैर्व्वलिदानेषु ग्राह्यः सर्व्वसुरस्य तु ॥
पक्षिणः कच्छपा ग्राहा मत्स्या नवविधा मृगाः ।
महिषो गोधिका गावश्छागो बभ्रूश्च शूकरः ॥
खड्गश्च कृष्णसारश्च गोधिका सरभो हरिः ।
शार्द्दूलश्च नरश्चैव स्वगात्ररुधिरन्तथा ।
चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः ॥
बलिभिः साध्यते मुक्तिं बलिभिः साध्यते दिवम् ।
बलिदानेन सततं जयेत् शत्रून् नृपान् नृपः ॥ * ॥
मत्सानां कच्छपानाञ्च रुधिरैः सततं शिवा ।
मासैकन्तृप्तिमायाति ग्राहैर्मासांस्तु त्रीनथ ॥
मृगाणां शोणितैर्देवी नराणामपि शोणितैः ।
अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा ॥
गोगोधिकानां रुधिरैर्व्वार्षिकीं तृप्तिमाप्नुयात् ॥
कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः ।
आप्नोति सततं देवी तृप्तिं द्बादशवार्षिकीम् ॥
अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् ।
महिषाणाञ्च खड्गानां रुधिरैः शतवार्षिकीम् ।
तृप्तिमाप्नोति परमां शार्द्दूलरुधिरैस्तथा ॥
सिंहस्य सरभस्याथ स्वगात्रस्य च शोणितैः ।
देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरान् ॥
मांसैरपि तथा प्रीती रुधिरैर्यस्य यावती ॥
कृष्णसारमृते खड्गं तथा मत्स्यञ्च रोहित्रम् ।
वार्द्धीनसयुगञ्चापि फलं तेषां पृथक् शृणु ॥ * ॥
कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका ।
वर्षान् पञ्चशतान्येव तृप्तिमाप्नोति केवलाम् ॥
रोहितस्य तु मत्स्यस्य मांसैर्वार्द्धीनसस्य च ।
तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया ॥
त्रिःपिबंस्त्विन्द्रियक्षीणः श्वेतो वृद्धस्त्वजापतिः ।
वार्द्धीनसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः ॥
नीलग्रीवो रक्तशीर्षः कृष्णपादः शितच्छदः ।
वार्द्धीनसः स्यात् पक्षीशो मम विष्णोरतिप्रियः ॥
नरेण वलिना देवी सहस्रं परिवत्सरान् ।
विधिदत्तेन चाप्नोति तृप्तिं लक्षं त्रिभिर्नरैः ॥
नारेणैवाथ मांसेन त्रिसहस्राणि वत्सरान् ।
तृप्तिं प्राप्नोति कामाख्या भैरवो मम रूपधृक् ॥
मन्त्रपूतं शोणितन्तु पीयूषं जायते सदा ।
मस्तकञ्चापि तस्यात्ति मांसञ्चापि सदा शिवा ॥
तस्मात्तु पूजने दद्याद्बलेः शीर्षञ्च लोहितम् ।
भोज्ये होमे च मांसानि नियुञ्जीयाद्विचक्षणः ॥
पूजासु नाम मांसानि द्द्याद्वै साधकः क्वचित् ।
ऋते तु लोहितं शीर्षममृतं तत्तु जायते ॥ * ॥
कुष्माण्डमिक्षुदण्डञ्च मद्यमासवमेव च ।
एते वलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा ॥
चन्द्रहासेन कर्त्र्या वा छेदनं मुख्यमिष्यते ।
दात्रासिधेनुक्रकचसङ्कुलाभिस्तु मध्यमम् ।
क्षुरक्षुरप्रभल्लैश्चैवाधमं परिकीर्त्तितम् ॥
एभ्योऽन्यैः शक्तिबाणाद्यैर्बलिश्छेद्यः कदापि न ।
नात्ति देवी वलिं तन्तु दाता मृत्युमवाप्नुयात् ॥
हस्तेन छेदयेद्यस्तु प्रोक्षितं साधकः पशुम् ।
पक्षिणं वा ब्रह्महत्यां सोऽवाप्नोति सुदुःसहाम् ।
नामन्त्र्य खड्गन्तु बलिं नियुञ्जीत विचक्षणः ॥
खडगस्यामन्त्रणे मन्त्रा यावन्तः कथिताः पुरा ।
महामायाबलौ ते वै योज्यास्तत्रोदिता बुधैः ॥
तैः सार्द्धमेते मन्त्रास्तु योज्याः खड्गाभिमन्त्रणे ।
पूजने शारदादीनां कामाख्याया विशेषतः ॥
द्विः कालीति ततो देव्या वज्रेश्वरिपदन्तथा ।
ततोऽनु लौहदण्डायै नमः शेषे तु योजयेत् ॥
संपूज्यानेन मन्त्रेण खड्मादाय पाणिना ।
कालरात्र्यास्तु मन्त्रेण तं खड्गमभिमन्त्रयेत् ॥
नेत्रबीजस्य मध्यन्तु द्विरावृत्य प्रयोजयेत् ।
ततोऽनु कालीति विकटदंष्ट्रेऽनु तत्पदम् ॥
हान्तादीनां तृतीयेन स्वरेणैकादशेन च ।
योजितो नादबिन्दुभ्यां द्वौ तत्पश्चान्नियोजयेत् ॥
फेत्कारिणिपदं तस्मात् खादय छेदयेति च ।
सर्व्वदुष्टानिति ततो द्विर्मारय लुलापकम् ॥
खड्गेन छिन्धि च्छिन्धीति ततः किल किलेति
वै ।
ततश्चिकि चिकीत्येव ततः पिब पिबेति च ॥
ततोऽनु रुधिरञ्चैव स्फौं स्फौं किरि किरीति च ।
कालिकायै नम इति कालरात्र्यास्तु मन्त्रकम् ॥
इत्यनेन तु मन्त्रेण करवालेऽभिमन्त्रिते ।
कालरात्रिः स्वयं तस्मिन् प्रसीदत्यरिहानये ॥ * ॥
बलेः पूर्ब्बोदिता मन्त्रा नित्यं ग्राह्यास्तु साधकैः ।
अयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये ॥
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ॥
पृष्ठ ३/४०४
ततो दैवतमुद्दिश्य काममुद्दिश्य चात्मनः ।
छेदयेत्तेन खडगेन बलिं पूर्ब्बाननं तु तम् ॥
अथवोत्तरवक्तन्तं स्वयं पूर्ब्बमुखस्तथा ।
पूर्ब्बोक्तान् सैन्धवादींस्तु रक्ते वश्यं नियोजयेत् ॥
सौवर्ण राजतं ताम्रं रैत्यं पत्रपुटञ्च वा ।
माहेयं कांस्यमथवा यज्ञकाष्ठमयञ्च वा ।
पात्रं रुधिरदानाय कर्त्तव्यं विभवावधि ॥
न लौहे वाल्कले वापि रैत्ये वाङ्गेऽथ सैसके ।
दद्याद्रक्तं बलीनान्तु भूमौ स्रुचि स्रुवेऽथवा ॥
न घटे भूतले नापि न क्षुद्रे पानभाजने ।
रुधिराणि प्रदद्यात्तु भूतिकामो नरोत्तमः ॥
नरस्य तु सदा रक्तं माहेये तैजसेऽथवा ।
दद्यान्नरपतिस्तत्तु न पुटादौ कदाचन ॥ * ॥
हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् ।
तथा दिक्पालमेधेषु गजं दद्यान्नराधिपः ॥
न कदाचित्तथा देव्यै प्रदद्याद्धयहस्तिनौ ।
हयाकर्षे चामरन्तु बलिं दद्यान्नराधिपः ॥
सिंहं व्याघ्रं नरञ्चापि स्वगात्ररुधिरन्तथा ।
न दद्याद्ब्राह्मणो मद्यं तथा देव्यै कदाचन ॥
सिंहव्याघ्रनरान्दत्त्वा ब्राह्मणो नरकं व्रजेत् ।
इहापि स्यात् स हीनायुः सुखसौभाग्यवर्जितः ॥
स्वगात्ररुधिरं दत्त्वा चात्महत्यामवाप्नुयात् ।
मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते ॥
न कृष्णसारं वितरेद्वलिन्तु क्षत्त्रियः क्वचित् ।
ददतः कृष्णसारन्तु ब्रह्महत्या भवेद्यतः ॥
यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः ।
ब्राह्मणोक्ते तु बल्यादौ तत्रायं विहितः क्रमः ॥
कृत्वा घृतमयं व्याघ्रं नरं सिंहञ्च भैरव ! ।
अथवा पूपविकृतं यवक्षोदमयञ्च वा ।
घातयेच्चन्द्रहासेन तेन मन्त्रेण संस्कृतम् ॥ * ॥
प्रभूतबलिदाने तु द्बौ वा त्रीन् वाग्रतः कृताम् ।
पूजयेत् प्रमुखान् कृत्वा सर्व्वान् तन्त्रेण साधकः ।
सामान्यपूजा कथिता बलीनां पूर्ब्बतो मया ।
विशेषो यत्र यत्रास्ति तन्मत्तः शृणु भैरव ! ॥ * ॥
महिषं प्रददौ देव्यै भैरव्यै भैरवाय वा ।
अनेनैव तु मन्त्रेण तथा तं पूजयेद्बलिम् ॥
यथा वाहं भवान् द्वेष्टि यथा वहसि चण्डिकाम् ।
तथा मम रिपून् हिंस शुभं वह लुलापक ! ॥
यमस्य वाहनन्त्वन्तु वररूपधराव्यय ! ।
आयुर्व्वित्तं यशो देहि कासराय नमोऽस्तु ते ॥
खड्गस्य तु यदादानं क्रियते तत्र मन्त्रणम् ।
जलेनाभ्युक्ष्य कुर्व्वीत गुहाजातेति भाषयन् ॥
दैवे पित्रे च सुभगः खड्गस्त्वं खड्गसन्निभः ।
छिन्धि विघ्रान् महाभाग ! गुहाजात नमोऽस्तु ते ।
प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकीर्त्तितः ।
कृष्णसार ! ब्रह्ममूर्त्ते ब्रह्मतेजोविवर्द्धन ।
चतुर्व्वेदमयः प्राज्ञः प्रज्ञां देहि यशो मम ॥ * ॥
तथा सरभपूजायां मन्त्रमेतत् प्रकीर्त्तितम् ।
त्वमष्टपादो विभ्रंशचन्द्रभागसमुद्भव ! ।
अष्टमूर्त्ते महाभाग भैरवाख्य नमोस्तु ते ॥
यथा भैरवरूपेण वराहो निहतस्त्वया ।
तथा सरभरूपेण रिपुं विघ्नान्निसूदय ॥
हरिस्त्वं हररूपेण यथा वहसि चण्डिकाम् ।
तथाशुभानि मे नित्यं बहुविघ्नांश्च सूदय ॥
त्वं हरिः सिंहरूपेण जगत्प्रत्यूहरूपिणम् ।
जघान येन सत्येन हिरण्यकशिपुं हरन् ।
इत्येवं सिंहपूजायां क्रम उक्तो मयानघ ! ॥ * ॥
नरे स्वगात्ररुधिरे पर्य्यायं शृणु भैरव ! ।
पीठे चेद्दीयते मर्त्यं बलिं दद्यात् श्मशानके ॥
श्मशानं हेरुकाख्यञ्च तत्पूर्ब्बं प्रतिपादितम् ।
कामाख्यानिलये शैले तन्त्रादौ विद्धि तत्क्रमम् ॥
मम रूपं श्मशानन्तु भैरवाख्यन्तु कथ्यते ।
तन्त्राङ्गत्वं तपःसिद्धौ त्रिभागन्तु भविष्यति ॥
पूर्ब्बांशे भैरवाख्ये तु समुत्सृष्टिर्नरस्य च ।
दक्षिणांशे शिरो दद्यात् भैरव्या मुण्डमालया ॥
रुधिरं पश्चिमांशे तु हेरुकाख्ये नियोजयेत् ।
दत्त्वा संपूज्य च नरं विसृज्यागमनक्रमे ॥
पीठश्मशानेषु बलिं नेक्षेत्तु बलिदापकम् ।
अन्यत्रापि यतो यत्र दीयतेऽयं महाबलिः ॥
तत्राप्यन्यत्र चोत्सृज्य छित्त्वान्यत्र शिरोऽमृ-
तम् ।
निवेदयेत् साधकस्तु विसृज्य न विलोकयेत् ॥ * ॥
सुस्नातं मनुजं दीप्तं पूर्ब्बाह्णे नियताशनम् ।
मांसमैथुनभोग्येन हीनं स्रक्चन्द्रनोक्षितम् ॥
कृत्तोत्तरामुखं तन्तु तदङ्गेषु च देवताः ।
पूजयेत्तञ्च नाम्ना तु दैवतेन च मानुषम् ॥
ब्रह्मरन्ध्रेषु ब्रह्माणं तन्नासायाञ्च मेदिनीम् ।
कर्णयोस्तु तथाकाशं जिह्वायां सर्व्वत्तोमुखम् ॥
ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूजयेत् ।
ललाटे पूजयेच्चन्द्रं शक्रं दक्षिणगण्डतः ॥
वामगण्डे तथा वह्निं ग्रीवायां समवर्त्तिनम् ।
केशाग्रे निरृतिं मध्ये भ्रु वोश्चापि प्रचेतसम् ॥
नासामूले च श्वसनं स्कन्धे चापि धनेश्वरम् ।
हृदये सर्पराजन्तु पूजयित्वा पठदिदम् ॥
नरवर्ज्य ! महाभाग सर्व्वदेवमयोत्तम् ।
रक्ष मां शरणापन्नं सपुत्त्रवसुबान्धवम् ॥
सराज्यं मां सहापत्यं चतुरङ्गसमन्वितम् ।
रक्षन् परित्यज प्राणान् मरणे नियते सति ॥
महातपोभिर्दानैश्च यज्ञैर्यत् साध्यते नृणाम् ।
तन्मेदेहि महाभाग ! त्वञ्चापि प्राप्नुहि श्रियम् ॥
राक्षसाश्च पिशाचाश्च वेतालाद्याः सरीसृपाः ।
नृपाश्च रिपवश्चान्ये न मां ते घ्नन्तु त्वत्कृते ॥
त्वत्कण्ठनालगलितैः शोणितैरङ्गसंयुतैः ।
आप्यायस्वात्मवन्मृत्वा मरणे नियते सति ॥
एवं संपूज्य विधिवत् पूर्व्वतन्त्रैश्च पूजयेत् ।
पूजितो मत्स्वरूपोऽयं दिक्पालाधिष्ठितो
भवेत् ॥
अधिष्ठितस्तथान्यैश्च ब्रह्माद्यैः सकलैः सुरैः ।
कृतपापोऽपि मनुजो निव्पाप्मा स तु जायते ॥
तस्य निष्कलुषस्याशु पीयूषं शोणितं भवेत् ।
प्रीणाति च महादेवी जगन्माया जगन्मयी ॥
सोऽपि कायं परित्यज्य मानुषं न चिरान्मृतः ।
भवेद्गणानामधिपो मयापि बहुसत्कृतः ॥
इतोऽन्यथा पापयुतं मलमूत्रवसायुतम् ।
तं बलिं नहि गृह्णाति कामाख्यान्यापि नामतः ॥
अन्येषां महिषादीनां बलीनामथ पूजनात् ।
कायो मेध्यत्वमायाति रक्तं गृह्णाति वै शिवा ॥
अन्येभ्योऽपि च देवेभ्यो यदा यद्यत् प्रदीयते ।
तदर्च्चितं प्रदद्यात्तु पूजिताय सुराय वै ॥ * ॥
काणं व्यङ्गञ्चातिवृद्धं रोगिणञ्च गलव्रणम् ।
क्लीवं हीनाङ्गमथवा वृद्धलिङ्गं गलद्व्रणम् ॥
श्वित्रिणञ्चातिह्रस्वञ्च महापातकिनन्तथा ।
अद्वादशकवर्षीयं शिशुं सूतकसंयुतम् ॥
ऊर्द्धं संवत्सराच्चापि महागुरुनिपातिनम् ।
बलिकर्म्मणि चैतांस्तु वर्जयेत् पूजितानपि ॥
पशूनां पक्षिणाञ्चापि नराणाञ्च विशेषतः ।
स्त्रियं न दद्यात्तु बलिं दत्त्वा नरकमाप्नुयात् ॥ * ॥
संघातबलिदानेषु योषितं पशुपक्षिणोः ।
बलिं दद्यान्मानुषीन्तु त्यक्त्वा संघातपूजितम् ॥
न त्रिमासीयकान्न्यूनं पशुं दद्यात् शिवाबलिम् ।
न च त्रिपक्षकान्न्यनं प्रदद्याद्बै पतत्रिणम् ॥
काणव्यङ्गादिदुष्टन्तु न पशुं पक्षिणन्तथा ॥
देव्यै दद्याद्यथा मर्त्यं तथैव पशुपक्षिणौ ॥
छिन्नलाङ्गूलकर्णादि भग्नदन्तन्तथैव च ।
भग्नशृङ्गादिकञ्चापि न दद्यात्तु कदाचन ॥
न ब्राह्मणं बलिं दद्यात् चाण्डालमपि पार्थिव ! ।
नोत्सृष्टं द्विजदेवेभ्यो भूपतेस्तनयं तथा ॥
रणे न विजितं दद्यात्तनयं रिपुभूभृतः ।
स्वपुत्त्रं भ्रातरं वापि पितरञ्च विरोधिनम् ॥
विट्पतिञ्च न दद्यात्तु भागिनेयञ्च मातुलम् ।
अनुक्तान्नापि दद्यात्तु तथाज्ञातान् मृगद्विजान् ॥
उक्तालाभे प्रदद्यात्तु गर्द्दभञ्चोष्ट्रमेव च ।
लाभेऽन्येषां न बितरेद्व्याघ्रमुष्ट्रं खरन्तथा ॥
सम्पूज्य विधिवन्मर्त्यं पशुं पक्षिणमेव वा ।
संछिद्य चापि मन्त्रेण मन्त्रेणैव निवेदयेत् ॥ * ॥
नारं सव्ये शिरोरक्तं देव्याः सम्यङ्निवेदयेत् ।
छागन्तु वामतो दद्यान्महिषं वितरेत् पुरः ॥
पक्षिणं वामतो दद्यादग्रतो देहशोणितम् ।
क्रव्यादानां पशूनान्तु पक्षिणाञ्च शिरोऽसृजम् ॥
वामे निवेदयेत् पार्श्वे जलजानाञ्च सर्व्वशः ।
कृष्णसारस्य कूर्म्मस्य खड्गस्य शशकस्य च ॥
ग्राहाणामथ मत्स्यानामग्र एव निवेदयेत् ।
सिंहस्य दक्षिणे दद्यात् खड्गिनोऽपि च
दक्षिणे ॥
पृष्ठदेशे न दद्यात्तु शिरो वा रुधिरं बलेः ।
उपप्लवे रणे वापि यथेष्टं दितरेन्नरम् ॥
यः कश्चिद्राजपुरुषो नान्यस्त्वपि कदाचन ।
बलिदानदिनात् पूर्ब्बदिवसे तु बलिं नरम् ॥
मानस्तोकेतिमन्त्रेण देवीसूक्तत्रयेण च ।
गन्धद्वारेत्यनेनापि खड् गशीर्षे निधाय च ॥
तस्मिन् खड्गे च गन्धादि दत्त्वा तेनाधि-
वासयेत् ॥
गन्धादिकन्तु खड् गस्थं गले तस्थ प्रदापयेत् ॥
अम्बेऽम्बिकाति मन्त्रेण रौद्रेण भैरवस्य च ।
एवन्तु संस्कृते मर्त्ये देवी रक्षति तं बलिम् ॥
न तस्य व्याधयश्चापि क्षुण्णता रजनौ न च ।
पृष्ठ ३/४०५
न सूतकं दूषयेत्तं ज्ञात्युत्पत्तिमृतादिकम् ॥ * ॥
छिन्नं नरस्य शीर्षन्तु पतितं यत्र यत्र च ।
यत् शुभञ्चाशुभं वापि पश्वादीनाञ्च तत् शृणु ॥
छिन्नं शिरस्तथैशान्यां नारं दिश्यथ राक्ससे ।
पतितं राज्यहानिञ्च विनाशञ्च विनिर्द्दिशेत् ॥
पूर्ब्बाग्नियाम्यवारुण्यवायव्यादिगतं क्रमात् ।
श्रियं पुष्टिं भयं लाभं पुत्त्रलाभं धनं तथा ॥
क्रमाद्विनिर्द्दिशेन्नारं छिन्नशीर्षन्तु भैरव ! ।
उत्तरादिक्रमादेव महिषस्यापि मस्तकः ॥
पतितो वायुकाष्ठान्तं सूचयेद्यत् शृणुष्व तत् ॥
भोग्यं हानिस्तथैश्वर्य्यं वित्तं रिपुजयो भयम् ।
राज्यलाभं श्रियञ्चापि क्रमात्तद्विद्धि भैरव ! ॥
पशूनाञ्चैव सर्व्वेषां छागादीनामशेषतः ।
एवं फलं क्रमाद्बिद्यादृते जलभवाण्डजौ ॥
अन्यत्र तु श्रियं दद्यात् पतितं शातितं शिरः ॥
यः स्यात् कटकटाशब्दो दन्तानां छिन्नमस्तके ।
नराणां पशुपक्ष्यादिग्राहादीनाञ्च रोगदः ॥
लोतकं चक्षुषोर्जातं यदि स्रवति मस्तके ।
छिन्ने नरस्य राज्यस्य तदा हानिं विनिर्द्दिशेत् ॥
माहिषे मस्तके नेत्राद्यदि स्रवति लोतकम् ।
छिन्ने निवेदिते वैरिभूपमृत्युं तदादिशेत् ॥
अन्येषामथ पश्वादिबलीनां शिरसोऽर्दितात् ।
निर्गतं लोतकं धत्ते परां भीतिं गदन्तथा ॥
हसति च्छिन्नशीर्षञ्चेन्नारं स्यात्तु रिपुक्षयः ।
श्रीवृद्धिरायुषो वृद्धिः सदा दातुरसंशयः ॥
यद्यद्वाक्यं निगदति तथा भवति चाचिरात् ।
हूङ्काराद्राज्यहानिः स्यात् श्लेष्मस्रावाच्च
पञ्चताम् ॥
देवानां यदि नामानि भाषते च्छिन्नमस्तकः ।
विभूतिमतुलां विन्द्यात् षण्मासाभ्यन्तरे तदा ॥
रुधिरादानकाले तु शकृन्मूत्रे यदि स्रवेत् ।
कायं तदाधश्चोर्द्ध्वं वा दातुः स्यान्मरणं तथा ॥
आक्षेपाद्वामपादस्य महारोगः प्रजायते ।
अन्यत्राक्षेपचरणैः कल्याणमुपजायते ॥ * ॥
महिषस्य तु रक्तस्य मानुषस्याथ साधकः ।
अङ्गुष्ठानामिकाभ्यान्तु किञ्चिदुद्धृत्य भूतले ॥
महाकौशिकमन्त्रेण निक्षिपेद्बलिमुत्तमम् ।
देवेभ्यः पूतनादिभ्यो नैरृत्यां दिशि पूर्ब्बतः ॥
महिषः पञ्चवर्षी यः पञ्चविंशतिवार्षिकः ।
बलिर्देयो नरो देव्यै तस्य रक्तन्तु भूतले ॥
नेत्रबीजत्रयं कामवीजं हान्तात् प्रजापतिः ।
वह्निबीजं षट्स्वराभ्यां संपृक्तश्च तथापरः ॥
स एवैतास्तथैतावदादिवर्गान्तसंयुतः ।
षष्ठस्वरशिखाबिन्दुचन्द्रयुक्तस्तथापरः ॥
द्विर्नासिकाबीजकान्तः कौशिकीत्यभिमन्त्रणम् ।
एष बलिः स्वाहेति च मन्त्रोऽयं कौशिकः स्मृतः ॥
नृपो वैरिबलिं दद्यात् खड् गमामन्त्र्य पूर्ब्बतः ॥
महिषं वाथवा च्छागं वैरिनाम्नाभिमन्त्र्य च ।
सूत्रेण वदनं बद्ध्वा त्रिधा तस्य च मन्त्रकैः ।
छित्त्वा तस्योत्तमाङ्गन्तु देव्यै दद्यात् प्रयत्नतः ॥
यदा यदा रिपोर्वद्धिर्ब्बलिदानं तदापरम् ।
दद्यात्तथा शिरश्छित्त्वा रिपोस्तस्य क्षयाय च ॥
प्राणप्रतिष्ठाञ्च रिपोः कुर्य्यात्तस्मिन् पशावथ ।
तस्मिन् क्षीणे रिपुप्राणाः क्षीयन्ते विपदा युताः ॥
आदौ विश्वरूपिणी च चण्डिकेति ततः परम् ।
वैरिणन्त्वमुकञ्चेति स्वाहेत्यम्बेति तं पुनः ॥
वह्निभार्य्यां ततः पश्चात् खड्गमन्त्रं प्रकीर्त्तितम् ।
स्वयं स वरी यो द्वेष्टि तमिमं पशुरूपिणम् ॥
विनाशय महामारि स्फें स्फें खादय खादय ॥
इत्यनेन तु मन्त्रण बलेः शिरसि पुष्पकम् ।
दद्यात्ततस्तद्रुधिरं द्व्यक्षराभ्यां निवेदयेत् ।
महानवम्यां शरदि यद्येवं दीयते बलिः ।
तदा तदाष्टाङ्गभवैर्मांसैर्होमं समाचरेत् ॥
दुर्गातन्त्रेण मन्त्रेण प्रणीते दहने शुचौ ।
एवं दत्त्वा बलिं मर्त्यो रिपुक्षयमवाप्नुयात् ॥ * ॥
नाभेरधस्ताद्रुधिरं पृष्ठभागस्य च प्रिये ! ।
स्वगात्ररुधिरं दद्यान्न कदाचन साधकः ॥
नोष्ठस्य चिबुकस्यापि नेन्द्रियाणाञ्च मानवः ।
कण्ठाधो नाभितश्चोर्द्ध्वं बाह्वोः पाणिमृते तथा ॥
प्रदद्याद्रुधिरं घातं नातिकुर्य्याच्च साधकः ।
गण्डयोश्च ललाटस्य भ्रुवोर्मध्यस्य शोणितम् ॥
कर्णाग्रस्य च बाह्वोश्च स्तनयोरुदरस्य च ।
कण्ठाधो नाभितश्चोर्द्ध्वं हृद्भागस्य यतस्ततः ।
पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् ॥
न गुल्फतोऽसृक् प्रदद्यात् जत्रोर्नापि च साधकः ।
न च रोगाविलादङ्गान्नान्यघाताच्च भैरव ! ॥
तदर्थे च कृताघातात् सश्रद्धो क्षुब्धमानसः ।
सृतं रक्तं प्रदद्यात्तु पद्मपुष्पस्य पत्रके ॥
सौवर्णे राजते पात्रे कांस्ये फाले च मानवः ।
निधाय देव्यै दद्यात्तु तद्रक्तं चन्द्रमन्त्रकैः ॥
क्षणने छुरिकाखड्गं संकुलादि यदस्त्रकम् ।
घातेन बृहदस्त्रस्य महाफलमवाप्नुयात् ॥
पद्मपुष्पस्य पत्रन्तु यावद्गृह्णाति शोणितम् ।
तत्प्रमाणचतुर्भागाधिकं रक्तन्तु साधकः ।
न कदाचित् प्रदद्यात्तु नाङ्गच्छेदमथाचरेत् ॥
यः स्वहृदयसंजातं मांसं माषप्रमाणतः ।
तिलमुद्गप्रमाणाद्बा देव्यै दत्त्वा तु भक्तितः ।
षण्मासाभ्यन्तरे तस्मात् काममिष्टमवाप्नुयात् ॥
बाह्वोस्तु स्कन्धयोर्वापि यो दद्याद्दीपवर्त्तिकाम् ।
हृदये वा स्नेहपात्रं विना भक्त्या तु साधकः ।
क्षणमात्रेण तद्दीपप्रदानस्य फलं शृणु ॥
भुक्त्वा च विपुलान् भोगान् देवीगेहे यथेच्छया ।
कल्पत्रयन्तु संस्थाय सार्व्वभौमो नृपो भवेत् ॥
महिषस्य शिरश्छिन्नं सप्रदीपं शिवापुरः ।
हस्ताभ्यां यः समादाय अहोरात्रञ्च तिष्ठति ॥
स चिरायुः पूतमूर्त्तिरिह भुक्त्वा मनोरमान् ।
भोगांस्तेन मद्गृहगो गणानामधिपो भवेत् ॥
नरस्य शीर्षमादाय साधको दक्षिणे करे ।
वामे सरुधिरं पात्रं गृहीत्वा निशि चाग्रतः ॥
यावद्रात्रं स्थितो मर्त्यो राजा भवति चेह वै ।
मृते मम पुरं प्राप्य गणानामधिपो भवेत् ॥
क्षणमात्रं बलीनां यः शिरोरक्तं करद्बये ।
गृहीत्वा चिन्तयेद्वेवीं पुरस्तिष्ठति मानवः ।
स कामानिह संप्राप्य देवीलोके महीयते ।
महामाये ! जगन्नाथे ! सर्व्वकामप्रदायिनि ! ।
ददामि देहरुधिरं प्रसीद वरदा भव ॥
इत्युक्त्वा मूलमन्त्रेण नतिपूर्ब्बं विचक्षणः ।
स्वगात्ररुधिरं दद्यान्मानवः सिद्धसन्निभः ॥
येनात्ममांसं सत्यन ददामीश्वरि ! भूतये ।
निर्व्वाणं तेन सत्येन देहि हुं हुं नमो नमः ॥
इत्यनेन तु मन्त्रेण स्वमांसं वितरेद्बुधः ।
सौभाग्यं सुखसम्पन्नं प्रदीपं परमं शुचिम् ॥
दीपयन् मांसमिहजं दीपं ह्रौं ह्रौं नमो नमः ।
इत्यनेन तु मन्त्रेण दीपं दद्याद्विचक्षणः ॥
महानवम्यां शरदि रात्रौ स्कन्दविशाखयोः ।
यवचूर्णमयं कृत्वा रिपुं मृण्मयमेव वा ॥
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः ।
अनेनैव तु मन्त्रेण खड्गमामन्त्र्य यत्नतः ॥
रक्तं किलकिली घोरघोरा धारविहिंसकः ।
ब्रह्मशिख्याम्बिकाशिख्यममुकञ्चारिसत्तमम् ॥
भान्तो विसर्गसहितः स च बिन्दुयुतोऽपरः ।
ब्रह्माग्नियोगश्चन्द्रेण बिन्दुना च समन्वितः ।
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः ॥
अनेनैव तु मन्त्रेण बिन्दुना च समन्वितः ।
फडन्तो बलिषु प्रोक्तः खड्गः स्कन्दविशाखयोः ॥
रक्तद्रवैः सेचयित्वा कृत्रिमं तं रिपुं बलिम् ।
कुचन्दनस्य तिलकं ललाटेऽभिनिवेशयेत् ॥
रक्तमाल्यधरं कृत्वा रक्तवस्त्रधरन्तथा ।
कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ शल्यञ्च कृत्रिमम् ।
दत्त्वोत्तरशिरः स्कन्धं कृत्वा खड् गेन छेदयेत् ॥
शिरस्तस्य ततो दद्यात् स्कन्दाय ते नमस्ततः ।
चतुर्द्दशस्वराग्निभ्यां संसक्तः स परः समः ॥
परतः परतः पूर्ब्बं चन्द्रबिन्दुसमन्वितः ।
स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत् ॥
चतुर्द्दशस्वराग्निभ्यां पतृतीयन्तु पूर्ब्बवत् ।
प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं
सृजेत् ॥
कुटिलाक्षौ कृष्णपिङ्गघर्णौ रक्तांशुधारिणौ ।
त्रिशूलं करवालञ्च पाणिभ्यां दक्षिणे तथा ॥
बिभ्रतौ नृकपालञ्च कर्त्तृकञ्चापि वामतः ।
त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ ॥
विकटो दशनैर्भीमैर्गणेशौ द्बारपालकौ ।
ध्यानेन चिन्तयेद्दव्याः पुरतः संस्थितौ सदा ॥
चैत्रे मासि सिते पक्षे चतुर्द्दश्यां विशेषतः ।
बलिभिर्महिषैश्छागैर्माञ्च भैरवरूपिणम् ।
तोषयेन्मधुभिर्मत्स्यैस्तेन तुव्याम्यहं सुतौ ॥
चण्डिकाबलिदानेन बलेः शीर्षं जलेन तु ।
अभिषिच्य तु मन्त्रेण मूलेनैव निवेदयेत् ॥
ईषत् प्राणन्तु बहुधा चालितं पूर्ब्बमर्च्चितम् ।
वीक्षेत् कामस्य सिद्धिन्तु सिद्ध्यभावञ्च साधकः ॥
सितप्रेतो रथस्थेऽयं योगपीठस्य सन्निभः ।
ध्यायेद्यस्मिन् महामाया सिद्धिं बोधयते नमः ॥
अनेनामन्त्रितं शीर्षं न चिराद्यदि वेपते ।
तत्कार्य्यस्य तदा सिद्धिरसिद्धिस्तु विपर्य्ययात् ॥
एवं ददद्बलिं वीरो यथोक्तविधिनामुना ।
बलिदानादेव चतुर्व्वर्गमाप्नोत्यसंशयम् ॥
पृष्ठ ३/४०६
एवं बलिप्रदानस्य क्रमो रूपन्तथैव च ।
कथितो रुधिराध्याय उपचारान् शृणुष्व मे ॥”
इति कालिकापुराणे ६६ अध्यायः ॥
बलिदाननिषेधो यथा, --
“जीवानुकम्पां विज्ञातुं ततो दुर्गां सदाशिवः ।
पप्रच्छ परमप्रीत्या गूढमेतद्वचो मुदा ॥
सर्व्वे विष्णुमया जीवास्त्वद्भक्ताश्च कथं शिवे ! ।
श्रुतं मया तवोद्देशे कुर्य्युः कामनया वधम् ।
महान् सन्देह इति मे ब्रूहि भद्रे ! सुनिश्चितम् ॥
शङ्करी तद्वचः श्रुत्वा शिववक्त्रविनिर्गतम् ।
भीतात्यन्तं हि ब्रह्मर्षे ! प्रत्युवाच सदाशिवम् ॥
श्रीपार्व्वत्युवाच ।
ये ममार्च्चनमित्युक्त्वा प्राणिहिंसनतत्पराः ।
तत्पूजनं ममामेध्यं यद्दोषात्तदधोगतिः ॥
मदर्थे शिव ! कुर्व्वन्ति तामसा जीवघातनम् ।
आकल्पकोटिनिरये तेषां वासो न संशयः ॥
मम नाम्नाथवा यज्ञे पशुहत्यां करोति यः ।
क्वापि तन्निष्कृतिर्नास्ति कुम्भीपाकमवाप्नुयात् ॥
दैवे पैत्रे तथात्मार्थे यः कुर्य्यात् प्राणिहिंसनम् ।
कल्पकोटिशतं शम्भो ! रौरवे स वसेत् ध्रुवम् ॥
यो मोहान्मानसैर्देहिहत्यां कुर्य्यात् सदाशिव ! ।
एकविंशतिकृत्वश्च तत्तद्योनिषु जायते ॥
यज्ञे यज्ञे पशून हत्वा कुर्य्यात् शोणितकर्द्दमम् ।
स पचेन्नरके तावद्यावल्लोमानि तस्य वै ॥
हन्ता कर्त्ता तथोत्सर्गकर्त्ता धर्त्ता तथैव च ।
तुल्या भवन्ति सर्व्वे ते ध्रुवं नरकगामिनः ॥
ममोद्देशे पशून् हत्वा सरक्तं पात्रमुत्सृजेत्
यो मूढः स तु पूयोदे वसेद्यदि न संशयः ॥
देवतान्तरमन्नामव्याजेन स्वेच्छया तथा ।
हत्वा जीवांश्च यो भक्षेत् नित्यं नरकमाप्नुयात् ॥
यूपे बद्ध्वा पशून् हत्वा यः कुर्य्याद्रक्तकर्द्दमम् ।
तेन चेत् प्राप्यते स्वर्गो नरकं केन गम्यते ॥
उपदेष्टा वधे हन्ता कर्त्ता धर्त्ता च विक्रयी ।
उत्सर्गकर्त्ता जीवानां सर्व्वेषां नरकं भवेत् ॥
मध्यस्थस्य वधायापि प्राणिनां क्रयविक्रये ।
तथा द्रष्टुश्च सूनायां कुम्भीपाको भवेद्ध्रुवम् ॥
स्वयं कामाशयो भूत्वा योऽज्ञानेन विमोहितः ।
हन्त्यन्यान् विविधान् जीवान् कुर्य्यान्मन्नाम
शङ्कर ! ॥
तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् ।
अचिराद्वै भवेन्नाशो मृतः स नरकं व्रजेत् ॥
देवयज्ञे पितृश्राद्धे तथा माङ्गल्यकर्म्मणि ।
तस्यैव नरके वासो यः कुर्य्याज्जीवघातनम् ॥”
तथा ।
“मद्व्याजेन पशून् हत्वा यो भक्षेत् सह
बन्धुभिः ।
तद्गात्रलोमसंख्याब्दैरसिपत्रवने वसेत् ॥
आवयोरन्यदेवानां नाम्ना च परकर्म्मणि ।
यः संपोष्य पशून् हन्यात् सोऽन्धतामिस्रमा-
प्नुयात् ॥
पशुन् हत्वा तथा त्वां मां योऽर्च्चयेन्मांसशो-
णितैः ।
तावत्तन्नरके वासो यावच्चन्द्रदिवाकरौ ॥
निर्व्वह्निभस्मतुल्यं तत् बहुद्रव्येण यत् कृतम् ।
यस्मिन् यज्ञे प्रभो शम्भो ! जीवहत्या भवेद्
ध्रुवम् ॥
यज्ञमारभ्य चेत् शक्रः कुर्य्याद्वै पशुघातनम् ।
स तदाधोगतिं गच्छेदितरेषाञ्च का कथा ॥
आवयोः पूजनं मोहाद्ये कुर्य्युर्मांसशोणितैः ।
पतन्ति कुम्भीपाके ते भवन्ति पशवः पुनः ॥
फलकामास्तु वेदोक्तैः पशोरालभनं मखे ।
पुनस्तत्तत् फलं भुक्त्वा ये कुर्व्वन्ति पतन्त्यधः ॥
स्वर्गकामोऽश्वमेधं यः करोति निगमाज्ञया ।
तद्भोगान्ते पतेद्भूयः स जन्मानि भवार्णवे ॥
ये हताः पशवो लोकैरिह स्वार्थेषु कोविदैः ।
ते परत्र तु तान् हन्युस्तथा खड्गेन शङ्कर ! ॥
आत्मपुत्त्रकलत्रादिसुसम्पत्तिकुलेच्छया ।
यो दुरात्मा पशून् हन्यादात्मादीन् घातयेत्
स तु ॥
जानन्ति नो वेदपुराणतत्त्वं
ये कर्म्मठाः पण्डितमानयुक्ताः ।
लोकाधमास्ते नरके पतन्ति
कुर्व्वन्ति मूर्खाः पशुघातनञ्चेत् ॥
येऽज्ञानिनो मन्दधियोऽकृतार्था
भवे पशुं घ्नन्ति न धर्म्मशास्त्रम् ।
जानन्ति नाकं नरकं न मुक्तिं
गच्छन्ति घोरं नरकं नरास्ते ॥
शुद्धा अकार्ष्णा न विदन्ति शाक्ता
न धर्म्ममार्गं परमाथतत्त्वम् ।
पापं न पुण्यं पशुघातका ये
पूयोदवासो भवतीह तेषाम् ॥
जीवानुकम्पां न विदन्ति मूढा
भ्रान्ताश्च येऽसत्पथिनो न धर्म्मम् ।
स्मार्त्ता भव प्राणिवधं न कुर्य्यु-
स्ते यान्ति मर्त्त्याः खलु रौरवाख्यम् ॥
ततस्तु खलु जन्तूनां घातनं नो करिष्यति ।
शुद्धात्मा धर्म्मवान् ज्ञानी प्राणान्ते नेव मानवः ॥
यदीच्छेदात्मनः क्षेमं त्यक्त्वा ज्ञानं तदा नरः ।
त्जीवान् कानपि नो हन्यात् सङ्कटापन्न एव चेत् ॥
सम्पत्तौ च विपत्तौ वा परलोकेच्छुकः पुमान् ।
कदाचित् प्राणिनो हत्यां न कुर्य्यात्तत्त्ववित्
सुधीः ॥
मानवो यः परत्रह तर्त्तुमिच्छेत् सदाशिव ! ।
सर्व्वविष्णुमयत्वेन न कुर्य्यात् प्राणिनां वधम् ॥
वधाद्रक्षति यो मर्त्यो जीवान् तत्त्वज्ञधर्म्मवित् ।
किं पुण्यं तस्य वक्ष्येऽहं ब्रह्माण्डं स तु रक्षति ॥
यो रक्षेत् घातनात् शम्भो ! जीवमात्रं दया-
परः ।
कृष्णप्रियतमो नित्यं सर्व्वरक्षां करोति सः ॥
एकस्मिन् रक्षिते जीवे त्रैलोक्यं तेन रक्षितम् ॥
बधात् शङ्कर ! वै येन तस्माद्रक्षेन्न घातयेत् ॥”
तथा, --
“पशुहिंसा विधिर्यत्र पुराणे निगमे तथा ।
उक्तो रजस्तमोभ्यां स केवलं तमसापि वा ॥
नरकस्वर्गसेवार्थं संसाराय प्रवर्त्तितः ।
यतस्तत्कर्म्मभोगेन गमनागमनं भवेत् ॥
सत्येन सात्त्वतग्रन्थे स विधिर्नैव शङ्कर ! ।
प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया ।
एवं नानाविधं कर्म्म पशोरालभनादिकम् ।
कामाशयः फलाकाङ्क्षी कृत्वाज्ञानेन मानवः ॥
पश्चाज्ज्ञानासिना च्छित्त्वा भ्रान्त्याशां तामसीं
सदा ।
यमभीतिहरं भक्त्या यदि गोविन्दमाश्रयेत् ॥”
इति पाद्मोत्तरखण्डे । १०४ । १०५ । अध्यायौ ॥

ब(व)लिः, स्त्री, (बलति संवृणोतीति । बल

संवरणे + इन् ।) जरया श्लथचर्म्म । तत्-
पर्य्यायः । चर्म्मतरङ्गः २ त्वगूर्म्मिः ३ त्वक्-
तरङ्गः ४ । इति राजनिर्घण्टः ॥ जठरा-
वयवः । (यथा, कुमारे । १ । ३९ ।
“मध्येन सा वेदिविलग्नमध्या
बलित्रयं चारु बभार बाला ॥”)
गृहदारुप्रभेदः । इति मेदिनी । ले, ५ ॥ गुदा-
ङ्कुरः । यथा, --
“पञ्चात्मा मारुतः पित्तं कफो गुदबलित्रयम् ।
सर्व्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च ।
सर्व्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ॥ * ॥
वाह्यायान्तु बलौ जातान्येकदोषोल्वणानि च ।
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ॥
द्वन्द्वजानि द्बितीयायां बलौ यान्याश्रितान्यपि ।
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ॥
सहजानि त्रिदोषाणि यानि चाभ्यन्तरा बलिम् ।
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्द्दि-
शेत् ॥”
इति माधवकरः ॥
(यथा च । “तत्र स्थूलान्त्रप्रतिबद्धमर्द्धपञ्चाङ्गुलं
गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तर-
भूताः प्रवाहणी विसर्ज्जनी संवरणी चेति ।
चतुरङ्गुलायताः सर्व्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः ।
शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः ।
गजतालनिभाश्चापि वर्णतः संप्रकीर्त्तिताः ॥”
इति सुश्रुते निदानस्थाने द्बितीयेऽध्याये ॥
गन्धकः । तत्पर्य्यायो यथा,
“गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि ।
सौगन्धिकश्च कथितो बलिर्बलरसापि च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बलिका, स्त्री, (बलैव । बला + स्वार्थे कन् । टापि

अत इत्वञ्च ।) अतिबला । इति राज-
निर्घण्टः ॥

बलिदानं, क्ली (बलेः पूजोपकरणस्य देवतो-

द्देशेन संकल्पितच्छागादेर्वा दानम् ।) श्रीकृष्ण-
पार्षदेभ्यस्तन्निवेदितनैवेद्यांशदानम् । यथा, --
अथ बलिदानम् ।
“ततो यवनिकां विद्वानपसार्य्य यथाविधि ।
विश्वक्सेनाय भगवन्नैवेद्यांशं निवेदयेत् ॥
यथा च पञ्चरात्रे श्रीनारदवचनम् ।
पृष्ठ ३/४०७
विश्वक्सेनाय दातव्यं नैवेद्यं तच्छतांशकम् ।
पादोदकं प्रसादञ्च लिङ्गे चण्डेश्वराय च ॥ * ॥
तद्विधिश्चोक्तः ।
मुख्यादीशानतः पात्रान्नैवेद्यांशं समुद्धरेत् ।
सर्व्वदेवस्वरूपाय पराय परमेष्ठिने ॥
श्रीकृष्णसेवायुक्ताय विश्वक्सेनाय ते नमः ।
इत्युक्त्वा श्रीहरेर्वामे तीर्थक्लिन्नं समर्पयेत् ।
शतांशं वा सहस्रांशमन्यथा निष्फलं भवेत् ॥
पश्चाच्च बलिरित्यादिश्लोकायुच्चार्य्य वैष्णवः ।
सर्व्वेभ्यो वैष्णवेभ्यस्तं शतांशं विनिवेदयेत् ॥ * ॥
तौ च श्लोकौ ।
बलिर्विभीषणो भीमः कपिलो नारदोऽर्ज्जुनः ।
प्रह्लादश्चाम्बरीषश्च वसुर्वायुसुतः शिवः ॥
विश्वक्सेनोद्धवाक्रूराः सनकाद्याः शुकादयः ।
श्रीकृष्णस्य प्रसादोऽयं सर्व्वे गृह्णन्तु वैष्णवाः ॥ इति ।
इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।
तथापि भक्तवात्सल्यात् कृष्णस्यात्रापि सम्भवेत् ॥
अथ बलिदानमाहात्म्यम् । नारसिंहे ।
ततस्तदन्नशेषेण पार्षदेभ्यः समन्ततः ।
पुष्पाक्षतैर्विमिश्रेण बलिं यस्तु प्रयच्छति ॥
बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः ।
शान्तिं तस्य प्रयच्छन्ति श्रियमारोग्यमेव च ॥”
इति श्रीहरिभक्तिविलासे ८ विलासः ॥
देवोद्देशेन यथाविधिपूजोपहारत्यागः । दुर्गादि-
देवतोद्देशेन सङ्कल्पपूर्ब्बकच्छागादिपशुघात-
नम् । यथा, --
“बलिदानेन सततं जयेच्छत्रून् नृपान् नृप ! ॥”
इति कालिकापुराणम् ॥
अस्य विधिनिषेधौ बलिशब्दे द्रष्टव्यौ ॥ * ॥
अथ बलिदानक्रमः । स्वयमुत्तराभिमुखः पूर्ब्बा-
भिमुखं बलिं अव्यग्रावयवं सुन्दरं हृष्टपुष्टं
माल्यं कण्ठे वेष्टयित्वा स्नातं समानीय कृता-
ञ्जलिः पठेत् ।
“ॐ वाराही यमुना गङ्गा करतोया सरस्वती ।
कावेरी चन्द्रभागा च सिन्धुभैरवसागराः ॥
पशुस्नानविधानाय सान्निध्यमिह कल्पय ॥”
इति तीर्थान्यावाह्य ॐ अग्निः पशुरासीत्तेना-
यजन्त स एतल्लोकमजयत्तस्मिन्नग्निः स ते
लोको भविष्यति तं जेष्यसि पिबैता अपः । ॐ
वायुः पशुरासीत्तेनायजन्त स एतल्लोकमजय-
त्तस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि
पिबैता अपः । ॐ सूर्य्यः पशुरासीत्तेनायजन्त
स एतल्लोकमजयत् तस्मिन् सूर्य्यः स ते लोको
भविष्यति तं जेष्यसि पिबैता अपः । ॐ वाचन्ते
शुन्धामि प्राणांस्ते शुन्धामि श्रोत्रन्ते शुन्धामि
मेढ्रन्ते शुन्धामि पायुन्ते शुन्धामि । मनस्त
आप्यायतां वाक् त आप्यायतां प्राणन्त आप्या-
यतां चक्षुस्त आप्यायतां श्रोत्रन्त आप्यायतां
यत्ते क्रूरं यदा स्थितं तत्त आप्यायतां तत्ते
निष्ठायतां तत्ते शुध्यतु सुमहोभ्यः स्वाहा । इति
मन्त्रैः स्नापयित्वा ॐ मेघाकारस्तम्भमध्ये पशुं
बन्धय बन्धय सशृङ्गाद्यवयवं पशुं बन्धय बन्धय
ब्रह्माण्डखण्डरूपस्तम्भे पशुं बन्धय बन्धय ह्रः
फट् स्वाहा ॐ ह्रां ह्रीं ह्रूं चां चण्डिकायै
इमं पशुं प्रोक्षामि स्वाहा । इति प्रोक्षणम् ।
ततः सशृङ्गाद्यवयवं पशुं मोक्षं कुरु कुरु
स्वाहेति मोक्षं कृत्वा क्षमस्वेति ललाटे सिन्दूरं
दत्त्वा ॐ छागपशवे नम इति पाद्यादिकं दत्त्वा
एतदधिपतये ॐ अग्नये नमः एतत्सम्प्रदानी-
यायै ह्रीं दुर्गायै नमः इति पुष्पं दत्त्वा पशो-
रङ्गदेवताः पूजयेत् । यथा, शिरसि ॐ रुधिर-
वदनायै नमः ललाटे ॐ शार्ङ्गिण्यै नमः भ्रूमध्ये
ॐ भृङ्गायै नमः चक्षुषोः ॐ त्रिनेत्रायै नमः
कर्णयोः ॐ पार्व्वत्यै नमः घ्राणे ॐ गौर्य्यै नमः
चिवुके ॐ चण्डिकायै नमः दन्तपङ्क्तौ ॐ
उग्रचण्डिकायै नमः जिह्वायां ॐ चण्डघण्टायै
नमः मुखे ॐ विरूपाक्षायै नमः ग्रीवायां ॐ
चण्डायै नमः । पृष्ठे ॐ महाभैरव्यै नमः उदरे
ॐ वैष्णव्यै नमः चतुष्पदे ॐ चण्डप्रियायै नमः
पार्श्वयोः ॐ सर्व्वैश्वर्य्यै नमः कटिदेशे ॐ विरू-
पाक्षायै नमः खुराग्रे ॐ कौशिक्यै नमः लाङ्गूले
ॐ प्रहर्षिण्यै नमः सर्व्वाङ्गेषु पश्वधिष्ठातृदेव-
ताभ्यो नमः । इति संपूज्य उत्सृजेत् । विष्णुः
ॐ तत् सदद्याश्विने मासि शुक्ले पक्षे अमुक-
तिथौ वार्षिकशरत्कालीनदुर्गामहोत्सवे अमुक-
गोत्रस्य श्रीअमुकस्य दुर्गाप्रीतिकामनया दुर्गा-
देव्यै इमं पशुं वह्निदैवतं तुभ्यमहं घातयिष्यामि
इत्युत्सृज्य कृताञ्जलिः पठेत् ।
“ॐ छाग ! त्वं बलिरूपेण मम भाग्यादुप-
स्थितः ।
प्रणमामि ततः सर्व्वरूपिणं बलिरूपिणम् ॥
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ।
अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोऽवधः ॥
पशुयोनिप्रसूतोऽसि पूजाहोमादिकर्म्मसु ।
तुष्टा भवतु सा देवी सरक्तपिशितैस्तव ॥
चण्डिकाप्रीतिदानेन दातुरापद्विनाशनः ।
चामुण्डाबलिरूपाय बले ! तुन्यं नमोऽस्तु ते ॥”
ततः “पगुपाशाय विद्महे शिरश्छेदाय धीमहि ।
तन्नः पशुः प्रचोदयात् ।” इति कर्णे जपेत् ।
ततः खड्गमानीत्र ह्रीं इति बीजाक्षरं
लिखित्वा ध्यायेत् ।
“कृष्णं पिणाकपाणिञ्च कालरात्रिस्वरूपिणम् ।
उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ॥
रक्ताम्बरधरञ्चैव पाशहस्तं कुटुम्बिनम् ।
पिबमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् ॥”
एवं खड्गं ध्यात्वा गृहीत्वा,
“ॐ रसनात्वं चण्डिकायाः सुरलोकप्रसाधकः ।”
इत्यभिमन्त्र्य ऐं ह्रीं खड् गाय नम इति
पाद्यादिभिः संपूज्य पुनर्मुष्टौ ॐ महादेवाय
नमः । धारे ॐ यमाय नमः । अग्रे ॐ ब्रह्मणे
नमः ।
“ॐ असिर्विशसनः खड गस्तीक्ष्णधारो दुरा-
सदः ।
श्रीगर्भो विजयश्चैव धर्म्मपाल ! नमोऽस्तु ते ॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥
हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः ।
पिता पितामहो देवस्त्वं मां पालय सर्व्वदा ॥
नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः ।
भावशुद्धो मर्षणश्च अतितेजास्तथैव च ॥”
ॐ तीक्ष्णदंष्ट्राय नम इति पुष्पं दत्त्वा आं ह्रीं
फट् इति खड्गमादाय ॐ कालि कालि व्रजे-
श्वरि लौहदण्डायै नम इति जपित्वा छागस्य
ग्रीवायां खडग ! त्वं शीघ्रं छिन्धि छिन्धि फट्
फट् स्वाहा । इति पूर्ब्बाभिमुखं बलिं स्वयमुत्त-
रामुखः उत्तराभिमुखं बलिं स्वयं पूर्ब्बाभिमुखो
वा सकृत्प्रहारेण छिन्द्यात् । ततो मृण्मयादि-
पात्रे रुधिरमादाय चतुर्भागं कृत्वा ऐशान्यां
ॐ विदारिकायै नमः आग्नेय्यां ॐ पूतनायै
नभः नैरृत्यां ॐ पापराक्षस्यै नमः वायव्यां
ॐ कौशिक्यै नमः । ॐ तत् सदद्यामुके मासि
अमुकपक्षेऽमुकतिथौ वार्षिकशरत्कालीनदुर्गा-
महोत्सवे अमुकगोत्रस्य श्रीअमुकस्य दशवर्षा-
वच्छिन्नश्रीदुर्गाप्रीतिकामः श्रीदुर्गादेव्यै छागपशु-
रुधिरं दास्यामि इति सङ्कल्प्य ।
ॐ कालि कालि महाकालि कालिके पाप-
नाशिनि ।
शोणितञ्च बलिं गृह्ण वरदे वामलोचने ॥”
एष रुधिरबलिः ॐ दक्षयज्ञेति मन्त्रेण दद्यात् ।
ततः ऐं ह्रीं श्रीं कौशिकि रुधिरेणाप्यायता-
मिति वदेत् । ततः शिरसि ज्वलद्दशां दत्त्वा
ॐ तत् सदद्यामुके मास्यमुकपक्षेऽमुकतिथौ
वार्षिकशरत्कालीनदुर्गामहोत्सवे अमुकगोत्रस्य
श्रीअमुकस्य श्रीमद्दुर्गादर्शनाभिवन्दनस्पर्शना-
भिपूजनस्नपनतर्पणजनितपूर्ब्बपूर्ब्बाधिकपुण्य-
प्राप्तिकामो दुर्गादेव्यै सप्रदीपच्छागपशुशीर्षं
दास्यामीति सङ्कल्प्य एष सप्रदीपच्छागपशु-
शीर्षबलिः ह्रीं दुर्गायै नम इत्युत्सृजेत् ।
“ॐ जय त्वं सर्व्वभूतेशे सव्वभूतसमावृते ।
रक्ष मां निजभूतेभ्यो वलिं भुङ्क्ष्व नमो-
ऽस्तु ते ॥
ततः खड् गरुधिरमादाय ।
“ॐ यं यं स्पृशामि पादेन यं यं पश्यामि
चक्षुषा ।
स स मे वश्यतां यातु यदि शक्रसमो भवेत् ॥”
इति ललाटे तिलकं कुर्य्यात् । मेषघाते तु मेषे-
त्यूहेन योज्यम् । मेषरुधिरदाने तु एकवर्षाव-
च्छिन्नदुर्गाप्रीतिकामः । प्रभूतबलिदाने तु द्वौ
वा त्रीन् वा अग्रतः कृत्वा संप्रोक्ष्य तत्तत्पशुभ्यो
नम इति संपूज्य छाग त्वमित्येकवत्तनानूहेन
प्रयोगः । पश्वन्तरेऽप्येवम् । वाक्ये तु एतान्
पशून् तुभ्यमहं घातयिष्ये । रुधिरदाने तु
एतान् रुधिरबलीन् दास्यामि इति सङ्कल्पा
प्रत्येकेन दद्यात् शीर्षदानमप्येवम् । ततो मूल-
मन्त्रं यथाशक्ति जप्त्वा समर्प्य प्रणमेदिति नन्दि-
केश्वरपुराणोक्तपद्धतिः ॥ * ॥
पृष्ठ ३/४०८
अथ तान्त्रिकबलिदानविधिः । “तत्र सुलक्षणं
पशुं देव्यग्रे संस्थाप्य वक्ष्यमाणविधिना उत्-
सृजेत् । तदुक्तं यामले ।
‘देव्यग्रे स्थापयित्वा तु पशुं लक्षणसंयुतम् ।
श्वेतसर्षपविक्षेपात् भूतानुत्सारयेत्ततः ॥’
अर्घ्योदकेन संप्रोक्ष्य अस्त्रेण संरक्ष्य कवचेनाव-
गुण्ठ्य धेनुमुद्रयामृतीकृत्य गन्धपुष्पाक्षतैः पशुं
संपूज्य मूलेन सप्तधा तत्त्वमुद्रया प्रोक्षणं कृत्वा
कर्णे इमं मन्त्रं पठेत् । पशुपाशाय विद्महे
विश्वकर्म्मणे धीमहि तन्नो जीवः प्रचोदयात् ।
ततो ह्रीं कालि कालि वज्रेश्वरि लौहदण्डायै
नम इति मन्त्रेण खड् गं पूजयेत् । ततः खड्-
गस्याग्रमध्यमूलं क्रमेण पूजयेत् । यथा हूं
वागीश्वरीब्रह्मभ्यां नमः । हूं लक्ष्मीनारा-
यणाभ्यां नमः । हूं उमामहेश्वराभ्यां नमः ।
ततो ब्रह्मविष्णुशिवशक्तियुक्ताय खड् गाय नमः ।
इति सर्व्वत्र पूजयित्वा प्रणमेत् ।
‘खड्गाय खरशाणाय शक्तिकार्य्यार्थतत्पर ! ।
पशुश्छेद्यस्त्वया शीघ्रं खड् गनाथ ! नमोऽस्तु ते ॥’
ततो महावाक्यं अमुकदेवताप्रीतिकामः
अमुकदेव्यै इमं पशुं तुभ्यमहं संप्रददे । ततो
निवेदयेत् ।
‘यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ॥’
ततो बलिं छिन्द्यात् । ततो रुधिरं समांसं देव्यै
दद्यात् । ततोऽवशिष्टं वटुकादिभ्यो बलिं दद्यात्
यथा हुं वां वटुकाय नमः । इति गन्धादिभिः
संपूज्य पूर्ब्बवन्मन्त्रेण वायव्ये बलिं दद्यात् । हुं
यां योगिनीभ्यो नमः इति संपूज्य पूर्ब्बवन्मन्त्रेण
ईशाने बलिं दद्यात् । हुं क्षां क्षेत्रपालाय नमः
इति संपूज्य पूर्ब्बवन्मन्त्रेण नैरृत्यां बलिं दद्यात् ।
हुं गां गणपतये नमः इति संपूज्य पूर्ब्बवन्म-
न्त्रेण आग्नेय्यां गणेशाय बलिं दद्यात् ।” इति
तन्त्रसारः ॥ * ॥ (ननु “मा हिंस्यात् सर्व्वा-
भूतानि” “अहिंसा परमो धर्म्मः ।” इत्यादि
वचनान्न कर्त्तव्यैव सर्व्वथा हिंसा कथं तर्हि
हिंसाप्रवृत्तिः शुभादृष्टजनकत्वेन शास्त्रेषूप-
दिष्टा अतोऽत्रोच्यते । अथ वैधहिंसाविचारः ।
‘मा हिंस्यात् सर्व्वाभूतानि’ इत्यत्र सर्व्वशब्दस्य
व्यापकार्थपरतया एतद्विधिमनुल्लङ्घ्य ‘वायव्यं
श्वेतमालभेत’ इत्यादि विधेर्विषयाप्राप्तेरगत्या
वैधातिरिक्तविषयत्वं सर्व्वाः सर्व्वाणि छन्दसि
वेत्यनेन तत्पदं सिद्धम् । यदपि नाना दर्शन-
टीकाकृद्भिर्वाचस्पतिमिश्रैस्तत्त्वकौमुद्याम् अभि-
हितं न च ‘मा हिंस्यात् सर्व्वाभूतानि’
इति सामान्यशास्त्रं विशेषशास्त्रेण ‘अग्नि-
षोमीयं पशुमालभेत’ इत्यनेन वाध्येत इति
वाच्यं विरोधाभावात् । विरोधे हि बलीयसा
दुर्ब्बलं वाध्यते । न चास्ति विरोधः भिन्नषिषय-
त्वात् । तथाहि ‘मा हिंस्यात् इति निषेधेन
हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्व-
र्थत्वमपि । न चानर्थहेतुत्वक्रतूपकारकत्वयोः
कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोष-
मावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन तदपि
सांख्यनये । मीमांसकमते तु विरोध एव
तथाहि गुरुनये न खलु सर्व्वभूतहिंसाभाव-
विषयकं कार्य्यं इति निषेधविध्यर्थस्य वाधं विना
अग्निषोमीयपश्वालम्भनविषयकं कार्य्यमिति
भावविध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा
तथास्तु । न च मुख्यपशुयागे पुरुषार्थकपशु-
हिंसनस्यार्थसाधनत्वं अनर्थसाघनत्वञ्चोपपद्यते
विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव
कुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात्
परम्परया वा पुरुषार्थसाधनत्वमवगमयति
अन्यथाङ्गानां प्रधानोपकारकत्वमपि नाङ्गी-
क्रियेत । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट-
साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं
न चानयोरेकत्र समावेश इति । अतएवोक्तं
‘तस्माद्यज्ञे वधोऽवधः’ इति । नन्वेवं ‘श्येनेना-
भिचरन् यजेत’ इत्यत्र श्येनस्य शत्रुवधरूपेष्ट-
साधनत्वमवगतं ‘अभिचारो मूलकर्म्म च ।’
११ । ६३ । इति मनुना उपपातकगणमध्ये पाठात्
अनिष्टसाधनत्वमवगतम् । तदेतत्कथमुपपद्य-
तामिति चेन्मैवं ‘आततायिनमायान्तं हन्या-
देवाविचारयन् ।’ ८ । ३५० । इत्येकवाक्यतया
आततायिस्थले इष्टसाधनत्वं अनाततायिस्थले
तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध
एव ॥” इति तिथितत्त्वम् ॥)

ब(व)लिध्वंसी, [न्] पुं, (बलिं तदाख्यया प्रसिद्धं

दैत्यविशेषं ध्वंसयतीति । बलि + ध्वंस + णिनि ।
वामनरूपेण बलेः सर्व्वस्वग्रहणादस्य तथा-
त्वम् । यद्बा, बलिना पूजोपहारेण अविद्यां
ध्वंसयितुं शीलमस्य ।) विष्णुः । इत्यमरः । १ ।
१ । २१ ॥ (भगवता वामनरूपधरेण बलिकृत-
यज्ञगमनपूर्ब्बकं तत्सकाशात् सर्व्वस्वं गृहीत-
मित्येतत्कथा बलिशब्दे द्रष्टव्या ॥)

ब(व)लिनः, त्रि, (बलिः शिथिलं चर्म्म अस्या-

स्तीति । बलि + पामादित्वान्नः ।) बलिभः ।
जरया श्लथचर्म्मयुक्तः । इत्यमरः । २ । ६ । ४५ ॥

ब(व)लिनन्दनः, पुं, (बलेस्तदाख्यया प्रसिद्धस्य दैत्यस्य

नन्दनः पुत्त्रः ।) बाणासुरः । इति शब्दरत्ना-
वली ॥ (अयं खलु यादवश्रेष्ठेन भगवता कृष्णेन
सह युद्धमकरोत् । तपःप्रतापवशीकृतो महा-
देवश्च स्वयमस्य दौवारिकत्वञ्चकार । तद्विव-
रणादिकं हरिवंशे १७३ अध्यायमारभ्य १८३
अध्यायपर्य्यन्तं द्रष्टव्यम् ॥ बलेः ययातिवंशीयस्य
राज्ञः नन्दनः क्षेत्रजः पुत्त्रः इति व्युत्पत्त्या
अङ्गवङ्गकलिङ्गाद्याः । यदुक्तं, विष्णुपुराणे ।
४ । १८ । १ । “हेमात् सुतपास्तस्मात् बलिः
यस्य क्षेत्रे दीर्घतमसा अङ्गवङ्गकलिङ्गसुह्म-
पुण्ड्राख्यं बालेयं क्षत्त्रमजन्यत ॥”)

ब(व)लिनी, स्त्री, (बलं देयत्वेनास्त्यस्या इति इनिः ।

ङीप् ।) वाट्यालकः । इति शब्दचन्द्रिका ॥

ब(व)लिपुष्टः, पुं, (वैश्वदेवेन बलिना पुष्टः ।)

काकः । इत्यमरः । २ । ५ । २० ॥

ब(व)लिपोदकी, स्त्री, (बलेः पोदकी उपोदकी ।)

उपोदकी । इति राजनिर्घण्टः ॥

ब(व)लिप्रियः, पुं, (बलिमुपहारं प्रीणातीति ।

बलि + प्री + क ।) लोध्रवृक्षः । इति शब्द-
चन्द्रिका ॥ (बलिर्वैश्वदेवबलिः प्रियो यस्य इति
व्युत्पत्त्या काकः । उपहारप्रिये वाच्यलिङ्गः ॥)

ब(व)लिभः, त्रि, (बलिश्चर्म्मसंकोचोऽस्त्यस्येति ।

बलि + “तुन्दिबलिंवटेर्भः ।” ५ । २ । १३९ ।
इति भः ।) बलिनः । इत्यमरः । २ । ६ । ४५ ॥

ब(व)लिभुक्, [ज्] पुं, (बलिं वैश्वदेवबलिं गृहस्थ-

दत्तद्रव्यं वा भुङ्क्त इति । भुज् + क्विप् ।)
काकः । इत्यमरः । २ । ५ । २० ॥ (यथा,
भागवते । १ । १८ । ३३ ।
“अहो अधर्म्मः पालानां पीव्नां बलिभुजा-
मिव ॥”)

ब(व)लिमन्दिरं, क्ली, (बलेः स्वनामख्यातस्य राज्ञो

मन्दिरमालयः । बलिर्हि वामनरूपाय विष्णवे
सर्व्वस्वं दत्त्वा प्रह्लादेन सह पाताले निवसति इति
पौराणिकी कथात्रानुसन्धेया ।) अधोलोकः ।
पातालम् । इति शब्दमाला ॥

ब(व)लिमान्, [त्] त्रि, (बलिश्चर्म्मसंकोचोऽस्त्य-

स्येति । बलि + मतुप् ।) बलिनः । जरया श्लथ-
चर्म्मयुक्तः । इत्यमरटीका ॥ (बलिः पूजोपहारं
विद्यतेऽस्येति व्युत्पत्त्या उपहारविशिष्टः ।
यथा, रघुः । १४ । १५ ।
“वाष्पायमाणो बलिमन्निकेत-
मालेख्यशेषस्य पितुर्विवेश ॥”)

ब(व)लिमुखः, पुं, (बलिर्मुखे यस्य । यद्वा, बलि-

श्चर्म्मसङ्कोचस्तद्युक्तं मुखं यस्य ।) वानरः ।
इत्यमरटीकायां रमानाथः ॥

ब(व)लिष्ठः, पुं, (अतिशयेन बलवान् + बलवत् +

इष्ठन् । विन्मतोर्लुगिति मतुपो लुक् । प्रशस्त-
भारवाहकत्वादस्य तथात्वम् ।) उष्ट्रः । इति
राजनिघण्टः ॥ (धर्म्मसावर्णिकमन्वन्तरान्त-
र्गत ऋषिभेदः । यथा, मार्कण्डेये । ९४ । १९ ।
“हविष्मांश्च बलिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ॥
सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥”
रलयोरैक्यात् क्वचित् वरिष्ठश्चेति पाठो
दृश्यते ॥)

ब(व)लिष्ठः, त्रि, (अतिशयेन बलवान् । बलवत् +

इष्ठन् । विन्मतोर्लुगिति मतुपो लुक् ।) अति-
शयबलबान् । यथा, --
“प्रायश्चित्तं बिना पूता त्वमेष शुद्धमानसा ।
अकामा या बलिष्ठेन न स्त्री जारेण दुष्यति ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः ॥
बलिष्ठा यथा । वायुः १ विष्णुः २ गरुडः ३
हनूमान् ४ यमः ५ महावराहः ६ सरभः ७
सत्प्रतिज्ञा ८ गजः ९ पृथुराजः १० बलरामः
११ वाली १२ बलिः १३ भीमः १४ सती १५
शेषः १६ पुराकृतम् १७ । इति कविकल्प-
लता ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ब&oldid=44021" इत्यस्माद् प्रतिप्राप्तम्