शब्दकल्पद्रुमः/प्रदक्षिणा

विकिस्रोतः तः
पृष्ठ ३/२७४

प्रदक्षिणा, स्त्री, (प्रगता दक्षिणमिति । “तिष्ठद्गु

प्रभृतीनि च । २ । १ । १७ ।” इति समासः ।)
प्रदक्षिणम् । यथा, --
अथ प्रदक्षिणा ।
“ततः प्रदक्षिणां कुर्य्याद्भक्या भगवतो हरेः ।
नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द-
नाम् ॥”
प्रदक्षिणासङ्ख्या चोक्ता नारसिंहे ।
“एकां चण्ड्यां रवेः सप्त तिस्रो दद्याद्विनायके ।
चतस्रः केशवे दद्यात् शिवे त्वर्द्धप्रदक्षिणाम् ॥”
प्रदक्षिणामाहात्म्यं वाराहे ।
“प्रदक्षिणां ये कुर्व्वन्ति भक्तियुक्तेन चेतसा ।
न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥
यस्त्रिः प्रदक्षिणं कुर्य्यात् साष्टाङ्गकप्रणामकम् ।
दशाश्वमेधस्य फलं प्राप्नुयान्नात्र संशयः ॥”
स्कान्दे ब्रह्मनारदसंवादे ॥
“विष्णोर्विमानं यः कुर्य्यात् सकृद्भक्त्या प्रदक्षि-
णम् ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥”
तत्रैव चातुर्मास्यमाहात्म्ये ।
“चतुर्व्वारं भ्रमीभिस्तु जगत् सर्व्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य ! तत्तीर्थगमनाधिकम् ॥”
तत्रैवान्यत्र ।
“प्रदक्षिणं तु यः कुर्य्याद्धरिं भक्त्या समन्वितः ।
हंसयुक्तविमानेन विष्णुलोकं स गच्छति ॥”
नारसिंहे ।
“प्रदक्षिणेन चैकेन देवदेवस्य मन्दिरे ।
कृतेन यत् फलं नॄणां तच्छृणुष्व नृपात्मज ! ।
पृथ्वीप्रदक्षिणफलं यत्तत् प्राप्य हरिं व्रजेत् ॥”
अन्यत्र च ।
“एवं कृत्वा तु कृष्णस्य यः कुर्य्याद्द्विप्रदक्षिणम् ।
सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ॥
पठन्नामसहस्रन्तु नामान्येवाथ केवलम् ॥”
भक्तिसुधोदये ।
“विष्णुं प्रदक्षिणीकुर्व्वन् यस्तत्रावर्त्तते पुनः ।
तदेवावर्त्तनं तस्य पुनर्नावर्त्तते भवे ॥”
बृहन्नारदीये यमभगीरथसंवादे ।
“प्रदक्षिणत्रयं कुर्य्यात् यो विष्णोर्मनुजेश्वर ! ।
सर्व्वपापविनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥”
तत्रैव प्रदक्षिणमाहात्म्ये सुधर्म्मोपाख्यानारम्भे ।
“भक्त्या कुर्व्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् ।
तेऽपि यान्ति परं स्थानं सर्व्वलोकोत्तमोत्तमम् ॥
तत् ख्यातं यत् सुधर्म्मस्य पूर्ब्बस्मिन् गृध्रजन्मनि ।
कृष्णप्रदक्षिणाभाषान्महासिद्धिरभूदिति ॥”
अथ प्रदक्षिणायां निषिद्धं विष्णुस्मृतौ ।
“एकहस्तप्रणामश्च एका चैव प्रदक्षिणा ।
अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥”
अकाले भोजनादिसमये । किञ्च ।
“कृष्णस्य पुरतो नैव सूर्य्यस्यैव प्रदक्षिणाम् ।
कुर्य्याद्भ्रमरिकारूपं वैमुख्यापादनीं प्रभौ ॥”
तथा चोक्तम् ।
“प्रदक्षिणं न कर्त्तव्यं विमुखत्वाच्च कारणम् ॥”
इति श्रीहरिभक्तिविलासे ८ विलासः ॥

प्रदत्तं, त्रि, (प्र + दा + क्तः ।) प्रकर्षेण दत्तम् ।

इति मुग्धबोधव्याकरणम् ॥

प्रदरः, पुं, (प्र + दॄ विदारणे + “ॠदोरप् ।”

३ । ३ । ५७ । इति भावादौ यथायथं अप् ।)
भङ्गः । बाणः । इत्यमरः ॥ विदारः । नारी-
रुग्भेदः । इति मेदिनी ॥ * ॥ अस्य नामान्तरं
असृग्दरम् । तत्तु फलितयोन्या रक्तादिधातु-
क्षरणम् । अस्य निदानम् । यथा, --
“विरुद्धमद्याध्यशनादजीर्णाद्
गर्भप्रपातादतिमैथुनाच्च ।
यानाध्वशोकादतिकर्षणाच्च
भाराभिघाताच्छयनाद्दिवा च ॥
असृग्दरं भवेत् सर्व्वं साङ्गमर्द्दं सवेदनम् ॥
तस्यातिवृद्धौ दौर्ब्बल्यं श्रमो मूर्च्छा मदस्तृषा ।
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ॥”
स च चतुर्व्विधो यथा, --
“तं श्लेष्मपित्तानिलसन्निपातै-
श्चतुःप्रकारं प्रदरं वदन्ति ॥”
श्लैष्मिकस्य तस्य लक्षणम् ।
“आमं सपिच्छाप्रतिमं सपाण्डु-
पुलाकतोयप्रतिमं कफात्तु ॥”
पैत्तिकस्य तस्य लक्षणम् ।
“सपीतनीलासितरक्तमुष्णं
पित्तार्त्तियुक्तं भृशवेगि पित्तात् ॥”
वातिकस्य तस्य लक्षणम् ।
“रूक्षारुणं फेनिलमल्पमल्पं
वातार्त्तिवातात् पिशितोदकाभम् ॥”
तस्य त्रैदोषिकस्य लक्षणम् ।
“सक्षौद्रसर्पिर्हरितालवर्णं
मज्जप्रकाशं कुणपं त्रिदोषात् ।
तञ्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा
न तत्र कुर्व्वीत भिषक् चिकित्साम् ॥”
इति माधवकरः ॥ * ॥
अस्यौषधं यथा, --
“घृततुल्या रुद्रलाक्षा पीता क्षीरेण वै सहा ।
प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥”
इति गारुडे १९६ अध्यायः ॥ * ॥
अपि च ।
“दध्ना सौवर्च्चलाजाजीमधूकं नीलमुत्पलम् ।
पिबेत् क्षौद्रयुतं नारी वातासृग्दरशान्तये ॥
एषां प्रत्येकं माषद्वयम् । सर्व्वमेकीकृत्य दध्ना
कर्षचतुष्टयेन पिष्ट्वा तत्र माषाष्टकं मधु निःक्षिप्य
पेयम् ॥ * ॥
“मधुकं कर्षमेकन्तु चतुष्कर्षां सितान्तथा ।
तण्डुलोदकसंपिष्टां लोहिते प्रदरे पिबेत् ॥
वला कङ्कतिलाख्या या तस्या मूलन्तु चूर्णितम् ।
लोहिते प्रदरे खादेच्छर्करामधुसंयुतम् ॥ * ॥
शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम् ।
नीतसुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् ॥ * ॥
रसाञ्जनं तण्डुलकस्य मूलं
क्षौद्रान्वितं तण्डुलतोयपीतम् ।
असृग्दरं सर्व्वभवं निहन्ति
यासञ्च भार्गी सह नागरेण ॥ * ॥
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम् ।
यथाबलं पिबेत् प्रातस्तीव्रासृग्दरनाशनम् ॥”
अशोकवल्कलपलं द्वात्रिंशत्पलसंमितेन जलेन
निष्क्वाथ्य शेषेण पलाष्टकक्वाथेन सह क्षीरं
पलाष्टकमितं विपचेत् तत्तु दुग्धावशेषं कर्त्तव्यं
तन्मध्ये पलचतुष्टयमितं दुग्धं पेयं वह्निबला-
पेक्षया वा ॥ * ॥
“कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना ।
एतत् पीत्वा त्र्यहं नारी प्रदरात् परिमुच्यते ॥”
इति भावप्रकाशः ॥
(तथास्य चिकित्सान्तरं यथा, --
“काकजानुकमूलं वा मूलं कार्पासमेव वा ।
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥”
“कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना ।
एतत् पीत्वात्र्यहान्नारी प्रदरात् परिमुच्यते ॥”
“प्रदरं हन्ति वलायामूलं दुग्धेन मधुयुतं पीतम् ॥”
“गुडेन वदरीचूर्णं मोचमामं तथा पयः ।
पीता लाक्षा च सघृता पृथक्प्रदरनाशनाः ॥”
इति चक्रपाणिसंग्रहेऽसृग्दराधिकारे ॥)

प्रदर्शितः, त्रि, (प्र + दृश् + णिच् + क्तः ।) आलो-

कितः । यथा, --
“क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः ।
प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि धातवः ॥”
इति मुग्धबोधटीकायां दुर्गादासः ॥

प्रदलः, पुं, (प्रकर्षेण दलति दालयतीत्यर्थः ।

प्र + दल् + अच् ।) बाणः । इति जटाधरः ॥

प्रदानं, क्ली, (प्र + दा + भावे ल्युट् ।) दानम् ।

इति शब्दरत्नावली ॥ प्रकृष्टदानञ्च । (यथा,
मनौ । ३ । २४० ।
“होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ॥”)

प्रदिक्, [श्] स्त्री, (प्रगता दिग्भ्यः ।) विदिक् । इति

जटाधरः ॥ (यथा, महाभारते । १ । १७४ । ३९ ।
“ततो विभ्रान्तमनसो जनाःक्षुद्भयपीडिताः ।
गृहाणि संपरित्यज्य वभ्रमुः प्रदिशो दिशः ॥”
प्रकृष्टा दिक् । (यथा, हरिवंशे । १६३ । ८ ।
“प्रदिशो विदिशश्चैव शरधारासमावृताः ।
अन्धकारीकृतं व्योम दिनेशो नैव दृश्यते ॥”)

प्रदिग्धं, क्ली, (प्र + दिह् + कर्म्मणि क्तः ।)

मांसव्यञ्जनभेदः । यथा, शब्दचन्द्रिकायाम् ।
“मांसं बहुघृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः ।
जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥
तदेव घृततक्राढ्यं प्रदिग्धं सत्रिजातकम् ॥”
त्रि, प्रलिप्तः ॥ (रूषितः । यथा, रामायणे ।
५ । ५ । २८ ।
“अव्यक्तरेखामिव चन्द्रलेखां
पांशुप्रदिग्धामिव हेमरेखाम् ॥”)

प्रदीपः, पुं, (प्रकर्षेण दीपयति प्रकाशयति प्रदी-

प्यते इति वा । प्र + दीप् + णिच् वा + कः ।)
पृष्ठ ३/२७५
दीपः । इत्यमरः । २ । ७ । १६८ ॥ तत्पर्य्यायः ।
स्नेहादीपकः २ कज्जलध्वजः ३ शिखातरुः ४
गृहमणिः ५ ज्योत्स्नावृक्षः ६ दशेन्धनः ७
दोषातिलकः ८ दोषास्यः ९ नयनोत्सवः १० ।
इति शब्दरत्नावली ॥ (यथा, रघौ । ५ । ३७ ।
“रूपं तदोजस्वि तदेव वीर्य्यं
तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात् स्वाद्बिभिदे कुमारः
प्रवर्त्तितो दीप इव प्रदीपात् ॥”)
दीपमाहात्म्यम् । यथा, --
“दीपेन लोकान् जयति दीपस्तेजोमयः स्मृतः ।
चतुर्व्वर्गप्रदो दीपस्तस्माद्दीपं यजेत् प्रिये ! ॥”
सप्तप्रकारा दीपा यथा, --
“घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः ।
सार्षपः फलनिर्यासजातो वा राजिकोद्भवः ॥
दधिजश्चान्नजश्चैव प्रदीपाः सप्त कीर्त्तिताः ॥”
तस्य पञ्चप्रकारा वर्त्तिका यथा, --
“पद्मसूत्रभवा दर्भगर्भसूत्रभवाथवा ।
सालजा वादरी वापि फलकोषोद्भवाथवा ॥
वर्त्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः ॥”
दीपपात्राणि यथा, --
“तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम् ।
तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते ॥” * ॥
दीपवृक्षे दीपस्थापनं भूमौ तन्निषेधश्च यथा, --
“दीपवृक्षाश्च कर्त्तव्यास्तैजसाद्यैश्च भैरव ! ।
वृक्षे च दीपो दातव्यो न तु भूमौ कदाचन ॥
सर्व्वंसहा वसुमती सहते न त्विदं द्बयम् ।
अकार्य्यपादघातञ्च दीपतापन्तथैव च ॥
तस्माद्यथा तु पृथिवी तापं नाप्नोति वै तथा ।
दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव ! ॥
कुर्व्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ।
स ताम्रतापं नरकमाप्नोत्येव शतं समाः ॥ * ॥
सुवृत्तवर्त्तिः सस्नेहः पात्रेऽभग्ने सुदर्शने ।
सूच्छ्राये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः ॥
लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् ।
न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः ॥
नेत्राह्लादकरः सर्व्वभूमितापविवर्ज्जितः ।
सुशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः ॥
दक्षिणावर्त्तवर्त्तिस्तु प्रदीपः श्रीविवृद्धये ।
दीपवृक्षस्थिते शुद्धस्नेहेनैव प्रपूरिते ॥
दक्षिणावर्त्तवर्त्त्या तु चारुदीपः प्रदीपकः ।
उत्तमः प्रोच्यते पुत्त्र ! सर्व्वतुष्टिप्रदायकः ॥
वृक्षेण वर्ज्जितो दीपो मध्यमः परिकीर्त्तितः ।
विहीनः पात्रतैलाभ्यामधमः परिकीर्त्तितः ॥”
इति कालिकापुराणे ६८ अध्यायः ॥ * ॥
कार्त्तिके तद्दानफलं यथा, --
“कार्त्तिके मासि यो दद्यात् प्रदीपं सर्पिरादिना ।
आकाशे मण्डले वापि स चाक्षयफलं लभेत् ॥”
इति कर्म्मलोचनम् ॥ * ॥
अपि च ।
“समभ्यर्च्च्य हरिं भक्त्या दीपं दत्त्वा दिवानिशम् ।
तत्र पापविशुद्धात्मा नरो याति दिवं नृप ! ॥
कृष्णपक्षे विशेषेण तत्र पञ्च दिनानि तु ।
पुण्यानि तेषु यद्दत्तमक्षयं सर्व्वकामिकम् ॥
एकादश्यां हरिमुद्दिश्य दीपं प्रज्वाल्य मूषिका ।
मानुष्यं दुर्लभं प्राप्य परां गतिमवाप सा ॥
द्वादश्यां तस्करो रात्रिदीपमुद्बोध्य चौर्य्यतः ।
कारणात् परमं प्राप्तो लोकं विष्णोः सनातनम् ॥
श्वपचोऽपि त्रयोदश्यां दीपान् दत्त्वापरैः कृतान् ।
वेश्या लीलावती भूत्वा जगाम स्वर्गमक्षयम् ॥
लुब्धकोऽपि चतुर्द्दश्यां पूजयित्वा जनार्द्दनम् ।
निर्भक्तिः परसंगत्या विष्णुलोकं जगाम सः ॥
गोपः कश्चिदमावास्यां पूजां दृष्ट्वाथ शार्ङ्गिणः ।
सुदुर्जयस्त्वजापालो राजराजेश्वरोऽभवत् ॥
तस्माद्दीपाः प्रदातव्या रात्रावस्तमिते रवौ ।
गृहेषु सर्व्वगोष्ठेषु चैत्येष्वायतनेषु च ॥
देवानाञ्चैव रथ्यासु श्मशानेषु सरःसु च ॥”
इत्यग्निपुराणम् ॥

प्रदीपनः, पुं, (प्रदीपयतीति । प्र + दीप् + णिच् +

ल्युः ।) स्थावरविषभेदः । इत्यमरः । १ । ८ । १० ॥
(अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“काकोलो गरलः क्ष्वेडो वत्सनाभः प्रदीपनः ।
शौक्लिकेयो ब्रह्मपुत्रो विषं स्याद्गरलो विषः ॥”)
तस्य लक्षणम् यथा, --
“वर्णतो लोहितो यः स्यात् दीप्तिमान् दहन-
प्रभः ।
महादाहकरः पूर्ब्बैः कथितः स प्रदीपनः ॥”
इति राजनिर्घण्टः ॥
प्रकाशके, त्रि ॥

प्रदेशः, पुं, (प्रदिश्यते इति । प्र + दिश् + “हल-

श्च ।” ३ । ३ । १२३ । इति घञ् । “उप-
सर्गस्य घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ ।
इति पाक्षिको दीर्घाभावः ।) देशमात्रम् ।
(यथा, हरिवंशे भविष्यपर्व्वणि । ५ । ३६ ।
“गरुडादवरुह्याथ दीपिकादीपिते तदा ।
प्रदेशे पुण्डरीकाक्षो स्थितस्तावत्सहामरैः ॥”)
तत्पर्य्यायः । आस्थानम् २ आस्था ३ भूः ४
अवकाशः ५ स्थितिः ६ पदम् ७ । इति राज-
निर्घण्टः ॥ तर्जन्यङ्गुष्ठसम्मितः । भित्तिः । इति
मेदिनी । शे, २५ ॥ (संज्ञा । इति निरुक्तम् ।
१ । ४ । २ ॥ तन्त्रयुक्तिप्रकारविशेषः । यथा, --
“प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः । यथा
देवदत्तस्यानेन शल्यमुद्धृतं तस्माद्यज्ञदत्तस्याप्यय-
मेवोद्धरिष्यतीति ।” इत्युत्तरतन्त्रे पञ्चषष्टितमे-
ऽध्याये सुश्रुतेनोक्तम् ॥)

प्रदेशनं, क्ली, (प्रदिश्यते अनेनेति । प्र + दिश् +

करणे ल्युट् ।) नृपादेरुपढौकनम् । भेटी इति
ख्यातम् । तत्पर्य्यायः । प्राभृतम् २ उपायनम् ३
उपग्राह्यम् ४ उपहारः ५ उपदा ६ । इत्यमरः ।
२ । ८ । २७ ॥ केचित्तु देवताभ्यो भक्त्या मित्रा-
दिभ्यश्च प्रीत्या यत् प्रशस्तं लड्डुकादि दीयते
तत् इत्याहुः । केचिच्च प्राभृतादि द्वयं श्रद्धया
देवताब्राह्मणराजादिभ्यो यद्दीयते तत्र । उपा-
यनादि चतुष्कं तुभ्यमिदं दीयते त्वयैतत् मम
कार्य्यं साधनीयमिति यद्दीयते धुती इति ख्याते
इत्याहुः । किन्तु षट्कमेकार्थमेवेति बहवः ।
उपायनमुपग्राह्यं प्राभृतञ्चोपदा स्त्रियामित्य-
मरमाला । इति भरतः ॥

प्रदेशनी, स्त्री, (प्रदिश्यते अनयेति । प्र + दिश् +

करणे ल्युट् ।) तर्ज्जनी । इत्यमरटीकायां भरतः ॥

प्रदेशिनी, स्त्री, (प्रदिशतीति । प्र + दिश् +

णिनिः ङीप् ।) तर्ज्जनी । इत्यमरः । २ । ६ । ८१ ॥
(यथा, महाभारते । १ । ८३ । १६ ।
“तेऽदर्शयन् प्रदेशिन्या तमेव नृपसत्तमम् ।
शर्म्मिष्ठां मातरञ्चैव तथाचख्युश्च दारकाः ॥”
“स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते ।
प्रदेशिन्यास्तु मध्यमानामिका कनिष्ठिका यथो-
त्तरं पञ्चमभागहीना ।” इति सुश्रुते सूत्र-
स्थाने ३५ अध्याये ॥)

प्रदेहः, पुं, (प्रदिह्यते इति । प्र + दिह् लेपने +

घञ् ।) प्रलेपः । इति वैद्यकम् ॥ (यथा, सुश्रुते
सूत्रस्थाने । १३ अध्याये ।
“इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत् ।
स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ॥”
यथा च “प्रदेहो वातश्लेष्मप्रशमनः सन्धानः
शोधनो रोपणः शोफवेदनापहश्च तस्योपयोगः
क्षताक्षतेषु ।” इति सुश्रुते सूत्रस्थानेऽष्टादशे-
ऽध्याये ॥ व्यञ्जनविशेषः । तद्यथा --
“सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥”
इति च तत्र सूत्रस्थाने ४६ अध्याये ॥)

प्रदोषः, पुं, (दोषा रात्रिः । प्रारम्भो दोषाया

इति प्रादिसमासः । प्रक्रान्ता दोषा रात्रि-
रत्रेति वा ।) रजनीमुखम् । इत्यमरः । १ । ४ । ६ ॥
तत्तु रात्रेः प्रथमदण्डचतुष्टयम् । यथा, --
“प्रदोषोऽस्तमयादूर्द्धं घटिकाद्बयमिष्यते ॥”
इति तिथ्यादितत्त्वम् ॥
(यथा, कुमारे । ५ । ४४ ।
“वद प्रदोषे स्फुटचन्द्रतारका
विभावरी यद्यरुणाय कल्पते ॥”)
दोषः । इति हेमचन्द्रः ॥ (प्रकृष्टो दोषो
यस्येति । दुष्टे, त्रि । यथा, माघे । २ । ९८ ।
“ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥”
“ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयो
राजानस्तमःस्वभावाः तमोगुणात्मकाः अतएव
तेऽपि प्रदोषं प्रकृष्टदोषम् । प्रदोषो दुष्टरात्रांशा
विति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनः
अनुयास्यन्ति सादृश्यादिति भावः ॥” इति
तट्टीकायां मल्लिनाथः ॥)

प्रद्यु, क्ली, प्रकृष्टा द्यौः स्वर्गो यस्मात् तत् । पुण्यम् ।

इति मुग्धबोधटीकायां दुर्गादासः ॥

प्रद्युम्नः, पुं, (प्रकृष्टं द्युम्नं बलं यस्य ।) कन्दर्पः ।

इत्यमरः । १ । १ । २६ ॥ स वासुदेवस्य चतु-
र्थांशः । यथा, --
“एकदेवं चतुष्पादं चतुर्धा पुनरच्युतः ।
बिभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥
पृष्ठ ३/२७६
कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् ।
अपां तरतमाः पूर्ब्बं स्वेच्छया ह्यभवद्धरिः ॥”
इति कौर्म्मे ४८ अध्यायः ॥
अपि च ।
“अनिरुद्धः स्वयं ब्रह्मा प्रद्युम्नः काम एव च ।
वलदेवः स्वयं शेषः कृष्णश्च प्रकृतेः परः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११६ अध्यायः ॥
(नड्वलागर्भजातो मनोरपत्यभेदः । यथा, भाग-
वते । ४ । १३ । १५ -- १६ ।
“मनोरसूत महिषी विरजान् नड्वला सुतान् ।
पुरुं कुत्सं मृतं दुम्नं सत्यवन्तं मृतं व्रतम् ॥
अग्निष्टोममतीरात्रं प्रद्युम्नं शिवमुल्मुकम् ॥”)

प्रद्योतः, पुं, (प्रकृष्टो द्योतः ।) रश्मिः । इति

हलायुधः ॥ (यक्षभेदः । यथा, महाभारते ।
२ । १० । १५ ।
“कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः ॥”)

प्रद्योतनः, पुं, (प्रद्योतते इति । प्र + द्युत् + “अनु-

दात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति युच् ।)
सूर्य्यः । इति हलायुधः ॥ (भावे ल्युट् ।) द्युतौ,
क्ली ॥

प्रद्रावः, पुं, (प्र + द्रु + “प्रे द्रुस्तुस्रुवः ।” ३ । ३ । २७ ।

इति घञ् ।) पलायनम् । इत्यमरः । २ ।
८ । १११ ॥

प्रधनं, क्ली, (प्रदधातीति । प्र + धा + “कॄपवृजि

मन्दिनिधाञः क्युः ।” उणा० २ । ८१ । इति
वाहुलकात् क्युः आतो लोपश्च ।) युद्धम् ।
इत्यमरः । २ । ८ । १०३ ॥ (यथा, देवीभाग-
वते । ४ । ७ । ५३ ।
“वैरं भवति वित्तार्थं दारार्थं वा परस्परम् ।
एषणारहितौ कस्मात् चक्रतुः प्रधनं महत् ॥”)
दारणम् । इति मेदिनी । ने, ८३ ॥ (प्रकृष्टं
धनमस्येति विग्रहे प्रभूतधनविशिष्टे, त्रि ॥)

प्रधानं, क्ली, (प्रधत्ते सर्व्वमात्मनीति । प्र + धा +

युच् ।) प्रकृतिः । (यथा, विष्णुपुराणे । १ । १ । २ ।
“सदक्षरं ब्रह्म य ईश्वरः पुमान्
गुणोर्म्मिसृष्टिस्थितिकालसंलयः ।
प्रधानबुद्ध्यादिजगत् प्रपञ्चसूः
स नोऽस्तु विष्णुर्गतिभूतिमुक्तिदः ॥”
महामात्रः । (यथा, मनुः । ७ । २०२ ।
“प्रमाणानि च कुर्व्वीत तेषां धर्म्म्यान् यथो-
दितान् ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥”
प्रधत्तेऽनेनास्मिन् वा । प्र + धा + ल्युट् ।)
परमात्मा । बुद्धिः । त्रि, प्रशस्तम् । तत्पर्य्यायः ।
प्रमुखम् २ प्रवेकम् ३ अनुत्तमम् ४ उत्तमम् ५
मुख्यम् ६ वर्य्यम् ७ वरेण्यम् ८ प्रवर्हम् ९
अनवरार्द्ध्यम् १० परार्द्ध्यम् ११ अग्रम् १२ प्राग्र-
हरम् १३ प्रग्र्यम् १४ अग्र्यम् १५ अग्रीयम् १६
अग्रिमम् १७ । इत्यमरः । ३ । १ । ५७ ॥ (यथा,
मनुः । ९ । १२१ ।
“उप्रसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते ।
पिता प्रधानं प्रजने तस्माद्धर्म्मेण तं भजेत् ॥”

प्रधानः, पुं, (प्रधत्ते इति । प्र + धा + ल्युः ।)

महामात्रः । सेनापत्यादिः । महामात्रः
प्रधानः स्यादिति पुंस्काण्डे वोपालितः । इत्य-
मरटीकायां भरतः ॥ (राजर्षिमेदः । यथा,
महाभारते । १२ । २३० । १८१ ।
“प्रधानो नाम राजा च व्यक्तं ते श्रोत्रमागतः ।
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥”)

प्रधिः, पुं, (प्रधीयते अनेनेति । प्र + धा + “उप-

सर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।)
नेमिः । इत्यमरः । २ । ८ । ५६ ॥ (यथा, महा-
भारते । ५ । ५१ । ५८ ।
“मन्ये पर्य्यायधर्म्मोऽयं कालस्यात्यन्तगामिनः ।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥”)

प्रधीः, त्रि, (प्रकृष्टा धीर्बुद्धिर्यस्य ।) प्रकृष्टबुद्धि-

युक्तः । (प्रकृष्टा धीः ।) प्रकृष्टबुद्धौ, स्त्री । इति
मुग्धबोधव्याकरणम् ॥

प्रधूपिता, स्त्री, (प्रकर्षेण धूपिता ।) क्लेशिता ।

सूर्य्यगन्तव्यदिक् । इति मेदिनी । ते, २०७ ॥
प्रकर्षेण तप्ते दीप्ते च त्रि ॥

प्रनष्टः, त्रि, (प्र + नश् + क्तः ।) प्रकर्षेण नाश-

युक्तः ।
“कश्चिदज्ञानसम्भूतः प्रनष्टस्ते धनञ्जय ! ॥”
इति श्रीभगद्गीतायाम् १८ अध्यायः ॥

प्रनिघातनं, क्ली, (प्र + नि + हन् + णिच् + भावे

घञ् ।) प्रणिघातनम् । वधः । इति हेमचन्द्रः ॥

प्रपञ्चः, पुं, (प्रपञ्च्यते इति । प्र + पचि व्यक्तीकरणे

+ घञ् ।) विपर्य्यासः । विस्तरः । इत्यमरः ॥
“विपर्य्यासो वैपरीत्यं भ्रमो वा मायेति स्वामी ॥”
इति भरतः ॥ सञ्चयः । प्रतारणम् । इति
मेदिनी । चे, १५ ॥ संसारः । यथा, --
“पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् ।
षडाम्नायफलोपेतं प्रपञ्चे चातिदुर्लभम् ॥”
इति गुरुपादुकास्तोत्रम् ॥

प्रपञ्चितं, त्रि, (प्रपञ्च्यते स्मेति । प्र + पचि +

क्तः ।) विस्तृतम् । भ्रमयुक्तम् । यथा, --
“आत्मानमेवात्मतया विजानतां
तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्ज्वामहेर्भोगभवाभवौ यथा ॥”
इति श्रीभागवते । १० । १४ । २५ ॥

प्रपथः, त्रि, (प्रकृष्टः पन्था यत्र ।) शिथिलः ।

इति भूरिप्रयोगः ॥ (प्रकृष्टः पन्था इति प्रादि-
समासः । प्रकृष्टमार्गः । यथा ऋग्वेदे ।
१० । १७ । ४ ।
“आयुविश्वायुः परिपासति त्वा
पूषा त्वा पातु प्रपथे पुरस्तात् ॥”)

प्रपथ्या, स्त्री, (प्रकृष्टा पथ्येति प्रादिसमासः ।)

हरीतकी । इति राजनिर्घण्टः ॥ (हरीतकी-
शब्देऽस्या विवरणं ज्ञातव्यम् ॥)

प्रपदं, क्ली, (प्रारब्धं प्रगतं वा पदमिति प्रादि-

समासः ।) पादाग्रम् । इत्यमरः । २ । ६ । ७१ ॥
(यथा, मनौ । ६ । २२ ।
“भूमौ विपरिवर्त्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥”)

प्रपन्नः, त्रि, (प्रपद्यते स्मेति । प्र + पद् + क्तः ।)

शरणागतः । यथा, --
“गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥”
इति मार्कण्डेयपुराणे मृत्युजयो नाम ७ अध्यायः ॥

प्रपन्नाडः, पुं, (प्रपन्नं अलति भूषयतीति । प्रपन्न +

अल् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
डलयोरैक्यम् ।) प्रपुन्नाडः । चक्रमर्द्दकः ।
इति रत्नमाला ॥ (विवृतिरस्य चक्रमर्द्दकशब्दे
ज्ञेया ॥)

प्रपा, स्त्री, (प्रकर्षेण पिबन्त्यस्यामिति । प्र + पा +

“आतश्चोपसर्गे ।” ३ । ३ । १०६ । इत्यङ् ।
घञर्थे को वा ।) पानीयशालिका । इत्यमरः ।
२ । २ । ७ ॥ (यथा, मनुः । ८ । ३१९ ।
“यस्तु रज्वुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।
स दण्डं प्राप्नुयान्माषं तञ्च तस्मिन् समाहरेत् ॥”)
यज्ञशाला । यथा, रामायणे । १ । ७३ । २० ।
“विश्वामित्रं पुरस्कृत्य शतानन्दञ्च धार्म्मिकम् ।
प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ॥”
“प्रपामध्ये यज्ञशालामध्ये इति कतकः ॥” इति
तट्टीकायां रामानुजः ॥)

प्रपाणिः, पुं, (प्रकृष्टः पाणिः । प्रादिसमासः ।)

करस्याधोदेशः । पाणितलम् । इति राज-
निर्घण्टः ॥ (विषयोऽस्य यथा, “पञ्चदशाङ्गुलौ
प्रपाणी ।” इति चरके विमानेऽष्टमेऽध्याये ॥)

प्रपातः, पुं, (प्रपतत्यस्मादिति । प्र + पत् + “अक-

र्त्तरि च कारके संज्ञायाम् ।” ३ । ३ । १९ ।
इति घञ् ।) निरवलम्बनपर्व्वतादिपार्श्वम् ।
आरडि इति ख्यातम् । यस्मात् पतने अव-
स्थानक्रियाविशेषो नास्ति । तत्पर्य्यायः ।
अतटः २ भृगुः ३ । इत्यमरः । २ । ३ । ४ ॥
(यथा, देवीभागवते । ४ । ७ । ४९ ।
“मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ।
करोति निन्दितं कर्म्म नरकात् न बिभेति च ॥”)
निर्झरः । इति मेदिनी । ते, १२७ ॥ (भावे
घञ् ।) अभ्यवस्कन्दः । कूलम् । इति हेम-
चन्द्रः ॥ (उड्डीनगतिविशेषः । यथा, पञ्च-
तन्त्रे । २ । ५७ । “अहं सम्पातादिकानष्टा-
वुड्डीनगतिविशेषान् वेद्मि । उक्तञ्च ।
सम्पातञ्च प्रपातञ्च महापातं निपातनम् ।
चक्रं तिर्य्यक् तथा चोर्द्ध्वमष्टमं लघुसंज्ञकम् ॥”
प्रपातनम् । यथा, सुश्रुते चिकित्सितस्थाने ।
४० अध्याये ।
“तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेश-
श्मश्रुप्रपातदारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरो-
पघातनासारोगस्य शोषापबाहुकाकालज-
वलीपलितप्रादुर्भावदारुणप्रवाधेषु इति ॥”)

प्रपायी, [न्] त्रि, (प्रपिबतीति । प्र + पा +

णिनिः ।) पानकर्त्ता । रक्षणकर्त्ता । इति
मुग्धबोधव्याकरणम् ॥
पृष्ठ ३/२७७

प्रपावनं, क्ली, (प्रपेव कामपूरकं वनम् । यद्बा,

प्रकर्षेण पावयतीति । पू + णिच् + कर्त्तरि
ल्युः ।) वनभेदः । कामारण्यम् । इति शब्द-
माला ॥

प्रपितामहः, पुं, (प्रकर्षेण पितामहः पितामह-

स्यापि पिता ।) ब्रह्मा । इति त्रिकाण्डशेषः ॥
(यथा, मार्कण्डेयपुराणे । १०१ । २२ ।
“तद्बिभेद तदन्तःस्थो भगवान् प्रपितामहः ।
पद्मयोनिः स्वयं ब्रह्मा यः स्रष्टा जगतां प्रभुः ॥”)
पितामहपिता । इत्यमरः । २ । ६ । ३३ ॥
(यथा, मनौ । ३ । २२१ ।
“पिता यस्य तु वृत्तः स्याज्जीवेद्वापि पितामहः ।
पितुः स नाम संकीर्त्त्य कीर्त्तयेत्प्रपितामहम् ॥”)

प्रपितामही, स्त्री, (प्रपितामह + स्त्रियां ङीष् ।)

प्रपितामहपत्नी । यथा, --
“स्वेन भर्त्रा सह श्राद्धं माता भुङ्क्ते स्वधामयम् ।
पितामही च स्वेनैव स्वेनैव प्रपितामही ॥”
इति दायभागः ॥

प्रपुनाडः, पुं, (पुंमांसं नाडयतीति । नड भ्रंशे +

अण् । प्रकृष्टः पुन्नाडः इति प्रादिसमासः ।
पृषोदरादित्वात् साधुः ।) प्रपुन्नाडः । इत्यमर-
टीकायां भरतः ॥ (अस्य शाकगुणा यथा, --
“कफापहं शाकमुक्तं वरुणप्रपुनाडयोः ।
रूक्षं लघु च शीतञ्च वातपित्तप्रकोपणम् ॥”
इदि सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

प्रपुन्नडः, पुं, (प्रपुन्नाडः । पृषोदरादित्वात् ह्रस्वः ।)

प्रपुन्नाडः । इत्यमरभरतौ ॥

प्रपुन्नाटः, पुं, (पुमांसं नाटयतीति । नट् + णिच् +

अण् । प्रकृष्टः पुन्नाट इति प्रादिसमासः ।)
चक्रमर्द्दः । इति राजनिर्घण्टः ॥

प्रपुन्नाडः, पुं, (पुमांसं नाडयतीति । नड् + अण् ।

प्रकृष्टः पुन्नाड इति प्रादिसमासः ।) चक्र-
मर्द्दकः । चाकुन्दिया इति भाषा । इत्यमरः ।
२ । ४ । १४७ ॥ (विवृतिरस्य चक्रमर्द्दकशब्दे
ज्ञेया ॥)

प्रपुन्नालः, पुं, (प्रपुन्नाडः । डस्य लत्वम् ।) प्रपु-

न्नाडः । इति भरतद्विरूपकोषः ॥

प्रपूरिका, स्त्री, (प्रपूर्य्यते कण्टकैरिति । प्र + पूर

+ कर्म्मणि घञ् । स्वार्थे कन् । यद्बा, प्रपूरय-
तीति । प्र + पूर + ण्वुल् । टाप् । कापि अत
इत्वम् ।) कण्टकारी । इति शब्दचन्द्रिका ॥

प्रपौण्डरीकं, क्ली, (पुण्डरीक + स्वार्थे अण् । प्रकृष्टं

पौण्डरीकस्येव पुष्पं यस्य ।) हस्तिनां मनुष्याणाञ्च
चक्षुष्यः क्षुद्रविटपः । शालपर्णीपत्रतुल्यपत्रः ।
पुण्डरिया ख्यातः । इत्यमरभरतौ ॥ तत्पर्य्यायः ।
चक्षुष्यम् २ शीतम् ३ श्रीपुष्पम् ४ पुण्डरी ५ ।
इति रत्नमाला ॥ पुण्डर्य्यम् ६ पुण्डरीयकम् ७
पौण्डरीयम् ८ सुपुष्पम् ९ सानुजम् १० अनु-
जम् ११ ॥ (यथा, सुश्रुते सूत्रस्थाने १६ अध्याये ।
“प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ।
तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् ॥”
अस्य गुणाः । चक्षुर्हितत्त्वम् । मधुरत्वम् ।
तिक्तत्वम् । शीतलत्वम् । पित्तरक्तव्रणज्वर-
दाहतृषानाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“पौण्डर्य्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् ।
चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफास्रनुत् ॥”
इति भावप्रकाशः ॥

प्रपौत्त्रः, पुं, (प्रकर्षेण पौत्त्रः । पौत्त्रस्यापि पुत्त्रत्वात्

तथात्वम् ।) पौत्त्रस्य पुत्त्रः । तत्पर्य्यायः । प्रतिनप्ता
२ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेयपुराणे ।
११० । -१५ ।
“पुत्त्रान् पौत्त्रान् प्रपौत्त्रांश्च तथान्यानिष्टबान्ध-
वान् ।
पश्यतो मे मृतान् दुःखं किमल्पं हि भवि-
ष्यति ॥”)

प्रपौत्त्री, स्त्री, (प्रपौत्त्र + ङीष् ।) पौत्त्रस्य कन्या ।

इति स्मृतिः ॥

प्रफुल्लः, त्रि, (फलतीति । ञि फलाविसरणे + क्तः ।

“आदितश्चेति ।” ७ । २ । १६ । इति इड-
भावः । “तिच ।” ७ । ४ । ८९ । इति उत् ।
“अनुपसर्गात् फुल्लक्षीवेति ।” ८ । २ । ५५ ।
इति निष्ठातस्य लः । ततः प्रादिसमासः । यद्बा,
प्रफुल्लतीति । प्र + फुल्ल विकसने + अच् ।)
विकाशयुक्तः । तत्पर्य्यायः । उत्फुल्लः २ संफुल्लः ३
व्याकोषः ४ विकचः ५ स्फुटः ६ फुल्लः ७ विक-
सितः ८ । इत्यमरः । २ । ४ । ७ ॥ प्रबुद्धः ९
जृम्भः १० स्मितः ११ उन्मिषितः १२ दलितः १३
स्फुटितः १४ उच्छ्वसितः १५ विजृम्भितः १६ स्मेरः
१७ विनिद्रः १८ उन्निद्रः १९ विमुद्रः २० हसितः
२१ । इति हेमचन्द्रः ॥ (यथा, रघौ । २ । २९ ।
“स पाटलायां गवि तस्थिवांसं
धनुर्धरः केशरिणं ददर्श
अधित्यकायामिव धातुमय्यां
लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)

प्रबन्धः, पुं, (प्रबध्यते इति । प्र + बन्ध + घञ् ।)

सन्दर्भः । इति त्रिकाण्डशेषः ॥ (प्र + बन्ध +
भावे घञ् ।) काव्यादिग्रथनम् । यथा, --
“प्रबन्धोऽयं बन्धोरखिलजगतान्तस्य सरसाम् ॥”
इति हंसदूतः ॥

प्रबन्धकल्पना, स्त्री, प्रबन्धस्य कल्पना रचना

बह्वनृता स्तोकसत्या कथा ।
“प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।
परस्पराश्रया या स्यात् सा मताख्यायिका
क्वचित् ॥”
इति कोलाहलाचार्य्यः ।
इत्यमरटीकायां भरतः ॥

प्रबलः, पुं, (प्रकृष्टं बलतीति । प्र + बल् प्राणने +

अच् ।) पल्लवः । इति शब्दमाला ॥ (प्रकृष्टं
बलमस्य ।) प्रकृष्टबलयुक्ते, त्रि । यथा, मार्क-
ण्डेयपुराणे । ८१ । ६ ।
“आक्रान्तः स महाभागस्तैस्तदा प्रबला-
रिभिः ॥”
प्रकृष्टबले क्लीवञ्च ॥

प्रबला, स्त्री, (प्रकृष्टं बलमस्याः ।) प्रसारिणी ।

इति राजनिर्घण्टः ॥ प्रकृष्टबलवती च ॥ (यथा,
रघौ । ८ । ५० ।
“सहतां हतजीवितं मम
प्रबलामात्मकृतेन वेदनाम् ॥”)

प्रबालः, पुं, क्ली, (प्रबलतीति । प्र + बल् प्राणने +

“ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० ।
इति णः । यद्वा, प्र + बल् + णिच् + अच् ।)
रक्तवर्णवर्त्तुलाकाररत्नविशेषः । पला इति
मुङ्गा इति च भाषा ॥ तस्याधिष्ठात्री देवता
मङ्गलः । इति ज्योतिषम् ॥ तत्पर्य्यायः । विद्रुमः
२ । इत्यमरः । २ । २ । ९३ ॥ अङ्गारकमणिः ३
अम्भोधिवल्लभः ४ भौमरत्नम् ५ रक्ताङ्गः ६ रक्ता-
कारः ७ लतामणिः ८ । अस्य गुणाः । मधु-
रत्वम् । अम्लत्वम् । कफपित्तादिदोषनाशित्वम् ।
स्त्रीणां वीर्य्यकान्तिकरत्वम् । धृते मङ्गलदायि-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च ।
सारकत्वम् । शीतत्वम् । कषायत्वम् । स्वादु-
त्वम् । वान्तिकारित्वम् । चक्षुर्हितत्वम् । धारणे
पापालक्ष्मीनाशित्वञ्च ॥ इति राजवल्लभः ॥ * ॥
तस्य शुभलक्षणं यथा, --
“शुद्धं दृढं घनं वृत्तं स्निग्धं गात्रसुरङ्गकम् ।
समं गुरु सिराहीनं प्रबालं धारयेत् शुभम् ॥”
तस्याशुभलक्षणं यथा, --
“गौरं रङ्गजलाक्रान्तं वक्रसूक्ष्मं सकोटरम् ।
रूक्षकृष्णं लघु श्वेतं प्रबालमशुभं त्यजेत् ॥”
इति राजनिर्घण्टः ॥ * ॥
तस्योत्पत्त्यादि यथा, --
सूत उवाच ।
“आदाय शेषस्तस्यान्त्रं यमस्याकम्बलादिषु ।
चिक्षेप तत्र जायन्ते विद्रुमाः सुमहागुणाः ॥
तत्र प्रधानं शशलोहिताभं
गुञ्जाजवापुष्पनिभं प्रदिष्टम् ।
सनीसकं देवकरोमकञ्च
स्थानानि तेषु प्रभवं सुरागम् ॥
अन्यत्र जातञ्च न तत् प्रधानं
मूल्यं भवेच्छिल्पिविशेषयोगात् ॥
प्रसन्नं कमलं स्निग्धं सुरागं विद्रुमं हि तत् ।
धनधान्यकरं लोके विषार्त्तिभयनाशनम् ॥
परीक्षा पुलकस्योक्ता रुधिराख्यस्य वै मणेः ।
स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥”
इति गारुडे ८० अध्यायः ॥ * ॥
अथ विद्रुमपरीक्षा ।
“श्वेतसागरमध्ये तु जायते वल्लरी तु या ।
विद्रुमा नाम रत्नाख्या दुर्ल्लभा वज्ररूपिणी ॥
पाषाणं प्रभजत्येषा प्रयत्नात् क्वथिता सती ।
विद्रुमं नाम यद्रत्नमामनन्ति मनीषिणः ॥ * ॥
ब्रह्मादिजातिभेदेज तच्चतुर्व्विधमुच्यते ।
अरुणं शशरक्ताख्यं कोमलं स्निग्धमेव च ।
प्रबालं विप्रजातिः स्यात् सुखवंध्यं मनोरमम् ॥
जवाबन्धूकसिन्दूरदाडिमीकुसुमप्रभम् ।
कठिनं दुर्व्वेध्यमस्निग्धं क्षत्त्रजातिं तदुच्यते ॥
पृष्ठ ३/२७८
पलाशकुसुमाभासं तथा पाटलसन्निभम् ।
वैश्यजातिर्भवेत् स्निग्धं वर्णाढ्यं मन्दकान्तिभम् ॥
रक्तोत्पलदलाकारं कठिनं न चिरद्युति ।
विद्रुमं शूद्रजातिः स्याद्वायुवेध्यं तथैव च ॥ * ॥
रक्तता स्निग्धता दार्य्यं चिरद्युतिः सुवर्णता ।
प्रबालानां गुणाः प्रोक्ता धनधान्यकराः पराः ॥
हिमाद्रौ यत्तु संजातं तद्रक्तमतिनिष्ठुरम् ।
तत्र लिप्तो भवेन्निम्बकल्कोऽतिमधुरः स्थितः ।
तस्य धारणमात्रेण विषवेगः प्रशाम्यति ॥ * ॥
विवर्णता तु खरता प्रबाले दूषणद्वयम् ।
रेखाकाकपदौ बिन्दुर्यथा वज्रेषु दोषकृत् ।
तथा प्रबाले सर्व्वत्र वर्जनीयं विचक्षणैः ॥
रेखा हन्याद्यशो लक्ष्मीमावर्त्तः कुलनाशनः ।
पट्टलो रोगकृत् ख्यातो बिन्दुर्धनविनाशकृत् ॥
त्रासः संजनयेत्त्रासं नीलिका मृत्युकारिणी ।
मूल्यं शुद्धप्रबालस्य रूप्यद्विगुणमुच्यते ॥
धारणेऽस्यापि नियमो जातिभेदेन पूर्ब्बवत् ॥” * ॥
तथाहि ।
“विरूपजातिं विषमं विवर्णं
खरप्रबालं प्रवहन्ति ये ये ।
ते मृत्युमेवात्मनि वै वहन्ति
सत्यं वदत्येष कृती मुनीन्द्रः ॥”
इति युक्तिकल्पतरौ प्रबालपरीक्षा ॥ * ॥
(अस्य संशोधनादिकं यथा, --
“कुमार्य्या तण्डुलीयेन तुल्येन च निषेचयेत् ।
प्रत्येकं सप्तवारांश्च तप्ततप्तानि कृत्स्नशः ॥
मौक्तिकानि प्रबालानि तथा रत्नान्यशेषतः ।
क्षणाद्विविधवर्णानि म्रिथन्ते नात्र संशयः ॥
श्रीदुग्धेन प्रवालञ्च भावयित्वा तु हण्डिके ।
मध्येऽपि तक्रसहितं स्थापयेत्तन्निरोधयेत् ।
चुल्ल्यामग्निप्रतापेन म्रियते प्रहरद्वये ॥
इति प्रबालमारणम् ॥”
इति वैद्यकरसेन्द्रसंग्रहे जारणमारणाधिकारे ॥)
किशलयः । (यथा, कुमारे । १ । ४४ ।
“पुष्पं प्रबालोपहितं यदि स्यात्
मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्य्याद्विशदस्य तस्या-
स्ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य ॥”)
वीणादण्डः । इति मेदिनी । ले, १०७ ॥

प्रबालफलं, क्ली, (प्रबालवद्रक्तं फलं यस्य ।) रक्त-

चन्दनम् । इति भावप्रकाशः ॥

प्रबालिकः, पुं, (प्रबालोऽस्त्यस्य बाहुल्येनेति । प्रबाल

+ “अत इनिठनौ ।” ५ । २ । ११५ । इति
ठन् ।) जीवशाकः । इति राजनिर्घण्टः ॥

प्रबाहुः, पुं, (प्रगतो बाहुमिति ।) कुर्पस्याधो-

भागः । यथा, विष्णुपुराणे ५ । ५ । १९ ।
“मुखं बाहुप्रबाहू च मनः सर्व्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥”

प्रबाहुकम्, व्य, समानकाले । ऊर्द्धार्थे । प्रवाहिकेति

पाठान्तरम् । इति कौमुदीटीका तत्त्वबोधिनी ॥

प्रबुद्धः, त्रि, (प्र + बुध + क्तः ।) पण्डितः । प्रफुल्लः ।

इति हेमचन्द्रः ॥ (यथा, रघुः । १० । ९ ।
“प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥”)
जागरितः । यथा, भट्टिः । ४ । १४ ।
“प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्रविम् ॥”

प्रबोधः, पुं, (प्र + बुध्यौ ङ अपगमे + भावे

घञ् ।) विनिद्रत्वम् । इति हेमचन्द्रः ॥ (यथा,
मार्कण्डेये । ८१ । ६७ ।
“प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥”)
प्रकृष्टज्ञानञ्च । यथा, --
“तावत् सत्यं जगद्भाति प्रबोधे सत्यसद्भवेत् ॥”
इत्यात्मबोधग्रन्थः ॥
(यथा च रघुः । ५ । ६५ ।
“सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”)

प्रबोधनं, क्ली, (प्र + बुध् + ल्युट् ।) न्यूनपूर्ब्ब-

गन्धस्य चन्दनादेः प्रयत्नविशेषेण पुनः पूर्ब्ब-
सौगन्ध्योत्पादनम् । तत्पर्य्यायः । अनुबोधः २ ।
इत्यमरभरतौ । बोधजननञ्च ॥ (जागरणम् ।
यथा, हरिवंशे । १७७ । ७१ ।
“ततस्तूर्य्यनिनादैश्च शङ्खानाञ्च महास्वनैः ।
प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥”
विकाशः । यथा, पञ्चतन्त्रे कथामुखे ।
“तदेतेषां बुद्धिप्रबोधनं यथा भवति तथा
केनाप्युपायेनानुष्ठीयतामिति ॥” तथा च ऋतु-
संहार । ५ । १० ।
“सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनम् ॥”)

प्रबोधनी, स्त्री, (प्रबोध्यतेऽनयेति । प्र + बुध् +

णिच् + ल्युट् + ङीप् ।) दुरालभा । इति राज-
निर्घण्टः ॥ (प्रबुध्यते हरिरत्रेति ।) श्रीहरे-
रुत्थानैकादश्यादिः ।
अथ प्रबोधनीकृत्यम् ।
“शयन्यामिव कृत्यास्यां क्षीराम्भोधिमहोत्सवम् ।
प्रबोध्य कृष्णं संपूज्य विधिनारोहयेद्रथम् ॥”
अथ प्रबोधनीकृत्यनित्यता ।
स्कान्दे तत्रैव ।
“जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भुवि ।
वृथा भवति तत्मर्व्वं न कृत्वा बोधवासरम् ॥”
अथ प्रबोधनीमाहात्म्यम् । तत्रैव ।
“प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।
मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम ! ॥
तावद्गर्जति विप्रेन्द्र ! गङ्गा भागीरथी क्षितौ ।
यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी ॥
तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च ।
यावत् प्रबोधनी विष्णोस्तिथिर्नायाति कार्त्तिके ॥
वाजपेयसहस्राणि अश्वमेधशतानि च ।
एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः ॥
दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे ।
तदपि प्रार्थितं विप्र ! ददाति हरिबोधनी ॥
ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः ।
ददात्युपोषिता विप्र ! हेलया हरिबोधनी ॥
मेरुमन्दरतुल्यानि पापान्यत्युर्जितान्यपि ।
एकेनैवोपवासेन दहते हरिबोधनी ॥
पृथिव्यां यानि दानानि दत्त्वा यत् फलमाप्नुते ।
एकेनैवोपवासेन ददाति हरिबोधनी ॥”
किञ्च ।
“जातः स एव सुकृती कुलं तेनैव पावितम् ।
कार्त्तिके मुनिशार्द्दूल ! कृता येन प्रबोधनी ॥
यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च ।
तानि तस्य गृहे सम्यक् यः करोति प्रबोधनीम् ॥
सर्व्वं कृत्यं परित्यज्य तुष्ट्यर्थं चक्रपाणिनः ।
उपोष्यैकादशी सम्यक् कार्त्तिके हरिबोधनी ॥
किं तस्य बहुभिः कृत्यैः परलोकप्रदैर्मुने ! ।
सकृच्चोपोषिता येन कार्त्तिके हरिबोधनी ॥
स ज्ञानी स हि योगी च स तपस्वी जिते-
न्द्रियः ।
स्वर्गमोक्षौ च तस्यास्तामुपास्ते हरिबोधनीम् ॥
विष्णोः पियतमा ह्येषा धर्म्मसारस्य दायिनी ।
इमां सकृदुपोष्यैव मुक्तिभागी भवेन्नरः ॥
प्रबोधनीमुपोष्यैव न गर्भं विशते नरः ।
सर्व्वधर्म्मान् परित्यज्य तस्मात् कुर्व्वीत नारद ! ॥
स्नानं दानं तपो होमः समुद्दिश्य जनार्द्दंनम् ।
नरैर्यत् क्रियते विप्र ! प्रबोधन्यां तदक्षयम् ।
महाव्रतमिदं पुत्त्र ! महापापौघनाशनम् ।
प्रबोधवासरं विष्णोर्विधिवत् समुपोषयेत् ॥
ब्रतेनानेन देवेशं परितोष्य जनार्द्दनम् ।
विराजयन् दिशो दीप्त्या प्रयाति भुवनं हरेः ॥”
पाद्मे च तत्रैव ।
“दुग्धाब्धिभोगिशयने भगवाननन्तो
यस्मिन्दिने स्वपिति चाथ विबुध्यते च ।
तस्मिन्ननन्यमनसामुपवासभाजां
पुंसां ददात्यभिमतं गरुडाङ्कशायी ॥”
वाराहे च ।
“उपवासासमर्थानां सदैव पृथुलोचने ! ।
एका सा द्वादशी पुण्या समुपोष्या प्रबोधनी ॥
तस्यामाराध्य विश्वेशं जगतामीश्वरेश्वरम् ।
प्राप्नोति सकलं तद्धि द्वादशद्वादशीव्रतम् ॥
उत्तराङ्गारकयुता यदि सा भवति प्रिये ! ।
तदा सा महती पुण्या कोटिकोटिगुणोत्तरा ॥
शयने बोथने चेव कटिदाने च सुन्दरि ! ।
उपोष्यैव विधानेन यान्ति मल्लयतां नराः ॥
एकादशी सोमयुता कार्त्तिके मासि भाविनि !
उत्तराभाद्रसंयोगे अनन्ता सा प्रकीर्त्तिता ॥
तस्यां यत् क्रियते भद्रे ! सर्व्वमानन्त्यमश्नुते ।
अनन्तपुण्यफलदा तेनानन्ता स्मृता फले ॥”
तत्रैव श्रीयमनारदसंवादे ।
“अन्यच्च ते प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ! ।
कार्त्तिकेऽमलपक्षे तु साक्षादेकादशी स्मृता ॥
भक्तिप्रदा हरेः सा तु नाम्ना ख्याता प्रबोधनी ।
या सा विष्णोः परा मूर्त्तिरव्यक्तानेकरूपिणी ॥
सा क्षिप्ता मानुषे लोके द्वादशी मुनिपुङ्गव ! ॥”
श्रीमथुरायाञ्च विशेषतः पाद्मे तत्रैव ।
“तावद्गर्ज्जन्ति तीर्थानि वाजिमेधादयो मखाः ।
पृष्ठ ३/२७९
मथुरायां प्रिया विष्णोर्यावन्नायाति बोधनी ॥
संसारदावतप्तानां कामसौख्यपिपासिनाम् ।
श्रीकृष्णपादपद्मस्य सान्निध्यं शीतलं गृहम् ॥
भवपान्थजनानां वै प्रापिकेयं प्रबोधनी ।
कथं न सेव्यते मूढैर्मथुरायां किमन्यतः ॥” * ॥
अथ विशेषतः प्रबोधन्यां श्रीभगवत्पूजादि-
माहात्म्यम् । स्कान्दे तत्रैव प्रबोधनीमाहात्म्ये ।
“येऽर्च्चयन्ति नरास्तस्यां भक्त्या देवन्तु माधवम् ।
समुपोष्य प्रमुच्यन्ते पापैस्ते समुपार्ज्जितैः ॥
बाल्ये यच्चार्ज्जितं वत्स ! यौवने बार्द्धके च यत् ।
सप्तजन्मकृतं पापं स्वल्षं वा यदि वा बहु ॥
शुष्कार्द्रं मुनिशाद्र्दूल ! सुगुह्यमपि नारद ! ।
तत् क्षालयति गोविन्दस्तिथौ तस्यां प्रपूजितः ॥”
किञ्च ।
“प्रबोधवासरे विष्णोः कुरुते च हरेः कथाम् ।
सप्तद्वीपावनीदाने यत् फलं तद्भवेन्मुने ! ॥”
वाराहे च ।
“कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् ।
अर्च्चयेद्यस्तु मां तत्र तस्य पुण्यफलं शृणु ॥
यावल्लोका हि वर्त्तन्ते यावत्त्वञ्चैव माधवि ! ।
मद्भक्तो जायते तावदत्यभक्तो न जायते ॥” * ॥
तस्या अनुष्ठानं यथा, --
ब्रह्मोवाच ।
“शृणु मे भक्तितः पुत्त्र ! बोधन्येकादशी हरेः ।
उपोष्या येन विधिना तं विप्र ! प्रवदामि ते ॥
कार्त्तिके शुक्लपक्षे तु दशम्यां नियतः शुचिः ।
स्नात्वा देवार्च्चनं कृत्वा वह्निकार्य्यं यथाविधि ॥
आचान्तः सुप्रसन्नात्मा हविष्यान्नं सुसंस्कृतम् ।
भुक्त्वाचम्य स्वपेत् सम्यक् कृत्वा शौचञ्च पादयोः ॥
रात्रेश्च पश्चिमे यामे समुत्थाय यथाविधि ।
कृत्वा मूत्रपुरीषे तु शौचं कुर्य्यादतन्द्रितः ॥
कृत्वाष्टाङ्गुलमात्रन्तु क्षीरवृक्षसमुद्भवम् ।
भक्षयेद्दन्तकाष्ठञ्च स्नात्वाचामेत् प्रयत्नतः ॥
मृष्ट्वाङ्गानि तथाद्भिश्च चिरं ध्यायेज्जनार्द्दनम् ।
अतसीपुष्पसङ्काशं कमलाक्षं चतुर्भुजम् ॥
शङ्खचक्रगदाशार्ङ्गपीतवस्त्रं किरीटिनम् ।
प्रसन्नवदनं देवं सर्व्वलक्षणलक्षितम् ॥
ततश्चानुदये वारिहस्तेन परिगृह्य च ।
कुशान्वितं प्रगृह्णीयात् नियमं विष्णुतुष्टये ॥
ध्यात्वा जलं गृहीत्वा तु भानुरूपं जनार्द्दनम् ।
दृष्ट्वार्घ्यं दापयेत् पश्चात् करतोयेन मानवम् ॥
एवमुच्चारयेद्बाचं तस्मिन् काले महामुने ! ।
एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि ।
भोक्ष्येऽहं पुण्डरीकाक्ष ! शरणं मे भवाच्युत ! ॥
एवमुक्त्वा ततः सम्यक् नित्यकर्म्म सुकर्म्मधीः ।
समर्पयेद्विधानेन विष्णुं संपूजयेन्मुने ! ॥
सहस्रसंख्यया सुस्थः सावित्रीं संजपेद्द्विजः ।
सर्व्वपापक्षयकरीं ब्रतस्य परिपूर्त्तये ॥”
इति पाद्मोत्तरखण्डे १२६ अध्यायः ॥ * ॥
अथ प्रबोधकालनिर्णयः । भविष्ये ।
“आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती ।
आदिमध्यावसानेषु प्रस्वापावर्त्तनादिकम् ॥”
पाद्मे ।
“पौष्णशेषो यदा नाह्नि मैत्राद्यमपि नो निशि ।
द्वादश्यामपि तत् कुर्य्यादुत्थानं शयनं हरेः ॥
निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।
अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत् ॥”
वाराहे च ।
“अपादनियमस्तत्र स्वापे वा परिवर्त्तने ।
पादयोगो यदा न स्यादृक्षेणापि तदा भवेत् ॥”
किञ्च स्कान्दे ।
“रेवत्यन्तो यदा रात्रौ द्वादश्या च समन्वितः ।
तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम् ॥
रेवत्यादिरथान्तो वा द्वादश्या च विना भवेत् ।
उभयोरप्यभावे तु सन्ध्यायाञ्च महोत्सवः ॥”
वाराहे च ।
“द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।
आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम् ॥”
अतएव पुष्करपुराणे ।
“यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या ।
तस्य देवस्य तस्मिंश्च शयनावर्त्तनादिकम् ॥” * ॥
अथ भगवत्प्रबोधनविधिः ।
“शयन्यामिव निष्पाद्य महापूजां जलाशये ।
कृष्णं नीत्वाथ सङ्कल्पं कृत्वा तञ्च प्रबोधयेत् ॥”
तत्र मन्त्रः ।
“ब्रह्मेन्द्ररुद्राग्निकुवेरसूर्य्य-
सोमादिभिर्वन्दितपादपद्मः ।
बुध्यस्व देवेश जगन्निवास !
मन्त्रप्रभावेण सुखेन देव ! ॥”
इत्यन्तु द्वादशी देव प्रबोधार्थं विनिर्म्मिता ।
त्वयैव सर्व्वलोकानां हितार्थं शेषशायिना ॥
उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रां जगत्पते ! ।
त्वयि सुप्ते जगत् सुप्तमुत्थिते चोत्थितं भवेत् ॥
गता मेघा वियच्चैव निर्म्मलं निर्म्मला दिशः ।
शारदानि च पुष्पाणि गृहाण मम केशवेति ॥”
उत्तिष्ठोत्तिष्ठेत्यत्र क्वचिच्चैवम् ।
“त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेदिदम् ।
उत्थिते चेष्टते सर्व्वमुत्तिष्ठोत्तिष्ठ माधवेति ॥”
वाराहे च ।
“ब्रह्मेन्द्ररुद्रैरवितर्क्यभावो
भवानृषिर्वन्दितवन्दनीयः ।
प्राप्ता तव द्वादशी कौमुदाख्या
जागृष्व जागृष्व च लोकनाथ ! ॥
मेघा गता निर्म्मलपूर्णचन्द्रः
शारद्यपुष्पाणि च लोकनाथ ! ।
अहं ददानीति च भक्तिहेतो-
र्जागृष्व जागृष्व च लोकनाथ ! ॥”
श्रुतिश्च । “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं
समूढमस्य पांशुले” इत्यादि ।
“ततस्तल्पात् समुत्थाप्य कृष्णं घण्टादिनिस्वनैः ।
तीरे सुखं निवेश्याथ प्रार्थयेत्तदनुग्रहम् ॥
तथा हि तृतीयस्कन्धे श्रीब्रह्मस्तुतौ ।
“सोऽसावदभ्रकरुणो भगवान् विवृद्ध-
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात् पुरुषः पुराणः ॥”
इति ।
“ततः पुष्पाञ्जलिं दत्त्वा संस्थाप्य विधिवत् प्रभुम् ।
नीराज्य न्यासपूर्ब्बञ्च वस्त्रादीनि समर्पयेत् ॥”
तथा च ब्राह्मे ।
“एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् ।
प्रसुप्तं बोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः ॥
नृत्यैर्गीतैस्तथा वाद्यैरृग्यजुःसाममङ्गलैः ।
विना पणवशब्दैश्च पुराणश्रवणेन च ॥
वासुदेवकथाभिश्च स्तोत्रैरन्यैश्च वैष्णवैः ।
सुभाषितैरिन्द्रजालैर्भूमिशोभाभिरेव च ॥
पुष्पैर्धपैश्च नैवेद्यैर्दीपवृक्षैः सुशोभनैः ।
होमैर्भक्षैरपूपैश्च फलैः शाकैश्च पायसैः ॥
इक्षोर्विकारैर्मधुना द्राक्षाक्षौद्रैः सदाडिमैः ।
कुठेरकस्य मञ्जर्य्या मालत्या नवनेन च ॥”
नवनं पुष्पविशेषः ।
“हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्याञ्च सर्व्वदा ।
कुङ्कुमालक्तकाभ्याञ्च रक्तसूत्रैः सकुङ्कुमैः ॥
तथा नानाविधैः पुष्पैर्द्रव्यैर्वीरक्रयाहृतैः ॥”
एवमेव प्रायः पाद्मे च ! तथा स्कान्दे च ।
“बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुङ्कुमैः ॥
हरेः पूजा विधातव्या कार्त्तिके बोधवासरे ॥”
इति ॥
“इत्थं कृत्वा महापूजां महानीराजनं तथा ।
स्वव्रतान्यर्पयेत् कृष्णे सपुष्पाक्षतवारिणा ॥
वेदस्तुत्यादिना स्तुत्वा स्वस्त्यस्त्वित्यादिना प्रभुम् ।
संप्रार्थ्य गीतवाद्यादिघोषैरारोहयेद्रथम् ॥”
तथा च भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे ।
“महातूर्य्यरवै रात्रौ भ्रामयेत् स्यन्दने स्थितम् ॥
उत्थितं देवदेवेशं नगरे पार्थिवः स्वयम् ।
दीपोद्योतकरे मार्गे नृत्यगीतसमाकुले ॥”
अथ रथयात्रामाहात्म्यं भविष्योत्तरे तत्रैव ।
“यं यं दामोदरः पश्येदुत्थितो धरणीधरः ।
तं तं प्रदेशं राजेन्द्र ! सर्व्वं स्वर्गाय कल्पयेत् ॥”
किञ्च ।
“यावत्पदानि कृष्णस्य रथस्याकर्षणं नरः ।
करोति क्रतुभिस्तानि तुल्यानि नरनायक ! ॥
रथस्थं ये निरीक्षन्ते कौतुकेनापि केशवम् ।
देवतानां गणाः सर्व्वे भवन्ति श्वपचादयः ॥
स्त्रियोऽपि मुक्तिमायान्ति रथयात्रापरायणाः
पितृमातृभर्त्तृकुलं नयन्ति हरिमन्दिरम् ॥
कुर्व्वन्ति नर्त्तकीरूपं रथाग्रे कौतुकान्वितम् ।
अप्सरोभिः सह क्रीडां कुर्व्वन्तीन्द्राश्चतुर्द्दश ॥
ये रथाग्रे प्रकुर्व्वन्ति गीतवाद्यादि मानवाः ।
देवलोकात् परिभ्रष्टा जायन्ते मण्डलेश्वराः ॥
मौल्येन स्यन्दनस्याग्रे गायमानाश्च गायकाः ।
वादकैः सह राजेन्द्र ! प्रयान्ति हरिमन्दिरम्
रथोत्सवे मुकुन्दस्य येषां हर्षोऽपि जायते ।
तेषां न नारकी पीडा यावदिन्द्राश्चतुर्द्दश ॥
रथोत्सवस्य माहात्म्यं कलौ वितनुत हि यः ।
पुण्यबुद्ध्या विशेषेण लोभेनाप्यथवा नरः ॥
पृष्ठ ३/२८०
सप्तद्वीपसमुद्रान्ता रत्नधान्यसमन्विता ।
सशैलवनपुष्पाढ्या तेन दत्ता मही भवेत् ॥”
अन्यत्र च ।
“बोधनी जगदाधारा कार्त्तिके शुक्लपक्षतः ।
रथस्थो यत्र भगवांस्तुष्टो यच्छति वाञ्छितम् ॥
भजन्ते ये रथारूढं देवं सर्व्वेश्वरेश्वरम् ।
तेषां यात्रा कृता नॄणां कामानिष्टान् प्रयच्छति ॥
श्रीकृष्णरथशोभां ये प्रकुर्व्वन्ति प्रहर्षिताः ।
तेषां मनोरथावाप्तिं यच्छते पुरुषोत्तमः ॥
कृष्णस्य रथशोभां ये प्रकुर्व्वन्ति स्वशक्तितः ।
वाञ्छितं तेभ्यो यच्छन्ति नित्यं सूर्य्यादयो ग्रहाः ॥
कृष्णस्य रथशोभां ये प्रकुर्व्वन्ति सुहर्षिताः ।
पदे पदे तथा पुत्त्र ! पुण्यं तेषां प्रयागजम् ॥
रथयात्रास्थिते कृष्णे जयेति प्रवदन्ति ये ।
जयेति च पुनर्ये वै शृणु पुण्यं वदाम्यहम् ॥
गङ्गाद्बारे प्रयागे च गङ्गासागरसङ्गमे ॥
वाराणस्यादितीर्थेषु देवानाञ्चैव दर्शने ।
यत् पुण्यं कविभिः प्रोक्तं कार्त्स्नेन च नरेश्वर ! ॥
जयशब्दे कृते विष्णौ रथस्थे तत् फलं स्मृतम् ।
रथस्थितो नरैर्यस्तु पूजितो धरणीधरः ।
यथालाभोपपन्नैश्च पुष्पैर्भक्त्या समर्च्चितः ॥
ददाति वाञ्छितान् कामानन्ते च परमं
पदम् ।
मङ्गलं ये प्रकुर्व्वन्ति धूपदीपांस्तथा स्तवम् ॥
नैवेद्यं वस्त्रपूजाञ्च भक्त्या नीराजनं हरेः ।
रथारूढस्य कृष्णस्य संप्राप्ते हरिवासरे ॥
फलं न तन्मया ज्ञातं जानाति यदि केशवः ।
ब्रह्मस्वहारी गोघ्नश्च भ्रूणहा ब्रह्मनिन्दकः ॥
महापातकयुक्तोऽपि ब्रह्महा गुरुतल्पगः ।
मद्यपः सर्व्वपापोऽपि कलिकालेन मोहितः ॥
रथाग्रतः पदैकेन मुच्यते सर्व्वपातकैः ॥”
किञ्चान्यत्र ।
“रथारूढे महाविष्णौ ये कुर्व्वन्ति जयस्वनम् ।
पूजाञ्चाखिलपापेभ्यो मुक्ता यान्ति हरेः पदम् ॥”
किञ्च ।
“रथस्याकर्षणं पूर्ब्बं कुरुते दैत्यनायकः ।
ततः सुराः सिद्धसङ्घा यक्षा गन्धर्व्वमानवाः ॥
इत्थञ्च रथयात्राया विधिर्व्यक्तः स्वतोऽभवत् ।
तथापि कश्चित्तत्रान्यो विशेषोऽपि वितन्यते ॥”
अथ रथयात्राविघिः ।
“श्रीकृष्णे तु रथारूढे कृत्वा जयजयध्वनिम् ।
निष्पाद्य च महापूजामाशीर्वाक्यानि कीर्त्त-
येत् ॥”
तथा च विष्णुधर्म्मे ।
“वक्त्रं नीलोत्पलरुचि लसत्कुण्डलाभ्यां सुमृष्टं
चन्द्राकारं रचिततिलकं चन्दनेनाक्षतैश्च ।
गत्या लीलां जनसुखकरीं प्रेक्षणेनामृतौघं
पद्मावासां सततमुरसा धारयन् पातु विष्णुः ॥
युक्तः शैलादिवाहैर्मधुरतररणत्किङ्किणीजाल-
मालै-
रत्नौघैर्मोक्तिकानामविरतमणिभिः संभृतैश्चैव
हारैः ।
हेमैः कुम्भैः पताकाशिवतररुचिभिर्भूषितः
केतुमुख्यै-
श्छत्रैर्ब्रह्मेशवन्द्यो दुरितहरहरेः पातु जैत्रो
रथो वः ॥
मोदन्तां सुजना ह्यनिन्दितधियः स्रस्ताखिलो-
पद्रवाः
स्वस्थाः सुस्थिरबुद्धयः प्रतिहतामित्रा रमन्तां
मुखम् ।
रेदैत्या गिरिगह्वराणि गहनान्याशु व्रजध्वं भया-
द्दैत्यारिर्भगवानयं यदुपतिर्यानं समारोहति ॥
पलायध्वं पलायध्वं रे रे दितिजदानवाः ।
संरक्षणाय लोकानां रथारूढो नृकेशरी ॥
ततो विचित्रगद्यानि पठित्वाथ महाप्रभोः ।
महाप्रसादमालाञ्च स्वीकुर्य्यात् परया मुदा ॥”
तन्माहात्म्यञ्चोक्तम् ।
“भक्त्या गृह्णाति यो मालां वैष्णवीं मङ्गला-
श्रयाम् ।
न तेषां दुर्लभं किञ्चिदिह लोके परत्र च ॥
तस्मात् सर्व्वप्रयत्नेन सर्व्वकामसमृद्धये ।
मालामेतां प्रगृह्णीयात् सौख्यमोक्षप्रदायि-
नीम् ॥”
इति ॥
“संचिन्त्याकृष्यमाणञ्च श्रीप्रह्लादादिभी रथम् ।
आकृष्य प्रेरयन् पूर्य्यां भ्रामयेद्वैष्णवैः सह ॥”
तथा च भविष्योत्तरे तत्रैव ।
“नृत्यमानैर्भागवतैर्गीतवादित्रनिस्वनैः ।
भ्रामयेत् स्यन्दनं विष्णोः पुरमध्ये समन्ततः ॥”
किञ्च ।
“प्रबोधवासरे प्राप्ते कार्त्तिके पाण्डुनन्दन ! ।
देवालयेषु सर्व्वेषु पुर्मध्ये समन्ततः ॥
भ्रामयेत्तूर्य्यनिघोषै रथस्थं धरणीधरम् ॥”
किञ्च ।
“रथागमे मुकुन्दस्य पुरशोभान्तु कारयेत् ।
सर्व्वतो रमणीयन्तु पताकैरुपशोभितम् ॥
तोरणैर्बहुभिर्युक्तै रम्भास्तम्भैश्च शोभितम् ।
स्थाने स्थाने महीपाल ! कर्त्तव्यं पुण्यसंयुतम् ॥
विचित्ररथशोभा च कर्त्तव्या भावितैर्नरैरिति ॥
रथेन गच्छन् भगवाननुगम्योऽखिलैर्जनैः ।
स्वस्वगेहागतश्चार्च्च्योऽन्यथा दोषो महान्
भवेत् ॥” * ॥
अथ रथानुगमननित्यता । तत्रैव ।
“रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः ।
विष्णुनैव समाः सर्व्वे भवन्ति श्वपचादयः ॥
रथस्थं ये न गच्छन्ति भ्रममाणं जनार्द्दनम् ।
विप्राध्ययनसम्पन्ना भवन्ति श्वपचाधमाः ॥”
किञ्च ।
“येषां गृहागतो याति रथस्थो मधुसूदनः ।
पूजा तैस्तैः प्रकर्त्तव्या वित्तशाठ्यविवर्ज्जितैः ॥
अनर्च्चितो यदा याति गृहाद्यस्य महीधरः ।
पितरस्तस्य विमुखा वर्षाणां दश पञ्च च ॥
यः पुनः कुरुते पूजां गृहायाते तु माधवे ।
वसते श्वेतद्वीपे तु यावविन्द्राश्चतुर्द्दश ॥”
अन्यत्र ।
“नानुव्रजति यो मोहाद्व्रजन्तं जगदीश्वरम् ।
ज्ञानाग्निदग्धकर्म्मापि स भवेद्ब्रह्मराक्षसः ॥”
इति ॥
“अथ स्वमन्दिरं नीत्वा पूर्ब्बवत् पूजयेत् प्रभुम् ।
रात्रौ जागरणं कुर्य्याद्बिधिवद्वैष्णवैः समम् ॥”
अथ प्रबोधनीजागरणमाहात्म्यम् ।
स्कान्दे तत्रैव ।
“पूर्ब्बजन्मसहस्रेषु पापं यत् समुपार्ज्जितम् ।
जागरेण प्रबोधन्यां दह्यते तूलराशिवत् ॥
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ।
कृत्वा जागरणं विष्णोर्धूतपापो भवेन्मुने ! ॥
कर्म्मणा मनसा वाचा पापं यत् समुपार्ज्जितम् ।
क्षालयेत्तच्च गोविन्दः प्रबोधन्यान्तु जागरे ॥
दुष्प्राप्यं यत् फलं विप्रैरश्वमेधादिभिर्मखैः ।
प्राप्यते तत् सुखेनैव प्रबोधन्यान्तु जागरे ॥
आप्लुत्य सर्व्वतीर्थानि दत्त्वा गां काञ्चनीं महीम् ।
न तत् फलमवाप्नोति यत् कृत्वा जागरं हरेः ॥
चन्द्रसूर्य्योपरागे तु यत् फलं परिकीर्त्तितम् ।
तत्सहस्रगुणं पुण्यं प्रबोधन्यान्तु जागरे ॥
स्नानं दानं तपो होमः स्वाध्यायश्चार्च्चनं हरेः ।
तत् सर्व्वं कोटिगुणितं प्रबोधन्यान्तु जागरे ॥
समतीतं भविष्यञ्च वर्त्तमानं कुलायुतम् ।
विष्णुलोकं नयत्याशु जागरेण प्रबोधनी ॥
चलन्ति पितरो हृष्टा विष्णुलोकमलङ्कृताः ।
विमुक्ता नारकैर्दुःखैः कर्त्तुः कृष्णप्रजागरम् ॥
भार्य्यापक्षे तु ये जाता मातृतः पितृतस्तथा ।
तारयेन्नात्र सन्देहः प्रबोधन्यां तु जागरे ॥”
किञ्च ।
“फलैर्नानाविधैर्द्रव्यैः प्रबोधन्यान्तु जागरे ।
शङ्खे तोयं समादाय अर्घ्यं दद्याज्जनार्द्दने ॥
यत् फलं सर्व्वदानेषु सर्व्वतीर्थेषु यत् फलम् ।
तत् सर्व्वं कोटिगुणितं दत्त्वार्घ्यं बोधवासरे ॥”
पाद्मे च तत्रैव ।
“अन्यत्रापि प्रिया विष्णोर्जागरे स्यात् प्रबो-
धनी ।
किं पुनर्मथुरायां सा ततो वै जन्मसद्मनि ॥
एकेवैकादशी कृष्णजन्मगेहे कृता नरैः ।
ततोऽधिकं न कर्त्तव्यं लोके किञ्चन विद्यते ॥
रात्रौ जागरणं तत्र प्रीत्या कुर्व्वन्ति ये नराः ।
संसारे मोहस्वप्नान्ते सदा जाग्रति जाग्रति ॥”
किञ्च तत्रैव श्रीराधिकोपाख्यानान्ते ।
“सुबोधनीजागरपुण्यवैभवात्
प्रसन्न ईशो विधिवाक्यसत्यकृत् ।
चकार रासोत्सवनर्त्तनं सह
वृन्दावनेऽन्याभिरपीह राधया ॥
सा नृत्यमानाद्भुतगोपरूपिणा
कृष्णेन जन्मान्तरवाञ्छितेन ।
राधा महाप्रेमजवाकुलेन्द्रिया
निन्येऽन्यलोकं कथया कृतार्थताम् ॥
तस्मात् सुबोधनीं कृत्वा रात्रौ कृत्वा च जागरम् ।
सुप्तोत्थितं हरिं दृष्ट्वा का भीः संसारजा द्विजाः ॥
पृष्ठ ३/२८१
मथुरायान्तु किं वाच्यं जागरे हरिसन्निधौ ।
कार्त्तिके वोधनीं प्राप्य ततः श्रेयः परं न हि ॥
मथुरायां प्रबोधन्यां कृतजागरणस्य हि ।
क्षणार्द्धदानतो वैश्योऽमोचयद्ब्रह्मराक्षसम् ॥
जागरस्य च माहात्म्यं गीतवादित्रनर्त्तनम् ।
हरेः प्रीतिकरं रात्रौ वक्तुं मे नैव शक्यते ॥
यस्तु गायति कृष्णाग्रे कौमुदीं द्वादशीं क्षणम् ।
सर्व्वलोकान् परित्यज्य विष्णुलोकं स गच्छति ॥”
अतएवोक्तं तत्रैव ।
“राज्यमन्यत्र संत्यज्य स्फीतं निहतकण्टकम् ।
कार्त्तिके मथुरायां वै कौमुद्यां जागरं चरेत् ॥”
अथ पारणादिनकृत्यम् ।
“प्रातर्नित्यक्रियां कृत्वा शक्त्या संभोज्य भूसुरान् ।
गृह्णन् कृतव्रताच्छैद्रं प्रदद्याद्दक्षिणादिकम् ॥
दानं यथाव्रतं तेभ्यो दत्त्वा पारणमाचरेत् ।
प्रवर्त्तयेच्च संत्यक्तं चातुर्मास्यव्रतेषु यत् ॥”
तथा च भविष्योत्तरे तत्रैव ।
“प्रभाते विमले स्नात्वा भोजयेदन्नविस्तरैः ॥
घृतक्षीरदधिक्षौद्रकासारगुडमोदकैः ।
अर्च्चयेच्चन्दनैश्चूर्णैः पुष्पैर्गन्धैर्द्बिजोत्तमान् ॥
आचान्तेभ्यस्ततो दद्यात्त्यक्तं यत्किञ्चिदेव हि ।
सुवाचा सुमनोऽभीष्टपत्रपुष्यफलादिकम् ॥
चतुरो वार्षिकान्मासान् नियमं यस्य यत् कृतम् ।
कथयित्वा द्विजेभ्यस्तद्दद्याद्भक्त्या सुदक्षिणाम् ॥”
एवमेव पाद्मे । तत्रैव किञ्चाधिकम् ।
“चातुर्म्मास्यव्रते विप्राः पश्चादच्छिद्रवाचनम् ॥”
इति श्रीहरिभक्तिविलासे १६ विलासः ॥

प्रबोधिनी, स्त्री, (प्रबोधयति हरिमिति । प्र +

बुध् + णिच् + णिनिः । ङीप् ।) प्रबोधनी ।
उत्थानैकादशी । यथा, --
वराह उवाच ।
“उपवासासमर्थानां सदैव पृथुलोचने ! ।
एका सा द्वादशी पुण्या उपोष्या या प्रबोधिनी ॥
तस्यामाराध्य विश्वेशं जगतामीश्वरेश्वरम् ।
प्राप्नोति सकलं तद्धि द्वादशद्वादशीफलम् ॥
पूर्ब्बभाद्रपदा योगे सैव वा द्वादशी भवेत् ।
अतीव महती तस्यां सर्व्वकृत्यमथाक्षयम् ॥
उत्तराङ्गारसहिता यदि चैकादशी भवेत् ।
तदा कोटिगुणं पुण्यं केशवाल्लभते फलम् ॥
सकृदेवार्च्चिते तस्यां सर्व्वं कृतमिहाक्षयम् ।
यथा प्रबोधिनी पुण्या तथा यस्यां स्वपेद्धरिः ॥
उपोष्या हि महाभागे ! अनन्तफलदा हि सा ।
शयने बोधने चैव हरेस्तु परिवर्त्तने ॥
उपोष्यैव विधानेन नरो निर्म्मलतां ब्रजेत् ।
तस्मात् सर्व्वप्रयत्नेन द्बादशीं समुपोषयेत् ॥
यदीच्छेत विशालाक्षि ! शाश्वतीं गतिमात्मनः ।
एकादशी सोमयुक्ता कार्त्तिके मासि भामिनि ! ।
उत्तराभद्रसंयोगे अनन्ता सा प्रकीर्त्तिता ॥
तस्यां यत् क्रियते भद्रे ! सर्व्वमानन्त्यमश्नुते ।
अनन्तपुण्यफलदा तेनानन्ता स्मृता प्रिये ! ॥
एकादशी भौमयुता यदा स्याद्भूतधारिणि ! ॥
स्नात्वा देवं समभ्यर्च्च्य प्राप्नोति परमं फलम् ।
प्राप्नोति सकलं तद्धि द्बादशद्वादशीं नरः ॥
जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः ।
पञ्चरत्नसमोपेतं घृतपात्रयुतं तथा ॥
तस्यां स्कन्धे तु धरितं मत्स्यरूपं जनार्द्दनम् ।
माषकेण सुवर्णेन सुतप्तेन वरानने ! ॥
स्नापयित्वा विधानेन कुङ्कुमेन विलेपितम् ।
पीतवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ॥
पूजयेत् कमलैर्देवि ! मद्भक्तः संजितेन्द्रियः ।
मत्स्यं कूर्म्मं वराहञ्च नारसिंहञ्च वामनम् ॥
रामं रामञ्च कृष्णञ्च बुद्धञ्चैव तु कल्किनम् ।
एवं दशावतारांश्च पूजयेद्भक्तिसंयुतः ॥
पुष्पैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि ।
संपूज्यैवमलङ्कारैर्विविधैः पूजनञ्चरेत् ॥
ततस्तस्याग्रतो देयं नैवेद्यं पाचितं चितम् ।
एवं संपूज्य गोविन्दं दिवापि कमलेक्षणम् ॥
रात्रौ चोत्थापनं कार्य्यं देवदेवस्य सुव्रते ! ।
प्रभाते विमले स्नात्वा भक्त्या संपूज्य केशवम् ॥
पुष्पधूपादिनैवेद्यैः फलैर्नानाविधैः शुभैः ।
ततस्तु पूजयेद्विद्वानाचार्य्यं भक्तिसंयुतः ॥
अलङ्कारोपहारैश्च वस्त्राद्यैश्च स्वशक्तितः ।
पूजयित्वा विधानेन तं देवं प्रतिपादयेत् ॥
जगदादे जगद्रूप अनादे जगदादिकृत् ।
जलशायिन् जगद्योने प्रीयतां मे जनार्द्दन ! ॥
अनेनैव विधानेन कुर्य्यादेकादशीं नरः ।
तस्य पुण्यं भवेद्यत्तु तच्छृणुष्व वसुन्धरे ! ॥
यदि वक्त्रसहस्राणां सहस्राणि भवन्ति हि ।
संख्यातुं नैव शक्यन्ते प्रबोधिन्यास्तथा गुणाः ॥
तथाप्युद्देशमात्रेण शक्त्या वक्ष्यामि तच्छृणु ।
चन्द्रतारार्कसङ्काशमधिष्ठायानुजीविभः ॥
सहैव यानमागच्छेन्मम लोकं वसुन्धरे ! ।
ततः कल्पसहस्रान्ते सप्तद्बीपेश्वरो भवेत् ॥
आयुरारोग्यसम्पन्नो जन्मातीतो भवेत्ततः ।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥
पापान्येतानि सर्व्वाणि श्रवणेनैव नाशयेत् ॥
पश्येच्च धीमानधनोऽपि भक्त्या
स्पृशेन्मनुष्य इह धीयमानः ।
शृणोति भक्तस्य मतिं ददाति
विकल्मषः सोऽपि दिवं प्रयाति ॥
दुःस्वप्नं प्रशममुपैति पठ्यमाने
माहात्म्ये भवभयहारके नरस्य ।
यः कुर्य्याद्व्रतवरमेतदव्ययाया
बोधिन्याः किमुत फलन्तु तस्य वाच्यम् ॥
ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् ।
तैरात्मजन्म सफलं कृतं ये व्रतकारकाः ॥”
इति वराहपुराणे प्रबोधिनीमाहात्म्यम् ॥

प्रभञ्जनः, पुं, (प्रकर्षेण भनक्ति वृक्षादीनिति । प्र +

भन्ज् + युच् ।) वायुः । इत्यमरः । १ । १ । ६६ ॥
(यथा, महाभारते । ७ । १५४ । ७८ ।
“घटोत्कचसुतः श्रीमान् भिन्नाञ्जनचयोपमः ।
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥”
मणिपुराधिपतिराजविशेषः । यथा, महा-
भारते । १ । २१७ । १९ ।
“राजा प्रभञ्जनो नाम कुलेऽस्मिन् सम्बभूव ह ।
अपुत्त्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥”)
भञ्जनकर्त्तरि, त्रि ॥ (यथा, हरिवंशे । २४५ । १३ ।
“प्रभञ्जनो यो लोकानां युगान्ते सर्व्वनाशनः ॥”
यथा च महाभारते । १ । १२३ । १२ ।
“सा सलज्जा विहस्याह पुत्त्रं देहि सुरोत्तम ! ।
बलवन्तं महाकायं सर्व्वदर्पप्रभञ्जनम् ॥”)

प्रभद्रः, पुं, (प्रकृष्टं भद्रं यस्मात् ।) निम्बः । इति

राजनिर्घण्टः ॥ (प्रकृष्टो भद्र इति प्रादि-
समासः । श्रेष्ठे, त्रि ॥)

प्रभद्रा, स्त्री, (प्रकृष्टं भद्रं यस्मात् । टाप् ।) प्रसा-

रिणी । इति राजनिर्घण्टः ॥

प्रभवः, पुं, (प्रभवत्यस्मादिति । प्र + भू + “अक-

र्त्तरि च कारके” इत्यधिकारात् अपादानार्थे ।
“ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।)
जन्महेतुः । पित्रादिः । आद्योपलब्धिस्थानम् ।
आद्योपलब्धये प्रथमज्ञानार्थं यत् स्थानं देशः
सः । यथा । वाल्मीकिः श्लोकप्रभवः । हिमवान्
गङ्गाप्रभवः । इत्यमरभरतौ ॥ अपां मूलम् ।
मुनिभेदः । इति हेमचन्द्रः ॥ पराक्रमः । इति
मेदिनी । वे, ४१ ॥ जन्म । इति शब्दरत्नावली ॥
(यथा, कुमारे । ५ । ८१ ।
“विवक्षता दोषमपि च्युतात्मना
त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं
कथं स लक्ष्यप्रभवो भविष्यति ॥”
सृष्टिः । यथा, देवीभागवते । १ । १६ । २ ।
“महाशक्त्या प्रभावेन त्वं मां विस्मृतवान् पुरा ।
प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥”
साध्यभेदः । यथा, हरिवंशे । १९६ । ४४ ।
“धर्म्माल्लक्ष्म्युद्भवः कामः साध्यासाध्यान् व्यजायत ।
प्रभवं च्यवनञ्चैवमीशानं सुरभीन्तथा ॥”
त्रि, प्रभूतः । यथा, ऋग्वेदे । २ । ३८ । ५ ।
“नानौकांसि दुर्य्यो विश्वमायुर्वि तिष्ठते प्रभवः
शोको अग्नेः ॥”
“प्रभवः प्रभूतो अग्नेः शोकस्तेजः ।” इति तद्भाष्ये
सायनः ॥)

प्रभविष्णुः, पुं, (प्रभवितुं शीलमस्येति । प्र + भू +

“भुवश्च ।” ३ । २ । १३८ । इति इष्णुच् ।) वटुक-
भैरवस्याष्टोत्तरशतनामान्तर्गतनामविशेषः ।
यथा । “प्रभविष्णुः प्रभाववान् ।” इत्यादि
विश्वसारतन्त्रे आपदुद्धारकल्पः ॥ प्रभुः । यथा,
“न भर्त्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥”
इति दायभागः ॥
प्रकर्षेण भवनशीले, त्रि ॥

प्रभविष्णुता, स्त्री, प्रभुता । प्रभविष्णुशब्दात्

भावार्थे तप्रत्ययेन पदं निष्पन्नम् ॥ (यथा,
राजतरङ्गिण्याम् । २ । ४७ ।
“यद्यसाध्यानि दुःखानि च्छेत्तुं न प्रभविष्णुता ।
तन्महीपाल ! महतां महत्त्वस्य किमङ्कनम् ॥”)
पृष्ठ ३/२८२

प्रभा, स्त्री, (प्रकर्षेण भातीति । प्र + भा + “आत-

श्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् ।)
कुवेरपुरी । इति हेमचन्द्रः । २ । १०४ ॥ (प्र +
भा + भावे अङ् ।) दीप्तिः । तत्पर्य्यायः ।
रोचिः २ द्युतिः ३ शोचिः ४ त्विषा ५ ओजः ६
भाः ७ रुचिः ८ विभा ९ आलोकः १०
प्रकाशः ११ तेजः १२ रुक् १३ । इति राज-
निर्घण्टः ॥ * ॥ (यथा, रामायणे । २ । ३९ । १८ ।
“व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।
उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः ॥”
तथा च महाभारते । ४ । १३ । १७ ।
“रतीव रूपिणी किन्त्वमनङ्गाङ्गविहारिणी ।
अतीव भ्राजसे सुभ्रु ! प्रभेवेन्दोरनुत्तमा ॥”)
गोपीविशेषः । यथा, --
“दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ।
सद्योमत्शब्दमात्रेण तिरोधानं कृतं त्वया ॥
प्रभा देहं परित्यज्य जगाम सूर्य्यमण्डलम् ।
ततस्तस्याः शरीरञ्च तीव्रं तेजो बभूव ह ॥
संविभज्य त्वया दत्तं प्रेम्णाश्रु रुदता पुरा ।
विमृज्य चक्षुषोर्लोहं लज्जया मद्भयेन च ॥
हुताशनाय किञ्चिच्च नृपेभ्यश्चापि किञ्चन ।
किञ्चित् पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन ॥
किञ्चिद्दस्युजनेभ्यश्च नागेभ्यश्चापि किञ्चन ।
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ॥
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ।
तच्च दत्त्वा तु सर्व्वेभ्यः पूर्ब्बं रोदितुमुद्यतः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ११ । ५७ -- ६२ ॥
दुर्गा । यथा, --
“यमस्य भगिनी जाता यमुना तेन सा मता ।
प्रभा प्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्क-
मालिनी ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
(इयं हि सूर्य्यविम्बे एतनाम्ना कीर्त्त्यते । यथा,
देवीभागवते । ७ । ३० । ८२ ।
“देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥”)
सूर्य्यपत्नी । यथा, --
सूत उवाच ।
“विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा ।
तस्य पत्नीत्रयन्तद्वत् संज्ञा राज्ञी प्रभा तथा ॥
रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् ।
प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥”
इति मात्स्ये । ११ । २ -- ३ ॥
(द्वादशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, वृत्त-
रत्नाकरटीकायाम् ।
“वसुयुगविरतिर्ननौ रौ प्रभा ॥”)

प्रभाकरः, पुं, (प्रभां करोतीति । कृ + “दिवा-

विभानिशाप्रभेति ।” ३ । २ । २१ । इति टः ।)
सूर्य्यः । (यथा, रघौ । १० । ७४ ।
“कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥”)
अग्निः । चन्द्रः । (यथा, महाभारते । ७ । ९९ । ५ ।
“तावतीत्य रथानीकं विमुक्तौ परुषार्यभौ ।
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥”
“प्रभाकरौ चन्द्रसूर्य्यौ ॥”) समुद्रः । इति शब्द-
रत्नावली ॥ अर्कवृक्षः । इत्यमरः । १ । ३ । २८ ॥
(अष्टममन्वन्तरे देवगणभेदः । यथा, मार्कण्डेय-
पुराणे । ८० । ६ ।
“तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ॥”
अत्रिवंशीयमुनिविशेषः । यथा, हरिवंशे ।
३१ । १० ।
“ऋषिर्जातोऽत्रिवंशे तु तासां भर्त्ता प्रभाकरः ।
भद्रायां जनयामास सुतसोमं यशस्विनम् ॥”
नाभभेदः । यथा, महाभारते । १ । ३५ । १५ ।
“कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ॥”
मीमांसकप्रभेदः । स च गुरुत्वेन प्रसिद्धः ।
तस्य मतं दर्शनशास्त्रादौ प्राभाकरमतमिति
प्रसिद्धम् । यदुक्तं वेदान्तसारे । ५३ । “प्राभाकर-
तार्किकौ तु‘अन्योऽन्तरात्मा आनन्दमय’इत्यादि-
श्रुतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्शनात्
अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान-
मात्मेति वदतः ॥” क्ली, कुशद्बीपस्थवर्षभेदः ।
यथा, मात्स्ये । १२१ । ६८ ।
“महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ॥”)

प्रभाकीटः, पुं, (प्रभान्वितः कीट इति मध्यलोपी

समासः ।) खद्योतः । इति राजनिर्घण्टः ॥

प्रभाञ्जनः, पुं, शोभाञ्जनः । इति हेमचन्द्रः ॥

प्रभातं, क्ली, (प्रकर्षेण भातुं प्रवृत्तमिति । प्र +

भा + आदिकर्म्मणि क्तः । यद्वा, प्रकृष्टं भातं
दीप्तिरत्रेति ।) प्रातःकालः । तत्पर्य्यायः ।
प्रत्यूषः २ अहर्मुखम् ३ कल्यम् ४ उषः ५
प्रत्युषः ६ । इत्यमरः । १ । ४ । ३ ॥ दिनादिः ७
निशान्तम् ८ व्युष्टम् ९ प्रगे १० प्राह्णम् ११ ।
इति राजनिर्घण्टः ॥ गोसः १२ गोसङ्गः १३
ऊषः १४ ऊषकम् १५ उषा १६ ऊषा १७
विभातम् १८ । इति शब्दरत्नावली ॥ * ॥
(यथा, --
“प्रभाते यः स्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् ।
आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥”
इति धर्म्मशास्त्रम् ॥)
तत्र दर्शनीया यथा, --
“वैद्यः पुरोहितो मन्त्री दैवज्ञोऽथ चतुर्थकः ।
प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता ॥”
इति राजवल्लभः ॥

प्रभावः, पुं, (प्र + भू + घञ् ।) कोषदण्डजतेजः ।

तत्पर्य्यायः । प्रतापः २ । इत्यमरः । २ । ८ । २० ॥
“कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्यमपि
दण्डः ताभ्यां यत्तेजो जायते स प्रतापः प्रभा-
वश्च कथ्यते ।” इति भरतः ॥ शक्तिः । (यथा, --
“प्रभावतो यथा धात्री लकुचस्य रसादिभिः ।
समापि कुरुते दोषत्रितयस्य विनाशनम् ॥
क्वचित्तु केवलं द्रव्यं कर्म्म कुर्य्यात् प्रभावतः ।
ज्वरं हन्ति शिरोबद्धा सहदेवी जटा यथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तेजः । इति हेमचन्द्रः । ३ । ४०४ ॥ (यथा,
रामायणे । २ । २३ । ३८ ।
“अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ।
राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वञ्च तव प्रभो ! ॥”)
शान्तिः । इति मेदिनी । वे, ४० ॥ (प्रभागर्भ-
जातः सूर्य्यपुत्त्रः । इति मात्स्ये । ११ । ३ ॥
कलावत्यां जातः स्वरोचिषो मनोः पुत्त्रविशेषः ।
यथा, मार्कण्डेये । ६६ । ५ ।
“ततश्च जज्ञिरे तस्य त्रयः पुत्त्राः स्वरोचिषः ।
विजयो मेरुनन्दश्च प्रभावश्च महाबलः ॥”)

प्रभावजः, पुं, (प्रभावात् जायते इति । जन् +

डः ।) शक्तिविशेषः । प्रभावो वीर्य्याधिक्यं
तज्जातः । इत्यमरटीकासारसुन्दरी ॥ प्रभुत्व-
साधकत्वात् दण्डकोषौ प्रभुशक्तिः । इति भरतः ॥
(प्रभावजाते, त्रि । यथा, --
“रसादिसान्ये यत् कर्म्म विशिष्टं तत् प्रभावजम् ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

प्रभावान्, [त्] त्रि, (प्रभा अस्त्यस्येति । प्रभा +

मतुप् मस्य वः ।) प्रभायुक्तः । प्रभाशब्दा-
दस्त्यर्थे वतुप्रत्ययेन निष्पन्नम् ॥

प्रभावती, स्त्री, (प्रभावत् + ङीप् ।) मालिनाम-

कोनविंशवृत्तार्हन्माता । गणानां बीणा । इति
हेमचन्द्रः । २ । २०३ ॥ त्रयोदशाक्षरच्छन्दः ।
यथा, श्रुतबोधे । ३ । २ ।
“यस्यां प्रिये ! प्रथमकमक्षरद्वयं
तुर्य्यन्तथा गुरु नवमं दशान्तिमम् ।
सान्त्यं भवेद्यतिरपि चेद्युगग्रहैः
सालक्ष्यताममृतरुते ! प्रभावती ॥”
(सूर्य्यपत्नी । यथा, महाभारते । ५ । ११७ । ८ ।
“रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ॥”
कुमारानुचरमातृगणविशेषः । यथा, तत्रैव ।
९ । ४६ । ३ ।
“प्रभावती विशालाक्षी पलिता गोनसी तथा ॥”
वज्रनाभासुरस्य कन्या । सा तु प्रद्युम्नेन विवा-
हिता । यथा, हरिवंशे । १४८ । ४१ ।
“तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥”
अङ्गेश्वरचित्ररथस्य स्वनामख्याता भार्य्या ।
यथा, महाभारते । १३ । ४२ । ८ ।
“तस्या हि भगिनी तात ! ज्येष्ठा नाम्ना प्रभावती ।
भार्य्या चित्ररस्थास्य बभूवाङ्गेश्वरस्य च ॥”)

प्रभाषः, पुं, (प्रभाषते यः सः । प्र + भाष् + अच् ।)

वसुभेदः । इति जटाधरः ॥ (यथा, महा-
मारते । १ । ६६ । १८ ।
“प्रत्यूषश्च प्रभाषश्च वसवोऽष्टाविति स्मृताः ॥”
प्र + भाष् + भावे घञ् ।) प्रकृष्टकथनञ्च ॥

प्रभासः, पुं, (प्रभासते शोभते इति । प्र + भास् +

अच् ।) सोमतीर्थम् । इति त्रिकाण्डशेषः ॥
(यथा, महाभारते । ३ । ८२ । ५६ -- ५७ ।
“ततो गच्छेत राजेन्द्र ! प्रभासं तीर्थमुत्तमम् ।
तत्र सन्निहितो नित्यं स्वयमेव हुताशनः ।
देवतानां मुखं वीर ! ज्वलनोऽनिलसारथिः ॥
पृष्ठ ३/२८३
तस्मिंस्तोर्थे नरः स्नात्वा शुचिः प्रयतमानसः ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥”)
जैनगणाधिपविशेषः । इति हेमचन्द्रः । १ । ३२ ॥
(वसुभेदः । यथा, मात्स्ये । ५ । २१ ।
“प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”)

प्रभिन्नः, पुं, (प्र + भिद् + क्त ।) क्षरन्मदहस्ती ।

तत्पर्य्यायः । गर्ज्जितः २ मत्तः ३ । इत्यमरः ।
२ । ८ । ३६ ॥ भ्रान्तः ४ मदकलः ५ । इति
राजनिर्घण्टः ॥ (यथा, रामायणे । २ । १५ । ४६ ।
“ततो महामेघमहीधराभं
प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।
रामोपवाह्यं रुचिरं ददर्श
शत्रुञ्जयं नागमुदग्रकायम् ॥”
तथा च महाभारते । ७ । २७ । २० ।
“यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमून्तव ॥”)
प्रकृष्टभेदविशिष्टे, त्रि ॥ (यथा, ऋतुसंहारे । २ । ५ ।
“प्रभिन्नवैदूर्य्यनिभैस्तृणाङ्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः ॥”)

प्रभुः, पुं, (प्रभवतीति । प्र + भू + डुः ।) विष्णुः ।

इति शब्दरत्नावली ॥ (शिवः । यथा, महा-
भारते । १३ । १७ । ३१ ।
“हरश्च हरिणाक्षश्च सर्व्वभूतहरः प्रभुः ॥”)
पारदः । इति राजनिर्घण्टः ॥ शब्दः । इति
धरणिः ॥

प्रभुः, त्रि, (प्रभवतीति । प्र + भू + “विप्रसंभ्यो

ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।)
अधिपतिः । तत्पर्य्यायः । स्वामी २ ईश्वरः ३
पतिः ४ ईशिता ५ अधिभूः ६ नायकः ७
नेता ८ परिवृढः ९ अधिपः १० । इत्यमरः ।
३ । १ । ११ ॥ पालकः ११ । इति शब्दरत्ना-
वली ॥ (यथा, भगवद्गीतायाम् । ५ । १४ ।
“न कर्त्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः ।
न कर्म्मफलसंयोगं स्वभावस्तु प्रवर्त्तते ॥”)
नित्यः । इति धरणिः ॥ शक्तः । इति नानार्थ-
रत्नमाला ॥ (यथा, कुमारे । ३ । ४० ।
“आत्मेश्वराणां न हि जातु विघ्नाः
समाधिभेदप्रभवो भवन्ति ॥”
श्रेष्ठः । यथा, मनौ । १० । ३ ।
“वैश्येष्यात् प्रकृतिश्रैष्ठ्यात् नियमस्य च धार-
णात् ।
संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥”)

प्रभुता, स्त्री, (प्रभोर्भावः । प्रभु + तल् ।) प्रभु-

त्वम् । ऐश्वर्य्यम् । इति हलायुधः । ४ । १०० ॥

प्रभुभक्तः, पुं, (प्रभोर्भक्तः ।) उत्तमघोटकः । यथा,

“प्रभुभक्ता भक्तिलाश्च कुलीनेषु कुलोत्कटाः ॥”
इति शब्दचन्द्रिका ॥
स्वाम्यनुरक्ते, त्रि । यथा, चाणक्यसंग्रहे ।
“बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः ।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥”

प्रभूतं, त्रि, (प्र + भू + क्तः ।) प्रचुरम् । इत्य-

मरः । ३ । १ ६३ ॥ (यथा, कलाविलासे । १ । ९ ।
“तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्त्तः ।
सकलकलानिलयानां धुर्य्यः श्रीमूलदेवाख्यः ॥”)
उद्गतम् । इति मेदिनी । ते, १२१ ॥ भूतम् ।
उन्नतम् । इति शब्दरत्नावली ॥

प्रभूष्णुः, त्रि, (प्रभवतीति । प्र + भू + “ग्लाजि-

ख्यश्च ग्स्नुः ।” ३ । १ । १३९ । इति ग्स्नुः ।)
क्षमः । शक्तः । इति हेमचन्द्रः । ३ । १५५ ॥

प्रभृति, व्य (प्र + भृ + क्तिच् ।) तदादिः । यथा,

“तबःप्रभृति पितरः पिण्डसंज्ञान्तु लेभिरे ॥”
इति तिथ्यादितत्त्वम् ॥

प्रभेदः, पुं, (प्र + भिद् + घञ् ।) भेदः । तत्-

पर्य्यायः । प्रकारः २ विशेषः ३ भिदा ४
अन्तरम् ५ । इति जटाधरः ॥ (यथा, सुश्रुते
निदानस्थाने १० अध्याये ।
“पित्तात्मको द्रुतगतिर्ज्वरदाहपाक-
स्फोटप्रभेदबहुलः क्षतजप्रकाशः ॥”
स्फोटनम् । यथा, रघुः । ३ । ३७ ।
“बभूव तेनातितरां सुदुःसहः
कटप्रभेदेन करीव पार्थिवः ॥”)

प्रभ्रष्टकं, क्ली, (प्र + भ्रंश् + क्तः । ततः स्वार्थे

कन् ।) शिखालम्बिमाल्यम् । चूडातो लम्बमान-
माल्यम् । इत्यमरभरतौ । २ । ६ । १३५ ॥

प्रमत्तः, त्रि, (प्रमाद्यति स्मेति । प्र + मद् + गत्य-

र्थेति क्तः । नध्याख्येति नत्वाभावः ।) प्रमादी ।
अनवधानतायुक्तः । यथा, --
“मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्म्मवित् ॥”
इति श्रीभागवते १ स्कन्धे ७ अध्यायः ॥
“मत्तं मद्यादिना । प्रमत्तमनवहितम् । उन्मत्तं
ग्रहवातादिना । जडं अनुद्यमम् । प्रपन्नं शरणा-
गतम् । विरथं भग्नरथम् ।” इति श्रीधरस्वामी ॥
अपरप्रमत्तो यथा, --
“सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
स च राज्ञा नाह्वानयतिव्यः । यथा, --
“मत्तोन्मत्तप्रमत्तार्त्तभृत्यान्नाह्वानयेन्नृपः ॥”
इति मिताक्षरा ॥

प्रमथः, पुं, (प्रमथतीति । प्र + मथ् + अच् ।)

षोटकः । शिवपारिषदः । इति शब्दरत्ना-
वली ॥ स च षट्त्रिंशत्कोटिसंख्यकः । यथा,
“षट्त्रिंशत्तु सहस्राणि प्रमथा द्बिजसत्तमाः ।
तत्रैकत्र सहस्राणि भागे षोडश संस्थिताः ॥
नानारूपधरा ये वै जटाचन्द्रार्द्धमण्डिताः ।
ते सर्व्वे सकलैश्वर्य्ययुक्ता ध्यानपरायणाः ॥
योगिनो मदमात्सर्य्यदम्भाहङ्कारवर्ज्जिताः ।
क्षीणपापा महाभागाः शम्भोः प्रीतिकराः
पराः ॥
न ते परिग्रहं रागं काङ्क्षन्ति स्म कदाचन ।
संसारविमुखाः सर्व्वे यतयो योगतत्पराः ॥
ध्यानावस्थं महादेवं परिवार्य्य धृतव्रताः ।
कृत्वा परिवदं रुच्या तिष्ठन्ति विगतक्लमाः ॥
यदैव परमं ज्योतिश्चिन्तयत्यम्बिकापतिः ।
तदैव ते पारिषदाः सर्व्वे संबेष्टयन्ति तम् ॥
ते षोडश समाख्याताः कोटयो ये धृतव्रताः ।
सिंहव्याघ्रादिसारूप्या अणिमादिसमायुताः ॥ * ॥
अपरे कामिनः शम्भोः सुनर्म्मसचिवाः स्मृताः ।
विचित्ररूपाभरणा जटाचन्द्रार्द्धमण्डिताः ॥
हरस्य तुल्या रूपेण विशदा वृषभध्वजाः ।
उमासदृशरूपाभिः प्रमदाभिः समागताः ॥
विचित्रमाल्याभरणा दिव्यस्रग्गन्धभूषणाः ।
उमासहायं क्रीडन्तमनुगच्छन्ति भूषिताः ।
शृङ्गारवेशाभरणा अष्टौ ते कोटयो गणाः ॥ * ॥
अर्द्धनारीश्वराश्चान्ये ह्यर्द्धनारीश्वरं हरम् ।
अनुयान्ति महाभागास्तुल्यरूपा हरस्य ये ॥
उमासहायो हि यदा रमते स्म सुखं हरः ।
अर्द्धनारीशरीरास्तु द्वारपाला भवन्ति ते ॥
आकाशमार्गे गच्छन्तमनुगच्छन्ति नित्यशः ।
ध्यानस्थं परिचर्य्यन्ति सलिलादिभिरीश्वरम् ॥
नानाशस्त्रधराः शम्भोर्गणास्तु प्रमथाः स्मृताः ।
प्रमथ्नन्ति च युद्धेषु युध्यमानान्महावलान् ।
ते वै महाबलाः शूराः संख्यया नवकोटयः ॥ * ॥
अपरे गायनास्तालमृदङ्गपणवादिभिः ।
नृत्यन्ति वाद्यं कुर्व्वन्तो गायन्ति मधुरस्वरम् ॥
नानारूपधरास्ते वै संख्यया कोटयास्त्रयः ।
सततं चानुगच्छन्ति विचरन्तं महेश्वरम् ॥
सर्व्वे मायाविनः शूराः सर्व्वे शास्त्रार्थपारगाः ।
सर्व्वे सर्व्वत्र सर्व्वज्ञाः सर्व्वे सर्व्वत्रगाः सदा ॥
मुहूर्त्तात् सर्व्वभुवनं गत्वा यान्ति पुनः पुनः ।
अनिमाद्यष्टकैश्वर्य्ययुक्तास्ते वै महाबलाः ॥
अपरे रुद्रनामानो जटाचन्द्रार्द्धमण्डिताः ।
देवेन्द्रस्य नियोगेन वर्त्तन्ते त्रिदिवे सदा ॥
तेषां संख्या चैककोटिस्ते सर्व्वे बलवत्तराः ।
कुर्व्वन्ति हि सदा सेवां हरस्य सततं गणाः ॥
विस्मयन्ति च पापिष्ठान् धर्म्मष्ठान् पालयन्ति
च ।
अनुगृह्णन्ति सततं धृतपाशुपतव्रतान् ॥
विघ्नांश्च सततं हन्ति योगिनां प्रयतात्मनाम् ।
षट्त्रिंशत् कोटयश्चैते हरस्य सकला गणाः ॥
वराहगणनाशार्थं हिताय जगर्तां तथा ।
शङ्करस्य च सेवायै समुत्पन्ना इमे गणाः ॥
वराहस्य गणान् दृष्ट्वा नरसिंहं तथा हरिम् ।
स्वयं सरभरूपः सन् ध्यायन् नादं यतोऽकरोत् ॥
तच्छीकराम्बुतो जातास्तत्तेषां बहुरूपता ।
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरकृत्यैरिमान् गणान् ॥
वराहस्य हतेत्येवं यतः प्रोक्तं कपर्द्दिना ।
ततस्ते क्रूरकर्म्माणः प्रताजाश्च भयङ्कराः ॥
न सदा क्रूरकर्म्माणि ते कुर्व्वन्ति महौजसः ।
दृष्टिमात्रस्य ते क्रूराः क्रूरक्रूराश्च कार्य्यतः ॥
फलं जलं तथा पुष्पं पत्रं मूलं तथैव च ।
निवेदितानि भुञ्जन्ति वनपर्व्वतसानुषु ॥
आहृत्यापि च भुजन्ति पत्रं पुष्पादिकञ्च यत् ।
भवेद्भर्गस्य यद्भोग्यं तद्भोगास्ते महौजसः ॥
आमिषं नापि चाश्नन्ति हित्वा चैत्रचतुर्द्दशीम् ।
तत्रामिषं हरो भुङ्क्ते चतुर्द्दश्यां मधौ सदा ॥
पृष्ठ ३/२८४
ततः सर्व्वे गणास्तत्र भुञ्जन्ते पललान्यपि ।
हते वराहस्य गणे भर्गमासाद्य ते गणाः ।
चतुर्भागाः स्वयं भूत्वा भूतं कर्म्मेति वै जगुः ॥
भूतत्वमभवत्तेषां चतुर्भागवतां तदा ।
वचनात् पद्मजातस्य भूतग्रामास्ततो मताः ॥
यो लोकविदितः पूर्ब्बं भूतग्रामश्चतुर्व्विधः ।
यतस्तेभ्योऽधिका यत्नैस्तद्दृढग्राम उच्यते ॥
इति वः सर्व्वमाख्यातं भूताः शम्भुगणा यथा ।
यदाहारा यदाकारा यत्कृत्यास्ते महौजसः ॥
य इदं शृणुयान्नित्यमाख्यानं योगमुत्तमम् ।
स दीर्घायुः सदोत्माही योगयुक्तश्च जायते ॥”
इति कालिकापुराणे पारिषदोत्पत्तिर्नाम २९
अध्यायः ॥ (धृतराष्ट्रपुत्त्राणामन्यतमः । यथा,
महाभारते । १ । ११७ । १२ ।
“प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्य्यवान् ॥”)

प्रमथनं, क्ली, (प्र + मथ + भावे ल्युट् ।) वधः ।

इत्यमरः । २ । ८ । ११५ ॥ (यथा, रामायणे ।
१ । ३ । २४ ।
“वालिप्रमथनञ्चैव सुग्रीवप्रतिपादनम् ॥”
क्लेशनम् । विलोडनम् । इति मथधात्वर्थदर्श-
नात् ॥ (प्रकर्षेण मथतीति । प्र + मथ् + ल्युः ।
प्रमाथके, त्रि । यथा, महाभारते । १ । १०२ । ६२ ।
“स चाश्विरूपसदृशो देवतुल्यपराक्रमः ।
सर्व्वासामेव नारीणां चित्तप्रमथनो रहः ॥”)

प्रमथा, स्त्री, (प्रमथत्ति त्रिदोषानिति । प्र + मथ्

+ अच् ।) हरीतकी । इति मेदिनी । थे, २१ ॥
(गुणादिकमस्य हरीतकीशब्दे ज्ञातव्यम् ॥)

प्रमथाधिपः, पुं, (प्रमथानां अधिपः ।) शिवः ।

इत्यमरः । १ । १ । ३३ ॥

प्रमथितं, क्ली, (प्रकर्षेण मथितम् ।) निर्जल-

तक्रम् । इति राजनिर्घण्टः ॥

प्रमदः, पुं, (प्र + मद् + “प्रमदसंमदौ हर्षे ।”

३ । ३ । ६८ । इति अप् ।) हर्षः । इत्यमरः ।
१ । ४ । २४ ॥ (यथा, कथासरित्सागरे । ६ । १६२ ।
“तच्छ्रुत्या मम राज्ञश्च विषादप्रमदौ द्वयोः ।
अभूतां मेघमालोक्य हंसचातकयोरिव ॥”
प्रमाद्यत्यनेनेति । प्र + मद् + करणे अप् ।)
धुस्तूरफलम् । इति शब्दचन्द्रिका ॥ (दानव-
विशेषः । यथा, हरिवंशे । ३ । ८७ ।
“प्रमदो मयः कुपयो हयग्रीवश्च वोर्य्यवान् ॥”
वशिष्ठतनयानामन्यतमः । स तु उत्तममन्वन्तरे
सप्तर्षिप्रभेदः । यथा, भागवते । ८ । १ । २४ ।
“वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥”)
प्रमाद्यतीति । प्र + मद् + कर्त्तरि अच् । यद्वा
प्रकर्षेण मदोऽस्य ।) मत्ते, त्रि । इति मेदिनी ।
दे, ७५ ॥ (यथा, रवौ । १९ । ३७ ।
“प्राविपि प्रमदवर्हिणेष्वभूत्
कृत्रिमाद्रिषु विहारविभ्रमः ॥”)

प्रमदकाननं क्ली, (प्रमदानां काननम् । “ङ्यापोः

मंज्ञाच्छन्दसोर्बहुलम् ।” ६ । ३ । ६३ । इति
ह्रस्वः । यद्वा, प्रमदाय हर्षाय यत् काननम् ।)
प्रमदावनम् । इत्यमरटीकायां भरतः । २ ।
४ । ३ ॥

प्रमदवनं, क्ली, (प्रमदानां वनमिति । “ङ्यापो-

रिति ।” ६ । ३ । ६३ । इति ह्रस्वः ।) राज्ञो-
ऽन्तःपुरोचितवनम् । इत्यमरः । २ । ४ । ७ ॥

प्रमदा, स्त्री, (प्रमदयति पुरुषमिति । प्र + मद

हर्षे + णिच् + अच् । यद्वा, प्रमदो हर्षोऽस्त्यस्या
इति अच् । टाप् ।) उत्तमयोषित् । इति
मेदिनी । दे, ५ ॥ (यथा, कुमारे । ४ । १२ ।
“नयनान्यरुणानि घूर्णयन्
वचनानि स्खलयन् पदे पदे ।
असति त्वयि वारुणीमदः
प्रमदानामधुना विडम्बना ॥”)
चतुर्द्दशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, वृत्त-
रत्नाकरटीकायाम् ।
“नजभजला गुरुश्च भवति प्रमदा ॥”)

प्रमदाकाननं क्ली, (प्रमदानां काननम् ।) प्रमद-

वनम् । इत्यमरटीकायां भरतः । २ । ४ । ३ ॥

प्रमदावनं, क्ली, (प्रमदानां वनम् ।) प्रमदवनम् ।

इति शब्दरत्नावली ॥

प्रमनाः, [स्] त्रि, (प्रकृष्टं मनोऽस्य ।) हर्ष-

युक्तः । इत्यमरः । ३ । १ । ७ ॥ (यथा, महा-
भारते । ८ । ३७ । ४१ ।
“इति बहुपरुषं प्रभाषति
प्रमनसि मद्रपतौ रिपुस्तवम् ॥”)

प्रमयः, पुं, (प्र + मी वधे + भावे अच् ।) वधः ।

इति हेमचन्द्रः । ३ । ३४ ॥ (यथा, राजतर-
ङ्गिण्याम् । १ । ९ ।
“दृष्टं दृष्टं नृपोदन्तं बद्ध्वा प्रमयमीयुषाम् ।
अर्व्वाक्कालभवैर्वार्त्ता यत्प्रबन्धेषु पूर्य्यते ॥”)

प्रमा, स्त्री, (प्रमीयते इति । प्र + माङ् माने

+ “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति
अङ् । टाप् ।) यथार्थज्ञानम् । तत्पर्य्यायः ।
प्रमितिः २ । इत्यमरः । ३ । २ । १० ॥ प्रमा-
णम् ३ । इति शब्दरत्नावली ॥ (यथा, प्रबोध-
चन्द्रोदये । २ य अङ्के ।
“प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः ।
वेदान्ता यदि शास्त्राणि वौद्धैः किमपराध्यते ॥”
यथा च ऋग्वेदे । १० । १३० । ३ ।
“कासीत्प्रमा प्रतिमा किम् ॥”
“यज्ञस्य प्रमा प्रमाणमियत्ता का कथम्भूतासीत् ।”
इति तद्भाष्ये सायनः ॥) न्यायमते तद्वति
तत्प्रकारकज्ञानम् । भ्रमभिन्नज्ञानम् । अस्याः
कारणं गुणः । स च प्रत्यक्षे विशेष्ये विशे-
षणस्य सम्बन्धः । अनुमितौ साध्यविशिष्टपक्षे
परामर्शः । शाब्दबोधे योग्यतायाः तात्पर्य्यस्य
वा यथार्थज्ञानम् । उपमितौ शक्ये सादृश्य-
बुद्धिः । यथा, --
“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।
पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥
प्रत्यक्षे तु विशेष्येण विशेषणवता समम् ।
सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥
पक्षे साध्यविशिष्टे च परामर्शो गुणो भवेत् ।
शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ।
शाब्दवोधे योग्यतायास्तात्पर्य्यस्याथ वा प्रमा ॥
गुणः स्याद्भ्रमभिन्नन्तु ज्ञानमत्रोच्यते प्रमा ।
अथवा तत्प्रकारं यत् ज्ञानं तद्बद्विशेष्यकम् ॥”
इति भाषापरिच्छेदे । १३१-१३५ ॥
(“दोषः इति । अप्रमां प्रति दोषः कारणं प्रमां
प्रति गुणः कारणं तत्रापि पित्तादिरूपा दोषा
अननुगताः तेषां कारणत्वम् अन्वयव्यतिरेका-
भ्यामेव सिद्धम् । गुणस्य प्रमाजनकत्वन्तु अनु-
मानात् सिद्धम् । यथा प्रमाज्ञानसाधारण-
कारणभिन्नकारणजन्याजन्यज्ञानत्वात् अप्र-
मावत् । न च दोषाभाव एव कारणमस्त्विति
वाच्यम् । पीतः शङ्ख इति ज्ञानस्थले पित्तदोष-
सत्त्वात् शङ्खप्रमानुत्पत्तिप्रसङ्गात् विनिगमना-
विरहात् अनन्तदोषाभावस्य कारणत्वमपेक्ष्य
गुणकारणताया न्याय्यत्वात् । न च गुणसत्त्वेऽपि
पित्तप्रतिबन्धात् शङ्खे न सैत्यज्ञानमतः पित्तादि-
दोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं
गुणस्य हेतुत्वकल्पनयेति वाच्यं तथाप्यन्वयव्यति-
रेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति
गुणाभावः कारणमित्यस्यापि सुवचत्वाच्च । तत्र
दोषाः के इत्याकाङ्क्षायामाह पित्तेति । क्वचित्
पीत्तादिभ्रमे पित्तं दोषः क्वचित् चन्द्रादेः स्वल्प-
परिमाणभ्रमे दूरत्वं दोषः । क्वचिच्च वंशोरग-
भ्रभे मण्डूकवसाञ्जनमित्येवं दोषा भ्रान्तिजनका
इत्यर्थः । अथ के गुणा इत्याकाङ्क्षायां प्रत्य-
क्षादौ क्रमशो गुणान् दर्शयति प्रत्यक्षेत्विति ।
प्रत्यक्षे विशेषणवत् विशेष्यसन्निकर्षो गुणः अनु-
मितौ साध्यवति साध्यव्याप्यवैशिष्ट्यज्ञानं गुण
इति एवमग्रेऽप्यूह्यः । प्रमां निरूपमति भ्रम-
भिन्नमिति । ननु यत्र शुक्तिरजतयोरिमे रजते
इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न
स्यात् तज्ज्ञानस्य भ्रमभिन्नत्वाभावात् अत
आह अथवेति । तद्वद्विशेष्यकं तत्प्रकारकं ज्ञानं
प्रमा इत्यर्थः । इदन्तु बोध्यम् । येन सम्बन्धेन
तद्बत्ता तेन सम्बन्धेन तद्बद्बिशेष्यकं तेन सम्बन्धेन
प्रकारकत्वं वाच्यम् । तेन कपालादौ संयोगा-
दिना घटादिज्ञाने नातिव्याप्तिः ॥” * ॥)

प्रमाणं, क्ली, (प्रमीयते विश्वमनेनेति । प्र + मा +

ल्युट् ।) विष्णुः । यथा, --
“प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ॥”
इति महाभारते शान्तिशर्व्वणि दानधर्म्मः ॥
नित्यम् । मर्य्यादा । शास्त्रम् । (यथा, --
“आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्री-
त्युपतापदर्शिनश्च । तेषामेवङ्गुणयोगात् यद्व-
चनं तत् प्रमाणम् । अप्रमाणं पुनर्मर्त्तोन्मत्त-
मूर्खरक्तदुष्टादुष्टवचनमिति ।” इति चरके
विमानस्थाने चतुर्थेऽध्याये ॥) सत्यवादी ।
(प्र + मा + भावे ल्युट् ।) इत्यत्ता । हेतुः ।
(प्रमिणोतीति । प्र + मा + कर्त्तरि ल्युः ।)
प्रमाता । इति मेदिनी । णे, ६१ ॥ प्रमा ।
पृष्ठ ३/२८५
इति शब्दरत्नावली ॥ नित्यक्लीवैकत्ववानयं
शब्दः । यथा वेदाः प्रमाणं स्मृतयः प्रमाण-
मित्यादि ॥ प्रमायाः करणम् । न्याये तु प्रत्यक्षा-
नुमानोपमानशब्दाः प्रमाणानि । इत्यत्र बहु-
वचनान्तोऽपि ॥ (यथा, मनौ । २ । १३ ।
“अर्थकामेष्वसक्तानां धर्म्मज्ञानं विधीयते ।
धर्म्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥”
वेदान्तसारे च । “वेदान्तो नाम उपतिषत्
प्रमाणं तदुपकारीणि शारीरिकसूत्रादीनि च ॥”
“उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः ।
सैव उपनिषत् प्रमाणं तस्याः प्रमारूपायाः
करणभूता ।” इति विद्वन्मनोरञ्जनीटीका ॥)

प्रमाणवाधितार्थकः, पुं, (प्रमाणेन वाधितः अर्थो

यस्य । ततः कप् ।) तर्कविशेषः । तस्य लक्ष-
णम् । आत्माश्रयादिचतुष्कान्यप्रसङ्गत्वम् । स
द्विविधः । व्याप्तिग्राहकः विषयपरिशोधकश्च ।
तत्राद्यो यथा । धूमो यदि वह्निव्यभिचारी
स्यात्तदा वह्निजन्यो न स्यात् । द्बितीयस्तु पर्व्वतो
यदि निर्वह्रिः स्यात्तदा निर्घूमः स्यात् । इति
तर्कजागदीशी ॥

प्रमातामहः, पुं, (प्रकृष्टो मातामहस्तस्यापि

जनकत्वादिति । प्रादिसमासः ।) मातामह-
पिता । यथा, अमरे ।
“पितामहः पितृपिता तत्पिता प्रपितामहः ।
मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥”

प्रमातामही, स्त्री, (प्रकृष्टा मातामही ।) प्रमाता-

महपत्नी । इति स्मृतिः ॥

प्रमाथः, पुं, (प्र + मथ् + भावे घञ् ।) प्रम-

थनम् । बलात् हरणम् । इति पुराणम् । (निपात्य
भूमौ पेषणम् । यथा, महाभारते । ४ ।
१२ । २७ ।
“कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुशङ्कटैः ।
सन्निपातावधूतैश्च प्रमाथोन्माथनैस्तथा ॥”
अस्य टीकायां नीलकण्ठेन मल्लशास्त्रात् एत-
ल्लक्षणमुद्धृतम् । यथा, --
“निपात्य पेषणं भूमौ प्रमाथ इति कथ्यते ॥”
कुमारस्यानुचरभेदः । यथा, महाभारते । ९ ।
४५ । २९ ।
“ततः प्रादादनुचरौ यमः कालोपमाबुभौ ।
उन्माथञ्च प्रमाथञ्च महावीर्य्यौ महाद्युती ॥”
शिवपारिषद्प्रमथगणः । यथा, हरिवंशे ।
१७८ । ५३ ।
“ते प्रदीप्तप्रहरणा दैत्यदानवराक्षसाः ।
प्रमाथगणमुख्याश्च प्रायुध्यन् कृष्णमव्ययम् ॥”)

प्रमाथी, [न्] त्रि, प्रपूर्ब्बमथधातोः कर्त्तरि णिन् ।

पीडनकर्त्ता । मारणकर्त्ता । प्रमथनशीलः ।
देहेन्द्रियक्षोभक इत्यर्थः । इति श्रीधरस्वामी ॥
यथा, --
“चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद्दृढम् ॥”
अपि च ।
“इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥”
इति श्रीभगवद्गीता ॥

प्रमादः, पुं, (प्र + मद् + भावे + घञ् ।) अनव-

धानता । इत्यमरः । १ । ७ । ३० ॥ यथा, --
“लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः ।
तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥”
इति गारुडे नीतिसारे ११५ अध्यायः ॥

प्रमादवान्, [त्] त्रि, (प्रमादोऽस्त्यस्यास्मिन् वा ।

प्रमाद + मतुप् । मस्य वः ।) प्रमादयुक्तः । तत्-
पर्य्यायः । जाल्मः २ असमीक्ष्यकारी ३ खट्वा-
रूढः ४ । इति जटाधरः ॥ (यथा, याज्ञ-
वल्क्ये । ३ । १३९ ।
“निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा ।
प्रमादवान् भिन्नवृत्तो भवेत्तिर्य्यक्षु तामसः ॥”)

प्रमादिका, स्त्री, (प्रमादोऽनवधानतास्त्यस्या

इति । प्रमाद + ठन् । टाप् ।) दूषिता कन्या ।
तत्पर्य्यायः । संवेदा २ दूषिता ३ धर्षकारिणी ४ ।
इति शब्दरत्नावली ॥

प्रमादी, [न्] त्रि, (प्रमादोऽस्त्यस्येति । प्रमाद +

इनिः ।) प्रमादविशिष्टः । अनवधानतायुक्तः ।
यदुक्तम् ।
“कुरङ्गमातङ्गपतङ्गभृङ्ग-
मीना हताः पञ्चभिरेव पञ्च ।
एकः प्रमादी स कथं न हन्यते
यः सेवते पञ्चभिरेव पञ्च ॥”

प्रमापणं, क्ली, (प्र + मी ञ हिंसायाम् + स्वार्थे

णिच् + भावे ल्युट् ।) मारणम् । इत्यमरः ।
३ । ८ । ११२ ॥ (यथा, मनुः । ११ । १४१ ।
“अस्थिमतान्तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यानस्थ्नान्तु शूद्रहत्याव्रतञ्चरेत् ॥”)

प्रमितः, त्रि, (प्र + मि + क्तः । यद्वा, प्र + मा +

क्तः । “द्यतिस्यतिमास्थेति ।” ७ । ४ । ४० ।
इतीत्वम् ।) ज्ञातः । इति जटाधरः ॥ (अल्प-
तमम् । इति विजयरक्षितः ॥ यथा, निदाने
अर्शोरोगाधिकारे ।
“प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ॥”
परिमितम् । यथा, बृहत्संहितायाम् । १०४ । ३७ ।
“प्रमिताक्षराणि वदन् ॥”)

प्रमितिः, स्त्री, (प्र + मा वा मि + क्तिन् ।) प्रमा ।

इत्यमरः । ३ । २ । १० ॥

प्रमीढः, त्रि, (प्र + मिह सेचने + क्तः ।) घनः ।

मूत्रितः । इति मेदिनी । ढे, ८ ॥ (यथा, --
“त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिवृंहि-
णाम् ।
शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥”
इति चरके सूत्रस्थाने द्वाविंशेऽध्याये ॥)

प्रमीतः, त्रि, (प्र + मी ञ हिंसायाम् + क्तः ।)

मृतः । यज्ञार्थहतपशुः । इत्यमरः । २ । ८ । ११७ ॥

प्रमीला, स्त्री, (प्रमीलनमिति । प्र + मील संमी-

लने + “गुरोश्च हलः ।” ३ । ३ । १०३ । इत्यः ।
ततष्टाप् ।) तन्द्री । इत्यमरः । ३ । ३ । १७५ ॥

प्रमुखं, क्ली, (प्रकृष्टं मुखमारम्भः ।) तदात्वम् ।

तत्कालः । इति त्रिकाण्डशेषः ॥ (सम्मुखम् ।
यथा, भगवद्गीतायाम् । २ । ६ ।
“यानेव हत्वा न जिजीविषाम-
स्येऽवस्थिताः प्रमुखे धार्त्तराष्ट्राः ॥”)

प्रमुखः, पुं, (प्रकृष्टं मुखं अग्रभागो यस्य ।)

पुन्नागवृक्षः । इति शब्दचन्द्रिका ॥ समूहः ।
इति शब्दरत्नावली ॥

प्रमुखः, त्रि, (प्रकृष्टं मुखमाद्यं यस्य ।) प्रधा-

नम् । (यथा, कुमारसम्भवे । २ । ३८ ।
“ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्य्युपासते ॥”)
श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥ (यथा,
हितोपदेशे । ३ । १२४ ।
“बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः ॥”)
प्रथमः । इति मेदिनी । खे, १० ॥ (यथा,
महाभारते । २ । ६ । २ ।
“नारदप्रमुखास्तस्यामन्तर्व्वेद्यां महात्मनः ।
समासीनाः शुशुभिरे सह राजर्षिभिस्तथा ॥”)
मान्यः । इति शब्दरत्नावली ॥

प्रमुत्, [द्] त्रि, (प्रकृष्टामुत् प्रीतिर्यस्य ।) हृष्टः ।

इत्यमरः । ३ । १ । १०३ ॥ (प्रकृष्टा मुदिति
विग्रहे प्रकृष्टानन्दे, स्त्री । यथा, महाभारते ।
१४ । ७ । ६ ।
“श्रुत्वा तु पार्थिवस्यैतत् सम्बर्त्तः प्रमुदं गतः ॥”)

प्रमुदितः, त्रि, (प्र + मुद् + क्तः । “उदुपधा-

दिति ।” १ । २ । २१ । इति पक्षे कित् ।)
हृष्टः । इत्यमरः । ३ । १ । १०३ ॥ (यथा,
देवीभागवते । १ । १२ । ४७ ।
“वाञ्छत्यहो हरिरशोक इवातिकामं
पादाहतिं प्रमुदितः पुरुषः पुराणः ॥”)

प्रमेहः, पुं, (प्रकर्षेण मेहति क्षरति वीर्य्यादिरने-

नेति । प्र + मिह क्षरणे + करणे घञ् ।)
रोगविशेषः । तत्पर्य्यायः । मेहः २ मूत्रदोषः ३ ।
इति राजनिर्घण्टः ॥ बहुमूत्रता ४ । इति
हेमचन्द्रः । ३ । १३४ ॥ अस्य निदानम् ।
“आस्यासुखं खप्नसुखं दधीनि
ग्राम्यौदकानूपरसाः पयांसि ।
नवान्नपानं गुडवैकृतञ्च
प्रमेहहेतुः कफकृच्च सर्व्वम् ॥” * ॥
अस्य सम्प्राप्तिर्यथा, --
“मेदश्च मांसञ्च शरीरजञ्च
क्लेदं कफो वस्तिगतः प्रदूष्य ।
करोति मेहान् समुदीर्णमुष्णै-
स्तानेव पित्तं परिदूष्य चापि ॥” * ॥
वातिकस्य तस्य लक्षणम् ।
“क्षीणेषु दोषेष्ववकृष्य धातून्
सन्दूष्य मेहान् कुरुतेऽनिलश्च ॥” * ॥
तस्य कफजादिभेदेन साध्यादिलक्षणम् । यथा,
“साध्याः कफोत्था दश पित्तजाः षट्
याप्या न साध्याः पवनाच्चतुष्काः ।
समक्रियत्वाद्विषमक्रियत्वा-
न्महात्ययत्वाच्च यथाक्रमन्ते ॥
कफः सपित्तः पवनश्च दोषा
मेदोऽस्रशुक्राम्बुवसालसीकाः ।
पृष्ठ ३/२८६
मज्जा रसौजः पिशितञ्च दूष्याः
प्रमेहिणां विंशतिरेव मेहाः ॥” * ॥
तस्य पूर्ब्बरूपम् ।
“दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः ।
दाहश्चिक्कणता देहे तृट् स्वाद्बास्यञ्च जायते ॥
सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता ।
दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ।
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ॥” * ॥
क्रमेण कफजानां दशानां लक्षणानि ।
“अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ।
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् ॥
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ।
सान्द्री भवेत् पर्य्युषितं सान्द्रमेहेन मेहति ॥
सुरामेही सुरातुल्यमुपर्य्यच्छमधोघनम् ।
संहृष्टलोमा पिष्टेन पिष्टवद्बहुलं सितम् ॥
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ।
मूर्त्ताणून् सिकतामेही सिकतारूपिणो मलान् ॥
शीतमेही सुबहुशो मधुरं भृशशीतलम् ।
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति ॥
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥”
क्रमेण पित्तजानां षण्णां लक्षणानि ।
“गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् ॥
नीलमेहेन नीलाभं कालमेही मसीनिभम् ।
हारिद्रमेही कटुकं हरिद्रासन्निभं दहत् ॥
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् ।
विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः ॥” * ॥
क्रमेण वातजानां चतुर्णां लक्षणानि ।
“वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः ।
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥
कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः ।
हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्ज्जितम् ।
सलसीकं विबद्धञ्च हस्तिमेही प्रमेहति ॥” * ॥
कफजादिभेदेन तेषामुपद्रवाः ।
“अविपाकोऽरुचिच्छर्द्विर्निद्रानाशः सपीनसः ।
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ॥
वस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः ।
दाहस्तृष्णाम्लिका मूर्च्छा विड्भेदाः पित्तजन्म-
नाम् ॥
वातजानामुदावर्त्तः कम्पहृद्ग्रहलोलताः ।
शूलमुन्निद्रता शोषः कासः श्वासश्च जायते ॥”
अरिष्टलक्षणम् ।
“यथोक्तोपद्रवारिष्टमतिप्रस्रुतमेव च ।
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ॥
जातः प्रमेही मधुमेहिनो वा
न साध्यरोगः स हि बीजदोषात् ।
ये चापि केचित् कुलजा विकारा
भवन्ति तांश्च प्रवदन्त्यसाध्यान् ॥ * ॥
सर्व्व एव प्रमेहास्तु कालेनाप्रतिकारिणः ।
मधुमेहत्वमायान्ति तदासाध्या मवन्ति हि ॥
मधुमेहे मधुसमं जायते स किल द्विधा ।
क्रुद्धे धातुक्षयाद्बायौ दोषावृतपथेऽथवा ॥
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन् ।
क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-
साध्यताम् ॥
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ।
सर्व्वेऽपि मधुमेहाख्या माधुर्य्याच्च तनोरतः ॥ * ॥
प्रमेहिणो यदा मूत्रमनाविलमपिच्छलम् ।
विषदं तिक्तकटुकं तदारोग्यं प्रचक्षते ॥”
इति माघवकरः ॥
अस्य दशविधपिडकाः पिडकाशब्दे द्रष्टव्याः ॥
अथ प्रमेहस्य चिकित्सा ।
“श्यामाककोद्रवोद्दाला गोधूमचणकावटी ।
कुलत्थाः कथिता भोज्ये पुराणा मेहिनां हिताः ॥
यवान्नविकृतिर्मुद्राः शालयः षष्ठिकास्तथा ।
तथा तिक्तानि शाकानि जाङ्गलाः पक्षिणो
मृगाः ॥
उद्दालो वनकोद्रवः ॥ * ॥
प्रमेही गुडदुग्धान्यतैलतक्रसुराः सदा ।
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्ज्जयेत् ॥ * ॥
मुस्ताहरीतकीलोध्रः कट्फलेन कृतं सृतम् ।
पीतं मधुयुतं हन्ति प्रमेहं कफहेतुकम् ॥ * ॥
पटोलनिम्बामलकामृतानां
पिबेत् कषायं मधुना समेतम् ।
उशीरलोध्रार्ज्जुनचन्दनानां
तथा पिबेत् पित्तनिमित्तमेही ॥ * ॥
पाठाशिरीषदुःस्पर्शाजातितिन्दुककिंशुकैः ।
कपित्थस्य भिषक् क्वाथं हस्तिमेहे प्रयोजयेत् ॥
पाठादिभिः सहितस्य कपित्थस्य क्वाथम् ।
गुडूच्याः स्वरसः पेयो मधुना सर्व्वमेहजित् ।
हरिद्राचूर्णयुक्तो वा रसो धात्र्याः समाक्षिकः ॥
मधुना त्रैफलं चूर्णमथवाश्मजतूद्भवम् ।
लोहजं वाभयोत्थं वा लिह्यान्मेहनिवृत्तये ॥ * ॥
चन्द्रप्रभावचामुस्ताभूनिम्बसुरदारवः ।
हरिद्रातिविषा दार्व्वी पिप्पलीमूलचित्रकम् ॥
त्रिवृद्दन्ती पत्रकञ्च त्वगेला वंशलोचना ।
प्रत्येकं कर्षमात्राणि कुर्य्यादेतानि बुद्धिमान् ॥
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली ।
सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम् ॥
एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् ।
द्विकर्षहतलोहं स्याच्चतुष्कर्षा सिता भवेत् ॥
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः ।
विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा ॥
चन्द्रप्रभातिविख्याता सर्व्वरोगप्रणाशिनी ।
निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा ॥
चतस्रश्चाश्मरीस्तद्वन्मूत्राघातांस्त्रयोदश ।
अण्डवृद्धिं पाण्डुरोगं कामलाञ्च हलीमकम् ॥
कासं श्वासं तथा कुष्ठमग्निमान्द्यमरोचकम् ।
वातपित्तकफव्याधीन् बल्या वृष्या रसायनी ॥
समाराध्य शिवं तस्मात् प्रयत्नाद्गुटिकामिमाम् ।
प्राप्तवांश्चन्द्रमा यस्मात् तस्माच्चन्द्रप्रभा स्मृता ॥
चन्द्रप्रभाकचूर इति लोके । व्योषं त्रिकटु । द्वौ
क्षारौ सर्जिकायवक्षारौ । लवणत्रयम् । सैन्धवं
रुचकञ्चापि विडञ्च लवणत्रयमिति चन्द्र-
प्रभादिर्वटिका ॥ * ॥
प्रमेहपिडकानां प्राक् कार्य्यं रक्तविमोचनम् ।
पाटनञ्च विपक्वानां ततो व्रणविधिः स्मृतः ॥”
इति भावप्रकाशः ॥
(अस्य सकारणपूर्ब्बरूपसम्प्राप्तयस्तथोपद्रवश्च ।
यथा, --
“त्रिदोषकोपननिमित्ता विंशतिप्रमेहविकारा-
श्चापरेऽपरिसङ्ख्येयाः । तत्र यथा त्रिदोषप्रकोप-
प्रमेहानभिनिर्वर्त्तयति तथानुव्याख्यास्यामः ।
इह खलु निदानदोषदूष्यविशेषेभ्यो विकाराणां
विघातभावाभावप्रतिविशेषा भवन्ति । यदा
ह्येते त्रयो निदानादिविशेषाः परस्परं नानु-
वध्नन्त्ययथाप्रकर्षादबलीयांसो वानुबध्रन्ति न
तदा विकाराभिनिर्वृत्तिः । चिराद्वाप्यभिनिर्व-
र्त्तन्ते तनवो भवन्त्यथवाप्ययथोक्तसर्व्वलिङ्गा
विपर्य्ययेण विपरीता इति सर्व्वविकारविघात-
भावाभावप्रतिविशेषाभिनिर्वृर्त्तिहेतुरुक्तः ।
तत्र इमे निदानादि विशेषाः श्लेष्मनिमित्तानां
प्रमेहाणामाश्वमिनिवृत्तिकरास्तद्यथा हाय-
नकयवचीनकोद्दालकनैषधोत्कटमुकुन्दक महा-
व्रीहिप्रमोदकसुगन्धकानां नवानामतिवेलमति-
प्रमाणेनोपयोगः । तथा सर्पिष्मतां नवहरेणु-
माषसूपानां ग्राम्यानूपौदकानां मांसानां शाक-
तिलपललपिष्टान्नपायसकृशरविलेपीक्षुविका-
राणां क्षीरमन्दकदधिद्रवमधुरतरुणप्रायाणा-
मुपयोगो मृजाव्यायामवर्ज्जनस्वप्नशयनासन-
प्रसङ्गो यश्च कश्चिद्विधिरन्योऽपि श्लेष्ममेहो
मूत्रसञ्जननः सर्व्वः सनिदानविशेषः ।
बहुद्रवश्लेष्मा दोषविशेषः बहुबन्धं मेदः मांसञ्च
शरीरक्लेदः शुक्रं शोणितञ्च वसामज्जालसीका
रसश्चौजः सङ्ख्याता इति दूष्यविशेषाः ।
त्रयाणामेषां निदानादिविशेषाणां सन्निपाते
क्षिप्रं श्लेष्माप्रकोपमापद्यते प्रागतिभूयस्त्वात् ।
स प्रकुपितः क्षिप्रमेव शरीरे विसृप्तिं लभते ।
शरीरशैथिल्यात् स विसर्पं शरीरे मेदसैवा-
दितो मिश्रीभावं गच्छति । मेदसश्चैव बहु-
बन्धत्वान्मेदसश्च गुणानां गुणैः समानगुणभूयि-
ष्ठत्वात् स मेदसा मिश्रीभावं गच्छन् दूषयत्येत-
द्विकृतत्वात् स घिकृतो दुष्टेन मेदसोपहितः
शरीरक्लेदमांसाभ्यां संसर्गं गच्छति । क्लेद-
मांसयोरतिप्रमाणाभिवृद्धित्वात् स मांसे मांस-
प्रदोषात् पूतिमांसपिडकाः शराविका कच्छपि-
काद्याः सञ्जनयत्यप्रकृतिभूतत्वात् शरीरक्लेदं
पुनर्दूषयन् मूत्रत्वेन परिणमयति । मूत्रवहानां
स्रोतसां वङ्क्षणवस्तिप्रभवानां मेदःक्लेदोपहि-
तानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते । ततः
स्थैर्य्यं साध्यतां वा जनयति प्रकृतिविकृति-
भूतत्वात् ।
शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशये
मूत्रत्वमापद्यमानः श्लैष्मिकैरेभिर्दशभिर्गुणैरुप-
सृज्यते वैषम्यहानिवृद्धियुक्तैस्तद्यथा श्वेतशीत
मूर्त्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमर्द्दै-
स्तत्र येन गुणेनैकेनानेकेन वा भूयस्तरमुप-
पृष्ठ ३/२८७
सृज्यते । तत्समाख्यं गौणं नामविशेषं प्राप्नोति ।
ते तु खल्विमे दशप्रमेहा नाम विशेषेण
भवन्ति । तथा उदकमेहश्चेक्षुरालिकारसमेहश्च
सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्र-
मेहश्च शीतमेहश्च सिकतामेहश्च शनैर्मेहश्च
लालामेहश्चेति ।
ते दशप्रमेहाः साध्याः समानगुणमेदःस्थानत्वात्
कफस्य प्रधान्यात् समानक्रियत्वाच्च ।”
“उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेवि-
नस्तथातितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमा-
हारोपसेविनश्च तषात्मकशरीरस्यैव क्षिप्रं
पित्तं प्रकोपमापव्यते ।
तत् प्रकुपितं तत्रैवानुपूर्ब्ब्या प्रमेहानिमान् षट्
क्षिप्रमभिनिर्वर्त्तयति । तेषामपि च पित्तगुण-
विशेषेण नामविशेषाः । तद्यथा, -- क्षारप्रमेहश्च
कालमेहश्च नीलमेहश्च लोहितमेहश्च मज्जिष्ठा-
मेहश्च हारिब्रमेहश्चेति ते षड्भिरेव क्षाराम्ल-
लवणकटुकविम्रोष्णैः पित्तगुणैः पूर्ब्बवत् सम-
न्विताः । सर्व्व एव ते याप्याः संसृष्टदोषमेदः-
स्थानत्वात् विरुद्धोपक्रमत्वाच्चेति ।”
“कटुककषायतिक्तरुक्षलघुशीतव्यवायव्यायाम-
वमन-विरेचनास्थापन-शिरोविरेचनातियोग-
सन्धारणानशनाभिघातातपोद्वेगशोकशोणिता-
तिसेकजागरणविषमशरीरन्यासानुपसेवमानस्य
तथात्मकशरीरस्यैव क्षिप्रं वायुः प्रकोपमाप-
द्यते । स प्रकुपितस्तथात्मके शरीरे विसर्पन्
यदा वसामादाय मूत्रवहानि स्रोतांसि प्रति-
पद्यते तदा वसामेहमभिनिर्वर्त्तयति ॥ * ॥
यदा पुनर्मज्जानं मूत्रवस्तावाकर्षति तदा मज्ज-
मेहमभिनिर्वर्त्तयति ॥ * ॥ यदा लसीकां मूत्रा-
शयेऽभिवहन् मूत्रमनुबध्नंश्च्योतयति । लसी-
कातिबहुत्वाद्विक्षेपणाच्च वायोः खल्वस्याति-
मूत्रप्रवृत्तिसङ्गं करोति । तदा स मत्त इव
गजः क्षरत्यजस्रं मूत्रमवेगं तं हस्तिमेहिनमा-
चक्षते ॥ * ॥ ओजः पुनर्मधुरस्वभावं तद्रौ-
क्ष्वाद्वायुः कषायत्वेनाभिसंसृज्य मूत्राशयेऽभि-
वहति तदा मधुमेहं करोति ॥ * ॥
तानिमांश्चतुरः प्रमेहान् वातजानसाध्याना-
चक्षते । महात्ययिकत्वाद्विप्रतिषिद्धोपक्रमत्वात्
तेषामपि च पूर्ब्बवत् गुणविशेषेण नामविशेषाः ।
तद्यथा, -- वसामेहश्च मज्जमेहश्च हस्तिमेहश्च
मधुमेहश्चेति ।”
“त्रयस्तु दोषाः प्रकुपिताः प्रमेहानभिनिर्वर्त्तयि-
ष्यन्त इमानि पूर्ब्बरूपाणि दर्शयन्ति । तद्-
यथा, -- जटिलीभावं केशेषु माधुर्य्यमास्ये कर-
पादयोः सुप्ततां दाहः मुखतालुकण्ठशोषं
पिपासामालस्यं मलञ्च काये कायच्छिद्रेषूपदेहं
परिदाहं सुप्ततां चाङ्गेषु षट्पदपिपीलिकाभिः
शरीरमूत्राभिसरणं मूत्रे च मूत्रदोषान्वितं
शरीरगन्धं निद्रां तन्द्राञ्च सर्व्वकालमिति ।
उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वर-
दाहदौर्ब्बल्यारोचकाविपाकाः पूतिमांसपिडका
अलजीविद्रध्यादयश्च तत् प्रसङ्गाद्भवन्ति ।
तत्र साध्यान् प्रमेहान् संशोधनोपशमनैर्यथार्ह-
मुपपादयेच्चिकित्सेदिति ।” इति चरके निदान-
स्थाने चतुर्थेऽध्याये ॥)

प्रमोचनी, स्त्री, (प्रकर्षेण मुच्यतेऽनयेति । प्र +

मुच् + ल्युट् + ङीप् ।) गवाक्षी । गोडुम्बा ।
इति जटाधरः ॥ प्रकृष्टमोचनकर्त्तरि, त्रि ॥
(यथा, महाभारते । ३ । ८४ । ५० ।
“महाश्रमे वसेद्रात्रिं सर्व्वपापप्रमोचने ॥”)

प्रमोदः, पुं, (प्र + मुद् हर्षे + भावे घञ् ।) हर्षः ।

इत्यमरः । १ । ४ । २४ ॥ (यथा, देवीभाग
वते । ४ । २४ । ५५ ।
“उत्पाद्य पुत्त्रजननप्रभवं प्रमोदं
दत्त्वा पुनर्विरहजं किल दुःखभारम् ।
त्वं क्रीडसे सुललितैः स्वलु तैर्विहारै-
र्नोचेत् कथं मम सुताप्तिरतिर्वृथा स्यात् ॥”
आमोदः । स तु गन्धविशेषः । यथा, भाग-
वते । २ । ६ । २ ।
“अश्विनोरोषधीनाञ्च घ्राणो मोदप्रमोदयोः ॥”
“मोदप्रमोदयोः सामान्यविशेषगन्धयोः घ्राणे-
न्द्रियं परमायनम् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥ नागविशेषः । यथा, महाभारते ।
१ । ५७ । ११ ।
“विहङ्गः शरभो मेदः प्रमोदः संहतापनः ॥”
स्कन्दानुचरविशेषः । यथा, तत्रैव । ९ । ४५ । ६३ ।
आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥”)

प्रमोदितः, पुं, (प्र + मुद् हर्षे + क्तः । “उदुपधा-

दिति ।” १ । २ । २१ । इति किदभावः ।
प्रमोदोऽस्य जातः इति तारकादित्वात् इतच्
वा ।) कुवेरः । इति शब्दमाला ॥ प्रमोदयुत्रे,
त्रि ॥

प्रमोदिनी, स्त्री, (प्रमोदयतीति । प्र + मुद् +

णिच् + णिनिः । ङीप् ।) जिङ्गिनीवृक्षः । इति
भावप्रकाशः ॥ प्रकृष्टहर्षयुक्ता च ॥

प्रम्लोचा, स्त्री, (प्रम्लोचति तापसादीन् प्रति

गच्छतीति । प्र + म्लुच् गतौ + अच् । टाप् ।)
अप्सरोविशेषः । यथा, गारुडे ९० अध्याये ।
“तत्र तस्मान्नदीमध्यात् समुत्तस्थौ मनोरमा ।
प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥”

प्रयतः, त्रि, (प्र + यम् + क्तः । यद्वा, प्रयतते

धर्म्माद्यर्थमिति । प्र + यत् + अच् ।) पवित्रः ।
इत्यमरः । २ । ७ । ४५ ॥ (यथा, मनुः । २ ।
१८३ ।
“ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥”
नम्रः । इति रामायणटीकायां रामानुजः ॥
यथा, रामायणे । १ । २ । २४ ।
“वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥”
प्रयत्नविशिष्टे च ॥)

प्रयत्नः, पुं, (प्र + यत यत्ने + “यजयाचयतविच्छ-

प्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।)
प्रकृष्टयत्नः । (यथा, मनुः । ७ । ६८ ।
“बुद्ध्वा च सर्व्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥”)
न्यायमते स च त्रिविधः । यथा, --
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ।
एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥
चिकीर्षा कृतिसाध्येऽष्टसाधनत्वमतिस्तथा ।
उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥
निवृत्तिस्तु भवेद्द्वेधा द्विष्टसाधनताधियः ।
यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् ॥
शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥”
इति भाषापरिच्छेदः ॥
(तल्लक्षणं यथा, साहित्यदर्पणे ।
“प्रयत्नस्तु फलावाप्त्यै व्यापारोऽतित्वरान्वितः ॥”)

प्रयत्नवान्, [त्] त्रि, (प्रयत्नोऽस्त्यस्येति । प्रयत्न

+ मतुप् । मस्य वः ।) प्रकृष्टयत्नविशिष्टः ।
तत्पर्य्यायः । प्रतियत्नः २ । इति त्रिकाण्डशेषः ॥

प्रयस्तं, त्रि, (प्र + यस् प्रयत्ने + क्तः ।) घृतचतु-

र्ज्जातादिना द्रव्येण प्रयत्नसुसंस्कृतव्यञ्जनादि ।
इत्यमरः । २ । ९ । ४५ ॥

प्रयागः, पुं, (प्रकृष्टो यागो यत्र । यत्र यज्ञः प्रकर्षेण

भवतीत्यर्थः ।) तीर्थभेदः । (प्रकृष्टो यागः ।)
यज्ञः । (प्रकृष्टा यागाः यज्ञा यस्य यस्माद्बा ।)
इन्द्रः । अश्वः । इति मेदिनी । गे, ४१ ॥ * ॥
अथ प्रयागमाहात्म्यम् ।
“ततो गच्छेत धर्म्मज्ञ ! प्रयागमृषिसम्मतम् ।
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥
लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा ।
सनत्कुमारप्रमुखास्तथैव च महर्षयः ॥
तथा नागाः सुपर्णाश्च सिद्धाश्च क्रतवस्तथा ।
गन्धर्व्वाप्सरसश्चैव सरितः सागरास्तथा ॥
हरिश्च भगवानास्ते प्रजापतिभिरावृतः ।
तत्र त्रीण्यग्निकुण्डानि तयोर्मध्ये तु जाह्रवी ॥
प्रयागात् समतिक्रान्ता सर्व्वतीर्थपुरस्कृता ।
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥
यमुना गङ्गया सार्द्धं सङ्गता लोकभाविनी ।
गङ्गायमुनयोर्म्मध्ये पृथिव्या जघनं स्मृतम् ॥
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ।
प्रयागं सप्रतिष्ठानं कम्बलाश्वतराबुभौ ॥
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ! ।
तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तो महामते !
प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ।
यजन्ते क्रतुभिर्द्देवास्तथा चक्रधराः सदा ॥
ततः पुण्यतमं नास्ति त्रिषु लोकेषु सूतज ! ।
प्रयागं सर्व्वतीर्थेभ्यः प्रवदन्त्यधिकं द्विजाः ॥
श्रवणात् तस्य तीर्थस्य नामसङ्कीर्त्तनादपि ।
मृत्तिकालभनाद्वापि सर्व्वपापैः प्रमुच्यते ॥
तत्राभिषेकं यः कुर्य्यात् सङ्गमे संशितव्रतः ।
पुण्यं स महदाप्नोति राजसूयाश्वमेधयोः ॥
एषा यजनभूमिर्हि देवानामपि सतकृता ।
दत्तं तत्र स्वल्पमपि महद्भवति सूतज ! ॥
न वेदवचनात्तात ! न लोकवचनादपि ।
मतिरुत्क्रमणं याति प्रयागमरणं प्रति ॥
पृष्ठ ३/२८८
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।
तेषां सान्निध्यमत्रैव कीर्त्तितं सूतनन्दन ! ॥
यत् पुण्यं त्रिषु लोकेषु वेदविद्यासु यत् फलम् ।
स्नातमात्रस्य तत् पुण्यं गङ्गायमुनसङ्गमे ॥”
इति पाद्मे भूमिखण्डे १२७ अध्यायः ॥ * ॥
अपि च ।
“पुत्त्रकामः प्रयागे हि स्रायात् पुण्ये सितासिते ॥
धनकामः पुरा शक्रः स्नातो ह्यत्र द्बिजोत्तम ! ॥
धनदस्य निधीन् सर्व्वान् तस्माज्जहार मायया ।
नारायणो नरेणैव वर्षाणामयुतं पुरा ॥
अनाहारः प्रयागेऽस्मिन् कृतवान् पुण्यमुत्तमम् ।
सिद्धिञ्च साधका यान्ति प्रयागेऽस्मिन् द्विजो-
त्तम ! ॥”
इति पाद्मोत्तरखण्डे २३ अध्यायः ॥ * ॥
अपि त्त ।
युधिष्ठिर उवाच ।
“भगवन् ! श्रोतुमिच्छामि प्रयागगमनं फलम् ।
मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥
ये वसन्ति प्रयागे तु ब्रूहि तेषान्तु किं फलम् ।
भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ॥
मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स ! या चेष्टा यच्च तत्
फलम् ।
पृष्ट्वा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥
यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।
यत्र ब्रह्मादयो देवा रक्षां कुर्व्वन्ति सङ्गताः ॥
बहून्यन्यानि तीर्थानि सर्व्वपापहराणि च ।
कथितुं नेह शक्नोमि बहुवर्षशतैरपि ॥
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्त्तनम् ।
षष्टिर्धन्विसहस्राणि यक्षा रक्षन्ति जाह्नवीम् ॥
यमुनां रक्षति सदा सविता सप्तिवाहनः ।
प्रयागन्तु विशेषेण स्वयं रक्षति वासवः ॥
मण्डलं रक्षति हरिः सर्व्वदेवैश्च सम्मितम् ।
न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः ॥
स्थानं रक्षन्ति वै देवाः सर्व्वे पापहरं शुभम् ।
स्वकर्म्मणावृता लोका नैव गच्छन्ति तत्पदम् ॥
स्वल्पमल्पतरं पापं यदा तस्य नराधिप ! ।
प्रयागं स्मरमाणस्य सर्व्वमायाति संक्षयम् ॥
दर्शनात्तस्य तीर्थस्य नामसंकीर्त्तनादपि ।
मृत्तिकालभनाद्वापि नरः पापात् प्रमुच्यते ॥
पञ्चकुण्डानि राजेन्द्र ! येषां मध्ये तु जाह्नवी ।
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ॥
योजनानां सहस्रेषु गङ्गां यः स्मरते नरः ।
अपि दुष्कृतकर्म्मासौ लभते परमां गतिम् ॥
कीर्त्तनाम्मुच्यते पापात् दृष्ट्वा भद्राणि पश्यति ॥
व्याधितो यदि वा हीनः क्रुद्धो वापि भवेन्नरः ।
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ॥
दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः ।
ईप्सितान् लभते कामान् वदन्ति मुनिपुङ्गवाः ॥
सर्व्वरत्नमयैर्द्दिव्यैर्नानाध्वजसमाकुलैः ।
वराङ्गनासमाकीर्णैर्मोदन्ते शुभलक्षणैः ॥
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।
यावन्न स्मरते जन्म तावत् स्वर्गे महीयते ॥
तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्म्मा नरोत्तमः ।
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ।
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥
प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ।
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥
सर्व्वकामफला वृक्षा मही यत्र हिरण्मयी ।
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥
स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे ।
मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्म्मणा ॥
सिद्धचारणगन्धर्व्वैः पूज्यते दिवि दैवतैः ।
अथ स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥
अतः शुभानि कर्म्माणि चिन्त्यमानः पुनः पुनः ।
गुणवान् वित्तसम्पन्नो भवतीह न संशयः ॥
कर्म्मणा मनसा वाचा सत्यधर्म्मप्रतिष्ठितः ॥
गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रयच्छति ।
सुवर्णमणिमुक्तां वा तथैवान्यत् प्रतिग्रहम् ॥
स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा ।
निष्फलं तस्य तत्तीर्थं यावत् तद्धनमश्नुते ॥
अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥
कपिलां पाटलाभान्तु यस्तु घेनुं प्रयच्छति ।
यावद्रोमाणि तस्या वै सन्ति गात्रेषु सत्तम ! ।
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥”
इति कौर्म्मे प्रयागमाहात्म्ये ३३ अध्यायः ॥ * ॥
तत्र मुण्डनविधिर्यथा, --
“गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते ।
आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥”
इति स्मृतिसमुच्चयलिखितवचनं प्रयागावच्छिन्न-
गङ्गायां विधायकम् । भास्करक्षेत्रं प्रयागः ।
अपि च । प्रयागमधिकृत्य ।
“केशानां यावती संख्या छिन्नानां जाह्रवीजले ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥”
प्रयागे स्त्रीणामपि मुण्डनं न तु केशानां द्व्यङ्गुल-
च्छेदनमात्रम् । यथा, --
“केशमूलमुपाश्रित्य सर्व्वपापानि देहिनाम् ।
तिष्ठन्ति तीर्थस्नानेन तस्मात्तान्यत्र वापयेत् ॥”
प्रयागे मुण्डनाकरणे दोषोऽपि ।
“गङ्गायां भास्करक्षेत्रे मुण्डनं यो न कारयेत् ।
स कोटिकुलसंयुक्त आकल्पं रौरवे वसेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

प्रयागभयः, पुं, (प्रयागात् प्रकृष्टयागकारिजनात्

विभेति स्वपदपरिग्रहशङ्कयेति । भी + अच् ।)
इन्द्रः । इति शब्दरत्नमाला ॥

प्रयाणं, क्ली, (प्र + या + ल्युट् । णत्वम् ।) गमनम् ।

इति हलायुघः । २ । २९७ ॥ यथा, --
“उद्धाटितनवद्वारे पञ्जरे विहगोऽनिलः ।
यत्तिष्ठति तदाश्चर्य्यं प्रयाणे विस्मयः कुतः ॥”
इत्युद्भटः ॥
तत्पर्य्यायः । प्रस्थानम् २ गमनम् ३ व्रज्या ४
अभिनिर्याणम् ५ प्रयाणकम् ६ । इति हेम-
चन्द्रः । ३ । ४५३ ॥ अत्र राज्ञां युद्धादिप्रयाणे
वर्णनीयानि यथा । भेरीनिस्वनः १ भूकम्पः २
बलधूलिः ३ करभः ४ वृषः ५ ध्वजः ६ छत्रम्
७ बणिक् ८ शकटम् ९ रथः १० । इति कवि-
कल्पलता ॥

प्रयातः, पुं, (प्रकर्षेण यातः । प्र + या + कर्त्तरि

क्तः ।) सौप्तिकः । भृगुः । इति हेमचन्द्रः ॥
गते, त्रि ॥ (क्ली, भावे क्तः । गमनम् । प्रस्था-
नम् । यथा, छन्दोमञ्जर्य्याम्
“मया क्लेशितः कालियेत्थं कुरु त्वं
भुजङ्ग ! प्रयातं द्रुतं सागराय ॥”)

प्रयामः, पुं, (प्र + यम् + घञ् ।) नीवाकः । इत्य-

मरः । ३ । २ । २३ ॥ महार्घ्यहेतोर्धान्यादिषु
जनानामादरातिशये तुलाधरणाधिक्यम् । इति
केचित् । क्रयादरः । इति केचित् । मूल्याधिक्य-
हेतोर्निश्चयेन परिच्छेदनम् । इति केचित् ।
इति भरतः ॥

प्रयासः, पुं, (प्र + यस प्रयत्ने + भावे घञ् ।)

प्रयत्नः । तत्पर्य्यायः । श्रमः २ क्लमः ३ क्लेशः ४
परिश्रमः ५ आयासः ६ व्यायामः ७ । इति
हेमचन्द्रः । २ । २३४ ॥ (यथा, हठयोगप्रदीपि-
कायाम । १ । १५ ।
“अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसङ्गश्च लौल्यञ्च षड्भिर्योगो विनश्यति ॥”)

प्रयुक्तं, त्रि, (प्र + युज् + क्तः ।) प्रकर्षेण युक्तम् ।

यथा, --
“गुणप्रयुक्ताः परमर्म्मभेदिनः
शरा इवावंशभवा भवन्ति हि ।
तथाविधा ये तु विशुद्धवंशजा
व्रजन्ति चापा इव तेऽतिनम्रताम् ॥”
इत्युद्भटः ॥
प्रकृष्टस्रमाधियुक्तम् । प्रकृष्टसंयोगविशिष्टम् ।
प्रकृष्टनिन्दायुक्तम् । प्रकृष्टसंयमविशिष्टम् ।
प्रपूर्ब्बयुगधात्वर्थदर्शनात् । हेतौ क्ली । यथा । न
च समवायिनिमित्ताभावप्रयुक्तो नियमेन
कार्य्याभावः किन्त्वसमवायिकारणाभावप्रयुक्तो-
ऽपि । इति रक्षितः ॥

प्रयुक्तिः, स्त्री, प्रयोजनम् । प्रपूर्ब्बयुजघातोर्भावे

क्तिः (क्तिन्) । यथा, --
“तरुण्यो वृषली भार्य्या प्रवीरं पुत्त्रकान्यति ।
ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः ॥”
इति प्राञ्चः ॥
(प्रयोगः । यथा, ऋग्वेदे । १ । १५१ । ८ ।
“युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना
मनसो न प्रयुक्तिषु ॥”
“प्रयुक्तिषु प्रयोगेषु ।” इति तद्भाष्ये सायनः ॥)

प्रयुतं, क्ली, (प्रकर्षेण युतम् ।) नियतम् । इति

हेमचन्द्रः । ३ । ५३७ ॥ (दशलक्षसंख्या । “एक-
दशशतसहस्रायुत लक्षप्रयुतकोटयः क्रमशः ।”
इति लीलावती ॥ यथा च महाभारते । १ ।
३५ । १९ ।
“बहूनीह सहस्राणि प्रयुतान्यर्व्वुदानि च ।
अशक्यान्येव संख्यातुं पन्नगानां तपोधन ! ॥”)
पृष्ठ ३/२८९

प्रयुद्धार्थः, पुं, (प्रयुद्धः अर्थो यस्य सः ।) प्रत्युत्-

क्रमः । इति प्रयोगार्थशब्दटीकायां रमानाथः ।
३ । २ । २६ ॥

प्रयोक्ता, [ऋ] पुं, (प्रयुनक्तीति । प्र + युज् +

तृच् ।) उत्तमर्णः । यथा, --
“उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ॥”
इत्यमरः । २ । ९ । ५ ॥
त्रि, प्रयोगकर्त्ता । (यथा, रघुः । ५ । ५७ ।
“संमोहनं नाम सखे ! ममास्त्रं
प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्व्वमादत्स्व यतः प्रयोक्तु-
र्नचारिहिंसा विजयश्च हस्ते ॥”
अनुष्ठाता । यथा, रघुः । ६ । ७६ ।
“पुत्त्रो रघुस्तस्य पदं प्रशास्ति
महाक्रतोर्विश्वजितः प्रयोक्ता ॥”
नियोगकर्त्ता । यथा, महाभारते । १३ ।
२३ । ६२ ।
“परदाराभिहर्त्तारः परदाराभिमर्षिणः ।
परदारप्रयोक्तारस्ते वै निरयगामिनः ॥”
नाट्याचार्य्यः । यथा, रघुः । १९ । ३६ ।
“स प्रयोगनिपुणः प्रयोक्तृभिः
सञ्जघर्ष सह मित्रसन्निधौ ॥”)

प्रयोगः, पुं, (प्र + युज् + भावकर्म्मादौ यथायथं

घञ् ।) कार्म्मणम् । वशीकरणम् । प्रयुक्तिः ।
(यथा, रघुः । २ । ४२ ।
“प्रत्यब्रवीच्चैनमिषुप्रयोगे
तत्पूर्ब्बभङ्गे वितथप्रयत्नः ॥”)
निदर्शनम् । इति मेदिनी । गे, ४४ ॥ (यथा,
पञ्चदश्याम् । ६ । ४३ ।
“स्वयमात्मेति पर्य्यायस्तेन लोके तयोः सह ।
प्रयोगो नास्त्यतः स्वत्वमात्मत्वञ्चान्यवारकम् ॥”)
घोटकः । इति शब्दमाला ॥ (सामाद्युपा-
यानुष्ठानम् । यथा, माघे । ११ । ६ ।
“क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा-
नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ॥”
अभिनयः । यथा, रघुः । १९ । ३६ ।
“स प्रयोगनिपुणः प्रयोक्तृभिः
सञ्जषर्ष सह मित्रसन्निधौ ॥”
वृद्ध्यै ऋणदानम् । स तु धनप्राप्त्युपायेषु अन्य-
तमः । यथा, मनुः । १० । ११५ ।
“सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)

प्रयोगार्थः, पुं, (प्रयोगः अर्थः प्रयोजनं यस्य ।)

प्रधानप्रयोगानुकूलं प्रयोजनानुष्ठानम् । तत्-
पर्य्यायः । प्रत्युत्क्रमः २ । इत्यमरः । ३ । २ । २६ ॥

प्रयोगी, [न्] त्रि, (प्रयोगोऽस्त्यस्येति । प्रयोग +

“अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
प्रयोगयुक्तः । (यथा, अमरे । २ । ७ । २० ।
“समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥”)

प्रयोजकः, त्रि, (प्रयुनक्ति प्रेरयति कार्य्यादौ

भृत्यादीनिति । प्र + युज् + ण्युल् ।) प्रयोग-
कर्त्ता । नियोगकर्त्ता । स्वतन्त्रतत्प्रयोजकौ कर्त्ता ।
इति सुपद्मव्याकरणम् ॥ (यथा, राजतर-
ङ्गिण्याम् । ६ । ११९ ।
“यान् द्रोहभीरून् सम्भाव्य संविभेजे यशस्करः ।
तस्य तत्तनयोच्छेदे त एवासन् प्रयोजकाः ॥”
नियन्ता । यथा, याज्ञवल्क्ये । १ । ५ । ०
“शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”)

प्रयोजनं, क्ली, (प्रयुज्यते इति । प्र + युज् + ल्युट् ।)

कार्य्यम् । (प्रयुज्यतेऽनेनेति । प्र + युज् + करणे
ल्युट् ।) हेतुः । इति मेदिनी । ने, १९३ ॥ यथा,
“सर्व्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् ।
यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते ॥
सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते ।
ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥”
इति प्राञ्चः ॥
(“प्रयोजनञ्च द्विविधं मुख्यं गौणञ्च । तत्र
अन्ये च्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् ।
अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम् ।
तत्राद्यं सुखं तद्भोगो दुःखाभावश्च द्बितीयं
तदुपकारि शयनभोजनादि । तस्य मुख्यप्रयो-
जनेच्छयैव जन्याया इच्छाया विषयत्वात्तथा-
त्वम् ।” इति मुक्तिवादे गदाधरः ॥ उद्देशः । यथा,
“अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्त
आरम्भाः । यथा यद्यकालमृत्युरस्ति ततोऽह-
मात्मानमायुष्यैरुपचरिष्याम्यनायुष्यैः परिहरि-
ष्यामि कथं न मामकालमृत्युः प्रसहेतेति !”
इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

प्रयोज्यः, त्रि, (प्र + युज् + ण्यत् । “प्रयोज्य-

नियोज्यौ शक्यार्थे ।” ७ । ३ । ६८ । इति निपा-
तनात् साधुः ।) प्रयोक्तुं शक्यः । इति मुग्ध-
बोधव्याकरणम् ॥ (यथा, मनुः । ३ । १५९ ।
“वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म-
मिच्छता ॥”)
मूलधने, क्ली ॥

प्ररूढः, पुं, (प्ररोहत्यत्रेति । प्र + रुह + क्तः ।)

जठरम् । इति मेदिनी । ढे, ८ ॥ (क्वचित् जर-
ठोऽपि पाठः ॥)

प्ररूढः, त्रि, (प्र + रुह् + क्तः ।) बद्धमूलः ।

इति मेदिनी । ढे, ८ ॥ (यथा, भागवते । ४ ।
१३ । १ ।
“प्ररूढभावो भगवत्यधोक्षजे
प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥”)
जातः । (यथा, रघुः । १३ । ६ ।
“नाभिप्ररूढाम्बुरुहासनेन
संस्तूयमानः प्रथमेन धात्रा ॥”)
प्रवृद्धः । इति शब्दरत्नावली ॥

प्ररोहः, पुं, (प्ररोहतीति । प्र + रुह् + अच् ।)

अङ्कुरः । इति हेमचन्द्रः । ४ । १८५ ॥ (यथा,
कुमारे । ५ । ६० ।
“द्रुमेषु सख्या कृतजन्मसु स्वयं
फलं तपःसाक्षिषु दृष्टमेष्वपि ।
न च प्ररोहाभिमुखोऽपि दृश्यते
मनोरथोऽस्याः शशिमौलिसंश्रयः ॥”
नन्दीवृक्षः । तत्पर्य्यायो यथा, --
“नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः ।
स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

प्रलपितः, त्रि, प्रपूर्व्वलपधातोः कर्म्मणि क्तः ।

कथितः । यथा, काव्यप्रकाशे ।
“जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ॥”

प्रलम्बः, पुं, (प्रलम्बते इति । प्र + लम्ब + अच् ।

अतिदीर्घत्वादेव तथात्वम् ।) दैत्यभेदः । स च
दनुपुत्त्रः मनुष्यवध्यः । यथा, --
“एकाक्ष ऋषभोऽरिष्टः प्रलम्बनरकौ तथा ।
इन्द्रवाधनकेशी च पुरः शङ्खोऽथ धेनुकः ॥
गवेष्टिको गवाक्षश्च तालकेतुश्च वीर्य्यवान् ।
एते मनुष्यवध्यास्तु दनोः पुत्त्रान्वयाः स्मृताः ॥”
इत्यग्निपुराणम् ॥
(अयं हि बलदेवेन निहतः । यथा, भागवते ।
१० स्कन्धे १८ । अध्याये ।
“तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-
वित् ।
हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥
तत्र चक्रुः परिवृढौ गोपा रामजनार्द्दनौ ।
कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे ॥
आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः ।
यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥”
“उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।
वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥
अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः ।
वहन् द्रुततरं प्रागादवरोहणतः परम् ॥”
“अथागतस्मृतिरभयो रिपुं बलो
विहायसार्थमिव हरन्तमात्मनः ।
रुषाहनच्छिरसि दृढेन मुष्टिना
सुराधिपो गिरिमिव वज्ररंहसा ॥
स आहतः सपदि विशीर्णमस्तको
मुखाद्वमन् रुधिरमपस्मृतोऽसुरः ।
महारवं व्यसुरपतत् समीरयन्
गिरिर्यथा मघवत आयुधाहतः ॥”)
त्रपुषः । पयोधरः । लताङ्कुरः । शाखा । हार-
भेदः । (भावे घञ् ।) प्रलम्बनम् । इति मेदिनी । बे,
१३ ॥ (देशविशेषः । यथा, रामायणे । २ । ६८ । १२ ।
“न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति ।
निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम् ॥”
लम्बमाने, त्रि । यथा, महाभारते । १ । १९५ । १० ।
“गूढोत्तरांसान् भुजगेन्द्रभोग-
प्रलम्बबाहून् पुरुषप्रवीरान् ॥”)

प्रलम्बध्नः, पुं, (प्रलम्बं हन्तीति । हन् + कः ।)

बलरामः । इत्यमरः । १ । १ । २४ ॥

प्रलम्बभित्, पुं, (प्रलम्बं भिनत्तीति । भिद् + क्विप् ।)

बलरामः । इति हेमचन्द्रः । २ । १३८ ॥

प्रलम्बाण्डः, पुं, (प्रलम्बो लम्बमानः अण्डो यस्य ।)

दीर्घाण्डकोषविशिष्टः । तत्पर्य्यायः । पुष्करः २ ।
इति हेमचन्द्रः । ३ । १२१ ॥
पृष्ठ ३/२९०

प्रलम्बितः, त्रि, प्रपूर्ब्बलम्बधातोः कर्त्तरि क्तः ॥

प्रकर्षेण लम्बितमाल्यादिः ॥

प्रलयः, पुं, (प्रलीयते क्षीयते जगदस्मिन्निति । प्र +

ली + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।)
प्रक्षयः । तत्पर्य्यायः । संवर्त्तः २ कल्पः ३
क्षयः ४ कल्पान्तः ५ । इत्यमरः । १ । ४ । २२ ॥
लयः ६ संक्षयः ७ विलयः ८ । इति शब्दरत्ना-
वली ॥ प्रतिसर्गः ९ प्रतिसञ्चरः १० । स च
नित्यनैमित्तिकप्राकृतात्यन्तिकभेदेन चतुर्धा ।
यथा, --
कूर्म्म उवाच ।
“नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा ।
चतुर्धायं पुराणेऽस्मिन् प्रोच्यते प्रतिसञ्चरः ॥” *
नित्यो यथा, --
“योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह ।
नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः ॥”
नैमित्तिको यथा, --
“ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवि-
ष्यति ।
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥”
प्राकृतो यथा, --
“महदाद्यं विशेषान्तं यदा संयाति संक्षयम् ।
प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥”
आत्यन्तिको यथा, --
“ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥
आत्यन्तिकश्च कथितः प्रलयो लयसाधनः ॥” * ॥
नैमित्तिकप्रलयविस्तारो यथा, --
“नैमित्तिकमिदानीं वः कीर्त्तयिष्ये समासतः ॥
चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसञ्चरे ।
आत्मसंस्थाः प्रजाः कर्त्तुं प्रतिपेदे प्रजापतिः ॥
ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घोरा सर्व्वभूतभयङ्करी ॥
ततो यान्यल्पसाराणि शस्यानि पृथिवीतले ।
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥
सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।
असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥
ततस्ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।
तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि ॥
तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्द्दिशम् ।
चतुर्लोकमिदं कृत्स्रं दहन्ति शिखिनो यथा ॥
व्याप्नुवन्तश्च ते विप्रास्तूर्द्धञ्चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त दहन्तोऽग्निप्रतापिनः ॥
ते सूर्य्या वारिणा दीप्तो बहुसाहस्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्द्दहन्तो वसुन्धराम् ॥
ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ।
साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यत ॥
दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः ।
अघश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः ॥
सूर्य्याग्निना प्रसृष्टानां संहृष्टानां परस्परम् ।
एकत्वमुपजातानामेकज्वालो भवेत् प्रभुः ॥
सर्व्वलोकप्रणाशश्च सोऽग्निर्भूत्वात्मकुण्डली ।
चतुर्लोकमिदं कृत्स्नं निर्द्दहत्यात्मतेजसा ॥
ततः प्रलीने सर्व्वस्मिन् जङ्गमे स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्म्मपृष्ठे प्रकाशते ॥
अम्बरीशमिवाभाति सर्व्वमापूरितं जगत् ।
सर्व्वमेव तदार्च्चिर्भिः पूर्णं जाज्वल्यते नभः ॥
पाताले यानि तीर्थानि महोदधिगतानि तु ।
तत्र तानि प्रलीयन्ते भूमित्वमुपयान्ति वै ॥
द्बीपांश्च पर्व्वतांश्चैव वर्षाण्यथ महोदधीन् ।
तान् सर्व्वान् भस्मसात् कृत्वा सप्तात्मा पावकः
प्रभुः ॥
समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्व्वशः ।
पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितोऽज्वलत् ॥
ततः सम्बर्त्तकः शैलानतिक्रम्य महांस्तथा ।
लोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः ॥
स दग्ध्वा पृथिवीन्देवो रसातलमशोषयत् ।
अधस्तात् पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति ॥
योजनानां शतानीह सहस्राण्ययुतानि च ।
उत्तिष्ठन्ति शिखास्तस्य वायुः सम्बकर्त्तस्य च ॥
गन्धर्व्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।
तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥
भूर्लोकञ्च भुवर्लोकं स्वर्लोकञ्च तथा महः ।
दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम् ॥
व्युष्टेषु तेषु लोकेषु तिर्य्यगूर्द्धमथाग्निना ।
तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ॥
आयोगृहनिभं सर्व्वं तदेवैकं प्रकाशते ।
ततो गजकुलोन्नादाः स्तनितैः समलङ्कृताः ॥
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।
केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ॥
धूम्रवर्णास्तथा केचित् तथा पीताः पयोधराः ।
केचिद्रक्ताभ्रवर्णाश्च स्थूलाः क्षारनिभास्तथा ॥
शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे ।
मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे ॥
केचिद्रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः ।
तथा कर्व्वूरवर्णाभा भिन्नाञ्जननिभास्तथा ॥
इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
काकाण्डकनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥
केचित् पर्व्वतसङ्काशाः केचिद्गजकुलोपमाः ।
कूटागारनिभाश्चान्ये केचिन्मीनकुलोद्बहाः ॥
बहुरूपा घोररूपा घोरस्वरनिनादिनः ।
तदा जलधराः सर्व्वे पूरयन्ति नभस्तलम् ॥
ततस्ते जलदा घोरा वारिणा भास्करात्मजाः ।
सप्तघा संवृतात्मानस्तमग्निं शमयन्त्युत ॥
ततस्ते जलदा वर्षं वर्षन्तीह हिमौघवत् ।
सुघोरमशिवं सर्व्वं नाशयन्ति च पावकम् ॥
प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल ।
अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः ॥
नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः ।
प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥
धाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा ।
उद्यन्तः सलिलौघैश्च वेला इव महोदधे ॥
साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यते शनैः ॥
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।
पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः ॥
ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।
पर्व्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
योगनिद्रां समास्थाय शेते देवः प्रजापतिः ॥
चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।
वराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ॥
असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ।
कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥
सात्विकेष्वथ कल्पेषु माहात्म्यमखिलं हरेः ।
तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः ।
सोऽयं प्रवर्त्तते कल्पो वाराहः सात्विको मतः ।
अन्ये च सात्विकाः कल्पा मम तेषु परिग्रहः ।
ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ॥
आराध्य गिरिशं यत्नात् याति तत्परमं पदम् ।
सोऽहं स त्वं समाधाय मायी मायामयं स्वयम् ॥
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजानि तु ।
मां पश्यन्ति महात्मानः सुप्तं काले महर्षयः ।
जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।
अहं पुराणपुरुषो भूर्भुवःप्रभवो विदुः ॥
सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात् ।
मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम् ॥
प्रोक्षणी च स्रुवश्चैव सोमो घृतमयोऽस्म्यहम् ।
संवर्त्तको महानात्मा पवित्रं परमं यशः ॥
वेदवेद्यः प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।
अनन्तस्तारको योगी गतिर्मतिमतां वरः ॥
हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।
क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ॥
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ॥
आदित्यवर्णो भुवनस्य गोप्ता
नारायणः पूरुषो योगमूर्त्तिः ।
मां पश्यन्ति यतयो योगनिष्ठा
ज्ञात्वात्मानममृतत्वं व्रजन्ति ॥” * ॥
प्राकृतप्रलयविस्तारो यथा, --
कूर्म्म उवाच ।
“अतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।
प्राकृतं प्रसमासेन शृणुध्वं गदतो मम ॥
गते परार्द्धद्वितये काले लोकप्रकालकः ।
कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलं
मतिम् ॥
आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥
तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं लोकमाश्रितः ॥
प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः ।
निर्द्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥
स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकः ॥
दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा ।
एका सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः ॥
शिरःकपालैर्देवानां कृतस्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥
पृष्ठ ३/२९१
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।
सहस्रहस्तचरणः सहस्रार्च्चिर्महाभुजः ॥
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः ॥
पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् ।
करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गला ।
योगमास्थाय देवस्य देहमायाति शूलिनः ॥
स त्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
याति स्वभावं भगवान् दग्धा ब्रह्माण्डमण्डलम् ॥
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु ।
गुणैरनेकैः पृथिवी विलयं याति वारिषु ।
स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ॥
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ।
आकाशे सगुणो वायुः प्रलयं याति सत्तमाः ॥
भूतादौ च तथाकाशं लीयते गुणसंयुतम् ।
इन्द्रियाणि च सर्व्वाणि तैजसे यान्ति संक्षयम् ॥
वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः ।
वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः ॥
त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत् ।
महान्तमेभिः सहितं ब्रह्माणममृतौजसम् ॥
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।
एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ॥
नियोजयत्यथान्योन्यं प्रधानं पुरुषं परम् ।
प्रधानपुंसोरजयोरेष संहार ईरितः ॥
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।
गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ॥
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ॥
गीयते मुनिभिः साक्षी महानेकः पितामहः ।
एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ॥
प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः ।
योगिनामथ सर्व्वेषां ज्ञानविन्यस्तचेतसाम् ।
आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः ॥”
इति कौर्म्मे । ४२ । ४३ । अध्यायौ ॥ * ॥
आत्यन्तिकप्रलयविस्तारो यथा, --
श्रीपराशर उवाच ।
“आध्यात्मिकादि मैत्रेय ! ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥
आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥
कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्य्यादिभवस्तथा ॥
मानसोऽपि द्विज्रश्रेष्ठ ! तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठ ! कथ्यते चाधिदैविकः ॥
तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ।
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥
तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः ।
तत्प्राप्तिहेतुज्ञानञ्च कर्म्म चोक्तं महामुने ! ॥
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥
अन्धन्तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।
यथा सूर्य्यस्तथा ज्ञानं यद्विप्रषे विवेकजम् ॥
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! ।
तदेतच्छ्रूयतामत्र सम्बन्धे गदतो मम ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥
द्वे विद्ये वेदितव्ये वै इति वाथर्व्वणी श्रुतिः ।
परया त्वक्षरप्राप्तिरृग्वेदादिमया परा ॥
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।
अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥
विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् ।
व्याप्यव्याप्यं यतः सर्व्वं तं वै पश्यन्ति सूरयः ॥
तद्ब्रह्म तत् परं धाम तद्ध्येयं मोक्षकाङ्क्षि-
णाम् ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ॥
एवं निगदितार्थस्य सतत्त्वं तस्य तत्त्वतः ।
ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥
अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज ! ।
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ।
मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥
सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि ।
भूतेषु च स सर्व्वात्मा वासुदेवस्ततः स्मृतः ॥
खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।
नामव्याख्यायनन्तस्य वासुदेवस्य तत्त्बतः ॥
भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥
स सर्व्वभूतप्रकृतिर्विकार-
गुणांश्च दोषांश्च मुने ! व्यतीतः ।
अतीतसर्व्वावरणाखिलात्मा
तेनास्तृतं यद्भुवनान्तराणि ॥
समस्तकल्याणगुणात्मको हि
स्वशक्तिलेशावृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः
संसाधिताशेषजगद्धितोऽसौ ॥
तेजोबलैश्वर्य्यमहान्वितश्च
स्ववीर्य्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र
क्लेशादयः सन्ति परावरेशे ॥
स ईश्वरो व्यष्टिसमष्टिरूपो-
ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्व्वेश्वरः सर्व्वदृक् सर्व्ववेत्ता
समस्तशक्तिः परमेश्वराख्यः ॥
स ज्ञायते येन तदस्तदोषं
शुद्धं परं निर्म्मलमेकरूपम् ।
संदृश्यते चाप्यवगम्यते वा
तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥”
इति विष्णुपुराणे ६ अंशे आत्यन्तिकप्रति-
सञ्चारो नाम ५ अध्यायः ॥ * ॥ अपि च ।
नारद उवाच ।
“कृतं त्रेता द्बापरश्च कलिश्चेति चतुर्युगम् ।
दिव्यमेकयुगं ज्ञेयं तस्य या वैकसप्ततिः ॥
मन्वन्तरन्तु तज्ज्ञेयं ते तु यत्र चतुर्द्दश ।
स कल्पो नाम वै कालस्तदन्ते प्रलयस्तु यः ॥
सा ब्रह्मरात्री राजेन्द्र ! यत्र शेतेऽम्बुजासनः ।
त्रयो लोकास्तदा राजन् ! लीयन्ते तन्निमित्ततः ॥
नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते ॥
एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम् ।
आयुः पूर्ब्बपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते ॥
द्विपरार्द्धे व्यतीते तु ब्रह्मणो जगदात्मनः ।
तदा प्रकृतयः सप्त प्रलयं यान्ति भूमिप ! ॥
लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते ! ।
अण्डकोषेऽपि सकलः प्रलयं याति सर्व्वशः ॥
पूर्ब्बरूपन्तु वक्ष्यामि प्रलयस्यास्य भूपते ! ।
शतवर्षाणि भूमौ हि पर्ज्जन्यो नैव वर्षति ॥
दुर्भिक्षे निर्जने लोके प्रजाः सर्व्वाः क्षुधार्द्दिताः ।
परस्परं भक्ष्यमाणाः क्षयं यास्यन्ति भूमिप ! ॥
समुद्रे च धरण्याञ्च वृक्षेषु च लतासु च ।
देहे च यो रसस्तं हि रविर्हरति रश्मिभिः ॥
ततः संवर्त्तको नाम ज्वालामाली हुताशनः ।
सङ्कर्षणमुखोत्पन्नो दहत्यनिलसारथिः ॥
सर्व्वं ब्रह्माण्डभाण्डं वै तत्कालक्षोभगर्जितः ।
एवं दग्धं महाराज ! वह्न्यर्काभ्यां समन्ततः ॥
दग्ध्वा गोमयपिण्डाभं ब्रह्माण्डं सारवर्ज्जितम् ।
प्रचण्डपवनो राजंस्ततो वर्षशतं पुनः ॥
संवर्त्तको नाम महान् ब्रह्माण्डं चालयिष्यति ।
ततो मेघा महाघोरा नानावर्णा अनेकशः ॥
शतं वर्षाणि वर्षन्ति गर्ज्जन्ति च महास्वनाः ।
एकोदकं ततो विश्वं निर्गुणं निर्व्विकारकम् ॥
भूमेर्गन्धगुणं राजन् ! ग्रसन्त्यापः समन्ततः ।
गुणनाशात् स्वयं पृथ्वी प्रलयं प्राप्स्यते तदा ॥
तेजस्त्वपां रसगुणं सगन्धं पिबते बलात् ।
ततः प्रलयमायान्ति राजन्नापोऽपि तत्क्षणात् ॥
तेजसस्तु ततो रूपं रसगन्धसमन्वितम् ।
वायुर्हरति चण्डात्मा तेजःप्रलयमृच्छति ॥
आकाशस्तु ततो वायोः स्पर्शं परगुणैः सह ।
समादत्ते महाराज ! अम्बरेऽथ प्रलीयते ॥
आकाशस्य गुणं शब्दं गुणैरन्यैः समन्वितम् ।
अहङ्कारः समादत्ते नभस्तस्मिन् प्रलीयते ॥
तैजसेष्विन्द्रियाण्यङ्गदेवा वैकारिके तथा ।
अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम् ॥
अहङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः ।
ग्रसते तान् महाराज ! आद्या प्रकृतिरुच्यते ॥
पृष्ठ ३/२९२
न तस्याः कालदोषेण परिणामो नरर्षभ ! ।
आद्यन्तरहिता सा हि नित्यं कारणमव्ययम् ॥
शक्तिर्भगवतः सा हि तदेकपरमा च सा ।
इत्युक्तः प्रलयो राजन् ! विश्वस्यास्य महामते ! ॥
यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा ॥”
इति पाद्मे स्वर्गखण्डे ३९ अध्यायः ॥
(सात्त्विकविकारान्तर्गतविकारविशेषः । तल्ल-
क्षणं यथा, साहित्यदर्पणे । ३ । १६७ ।
“प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ॥”)

प्रलापः, पुं, (प्रलपनमिति । प्र + लप् + भावे

घञ् ।) प्रलपनम् । अनर्थकवाक्यम् । निष्पयो-
जनमुन्मत्तादिवचनम् । इत्यमरभरतौ । १ । ६
१५ ॥ रोगाणामुपसर्गोऽयम् ॥ (यथा, भाव-
प्रकाशे ।
“मूर्च्छा प्रलापो वमथुः प्रसेकः सादनं भ्रमः ।
उपद्रवा भवन्त्येते मृतिश्च रसशेषतः ॥”
अस्य लक्षणं चिकित्सा च यथा, --
“स्वहेतुकुपिताद्वातादसम्बद्धन्निरर्थकम् ।
वचनं यन्नरो ब्रूते स प्रलापः प्रकीर्त्तितः ॥
सतगरवरतिक्ता रेवताम्भोदतिक्ता
नलदतुरगगन्धा भारती हारहूरा ।
मलयजदशमूलीशङ्खपुष्पी सुपक्वा
प्रलपनमपहन्युः पानतो नातिदूरात् ॥
वरतिक्तोऽत्र पर्पटः नलदमुशीरं भारती ब्राह्मी
हारहूरा द्राक्षा ।” इति भावप्रकाशस्य मध्य-
खण्डे प्रथमे भागे ॥)

प्रलापहा, [न्] पुं, (प्रलापं हन्तीति । हन् +

क्विप् ।) कुलत्थाञ्जनम् । इतिं राजनिर्घण्टः ॥

प्रलीनता, स्त्री, (प्रलीनस्य निश्चेष्टस्य भावः ।

प्रलीन + तल् ।) प्रलयः । तत्पर्य्यायः । इन्द्रिय-
स्वापः २ चेष्टानाशः ३ । इति राजनिर्घण्टः ॥

प्रलेहः, पुं, (प्रलिह्यते इति । प्र + लिह् + घञ् ।)

व्यञ्जनविशेषः । इति पाकराजेश्वरः । दम्पोख्त
कोरमा इत्यादि पारस्यभाषा ॥ (चिन्तामणौ
धृतः प्रलेहप्रकारो यथा, --
“स्थूलानि मांसखण्डानि क्षालितानि च
वारिणा ।
तप्तस्नेहे विनिःक्षिप्य दर्व्या सञ्चालयन् पचेत् ॥
तप्तं तत्र विनिःक्षिप्य लावणं जलमल्पकम् ।
पचेत् पटपटाशब्दं तस्मिन् मांसे प्रकुर्वति ॥
प्रक्षिपेद्दाडिमीनीरं बहुलेन पचेत् पुनः ।
मांसपिण्डेषु सिद्धेषु देया शुण्ठी सजीरका ॥
ततश्चोत्तार्य्य तन्मांसं पृथक् कुर्य्यात् प्रलेहतः ।
प्रलेहं दाससा पूतं स्थापयेदन्यभाजने ॥
हिङ्गुना घृतयुक्तेन धूपेन तञ्च धूपयेत् ॥”
गौडदेशीयप्रलेहस्तु ।
“हिङ्ग्वार्द्रबीजपूरैलालवणैः सम्भृतेन तु ।
कुट्टितामिषपिष्टेन तत्र दाडिमबीजतः ॥
सोषणावेसवारश्च प्रलेहो गौडदेशजः ॥
प्रलेहो रुचिदो बल्यः कफानिलरुजापहः ।
संग्राही पित्तकृत् किञ्चिच्छिलाध्मानगदान्
जयेत् ॥
पूर्णप्रलेहस्तु ।
“मांसपूरणयोगेन कोष्ठाकारं विधाय च ।
स्विन्नं कृत्तं धृते भृष्टं प्रलेहविधिना पचेत् ॥
पूरणस्य प्रलेहोऽयं विज्ञेयो वातनाशनः ।
श्लेष्मान्तकारकश्चैव मुखवैरस्यहृद्गुरुः ॥”
शुक्लवर्णः प्रलेहः ।
“धृते वेसरधान्याकहिङ्गुभृद्दधिसंयुते ।
वस्त्रपूतेऽर्द्धसम्पक्वे स्विन्नं मांसं विनिःक्षिपेत् ॥”
पीतवर्णस्तु ।
“प्रलेहः पीतवर्णोऽपि कार्य्यः शुक्लप्रलेहवत् ।
विशेषोऽत्र हरिद्रायाः संसर्गः कुङ्कुमस्य वा ॥”
रक्तवर्णोऽपि ।
“तप्तस्नेहे क्षिपेद्धिङ्गुसंयुतं कासमर्द्दकम् ।
धान्यकं लवणाजाजीधौतं मांसञ्च तत् क्षिपेत् ॥
ततोऽर्द्धस्फुटिते मांसे दाडिमीबीजर्सयुते ।
सम्पक्वे चातिमृदुले तक्रं शुण्ठीञ्च निःक्षिपेत् ॥
तत उत्तार्य्य वस्त्रेण गालयेद्धूपयेदपि ।
रक्तवर्णप्रलेहस्य संसिद्ध्यर्थं विनिःक्षिपेत् ॥
करमर्द्दं दाडिमस्य स्थाने शेषन्तु पूर्ब्बवत् ॥”
हरितवर्णस्तु ।
“मेथिकाकासमर्दाम्लकल्केन चलकारिते ।
घृते मांसं विनिःक्षिप्य पचेच्छुष्कप्रलेहवत् ॥
सिद्धे च गालयेद्वस्त्रे कृत्वा वर्णप्रयोजनम् ।
ताम्बूलं कष्टजङ्गारं देयं हरितहेतुना ॥
अरुचौ रुचिदः सद्यो नानावर्णप्रसाधितः ।
प्रलेहः कफवातघ्नः किञ्चित् पित्तकरो लघुः ॥”
वटकप्रलेहोऽपि ।
“माषस्य पिष्टिका सूक्ष्मा वेसवारेण संयुता ।
बहुधा क्रियते तस्या वटिकावटकादिकम् ॥
आम्रविम्बीफलाकारं लड्डुकावटकादिकम् ।
शृङ्गाटकफलाकारं यथायुद्धिप्रकारजम् ॥
कृत्वा हि बहुधाधारे स्वेदितं घृतभार्ज्जितम् ।
सवेसवारजे तक्रे क्वथिते च मनोरमे ॥
निःक्षिप्य चालयेदीषदुत्तार्यैलादिवासिते ।
एवन्तु बहुधा कार्य्यो माषमुद्गप्रलेहकः ॥
प्रलेहो वातजिद्वल्यः शुक्रमांसप्रदो रसः ।
प्रीणनः प्राणयुक्तानां शुक्रदः क्षीणरेतसाम् ॥”
मत्स्यप्रलेहस्तु ।
“मांसप्रलेहवत्कार्य्यः प्रलेहो मत्स्यसम्भवः ।
आदौ तैले परं पक्वं सर्व्वमन्यत्तु पूर्ब्बवत् ॥
वर्णस्य करणे देयं पूर्ब्बोक्तं द्रव्यकं हि यत् ।
उद्धूलनं सुगन्धाय दातव्यं पूर्ब्बसम्भवम् ॥”
मत्स्यखण्डप्रलेहस्तु ।
“सम्यक् प्रक्षालितं मत्स्यं वेसवारेण वेष्टितम् ।
तप्ततैले क्षिपेत् खण्डं हिङ्गुसैन्धवमिश्रितम् ॥
प्रलेहविधिवत् साध्यो मत्स्यखण्डप्रलेहकः ॥”)

प्रवक्ता, [ऋ] त्रि, प्रकर्षेण वक्ति यः । (प्र +

वच् + तृच् ।) वेदादिवाचकः । यथा, --
“जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मण-
ब्रुवः ।
धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥”
इति मानवे ७ अध्यायः ॥

प्रवचनं, क्ली, (प्रकर्षेण उच्यते इति । प्र + वच् +

ल्युट् । वेदः । (यथा, अमरकोषे । २ । ७ । १० ।
“अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः ।
लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥”
वेदाङ्गम् । यथा, मनुः । ३ । १८४ ।
“अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवत्तनेषु च ॥”
“प्रकर्षेणैव उच्यते वेदार्थ एभिरिति प्रवचना-
न्यङ्गानि तेषु अग्र्याः षडङ्गविदः ।” इति तत्र
कुल्लूकभट्टः ॥ तथा च हरिवंशे । १६७ । ६९ ।
“उवाच वेदांश्चतुरो मन्त्रप्रवचनार्च्चितान् ॥” * ॥
प्रकृष्टं वचनमिति कर्म्मधारयः ।) प्रकृष्टवाक्यम् ।
इति मेदिनी । ने, १९१ ॥ (यथा, मुण्डकोप-
निषदि । ३ । २ । ३ ।
“नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुधा श्रुतेन ।
येनैवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)

प्रवचनीयः, त्रि, (प्रवक्तीति । प्र + वच् + “भव्य-

गेयप्रवचनीयेति ।” ३ । ४ । ६८ । इति कर्त्तरि
अनीयर् ।) प्रवक्ता । (प्रोच्यते इति । प्र +
वच् + कर्म्मणि अनीयर् ।) प्रवाच्यः । इति
मेदिनी । ये, १३२ ॥

प्रवणः, पुं, (प्रवन्ते गच्छन्ति जना अनेनेति । प्रु

गतौ + करणे ल्युट् ।) चतुष्पथः । इत्यमरः ।
३ । ३ । ५६ ॥

प्रवणः, त्रि, (प्रवतेऽत्रेति । प्रु + अधिकरणे

ल्युट् ।) क्रमनिम्नभूमिः । (यथा, मनुः । ३ ।
२०६ ।
“दक्षिणाप्रवणञ्चैव प्रयत्नेनोपपादयेत् ॥”)
उदरम् । प्रह्वः । इति मेदिनी । ने, ५९ ॥ (यथा,
मार्कण्डेये । २३ । ८९ ।
“धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो
मया ।
यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥”)
आयतः । प्रगुणः । क्षणः । इति विश्वः ॥
प्लुतः । स्निग्धः । इति शब्दरत्नावली ॥
आसक्तः । इति हेमचन्द्रः । ३ । ४९ ॥ (यथा,
विष्णुपुराणे । ६ । १ । ११ ।
“प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्व्वण्यव्यवस्थितौ ।
सम्यक्श्रद्धासमाचारप्रवणा मुनिसत्तम ! ॥”)
क्षीणः । इति धरणिः ॥

प्रवत्स्यत्पतिका, स्त्री, (प्रवत्स्यन् प्रवासं गमि-

ष्यन् पतिर्यस्याः । कप् ।) नायिकाभेदः । अस्या
लक्षणम् । यस्याः पतिरग्रिमक्षणे देशान्तरं
यास्यत्येव सा । अस्याश्चेष्टा काकुवचनकातर-
प्रेक्षणगमनविघ्नोपदर्शननिर्व्वेदसन्तापसम्मोह-
निश्वासवास्पादयः ॥ मुग्धा प्रवत्स्यत्पतिका
यथा, --
“प्राणेश्वरे किमपि जल्पति निर्गमाय
क्षामोदरी वदनमानमयाञ्चकार ।
आली पुनर्निभृतमेत्य लतानिकुञ्ज-
मुन्मतकोकिलकलध्वनिमाततान ॥” १ ।
पृष्ठ ३/२९३
मध्या प्रवत्स्यत्पतिका यथा, --
“गन्तुं प्रिये ! वदति निःश्वसितं न दीर्घ-
मासीन्न वा नयनयोर्ज्जलमाविरासीत् ।
आयुर्लिपिं पठितुमेणदृशः परन्तु
भालस्थलीं किमु करः समुपाजगाम ॥” २ ॥
प्रौढा प्रवत्स्यत्पतिका यथा, --
“नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वर-
स्तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यं वद ।
ताम्बूलं कुमुमं पटीरमुदकं यद्बन्धुभिर्दीयते
तत् स्यादत्र परत्र वा किमु विषज्वालावली-
दुःसहम् ॥” ३ ॥
परकीया प्रवत्स्यत्पतिका यथा, --
“न्यस्तं पन्नगमूर्द्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरौ
त्यक्ता नीतिरकारि किं न भवतो हेतोर्मया
दुष्कृतम् ।
अङ्गानां शतयातना नयनयोः कोपक्रमो रौरवः
कुम्भीपाकपराभवश्च मनसो युक्तं त्वयि ।
प्रस्थिते ॥” ४ ॥
सामान्यप्रवत्स्यत्पतिका यथा, --
“मुद्रां प्रदेहि बलयाय भवद्वियोग-
मासाद्य यास्यति बहिः सहसा यदेतत् ।
इत्थं निगद्य विगलन्नयनाम्बुधारा
वाराङ्गना प्रियतमं करयोर्बभार ॥” ५ ॥
इति रस्नमञ्जरी ॥

प्रवयणं, क्ली, (प्रवीयतेऽनेनेति । प्र + अज गतौ

क्षेपणे च + ल्युट् । “वा यौ ।” २ । ४ । ५७ ।
इति वी । “कृत्यचः ।” ८ । ४ । २९ । इति
णत्वम् ।) प्रतोदः । इति हेमचन्द्रः । ३ । ५५७ ॥
(प्र + वय गतौ + भावे ल्युट् । प्रकर्षेण गमनम् ।
इति केचित् ॥)

प्रवयाः, [स्] त्रि, (प्रगतं वयो यस्य ।) वृद्धः ।

इत्यमरः । २ । ६ । ४२ ॥ (यथा, रघुः । ८ । १८ ।
“नृपतिः प्रकृतीरवेक्षितुं
व्यवहारासनमाददे युवा ।
परिचेतुमुपांशुधारणां
कुशपूतं प्रवयास्तु विष्टरम् ॥”
पुराणः । इति निघण्टुः । ३ । २७ ॥ यथा,
ऋम्रेदे । २ । १७ । ४ ।
“अघा यो विश्वा भुवनानि मज्मनेशानकृत्-
प्रवया अभ्यवर्घत ॥”)

प्रवरं, क्ली, (प्रव्रियते इति । प्र + वृ + अप् ।)

अगुरु । इति भावप्रकाशः ॥ गोत्रम् । श्रेष्ठे,
त्रि । इति मेदिनी । रे, १७६ ॥ (यथा, मनुः ।
१० । २७ ।
“एते षट् सदृशान् वर्णान् जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥”)

प्रवरः, पुं, (प्र + वृ + अप् ।) सन्ततिः । इति

मेदिनी । रे, १७६ ॥ गोत्रप्रवर्त्तकमुनिव्याव-
र्त्तको मुनिगणः । तथा च यमदग्निगोत्रस्य
प्रवराः यमदग्न्यौर्व्वबशिष्ठाः । भरद्वाजगोत्रस्य
भरद्वाजाङ्गिरसबार्हस्पत्य्याः । विश्वामित्र-
गोत्रस्य विश्वामित्रमरीचिकौषिकाः । अत्रि-
गोत्रस्य अत्र्यात्रेयशातातपाः । गोतमगोत्रस्य
गोतमवशिष्ठबार्हस्पत्याः । वशिष्ठगोत्रस्य
वशिष्ठः । केषाञ्चित् वशिष्ठात्रिसाङ्कृतयः ।
काश्यपगोत्रस्य काश्यपाप्सारनैध्रुवाः । अगस्त्य-
गोत्रस्य अगस्तिदधीचिजैमिनयः । सौकालिन-
गोत्रस्य सौकालिनाङ्गिरसबार्हस्पत्याप्सार-
नैध्रुवाः । मौद्गल्यगोत्रस्य और्व्वच्यवनभार्गव-
जामदग्न्याप्नुवतः । पराशरगोत्रस्य पराशर-
शक्त्रिवशिष्ठाः । बृहस्पतिगोत्रस्य बृहस्पतिकपिल-
पार्व्वणाः । काञ्चनगोत्रस्य अश्वत्थदेवलदेव-
राजाः । विष्णुगोत्रस्य विष्णुवृद्धिकौरवाः ।
कौशिकगोत्रस्य कौशिकात्रिजमदग्नयः । कात्या-
यनगोत्रस्य अत्रिभृगुवशिष्ठाः । आत्रेयगोत्रस्य
आत्रेयशातातपसांख्याः । काण्वगोत्रस्य काण्वा-
श्वत्थदेवलाः । कृष्णात्रेयगोत्रस्य कृष्णात्रेया-
त्रेयावासाः । साङ्कृतिगोत्रस्य अव्याहारात्रि-
साङ्कृतयः । कौण्डिल्यगोत्रस्य कौण्डिल्यस्ति-
मिककौत्सः । गर्गगोत्रस्य गार्ग्यकौस्तुभ-
माण्डव्याः । आङ्गिरसगोत्रस्य आङ्गिरस-
वशिष्ठबार्हस्पत्याः । अनावृकाक्षभोत्रस्य गार्ग्य-
गौतमवशिष्ठाः । अव्यगोत्रस्य अव्यबलिसार-
स्वताः । जैमिनिगोत्रस्य जैमिन्युतथ्यसाङ्कृतयः ।
वृद्धिगोत्रस्य कुरुवृद्धाङ्गिरोबार्हस्पत्याः ।
शाण्डिल्यगोत्रस्य शाण्डिल्यासितदेवलाः ।
वात्स्यगोत्रसावर्णगोत्रयोः और्व्वच्यवनभार्गव-
जामदग्न्याप्नुवतः । आलम्ब्यायनगोत्रस्य आल-
म्ब्यायनशालङ्कायनशाकटायनाः । वैयाघ्रपद्य-
गोत्रस्य साङ्कृतिः । घृतकौशिकगोत्रस्य कुशिक-
कौशिकघृतकौशिकाः । केषाञ्चित् कुशिक-
कौशिकबन्धुलाः । शक्त्रिगोत्रस्य शक्त्रिपराशर-
वशिष्ठाः । काण्वायनगोत्रस्य काण्वायनाङ्गिरस-
वार्हस्पत्यभरद्बाजाजमीढाः । वासुकिगोत्रस्य-
अक्षोभ्यानन्तवासुकयः । गौतमगोत्रस्य गौत-
माप्सराङ्गिरसबार्हस्पत्यनैध्रुवाः । केषाञ्चित्
गौतमाङ्गिरसावासाः । शुनकगोत्रस्य शुनक-
शौनकगृत्समदाः । सौपायनगोत्रस्य प्रवराः
और्व्वच्यवनभार्गवजामदग्न्याप्नुवतः । इति धन-
ञ्जयकृतधर्म्मप्रदीपे गोत्रप्रवरविवेकः ॥

प्रवर्गः, पुं (प्रवृज्यते निःक्षिप्यते हविरादिक-

मस्मिन्निति । प्र + वृज् + अधिकरणं घञ् ।)
होमाग्निः । इति हेमचन्द्रः । ३ । ५०० ॥ (यथा,
हरिवंशे । ४१ । ३४ ।
“दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्म्मोष्ठरुचकः प्रवर्गावर्त्तभूषणः ॥”
प्रवर्ग्य इति पाठोऽपि दृश्यते ॥)

प्रवर्त्तकः, त्रि, (प्रवर्त्तयतीति । प्र + वृत् + णिच् +

ण्वुल् ।) प्रवर्त्तनकारी । प्रवृत्तिजनकः । यथा,
“प्रवर्त्तकं वाक्यमुवाच चोदनां
निवर्त्तकं नैवमुवाच भाष्यकृत् ।
ततश्च विद्मो नहि चोदनास्ति सा
प्रवर्त्तिका या न भवेदिति स्थितिः ॥”
इति संक्षेपशारीरकम् ॥
(यथा च देवीभागवते । १ । १४ । ४२ ।
“प्रथमं पठिता वेदा मया विस्तारिताश्च ते ।
हिंसामयास्ते पठिताः कर्म्ममार्गप्रवर्त्तकाः ॥”
प्रयोजकः । यथा, भागवते । ९ । १७ । ४ ।
“धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्त्तकः ।
यज्ञभुग् वासुदेवांशः स्मृतिमात्रार्त्तिनाशनः ॥”)

प्रवर्त्तनं, क्ली, (प्र + वृत् + णिच् + ल्युट् ।) प्रवृत्तिः ।

यथा, --
“तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्गञ्च भुञ्जते ।
इतरार्थग्रहे येषां कवीनां स्यात् प्रवर्त्तनम् ॥”
इति काव्यप्रकाशः ॥
आरम्भः । यथा, --
“मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे ।
राजानमामन्त्र्य ततः कुर्य्यात् सेतुप्रवर्त्तनम् ॥”
इति मिताक्षरा ॥

प्रवर्त्तना, स्त्री, (प्र + वृत् + णिच् + युच् ।) प्रवृत्ति

प्रेरणम् । यथा, नैषधे । २ । ६१ ।
“अथवा भवतः प्रवर्त्तना
न कथं पिष्टमियं पिनष्टि न ।
स्वत एव सतां परार्थता
ग्रहणानां हि यथा यथार्थता ॥”

प्रवर्त्तितः, त्रि, (प्र + वृत् + णिच् + क्तः ।) जातः ।

यथा, रघुवंशे । ५ । ३७ ।
“रूपं तदोजस्वि तदेव वीर्य्यं
तथैव नैसर्गिकमुन्नतत्वम् ।
न कारणात् स्वात् विभिदे कुमारः
प्रवर्त्तितो दीप इव प्रदीपात् ॥”

प्रवर्द्धनं, क्ली, प्रपूर्ब्बवृधधातोर्भावे अनट् (ल्युट् ।)

विवर्द्धनम् । कर्त्तरि (ल्यु) अनप्रत्यये, वृद्धिकारके,
त्रि ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“रुरुमांसं समधुरं कषायानुरसं स्मृतम् ।
वातपित्तोपशमनं गुरु शुक्रप्रवर्द्धनम् ॥”)

प्रवर्हः, त्रि, (प्रवर्हति प्रवर्द्धते इति । प्र + वृह् +

अच् ।) प्रधानम् । श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥

प्रवलाकी, पुं, भुजङ्गः । चित्रमेखलकः । इति

विश्वः ॥

प्रवहः, पुं, (प्र + वह् + भाबे + अच् ।) गृह-

नगरादेर्ब्बहिर्गमनम् । इत्यमरः । ३ । १ । १८ ॥
(प्रवहतीति । प्र + वह् + अच् ।) वायुः ।
इति हेमचन्द्रः ॥ सप्तवाय्वन्तर्गतद्वितीयवायुः ।
स तु आवहवायोरूर्द्ध्वस्थितः । इति सिद्धान्त-
शिरोमणिः ॥
“यस्माज्जोतींषि वहति प्रवहस्तेन स स्मृतः ॥”
इति विष्णुपुराणे २ अंशे १२ अध्यायः ॥
अस्य टीका । “यस्माज्ज्योतींषि प्रकर्षेण वहति
तेन स वायुः प्रवहः स्मृतः प्रवहस्यैव भेदाः सर्व्वे
वायुस्कन्धाः ॥” (मेघविशेषः । यथा, स्कान्दे
सह्याद्रिखण्डे । ५ । ६ ।
“आवहः प्रवहश्चैव उदहासो महांस्तथा ।
परीवहः पञ्चमश्च विनहश्च परावहः ॥”)

प्रवहणं, क्ली, (प्रोह्यते अनेनेति । प्र + वह् +

करणे ल्युट् ।) कर्णीरथः । स्त्रीरत्नवहनार्थ-
पृष्ठ ३/२९४
मुपरि वस्त्राच्छादितमनुष्यवाह्ययानविशेषः ।
इत्यमरभरतौ । २ । ८ । ५२ ॥ (यथा, मृच्छ-
कटिकनाटके चतुर्थेऽङ्के । “प्रविश्य सप्रवहण-
श्चेटः इति ॥”)

प्रवह्लिः, स्त्री, (प्रवह्लते आच्छादयतीति । प्र +

वह्ल + इन् ।) प्रवह्लिका । इत्यमरटीकायां
भरतः ॥

प्रवह्लिका, स्त्री, (प्र + वह्ल् + ण्वुल् । टाप् अत

इत्वम् ।) प्रहेलिका । इत्यमरः । १ । ६ । ६ ॥

प्रवह्ली, स्त्री, (प्रवह्लि + पक्षे ङीष् ।) प्रवह्लिका ।

इति भरतः ॥

प्रवाक्, [च्] त्रि, (प्रकृष्टा वाग् यस्य ।) वाचो

युक्तिपटुः । यथा, --
“वाचो युक्तिपटुर्वाग्मी वचोज्ञः प्रवचाः
प्रवाक् ॥”
इति जटाधरः ॥
(स्त्री, प्रकृष्टा वागिति प्रादिसमासः ।) प्रकृष्ट-
वाक्यञ्च ॥

प्रवाचकः, त्रि, (प्रकृष्टं वक्तीति । प्र + वच् +

ण्वुल् ।) प्रकृष्टवक्ता । प्रपूर्ब्बवचधातोः कर्त्तरि
णकप्रत्ययः ॥

प्रवाणिः, स्त्री, (प्रकर्षेण ऊयतेऽनयेति । प्र +

वे + करणे ल्युट् । ङीप् । निपातनात् ङीपो
ह्रस्वः ।) तन्त्रशलाका । इति निष्प्रवाणिशब्द-
टीकायां भरतः ॥ माकु इति भाषा ॥

प्रवाणी, स्त्री, (प्र + वे + ल्युट् + ङीप् ।) तन्त्र-

शलाका । इति निष्प्रवाणिशब्दटीकायां
भरतः ॥ माकु इति माषा ॥

प्रवादः, पुं, (प्रकृष्टो वादः । प्र + वद् + घञ् वा ।)

परस्परवाक्यम् । यथा, भट्टिः । २ । ३६ ।
“इत्थं प्रवादं युधि संप्रहारं
प्रचक्रतू रामनिशाविहारौ ।
तृणाय मत्वा रघुनन्दनोऽथ
बाणेन रक्षः प्रधनान्निरास्थत् ॥”
जनरवः । यथा, --
“प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवाद-
स्त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः ।
त्वं मे तेऽस्यामहमपि च यत्तच्च नो साघु राधे !
व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥”
इत्यलङ्कारकौस्तुभः ॥

प्रवारः, पुं, (प्रवृणोत्यनेनेति । प्र + वृ + करणे

घञ् ।) प्रवरः । वस्त्रम् । प्रपूर्ब्बवृधातोर्घण् ।
इति संक्षिप्तसारव्याकरणम् ॥

प्रवारणं, क्ली, (प्र + वृ + णिच् + ल्युट् ।) काम्य-

दानम् । इत्यमरः । ३ । २ । ३ ॥ काम्यस्य कम-
नीयस्य वस्तुनो वरस्त्रीरत्नादिनो दानम् ।
काम्येन कामनया वा दानं प्रवारणमुच्यते ।
काम्यशब्दोऽत्र तन्त्रेणाभयार्थः । प्रकर्षेण वार्य्यते
संगृह्यत प्रवारणं तच्च महादानम् । प्रवारणं
महादानमिति त्रिकाण्डशेषः । इति तट्टीकायां
भरतः ॥ (प्रकर्षेण वारणमिति ।) निषेधः ।
इति मेदिनी । ने, १०१ ॥

प्रवासः, पुं, (प्रवसन्त्यस्मिन्निति । प्र + वस् +

“हलश्च ।” ३ । ३ । १२१ । इति घञ् ।)
विदेशः । विदेशस्थितिः । यथा, --
“कर्णेजपैराहितराज्यलोभा
स्त्रैणेन नीता विकृतिं लघिम्ना ।
रामप्रवासे व्यमृषन्नदोषं
जनापवादं सनरेन्द्रमृत्युम् ॥”
इति भट्टिः । ३ । ७ ॥ * ॥
द्वादशवर्षाश्रुतवार्त्ताकप्रोषितस्य तत्प्रवासाद्य-
दिने श्राद्धं कर्त्तव्यम् । यथा, --
“प्रवासवासरे ज्ञेयं तन्मासेन्दुक्षयेऽथवा ॥”
इति मिताक्षरा । ३ । ७ ॥ * ॥
प्रवासागतेन गुर्व्वाद्यभिवादनं कर्त्तव्यम् । यथा,
“विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।
गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा ।
प्रपूज्या गुरुपत्नीव समास्ता गुरुभार्य्यया ॥
भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि ।
विप्रोष्य भूप ! संग्राह्या ज्ञातिसम्बन्धियोषितः ॥
पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरी-
यसी ॥”
इति कौर्म्मे उपविभागे १३ अध्यायः ॥

प्रवासनं, क्ली, (प्र + वास च्छेदे + ल्युट् ।) वधः ।

इत्यमरः ॥ (प्र + वस् + णिच् + ल्युट् ।) प्रवा-
सना । यथा, उत्तररामचरित्रे ।
“सीताप्रवासनपटोः करुणा कुतस्ते ॥”

प्रवासी, त्रि, (प्रवसितुं शीलमस्येति । प्र + वस् +

“प्रे लपस्रुद्रुमथवदवसः ।” ३ । २ । १४५ । इति
घिनुण् ।) प्रवासविशिष्टः । प्रोषितः । विदे-
शस्थः । यथा, --
“अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ ।
प्रवासी तद्गणो हारिः पाथेयं सम्बलं समे ॥”
इति हेमचन्द्रः । ३ । १५७ ॥
(यथा, मार्कण्डेये । १८ । ५१ ।
“लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् ।
अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥”)

प्रवाहः, पुं, (प्र + वह् + भावे घञ् ।) प्रवृत्तिः ।

(यथा, भागवते । ७ । ९ । ८ ।
“सत्त्वैकतानगतयो वचसां प्रवाहैः ॥”
जलस्रोतः । इति मेदिनी । हे, २१ ॥ (यथा,
रघौ । ५ । ४६ ।
“पूर्ब्बं तदुत्पीडितवारिराशिः
सरित्प्रवाहस्तटमुत्ससर्प ॥”)
व्यवहारः । इति विश्वः ॥ प्रकृष्टाश्वः । इति
नानार्थरत्नमाला ॥ (पुरीषादेर्निगमः । यथा,
सुश्रुते उत्तरतन्त्रे । ४० अध्याये ।
“प्रवाहेण गुदभ्रंशे मूत्राघाते कटिग्रहे ।
मधुराम्लशृतं तैलं सर्पिर्वाप्यनुबासनम् ॥”)

प्रवाहकः, पुं, (प्रवहतीति । प्र + वह् + ण्वुल् ।)

राक्षसः । इति शब्दमाला ॥ प्रकृष्टवहनकर्त्तरि,
त्रि ॥

प्रवाहिका, स्त्री, (प्रवहति मुहुर्मुहुः प्रवर्त्तते

इति । प्र + वह् + ण्वुल् । टाप् अत इत्वम् ।)
ग्रहणीरुक् । इत्यमरः । २ । ६ । ५५ ॥ (यथा,
मुश्रुते सूत्रस्थाने । ३१ अध्याये ।
“प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् ।
पिपासाबलहानिश्च तस्य मृत्युरुपस्थितः ॥”
अस्या निदानं ग्रहणीशब्दे द्रष्टव्यम् । अस्याः
स्वरूपमाह चरकः ।
“अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता ।
अपक्वं धारयेत् तत्र पक्वं त्यजति वाप्यधः ॥”
सुश्रुतोऽपि ।
“षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता ।
आमपक्वाशयान्तःस्था ग्रहणी साभिधीयते ॥
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीश्रितः ।
तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति ॥
तस्मात् कार्य्यः परीहारो ह्यतीसारे विरिक्त-
वत् ॥” * ॥
अतीसारे द्रवधातुप्रवृत्तिः ग्रहण्यान्तु बद्धस्यापि
मलस्य प्रवृत्तिरिति तयोर्भेदः ॥ * ॥ ग्रहणी-
रोगस्य भेदं संग्रहग्रहणीरोगमाह ।
“द्रवं घनं सितं स्निग्धं सकटीवेदनं शकृत् ।
आमं बहुसपैच्छिल्यं सशब्दं मन्दवेदनम् ॥
पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति ।
अन्त्रकूजनमालस्यं दौर्ब्बल्यं सदनं भवेत् ॥
दिवा प्रकोपो भवति रात्रौ शान्तिञ्च गच्छति ।
दुर्व्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी ॥
सा भवेदामवातेन संग्रहग्रहणी मता ॥”
अथ घटीयन्त्राख्यं ग्रहणीरोगमाह ।
“प्रसुप्तिः पार्श्वयोः शूलं तथा जलघटीध्वनिः ।
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् ॥”
अथ ग्रहणीरोगस्यारिष्टमाह ।
“यैर्लक्षणैः सिध्यति नातिसार-
स्तैः स्यान्न साध्यो ग्रहणीगदोऽपि ।
वृद्धस्य जायेत यदा गदोऽयं
देहं तदा तस्य विनाशमृच्छेत् ॥” * ॥
अथ सामान्यग्रहणीरोगस्य चिकित्सामाह ।
“ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् ।
लङ्घनैर्द्दीपनीयैश्च मन्दातीसारभेषजैः ॥
दोषं सामं निरामञ्च विद्यादत्रातिसारवत् ।
अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् ।
दीपनानि च तक्रञ्च ग्रहण्यां योजयेद्भिषक् ॥
कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता ।
यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि ॥”
संवर्त्तयति घनीकरोति ॥
अथ खड्यूषः ।
“मुद्गयूषं रसं तक्रं धान्यजीरकसंयुतम् ।
सैन्धवेनान्वितं दद्यात् स्वड्यूषमिति कीर्त्ति-
तम् ॥”
रसं लघुग्राहिकमांसभवम् ॥ * ॥
“कर्षं गन्धकमर्द्धपारदमुभे कुर्य्याच्छुभां कज्जलीं
त्र्यक्षं त्र्यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक् ।
पृष्ठ ३/२९५
भृष्टं हिङ्गु च जीरकद्वययुतं सर्व्वार्द्धभागान्वितं
खादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रस्य विल्वेन च ॥
लघुनायिकाचूर्णमित्यर्थः ॥ इति लघुलाईचूर्णम् ॥
“त्रिकटु त्रिफला चैव विडङ्गं जीरकद्वयम् ।
भल्लातकं यवानी च हिङ्गुलवणपञ्चकम् ॥
गृहधूमो वचा कुष्ठं रसो गन्धकमभ्रकम् ॥
क्षारत्रयाजमोदे च चित्रकं गजपिप्पली ॥
मुस्ता मोचरसं पाठा लवङ्गं जातिपत्रकम् ।
समभागकृतञ्चैषां चूर्णं श्लक्ष्णं विनिर्म्मितम् ॥
शक्राशनस्य चूर्णन्तु चूर्णतुल्यं प्रदापयेत् ।
मन्दाग्निकासदुर्नामप्लीहपाण्ड्वरुचिज्वरान् ॥
विष्टम्भं संग्रहं शूलं हन्यान्नानातिसारजित् ।
आमवातापहं बल्यं सूतिकादोषनाशनम् ॥
वर्ज्जयेन्माषमम्लञ्च स्नानं पिशितभोजनम् ।
पथ्यं काञ्जिकमत्रापि दधितक्रमथापि वा ॥
बृहल्लाईचूर्णमिदं लाईभाषितमुत्तमम् ॥”
इति बृहल्लाईचूर्णम् । बृहन्नायिकाचूर्णमिति
प्रसिद्धम् ॥ * ॥
“जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ।
कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ॥
तालीशपिप्पलीपथ्यास्थूलजीरकचित्रकैः ।
शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः ॥
यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गाञ्च तावतीम् ।
सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा ॥
कर्षमात्रमिदं खादेन्मधुना प्लावितं जनः ।
नाशयेद्ग्रहणीं कासं क्षयं श्वासमरोचकम् ॥”
इति जातीफलादिचूर्णम् ॥ * ॥
“चित्रकं पिप्पलीमूलं क्षारौ लवणपञ्चकम् ।
व्योषं हिङ्ग्वजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥
वटिका मातुलुङ्गस्य रसैर्वा दाडिमस्य वा ।
कृता विपाचयत्यामं प्रदीपयति चानलम् ॥”
क्षारौ सर्जिका यवक्षारश्च । लवणपञ्चकमिति ।
“सैन्धवं रुचकञ्चैव विडं सामुद्रकंगडम् ॥” इति ॥
व्योषं शुण्ठीपिप्पलीमरिचानि । अजमोदात्र
यवानिका । मातुलुङ्गं बीजपूरकम् । इति चित्र-
कादिवटिका ॥ * ॥
“श्रीफलशलाटुकल्को नागरचूर्णेन मिश्रितः
सगुडः ।
ग्रहणीगदमत्युग्रं तक्रभुजाशीलितो जयति ॥”
श्रीफलशलाटुः विल्वस्यामं फलम् । गुडस्यात्र
भागद्वयम् । इति विल्वकल्कः ॥ * ॥
“चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम् ।
वार्त्ताकोः कुडवञ्चार्कमूलाद्विल्वे तथानलात् ॥
दग्ध्वा द्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् ।
भुक्ता भुक्तं पचत्याशु नाशयेद्ग्रहणीगदम् ॥
कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम् ॥”
इति वार्त्ताकुगुटिका ॥ * ॥
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् ।
मधुना च समालीढं ग्रहणीं सर्व्वजां त्यजेत् ॥”
कौटजं इन्द्रयवः । मुस्तकादिचूर्णम् ॥ * ॥
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः ।
गुडेनाधिकसर्जेन भक्षितेनाशु नश्यति ॥”
सर्जः रालः । सर्जरसचूर्णम् ॥ * ॥
“विल्वाब्दशक्रयवबालकमोचसिद्ध-
माजं पयः पिबति यो दिवसत्रयेण ।
सोऽतिप्रवृद्धचिरजग्रहणीविकारं
सामं सशोणितमसाध्यमपि क्षिणोति ॥”
मोचो मोचरसः । क्षिणोति हन्ति ॥ * ॥
“प्रस्थत्रये त्वामलकीरसस्य
शुद्धस्य दत्त्वार्द्धतुलां गुडस्य ।
चूर्णीकृतैर्ग्रन्थिकजीरचव्य-
व्योषेभकृष्णाहवुषाजमोदैः ॥
विडङ्गसिन्धुत्रिफलायवानी-
पाठाग्निधान्यैश्च पलप्रमाणैः ।
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-
वष्टौ च तैलस्य पचेद्यथावत् ॥
तं भक्षयेदक्षफलप्रमाणं
यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् ।
अनेन सर्व्वे ग्रहणीविकाराः
सश्वासकासस्वरभेदशोथाः ॥
शाम्यन्ति चायं चिरमन्तरग्ने-
र्हतस्यं पुंस्त्वस्य च वृद्धिहेतुः ।
स्त्रीणान्तु बन्ध्यामयनाशनः स्यात्
कल्याणको नाम गुडः प्रसिद्धः ॥
तैले मनाक् त्रिवृद्भृष्ट्वा त्रिसुगन्धि पलं पलम् ।
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्ब्बके ॥”
इति कल्याणकगुडः ॥ * ॥
“पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।
धान्यकञ्च विडङ्गानि यवानी मरिचानि च ॥
त्रिफला चाजमोदा च नलिनी जीरकस्तथा ।
सैन्धवं रौमकञ्चापि सामुद्रं रुचकं विडम् ॥
आरग्वधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्चिका ।
शुण्ठीशक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ॥
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि ।
त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा ॥
तिलतैलपलान्यष्टावामलक्या रसस्य तु ।
प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत् ॥
औडम्बरं चामलकं वादरं वा यथा फलम् ।
तावन्मात्रमिदं खादेद्भक्षयेद्बा यथानलम् ॥
निखिलान् ग्रहणीरोगान् प्रमेहांश्चैव विंशतिम् ।
उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्रिसंक्षयम् ॥
ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिं
स्वरम् ।
पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च विड्ग्रहम् ॥
धातुक्षीणो वयःक्षीणः स्त्रीषु क्षीणः क्षयी च यः ।
तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः ॥”
इति महाकल्याणकगुडः ॥ * ॥
“कुष्माण्डानां सुपक्वानां स्विन्नानां निष्कुलत्वचाम् ।
सर्पिःप्रस्थे पलशतं ताम्रपात्रे शनैः पचेत् ॥
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।
धान्यकानि विडङ्गानि नागरं मरिचानि च ॥
त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम् ॥
एकैकस्य पलञ्चैकं त्रिवृतोऽष्टौ पलानि च ।
तैलस्य च पलान्यष्टौ गुडात् पञ्चाशदेव तु ॥
आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ।
तावत् पाकं प्रकुर्व्वीत मृदुना वह्निना भिषक् ॥
यावद्दर्व्वीप्रलेपः स्यात्तदैनमवतारयेत् ।
औडुम्बरञ्चामलकं वादरं वा यथा फलम् ॥
तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ।
अनेनैव विधानेन प्रयुक्तश्च दिने दिने ॥
निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् ।
ज्वरमानाहहृद्रोगगुल्मोदरविसूचिकाः ॥
कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् ।
वातशोणितवीसर्पदद्रुयक्ष्महलीमकान् ॥
वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समा-
चरेत् ।
व्याधिक्षीणा वयःक्षीणाः स्त्रीषु क्षीणाश्च ये
नराः ॥
तेभ्यो हितो गुडोऽयं स्याद्बन्ध्यानामपि पुत्त्रदः ।
वृष्यो बल्यो बृंहणश्च वयसः स्थापनः परः ॥”
इति कुष्माण्डकल्याणकगुडः ॥ * ॥
अतीसाराधिकारलिखितं विल्वतैलञ्चात्र
हितम् । इति भावप्रकाशे ग्रहणीरोगाधिकारः ॥
(चिकित्सान्तरमस्या यथा, --
“बालं विल्वं गुडं तैलं पिप्पली विश्वभेषजम् ।
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥
पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः ।
त्र्यहात् प्रवाहिकां हन्ति चिरकालानुबन्धि-
नीम् ॥
कल्कः स्याद्वालविल्वानां तिलकल्कश्च तत्समः ।
दध्नः सराम्लः स्नेहाढ्यः खडो हन्यात् प्रवाहि-
काम् ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)

प्रवाही, स्त्री, (प्रोह्यते इति । प्र + वह् +

घञ् । गौरादित्वात् ङीष् ।) वालुका । इति
राजनिर्घण्टः ॥

प्रविख्यातिः, स्त्री, (प्र + वि + ख्या + क्तिन् ।)

अतिप्रसिद्धिः । तत्पर्य्यायः । विश्रावः २ । इत्य-
मरः । ३ । २ । २८ ॥

प्रविदारणं, क्ली, (प्रविदारयन्त्यत्रेति । प्र + वि +

दॄ + णिच् + आधारे ल्युट् ।) युद्धम् । इत्यमरः ।
२ । ८ । १०३ ॥ (प्र + वि + दॄ + णिच् + भावे
ल्युट् ।) अवदारणम् । इति मेदिर्नी । णे, ११३ ॥
आकीर्णम् । इति शब्दरत्नावली ॥ (प्र + वि +
दॄ + णिच् + कर्त्तरि ल्युः । प्रविदारके, त्रि ॥)

प्रविरः, पुं, पीतकाष्ठम् । इति शब्दचन्द्रिका ॥

प्रविश्लेषः, पुं, (प्रकृष्टो विश्लेषो यस्य ।) प्रकृष्ट-

विश्लेषः । तत्पर्य्यायः । विधुरम् २ । इत्यमरः ।
३ । २ । १० ॥ यथा, --
“वैक्लव्येऽपि प्रविश्लेषे विधुरं विकले त्रिषु ॥”
इति भरतधृतत्रिकाण्डशेषः ॥

प्रविषा, स्त्री, (प्रहतं बिषमनया ।) अतिविषा ।

इति क्वचिदमरे । २ । ४ । ९९ ॥ (अतिविषा-
शब्देऽस्य विवरणं ज्ञातव्यम् ॥)

प्रविष्टः, त्रि, (प्र + विश् + कर्त्तरि क्तः ।) प्रवेश-

विशिष्टः । यथा, --
“स तं प्रविष्टं वृतमाततायिभि-
र्भटैरनेकैरवलोक्य माधवः ॥”
इति श्रीभागवते बाणयुद्धे ६२ अध्यायः ॥