सामग्री पर जाएँ

शब्दकल्पद्रुमः/पीतकदली

विकिस्रोतः तः
पृष्ठ ३/१५८

पीतकदली, स्त्री, (पीता कदलीति नित्यकर्म्म-

धारयः ।) स्वर्णकदली । इति राजनिर्घण्टः ॥

पीतकद्रुमः, पुं, (पीतको द्रुम इति नित्यकर्म्म-

धारयः ।) हरिद्रुवृक्षः । इति राजनिर्घण्टः ॥
(हरिद्रुशब्देऽस्य विवरणं विज्ञेयम् ॥)

पीतकन्दं, क्ली, (पीतः कन्दोऽस्य ।) गर्जरम् ।

इति राजनिर्घण्टः ॥

पीतकरवीरकः, पुं, (पीतः करवीर इति नित्य-

कर्म्मधारयः । ततः स्वार्थे कन् ।) पीतवर्ण-
करवीरपुष्पवृक्षः । तत्पर्य्यायः । पीतप्रसवः २
सुगन्धिकुसुमः ३ । अस्य गुणाः । सामान्यकर-
वीरगुणतुल्याः । इति राजनिर्घण्टः ॥

पीतकावेरं, क्ली, (कुत्सितं वेरं शरीरं कावेरम् ।

पीतं कावेरं कुत्सितशरीरमपि यस्मात् ।)
कुङ्कुमम् । पित्तलम् । इति मेदिनी । रे, ३०५ ॥
(विवृतिरस्य कुङ्कुमपित्तलशब्दयोर्ज्ञेया ॥)

पीतकाष्ठं, क्ली, (पीतं काष्ठमिति नित्यकर्म्म-

धारयः ।) पीतचन्दनम् । इति राजनिर्घण्टः ॥

पीतकीला, स्त्री, (पीता कीला कीलतुल्या लतेति

नित्यकर्म्मधारयः ।) आवर्त्तकीलता । इति राज-
निर्घण्टः ॥

पीतघोषा, स्त्री, (पीतानि पुष्पानि सन्त्यस्या इति

पीता पीतपुष्पेत्यर्थः । ततः पीता घोषेति कर्म्म-
धारयः ।) पीतपुष्पघोषालता । इति रत्न-
माला ॥ अस्याः पर्य्यायः घोषकशब्दे द्रष्टव्यः ॥

पीतचन्दनं, क्ली, (पीतं चन्दनमिति नित्यकर्म्म-

धारयः ।) पीतवर्णचन्दनम् । तत्तु द्रविडदेशे
प्रसिद्धम् । कलम्बक इति ख्यातम् । तत्पर्य्यायः ।
पीतगन्धम् २ कालेयम् ३ पीतकम् ४ माधव-
प्रियम् ५ कालेयकम् ६ पीतकाष्ठम् ७ वर्व्वरम्
८ । इति राजनिर्घण्टः ॥ कालीयकम् ९
कालीयम् १० वीताभम् ११ हरिचन्दनम् १२
हरिप्रियम् १३ कालसारम् १४ कालानुसार्य्य-
कम् १५ । अस्य गुणाः । रक्तचन्दनगुणतुल्य-
गुणत्वम् । व्यङ्गनाशित्वञ्च । इति भावप्रकाशः ॥
शीतलत्वम् । तिक्तत्वम् । कुष्ठश्लेष्मकण्डूविच-
र्च्चिकादद्रुक्रिमिनाशित्वम् । कान्तिकरत्वञ्च ।
इति राजनिर्घण्टः ॥

पीतचम्पकः, पुं, (पीतं चम्पकमिव शिखा यस्य ।)

प्रदीपः । इति जटाधरः ॥ (पीतं चम्पकं तत्-
पुष्पमस्य ।) पीतवर्णचम्पकपुष्पवृक्षश्च ॥

पीततण्डुलः, पुं, (पीतस्तण्डुलोऽस्य ।) कङ्कुनी ।

इति राजनिर्घण्टः ॥

पीततण्डुला, स्त्री, (पीतस्तण्डुलोऽस्याः ।) क्षविका-

वृक्षः । इति राजनिर्घण्टः ॥

पीततुण्डः, पुं, (पीतं तुण्डं यस्य ।) कारण्डव-

पक्षी । तत्पर्य्यायः । चञ्चुसूचिः २ सुगृहः ३ ।
इति त्रिकाण्डशेषः ॥

पीतता, स्त्री, (पीत + तल् + टाप् ।) हरिद्रा-

भता । पीतत्वम् । पीतशब्दात् भावार्थे तप्रत्यय-
निष्पन्ना । इति व्याकरणम् ॥ (यथा, महा-
भारते । ३ । १४९ । २६ ।
“द्वापरेऽपि युगे धर्म्मो द्विभागो नः प्रवर्त्तते ।
विष्णु र्वै पीततां याति चतुर्द्धा वेद एव च ॥”

पीततैला, स्त्री, (पीतं तैलमस्याः ।) ज्योतिष्मती

लता । इति जटाधरः ॥ महाज्योतिष्मती ।
इति राजनिर्घण्टः ॥

पीतदारु, क्ली, (पीतञ्च तत् दारु चेति ।)

देवदारु । इत्यमरः । २ । ४ । ५३ ॥ (पर्य्यायोऽस्य-
यथा, --
“सुरदारु द्रुकिलिमं सुराह्वं भद्रदारु च ।
देवकाष्ठम्पीतदारु देवदारु च दारु च ॥”
इति वैद्यकरत्नमालायाम् ॥)
सरलः । इति रत्नमाला ॥ हरिद्रुः । इति राज-
निर्घण्टः ॥ (पर्य्यायोऽस्य यथा, --
“दार्व्वी दारुहरिद्रा च पर्ज्जन्या पर्ज्जनीति च ।
कटङ्कटेरी पीता च भवेत् सैव पचम्पचा ।
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ॥
पीतद्रुश्च हरिद्रुश्च पीतदारुकपीतकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पीतदुग्धा, स्त्री, पीतं दुग्धं यस्या यया वा ।

धेनुष्या । दुग्धबन्धकैः संस्थिता गौः । इति
हेमचन्द्रः ॥ (पीतं पीतवर्णं दुग्धं क्षीरमस्याः ।
कटुपर्णी । चोक इति भाषा ॥ यथास्याः
पर्य्यायः ।
“कटुपर्णी हैमवती हेमक्षीरी हिमावती ।
हेमाह्वा पीतदुग्धा च तन्मूलञ्चोकमुच्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पीतद्रुः, पुं, (पीतो द्रुरिति नित्यकर्म्मधारयः ।)

सरलवृक्षः । दारुहरिद्रा । इत्यमरः । २ । ४ । ६०,
२ । ४ । १०१ ॥ (यथास्य पर्य्यायः ।
“दार्व्वी दारुहरिद्रा च पर्ज्जन्या पर्ज्जनीति च ।
कटङ्कटेरी पीता च भवेत् सैव पचम्पचा ॥
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ।
पीतद्रुश्च हरिद्रुश्च पीतदारुकपीतकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पीतनं, क्ली, (पीतं करोतीति । तत्करोतीति णिच् ।

ततो ल्युः । यद्वा, पीतं पीतवर्णं नयतीति ।
नी + डः ।) कुङ्कुमम् । (यथा, श्रीकण्ठचरिते ।
९ । ३४ ।
“अपहृत्य पीतनमशेष-
ममरसुदृशां शरीरतः ।
भीत इव गहननाभिगुहां
प्रपलाय्य तूर्णमविशत् पयोभरः ॥”)
हरितालम् । पीतदारु । इत्यमरमेदिन्यौ ॥

पीतनः, पुं, (पीतं करोतीति । णिच् । ततो ल्युः ।)

प्लक्षः । इति राजनिर्घण्टः ॥ आम्रातकः । इति
मेदिनी । ने, ९२ ॥ (नन्दीवृक्षः । तत्पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“नन्दीवृक्षस्ताम्रपाकी फलपाकी च पीतनः ।
गन्धभाण्डो गन्धमुण्डो द्वितीयः क्षिप्रपाक्यसौ ॥”)

पीतनकः, पुं, (पीतन एव । पीतन + स्वार्थे कन् ।)

आम्रातकः । इति राजनिर्घण्टः ॥

पीतपर्णी, स्त्री, (पीतानि पीतवर्णानि पर्णानि

यस्याः । ङीष् ।) श्वित्रघ्नी । इति शब्दचन्द्रिका ॥
विछिटि इति भाषा ॥

पीतपादा, स्त्री, (पीतौ पादौ यस्याः ।) शारिका-

पक्षी । इति हेमचन्द्रः ॥ पीतचरणयुक्ते, त्रि ॥

पीतपुष्पं, क्ली, (पीतानि पुष्पानि यस्य ।) आहुल्य-

वृक्षः । इति राजनिर्घण्टः ॥ (कुष्माण्डम् ।
तत्पर्य्यायो यथा भावप्रकाशे ।
“कुष्माण्डं स्यात् पुष्पफलं पीतपुष्पं बृहत्-
फलम् ॥”)
हरिद्राभकुसुमञ्च ॥

पीतपुष्पः, पुं, (पीतानि पीतवर्णानि पुष्पानि यस्य ।)

कर्णिकारवृक्षः । इति शब्दचन्द्रिका ॥ चम्पक-
वृक्षः । इति राजनिर्घण्टः ॥ पीतझिण्टी ।
पिण्डीतकभेदः । इति रत्नमाला ॥ (इङ्गुदी-
वृक्षः । यथा, वैद्यकरत्नमालायाम् ।
“पीतपुष्पोऽङ्गारपुष्प इङ्गुदी तापसप्रियः ॥”
राजकोशातकी । तत्पर्य्यायो यथा, भाव-
प्रकाशे ।
“धामार्गवः पीतपुष्पो जालिनी कृतबोधना ।
राजकोशातकी चेति तथोक्ता राजिमत्फला ॥”)

पीतपुष्पा, स्त्री, (पीतं पुष्पं यस्याः ।) इन्द्र-

वारुणी । झिञ्झरिष्टाक्षुपः । आढकी । इति
राजनिर्घण्टः ॥ (महाबला । तत्पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“ऋष्यप्रोक्ता त्वतिबला पीतपुष्पा महाबला ॥”)

पीतपुष्पी, स्त्री, (पीतं पुष्पं यस्याः । जातित्वात्

ङीष् ।) शङ्खपुष्पी । सहदेवी । महाकोषा-
तकी । त्रपुषी । इति राजनिर्घण्टः ॥

पीतफलः, पुं, (पीतानि फलानि यस्य ।) शाखोट-

वृक्षः । इति त्रिकाण्डशेषः ॥ कर्म्मारवृक्षः ।
इति राजनिर्घण्टः ॥

पीतफलकः, पुं, (पीतफल एव । स्वार्थे कन् ।)

शाखोटवृक्षः । इति भावप्रकाशः ॥

पीतबालुका, स्त्री, (पीता बालुकेव चूर्णनरजो

यस्याः ।) हरिद्रा । इति त्रिकाण्डशेषः ॥
पीतवर्णसिकता च ॥

पीतबीजा, स्त्री, (पीतं बीजं यस्याः ।) मेथिका ।

इति राजनिर्घण्टः ॥ पीतवर्णबीजयुक्ते, त्रि ॥

पीतभृङ्गराजः, पुं, (पीतो भृङ्गराजः ।) पीत-

भृङ्गराजः । पीत केशुरिया इति भाषा । तत्-
पर्य्यायः । स्वर्णभृङ्गारः २ हरिप्रियः ३ देव-
प्रियः ४ वन्दनीयः ५ पावनः ६ । अस्य गुणाः ।
तिक्तत्वम् । उष्णत्वम् । चक्षुष्यत्वम् । केश-
रञ्जनत्वम् । कफामशोफनाशित्वम् । तत्र नीलो
रसायनः । इति राजनिर्घण्टः ॥

पीतमणिः, पुं, (पीतो मणिरिति नित्यकर्म्मधारयः ।)

पुष्परागः । इति राजनिर्घण्टः ॥ (पुष्पराग-
शब्देऽस्य विवरणं ज्ञातव्यम् ॥)

पीतमाक्षिकं, क्ली, (पीतं माक्षिकम् ।) माक्षि-

कम् । इति राजनिर्घण्टः ॥

पीतमुद्गः, पुं, (पीतः पीतवर्णो मुद्गः ।) मुद्ग-

विशेषः । सोणा मुग इति भाषा । तत्पर्य्यायः ।
वसुः २ खण्डीरः ३ प्रवेलः ४ जयः ५ शारदः
६ । इति हेमचन्द्रः । ४ । २३८ ॥
पृष्ठ ३/१५९

पीतमूलकं, क्ली, (पीतं मूलमस्य । कप् ।) गर्ज्ज-

रम् । इति राजनिर्घण्टः ॥

पीतयूथी, स्त्री, (पीता यूथी ।) स्वर्णयूथी । इति

राजनिर्घण्टः ॥ (स्वर्णयूथीशब्देऽस्या विवृति-
र्विज्ञेया ॥)

पीतरक्तं, क्ली, (पीतं रक्तञ्च । वर्णो वर्णेनेति

समासः ।) पुष्परागमणिः । इति राजनिर्घण्टः ॥

पीतरागं, क्ली, (पीतो रागो वर्णो यस्य ।) किञ्ज-

ल्कम् । शिक्थकम् । इति राजनिर्घण्टः ॥ पीत-
वर्णे, पुं । तद्बति, त्रि ॥

पीतरोहिणी, स्त्री, (पीता सती रोहतीति ।

रुह + णिनिः + ङीप् ।) काश्मरी । इति भाव-
प्रकाशः ॥ (यथा, भावप्रकाशे पूर्ब्बखण्डे
प्रथमे भागे ।
“काश्मीरी काश्मरी हीरा काश्मर्य्यः पीत-
रोहिणी ॥”)

पीतलः, पुं, (पीतं लातीति । ला + कः ।) पीत-

वर्णः । इति हेमचन्द्रः । ६ । ३० ॥ तद्युक्ते, त्रि ॥

पीतलकं, क्ली, (पीतलेन पीतेन वर्णेन कायति

प्रकाशते इति । कै + कः ।) पित्तलम् । इति
राजनिर्घण्टः ॥

पीतलोहं, क्ली, (पीतं लोहमिति नित्यकर्म्म-

धारयः ।) पित्तलभेदः । इति हेमचन्द्रः । ४ । ११४ ॥

पीतवासाः, [स्] पुं, (पीतं वासो वस्त्रं यस्य ।)

श्रीकृष्णः । इति हलायुधः ॥ पीतवस्त्रयुक्ते, त्रि ॥
(यथा, महाभारते । १ । ६४ । ५३ ।
“यः सचक्रगदापाणिः पीतवासाः शितिप्रभः ॥”)

पीतवृक्षः, पुं, (पीतो वृक्षः ।) श्योनाकप्रभेदः ।

सरलवृक्षः । इति राजनिर्घण्टः ॥ (यथास्य
पर्य्यायः ।
“सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पीतशा(सा)लः, पुं, (पीतः शालो वृक्षविशेषः ।)

असनवृक्षः । इति शब्दचन्द्रिका ॥ (यथा,
कालिकापुराणे ६८ अध्याये ।
“पीतशालः परिमलो विमर्द्दीकासनस्तथा ॥”)

पीतसारं, क्ली, (पीतः सारो यस्य ।) पीतवर्ण-

चन्दनकाष्ठम् । हरिचन्दनम् । इति शब्दचन्द्रिका ॥
(पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ।
“पीतसारं सुशीतञ्च तत्पीतं हरिचन्दनम् ॥”)

पीतसारः, पुं, (पीतः पीतवर्णः सारो यस्य ।)

मलयजः । मोमेदकमणिः । इति मेदिनी । रे,
२८३ ॥ अङ्कोठवृक्षः । इति जटाधरः ॥ तुरुष्कः ।
बीजकः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“बीजकः पीतसारश्च पीतशालक इत्यपि ।
बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥”)

पीतसारकः, पुं, (पीतः सारो यस्य । कप् ।)

निम्बवृक्षः । अङ्कोठवृक्षः । इति राजनिर्घण्टः ॥

पीतसारि, क्ली, (पीतं पीतवर्णं सरति प्राप्नो-

तीति । सृ + णिनिः ।) स्रोतोऽञ्जनम् । इति
शब्दचन्द्रिका ॥

पीतसालकः, पुं, (पीतः सालकः सालवृक्षः ।)

पीतवर्णसालवृक्षः । पेया साल इति भाषा ।
तत्पर्य्यायः । सर्ज्जकः २ असनः ३ वन्धूकपुष्पः ४
प्रियकः ५ जीवकः ६ । इत्यमरः । २ । ४ ।
४३ ॥ अस्य पर्य्यायान्तरं गुणाश्च असनशब्दे
द्रष्टव्याः ॥

पीतस्फटिकः, पुं, (पीतः स्फटिक इति नित्य-

कर्म्मधारयः ।) पुष्परागमणिः । इति राज-
निर्घण्टः ॥

पीता, स्त्री, (पीतो वर्णोऽस्त्यस्या इति । अच् ।

टाप् ।) हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥
(पर्य्यायोऽस्या यथा, वैद्यकरत्नमालायाम् ।
“हरिद्रा पीतका गौरी काञ्चनी रजनी निशा ।
मेहघ्नी रजनी पीता वर्णिनी रात्रिनामिका ॥”)
दारुहरिद्रा । महाज्योतिष्मती ॥ कपिलशिंशपा ।
प्रियङ्गुः । गोरोचना । इति राजनिर्घण्टः ॥
अतिविषा । इति शब्दचन्द्रिका ॥ (पीतवर्णयुक्ते,
त्रि । यथा, विश्वकर्म्मप्रकाशे । १ । २४ ।
“श्वेता रक्ता तथा पीता कृष्णा वर्णानुपूर्ब्बशः ॥”)

पीताङ्गः, पुं, (पीतं अङ्गं यस्य ।) श्योनाक-

प्रभेदः । इति राजनिर्घण्टः ॥

पीताब्धिः, पुं, (पीतः अब्धिः समुद्रो येन ।)

अगस्त्यमुनिः । इति हेमचन्द्रः । २ । ३६ ॥
(अगस्त्यमुनेः समुद्रपानकथा यथा, भहा-
भारते । ३ । १०५ । १ -- ६ ।
“समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।
उवाच सहितान् देवानृषींश्चैव समागतान् ॥
अहं लोकहितार्थं वै पिबामि वरुणालयम् ।
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥
एतावदुक्त्वा वचनं मैत्रावरणिरच्युतः ।
समुद्रमपिबत् क्रुद्धः सर्व्वलोकस्य पश्यतः ॥
पीयमानं समुद्रस्तु दृष्ट्वा सेन्द्रास्तदामराः ।
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥
त्वं नस्त्राता विधाता च लोकानां लोकभावन ! ।
तत्प्रसादात् समुच्छेदं न गच्छेत् सामरं जगत् ॥
संपूज्यमानस्त्रिदशैर्महात्मा
गन्धर्व्वतूर्य्येषु नदत्सु सर्व्वशः ।
दीव्यैश्च पुष्पैरवकीर्य्यमाणो
महार्णवं निःसलिलं चकार ॥”)

पीताम्बरः, पुं, (पीतं अम्बरं वस्त्रं यस्य ।) विष्णुः ।

इत्यमरः । १ । १ । १९ ॥ (यथा, विष्णुस्तोत्रे । २१ ।
“एतत्पातित्यदाम्नो जघनमतिघनादेनसो मान-
नीयं ।
सातत्येनैव चेतोविषयमवतरत् पातु पीता-
म्बरस्य ॥”)
शैलूषः । इति मेदिनी । रे, २८३ ॥ पीतवस्त्र-
युक्ते, त्रि । हरिद्राभवसने, क्ली ॥ (यथा, --
“पीताम्बरधरः स्रग्वी वनमालाविभूषितः ॥”
इति पुराणम् ॥)

पीताश्मा, [न्] पुं, (पीतः अश्मा ।) पुष्पराग-

मणिः । इति राजनिर्घण्टः ॥ (विवृतिरस्य पुष्प-
रागशब्दे ज्ञातव्या ॥)

पीतिः, पुं, (पिबतीति । पा + क्तिच् । “घुमास्था-

गापेति ।” ६ । ४ । ६६ । इतीत्वम् ।) घोटकः ।
इत्यमरः । २ । ८ । ४३ ॥

पीतिः, स्त्री, (पा + भावे क्तिन् ।) पानम् । इति

मेदिनी । ते, ३३ ॥ (पीयतेऽनयेति । करणे
क्तिन्) शुण्डा । इति शब्दचन्द्रिका ॥

पीतिका, स्त्री, (पीतो वर्णोऽस्त्यस्या इति । ठन् ।)

हरिद्रा । इति रत्नमाला ॥ दारुहरिद्रा । इति
राजनिर्घण्टः ॥ स्वर्णयूथी । इति जटाधरः ॥

पीती, [न्] पुं, (पीतं पानं प्राचुर्य्येनास्त्यस्येति ।

इनिः ।) पीतिः । घोटकः । इत्यमरटीकायां
रायमुकुटः ॥

पीतुः, पुं, (पिबति रसादीनिति । पा + “पः किच्च ।”

उणां १ । ७१ । इति क्तुन् । स च कित् । कित्त्वात्
ईत्वम् ।) सूर्य्यः । अग्निः । इत्युणादिकोषः ।
यूथपतिः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पीथं, क्ली, (पीयते इति । पा + “पातॄतुदीति ।”

उणां २ । ७ । इति थक् ।) जलम् । इति
हेमचन्द्रः ॥ घृतम् । इत्युणादिकोषः ॥ (पिबति
रसादीनिति । पा + कर्त्तरि थक् ।) सूर्य्यः ।
अग्निः । कालः । इति त्रिकाण्डशेषः ॥

पीथिः, पुं, (पीति + पृषोदरादित्वात् तस्य थः ।)

पीतिः । घोटकः । इत्यमरटीकायां स्वामी ॥

पीनः, त्रि, (ओ प्या यी ङ वृद्धौ + क्तः । “ओदि-

तश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) स्थूलः ।
इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्त-
शत्याम् । ५६१ ।
“वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलि-
मालभसे ।
पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥”)

पीनसः, पुं, (पीनं स्थूलमपि जनं स्यति नाशय-

तीति । सो + कः ।) नासिकारोगविशेषः ।
पीनास इति भाषा । तत्पर्य्यायः । प्रतिश्यायः
२ । इत्यमरः । २ । ६ । ५१ ॥ अपीनसः ३
प्रतिश्याः ४ । इति भरतः ॥ नासिकामयः ५ ।
इति शब्दरत्नावली ॥ तस्य निदानं यथा, --
“आनह्यते यस्य विशुष्यते च
प्रक्लिद्यते धूप्यति चैव नासा ।
न वेत्ति यो गन्धरसांश्च जन्तु-
र्जुष्टं व्यवस्येत् खलु पीनसेन ॥
तञ्चानिलश्लेष्मभवं विकारं
ब्रूयात् प्रतिश्यायसमानलिङ्गम् ॥”
इति माधवकरः ॥
आमपीनसलक्षणं यथा, --
“शिरोगुरुत्वमरुचिर्नासास्रावस्तनुस्वरः ।
क्षामः ष्ठीवति चाभीक्ष्णमामपीनसलक्षणम् ॥”
पक्वपीनसलक्षणं यथा, --
“आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जात ।
स्वरवर्णविशुद्धिश्च पक्वपीनसलक्षणम् ॥” * ॥
तस्यौषधानि यथा, --
“सर्व्वेषु सर्व्वकालं पीनसरोगेषु जातमात्रेषु ।
मरिचं गडेन दषा भञ्जीत नरः मुखं लभते ॥ १
पृष्ठ ३/१६०
कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ।
एषां चूर्णं कषायं वा दद्यादार्द्रकजै रसैः ॥
पीनसे स्वरभेदे च नासास्रावे हलीमके ।
सन्निपाते कफे वाते कासे श्वासे च शस्यते ॥ २ ॥
व्योषचित्रकतालीशतिन्तिडीकाम्लवेतसम् ।
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥
व्याषादिकमिदं चूर्णं पुराणगुडमिश्रितम् ।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥” ३ ॥
इति भावप्रकाशः ॥ * ॥
“पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् ।
सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥”
इति गारुडे १८९ अध्यायः ॥
(अस्य चिकित्सान्तरं यथा, --
“वातात् सकासवैस्वर्य्यं सक्षारं पीनसे घृतम् ।
पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा ॥”
“दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत् ।
सिद्धं ससैन्धवं तैलं दशकृत्वो गुणाः स्मृतम् ।
स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे ॥
स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम् ।
उष्णाम्बुना स्नानपाननिवातोष्णप्रतिश्रयः ।
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत् ।
पैत्ते सर्पिः पिबेत् सिद्धं शृङ्गबेरशृतम्पयः ॥
पाचनार्थं पिबेत् पक्वे कार्य्यमूर्द्ध्वविरेचनम् ।
पाठाद्विरजनीमूर्व्वापिप्पलीजातिपल्लवैः ॥
दन्त्या च साधितं तैलं नस्यं सम्पक्वपीनसे ।
पूयास्रे रक्तपित्तघ्नाः कषायो लवणानि च ॥
पाकदाहाद्यरुक्षेषु शीता लेपाः ससेचनाः ।
घ्रेयनस्योपचारश्च कषायस्वादुतिक्तकाः ॥”
“गौरवारोचकेष्वादौ लङ्घनं कफपीनसे ।
स्वेदाः सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा ॥
लशुनं मुद्गचूर्णेन व्याषक्षारसमायुतम् ।
देयं कफघ्नं वमनमुत्क्लिष्टश्लेष्मणे हितम् ॥
अपीनसे पूतिनस्ये घ्राणस्रावसकण्डुके ।
घूमः शस्तोऽवपीडश्च कटुभिः कफपीनसे ॥
मनःशिला वचाव्योषं विडङ्गं हिङ्गु गुग्गुलुः ।
चूर्णो घ्रेयः प्रधमनः कटुभिश्च फलैस्तथा ॥”
“स्निग्धस्य व्याहते वेगे छर्द्दनं कफपीनसे ।
वमनीयशृतक्षीरतिलमाषयवागुभिः ॥”
“सर्व्वजित् पीनसे दुष्टे काय्यं शोफे च शोफजित् ।
क्षारोऽर्व्वुदाधिमांसेषु क्रिया सर्व्वेष्ववेक्ष्य च ॥”
इति चरके चिकित्सास्थाने २६ अध्याये ॥
“सर्व्व एव प्रतिश्याया नरस्याप्रतिकारिणः ।
कालेन रोगजनना जायन्ते दुष्टपीनसाः ॥
वाधिर्य्यमान्ध्यमघ्राणं घोरांश्च नयनामयान् ।
कासाग्निसादशोफांश्च वृद्धाः कुर्व्वन्ति पीनसाः ॥”
इत्युत्तरतन्त्रे चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् ॥)

पीनसा, स्त्री, (पीनं स्यतीति । सो + कः । टाप् ।)

कर्क्कटी । इति राजनिर्घण्टः ॥ (कर्कटीशब्दे-
ऽस्या गुणादयो ज्ञातव्याः ॥)

पीनसी, [न्] त्रि, पीनसरोगी । पीनसशब्दाद-

स्त्यर्थे इन्प्रत्ययनिष्पन्नः ॥ (यथा, सुश्रुते उत्तर-
तन्त्रे २४ अध्याये ।
“विलङ्घनैः पाचनदीपनीयै-
रुपाचरेत् पीनसिनं यथावत् ।
बहुद्रवैर्वातकफोपसृष्टं
प्रच्छर्द्दयेत् पीनसिनं वयःस्थम् ॥”)

पीनोध्नी, स्त्री, (पीनं स्थूलमूधोऽस्याः । “बहु-

व्रीहेरूधसो ङीष् ।” ४ । १ । २५ । इति ङीष् ।
“उधसोऽनङ् ।” ५ । ४ । १३१ । इति उधो-
ऽन्तस्य बहुव्रीहेरनङादेशः ।) पीवरस्तनी
गौः । इत्यमरः । २ । ९ । ७१ ।

पीपरिः, पुं, (अपि पिपर्त्तीति । पॄ + इन् । अपे

रल्लोपः । दीर्घश्च ।) ह्नस्वप्लक्षः । इति राज-
निर्घण्टः ॥

पीय, प्रीणने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पीयूषं सौत्रधातुरयम् । इति
दुर्गादासः ॥

पीयुः, पुं, (पिबतीति । पा + “खरुशङ्कुपीयु-

नीलङ्गुलिगु ।” उणां । १ । ३७ । इति कुः ।
निपातनात् युगागम ईत्वं चान्तादेशः ।)
कालः । रविः । घूकः । इति मेदिनी । ये, ३७ ॥
काकः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (हिंसके
प्रतिकूले च त्रि । यथा, ऋग्वेदे । १ । १७४ । ८ ।
“भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य
पीयोः ॥”
“पीयोः प्रतिकूलस्य वृत्रस्य ।” इति तद्भाष्ये
सायनः ॥)

पीयूषं, क्ली, (पीय्यते इति । पीय सौत्रधातुः +

“पीयेरूषन् ।” उणां । ४ । ७६ । इति ऊषन् ।)
अमृतम् । इत्यमरः । १ । १ । ५१ ॥ (यथा,
काशीखण्डे । २९ । ४९ ।
“खरसन्तापशमनी खनिः पीयूषपाथसाम् ॥”)
दुग्धम् । इति राजनिर्घण्टः ॥ (यथा, --
“पानीयं क्लमनाशनं श्रमहरं मूर्च्छापिपासापहं
तन्द्राच्छर्द्दिविबन्धहृद्बलकरं निद्राहरं तर्पणम् ।
हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणन्तु निगते पीयूषवज्जी-
विनम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

पीयूषः, पुं, क्ली, (पीय + ऊषन् ।) अभिनवं पयः ।

नवप्रसूताया गोः सप्तदिनाभ्यन्तरीणदुग्धम् ।
इत्यमरभरतौ ॥
“अथ पीयूषपेयूषे नवं सप्तदिनावधि ।”
इति शब्दार्णवः ॥
“आसप्तरात्रप्रभवं क्षीरं पेयूष उच्यते ॥”
इति हारावली ॥

पीयूषमहाः, [स्] पुं, (पीयूषममृतमयं महः

किरणं यस्य । यद्वा, पीयूषमिव महो यस्य ।)
चन्द्रः । इति शब्दरत्नावली ॥

पीयूषरुचिः, पुं, (पीयूषं पीयूषमयी रुचिस्तिड्

यस्य ।) चन्द्रः । इति हलायुधः ॥ (पीयूषे
अमृते रुचिर्यस्य ।) अमृतप्रियश्च ॥

पील, रोधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) दीर्घी । रोधः क्रियानिरोधः
जडीभावः इत्यर्थः । पीलति पशुः । इति दुर्गा-
दासः ॥

पीलकः, पुं, (पीलति स्तभ्नातीति । पील + ण्वुल् ।)

पिपीलिका । इति हेमचन्द्रः ॥ (कायस्थानां
पद्धतिकरविशेषः । यथा, वङ्गजकुलाचार्य्य-
कारिकायाम् ।
“आदित्या विष्णुगुप्ताश्च खिलश्च पीलकस्तथा ॥”)

पीलुः, पुं, (पीलति प्रतिष्टम्नातीति । पील +

“मृगय्वादयश्च ।” उणां । १ । ३७ । इति कुः ।)
प्रसूनम् । परमाणुः । मतङ्गजः । अस्थि-
खण्डम् । तालकाण्डः । इति मेदिनी । ले, ३२ ॥
बाणः । कृमिः । इति धरणिः ॥ कोङ्कणादि-
देशे प्रसिद्धः फलवृक्षविशेषः । पील इति
भाषा । तत्पर्य्यायः । गुडफलः २ श्रंसी ३ ।
इत्यमरः । २ । ४ । २८ ॥ शीतसहः ४ धानी ५
विरेचनः ६ फलशाखी ७ श्यामः ८ करभ-
वल्लभः ९ ॥ (यथा, महाभारते । २ । ५० । ४ ।
“उष्ट्रवामीस्त्रिशतञ्च पुष्टाः पीलुशमीङ्गुदैः ॥”)
अस्य फलगुणाः । श्लेष्मवायुगुल्मनाशित्वम् ।
पित्तदत्त्वम् । भेदकत्वम् । यत् स्वादु तिक्तं
तत् नात्युष्णं त्रिदोषहरत्वञ्च । इति राज-
निर्घण्टः ॥

पीलुनी, स्त्री, (पील + बाहुलकात् उन । गौरा-

दित्वात् ङीष् ।) मूर्व्वा । इति रत्नमाला ॥

पीलुपत्रः, पुं, (पीलुयुक्तं पत्रमस्य ।) मोरटा-

लता । इति राजनिघण्टः ॥

पीलुपर्णी, स्त्री, (पीलोरिव पर्णान्यस्याः । यद्वा,

पीलुयुक्तानि पर्णान्यस्याः । “पाककर्णपर्णपुष्प-
फलमूलबालोत्तरपदाच्च ।” ४ । १ । ६४ । इति
ङीष् ।) मूर्व्वा । विम्बिका । ओषधिभेदः । इति
मेदिनी । णे, १०३ ॥

पीव, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) पीवति लोकः स्थूलः स्यादि-
त्यर्थः । इति दुर्गादासः ॥

पीव, [न्] त्रि, (प्यायते इति । प्यैङ् वृद्धौ +

“ध्याप्योः सम्प्रसारणञ्च ।” उणां । ४ । ११४ ।
इति क्वनिप् सम्प्रसारणञ्च । “हलः ।” ६ । ४ । २ ।
इति दीर्घः ।) स्थूलम् । इत्यमरः । ३ । १ । ६१ ॥
(यथा, भागवते । ९ । १९ । ६ ।
“पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् ।
स एकोऽजवृषस्तासां बह्वीनां रतिवर्द्वनः ॥”)

पीवरः, त्रि, (प्यायते वर्द्धते इति । प्यैङ् +

“छित्वरच्छत्वरधीवरपीवरमीवरचीवरतीवर-
नीवरगह्वरकट्ठरसंयद्वराः ।” उणां । ३ । १ ।
ष्वरच् । सम्प्रसारणं दीर्घश्च ।) उपचिता-
वयवः । मोटा इति भाषा । तत्पर्य्यायः ।
पीनः २ पीवा ३ स्थूलः ४ । इत्यमरः । ३ । १ । ६१ ॥
(यथा, आर्य्यासप्तशत्याम् । ४२० ।
“भयपिहितं बालायां पीवरमूरुद्वयं स्मरोन्निद्रः ।
निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥”
पुं, तामसमन्वन्तरीयसप्तर्षिभेदः । यथा, मार्क-
ण्डेये । ७४ । ५९ ।
पृष्ठ ३/१६१
“ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥”)

पीवरस्तनी, स्त्री, (पीवरौ स्थूलौ स्तनौ यस्याः ।

“स्वाङ्गोपसर्ज्जनादिति ।” ४ । १ । ५४ । इति
ङीष् ।) पीनोध्नी । इत्यमरः । २ । ९ । ७१ ॥ स्थूल-
स्तनयुक्ता नारी ॥ (यथा, भारवौ । ८ । १९ ।
“व्यपोहितुं लोचनतो मुखानिलै-
रपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः
प्रियञ्जघानोन्नतपीवरस्तनी ॥”)

पीवा, [न्] पुं, (प्यायते इति । प्यै ङ वृद्धौ +

“ध्याप्योः सम्प्रसारणम् ।” उणा० ४ । १४ ।
इति क्वनिप् सम्प्रसारणञ्च । “हलः ।” ६ । ४ ।
२ । इति दीर्घः ।) बलवान् । वायुः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

पीवा, स्त्री, (पीयते इति । पी ङ् य पाने + बाहु-

लकात् वः । ततष्टाप् ।) उदकम् । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

पीवरा, स्त्री, (पीवर + टाप् ।) अश्वगन्धा ।

शतावरी । इति राजनिर्घण्टः ॥ स्थूला च ॥

पीवरी, स्त्री, (प्यायते इति । प्यै + ष्वरच् । सम्प्र-

सारणं दीर्घः ङीप् च ।) शतमूली । इति रत्न-
माला ॥ शालपर्णी । इति भावप्रकाशे । १ । १ ॥
तरुणी । गौः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(बर्हिषद्नामकपितॄणां मानसीकन्यानामन्य-
तमा । सा तु शुकदेवस्य पत्नी । यथा, हरि-
वंशे । १८ । ४९ -- ५२ ।
“एतेषां मानसी कन्या पिवरी नाम विश्रुता ।
योगा च योगिपत्नी च योगिमाता तथैव च ॥
भवित्री द्बापरं प्राप्य युगं धर्म्मभृतां वरा ।
पराशरकुलोद्भूतं शुको नाम महातपाः ॥
भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः ।
व्यासादरण्यां सम्भूतो विधूमाग्निरिवोज्ज्वलन् ॥
स तस्यां पितृकन्यायां पीवर्य्यां जनयिष्यति ।
कृष्णं गौरं प्रभुं शम्भुं कृत्वीं कन्यां तथैव च ॥”)

पुंलिङ्गं, क्ली, (पुंसो लिङ्गं चिह्नम् ।) पुंचिह्नम् ।

शिश्नः । (यथा, महाभारते । ५ । १९४ । ३ ।
“किञ्चित् कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव ।
आगन्तव्यं त्वया काले सत्यञ्चैव वदस्व मे ॥”)
शब्दवाचकतायाम्, पुं । इति जुमरः ॥ (पुंसो
लिङ्गमस्येति । पुंलिङ्गविशिष्टे, त्रि । यथा, महा-
भारते । ९ । ५८ । ५७ ।
“पुंलिङ्गा इव नार्य्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् ।
दुर्य्योधने तदा राजन् ! पतिते तनये तव ॥”)

पुंवृषः, पुं, (पुमानिव वर्षतीति । वृष + कः ।) गन्ध-

मूषिकः । इति शब्दमाला ॥ छुँचा इति भाषा ॥
(पुमान् गौः ।) पुंगवश्च ॥

पुंश्चलः, पुं, (पुंश्चलीव । उपचारात् पुंस्त्वम् ।)

व्यभिचारी । यथा, गारुडे ६६ अध्याये ।
“ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ।
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥
अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः ॥”

पुंश्चली, स्त्री, (पुंसो भर्त्तुः सकाशात् चलति पुरुषा-

न्तरं गच्छतीति । चल + अच् । गौरादित्वात्
ङीष् ।) असती । इत्यमरः । २ । ६ । १० ॥ अस्या
अमरोक्तपर्य्यायः कुलटाशब्दे लिखितः । तदति-
रिक्तपर्य्यायो यथा, धृष्टा १ दुष्टा २ धर्षिता ३ ।
इति शब्दरत्नावली ॥ लङ्का ४ निशाचरी ५
त्रपारण्डा ६ । इति जटाधरः ॥ तस्याश्चरित्र-
दोषादि यथा, --
“अहो ! को वेद भुवने दुर्ज्ञेयं पुंश्चलीमनः ।
पुंश्चल्यां यो हि विश्वस्तो विधिना स विडम्बितः ।
बहिष्कृतश्च यशसा धर्म्मेण स्वकुलेन च ॥
वाञ्छितं नूतनं प्राप्य विनश्यति पुरातनम् ।
सदा स्वकर्म्मसाध्या सा को वा तस्याः प्रियो-
ऽप्रियः ॥
दैवे कर्म्मणि पैत्रे च पुत्त्रे ब्रन्धौ च भर्त्तरि ।
दारुणं पुंश्चलीचित्तं सदा शृङ्गारकर्म्मणि ॥
प्राणाधिकं रतिज्ञं सामृतदृष्ट्या हि पुंश्चली ।
रत्नप्रदं रत्यविज्ञं विषदृष्ट्या हि पश्यति ॥
सर्व्वेषां स्थलमस्त्येव पुंश्चलीनां न कुत्रचित् ।
दारुणा पुंश्चलीजातिनंरजातिभ्य एव च ॥
निष्कृतिः कर्म्मभोगान्ते सर्व्वेषामस्ति निश्चितम् ।
न पुंश्चलीनां विप्रेन्द्र ! यावच्चन्द्रदिवाकरौ ॥
अन्यासां कामिनीनाञ्च कीटं हन्तुञ्च या दया ।
सा नास्ति पुंश्चलीनान्तु कान्तं हन्तुं पुरातनम् ॥
रतिज्ञं नूतनं प्राप्य विषतुल्यं पुरातनम् ।
कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया ॥ * ॥
पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते ।
तिष्ठन्ति ताभ्यो न पराः पापिष्ठाः सन्तिकेचन ॥
पुंश्चलीपरिपक्वान्नं सर्व्वपातकमिश्रितम् ।
दैवे कर्म्मणि पैत्रे च देयं न च तथा जलम् ॥
अन्नं विष्ठा पयो मूत्रं पुंश्चलीनाञ्च निश्चितम् ।
दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत् ॥
शतवर्षं कालसूत्रे पचत्येव सुदारुणे ।
घोरान्धकारे कृमयस्तं दशन्ति दिवानिशम् ॥
पुंश्चल्यन्नञ्च यो भुङ्क्ते दैवाद्यदि नराधमः ।
सप्तजन्मकृतं पुण्यं तस्य नश्यति निश्चितम् ॥
आयुःश्रीयशसां हानिरिह लोके परत्र च ।
तस्माद्यत्नाद्रक्षणीयं पाकपात्रं कलत्रकम् ॥
पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम् ।
स्पर्शने च महापापं तीर्थस्नानाद्विशुध्यति ॥
स्नानं दानं व्रतञ्चैव जपश्च देवपूजनम् ।
निष्फलं पुंश्चलीनाञ्च भारते जीवनं वृथा ॥”
उपस्थितसकामपुंश्चलीत्यागे दोषो यथा, --
“रहस्युपस्थितां कामात् पुंश्चलीञ्चेज्जितेन्द्रियः ।
परित्यजेद्धर्म्मभयादधर्म्मान्नरकं व्रजेत् ॥”
सर्व्वदैव तस्यास्तपस्वित्याज्यत्वं गर्हितत्वञ्च यथा,
“उपस्थिता च या योषिदत्याज्या रागिणामपि ।
श्रुतौ श्रुतमिति त्याज्या सर्व्वदैव तपस्विनाम् ॥
अहो सर्व्वैः परित्याज्या पुंश्चली च विशेषतः ।
धनायुःप्राणयशसां नाशिनी दुःखदायिनी ॥
स्वकार्य्यतत्परा शश्वत् परकार्य्यविघातिनी ।
निष्ठरा नरघातिभ्यः सर्व्वापद्बीजरूपिणी ॥
विद्युद्दीप्तिर्जले रेखा लोभान्मैत्री यथा भवेत् ।
परद्रोहाद्यथा सम्पत् कुलटाप्रेमतत्परम् ॥
सर्व्वेभ्यो हिंस्रजन्तुभ्यो विपद्बीजा सदैव सा ।
यो विश्वसेत्तां संमूढो विपत्तस्य पदे पदे ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । २३ । २४ ।
३२ अध्यायाः ॥

पुंश्चिह्नं, क्ली, (पुंसः पुरुषस्य चिह्नम् ।) शिश्नः ।

इति हेमचन्द्रः । ३ । २७४ ।

पुंस, क मर्द्दे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) ओष्ठ्यवर्गशेषोपधः । संयोगादनु-
स्वारः । तेन क्विपि पुंसोऽसुङ्घावित्यसुङि पुमान् ।
मर्द्दोऽभिमर्द्दनम् । क, पुंसयति खलं राजा ।
इति दुर्गादासः ॥

पुंसवनं, क्ली, (पुमांसमिव सूते बलप्रदानेन पुरुष-

वत् जनयत्यनेनेति । सू + करणे ल्युट् ।) दुग्धम् ।
इति हेमचन्द्रः । ३ । ४०४ ॥ (पुमासं सूतेऽने-
नेति । सू ङ ल + करणे ल्युट् ।) संस्कार-
विशेषः । इति त्रिकाण्डशेषः ॥ (यथा, रघु-
वंशे । ३ । १० ।
“यथाक्रमं पुंसवनादिकाः क्रियाः
धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥”)
अस्येतिकर्त्तव्यता यथा । “गर्भस्य तृतीयमासो-
पक्रमे यच्छुद्धदिनं तस्मिन् पतिः कृतनित्यक्रियः
कृतवृद्धिश्राद्धः चन्द्रनामानमग्निं संस्थाप्य विरू-
पाक्षजपान्तां कुशण्डिकां समाप्य कृतस्नानां
बधूमग्नेः पश्चिमायां दिशि स्वदक्षिणतः कुशेषु
प्राङ्मुखीमुपवेश्य प्रकृतकर्म्मारम्भे प्रादेश-
प्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा
महाव्याहृतिहोमं कुर्य्यात् । यथा । प्रजापति-
रृषिर्गायत्त्री छन्दोऽग्निर्देवता महाव्याहृति-
होमे विनियोगः ॐ भूः स्वाहा । प्रजापति-
रृषिरुष्णिक् छन्दो वायुर्द्देवता महाव्याहृति-
होमे विनियोगः ॐ भुवः स्वाहा । प्रजापति-
रृषिरनुष्टुप् छन्दः सूर्य्यो देवता महाव्याहृति-
होमे विनियोगः ॐ स्वः स्वाहा । ततः पति-
रुत्थाय बधूपृष्ठदेशे स्थितो बधूदक्षिणस्कन्धं
स्पृष्ट्वा अवतीर्णेन दक्षिणहस्तेन अव्यवहितं
बधूनाभिदेशं स्पृशन् जपति । प्रजापतिरृषि-
रनुष्टुप् छन्दो मित्रावरुणाग्निवायवो देवताः
पुंसवने विनियोगः ।
ॐ पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ ।
पुमानग्निश्च वायुश्च पुमान् गर्भस्तवोदरे ॥
इत्येकं पुंसवनम् ॥ * ॥
अपरपुंसवनकर्म्मार्थञ्च वटवृक्षस्य पूर्ब्बोत्तर-
शाखायां फलयुगलशालिनीं कृमिभिरनुपहतां
वटशुङ्गां यवानां माषाणां वा त्रिभिस्त्रिभि-
र्गुडकैः सप्त वारान् सप्तभिर्मन्त्रैः क्रीणीयात् ।
सप्तानां मन्त्राणामृष्यादयः साधारणाः । प्रजा-
पतिरृषिः सोमवरुणवसुरुद्रादित्यमरुद्विश्वे
देवा देवता न्यग्रोधशुङ्गापरिक्रयणे विनियोगः
ॐ यद्यसि सौमी सोमायत्वा राज्ञे परिक्री-
णामि । इति गुडकत्रयेण एकं क्रयणम् ॥ १ ॥
पृष्ठ ३/१६२
ॐ यद्यसि वारुणी वरुणायत्वा राज्ञे परि-
क्रीणामि । इति गुडकत्रयेण द्बितीयं क्रय-
णम् ॥ २ ॥ ॐ यद्यसि वसुभ्यो वसुभ्यस्त्वा परि-
क्रीणामि । इति गुडकत्रयेण तृतीयं क्रय-
णम् ॥ ३ ॥ ॐ यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परि-
क्रीणामि । इति गुडकत्रयेण चतुर्थं क्रयणम् ॥ ४ ॥
ॐ यद्यसि आदित्येभ्य आदित्येभ्यस्त्वा परि-
क्रीणामि । इति गुडकत्रयेण पञ्चमं क्रयणम् ॥ ५ ॥
ॐ यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि ।
इति गुडकत्रयेण षष्ठं क्रयणम् ॥ ६ ॥ ॐ यद्यसि
विश्वेभ्यो देवेभ्यो विश्वेभ्यो देवेभ्यस्त्वा परि-
क्रीणामि । इति गुडकत्रयेण सप्तमं क्रय-
णम् ॥ ७ ॥ ततः क्रीतां वटशुङ्गां अनेन मन्त्रेण
वृक्षादाहरेत् । प्रजापतिरृषिरोषध्यो देवता
न्यग्रोधशुङ्गाच्छेदने विनियोगः । ॐ ओषधयः
सुमनसो भूत्वा अस्यां वीर्य्यं समाधत्त इयं कर्म्म
करिष्यति । ततस्तां तृणवेष्टितामन्तरीक्षेणानीय
अन्तरीक्षे स्थापयेत् । ततः कृतशोभननाम्नो-
ऽग्नेरुत्तरतः प्रक्षालितशिलायां ब्रह्मचारी गर्भ-
वती वा श्रुतस्वाध्यायहीनो वा ब्राह्मणः प्राङ्मुख
आचारतो नीहारजलेन अनावृत्तलोष्टेन पुनः
पुनः पेषयेत् । ततोऽग्नेः पश्चिमत उत्तराग्रेषु
कुशेषु पश्चिमाभिमुखीं बधूं पूर्ब्बदिगानतमस्तकां
कृत्वा तत्पृष्ठदेशे स्थितः पतिर्दक्षिणपाणे-
रङ्गुष्ठानामिकाभ्यां वस्त्रवद्धां पेषितवटशुङ्गां
गृहीत्वा गर्भवत्या दक्षिणनासाविवरे शुङ्गारसं
निःक्षिपति । प्रजापतिरृषिरनुष्टुप् छन्दो-
ऽग्नीन्द्रबृहस्पतयो देवता न्यग्रोधश्रुङ्गारसस्य
दाने विनियोगः ।
ॐ पुमानग्निः पुमानिन्द्रः पुमान् देवी बृहस्पतिः ।
पुमांसं पुत्त्रं विन्दस्व तं पुमाननुजायताम् ॥
ततो महाव्याहृतिहोमं कृत्वा तूष्णीं प्रादेश-
प्रमाणां घृताक्तां समिधमग्नौ हुत्वा प्रकृतं कर्म्म
समाप्य उदीच्यं शाट्यायनहोमादिवामदेव्य-
गानान्तं कर्म्म कृत्वा कर्म्मकारयितृब्राह्मणाय
दक्षिणां दद्यादिति पुंसवनम् ।” इति दशकर्म्म-
पद्धतौ भवदेवभट्टः ॥ * ॥ अथ पुंसवनोक्तवाराः ।
रविमङ्गलबृहस्पतयः । नक्षत्राणि । पूर्ब्बाषाढो-
त्तराषाढापूर्ब्बभाद्रपदुत्तरभाद्रपद्पुष्यपुनर्व्वसु-
मूलार्द्रारेवतीहस्ताश्रवणामृगशिरसः । तिथयः ।
नन्दा भद्राः । लग्नानि । कुम्भसिंहधनुर्मीन-
मिथुनानि । स्त्रियाश्चन्द्रादिशुद्धौ दशयोगभङ्ग-
विष्टिभद्रात्र्यहस्पर्शादीन् परित्यज्य गर्भधारण-
दिनावधितृतीयमासे कर्त्तव्यम् । इति ज्योति-
षम् ॥ * ॥ स्त्रीकर्त्तव्यव्रतविशेषः । यथा, --
श्रीराजोवाच ।
“व्रतं पुंसवनं ब्रह्मन् ! भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥
श्रीशुक उवाच ।
शुक्ले मार्गशिरे पक्षे योषिद्भर्त्तुरनुज्ञया ।
आरभेत व्रतमिदं सर्व्वकामिकमादितः ॥
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च ।
स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।
पूजयेत् प्रातराशात् प्राक् भगवन्तं श्रिया सह ॥
अलं ते निरपेक्षाय पूर्णकाम ! नमोऽस्तु ते ।
महाविभूतिपतये नमः सकलसिद्धये ॥
यथा त्वं कृपया धृत्या तेजसा महिमौजसा ।
जुष्ट ईशगुणैः सर्व्वैस्ततोऽसि भगवान् प्रभुः ॥
विष्णुपत्नि ! महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥
ॐ नमो भगवते महापुरुषाय महानुभावाय
महाविभूतिपतये सह महाविभूतिभिर्व्वलि-
मुपहरामीति । अनेनाहरहर्म्मन्त्रेण विष्णो-
रावाहनार्घ्यपाद्योपस्पर्शन-स्नान-वासोपवीत-
भूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुस-
माहितोपाहरेत् ।
हविःशेषञ्च जुहुयादनले द्वादशाहुतीः ।
ॐ नमो भगवते महापुरुषाय महाविभूतिपतये
स्वाहेति ।
श्रियं विष्णुञ्च वरदावाशिषां प्रभवायुभौ ।
भक्त्या संपूजयेन्नित्यं यदीच्छेत् सर्व्वसम्पदः ॥
प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।
दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥
युवान्तु विश्वस्य विभू जगतः कारणं परम् ।
इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ।
तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः ॥
त्वं सर्व्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ।
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ॥
त्वं हि सर्व्वशरीर्य्यात्मा श्रीः शरीरेन्द्रियासवः ।
नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथा म उत्तमश्लोक ! सन्तु सत्या महाशिषः ॥
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
तन्निसार्य्योपहरणं दत्त्वाचमनमर्च्चयेत् ॥
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्च्चयेद्धरिम् ॥
पतिञ्च परया भक्त्या महापुरुषचेतसा ।
प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः ॥
बिभृयात् सर्व्वकर्म्माणि पत्न्या उच्चावचानि च ।
कृतमेकतरेणापि दम्पत्योरुभयोरपि ॥
पत्न्यां कुर्य्यादनर्हायां पतिरेतत् समाहितः ।
विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात् कथञ्चन ॥
विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।
अर्च्चेदहरहर्भक्त्या देवं नियममास्थिता ॥
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।
अद्यादात्मविशुद्ध्यर्थं सर्व्वकामसमृद्धये ॥
एतेन पूजाविधिना मासान् द्वादशहायनम् ।
नीत्वाथोपरमेत् साध्वी कार्त्तिके चरमेऽहनि ॥
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ब्बवत् ।
पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा ।
पाकयज्ञविधानेन द्बादशैवाहुतीः पतिः ॥
आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥
आचार्य्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।
दद्यात् पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम् ॥
एतच्चरित्वा विधिवद्व्रतं विभो-
रभीप्सितार्थं लभते पुमानिह ।
स्त्री चैतदास्थाय लभेत सौभगं
श्रियं प्रजां जीवपतिं यशो गृहम् ॥
कन्या च विन्देत समग्रलक्षणं
पतिं त्ववीरा हतकिल्विषाङ्गतिम् ।
मृतप्रजा जीवसुता धनेश्वरी
सुदुर्भगा सुभगा रूपमग्रियम् ॥
विन्देदविरूपा विरुजा विमुच्यते
य आमयावीन्द्रियकल्यदेहम् ।
एतत् पठन्नभ्युदये च कर्म्म-
ण्यनन्ततृप्तिः पितृदेवतानाम् ॥
तुष्टाः प्रयच्छन्ति समस्तकामान्
होमावसाने हुतभुक् श्रीर्हरिश्च ।
राजन्महन्मरुतां जन्मपुण्यं
दितेर्व्रतञ्चाभिहितं महत्ते ॥”
इति श्रीभागवते ६ स्कन्धे पुंसवनव्रतकथनं १९
अध्यायः ॥ (पुंवत् सूयते इति । कर्म्मणि ल्युट् ।
गर्भः । इति श्रीधरस्वामी ॥ यथा, भागवते ।
५ । २४ । १५ । “यस्मिन् प्रविष्टेऽसुरबधूनां प्रायः
पुंसवनानिभयादेव स्रवन्ति पतन्ति च ॥” * ॥
पुत्त्रोत्पादके, त्रि । यथा, भागवते । ९ । ६ । २८ ।
“पप्रच्छुः कस्य कर्म्मेदं पीतं पुंसवनं जलम् ॥”
तथा च तत्रैव । ४ । १३ । ३७ -- ३८ ।
“स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।
अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदारधीः ॥
सा तत् पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।
गर्भं काल उपावृत्ते कुमारं सुषुवे प्रजाः ॥”)

पुंस्कोकिलः, पुं, (पुमान् कोकिलः ।) पुरुषपिक-

पक्षी । पुम्स्शब्देन कोकिलशब्दस्य कर्म्मधारय-
समासे तस्यान्तलोपे पुंसः सन्निति मस्य सनि
कृते मस्यानुस्वारे निष्पन्नः । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, कुमारे । ३ । ३२ ।
“चूताङ्कुरास्वादकषायकण्ठः
पुंस्कोकिलो यन्मधुरं चुकूज ॥”)

पुंस्त्वं, क्ली, (पुंसः पुरुषस्य भावः । पुम्स् + त्व ।)

शुक्रम् । इति हेमचन्द्रः । ३ । २९३ ॥ पुरुष-
त्वञ्च ॥ (यथा, मार्कण्डेये । ५० । १२ ।
“सौम्यासौम्यैस्तथा शान्तैः पुंस्त्वं स्त्रीत्वञ्च स
प्रभुः ।
विभेद बहुधा देवः पुरुषैरसितैः सितैः ॥”)

पुंस्त्वविग्रहः, पुं, (पुंस्त्वस्य शुक्रस्येव विग्रहो यस्य ।)

भूतृणम् । इति राजनिर्घण्टः ॥

पुक्कशः, पुं, (पुक् कुत्सितं कशति गच्छतीति ।

कश गतौ + अच् ।) चण्डालः । इत्यमरः । २ ।
१० । २० ॥ (यथा, मार्कण्डेये । १५ । १८ ।
“अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।
मत्स्यस्तु वायसः कूर्म्मः पुक्कशो जायते ततः ॥”
स तु निषादात् शूद्रायां जातो जातिविशेषः ।
यथा, मनुः । ४ । ७९ ।
“न संवसेच्च पतितैर्नचाण्डालैर्न पुक्कशैः ॥”)
पृष्ठ ३/१६३

पुक्कषः, पुं, (पुक् कुत्सितं कषतीति । कष गतौ +

अच् ।) चण्डालः । इत्यमरटीकायां भरतः ॥

पुक्कसः, पुं, (पुक् कुत्सितं कसतीति । कस गतौ +

अच् ।) चण्डालः । (स तु निषादात् शूद्रायां
जातः । यथा, मनुः । १० । १८ ।
“जातो निषादात् शूद्रायां जात्या भवति
पुक्कसः ॥”)
अधमे, त्रि । इति मेदिनीशब्दरत्नावल्यौ ॥

पुक्कसी, स्त्री, कालिका । नीली । इति मेदिनी-

शब्दरत्नावल्यौ ॥ (पुक्कस + जातौ ङीष् । पुक्कस-
स्त्रीजातिः । यथा, मनुः । १० । ३८ ।
“चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥”)

पुङ्खः, पुं, (पुमांसं खनतीति । खन + डः ।) काण्ड-

मूलम् । इत्यमरः । ३ । ५ । १७ ॥ पुष्कल इति
ख्यातम् ॥ (अर्द्धर्च्चादित्वात् क्लीवलिङ्गोऽपि ॥
यथा, रघुः । २ । ३१ ।
“सक्ताङ्गुलिः सायकपुङ्ख एव
चित्रार्पितारम्भ इवावतस्थे ॥”
मङ्गलाचारः । इति हेमचन्द्रटीका ॥)

पुङ्गः, पुं, क्ली, (पुञ्ज + पृषोदरादित्वात् साधुः ।)

समूहः । इति शब्दचन्द्रिका ॥

पुङ्गलः, पुं, (पुङ्गं देहसमूहं लाति आदत्ते इति ।

पुङ्ग + ला + कः ।) आत्मा । इति भूरि-
प्रयोगः ॥

पुङ्गवः, पुं, (पुमान् गौः । “गोरतद्धितलुकि ।”

५ । ४ । ९२ । इति टच् ।) वृषः । (यथा,
हरिवंशे । ७५ । ४१ ।
“भवता रक्षिता लोका गोलोकश्च महालयम् ।
यद्वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा ॥”)
औषधभेदः । (पुमान् गौरिव मदबलाद्याति-
शय्यादित्युपमितसमासः ।) उत्तरपदस्थः श्रेष्ठ-
वाचकः । इति मेदिनी । वे, ४४ ॥ (यथा, भाग-
वते । १ । ९ । ३२ ।
“इति मतिरुपकल्पिता वितृष्णा
भगवति सात्त्वतपुङ्गवे विभूम्नि ॥”)
ऋषभौषधम् । महोक्षः । इति राजनिर्घण्टः ॥

पुच्छ, प्रसादे । इत्यमरटीकायां रायमुकुटधृत-

धातुः ॥ (भ्वां-परं-अकं-सेट् ॥)

पुच्छः, पुं, क्ली, (पुच्छतीति । पुच्छ प्रसादे + अच् ।)

लाङ्गूलम् । इत्यमरः । २ । ८ । ५० ॥ (यथा, देवी-
भागवते । ५ । ७ । १६ ।
“खुरघातैस्तथा देवान् पुच्छस्य भ्रमणेन च ।
स जघान रुषाविष्टो महिषः परमाद्भुतः ॥”)
पश्चाद्भागे, पुं, । इति मेदिनी । छे, ५ ॥ (यथा,
महाभारते । ७ । ६ । २८ ।
“उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्व्वशः ॥”)
लोमवल्लाङ्गूलेकलापे च, क्ली । इत्युणादिकोषः ॥

पुच्छटी, क्ली, (पुच्छ प्रसादे + भावे क्विप् । पुच्छं

प्रसादं अटतीति । अट गतौ + इन् ।) अङ्गुलि-
मोटनम् । इति त्रिकाण्डशेषः ॥ आङ्गुलमट्-
कान इति भाषा ॥

पुच्छदा, स्त्री, (पुच्छमिवददातीति । दा + कः ।)

लक्ष्मणाकन्दः । इति राजनिर्घण्टः ॥

पुच्छी, [न्] पुं, (पुच्छोऽस्त्यस्येति । पुच्छ +

इनिः ।) अर्कवृक्षः । इति राजनिर्घण्टः ॥
कुक्कुटः । इति शब्दचन्द्रिका ॥ लाङ्गूलयुक्ते, त्रि ॥

पुञ्जः, पुं, (पिञ्ज्यते पिञ्जयतीति वा । पिजि +

अच् । पृषोदरादित्वात् साधुः ।) समूहः ।
राशिः । इत्यमरः । २ । ५ । ४२ ॥ (यथा,
मार्कण्डेये । ८ । ८२ ।
“गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कतः ॥”)

पुट, क चूर्णे । भासि । इति कविकल्पद्रुमः ॥

(चुरां-परं-चूर्णे सकं-भासि अकं-सेट् ।) क,
पोटयति । भासि दीप्तौ । इति दुर्गादासः ॥

पुट, त् क संसर्गे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) पुटयति पुष्पं सूत्रेण जनः
संसृजतीत्यर्थः । इति दुर्गादासः ॥

पुट, शि श्लेषे । इति कविकल्पद्रुमः ॥ (तुदां-कुटां-

परं-अकं-सेट् ।) शि, पुटति अपुटीत् पुपोट ।
श्लेषः सम्बन्धीभावः । इति दुर्गादासः ॥

पुटं, क्ली, (पुटतीति । पुट संश्लेषे + कः ।) जाती-

फलम् । इति राजनिर्घण्टः ॥ उपर्य्यधोभावा-
पन्नसंयुक्तमृदादिकपालद्वयरूपौषधपाकपात्रम् ।
धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रस-
प्रदीपे ।
“लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता ।
सलिले तरणञ्चापि तत्सिद्धिः पुटनाद्भवेत् ॥
गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके ।
वनोपलसहस्रेण पूरिते पुटनौषधम् ॥
कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत् ।
वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षिपेत् ॥
वह्निं विनिःक्षिपेत्तत्र महापुटमिति स्मृतम् ॥ १ ॥
कोष्ठं मूषा । गोविष्ठा गोइठा । इति महापुटम् ॥
सपादहस्तमानेन कुण्डे निम्ने तथायते ।
वनोपलसहस्रेण पूर्णमध्ये विधारयेत् ॥
पुठनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे ।
अधोऽर्द्धानि करण्डानि अर्द्धान्युपरि निःक्षिपेत् ॥
एतद्गजपुटं प्रोक्तं ख्यातं सर्व्वपुटोत्तमम् ॥
हस्तश्चतुर्व्विंशत्यङ्गुलप्रमाणः स सपादः तेन
त्रिंशदङ्गुलप्रमाणेनेत्यर्थः । अतएवोक्तम् ।
साधारणो नराङ्गुल्या त्रिंशदङ्गुलको गजः ॥
इति गजपुटम् ॥ २ ॥
अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते ॥ ३ ॥
वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् ।
‘अरत्निस्तु निष्कनिष्ठेन मुष्टिना’ इत्यमरः ।
२ । ६ । ८६ ॥ निःसृतकनिष्ठया मुष्ट्योपलक्षितो
हस्तोऽरत्निरित्यर्थः ।
षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं पुटम् ॥ ४ ॥
यत् पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः ।
कपोतपुटमेतत्तु कथितं पुटपण्डितैः ॥ ५ ॥
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कचूर्णितगोमयम् ।
गोवरं तत् समाख्यातं वरिष्ठं रससाधने ॥
बृहद्भाण्डस्थितैर्यन्त्रैर्गोवरैर्दीयते पुटम् ।
तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतभस्मकृत् ॥ ६ ॥
बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत् ।
क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डपुटमुच्यते ॥” * ॥
इति भावप्रकाशे पूर्ब्बखण्डे २ भागः ॥

पुटः, पुं क्ली, (पुटतीति । पुट श्लेषे + कः ।) अश्व-

खुरः । इति शब्दरत्नावली ॥

पुटः, त्रि, (पुट् + कः ।) आच्छादनम् । पत्रादि-

रचितः पुष्पाद्याधारः । यथा, रघुः । २ । ६५ ।
“दुग्ध्वा पयः पत्रपुटे मदीयं
पुत्त्रोपभुङ्क्ष्वेति तमादिदेश ॥”
(यथा च मनौ । ६ । २८ ।
“ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य पुटेनैव पाणिना सकलेन वा ॥”)
मिथःसंश्लेषः । इति मुकुटः ॥ इत्यमरटीकायां
भरतः ॥

पुटकं, क्ली, (पुटवत् कायतीति । कै + कः ।)

पद्मम् । इति शब्दरत्नावली ॥ स्वार्थे कप्रत्यये
पुटशब्दार्थोऽप्यत्र ॥

पुटकन्दः, पुं, (पुटमिव कन्दो यस्य ।) कोलकन्दः ।

इति राजनिर्घण्टः ॥

पुटकिनी, स्त्री, (पुटकानि सन्त्यत्रेति । पुटक +

“पुष्करादिभ्यो देशे ।” ५ । २ । १३५ । इति
इनिः । स्त्रियां ङीप् ।) पद्मिनी । पद्मयुक्तदेशः ।
पद्मसमूहः पद्मलता च । इति हेमचन्द्रः ॥

पुटग्रीवः, पुं, (पुटमिव ग्रीवा यस्य ।) गर्गरी ।

ताम्रकुम्भः । इति मेदिनी । वे, ६१ ॥

पुटपाकः, पुं, (पुटेन पाकः ।) पुटाभ्यन्तरितौ-

षधपचनम् । अथ पुटपाकविधिः ।
“पुटपक्वस्य कल्कस्य स्वरसो गृह्यते यतः ।
अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ॥
पुटपाकस्य पाकोऽयं लेपस्याङ्गारवर्णता ।
लेपञ्च द्व्यङ्गुलं स्थूले कुर्य्याद्बाङ्गुलिमात्रकम् ॥
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् ।
पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत् ॥
कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः ॥
अपि च ।
द्वे विल्वे स्निग्धमांसस्य परं द्रव्यं पलं मतम् ।
द्रव्यस्य कुडवोन्मानं सर्व्वमेकत्र पेषयेत् ॥
तदेकत्र समालोड्य पत्रैः सूपरिवेष्टितम् ॥
पुटपाकविधानेन तत् पक्त्वा तद्रसं बुधः ।
तर्पणोक्तेन विधिना यथावदवचारयेत् ॥
दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः ।
स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा ॥
हितः स्निग्धो विरूक्षस्य स्निग्धस्य स तु लेखनः
दृष्टेर्ब्बलार्थमितरः पित्तासृग्व्रणवातनुत् ॥
इतरो रोपणः ।
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः ।
स्नेहनः पुटपाकः स्याद्धार्य्यो द्वे वाक्शते तु सः ॥
वाक्शतं छोटिकाशतम् ।
जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंयुतैः ।
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ॥
समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः ।
पृष्ठ ३/१६४
लेखनो वाक्शतं तस्य परं धारणमिष्यते ॥
स्तन्यजाङ्गलमध्वाज्यतिक्तकद्रव्यभावितः ।
लेखनात्त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः ॥
तिक्तकद्रव्याण्याह ।
निम्बामृतावृषपटोलनिदिग्धिकाभिः
स्यात् पञ्चतिक्तक इति प्रथितो गणोऽयम् ॥
आचरेत्तर्पणोक्तान्तु क्रियां व्यापत्तिदर्शने ॥
व्यापत्तिदर्शने मिथ्याकृतपुटपाकजनितव्याधि-
दर्शने ।
तेजांस्यनिलमाकाशमादर्शं भास्कराणि च ।
नैक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् ॥”
इति भावप्रकाशः ॥

पुटभेदः, पुं, (पुटं संश्लिष्टं भिनत्तीति । भिद +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) नदी-
वक्रम् । (नदीचक्रम् । इत्यमरः । १ । १० । ७ ॥
यथा, आर्य्यासप्तशत्याम् । ३९८ ।
“प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुप-
यान्ति ।
कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥”)
पत्तनम् । आतोद्यम् । इति मेदिनी । दे, ५० ॥

पुटभेदनं, क्ली, (पुटैरश्वखुरैर्भिद्यते इति । भिद +

कर्म्मणि ल्युट् ।) नगरम् । इत्यमरः । २ । २ । १ ॥
(यथा, महाभारते । १ । १०० । १२ ॥
“स हास्तिनपुरे रम्ये कुरूणां पुटभेदने ।
वसन् सागरपर्य्यन्तामन्वशासद्बसुन्धराम् ॥”)

पुटालुः, पुं, (पुटः संश्लिष्ट आलुः ।) कोलकन्दः ।

इति राजनिर्घण्टः ॥

पुटिका, स्त्री, (पुटं अस्त्यस्या इति । पुट + ठन्

+ टाप् ।) एला । इति हारावली । ९७ ॥

पुटितं, क्ली, (पुटं जातमस्येति । पुट + इतच् ।

पुट + क्त वा ।) हस्तपुटम् । पाटितम् । स्यूते,
त्रि । इति मेदिनी । ते, १३४ ॥ आद्यन्तप्रण-
वादियुक्तमन्त्रादौ पुटप्राप्ते च त्रि ॥

पुटी, स्त्री, (पुटतीति । पुट + कः । गौरादित्वात्

ङीष् ।) कौपीनम् । इति जटाधरः ॥ आच्छा-
दनम् । पत्रादिरचितः पुष्पाद्याधारः । इत्य-
मरभरतौ ॥ (यथा, आर्य्यासप्तशत्याम् । १४९ ।
“एरण्डपत्रशयना जनयन्ती स्वेदमलघुजघन-
तटा ।
धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिक-
बधूः ॥”)

पुटोटज, क्ली, (पुटं संश्लिष्टमुटजमिव ।) श्वेत-

च्छत्रम् । इति त्रिकाण्डशेषः ॥

पुटोदकः, पुं, (पुटे अन्तर्युब्जपात्रमध्ये उदकं

यस्य ।) नारिकेलः । इति हारावली । १०० ॥

पुट्ट, क तौच्छ्ये । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) पञ्चमस्वरी । टद्वयान्तः । एक-
टकार इति रामः । क, पुट्टयति । तौच्छमल्पी-
भावः । इति दुर्गादासः ॥

पुड, इ मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पञ्चमस्वरी । इ, पुण्ड्यते । मर्द्द-
श्चर्णीकरणम् । इति दुर्गादासः ॥

पुण, श धर्म्मे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) शुभक्रियायामित्यन्ये । श, पुणति
शुभं लोकः । पोणिता । इति दुर्गादासः ॥

पुण्डः, पुं, (पुण्ड्यते इति । पुडि मर्द्दे + घञ् ।)

तिलकः । इति जटाधरः ॥

पुण्डरी, [न्] पुं, हस्तिनां मनुष्याणाञ्च चक्षुष्यः

क्षुद्रविटपः । शालपर्णीपत्रतुल्यपत्रः । पुण्ड-
रिया इति ख्यातः । तत्पर्य्यायः । पौण्डरी-
कम् २ पुण्डरीकम् ३ पुण्डरीयकम् ४ प्रपौण्ड-
रीकम् ५ चक्षुष्यम् ६ पौण्डर्य्यम् ७ तालपुष्प-
कम् ८ सालपुष्पम् ९ दृष्टिकृतम् १० स्थलपद्मम्
११ मालकम् १२ । केचित्तु पूर्ब्बदशकं पद्मकाष्ठे
प्रचक्षते ॥ इति शब्दरत्नावली ॥

पुण्डरीकं, क्ली, (पुण्डति अन्यपुष्पाणां गर्व्वं चूर्णी-

करोतीति । पुण्ड मर्द्दे + “फर्फरीकादयश्च ।”
उणां । ४ । २० । इति ईकन्प्रत्ययेन निपा-
तनात् साधुः । “पुणतेः पुण्डरीकम् ।” इत्यु-
ज्ज्वलदत्तः ।) शुक्लपद्मम् । तत्पर्य्यायः । सिता-
म्भोजम् २ । इत्यमरः । १ । १० । ४१ ॥ शत-
पत्रम् ३ महापद्मम् ४ सिताम्बुजम् ५ । इति
रत्नमाला ॥ अस्य पर्य्यायान्तरं गुणाश्च श्वेत-
पद्मशब्दे द्रष्टव्याः ॥ (यथा, रघुः । ४ । १७ ।
“पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥”)
पद्ममात्रम् । इति भरतधृतव्याडिः ॥ श्वेत-
च्छत्रम् । भेषजभेदः । इति मेदिनी । के, १९९ ॥
सप्तमहाकुष्ठानामन्यतमः । तल्लक्षणं यथाह
माधवकरः ।
“सश्वेतं रक्तपर्य्यन्तं पुण्डरीकदलोपमम् ।
सोत्सेधञ्च सरागञ्च पुण्डरीकं तदुच्यते ॥”

पुण्डरीकः, पुं, (पुण्डरीकवद्वर्णोऽस्त्यस्येति । अच् ।)

अग्निकोणस्थदिग्गजः । व्याघ्रः । इत्यमरः । ३ । ३ ।
११ ॥ कोषकारभेदः । इति मेदिनी ॥ सहकारः ।
गणधरः । राजिलसर्पः । गजज्वरः । इति
हेमचन्द्रः ॥ दमनकवृक्षः । इति राजनिर्घण्टः ॥
(धान्यविशेषः । तद्यथा, --
“पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कमण्डलुः । श्वेतवर्णः । इत्यनेकार्थकोषः ॥
(क्रौञ्चद्बीपस्थपर्व्वतविशेषः । यथा, मात्स्ये ।
१२१ । ८१ ।
“देवावृतः परेणापि पुण्डरीको महान् गिरिः ।
एते रक्तमयाः सप्त क्रौञ्चद्वीपस्य पर्व्वताः ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । ७६ ।
“शुक्लपक्षे दशम्याञ्च पुण्डरीकं समाविशत् ।
तत्र स्नात्वा नरो राजन् ! पुण्डरीकफलं लभेत् ॥”
यज्ञविशेषः । यथा, तत्रैव । ३ । ३० । १७ ।
“अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः ।
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥”
नागविशेषः । यथा, तत्रैव । ५ । १०३ । १३ ।
“नागानामेकवंश्यानां यथाश्रेष्ठन्तु मे शृणु ।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥”
रामचन्द्रवंशीयनृपविशेषः । यथा, रघुः । १८ । ८ ।
“तेन द्बिपानामिव पुण्डरीको
राज्ञामजय्योऽजनि पुण्डरीकः ।
शान्ते पितर्य्याहृतपुण्डरीका
यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥”
पुण्डरीकाः सन्त्यत्रेति । अच् । पुण्डरीक-
विशिष्टे, त्रि । यथा, मात्स्ये । १२० । ६८ ।
“पयोदस्तु ह्नदो नीलः स शुभः पुण्डरीकवान् ।
पुण्डरीकात् पयोदाच्च तस्मात् द्बे सम्प्रसूय-
ताम् ॥”)

पुण्डरीकाक्षं, क्ली, (पुण्डरीकवदक्षिणी यस्मात् ।

षच् समासे ।) पुण्डर्य्यम् । इति शब्दचन्द्रिका ॥

पुण्डरीकाक्षः, पुं, (पुण्डरीकवदक्षिणी नेत्रे यस्य ।

षच् समासे ।) विष्णुः । इत्यमरः । १ । १ । १९ ॥
(यथा, महाभारते । ५ । ७० । ६ ।
“पुण्डरीकं परं धाम नित्यमक्षरमव्ययम् ।
तद्भावात् पुण्डरीकाक्षो दस्युत्रासाज्जनार्द्दनः ॥”
“हृदयाख्यपुण्डरीकमश्नुते व्याप्नोति तत्रोपलभ्यत
इति पुण्डरीकाक्षः । यत् पुण्डरीकाक्षस्तत्-
पुण्डरीकं परममध्यमन्त इति श्रुतेः । अक्षिणी
पुण्डरीकाभे यस्येति वा ।” इति शाङ्करभा-
ष्यम् ॥) तस्य स्मरणे बाह्याभ्यन्तरशुचित्वं यथा,
“अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥”
इति वामने ३३ अध्यायः ॥
(जलचरपक्षिविशेषः । तद्यथा, --
“उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)

पुण्डरीयकं, क्ली, स्थलपद्मम् । इति शब्दमाला ॥

प्रपौण्डरीकम् । इति राजनिर्घण्टः ॥

पुण्डर्य्यं, क्ली, (पुण्डतीति । पुडि + अच् । तस्यार्य्यं

प्रधानम् । शकन्ध्वादित्वात् साधुः ।) प्रपौण्ड-
रीकम् । इत्यमरः । २ । ४ । १२७ ॥ “द्वे हस्तिनां
मनुष्याणाञ्च चक्षुष्ये क्षुद्रविटपे शालपर्णीपत्र-
तुल्यपत्रे । पुण्डरिया इति ख्याते । प्रकृष्टं पुण्ड-
रीकमिव दाहहरणात् प्रपौण्डरीकं ष्णः सुप-
ञ्चालादित्वादन्तपदस्यादौ वृद्धिः । पुण्डयति
खण्डयति दोषान् पुण्डर्य्यं पुडि मर्द्दे नाम्नीति
अर्य्यः पौण्डर्य्यमिति पाठे स्वार्थे ष्णः वृद्धिः
पुण्डरीकादिरप्यत्र ।
‘स्थलपद्मं साधुपुष्पं दृष्टिकृत् पुण्डरीयकम् ॥’
इति रभसः ।” इत्यमरटीकायां भरतः ॥

पुण्ड्रः, पुं, (पुण्ड्यन्ते गुडशर्कराद्यर्थं चूर्णीक्रियते

इति । पुडि मर्द्दे + “स्फायितञ्चीति ।” उणा ०
२ । १३ । इति रक् ।) इक्षुभेदः । पुँडिआक् इति
भाषा । इत्यमरः । २ । ४ । १६३ । दैत्यविशेषः ।
अतिमुक्तकः । चित्रम् । क्रिमिः । पुण्डरीकम् ।
देशविशेषे, पुं भूम्नि । इति मेदिनी । रे, ५९ ॥
(यथा, मात्स्ये । ११३ । ४५ ।
“प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ।
शाम्बमागधगोनर्द्दाः प्राच्या जनपदाः स्मृताः ॥”)
तिलकवृक्षः । इति हेमचन्द्रः ॥ ह्नस्वप्लक्षः ।
पृष्ठ ३/१६५
इति राजनिर्घण्टः ॥ (अश्वदेहस्थचिह्नविशेषः ।
अस्य लक्षणादिकं पुण्ड्रकशब्दे द्रष्टव्यम् ॥ वलि-
राजस्य क्षेत्रजः पुत्त्रविशेषः । यन्नाम्नैव पुण्ड्र-
देशो विख्यातः । यथा, महाभारते । १ । १०४ ।
४७ -- ५१ ।
“वलिः सुदेष्णां भार्य्यां स्वां तस्मै तां प्राहिणोत्
पुनः ।
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ॥
भविष्यन्ति कुमारास्ते तेजसादित्यवर्च्चसः ।
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ॥
तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि ।
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः ॥
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः ।
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च
स्मृताः ॥
एवं वलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥”)

पुण्ड्रकः, पुं, (पुण्ड्र इव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ४ । ३ । ९६ । इति कन् ।) माधवी-
लता । इत्यमरः । २ । ४ । ७२ ॥ (पर्य्यायोऽस्य
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“माधवी स्यात्तु वासन्ती पुण्ड्रको मस्तकोऽपिच ।
अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥”)
तिलकवृक्षः । (पुण्ड्र + स्वार्थे कन् ।) इक्षुभेदः ।
पुँडि आक् इति भाषा । तत्पर्य्यायः । रसालः २
इक्षुवाटी ३ योनिः ४ इक्षुयोनिः ५ रसाली ६
रसदालिका ७ करङ्कशालिः ८ । अस्य गुणाः ।
मधुरत्वम् । शीतलत्वम् । रुचिकारित्वम् । मृदु-
त्वम् । पित्तदाहहरत्वम् । वृष्यत्वम् । तेजोबल-
विवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (अश्व-
शरीरस्थचिह्नविशेषे, पुं, क्ली । यथा, अश्व-
वैद्यके । ३ । ७३ -- ८१ ।
“अत ऊर्द्ध्वं प्रवक्ष्यामि पुण्ड्राणां लक्षणं शुभम् ।
आनुपूर्ब्ब्या यथादृष्टं मुनिभिस्त्वर्थवेदिभिः ॥
शुक्तिशङ्खगदाखड्गपद्मचक्राङ्कुशोपमाः ।
शरासनसमाकाराः प्रशस्ताः पुण्ड्रकाः स्मृताः ॥
मत्स्यभृङ्गारप्रासादस्रग्वेदीयूपसन्निभाः ।
श्रीवृक्षदर्पणाकाराः शुभदाः परिकीर्त्तिताः ॥
शिरोललाटवदनं यः पुण्ड्रो व्याप्य तिष्ठति ।
स धन्यः पूजितो नित्यमृजुकश्चैव यो भवेत् ॥
पर्व्वतेन्दुपताकाभा ये च स्रग्दामसन्निभाः ।
ते सर्व्वे पूजिताः पुण्ड्रा धनधान्यफलप्रदाः ॥
इति पुण्ड्राः शुभाः प्रोक्ताः पूर्ब्बशास्त्रानुसारतः ।
अशुभांश्चैव वक्ष्यामि ययायोगं समासतः ॥
काककङ्ककबन्धाहिगृध्रगोमायुसन्निभाः ।
असिताः पीतका रक्ताः पुण्ड्रका नैव पूजिताः ॥
तिर्य्यग्गाश्चैव विच्छिन्नाः शृङ्खलापाशसन्निभाः ।
शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभाः स्मृताः ॥
जिह्वाकल्मषरूक्षाणि भस्मवर्णनिभानि च ।
पुण्ड्रकाणि न शस्यन्ते भिन्नवर्णानि वाजिनः ॥”
पुण्ड्रदेशनृपतिः । यथा, महाभारते । १ । ४ । २४ ।
“तथाङ्गवङ्गौ सह पुण्ड्रकेण
पाण्ड्यौड्रराजौ च सहान्धकेन ॥”)

पुण्ड्रकेलिः, पुं, (पुण्ड्रे इक्षुविशेषे केलिर्यस्य ।)

हस्ती । इति शब्दमाला ॥

पुण्यं, क्ली, (पूयतेऽनेनेति । पू + “पूङो यण्णुक्

ह्नस्वश्च ।” उणा० ५ । १५ । इति यत् णुगागमो
ह्नस्वश्च ।) शुभादृष्टम् । तत्पर्य्यायः । धर्म्मम् २
श्रेयः ३ सुकृतम् ४ वृषः ५ । इत्यमरः । १ । ४ । २४ ॥
पुण्यभारवोढुमशक्तस्य पण्डितस्य निन्दा यथा,
अग्निपुराणे ।
“पण्डितेनापि किन्तेन समर्थेन च देहिनाम् ।
यत् पुण्यं भारमुद्वोढुमशक्तं पारलौकिकम् ॥”
आत्मकृतपुण्यकथननिषेधो यथा, --
“इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात् ।
श्लाघानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते ॥
तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्तयेत् ॥”
इति शुद्धितत्त्वे देवलः ॥ * ॥
अदत्तपुण्यभागित्वं पापशब्दे द्रष्टव्यम् ॥ * ॥
शोभनकर्म्म । पावनम् । सुन्दरे, त्रि । इति
हेमचन्द्रः ॥ सुगन्धि । इति जटाधरः ॥

पुण्यकं, क्ली, (पुण्याय कायतीति । कै + कः ।)

व्रतम् । तच्च उपवासादि । शास्त्रे पुण्यत्वेन
पवित्रताजनकत्वेन यद्बोधितमुपवासादि तदेव
व्रतं न तु यः कोऽपि नियमः । आदिना नक्तं
भोजनाक्षारलवणादिपरिग्रहः । इत्यमरभरतौ ॥

पुण्यकव्रतं, क्ली, (पुण्यकं व्रतमिति ।) पतिसौभा-

ग्यस्य श्रीकृष्णतुल्यपुत्त्रस्य च जनकः स्त्रीकर्त्तव्य-
नियमविशेषः । तस्य विधिर्यथा, --
महादेव उवाच ।
“हरेराराधनं कृत्वा व्रतं कुरु वरानने ! ।
व्रतञ्च पुण्यकं नाम वर्षमेकं करिष्यसि ॥
देवि ! शुद्धे च कालेऽत्र परं नियमपूर्ब्बकम् ।
माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये ! ॥
गात्रं सुनिर्म्मलं कृत्वा शिरःसंस्कारपूर्ब्बकम् ।
उपोष्य पूर्ब्बदिवसे वस्त्रं प्रक्षाल्य यत्नतः ॥
धौते च वाससी धृत्वा उपविश्यासने शुचौ ।
आचम्य तिलकं कृत्वा निर्व्वाप्य आह्निकं पुरः ॥
घटस्यारोपणं कृत्वा स्वस्तिवाचनपूर्ब्बकम् ॥
पुरोहितस्य वरणं पुरः कृत्वा प्रयत्नतः ।
संकल्प्य वेदविहितं व्रतमेतत् समाचरेत् ॥
व्रते द्रव्याणि नित्यानि चोपहाराणि षोडश ।
देयानि नित्यं देवेशि ! कृष्णाय परमात्मने ।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥
मधुपर्कश्च स्नानीयं वस्त्राण्याभरणानि च ।
सुगन्धिपुष्पं धूपश्च दीपनैवेद्यवन्दनम् ॥
यज्ञसूत्रञ्च ताम्बूलं कर्पू रादिसुवासितम् ।
द्रव्याण्येतानि पूजायाश्चाङ्गरूपाणि सुन्दरि ! ॥
देवि ! किञ्चिद्बिहीनेनैवाङ्गहानिः प्रजायते ।
अङ्गहीनञ्च यत् कर्म्म चाङ्गहीनो यथा नरः ॥
अङ्गहीने च कार्य्ये च फलहानिः प्रजायते ।
अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे ।
देयं प्रतिदिनं दुर्गे ! स्वात्मनो रूपहेतवे ॥
श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् ।
प्रदेयं हरये भक्त्या बहुसौन्दर्य्यहेतवे ॥
नीलोत्पलानां लक्षञ्च देयं कृष्णाय भक्तितः ।
व्रताङ्गभूतं देवेशि ! चक्षुषो रूपहेतवे ॥
हिमालयोद्भवं लक्षं रुचिरं श्वेतचामरम् ।
प्रददौ केशवायैव केशसौन्दर्य्यहेतवे ॥
अमूल्यरत्नरचितं दर्पणानां सहस्रकम् ।
देयं नारायणायैव नाभिसौन्दर्य्यहेतवे ॥
अमूल्यरत्नरचितं पुटकानां सहस्रकम् ।
प्रदेयं गोपिकेशाय नासिकारूपहेतवे ॥
बन्धूकपुष्पलक्षञ्च देयं राधेश्वराय च ।
स्वस्यौष्ठाधरयोश्चैव बहुसौन्दर्य्यहेतवे ॥
मुक्ताफलानां लक्षञ्च दन्तसौर्य्यहेतवे ।
देयं गोलोकनाथाय शैलजे ! भक्तिपूर्ब्बकम् ॥
रत्नगेण्डूकलक्षञ्च गण्डसौन्दर्य्यहेतवे ।
मदीश्वराय दातव्यं व्रते शैलेन्द्रकन्यके ! ॥
रत्नपाषकलक्षञ्च देयं ब्रह्मेश्वराय च ।
ओष्ठाधःस्थलरूपाय प्राणेशि ! भक्तितो व्रते ॥
कर्णभूषणलक्षञ्च रत्नसारविनिर्म्मितम् ।
देयं सर्व्वेश्वरायैव कर्णसौन्दर्य्यहेतवे ॥
माध्वीककलसानाञ्च लक्षं रत्नविनिर्म्मितम् ।
देयं विश्वेश्वरायैव स्वरसौन्दर्य्यहेतबे ॥
सुधापूर्णञ्च कुम्भानां सहस्रं रत्ननिर्म्मितम् ।
देयं कृष्णाय देवेशि ! वाक्यसौन्दर्य्यहेतवे ॥
रत्नप्रदीपलक्षञ्च गोपवेशविधायिने ।
देयं किशोरवेशाय दृष्टिसौन्दर्य्यहेतवे ॥
धुस्तूरकुसुमाकारं रत्नपात्रसहस्रकम् ।
देयं गोरक्षकायैव गलसौन्दर्य्यहेतवे ॥
सद्रत्नसाररचितं पद्मनालसहस्रकम् ।
देयं तन्तुकपालाय बाहुसौन्दर्य्यहेतवे ॥
लक्षञ्च रक्तपद्मानां कक्षसौन्दर्य्यहेतवे ।
देयं गोपाङ्गनेशाय नारायणि ! हरिव्रते ॥
अङ्गुरीयकलक्षञ्च रत्नसारविनिर्म्मितम् ।
अङ्गुलीनाञ्च रूपार्थं देयं देवेश्वराय च ॥
मणीन्द्रसारलक्षञ्च श्वेतवर्णं मनोहरम् ।
देयं मुनीन्द्रनाथाय नखसौन्दर्य्यहेतवे ॥
सद्रत्नसारहाराणां लक्षञ्चातिमनोहरम् ।
देयं मदनमोहाय वक्षःसौन्दर्य्यहेतवे ॥
सुपक्वश्रीफलानाञ्च लक्षञ्च सुमनोहरम् ।
देयं सिद्धेन्द्रनाथाय स्तनसौन्दर्य्यहेतवे ॥
सद्रत्नवर्त्तुलाकारं लक्षपात्रं मनोहरम् ।
देयं पद्मालयेशाय देहस्य रूपहेतवे ॥
सद्रत्नसाररचितनाभीनालसहस्रकम् ।
प्रदेयं पद्मनाभाय नाभिसौन्दर्य्यहेतवे ॥
सद्रत्नसाररचितरथचक्रसहस्रकम् ।
नितम्बसौन्दर्य्यार्थञ्च प्रदेयञ्चक्रपाणये ॥
सुवर्णरत्नकुम्भानां लक्षञ्च सुमनोहरम् ।
प्रदेयं श्रीनिवासाय श्रोणिसौन्दर्य्यहेतवे ॥
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम् ।
प्रदेयं पद्मनेत्राय पादसौन्दर्य्यहेतवे ॥
सुवर्णरचितानाञ्च खञ्जनानां सहस्रकम् ।
गतिसौन्दर्य्यहेत्वर्थं देयं लक्ष्मीश्वराय च ॥
राजहंससहस्रञ्च गजेन्द्राणां सहस्रकम् ।
सुवर्णच्छत्रलक्षञ्च देयं नारायणाय च ॥
पृष्ठ ३/१६६
विचित्रं रत्नसारेण मूर्द्ध्नः सौन्दर्य्यहेतवे ॥
मालतीनाञ्च कुसुममक्षतं लक्षमीश्वरि ! ।
देयं वृन्दावनेशाय हास्यसौन्दर्य्यहेतवे ॥
अमूल्यरत्नलक्षञ्च देयं नारायणाय वै ।
सुव्रते ! व्रतपूर्णार्थं शीलसौन्दर्य्यहेतवे ॥
शुद्धस्फटिकसङ्काशं मणीन्द्रसारलक्षकम् ।
देयं मुनीन्द्रनाथाय मनःसौन्दर्य्यहेतवे ॥
प्रवालसारसङ्काशं मणिसारसहस्रकम् ।
देयं कृष्णाय भक्त्या च प्रियानुरागवृद्धये ॥
माणिक्यसारलक्षञ्च देयं कृष्णाय यत्नतः ।
जन्मनः कोटिपर्य्यन्तं स्वामिसौभाग्यहेतवे ॥
कुष्माण्डं नारिकेलञ्च जम्बीरं श्रीफलं तथा ।
फलान्येतानि देयानि हरये पुत्त्रहेतवे ॥
रत्नेन्द्रसारलक्षञ्च देयं कृष्णाय यत्नतः ।
असंख्यजन्मपर्य्यन्तं स्वात्मनो धनवृद्धये ॥
वाद्यं नानाप्रकारञ्च कांस्यतालादिकं परम् ।
व्रते सम्पत्तिवृद्ध्यर्थं श्रीहरिं श्रावयेद्व्रती ॥
पायसं पिष्टकं सर्पिःशर्कराक्तं मनोहरम् ।
प्रदेयं हरये भक्त्या स्वात्मनो भोगवृद्धये ॥
सुगन्धिपुष्पमाल्यानां लक्षमक्षतमीप्सितम् ।
प्रदेयं हरये भक्त्या हरिभक्तिविवृद्धये ॥
नैवेद्यानि प्रदेयानि स्वादूनि मधुराणि च ।
श्रीकृष्णप्रीतिप्राप्त्यर्थं दुर्गे ! नानाविधानि च ॥
नानाविधानि पुष्पाणि तुलसीसंयुतानि च ।
श्रीकृष्णप्रीतये भक्त्या व्रते देयानि सुव्रते ! ॥
ब्राह्मणानां सहस्रञ्च प्रत्यहं भोजयेद्व्रती ।
स्वात्मनः शस्यवृद्ध्यर्थं व्रते जन्मनि जन्मनि ॥
पुष्पाञ्जलिशतं देयं नित्यं पूर्णञ्च पुजने ।
प्रणामशतकं देवि ! कर्त्तव्यं भक्तिवृद्धये ॥
षण्मासांश्च हविष्यान्नं मासान् पञ्च फलादिकम् ।
हविः पक्षं जलं पक्षं व्रते पक्षे च सुव्रते ! ॥
रत्नप्रदीपशतकं वह्निं दद्याद्दिवानिशम् ।
रात्रौ हुताशनं कृत्वा नित्यं जागरणं व्रते ॥
स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ॥
मैथुनं विविधं त्याज्यं व्रते क्रीडाविवृद्धये ।
ज्ञानवृद्धिर्जागरणे सुबुद्धिर्मितभोजने ॥
लोभमोहकामक्रोधभयशोकविवादकम् ।
कलहञ्च परित्याज्यं व्रते बन्धुविवृद्धये ॥
संपूर्णे च व्रते देवि ! प्रतिष्ठा तदनन्तरम् ॥
त्रिशतञ्च षष्ट्यधिकं डल्लकं वस्त्रसंयुतम् ।
सभोज्यं सोपवीतञ्च सोपहारं मनोहरम् ॥
त्रिशतञ्च षष्ट्यधिकं सहस्रं विप्रभोजनम् ।
त्रिशतञ्च षष्ट्यधिकं सहस्रं तिलहोमकम् ॥
त्रिशतञ्च षष्ट्यधिकं सहस्रं स्वर्णमेव च ।
देया व्रतसमाप्तौ च दक्षिणा विविधेरिता ।
अन्यां समाप्तिदिवसे कथयिष्यामि दक्षिणाम् ॥
एतद्व्रतफलं देवि ! दृढा भक्तिर्हरौ भवेत् ।
हरितुल्यो भवेत् पुत्त्रो विख्यातो भुवनत्रये ॥
सौन्दर्य्यं स्वामिसौभाग्यमैश्वर्य्यं विपुलं धनम् ।
सर्व्ववाञ्छितसिद्धीनां बीजं जन्मनि जन्मनि ॥
इव्येवं कथितं देवि ! व्रतं कुरु महेश्वरि ! ।
पुत्त्रस्ते भविता साध्वीत्युक्त्रा च विरराम ह ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३-४ । अध्यायौ ॥

पुण्यकृत्, त्रि, (पुण्यं करोति स्मेति । कृ + “सुकर्म्म-

पापमन्त्रपुण्येषु कृञः ।” ३ । २ । ८९ । इति क्विप् ।
“ह्नस्वस्य तुक् पिति कृति ।” ६ । १ । ७१ । इति
तुगागमश्च ।) पुण्यकर्त्ता । धार्म्मिकः । यथा,
“पुण्यकृच्चाटुकारस्ते किङ्करः सुरतेषु कः ॥”
इति भट्टिः । ५ । ६८ ॥

पुण्यगन्धः, पुं, (पुण्यः पवित्रो हृद्यश्च गन्धोऽस्य ।)

चम्पकः । इति त्रिकाण्डशेषः ॥

पुण्यजनः, पुं, (पुण्यः विरुद्धलक्षणया पापी चासौ

जनश्चेति ।) राक्षसः । इत्यमरः । १ । १ । ६३ ॥
यक्षः । (यथा, हरिवंशे । २ । २६ ।
“सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्व्वतैस्तथा ॥”
पुण्याश्रितो जनः ।) सज्जनः । इति मेदिनी ।
ने, १६८ ॥

पुण्यजनेश्वरः, पुं, (पुण्यजनानां यक्षाणामीश्वरः ।)

कुवेरः । इत्यमरः । १ । १ । ७३ ॥ (यथा,
रघुः । ९ । ६ ।
“समतया वसुवृष्टिविसर्जनैः
नियमनादसताञ्च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ
सवरुणावरुणाग्रसरं रुचा ॥”)

पुण्यतृणं, क्ली, (पुण्यं पवित्रं तृणम् ।) श्वेत-

कुशम् । इति राजनिर्घण्टः ॥

पुण्यदर्शनः, पुं, (पुण्यं शुभजनकं दर्शनं यस्य ।)

चाषपक्षी । इति राजनिर्घण्टः ॥ (यद्दर्शनेन
पुण्यं भवति तत्र, त्रि । यथा, रघुह् । १ । ८६ ।
“तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः ।
याज्यमाशंसिताबन्ध्यप्रार्थनं पुनरब्रवीत् ॥”)

पुण्यफलः, पुं, (पुण्यानि शुभानि फलानि यस्य ।)

वनभेदः । तत्पर्य्यायः । लक्ष्म्यारामः २ । इति
शब्दमाला ॥ (पुण्यस्य फलं पुण्यजन्यं फल-
मिति वा ।) धर्म्मजन्यफले, क्ली ॥ (यथा,
मनुः । ५ । ५३ ।
“वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥”)

पुण्यभाक्, [ज्] त्रि, (पुण्यं भजतीति । भज +

ण्विः ।) पुण्यविशिष्टः । यथा, पञ्चशायके ।
“क्रीडावन्तो विनीता लघुसुरतरताः पुण्यभाजः
शशाः स्युः ॥”

पुण्यभूः, स्त्री, (पुण्यस्य पुण्योत्पादिका वा भू-

र्भूमिः ।) आर्य्यावर्त्तदेशः । यथा, हेमचन्द्रे । ४ । १४ ।
“आर्य्यावर्त्तो जन्मभूमिर्जिनचक्र्यर्द्धचक्रिणाम् ।
पुण्यभूराचारवेदी मध्यं बिन्ध्यहिमालयोः ॥”

पुण्यभूमिः, स्त्री, (पुण्यस्य पुण्योत्पादिका वा

भूमिः ।) आर्य्यावर्त्तदेशः । इत्यमरः । २ । १ । ८ ॥
स तु बिन्ध्यहिमालयावधिमध्यदेशः । यथा, --
“आसमुद्रात्तु पूर्ब्बस्मादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्य्योरार्य्यावर्त्तं विदुर्बुधाः ॥”
इति भरतधृतमधुः ॥
पुत्त्रसूः । इति शब्दरत्नावली ॥

पुण्यवान्, [त्] त्रि, (पुण्यमस्यास्तीति । पुण्य +

मतुप् । मस्य वः ।) पुण्ययुक्तः । तत्पर्य्यायः ।
सुकृती २ धन्यः ३ । इत्यमरः । ३ । १ । ३ ॥ सुकृत् ४
पुण्यकृत् ५ । इति जटाधरः ॥ धर्म्मवान् ६ श्रेय-
स्वान् ७ वृषवान् ८ । एते पुण्यपर्य्यायकशब्दो-
त्तरवतुप्रत्ययेन निष्पन्नाः ॥ (यथा, महा-
भारते । १२ । २९७ । २८ ।
“ऊर्द्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप ! ।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्म्मणाम् ॥”)

पुण्यश्लोकः, पुं, (पुण्यः पुण्यदायकः श्लोको यश-

श्चरित्रं वा यस्य ।) विष्णुः । इति श्रीभाग-
वतम् ॥ युधिष्ठिरः । इति महाभारतम् ॥ नल-
राजः । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते । ३ । ७४ । ११ ।
“पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः ॥”)
पुण्यचरित्रे, त्रि ॥ (यथा, भागवते । १ । १४ । १ ।
“संप्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।
ज्ञातुञ्च पुण्यश्लोकस्य कृष्णस्य च विचेष्ठितम् ॥”)

पुण्यश्लोका, स्त्री, (पुण्यः पुण्यजनकः श्लोको यश-

श्चरित्रं वा यस्याः ।) द्रौपदी । इति शब्द-
माला ॥ सीता । यथा, --
“पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्द्द्नः ॥”
इति पुराणम् ॥

पुण्या, स्त्री, (पुणाति या पूयतेऽनयेति वा । पू +

“पूङो यण्णुक् ह्नस्वश्च ।” उणा० ५ । १५ । इति
यत् णुक् ह्नस्वश्च धातोः । ततष्टाप् ।) तुलसी ।
इति शब्दमाला ॥ पुण्यजनिका च ॥

पुण्यात्मा, त्रि, (पुण्यः आत्मा स्वभावो यस्य ।)

पुण्यस्वभावः । तस्य गत्यादिर्यथा, --
सुप्रज्ञोवाच ।
“शृणु विप्र ! प्रवक्ष्यामि यत्त्वया श्रोतुमिष्यते ।
पुण्यात्मनां पापिनाञ्च पन्थानं सुखदुःखदम् ॥
आदौ ब्रवीमि पन्थानं नृणां पुण्यवतामहम् ।
शृणुष्व द्विजशार्द्दूल ! शृण्वतां प्रीतिवर्द्धनम् ॥
प्रस्तरैरिष्टकैर्बद्धो दिव्यवस्त्रैः समावृतः ।
भाति पुण्यात्मनां पन्थाः सर्व्वोपद्रववर्ज्जितः ॥
क्वचिद्गन्धर्व्वकन्याभिर्गीयते गानमुत्तमम् ।
क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ॥
क्वचिच्च वीणाक्वणनं नानावाद्यं मनोहरम् ।
क्वचित् कुसुमवृष्टिश्च क्वचिद्वायुः सुशीतलः ॥
क्वचित् पुष्पाः शीततोयाः कुत्रचित् भक्त-
शालिकाः ।
क्वचिद्देवाश्च गन्धर्व्वाः पठन्ति स्तवमुत्तमम् ॥
क्वचित् क्वचिद्दीर्घिकाश्च फुल्लपद्मसुशोभिताः ।
सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः ॥
समस्तसुखसम्पन्ने पथि गच्छन्ति मानवाः ।
पुण्यात्मानो द्विजश्रेष्ठ ! सुखमृत्युमवाप्य च ॥
केचित्तुरङ्गमारूढा नानालङ्कारभूषिताः ।
उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृतमस्तकाः ॥
केचिद्यान्ति गजारूढा रथारूढाश्च केचन ।
यानारूढा जनाः केचित् मुखेन यममन्दिरम् ॥
पृष्ठ ३/१६७
केचिद्देवाङ्गनाहस्तन्यस्तचामरवायुभिः ।
गच्छन्ति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ॥
केचिद्दिव्याङ्कनधराः सुचन्दनविभूषिताः ।
भुञ्जन्तो यान्ति ताम्बूलं पुण्यात्मानो यमालयम् ॥
निजगात्रत्विषा केचिज्ज्वालयन्तो दिशो दश ।
व्रजन्ति शमनागारं चलद्गृहनिवासिनः ॥
केचिच्च पायसं दिव्यं भुञ्जन्तो यान्ति सत्तमाः ।
सुधापानं प्रकुर्व्वन्तः पथि गच्छन्ति केचन ॥
केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा ।
केचित्तक्रं पिबन्तश्च गच्छन्ति यममन्दिरम् ॥
केचिद्दधीनि खादन्तः केचिन्नानाफलानि च ।
केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै ॥
तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् ।
भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥
चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः ।
शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥
स्वर्णयज्ञोपवीती च स्मेरचारुतराननः ।
किरीटी कुण्डली चैव वनमालाविभूषितः ॥
चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्कराः ।
सर्व्वे नारायणाकारा बभूवुर्मधुरोक्तयः ॥
ततः स्वयं धर्म्मराजस्तान् सर्व्वान्मनुजोत्तमान् ।
परमां प्रीतिमासाद्य मित्रवत् पूजयेद्द्विज ! ॥
दिव्यैर्व्वन्यैः फलैश्चैव तेषां पुण्यवतां नृणाम् ।
भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ॥
यम उवाच ।
यूयं सर्व्वे महात्मानो नरकक्लेशभीरवः ।
निजपुण्यप्रभावेन गम्यतां परमं पदम् ॥
संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः ।
स मे पिता स मे भ्राता स मे बन्धुः स मे सुहृत् ॥
इत्युक्ता धर्म्मराजेन ते सर्व्वे द्विजसत्तम् ! ।
दिव्यं रथं समारुह्य नारायणपुरं ययुः ॥”
इति पाद्मोत्तरे क्रियायोगसारे २२ अध्यायः ॥

पुण्याहं, क्ली, (पुण्यञ्च तदहश्चेति । “राजाहः-

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।
“उत्तमैकाभ्याञ्च ।” ५ । ४ । ९० । इति अह्ना-
देशो न ।) पुण्यदिनम् । इत्यमरः ॥ (यथा,
अमरुशतके । ६१ ।
“पुण्याहं व्रजमङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रियतम ! त्वं निर्गतः
श्रोष्यसि ॥”)

पुण्याहवाचनं, क्ली, (पुण्याहस्य वाचनम् ।)

दैवादिकर्म्मादौ मङ्गलार्थं पुण्याहमितिशब्दस्य
वारत्रयकथनम् । यथा, --
“पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।
एतदेव निरोङ्कारं कुर्य्यात् क्षत्त्रियवैश्ययोः ॥
सोङ्कारं ब्राह्मणे ब्रूयात् निरोङ्कारं महीपतौ ।
उपांशु च तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत् ॥”
इत्युद्वाहतत्त्वे यमः ॥

पुत्त, गतौ ॥ (भ्वां-परं-सकं-सेट् ।) तद्वयान्तः ।

पुत्तिका । सौत्रधातुरयम् । इति दुर्गादासः ॥

पुत्तलकः, पुं, (पुत्त गतौ + भावे घञ् । पुत्तं गमनं

लाति अन्यस्मादिति । ला + कः । ततः संज्ञायां
कन् । अन्याश्रयेणैव हि गमनादिक्रियावत्त्वादस्य
तथात्वम् ।) पत्रादिनिर्म्मितप्रतिमूर्त्तिः । पुतुल
इति भाषा । यथा, “आचारात् योग्यत्वाच्च
शरपत्रैः पुत्तलकं कृत्वा शिरःप्रभृतिषु पलाश-
पत्राणि देयानि ।” इति शुद्धितत्त्वम् ॥

पुत्तलिका, स्त्री, तृणकाष्ठमृदश्मधातुरत्नादि-

निर्म्मितप्रतिमूर्त्तिः । पुत्तली एवेति स्वार्थे कनि
ईकारस्य ह्नस्वे टापि निष्पन्ना ॥

पुत्तली, स्त्री, (पुत्तं गमनं लाति अन्याश्रयेणेति ।

ला + कः । ततो ङीष् ।) मृदादिनिर्म्मितप्रति-
मूर्त्तिः । यथा, उत्तरकामाख्यातन्त्रे ॥
“अमावास्यां समासाद्य मध्यरात्रौ विचक्षणः ।
मृण्मयीं पुत्तलीं कृत्वा दीपादिभिरलङ्कृताम् ॥”

पुत्तिका, स्त्री, (पुत्तं इतस्ततो भ्रमणमस्त्यस्या

इति । पुत्त + ठन् । ततष्टाप् ।) मधुमक्षिका-
विशेषः । तत्पर्य्यायः । पतङ्गिका २ । इत्यमरः ।
२ । ५ । २७ ॥ (पिपीलिकाप्रभेदः । यथा,
मनुः । ४ । २३८ ।
“धर्म्मं शनैः सञ्चिनुयात् वल्मीकमिव पुत्तिकाः ।
परलोकसहायार्थं सर्व्वभूतान्यपीडयन् ॥”)

पु(त्र)त्त्रः, पुं, लग्नात् पञ्चमस्थानम् । यथा, --

“पुत्त्रस्थेऽर्के नरोऽसौ प्रथमसुतहतः सिंहराशौ
सुपुत्त्रः ॥”
इत्यादि ज्योतिस्तत्त्वम् ॥
(पुनाति पित्रादीनिति । पू + “पुवो ह्नस्वश्च ।”
उणा ०४ । १६४ । इति क्त्रः धातोर्ह्नस्वत्वञ्च ।
तकारद्वये तु पुन्नामनरकात् त्रायते इति । पुत् +
त्रै + डः । पितॄन् पातीति व्युत्पत्या पृषोदरा-
दित्वात् साधुः । इति रामायणे । २ । १०७ । १२ ।
श्लोकटीकायां रामानुजः ।) पुंसन्तानः । पुन्नाम-
नरकत्राता । पुत इति वेटा इति च भाषा ।
तत्पर्य्यायः । आत्मजः २ तनयः ३ सूनुः ४
सुतः ५ । इत्यमरः । २ । ६ । २७ ॥ तनूजः ६
अपत्यम् ७ दायादः ८ कुलाधारकः ९ नन्दनः
१० आत्मजन्मा ११ द्वितीयः १२ प्रसूतिः १३
स्वजः १४ । इति शब्दरत्नावली ॥ अस्य
निरुक्तिर्यथा, --
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्त्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥”
इति महाभारते । १ । ७४ । ३७ ॥
(यथा च रामायणे । २ । १०७ । १२ ।
“पुन्नाम्नो नरकात् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्त्र इति प्रोक्तः पितॄन् यः पाति
सर्व्वतः ॥”)
स च द्वादशविधः यथा, --
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयन्दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥” * ॥
तेषां लक्षणानि यथा, --
“स्वे क्षेत्रे संस्कृतायान्तु स्वयमुत्पादयेद्धि यम् ।
तमौरसं विजानीयात् पुत्त्रम्प्रथमकल्पितम् ॥ १ ॥
यस्तल्पजः प्रमीतस्य क्लीवस्य व्याधितस्य वा ।
स्वधर्म्मेण नियुक्तायां स पुत्त्रः क्षेत्रजः स्मृतः ॥ २ ॥
माता पिता वा दद्यातां यमद्भिः पुत्त्रमापदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥ ३ ॥
सदृशन्तु प्रकुर्य्याद्यं गुणदोषविचक्षणम् ।
पुत्त्रं पुत्त्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ ४ ॥
उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ ५ ॥
भातापितृभ्यामुत्सृष्टन्तयोरन्यतरेण वा ।
यं पुत्त्रं परिगृह्णीयादपविद्धः स उच्यते ॥ ६ ॥
पितृवेश्मनि कन्या तु यं पुत्त्रञ्जनयेद्रहः ।
तं कानीनं वदेन्नाम्ना वोढः कन्यासमुद्भवम् ॥ ७ ॥
या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वासती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ ८ ॥
क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ ९ ॥
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।
उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥ १० ॥
मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
आत्मानं स्पर्शयेद्यस्मै स्वयं दत्तस्तु स स्मृतः ॥ ११
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् ।
स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥ १२ ॥
क्षेत्रजादीन् सुतानेनानेकादश यथोदितान् ।
पुत्त्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥”
इति मानवे ९ अध्यायः ॥ * ॥
चतुर्व्विधपुत्त्रा यथा, --
सुमना उवाच ।
“ऋणसम्बन्धिनः केचित् केचिन्न्यासापहारकाः ।
रिपवश्च प्रियाश्चेति स्वकर्म्मवशवर्त्तिनः ॥
भेदैश्चतुर्भिर्जायन्ते पुत्त्रा मित्राः स्त्रियस्तथा ।
भार्य्या पिता च माता च भृत्याः स्वजनबान्धवाः ॥
स्वेन स्वेन हि जायन्ते सम्बन्धेन महीतले ।
न्यासापहारभावेन यस्य यस्य कृतं भुवि ॥
न्यासस्वामी भवेत् पुत्त्रो गुणवान् रूपवान् भुवि ।
येन चापहृतं न्यासं तस्य गेहे न संशयः ॥
न्यासापहरणाद्दुःखं स दत्त्वा दारुणं गतः ।
न्यासस्वामी स पुत्त्रोऽभून्न्यासापहारकस्य च ॥
गुणवान् रूपवांश्चैव सर्व्वलक्षणसंयुतः ।
भक्तिञ्च दर्शयेत्तस्य पुत्त्रो भूत्वा दिने दिने ॥
प्रियवाक्यधरो वापि बहुस्नेहं प्रदर्शयेत् ।
स्वीयं द्रव्यं समुद्राढ्यं प्रीतिमुत्पाद्य चातुलाम् ॥
भुक्त्रा तु पोषणात्तेन तदादाय पुनर्व्रजेत् ।
यथा तेन प्रदत्तं तन्न्यासापहरणात् पुरा ॥
दुःखमेवं महत् कृत्वा दारुणं प्राणनाशनम् ।
तादृशं तस्य दद्यात् स पुत्त्रो भूत्वा महागुणैः ॥
अल्पायुषस्तथा भूत्वा मरणं यान्ति ते तथा ।
दुःखं दत्त्वा प्रयान्त्येवं प्रकृत्यैवं पुनः पुनः ॥
यदाह पुत्त्र पुत्त्रेति प्रलापं हि करोति सः ।
तदा हास्यं करोत्येष कः स पुत्त्रो हि कस्य च ॥
अनेनापि कृतं न्यासं मदीयं परिचारिणा ।
द्रव्यापहारोऽपि पिता पूर्ब्बमद्यैव तस्य च ॥
पिशाचत्वं मया दत्तमद्यैव हि दुरात्मनः ।
पृष्ठ ३/१६८
द्रव्यापहरणेनापि मम प्राणा गताः किल ॥
दुःखेन महता चैव यदाहं पीडितः पुरा ।
तथा दुःखं प्रदत्त्वाहं द्रव्यं मुद्राढ्यमुत्तमम् ॥
भोगेन सर्व्वमादाय चिराद्विश्वास्य सौम्यवत् ।
गतोऽस्मि स्वगृहञ्चाद्य कस्याहं सुत ईदृशः ॥
न चैषोऽपि पिता पूर्ब्बमद्यैव न च कस्यचित् ।
पिशाचत्वं मया दत्तमद्यैव च दुरात्मनः ॥
एवमुक्त्रा प्रयात्येव तं प्रहस्य पुनः पुनः ।
प्रयात्यनेन मार्गेण दुःखं दत्त्वा सुदारुणम् ॥
एवं न्यासस्य सम्बन्धात् पुत्त्राः किन्ते भवन्ति वै ।
संसारे दुःखबहुला दृश्यन्ते यत्र तत्र हि ॥ १ ॥
ऋणसम्बन्धिनः पुत्त्रान् प्रवक्ष्यामि तवाग्रतः ।
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ॥
अन्नदाता सुतो भूत्वा भ्राता वाथ पिता प्रियः ।
मित्ररूपेण वर्त्तेत अन्तर्द्दष्टः सदैव सः ॥
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः ।
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ॥
नित्यं मिष्टं समश्नाति भोगान् भुञ्जीत नित्यशः ।
द्यूतकर्म्मरतो नित्यं चौरकर्म्मणि नित्यशः ॥
गृहाद्द्रव्यं बलाद्धर्त्ता वार्य्यमाणः प्रकुप्यति ।
पितरं मातरञ्चैव कुत्सते च दिने दिने ॥
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः ।
वञ्चयित्वैव मुद्राञ्च हृत्वा सुखेन तिष्ठति ॥
जातकर्म्मादिभिर्ब्बाल्ये द्रव्यं गृह्णाति दारुणः ।
पुनर्व्विवाहसंयोगान्नानाभेदैरनेकधा ॥
एवं संक्षीयते द्रव्यं नैवमेतद्ददात्यपि ।
गृहक्षेत्रादिकं सर्व्वं ममैव हि न संशयः ॥
पितरं मातरञ्चैव वदत्येवं दिने दिने ।
सुदण्डैर्मुषलैश्चैव कषाघातैस्तु दारुणैः ॥
मृते तु तस्मिन् पितरि तथा मातरि निष्ठुरम् ।
निःस्नेहो निर्घृणश्चैव जायते नात्र संशयः ॥
श्राद्धकार्य्याणि दानानि न करोति कदाचन ।
एवंविधास्त्रयः पुत्त्रा भवन्ति च महीतले ॥ २ ॥
रिपुपुत्त्रं प्रवक्ष्यामि तवाग्रे द्विजपुङ्गव ! ।
बाल्ये वयसि संप्राप्ते रिपुवद्वर्त्तते सदा ॥
पितरं मातरञ्चैव क्रीडमानो हि ताडयेत् ।
ताडतित्वा प्रयात्येवं प्रहस्यैव पुनः पुनः ॥
पुनरायाति तं तत्र पितरं मातरं पुनः ।
सक्रोधो वर्त्तते नित्यं वैरकर्म्मणि सर्व्वदा ॥
पितरं मारयित्वा तु मातरञ्च पुनः पुनः ।
प्रयात्येवं स दुष्टात्मा पूर्ब्बवैरानुभावतः ॥ ३ ॥ * ॥
अथातः संप्रवक्ष्यामि यस्माल्लभ्यो भवेत् प्रियः ।
जातमात्रः प्रियं कुर्य्याद्बाल्ये नटनक्रीडनैः ॥
वयः प्राप्य प्रियं कुर्य्यान्मातापित्रोरनन्तरम् ।
भक्त्या संतोषयेन्नित्यं तावुभौ परिपालयेत् ॥
स्नेहेन वचसा चैव प्रियसम्भाषणेन च ।
मृधौ गुरू समाज्ञाय स्नेहेन रुदते पुनः ॥
श्राद्धकर्म्माणि सर्व्वाणि पिण्डदानादिकां क्रियाम् ।
करोत्येवं सुदुःखात्तस्तेभ्यो यात्रां प्रयच्छति ॥
ऋणत्रयान्वितः स्नेहान्निर्य्यापयति निश्चितः ।
यस्माल्लभ्यं भवेत् कान्त प्रयच्छति न संशयः ।
पुत्त्रो भूत्वा महाप्राज्ञः अनेन विधिना किल ॥ ४ ॥
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय ! साम्प्रतम् ॥
उदासीनेन भावेन सदैव परिवर्त्तते ।
ददाति नैव गृह्णाति न क्रुध्यति न तुष्यति ॥
नैवोपयाति संत्यज्य उदासीनो द्विजोत्तम ! ।
तवाग्रे कथितं सर्व्वं पुत्त्राणां गतिरीदृशी ॥
यथा पुत्त्रास्तथा भार्य्या पिता माताथ बान्धवाः ।
भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा ।
गजा महिष्यो दास्यश्च ऋणसम्बन्धिनस्त्वमी ॥” *
सुपुत्त्रलक्षणं यथा, --
वशिष्ठ उवाच ।
“पुत्त्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् ।
पुण्यप्रसक्तो यस्यात्मा सत्यधर्म्मरतः सदा ।
बुद्धिमान् ज्ञानसम्पन्नस्तपस्वी वाग्विदांवरः ॥
सर्व्वकर्म्मसु सन् धीरो वेदाध्ययनतत्परः ।
सर्व्वशास्त्रप्रवक्ता च देवब्राह्मणपूजकः ॥
याजकः सर्व्वयज्ञानां दाता त्यागी प्रियंवदः ।
विष्णुध्यानपरो नित्यं शान्तो दान्तः सुहृत्सदा ॥
पितृमातृपरो नित्यं सर्व्वस्वजनवत्सलः ।
कुलस्य तारको विद्वान् कुलस्य परिपोषकः ॥
एवं गुणैः सुसंयुक्तः सुपुत्त्रः सुखदायकः ॥” * ॥
पुत्त्रस्य जङ्गमतीर्थत्वं यथा, --
“सर्व्वतीर्थाद्वरं तीर्थं पुत्त्रतीर्थमुदाहृतम् ।
यद्वेणो वैष्णवद्वेषी सर्व्वधर्म्मबहिष्कृतः ॥
पृथुना पुत्त्रतीर्थेन पवित्रोऽगात् परं पदम् ॥
सत्पुत्त्रं परमं तीर्थं प्राप्य मुञ्चन्ति पूर्ब्बजाः ।
पितापि ऋणमुक्तः स्याज्जाते पुत्त्रे महात्मनि ॥”
वैष्णवपुत्त्रस्य पूर्ब्बपुरुषत्रातृत्वं यथा, --
“वैष्णवो यदि पुत्त्रः स्यात् सतारयति पूर्ब्बजान् ।
पितॄनधस्तना वंशास्तारयन्त्यतिपावनाः ॥” * ॥
कुपुत्त्रजनने पितॄणां नरकगमनं यथा, --
“तथा यदि कुपुत्त्रः स्यात्तेन मज्जन्ति पूर्ब्बजाः ।
सुघोरे नरके दीनाः शपन्ति च मुहुर्मुहुः ॥
यथा जलं कुप्लवेन तरन्मज्जति मूढधीः ।
तथा पिता कुपुत्त्रेण तमस्यन्धे निमज्जति ॥
जातमात्रे कुले जन्तौ संशेरते पितामहाः ।
किमेषोऽधो नयेदस्मानूर्द्ध्वं वा वैष्णवो भवन् ॥”
इति पाद्मे भूमिखण्डे ११ । १२ । १८ । १२० ।
अध्यायाः ॥ * ॥
सप्तविधपुत्त्रा यथा, --
“वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा ।
विद्यामन्त्रसुतानाञ्च ग्रहीता सप्तमः सुतः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः ॥ * ॥
पुत्त्रमुखदर्शने पुण्यं यथा, --
पार्व्वत्युवाच ।
“गृहमागत्य प्राणेश ! तपसां फलदायकम् ।
कल्पे कल्पे ध्यासते यं तं पश्यागत्य मन्दिरम् ॥
शीघ्रं पुत्त्रमुखं पश्य पुण्यबीजं महोत्सवम् ।
पुन्नामनरकत्राणकारणं भवतारणम् ॥
स्नातञ्च सर्व्वतीर्थेषु सर्व्वयज्ञेषु दक्षिणा ।
पुत्त्रस्य दर्शनस्यास्य कलां नार्हन्ति षोडशीम् ॥
सर्व्वदानेन यत् पुण्यं यत् पृथिव्याः प्रदक्षिणम् ।
पुत्त्रदर्शनपुण्यस्य कलां नार्हन्ति षोडशीम् ॥
सर्व्वैस्तपोभिर्यत् पुण्यं यदेवानशनर्व्रतैः ।
सत्पुत्त्रोद्भवपुण्यस्य कलां नार्हन्ति षोडशीम् ॥
यद्विप्रभोजनैः पुण्यं यदेव सुरसेवनैः ।
सत्पुत्त्रप्राप्तिपुण्यस्य कलां नार्हन्ति षोडशीम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ९ अध्यायः ॥ * ॥
पुत्त्रोत्सवविधिर्यथा, --
“परं पुत्त्रोत्सवं नन्दश्चकार परमादरात् ।
ददौ यशोदा गोपीभ्यो ब्राह्मणेभ्यो ददौ मुदा ।
धनानि नानावस्तूनि तैलसिन्दूरमेव च ॥”
अपि च ।
“नन्दः सचेलः स्नात्वा च धृत्वा धौते च वाससी ।
पारम्पर्य्यविधं तत्र चकार हृष्टमानसः ॥
ब्राह्मणान् भोजयामास कारयामास मङ्गलम् ।
वाद्यानि वादयामास वन्दिभ्यश्च ददौ धनम् ॥
ततो नन्दश्च सानन्दं ब्राह्मणेभ्यो ददौ धनम् ।
सद्रत्नानि प्रवालानि हीरकाणि च सादरम् ॥
तिलानां पर्व्वतान् सप्त सुवर्णं काञ्चनं मुने ! ।
रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम् ॥
दधि दुग्धं शर्कराञ्च नवनीतं घृतं मधु ।
मिष्टान्नं लड्डुकौघञ्च स्वादूनि मोदकानि च ॥
भूमिञ्च सर्व्वशस्याढ्यां वायुवेगांस्तुरङ्गमान् ।
ताम्बूलानि च तैलानि दत्त्वा हृष्टो बभूव ह ॥”
पुत्त्रप्रशंसा यथा, --
“धनं धान्यञ्च रत्नं वा तत् सर्व्वं पुत्त्रहेतुकम् ।
न भक्षितं यत् पुत्त्रेण तद्द्रव्यं निष्फलं भुवि ॥
शतकूपाधिका वापी शतवापीसमं सरः ।
सरःशताधिको यज्ञः पुत्त्रो यज्ञशताद्बरः ॥
तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम् ।
सुखप्रदोऽपि सत्पुत्त्रः प्राणेभ्योऽपि सुनिश्चितम् ।
पुत्त्रादपि परो बन्धुर्न भूतो न भविष्यति ॥”
पुत्त्रात् पराजये आनन्दयुक्तत्वं यथा, --
“नन्दः सपुलको हृष्टः सभायां साश्रुलोचनः ।
आनन्दयुक्ता मनुजा यदि पुत्त्रैः पराजिताः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९ । १४ । २१
अध्यायाः ॥ * ॥
बहवः पुत्त्राः काम्याः । यथा, --
“एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
यजेद्वा चाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥”
मातापित्रोराज्ञाकारिकनिष्ठपुत्त्रस्यापि राज्य-
भागित्वं यथा, --
ययातिरुवाच ।
“पुत्त्रो यस्त्वनुवर्त्तेत स राजा पृथिवीपतिः ।
भवन्तः प्रतिजानन्तु पुरू राज्येऽभिषिच्यताम् ॥
प्रकृतयः ऊचुः ।
यः पुत्त्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ।
सर्व्वं सोऽर्हति कल्याणं कनीयानपि स प्रभुः ॥”
इति मात्स्ये २२ । ३४ अध्यायौ ॥ * ॥
सत्पुत्त्रोत्पत्तिमात्रेण पुन्नामनरकत्राणं स्वर्ग-
गमनञ्च । यथा, --
“सत्पुत्त्रेण मुनिश्रेष्ठाः समुत्पन्नेन दुर्म्मतिः ।
उत्ततारान्वियात् स्वर्गं पुन्नामनरकाद्द्रुतम् ॥”
इत्यग्निपुराणम् ॥
पृष्ठ ३/१६९
अपि च ।
“सत्पुत्त्रेण च जातेन वेणोऽपि त्रिदिवं ययौ ।
पुन्नामनरकात्त्रातः स तेन सुमहात्मना ॥”
इति विष्णुपुराणे । १ । १३ । ४१ ॥ * ॥
विद्यादिरहितस्य पुत्त्रस्य निन्दा यथा, --
“तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्त्रेण जातेन यो न विद्वान्न धार्म्मिकः ॥
एकेनापि सुपुत्त्रेण विद्यायुक्तेन धीमता ।
कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ॥
एकेनापि सुवृक्षेण पुष्पितेन सगन्धिना ।
वनं सुवासितं सर्व्वं सुपुत्त्रेण कुलं यथा ॥
एको हि गुणवान् पुत्त्रो निर्गुणेन शतेन किम् ।
चन्द्रो हन्ति तमांस्येको न च ज्योतिः सहस्रशः ॥
लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्त्रं मित्रवदाचरेत् ॥
जायमानो हरेद्दारान् वर्द्धमानो हरेद्धनम् ।
म्रियमाणो हरेत् प्राणान् नास्ति पुत्त्रसमो रिपुः ॥
शौर्य्ये तपसि दाने वा यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥”
इति गारुडे ११४ । ११५ अध्यायौ ॥ * ॥
स च मध्यमोत्तमाधमभेदेन त्रिविधः । यथा, --
“यदुपात्तं यशः पित्रा धनं वीर्य्यमथापि वा ।
तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥
तद्वीर्य्याभ्यधिकं यस्तु पुनरन्यत् स्वशक्तितः ।
निष्पादयति तं प्राज्ञा वदन्ति नरमुत्तमम् ॥
यः पित्रा समुपात्तानि धनवीर्य्ययशांसि च ।
न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम् ॥”
इति मार्कण्डेयपुराणम् ॥ * ॥
अपि च ।
“उत्तमश्चिन्तितं कुर्य्यात् प्रीक्तकारी च मध्यमः ।
अधमोऽश्रद्धया कुर्य्यादकर्त्तोच्चरितं पितुः ॥”
इति महाभारतम् ॥
(अनुरूपपुत्त्रप्राप्त्युपायो यथा, --
“ततः समाप्ते कर्म्मणि पूर्ब्बं दक्षिणपादमभि-
हरन्ती प्रदक्षिणमग्निमनु परिक्रामेत् ततो
ब्राह्मणान् स्वस्ति वाचयित्वा सह भर्त्राज्यशेषं
प्राश्नीयात् । पूर्ब्बं पुमान् पश्चात् स्त्री नचोच्छिष्ट-
मवशेषयेत् । ततस्तौ सह संवसेतामष्टरात्रं तथा-
विधपरिच्छदावेव तथेष्टं पुत्त्रं जनयेताम् । या तु
स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं
पुत्त्रमाशासीत । या वा कृष्णं कृष्णमृदुदीर्घकेशं
शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् । एष
एवानयोरपि होमविधिः किन्तु परिवर्हवर्ण-
वर्ज्यं स्यात् पुत्त्रवर्णानुरूपस्तु यथाशीरेव तयोः
परिवर्होऽन्यः कार्य्यः स्यात् । द्बिजेभ्यः शूद्रा तु
नमस्कारमेव कुर्य्यात् देवगुरुतपस्विसिद्धेभ्यश्च ।
या या च यथाविधं पुत्त्रमाशासीत तस्यास्तस्या-
स्तान्तां पुत्त्राशिषमनुनिशम्य तांस्तान् जन-
पदान् मनसानुपरिक्रामयेत् । ततो या या
येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्त्र-
माशासीत सा सा तेषां तेषां जनपदानामा-
हारविहारोपचारपरिच्छदाननुविधीयस्वेति
वाच्या स्यात् । इत्येतत् सर्व्वं पुत्त्राशिषां समृद्धि-
करं कर्म्म व्याख्यातम् ।”
“तथा च कुर्व्वती शनैः शनैः पूर्ब्बं प्रवाहेत
ततोऽनन्तरं बलवत्तरमिति तस्याञ्च प्रवाह-
माणायां स्त्रियः शब्दं कुर्य्युः प्रजाताः प्रजाता
धन्यं धन्यं पुत्त्रमिति तथास्या हर्षेणाप्यायन्ते
प्राणाः ।” इति चरके शारीरस्थानेऽष्टमेऽध्याये ॥)

पुत्त्रकः, पुं, (पुत्त्र + स्वार्थे संज्ञायामनुकम्पायां वा

कन् ।) पुत्त्रः । (यथा, विष्णुपुराणे । १ । ११ । २१ ।
तथापि दुःखं न भवान् कर्त्तुमर्हति पुत्त्रक ! ।
यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान् ॥”)
शरभः । धूर्त्तः । शैलविशेषः । वृक्षभेदः । इति
मेदिनी । के, १२४ ॥ पतङ्गकः । अनुकम्पान्वित-
जनः । इति शब्दरत्नावली ॥

पुत्त्रकन्दा, स्त्री, (पुत्त्रप्रदो कन्दोऽस्याः । अस्याः

कन्दस्य गर्भदोषनाशेन पुत्त्रदातृत्वात् तथात्वम् ।)
लक्ष्मणाकन्दः । इति राजनिर्घण्टः ॥

पुत्त्रका, स्त्री, (पुत्त्र + स्वार्थे संज्ञायां वा कन् ।

टाप् । “न यासयोः ।” ७ । ३ । ४५ । इत्यस्य
“सूतकापुत्त्रिकावृन्दारकानां वेति वक्तव्यम् ।”
इति वार्त्तिकोक्त्या ङीन इवर्णस्य पक्षेऽकारः ।)
पुत्त्रिका । इति शब्दरत्नावली ॥

पुत्त्रजीवः, पुं, (पुत्त्रं गर्भं जीवयतीति । जीवि +

अण् ।) वृक्षविशेषः । जियापुता इति भाषा ।
तत्पर्य्यायः । श्लीपदापहः २ । इति त्रिकाण्ड-
शेषः ॥ कुमारजीवः ३ पुत्त्रञ्जीवकः ४ । इति
रत्नमाला ॥ पवित्रः ५ गर्भदः ६ सुतजीवकः ७ ॥
अस्य गुणाः । हिमत्वम् । वृष्यत्वम् । श्लेष्मगर्भ-
जीवदातृत्वम् । चक्षुष्यत्वम् । पित्तशमनत्वम् ।
दाहतृष्णानिवारणत्वञ्च । इति राजनिर्घण्टः ॥
गुरुत्वम् । वातकारित्वम् । सृष्टमूत्रमलत्वम् ।
स्वादुत्वम् । पटुत्वम् । कटुत्वम् । इति भाव-
प्रकाशः ॥

पुत्त्रञ्जीवकः, पुं, (पुत्त्रं गर्भं जीवयतीति । जीवि

+ ण्वुल् । द्वितीयाया अलुक् ।) पुत्त्रजीवक
वृक्षः । इति रत्नमाला ॥ (यथा, सुश्रुते
चिकित्सितस्थाने १९ अध्याये ।
“अनेनैव विधानेन पुत्त्रञ्जीवकजं रसम् ।
प्रयुञ्जीत भिषक प्राज्ञः कालसात्म्यविभाग-
वित् ॥”)
पुत्त्रस्य जीवके, त्रि ॥

पुत्त्रदा, स्त्री, (पुत्त्रं गर्भं ददाति सेवनेनेति ।

दा + कः ।) बन्ध्याकर्कोटकी । लक्ष्मणाकन्दः ।
गर्भदात्रीक्षुपः । इति राजनिर्घण्टः ॥

पुत्त्रदात्री, स्त्री, (पुत्त्रं ददाति सेवनेनेति । दा +

तृच् + ङीप् । बन्ध्यादोषनाशित्वादस्यास्तथा-
त्वम् ।) मालवे प्रसिद्धो लताविशेषः । तत्-
पर्य्यायः । वातारिः २ भ्रमरी ३ श्वेतपुष्पिका ४
वृतपत्रा ५ अतिगन्धालुः ६ वेशीजाता ७ सुव
ल्लरी ८ । अस्या गुणाः । वातकटूष्णकफनाशि-
त्वम् । सुरभित्वम् । सर्व्वदा पथ्यत्वम् । बन्ध्या-
दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

पुत्त्रप्रदा, स्त्री, (पुत्त्रं प्रददाति सेवनेनेति । प्र +

दा + कः । टाप् ।) क्षविका । इति राज-
निर्घण्टः ॥

पुत्त्रभद्रा, स्त्री, (पुत्त्रस्य भद्रमस्या इति ।) बृह-

ज्जीवन्ती । इति राजनिर्घण्टः ॥

पुत्त्रशृङ्गी, स्त्री, (पुत्त्रं पवित्रं शृङ्गमिव पुष्प-

मस्याः । गौरादित्वात् ङीष् ।) अजशृङ्गी ।
इति राजनिर्घण्टः ॥

पुत्त्रश्रेणी, स्त्री, (पुत्त्राणां तत्सन्तानानां श्रेणि-

रत्र । ङीप् ।) मूषिकपर्णी । इति रत्नमाला ॥
(यथा, सुश्रुते सूत्रस्थाने ३८ अध्याये ।
“श्यामा महाश्यामा तृवृद्दन्ती शङ्खिनी
तिल्वककम्पिल्लकरम्यकक्रमुकपुत्त्रश्रेणीगवाक्षी
राजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः
सुवर्णक्षीरी चेति ॥”)

पुत्त्रसूः, स्त्री, (पुत्त्रं सूते इति । सू + क्विप् ।)

पुत्त्रजनिका । यथा, --
“पुत्त्रसूः पुण्यभूमिः स्याद्धनसूः पुत्त्रिकाप्रसूः ॥”
इति शब्दरत्नावली ॥

पुत्त्रान्नादः, त्रि, (पुत्त्रस्य अन्नं तदुपहृतमन्न-

मत्तीति । अद् + अण् ।) पुत्त्रान्नभोजी । तत्-
पर्य्यायः । कुटीचकः २ । इति त्रिकाण्डशेषः ॥

पुत्त्रिका, स्त्री, (पुत्त्री + स्वार्थेकन् टाप् । “केऽणः ।”

७ । ४ । १३ । इति ह्नस्वः ।) कन्या । तत्-
पर्य्यायः । आत्मजा २ दुहिता ३ पुत्त्री ४
तनुजा ५ सुता ६ अपत्यम् ७ पुत्त्रका ८ स्वजा ९
तनया १० नन्दिनी ११ । इति शब्दरत्नावली ॥
(यथा, पञ्चतन्त्रे । ३ । २२१ ।
“पुत्त्रिकाब्रवीत् । तात ! अतिदहनात्मकोऽयं
नाहमेनमभिलषामि ॥” पुत्त्रीव प्रतिकृति-
रस्या इति । पुत्त्री + “इवे प्रतिकृतौ ।” ५ ।
३ । १६ । इति कन् ह्नस्वश्च ।) पुत्तलिका ।
यावतूलकः । इति मेदिनी । के, १२४ ॥
(यथा, सुश्रुते सूत्रस्थाने । १६ अध्याये ।
“पीठोपमपालिरुभयतः क्षीणपुत्त्रिकाश्रितो
निर्व्वेधिमःस्थूलाणुसम विषमपालिव्या योजिमः ॥”
पुत्त्रस्वरूपत्वेन कृता कन्या । तद्गर्भजातः पुत्त्रस्तु
कन्यादातुः पुत्त्रो भवतीति । यथा, मनौ । ९ ।
१२७ -- १२८ ।
“अपुत्त्रोऽनेन विधिना सुतां कुर्व्वीत पुत्त्रिकाम् ।
यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम ॥”
यथा च महाभारते । १ । ६६ । १२ ।
“ताः सर्व्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।
पुत्त्रिकाः स्थापयामास नष्टपुत्त्रः प्रजापतिः ॥”)

पुत्त्रिकापुत्त्रः, पुं, (पुत्त्रिकायाः जातेऽस्याः पुत्त्रे

स हि मदीयः पुत्त्रो भविष्यतीति पुत्त्रस्वरूपत्वेन
कृतायाः सुतायाः पुत्त्रः ।) पुत्त्रिकायाः सुतः ।
स च औरससमः । यथाह वशिष्ठः ।
“अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ।
अस्यां यो जायते पुत्त्रः स मे पुत्त्रो भवेदितीति ॥
अथवा पुत्त्रिकैव सुतः पुत्त्रिकासुतः सोऽप्यौरस-
सम एव पित्रवयवानामल्पत्वान्मात्रवयवानां
पृष्ठ ३/१७०
बाहुल्याच्च । यथाह वशिष्ठः । द्बितीयः पुत्त्रिकै-
वेति । द्वितीयः पुत्त्रः कन्यैवेत्यर्थः ।” इति मिता-
क्षरा ॥

पुत्त्रिकाप्रसूः, स्त्री, (पुत्त्रिकायाः कन्यायाः प्रसू-

र्जननी ।) पुत्त्रिकाजननी । तत्पर्य्यायः
धनसूः २ । इति शब्दरत्नावली ॥

पुत्त्रिकासुतः, पुं, (पुत्त्रिकायाः सुतः ।) पुत्त्रि-

कायाः पुत्त्रः । पुत्त्रिकैव पुत्त्रः । अस्य प्रमाणं
पुत्त्रिकापुत्त्रशब्दे द्रष्टव्यम् ॥

पुत्त्रिणी, स्त्री, (पुत्त्रोऽस्या अस्तीति । पुत्त्र +

इनिः + ङीप् ।) पुत्त्रवती । यथा, --
“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत् ।
सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्मनुः ॥”
इति दायभागधृतमनुवचनम् ॥

पुत्त्री, [न्] पुं, (पुत्त्रोऽस्यास्तीति । पुत्त्र + इनिः ।)

पुत्त्रयुक्तः । पुत्त्रशब्दादस्त्यर्थे इन्प्रत्ययनिष्पन्नः ॥
यथा, --
“ज्येष्ठेन जातमात्रेण पुत्त्री भवति मानवः ।
पितॄणामनृणश्चैव स तस्माल्लब्धुमर्हति ॥
इति मनुः ॥

पुत्त्री, स्त्री, (पुत्त्र + “शार्ङ्गरवाद्यञो ङीन् । ४ ।

१ । ७३ । इति ङीन् । यद्बा, गौरादित्वात्
ङीष् ।) सुता । इति हलायुधः ॥ अस्याः
पर्य्यायः पुत्त्रिकाशब्दे द्रष्टव्यः । वृक्षविशेषः ।
इति शब्दचन्द्रिका ॥

पुत्त्रीयं, त्रि, (पुत्त्रस्य निमित्तं संयोग उत्पातो-

वेति । पुत्त्र + “पुत्त्राच्छ च ।” ५ । १ । ४० ।
इति छः ।) पुत्त्र्यम् । (यथा, महाभारते १ ।
६७ । १६३ ।
“धन्यं यशस्यं पुत्त्रीयमायुष्यं विजयावहम् ।
इदमंशावतरणं श्रोतव्यमनसूयता ॥”
यथा च रघौ । १० । ४ ।
“ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्त्रीयामिष्टिमृत्विजः ॥”
“पुत्त्रीयां पुत्त्रनिमित्ताम् ।” इति तट्टीकायां
मल्लिनाथः ॥”) पुत्त्रसम्बन्धि । पुत्त्रस्येदमित्यर्थे
ईयप्रत्ययनिष्पन्नम् । इति व्याकरणम् ॥

पुत्त्रेष्टिः, स्त्री, (पुत्त्रनिमित्तिका इष्टिरिति मध्य-

पदलोपी समासः ।) पुत्त्रनिमित्तकयागविशेषः ।
इति जटाधरः ॥ यथा, --
“गृहीत्वा पञ्चवर्षीयं पुत्त्रेष्टिं प्रथमञ्चरेत् ॥”
इति स्मृतिः ॥
(अस्याः क्रियाविशेषो यथा, --
“ततः पुत्त्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मण-
मुपवेश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्त्रमाशा-
साना । ततस्त्वस्या आशासानाया ऋत्विक्
प्रजापतिमभिनिर्द्दिश्य योनौ तस्याः कामपरि-
पूरणार्थं काम्यामिष्टिं निर्व्वपेद्विष्णुर्योनिं कम्पय-
त्वित्यन्वयार्च्चा ततश्चैवाज्येन स्थालीपाकमयभिः
संसार्य्य त्रिर्जुहुयात् । यथाम्नायञ्चोपमन्त्रितमुद-
पात्रं तस्यै दद्यात् सर्व्वोदकार्थान् कुरुष्वेति ।
ततः समाप्ते कर्म्मणि पूर्ब्बं दक्षिणपादमभि-
हरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् ततो ब्राह्म-
णान् स्वस्ति वाचयित्वा सह भर्त्राज्यशेषं प्राश्नी-
यात् । पूर्ब्बं पुमान् पश्चात् स्त्री नचोच्छिष्ट-
मवशेषयेत् ततस्तौ सहसंवसेतामष्टरात्रं तथा-
विधपरिच्छदावेव तथेष्टपुत्त्रं जनयेताम् ।
या तु स्त्रीश्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं
पुत्त्रमाशासीत । या वा कृष्णं कृष्णमृदुदीर्घकेशं
शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् । एष
एवानयोरपि होमविधिः किन्तु परिवर्हवर्णवर्ज्ज्यं
स्यात् पुत्त्रवर्णापुरूपस्तु यथाशीरेव तयोः परि-
वर्होऽन्यः कार्य्यः स्यात् ।” इति चरके शारीर-
स्थानेऽष्टमेऽध्याये ॥)

पुत्त्रेष्ठिका, स्त्री, (पुत्त्रेष्टि + स्वार्थे कन् टाप् च ।)

पुत्त्रनिमित्तकयागविशेषः । इति जटाधरः ॥

पुत्त्रौ, पुं, (दुहिता च पुत्त्रश्च पुत्त्रौ इत्येकशेषः ।)

पुत्त्रदुहितरौ । इत्यमरः । २ । ६ । ३७ ॥
द्विवचनान्तोऽयम् ॥

पुत्त्र्यं, त्रि, (पुत्त्रस्य निमित्तं संयोग उत्पातो

वेति । पुत्त्र + “पुत्त्राच्छ च ।” ५ । १ । ४० ।
चकाराद् यत् ।) पुत्त्रीयम् । पुत्त्रनिमित्तसंयोगः
पुत्त्रनिमित्तोत्पातो वा । इति पाणिनिः ॥

पुथ, इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) पञ्चमस्वरी । इ, पुन्थ्यते ।
अन्तःस्थप्रथमादिरयमित्यन्ये । पुन्थति । इति
दुर्गादासः ॥

पुथ, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, पोथयति । त्विषि दीप्तौ ।
इति दुर्गादासः ॥

पुथ, य हिंसे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-सेट् ।) य, पुथ्यति पुपोथ । इति
दुर्गादासः ॥

पुद्गलः, पुं, (पूरणात् पुत् गलनात् गलः । ततः कर्म्म-

धारयः । वृद्धिह्नासवत्त्वाद्देहस्य तथात्वम् ।)
देहः । (यथा, पार्श्वनाथचरिते । १२ । ११० ।
“चक्रुः शिरसि भाले च नेत्रे सर्व्वाङ्गपुद्गले ॥”)
आत्मा । इति शब्दरत्नावली ॥ परमाणुः ।
यथा, --
“स्थूला मध्यास्तथा सूक्ष्माः सूक्ष्मात् सूक्ष्म-
तराश्च ये ।
देहभेदा भवान् सर्व्वे ये केचित् पुद्गलाश्रयाः ॥”
इति विष्णुपुराणे ५ अंशे २० अध्यायः ॥
“पूर्य्यन्ते गलन्ति चेति पुद्गलाः । वृद्ध्यपक्षय-
भाजो येऽवयवास्तदाश्रया देहभेदाः । यथाहुः ।
पूरणाद्गलनाद्देहे पुद्गलाः परमाणव इति ।”
इति तट्टीकायां श्रीधरस्वामी ॥

पुद्गलः, त्रि, (पुत् वर्द्धनशीलः गलो ह्नासवांश्चेति

कर्म्मधारयः ।) सुन्दराकारः । इति शब्द-
रत्नावली ॥ रूपादिमद्द्रव्यम् । इति हेम-
चन्द्रः ॥

पुनः, [र्] व्य, (पनाय्यते स्त्रूयते इति । पन +

बाहुलकात् अर् अस्य उत्वञ्च ।) अप्रथमः ।
(यथा, मनुः । २ । १२० ।
“ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥”)
भेदः । अवधारणम् । इत्यमरः । ३ । ४ । १५ ॥
अधिकारः । पक्षान्तरम् । इति मेदिनी ॥ रे,
७२ ॥ (यथा, रघुः । २ । ४८ ।
“भूतानुकम्पा तव चेदियं गौ-
रेका भवेत् स्वस्तिमति त्वदन्ते ।
जीवन् पुनः शश्वदुपप्लवेभ्यः
प्रजाः प्रजानाथ ! पितेव पासि ॥”)

पुनःपुनः [र्] व्य, (पुनर् + वीप्सायां द्वित्वम् ।)

वारंवारम् । तत्पर्य्यायः । मुहुः २ शश्वत् ३
अभीक्ष्णम् ४ असकृत् ५ । इत्यमरः । ३ । ४ । १ ॥
वारंवारेण ६ पौनःपुन्यम् ७ प्रतिक्षणम् ८ ।
इति शब्दरत्नावली ॥ (यथा, चाणक्ये ।
“अतिथिर्बालकश्चैव राजा भार्य्या तथैव च ।
अस्ति नास्ति न जानन्ति देहि देहि पुनः-
पनः ॥”)

पुनःपुना, स्त्री, नदीविशेषः । पन्पुना इति

भाषा । यथा, --
“कीकटेषु गया पुण्या पुण्यं राजगृहे वनम् ।
च्यवनस्याश्रमः पुण्यो नदी पुण्या पुनःपुना ॥”
इति वायुपुराणे गयामाहात्म्यम् ॥

पुनःसंस्कारः, पुं, (पुनः पुनर्वारकृतः संस्कारः ।)

द्वितीयवारोपनयनादिसंस्कारः । यथा, --
“पुनर्व्वसौ कृतो विप्रः पुनःसंस्कारमर्हति ॥”
इति ज्योतिस्तत्त्वम् ॥

पुनरागमनं, क्ली, (पुनः पुनर्व्वारमागमनम् ।)

द्वितीयवारागमनम् । फिरे आसा इति भाषा ॥
यथा --
“संवत्सरव्यतीते तु पुनरागमनाय च ॥”
इति दुर्गोत्सवपद्धतिः ॥

पुनरुक्तं, क्ली, (वच + भावे क्तः । पुनः पुनर्व्वार-

मुक्तम् ।) पुनर्व्वारकथनम् । यथा, --
“आपाततो यदर्थस्य पौनरुक्त्येव भाषणम् ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥”
इति साहित्यदर्पणम् ॥
(यथाह गोतमः । ५ । ५७ -- ५८ ।
“शब्दार्थयोः पुनर्व्वचनं पुनरुक्तमन्यत्रानु-
वादात् ॥”
“पुनर्वचनं पुनरुक्तं तस्य विभागार्थं शब्दार्थयो-
रिति । तेन शब्दपुनरुक्तमर्थपुनरुक्तञ्च लभय्ते ।
अनुवादेऽतिव्याप्तिवारणाय अन्यत्रानुवादादिति
अनुवादान्यत्वे सतीत्यर्थः । निष्प्रयोजनं पुन-
रभिधानं हि पुनरुक्तं अनुवादस्तु व्याख्यारूपः
सप्रयोजनक एवेति भावः । तथाच समा-
नार्थकपूर्ब्बानुपूर्ब्बीकशब्दप्रयोगः शंब्दपुनरु-
क्तम् । समानार्थकभिन्नानुपूर्ब्बीकशब्दस्य निष्प्रयो-
जनं पुनरभिधानमर्थपुनरुक्तम् । आद्यं यथा
घटो घट इति । द्वितीयं यथा, घटः कलस
इति । एतस्य प्रमादादिना सम्भवः ॥” * ॥
पुनरुक्तभेदान्तरमाह ।
“अर्थादापन्नस्य स्वशब्देन पुनरभिधानम् ।”
पृष्ठ ३/१७१
“पुनरुक्तमित्यनुवर्त्तते । यस्मिन्नुक्ते यस्यार्थस्यौत्-
सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण
पुनरभिधानं पुनरुक्तम् । इदमेव च अर्थपुन-
रुक्तमिति गीयते । यथा वह्निरुष्ण इति पूर्ब्ब-
पदाक्षिप्तोक्तिरियम् । उष्णो वह्निरिति उत्तर-
पदाक्षिप्तोक्तिः । एवं बहिरस्ति गेहे नास्तीति
विध्याक्षिप्तोक्तिः । जीवन् गेहे नास्ति बहि-
रस्तीति निषेधाक्षिप्तोक्तिः । पुनरुक्तत्रैविध्यञ्चेदं
भाष्यादि सम्मतम् । तस्यैव शब्दस्य पुनरभि-
धानं पर्य्यायेणाभिधानम् अन्यत् पुनरर्थपुन-
रुक्तमित्याहुः ॥” * ॥ पुनर् + वच + कर्म्मणि क्तः ।
पुनःकथिते, त्रि । यथा, महाभारते । ८ । ४ । १३ ।
“ब्रूहि सञ्जय ! तत्त्वेन पुनरक्तां कथामिमाम् ॥”)

पुनरुक्तजन्मा, [न्] पुं, (पुनरुक्तं जन्म यस्य ।

“द्वीतीयं मौञ्जीबन्धने ।” इति मनूक्तेरस्य तथा-
त्वम् ।) ब्राह्मणः । इति त्रिकाण्डशेषः ॥

पुनर्जन्म, [न्] क्ली, (पुनर्भूयो जन्म ।) पुन-

र्व्वारोत्पत्तिः । यथा, --
“आब्रह्मभुवनाल्लोकाः पुनरावर्त्तिनोऽर्ज्जुन ! ।
मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यते ॥”
इति श्रीभगवद्गीतायाम् । ८ । १६ ॥

पुनर्नवः, पुं, (पुनरपि छिन्ने भूयोऽपि नवः ।) नखः ।

इति हेमचन्द्रः ॥

पुनर्नवा, स्त्री, (छिन्नायां पुनरपि नवा । यद्वा,

पुनर्भूयोभूयः नूयते स्तूयते इति । नु स्तुतौ +
“ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् । ततष्टाप् ।
क्षुभ्नादित्वात् न णत्वम् ।) शाकविशेषः ।
तत्पर्य्यायः । शोथघ्नी २ वर्षाभूः ३ प्रावृषा-
यणी ४ कठिल्लकः ५ । एता अरुणाः ॥
श्वेतायाः पर्य्यायः । वृश्चीराः २ चिराटिका ३ ।
इति रत्नमाला ॥ विशाखः ४ कठिल्लः ५ शशि-
वाटिका ६ पृथ्वी ७ सितवर्षाभूः ८ घनपत्रः ९
कठिल्लकः १० । अस्या गुणाः । उष्णत्वम् ।
तिक्तत्वम् । कफकासहृद्रोगशूलास्रपाण्डुशोफा-
निलनाशित्वञ्च । इति राजनिर्घण्टः ॥ भेदक-
म्वम् । रसायनत्वम् । आमदुर्नामव्रध्नोदरनाशि-
त्वञ्च । इति राजवल्लभः ॥ * ॥
“पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका ।
कटुः कषाया रुच्यर्शःपाण्डुहृद्दीपनी परा ॥
शोफानिलगरश्लेष्महरी व्रध्नोदरप्रणुत् ॥ * ॥
पुनर्नवा परा रक्ता रक्तपुष्पानिलाटिका ।
शोथघ्नी क्षुद्रवर्षाभूर्वर्षकेतुः कठिल्लकः ॥
पुनर्नवारुणा तिक्ता कटुपाका हिमा लघुः ।
वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी ॥”
इति भावप्रकाशः ॥

पुनर्भवः, पुं, (छिन्नोऽपि पुनर्भवतीति । भू +

अच् ।) नखः । इत्यमरः । २ । ६ । ८३ ॥ रक्त-
पुनर्नवा । इति राजनिर्घण्टः ॥ (पुनर् + भू +
भावे अप् । पुनरुत्पत्तिः । यथा, महाभारते ।
१ । १ । २५५ ।
“सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥” * ॥
पुनर्भवतीति । भू + अच् ।) पुनर्व्वारजाते, त्रि ॥

पुनर्भवी [न्] पुं, (पुनर्भवः पुनःपुनरुत्पत्तिर-

स्त्यस्येति । पुनर्भव + इनिः ।) आत्मा । इति
हेमचन्द्रः । ६ । २ ॥

पुनर्भूः, स्त्री, (पुनर्भवति जायात्वेनेति । भू +

क्विप् ।) द्विरूढा । तत्पर्य्यायः । दिधिषूः २ ।
इत्यमरः । २ । ६ । २३ ॥ “अक्षतयोनित्वाद्विधवा
पुनरुह्यते । इत्यसावन्यस्य भूत्वा अन्यस्य पुन-
र्भवतीति क्विपि पुनर्भूः । धिष्यते निन्दिततया
शब्द्यते द्बिधिषूः धिष शब्दे नाम्नीति कूः निपा-
तनाद्द्वित्वम् ।” इति तट्टीकायां भरतः ॥ सा
त्रिविधा । यथा, --
“परपूर्ब्बास्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्व्विधा ॥
कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा ॥
देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्बितीया प्रकीर्त्तिता ॥
उत्पन्नसाहसा उत्पन्नव्यभिचारा ।
असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता ॥”
इति मिताक्षरा ॥ * ॥
पुनर्व्वारजाते, त्रि ॥

पुनर्यात्रा, स्त्री, (पुनरप्रथमा यात्रा ।) निवर्त्त-

यात्रा । सा तु आषाढशुक्लपक्षीयरथद्वितीया-
नन्तरं तन्नवमदिवसविहिता श्रीजगन्नाथदेवस्य
दक्षिणमुखयात्रा । फिरे रथ इति उल्टा रथ
इति च भाषा । अस्या इतिकर्त्तव्यता यात्रा-
शब्दे द्रष्टव्या ॥

पुनर्व्वसुः, पुं, (पुनः पुनः शरीरेषु वसति क्षेत्रज्ञ-

रूपेणेति । पुनर् + वस + उः ।) विष्णुः । (यथा,
महाभारते । १३ । १४९ । ३९ ।
“अघनो विजयो जेता विश्वयोनिः पुनर्व्वसुः ॥”)
शिवः । कात्यायनमुनिः । लोकभेदः । धना-
रम्भः । इति शब्दरत्नावली ॥ नक्षत्रविशेषः ।
स च धनुराकृतिपञ्चतारात्मकः । यथा, --
“मध्यवर्त्मनि शरासनाकृता-
वम्बरस्य सुरमातृभे गताः ।
लिप्तिकाः सुमुखि ! पञ्चतारके
पक्षपावकमिता घटोदयात् ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥
तस्याधिष्ठात्री देवता अदितिः । इति जातकः ॥
तत्र जातफलम् । यथा, कोष्ठीप्रदीपे ।
“प्रभूतमित्रः कृतशास्त्रयत्नः
सद्रत्नकामी वरभूषणाढ्यः ।
दाता प्रतापी वसुधाधिपश्रीः
पुनर्व्वसौ यस्य भवेत् प्रसूतिः ॥”

पुनर्व्वसू, पुं, अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गत-

सप्तमनक्षत्रम् । तत्पर्य्यायः । यामकौ २ आदित्यौ
३ । इति हेमचन्द्रः ॥ द्विवचनान्तोऽयम् ॥

पुन्नागः, पुं, (पुमान् नाग इव श्रेष्ठत्वात् ।) स्वनाम

ख्यातबृहत्पुष्पवृक्षविशेषः । तत्पर्य्यायः । पुरुषः
२ तुङ्गः ३ केशरः ४ देववल्लभः ५ । इत्यमरः ।
२ । ४ । २५ ॥ कुम्भीकः ६ रक्तकेशरः ७ ।
इति रत्नमाला ॥ पुन्नामा ८ पाटलद्रुमः ९
रक्तपुष्पः १० रक्तरेणुः ११ अरुणः १२ । अस्य
पुष्पगुणाः । मधुरत्वम् । शीतत्वम् । सुगन्धि-
त्वम् । पित्तनाशित्वम् । भूरितो द्रावणत्वम् ।
देवताप्रसादनत्वञ्च । इति राजनिर्घण्टः ॥ कषाय-
त्वम् । कफरक्तनाशित्वञ्च । इति राजवल्लभः ॥ * ॥
सितोत्पलः । जातीफलः । नरश्रेष्ठः । पाण्डु-
नागः । इति मेदिनी । गे, ४६ ॥

पुन्नाटः, पुं, (पुन्नाड + पृषोदरादित्वात् डस्य टः ।)

चक्रमर्द्दः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य
यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ।
“चक्रमर्द्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः ।
पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि ॥”)

पुन्नाडः, पुं, (पुमांसं नाडयतीति । नड भ्रंशे +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) चक्रमर्द्दः ।
इति राजनिर्घण्टः ॥

पुन्नामनरकः, पुं, (पुदिति नाम यस्य स पुन्नामा ।

पुन्नामा चासौ नरकश्चेति कर्म्मधारयः ।) पुत्
इतिनामकनरकविशेषः । तत्र षोडशविधपापैः
पतति । यथा, --
ब्रह्मोवाच ।
“परदाराभिगमनं पापानाञ्चोपसेवनम् ।
पारुष्यं सर्व्वभूतानां प्रथमं नरकं स्मृतम् ॥
फलस्तेयं महापापं फलार्हस्य च पाटनम् ।
पाटनं वृक्षजातीनां द्वितीयं परिकीर्त्तितम् ॥
वर्ज्यादानं तथा द्विष्टमवध्यवधबन्धनम् ।
विवादित्वमहेतूत्थं तृतीयं नरकं स्मृतम् ॥
भयदं सर्व्वसत्त्वानां नरभूतिविनाशनम् ।
भ्रंशनं निजधर्म्माणां चतुर्थं नरकं स्मृतम् ॥
मारणं मित्रकौटिल्यं मिथ्याभिशपनञ्च यत् ।
मिष्टैकाशनमित्युक्तं पञ्चमञ्च विपाचनम् ॥
प्ररोहणं यन्त्रकरं यमनं योगनाशनम् ।
यानमुख्यस्य हरणं षष्ठमुक्तं नृपाचनम् ॥
राजभागस्य हरणं राजजायानिषेवणम् ।
राज्ये त्वहितकारित्वं सप्तमं नरकं स्मृतम् ॥
स्तब्धत्वं लोलुपत्वञ्च लब्धधर्म्मार्थनाशनम् ।
नानाकर्म्मकरं प्रोक्तमष्टमं नरकं स्मृतम् ॥
ब्रह्मस्वहरणञ्चैव ब्राह्मणानां विनिन्दनम् ।
विरोधो ब्राह्मणैश्चोक्तो नवमो नरकस्त्वयम् ॥
शिष्टाचारविनाशञ्च मित्रद्वेषं शिशोर्व्वधम् ।
शास्त्रस्तेयं धर्म्मशून्यो दशमं परिकीर्त्तितम् ॥
षडङ्गनिधनं घोरं षाड्गुण्यप्रतिषेधनम् ।
एकादशममेवोक्तं नरकं सद्भिरुत्तम ! ॥
सद्भिरुक्तं सदा चैवमनाचारमसत्क्रिया ।
संस्कारपरिहीणत्वमिदं द्वादशमं स्मृतम् ॥
हानिर्धर्म्मार्थकामानामपवर्गस्य हारणम् ।
स्वर्णहर्त्तुश्च मतिदं त्रयोदशममुच्यते ॥
समलं धर्म्महीनञ्च यद्बर्ज्यं यच्च दोषजम् ।
चतुर्द्दशकमेवोक्तं नरकं सद्विगर्हितम् ॥
अज्ञानञ्चाप्यनिष्ठत्वमशौचमशुभावहम् ।
गर्ह्यं तत् पञ्चदशकमसत्यवचनानि च ॥
पृष्ठ ३/१७२
आलस्यं वै षोडशकमाक्रोशञ्च विशेषतः ।
सर्व्वस्य चाततायित्वमगारेष्वग्निदापनम् ॥
इच्छा च परदारेषु नरकाय निगद्यते ।
ईर्ष्याभावश्च सभ्येषु औद्धत्यन्तु विगर्हितम् ॥
एतैस्तु पापैः पुरुषः पुन्नामनरके पतेत् ।
पुन्नामनरकं घोरं विनाशं प्राह सर्व्वतः ॥
एतस्मात् कारणात् साध्यस्ततः पुत्त्रो निगद्यते ॥”
इति वामने ५८ अध्यायः ॥

पुप्फुलः, पुं, (पुप्फुस् । पृषोदरादित्वात् सस्य

लत्वम् ।) उदरस्थवायुः । इति भूरिप्रयोगः ॥

पुप्फुसः, पुं, (पुप्फुसवत् आकृतिरस्यास्तीति ।

अच् ।) पद्मबीजाधारः । तत्पर्य्यायः । बीज-
कोषः २ वराटकः ३ । (पुप्फुस इति शब्दो-
ऽस्त्यस्येति ।) वामपार्श्वस्थमलाशयः । फोँफडा
इति फुलघरा इति च भाषा । तत्पर्य्यायः ।
कोष्ठः २ । इति शब्दचन्द्रिका ॥ रक्तफेनजः ३ ।
इति हेमचन्द्रः ॥ तिलकम् ४ क्लोम ५ । इत्य-
मरः ॥ क्लोमम् ६ । इति भरतः ॥ फुप्फुसोऽपि
पाठः ॥ (फुप्फुसशब्देऽस्य विषयो ज्ञातव्यः ॥)

पुमान् [स्] पुं, (पाति रक्षतीति । पा + “पाते-

र्डुम्सुन् ।” उणा० । ४ । १७७ । इति डुम्सुन् ।
डित्त्वात् टिलोपः ।) मनुष्यजातिपुरुषः । तत्-
पर्य्यायः । पञ्चजनः २ पुरुषः ३ पूरुषः ४ ना ५ ।
इत्यमरः । २ । ६ । १ ॥ (यथा, --
“स्वदेशजातस्य जनस्य लोके
गुणाधिके पुंसि भवत्यवज्ञा ।
निजाङ्गना यद्यपि रूपराशि-
स्तथापि पुंसां परदारचेष्टा ॥”
इत्युद्भटः ॥)
मबुष्यजातिः । इति केचिदिति भरतः ॥ पुंलिङ्ग-
मात्रञ्च ॥ (कूटस्थपुरुषः । यथा, विष्णुपुराणे ।
१ । १ । २ ।
“सदक्षरं ब्रह्म य ईश्वरः पुमान्
गुणोर्म्मिसृष्टिस्थितिकालसंलयः ।
प्रधानबुद्ध्यादिजगत्प्रपञ्चसूः
स नोऽस्तु विष्णुर्गतिभूतिमुक्तिदः ॥”
“अक्षरमिति विकारं निराकरोति पुमान्
कूटस्थः ।” इति तट्टीकायां श्रीधरस्वामी ॥)

पुर, श अग्रगत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) श, पुरति ज्येष्ठः कनिष्ठस्य
अग्रे गच्छतीत्यर्थः । पोरिता । इति दुर्गादासः ॥

पुरं, क्ली, (प्रियते पूर्य्यते इति । पॄलि पूर्त्तौ + कः ।)

गेहः । देहः । पाटलिपुत्त्रः । पुष्पादीनां दला-
वृत्तिः । इति मेदिनी । रे, ५८ -- ५९ ॥ नागर-
मुस्ता । इति रत्नमाला ॥ चर्म्म इति शब्दरत्ना-
बली ॥ गृहोपरिगृहम् । इति विश्वः ॥

पुरं, क्ली, स्त्री, (पिपर्त्तीति । पॄ + मूलविभुजादि-

त्वात् कः । यद्वा, पुरति अग्र गच्छतीति । पुर +
“इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।)
हट्टादिविशिष्टस्थानम् । इति श्रीधरस्वामी ॥
बहुग्रामीयव्यवहारस्थानम् । इत्यमरटीकायां
भरतः ॥ तत्पर्य्यायः । पूः २ पुरी ३ नगरम् ४
पत्तनम् ५ स्थानीयम् ६ कटकम् ७ पट्टम् ८
निगमः ९ पुटभेदनम् १० । इति शब्दरत्ना-
वली ॥ तस्य लक्षणादि यथा, --
मत्स्य उवाच ।
“राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ।
रम्यमाणन्तु सामन्तं मध्यमन्देशमावसेत् ॥
वैश्यशूद्रजनप्रायमनाहार्य्यन्तथा परैः ।
किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्म्मकरन्तथा ॥
अदैवमातृकं रम्यमनुरक्तजनान्वितम् ।
करैरपीडितं वापि बहुपुष्पफलन्तथा ॥
अगम्यं परचक्राणां तद्बासगृहमापदि ।
समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥
सरीसृपविहीनञ्च व्याडतस्करवर्ज्जितम् ।
एवंविधं यथालाभं राजा विषयमावसेत् ॥
एतद्दुर्गं नृपः कुर्य्यात् षण्णामेकतमं बुधः ।
वनदुर्गं महीदुर्गं नरदुर्गन्तथैव च ॥
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च पार्थिव ! ।
सर्व्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥
दुर्गञ्च परिघोपेतं चयाट्टालकसंयुतम् ।
शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥
गोपुरं सकवाटञ्च तत्र स्यात् सुमनोहरम् ।
सपताकं गजारूढो येन राजा विशेत् पुरम् ॥
चतस्रश्च तथा कार्य्या वीथयः सर्व्वतोमुखाः ।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥
द्वितीये वापि वीथ्यग्रे राजवेश्म विधीयते ।
धर्म्माधिकरणं कार्य्यं वीथ्यग्रे च तृतीयके ॥
चतुर्थे चैव वीथ्यग्रे गोपुरन्तु विधीयते ॥
आयतं चतुरस्रं वा वृत्तं वा कारयेत् पुरम् ।
मुक्तिहीनं त्रिकोणञ्च यवमध्यन्तथैव च ॥
अर्द्धचन्द्रप्रकारञ्च वजाकारञ्च कारयेत् ॥
अर्द्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वसेत् ।
अन्यत्र तन्न कर्त्तव्यं प्रयत्नेन विजानता ॥
राज्ञा कारागृहं कार्य्यं दक्षिणे राजवेश्मनः ।
तस्यापि दक्षिणे भागे गजस्थानं विधीयते ॥
गजानां प्राङ्मुखा शाला कर्त्तव्या वाप्युदङ्मुखा ।
आग्नेये च तथा भागे आयुधागारमिष्यते ॥
महानसञ्च धर्म्मज्ञ ! कर्म्मशालास्तथापराः ।
गृहं पुरोधसः कार्य्यं वामतो राजवेश्मनः ॥
मन्त्रिवेदविदाञ्चैव चिकित्साकर्त्तरेव च ।
तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥
गवां स्थानं तथैवात्र तुरगाणान्तथैव च ।
उत्तराभिमुखा श्रेणी तुरगाणां विधीयते ॥
दक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः ।
तुरगास्तु तथा धार्य्याः प्रदीपैः सार्व्वरात्रिकैः ॥
कुक्कुटान् वानरांश्चैव मर्कटांश्च नराधिप ! ।
धारयेदश्वशालायां सवत्सां धेनुमेव च ॥
अजाश्च धार्य्या यत्नेन तुरगाणां हितैषिणा ।
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमम् ।
अस्तं गते न कर्त्तव्यं देवदेवे दिवाकरे ॥
ततस्तत्र यथास्थानं राजा विज्ञाय सारथिम् ।
दद्यादावसथस्थानं सर्व्वषामनुपूर्ब्बशः ॥
योधानां शिल्पिनाञ्चैव सर्व्वेषामविशेषतः ।
दद्यादावसथान् दुर्गे मन्त्रकालविदां शुभान् ॥
गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ।
आहरेत भृशं राजा दुर्गे परबलारुजः ॥
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते ।
न बहूनामतो दुर्गं विनां कार्य्यं तथा भवेत् ॥
सर्व्वं निरर्थकं कार्य्यं विना दुर्गं महीपते ! ।
दुर्गे यन्त्राः प्रकर्त्तव्या नानाप्रहरणान्विताः ।
सहस्रघातिनो राजंस्तैस्तु रक्षा विधीयते ॥
दुर्गद्वाराणि गुप्तानि कार्य्याण्यपि च भूभुजा ।
सञ्चयश्चात्र सर्व्वेषामायुधानां विधीयते ॥
धनुषां क्षेपणीयानां तोमराणाञ्च भार्गव ! ।
शराणामथ खड्गानां कवचानान्तथैव च ॥
लगुडानाञ्च कुन्तानां परिघैः सहपार्थिव । !
अश्मनाञ्च प्रभूतानां मुद्गराणान्तथैव च ॥
त्रिशूलानां पट्टिशानां कुणपानाञ्च पार्थिव ! ।
प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तम ! ॥
परश्वधानां चक्राणां वर्म्मणाञ्चर्म्मभिः सह ।
कुद्दालरज्जुवेत्राणां पिटकानान्तथैव च ॥
हेमुकानाञ्च दात्राणामङ्गारस्य च सञ्चयः ।
सर्व्वेषां शिल्पभाण्डानां सञ्चयश्चात्र इष्यते ॥
वादित्राणाञ्च सर्व्वेषामौषधीनान्तथैव च ।
यवसानां प्रभूतानामिन्धनस्य च सञ्चयः ॥
गुडानां सर्व्वतैलानां गोरसानान्तथैव च ।
वसानामथ मज्जानां स्नायूनामस्थिभिः सह ॥
गोचर्म्मपटहानाञ्च धान्यानां सर्व्वतस्तथा ।
तथैव पर्पटानाञ्च यवगोधूमयोरपि ॥
रत्नानां सर्व्ववस्त्राणां लोहानाञ्चाप्यशेषतः ।
कलायमुद्गमाषाणां चणकानां तिलैः सह ॥
तथा च सर्व्वशस्यानां पांशुगोमययोरपि ।
शणसर्ज्जरसं भूर्जजतुलाक्षाश्च टङ्कणम् ॥
राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ॥ * ॥
कुम्भाश्चाशीविषाः कार्य्या व्यालसिंहादयस्तथा ।
मृगाश्च पक्षिणश्चैव विरुद्धा ये परस्परम् ॥
स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् ।
कर्त्तव्यानि महाभाग ! यत्नेन पृथिवीक्षिता ॥
उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः ।
सुगुप्तानि पुरे कुर्य्याज्जनानां हितकाम्यया ॥
जीवकर्षभकाकोलीआमलक्यः परूषकम् ।
शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च ॥
माषपर्णी च मेदे द्वे शारिवे द्वे वलात्रयम् ।
वीरा श्वसन्ती वृष्टीया बृहती कण्टकारिका ॥
भृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्दर्भरेणुका ।
मधुपर्णी विदार्य्यौ द्वे महाक्षुद्रा महातपा ॥
धन्वना सह देवाह्वा कटुकैरण्डकं विषम् ।
पर्णाशनाकमृद्वीका फल्गुखर्ज्जूरयष्टिका ॥
शुक्रातिशुक्रकाश्मर्य्यच्छत्रातिच्छत्रवीरणाः ॥
इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम ! ।
सिंही च सहदेवी च विश्वेदेवाटरूषकम् ॥
मधुकं पुष्पकं साक्षा शतपुष्पा मधूलिका ।
शतावरीमधूके च पियालन्तालमेव च ॥
आत्मगुप्ता कट्फलाख्या दारदा राजशीर्षिका ।
राजसर्षपधन्याकमृष्यप्रोक्ता तथोत्कटा ॥
पृष्ठ ३/१७३
कालशाकं पद्मबीजं गोवल्ली मधुवल्लिका ।
शीतपाकी कुलिङ्गाक्षी काकजिह्वोरुपत्रिका ॥
इर्व्वारुत्रपुषौ चोभौ गुञ्जारकपुनर्नवे ।
कशेरुका तु काश्मीरी विश्वशालूककेशरम् ॥ * ॥
शूकधान्यानि सर्व्वाणि शमीधान्यानि यानि च ।
क्षीरं क्षौद्रं तथा शुक्रं मज्जा तैलं वसा घृतम् ॥
निकोचाभिषुकास्फोटं वातासामारुमालकम् ।
एवमादीनि चान्यानि विज्ञेयो मधुरो गणः ॥
राजा सञ्चिनुयात् सर्व्वं पुरे निरवशेषतः ।
दाडिमाम्रातकाम्राश्च तिन्तिडीकाम्लवेतसम् ॥
भव्यं कर्कन्धु लकुचं करमर्द्दकरूषकम् ।
बीजपूरककाण्डीरं मालती राजबन्धुकम् ॥
कौटकद्वयपर्णानि द्बयोरम्लिकयोरपि ।
पारेवतं नागरकं प्राचीनारुकमेव च ॥
कपित्थामलकी चुक्रं फलं दन्तशठस्य च ।
जम्बीरं नवनीतञ्च सौवीरकतुषोदके ॥
सुरारसञ्च मद्यानि मण्डतक्रदधीनि च ।
शुक्तानि चैव सर्व्वाणि ज्ञेयान्यम्लगणं द्विजाः ॥
एवमादीनि सर्व्वाणि राजा सश्चिनुयात् पुरे ॥
सैन्धवोद्भिदपाटेयपाक्यसामुद्ररोमकम् ।
कुप्यसौवर्च्चलविटं बालकेयं यवाह्वयम् ॥
औषक्षारं कालभस्म विज्ञेयो लवणो गणः ।
एवमादीनि सर्व्वाणि राजा सञ्चिनुयात् पुरे ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
कुठेरकं समरिचं शिग्रुभल्लातसर्षपाः ॥
कुष्ठाजमोदा किणिही हिङ्गुमूलकधान्यकम् ।
कारवी कुञ्चिकाजाज्यः सुमुखः कालमालिका ॥
फणिज्झकोऽथ लशुनं भूस्तृणं सुरसस्तथा ।
कायस्था च वयःस्था च हरितालं मनःशिला ॥
अमृता च रुदन्ती च रोहिषं कुङ्कुमं तथा ।
वचा एरण्डकाण्डीरं शल्लकी हपुषा तथा ॥
सर्व्वपित्तानि मूत्राणि प्रायो हरितकानि च ।
सङ्गराणि च मूलानि षष्टिखारिविषाणि च ॥
फलानि चैव च तथा सूक्ष्मैला हिङ्गुपत्रिका ।
एवमादीनि चान्यानि गणः कटुकसंज्ञकः ।
राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम ! ॥ * ॥
मुस्तचन्दनह्नीवेरकृतमालकदारवः ।
हरिद्रामलकोशीरं रक्तमालकवस्तुकम् ॥
दूर्व्वापटोलकटुकादन्तित्वक्पत्रकच्छुराः ।
किराततिक्तकं निम्बं विषा चातिविषा तथा ॥
तालीशपत्रं तगरं सप्तपर्णविकङ्कताः ।
काकोडुम्बरकोदीच्यसुषव्यः किणिही तथा ॥
षड्ग्रन्था रोहिणी मांसी पर्पटं मदयन्तिका ।
रसाञ्जनं भृङ्गराजं पतङ्गी परिपेलवम् ॥
दुष्पर्शा गुरुणी कामा श्यामाकं गन्धनाकुली ।
चतुष्पर्णी व्याघ्रनखमम्बका चतुरङ्गुला ॥
रम्भा चैव कुथापुष्पी तारास्फोता हरेणुका ।
वेत्राग्रो वेतसस्तुम्बी विषाणी लोहमञ्जनम् ॥
मालती करतिक्ताख्या विषाङ्गी जिह्विका तथा ।
पर्य्यटञ्च गुडूची च गणस्तिक्तकसंज्ञकः ॥
एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे ।
अभयामलके चोभे तथैव च विभीतकम् ॥
प्रियङ्गुधातकीपुष्पं मोचलोध्रार्ज्जुनासनाः ।
अनन्तान्त्री मुरानङ्गा श्योनाकं कड्यलं तथा ॥
भूर्जपत्रं शिलोद्भेदं पाटलापत्रलोमकम् ।
समङ्गा त्रिवृतामूलं कार्पासा गैरिकाञ्जनम् ॥
विद्रुमं समघूच्छिष्टं कुम्भीकाकुमुदोत्पलम् ।
न्यग्रोधोदुम्बराश्वत्थकिंशुका शिंशपा शमी ॥
पियालपिलुका शालशिरीषं पद्मकन्तथा ।
विल्वोऽग्निमन्थः प्लक्षश्च श्यामाकयवकोद्रवम् ॥
राजादनं करीरञ्च धान्यकप्रियकौ तथा ।
शाकोटाशोकवदराः कदम्बखदिरद्वयम् ॥
एषां पत्राणि साराणि मूलानि कुसुमानि च ।
एवमादीनि चान्यानि कषायाख्यो गणो मतः ॥
प्रयत्नेन नृपश्रेष्ठः ! राजा सञ्चिनुयात् पुरे ।
कीटाश्च मारणे योग्या व्यङ्गतायान्तथैव च ॥
वातधूमाम्बुमार्गाणां दूषणानि तथैव च ।
धार्य्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि भारत ! ॥
विषाणान्धारणं कार्य्यं प्रयत्नेन महीभुजा ।
विचित्राश्च गदा धार्य्या विषप्रशमनास्तथा ॥
रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्द्धनाः ।
कलाविदश्च पुरुषाः पुरे धार्य्याः प्रयत्नतः ॥
भीतान् प्रमत्तान् कुपितान् तथैव च विमानि-
तान् ।
कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे ॥
यन्त्रायुधाट्टालचयोपपन्नं
समप्रधान्यौषधिसंप्रयुक्तम् ।
बणिग्जनैश्चान्वितमावसेत
दुर्गं सुगुप्तं नृपतिः सदैव ॥”
इति मात्स्ये राजधर्म्मे दुर्गसम्पत्तिर्नाम १९१
अध्यायः ॥ * ॥ पुरे वर्णनीयानि यथा, --
“पुरे हट्टप्रतोली च परिखातोरणध्वजाः ।
प्रासादाध्वप्रपारामवापीवेश्याः सती त्वरी ॥”
इति कविकल्पलता ॥
अवशिष्टं नगरशब्दे द्रष्टव्यम् ॥

पुरः, पुं, (पिपर्त्तीति । पॄ + कः ।) गुग्गुलुः ।

इत्यमरः । २ । ४ । ३६ ॥ (अस्य पर्य्यायो यथा, --
“गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः ।
कुम्भोलूखलकं क्लीवे महिषाक्षः पलङ्कषः ॥”
“अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम् ।
मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पीतझिण्टी । इति शब्दचन्द्रिका ॥

पुरः, [स्] व्य, (पूर्ब्बस्मिन् पूर्ब्बस्मात् पूर्ब्बो वा

एवं पूर्ब्बस्याः पूर्ब्बस्यामित्यादि । पूर्ब्ब + “पूर्ब्बा-
धरावराणामसि पुरधवश्चैषाम् ।” ५ । ३ । ३९ ।
इति असि तद्योगेन पुर् इत्यादेशश्च ।) अग्रतः ।
इत्यमरः । ३ । ४ । ७ ॥ (यथा, कुमारे । ४ । ३ ।
“अयि जीवितनाथ ! जीवासी-
त्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ
हरकोपानलभस्म केवलम् ॥”)
प्राच्यां दिशि । प्रथमे काले । (यथा, अभि-
ज्ञानशकुन्तलायाम् । ७ अङ्के ।
“उदेति पूर्ब्बं कुसुमं ततः फलं
घनोदयः प्राक् तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं विधि-
स्तव प्रसादस्य पुरस्तु सम्पदः ॥”)
पुरार्थे । अतीते । इति तट्टीकायां भरतः ॥

पुरःसरः, त्रि, (पुरोऽग्रे सरति गच्छतीति । सृ +

“पुरोऽग्रतोऽग्रेषु सर्त्ते ।” ३ । २ । ११८ । इति
टः ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (यथा,
महाभारते । ४ । १९ । २२ ।
“यस्याः पुरःसरा ह्यासन् पृष्ठतश्चानुयायिनः ।
साहमद्य सुदेष्णायाः पुरःपश्चाच्च गामिनी ॥”)
अस्य पर्य्यायः अग्रसरशब्दे द्रष्टव्यः ॥

पुरञ्जनः, पुं, (परं देहक्षेत्रं जनयतीति । जनि +

बाहुलकात् खः ।) जीवः । यथा, --
“पुरुषं पुरञ्जनं विद्यात् यद्व्यनक्त्यात्मनः पुरम् ।
एकद्वित्रिचतुष्पादं बहुपादमपादकम् ॥”
इति श्रीभागवते । ४ । २९ । २ ॥

पुरञ्जनी, स्त्री, (पुरञ्जन + गौरादित्वात् ङीष् ।)

बुद्धिः । यथा, --
“न विदाम वयं सम्यक् कर्त्तारं पुरुषर्षभ ! ।
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥
राजन् ! मदीयाः सर्व्वेते मामाहुश्च पुरञ्जनीम् ॥”
“बुद्धिन्तु प्रमदां विद्यान्ममाहमिति यत् कृतम् ।
यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षिभि-
र्गुणान् ॥”
इति श्रीभागवते । ४ स्कन्धे । २५ । २९ अध्यायौ ॥

पुरञ्जयः, पुं, (पुरं शत्रुपुरं जयतीति । जि + खच् ।)

सूर्य्यवंशीयराजविशेषः । तत्पर्य्यायः । काकुस्थः
२ । इति त्रिकाण्डशेषः ॥ (यथा, भागवते ।
९ । ६ । १२ ।
“पितर्य्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् ।
शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।
ककुस्थ इति चाप्युक्तः शृणु नामानि
कर्म्मभिः ॥”
पूरुवंशीयः सृञ्जयपुत्त्रः । यथा, हरिवंशे ।
३१ । १८ ।
“सृञ्जयस्याभवत् पुत्त्रो वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज ! पुरञ्जयसुतोऽभवत् ॥”
पुरं जयतीति । पुर + जि + खच् ।) पुरजय-
कर्त्तरि, त्रि ॥ (यथा, महाभारते । १ ।
१०२ । ४५ ।
“स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ! ॥”)

पुरटं, क्ली, (पुरति अग्रे गच्छतीति । पुर +

बाहुलकात् अटन् ।) सुवर्णम् । यथा, --
“हरिः पुरटसुन्दरद्युतिकदम्बसन्दीपितः
सदा हृदयकन्दरे स्फरतु वः शचीनन्दनः ॥”
इति विदग्धमाधवः ॥

पुरणः, पुं, (पिपर्त्ति पूर्य्यते वेति । पॄ पालनादौ +

“कॄपॄवृजिमन्दिनिधाञः क्युः ।” उणा० २ । ८१ ।
इति क्युः । उत्वं रपरत्वञ्च ।) समुद्रः । इत्युणा-
दिकोषः ॥