शब्दकल्पद्रुमः/पूजितः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/२१५

पूजितः, त्रि, (पूज + क्तः ।) प्राप्तपूजः । अर्च्चितः ।

तत्पर्य्यायः । अञ्चितः २ । इत्यमरः । ३ । १ । ९८ ॥
(यथा, भट्टिः । ४ । १ ।
“निवृत्ते भरते धीमानत्रे रामस्तपोवनम् ।
प्रपेदे पूजितस्तस्मिन् दण्डकारण्यमीयिवान् ॥”)

पूजितव्यः, त्रि, पूजनीयः । पूजधातोः कर्म्मणि

तव्यप्रत्ययनिष्पन्नः ॥

पूजिलः, पुं, (पूज्यते इति । पूज + “गुपादिभ्यः

कित् ।” उणा० १ । ५७ । इति इलच् । स च
कित् ।) देवता । इति संक्षिप्तसारोणादि-
वृत्तिः ॥ पूज्ये, त्रि । इत्युणादिकोषः ॥

पूज्यः, पुं, (पूजयितुमर्हः । पूज + “अर्हे कृत्य-

तृचश्च ।” ३ । ३ । १६९ । इति यत् ।) श्वशुरः ।
पूजनीये, त्रि । तत्पर्य्यायः । प्रतीक्ष्यः २ । इत्य-
मरः । ३ । ३ । १५० ॥ यथा, --
“अहं हि पूर्ब्बो वयसा भवद्भ्य-
स्तेनाभिवादं भवतां न युक्तम् ।
यो विद्यया तपसा जन्मना वा
वृद्धः स पूज्यो भवति द्विजानाम् ॥
अष्टक उवाच ।
अवादीश्चेद्वयसास्मि प्रवृद्ध
इति वैराजाभ्यधिकः कथञ्चित् ।
यो वै विद्वांस्तपसा स वृद्धः
स एव पूज्यो भवति द्बिजानाम् ॥”
इति मात्स्ये ३९ अध्यायः ॥

पूण, क संघाते । राशीकरणे । इति कविकल्प-

द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) षष्ठस्वरी ।
क, पूणयति धान्यं लोकः । राशीकरोतीत्यर्थः ।
इति दुर्गादासः ॥

पूतं, क्ली, (पूयते स्मेति । पू + कर्म्मणि क्तः ।)

अपनीतवुषधान्यम् । वओलान धान इति
भाषा ॥ तत्पर्य्यायः । बहुलीकृतम् २ । इत्यमरः ।
२ । ९ । २३ ॥

पूतः, त्रि, (पू ञ शोधे + क्तः ।) व्रतादिना शुद्धः ।

तत्पर्य्यायः । पवित्रः २ प्रयतः ३ । इत्यमरः ।
२ । ७ । ४५ ॥ शुद्धः । यथा, --
“दधिगोमयादि सामान्यं पवित्रं स्वभावपवित्रं
वा ।” इति भरतः ॥ तत्पर्य्यायः । पवित्रम् २ ।
मेध्यम् ३ । इत्यमरः । ३ । १ । ५५ ॥ यथा, --
“चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतं वदेद्वाक्यं बुद्धिपूतं विचिन्तयेत् ॥”
इति मार्कण्डेयपुराणम् ॥
सत्यम् । इति जटाधरः ॥

पूतः, पुं, (पूयते स्म येनेति । पू + करणे क्तः ।

यद्वा, पवते स्मेति गत्यर्थेति कर्त्तरि क्तः ।)
शङ्खः । श्वेतकुशः । विकङ्कतवृक्षः । इति राज-
निर्घण्टः ॥

पूतक्रतायी, स्त्री, (पूतक्रतोरिन्द्रस्य स्त्री । पूत-

क्रतु + “पूतक्रतोरै च ।” ४ । १ । ३६ । इति
ङीप् ऐकारादेशश्च ।) इन्द्रपत्नी । शची । इति
जटाधरः ॥

पूतक्रतुः, पुं, (पूतः क्रतुर्येन ।) इन्द्रः । इति जटा-

धरः ॥

पूतगन्धः, पुं, (पूतः पवित्रो गन्धो यस्य ।) वर्व्वरः ।

इति राजनिर्घण्टः ॥

पूततृणम्, क्ली, (पूतं पवित्रं तृणमिति नित्यकर्म्म-

धारयः ।) श्वेतकुशः । इति राजनिर्घण्टः ॥

पूतद्रुः, पुं, (पूतः पवित्रो द्रुः ।) पलाशवृक्षः ।

इति राजनिर्घण्टः ॥

पूतधान्यं, क्ली, (पूतं धान्यमिति नित्यकर्म्म-

धारयः ।) तिलः । इति राजनिर्घण्टः ॥

पूतना, स्त्री, (पूतं करोतीति । तत्करोतीति णिच् ।

ततो बहुलमन्यत्रापीति युच् ।) हरीतकी ।
इत्यमरः । २ । ४ । ४९ ॥ सिन्धुदेशजा स्वल्पत्वक् बृह-
दस्थिहरीतकी लेपने प्रशस्ता । इति राजवल्लभः ॥
(उत्पत्तिस्थानञ्चाकृतिश्चास्या यथा, --
“पूतना मगधोद्भवा ।” “पूतना चतुरस्रका ।”
“पूतना चतरङ्गुला -- ।”
इति हारीते कल्पस्थान प्रथमेऽध्याये ॥)
गन्धमांसी । इति राजनिर्घण्टः ॥ दानवीभेदः ।
सा वकासुरभगिनी जिघांसया स्तनकाल-
कूटप्रदानात् श्रीकृष्णेन हता । (एतद्वृत्तान्तस्तु
हरिवंशे ६२ अध्याये द्रष्टव्यः ॥) रोगभेदः ।
इति मेदिनी । ने, ९३ ॥ स च अहिपूतना-
नामबालरोगः । तस्य निदानं यथा, --
“पद्मवर्णो महापद्मो बाले दोषत्रयोद्भवः ।
शङ्खाभ्यां हृदयं यो वा हृदयाद्वा गुदं व्रजेत् ॥
क्षुद्ररोगे च कथिते अजगल्ल्यहिपूतने ॥”
क्षुद्ररोगोक्तं यथा, --
“शकृन्मूत्रसमायुक्तेऽशौचेऽपाने शिशोर्भवेत् ।
स्विन्ने वा स्नाप्यमाने वा कण्डूरक्तकफोद्भवा ॥
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते ।
एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥”
इति माधवकरः ॥ * ॥
(लक्षणान्तरमस्या यथा, --
“स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ
विड्भिन्नं सृजति च काकतुल्यगन्धिः ।
छर्द्द्यार्त्तो हृषिततनूरुहः कुमार-
स्तृष्णालुर्भवति च पूतनागृहीतः ॥”
इति सुश्रुतेनोत्तरतन्त्रे सप्तविंशेऽध्याय उक्तम् ॥
चिकित्सास्या यथा, --
“कपोतवङ्कारलुको वरुणः पारिभद्रकः ।
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ॥
वचा वयस्था गोलोमी हरितालं मनःशिला ।
कुष्ठं सर्ज्जरसश्चैव तैलार्थे वर्ग इष्यते ॥
हितं घृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च ।
कुष्ठतालीशखदिरं चन्दनस्यन्दने तथा ॥
देवदारु वचाहिङ्गु कुष्ठं गिरिकदम्बकः ।
एलाहरेणवश्चापि योज्या तद्धूपने सदा ॥
गन्धनाकुलिकुम्भीका मज्जानो वदरस्य च ।
कर्कटास्थि घृतञ्चैव धूपनं सर्षपैः सह ॥
काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् ।
मत्स्यौदनञ्च कुर्व्वीत कृशरां पललन्तथा ॥
शरावसम्पुटे कृत्वा वलिं शून्यगृहे हरेत् ।
उच्छिष्टेनाभिषेकेन शिरसि स्नानमिष्यते ॥
पूज्या च पूतना देवी वलिभिः सोपहारकैः ।
मलिनाम्बरसंवीता मलिनारूक्षमूर्द्धजा ॥
शून्यागाराश्रिता देवी दारकं पातु पूतना ।
दुर्द्द्र्शना सुदुर्गन्धा कराला मेघकालिका ॥
भिन्नागाराश्रया देवी दारकं पातु पूतना ॥”
इति चोत्तरतन्त्रे द्वात्रिंशत्तमेऽध्याये सुश्रुतेनो-
क्तम् ॥) बालमातृकाविशेषः । यथा, --
“तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना
नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति
ज्वरः ॥ गात्रमुद्वेजयति स्तन्यं न गृह्णाति दृष्टिं
बध्नाति क्रन्दति ऊर्द्धं निरीक्षते । वलिन्तस्य प्रव-
क्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां
गृहीत्वा गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं रक्त-
सप्तध्वजाः सप्तप्रदीपाः सप्तस्वस्तिकाः मत्स्य-
मांससुराः अग्रभक्तञ्च दक्षिणस्यां दिशि मध्याह्रे
चतुष्पथे वलिर्दातव्यः शिवनिर्म्माल्यगुग्गुलु-
सर्षपनिम्बपत्रमेषशृङ्गैर्दिनत्रयं धूपयेत् । ॐ
नारायणाय नमः हन हन मुञ्च मुञ्च हुं फट्
त्रायस्व स्वाहा । चतुर्थे दिवसे ब्राह्मणं भोजयेत्
ततः सम्पद्यते शुभम् ।” इति चक्रपाणिदत्तः ॥

पूतनारिः, पुं, (पूतनाया अरिः शत्रुः ।) श्रीकृष्णः ।

इति शब्दरत्नावली ॥

पूतनासूदनः, पुं, (पूतनां सूदयति सूदितवानिति

वा । सूद + ल्युः ।) श्रीकृष्णः । इति त्रिकाण्ड-
शेषः ॥

पूतनाहा, [न्] पुं, (पूतनां हन्तीति । हन +

क्विप् ।) श्रीकृष्णः । इति हेमचन्द्रः ॥

पूतफलः, पुं, (पूतानि पवित्राणि फलान्यस्य ।)

पनसः । इति राजनिर्घण्टः ॥ (पनसशब्देऽस्य
विवरणं व्याख्यातम् ॥)

पूता, स्त्री, (पूत + टाप् ।) दूर्व्वा । इति राज-

निर्घण्टः ॥

पूतात्मा, [न्] पुं, (पूतः पवित्र आत्मा स्वभावः ।)

पवित्रस्वभावः । (पूत आत्मा स्वरूपं यस्य
विष्णुः । यथा, महाभारते । १३ । १४९ । १५ ।
“पूतात्मा परमात्मा च मुक्तानां परमागतिः ॥”)
शुद्धदेहे, त्रि । यथा, --
“शाम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् ।
पूतात्मा नीरुजः श्रीमांस्तस्माद्रोगाद्बिमुक्तवान् ॥”
इति शाम्बपुराणे सूर्य्यस्तवः ॥

पूति, क्ली, (पुनातीति । पू + कर्त्तरि क्तिच् ।)

रोहिषतृणम् । इति राजनिर्घण्टः ॥

पूतिः, स्त्री, (पू + भावे क्तिन् ।) पवित्रता ।

दुर्गन्धः । इत्यमरटीकायां रायमुकुटः ॥ (यथा,
गारुडे १८० अध्याये ।
“मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणात् शिव ।
कर्णयोः पूतिनाशः स्यात् कृमिस्रावो विनश्यति ॥”)
खट्टाशमुष्कः । खाटाशी इति भाषा । तस्यानु-
लेपनगुणः । परमालक्ष्मीरक्षोज्वरनाशित्वम् ।
इति राजवल्लभः ॥ (अस्या विशोधनं यथा, --
“यथालाभमपामार्गस्रुह्यादिक्षारलेपितम् ।
वास्पस्वेदेन संस्विद्य पूतिं निर्लोमतां नयेत् ॥
दोलापाकं पचेत् पश्चात् पञ्चपल्लववारिणा ।
खलः साधुमिवोत्पीड्य ततो निस्नेहतां नयेत् ॥
पृष्ठ ३/२१६
आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः ।
शिग्रुमूलेन केतक्याः पुष्पपत्रपुटे च तम् ॥
पचेदेवं विशुद्धः सन् मृगनाभिसमो भवेत् ॥”
इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥
दुर्गन्धविशिष्टे, त्रि । यथा, भगवद्गीतायाम् ।
१७ । १० ।
“यातयामं गतरसं पूति पर्य्युषितञ्च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥”)

पूतिकं, क्ली, (पूत्या दुर्गन्धेन कायतीति । कै +

कः ।) विष्ठा । इति राजनिर्घण्टः ॥ (दुर्गन्ध-
विशिष्टे, त्रि । यथा, महाभारते । १३ । ९ । ११ ।
“किं त्वया पापकं पूर्ब्बं कृतं कर्म्म सुदारुणम् ।
यस्त्वं श्मशाने मृतकान् पूतिकानत्सि कुत्सि-
तान् ॥”)

पूतिकः, पुं, (पूत्या कायतीति । कै + कः ।)

पूतिकरञ्जवृक्षः । इत्यमरः । २ । ४ । ४८ ॥
(अस्य पर्य्यायादिकं पूतिकरञ्जशब्दे द्रष्टव्यम् ॥)

पूतिकरजः, पुं, (पूतियुक्तः करजः ।) करञ्जभेदः ।

इत्यमरः । २ । ४ । ४८ ॥ यथा, “अथ कटुकरञ्ज-
घोराकरञ्जनामगुणाः ।
करञ्जो नक्तमालश्च करजश्चिरविल्वकः ।
घृतपूर्णकरञ्जोऽन्यः प्रकीर्य्यः पूतिकोऽपि च ॥
स चोक्तः पूतिकरजः सोमवल्कश्च स स्मृतः ।
करञ्जः कटुकस्तीक्ष्णो वीर्य्योष्णो योनिदोषहृत् ॥
कुष्ठोदावर्त्तगुल्मार्शोव्रणकृमिकफापहः ।
तत्पत्रं कफवातार्शःकृमिशोथहरं परम् ॥
भेदनं कटुकं पाके वीर्य्योष्णं पित्तलं लघु ।
तत्फलं कफवातघ्नं मेहार्शःकृमिकुष्ठजित् ॥
घृतपूर्णकरञ्जोऽपि करञ्जसदृशो गुणैः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पूतिकरञ्जः, पुं, (पूतियुक्तः करञ्जः ।) करञ्ज-

विशेषः । नाटाकरञ्ज इति भाषा । कठकरेज
इति हिन्दी भाषा । तत्पर्य्यायः । प्रकीर्य्यः २
पूतिकरजः ३ पूतीकरजः ४ पूतिकः ५ पूतीकः
६ कलिकारकः ७ कलिमालकः ८ कलह-
नाशनः ९ । इत्यमरभरतौ ॥ प्रकीर्णः १०
रजनीपुष्पः ११ सुमनाः १२ पूतिकर्णिकः १३
कैडर्य्यः १४ कलिमाल्यः १५ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । विषवातार्त्ति-
कण्डूविचर्च्चिकाकुष्ठस्पर्शत्वग्दोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ (अस्य पर्य्यायान्तरं यथा,
“स चोक्तः पूतिकरजः सोमवल्कश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पूतिकर्णः, पुं, (पूतिर्दुर्गन्धः कर्णो यस्मात् ।) कर्ण-

रोगविशेषः । तल्लक्षणं यथा, --
पूतिकर्णमाह ।
“कर्णविद्रधिपाकाद्वा म कर्णो वारिपूरणात् ।
पूयं स्रवति यत् पूति स ज्ञेयः पूतिकर्णकः ॥”
कर्णस्रावाद्भेदार्थमाह ।
पूतीति नियमेन पूति यथा स्यादेवं स्रवति ॥
तच्चिकित्सा यथा, --
“कर्णस्रवे पूतिकर्णे तथैव कृमिकर्णके ।
सामान्यं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि ॥
सर्ज्जिकाचूर्णसंयुक्तबीजपूररसं क्षिपेत् ।
कर्णस्रावरुजा दाहास्तेन नश्यन्त्यसंशयम् ॥ १ ॥
आम्रजम्बुप्रवालानां मधुकस्य वटस्य च ।
एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ॥ २ ॥
जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥ ३ ॥
घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्रसंयुतम् ।
प्रशस्यते चिरोत्थे तत् सास्रावे पूतिकर्णके ॥ ४ ॥
कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ।
पूतिकर्णापहं तैलं वस्तमूत्रेण साधितम् ॥
कुष्ठादितैलम् ॥ ५ ॥
“शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ।
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥ ६ ॥
चूर्णेन गन्धकशिलारजनीभवेन
मुष्ट्यंशकेन कटुतैलपलाष्ठके तु ।
धत्तूरपत्ररसतुल्यमिदं विपक्वं
नाडीं जयेच्चिरभवामपि कर्णजाताम् ॥
मुष्टिः पलम् ॥ ७ ॥
कृमिकर्णविनाशाय कृमिघ्नीं कारयेत् क्रियाम् ।
वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च ॥
पूरणं हरितालेन गव्यमूत्रयुतेन च ।
धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥”
इति भावप्रकाशः ॥
(चिकित्सास्य यथा, --
“निर्गुण्डी स्वरसे तैलं सिन्धुधूमरजो गुडः ।
पूरणः पूतिकर्णस्य शमनो मधुसंयुतः ॥”
इत्युत्तरतन्त्रे एकविंशेऽध्याये सुश्रुतेनोक्तम् ॥)

पूतिकर्णकः, पुं, (पूतिः कर्णो यस्मात् । कप् ।)

कर्णरोगभेदः । तस्य लक्षणम् । यथा, --
“कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् ।
पूयं स्रवति वा पूति स ज्ञेयः पूतिकर्णकः ॥”
इति माधवकरः ॥
(लक्षणान्तरमस्य यथा, --
“स्थिते कफे स्रोतसि पित्ततेजसा
विलाप्यमाने भृशसम्प्रतापवान् ।
अवेदनो वाप्यथवा सवेदनो
घनं स्रवेत् पूति स पूतिकर्गकः ॥”
इत्युत्तरतन्त्रे विंशेऽध्याये सुश्रुतेनोक्तम् ॥)
औषधं यथा, --
“निर्गुण्डी स्वरसे तैलं सिन्धुधूमरजो गुडः ।
पूरणात् पूतिकर्णस्य शमनो मधुसंयुतः ॥”
अथवा ।
“वरुणार्द्रकपित्थाम्रजम्बूपल्लवसाधितम् ।
पूतिकर्णापहं तैलं जातीपत्ररसेन वा ॥”
इति चक्रपाणिदत्तः ॥
(चिकित्सास्य यथा, --
“घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्वसंयुतम् ।
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ॥”
इति चोत्तरतन्त्रे एकविंशतितमेऽध्याये सुश्रुते-
नोक्तम् ॥)

पूतिका, स्त्री, (पूत्या कायतीति । कै + कः ।

टाप् ।) मार्जारी । इति राजनिर्घण्टः ॥
(कीटविशेषः । यथा, पञ्चतन्त्रे । ३ । ९९ ।
“पुलका इव धान्येषु पूतिका इव पक्षिषु ।
मशका इव मर्त्तेषु येषां धर्म्मो न कारणम् ॥”)
लताशाकविशेषः । इत्यमरटीकायां भरतः ॥
पुँइ इति भाषा ॥ अस्याः पर्य्यायगुणौ
उपोदकीशब्दे द्रष्टव्यौ ॥ द्वादश्यां तद्भक्षणे
दोषो यथा । पूतिका ब्रह्मघातिका । यदपि ।
‘कुसुम्भं नालिकाशाकं वृन्ताकं पौतिकीन्तथा ।
भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः ॥’
इत्युशनसा सामान्यतोऽभिहितम् । अत्र
नालिका श्वेतकलम्बीति कल्पतरुः । पूतिका च
द्वादश्यामधिकदोषाय शूद्रविषयिका वा ।” इति
तिथितत्त्वम् ॥ (इयं हि सोमांशुतो जातेति
सोमस्यालाभे प्रतिनिधित्वेन ग्राह्या । यथा,
महाभारते । ३ । ३५ । ३३ ।
“अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकामिव सोमस्य तथेदं क्रियतामिति ॥”)

पूतिकामुखः, पुं, (पूतिकाया मुखमिव मुखं यस्य ।)

शम्बूकः । इति शब्दमाला ॥ (शम्बूकशब्देऽस्य
विषयो ज्ञेयः ॥)

पूतिकाष्ठं, क्ली, (पूति काष्ठमिति कर्म्मधारयः ।)

देवदारु । सरलवृक्षः । इत्यमरः । २ । ४ । ५४,
२ । ४ । ६० ॥ पवित्रदारु च ॥

पूतिकाष्ठकं, क्ली, (पूतिकाष्ठ + स्वार्थे कन् ।)

सरलवृक्षः । इति शब्दचन्द्रिका ॥

पूतिगन्धं, क्ली, (पूतिर्गन्धो यस्य ।) रङ्गम् । इति

राजनिर्घण्टः ॥

पूतिगन्धः, पुं, (पूतिर्गन्धो यस्य ।) गन्धकः । इङ्गु-

दीवृक्षः । इति राजनिर्घण्टः ॥ दुर्गन्धे, त्रि ॥
(यथा, मनुः । ४ । १०७ ।
“नित्यानध्याय एव स्यात् ग्रामेषु नगरेषु च ।
धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा ॥”)

पूतिगन्धिः, त्रि, (पूतिर्गन्धो यस्य । “गन्धस्ये-

दुत्पूतिसुसुरभिभ्यः ।” ५ । ४ । १३५ । इति
इः ।) दुर्गन्धः । इत्यमरः । १ । ५ । १२ ॥
पूतिर्विट् पूतिरिव गन्धोऽस्य । इति रायमुकुटः ॥
(यथा, महाभारते । २ । ६० । २९ ।
“अव्याधिजं कटुजं तीक्ष्णमुष्णं
यशोमुषं परुषं पूतिगन्धि ।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज ! पिब प्रशाम्य ॥”)

पूतिगन्धिकः, त्रि, (पूतिगन्धि + स्वार्थे कन् ।)

दुर्गन्धः । इति हेमचन्द्रः । ६ । २७ ॥

पूतिगन्धिका, स्त्री, (पूतिगन्धोऽस्त्यस्या इति ।

पूतिगन्ध + ठन् ।) वाकुची । इति राज-
निर्घण्टः ॥

पूतितैला, स्त्री, (पूति दुर्गन्धं तैलं यस्याः ।)

ज्योतिष्मती । इति रत्नमाला ॥ नयाफट्की
इति भाषा ॥ (पर्य्यायोऽस्या यथा, --
“पारावतपदी पिण्या नगणास्फुटबन्धनी ।
ज्योतिष्मती पूतितैला केचित्तामिङ्गुदीं विदुः ॥”
इति वैद्यकरत्नमालायाम् ॥)
पृष्ठ ३/२१७

पूतिनस्यः, पुं, (पूतिर्दुर्गन्धो नस्यः नासिकाभवो

रोगः ।) नासारोगभेदः । तस्य लक्षणम् । यथा,
“दोषैर्विदग्धैर्गलतालुमूले
संमूर्च्छितो यस्य समीरणस्तु ।
निरेति पूतिर्मुखनासिकाभ्यां
तं पूतिनस्यं प्रवदन्ति रोगम् ॥”
इति माधवकरः ॥
औषधं यथा, --
“व्याघ्रीदन्तीवचाशिग्रुस्वरसव्योषसम्भवैः ।
पाचितं लावणं तैलं पूतिनासागदं जयेत् ॥”
अथवा ।
“त्रिकटुविडङ्गकसैन्धवबृहतीफलशिग्रुस्वरस-
दन्तीभिः ।
तैलं गोजलसिद्धं नस्यं स्यात् पूतिनस्यस्य ॥”
इति चक्रपाणिदत्तः ॥
(अस्य व्याख्याने श्रीकण्ठदत्तेन यद्बिदेहवचन-
माहृतं तद्यथा । “नासिका भवो नस्यः पूति-
र्नस्यो वायुर्यत्र तं पूतिनस्यम् ।” इहैव विदेहः ।
“कफपित्तमसृङ्मिश्रं सञ्चितं मूर्द्ध्नि देहिनाम् ।
विदह्यमुष्मणोद्गाढं रुजां कृत्वाक्षिशङ्खजाम् ॥
ततः प्रस्यन्दते घ्राणात् सरक्तं पूति पीतकम् ।
पूतिनस्यन्तु तं विद्याद्घ्राणकण्डूल्वणप्रदम् ॥”
चिकित्सान्तरमस्य यथा, --
“पूर्ब्बोद्दिष्टे पूतिनस्ये च जन्तोः
स्नेहस्वेदौ छर्द्दनं श्रंसनञ्च ।
युक्तं भक्तं तीक्ष्णमल्पं लघुस्या-
दुष्णं तोयं धूमपानञ्च काले ॥”
इत्युत्तरतन्त्रे त्रयोविंशेऽध्याये सुश्रुतेनोक्तम् ॥)

पूतिपत्रः, पुं, (पूति पत्रं यस्य ।) श्योनाकप्रभेदः ।

इति राजनिर्घण्टः ॥

पूतिपुष्पिका, स्त्री, (पूति पुष्पमस्याः । कापि अत

इत्वम् ।) मातुलुङ्गा । इति रत्नमाला ॥ मखुर-
लेवु इति मौटा वा इति च भाषा ॥ (गुणा-
दयोऽस्या मातुलुङ्गशब्दे ज्ञातव्याः ॥)

पूतिफला, स्त्री, (पूति फलं यस्याः ।) सोमराजी ।

इति रत्नमाला ॥

पूतिफली, स्त्री, (पूति फलं यस्याः । ङीष् ।)

सोमराजी । इत्यमरः । २ । ४ । ९६ ॥ (अस्याः
पर्य्यायो यथा, --
“अवल्गुजो वाकुची स्यात् सोमराजी सुप-
र्णिका ।
शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पूतिमयूरिका, स्त्री, (पूतिर्मयूरीव । ततः स्वार्थे

कन् ह्रस्वश्च ।) अजगन्धा । इति राजनिर्घण्टः ॥

पूतिमेदः, पुं, (पूतिर्मेदोऽस्य ।) अरिमेदः । इति

राजनिर्घण्टः ॥ (विशेषोऽस्य अरिमेदशब्दे
बोद्धव्यः ॥)

पूतिवातः, पुं, (पूतये पावित्र्याय वातो यस्य ।)

विल्ववृक्षः । इति रत्नमाला ॥ (पर्य्यायोऽस्य यथा,
“विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी ।
पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥”
इति वैद्यकरत्नमालायाम् ॥
(पूतिर्वातः ।) दुर्गन्धवायुश्च ॥

पूतिवृक्षः, पुं, (पूतिर्वृक्षः ।) श्योनाकः । इति

रत्नमाला ॥ पवित्रदुर्गन्धौ तरू च ॥

पूतिशारिजा, स्त्री, (पूतिः शारिरिव जायते इति ।

जन + डः । टाप् ।) खट्टाशी । इति त्रिकाण्ड-
शेषः ॥

पूतीकः, पुं, (पुति + वा ङीष् । तद्वत् कायतीति ।

कै + कः ।) पूतिकरञ्जः । इत्यमरटीकायां
भरतः ॥ (यथास्य पर्य्यायः ।
“पूतीकरञ्जः पूतीकः प्रकीर्य्यश्च सकण्टकः ॥”
इति वैद्यकरत्नमालायाम् ॥
यथा च सुश्रुते । १ । ३६ ।
“पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥”)
गन्धमार्जारः । इति राजनिर्घण्टः ॥

पूतीकरञ्जः, पुं, (पुतीयुक्तः करञ्जः ।) पूति-

करञ्जः । इति रत्नमाला ॥ नाटा इति भाषा ॥
(पर्य्यायोऽस्य यथा, --
“पूतीकरञ्जः पूतीकः प्रकीर्य्यश्च सकण्टकः ॥”
इति वैद्यकरत्नमालायाम् ॥)

पूतीका, स्त्री, (पूत्या दुर्गन्धेन कायतीति । कै +

कः ।) पूतिका । इत्यमरटीकायां भरतः ॥

पूत्यण्डः, पुं, (पूति दुर्गन्धमण्डमस्य ।) गन्धकीटः ।

गँदोपोका इति भाषा ॥ (यथा, महाभारते ।
१२ । ३२२ । ७ ।
“पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु ।
तद्विधास्ते मनुष्येषु येषां धर्म्मो न कारणम् ॥”)
जन्तुभेदः । इति मेदिनी । डे, ३२ ॥ खटाशी
इति भाषा ॥

पूनः, त्रि, (पू + क्तः । “पूञो विनाशे ।” ८ । २ ।

४४ । इत्यस्य वार्त्तिकोक्त्या तस्य नः ।) नष्टः ।
इति मुग्धबोधव्याकरणम् ॥

पूपः, पुं, (पू + क्विप् । पुवं पवित्रं पाति रक्ष-

तीति । पा + कः ।) पिष्टकः । इत्यमरः । २ । ९ ।
४८ ॥ (यथा, मार्कण्डेये । १५ । २४ ।
“मधुहृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ॥”
(पिष्टकशब्दऽस्य विवृतिर्ज्ञेया ॥)

पूपली, स्त्री, (पूपं तदाकारं लातीति । ला +

कः ।) पोलिका । इति हेमचन्द्रः । ३ । ६३ ॥

पूपाली, स्त्री, (पूपाय अलतीति । अल + अच् ।

गौरादित्वात् ङीष् ।) पोली । इति त्रिकाण्ड-
शेषः ॥

पूपाष्टका, स्त्री, (पूपद्रव्यसाधनी अष्टका अष्टमी ।)

अग्रहायणीपूर्णिमायाः परतः कृष्णाष्टमी ।
तद्विवरणं अष्टकाशब्दे द्रष्टव्यम् । “तत्र नित्यं
श्राद्धं पूपाङ्गकं कर्त्तव्यम् । यथा गोभिलः ।
अष्टका योर्द्ध्वमाग्रहायण्यास्तमिस्राष्टमी । ब्रह्म-
पुराणे ।
पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च ।
कृष्णपक्षे वरिष्ठा हि पूर्ब्बा चैन्द्री विभाव्यते ॥
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी ॥
आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा ।
शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः ॥”
इति तिथितत्त्वम् ॥

पूपिका, स्त्री, (पूपः पूपाकारोऽस्त्यस्या इति ठन् ।

ततष्टाप् ।) पूलिका । इति हेमचन्द्रः । ३ । ६२ ॥

पूय, ई ङ दुर्गन्धे । शीर्ण्याम् । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।
निष्ठायामनिट् ।) षष्ठस्वरी । ई, पूतः । ङ,
पूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः । शीर्णिर्भेद-
नम् । इति दुर्गादासः ॥

पूयं, क्ली, (पूयते दुर्गन्धो भवतीति । पूय + अच् ।)

पक्वव्रणादिसम्भवघनीभूतशुक्लवर्णविकृतरक्तम् ।
पूँय इति भाषा । तत्पर्य्यायः । क्षतजम् २ मल-
जम् ३ पूयनम् ४ । प्रसितम् ५ । इति शब्द-
चन्द्रिका ॥ (यथा, महाभारते । ३ । १९९ । ५४ ।
“ये च दुष्कृतकर्म्माणः पूयं तेषां विधीयते ॥”)
पूयवर्द्धनद्रव्याणि यथा, --
नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितक-
शाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्क-
शाकाजाविकानूपौदकमांसवसाशीतोदककृश-
रापायसदधिदुग्धतक्रप्रभृतीन् परिहरेत् ।
“तक्रान्तैर्नवधान्यादिर्योऽयं वर्ग उदाहृतः ।
दोषसंजननो ह्येष विज्ञेयः पूयवर्द्धनः ॥”
इति सुश्रुतः ॥
(अस्य विषयो यथा, --
“वातादृते नास्ति रुजा न पाकः
पित्तादृते नास्ति कफाच्च पूयः ॥”
इति सुश्रुते सूत्रस्थाने सप्तदशेऽध्याये ॥)

पूयनं, क्ली, (पूयतेऽनेनेति । पूय + ल्युट् ।) पूयम् ।

इति शब्दचन्द्रिका ॥

पूयरक्तः, पुं, (पूयविशिष्टं रक्तमस्मिन् ।) नासा-

रोगभेदः । तस्य लक्षणम् । यथाह माधवकरः ।
“दोषैर्विदग्धैरथवापि जन्तो-
र्ललाटदेशेऽभिहतस्य तैस्तैः ।
नासा स्रवेत् पूयमसृग्विमिश्रं
तं पूयरक्तं प्रवदन्ति रोगम् ॥”
(क्लीवलिङ्गेऽपि दृश्यते । यथा, --
“निचयादभिघाताद्वा पूयासृङ्मासिका स्रवेत् ।
तत् पूयरक्तमाख्यातं शिरोदाहरुजाकरम् ॥”
इति वाभटे उत्तरस्थाने ऊनविंशेऽध्याये ॥
चिकित्सास्य यथा, --
“वक्ष्यामूर्द्धं रक्तपित्तोपशान्तिं
नाडीवत्स्यात् पूयरक्ते चिकित्सा ।
वान्ते सम्यक् चावपीडं वदन्ति
तीक्ष्णं धूमं शोधनञ्चात्र नस्यम् ॥”
इत्युत्तरतन्त्रे त्रयोविंशेऽध्याये सुश्रुतेनोक्तम् ॥)

पूयारिः, पुं, (पूयानामरिः तद्विनाशकत्वात् ।)

निम्बवृक्षः । इति शब्दचन्द्रिका ॥ (विवरणमस्य
निम्बशब्दे ज्ञातव्यम् ॥)

पूयालसः, पुं, (पूयः अलस इव यत्र । सान्द्रत्वेन

चिरान्निर्गमनादेव तथात्वम् ।) सन्धिगतरोग-
भेदः । तस्य लक्षणं यथा, --
पृष्ठ ३/२१८
“पक्वः शोफः सन्धिजः संस्रवेद्यः
सान्द्रं पूयं पूतिपूयालसः सः ॥”
इति सुश्रुतः ॥
(“पूयालसः सोपनाहः स्रावाश्चत्वार एव च ।
पर्व्वणीकालजी जन्तुर्ग्रन्थिसन्धौ न वामयाः ॥”
“पूयालसन्तु तं विद्यात् सन्धौ कानीनके नृणा-
मिति वचनात् ॥” इति भावप्रकाशस्य मध्यखण्डे
चतुर्थे भागे ॥)

पूर, ई य ङ पूर्त्तौ । इति कविकल्पद्रुमः ॥ (दिवा०-

आत्म०-सक०-सेट् । निष्ठायामनिट् ।) दीर्घी ।
ई, पूर्णः । य ङ, पूर्य्यन्ते पितरस्तञ्चेति हला-
युधः । पूर्त्तिरिहाप्यायनम् । इति दुर्गादासः ॥

पूर, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) दीर्घी । क, पितॄन् पूरयति
श्राद्धे हव्यैः कव्यैश्च यः सदा । इति हलायुधः ॥
इति दुर्गादासः ॥

पूरं, क्ली, (पूरयति सौगन्धेनेति । पूर + कः ।)

दाहागुरु । इति राजनिर्घण्टः ॥

पूरः, पुं, (पूरयतीति । पूर + कः ।) जलसमूहः ।

(यथा, रघौ । ३ । १७ ।
“महोदधेः पूर इवेन्दुदर्शनात्
गुरुः प्रहर्षः प्रबभूव नात्मनि ॥”)
व्रणसंशुद्धिः । खाद्यविशेषः । इति मेदिनी । रे,
६० ॥ (प्राणायामादिकर्त्तुर्नासारन्ध्रेण बहिः-
पवनाकर्षणम् । यथा, भागवते । ३ । २८ । ९ ।
“प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।
प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम् ॥”
बीजपूरः । तत्पर्य्यायो यथा, --
“बीजपूरो मातुलुङ्गः सुफलः फलपूरकः ।
लुङ्गुधः पूरकः पूरो बीजपूर्णोऽम्बुकेशरः ॥”
इति वैद्यकरत्नमालायाम् ॥)

पूरकः, पुं, (पूरयतीति । पूरि + ण्वुल् ।) वीज-

पूरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो
यथा, --
“बीजपूरो मातुलुङ्गः सुफलः फलपूरकः ।
लुङ्गुषः पूरकः पूरो बोजपूर्णोऽम्बुकेशरः ॥”
इति वैद्यकरत्नमालायाम् ॥)
गुणकाङ्कः । इति लीलावती ॥ ध्यानादिकर्त्तृ-
नासिकागतोच्छ्वासः । ब्रह्मध्यानपूर्ब्बकप्राणाया-
माङ्गतत्तन्मन्त्रं जपन् वामनासिकया वायुना
देहपूरणम् । (यथा, हठयोगप्रदीपिकायाम् ।
२ । ७१ ।
“प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥”)
यथाच व्यासः ।
“आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् ।
ब्रह्माणं केशवं शम्भुं ध्यायेद्देवाननुक्रमात् ॥
पूर्ब्बवचने त्रिर्जपमात्राभिधानादत्र त्रिस्त्रिरिति
वीप्सा सन्ध्यात्रयापेक्षया ।
ब्रह्माणं केशवं शम्भुं ध्यायन् मुच्येत बन्धनात् ॥
इति योगियाज्ञवल्क्यः ।
‘भूर्भुवःस्वर्महर्जनस्तपः सत्यं तथैव च ।
प्रत्योङ्कारसमायुक्तं तथा तत् सवितुः पदम् ॥
ॐ आपो ज्योतिरित्येतच्छिरः पश्चात्तु योज-
येत् ।
त्रिरावर्त्तनयोगात्तु प्राणायामस्तु शब्दितः ॥
पूरकः कुम्भको रेच्यः प्राणायामास्त्रलक्षणः ।
नासिकाकृष्ट उच्छ्वासो ध्यातुः पूरक उच्यते ॥
कुम्भको निश्चलः श्वासो मुच्यमानस्तु रेचकः ॥
मोचनं विशेषयति विष्णुपुराणम् ।
नासंवृतमुखो जृम्भेद्धासकाशौ च वर्ज्जयेत् ।
नोच्चेर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं बुधः ॥”
इत्याह्निकाचारतत्त्वम् ॥
षोडशचतुरन्यतरसंख्यकप्रणवबीजान्यतरजपे-
नैकनासापुटकरणकप्राणायामाङ्गवायुपूरणम् ।
यथा, मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडश-
वारजपेन वामनासापुटे वायुपूरकं कुर्य्यादिति
तन्त्रसारः ॥ * ॥ क्ली, प्रेतदेहनिष्पादकाशौच-
कालदेयदशपिण्डम् । यथा, --
“पूरकेण तु पिण्डेन देहो निष्पाद्यते यतः ।
कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम् ॥”
इति वायुपुराणम् ॥
ऋष्यशृङ्गः ।
“न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके ।
भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम् ॥”
अत्र भाषणविधौ एतत्पिण्डं यज्ञदत्तस्य पूरक-
मित्येतावन्मात्रश्रुतेः शिरःपूरकमित्यादिविशे-
षोल्लेखे प्रमाणं नास्ति । इति स्मार्त्तभट्टा-
चार्य्याः ॥ प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्ग-
वेति विष्णुधर्म्मोत्तरे देहश्रुतेर्देहपूरकमिति
प्रयोगापत्तेश्च । तस्मादनिरुद्धभट्टाद्युक्तः केवल-
पूरकप्रयोग एव युक्त इति । शातातपः ।
“भर्त्तुः पिण्डप्रदाने तु साध्वी स्त्री चेद्रजस्वला ।
वस्त्रं त्यक्त्वा पुनः स्नात्वा सैव दद्याच्च पूरकम् ॥”
इति शुद्धितत्त्वम् ॥ * ॥
पूरणकर्त्तरि, त्रि । इति शब्दरत्नावली ॥ (यथा,
मनुः । ९ । २८९ ।
“प्राकारस्य च भेत्तारं परिखाणाञ्च पूरकम् ।
द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥”)

पूरणं, क्ली, (पूर्य्यते अनेनेति । पूर + करणे

ल्युट् ।) पिण्डप्रभेदः । इति मेदिनी । णे, ६४ ॥
वृष्टिः । कुटन्नटम् । इति शब्दमाला ॥ अङ्कानां
गुणनम् । इति शुभङ्करः ॥ वापतन्तुः । इति
हेमचन्द्रः ॥

पूरणः, पुं, (पूर्य्यतेऽनेनेति । पूरि + करणे ल्युट् ।)

विष्णुतैलम् । इति धरणिः ॥ सेतुः । इति हारा-
वली ॥ (पूरयतीति । पूरि + कर्त्तरि ल्युः ।)
समुद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥ पूरके,
त्रि । इति मेदिनी । णे, ६३ ॥ (यथा, हरि-
वंशे । १२९ । ५२ ।
“आसन्नः सन्नतरः साधनानां
श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
पतिर्गणानां महतां सत्कृतीनां
पायान्मेशः पूरणः षड्गुणानाम् ॥”)

पूरणी, स्त्री, (पूर्य्यते अनयेति । पूरि + ल्युट् +

ङीप् ।) शाल्मलिवृक्षः । इत्यमरः । २ । ४ । ४६ ॥
(अस्या पर्य्यायान्तरं यथा, भावप्रकाशस्य पूर्ब्ब-
खण्डे प्रथमे भागे ।
“शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीतिच ।
रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥”)
पूर्य्यतेऽनया पूरणी । यथा पञ्चानां पूरणी पञ्चमी ॥

पूराम्लं, क्ली, (पूरं पूरकमम्लमत्र ।) वृक्षाम्लम् ।

इति राजनिर्घण्टः ॥

पूरिका, स्त्री, (पूर्य्यते इति । पूरि + कः । स्त्रियां

ङीप् । पूरी । ततः स्वार्थे कन् । टाप् पूर्ब्ब-
ह्रस्वश्च ।) पिष्टकभेदः । पूरी इति कचुरी इति
च भाषा । यथा, --
“माषाणां पिष्टिकां युञ्ज्याल्लवणार्द्रकहिङ्गुभिः ।
तया पिष्टिकया पूर्णा समिता कृतपोलिका ।
ततस्तैले विपक्वा सा पूरिका कथिता बुधैः ॥”
अस्या गुणाः ।
“रुच्या स्वाद्बी गुरुः स्निग्धा वातपित्तास्रदूषिका ।
चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी ॥
तथैव घृतपक्वापि चक्षुष्या रक्तपित्तहृत् ॥”
इति भावप्रकाशः ॥
(अस्या गुणान्तरं यथा, --
“पूरिकाघृतपूरन्तु त्रिदोषशमनं परम् ।
वृष्यं संवृं हणं स्वादु क्षतक्षयनिवारणम् ॥”
इति हारीते प्रथमे स्थाने द्बादशेऽध्याये ॥)

पूरितं, त्रि, (पूर्य्यते स्मेति । पॄ पूरि वा + क्तः ।

“वा दान्तशान्तपूर्णेति ।” ७ । २ । २७ । इति
पक्षे इट् ।) कृतपूरणम् । तत्पर्य्यायः । पूर्णम्
२ । इत्यमरः । ३ । १ । ९८ ॥ गुणितञ्च ॥

पूरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर + “पुरः

कुषन् ।” उणा० ४ । ७४ । इति कुषन् । “अन्येषा-
मपि दृश्यते ।” ६ । ३ । १३७ । इति निपातनात्
दीर्घः ।) पुरुषः । पुमान् । इत्यमरः । २ । ६ । १ ॥
अथ पूरुषलक्षणम् ।
“पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् ।
सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥
बाहुनेत्रद्वयं कुक्षिद्वौ तु नासा तथैव च ।
स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥
ग्रीवाथ कर्णौ पृष्ठञ्च ह्रस्वे जङ्घे सुपूजिते ।
चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥
सूक्ष्माण्यङ्गुलिपर्व्वाणि दन्तकेशनखत्वचम् ।
पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥
नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा ।
हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥
पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च ।
तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥
स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् ।
उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥ * ॥
कटिर्विशाला बहुपुत्त्रभागी
विशालहस्तो नरपुङ्गवः स्यात् ।
उरो विशालं धनधान्यभागी
शिरो विशालं नरपूजितः स्यात् ॥
पृष्ठ ३/२१९
न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् ।
दीर्घबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् ॥
कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी ।
कदाचित्तुन्दिलो दुःखी कदाचिच्चञ्चला सती ॥
नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।
हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम् ॥
अकर्म्मकठिनौ हस्तौ पादावध्वनि कोमलौ ।
यस्य पाणितलौ रक्तौ तस्य राज्यं विनिर्द्दिशेत् ॥
दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन निर्धनः ।
कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥
रेखाभिर्ब्बहुभिर्दुःखं स्वल्पाभिर्धनहीनता ।
रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः ॥
अङ्गुष्ठोदरमध्ये तु यवो यस्य विराजितः ।
उन्नतं भोजनं तस्य शतं जीवति मानवः ॥
अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत् ।
ऐश्वर्य्यञ्च विनिर्द्दिष्टमशीत्यायुर्भवेद्घ्रुवम् ॥
धनुर्यस्य भवेत् पाणौ पङ्कजं वाथ तोरणम् ।
तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद्ध्रुवम् ॥
कनिष्ठातर्ज्जनीं यावत् रेखा भवति चाक्षता ।
विंशत्यब्दाधिकशतं नरा जीवन्त्यनामयाः ॥
कनिष्ठामध्यमां यावत् रेखा भवति चाक्षता ।
शताब्दं वाथ वाशीतिर्नरो जीवेन्न संशयः ॥
कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता ।
षष्टिं पञ्चाशदब्दं वा नरा जीवन्त्यसंशयम् ॥
रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः ।
कनिष्ठायां स्थिता रेखा संख्या यावतिका स्मृता ।
तावती पुरुषाणान्तु नारी भवति निश्चितम् ॥
करमध्यगता रेखा ध्रुवा ऊर्द्ध्वम्भवेद्यदि ।
नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान्
भवेत् ॥
मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः ।
पितामहस्य वा किञ्चित् धनञ्च लभते ध्रुवम् ॥
मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः ।
तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे ॥
यस्याथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्च दृश्यते ।
तदा वै पामरादीनामज्जितं धनमाप्नुयात् ॥
तर्ज्जन्यामथ चक्रञ्च मित्रद्वारा धनम्भवेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
मध्यमायां स्थिते चक्रे देवद्वारा धनं लभेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
अनामायां भवेत् चक्रं सर्व्वद्बारा भवेद्धनम् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥ * ॥
ललाटे दृश्यते यस्य चक्ररेखाचतुष्टयम् ।
अशीत्यायुः समाप्नोति पञ्चरेखाः शतं समाः ॥
यस्योन्नतं ललाटञ्च ताम्रकर्णञ्च दृश्यते ।
रेखाहीनश्च कक्षश्च स चोन्मत्तो महीं भ्रमेत् ॥
यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढि सर्व्वदा ।
भोगी भवति निर्व्वाणः पृथ्वीं भ्रमति सर्व्वदा ॥
दन्ताश्च विरला यस्य नीचवन्नीचकर्म्मकृत् ।
प्रगल्भो दन्तुरः सत्यं वेदान्तपारगो भवेत् ॥”
प्रकारान्तरम् ।
“दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते ।
परस्त्रीरमणो नित्यं परवित्तेन वित्तवान् ॥
दीर्घलिङ्गे च सौभाग्यं सूक्ष्मलिङ्गे नृपो भवेत् ।
वक्रास्यकठिनैर्लिङ्गैः प्रमाणान्निर्गतः सदा ॥
रमते च सदा दास्यां निर्घनो भवति ध्रुवम् ।
कृशलिङ्गेन सूक्ष्मेण रक्तवर्णेन भूपतिः ।
बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ॥
कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् ।
राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पतिर्भवेत् ॥
यस्य पादतले पद्मं चक्रं वाप्यथ तोरणम् ।
अङ्कुशं कुलिशं वापि स राजा भवति ध्रुवम् ॥
कृशनिर्लोमशा ये स्युः केकराक्षाः कुचेलकाः ।
कातरा व्यालजिह्वाश्च ते दरिद्रा न संशयः ।
कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव बृहन्नखाः ॥
कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः ।
चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये ।
ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा ॥
सूचीमुखा भग्नपृष्ठाः कृष्णदन्ताः कुचेलकाः ।
वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः ॥
दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः ।
परोपकारिणश्चैव तेऽपूर्ब्बा मानवाः स्मृताः ॥”
इति सामुद्रके पुरुषलक्षणम् ॥ * ॥
दानवीरदयावीरयुद्धवीरसत्यवीरसंज्ञकपुरुष-
लक्षणन्तु पुरुषपरीक्षाग्रन्थे द्रष्टव्यम् ॥

पूर्णः, त्रि, (पूर्य्यते स्मेति । पॄ पूरि वा + क्तः ।

“वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।” ७ ।
२ । २७ । इति इडभावो निपात्यते च ।)
पूरितः । सकलः । इत्यमरः । ३ । ३ । ९८ ॥
(यथा, पञ्चदश्याम् । ७ । ७७ ।
“तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु ।
पूर्णानन्देकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥”)
शक्तः । इति मेदिनी । णे, २२ ॥ स्वीयसुखेच्छा-
वदन्यः । इति गदाधरभट्टाचार्य्यः ॥ (प्रधायाः
पुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४७ ।
“सिद्धः पूर्णश्च बर्ही च पूर्णायुश्च महायशाः ॥”
नागभेदः । यथा, महाभारते । १ । ५७ । ५ ।
“कोटिशो मानसः पूर्णः शलः पालो हली-
मकः ॥”)

पूर्णकः, पुं, (पूर्ण + “संज्ञायां कन् ।” ५ । ३ ।

७५ । इति कन् ।) स्वर्णचूडपक्षी । इति मेदिनी ।
के, १२५ ॥ (देवयोनिविशेषः । यथा, महा-
भारते । ७ । ५५ । ४ ।
“नटनर्त्तकगन्धर्व्वैः पूर्णकैर्वर्द्धेमानकैः ।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥”)

पूर्णकुम्भः, पुं, (सलिलादिभिः पूर्णः कुम्भः ।)

जलपूरितघटः । तत्पर्य्यायः । भद्रकुम्भः २ ।
इत्यमरः । २ । ८ । ३२ ॥ (यथा, मनुः । ११ ।
१८७ ।
“प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नव ।
तेनैव सार्द्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥”)
पूर्णकलसादिश्च । इति भरतः ॥ (ग्रथिताङ्गु-
लिभ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः ।
इति नीलकण्ठः ॥ यथा, महाभारते । २ ।
२३ । १४ ।
“बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥”)

पूर्णकोष्ठा, स्त्री, (पूर्णं कोष्ठमस्याः ।) नागर-

मुस्ता । इति राजनिर्घण्टः ॥

पूर्णपात्रं, क्ली, (पूर्णञ्च तत् पात्रञ्चेति नित्यकर्म्म-

धारयः ।) वस्तुपूर्णपात्रम् । बर्द्धापकः । इति
मेदिनी । रे, २८४ ॥ उत्सवकाले हर्षात्
गृहीतवस्त्रालङ्कारादि । तत्पर्य्यायः । पूर्णा-
लकम् २ । यथा, --
“हर्षादुत्सवकाले यदलङ्कारांशुकादिकम् ।
आकृष्य गृह्यते पूर्णपात्रं पूर्णालकञ्च तत् ॥”
इति जटाधरः ॥
(यथा, अनर्घराघवे । ३ । ४५ ।
“शाम्भवं चापमारोप्य योऽस्मानानन्दयिष्यति ।
पूर्णपात्रमियं तस्मै मैथिली कल्पयिष्यते ॥”)
होमकर्म्मणि ब्रह्मदक्षिणा । यथा, गोभिलेनापि
दर्शादियागमभिधाय पूर्णपात्रो दक्षिणा ब्रह्मणे
दद्यादित्युक्तम् । त्रान्तत्वेऽपि पुंस्त्वं छान्दसम् ।
तस्य प्रमाणन्तु गृह्यसंग्रहे यज्ञपार्श्वपरिशिष्टयोः ।
अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् ।
पुष्कलानि च चत्वारि पूर्णपात्रं विधीयते ॥
अत्र षट्पञ्चाशदधिकशतद्वयमुष्टिमितं पूर्ण-
पात्रम् । असम्भवे तु छन्दोगपरिशिष्टम् ।
यावता बहुभोक्तुस्तु तुष्टिः पूर्णेन जायते ।
नावरार्द्धमतः कुर्य्यात् पूर्णपात्रमिति स्थितिः ॥”
इति संस्कारतत्त्वम् ॥

पूर्णबीजः, पुं, (पूर्णं बीजं यस्य ।) बीजपूरः ।

इति राजनिर्घण्टः ॥ (विवृतिरस्य बीजपूरशब्दे
ज्ञातव्या ॥)

पूर्णमा, स्त्री, (पूर्णं कलापूर्णञ्चन्द्रं पूरणं वा

मातीति । मा + कः । टाप् । पूर्णिमा । इत्य-
मरटीकायां भरतः ॥

पूर्णमासः, पुं, (पूर्णमासी पूर्णिमा साधनत्वेनास्त्य-

स्येति । अच् ।) पौर्णमासयागः । इति जटा-
धरः ॥ (यथा, तैत्तिरीयसंहितायाम् । २ । २ ।
१० । २ ।
“वै तिष्यः सोमः पूर्णमासः साक्षादेव ब्रह्म-
वर्च्चसमवरुन्धे ॥”)
पूर्णो मासो यत्रेति । पूर्णिमा । यथा, महा-
भारते । १२ । २९ । ११४ ।
“दर्शे च पूर्णमासे च चातुर्मास्ये पुनः पुनः ।
अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥”)

पूर्णमासी, स्त्री, (पूर्णो मासश्चान्द्रमासो यत्र ।

गौरादित्वात् ङीष् ।) पूर्णिमा । इति शब्द-
माला ॥

पूर्णा, स्त्री, (पूर्ण + टाप् ।) पञ्चमी । दशमी ।

पूर्णिमा । अमावस्या । यथा, --
“नन्दा भद्रा जया रिक्ता पूर्णा प्रतिपदः
क्रमात् ॥”
पृष्ठ ३/२२०
तत्र स्त्रीसंसर्गनिषेधो यथा, --
“पूर्णासु योषित् परिवर्ज्जनीया ॥”
इति तिथितत्त्वम् ।
“गुरौ पूर्णा च संयुक्ता सिद्धियोगाः प्रकी-
र्त्तिताः ॥”
इति ज्योतिःसारसंग्रहः ॥

पूर्णालकं, क्ली, वार्द्धायनाप्तम् । तत्पर्य्यायः । पूर्ण-

पात्रम् २ । इति त्रिकाण्डशेषः । पूर्णानक-
मपि पाठः ॥

पूर्णावतारः, पुं, (पूर्णः अवतारः ।) नृसिंहः ।

रामः । यथा, --
“पूर्णो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः ।
परिपूर्णतमः कृष्णो वैकुण्ठे गोलके स्वयम् ॥
वैकुण्ठे कमलाकान्तो रूपभेदश्चतुर्भुजः ।
गोलोके गोकुले राधाकान्तोऽयं द्विभुजः स्वयम् ॥
तस्यैव तेजो नित्यञ्च चिन्तां कुर्व्वन्ति योगिनः ।
भक्ताः पादाम्बुजं तेजः कुतस्तेजस्विना विना ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९ अध्यायः ॥

पूर्णिका, स्त्री, नासाच्छिन्नीनामकपक्षी । इति

त्रिकाण्डशेषः ॥

पूर्णिमा, स्त्री, (पूर्णिः पूरणम् । पूर्णिं मिमीते इति ।

मा + कः । टाप् ।) पञ्चदशी तिथिः । तत्-
पर्य्यायः । पौर्णमासी २ । निशाकरे कलाहीने
सा अनुमतिः ३ पूर्णे निशाकरे सा राका ४ ।
इत्यमरः । १ । ४ । ७-८ ॥ पित्र्या ५ चान्द्री ६ पूर्ण-
मासी ७ अनन्ता ८ चन्द्रमाता ९ निरञ्जना १० ।
इति वाचस्पतिः ॥ पूर्णिमा ११ । इति हड्ड-
चन्द्रः ॥ ज्योत्स्नी १२ इन्दुमती १३ सिता १४ ।
इति राजनिर्घण्टः ॥ सा द्विविधा । यथा, --
“राका चानुमती चैव द्विविधा पूर्णिमा मता ।
पूर्ब्बोदितकलाहीने पौर्णमास्या निशाकरे ।
पूर्णिमानुमती ज्ञेया पश्चास्तमितभास्करे ॥
यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह ।
तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता ॥
यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः ।
युगपत् सोत्तरा रागात्तदानुमतिपूर्णिमा ॥
राकान्तामनुमन्यन्ते देवताः पितृभिः सह ।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥”
इति देवीपुराणम् ॥ * ॥
सा चन्द्रस्य तिथिः । यथा, --
“तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिं
प्रभुः ।
तस्यामुपोषयेद्राजंस्तमर्थं प्रतिपादयेत् ॥
न चान्नाहारश्च भवेत्तस्य ज्ञानं प्रयच्छति ।
कान्तिं पुष्टिञ्च राजेन्द्र ! धनं धान्यञ्च केवलम् ॥”
इति वराहपुराणे सोमोत्पत्तिरहस्यम् ॥ * ॥
तस्यां जातफलम् ।
“कन्दर्पतुल्यो युवतीप्रियश्च
न्यायाप्तवित्तः सततं सहर्षः ।
शूरो बली शास्त्रविचारदक्ष-
श्चेत् पूर्णिमा जन्मनि यस्य जन्तोः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
सा चतुर्द्दशीयुक्ता ग्राह्या युग्मात् । यमः ।
“पक्षान्ते स्रोतसि स्नायात्तेन नायाति मत्-
पुरम् ॥”
विष्णुः ।
“दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।
पौर्णमासी तु महती ज्ञेया संवत्सरे तु सा ॥
तस्यां स्नानोपवासाभ्यामक्षयं परिकीर्त्तितम् ॥”
सहितौ माससंज्ञाविशेषनिमित्तकृत्तिकादि-
नक्षत्रगतौ । महाकार्त्तिक्यादिदर्शनात् । तथा
च राजमार्त्तण्डे ।
“माससंज्ञे यदा ऋक्षे चन्द्रः संपूर्णमण्डलः ।
गुरुणा याति संयोगं सा तिथिर्महती स्मृता ॥”
स्कान्दमात्स्ययोः ।
“पौर्णमासीषु चैतासु मासर्क्षसहितासु च ।
एतासां स्नानदानाभ्यां फलं दशगुणं स्मृतम् ॥”
वैशाखीमधिकृत्य यमः ।
“गौरान् वा यदि वा कृष्णांस्तिलान् क्षौद्रेण
संयुतान् ।
प्रीयतां धर्म्मराजेति पितॄन्देवांश्च तर्पयेत् ॥
यावर्ज्जावकृतं पापं तत्क्षणादेव नश्यति ।
अब्दायुतञ्च तिष्ठेच्च स्वर्गलोके न संशयः ॥” * ॥
ब्रह्मपुराणे ।
“महाज्यैष्ठ्यान्तु यः पश्येत् पुरुषः पुरुषोत्तमम् ।
विष्णुलोकमवाप्नोति मोक्षं गङ्गाम्बुमज्जनात् ॥ * ॥
ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।
पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता ॥”
अनुराधास्थगुरावपि ।
“ऐन्द्रे मैत्रे यदा जीवस्तत्पञ्चदशके रविः ।
पूर्णिमा शक्रचन्द्रेण महाज्यैष्ठी प्रकीर्त्तिता ॥”
अनुराधास्थचन्द्रेऽपि । व्याघ्रभूतिः ।
“ऐन्द्रर्क्षे त्वथवा मैत्रे गुरुचन्द्रौ यदा स्थितौ ।
पूर्णिमा ज्यैष्ठमासस्य महाज्यैष्ठी प्रकीर्त्तिता ॥”
राजमार्त्तण्डे ।
“ज्यैष्ठे संवत्सरे चैव ज्यष्ठमासस्य पूर्णिमा ।
ज्येष्ठामेन समायुक्ता महाज्यैष्ठी प्रकीर्त्तिता ॥”
ज्यैष्ठसंवत्सरश्च ।
“ज्येष्ठामूलोपगे जीवे वर्षं स्याच्छक्रदैवतम् ॥”
इति विष्णुधर्म्मोत्तरोक्तो ग्राह्यः । संवत्सरोऽत्र
वत्सरो बोध्यः । न तु संवत्सरादिपञ्चकान्तर्गत-
वर्षविशेषः । ज्यैष्ठ इति विशेषणस्य वैयर्थ्या-
पत्तेः । संवत्सरे यदि स्यात्त्विति पाठः काल्प-
निकः । प्रपञ्चस्तु मलमासतत्त्वेऽनुसन्धेयः ॥ * ॥
विष्णुधर्म्मोत्तरब्रह्मपुराणयोः ।
“मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदैवते ।
पौर्णमास्यां तदा स्नानं सर्व्वपापं हरेद्द्विजाः ॥
तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् ।
बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम् ॥”
स्कन्दपुराणे ।
“ज्यैष्ठ्यामहञ्चावतीर्णस्तत्पुण्यं जन्मवासरम् ।
तस्यां मे स्नपनं कुर्य्यान्महास्नानविधानतः ॥
ज्यैष्ठ्यां प्रातःस्नानकाले ब्रह्मणा सहितञ्च माम् ।
रामं सुभद्रां संस्नाप्य मम लोकमवाप्नुयात् ॥”
विष्णुधर्म्मोत्तरे ।
“पौर्णमासी तथा माघी श्रावणी च नरोत्तमः ।
प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ॥
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा-
पतिः ॥”
तत्र पूर्ब्बदिने सङ्गवलाभे रौहिणलाभे वा पर-
दिने सङ्गवालाभे पूर्ब्बदिने श्राद्धम् ।
“कृष्णपक्षस्य पूर्ब्बाह्णे श्राद्धं कुर्य्याद्विचक्षणः ।
कृष्णपक्षापराह्णे तु रौहिणन्तु न लङ्घयेत् ॥”
इति वायुपुराणवचनात् ॥
उभयदिने सङ्गवलाभे परदिने ।
“शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥”
इति विष्णुधर्म्मोत्तरात् ॥
एवमक्षयतृतीयादावपि ॥ * ॥ आषाढकार्त्तिक-
माघपौर्णमासीषु दानमावश्यकम् । तथा चायो-
ध्याकाण्डे भरतशपथे ।
“आषाढी कार्त्तिकी माघी तिथयः पुण्यसम्भवाः ।
अप्रदानवतो यान्तु यस्यार्य्योऽनुमतो गतः ॥”
अप्रदानवतो दानरहितस्यैतास्तिथयो यान्तु
आर्य्यः श्रीरामचन्द्रो गतो यस्यानुमतः इत्य-
न्वयः । उत्तरवाक्ये यच्छब्दान्न तच्छब्दापेक्षा ॥
अथ कोजागरकृत्यम् । कल्पतरौ ब्रह्मपुराणम् ।
“आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुका-
र्णवात् ।
आयाति सेनया सार्द्धं कृत्वा युद्धं सुदारुणम् ॥
तस्मात्तत्र नरैर्मार्गाः स्वगेहस्य समीपतः ।
शोधितव्याः प्रयत्नेन भूषितव्याश्च भूषणैः ॥
पुष्पार्घ्यफलमूलान्नसर्षपप्रकरैस्तथा ।
वेश्मानि भूषितव्यानि नानावर्णैर्विशेषतः ॥
सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सबान्धवैः ।
दिवा तत्र न भोक्तव्यं मनुष्यैश्च विवेकिभिः ॥
स्त्रीबालवृद्धमूर्खैश्च भोक्तव्यं पूजितैः सुरैः ॥”
पूजितैः सुरैरिति विशेषणे तृतीया । तेन पूजित-
सुरैरित्यर्थः ।
“पूज्याश्च सफलैः पत्रैस्तथा द्वारोर्द्धभित्तयः ।
द्वारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः ॥
यवाक्षतघृतोपेतैस्तण्डुलैश्च सुतर्पितः ।
संपूजितव्यः पूर्णेन्दुः पयसा पायसेन च ॥
रुद्रः सभार्य्यः स्कन्दश्च तदा नन्दीश्वरो मुनिः ।
गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः ॥
उरभ्रवद्भिर्वरुणो गजवद्भिर्विनायकः ।
पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ॥
ततः पूज्यो निकुम्भोऽपि समाषैस्तिलतण्डुलैः ।
सुगन्धिभिर्घृतोपेतैः कृशराद्यैश्च भूरिभिः ॥
ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम् ।
वह्रिपार्श्वगतैर्नेया दृष्ट्वा क्रीडाः पृथग्विधाः ॥”
ततश्च द्वारोर्द्धभित्तिहव्यवाहनपूर्णेन्दुसभार्य्यरुद्र-
स्कन्दनन्दीश्वरमुनयः सर्व्वैरेव पूज्याः । द्वारोर्द्ध्व-
भित्तिशब्दोऽत्र बहुवचनान्तः । नन्दीश्वरमुनि-
रेकः । गोमता सुरभिः । छागवता हुताशनः ।
मेषवता वरुणः । हस्तिमता विनायकः । अश्व-
पृष्ठ ३/२२१
वता रेवन्तः । सर्व्वैरेव निकुम्भः पूज्यः । महा-
र्णवे लिङ्गपुराणम् ।
“आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि ।
कौमुदी सा समाख्याता कार्य्या लोकविभूतये ॥
कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रञ्चैरावतस्थितम् ।
सुगन्धिर्निशि सद्वेशो अक्षैर्जागरणञ्चरेत् ॥”
तथा, --
“निशीथे वरदा लक्ष्मीः को जागर्त्तीतिभाषिणी ।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः ।
नारिकेलैश्चिपिटकैः पितॄन् देवान् समर्च्चयेत् ।
बन्धूंश्च प्रीणयेत्तेन स्वयं तदशनो भवेत् ॥”
अत्र निशीति निशीथ इति चाभिधानाद्रात्रि-
कृत्यमिदम् ।
“ततः प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।
प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्बयमिष्यते ॥”
इति संवत्सरप्रदीपधृतवत्सवचनात् ॥
यद्दिने प्रदोषनिशीथोभयव्यापिनी पौर्णमासी
तद्दिने कोजागरकृत्यम् । उभयव्याप्त्यनुरोधात् ।
यदा तु पूर्ब्बदिने निशीथव्याप्तिः परदिने प्रदोष-
व्याप्तिस्तदा परेद्युस्तत्कृत्यम् । प्रधानपूजाकाल-
व्याप्त्यनुरोधात् । यदा पूर्ब्बेद्युर्निशीथव्याप्तिः
परेद्युर्न प्रदोषव्याप्तिस्तदा सुतरां पूर्ब्बेद्युस्तत्-
कृत्यम् ।
“अहःसु तिथयः पुण्याः कर्म्मानुष्ठानतो दिवा ।
नक्तादिव्रतयोगे तु रात्रियोगो विशिष्यते ॥”
इति वचनात् ॥
वर्जयेदित्यनुवृत्तौ मत्स्यसूक्ते ।
“महालक्ष्म्यास्तु तुलसीं झिण्टिकां काञ्चन-
न्तथा ॥”
लक्ष्मीध्यानमादित्यपुराणे ।
“पाशाक्षमालिकाम्भोजसृणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां ध्यायेञ्च श्रियं त्रैलोक्यमातरम् ॥
गौरवर्णां सुरूपाञ्च सर्व्वालङ्कारभूषिताम् ।
रौक्मपद्मव्यग्रकरां वरदां दक्षिणेन तु ॥”
पाशेति । दक्षिणे पाशाक्षमालाभ्यां वामे पद्मा-
ङ्कुशाभ्यां भूषितां वामकरे हेमपद्मं दक्षिणकरे
वरं दधतीत्यर्थः । ततः पाद्यादिभिः संपूज्य, --
“ॐ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे मूयात् त्वदर्च्चनात् ॥”
इत्यनेन पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् ॥
इन्द्रध्यानमादित्यपुराणे ।
“चतुर्द्दन्तगजारूढो वज्रपाणिः पुरन्दरः ।
शचीपतिश्च ध्यातव्यो नानाभरणभूषितः ॥”
पाद्यादिभिः संपूज्य, --
“ॐ विचित्रैरावतस्थाय शश्वत्कुलिशपाणये ।
पौलोम्यालिङ्गिताङ्गाय सहस्राक्षाय ते नमः ॥”
इति पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् । ततः कुवेरः
संपूज्यः । इति रुद्रधरः ॥ तं पाद्यादिभिः
संपूज्य, --
“ॐ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥”
इति प्रणमेत् ॥
अत्र प्रदोषे सर्व्वेषां पूजेति रुद्रधरप्रभृतयः ॥ न
च निकुम्भपर्य्यन्तानां पूर्ब्बाह्ण एव पूजनं निरप-
वादमिति वाच्यम् । दिवा तत्र न भोक्तव्यं
इत्युपक्रम्य पूज्याश्च सफलैः पत्रैरित्यादिना
विशिष्य पूजामभिधाय भोक्तव्यमित्यभिधानात्
रात्रावेव पूजाभोजने अवगम्येते । अतएवा-
शक्तानामेव भोक्तव्यं पूजितैः सुरैरित्यनेन
विशिष्य दिवा पूजाभोजने विहिते ॥ * ॥
योगिनीतन्त्रे ।
“विरिञ्चेस्तु गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत् ।
सर्व्ववाद्यमयीं घण्टां वाद्याभावे तु वादयेत् ॥” * ॥
लक्ष्मीवाक्यम् ।
“प्रकीर्णभाण्डामनवेक्ष्य कारिणीं
सदा च भत्तुंः प्रतिकूलवादिनीम् ।
परस्य वेश्माभिरतामलज्जा-
मेवंविधां स्त्रीं परिवर्जयामि ॥”
मार्कण्डेयः ।
“शिरः सपुष्पं चरणौ सुपूजितौ
वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्व्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति षट् ॥
मानुषास्थि गृहे यत्र अहोरात्रञ्च तिष्ठति ।
तत्रालक्ष्मि ! तवावासस्तथान्येषाञ्च रक्षसाम् ॥
सूर्पदात्रादिकं यत्र पदाकर्षेत्तथासनम् ॥”
हरिवंशे ।
“यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सम्मतिः ।
सम्मतिर्ह्रीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥”
मत्स्यपुराणे ।
“स्थिरो हि यो हि पुरुषः स्थिरश्रीरेव जायते ।
रक्षितुं नैव शक्नोति चपलश्चपलां श्रियम् ॥”
तथा, --
“अवश्यमुद्योगवतां श्रीरपारा भवेत् सदा ।
ब्रह्मप्रोत्साहिता देवा ममन्थुः पुनरम्बुधिम् ॥”
कृत्यकौमुद्याम् ।
“नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि ।
तस्मै वित्तं प्रयच्छामि को जागर्त्ति महीतले ॥”
अक्षक्रीडायां व्यासयुधिष्ठिरसंवादः प्रचरति ।
तत्क्रीडा चतुरङ्गशब्दे द्रष्टव्या ॥ * ॥ वैष्णवा-
मृते स्कन्दपुराणम् ।
“पौष्यान्तु समतीतायां यावद्भवति पूर्णिमा ।
माघमासस्य देवेन्द्र ! पूजा विष्णोर्विधीयते ॥”
इति । पौर्णमास्यन्तमासमुपक्रम्य ।
“पितणां देवतानाञ्च मूलकं नैव दापयेत् ।
ददन्नरकमाप्नोति भुञ्जीत ब्राह्मणो यदि ॥
ब्राह्मणो मूलकं भुक्त्वा चरेच्चान्द्रायणव्रतम् ।
अन्यथा नरकं याति क्षत्त्रो विट् शूद्र एव च ॥
वरं भक्ष्यमभक्ष्यञ्च पिबेद्वा गर्हितञ्च यत् ।
वर्ज्जनीयं प्रयत्नेन मूलकं मदिरासमम् ॥” * ॥
फाल्गुने दोलयात्रामाह तीर्थचिन्तामणौ ब्रह्म-
पुराणम् ।
“नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।
फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥”
स्कन्दपुराणीयपुरुषोत्तममाहात्म्ये ऊनत्रिंशा-
ध्याये ।
“फाल्गुन्यां क्रीडनं कुर्य्यात् दोलायां मम
भूमिप ! ॥”
इति तिथितत्त्वम् ॥ * ॥
तस्याः पर्व्वत्वं पर्व्वशब्दे द्रष्टव्यम् ॥

पूर्त्तं, क्ली, (पॄ पालने + भावे क्तः । “न ध्याख्या-

पॄमूर्च्छिमदाम् ।” ८ । २ । ५७ । इति निष्ठा-
तस्य न नत्वम् ।) पालनम् । इति शब्दरत्ना-
वली ॥ (पिपर्त्ति पालयत्यनेन जीवानिति ।
पॄ + करणे क्तः ।) खातादिकर्म्म । इत्यमरः । २ ।
७ । २८ ॥ आदिना देवकुल्यादि । तदुक्तम् ।
“पुष्करिण्यः सभा वापी देवतायतनानि च ।
आरामश्च विशेषेण पूर्त्तं कर्म्म विनिर्द्दिशेत् ॥”
इति भरतः ॥
तत्करणफलम् ।
“इष्टापूर्त्तं द्विजातीनां प्रथमं धर्म्मसाधनम् ।
इष्टेन लभते स्वर्गं पूर्त्ते मोक्षञ्च विन्दति ॥
वापीकूपतडागानि देवतायतनानि च ।
पतितान्युद्धरेद्यस्तु स पूर्त्तफलमश्नुते ॥”
इति वराहपुराणम् ॥ * ॥
वापीत्यादीनां पूर्त्तत्वाभिधानात् शूद्रस्याधिकार-
माह जातूकर्णः ।
“वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥
ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते ।
इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते ।
अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके ॥”
वैदिके वेदाध्ययनसाध्ये अग्निहोत्रादाविति रत्ना-
करः ॥ एवं स्त्रीणामपि पूर्त्ताधिकारः । यथा
नारीत्यनुवृत्तौ बृहस्पतिः ।
“पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥”
इति जलाशयतत्त्वम् ॥
(पूर्त्तं खातादिकर्म्म अङ्गत्वेनास्त्यस्येति । अच् ।
धर्म्मविशेषे, पुं, । यथा, मार्कण्डेये । १३ । १५ ।
“यतस्ते विमुखा यान्ति निश्वस्यं गृहमेधिनः ।
तस्मादिष्टिश्च पूर्त्तश्च धर्म्मौ द्वावपि नश्यतः ॥”)

पूर्त्तः, त्रि, (पॄ + कर्म्मणि क्तः ।) पूरितः । छन्नः ।

इति विश्वः ॥ (यथा, भागवते । ३ । २४ । ३१ ।
“ऐश्वर्य्यवैराग्ययशोऽवबोध-
वीर्य्यश्रिया पूर्त्तमहं प्रपद्ये ॥”)

पूर्त्तिः, स्त्री, पूरणम् । पॄधातोर्भावे क्तिः । इति

व्याकरणम् ॥ (यथा, ऋग्वेदे । ६ । १३ । ६ ।
“विश्वाभिर्गीभिरभि पूर्त्तिमश्यां
मदेम शतहिमाः सुवीराः ॥”)

पूर्व्व, क निकेतने । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-निमन्त्रणे सक०-निवासे अक०-सेट् ।)
षष्ठस्वरी । निकेतनमिह निमन्त्रणं निवासो वा ।
क, पूर्ब्बयति द्विजान् भोक्तुं गृही । पूर्ब्बयति
तीर्थेषु साधुः । इति दुर्गादासः ॥ वर्ग्यबान्तो-
ऽयम् ॥
पृष्ठ ३/२२२

पू(र्व्व)र्ब्बः, त्रि, (पूर्व्व निमन्त्रणे निवासे वा +

अच् ।) प्रथमः । (यथा, कुमारे । १ । ५३ ।
“यदैव पूर्ब्बे जनने शरीरं
सा दक्षरोषात् सुदती ससर्ज्ज ।
तदा प्रभृत्येव विमुक्तसङ्गः
पतिः पशूनामपरिग्रहोऽभूत् ॥”
यथाच मनुः । २ । १८४ ।
“गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्ज्जयेत् ॥”)
आदिः । (यथा, मनुः । २ । ७४ ।
“ब्राह्मणः प्रणवं कुर्य्यादादावन्ते च सर्व्वदा ।
स्रवत्यनोङ्कृतं पूर्ब्बं पुरस्ताच्च विशीर्य्यति ॥”)
प्राग्दिग्-देशकालाः । इत्यमरः ॥ (यथा,
मनुः । ५ । ९२ ।
“दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्ब्बैस्तु यथायोगं द्विजन्मनः ॥”)
समग्रम् । इति तट्टीकायां स्वामी ॥ अग्रः ।
इति हलायुधः ॥ (यथा, मनुः । २ । ५० ।
“त्रिराचामेदपः पूर्ब्बं द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥”)

पूर्व्वगङ्गा, स्त्री, (पूर्व्वा चासौ गङ्गा चेति ।)

नर्म्मदानदी । इति हेमचन्द्रः । ४ । १४९ ॥

पूर्व्वजः, पुं, (पूर्व्वे जायते इति । पूर्व्व + जन + डः ।)

ज्येष्ठभ्राता । इत्यमरः । २ । ६ । ४३ ॥ (पूर्ब्बकालोत्-
पन्ने, त्रि । यथा, महाभारते । १ । १०५ । २६ ।
“तामद्भिः परिषिच्यार्त्तां महर्षिरभिवाद्य च ।
मातरं पूर्ब्बजः पुत्त्रो व्यासो वचनमब्रवीत् ॥”)

पूर्व्वजाः, पुं, (पूर्व्वे पूर्व्वस्मिन् काले जायन्ते इति ।

जन + डः ।) दिव्यपितृगणः । तत्पर्य्यायः ।
पितरः २ चन्द्रगोलस्थाः ३ न्यस्तशस्त्राः ४
स्वधाभुजः ५ कव्यवालादयः ६ । बहुवचनान्तो-
ऽयम् । इति त्रिकाण्डशेषः ॥

पूर्व्वजा, स्त्री, (पूर्व्वे जायते इति । जन + डः ।

टाप् ।) अग्रजा । ज्येष्ठा भगिनी । पूर्ब्बज
इत्यमरदर्शनात् ॥

पूर्व्वजिनः, पुं, (पूर्व्वो जिनः ।) अतीतजिनविशेषः ।

तत्पर्य्यायः । मञ्जुश्रीः २ ज्ञानदर्पणः ३ मञ्जुभद्रः
४ मञ्जुघोषः ५ कुमारः ६ अष्टारचक्रवान् ७
स्थिरचक्रः ८ वज्रधरः ९ प्रज्ञाकायः १० आदि-
राट् ११ नीलोत्पली १२ महाराजः १३
नीलः १४ शार्द्दूलवाहनः १५ धियाम्पतिः १६
खड्गी १७ दण्डी १८ विभूषणः १९ वालव्रतः २०
पञ्चचीरः २१ सिंहकेलिः २२ शिखाधरः २३
वागोश्वरः २४ । इति त्रिकाण्डशेषः ॥

पूर्व्वदिक्, स्त्री, (पूर्व्वा दिक् ।) प्राची दिक् ।

यस्यान्दिशि सूर्य्य उदेति । तदधिपतिरिन्द्रः ।
तस्याः पर्य्यायादिः पूर्ब्बाशब्दे द्रष्टव्यः ॥

पूर्व्वदिक्पतिः, पुं, (पूर्व्वदिशः पतिरधिपतिः ।)

इन्द्रः । इति हेमचन्द्रः । २ । ८७ ॥

पूर्व्वदेवः, पुं, (पूर्व्वश्चासौ देवश्चेति । यद्वा, पूर्व्वं देव

इति सुप्सुपेति समासः ।) असुरः । इत्यमरः ।
१ । १ । १२ ॥ (नरनारायणावृषी । तत्र द्बिवचना-
न्तोऽयम् । यथा, महाभारते । ५ । ४९ । ५ ।
“तेषां मनश्च तेजश्चाप्याददानाविवौजसा ।
पूर्ब्बदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥”)

पूर्व्वदेशः, पुं, (पूर्व्वो देशः ।) प्राचीदिगवस्थित-

जनपदः । तत्पर्य्यायः । वर्त्तनिः २ । इति
त्रिकाण्डशेषः ॥ यथा, --
“प्राच्यां मागधशोणौ च वारेन्द्रीगौडराढकाः ।
वर्द्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः ॥”
इति ज्योतिस्तत्त्वम् ॥

पूर्व्वपक्षः, पुं, (पूर्व्वः पक्षः ।) शुक्लपक्षः । इत्य-

मरः ॥ (यथा, मनुः । ३ । २७८ ।
“यथा चैवापरः पक्षः पूर्ब्बपक्षाद्विशिष्यते ॥”)
शास्त्रीयप्रश्नः । सिद्धान्तविरुद्धकोटिः । तत्-
पर्य्यायः । चोद्यम् २ । इति त्रिकाण्डशेषः ॥
देश्यम् ३ फक्किका ४ । इति शब्दरत्नावली ॥
(यथा, मार्कण्डेये । १ । ३ ।
“पूर्ब्बपक्षोक्तिसिद्धान्तपरिनिष्ठासमान्वतम् ॥”
अधिकरणावयवभेदो व्यवहारविशेषः । यथा,
याज्ञवल्क्ये । २ । १७ ।
“पूर्ब्बपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥”)

पूर्व्वपक्षपादः, पुं, (पूर्व्वपक्ष एव पादः ।) चतु-

ष्पादव्यवहारान्तर्गतः प्रथमः पादः । तस्य
संज्ञान्तरम् । भाषा २ प्रतिज्ञा ३ पक्षः ४ ।
इति मिताक्षरा ॥ तत्र बृहस्पतिः ।
“पूर्ब्बपक्षः स्मृतः पादो द्विपादश्चोत्तरः स्मृतः ।
क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥
मिथ्योक्तौ च चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥”
यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथाप्युत्तर-
वादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो न
भवतीति द्विपादतोक्ता ॥ * ॥
अथ भाषापादः । तत्र भाषास्वरूपमाहतुः
कात्यायनबृहस्पती ।
“प्रतिज्ञादोषनिर्मुक्तं साध्य सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥
यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना ।
दद्यात्तत्पक्षसम्बद्धं प्रतिवादी तदोत्तरम् ॥”
प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैः
परस्परविरुद्धार्थपदादिभिस्त्यक्तम् । साध्यं
साधनार्हाभिमतार्थं पक्षं विदुः । अन्यथा
प्रतिज्ञादोषेण साध्यदोषः स्यात् । अतएवोक्तम् ।
“वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता ।
असङ्करेण वक्तव्ये व्यवहारषु वादिभिः ॥”
वक्तव्ये पक्षप्रतिज्ञे पूर्ब्बोक्ते । नारदेनापि ।
“सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥”
उत्तरो विजयी यद्यप्यन्यत्र साध्यं ज्ञाप्यं तद्वि-
शिष्टधर्म्मी पक्ष इति भेदः । तथाप्यत्र वाक्-
प्रत्याय्यर्णादिधर्म्मविशेषविशिष्टस्य पक्षतया
धर्म्मिणोऽधमर्णादेरेव साध्यत्वात् साध्यपक्षयोर-
भेदाभिधानम् । अतएव उपसंहारे च एवंविधः
पक्ष इति मिताक्षरायान्तु भाषा प्रतिज्ञापक्ष
इति नार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषा-
स्वरूपप्रपञ्चमाह स्वल्पाक्षर इति । निराकुलः
पौर्ब्बापर्य्यविपर्य्यासादिशून्यः ।
“अत्र द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि ।
यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ॥”
इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोघ-
येत् । तच्छोधनमाह बृहस्पतिः ।
“न्यूनाधिकं पूर्ब्बपक्षं तावद्वादी विशोधयेत् ।
न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥”
तल्लिखनप्रकारमाह व्यासः ।
“पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् ।
ऊनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥”
फलकं काष्ठादिपट्टकम् । कात्यायनः ।
“पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।
पाण्डुलेख्येन फलके ततः पत्रेऽभिलेखयेत् ॥
शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनम् ।
उत्त्ररेणावरुद्धस्य निवृत्तिः शोधनं भवेत् ॥
अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनोर्वचः ।
चौरवच्छासयेत्तन्तु घार्म्मिकः पृथिवीपतिः ॥”
स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिना
सुज्ञेयम् । अतएव याज्ञवल्क्यः ।
“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥”
भूतं तत्त्वार्थसम्बद्धम् । यदाह नारदः ।
“भूतं तत्त्वार्थं सम्बद्धं प्रमादाभिहितं छलम् ।
किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥
मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ।
सर्व्वेष्वर्थविवादेषु वाक्छलेनावसीदति ॥
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥”
सर्व्वेषु अर्थविवादेषु प्रमादाभिधानेऽपि नावसी-
दति । अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थविवाद-
ग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृ-
तार्थाद्धीयत इति गम्यते । यथाहमनेन शिरसि
पादेन ताडित इत्यभिधाय केवलं हस्तेन ताडित
इति वदन् न केवलं दण्ड्यः पराजीयते च ।
तथा च त्वं शतं मह्यं ऋणं धारयसि मत्त ऋण-
त्वेन गृहीततावद्धनकत्वादित्यादि भाषाशरीरं
एतच्च संस्कृतदेशभाषान्यतरेण यथाबोधं वक्तव्यं
लेख्यं वा मूर्खाणामपि वादिप्रतिवादित्वदर्श-
नात् । अतएवाध्यापनेऽपि तथोक्तम् । विष्णु-
धर्म्मोत्तरे ।
“संस्कृतैः प्राकृतैर्व्वाक्ययः शिष्यमनुरूपतः ।
देशभाषाद्युपायाद्यैर्बोधयेत् स गुरुः स्मृतः ॥”
इति व्यवहारतत्त्वम् ॥

पूर्व्वपदं, क्ली, (पूर्व्वं पदम् ।) परपदप्राग्वर्त्ति-

विभक्त्यन्तप्रकृतिः । यथा पूर्ब्बपदात् संज्ञाया-
मगः । इति व्याकरणम् ॥

पूर्व्वपर्व्वतः, पुं, (पूर्व्वः पूर्व्वदिक्स्थः पर्व्वतः ।

इति नित्यकर्म्मधारयः ।) उदयाचलः । इत्य-
मरः । २ । ३ । २ ॥
पृष्ठ ३/२२३

पूर्व्वफल्गुनी, स्त्री, (पूर्व्वा फल्गुनीति कर्म्मधारयः ।)

अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतैकादशनक्ष-
त्रम् । तत्तु खट्वाकृतितारकाद्बयात्मकम् ।
तस्याधिष्ठात्री देवता भगः । इति मुहूर्त्त-
चिन्तामणिः ॥ अपि च ।
“दक्षिणोत्तरगते द्वितारके
योनिभे मिलति मस्तकोपरि ।
कीटतः स्फुटसरोरुहानने !
निःसृता २६८ गजरसाक्षिलिप्तिकाः ॥”
द० ४ । २८ । इति कालिदासकृतरात्रिलग्न-
निरूपणम् ॥ * ॥ तत्र जातफलम् ।
“शूरस्त्यागी साहसी भूमिभर्त्ता
कोपाक्रान्तः स्याच्छिरालोऽतिदक्षः ।
धूर्त्तः क्रूरोऽत्यन्तवाताधिकः प्राक्-
फल्न्यश्चेज्जन्मकाले च यस्य ॥”
इति कोष्ठीप्रदीपः ॥

पूर्व्वफल्गुनीभवः, पुं, (पूर्व्वफल्गुन्यां भवतीति ।

भू + अच् ।) बृहस्पतिः । इति शब्दमाला ॥

पूर्व्वभद्रपदः, पुं, अश्विन्यादिसप्तविंशतिनक्ष

त्रान्तर्गतपञ्चविंशनक्षत्रम् ।
तत्पर्य्यायः । प्रोष्ठपदाः २ ।
इत्यमरः ॥ “द्वे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु ।
प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसां
तास्तथा । ग्रहपतिरिव भद्रपादानुगतो राजे-
त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिः
भाद्रपदाशब्दोदीर्घादिरपीतिकचित् । दीर्घादि-
पाठः प्रामादिक इति मुकुटादयः ॥ पूर्ब्बे प्रोष्ठ-
पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासां
चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ-
पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात्
द्विवचनम् । फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वे
च भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तः
काल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इति
केचित् ।” इति तट्टीकायां भरतः ॥ * ॥

पूर्व्वभद्रपदाः, स्त्री, अश्विन्यादिसप्तविंशतिनक्ष

त्रान्तर्गतपञ्चविंशनक्षत्रम् ।
तत्पर्य्यायः । प्रोष्ठपदाः २ ।
इत्यमरः ॥ “द्वे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु ।
प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसां
तास्तथा । ग्रहपतिरिव भद्रपादानुगतो राजे-
त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिः
भाद्रपदाशब्दोदीर्घादिरपीतिकचित् । दीर्घादि-
पाठः प्रामादिक इति मुकुटादयः ॥ पूर्ब्बे प्रोष्ठ-
पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासां
चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ-
पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात्
द्विवचनम् । फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वे
च भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तः
काल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इति
केचित् ।” इति तट्टीकायां भरतः ॥ * ॥

पूर्व्वभाद्रपदाः, स्त्री, अश्विन्यादिसप्तविंशतिनक्ष

त्रान्तर्गतपञ्चविंशनक्षत्रम् ।
तत्पर्य्यायः । प्रोष्ठपदाः २ ।
इत्यमरः ॥ “द्वे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु ।
प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसां
तास्तथा । ग्रहपतिरिव भद्रपादानुगतो राजे-
त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिः
भाद्रपदाशब्दोदीर्घादिरपीतिकेचित् । दीर्घादि-
पाठः प्रामादिक इति मुकुटादयः ॥ पूर्ब्बे प्रोष्ठ-
पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासां
चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ-
पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात्
द्विवचनम् । फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वे
च भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तः
काल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इति
केचित् ।” इति तट्टीकायां भरतः ॥ * ॥
तां तु दक्षिणोत्तरवर्त्तिखट्वाकृतितारकाद्वया-
त्मिकाः । भाराकृतिताराद्वयरूपा वा । तदधि-
देवता अजपादः आसां जघन्यगुणः । इति
ज्योतिषम् ॥ अपि च ।
“भारमूर्त्तिभृतिकोपरिस्थिते
पूर्ब्बभाद्रपदभे द्वितारके ।
लिप्तिकाः करिकराक्षि २२८ संमिता
निःसरन्ति वृषभोदयात् प्रिये ! ॥”
द० ३ । ४८ । इति कालिदासकृतरात्रिलग्न-
निरूपणम् ॥ * ॥
तत्र जातफलम् ।
“जितेन्द्रियः सर्व्वकलासु दक्षो
जितारिपक्षः खलु तस्य नित्यम् ।
भवेन्महीयान् सुतरामपूर्ब्बा
पूर्ब्बा यदा भाद्रपदा प्रसूतौ ॥”
इति कोष्ठीप्रदीपः ॥

पूर्व्वयक्षः, पुं, (पूर्व्वश्चासौ यक्षश्चेति । पूर्व्वे पूर्व्व-

स्मिन् काले यक्षो वा ।) जिनविशेषः । तत्-
पर्य्यायः । मणिभद्रः २ जम्भलः ३ जलेन्द्रः ४ ।
इति त्रिकाण्डशेषः ॥

पूर्व्वरङ्गः, पुं, (पूर्व्वं रज्यतेऽस्मिन्निति । रञ्ज +

अधिकरणे घञ् ।) नाट्योपक्रमः । इति हेम-
चन्द्रः । २ । १९६ ॥ तत्पर्य्यायः । प्राक्संगीतम्
२ गुणनिका ३ । इति जटाधरः ॥ (अस्य लक्षणं
यथा, साहित्यदर्पणे । ६ । १० ।
“यन्नाट्यवस्तुनः पूर्ब्बं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्व्वन्ति पूर्ब्बरङ्गः स उच्यते ॥”)

पूर्व्वरागः, पुं, (पूर्व्वः पूर्व्वजातो रागोऽनुरागः ।)

नायकनायिकयोर्दशाविशेषः । यथा, --
“श्रवणाद्दर्शनाद्वापि मिथःसंरूढरागयोः ।
दशाविशेषो योऽप्राप्तौ पूर्ब्बरागः स उच्यते ॥”
इति साहित्यदर्पणम् ॥

पूर्व्वरात्रः, पुं, (रात्रेः पूर्व्वो भागः । अच् समासे ।

“रात्राह्नाहाः पुंसि ।” २ । ४ । २९ । इति
पुंस्त्वम् ।) रात्रेः पूर्ब्बभागः । इति मुग्धबोध-
व्याकरणम् ॥

पूर्व्वरूपं, क्ली, (पूर्व्वं रूपमिति कर्म्मधारयः ।)

पूर्ब्बलक्षणम् । वैद्यके भाविव्याधिबोधकचिह्रम् ।
यथा, --
“--प्राग्रूपं येन लक्ष्यते ।
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ।
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥”
द्विविधं हि पूर्ब्बरूपं भवति । सामान्यं विशि-
ष्टञ्च । सामान्यं येन दोषदूष्यसंमूर्च्छनावस्था-
जनितेन भाविज्वरादिव्याधिमात्रं प्रतीयते न
तु वातादिजनितत्वादिविशेषः । यथा । श्रमो
रतिर्विवर्णत्वमिति । तथा बालगुरुवाक्यप्रद्वे-
ऽषादि । सामान्याभिप्रायेणैव तन्त्रान्तरं यथा ।
व्याधेर्जातिर्व्वुभूषा च पूर्ब्बरूपेण लक्ष्यते ।
भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु इति ॥
तथाह पराशरः । पूर्ब्बरूपं नाम येन भावि-
व्याधिविशेषो लक्ष्यते न तु दोषविशेष इति ।
विशिष्टं यथा । उरःक्षतादौ लिङ्गान्येव वाता-
दिजान्यव्यक्तानि । यदुक्तं तत्रैव । अव्यक्तं
लक्षणं तेषां पूर्ब्बरूपमिति स्मृतमिति । तथाह
सुश्रुतः ।
सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् ।
पित्तान्नयनयोर्द्दाहः कफान्नान्नाभिनन्दनमिति ॥
हारीतेऽप्युक्तम् । इति पूर्ब्बरूपमष्टानां ज्वराणां
सामान्यतो विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृद-
योद्वेगि वातजमिति । प्राग्रूपं येन लक्ष्यते इत्य-
स्यार्थमाह रक्षितः । येन श्रमादिना उत्पित्सुः
सामग्रीसाकल्यादुत्पादेच्छरामयो रोगः दोष-
विशेषेण वातादिजन्यासाधारणवेपथ्वादिना अन-
धिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत्प्राग्रूपमिति ।
लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह स एव ।
प्राग्रूपमित्यनेन पूर्ब्बोक्तेन सम्बन्धः लिङ्गं लक्ष-
णम् अव्यक्तं नात्यभिव्यक्तं तत्र हेतुरल्पत्वात् न
त्वावरणादियोगादव्यक्तत्वमित्यर्थः यथायथं यस्य
व्याधेर्यद्रूपं तदेवाव्यक्तं तस्य पूर्ब्बमित्यर्थः ।
अन्ये तु पूर्ब्बरूपलक्षणमाहुः ।
स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम् ।
दोषाः कुर्व्वन्ति यल्लिङ्गं पूर्ब्बरूपं तदुच्यते ॥ इति ॥
संक्षेपतस्तु लक्षणं भाविव्याधिबोधकमेव लिङ्गं
पूर्ब्बरूपम् ।” इति माघवकरविजयरक्षितौ ॥

पूर्व्ववादः, पुं, (पूर्व्वो वादः ।) व्यवहारे राजादि-

समीपे प्रागावेदनम् । यथा, --
“पूर्ब्बवादम्परित्यज्य योऽन्यमालम्बते पुनः ।
पदसंक्रामणाज्ज्ञेयो हीनवादी स वै नरः ॥”
इति मिताक्षरा ॥

पूर्व्ववादी, [न्] पुं, (पूर्व्ववादोऽस्त्यस्येति ।

पूर्ब्बवाद + इनिः ।) प्रागभियोक्ता । प्रथम-
विवादी । यथा, --
“प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्द्दिशेत्
क्रियाम् ।
मिथ्योक्तौ पूर्ब्बवादी तु प्रतिपत्तौ न सा भवेत् ॥”
इति मिताक्षरा ॥

पूर्व्वशैलः, पुं, (पूर्व्वः पूर्व्वदेशस्थितो वा शैलः ।)

उदयपर्व्वतः । इति जटाधरः ॥

पूर्व्वसरः, त्रि, (पूर्व्वः सन् सरतीति । पूर्व्व +

सृ + “पूर्ब्बे कर्त्तरि ।” ३ । २ । १९ । इति टः ।)
अग्रगामी । यथा, भट्टिः । ५ । ९७ ।
“द्विषन् वनेचराग्राणां त्वमादाय चरो वने ।
अग्रेसरो जघन्यानां माभूत् पूर्ब्बसरो मम ॥”

पूर्व्वसारः, त्रि, पूर्व्वं देशं सरतीति कर्त्तरि षण्

(अण्)प्रत्ययः । पूर्ब्बसरः । इति व्याकरणम् ॥

पूर्व्वा, स्त्री, (पूर्व्व + टाप् ।) पूर्व्वदिक् । तत्-

पर्य्यायः । प्राची २ पुरा ३ माघोनी ४ ऐन्द्री ५
माघवती ६ । तद्दिग्भववायुगुणाः ।
“पूर्ब्बस्तु मधुरो वातः स्निग्धः कटुरसान्वितः ।
गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥”
इति राजनिर्घण्टः ॥
अपि च । राजवल्लभः ।
“प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो गुरुः ।
वैरस्यगोरवौष्ण्यानि करोत्यप्स्वोषधीषु च ॥
भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत् ।
सन्निपातज्वरश्वासत्वग्दोषार्शोविषक्रिमीन् ॥
कोपयेदामवातञ्च घनसंघातकारणम् ॥” ॥ * ॥
तद्दिगधिपतयः मेषसिंहधनूराशयः । यथा, --
“प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम् ।
मेषाद्या राशयो ज्ञेयास्त्रिरावृत्तिपरिभ्रमात् ॥
इति ज्योतिस्तत्त्वम् ॥

पूर्व्वाः, पुं, पूर्व्वजाः । पूर्व्वपुरुषाः । बहुवचनान्तो-

ऽयम् । इत्यमरः । ३ । ३ । १३३ ॥ (यथा, रधुः । १ । ६७ ।
“मत्परं दुर्लभं मत्वा नूनमावर्ज्जितं मया ।
पयः पूर्ब्बैः स्वनिश्वासैः कवोष्णमुपभुज्यते ॥”)

पूर्व्वाद्रिः, पुं, (पूर्व्वः पूर्व्वदिक्स्थितो वा अद्रिः

पर्व्वतः ।) उदयाचलः । तत्पर्य्यायः । दिन-
मूर्द्धा २ । इति त्रिकाण्डशेषः ॥ (यथा, कथा-
सरित्सागरे । १ । १८ ।
“पिङ्गोत्तुङ्गजटाजूटगतो यस्याश्नुते नवः ।
सन्ध्यापिशङ्गपूर्ब्बाद्रिशृङ्गसङ्गसुखं शशी ॥”)
पृष्ठ ३/२२४

पूर्व्वाषाढा, स्त्री, (पूर्व्वा चासावाषाढा चेति ।)

अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतविंशनक्ष-
त्रम् । सा सूर्पाकृतिचतुस्तारात्मिका । गज-
दन्ताकृतिद्वितारात्मिका वा । अस्या अधिष्ठातृ-
देवता तोयम् । इति ज्योतिषम् ॥ अपि च ।
“सूर्पमूर्त्तिनि शिरोगते चतु-
स्तारके करिकरोरुवारिभे ।
अन्त्यभादमृतवाणि ! निर्गताः
खेचराम्बरशशाङ्कलिप्तिकाः ॥”
द० १ । ४९ ॥ इति कालिदासकृतरात्रिलग्ननिरू-
पणम् ॥ * ॥ तत्र जातफलम् ।
“भूयो भूयस्तूयमानान्रक्तो
भक्तो देवे बन्धुमान्योऽतिदक्षः ।
पूर्ब्बाषाढा जन्मकाले यदि स्या-
दाषाढः स्याद्वैरिवर्गे नितान्तम् ॥”
इति कोष्ठीप्रदीपः ॥

पूर्व्वाह्णः, पुं, (अह्रः पूर्व्वम् । पूर्व्वापराधरेत्येक-

देशिसमासः । “राजाहःसखिभ्यष्टच् ।” ५ ।
४ । ९१ । इति टच् । “अह्वोऽह्र एतेभ्यः ।”
५ । ४ । ८८ । इति अह्रादेशः । “अह्नोऽ-
दन्तात् ।” ८ । ४ । ७ । इति णत्वम् । “रात्रा-
ह्राहाः पुंसि ।” २ । ४ । २९ । इति पुंस्त्वम् ।)
त्रिधाविभक्तदिनप्रथमभागः । स च त्रिंशद्दण्ड-
दिनमाने सूर्य्योदयावधिदशदण्डकालः । यथा,
पूर्ब्बाह्णो वै देवानां मध्यन्दिनं मनुष्याणा-
मपराह्णः पितॄणाम् । इति श्रुतिः ॥ अपि च ।
त्रिधाविभक्तदिनभागाभिप्रायेण तु लोकाक्षिः ।
“पूर्ब्बाह्णे मध्यमे वापि यदि पर्व्व समाप्यते ।
तदोपवासः पूर्ब्बेद्युस्तदहर्याग इष्यते ॥
अपराह्णेऽथवा रात्रौ यदि पर्व्व समाप्यते ।
उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते ॥”
उपोष्येति नाहोरात्राभोजनपरं किन्तु कृते
अग्न्याधाने देवा यजमानस्य समीपमुपवसन्तीति
उपवासशब्देनाग्न्याधानमुच्यते । सूर्य्योदयाव-
धिप्रहरद्वयम् । द्विधाविभक्तदिनपूर्ब्बभागः ।
यथा । पूर्ब्बाह्णापराह्णरूपद्विधाविभक्तदिनस्या-
वधित्वेनावर्त्तनमाह स्कन्दपुराणम् ।
“आवर्त्तनात्तु पूर्ब्बाह्णो ह्यपराह्णस्ततः परः ॥”
आवर्त्तनात् वासरस्य छायापरिवर्त्तनात् प्रागि-
तिशेषः अतएवोक्तम् ।
“अश्वत्थं वन्दयेन्नित्यं पूर्ब्बाह्णे प्रहरद्वये ।
अत ऊर्द्धं न वन्देत अश्वत्थन्तु कदाचन ॥”
इति मलमासतत्त्वम् ॥

पूर्व्वाह्णेतनः, त्रि, (पूर्व्वाह्णे भव इति । पूर्व्वाह्ण +

“विभाषा पूर्ब्बाह्णापराह्णाभ्याम् ।” ४ । ३ । २४ ।
इति ट्युट्युलौ तुट् च । “घकालतनेषु काल-
नाम्नः ।” ६ । ३ । १७ । इति विभाषया सप्तम्या
अलुक् ।) पूब्बाह्णे भवः । इति सिद्धान्तकौमुदी ॥

पूर्व्वेद्युः, [स्] व्य, (पूर्व्वस्मिन्नहनीति । पूर्व्व +

“सद्यःपरुत्परायैषमः परेद्यव्यद्यपूर्ब्बेद्युरन्येद्यु-
रिति ।” ५ । ३ । २२ । इत्येद्युस्प्रत्ययो निपात्यते ।)
पूर्ब्बदिनम् । इत्यमरः । ३ । ४ । २१ ॥ प्रातःकालः ।
धर्म्मवासरः । इति मेदिनी । अव्ययसे, ८४ ॥
(यथा, मनौ । ३ । १८७ ।
“पूर्ब्बेद्युरपरेद्युर्वा श्राद्धकर्म्मण्युपस्थिते ।
निमन्त्रयेत त्र्यवरान् सम्यगविप्रान् यथोदि-
तान् ॥”)

पूर्व्व, क निकेतने । इति कविकल्पद्रुमः ॥ (चुरा०-

परं०-निमन्त्रणे सक०-निवासे अक०-सेट् ।)
षष्ठस्वरी । निकेतनमिह निमन्त्रणं निवासो
वा । क, पूर्व्वयति द्बिजान् भोक्तुं गृही । पूर्व्व-
यति तीर्थेषु साधुः । इति दुर्गादासः ॥ अन्त्य-
वान्तोऽयम् ॥

पूल, कि संहतौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-परं-सकं-सेट् ।) षष्ठस्वरी । कि,
पूलयति पूलति । संहती राशीकरणम् । इति
दुर्गादासः ॥

पूष, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) षष्ठस्वरी । पूषति । इति दुर्गा-
दासः ॥

पूषः, पुं, (पूषति वर्द्धते इति । पूष + कः ।) ब्रह्म-

दारुवृक्षः । इत्यमरः । २ । ४ । ४१ ॥ तुत इति
भाषा ॥ (ब्रह्मदारुशब्देऽस्य विषयो ज्ञेयः ॥)

पूषकः, पुं, (पूष + स्वार्थे कन् ।) ब्रह्मदारुवृक्षः ।

इति राजनिर्घण्टः ॥ पलाशपिपल इति हिन्दी-
भाषा ॥ अस्य पर्य्यायगुणाः तूलशब्दे द्रष्टव्याः ॥

पूषभाषा, स्त्री, (पूषेव सूर्य्य इव भासते इति ।

भास + अच् । टाप् ।) इन्द्रनगरी । तत्पर्य्यायः ।
सुरपुरी २ । इति शब्दरत्नावली ॥

पूषासुहृत्, [द्] पुं, (पूष्णोऽसुहृत् । शिवो

हि स्वांशजवीरभद्रेणास्य दन्तमुत्पाटयामास
अतोऽस्य तथात्वम् ।) शिवः । इति हेमचन्द्रः ।
२ । ११४ ॥

पूषा, [न्] पुं, (पूषतीति । पूष वृद्धौ + “श्वन्-

उक्षन् पूषन् प्लीहन्निति ।” उणा० १ । १५८ ।
इति कनिन्प्रत्ययान्तो निपात्यते ।) सूर्य्यः ।
इत्यमरः । १ । ३ । २९ ॥ (यथा, मार्कण्डेये ।
१०९ । ६४ ।
“आदित्यं भास्करं भानुं सवितारं दिवाकरम् ।
पूषाणमर्य्यमाणञ्च स्वर्भानुं दीप्तदीधितिम् ॥”
स तु द्वादशादित्यानामन्यतमः । यथा, महा-
भारते । १ । ६५ । १५ -- १६ ।
“धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान् पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।
जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)

पृ, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-

सक०-सेट् ।) पूर्त्तिः पूर्णीकरणम् । क, पारयति
पयसा कुम्भं लोकः । इति दुर्गादासः ॥

पृ, न प्रीतौ । इति कविकल्पद्रुमः ॥ (स्वा०-पर०-

सक०-अनिट् ।) न, अतिथीन् पृणोति । इति
दुर्गादासः ॥

पृ, लि पालने । इति कविकल्पद्रुमः ॥ (ह्वा०-पर०-

सक०-अनिट् ।) लि, पिपर्त्ति । इति दुर्गादासः ॥

पृ, श ङ व्यायामके । इति कविकल्पद्रुमः ॥ (तुदा०-

आत्म०-अक०-अनिट् ।) व्यायामको व्यापारः ॥
श ङ, धर्म्मे व्याप्रियते सुधीः । इति दुर्गादासः ॥

पृक्का, स्त्री, (स्पृश्यते इति । स्पृश् + बाहुलकात्

कक् । पृषोदरादित्वात् साधुः ।) शाकविशेषः ।
पिडिं इति भाषा ॥ तत्पर्य्यायः । मरुन्माला २
पिशुना ३ देवी ४ लता ५ लघुः ६ समुद्रान्ता ७
वधूः ८ कोटिवर्षा ९ लङ्कायिका १० । इत्य-
मरः ॥ मरुत् ११ माला १२ स्पृक्का १३ कोटी
१४ वर्षा १५ लङ्कापिका १६ वर्षालङ्कायिका
१७ । इति तट्टीकायां भरतः ॥ तस्करः १८
चोरकः १९ चण्डः २० । इति रत्नमाला ॥ अस्य
गुणाः । पाके मधुरत्वम् । हृद्यत्वम् । पित्त-
कफनाशित्वञ्च । इति राजवल्लभः ॥

पृक्तं, क्ली, (पृच्यते स्म संबध्यते स्मेति । पृच्

रम्पर्के + क्तः ।) धनम् । इति हेमचन्द्रः । २ ।
१०६ ॥ सम्पर्कयुक्ते, त्रि ॥ (यथा, रघौ । २ । १३ ।
“पृक्तस्तुषारैर्गिरिनिर्झराणा-
मनोकहाकम्पितपुष्पगन्धी ॥”)

पृक्तिः, स्त्री, (पृच् + भावे क्तिन् ।) सम्पर्कः ।

स्पर्शः । तत्पर्य्यायः । स्पृष्टिः २ । इत्यमरः ।
३ । २ । ९ ॥

पृच, ई ल ङ सम्पर्के । इति कविकल्पद्रुमः ॥

(अदा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
ई, पृक्तः । ल ङ, पृक्ते । परीपृच्यते । स चेह
सम्पृक्तीभावः । सम्पृक्ते नाभिशस्तैर्य इति हला-
युधः । सम्पृक्ते मधुना चूर्णं भिषगिति तु अन्त-
र्भूतञ्यर्थत्वादिति चतुर्भुजः । इति दुर्गादासः ॥

पृच, कि संयमने । सम्पर्के । इति कविकल्पद्रुमः ॥

(चुरा० पक्षे भ्वा०-पर०-सक० सेट् ।) संयमनं
बन्धनम् । कि, पर्च्चयति पर्च्चति दुष्टं राजा ।
इति दुर्गादासः ॥

पृच, ध ई सम्पर्के । इति कविकल्पद्रुमः ॥ (रुधा०-

पर०-सक०-अक० च-सेट् । निष्ठायामनिट् ।)
सम्पके इह संपृक्तीकरणं सम्पृक्तीभावश्च ।
ध, पृणक्ति धनुषा बाणम् । संपृणक्ति न
पापिभिर्य इति हलायुधः । ई, पृक्तः । पपर्च्च ।
इति दुर्गादासः ॥

पृच्छा, स्त्री, (प्रच्छ जिज्ञासायाम् + “गुरोश्च

हलः ।” ३ । ३ । १०३ । इति अः ।) प्रश्नः ।
इत्यमरः । १ । ६ । १० ॥ (यथा, नैषषचरिते ।
१९ । ६० ।
“इह किमुषसि पृच्छाशंसिकिशब्दरूप-
प्रतिनियमितवाचा वायसेनैष पृष्टः ।
भण फणिभवशास्त्रे तातङः स्थानिनौका
वितिविहिततुहीवागुत्तरः कोकिलोऽभूत् ॥”
“पृच्छा तन्त्रात् यथाम्नायं विधिना प्रश्न उच्यते ॥”
इति च वैद्यकचरके सूत्रस्थाने त्रिंशेऽध्याये ॥)

पृज, इ ल ङ सम्पर्के । इति कविकल्पद्रुमः ॥

(अदा०-आत्म०-अक०-सेट् ।) सप्तमस्वरी । इ,
पृञ्ज्यते । ल ङ, पृङ्क्ते । अयं कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥
पृष्ठ ३/२२५

पृड, श मुदि । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-

सक०-सेट् ।) मुदि हृष्टीकरणे । श, पृडति
दीनं दाता । पर्डिता । इति दुर्गादासः ॥

पृण, श तृपि । इति कविकल्पद्रुमः । (तुदा०-पर०-

सक०-सेट् ।) तृपि तृप्तीकरणे । श, अग्निं
पृणति यो द्बिजः । पर्णिता । इति दुर्गादास्रः ॥

पृतना, स्त्री, (प्रियते इति । पृङ् व्यायामे + बाहु-

लकात् तनन् गुणाभावश्च ।) सेना । सेना-
भेदः । इति मेदिनी । ने, ९४ ॥ वाहिनीत्रयम् ।
अत्र गजास्त्रिचत्वारिंशदधिकशतद्वयम् २४३ ।
रथास्त्रिचत्वारिंशदधिकशतद्वयम् २४३ । अश्वा
ऊनत्रिंशदधिकसप्तशतम् ७२९ । पदातिकाः
पञ्चदशाघिकशतद्वयाधिकसहस्रम् १२१५ । समु-
दायेन त्रिंशदधिकचतुःशताधिकसहस्रद्वयम्
२४३० । इत्यमरभरतौ ॥ (यथा, महाभारते ।
१ । २ । २१ ।
‘त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥”
“व्याप्रियन्तेऽत्र योद्धारः इति । पृङ् व्यायामे ।
‘पृपूसां कित् ।’ इति तनन्प्रत्ययः ।” इति
निघण्टौ देवराजयज्वा ॥ संग्रामः । इति
निघण्टुः ॥ यथा, ऋग्वेदे । १ । ८५ । ८ ।
“शूरा इवेद्युयुधयो न जग्मयः
श्रवस्य वो न पृतनासु येतिरे ॥”
“पृननासु संग्रामेषु येतिरे ।” इति तद्भाष्ये
सायनः ॥)

पृतनाषाट्, [साह्] पुं, (पृतनां सहते इति ।

सह + “छन्दसि सहः ।” ३ । २ । ६३ । इति
ण्विः । सहेरिति षः ।) इन्द्रः । इति त्रिकाण्ड-
शेषः ॥

पृथ, क प्रक्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, पर्थयति गुडमौषधे
जनः । इति दुर्गादासः ॥

पृथक्, व्य, (प्रथयतीति । प्रथ विक्षेपे + “प्रथः कित्

सम्प्रसारणञ्च ।” उणा० १ । १३६ । इति अजिः
कित् सम्प्रसारणञ्च धातोः ।) भिन्नम् । तत्-
पर्य्यायः । विना २ अन्तरेण ३ ऋते ४ हिरुक्
५ नाना ६ वर्ज्जनम् ७ । इत्यमरः । ३ । ४ । ३ ॥
(यथा, मार्कण्डेये । १४ । ६६ ।
“तेषामेतैः सितैः शास्त्रैर्मुहुर्विलपतां त्वचः ।
पृथक् कुर्व्वन्ति वै याम्याः शरीरादति-
दारुणाः ॥”)

पृथक्क्षेत्राः, पुं, (पृथक् भिन्नं क्षेत्रं उत्पत्तिस्थानं

येषामिति ।) एकस्मान्नानावर्णस्त्रीजातपुत्त्राः ।
इति मिताक्षरा ॥

पृथक्त्वं, क्ली, (पृथगित्यस्य भावः । पृथक् + भावे

त्व ।) चतुर्व्विंशतिगुणान्तर्गतसप्तमगुणः । तस्य
लक्षणम् । पृथक्प्रत्ययासाधारणकारणत्वम् ।
यथा, भाषापरिच्छेदे ।
“संख्यावच्च पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम् ।
अन्योन्याभावतो नास्य चरितार्थत्वमुच्यते ॥
अस्मात् पृथगियं नेति प्रतीतिर्हि विलक्षणा ॥”
“पृथक्त्वं निरूपयति संख्यावदिति पृथक्प्रत्यया-
साधारणकारणं पृथक्त्वम् । तन्नित्यतादिकं
संख्यावत् यथा हि नित्येषु एकत्वं नित्यं अनित्ये
अनित्यम् आश्रयद्वितीयक्षणे चोत्पद्यते आश्रय-
नाशान्नश्यति तथा एकपृथक्त्वमपि द्वित्वादिवत्
द्विपृथक्त्वादिकमपीत्यर्थः ।” इति सिद्धान्तमुक्ता-
वली ॥

पृथक्त्वचा, स्त्री, (पृथक् त्वग् यस्याः । टाप् ।)

मूर्व्वा । इति रत्नमाला ॥ (विषयोऽस्या मूर्व्वा-
शब्दे ज्ञातव्यः ॥)

पृथक्पर्णी, स्त्री, (पृथक् पर्णानि यस्याः । “पाक-

कर्णपर्णपुष्पफलेति ।” ४ । १ । ६४ । इति ङीष् ।)
क्षद्रवृक्षविशेषः । चाकुल्या इति भाषा ॥ तत्-
पर्य्यायः । पृश्निपर्णी २ चित्रपर्णी ३ अङ्घ्रि-
वल्लिका ४ । इत्यमरः । २ । ४ । ९२ ॥ (यथा,
सुश्रुते । १ । ३६ ।
“पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता ।
काकोल्यादिश्च योज्यः स्यात्प्रशस्तो रोपणे
घृते ॥”
पर्य्यायान्तरमस्या यथा, वैद्यकरत्नमालायाम् ।
“पृश्निपर्णी पृथक्पर्णी लाङ्गुली क्रोष्टुपुच्छिका ।
धावनिः कलशी तन्वी गूहाक्रोष्टुकमेखला ॥
दीर्घा शृगालविन्नासा श्रीपर्णी सिं हपुच्छिका ।
दीर्घपत्रा त्वतिलुहा घृतिला चित्रपर्णिका ॥”)

पृथगात्मता, स्त्री, (पृथक् आत्मा स्वरूपं यस्य ।

तस्य भावः । तल् ।) विवेकः । इत्यमरः । २ । ७ । ३८ ॥

पृथगात्मिका, स्त्री, (पृथक् आत्मा स्वरूपं यस्याः ।

कापि अत इत्वम् ।) व्यक्तिः । यथा, --
“जातिर्जातञ्च सामान्यं व्यक्तिस्तु पृथगा-
त्मिका ॥”
इति जनुर्जननजन्मानीत्यादिश्लोकोत्तरं क्वचिद-
मरकोषे पाठः ॥

पृथग्जनः, पुं, (पृथक् सज्जनेभ्यो विभिन्नो जनः ।)

मूर्खः । नीचः । इत्यमरः । २ । १० । १६ ॥ (यथा,
मनुः । ७ । १३७ ।
“यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथक्जनम् ॥”)
पापी । इति शब्दरत्नावली ॥ भिन्नलोकश्च ॥

पृथग्बीजः, पुं, (पृथक् विभिन्नानि बीजानि

यस्य ।) भल्लातकः । इति राजनिर्घण्टः ॥

पृथग्विधः, त्रि, (पृथक् विभिन्नलक्षणा विधा

प्रकारो यस्य ।) नानारूपः । इत्यमरः ।
३ । १ । ९३ ॥ (यथा, मनुः । १ । ४० ।
“सर्व्वञ्च दंशमशकं स्थावरञ्च पृथग्विधम् ॥”)

पृथवी, स्त्री, (प्रथते विस्तारमेतीति । प्रथ + “प्रथेः

षिवन् सम्प्रसारणञ्च ।” उणा० १ । १५० ।
इत्यत्र ‘षवन् इत्येके ।’ इत्युज्ज्वलदत्तोक्त्या षवन्
सम्प्रसारणञ्च । षित्त्वात् ङीष् ।) पृथिवी । यथा,
“पृथवी पृथिवी पृथ्वी धरा सर्व्वंसहा रसा ॥”
इति भरतधृतवाचस्पतिः ॥

पृथा, स्त्री, कुन्ती । इति जटाधरः ॥ (इयं हि

शूरस्य कन्या वसुदेवस्य भगिनी । अस्याः
पिता शूरस्तु कुन्तिनृपाय निजबान्धवायापुत्त्रा-
यैनां कृतकन्यकारूपेण दत्तवान् । तत्र कुन्ति-
राजवेश्मनि निवसन्ती दुर्व्वाससं सन्तोष्य
तस्मात् मन्त्रवरं लब्ध्वा कन्यावस्थायामेव सूर्य्यात्
कर्णं वीरवरं प्रसूतवती । ततो गच्छति काले
कुरुवंशावतंसः पाण्डुनृपतिरेनां परिणीतवान् ।
भर्त्त्रादिष्टा धर्म्मात् युधिष्ठिरं वायोर्भीमं इन्द्रा-
दर्ज्जुनं प्रसूतवती । अनन्तरं भर्त्त्रादेशेन सपत्न्यै
मद्रसुतायै तन्मन्त्रं प्रदत्तवती तेन माद्री अश्वि-
भ्यां नकुलसहदेवौ लेभे । इत्येषा कथा भागवते
९ स्कन्धे २४ अध्याये द्रष्टव्या ॥)

पृथाजः, पुं, (पृथाया जायते इति । जन + डः ।)

कुन्तीपुत्त्रः ॥ अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥

पृथापतिः, पुं, (पृथायाः पतिः ।) पाण्डुराजः ।

इति त्रिकाण्डशेषः ॥

पृथिका, स्त्री, शतपदी । इति शब्दमाला ॥

पृथिविः, स्त्री, (पृथिवी । ङीषो वा ह्रस्वः ।)

पृथिवी । इति संक्षिप्तसारोणादिवृत्तिः ॥

पृथिवी, स्त्री, (प्रथते विस्तारं यातीति । प्रथ +

“प्रथेः षिवन् संप्रसारणञ्च ।” उणा० १ । १५० ।
इति षिवन् सम्प्रसारणञ्च । ङीष् ।) मर्त्त्याद्यधि-
ष्ठानभूता । तत्पर्य्यायः । भूः २ भूमिः ३ अचला
४ अनन्ता ५ रसा ६ विश्वम्भरा ७ स्थिरा ८
धरा ९ धरित्री १० धरणी ११ क्षौणी १२ ज्या
१३ काश्यपी १४ क्षितिः १५ सर्व्वंसहा १६
वसुमती १७ वसुधा १८ उर्व्वी १९ वसुन्धरा
२० गोत्रा २१ कुः २२ पृथ्वी २३ क्ष्मा २४
अवनिः २५ मेदिनी २६ मही । इत्यमरः । २ ।
१ । २ -- ३ ॥ भूर् २८ भूमी २९ धरणिः ३०
क्षोणिः ३१ क्षोणी ३२ क्षौणिः ३३ क्षमा ३४
अवनी ३५ महिः ३६ रत्नगर्भा ३७ सागराम्बरा
३८ अब्धिमेखला ३९ भूतधात्री ४० रत्नावती ४१
देहिनी ४२ पारा ४३ विपुला ४४ मध्यमलोक-
वर्त्मा ४५ । इति भरतः ॥ धरणीधरा ४६
धारणी ४७ महाकान्ता ४८ जगद्वहा ४९
गन्धवती ५० खण्डनी ५१ गिरिकर्णिका ५२
धारयित्री ५३ धात्री ५४ सागरमेखला ५५
सहा ५६ अचलकीला ५७ गौः ५८ अब्धिद्बीपा
५९ द्विरा ६० इडा ६१ इडिका ६२ इला ६३
इलिका ६४ । इति शब्दरत्नावली ॥ उदधि-
वस्त्रा ६५ इरा ६६ आदिमा ६७ ईला ६८
वरा ६९ उर्व्वरा ७० आद्या ७१ जगती ७२
पृथुः ७३ भुवनमाता ७४ निश्चला ७५ बीज-
प्रसूः ७६ श्यामा ७७ क्रोडकान्ता ७८ । इति
राजनिर्घण्टः ॥ खगवती ७९ अदितिः ८० ।
इति जटाधरः ॥ * ॥ (पृथवी ८१ । इति
शब्दार्णषः ॥) न्यायमते अस्या धर्म्मः । रूप-
द्रवत्वप्रत्यक्षयोगित्वम् । इयं गुर्व्वी रसयुक्ता च ।
अस्या द्रवत्वं नैमित्तिकम् । अस्या गुणाः ।
स्पर्शः १ संख्या २ परिमितिः ३ पृथक्त्वम् ४
संयोगः ५ विभागः ६ परत्वम् ७ अपरत्वम् ८
वेगः ९ द्रवत्वम् १० गुरुत्वम् ११ रूपम् १२
पृष्ठ ३/२२६
रसः १३ गन्धः १४ । इयं गन्धकारणं नाना-
रूपवती षड्रसयुक्ता । गन्धस्तु द्बिविधः सौरभं
असौरभम् । तस्याः स्पर्शः अनुष्णाशीत-
पाकजः । सा द्विविधा नित्या अनित्या च । पर-
माणुस्वरूपा नित्या सावयवा अनित्या । सा
त्रिविधा देहेन्द्रियविषयरूपा । देहरूपा योनि-
जादिः इन्द्रियात्मिका घ्राणरूपा विषयात्मिका
द्व्यणुकादिब्रह्माण्डपर्य्यन्ता । यथा, --
“रूपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमत्रिकम् ।
गुरुणी द्वे रसवती द्बयोर्नैमित्तिको द्रवः ॥”
“स्पर्शादयोऽष्टौ वेगश्च द्रवत्वञ्च गुरुत्वकम् ।
रूपं रसस्तथा स्नेहो वारिण्येते चतुर्द्दश ॥
स्नेहहीना गन्ध युता क्षितावेते चतुर्द्दश ।
तत्र क्षितिर्गन्ध हेतुर्नानारूपवती मता ॥
षड्विधस्तु रसस्तत्र गन्धोऽपि द्विविधो मतः ।
स्पर्शस्तु तस्या विज्ञेयो ह्यनुष्णाशीतपाकजः ॥
नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा ।
अनित्या तु तदन्या स्यात् सैवावयवयोगिनी ॥
सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा ।
योनिजादिर्भवेद्देहमिन्द्रियं घ्राणलक्षणम् ॥
विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ॥”
इति भाषापरिच्छेदे । २८ -- ३८ ॥
तस्या अध्यात्मादि यथा, --
“पृथिवी पञ्चमं भूतं ध्राणश्चाध्यात्ममुच्यते ।
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
(यथा, मार्कण्डेये । ५४ । ४ ।
“शतार्द्धकोटिविस्तारो पृथिवी कृत्स्नशो
द्बिज ! ।
तस्या हि स्थानमखिलं कथयामि शृणुष्व तत् ॥”)
तस्या उत्पत्तिकारणं यथा, --
“श्रूयतां वसुधाजन्म सर्व्वमङ्गलकारणम् ।
विघ्ननिघ्नकरं पापनाशनं पुण्यवर्द्धनम् ॥
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।
बभूव वसुधाजन्म तदविरुद्धमतं शृणु ॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां वध न यत्रोर्व्वी पाथसा संवृतेति च ॥
तयोर्जीवनकालेन प्रत्यक्षा साभवत् स्फुटम् ।
ततो बभूव मेदश्च मरणस्यान्तरन्तयोः ॥
मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ।
जलधौता कृशा पूर्ब्बं बर्द्धिता मेदसा यतः ॥
कथयामि च तज्जन्म सार्थकं सर्व्वसम्मतम् ।
पुरा श्रुतं यत् श्रुत्युक्तं धर्म्मवक्त्राच्च पुष्करे ॥
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।
मलो बभूव कालेन सर्व्वाङ्गव्यापको ध्रुवम् ॥
स च प्रविष्टः सर्व्वेषां तल्लोम्नां विवरेषु च ।
कालेन महता तस्माद्बभूव वसुधा मुने ! ॥
प्रत्येकं प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता ।
आविर्भूता तिरोभूता सा जले च पुनः पुनः ॥
आविर्भूता सृष्टिकाले तज्जलोपर्य्यवस्थिता ।
प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।
सप्तसागरसंयुक्ता सप्तद्बीपमिता सती ॥
हिमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदालये ॥
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।
पातालसप्ततदधस्तदूर्द्धे ब्रह्मलोककः ॥
ब्रह्मलोकश्च तत्रैव सर्व्वविश्वञ्च तत्र वै ।
एवं सर्व्वाणि विश्वानि पृथिव्यां निर्म्मितानि च ।
ऊर्द्ध्वौ गोलोकवैकुण्ठौ नित्यौ विश्वपरौ च तौ ॥
नश्वराणि च विश्वानि सर्व्वाणि कृत्रिमाणि च ।
प्रलये प्राकृते ब्रह्मन् ! ब्रह्मणश्च निपातने ।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥
नित्यैः स्थिता च प्रलये काष्ठाकाशेश्वरैः सह ।
क्षित्यधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥
सुनिभिर्मनुभिर्विप्रैर्गन्धर्व्वादिभिरेव च ।
विष्णोर्व्वराहरूपस्य पत्नी सा श्रुतिसम्मता ।
तत्पुत्त्रो मङ्गलो ज्ञेयो घण्टेशो मङ्गलात्मजः ॥
नारद उवाच ।
पूजिता केन रूपेण वाराहे च सुरैर्मही ।
वराहेण च वाराही सर्व्वैः सर्व्वाश्रया सती ॥
तस्याः पूजाविधानञ्चाप्यधश्चोद्धरणक्रमम् ।
मङ्गलं मङ्गलस्यापि जन्म व्यासं वद प्रभो ! ॥
श्रीनारायणं उवाच ।
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलात् ॥
जले तां स्थापयामास पद्मपत्रं यथा ह्रदे ।
तत्रैव निर्म्ममे ब्रह्मा सर्व्वं विश्वं मनोहरम् ॥
दृष्ट्वा तदधिदेवीञ्च सकामां कामुको हरिः ।
वराहरूपी भगवान् कोटिसूर्य्यसमप्रभः ॥
कृत्वा रतिकरीं शय्यां मूर्त्तिञ्च सुमनोहराम् ।
क्रीडाञ्चकार रहसि दिव्यं वर्षमहर्निशम् ॥
सुखसम्भोगसंस्पर्शात् मूर्च्छां संप्राप सुन्दर ।
विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः ॥
विष्णुस्तदङ्गसंस्पर्शात् बुबुधे न दिवानिशम् ।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥
पूर्ब्बरूपञ्च वाराहं दधार चावलीलया ।
पूजाञ्चकार भक्त्या च ध्यात्वा च धरणीं सतीम् ॥
धूपैर्दीपैश्च र्नैवेद्यैः सिन्दूरैरनुलेपनैः ।
वस्त्रैः पुष्पैश्च वलिभिः संपूज्योवाच तां हरिः ॥
श्रीमहावराह उवाच ।
सर्व्वाधारा भव शुभे ! सर्व्वैः संपूजिता सुखम् ।
मुनिभिर्मनुभिर्देवैः सिद्धैश्च मानवादिभिः ॥
अम्बुवाचीत्यागदिने गृहारम्भप्रवेशने ।
वापीतडागारम्भे च गृहे च कृषिकर्षणे ॥
तव पूजां करिष्यन्ति मद्वरेण सुरादयः ।
मूढा ये न करिष्यन्ति यास्यन्ति नरकञ्च ते ॥
वसुधोवाच ।
वहामि सर्व्वं वाराहरूपेणाहं तवाज्ञया ।
लीलामात्रेण भगवन् ! विश्वञ्च सचराचरम् ॥
मुक्तां शुक्तिं हरेरर्च्चां शिवलिङ्गं शिलां तथा ।
शङ्खं प्रदीपं मन्त्रञ्च माणिक्यं हीरकं मणिम् ॥
यज्ञसूत्रञ्च पुष्पञ्च पुस्तकं तुलसीदलम् ।
जपमालां पुष्पमालां कर्पूरञ्च सुवर्णकम् ॥
गोरोचनां चन्दनञ्च शालग्रामजलं विना ।
एतान् वोढुमशक्ताहं क्लिष्टा च भगवन् !
शृणु ॥
श्रीभगवानुवाच ।
द्रव्याण्येतानि मूढा ये अर्पयिष्यन्ति सुन्दरि ! ।
ते यास्यन्ति कालसूत्रं दिव्यं वर्षशतं त्वयि ॥
इत्येवमुक्त्वा भगवान् विरराम च नारद ! ।
बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥
पूजां चक्रुः पृथिव्याश्च ते सर्व्वे चाज्ञया हरेः ।
काण्वशाखोक्तध्यानेन तुष्टुबुः स्तवनेन च ॥
ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ।
संस्तुता विष्णुलोकेषु पूजिता सा बभूव ह ॥
नारद उवाच ।
किं ध्यानं स्तवनन्तस्या मूलमन्त्रञ्च किं वद ।
गूढं सर्व्वपुराणेषु श्रोतुं कौतूहलं मम ॥
श्रीनारायण उवाच ।
आदौ च पृथिवी देवी वराहेण च पूजिता ।
ततः सर्व्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः ।
ध्यानञ्च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ! ॥ * ॥
ॐ श्रीं ह्रीं क्लीं वसुन्धरायै स्वाहा ।
इत्यनेनैव मन्त्रेण पूजिता विष्णुना पुरा ॥
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ।
चन्दनोक्षितसर्व्वाङ्गां रत्नभूषणभूषिताम् ॥
रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ।
वह्रिशुद्धांशुकाधानां सस्मितां वन्दितां भजे ॥
ध्यानेनानेन सा देवी सर्व्वैश्च पूजिता भवेत् ।
स्तवनं शृणु विप्रेन्द्र ! काण्वशाखोक्तमेव च ॥
श्रीविष्णुरुवाच ।
जये जये जयाकारे जयशीले जयप्रदे ! ।
यज्ञशूकरजाये च जयं देहि जयावहे ॥
मङ्गले मङ्गलाधारे मङ्गल्ये मङ्गलप्रिये ।
मङ्गलाढ्ये मङ्गलेशे मङ्गलं देहि मे भवे ॥
सर्व्वाधारे सर्व्वबीजे सर्व्वशक्तिसमन्विते ।
सर्व्वकामप्रदे देवि सर्व्वेष्टं देहि मे भवे ॥
पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ।
पुण्याश्रये पुण्यवतामालये पुण्यदे भवे ॥
रत्नाधारे रत्नगर्भे रत्नाकरसमन्विते ।
स्त्रीरत्नरूपे रत्नाढ्ये रत्नसारप्रदे भवे ॥
सर्व्वशस्यालये सर्व्वशस्याढ्ये सर्व्वशस्यदे ।
सर्व्वशस्यहरे काले सर्व्वशस्याधिके भवे ॥
भूमे भूमिपसर्व्वस्वे भूमिपानां परायणे ।
भूपाहङ्काररूपेण भूमिं देहि च भूमिपे ॥
इदं पुण्यं महास्तोत्रं तां संपूज्य च यः पठेत्
कोटि कोटि जन्म जन्म स भवेद्भूमिपेश्वरः ॥
मदानकृतं पुण्यं लभते पाठनाज्जनः ।
भूमिदानहरात् पापान्मुच्यते नात्र संशयः ॥
अम्बुवाचीभूखनने पापात् स मुच्यते ध्रुवम् ।
अन्यकूपे कूपदजात् पापात् स मुच्यते ध्रुवम् ।
परभूश्राद्धजात् पापान्मुच्यते नात्र संशयः ॥
भूमौ वीर्य्यपरित्यागात् भूमौ दीपादिस्थापनात्
पापेन मुच्यते प्राज्ञः स्तोत्रस्य पठनान्मुने ! ।
अश्वमेधशतं पुण्यं लभते नात्र संशयः ॥
पृष्ठ ३/२२७
नारद उवाच ।
भूमिदानकृतं पुण्यं पापं तद्धरणे च यत् ।
परभूमौ श्राद्धपापं कूपे कूपदजं तथा ॥
अम्बुवाचीभूखननं वीर्य्यत्यागजमेव च ।
दीपादिस्थापनात् पापं श्रोतुमिच्छामि यत्नतः ॥
अन्यं वा पृथिवीजन्यं पापं मत्प्रश्नतः परम् ।
यदस्ति तत्प्रतीकारं वद वेदविदांवर ! ॥
श्रीनारायण उवाच ।
वितस्तिमानां भूमिञ्च यो ददाति च भारते ।
सन्ध्यापूताय विप्राय स याति विष्णुमन्दिरम् ॥
भूमिञ्च सर्व्वशस्याढ्यां ब्राह्मणाय ददाति यः ।
भूमिरेणुप्रमाणञ्च वर्षं विष्णुपदे स्थितिः ॥
ग्रामं भूमिञ्च धान्यञ्च यो ददात्याददाति च ।
सर्व्वपापविनिर्मुक्तौ चोभौ वैकुण्ठवासिनौ ॥
भूमिं दातुञ्च यत्काले यः साधुश्चानुमोदते ।
स च याति च वैकुण्ठं मित्रगोत्रसमन्वितः ॥
स्वदत्त्वां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।
स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ ॥
तत्पुत्त्रपौत्त्रप्रभृतिर्भूमिहीनः श्रिया हतः ।
पुत्त्रहीनो दरिद्रश्चैवान्ते याति च रौरवम् ॥
गवां मार्गं विनिष्कृष्य यश्च शस्यं ददाति च ।
दिव्यं वर्षशतञ्चैव कुम्भीपाकेषु तिष्ठति ॥
गोष्ठं तडागं निष्कृष्य मार्गं शस्यं ददाति च ।
स च तिष्ठत्यसिपत्रे यावदिन्द्राश्चतुर्द्दश ॥
न पञ्चपिण्डमुद्धृत्य परकूपे च स्नाति यः ।
प्राप्नोति नरकं नैव स्नानजं फलमेव च ॥
कामी भूमौ च रहसि वीर्य्यत्यागं करोति यः ।
स्निग्धरेणुप्रमाणञ्च वर्षं तिष्ठति रौरवे ॥
अम्बुवाच्यां भूखननं यः करोति च मानवः ।
स याति कृमिदंशञ्च स्थितिस्तत्र चतुर्युगम् ॥
परकीयलुप्तकूपे कूपं मूढः प्रयच्छति ।
पुष्करिण्याञ्च लुप्तायां पुष्करिणीं यो ददाति च ॥
सर्व्वं फलं परस्यैव तप्त मूर्म्मिं व्रजेत्तु सः ।
तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्द्दश ॥
परकीयतडागे च पङ्कमुत्सृज्य नोत्सृजेत् ।
रेणुप्रमाणवर्षञ्च ब्रह्मलोके वसेन्नरः ॥
पिण्डं पित्रे भूमिभर्त्तुर्न प्रदाय च मानवः ।
श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥
भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मनि ।
भूमौ शङ्खञ्च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ॥
मुक्तामाणिक्यहीरञ्च सुवर्णञ्च मणिन्तथा ।
यश्च संस्थापयेद्भूमौ स तिष्ठेन्नरके युगम् ॥
जपमालां पुष्पमालां कर्पूरं रोचनान्तथा ।
यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम् ॥
मुने ! चन्दनकाष्ठञ्च रुद्राक्षं कुशमूलकम् ।
संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥
पुस्तकं यज्ञसूत्रञ्च भूमौ संस्थापयेत्तु यः ।
न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः ॥
ब्रह्महत्यासमं पापममुत्र च लभेद्ध्रुवम् ।
ग्रन्थियुक्तं यज्ञसूत्रं पूज्यञ्च सर्व्ववर्णकैः ॥
यज्ञं कृत्वा च यो भूमिं क्षीरेण नहि सिञ्चति ।
स याति तप्तमूर्म्मिञ्च सन्तप्तः सप्तजन्मसु ॥
भूकम्पे ग्रहणे यो हि करोति खननं भुवः ।
जन्मान्तरे महापापी सोऽङ्गहीनो भवेद्ध्रुवम् ॥
भवनं यत्र सर्व्वेषां भूर्भूमिस्तेन कीर्त्तिता ।
वसुरत्नं या दधाति वसुधा सा वसुन्धरा ।
हरेरूरौ च या जाता सा चोर्व्वी परिकी-
र्त्तिता ॥
धरा धरित्री धरणी सर्व्वेषां धारणात्तु या ।
इज्या च यागाधाराच्च क्षौणी क्षीणालये च या ।
महालये क्षयं याति क्षितिस्तेन प्रकीर्त्तिता ॥
काश्यपी कश्यपस्येयमचला स्थिररूपतः ।
विश्वम्भरा तद्धरणाच्चानन्तानन्तरूपतः ॥
पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ! ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे पृथिव्युपाख्यानं ७
अध्यायः ॥ * ॥
तस्या भारा यथा, --
क्षितिरुवाच ।
“कृष्णभक्तिविहीना ये ये च तद्भक्तनिन्दकाः ।
तेषां महापातकिनामशक्ता भारवाहने ॥
स्वधर्म्माचारहीना ये नित्यकृत्यविवर्जिताः ।
श्रद्धाहीनाश्च वेदेषु तेषां भारेण पीडिता ॥
पितृमातृगुरुस्त्रीणां पोषणं पुत्त्रपोष्ययोः ।
ये न कुर्व्वन्ति तेषाञ्च न शक्ता भारवाहने ॥
ये मिथ्यावादिनस्तात ! दयासत्यविहीनकाः ।
निन्दका गुरुदाराणां तेषां भारेण पीडिता ॥
मित्रद्रोही कृतघ्नश्च मिथ्यासाक्षिप्रदायकः ।
विश्वासघ्नः स्थाप्यहारी तेषां भारेण पीडिता ॥
कल्याणयुक्तनामानि हरेर्नामैकमङ्गलम् ।
कुर्व्वन्ति विक्रयं ये वै तेषां भारेण पीडिता ॥
जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः ।
शवदाही शूद्रभोजी तेषां भारेण पीडिता ॥
पूजायज्ञोपवासानि व्रतानि नियमानि च ।
ये येमूढा विहन्तारस्तेषां भारेण पीडिता ॥
सदा द्विषान्त ये पापा गोविप्रसुरवैष्णवान् ।
हरिं हरिकथां भक्ति तषां भारेण पीडिता ॥
शङ्खादीनाञ्च भारेण पीडिताहं यथा विधे ! ।
ततोऽधिकेन दैत्यानां तेषां भारेण पीडिता ॥
इत्येबमुक्त्वा वसुधा रुरोद च मुहुर्मुहुः ।
ब्रह्मा तद्रोदनं दृष्ट्वा तामुवाच कृपानिधिः ॥
भारं तवापनेष्यामि दस्यूनामप्युपायतः ।
उपायतोऽपि कार्य्याणि सिध्यन्त्येव वसुन्धरे ! ॥
मन्त्रं मङ्गलकुम्भञ्च शिवलिङ्गञ्च कुङ्कुमम् ।
मधुकाष्ठं चन्दनञ्च कस्तूरीं तीर्थमृत्तिकाम् ॥
खड्गं गण्डकखड्गञ्च स्फटिकं पद्मरागकम् ।
इन्द्रनीलं सूर्य्यमणिं रुद्राक्षं कुशमूलकम् ॥
शालग्रामशिलाशङ्खतुलसीप्रतिमाजलम् ।
शङ्खप्रदीपमालाञ्च शिलार्च्चातुलसीं तथा ॥
निर्म्माल्यञ्चैव नैवेद्यं हरिद्वर्णमणिन्तथा ।
ग्रन्थियुक्तं यज्ञसूत्रं दर्पणं श्वेतचामरम् ॥
गोरोचनाञ्च मुक्ताञ्च शुक्तिं माणिक्यमेव च ।
पुराणसंहितां वह्निं कर्पूरं परशं तथा ॥
रंजतं काञ्चनञ्चैव प्रवालं रत्नमेव च ।
कुशद्विजं तीर्थतोयं गव्यं गोमूत्रगोमयम् ॥
त्वयि ये स्थापयिष्यन्ति मूढाश्चैतानि सुन्दरि ! ।
पव्यन्ते कालसूत्रे च वर्षाणामयुतं ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्यायः ॥
तस्या रूपान्तरं यथा, --
“इति तस्य वचः श्रत्वा जनकस्य तदा क्षितिः ।
मुनीनां सन्निधौ रूपं दर्शयामास भूभृते ॥
नीलोत्पलदलश्यामामक्षमालाब्जधारिणीम् ।
बाहुयुग्मेन शुभ्रेण मृणालायतशोभिना ।
सुन्दरीं लोकधात्रीं तां दृष्ट्वा शश्वन्नृपोऽलयत् ॥”
इति कालिकापुराणे ३६ अध्यायः ॥
पृथिव्यां ग्रामशस्याद्युत्पत्तिकारणं यथा, --
प्रजा ऊचुः ।
“अराजके नृपश्रेष्ठ ! धरित्र्या सकलौषधीः ।
ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्व्वाः प्रजेश्वर ! ॥
त्वं नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः ।
देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः ॥
श्रीपराशर उवाच ।
ततोऽथ नृपतिर्दिव्यमादायाजगवं धनुः ।
शरांश्च दिव्यान् कुपितः सोऽभ्यधावद्वसुन्धराम् ॥
ततो ननाश त्वरिता गौर्भूत्वा तु वसुन्धरा ।
सा लोकान् ब्रह्मलोकादींस्तत्त्रासादगमन्मही ।
यत्र यत्र ययौ देवी सा तदा भूतधारिणी ।
तत्र तत्र तु सा वैण्यं ददर्शाभ्युद्यतायुधम् ॥
ततस्तं प्राह वसुधा पृथुं पृथुपराक्रमम् ।
प्रवेपमाना तद्बाणपरित्राणपरायणा ॥
पृथिव्युवाच ।
स्त्रीवधे त्वं महापापं किं नरेन्द्र ! न पश्यसि ।
येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥
श्रीपृथुरुवाच ।
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमस्तस्य पुण्यप्रदो वधः ॥
पृथिव्युवाच ।
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि ।
आधारः कः प्रजानान्ते नृपश्रेष्ठ ! भविष्यति ॥
पृथुरुवाच ।
त्वां हत्वा वसुधे ! बाणैर्मच्छासनपराङ्मुखीम् ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥
श्रीपराशर उवाच ।
ततः प्रणम्य वसुधा तं भूयः प्राहं पार्थिवम् ।
प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥
उपायतः समारब्धाः सर्व्वे सिध्यन्त्युपक्रमाः ।
तस्माद्वदाम्युपायन्ते त्वं कुरुष्व यदीच्छसि ॥
समस्तास्ता मया जीर्णा नरनाथ ! महौषधीः ।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥
तस्मात् प्रजाहितार्थाय मम धर्म्मभृतांवर ! ।
तन्तु वत्सं प्रयच्छस्व क्षरेयं येन वत्सला ॥
समाञ्च कुरु सर्व्वत्र येन क्षीरं समन्ततः ।
वरौषधीबीजभूतं वीर ! सर्व्वत्र भावये ॥
श्रीपराशर उवाच ।
तत उत्सारयामास शैलान् शतसहस्रशः ।
घनुष्कोट्या तदा वैण्यस्तेन शैला विवर्द्धिताः ॥
नहि पूर्ब्बविसर्गे वै विषमे पृथिवीतले ।
पृष्ठ ३/२२८
प्रतिभागः पुराणां वा ग्रामाणां वा पुराभवत् ॥
न शस्यानि न गोरक्ष्यं न कृषिर्न बणिक्पथः ।
वैण्यात् प्रभृति मैत्रेय ! सर्व्वस्यैतस्य सम्भवः ॥
यत्र यत्र समं त्वस्या भूमेरासीद्द्विजोत्तम ! ।
तत्र तत्र प्रजानां हि निवासं समरोचयत् ॥
आहारः फलमूलानि प्रजानामभवत्तदा ।
कृच्छ्रेण महता सोऽपि प्रनष्टास्वोषधीषु वै ॥
स कल्पयित्वा वत्सन्तु मनुं स्वायम्भुवं प्रभुम् ।
स्वे पाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः ॥
शस्यजातानि सर्व्वाणि प्रजानां हितकाम्यया ।
तेनान्नेन प्रजास्तात ! वर्त्तन्तेऽद्यापि नित्यशः ॥
प्राणप्रदानात् स पृथुर्यस्माद्भूमेरभूत् पिता ।
ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी ॥
ततश्च देवैर्मुनिभिर्द्दैत्यै रक्षोभिरद्रिभिः ।
गन्धर्व्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥
तत्तत्पात्रमुपादाय तत्र दुग्ध्वा मुने ! पयः ।
वत्स ! दोग्धृविशेषाच्च तेषां तद्योनयोऽभवन् ॥
सैषा धात्री विधात्री च धारणी पोषणी तथा ।
सर्व्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा ॥
एवंप्रभावः स पृथुः पुत्त्रो वेणस्य वीर्य्यवान् ।
जज्ञे महीपतिः पूर्ब्बो राजाभूज्जनरञ्जनात् ॥”
इति श्रीविष्णुपुराणे १ अं शे पृथुचरितं १३
अध्यायः ॥ * ॥
तस्या नामगोरूपदोहनानां कारणानि यथा, --
ऋषय ऊचुः ।
“बहुभिर्धरणी भुक्ता भूपालैः श्रूयते पुरा ।
पार्थिवाः पृथिवीयोगात् पृथिवी कस्य योगतः ॥
किमर्थञ्च कृता संज्ञा भूमिः किं पारिभाषिकी ।
गौरितीयञ्च विख्याता सूत ! कस्माद्ब्रवीहि नः ॥
सूत उवाच ।
वंशे स्वायम्भुवे ह्यासीदङ्गो नाम प्रजापतिः ।
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी ॥
सुतीर्था नाम तस्यास्तु वेणो नाम सुतः पुरा ।
अधर्म्मनिरतः कामी बलवान् वसुधाधिपः ॥
लोकेऽप्यधर्म्मकृज्जातः परभार्य्यापहारकः ।
धर्म्माचारप्रसिद्ध्यर्थं जगतोऽस्य महर्षिभिः ॥
अनुनीतोऽपि न ददावनुज्ञां स यदा ततः ।
शापेन मारयित्वैनमराजकभयार्द्दिताः ।
ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः ॥
तत्कायान्मथ्यमानात्तु निष्पेतुर्म्लेच्छजातयः ॥
शरीरे मार्तुरंशेन कृष्णाञ्जनसमप्रभाः ।
पितुरङ्गस्य चांशेन धार्म्मिको धर्म्मचारिणः ॥
उत्पन्नो दक्षिणाद्धस्तात् सधनुः सशरो गदी ।
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः ॥
पृथुरेवाभवद्यस्मात्ततः पृथरजायत ।
स विप्रैरभिषिक्तश्च तपः कृत्वा सुदुश्चरम् ॥
विष्णोर्व्वरेण सर्व्वस्य प्रभुत्वमगमत् प्रभुः ।
निःस्वाध्यायवषट्कारं निर्घनं वीक्ष्य भूतलम् ॥
दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः ।
ततो गोरूपमास्थाय भूः पलायितुमुत्सहेत् ॥
पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः ।
ततः स्थित्वैकदेशे तु किं करोमीति साब्रवीत् ॥
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते ! ।
सर्व्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥
तथैव चाब्रवीद्भूमिदुंदोह च नराधिपः ।
स्वे स्वे पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥
तदन्नमभवत् शुद्धं प्रजा जीवन्ति तेन वै ।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥
दोग्धा बृहस्पतिरभूत् पात्रं वेदस्तपो रसः ।
वेदैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् ॥
इन्द्रो वत्सः समभवत् क्षीरमूर्ज्जस्करं बलम् ।
देवानां काञ्चनं पात्रं पितॄणां राजतन्तदा ॥
अन्तकश्चाभवद्दोग्धा यमो वत्सः सुधारसः ।
अलावुपात्रं नागानां तक्षको वत्सकोऽभवत् ॥
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत् पुनः ।
असुरैरपि दुग्धेयमायसे शक्रपीडनीम् ॥
पात्रे मायामभूद्वत्सः प्रह्रादिश्च विरोचनः ।
दोग्धा द्बिमूर्द्धा तत्रासीन्माया येन प्रवर्त्तिताः ॥
यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः ।
कृत्वा वैश्रवणं वत्समामपात्रे महीपते ! ॥
प्रेतरक्षोगणैर्दुग्धा धरा रुचिरमुल्वणम् ।
रौप्यलाभोऽभवद्दोग्धा सुमाली वत्स एव तु ॥
गन्धर्व्वैश्च पुनर्दुग्धा वसुधा चाप्सरोगणैः ।
वतसं चैत्ररथं कृत्वा गन्धान् पद्मदले तथा ॥
दोग्धा च सुरुचिर्नाम नाट्यवेदस्य पारगः ।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥
औषधानि च दिव्यानि दोग्धा मेरुर्महाबलः ।
वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् ।
पालाशपात्रे दोग्धा तु सालः पुष्पदलाकुलः ॥
प्लक्षोऽभवत्ततो वत्सः सर्व्ववृक्षगणाधिपः ।
एवमन्यैश्च वसुधा तथा दुग्धा यथेप्सितम् ॥”
इति मत्स्यपुराणे १० अध्यायः ॥ * ॥
अन्यद्विवरणं भूगोलशब्दे द्रष्टव्यम् ॥ पृथ्वी ।
तद्वैदिकपर्य्यायः । गौः १ ग्मा २ ज्मा ३ क्ष्मा
४ क्षा ५ क्षामा ६ क्षोणी ७ क्षितिः ८ अवनिः
९ ऊर्व्वी १० पृथ्वी ११ मही १२ रिपः १३
अदितिः १४ इला १५ निरृतिः १६ भूः १७
भूमिः १८ पूषा १९ गातुः २० गोत्रा २१ ।
इत्येकविंशतिपृथिवीनामधेयानि । इति वेद-
निघण्टौ १ अध्यायः ॥ (अन्तरिक्षम् । इति
निघण्टुः । १ । ३ ॥ यथा, ऋग्वेदे । १० । १२१ । १ ।
“स दाधार पृथिवीं द्यामुतेमां
कस्मै देवाय हविषा विधेम ॥”
“पृथिवीत्यन्तरिक्षनाम ।” इति तद्भाष्ये सायनः ॥)

पृथिवीगीता, स्त्री, (पृथिव्या गीता ।) पृथिवी-

कथा । यथा, --
“मैत्रेय ! पृथिवीगीताः श्लोकाश्चात्र निबोध
तान् ।
यानाह धर्म्मध्वनिने जनकायासितो मुनिः ॥
श्रीपृथिव्युवाच ।
कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्म्माणोऽप्यतिविश्वस्तचेतसः ॥
पूर्ब्बमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरगम् ॥
समुद्रावरणं याति मन्मण्डलमथो वशम् ।
कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥
उत्सृज्य पूर्ब्बे यां याता यां नादाय गतः
पिता ।
तां मामतिविमूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥
मत्कृते पितृपुत्त्राणां भ्रातॄणाञ्चापि विग्रहाः ।
जायन्तेऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥
पृथ्वी ममेयं सकला ममेयं
ममेति चैषा मम शाश्वतेयम् ।
यो यो मृतेऽन्यत्र बभूव राजा
कुबुद्धिरासीद्रिति तस्य तस्य ॥
दृष्ट्वा ममत्वादृतचित्तमेकं
विहाय मां मृत्युपथं व्रजन्तम् ।
तस्यान्वयस्तत्र कथं ममत्वं
हृद्यास्पदं मत्प्रभवं करोति ॥
पृथ्वी ममैषाशु परित्यजैनां
वदन्ति ये दूतमुखैः स्वशत्रून् ।
नराधिपास्तेषु ममातिहासः
पुनश्च मूढेषु दयाभ्युपैति ॥
श्रीपराशर उवाच ।
इत्येते धरणीगीताः श्लोका मैत्रेय यैः श्रुताः ।
ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥”
इति विष्णुपुराणे ४ अंशे २४ अध्यायः ॥

पृथिवीपतिः, पुं, (पृथिव्याः पतिः ।) राजा ।

(यथा, मनुः । ७ । १७७ ।
“सर्व्वोपायैस्तथा कुर्य्यात् नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥”)
ऋषभनामौषधिः । इति मेदिनी । ते, २३१ ॥
यमः । इति हेमचन्द्रः ॥

पृथिवीपालः, पुं, (पृथिवीं पालयतीति । पृथिवी +

पालि + अण् ।) राजा । यथा, --
“बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥”
इति रघुः ॥

पृथिवीशक्रः, पुं, (पृथिव्यां शक्र इव ।) राजा ।

इति हेमचन्द्रः । ३ । ३५३ ॥

पृथुः, पुं, (प्रथते विख्यातो भवतीति । प्रथ +

“प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ।
उणा० १ । २९ । इति कुः सम्प्रसारणञ्च ।)
त्रेतायुगे सूर्य्यवशीयपञ्चमनृपः । वेणनृपस्य
दक्षिणकरमथनाज्जातः । प्रजारञ्जनात् आद्ये
राजापाधिं प्राप्तः । यथा, --
“अथ ते ऋषयः सर्व्वे प्रसन्नमनसस्ततः ।
गतकल्मषमेवं तं जातं वेणं नृपोत्तमम् ॥
ममन्थुर्दक्षिणं पाणिं तस्यैव च महात्मनः ।
मथिते तस्य पाणौ च सञ्जातं स्वेदमेव हि ॥
पुनर्ममन्थुस्ते विप्रा दक्षिणं पाणिमेव च ।
स्वकरात् पुरुषो जज्ञे द्वादशादित्यसन्निभः ॥
तप्तकाञ्चवर्णाङ्गो दिव्यमाल्याम्बरावृतः ।
दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥
पृष्ठ ३/२२९
मुकुटेन सुवर्णेन कुण्डलाभ्यां विराजते ॥
महाकायो महाबाहू रूपेणाप्रतिमो भुवि ।
खड्गबाणधरो धन्वी कवची च महाप्रभः ॥
सर्व्वलक्षणसम्पन्नः सर्व्वालङ्कारभूषितः ।
तेजसा रूपभावेन साक्षादग्निरिव ज्वलन् ॥
आद्यमाजगवं नाम धनुर्गृह्य महावरम् ।
इन्द्रो दिवि यथा भाति भुवि वेणात्मजस्तथा ॥
तस्मिन् जाते महाभागे देवाश्च ऋषयोऽमलाः ।
उत्सवं चक्रिरे सर्व्वे वेणस्य तनयं प्रति ॥
दीप्यमानः स्ववपुषा वर्णैरेव महामतिः ।
शरांश्च दिव्यान्रक्षार्थं कवचञ्च महाप्रभम् ॥
ददाविन्द्रः सहस्राक्षो मालाञ्चाम्लानपुष्पिकाम् ॥
जाते तस्मिन्महाभागे पृथौ वीरे महात्मनि ॥
संप्रहृष्टानि भूतानि समस्तानि द्विजोत्तमाः ।
सर्व्वतीर्थानि तोयानि पुण्यानि विविधानि च ॥
स्थावराणि चराण्येव अभ्यषिञ्चन्नराधिपम् ।
महावीरं प्रजापालं पृथुमेवं द्विजोत्तमाः ॥
पृथुं वैण्यं वड्रराज्ये अभिषिक्तं चराचरैः ।
देवैर्विप्रैस्तथा सर्व्वैरभिषिक्तो महामनाः ॥
राज्ञाञ्चैवाधिकारे वै पृथुर्वैण्यः प्रतापवान् ।
तदा पित्रा प्रजाः सर्व्वाः कदा नैवानुरञ्जिताः ॥
तेनानुरञ्जिताः सर्व्वाः सुखैर्मुभुदिरे तदा ।
अनुरागात्तु वीरस्य नाम राजेत्यभाषत ॥
प्रयातस्य सुधीरस्य समुद्रस्य द्विजोत्तमाः ।
आपस्तस्तम्भिरे सर्व्वा भयात्तस्य महात्मनः ॥
प्रयातस्य रथस्यापि तस्यैव च महात्मनः ।
दुर्गमार्गं विलोक्यैव स्वमार्गं पर्व्वता ददुः ॥
ध्वजभङ्गं न चक्रुस्ते गिरयः सर्व्व एव ते ।
अकृष्टपच्या पृथिवी सर्व्वत्र कामधेनवः ॥
पर्जन्यः कामवर्षी च वेदयज्ञान् महोत्सवान् ।
कुर्व्वन्ति ब्राह्मणाः सर्व्वे क्षत्त्रियाश्च तथापरे ॥
सर्व्वकामफला वृक्षास्तस्मिन् शासति राजनि ।
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ॥
सर्व्वे सुखेन जीवन्ति लोका धर्म्मपरायणाः ।
तस्मिन् शासति दुर्द्धर्षे राजराजे महात्मनि ॥”
इति पाद्मोत्तरखण्डे २९ अध्यायः ॥ * ॥
तस्य माहात्म्यं यथा, --
“पृथुना प्रविभक्ता च शोभिता च वसुन्धरा ।
शस्यरत्नवती स्फीता पुरपत्तनशालिनी ॥
एवं प्रभावो वैण्यश्च राजासीद्राजसत्तमः ।
नमस्यश्चैव पूज्यश्च भूतिकामैर्नरोत्तमैः ॥
ब्राह्मणैर्व्वेदकामैश्च पृथुर्वैण्यः प्रतापवान् ।
आदिकर्त्ता रणानाञ्च योधानां प्रथमो नृपः ॥
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ।
घोररूपान् स संग्रामान् क्षेमी तरति कीर्त्ति-
मान् ॥
वैश्यैरपि हि शूद्रैश्च स्वाः स्वा वृत्तीरनुश्रितैः ।
पृथुरेव नमस्कार्य्यः सर्व्वसिद्धिकरस्तु सः ॥
एवं पृथुरभूत् पूर्ब्बं प्रसादाच्चक्रपाणिनः ।
सार्व्वभौमो महातेजा दुर्व्विषह्यः सुरासुरैः ॥”
तस्य पुत्त्रौ द्वौ । यथा, --
“पृथोः पुत्त्रौ तु धर्म्मज्ञौ जज्ञातेऽन्तर्द्धिपाणिनौ ।
शिखण्डी च हविर्द्धानमन्तर्द्धानाद्व्यजायत ॥”
अरेणाभूराज्ञः पुत्त्रः । यथा, अग्निपुराणे ।
“अयोधस्तस्य पुत्त्रोऽभूत् ककुत्स्थो नाम वीर्य्य-
वान् ।
ककुत्स्थस्य अरेणाभूस्तस्य पुत्त्रः पृथुः स्मृतः ॥”
अग्निः । इति मेदिनी । थे, १० ॥ (प्रियव्रत-
वंशोद्भवस्य विभोः पुत्त्रः । यथा, विष्णुपुराणे ।
२ । १ । ३८ ।
“भुवस्तस्मात् तथोद्गीथः प्रस्तारस्तत्सुतो विभुः ।
पृथुस्ततोऽभवन्नक्तो नक्तस्यापि गयः सुतः ॥”
तामसमन्वन्तरे ऋषिविशेषः । यथा, मार्कण्डेये ।
७४ । ५९ ।
“ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥”)

पृथुः, स्त्री, (प्रथते विस्तारमेतीति । प्रथ + कुः

सम्प्रसारणञ्च ।) कृष्णजीरकः । इत्यमरः । २ ।
९ । ३७ ॥ (एतत्पर्य्यायो यथा, --
“कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ।
कालाजाजी तु सुषवी कालिका चोपकालिका ॥
पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
त्वक्पर्णी । हिङ्गुपत्री । इति मेदिनी । थे, १० ॥
(पर्य्यायोऽस्या यथा, --
“हिङ्गुपत्री तु कवरी पृथ्विका पृथुका पृथुः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अहिफेनः । इति शब्दरत्नावली ॥

पृथुः, त्रि, (प्रथ + कुः सम्प्रसारणञ्च ।) महत् ।

इत्यमरः । ३ । १ । ६० ॥ (यथा, आर्य्यासप्त-
शत्याम् । ११७ ।
“उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि-
राङ्गि ! ।
अचला अपि न महान्तः के चञ्चलभाव-
मानीताः ॥”)
निपुणः । इति शब्दरत्नावली ॥

पृथुकः, पुं, (पृथुरेव । पृथु + संज्ञायां कन् । यद्वा,

प्रथते इति । प्रथ + “अर्भकपृथुकेति ।” उणा०
५ । ५३ । इति कुकन् संप्रसारणञ्च ।) त्तिपि-
टकः । इत्यमरः ॥ क्लीवलिङ्गोऽप्ययम् । यथा, --
“द्विःस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।
नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥
अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः ॥
(यथास्य गुणाः ।
“पृथुका गुरवो वल्या कफविष्टम्भकारिणः ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
“पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान् ।
यावा विष्टभ्य जीर्य्यन्ति सतुषा भिन्नवर्च्चसः ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“पृथुका गुरवः स्निग्धा बृंहणा कफवर्द्धनाः ।
बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्च्चसः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
चाक्षुषमन्वन्तरे देवगणभेदः । यथा, हरि-
वंशे । ७ । ३२ ।
“आद्या प्रभूता ऋभवः पृथुकाश्च दिवौकसः ॥”)

पृथुकः, त्रि, (प्रथते इति । प्रथ + “अर्भकपृथुक-

पाका वयसि ।” उणा० ५ । ५३ । इति कुकन्
सम्प्रसारणञ्च । यद्वा, पृथु यथा स्यात् तथा
कायति शब्दायते इति । कै शब्दे + कः ।)
बालकः । इति मेदिनी । के, १२६ ॥ (यथा,
माघे । ३ । ३० ।
“प्रक्रीडितान् रेणुभिरेत्य तूर्णं
निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥”)

पृथुका, स्त्री, (पृथुः स्थूलैव । पृथु + कन् +

टाप् ।) हिङ्गुपत्री । इति शब्दचन्द्रिका ॥
(अस्याः पर्य्यायो यथा, --
“हिङ्गुपत्री तु कवरी पृथ्विका पृथुका पृथुः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
बालिका च ॥

पृथुकोलः, पुं, (पृथुः कोलः ।) राजवदरः । इति

राजनिर्घण्टः ॥

पृथुच्छदः, पुं, (पृथवश्छदाः पत्राणि यस्य ।) हरि-

दर्भः । इति राजनिर्घण्टः ॥ बृहत्पत्रे, त्रि ॥

पृथुपत्रः, पुं, (पृथूनि पत्राणि यस्य ।) रक्त-

लशुनः । इति राजनिर्घण्टः ॥

पृथुपलाशिका, स्त्री, (पृथूनि पलाशानि यस्याः ।

कप् । टापि अत इत्वम् ।) शटी । इति
राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, --
“शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका ।
गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पृथुरोमा, [न्] पुं, (पृथूनि रोमाणि लोम-

स्थानीयानि शल्कान्यस्येति ।) मत्स्यः । इत्य-
मरः । १ । १० । १७ ॥ बृहल्लोमयुक्ते, त्रि ॥

पृथुलं, त्रि (पृथुं पृथुत्वमस्यास्तीति । पृथु +

सिध्मादित्वात् लच् । यद्वा, पृथुं लातीति । ला +
कः ।) महत् । इत्यमरः । ३ । १ । ६० ॥ (यथा,
माघे । १० । ६५ ।
“श्रोणिषु प्रियकरः पृथुलासु
स्पर्शमाप सकलेन तलेन ॥”)

पृथुला, स्त्री, (पृथुल + टाप् ।) हिङ्गुपत्री । इति

जटाधरः ॥ (गुणादयोऽस्या हिङ्गुपत्रीशब्दे
ज्ञातव्याः ॥)

पृथुशिम्बः, पुं, (पृथुः शिम्बा यस्याः ।) श्योनाक-

प्रभेदः । इति राजनिर्घण्टः ॥ (पर्य्यायान्तर-
मस्य यथा, --
“श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्डुकाः ।
मण्डूकपत्रपत्रोर्णशुकनासकुटन्नटाः ॥
दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटम्भरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पृथुशेखरः, पुं, (पृथु महत् शेखरं शृङ्गं यस्य ।)

पर्व्वतः । इति त्रिकाण्डशेषः ॥

पृथुस्कन्धः, पुं, (पृथुः स्थूलः स्कन्धो यस्य ।) शूकरः ।

इति राजनिर्घण्टः ॥
पृष्ठ ३/२३०

पृथूदकं, क्ली, (पृथु पुण्यप्रदत्वात् महदुदकं यस्य ।)

तीर्थभेदः । यथा, --
“ते श्रुत्वा ऋषयः सर्व्वे तीर्थमाहात्म्यमुत्तमम् ।
कपालमोचनमिति नाम चक्रुः समागताः ॥
तत्रापि सुमहत्तीर्थं विश्वामित्रस्य विश्रुतम् ।
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥
तस्मिंस्तीर्थवरे स्नात्वा ब्राह्मण्यं लभते ध्रुवम् ।
ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥
ततः पृथूदकं गच्छेन्नियतो नियताशनः ।
तत्र सिद्धस्तु ब्रह्मर्षी रुषद्गुर्नाम नामतः ॥
जातिस्मरो रुषद्गुस्तु गङ्गाद्बारे तदा स्थितः ।
अन्तकालं ततो दृष्ट्वा पुत्त्रान् वचनमब्रवीत् ॥
इह श्रेयो न पश्यामि नयध्वं मां पृथूदकम् ।
विज्ञाय तस्य तद्भावं रुषद्गोस्ते तपोधनाः ॥
तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ।
स तैः पुत्त्रैः समानीतः सरस्वत्या समाप्लुतः ॥
स्मृत्वा तीर्थगुणान् सर्व्वान् प्राहेदमृषिसत्तमः ।
सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् ॥
पृथूदके जप्यपरो नैनं श्वो मरणं लभेत् ।
तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्म्मिता ॥
पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ।
चतुर्व्वर्णस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् ॥
तस्याभिध्यायतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः ।
मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियास्तथा ॥
ऊरुभ्यां वैश्य जातीयाः पद्भ्यां शूद्रास्ततोऽभवन् ।
चातुर्व्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः ॥
एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीतिसंज्ञितम् ।
तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति ॥”
इति वामनपुराणे ३८ अध्यायः ॥
(यथा च महाभारते । ३ । ८३ । १३२ -- १३९ ।
“ततो गच्छेत राजेन्द्र ! तीर्थं त्रैलोक्यविश्रुतम् ।
पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ! ॥
तत्राभिषेकं कुर्व्वीत पितृदेवार्च्चने रतः ।
अज्ञानात् ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ॥
यत्किञ्चिदशुभं कर्म्म कृतं मानुषबुद्धिना ।
तत् सर्व्वं नश्यते तत्र स्नानमात्रस्य भारत ! ॥
अश्वमेधफलञ्चापि लभते स्वर्गमेव च ।
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वती ॥
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ।
उत्तमं सर्व्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ॥
पृथूदके जप्यपरो न तस्य मरणं भवेत् ।
गीतं सनत्कुमारेण व्यासेन च महात्मना ॥
वेदे च नियतं राजन्नधिगच्छेत् पृथूदकम् ।
पृथूदकात् तीर्थतमं नान्यत्तीर्थं कुरूद्वह ! ॥
तन्मेध्यं तत् पवित्रञ्च पावनञ्च न संशयः ।
तत्र स्नात्वा दिवं यान्ति येऽपि पापकृता नराः ।
पृथूदके नरश्रेष्ठ ! एवमाहुर्मनीषिणः ॥”)

पृथूदरः, पुं, (पृथु महदुदरं यस्य ।) मेषः । इति

हारावली । ८० ॥ बृहत्कुक्षौ, त्रि ॥

पृथ्वी, स्त्री, (पृथुः स्थूलत्वगुणयुक्ता । “वोतो गुण-

वचनात् ।” ४ । १ । ४४ । इति ङीष् ।) पृथिवी ।
(यथा, देवीभागवते । ३ । १३ । ८ ।
“मधुकैटभयोर्मेदसंयोगोत् मेदिनी स्मृता ।
धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”)
पृथोर्दुहितृत्वस्वीकारादेतन्नाम । यथा, अग्नि-
पुराणे ।
“दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते ॥”
हिङ्गुपत्री । कृष्णजीरकः । इत्यमरः । २ । ९ ।
३७, २ । ९ । ४० ॥ (एतस्याः पर्य्यायो यथा, --
“कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ।
कालाजाजीतु सुषवी कालिका चोपकालिका ॥
पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वृत्तार्हन्माता । इति हेमचन्द्रः ॥ पुनर्नवा ।
स्थूलैला । इति राजनिर्घण्टः ॥ (सप्तदशाक्षर-
पादकश्च्छन्दोभेदः । इति छन्दोमञ्जरी ॥ अस्य
लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

पृथ्वीका, स्त्री, (पृथ्वी + स्वार्थे कन् ।) बृहदेला ।

इत्यमरः । २ । ४ । १२५ ॥ (अस्याः
पर्य्यायो यथा, --
“एलास्थूला च बहुला पृथ्वीका त्रिपुटापि च ।
भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सूक्ष्मैला । कृष्णजीरकः । इति रत्नमाला ॥
हिङ्गुपत्री । इति राजनिर्घण्टः ॥

पृथ्वीकुरवकः, पुं, (पृथ्व्यां भूमौ कुरवक इव ।)

श्वेतमन्दारकः । इति राजनिर्घण्टः ॥

पृथ्वीजं, क्ली, (पृथ्व्यां जायते इति । जन + डः ।)

गडलवणम् । इति राजनिर्घण्टः ॥

पृदाकुः, पुं, (पर्दते इति । पर्द अपानशब्दे +

“पर्देर्नित् सम्प्रसारणमल्लोपश्च ।” उणा० ३ ।
८० । इति काकुः रेफस्य सम्प्रसारणं अल्लो-
पश्च ।) सर्पः । इत्यमरः । १ । ८ । ६ ॥ (यथा,
महाभारते । ६ । १७८ । २७ ।
“स भीमं सहसाभ्येत्य पृदाकुः कुपितो भृशम् ।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥”)
वृश्चिकः । व्याघ्रः । चित्रकः । इति मेदिनी ।
के, १२५ ॥ कुञ्जरः । वृक्षः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

पृश्निः, त्रि, (स्पृश्यते इति । स्पृश संस्पर्शे + “घृणि-

पृश्नीति ।” उणा० ४ । ५२ । इति नि निपातनात्
साधुः ।) अल्पतनुः । इत्यमरः । २ । ६ । ४८ ॥
(यथा, महाभारते । १३ । २६ । ८६ ।
“दक्षां पृश्निं बृहतीं विप्रकृष्टां
शिवामृद्धां भगिनीं सुप्रसन्नाम् ।
विभावरीं सर्व्वभूतप्रतिष्ठां
गङ्गां गता ये त्रिदिवं गतास्ते ॥”)
खर्व्वदुर्ब्बलाल्पास्थिः । इति भरतः ॥ (शुक्ल-
वर्णः । यथा, ऋग्वेदे । १ । १६० । ३ ।
“धेनुञ्च पृश्निं वृषभं सुरेतसम् ॥”
“पृश्निं शुक्लवर्णां धेनुम् ।” इति तद्भाष्ये सायनः ॥
प्राप्ततेजाः । यथा, ऋग्वेदे । १० । १८९ । १ ।
“आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ॥”)

पृश्निः, स्त्री, (स्पृपति द्रव्यजातं स्पृश्यते इति वा ।

स्पृश + “घृणिस्पृश्नीति ।” उणा० ४ । ५२ । इति नि
निपातनात् साधुः ।) रश्मिः । इति शब्दरत्ना-
वली ॥ (अन्नम् । वेदाः । जलम् । अमृतम् ।
इति महाभारतम् । १२ । ३४१ । ४४ ॥) सुत-
पोराजपत्नी । सैव जन्मान्तरे देवकी भूता ।
इति श्रीभागवते १० स्कन्धः ॥

पृश्निका, स्त्री, (पृश्नौ जले कायति शोभते इति ।

कै + कः । यद्वा, पृश्नि स्वल्पं कं जलं यत्र ।)
कुम्भिका । इति शब्दमाला ॥

पृश्निगर्भः, पुं, (पृश्निर्वेदादयो गर्भे यस्य । यद्वा,

पृश्निः जन्मान्तरजातदेवकी तस्याः गर्भ उत्-
पत्तिस्थानत्वेनास्त्यस्येति । अच् ।) श्रीकृष्णः ।
इति हारावली । ९ ॥ (अस्य निरुक्तिर्यथा
महाभारते । १२ । ३४१ । ४४ ।
“पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं
तथा ।
ममैतानि सदा गर्भः पृश्निगर्भस्ततोऽस्म्यहम् ॥”)

पृश्निपर्णी, स्त्री, (पृश्नि स्वल्पं पर्णमस्याः । ङीष् ।)

लताविशेषः । चाकुलिया इति भाषा । चक-
रौत् इति हिन्दी भाषा । तत्पर्य्यायः । पृथक्-
पर्णी २ चित्रपर्णी ३ अङ्घ्रिवल्लिका ४ क्रोष्टु-
विन्ना ५ सिंहपुच्छी ६ कलशिः ७ धावनिः ८
गुहा ९ । इत्यमरः । २ । ४ । ९२ ॥ केचित्तु
पृश्निपर्ण्यादिचतुष्कं चाकुलिया इति ख्याता-
याम् । क्रोष्टुविन्नादिपञ्चकं विरालछाँइ इति
ख्यातायामित्याहुः । एतत्तु वैद्या न श्रद्दधते । ते
हि कलश्यादिशब्देन पृश्निपर्णीमेव गृह्णन्ति ।
पृश्निपर्णी सिंहपुच्छी चित्रपर्णी कटुसिंह-
पुच्छी अनयोरल्पभेदान्नवैवैकार्था इति केचित् ।
इति भरतः ॥ अपि च ।
पिष्टपर्णी १० लाङ्गली ११ क्रोष्टुपुच्छिका १२
पूर्णपर्णी १३ कलशी १४ क्रोष्टुकमेखला १५
दीर्घा १६ शृगालवृन्ता १७ त्रिपर्णी १८ सिंह-
पुच्छिका १९ दीर्घपत्रा २० अतिगुहा २१
घृष्ठिला २२ चित्रपर्णिका २३ । इति साञ्जे
रत्नमाला ॥ महागुहा २४ शृगालविन्ना २५
घमनी २६ मेखला २७ लाङ्गूलिका २८ पृष्टि-
पर्णी २९ दीर्घपर्णी ३० । इति राजनिर्घण्टः ॥
अङ्घ्रिपर्णी ३१ धावनी ३२ । इति भावप्र-
काशः ॥ अस्या गुणाः । कटुत्त्वम् । अतीसारकास-
वातरोगज्वरोन्मादव्रणदाहनाशित्वञ्च । इति
राजनिर्घण्टः ॥ त्रिदोषघ्नत्वम् । वृष्यत्वम् । मधु-
रत्वम् । सरत्वम् । श्वासरक्तातीसारतृड्वमि-
नाशित्वञ्च । इति भावप्रकाशः ॥ ग्राहित्वम् ।
इति राजवल्लभः ॥

पृश्निभद्रः, पुं, (पृश्नौ भद्रं यस्य ।) श्रीकृष्णः ।

इति शब्दमाला ॥

पृश्निशृङ्गः, पुं, (पृश्निर्वेदादयः शृङ्गमिवास्य ।)

विष्णुः । इति शब्दमाला ॥ (पृश्नि स्वल्पं शृङ्ग-
मिव शुण्डाग्रं यस्य ।) गणेशः । इति त्रिकाण्ड-
शेषः ॥
पृष्ठ ३/२३१

पृश्नी, स्त्री, (स्पृशति जलमिति । स्पृश + निः ।

ततो वा ङीष् ।) वारिपर्णी । इति शब्दरत्ना-
वली ॥ (विवरणमस्या वारिपर्णीशब्दे ज्ञात-
व्यम् ॥) कुम्भिका । इति भूरिप्रयोगः ॥

पृष, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् । क्त्वावेट् ।) उ, पर्षित्वा पृष्ट्वा ।
इति दुर्गादासः ॥

पृषत्, क्ली, (पर्षति सिञ्चतीति । पृष सेचने

+ “वर्त्तमाने पृषद्बृहन्महदिति ।” उणा० २ ।
८४ । इति । अतिप्रत्ययो गुणाभावश्च निपात्यते ।
शतृवदस्य कार्य्यं विज्ञेयम् ।) जलविन्दुः । इत्य-
मरः । १ । १० । ६ ॥ यथा, “पृषदपरुषविषाणाग्रेण
लुठति ।” इति श्रीभागवते ५ स्कन्धे ८ अध्यायः ॥
“पृषत् जलविन्दुस्तद्वत् अपरुषेण मृदुना विषाणा-
ग्रेण लुठति सङ्घट्टयति ।” इति तट्टीकायां श्रीधर-
स्वामी । इदं द्विवचनबहुवचनान्तमपि भवति ॥

पृषतः, पुं, (पर्षतीति । पृषि सेके + “पृषिरञ्जिभ्यां

कित् ।” उणा० ३ । १११ । इति अतच् । स च
कित् ।) विन्दुः । इत्यमरः । १ । १० । ६ ॥ (यथा,
रघौ । ३ । ३ ।
“करीव सिक्तं पृषतैः पयोमुचां
शुचिव्यपाये वनराजिपल्वलम् ॥”)
श्वेतविन्दुयुक्तमृगः । इति मेदिनी । ते, १३५ ॥
तत्पर्य्यायः । रङ्कुः २ शवलपृष्ठकः ३ । इति
राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने
४६ अध्याये । “हरिणर्ष्यकुरङ्गकरालकृतमाल-
शरभश्वदंष्ट्रा पृषतचारुस्करमृगमातृकाप्रभृतयो
जङ्घाला मृगाः । कषाया मधुरा लघवो वात-
पित्तहरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च ॥” * ॥
द्रुपदराजस्य पिता । यथा, महाभारते । १ ।
१३१ । १७ ।
“भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः ।
तस्यापि द्रुपदो नाम तदा समभवत् सुतः ॥”
मण्डलिसर्पान्तर्गतसर्पविशेषः । यथा, --
“आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलश्चित्र-
मण्डलः पृषतो रोध्रपुष्प इत्यादिषु ॥” इति
सुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥)

पृषताम्पतिः, पुं, (पृषतां विन्दूनां पतिर्नेता इत्यलुक्

समासः ।) वायुः । इति जटाधरः ॥ (यथा,
माघे । ६ । ५५ ।
“गजपतिद्वयसीरपि हैमन-
स्तुहिनयन् सरितः पृषताम्पतिः ।
सलिलसन्ततिमध्वगयोषिता-
मतनुतातनुतापकृतं दृशाम् ॥”)

पृषताश्वः, पुं, (पृषतो मृगविशेषोऽश्व इव गति-

साधनं वाहनो वा यस्य ।) वायुः । इत्यमर-
टीकायां भरतः ॥

पृषती, स्त्री, (पृषत + स्त्रियां ङीप् ।) श्वेतविन्दु-

युक्ता मृगी । इति मेदिनी । ते, १३५ ॥ (यथा,
रघुः । ८ । ५९ ।
“पृषतीषु विलोलमीक्षितं
पवनाधूतलतासु विभ्रमाः ॥”)

पृषत्कः, पुं, (पृष्यते सिच्यते क्षिप्यते इति । पृष +

अतिः । ततः संज्ञायां कन् ।) बाणः । इत्य-
मरः । २ । ८ । ८६ ॥ (यथा, रघौ । ७ । ४५ ।
“अप्यर्द्धभागे परबाणलूना
धनुर्भृतां हस्तवतां पृषत्काः ॥”)

पृषदश्वः, पुं, (पृषन् मृगविशेषोऽश्व इव वाहको

यस्य ।) वायुः । इत्यमरः । १ । १ । ६५ ॥
(यथा, ऋग्वेदे । १ । ८७ । ४ ।
“स हि स्वसृत् पृषदश्वो युवा गणोऽया ईशान-
स्तवीषिभिरावृतः ॥”
राजर्षिभेदः । यथा, महाभारते । २ । ८ । १२ ।
“व्यश्वः सदश्वो वध्र्यश्वः पृथुवेगः पृथुश्रवाः ।
पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः ॥”
विरूपस्य पुत्त्रः । यथा, भागवते । ९ । ६ । १ ।
“विरूपः केतुमान् शम्भुरम्बरीषसुतास्त्रयः ।
विरूपात् पृषदश्वोऽभूत् तत्पुत्त्रस्तु रथीतरः ॥”)

पृषदाज्यं, क्ली, (पृषद्भिः दधिविन्दुभिः सहित-

माज्यम् ।) सदध्याज्यम् । दधिमिश्रितघृतम् ।
इत्यमरः । २ । ७ । २४ ॥ (यथा, ऋग्वेदे ।
१० । ९० । ८ ।
“तस्माद्यज्ञात् सर्व्वहुतः सम्भृतं पृषदाज्यम् ।
पशून्तांश्चक्रे वायव्यानारण्यान् ग्र्याम्याश्च ये ॥”
“पृषदाज्यं दधिमिश्रमाज्यम् ।” इति तद्भाष्ये
सायनः ॥)

पृषद्वलः, पुं, (पृषदेव बलमस्य ।) वाय्वश्वः ।

यथा, --
“धुवित्रमरुदान्दोलः कुचैवश्चामरानिलः ।
पृषद्बलस्तु वाय्वश्वः कुवेरे तु प्रमोदितः ॥”
इति शब्दमाला ॥

पृषन्तिः, पुं, (पर्षति सिञ्चतीति । पृष सेचने +

अतिप्रत्ययः । निपातनात् साधुः ।) विन्दुः ।
यथा, --
“पयःपृवन्तिभिः स्पृष्टा वान्ति वाताः शनैः
शनैः ॥”
इति भरतधृतजाम्बवतीविजयकाव्यम् ॥

पृषभाषा, स्त्री, (पर्षतीति । पृष सेके + कः । पृषा-

मृतवर्षिणी भाषा यत्र ।) अमरावती । इति
शब्दरत्नावली ॥

पृषाकरा, स्त्री, (पृष + भावे क्विप् । पृषे सेचनाय

आकीर्य्यते इति । आ + क + अप् + टाप् ।
प्रातः सन्ध्यायाञ्चास्या उपरि जलसेचनादेव
तथात्वम् ।) क्षुद्रशिला । इति शब्दचन्द्रिका ॥
वाट्खारा इति भाषा ॥

पृषातकं, क्ली, (पृषन्तं पृषदाज्यम् आतकते हस-

तीति । तक + अच् । पृषोदरादित्वात् साधुः ।)
दधियुक्तघृतम् । इति हेमचन्द्रः ॥

पृषोदरः, त्रि, पृषदुदरं यस्य । (“पृषोदरादीनि

यथोपदिष्टम् ।” ६ । ३ । १०९ । इति तलोपः ।)
मनीषादित्वात् तलोपः । इति दुर्गादासः ॥
“भवेद्वर्णागमार्द्धसः सिंहो वर्णविपर्य्ययात् ।
वर्णादेशाच्च गूढात्मा वर्णलोपात् पृषोदरः ॥”
इति गोयीचन्द्रधृतकारिका ॥

पृषोद्यानं, क्ली, क्षुद्रोपवनम् । मनीषादित्वात् पृषत-

स्तकारलोपः । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥

पृष्ठं, क्ली, (पृष्यते सिच्यते इति । पृष “तिथपृष्ठ-

गूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक्-
प्रत्ययेन निपातनात् सिद्धम् ।) शरीरपश्चा-
द्भागः । इत्यमरः । २ । ६ । ७८ ॥ पीठ इति
भाषा ॥ (यथा, मनौ । ४ । ७२ ।
“न विगर्ह्य कथां कुर्य्याद्बहिर्माल्यं न धारयेत् ।
गवाञ्च यानं पृष्ठेन सर्व्वथैव विगर्हितम् ॥”)
चरममात्रम् । इति मेदिनी । ठे, ७ ॥
(स्तोत्रविशेषः । यथा, शतपथब्राह्मणे । ८ ।
१ । १ । ५ ।
“त्रिवृतस्तोमाद्रथन्तरं पृष्ठं निरमिमीत ॥”)

पृष्ठग्रन्थिः, पुं, (पृष्ठस्य ग्रन्थिः ।) गडुः । इति

हेमचन्द्रः । ३ । ४४६ ॥ कुँज इति भाषा ॥

पृष्ठतः, [स्] व्य, (पृष्ठ + “प्रतियोगे पञ्चम्या-

स्तसिः ।” ५ । ४ । ४४ । इत्यस्य “आद्यादिभ्य
उपासंख्यानम् ।” इति वार्त्तिकोक्त्या तसिः ।)
पश्चात् । यथा, भट्टिः । १ । २४ ।
“तं पृष्ठतः प्रष्ठमियाय नम्रो
हिंस्रेषु दीप्रास्त्रधरः कुमारः ॥”
पृष्ठदेशे । (यथा, मनौ । ८ । ३०० ।
“पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।
अतोऽन्यथा तु प्रहरन् प्राप्तः स्यात् चौर-
किल्विषम् ॥”)

पृष्ठदृष्टिः, पुं, (पृष्ठे दृष्टिर्दर्शनं यस्य ।) भल्लूकः ।

इति राजनिर्घण्टः ॥

पृष्ठमांसादः, त्रि, (पृष्ठे परोक्षे मांसाद इव ।

असमक्षमनिष्टजनकवाक्यकथनादस्य तथात्वम् ।)
वाक्याभिधायी । इति त्रिकाण्डशेषः ॥ चोगोल-
खोर इति पारस्यभाषा । (पृष्ठमांसमत्तीति ।
अण् । पृष्ठमांसभक्षके, त्रि ॥)

पृष्ठमांसादनं, क्ली, (पृष्ठे परोक्षे मांसादनं

मांसभक्षणमिव कीर्त्तनस्यास्यानिष्टजनकत्वात् ।)
परोक्षे दोषकीर्त्तनम् । इति हेमचन्द्रः । ३ ।
२६५ ॥ तद्वति, त्रि ॥ (पृष्ठमांस + अद् +
कर्त्तरि ल्युः । पृष्ठमांसभक्षके, त्रि ।)

पृष्ठवंशः, पुं, (पृष्ठस्य वंशः वश इव दण्ड इत्यर्थः ।)

पृष्ठास्थि । पिठेर दाँडा इति शाषा ॥ तत्-
पर्य्यायः । रीढकः २ । इति हेमचन्द्रः ॥ (यथा,
सुश्रुते शारीरस्थाने ६ अध्याये ।
“तत्र पृष्ठवंशमुभयतः प्रतिश्रोणी काण्डमस्थिनी
कटीतरुणे नाम मर्म्मणी ।”) स तु मासमा-
त्रेण भवति । इति सुखबोधः ॥

पृष्ठवाट्, [ह्] पुं, (पृष्ठं युगपार्श्वं वह-

तीति । वह + ण्वि ।) युगपार्श्वग-
वृषः । पाँटे वाँधा गरु इति भाषा । इत्यमरः ॥
(पृष्ठं पृष्ठभागं वहतीति । वह + ण्वि । पश्चा-
द्भागवाहकः । यथा, हरिवंशे भविष्यपर्व्वणि ।
५५ । ३१ ।

पृष्ठवाड्, [ह्] पुं, (पृष्ठं युगपार्श्वं वह-

तीति । वह + ण्वि ।) युगपार्श्वग-
वृषः । पाँटे वाँधा गरु इति भाषा । इत्यमरः ॥
(पृष्ठं पृष्ठभागं वहतीति । वह + ण्वि । पश्चा-
द्भागवाहकः । यथा, हरिवंशे भविष्यपर्व्वणि ।
५५ । ३१ ।
“दारुकं पृष्ठवाहन्तु कृत्वा केशव शश्वरः ।
पृष्ठ ३/२३२
आग्नेयमस्त्रं संयोज्य शरे कस्मिंश्चिदीश्वरः ।
अनेन त्वां दहाम्यद्य यदि शक्तोऽसि वारय ॥”)

पृष्ठवाह्यः, पुं, (पृष्ठे वाह्यं वहनीयद्रव्यमस्य ।)

भारवाहकवृषः । तत्पर्य्यायः । स्थौरी २ पृष्ठ्यः
३ । इति हेमचन्द्रः । ४ । ३२९ ॥

पृष्ठशृङ्गः, पुं, (पृष्ठे शृङ्गमस्य । शृङ्गस्य वक्रभावेन

पृष्ठगमनात् तथात्वम् ।) वनच्छागः । इति
हेमचन्द्रः । ४ । ३४४ ॥

पृष्ठशृङ्गी, [न्] पुं, (पृष्ठे शृङ्गमिव अस्यास्तीति ।

शृङ्ग + इनिः ।) भीमसेनः । नपुंसकम् ।
महिषः । इति मेदिनीशब्दरत्नावल्यौ ॥

पृष्ठोदयः, पुं, (पृष्ठेनोदयोऽस्य ।) मेषवृषकर्कट-

धनुर्म्मकरमीनलग्नाः । यथा, ज्योतिस्तत्त्वे ।
“अजो गोपतियुग्मञ्च कर्क्किधन्विमृगास्तथा ।
निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥
निशासं ज्ञा विमिथुनाः स्मृताः पृष्ठेदयास्तथा ।
शेषाः शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः ॥”

पृष्ठ्यं, क्ली, (पृष्ठानां स्तोत्रविशेषाणां समूह

इति । पृष्ठ + “ब्राह्मणमाणववाडवाद् यत् ।”
४ । २ । ४२ । इत्यस्य “पृष्ठादुपसंख्यानम् ।”
इति वार्त्तिकोक्त्या यत् ।) पृष्ठानां समूहः ।
इत्यमरः । ३ । २ । ४२ ॥

पृष्ठ्यः, पुं, (पृष्ठेन वहतीति । पृष्ठ + यत् ।)

पृष्ठेन भारवाहकाश्वः । तत्पर्य्यायः । स्थौरी
२ । इत्यमरः । २ । ८ । ४६ ॥ (यथा, महा-
भारते । १ । २२२ । ४९ ।
“पृष्ठ्यानामपि चाश्वानां वाह्लिकानां जनार्द्दनः ।
ददौ शतसहस्राणि कन्याधनमनुत्तमम् ॥”
धारके, त्रि । यथा, ऋग्वेदे । ४ । ३ । १० ।
“ऋतेन हि ष्मा वृषभश्चिदक्तः
पुमाँ अग्निः पयसा पृष्ठ्येन ॥”
“पृष्ठ्येन धारकेण पयसाक्तः ।” इति तद्भाष्ये
सायनः ॥)

पृष्णिः, त्रि, (पृश्निः । पृषोदरादित्वात् साधुः ।)

प्रश्निः । इत्यमरटीकायां भरतः ॥ पार्ष्णिः ।
तत्र स्त्रीलिङ्गः । इत्युणादिकोषः ॥

पॄ, क पूर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, पारयति । इति दुर्गा-
दासः ॥

पॄ, ञि गि लि पालने । पूर्त्तौ । इति कविकल्प-

द्रुमः ॥ (क्र्या०-ह्वा० च-पर०-सक०-सेट् ।) ञि,
पूर्त्तोऽस्ति । सूल्वाद्योदिदित्यत्र पॄवर्ज्जनान्न
निष्ठातस्य नः । गि, पॄणाति । क्तौ तु पूर्त्ति-
रित्येव मनीषादित्वान्न निः । लि, पिपर्त्ति ।
इति दुर्गादासः ॥

पेचकः, पुं, (पचति पच्यते वा । पच +

“पचिमच्योरिच्च ।” उणा० ५ । ३७ । इति
वुन् । उपधाया अत इच्च ।) पक्षिविशेषः ।
पेँचा इति भाषा । तत्पर्य्यायः । उलूकः २
वायसारातिः ३ । इत्यमरः । २ । ५ । १५ ॥
शक्राख्यः ४ दिवान्धः ५ वक्रनासिकः ६ हरि-
नेत्रः ७ दिवाभीतः ८ नखाशी ९ पीयुः १०
घर्घरः ११ काकभीरुः १२ नक्तचारी १३ ।
इति त्रिकाण्डशेषः ॥ निशाचरः १४ कौशिकः
१५ रूपनाशनः १६ पेचः १७ रक्तनासिकः १८
भीरुकः १९ । इति शब्दरत्नावली ॥ करिपुच्छ-
मूलोपान्तः । गुदाच्छादकमांसपिण्डविशेषः ।
इत्यमरः । ३ । ३ । ६ ॥ पर्य्यङ्कः । यूकः । इति
विश्वः ॥ मेघः । इति शब्दरत्नावली ॥

पेचकी, [न्] पुं, (पेचकोऽस्यास्तीति । पेचक +

इनिः ।) हस्ती । इति शब्दरत्नावली ॥

पेचिलः, पुं, (पच + बाहुलकात् इलच् अत

इच्च ।) हस्ती । इति त्रिकाण्डशेषः ॥

पेचु, क्ली, (पच्यते इति । पच + उन् । अत

इत्वञ्च ।) पेचुली । इति त्रिकाण्डशेषः ॥

पेचुली, स्त्री, (पच्यते इति । पच + उलच् । अत-

इत्वं गौरादित्वात् ङीष् ।) शाकभेदः । कचु
इति ख्यातः । यथा, --
“केचुकं पेचुली पेचु नाडीचो विश्वरोचनः ॥”
इति त्रिकाण्डशेषः ॥

पेटः, पुं, (पेटतीति । पिट् + अच् ।) प्रहस्तः ।

इति राजनिर्घण्टः ॥ पेटके, स्त्री । इत्यमरः ।
२ । १० । ३० ॥

पेटकः, पुं, (पेटतीति । पिट + ण्वुल् ।) वंश-

वेत्रादिमयसमुद्गकप्रायः । पेटारी इति पेटी
इति पेडा इति च ख्यातः । तत्पर्य्यायः ।
पिटकः २ पेडा ३ मञ्जूषा ४ । इत्यमरः । २ ।
१० । ३० ॥ आद्यौ स्वल्पपेटिकायाम् । परौ
महापेठिकायामिति स्वामी ॥ समूहः । इति
मेदिनी । के, ११७ ॥

पेटाकः, पुं, (पेटक + पृषोदरादित्वात् साधुः ।)

पेटकः । इति भरतद्विरूपकोषः ॥

पेटिका, स्त्री, (पिटतीति । पिट + ण्वुल् । कापि

अत इत्वम् ।) वृक्षविशेषः । पेटारि इति
भाषा । तत्पर्य्यायः । कुवेराक्षी २ कुलिङ्गाक्षी
३ कृष्णवृन्तिका ४ । इति रत्नमाला ॥ (यथा, --
“पेटिकामूललेपाच्च योनिर्भिन्ना प्रशास्यति ॥”
इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधि-
कारे ॥)

पेटी, त्रि, (पेट + गौरादित्वात् ङीष् ।) पेटकः ।

इत्यमरः । २ । १० । ३० ॥

पेडा, स्त्री, (पेटा । पृषोदरादित्वात् साधुः ।)

मञ्जूषा । महापेटिका । इत्यमरभरतौ ॥

पेण, ऋ पेषे । गतौ । श्लेषे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-श्लेषे अक०-सेट् ।) ऋ,
अपिपेणत् । पिपेणतुः । इति दुर्गादासः ॥

पेत्वं, क्ली, (पीयते इति । पा पाने + “अन्येभ्यो

ऽपि दृश्यन्ते ।” उणा० ४ । १०५ । इति
इत्वन् ।) अमृतम् । घृतम् । इत्युणादिकोषः ॥
(पुं, पतनशीलः पशुः । छागः । यथा, वाज-
सनेयसंहितायाम् । २९ । ५८ ।
“सावित्रो वारुणः कृष्ण एकशितिपात् पेत्वः ॥”
“पेत्वः पतनशीलो वेगवान् पशुः ॥” इति
तद्भाष्ये महीधरः ॥ तथाच ऋग्वेदे । ७ । १८ । १७ ।
“सिंह्यं चित् पेत्वेना जघान ॥”
“पेत्वेन छागेन जघान घातयामास ।” इति
तद्भाष्ये सायनः ॥)

पेयं, क्ली, (पीयते यदिति । पा पाने + कर्म्मणि

यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत
ईत् ततो गुणः ।) जलम् । इति मेदिनी । ये,
३९ ॥ दुग्धम् । इति शब्दचन्द्रिका ॥ अष्टविधा-
न्नान्तर्गतान्नविशेषः । यथा, --
“भोज्यं पेयं तथा चूष्यं लेह्यं खाद्यञ्च चर्वणम् ।
निष्पेयञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥”
इति राजनिर्धण्टः ॥
पातव्ये, त्रि । इति मेदिनी । ये, ३९ ॥ (यथा,
महाभारते । १४ । ४४ । १० ।
“सर्व्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते ।
द्रवाणाञ्चैव सर्व्वेषां पेयानामाप उत्तमाः ॥”)

पेया, स्त्री, (पीयते इति । पा + यत् । ततष्टाप् ।)

सिक्थसमन्वितपेयद्रव्यम् । अस्या गुणाः ।
“पेया स्वदाग्निजननी वातवर्चोऽनुलोमनी ।
क्षुत्तृष्णाग्लानिदौर्ब्बल्यकुक्षिरोगविनाशिनी ॥”
इति राजवल्लभः ॥
मिश्रेया । इति शब्दचन्द्रिका ॥ श्राणा । अच्छ-
मण्डम् । इति मेदिनी । ये, ३९ ॥

पेयूषः, पुं, क्ली, (पीय पाने + “पीयेरूषन् ।”

उणा० ४ । ७६ । इति ऊषन् बहुलवचनात्
गुणः ।) अभिनवं पयः । इत्यमरः ॥ नव-
प्रसूताया गोः सप्तदिनाभ्यन्तरीणदुग्धम् । यथा,
“आसप्तरात्रप्रभवं क्षीरं पेयूष उच्यते ॥”
इति हारावली ॥
“पीयते पेयूषः पीङ्घ पाने नाम्नीति यूषः मूर्द्ध-
न्यान्तः क्लीवञ्च । पीयूषञ्च अथ पीयूषपेयूषे नवं
सप्तदीनावधीति शब्दार्णवः ॥” इति तट्टीकायां
भरतः ॥ (यथा, मनुः । ५ । ६ ।
“शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत् ॥”)
अमृतम् । अभिनवसर्पिः । इत्युणादिकोषः ॥

पेरुः, पुं, (पीयते रसानिति । पीङ् पाने + “मि-

पीभ्यां रुः ।” उणा० ४ । १०१ । इति रुः ।)
वह्रिः । सूर्य्यः । इत्युणादिकोषः ॥ समुद्रः । इति
त्रिकाण्डशेषः ॥ (त्रि, रक्षकः । यथा, ऋग्वेदे ।
९ । ७४ । ४ ।
“नरो हितमवमेहन्ति पेरवः ॥”
“नरो नेतारः पेरवः । पा रक्षणे । मापोरित्वे
रुन्निति रुन्प्रत्ययः । सर्व्वस्य रक्षकाः ।” इति
तद्भाष्ये सायनः ॥ पूरकः । यथा, ऋग्वेदे ।
५ । ८४ । २ ।
“प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥”)

पेरोजं, क्ली, उपरत्नविशेषः । पीरोजा इति यवन-

भाषा । तत्पर्य्यायः । हरिताश्मम् २ पेरजम्
३ । तद्द्विविधम् । भस्माङ्गं हरितञ्च । तस्य
गुणाः ।
“पेरजं सुकषायं स्यान्मधुरं दीपनं परम् ।
स्थावरं जङ्गमञ्चैव संयोगाच्च यथा विषम् ॥
तत् सर्व्वं नाशयेत् शीघ्रं शूल भूतादिदोषजम् ॥”
पृष्ठ ३/२३३
पाठान्तरं यथा, --
“पिरजं सुकषायं स्यान्मधुरं दीपनं द्वयोः ।
स्थावरादिविषघ्नं स्याद्धरितञ्चापरं शृणु ॥
शीताङ्गं नाशयेच्छीघ्रं शूलं तिमिरभूतजम् ॥”
इति राजनिर्घण्टः ।

पेल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-चाले अक०-गतौ सक०-सेट् ।) ऋ,
अपिपेलत् पिपेलतुः । चालः कम्पः । इति
दुर्गादासः ॥

पेलं, क्ली, (पेलति सदा चलतीति । पेल + अच् ।)

अण्डकोषः । इति हेमचन्द्रः । ३ । २७५ ॥

पेलवं, त्रि, (पेलं कम्पनं वातीति । वा + कः ।)

विरलम् । अत्र सावकाशत्वं प्रकारः । इत्यमर-
भरतौ ॥ कृशः । इति हेमचन्द्रः । ३ । ११३ ॥
कोमलम् । इति त्रिकाण्डशेषः ॥ (यथा,
कुमारे । ५ । ४ ।
“पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्पं न पुनः पतत्रिणः ॥”)

पेव, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अपिपेवत् । ङ,
पेवते । इति दुर्गादासः ॥

पेशलः, त्रि, (पिश अवयवे + भावे घञ् । पेशं

लातीति । ला + कः । यद्वा, पेशोऽस्यास्तीति ।
सिध्मादित्वात् लच् ।) चारुः । (यथा, देवी-
भागवते । ५ । ९ । ५९ ।
“महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ।
जगाम तरसा कामं गजाश्वरथसंयुतः ॥”)
सुन्दरः । (यथा, रघुः । ९ । ४० ।
“युवतयः कसुमं दधुराहितं
तदलके दलकेसरपेशलम् ॥”)
दक्षः । चतुरः । कोमलः । इत्यमरभरतौ ॥
(यथा, मुकुन्दमालायाम् । २१ ।
“इदं शरीरं परिणामपेशलं
पतत्यवश्यं श्लथसन्धि जर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्म्मते !
निरामयं कृष्णरसायनं पिब ॥”)
घूर्त्तः । इति शब्दरत्नावली ॥

पेशस्कृत्, पुं, (पेशो रूपान्तरं करोतीति ।

पेशस् + कृ + क्विप् । “ह्रस्वस्य पिति कृति तुक् ।”
६ । १ । ७१ । इति तुगागमः । अनेन गृहीतस्य
कीटस्य रूपान्तरं भवति इत्यतोऽस्य तथात्वम् ।)
कीटविशेषः । कुमिरके इति भाषा । यथा, --
“कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत्सात्मतां राजन् ! पूर्ब्बरूपमसंत्यजन् ॥”
इति श्रीभागवते । ११ । ९ । २३ ॥

पेशिः, पुं, (पिश + “हृपिशीति ।” उणा० ४ ।

११८ । इति इन् ।) शतकोटिः । इत्युणादिकोषः ॥
अण्डे माषविदले च स्त्री । इति संक्षिप्तसारे
कृदन्तपादः ॥

पेशी, स्त्री, (पिश + इन् । वा ङीष् ।) अण्डम् ।

इत्यमरः । २ । ५ । ३७ ॥ (गर्भावेष्टनचर्म्ममयकोषः ।
यथा, सुश्रुते । १ । २६ ।
“धमनीस्रोतोऽस्थितद्विवरपेशीप्रभृतिषु वा शरीर-
प्रदेशेषु ॥”) सुपक्वकलिका । (यथा, सुश्रुते
उत्तरतन्त्रे । ४० अध्याये ।
“मधुकं विल्वपेश्यश्च शर्करामधुसंयुताः ।
अतीसारं निहन्युश्च शालीषष्टिकयोः कणाः ॥”)
मांसी । खड्गपिधानकम् । मांसपिण्डी । इति
मेदिनी । शे, १२ ॥ (यथा, महाभारते । १ ।
११५ । १२ ।
“तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥”
(अस्याः संख्यावस्थानादयो यथा, --
“पञ्च पेशीशतानि भवन्ति । तासां चत्वारि-
शतानि शाखासु । कोष्ठे षट्षष्टिः । ग्रीवां
प्रत्यूर्द्धञ्चतुस्त्रिंशत् । एकैकस्यान्तु पादाङ्गुल्यां
तिस्रस्तिस्रस्ताः पञ्चदश । दश प्रपदे । पादोपरि
कूर्च्चसन्निविष्टास्तावत्य एव । दश गुल्फतलयोः ।
गुल्फजान्वन्तरे विंशतिः । पञ्च जानुनि । विंशति-
रूरौ । दश वङ्क्षणे । शतमेवमेकस्मिन् सक्थ्नि
भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ ।
तिस्रः पायौ । एका मेढ्रे । सेवन्याञ्चापरा ।
द्वे वृषणयोः । स्फिचोः पञ्च पञ्च । द्वे वस्ति
शिरसि । पञ्चोदरे । नाभ्यामेका । पृष्ठोर्द्ध-
संनिविष्टाः पञ्च पञ्च दीर्घाः । षट् पार्श्वयोः ।
दश वक्षसि । अक्षकांसौ प्रति समन्तात् सप्त ।
द्वे हृदयामाशययोः । षट् यकृत्प्लीहोण्डकेषु ॥
ग्रीवायाञ्चतस्रः । अष्टौ हन्वोः । एकैका काक-
लकगलयोः । द्वे तालुनि । एका जिह्वायाम् ।
ओष्ठयोर्द्वे । घोणायां द्वे । द्वे नेत्रयोः । गण्डयो-
श्चतस्रः । कर्णयोर्द्वे । चतस्रो ललाटे । एका
शिरसीत्येवमेतानि पञ्च पेशीशतानि ।
सिरास्नाय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम् ।
पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ॥
स्त्रीणान्तु विंशतिरधिकाः । दश तासां स्तनयो-
रेकैकस्मिन् पञ्च पञ्च यौवने तासां परिवृद्धिः ।
अपत्यपथे चतस्रस्तासां प्रसृतेऽभ्यन्तरतो द्वे
मुखाश्रिते वाह्ये च प्रवृत्ते द्वे । गर्भच्छिद्र-
संश्रितास्तिस्रः । शुक्रार्त्तव प्रवेशिन्यस्तिस्र एव ।
पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति ।
तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिर-
मृदुश्लक्षणकर्कशभावाः सन्ध्यस्थिशिरास्नायु-
प्रच्छादका यथादेशं स्वभावत एव भवन्ति ॥
भवति चात्र ।
पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः ।
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥”
इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)
नदीभेदः । पिशाचीविशेषः । राक्षसीविशेषः ।
इति शब्दरत्नावली ॥ (वाद्यविशेषः । यथा,
महाभारते । ६ । ४२ । ३ ।
“तथा भेर्य्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥”)

पेषणं, क्ली, पिषधातोर्भावे ल्युट्प्रत्ययनिष्पन्नम् ।

चूर्णनम् । (यथा, मार्कण्डेये । १४ । ८७ ।
“अयं कृतघ्नो मित्राणामपकारी सुदुर्म्मतिः ।
तप्तकुम्भे निपतति ततो यास्यति पेषणम् ॥”)
खलम् । शतगुप्ता । इति शब्दचन्द्रिका ॥
तेकांटासिज इति भाषा ॥

पेषणिः स्त्री, (पिष्यतेऽनयेति । पिष + करणे

अणिः । वा ङीष् ।) पेषणशिला ।
शिल इति भाषा । तत्पर्य्यायः । पेषणी २ पट्टः
३ गृहाश्मा ४ गृहकच्छपः ५ । इति शब्दरत्ना-
वली ॥ (यथा, मनुः । ३ । ६८ ।

पेषणी स्त्री, (पिष्यतेऽनयेति । पिष + करणे

अणिः । वा ङीष् ।) पेषणशिला ।
शिल इति भाषा । तत्पर्य्यायः । पेषणी २ पट्टः
३ गृहाश्मा ४ गृहकच्छपः ५ । इति शब्दरत्ना-
वली ॥ (यथा, मनुः । ३ । ६८ ।
“पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
फल्गुणी चोदकुम्भश्च वध्यते यास्तु वाहयन् ॥”)

पेषलः, त्रि, (पेषोऽस्यास्तीति । पेष + सिध्मादि-

त्वात् लच् ।) पेशलः । इत्यमरटीकायां भरत-
रमानाथौ ॥

पेषाकः, पुं, (पिष + आकन् ।) पेषणिः । इत्यु-

णादिकोषः ॥

पेस, ऋ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अपिपेसत् पिपेसतुः ।
इति दुर्गादासः ॥

पेसलः, त्रि, (पेशलः । पृषोदरादित्वात् शस्य

सत्वम् ।) पेशलः । इत्यमरटीकायां भरतः ॥

पै, शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-अनिट् ।) पायति धान्यमातपेन । इति
दुर्गादासः ॥

पैञ्जूषः, पुं, (पिञ्जूषे साधुः । अण् ।) कर्णः । इति

हेमचन्द्रः । ३ । २३७ ॥

पैठरं, त्रि, (पिठरे संस्कृतं पक्वम् । पिठर +

अण् ।) स्थालीपक्वमांसादि । इत्यमरः । २ । ९ ।
४५ ॥ (यथा, गो० रामायणे । २ । १०० । ६३ ।
“प्रतप्तैः पैठरैश्चैव मार्गमायूरतैत्तिरैः ॥”)

पैठीनसिः, पुं, मुनिविशेषः । स च स्मृतिगोत्रयोः

कारकः । इति पुराणम् ॥

पैण्डिन्यं, क्ली, (पिण्डं परपिण्डं भक्ष्यतयास्त्य-

स्येति । पिण्ड + इन् । ततः ष्यञ् ।) भैक्ष-
जीविका । इति त्रिकाण्डशेषः ॥

पैतामहं, त्रि, (पितामहस्येदम् । पितामह +

“तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) पितामह-
सम्बन्धिधनादि । यथा, कात्यायनः ।
“पैतामहञ्च पित्र्यञ्च यच्चान्यत् स्वयमर्ज्जितम् ।
दायादानां विभागेषु सर्व्वमेतद्विभज्यते ॥”
बृहस्पतिः ।
“पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्ज्जितम् ।
विद्याशौर्य्यादिना प्राप्तं तत्र स्वाम्यं पितुः
स्मृतम् ॥”
इति दायभागः ॥

पैतृकं, त्रि, (पितुरागतं पितुरिदं वेति । पितृ +

ठञ् ।) पितृसम्बन्धि । इति शब्दमाला ॥
यथा, मनुः ।
“ऊर्द्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिकथमनीशास्ते हि जीवतोः ॥”
मनुविष्णू ।
“पैतृकन्तु यदा द्रव्यमनवाप्तमवाप्नुयात् ।
न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्ज्जितम् ॥”
पृष्ठ ३/२३४
पैठीनसिः ।
“पैतृके विभज्यमाने दायाद्ये समो विभागः ॥”
नारदः ।
“शौर्य्यभार्य्याधने हित्वा यच्च विद्याधनं भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥”
इति दायभागः ॥

पैतृकभूमिः, स्त्री, (पैतृकी पितृसम्बन्धिनी

भूमिः ।) पितृसम्बन्धिस्थानम् । तस्या माहात्म्यं
यथा, --
श्रीभगवानुवाच ।
“भवांश्च यादवैः सार्द्धं प्रविश द्वारकापुरीम् ।
मत्पित्रा मातृभिः सार्द्धं माहेन्द्रे च क्षणे नृप ! ॥
उग्रसेन उवाच ।
वासुदेव न यास्यामि भूमिं तां पैतृकीं पुनः ।
सर्व्वतीर्थपरां शुद्धां दैवे कर्म्मणि पैतृके ॥
पारक्ये भूमिदेशे च पितॄणां निर्व्वपेत्तु यः ।
तद्भूमिस्वामिपितृभिः श्राद्धकर्म्म निहन्यते ॥
पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् ।
किञ्चित्फलप्रदञ्चैव सम्पूर्णं पैतृके स्थले ॥
पुत्त्रपौत्त्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा ।
दुर्ल्लभा पैतृकी भूमिः पितुर्मातुर्गरीयसी ॥
तत् शस्यञ्च पवित्रञ्च दैवे कर्म्मणि पैतृके ।
क्रीतञ्च तदृते दानं परदत्तमशुद्धकम् ॥
म्रियते पैतृकीभूम्यां तीर्थतुल्यफलं लभेत् ।
गङ्गाजलसमं पूतं पितृखातोदकं हरे ॥
तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् ।
पितॄणां तर्पणं तत्र पवित्रं देवपूजनम् ॥
पैतृकी जन्मभूमिश्चेत् फलं तद्द्विगुणं लभेत् ।
पैतृकीभूमितुल्या च दानभूमिः सतामपि ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अध्यायः ॥

पैतृष्वस्रेयः, पुं, स्त्री, (पितृष्वसुरपत्यमिति । पितृ-

ष्वसृ + “ढकि लोपः ।” ४ । १ । १३३ । इति
ज्ञापकत्वात् ढक् अन्तलोपश्च ।) पितृ-
भगिनीपुत्त्रः । इत्यमरः । २ । ६ । २५ ॥ पिस्-
तुतभाइ इति भाषा ॥ (स्त्रियां ङीप् । पितृ-
भगिनीपुत्त्री । यथा, मनुः । ११ । १७२ ।
“पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ।
मातुश्च भातुस्तनयां गत्वा चान्द्रयणञ्चरेत् ॥”)

पैतृष्वस्रीयः, पुं, स्त्री, (पितृष्वसुरपत्यमिति । “पितृ-

ष्वसुश्छण् ।” ४ । १ । १३२ । इति छण् ।)
पितृभगिनीपुत्त्रः । इत्यमरः । २ । ६ । २५ ॥
पिस्तुत भाइ इति भाषा ॥

पैत्तः, त्रि, (पित्तात् आगतं पित्तस्य शमनं

कोपनं वेति । पित्त + अण ।) पित्तजव्याघिः ।
इति राजनिर्घण्टः ॥ (यथा, माधवनिदाने
गुल्माधिकारे ।
“कट्वम्लतीक्ष्णोष्णविदाहिरूक्ष-
क्रीधातिमद्यार्कहुताशसेवा ।
आमाभिघातो रुधिरञ्च दुष्टं
पैत्तस्य गुल्मस्य निमित्तमुक्तम् ॥”)

पैत्तिकः, त्रि, (पित्तेन निर्वृत्त इति । पित्त +

ठञ् ।) पित्तजन्माधिः । इति राजनिर्घण्टः ॥
(यथा, चरके चिकित्सास्थाने २२ अध्याये ।
“प्रततं कासमानश्च ज्योतींषीव च पश्यति ।
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके ॥”)

पैत्रं, क्ली, (पितुरिदमिति । पितृ + अण् )

पितृतीर्थम् । अङ्गुष्ठतर्ज्जन्योर्मध्यम् । इत्यमरः ।
२ । ७ । ५१ ॥ पितृसम्बन्धिनि, त्रि । (यथा,
महाभारते । ७ । १९९ । ७१ ।
“ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं
पैत्रं त्वाष्ट्रं कर्म्म सौम्यञ्च तुभ्यम् ।
रूपं ज्योतिः शब्दमाकाशवायुः
स्पर्शः स्वाद्यं सलिलं गन्ध उर्व्वी ॥”)

पैत्राहोरात्रः, पुं, (पैत्रः अहोरात्रः ।) पितृ-

लोकस्य दिवारात्रिः । स तु मनुष्यमाने मासै-
केन भवति । यथा, --
“मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ॥”
इत्यमरः । १ । ४ । २१ ॥

पैलः, पुं, (पीलाया अपत्यमिति । पीला +

“पीलाया वा ।” ४ । १ । ११८ । इति अण् ।)
मुनिविशेषः । स च ऋग्वे दी यथा, --
“तत्रर्ग् वेदधरः पैलः सामगो जैमिनिः कविः ।
वैशम्पायन एवैको निष्णातो यजुषमुत ॥
अथर्व्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः ।
इतिहासपुराणानां पिता मे रोमहर्षणः ॥”
इति श्रीभागवते १ स्कन्धे ४ अध्यायः ॥

पैशाचः, पुं, (पिशाचस्यायमिति । पिशाच +

अण् ।) अष्टप्रकारविवाहान्तर्गताष्टमविवाहः ।
यथा याज्ञवल्क्यः । “पैशाचः कन्यका छलात् ।”
छलमाह मनुः । ३ । ३४ ।
“सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः ॥”
इत्युद्वाहतत्त्वम् ॥
पिशाचसम्बन्धिनि, त्रि ॥ (राजसकायान्तर्गत-
कायविशेषः । तल्लक्षणं यथा, --
“उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा ।
स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचकायलक्षणम् ॥”
इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

पैशुन्यं, क्ली, (पिशुनस्य भावः । पिशुन + ब्राह्म-

णादित्वात् ष्यञ् ।) पिशुनता । खलता । तच्च
दशविधपापान्तर्गतवाङ्मयपापविशेषः । इति
तिथितत्त्वम् ॥ यथा, --
“पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम् ।
वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥”)
इति मनौ । ६ । ४८ ॥
अस्य विवरणं पातकशब्दे द्रष्टव्यम् ॥

पैष्टः, त्रि, (पिष्टस्येदमिति । पिष्ट + अण् ।)

पिष्ठसम्बन्धी । यथा, --
“यद्यपदन्तकः पूषा पैष्टमत्ति सदा चरुम् ।
अग्नीन्द्रेश्वरसामान्यात्तण्डुलोऽत्र विधीयते ॥”
इति तिथ्यादितत्त्वम् ॥

पैष्टिकं, क्ली, (पिष्ट + ठञ् ।) पिष्टानां समूहः ।

इति आपूपिकशब्दटीकायां भरतः ॥ मद्य-
विशेषः । यथा । रूक्षमाध्वीकादिजनिते मदा-
त्यये स्निग्धपैष्टिकादि मृदु मद्यं हेतुविपरीत-
मेव ॥ इति विजयरक्षितः ॥ (यथा च सुश्रुते
सूत्रस्थाने ४६ अध्याये ।
“पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ।
वीर्य्योष्णाः पैष्टिका भक्ष्याः कफपित्तप्रको-
पणाः ॥”)

पैष्टी, स्त्री, (पिष्टेन निर्वृत्तेति । पिष्ट + अण् +

ङीप् ।) विविधधान्यविकारजा मदिरा । तस्या
गुणाः ।
“पैष्टी कट्वम्लतीक्ष्णा स्यादीषद्गौडीसमापरा ।
वातहृत् कफकृत्त्वीषत्पित्तकृन्मोहनी च सा ॥”
इति राजनिर्घण्टः ॥
(यथा च हारीते प्रथमे स्थाने एकादशेऽध्याये ।
“गौडी माध्वी तथा पैष्टी निर्यासा कथिता-
परा ।
इति चतुर्व्विधा ज्ञेयाः सुरास्तासां प्रभेदकाः ॥”
“पैष्ठी सन्दीपनी रुच्या कफकृद्वातनाशिनी ।
पित्तला पाण्डुरोगाणां कारिणी बहुधा
मता ॥”)

पोगण्डः, पुं, (पुनातीति । पू + विच् । पौः शुद्धो

गण्डो यस्य ।) दशवर्षीयबालकः । यथा, --
“रोगी वृद्धस्तु पोगण्डः कुर्व्वन्त्यन्यैर्व्रतं सदा ॥”
इति प्रायश्चित्ततत्त्वे ब्रह्मपुराणम् ॥

पोगण्डः, त्रि, (पौः गण्ड एकदेशोऽस्य ।) अपो-

गण्डः । स्वभावतो न्यूनाधिकाङ्गः । ऊनविंश-
त्यङ्गुलीकैकविंशत्यङ्गुलीकादिजनः । यथा ।
पोगण्डो विकलाङ्गे स्यादिति हलायुधः ।
पोगण्डो विकलाङ्गकः । इति रत्नकोषः । इत्य-
मरटीकायां भरतः ॥

पोटः, पुं, (पुटत्यत्रेति । पुट संश्लेषे + आधारे

घञ् ।) वेश्मभूमिः । इति जटाधरः ॥ (पुट-
श्लेषे + भावे घञ् ।) संश्लेषः । इति पोटगल-
शब्दटीकायां भरतः ॥

पोटगलः, पुं, (पोटेन संश्लेषेण गलतीति । गल +

अच् ।) नलः । काशः । इत्यमरः । २ । ४ । १६२ ॥
(अस्य पर्य्यायो यथा, --
“पोटगलो बृहत्काशः काकेक्षुः स च खड्-
गकः ॥”
इति वैद्यकरत्नमालायाम् ॥)
मत्स्यः । इति मेदिनी । ले, १५७ ॥ (सर्पजात्यन्त-
र्गतवैकरञ्जसर्पप्रभेदः ॥ “राजिलेन गोनस्यां
वैपरीत्येन वा जातः पोटगलः ।” इति सुश्रुते
कल्पस्थाने चतुर्थेऽध्याये ॥)

पोटलिका, स्त्री, (पोटेन संश्लेषेण लीयते इति ।

ली + डः । ततः स्वार्थे कन् टाप् अत इत्वञ्च ।)
संश्लिष्टवस्त्रादि । इति केचित् ॥ पुँटुलि इति भाषा ॥