शब्दकल्पद्रुमः/परिभाषा

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/०६२

परिभाषा, स्त्री, (परि + भाष् + अच् । ततष्टाप् ।

परिष्कृतं भाषणम् । पदार्थविवेचकाचार्य्याणां
युक्तियुक्ता वाक् । इति काव्यप्रकाशटीकायां
चण्डीदासः ॥ तत्पर्य्यायः । प्रज्ञप्तिः २ शैली ३
सङ्केतः ४ समयकारः ५ । इति त्रिकाण्डशेषः ॥
(सूत्रलक्षणविशेषः । सूत्रं षड्विधम् । यथा, --
“सं ज्ञा च परिभाषा च विधिर्नियम एव च ।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥”)
“ग्रन्थस्य संक्षेपनिर्व्वाहार्थसङ्केतविशेषः । यथा
चपोदितेत्यादि ।” इति मुग्धबोधटीकायां दुर्गा-
दासः ॥ यथा माघे । १६ । ८० ।
“न खलु प्रतिहन्यते कुतश्चित्
परिभाषेव गरीयसी यदाज्ञा ॥”
(“अव्यक्तानुक्तलेशोक्तसन्दिग्धार्थप्रकाशिकाः ।
परिभाषाः प्रवक्ष्यन्ते दीपीभूताः सुनिश्चिताः ॥”
इति वैद्यकपरिभाषाया लक्षणम् ॥
“प्रथमं परिभाषा स्याद्भेषज्याख्यानकन्तथा ।”
इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥)

परिभूतं, त्रि, (परिभूयते स्म । परि + भू + क्तः ।)

अनादृतम् । तत्पर्य्यायः । अवगणितम् २ अव-
मतम् ३ अवज्ञातम् ४ अवमानितम् ५ । इत्य-
मरः । ३ । १ । १०६ । अभिभूतम् ६ । इति जटा-
धरः ॥ अप्रस्तुतम् ७ । इति शब्दरत्नावली ॥
(यथा, सारावल्यां विंशाध्याये ।
“परिभूतं सुखरहितं कुलटापुत्त्रमतिपापरतञ्च ।
जनयति नक्षत्रपतिः क्षितिसुतदृष्टो झषि शूरम् ॥”)

परिभ्रमः, पुं, (परि + भ्रम् + अच् ।) सर्व्वतोभ्रम-

णम् । परिपूर्ब्बभ्रमधातोर्भावे अल्प्रत्ययनिष्पन्नः ॥

परिमण्डलं, त्रि, (परि सर्व्वतो मण्डलम् ।) वर्त्तुलम् ।

इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । २२ । १९ ।
“लक्षोत्तरं सार्द्धनवकोटियोजनपरिमण्डलं भू-
वलयस्य क्षणेन सगव्यूत्युत्तरं द्बिसहस्रयोजनानि
स भुङ्क्ते ॥” परमाणुपरिमाणम् । परिमाण-
विशिष्टः परमाणुः । इति वैशेषिकसूत्रविवृतिः ॥
शब्दोऽयं न्यग्रोधशब्देन युक्तः अर्थान्तरं प्रका-
शयति । पुं, पुरुषविशेषः । तस्य लक्षणं यथा,
मात्स्ये ११८ अध्याये ।
“न्यग्रोधौ तु स्मृतौ बाहू व्यासो न्यग्रोध उच्यते ।
व्यासेन उच्छ्रयो यस्य अध उर्द्धञ्च देहिनः ।
समोच्छ्रयपरीणाहो न्धग्रोधपरिमण्डलः ॥”
स्त्री, लक्षणान्वितरमणीविशेषः । यथा, शब्द-
रत्नावल्याम् ।
“स्तनौ सुकटिनौ यस्या नितम्बे च विशालता ।
मध्ये क्षीणा भवेद् या च न्यग्रोधपरिमण्डला ॥”
पर्व्वतविशेषः । यथा महाभारते ६ । ६ । ११ ।
“परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्व्वतः ।
आदित्यतरुणाभासो विधूम इव पावकः ॥”)

परिमलः, पुं, (परिमलते सुगन्धिपार्थिवकणां

धरतीति । मल ङ् धारणे + अच् । “क्षितावेव
गन्धः ।” इति न्यायादस्य तथात्वम् ।) विमर्द्दनम् ।
कुङ्कमादिमर्द्दनम् । विमद्दत्थिजनमनोहरगन्धः ।
सुरतादिविमद्वंत्थिविलेपनकुङ्कमादिगन्धः । इत्य-
मरभरतौ ॥ सुरभिमाल्यगन्धादिधारणेनोत्पन्नो
हृद्यो गन्धः । इति स्वामी ॥ (यथा, कलावि-
लासे । १ । ५ ।
“रतिलुलितललितललनाक्लमजललववाहिनो
मुहुर्यत्र ।
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्य-
निलाः ॥”)
तत्पर्य्यायः । आमोदः २ गन्धः ३ सौरभ्यम् ४
सौरभम् ५ । इति राजनिर्घण्टः ॥ पण्डित-
समूहः । इति शब्दरत्नावली ॥

परिमाणं, क्ली, परिमीयतेऽनेन । (परि + मा +

करणे ल्युट् ।) परिमितव्यवहारासाधारण-
कारणम् । इति सिद्धान्तमुक्तावली ॥ माप इति
भाषा । (यथा, मनुः । ८ । १३३ ।
“त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥”)
तत्पर्य्यायप्रकारा यथा, --
“यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।
मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ॥
ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।
सुवर्णविस्तौ हेम्नोऽक्षे कुरुविस्तस्तु तत्पले ॥
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।
आचितं दशभाराः स्युः शाकटो भार आचितः ॥
कार्षापणः कार्षिकश्च ताम्रिके कार्षिके पणः ।
अस्त्रिया वाढकद्रोणौ खारी वाहो निकुञ्चकः ॥
कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।”
इत्यमरः । २ । ९ । ८५ -- ८९ ॥ * ॥
न्यायमते तद्यथा, --
“परिमाणं भवेन्मानव्यवहारस्य कारणम् ।
अणु दीर्घं महद्ध्रस्वमिति तद्भेद ईरितः ॥
अनित्ये तदनित्य स्यान्नित्ये नित्यमुदाहृतम् ।
संख्यातः परिमाणाच्च प्रचयादपि जायते ॥
अनित्यं द्व्यणुकादौ तु संख्याजन्यमुदाहृतम् ।
परिमाणं घटादौ तु परिमाणजमुच्यते ॥
प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।
परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः ॥”
इति भाषापरिच्छेदे । ११० -- ११३ ॥
(परिमाणं निरूपयति । परिमाणमिति । परि-
मितव्यवहारासाधारणं कारणं परिमाण-
मित्यर्थः । तच्चतुर्व्विधं अणु महद्दीर्घं ह्रस्वञ्च
इदं चातुर्व्विध्यं प्रत्यक्षसिद्धं तत्राणुत्वह्रस्वत्वे
महत्त्वदीर्घत्वे च समनियते तत्परिमाणं नित्य-
मित्यत्रपरिमाणमित्यनुषज्यते जायते इत्यत्रापि
परिमाणमित्यनुवर्त्तते । अनित्यमिति पूर्ब्बेणान्वितं
तथाचानित्यं परिमाणं संख्याजन्यं परिमाणजन्यं
प्रचयजन्यञ्चेत्यर्थः । तत्र संख्याजन्यमुदाहरति
द्व्यणुकादाविति । द्ब्यणुकस्य त्रसरेणोश्च परि-
माणं प्रति परमाणुपरिमाणं द्व्यणुकादिपरि-
माणं वा न कारणं परिमाणस्य स्वसमानजाती-
योत्कृष्टपरिमाणजनकत्वात् द्ब्यणुकादिपरि-
माणन्तु परमाणुत्वापेक्षया नोत्कृष्टं त्रसरेणुपरि-
माणन्तु न सजातीयं अतः परमाणौ द्बित्वसंङ्ख्या
द्व्यणुकपरिमाणस्य द्व्यणुके त्रित्वसङ्ख्या च त्रस-
रेणुपरिमाणस्यासमवायिकारणमित्यर्थः । परि-
माणजन्यमुदाहरति परिमाणं घटादाविति परि-
माणजं कपालादि परिमाणजन्यम् । प्रचय-
जन्यमुदाहर्त्तुं प्रचयं निर्व्वक्ति प्रचय इति अर्थात्
प्रचयस्य नचावयविनाशः कथं परिमाण-
नाशकः असत्यप्यवयविनि त्रिचतुरपरमाणु-
विश्लेषे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि
परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम् ।
परमाणुविश्लेषे द्व्यणुकस्य नाशोऽवश्यमभ्यु-
पेयस्तन्नाशे च द्व्यणुकनाशः एवं क्रमेण महा-
वयविनो नाशस्यावश्यकत्वात् सति च नाशकेऽन-
भ्युपगममात्रेण नाशस्य अपवदितुमशक्यत्वात्
शरीरादाववयवोपचये असमवायिकारण-
नाशस्यावश्यकत्वादवयवविनाशः आवश्यकः न
च पटविनाशेऽपि तन्त्वन्तरसंयोगात् परिमाणा-
धिक्यं स्यादिति वाच्यं तत्रापि वेमाद्यभिघातेन
समवायिकारणतन्तुसंयोगनाशात् पटनाशस्या-
वश्यकत्वात् किञ्च तन्त्वन्तरस्य तत्पटावयवत्वे
पूर्ब्बं तत्पट एव न स्यात् तत्तन्तुरूपकारणा-
भावात् तत्तन्तोरवयवत्वाभावे च न तेन परि-
माणाधिक्यं संयुक्तद्रव्यान्तरवत् तस्मात्तत्र
तन्त्वन्तरसंयोगे सति पूर्ब्बपटनाशस्ततः पटा-
न्तरोत्पत्तिरित्यवश्यं स्वीकार्य्यम् । अवयविनः
प्रत्यभिज्ञानन्तु साजात्येन दीपकलिकादिवत् न
च पूर्ब्बतन्तव एव तन्त्वन्तरसहकारात् पूर्ब्ब-
पटे सत्येव पटान्तरमारभ्यमिति वाच्यम्
मूर्त्तयोः समानदेशताविरोधात् एकदा नाना-
द्रव्यस्य तत्रानुपलभ्य बाधितत्वाच्च पूर्ब्बद्रव्यस्य
प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्यवश्य-
मभ्युपेयत्वात् ॥” इति सिद्धान्तमुक्तावली ॥)

परिमार्ग्यं, त्रि, (परि + मृज् + ण्यत् । “चजोः

कु घिण्यतोः ।” ७ । ३ । ५२ । इति जस्यगः ।
“मृजेर्वृद्धिः ।” ७ । २ । ११४ । इति वृद्धिः ।)
परिमृज्यम् । परिशोधनीयम् ॥

परिमार्जनं, क्ली, (परि + मृज् + ल्युट् ततो वृद्धिः ।)

खाद्यभेदः । मधुमस्तकम् । यथा, शब्दचन्द्रिका ।
“मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च ये ।
मधुमस्तकमुद्दिष्टं तस्याख्या परिमार्ज्जनम् ॥”
परिशोधनञ्च ॥

परिमितं, त्रि, (परि + मा + क्तः । परितो मितं

वा ।) युक्तम् । इति त्रिकाण्डशेवः ॥ परिमाण-
विशिष्टम् । यथा, उद्भटः ।
“द्रविणं परिमितमधिक-
व्ययिनं जनमाकुली कुरुते ।
क्षीणाञ्चलमिव पीन-
स्तनजघनायाः कुलीनायाः ॥”

परिमृज्यं, त्रि, (परि + मृज् + “मृजेर्विभाषा ।”

३ । १ । ११३ । इति क्यप् ।) परिमार्ग्यम् । इति
व्याकरणम् ॥

परिमेयं, त्रि, (परिमीयते इति । परि + मा + “अचो

यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।”
६ । ४ । ६५ । इति ईत् ततो गुणः ।) परि-
पृष्ठ ३/०६३
माणविशिष्टम् । परिमातव्यम् । परिमाणीयम् ।
(यथा, रघुः । १ । ३७ ।
“माभूदाश्रमपीडेति परिमेयपुरःसरौ ।
अनुभावविशेषात्तु सेनापरिगताविव ॥”)

परिमोक्षः, पुं, (परितो मोक्षः परित्यागः ।) मल-

त्यागः । यथा, श्रीभागवते २ । ६ । १० ।
“पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ! ।
हिंसाया निरृतेर्म्मृत्योर्निरयस्य गुदं स्मृतम् ॥”
“परिमोक्षस्य मलत्यागस्य । पायुरिन्द्रियं गुदं
स्थानम् । निरृतेरलक्ष्म्याः ।” इति तट्टीकायां
श्रीधरस्वामी ॥ * ॥ परित्राणम् । यथा, विष्णु-
धर्म्मीत्तरे ।
“सर्व्वाशुभानां परिमोक्षकारि
संपूजनं देववरस्य विष्णोः ।”
इति तिथ्यादितत्त्वम् ॥
(विमुक्तिः । यथा, महाभारते । १ । २ । १६० ।
“कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात् ॥”)

परिमोषी, [न्] त्रि, (परिमुष्णातीति । परि +

मुष् + णिनिः ।) परिमोषणशीलः । चौरः ।
(इति हेमचन्द्रः । ३ । ४६ ॥)

परिरम्भः, पुं, (परिरम्भ्यते इति । परि + रभि +

घञ् । “रभेरशब्लिटोः ।” ७ । १ । ६३ । इति
नुम् ।) आलिङ्गनम् । इत्यमरः । ३ । २ । ३० ॥
(यथा, गीतगोविन्दे । ५ । ७ ।
“ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं
मूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥”)

परिवत्सरः, पुं, वत्सरः । इति जटाधरः ॥ वत्सर-

विशेषः । यथा, मलमासतत्त्वे ।
“शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्सराः ।
सम्परीदानुपूर्ब्बाश्च तथोदापूर्ब्बका मताः ॥”
“परिपूर्ब्बे तथादानं यवानाञ्च द्बिजोत्तमाः ॥”
इति विष्णुधर्म्मोत्तरम् ॥

परिवर्ज्जनं, क्ली, (परिवर्ज्यते परित्यज्यते प्राणैर्येन ।

परि + वृज् + णिच् + ल्युट् ।) मारणम् । इत्य-
मरः । २ । ८ । ११४ ॥ (भावे ल्युट् ।) परित्यागः ।
यथा, उद्भटः ।
“गोप्यो न दोषो मथुराङ्गनानां
धूर्त्तस्य कृष्णस्य हि रीतिरेषा ।
विपर्य्ययो येन कृतः स्वपित्रो-
स्तस्योपपत्नीपरिवर्ज्जनं किम् ॥”
परिवर्ज्जनीया यथा, कौर्म्मे उपरिभागे १५ अः ।
“एकशय्यासनं पंक्तिभाण्डपक्वान्नमिश्रणम् ।
याजनाध्ययने योनिस्तथैव सहभोजनम् ॥
सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसङ्गिताः ॥
समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम् ।
तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यं परिवर्ज्जयेत् ॥”
“यस्मिन्देशे न सम्मानो न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित्तं देशं परिवर्ज्जयेत् ॥”
इति चाणक्यम् ॥
“ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् ।
शूद्रमक्षरसंयुक्तं दूरतः परिवर्ज्जयेत् ॥
कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् ।
कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्ज्जयेत् ॥”
इति गरुडपुराणे ११३ अध्यायः ॥
(“यस्य वै भाषमाणस्य रुजत्यूर्द्धमुरोभृशम् ।
अन्नञ्च च्यवते भुक्तं स्थितञ्चापि न जीर्य्यति ॥
बलञ्च हीयते यस्य तृष्णा चाभिप्रवर्द्धते ।
जायते हृदि शूलञ्च तं भिषक् परिवर्ज्जयेत् ॥”
इति चरकेणेन्द्रियस्थाने षष्ठेऽध्याय उक्तम् ॥)

परिवर्त्तः, पुं, (परिवर्त्तनमिति । परि + वृत् + भावे

घञ् ।) विनिमयः । (यथा, रामायणे । २ ।
१०५ । २५ ।
“हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिवागतम् ।
ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः ॥”)
कूर्म्मराजः । अपवर्त्तनम् । इति मेदिनी ॥
युगान्तः । इति हेमचन्द्रः ॥ ग्रन्थविच्छेदः ।
इति जटाधरः ॥ मृत्युपुत्त्रस्य दुःसहस्यौरसेन
कलिकन्यानिर्म्माष्टिगर्भजाताष्टपुत्त्रान्तर्गततृतीय-
पुत्त्रः । (यथा, मार्कण्डेये । ५१ । २ ।
“अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ।
दन्ताकृष्टिस्तथोक्तिश्च परिवर्त्तस्तथापरः ॥”
तन्नामनिरुक्तिर्यथा तत्रैव १४ श्लोके ।
“अन्यगर्भे परान् गर्भान् सदैव परिवर्त्तयन् ।
रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् ॥
परिवर्त्तकसंज्ञोऽयं तस्यापि सितसर्षपैः ।
रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्व्वीत तत्त्ववित् ॥”)
तस्य पुत्त्रयोः कर्म्मादि यथा, --
“परिवर्त्तसुतौ द्बौ तु विरूपविकृतौ द्बिज ! ।
तौ तु वृक्षाद्रिपरिखाप्राकाराम्भोधिसंश्रयौ ॥
गुर्व्विण्याः परिवर्त्तन्तौ कुरुतः पादपादिषु ।
क्रोष्टुके ! परिवर्त्तः स्याद्गर्भस्यान्योदरात्ततः ॥
न वृक्षञ्चैव नैवाद्रिं न प्राकारं पयोनिधिम् ।
परिखां न समाक्रामेदबला गर्भधारिणी ॥”
इति मार्कण्डेयपुराणे । ५१ । ६२ -- ६४ ॥

परिवर्त्तनं, क्ली, (परि + वृत् + ल्युट् ।) परिवर्त्तः ।

तत्पर्य्यायः । परिदानम् २ विनिमयः ३ नैमेयः ४
व्यतिहारः ५ परावर्त्तः ६ वैमेयः ७ विमयः ८ ।
इति हेमचन्द्रः ॥ (यथा, रघुः । १९ । १३ ।
“अङ्कमङ्कपरिवर्त्तनोचिते
तस्य निन्यतुरशून्यतामुभे ।
बल्लकी च हृदयङ्गमस्वना
वल्गुवागपि च वामलोचना ॥”)

परिवर्त्तिका, स्त्री, मेढ्रजातक्षुद्ररोगविशेषः । तल्ल-

क्षणमाह ।
“मर्द्दनात् पीडनाद्वापि तथैवाप्यभिघाततः ।
मेढ्रचर्म्म यदा वायुर्भजते सर्व्वतश्चरन् ॥
तदा वातोपसृष्टन्तु तच्चर्म्म परिवर्त्तते ।
सवेदनं सदाहञ्च पाकञ्च व्रजति क्वचित् ॥
मणेरधस्तात् कोषस्तु ग्रन्थिरूपेण लम्बते ।
मारुतागन्तुसम्भूतां विन्द्यात्तां परिवर्त्तिकाम् ।
सकण्डुः कठिना वापि सैव श्ले ष्मसमन्विता ॥”
अस्यां वातजायामपि पित्तानुबन्धो बोद्धव्यो
दाहपाकभावात् । कोषः चर्म्मकोषः ॥ * ॥
अथ तस्याश्चिकित्सा ।
“परिवृत्तं घृताभ्यक्तं सुस्विन्नमुपनाहयेत् ।
त्रिरात्रं पञ्चरात्रं वा वातघ्नैः शाल्वणादिभिः ॥
ततोऽभ्यज्य शनैश्चर्म्म पाटयेत् पीडयेन्मणिम् ।
प्रविष्टे चर्म्मणि मणौ स्वेदयेदुपनाहयेत् ॥
दद्याद्वातहरान् वस्तीन् स्निग्धान्यन्नानि भोजयेत् ।”
इति भावप्रकाशः ॥

परिवसथः, पुं, (परितो वसन्त्यत्र । परि + वस् +

उपसर्गे वसेरिति अथच् ।) ग्रामः । इति हेम-
चन्द्रः ४ । २७ ॥

परिवहः, पुं, (परि सर्व्वतोभावेन वहतीति । परि

+ वह् + अच् ।) सप्तवाय्वन्तर्गतषष्ठवायुः । स
तु सुवहवायोरुपरिस्थितः । (यथा, सिद्धान्त-
शिरोमणौ ।
“भूवायुरावह इह प्रवहस्तदूर्द्धः
स्यादुद्वहस्तदनुसंवहसंज्ञकश्च ।
अन्यस्ततोऽपि सुवहः परिपूर्ब्बकाऽस्मात्
वाहः परावह इमे पवनाः प्रसिद्धाः ॥”)

परिवादः, पुं, (परिसर्व्वतो दोषोल्लेखेन वादः

कथनम् । परि + वद् + भावे घञ् ।) अपवादः ।
(यथा, महानिर्व्वाणतन्त्रे । १ । ४२ ।
“नीचसंसर्गनिरताः परवित्तापहारकाः ।
परनिन्दापरद्रोह-परिवादपराः खलाः ॥” * ॥
परि + वद् + णिच् + करणे घञ् ।) वीणा-
वादनवस्तु । इति मेदिनी ॥

परिवादकः, त्रि, (परिवदतीति । परि + वद् +

ण्वुल् ।) परिवादकर्त्ता । इति व्याकरणम् ॥

परिवादिनी, स्त्री, (परिवदति स्वरानिति । परि

+ वद् + “सुप्यजातौ णिनिस्ताच्छील्ये ।” ३ । २ ।
७८ । इति णिनिः स्त्रियां ङीप् ।) सप्ततन्त्री-
युक्तवीणा । इत्यमरः ॥ (यथा, माघे । ६ । ९ ।
“कलतया वचसः परिवादिनी
स्वरजिता रजितावशमाययुः ॥”)
परिवादविशिष्टा च ॥

परिवादी, [न्] त्रि, (परिवदतीति परिवदितु

शीलमस्य वा । परि + वद् + शीलार्थे कर्त्तरि
णिनिः ।) परिवादकर्त्ता । (यथा, महाभारते ।
७ । ७१ । २६ ।
“साधूनसूयतां ये च ये चापि परिवादिणाम् ॥”
परिवादो निन्दा विद्यतेऽस्य ।) परिवाद-
विशिष्टः । इति परिवादशब्दादस्त्यर्थे इनिः ॥

परिवापः, पुं, (परिसर्व्वत उप्यते इति । परि + वप्

+ घञ् ।) पर्य्युप्तिः । वपनम् । जलस्थानम् ।
परिच्छदः । इति मेदिनी । पे २५ ॥

परिवापनं, क्ली, (परि + वप् + णिच् + ल्युट् ।)

मुण्डनम् । इति हेमचन्द्रः ॥

परिवापितं, त्रि, (परिवाप्यते स्म । परि + वप +

णिच् + क्त ।) मुण्डितम् । इत्यमरः । ३ । १ । ८५ ॥

परिवारः, पुं, (परिव्रियतेऽनेन । परि + वृ + करणे

घञ् ।) परिजनः । (यथा, रघुः । ६ । १० ।
“मनुष्यवाह्यं चतुरस्रयान-
मध्यास्य कन्या परिवारशोभि ।
पृष्ठ ३/०६४
विवेश मञ्चान्तरराजमार्गं
पतिंवरा कॢप्तविवाहवेषा ॥”)
खड्गकोषः । परिच्छदः । इति मेदिनी । रे ।
२८० ॥

परिवाहः, पुं, (पर्य्यह्यते तृणादिकं येन । परि +

वह् + घञ् ।) परीवाहः । जलोच्छासः । इत्य-
मरटीकायां रमानाथः ॥ (यथा, रघुः । ८ । ७४ ।
“स विवेश पुरीं तया विना
क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्
स्वशुचः पौरबधूमुखाश्रुषु ॥”)

परिविण्णः, पुं, (परि + विद् + क्तः ।) परिवित्तिः ।

यथा, उद्वाहतत्त्वे ।
“ज्येष्ठेऽनिर्विष्टे कनीयान् निर्व्विषन् परिवेत्ता भवति
परिविन्नो ज्येष्ठः परिवेदनीया कन्या परिदायी
दाता परिकर्त्ता याजकः ते सर्व्वे पतिताः ॥”

परिवित्तिः, पुं, (परिवर्ज्जनं विन्दति लभते इति ।

परि + विद् + क्तिच् ।) परिवेत्तृज्येष्ठः । कृत-
विवाहस्यानूढज्येष्ठभ्राता । इत्यमरः । २ । ७ । ५६ ॥
(यथा, मनुः । ३ । १७१ ।
“दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्ब्बजः ॥”)

परिविन्दन्, [त्] पुं, (परित्यज्य ज्येष्ठं भ्रातरं

विन्दति अग्न्याधानभार्य्यादिकं लभते इति ।
विद् + शतृ ।) परिवेदनकर्त्ता । यथा, --
“देशान्तरस्थक्लीवैकवृषणानसहोदरान् ।
वेश्याभिसक्तपतितशूद्रतुल्यातिरोगिणः ॥
जडमूकान्धवधिरकुब्जवामनकुष्ठकान् ।
अतिवृद्धानभार्य्यांश्च कृषिसक्तान् नृपस्य च ॥
धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा ।
कुलटोन्मत्तचौरांश्च परिविन्दन् न दुष्यति ॥”
इत्युद्वाहतत्त्वे छन्दोगपरिशिष्टम् ॥

परिविष्णु, क्ली, सर्व्वतो विष्णुः । विष्णुं विष्णुं परि

इत्यव्ययीभावसमासे दुर्गादासः ॥

परिवृहितं, त्रि, वृहिधातोः कर्म्मणि क्तः । (ततः

परितो वृंहितमिति ।) सर्व्वतोभावेन दीप्ति-
विशिष्टम् । सर्व्वतोभावेन करिगर्ज्जितम् ।
सर्व्वतोभावेन वृद्धिविशिष्टम् । सर्व्वतोभावेन
ध्वनिविशिष्टम् ॥

परिवृढः, त्रि, (परिसर्व्वतोभावेन वृंहति वर्द्धते

इति । वृहि बृद्धौ + कर्त्तरि क्तः । निपातनात्
हकारलोपो निष्ठातस्य ढत्वञ्च ।) अधिपः । ।
प्रभुः । इत्यमरः । ३ । १ । ११ ॥
(यथा, राजतरङ्गिण्याम् । ३ । २८२ ।
“जगत्परिवृढः प्रौढप्रीतिस्तं स फलार्थिनम् ।
कृत्वा प्रादुष्कृतवपुस्ततो भूयोऽप्यभाषत ॥”)

परिवृतः, त्रि, (परिसर्व्वतोभावेन वृतः ।) आवृतः ।

वेष्टितः । यथा, --
“व्यवहारान् नृपः पश्येत् सभ्यैः परिवृतोऽन्वहम् ।”
इति मिताक्षरा ॥

परिवृत्तिः, पुं, (परिवर्ज्जने वर्त्तते इति । परि +

वृत् + क्तिच् ।) परिवित्तिः । इति हड्डः ॥ (परि
+ वृत् + भावे क्तिन् । परिवर्त्तनम् । यथा,
महाभारते । १४ । १८ । २९ ।
“तस्य कालपरीमाणमकरोत् स पितामहः ।
भूतेषु परिवृत्तिञ्च पुनराघृत्तिमेव च ॥”
अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे ।
१० । १०५ ।
“परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत् ॥”
क्रमेणोदाहरणं यथा, --
“दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम ।
मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ॥”
अत्र प्रथमेऽर्द्धे समेन द्वितीयेऽर्द्धे न्यूनेन ॥)

परिवृहितं, त्रि, सर्व्वतोभावेन वृद्धिविशिष्टम् ।

सर्व्वतोभावेनोद्यमविशिष्टम् । इति वृहधातोः
कर्म्मणि क्तप्रत्ययनिष्पन्नम् ॥

परिवेत्ता, [ऋ] पुं, (परित्यज्य ज्येष्ठं भ्रातरं

विन्दति भार्य्यामग्न्यादिकं वा लभते इति । विद
लाभे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति
तृच् ।) अनूढज्येष्ठे कृतविवाहकनिष्ठः । इत्युद्-
वाहतत्त्वम् ॥ (यथा, मनुः । ३ । १७१ ।
“दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवृत्तिस्तु पूर्ब्बजः ॥”)

परिवेदनं, क्ली, (परि + विद् + ल्युट् ।) विवाहः ।

अग्न्याध्यानम् । यथा, --
“क्लीवे देशान्तरगते पतिते भिक्षुकेऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥”
इत्युद्वाहतत्त्वे शातातपः ॥
सर्व्वतोभावेन ज्ञानम् । (यथा, महाभारते ।
१४ । १६ । १२ ।
“स हि धर्म्मः सुपर्य्याप्तो ब्रह्मणः परिवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥”)
सर्व्वतोभावेन विचारणम् । सर्व्वतोभावेन विद्य-
मानत्वम् । सर्व्वतोभावेन लाभः ॥

परिवेदिनी, स्त्री, (परिवेदोऽस्त्यस्यामिति । इनि

ङीप् च ।) परिवेत्तुः स्त्री । इति हेमचन्द्रः ॥

परिवेदनीया, स्त्री, (परिविद्यते या । परि + विद्

अनीयर् ।) अनूढज्येष्ठे तत्कनिष्ठेन विवा-
हिता कन्या । अस्य प्रमाणं परिदायिशब्दे
द्रष्टव्यम् ॥

परिवेशः, पुं, (परितो विशतीति । परि + विश् +

घञ् ।) वेष्टनम् । परिधिः । इनि मेदिनी । शे । ३७ ॥
“वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः ।
मालाभा व्योम्नि तनुते परिवेशः प्रकीर्त्तितः ॥”
इति भरतधृतसाहसाङ्कः ॥

परिवेषः, पुं, (परितो विष्यते व्याप्यतेऽनेन ।

विषिरौ व्यापने + घञ् ।) परिवृतिः । परिधिः ।
(बृहत्संहितायाम् ३४ अध्याये तल्लक्षणादिक-
मुक्तम् । तद्यथा, --
“सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डली-
भूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ॥
ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरि
शुक्लाः ।
इन्द्रयमवरुणनिरृ तिश्वसनेशपितामहाग्नि-
कृताः ॥
धनदः करोति मेचकमन्योऽन्यगुणाश्रयेण
चाप्यन्ये ।
प्रविलीयते मुहुर्मुहुरल्पफलः सोपि वायुकृतः ॥
चाषशिखिरजततैलक्षीरजलाभः स्वकाल-
सम्भूतः ।
अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥
सकलगगनानुचारी नैकाभः क्षतजसन्निभो
रूक्षः ।
असकलशकटशरासन शृङ्गाटकवत्स्थितः पापः ॥
शिखिगलसमेऽतिवर्षं बहुवर्णे नृपवधो भयं धूम्रे ।
हरिचापनिभे युद्धान्यशोककुसुमप्रभे चापि ॥
वर्णेनैकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः ।
स्वर्त्तौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥
दीप्तविहङ्गमृगरुतः कलुषः सन्ध्यात्रयोत्थितो-
ऽतिमहान् ।
भयकृत्तडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण ॥
प्रतिदिनमर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः ।
परिविष्टयोरभीक्ष्णं लग्नास्तनभःस्थयोस्तद्बत् ॥
सेनापतेर्भयकरो द्बिमण्डलो नातिशस्त्रकोप-
करः ।
त्रिप्रभृतिशस्त्रकोपं युवराजभयं नगररोधम् ॥
वृष्टिस्त्र्यहेन मासेन विग्रहोवा ग्रहेन्दुभनिरोधे ।
होराजन्माधिपयोर्जन्मर्क्षे वाशुभो राज्ञः ॥
परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाश-
करः ।
जनयति च वातवृष्टिं स्थावरकृषिकृन्निहन्ता च ॥
भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्र-
भयम् ।
जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥
मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ।
श्रुक्रे यायिक्षत्त्रियराज्ञां पीडा प्रियं चान्नम् ॥
क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।
परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयञ्च ॥
युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्बयो-
र्ग्रहयोः ।
दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु
प्रोक्तम् ।
याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं
मृत्योः ।
प्रलयमिव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु ॥
ताराग्रहस्य कुर्य्यात् पृथगेव समुत्थितो नरेन्द्र-
वधम् ।
नक्षत्राणामथवा यदि केतोर्नोदयो भवति ॥
विप्रक्षत्त्रियविट्शूद्रहा भवेत् प्रतिपदादिषु
क्रमशः ।
श्रेणीपुरकोशानां पञ्चम्यादिष्वशुभकारी ॥
युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोष-
करः ।
पुररोधो द्बादश्यां सैन्यक्षोभस्त्रयोदश्याम् ॥
नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्द्दश्याम् ।
पृष्ठ ३/०६५
कुर्य्यात्त् पञ्चदश्यां पीडां मनुजाधिपस्यैव ॥
नागरकाणामभ्यन्तरस्थिता यायिनाञ्च वाह्यस्था ।
परिवेषमध्यरेखा विज्ञेया क्रन्दसाराणाम् ॥
रक्तः श्यामो रूक्षश्च भवति येषां पराजय-
स्तेषाम् ।
स्निग्धः श्वेतो द्युतिमान् येषां भागो जय-
स्तेषाम् ॥”)
परिवेषणम् । इति हेमचन्द्रः ॥

परिवेषकः, पुं, (परिवेषतीति । परि + विष् +

ण्वुल् ।) परिवेष्टा । परिवेषणकर्त्ता । तस्य
लक्षणं यथा, --
“स्नातश्चन्दनचर्च्चितः सुवसनः स्रग्वी प्रसन्नाननः
स्पष्टात्मा सुभगः प्रसन्नहृदयः श्रीकान्तपूजारतः ।
स्वामिस्नेहपरःस्वकार्य्यनिपुणः प्रौढो वदान्यःशुचि-
र्विप्रो वा परिवेषकस्तु कुलजश्चान्योऽपि वा
भूपतेः ॥”
इति पाकराजेश्वरः ॥

परिवेषणं, क्ली, (परि + विष् + णिच् + ल्युट् ।) वेष्ट-

नम् । भोजनार्थं भोजनपात्रे अन्नादेर्दानम् ।
अथ श्राद्धे परिवेषणं मनुः ।
“पाणिभ्यान्तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् ।
विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥
अन्नस्येति तृतीयार्थे षष्ठी वर्द्धितं पूरितं पात्र-
मिति शेषः । उपनिक्षिपेत् परिवेषणार्थम् ।
तथा च पाकस्थाल्या आकृष्य प्रथमं भोजन-
पात्रे न देयं किन्तु स्थाल्यादिकं पाणिभ्यां पात्र-
समीपे भूमौ संस्थाप्य पश्चात् पाणिभ्यां पात्रा-
न्तरिताभ्यां श्राद्धे परिवेषयेत् । उभाभ्यामपि
हस्ताभ्यामाकृष्य परिवेषयेदिति मत्स्यपुरा-
णात् । यत्तु श्राद्धे परिवेषणन्तु दक्षिणपाणि-
मात्रेणैवाङ्गानभिधानादिति मैथिलोक्तं तन्न ।
एकेन पाणिना दत्तं शूद्रादत्तं न भक्षयेदित्यादि
पुराणीयेन एकपाणिदत्तशूद्रादत्तभक्षणनिषेधेन
तन्मात्रपरिवेषणस्यापि निषिद्धत्वात् पाणिभ्या-
मपि पात्रान्तरितं कृत्वा देयम् ।
हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्विषम् ॥
तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा ।
प्रदद्यान्न तु हस्तेन नायसेन कदाचन ॥
इति वशिष्ठवचनेन सामान्यतोऽभिधानात् । पितृ-
भक्तितरङ्गिण्यामप्येवम् । मनुः ।
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ।
विन्यसेद्यत्नतः सम्यग्भूमावेव समाहितः ॥
आमिषं पानपात्रञ्च भोक्तुर्दक्षिणतो न्यसेत् ।
भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च ॥
हृद्यानि चैव मांसानि पानानि सुरभीणि च ।
उपनीय च तत् सर्व्वं शनकैः सुसमाहितः ॥
परिवेषयेत् प्रयतो गुणान् सर्व्वान् प्रचोदयन् ।
गुणान् उपकरणानि भूमावेव न तु व्यञ्जनादि-
पात्राणि अन्नादि पात्रोपरि निक्षिपेत् ।” इति
श्राद्धतत्त्वम् ॥

परिवेषिका, स्त्री, (परिवेषति या । परि + विष्

+ ण्वुल् । स्त्रियां टाप् अत इत्वञ्च ।) परि-
वेषणकर्त्त्री । तस्या लक्षणं यथा, --
“स्नाता विशुद्धवसना नवधूपिताङ्गी
कर्पूरसौरभमुखी नयनाभिरामा ।
विम्बाधरा शिरसि वद्धसुगन्धिपुष्पा
मन्दस्मिता क्षितिभृतां परिवेषिका स्यात् ॥”
इति पाकराजेश्वरः ॥

परिवेष्टितं, त्रि, सर्व्वतोभावेन वेष्टितम् । तत्-

पर्य्यायः । परिक्षिप्तम् २ वलयितम् ३ निवृतम्
४ परिष्कृतम् ५ परीतम् ६ । इति हेमचन्द्रः ॥

परिव्याधः, पुं, (परि सर्व्वतोभावेन विध्यतीति ।

परि + व्यध्यौ ताडे + “श्याद्व्यधेति ।” ३ । १ ।
१४१ । इति णः ।) अम्बुवेतसः । द्रुमोत्पलः ।
इत्यमरः । २ । ४ । ३०, ६० ॥

परिव्रज्या, स्त्री, (परि + व्रज + भावे क्यप् । स्त्रियां

टाप् ।) तपस्या । इति हेमचन्द्रः । १ । ८१ ।
(इतस्ततो भ्रमणम् । यथा, मनुः । १० । ५२ ।
“वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥”
“लौहवलयादि चालङ्करणं सर्व्वदा च भ्रमण-
शीलत्वम् ॥” इति कुल्लूकभट्टः ॥)

परिव्राजः, पुं, (परित्यज्य सर्व्वान् विषयभोगान्

गृहाश्रमाद् व्रजतीति । परि + व्रज् + संज्ञायां
कर्त्तरि घञ् ।) परिव्राट् । इत्यमरटीकायां
रमानाथः ॥

परिव्राजकः, पुं, (परिव्राज + स्वार्थे कन् । परिव्रज-

तीति । परि + व्रज् + ण्वुल् वा ।) परिव्राट् ॥
(यथा, गोः रामायणे । ३ । ५५ । २ ।
“स परिव्राजकश्छद्मा महाकायशिरोधरः ।
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ॥”)

परिव्राजिः, स्त्री, (परि + व्रज् + णिच् + इन् ।)

श्रावणी । इति राजनिर्घण्टः ॥ थुलकुडी इति
भाषा ॥ (श्रावणीमण्डूकपर्णीशब्दयोरस्या
विशेषो ज्ञेयः ॥)

परिव्राट्, [ज्] पुं, (परित्यज्य सर्व्वं विषय-

भोगं गृहस्थाश्रमाद् व्रजति
गच्छतीति । परि + व्रज् + क्विप् दीर्घश्च ।)
चतुर्थाश्रमी । तत्पर्य्यायः । भिक्षुः २ कर्म्मन्दी ३
पाराशरी ४ मस्करी ५ । इत्यमरः । २ । ७ । ४२ ॥
सन्न्यासी ६ श्रमणः ७ । इति जटाधरः ॥ परि-
व्राजकः ८ पराशरी ९ व्रजकः १० । इति शब्द-
रत्नावली ॥ तस्य लक्षणं यथा, गरुडपुराणे ।
“सर्व्वारम्भपरित्यागो भैक्ष्याश्यं ब्रह्ममूलता ।
निष्परिग्रहताद्रोहसमताः सर्व्वजन्तुषु ॥
प्रियाप्रियपरिष्वङ्गे सुखदुःखाविकारिता ।
संवाह्याभ्यन्तरं शौचं सुखदुःखाविकारिता ॥
सर्व्वेन्द्रियसमाहारो धारणा ध्याननित्यता ।
भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते ॥”

परिव्राड्, पुं, (परित्यज्य सर्व्वं विषय-

भोगं गृहस्थाश्रमाद् व्रजति
गच्छतीति । परि + व्रज् + क्विप् दीर्घश्च ।)
चतुर्थाश्रमी । तत्पर्य्यायः । भिक्षुः २ कर्म्मन्दी ३
पाराशरी ४ मस्करी ५ । इत्यमरः । २ । ७ । ४२ ॥
सन्न्यासी ६ श्रमणः ७ । इति जटाधरः ॥ परि-
व्राजकः ८ पराशरी ९ व्रजकः १० । इति शब्द-
रत्नावली ॥ तस्य लक्षणं यथा, गरुडपुराणे ।
“सर्व्वारम्भपरित्यागो भैक्ष्याश्यं ब्रह्ममूलता ।
निष्परिग्रहताद्रोहसमताः सर्व्वजन्तुषु ॥
प्रियाप्रियपरिष्वङ्गे सुखदुःखाविकारिता ।
संवाह्याभ्यन्तरं शौचं सुखदुःखाविकारिता ॥
सर्व्वेन्द्रियसमाहारो धारणा ध्याननित्यता ।
भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते ॥”

परिशङ्कनीयः, त्रि, (परिशङ्क्यते इति । परि + शङ्क

+ अनीयर् ।) सर्व्वतोभावेन शङ्काविषयः । यथा,
“शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीय-
माराधितोऽपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥”
इत्युद्भटः ॥

परिशिष्टं, क्ली, (परितः शिष्टः । शिष् + क्तः ।)

परिशेषविशिष्टम् । अवशिष्टार्थबोधकग्रन्थः ।
इति हेमचन्द्रः । २ । १७१ ॥ (यथा, छान्दोग-
परिशिष्टम् । गृह्यपरिशिष्टमित्यादि ॥)

परिशुष्कं, क्ली, (परितः शुष्कम् । शुष् + क्तः ।)

मांसव्यञ्जनभेदः । यथा, --
“मांसं बहुघृतैर्भृष्टं सिक्तञ्चेच्चाम्बुना मुहुः ।
जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥”
इति शब्दचन्द्रिका ॥
सर्व्वतोनीरसे त्रि ॥ (यथा, हेः रामायणे ।
२ । ५९ । ५ ।
“उपतप्तोदका नद्यः पल्वलानि सरांसि च ।
परिशुष्कपलाशानि वनान्युपवनानि च ॥”)

परिशोधः, पुं, (परि + शुध् + भावे घञ् ।) परि-

शोधनम् । सर्व्वतोभावेन शुद्धिः ॥

परिशोषः, पुं, (परि + शुष् + भावे घञ् ।)

सर्व्वतोभावेन शुष्कता । (यथा, गोः रामा-
यणे । ४ । १५ । ३४ ।
“वाय्वर्कपरिपीताम्बुर्विपरिम्लानपङ्कजः ।
तडाग इव कालेन परिशोषं गमिष्यति ॥”)

परिश्रमः, पुं, (परि + श्रम् + घञ् । न वृद्धिः ।)

परिश्रान्तिः । तत्पर्य्यायः । श्रमः २ क्लमः ३
क्लेशः ४ प्रयासः ५ आयासः ६ व्यायामः ७ ।
इति हेमचन्द्रः । २ । २३३ ॥ (यथा, रघुः ।
१ । ५८ ।
“तमातिथ्यक्रियाशान्त-रथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥”)

परिश्रयः, पुं, (परिश्रयत्यस्मिन् इति । परि + श्रि

+ “एरच् ।” ३ । ३ । ५६ । इति अच् ।)
सभा । (भावे अच् ।) आश्रयः । इति मेदिनी ।
ये । १२२ ॥

परिश्रान्तः, त्रि, (परि + श्रम + कर्त्तरि क्तः ।)

सर्व्वतोभावेन श्रान्तियुक्तः । (यथा, महा-
भारते । १ । ४९ । २६ ।
“परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः ।
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम् ॥”
स्त्री । गायत्रीस्वरूपा भगवती । यथा, देवी-
भागवते । १२ । ६ । ९३ ।
“पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्व्वतस्तनमण्डला ॥”)

परिश्रुतः, त्रि, (परि + श्रु + क्तः ।) सर्व्वतोभावेन

श्रवणविशिष्टः ॥

परिश्लेषः, पुं, (परि + श्लिष + भावे घञ् ।)

आश्लेषः ॥

परिषत्, [द्] स्त्री, (पारतः सीदन्त्यस्याम् । पार-

+ सद् + अधिकरणे क्विप् । “सदिरप्रतेः ।”
८ । ३ । ६६ । इति षत्वम् ।) सभा । इत्य-
मरः । २ । ७ । १५ ॥ (यथा, गोः रामा-
यणे । २ । १३ । १६ ।
पृष्ठ ३/०६६
“यादृशी परिषत् सीते ! दूतश्चायं तथाविधः ।
ध्रुवमद्यैव राजा मां यौवराज्येऽभिषेक्ष्यति ॥”
परियच्च खलु द्बिविधा, ज्ञानवती मूढपरिषच्च,
सैव द्विविधा सती त्रिविधा पुनरनेन कारण-
विभागेन सुहृत्परिषत्, उदासीनपरिषत, प्रति-
निविष्टपरिषच्चेति । तत्र प्रतिनिविष्टायां परि-
षदि ज्ञानविज्ञानवचनप्रतिवचनशत्ति सम्पन्नायां
मूढायां वा न कथञ्चित् केनचित् सह जल्पो
विधीयते । मूढायान्तु सुहृत्परिषदि उदा-
सीनायां वा ज्ञानविज्ञानमन्तरेणाप्यदीप्तयशसा
महाजनद्बिष्टेन सह जल्पो विधीयते । तद्बिधेन
च सह कथयता आविद्धदीर्घसूत्रसङ्कलैर्वाक्य-
दण्डकैः कथयितव्यम् । अतिहृष्टं मुहुर्मुहुरुप-
हसता परं रूपयता च परिषदमाकारैब्रुव-
तश्चास्य वाक्यावकाशो न देयः । कष्टशब्दञ्च
ब्रुवन् वक्तव्यो नोच्यत इति । अथवा पुनर्हीना ते
प्रतिज्ञेति पुनश्चाह्वयमानः प्रतिवक्तव्यः । परि-
संवत्सरोभव शिक्षस्व तावत् । पर्य्याप्तमेतावत्ते ।
सकृदपि हि पारिक्षेपिकं निहतं निहतमाहु-
रिति । नास्य योगः कर्त्तव्यः कथञ्चिदप्येवं श्रेयसा
सह विगृह्य वक्तव्यमित्याहुरित्येके । नत्वेवं
ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः । प्रत्य-
वरेण तु सह समानाभिमतेन वा विगृह्य जल्पता
सुहृत्परिषदि कथयितव्यम् । अथवाप्यु-
दासीनपरिषदि अनवधानश्रवणज्ञानविज्ञानोप-
धारणवचनशक्तिसम्पन्नायां कथयता चाव-
हितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यम् ।
समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र
जल्पं योजयेत् अनाविकृतमयोगं कुर्व्वन् । यत्र
त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात् ।”
इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)
परिषत्त्वं यथा, प्रायश्चित्तविवेके ।
“एकविंशतिसंख्याकैर्मीमांसान्यायपारगैः ।
वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रकल्पयेत् ॥”

परिषदः, पुं, (परितः सीदतीति । परि + सद् +

अच् । “सदिरप्रतेः ।” ८ । ३ । ६६ । इति
षत्वम् ।) पारिषदः । अनुचरः । इति भरत-
कृतद्विरूपकोषः ॥

परिषद्यः, पुं, (परिषदमर्हतीति । परिषद् + यत् ।)

परिषद्वलः । इति भरतकृतद्विरूपकोषः ॥

परिषद्वलः, पुं, (परिषदस्यास्तीति । परिषद् +

“रजःकृष्यासुतिपरिषदो वलच् ।” ५ । २ ।
१११ । इति वलच् ।) सभासदः । पारिषदः ।
इति शब्दरत्नावली ॥ (यथा, भट्टिः । ४ । १२ ।
“व्रातीनव्यालदीप्रास्तः सुत्वनः परिपूजयन् ।
परिषद्बलान्महाब्रह्मैराट नैकटिकाश्रमान् ॥”)

परिष्कन्दः, त्रि, (परिष्कन्दतीति । परि + स्कन्दिरौ

गतिशोषणयोः + पचाद्यच् । “परेश्च ।” ८ ।
३ । ७४ । इति षत्वम् ।) परिस्कन्दः । पर-
पुष्टः । इत्यमरटीकायां रमानाथः ॥

परिष्कणः, त्रि, (परि + स्कन्द + क्तः । दस्य तस्य

च नः । “परेश्च ।” ८ । ३ । ७४ । इति षत्वे
णत्वञ्च ।) परिस्कन्दः । इत्यमरटीकायां राय-
मुकुटः ॥

परिष्कारः, पुं, (परिष्क्रियतेऽनेन । परि + कृ +

“सम्परिभ्यां करोतौ भूषणे ।” ६ । १ । १३७ ।
इति सुट् । “परिनिवीति ।” ८ । ३ । ७० ।
इति षत्वम् ।) अलङ्कारः । इत्यमरः । २ । ६ ।
१०१ ॥ संस्कारः । शुद्धिः ॥

परिष्कृतः, त्रि, (परिष्क्रियते स्म इति । परि + कृ

+ क्तः । “सम्परिभ्यामिति ।” सुट् । “परि-
निवीति ।” ८ । ३ । ७० । इति षत्वञ्च ।)
भूषितः । अलङ्कृतः । इत्यमरः । २ । ६ । १०० ॥
वेष्टितः । इति हेमचन्द्रः ॥ आहितसंस्कारः ।
इति वेदिशब्दटीकायां भरतः ॥

परिष्कृतभूमिः, स्त्री, वेदिः । परिष्कृता यज्ञार्थं

पशुबन्धनाय यज्ञपात्रासादनाय चाहितसंस्कारा
भूमिः । इत्यमरभरतौ ॥

परिष्टोमः, पुं, (परितः स्तूयते नानावर्णवत्त्वादिति ।

स्तु + मन् । ततः षत्वम् । केचित्तु “परेःस्तौतिं
प्रति अनुपसर्गत्वात् न षः ।” इत्युक्त्वा परि-
स्तोम इति कल्पयन्ति ।) परिस्तोमः । इत्यमर-
टीकायां स्वामी ॥

परिष्वङ्गः, पुं, (परिष्वञ्जनम् । परि + स्वञ्ज + घञ् ।

“परिनिवीति ।” ८ । ३ । ७० । इति षत्वम् ।)
आलिङ्गनम् । इत्यमरः । ३ । २ । ३० ॥ (यथा,
गोः रामायणे । १ । ४ । ८८ ।
“अङ्गदप्रमुखानाञ्च हरीणां रामदर्शनम् ।
हनूमतः परिष्वङ्गो राघवेण महात्मना ॥”)

परिसभ्यः, पुं, सर्व्वतोभावेन सभायां साधुः इत्यर्थे

यत् प्रत्ययः ॥ परिषद्यः । सभासदः ॥

परिसरः, पुं, (परिसरन्त्यत्र । परि + सृ + “पुंसीति ।”

३ । ३ । ११८ । इति घः ।) पर्य्यन्तभूः । नदी-
नगरपर्व्वतादेरुपान्तभूमिः । इत्यमरभरतौ ॥
(यथा, मेघदूते । ६९ ।
“मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥”)
मृत्युः । विधिः । इति मेदिनी । रे । २७९ ॥

परिसर्पः, पुं, (परि समन्तात् सर्पणम् । परि +

सृप् + धञ् ।) परिक्रिया । परिजनादिना
वेष्टनम् । समन्तात् सर्पणम् । इत्यमरभरतौ ॥
(सर्पविशेषः । यथा, सुश्रुते कल्पस्थाने
४ अध्याये । तत्र दर्व्वीकराः । “गवेधुकः परि-
सर्पः खण्डफणः ककुदः पद्मो महापद्मः ॥” इति ।
कुष्ठविशेषः । यथा, तत्रैव निदानस्थाने ५ म
अध्याये । “क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महा-
कुष्ठमेककुष्ठञ्चर्म्मदलं विसर्पः परिसर्पः सिध्म
विचर्च्चिका किटिमं पामा रकसा चेति ॥”)

परिसर्य्या, स्त्री, (परिसरणमिति । सृ गतौ + “परि-

चर्य्या परिसर्य्येति ।” ३ । ३ । १०१ । इत्यस्य
वार्त्तिं इति निपातनात् सिद्धम् ।) परीसारः ।
सर्व्वतोगमनम् । भूमौ सर्व्वतोभ्रमणम् । इति
सर्व्वस्वम् ॥ अन्तसरणम् । इति केचित् । इत्य-
मरभरतौ ॥

परिस्कन्दः, पुं, (परिस्कन्दतीति । परि + स्कन्द +

अच् । “परेश्च ।” ८ । ३ । ७४ । इति पक्षे-
षत्वाभावः ।) परपुष्टः । परेण प्रतिपालितः ।
इत्यमरः । २ । १० । १८ ॥

परिस्कन्नः, पुं, (परि + स्कन्द + क्त । “परेश्च ।”

८ । ३ । ७४ । इति पक्षे षत्वाभावः ।) परि-
स्कन्दः । इत्यमरटीकायां रायमुकुटः ॥

परिस्तोमः, पुं, (परि स्तूयते प्रशस्यते नानावर्ण-

वत्त्वात् । परि + स्तु + “अत्तिस्तुस्विति ।” मन् ।
यद्बा परिगतः स्तोमोऽत्र वर्णस्तोमत्वात् ।)
गजपृष्ठस्थचित्रकम्बलः । इत्यमरः । २ । ८ । ४२ ॥
हातीर पिठेर झुल इति भाषा ॥

परिस्पन्दः, पुं, (परि + स्पन्द + अधिकरणे घञ् ।)

कुसुमप्रकरादेः पत्रावल्यादेश्च रचना । इत्य-
मरः । २ । ६ । १३७ ॥ परिकरः । परिवारः ।
इति हेमचन्द्रः । ३ । ३७९ ॥ (भावे + घञ् ।)
सर्व्वतोभावेन स्पन्दनञ्च ॥ (मर्द्दनम् । यथा,
महाभारते । १ । १५४ । ८ ।
“अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ! ।
नायं प्रतिबलो भीरु ! राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्व्वराक्षसाः ॥”)

परिस्पन्दनं, क्ली, (परि सर्व्वतोभावेन स्पन्द्यते

इति । परि + स्पन्द + ल्युट् ।) सर्व्वतोभावेन कम्प-
नम् । यथा । कोऽपि परिस्पन्दनसाधनसाध्यः ।
यथा गमनादिः । कोऽप्यपरिस्पन्दनसाधनसाध्यः ।
थथा अवस्थानादिः । इति गोयीचन्द्रः ॥

परिस्पन्दमानः, त्रि, (परिस्पन्दते इति । परि +

स्पन्द + शानच् ।) सर्व्वतोभावेन कम्पमानः ।
यथा । “अनवरतपरिस्पन्दमाना परिमित-
पवनादिपरमाणुचेतनसंयोगसन्तानान्तःपाति-
व्यक्तीनामविरतमेवोपरमात् ।” इति सामान्य-
लक्षणायां शिरोमणिः ॥

परिस्यन्दः, पुं, (परि + स्यन्द + भावे घञ् ।

अप्राणिकर्त्तृकत्वे वा षत्वम् ।) परिस्पन्दः । इत्य-
मरटीकायां भरतः ॥

परिस्रुत्, स्त्री, (परिस्रवतीति । परि + स्रु + क्विप्

तुक् च ।) वरुणात्मजा । मदिरा । इत्यमरः ।
२ । १० । ३९ ॥ (यथा, अथर्व्ववेदे । ३ । १२ । ७ ।
“एमां परिस्रुतः कुम्भ आदध्नः कलशैरगुः ॥”
सर्व्वतोभावेन क्षरिते त्रि । यथा, ऋग्वेदे । ८ ।
३९ । १० ।
“त्वामापः परिस्रुतः परियन्ति स्वसेतवो नभन्ता-
मन्यके समे ॥”)

परिस्रुतः, त्रि, (परितः सूयते स्म । स्रु स्रवणे +

“गत्यर्थेति ।” ३ । ४ । ७२ । इति क्तः ।) स्रव-
युक्तः । सर्व्वतोभावेन क्षरितः । इति मेदिनी ।
ते । २०६ ॥ (वारुणीशब्देऽस्या विवृतिर्ज्ञातव्या ।
यथा, यजुर्व्वेदे । २ । ३४ ।
“ऊज्ज वहन्तीरमृतं घृतं पयः कीलालं परि-
स्रुतम् ॥”)

परिस्रुता, स्त्री, (परितः स्रूयते स्मेति । परि + स्रु +

क्तः । स्त्रियां टाप् । अन्नादिभ्यः क्षरणेन जात-
पृष्ठ ३/०६७
त्वात् तथात्वम् ।) वारुणी । मदिरा इति
मेदिनी । ते । २०६ ॥

परिहारः, पुं, (परिह्रियतेऽनेनेति । परि + हृ +

घञ् ।) अवज्ञा । अनादरः । इति शब्दरत्ना-
वली ॥ (“परिहारो नाम तस्यैव दोषवचनस्य
परिहरणं यथा नित्यमात्मनि शरीरस्थे जीव-
लिङ्गान्यपलभ्यन्ते तस्य चापगमान्नोपलभ्यन्ते
तस्मादत्यः शरीरादामा नित्यः शरीराच्चेति ।”
इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ त्यागः ।
परिवर्ज्जनम् । यथा, राजतरङ्गिण्याम् । ४ ।
६७६ ।
“दुर्व्वृत्तस्य प्रभोरन्यत् परिहारात् न भेषजम् ॥”
गोपनम् । यथा, शकुन्तलायां १ म अङ्के ।
“कथमिदानीमात्मानं निवेदयामि कथं वा
आत्मनः परिहारं करोमि ॥” विजितद्रव्यादि-
कम् । यथा, मनुः । ७ । २०१ ।
“जित्वा सम्पूजयेत् देवान् ब्राह्मणांश्चैवधार्म्मि-
कान् ।
प्रदद्यात परिहारांश्च ख्यापयेदभयानि च ॥”
स्थानविशेषः । यथा, मनुः । ८ । २३७ ।
“धनुः शतं परीहारो ग्रामस्य स्यात् समन्ततः ॥”
अत्र कुल्लूकभट्टः । “चतुर्हस्तो धनुः शम्या
यष्टिस्तस्याः पातः प्रक्षेपो ग्रामसमीपे सर्व्वासु
दिक्षु चत्वारि हस्तशतानि त्रीन् वा यष्टिप्रक्षे-
पान् यावत् पशुप्रचारार्थं शस्यवपनादिसंरोध-
परिहारः कार्य्यः ॥”)

परिहार्य्यः, पुं, (परि + हृ + ण्यत् ।) पारिहार्य्यः ।

वलयः । इति भरतद्विरूपकोषः ॥ परिहरणीये
त्रि ॥ (यथा, शकुन्तलायाम् १ मे अङ्के ।
“न परिहार्य्ये वस्तुनि पौरवाणां मनः प्रवर्त्तते ॥”)

परिहासः, पुं, (परि + हस् + भावे घञ् ।) परि-

हसनम् । ठाट्टा इति भाषा । परीहासः ।
यथा । “परिहासः केलिमुखः केलिर्देवननर्म्मणी ।”
इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । क्रीडः २
देवना ३ । इति शब्दरत्नावली ॥ वर्क्करा ४ ।
इति जटाधरः ॥ (यथा, शकुन्तलायाम् २ ये
अङ्के ।
“परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां
वत्तः ॥”)

परीक्षकः, त्रि, (परि + ईक्ष + ण्वुल् ।) निरूपकः ।

(यथा, पञ्चतन्त्रे । १ । ८४ ।
“परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीरदेशे किल चन्द्रकान्तं
त्रिभिर्वराटैर्विपणन्ति गोपाः ॥”)
तत्पर्य्यायः । कारणिकः २ । इत्यमरः । ३ । १ । ७ ॥
परीक्षते अवधारयति प्रमाणेन । यथा, वह्निना
परीक्षकः स्वर्णस्य स्वर्णकारः । कारणैर्हेतुभि-
श्चरति कारणिकः इति भरतः ॥

परीक्षणं, क्ली, (परि + ईक्ष + ल्युट् ।) परीक्षा ।

राज्ञा धर्म्मकामार्थभयैरमात्यादेर्भावतत्त्वनिरू-
पणम् । इति भरतः ॥ यथा, --
“भेदोपजापावुपधाधर्म्माद्यैर्यत् परीक्षणम् ।”
इत्यमरः । २ । ८ । २१ ॥
सर्व्वतोभावेन दर्शनञ्च ॥

परीक्षा, स्त्री, (परित ईक्ष्यतेऽनया । परि + ईक्ष

+ “गुरोश्च हलः ।” ३ । ३ । १०२ । इति अः ।
ततष्टाप् ।) दिव्यम् । अथ दिव्यानि । तत्र
बृहस्पतिः ।
“धटोऽग्निरुदकञ्चैव विषं कोषश्च पञ्चमम् ।
षष्ठञ्च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकम् ॥
अष्टमं फालमित्युक्तं नवमं धर्म्मजं स्मृतम् ।
दिव्यान्येतानि सर्व्वाणि निर्द्दिष्टानि स्वयम्भुवा ॥”
अथ किन्तद्दिव्यम् ।
तत्र मानुषप्रमाणानिर्णयस्यापि निर्णायकं यत्त-
द्दिव्यमिति लोकप्रसिद्धम् । एतद्यद्यपि शपथा-
नामस्ति तथापि कालान्तरनिर्णायकत्वेन तेषां
भेदात् । अपिना मानुषप्रमाणसत्त्वेऽपि यत्र
धटादीनामङ्गीकारस्तत्रापि तद्भवति इति सूचि-
तम् । अतएव लिखितसाक्षिभुक्तिलक्षणत्रिविध-
मानुषप्रमाणभिन्नप्रमाणं यत्तद्दिव्यं प्रमाणं तत
प्रमाणं न भावैकगोचरं किन्तु भावाभावा-
विशेषेण गोचरयतीति । तत्र महाभियोगेषु
दिव्यान्याह याज्ञवल्क्यः ।
“तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥”
विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये ।
महाभियोगेषु महापातकादिगुरुतराभियोगेषु ।
शीर्षकस्थ इति शीर्षकं प्रधानं व्यवहारस्य
चतुर्थपादो जयपराजयलक्षणः । तेन दण्डो
लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड-
भागीत्यर्थः । महाभियोगान् स्पष्टयति कालिका-
पुराणम् ।
“परदाराभिशापे च चौर्य्यागम्यागमेषु च ।
महापातकशस्तेषु स्याद्दिव्यं नृपसाहसे ॥
प्रतिपत्तौ विवादे च पणस्य स्थापने कृते ।
तत्रैव स्थापयेद्दिव्यं शिरःपूर्ब्बं महीपतिः ॥”
परदाराभिशापे च बहवो यत्र वादिनः ।
शिरोहीणं भवेद्दिव्यमात्मनः शुद्धिकारणात् ॥”
पितामहः ।
“शिरःस्थायिविहीनानि दिव्यानि परिवर्ज्जयेत् ।
चत्वारि तु धटादीनि कोषश्चैवाशिराः स्मृतः ॥”
महाभियोगेतरेऽपि कोषमाह स्मृतिः । कोष-
मल्पे च दापयेत् । याज्ञवल्क्येनाभियोक्तुर्वादिनः
शिरोवर्त्तित्वाभिधानादभियोज्यस्य दिव्यकर्त्तृत्वं
प्रतिपादितम् । व्यक्तमाह कात्यायनः ।
“न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥”
प्रत्यर्थिस्वीकारेणार्थिनोऽपि दिव्यमाह याज्ञ-
वल्क्यः ।
“रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ।
विनापि शीर्षकान् कुर्य्यान्नृपद्रोहेऽथ पातके ॥”
इतरोऽभियुक्तः शिरः शारीरदण्डमर्थदण्डं वा
वर्त्तयेत् स्वीकुर्य्यात् । बृहस्पतिः ।
“स्नेहात्क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः ।
विधिदृष्टस्य दिव्यस्य न भेदो जायते क्वचित् ॥”
भेदः सत्याद्वैपरीत्यम् । यत्तु कात्यायनवचनम् ।
“क्रिया न वैदिकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः ॥”
इति तद्गुणान्वितसाक्षिसत्त्वे । यथा व्यासः ।
“मणिमन्त्रौषधिबलात् प्रदत्तं वा विधानतः ।
विसंषदेद्दिव्यमपि न तु साक्षी गुणान्वितः ॥”
अतएव नारदः ।
“युक्तिष्वप्यवसन्नासु शपथेनैनमर्द्दयेत् ॥”
एनं विपर्य्ययमाणमर्थं अर्द्दयेत् पीडयेत् ।
निर्द्धारयेदिति यावत् ॥ * ॥ शपथानाह नारदः ।
सत्यवाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादांश्च दत्तानि सुकृतानि च ॥
स्पृशेच्छिरांसि पुत्त्राणां दाराणां सुहृदान्तथा ।
अभियोगेषु सर्व्वेषु कोषपानमथापि वा ॥
इत्येते शपथाः प्रोक्ता मनुना स्वल्पकारणात् ॥”
बृहस्पतिः ।
“यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।
अयथोक्तप्रदत्तन्तु न शक्तं साध्यसाधने ॥
अदेशकालदत्तानि वहिर्वादिकृतानि च ।
व्यभिचारं सदा त्वेवं कुर्व्वन्तीह न संशयः ॥”
वहिर्वादिकृतमभियोक्तारं विना कृतम् । एतच्च
प्रायिक्तं आत्मशुद्धिपराणामभियोक्तारं विनापि
दिव्यविधानात् ।
तथा च नारदः ।
“राजभिः शङ्कितानाञ्च निर्द्दिष्टानाञ्च दस्युभिः ।
आत्मशुद्धिपराणाञ्च देयं दिव्यं शिरो विना ॥ * ॥”
अथ दिव्यदेशाः । कात्यायनः ।
“इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतोऽन्येषु च कार्य्येषु सभामध्ये विदुर्बुधाः ॥”
इन्द्रस्थाने इन्द्रध्वजस्थाने ॥ * ॥
अथ दिव्यकालाः । पितामहः ।
“चैत्रो मार्गशिराश्चैव वैशाखश्च तथैव हि ।
एते साधारणा मासा दिव्यानामविरोधिनः ॥
धटः सर्व्वर्त्तुकः प्रोक्तो वाते वाति विवर्ज्जयेत् ।
अग्निः शिशिरहेमन्तवर्षासु परिकीर्त्तितः ॥
शरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ।
कोषस्तु सर्व्वदा देयस्तुला स्यात् सार्व्वकालि-
कीति ॥”
मिताक्षरायां नारदः ।
“न शीते तोयशुद्धिः स्यान्नोष्णकालेऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां नृप ! ॥”
नारदः ।
“पूर्ब्बाह्णे सर्व्वदिव्यानां प्रदानं परिकीर्त्तितम् ।
नापराह्णे न सन्ध्यायां न मध्याह्ने कदाचन ॥”
शीते हेमन्तशिशिरवर्षासु । उष्णकाले ग्रीष्म-
शरदोः । वर्षासु विषनिषेधश्चतुर्यवातिरिक्तपरः ।
वषे चतुर्यवा मात्रा इति वक्ष्यमाणनारदवचनात् ।
तण्डुलादीनान्तु विशेषानभिधानात् सार्व्वकालि-
पृष्ठ ३/०६८
कत्वम् । अत्र विषे विशेषतो वर्षानिषेधात् वक्ष्य-
माणवचने सिंहस्थरवावेव परीक्षामात्रनिषे-
धाच्चदिव्यान्तरं सिंहेतरत्र वर्षास्वपि कुर्व्वीत ।
व्यतोयास्यायने हरौ सुप्ते सर्व्वकर्म्माणि वर्ज्जये-
दित्यस्य न विषयः । ज्योतिषे ।
निंहस्थे मकरस्थे च जीवे चास्तमिते तथा ।
मलमासे न कर्त्तव्या परीक्षा जयकाङ्क्षिणा ॥
रविशुद्धो गुरौ चैव न शुक्रेऽस्तङ्गते पुनः ।
“सिंहस्थे च रवौ नैव परीक्षा शस्यते बुधैः ॥
नाष्टम्यां न चतुर्द्दश्यां प्रायश्चित्तपरीक्षणे ।
न परीक्षा विवाहश्च शनिभौमदिने तथा ॥
रविशुद्धौ गुरौ चैवेत्यत्र शस्यत इति शेषः ॥
तथा च दीपिकायाम् ।
“नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवी जन्ममासे-
ऽष्टमेन्दौ
विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्म-
तारासु चाथ ।
नाडीनक्षत्रहीने गुरुरविरजनीनाथतारा-
विशुद्धौ
प्रातः कार्य्या परीक्षा द्वितनुचरगृहांशोदये
शस्तलग्ने ॥” * ॥
पितामहः ।
“प्रत्यक्षं दापयेद्दिव्यं राजा वाधिकृतोऽपि वा ।
वाह्मणानां श्रुतवतां प्रकृतीनान्तथैव च ॥”
ब्राह्मणानां प्रकृतीनाञ्च प्रत्यक्षं दिव्यं दापये-
दित्यन्वयः । प्रकृतयस्तु ।
“स्वाम्यमात्यः मुहृत् कोषो राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि चेति
अमरसिंहोक्ताः ॥ * ॥
अथ दिव्यविशेषाधिकारिणः । नारदः ।
“ब्राह्मणस्य धटो देयः क्षत्त्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥
साषारणः समस्तानां कोषः प्रोक्तो मनीषिभिः ।
विषषर्ज्जं ब्राह्मणस्य सर्व्वेषान्तु तुला स्मृता ॥”
यत् पुनरनेन ।
“मव्रतानां भृशार्त्तानां व्याधितानां तपस्विनाम् ।
स्वीणाञ्च न भवेद्दिव्यं यदि धर्म्मस्त्वपेक्षितः ॥”
इति स्त्र्यादीनां दिव्यं निषिद्धं तत्तुलेतरविषयक-
मिति शूलपाणिः ॥ मिताक्षारायान्तु ।
स्त्रोपुंसयोर्व्विवादेन स्त्रीणां दिव्यमिति रुच्या
वान्यतरः कुर्य्यादिति विकल्पनिषेधार्थमेतदुक्तं
भवति । अवष्टब्धाभियोगेषु स्त्र्यादीनामभि-
योक्तृत्वे अभियोज्यानामेव दिव्यं एतेषामभियोगे
योज्यत्वेऽपि अभियोक्तॄणामेव दिव्यं परस्पराभि-
योगे तु विकल्प एव तत्रापि तुलैवेति नियम्यते ।
तथा महापातकादिशङ्काभियोगे तु स्त्र्यादीनां
तुलैव । यथा याज्ञवल्क्यः ।
“तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर्जलं वा शूद्रस्य यवाः सप्त विषञ्च वा ॥”
स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण बाल
आपोडशाद्वर्षाज्जातिविशेषानादरेण वृद्धो-
ऽशीतिपारगः । एतच्च वत्तनं सर्व्वदिव्यसाधा-
रणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्व्व-
दिव्यसमवधानविधाने नियमार्थकतयार्थवत् । न
च सर्व्वकालं स्त्रीणान्तुलैवेति ।
“स्त्रीणान्तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोषादिभिस्तासामन्तस्तत्त्वं विचारयेत् ॥”
इति विषसलिलव्यतिरिक्तधटकोषादिभिः शुद्बि-
विधानात् । एवं बालादिष्वपि योजनीयम् ।
तथा ब्राह्मणादीनामपि न सार्व्वकालिकस्तुलादि-
नियमः ।
“सर्व्वेषामेव वर्णानां कोषाच्छुद्धिर्विधीयते ।
सर्व्वाण्येतानि सर्व्वेषां ब्राह्मणस्य विषं विना ॥”
इति पितामहस्मरणात् ।
तस्मात् साधारणे काले बहुदिव्यसमवधाने
तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु
तत्तत्कालविहितं सर्वेषाम् । तथा हि वर्षा-
स्वग्निरेव सर्व्वेषां हेमन्तशिशिरयोस्तु क्षत्त्रिया-
दीनां त्रयाणां अग्निविषयोर्विकल्पः ब्राह्मणस्य
तु अग्निरेव न कदाचिद्विषं ब्राह्मणस्य विषं
विनेति निषेधात् । ग्रीष्मशरदोस्तु सलिलमेव ।
येषां कुष्ठ्यादीनान्तु विशेषेणाग्न्यादिनिषेधः ।
“कुष्ठिनां वर्ज्जयेदग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषन्तु परिवर्ज्जयेदिति वच-
नात्तेषामग्न्यादिकालेऽपि साधारणं तुलाद्यव
दिव्यं भवति । यथा । तोयमग्निर्विषञ्चैव दातव्यं
बलिनां नृणामिति स्मरणात् । दुर्ब्बलानामपि
सर्व्वथा विषनिषेधात् तत्कालानतिक्रमेण जाति-
वयोऽवस्थाश्रितानि दिव्यानि देयानि । अत्र च
यस्य यानि विशेषसामान्यपर्य्युदस्तेतरविहितानि
तानि मुख्यकल्पानुकल्परूपाणि वेदितव्यानि ।
यथा, ब्राह्मणस्य धटो मुख्यः कोषस्त्वनुकल्पः ।
जलाग्नी आपत्कल्पौ प्रागुक्तनारदवचने एव-
कारश्रुतेर्भुख्यकल्पादित्वं न तु प्रशस्ततमादित्व-
मिति । एवञ्चात्रापि अयथोक्तप्रदत्तन्तु न शक्तं
साध्यसाधने इति प्रागुक्तं बोध्यम् । स्मृतिः ।
“अवष्टम्भाभियुक्तानां धटादीनि विनिर्द्दिशेत् ।
तण्डुलश्चैव कोषश्च शङ्कास्वेव न संशयः ॥”
अवष्टम्भोऽत्र निश्चयः । शिरोवर्त्तितेति केचित् ।
इति व्यवहारदीपिका ॥ कात्यायनः ।
“अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोमप्रसूतानां निश्चयो न तु राजनि ॥
तत्प्रसिद्धानि दिव्यानि समये तेषु निर्द्दिशेत् ॥”
तत्प्रसिद्धानि सर्पघटादीनि । तथा, --
देशकालाविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद्दिव्यं विधिरेष विपर्य्यये ॥”
अन्येन प्रतिनिधिना हारयेत् कारयेत् । विप-
र्य्यये अभियुक्तस्यासामर्थ्ये ।
अतएव महापातक्यादीनामन्यद्बारा दिव्यमाह
स एव ।
“मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां प्रमदानाञ्च मन्त्रयोगक्रियावताम् ।
वर्णसङ्करजातानां पापाभ्यासप्रवर्त्तिनाम् ॥
एतेष्वेवाभियोगेषु निन्द्येष्वेव प्रयत्नतः ।
इत्याद्यभिधाय ।
दिव्यं प्रकल्पयेन्नैव राजा धर्म्मपरायणः ।
एतैरेव प्रयुक्तानां साधूनां दिव्यमर्हति ॥”
कात्यायनः ।
“न लौहशिल्पिनामग्निं सलिलं नाम्बुसेविनाम् ।
तण्डुलैर्न नियुञ्जीत ब्राह्मणं मुखरोगिणम् ॥”
नारदः ।
“क्लीवातुरान् सत्त्वहीनान् परितापार्द्दितान्नरान् ।
बालवृद्धातुरादींश्च परीक्षेत धटे सदा ॥
नार्त्तानां तोयशुद्धिः स्यान्न विषं पित्तरोगिणाम् ।
श्वित्र्यन्धकुनखादीनां नाग्निकर्म्म विधीयते ॥”
न मज्जनं स्त्रीबालयोर्धर्म्मशास्त्रविशारदैः ।
निरुत्साहान् व्याधिकृशान्नार्त्तांस्तोये निमज्ज-
येत् ॥
न चापि हारयेदग्निं न विषेण विशोधयेत् ॥
यत्तु, --
स्थावरेषु विवादेषु दिव्यानि परिवर्ज्जयेदिति
पितामहवचनं तल्लिखितसामन्तादिसत्त्वे दिव्य-
निषेधकम् । यद्यपि अलेख्यसाक्षिके दिव्यं
व्यवहारे विनिर्द्दिशेदिति स्मृतेर्विवादान्तरेऽपि
लेख्यादिसत्त्वे दिव्यानादरस्तथापि ऋणादानादि-
विवादे साक्ष्युपन्यासे कृतेऽपि प्रत्यर्थी यदि
दण्डाङ्गीकारेण दिव्यमङ्गीकरोति तदा दिव्यमपि
भवति साक्षिणां दोषसम्भवाद्दिव्यस्य तु निर्दो-
षत्वेन वस्तुतत्त्वविषयत्वात् तल्लक्षणत्वाच्च धर्म्मस्य ।
यथाह नारदः ।
“तत्र सत्ये स्थितो धर्म्मो व्यवहारस्तु साक्षिणि ।
दैवसाध्ये पौरुषन्तु न लेख्यन्तु प्रयोजयेत् ॥”
स्थावरविवादे तु प्रत्यर्थिना दण्डाङ्गीकारेण
दिव्यावलम्बने कृते सामन्तादिदृष्टप्रमाणसद्भावे-
ऽपि दिव्यं ग्राह्यमिति विकल्पनिवारणाय
स्थावरेष्वित्यादि पितामहवचनं नात्यन्तिकदिव्यं
निराकरणाय लिखिताद्यभावे स्थावरादिषु
निर्णयाप्रसक्तेः ॥ * ॥
अथ द्रव्यसंख्यया दिव्यविशेषाः । विष्णुः ।
अथ समयक्रियाराजद्रोहसाहसेषु यथाकामं
निःक्षेपर्णस्तेयेष्वर्थप्रमाणादिति । समयो दिव्यं
राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यं
निःक्षेपादिषु तु धनप्रमाणतारतम्यादित्यर्थः ।
बृहस्पतिः ।
“संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥
विषं सहस्रेऽपहृते पादोने च हुताशनः ।
त्रिभागोने च सलिलमर्द्धे देयो धटः सदा ॥
चतुःशताभियोगे तु दातव्यस्तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोषश्चैव तदर्द्धके ॥
शते हृतेऽपह्नुते च दातव्यं धर्म्मशोधनम् ।
गोचौरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥
एषा संख्या निकृष्टानां मध्यानां द्बिगुणा स्मृता ।
चतुर्गुणोत्तमानान्तु कल्पनीया परीक्षकैः ॥”
रश्मिरजः ।
पृष्ठ ३/०६९
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥”
इति मनूक्तम् ॥
“कार्षापणान्ता पणान्ता कार्षापणः पण इति
पर्य्यायदर्शनात् । विनये दण्डे । एवञ्च सहस्र
इत्यादौ पण इति ज्ञेयं उपक्रमात् निकृष्टानां
जातिकर्म्मगुणैः । नासहस्राद्धरेदग्निं न तुलां न
विषन्तथेति याज्ञवल्क्यवचनं मध्यमोत्तमविषय-
त्वेन बृहस्पतिवचनैकवाक्यत्वादविरुद्धम् ।
“सहस्रेषु धटं दद्यात् सहस्रार्द्धे तथायसम् ।
अर्द्धस्यार्द्धे तु सलिलं तस्यार्द्धे तु विषं स्मृतम् ॥”
इति वचनं यत्राल्पापराधे पातित्यं तद्विषय-
मिति । एतत् सर्व्वं स्तेयसाहसविषयम् । अप-
ह्नवे तु कात्यायनः ।
“दत्तस्यापह्नवो यत्र प्रमाणं तत्र कारयेत् ।
स्तेयसाहसयोर्द्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥
सर्व्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तन्तु तदा दिव्यं प्रदापयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेश्च विनाशे तु दद्याच्चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।
विंशद्दशविनाशे तु कोषपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे ततोऽर्द्धार्द्धस्य तण्डुलाः ।
ततोऽर्द्बार्द्धविनाशे तु स्पृशेत् पुत्रादिमस्तकान् ॥
ततोऽर्द्धार्द्धविनाशे तु लौकिक्यश्च क्रियाः स्मृताः ।
एवं विचारयन्राजा धर्म्मार्थाभ्यां न हीयते ॥”
सुवर्णानां पञ्च कृष्णलको माषस्ते सुवर्णस्तु
षोडश इत्युक्ताशीतिरक्तिकापरिमितहेम्नां नाशे
अपह्नवे वा दशाधिकस्य पञ्चाधिकस्य वा
विंशस्य नाशे कोषपानमित्यर्थः । तण्डुलाः पुन-
रल्पचौर्य्याभिशङ्कायामेव न तु साहसादौ ।
चौर्य्ये च तंण्डुला देया नान्यत्रेति विनिश्चय इति
पितामहस्मृतेः । तप्तमाषस्तु महाचौर्य्याभि-
शङ्कायाम् ।
महाचौर्य्याभियुक्तानां तप्तमाषो विधीयते ।
इति स्मृतेः ॥
व्यवहारमातृकायाम् ।
“समत्वं साक्षिणां यत्र दिव्यैस्तमपि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥
दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः ॥”
इति दिव्यतत्त्वम् ॥ * ॥
धटादिनवविधपरीक्षा तत्तत्शब्दे द्रष्टव्या ॥
(“बुद्धिः पश्यति या भावान् बहुकारणयोगजान् ।
युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया ॥
एषा परीक्षा नास्त्यन्या यया सर्व्वं परीक्ष्यते ।
परीक्ष्यं सदसच्चैव तया चास्ते पुनर्भवः ॥”
इति चरके सूत्रस्थाने एकादशेऽध्याये ॥
“तत्र चेद्भिषगभिषग्वा भिषजं पृच्छेद्बमनविरे-
चनास्थापनानुवासन-शिरोविरेचनानि प्रयोक्तु-
कामेन भिषजा कतिविधया परीक्षया कति-
विधं परीक्ष्यं कश्चात्र परीक्ष्यविशेषः कथञ्च
परीक्षितव्यं किंप्रयोजना च परीक्षा क्व च
वमनादीनां प्रवृत्तिः क्व च निवृत्तिः प्रवृत्ति-
निवृत्तिलक्षण-संयोगे च किं नैष्ठिकं कानि च
वमनादीनां भेषजद्रव्याणि उपयोगं गच्छ-
न्तीति । स एवं पृष्टो यदि मोहयितुमिच्छेत्
ब्रूयादेनं बहुविधा परीक्षा तथा परीक्ष्यविधि-
भेदः कतमेन विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्या
भिन्नभेदाग्रं भवान् पृच्छत्याख्यायमानं नेदानीं
भवतोऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य
भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षा
विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वार्थमाच-
क्षाण इच्छां पूरयेयमिति ।
द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानञ्च
एतत्तु द्वयमुपदेशश्च परीक्षात्रयमेवमेषा
द्विविधा परीक्षा त्रिविधा वा सहोपदेशेन ।
दशविधं परीक्ष्यं कारणादि यदुक्तमग्रे तदिह
भिषगादिषु संसार्य्य सन्दर्शयिष्यामः इह कार्य्य-
प्राप्तेः कारणं भिषक्करणं पुनर्भेषजं कार्य्य-
योनिर्धातुवैषम्यं कायं धातुसाम्यं कार्य्यफलं
सुखावाप्तिः अनुबन्ध आयुः देशो भूमिरा-
तुरश्च कालः संवत्सरश्चातुरावस्था च प्रवृत्तिः
प्रतिकर्म्मासमारम्भः उपायो भिषगादीनां
सौष्ठवमभिविधानञ्च सम्यगिहाप्यस्योपायस्यं
विषयः पूर्ब्बेणैवोपायविशेषेण व्याख्यात इति
कारणादीनि दश दशसु भिषगादिषु संसार्य्य-
सन्दर्शितानि तथैवानुपूर्ब्ब्या एतद्दशविधपरीक्ष्य-
मुक्तम् ।
तस्य यो यो विशेषो यथा यथा च परीक्षितव्यः
स स तथा तथा व्याख्यास्यते कारणं भिषगि-
त्युक्तमग्रे तस्य परीक्षा भिषङ्नाम यो भिषज्यति
यः सूत्रार्थप्रयोगकुशलः यस्य चायुः सर्व्वथा-
विदितम् । यथावत् सर्व्वधातुसाम्यं चिकीर्षन्ना-
त्मानमेवादितः परीक्षेत गुणेषु गुणतः कार्य्याभि-
निर्वृत्तिं पश्यन् कच्चिदहमस्य कार्य्यस्याभिनिर्व-
र्त्तने समर्थो नवेति ।” इति चरके विमानस्थाने-
ऽष्टमेऽध्याये ॥)

परीक्षित्, पुं, (परि सर्व्वतोभावेन क्षीयते हन्यते

दुरितं येन । परि + क्षि वधे + क्विप् । कलि-
शासनादस्य तथात्वम् । यद्वा, परिक्षीणेषु कुरुषु
क्षियति ईष्टे इति । क्षि श ऐश्वर्य्ये + क्विप् ।
“उपसर्गस्य दीर्घलं क्विप्घञादौ क्वचिद्भवेत् ।”
इति वाक्यात् उपसर्गस्य दीर्घत्वम् । अस्य
निरुक्तिरुक्ता महाभारते । १ । ९५ । ८४ ।
“स भगवता वासुदेवेनासंजातबलवीर्य्यपरा-
क्रमोऽकालजातोऽस्त्राग्निना दग्धस्तेजसा स्वेन
संजीवितः । संजीवयित्वा चैनमुवाच । परि-
क्षीणे कुले जातो भवत्वयं परीक्षिन्नामेति ।”)
अभिमन्युपुत्त्रः । स युधिष्ठिरादनन्तरं कलि-
युगस्यारम्भे राजचक्रवर्त्ती आसीत् । यथा, --
“अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थाम-
प्रयुक्तब्रह्मास्त्रेण गर्भ एव भस्मीकृतो भगवतः
सकलसुरासुरवन्दितचरणयुगलस्य आत्मेच्छया
कारणमानुषरूपधारिणोऽनुभावात् पुनर्जीवित-
मवाप्य परीक्षिज्जज्ञे । योऽयं साम्प्रतमेतद्भूम-
ण्डलमखण्डितायति धर्मेण पालयति ।” इति
विष्णुपुराणे ४ अंशे २० अध्यायः ॥
“विपरीतानि दृष्ट्वा च निमित्तानि स पाण्डवः ।
याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥
प्रयास्यन्ति यदा चैते पूर्ब्बाषाढां महर्षयः ।
तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥”
इति तत्रैव २४ अः । ३८ -- ४० ॥
(अनश्वपुत्त्रः । यथा, महाभारते । १ । ९५ । ४० ।
“अनश्वा खलु मागधीमुपयेमे अमृतां
नाम तस्यामस्य जज्ञे परीक्षित् ॥”)

परीक्षितः, पुं, (परिक्षीणे कुरुकुले क्षियति स्म

ईष्टे स्म इति । परि + क्षि + क्तः । उपसर्गस्य
दीर्घत्वम् ।) अभिमन्युपुत्त्रः । (यथा, देवी-
भागवते । २ । ७ । ६ ।
“परिक्षीणेषु वंशेषु जातो यस्मात् वरः सुतः ।
तस्मात् परीक्षितो नाम विख्यातः पृथिवी-
तले ॥” * ॥
परीक्षा सञ्जाता अस्य । परीक्षा इतच् । कृत-
परीक्षे, त्रि । यथा, गोः रामायणे । २ । ४३ । ९ ।
“स हि राजगुणैर्युक्तो युवराजः परीक्षितः ॥”)

परीणायः, पुं, (परितो नयनम् । परि + नी +

घञ् । “उपसर्गस्य दीर्घत्वं क्विप्घञादौ
क्वचिद्भवेत् ।” इति पाक्षिको दीर्घः ।) परि-
णायः । शारीणां समन्तान्नयनम् । इत्यमर-
टीकायां भरतः ॥

परीतं, त्रि, (परि + इ + क्तः ।) परिवेष्टितम् ।

इति हेमचन्द्रः ॥ (यथा, महाभारते । १ ।
११२ । ७ ।
“ततः कामपरीताङ्गी सकृत्पचलमानसा ।
व्रीडमाना स्रजं कुन्ती राज्ञः स्कन्धे समासजत् ॥”)

परीतत्, त्रि, (परि + तन + क्विप् + “नहिवृतिवृषि-

व्यधीति ।” ६ । ३ । ११६ । इति पूर्ब्बपदस्य
दीर्घः ।) सर्व्वतोभावेन विस्तृतम् । इति मुग्ध-
बोधव्याकरणम् ॥

परीभावः, पुं, (परिभाव्यते इति । परि + भावि +

घञ् वैकल्पिकदीर्घश्च ।) परिभावः । अनादरः ।
इत्यमरटीकायां भरतः ॥

परीरं, क्ली, (पूर्य्यतेऽनेनेति । पॄ + “कॄशॄप

कटीति ।” उणां ४ । ३० । इति ईरन् ।)
फलम् । इत्युणादिकोषः ॥

परीरम्भः, पुं, (परिरभ्यते इति । परि + रभ + घञ्

भावे वैकल्पिकदीर्घत्वम् ।) परिरम्भः । आलि-
ङ्गनम् । इति भरतद्विरूपकोषः ॥

परीवर्त्तः, पुं, (परि + वृत् + घञ् । “उपसगस्य

घञीति ।” ६ । ३ । १२२ । इति दीर्घः ।) परि-
वर्त्तनम् । तत्पर्य्यायः । प्रतिदानम् २ नैमेयः ३
निमयः ४ । इत्यमरः । २ । ९ । ८० ॥ परिवर्त्तः ५
वैमेयः ६ विनिमयः ७ परिदानम् ८ । इति शब्द-
रत्नावली ॥ कूर्म्मराजः । इति जटाधरः ॥
पृष्ठ ३/०७०

परीवादः, पुं, (परि + वद् + भावे घञ् । “उप-

सर्गस्य घञीति ।” ६ । ३ । १२२ । इति दीर्घः ।)
दोषोल्लासः । तत्पर्य्यायः । कुत्सा २ निन्दा ३
जुगुप्सा ४ गर्हा ५ गर्हणम् ६ निन्दनम् ७
कुत्सनम् ८ परिवादः ९ जुगुप्सनम् १० आक्षेपः
११ अवर्णः १२ निर्वादः १३ अपक्रोशः १४
भर्त्सनम् १५ उपक्रोशः १६ अपवादः १७
अववादः १८ । इति शब्दरत्नावली ॥ (यथा,
“परीवादस्तथ्यो भवति विंतथो वापि महतां
तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो
रवेस्तादृक्तेजो नहि भवति कन्यां गतवतः ॥”)
वीणादिवादनम् । येन काष्ठविशेषादिना
वीणादिर्वाद्यते सः । इति जटाधरः ।

परीवारः, पुं, (परिव्रियतेऽनेनेति । परि + वृ + घञ् ।

उपसर्गस्य दीर्घः ।) खड्गकोषः । जङ्गमः ।
(यथा, रघुः । १५ । १६ ।
“धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥”)
परिच्छदः । इत्यमरः । ३ । ३ । १६८ ॥
परीवारः परिजने खड्गकोषे परिच्छदे ।
इत्यनेकत्र दर्शनात् । जङ्गमो जङ्गमविशेषः
परिजन इत्यर्थः । खड्गकोषोऽसिवायकः मेयान्
इति ख्यातः । परिच्छदः शोभाजनकमुपकरणं
छत्रचामरादिः सभ्यजनादिश्च एषु परीवारः ।
इति तट्टीकायां भरतः ॥

परीवाहः, पुं, (परितो वहत्यनेनेति । परि + वह +

“हलश्च ।” ३ । ३ । १२१ । इति घञ् । “उप-
सर्गस्य घञीति ।” ६ । ३ । १२२ । इति
दीर्घः ।) जलोच्छ्वासः । इत्यमरः । १ । १० । १० ॥
(अत्र जलशब्द उपलक्षणमात्रं ज्ञेयम् । द्रव-
द्रव्यस्य प्रवाहेऽप्यस्यार्थो बोद्धव्यः । यथा च
महाभारते । ७ । ६८ । १३ ।
“रुधिरस्य परीवाहान् पूरयित्वा सरांसि च ॥”
परित उह्यते इति ।) राजयोग्यवस्तु । इति
मेदिनी ॥ हे, ३३ ॥

परीष्टिः, स्त्री, (परि + इष् + “परे र्वा ।” ३ । ३ ।

१०७ । इत्यस्य वार्त्तिं इति पक्षे क्तिन् ।) अन्वे
षणा । इत्यमरः । २ । ७ । ३२ ॥ परिचर्य्या ।
प्राकाम्यम् । इति मेदिनी । टे, ४९ ॥

परीसारः, पुं, (परिसरणम् । परि + सृ + घञ् ।

“उपसर्गस्य घञीति ।” ६ । ३ । १२२ । इति
दीर्घः ।) परिसर्य्या । सर्व्वतोगमनम् । इत्य-
मरः । ३ । २ । २१ ॥

परीहारः, पुं, (परिहरणम् । परि + हृञ् हरणे

+ घञ् । “उपसर्गस्य घञीति ।” ६ । ३ ।
१२२ । इति दीर्घः ।) अवज्ञा । इति शब्द-
रत्नावली ॥

परीहासः, पुं, (परि + हस + घञ् । उपसर्गस्य

दीर्घः ।) परीहसनम् । (यथा, मार्कण्डेये । ३४ । ८४ ।
“परीवादं न कुर्व्वीत परीहासञ्च पुत्त्रक ! ॥”)
तत्पर्य्यायः । द्रवः २ केलिः ३ क्रीडा ४ लीला ५
नर्म्म ६ । इत्यमरः । १ । ७ । ३२ ॥ परिहासः ७
केलिमुखम् ८ देवनम् ९ । इति त्रिक्राण्ड-
शेषः ॥

परुः, पुं, (पिपर्त्तीति । पॄ लि पूर्त्तौ + बाहुलकादुः ।)

समुद्रः । स्वर्गलोकः । ग्रन्थिः । पर्व्वतः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

परुः, [स्] क्ली, (पॄ + “अर्त्तिपवपियजितनीति ।”

उणां । २ । ११८ । इति उस् ।) ग्रन्थिः । इत्य-
मरः । २ । ४ । १६२ ॥ (यथा, वाजसनेय-
संहितायाम् । १३ । २० ।
“काण्डात् काण्डात् प्ररोहन्ति परुषः (सः) परुषस्परि ॥”)

परुत्, व्य, (पूर्ब्बस्मिन् वत्सरे इति । “सद्यः परु-

दिति ।” ५ । ३ । २२ । इति पूर्ब्बस्य परभावः
उत् च ।) गतवत्सरः । इत्यमरः । २ । ४ । २० ॥

परुत्त्नः, त्रि, (परुत् गतवसरे भवः । परुत् + “चिर-

परुत्परारिभ्यस्त्नो वक्तव्यः ।” ४ । ३ । २३ ।
इत्यस्य वार्त्तिं इति त्नः ।) इति व्याकरणम् ॥

परुद्वारः, पुं, (परुः समुद्रः पर्व्वतो वा द्वारमिव

यस्य ।) वोटकः । इति शब्दमाला ॥

परुषं, क्ली, (पिपर्त्ति अलं बुद्धिं करोतीति । पॄ +

“पॄनहिकलिभ्य उषच् ।” उणां । ४ । ७५ ।
इति उषच् ।) निष्ठुरवाक्यम् । इत्यमरः । १ ।
६ । १९ ॥ (परेषां देशजातिकुलविद्याशिल्परूप-
वृत्त्याचारपरिच्छदशरीरकर्म्मजीविनां प्रत्यक्ष-
दोषवचनं परुषमिति वदन्ति ॥ यथा, हेः
रामायणे । १ । १ ८२ ।
“तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥”)
नीलझिण्टी । इति शब्दचन्द्रिका ॥ परुषफलम् ।
इति भावप्रकाशः ॥ (नीलझिण्टीशब्देऽस्य
गुणादयो ज्ञातव्याः ॥)

परुषं, त्रि, (पिपर्त्तीति । पॄ लि पूर्त्तौ + “पॄनहि-

कलिभ्य उषच् ।” उणां । ४ । ७५ । इति
उषच् ।) कर्व्वूरः । (यथा, बृहत्संहिता-
याम् । ३ । ३९ ।
“असितविचित्रनीलपरुषो जनघातकरः ।
खगमृगभैरवखररुतैश्च निशाद्युमुखे ॥”)
रूक्षः । (यथा, हेः रामायणे । १ । ५८ । १० ।
“अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः ॥”)
निष्ठुरोक्तिः । इति मेदिनी । षे, ४० ॥ (मलिनः ।
यथा, आर्य्यासप्तशत्याम् । ४१९ ।
“भस्मपरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन
सुभगासि ।”
“भस्ममलिनेऽपि गिरिशे ।” इति तट्टीका ॥)

परुषोक्तिकः, त्रि, (परुषमेव उक्तिर्यस्य । ततः

स्वार्थे कन् कप् वा ।) निष्ठुरवक्ता । इति
जटाधरः ॥

परूषं, क्ली, (पॄ + ऊषन् ।) फलवृक्षभेदः । परुष-

फल इति वङ्गभाषा । फरूसा इति फलूहे इति
च हिन्दीभाषा । तत्पर्य्यायः । परूषकम् २
नागदलोपमम् ३ । इति रत्नमाला ॥ परुषम् ४
अल्पास्थि ५ परापरम् ६ । इति भावप्रकाशः ॥
नीलचर्म्म ७ गिरिपीलु ८ परावतम् ९ नील-
मण्डलम् १० परुः ११ । अस्य गुणाः । अम्ल-
त्वम् । कटुत्वम् । कफार्त्तिवातनाशित्वञ्च । तदाम-
फलगुणः । पित्तदत्वम् उष्णत्वञ्च । तत्पक्वफल-
गुणाः । मधुरत्वम् । रुचिप्रदत्वम् । पित्तशोफ-
हरत्वम् । तर्पणत्वञ्च । इति राजनिर्घण्टः ॥
“परूषकं कषायाम्लमामं पित्तकरं लघु ।
तत् पक्वं मधुरं पाके शीतं विष्टम्भि बृंहणम् ॥
हृद्यं तृट्पित्तदाहास्रज्वरक्षयसमीरहृत् ॥”
इति भावप्रकाशः ॥
(“परूषकैटर्य्यकपीलुकानां
पियालसिंही करमर्द्दकानाम् ।
फलानि चैतानि निहन्ति पित्तं
हन्याच्च सर्व्वातुरसन्धिवातम् ॥”
इति हारीते प्रथमस्थाने दशमेऽध्याये ॥)

परूषकं, क्ली, (परूष + स्वार्थे कन् ।) परूषम् ।

इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, --
“परूषकं परूषं स्यात् क्वचिन्नागदलोपमम् ।”
इति वैद्यकरत्नमालायाम् ॥
यथास्य गुणाः चरके सूत्रस्थाने २७ अध्याये ।
“अम्लं परूषकं द्राक्षा वदर्य्याण्यारुकाणि च ।
पित्तश्लेष्मप्रकोपीनि कर्कन्धुलकुचान्यपि ॥”
“अत्यम्लमीषन्मधुरं कषायानुरसं लघु ।
वातघ्नं पित्तजननमामं विद्यात् परूषकम् ॥
तदेव पक्वं मधुरं वातपित्तनिवर्हणम् ।
विपाके मधुरं शीतं रक्तपित्तप्रसादनम् ॥”
इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)

परेतः, त्रि, (परं लोकमितः ।) मृतः । इत्य-

मरः । २ । ८ । ११७ ॥ (यथा, कुमारे । ५ । ६८ ।
“अलक्तकाङ्कानि पदानि पादयो-
र्विकीर्णकेशासु परेतभूमिषु ॥”)
भूतान्तरे पुं, । इति मेदिनी । ते, १२६ ॥

परेतराट्, [ज्] पुं, (परेतेषु मृतेषु राजते इति ।

राजृ ञ् ण दीप्तौ + “सत्सूद्बिषेति ।” ३ । २ । ६१ ।
इति क्विप् । यद्वा, परेत्रानां प्रेतानां राट् ।)
प्रेतराजः । यमः । इत्यमरः । १ । १ । ६१ ॥

परेद्यवि, व्य, परस्मिन्नहनि । (“सद्यःपरुदिति ।”

५ । ३ । २२ । इति निपातनात् साधुः ।) पर-
दिनम् । इति मुग्धबोधव्याकरणम् ॥ यथा, --
“परेद्यव्यद्यपूर्ब्बेद्युरन्येद्युश्चापि चिन्तयन् ।
वृद्धिक्षयौ मुनीन्द्राणां प्रियम्भावुकतामगात् ॥”
इति भट्टिः । ४ । १३ ॥

परेद्युः, [स्] व्य, (पर + एद्युस् ।) परदिनम् ।

इति मुग्धबोधव्याकरणम् ॥

परेपं, त्रि, परा गता आपो यत्र । (“द्ब्यन्तरुप-

सर्गेभ्योऽप ईत् ।” ६ । ३ । ९७ । इत्यस्य वार्त्तिं
“अवर्णान्ताद्वा ।” इति ईत् । परापम् ।) इति
सिद्धान्तकौमुदी ॥

परेष्टुका, स्त्री, (परैरिष्यते इति । इष + बाहु-

लकात् तु । स्वार्थे कन् । स्त्रियां टाप् ।) बहुसूति
बहुप्रसूता गौः । इत्यमरः । २ । ९ । ७० ॥
पृष्ठ ३/०७१

परैधितः, त्रि, (परैरेधितः सम्बर्द्धितः ।) औदा-

सीन्येन परपुष्टः । परेण संवर्ड्घितः । तत्पर्य्यायः ।
पराचितः २ परिष्कन्दः ३ परजातः ४ । इत्य-
मरः । २ । १० । १८ ॥ कोकिले पुं । इति शब्द-
माला ॥

परोक्षं, क्ली, (अक्ष्णोः परम् ।) अप्रत्यक्षम् । असा-

क्षात् । यथा, चाणक्यशतके ।
“परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्ज्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥”
(परोक्षं परोक्षत्वमित्यर्थः विद्यतेऽस्य । “अर्श-
आदिभ्योऽच् ।” ५ । १ । १२७ । इति अच् ।)
तद्विशिष्टेत्रि ॥ (श्रुत्याप्तजन्यादिज्ञानविशेषः ।
यथा, पञ्चदश्याम् । ७ । ३१ ।
“अस्ति कूटस्थ इत्यादौ परोक्षं वेत्ति वार्त्तया ॥”)

परोक्षः, पुं, (परोक्षमस्यास्तीति । श्रुत्याप्तवाक्य-

श्रवणजन्यदार्ढ्याच्चैवेति बोध्यम् ।) तपस्वी । इति
शब्दमाला ॥ ययातिपुत्त्रस्यानोः पुत्त्रविशेषः ।
यथा, भागवते । ९ । २३ । १ ।
“अनोः सभानरश्चक्षुः परोक्षश्च सुतास्त्रयः ॥”)

परोपकारः, पुं, (परेषामुपकारः ।) परेषा-

मुपकृतिः । अन्यसम्बन्धिहितम् । यथा, --
“एष मे प्रवरो भाति शुद्धधर्म्मप्रदो विधिः ।
परोपकरणादन्यत् सर्व्वमल्पं स्मृतं बुधैः ॥
परोपकारिभिर्दत्ता स्वप्राणा ऋषिभिः पुरा ।
अद्भिः प्रेतोपकारः स्यात् किन्न लब्धं मया पुनः ॥
दधीचिना पुरा गीतः श्लोकश्च श्रूयते भुवि ।
सर्व्वधर्म्ममयः सारः सर्व्वधर्म्मज्ञसम्मतः ॥
परोपकारः कर्त्तव्यः प्राणैः कण्ठगतैरपि ।
परोपकारजं पुण्यं तुल्यं क्रतुशतैरपि ॥”
इति पद्मांत्तरखण्डे २२ अध्यायः ॥

परोवरीणः, त्रि, परांश्चावरांश्चानुभवति । (“परो-

वरपरम्परपुत्त्रपौत्त्रमनुभवति ।” ५ । २ । १० ।
इति ।) अवरस्योत्वं निपात्यते । श्रेष्ठाश्रेष्ठ-
युक्तः । इति सिद्ध्वान्तकौमुदी ॥

परोष्णी, स्त्री, (परः शत्रुरुष्णो यस्याः ।) तैल-

पायिका । इत्यमरः । २ । ५ । २६ ॥ (काश्मीर-
देशस्थनदीविशेषः । यथा, राजतरङ्गिण्याम् ।
८ । २००७ ।
“कोष्टकोमल्लकोष्टाद्यैर्मितैर्युक्तोऽपि सादिभिः ।
तीर्त्वा परोष्णीं तत्सेनां निर्म्ममाथाप्रमा-
थिनीम् ॥”)

पर्कटिः, स्त्री, (पृच् धी च् सम्पर्के + बाहु-

लकादटिः । “बह्वादिभ्यश्च ।” ४ । १ । ४५
इति वा ङीष् ।) प्लक्षवृक्षः । इत्यमरटीकायां
भरतः ॥ पाकुड इति भाषा ॥ (यथा, हितोप
देशे । “अस्ति तत्र महान् पर्कटीवृक्षः ॥”)
तस्य गुणाः भावप्रकाशे ।

पर्कटी, स्त्री, (पृच् धी च् सम्पर्के + बाहु-

लकादटिः । “बह्वादिभ्यश्च ।” ४ । १ । ४५
इति वाङीष् ।) प्लक्षवृक्षः । इत्यमरटीकायां
भरतः ॥ पाकुड इति भाषा ॥ (यथा, हितोप
देशे । “अस्ति तत्र महान् पर्कटीवृक्षः ॥”)
तस्य गुणाः भावप्रकाशे ।
“प्लक्षः कषायः शिशिरो व्रणयोनिगदापहः ।
दाहपित्तकफास्रघ्नः शोथहा रक्तपित्तहृत् ॥”

पर्कटी, [न्] पुं, वृक्षविशेषः । पाकुड इति

भाषा ॥ तत्पर्य्यायः । प्लक्षः २ जटी ३ । इत्य-
मरः । २ । ४ । ३२ ॥ कमण्डलुतरुः ४ । इति
रत्नमाला ॥ कपीतनः ५ क्षीरी ६ सुपार्श्वः ७
कमण्डलुः ८ शृङ्गी ९ अवरोहः १० शाखी ११
गर्द्दभाण्डः १२ पीतनः १३ दृढप्ररोहः १४
प्लक्षकः १५ प्लवङ्गः १६ महाबलः १७ । अस्य
गुणाः कटुत्वम् । कषायत्वम् । शिशिरत्वम् ।
रक्तदोषमूर्च्छाभ्रमप्रलापनाशित्वञ्च । विशेषतो
ह्रस्वप्लक्षस्यैते गुणाः । इति राजनिर्घण्टः ॥

पर्ज्जनी, स्त्री, (परं स्वास्थं जनयतीति । पर् +

जन + णिच् । “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
स्त्रियां ङीप् ।) दारुहरिद्रा । इत्यमरः । २ । ४ । १०२ ॥

पर्ज्जन्यः, पुं, (पर्षति सिञ्चति वृष्टिं ददातीति । पृषु

सेचने + “पर्ज्जन्यः ।” उणां । ३ । १०३ । इति
निपातनात् षकारस्य जकारत्वे साधुः ।) इन्द्रः ।
(यथा, ऋग्वेदे । ६ । ५२ । १६ ।
“अग्नीपर्ज्जन्याववतं धियं मेऽस्मिन् हवे सुहवा
शब्दायमानमेघः । इत्यमरः । ३ । ३ । १४६ ॥
मेघशब्दः । इति विश्वः ॥ अगर्ज्जन्नपि मेघ ।
इति भरतः ॥ यथा, श्रीभगवद्गीतायाम् ।
“यज्ञाद्भवति पर्ज्जन्यः पर्ज्जन्यादन्नसम्भवः ॥”
(कश्यपपत्न्या मुनेः पुत्त्रविशेषः । स तु गन्धर्व्व-
विशेषः । यथा, महाभारते । १ । ६५ । ४४ ।
“तथा शालिशिरा राजन् ! पर्ज्जन्यश्च चतुर्द्दश ।
कलिः पञ्चदशस्त्वेषां नारदश्चैव षोडशः ॥”
पर्ज्जन्य इव सर्व्वकामप्रदानात् विष्णुः । यथा,
महाभारते । १३ । १४९ । १०० ।
“कुमुदः कुन्दरः कुन्दः पर्ज्जन्यः पावनोऽनिलः ॥”
“पर्ज्जन्यवदाध्यात्मिकादितापत्रयं शमयति सर्व्वान्
कामानभिवर्षतीति पर्ज्जन्यः ।” इति शाङ्कर-
भाष्यम् ॥)

पर्ज्जन्या, स्त्री, (पर्ज्जन्य + ठाप् ।) दारुहरिद्रा ।

इति राजनिर्घण्टः ॥

पर्ण, त् क हारित्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-सकं-सेट् ।) हरित् पीत-
वर्णस्तस्य भावः हारित्यम् । पर्णयति पर्णा-
पयति चम्पकम् । इति दुर्गादासः ॥

पर्णं, क्ली, (पिपर्त्तीति । पॄ + “धापॄवस्यज्यतिभ्यो

नः ।” उणां । ३ । ६ । इति नः । यद्वा,
पर्णयतीति । पर्ण त् क हारित्ये + अच् ।)
पत्रम् । इत्यमरः । २ । ४ । १४ ॥ (यथा,
कुमारे । ५ । २८ ।
“स्वयं विशीर्णद्रुमपर्णवृत्तिता
परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां
वदन्त्यपर्णेति च तां पुराविदः ॥”)
ताम्वूलम् । यथा, राजनिर्घण्टे ।
“अनिधाय मुखे पर्णं पूगं स्वादयते नरः ।
मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥
ताम्बूलधारिलक्षणं यथा, --
“अनाहार्य्योऽनृशंसश्च दृढभक्तिश्च पार्थिवे ।
ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥”
इति मात्स्ये १८९ अध्यायः ॥
(पिपर्त्ति पालयति गगनपातादिति । पॄ + न ।
पक्षः । यथा, महाभारते । १ । ३३ । २४ ।
“तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् ।
हृष्टानि सर्व्वभूतानि नाम चक्रुर्गरुत्मतः ।
सुरूपं पत्रमालक्ष्य तस्य पर्णमनुत्तमम् ॥”)

पर्णः, पुं, (पिपर्त्तीति । पॄ पालने + “धापॄवस्य-

ज्यतिभ्यो नः । उणां । ३ । ६ । इति नः ।
पलाशवृक्षः । इत्यमरः । २ । ४ । २९ ॥ (यथा,
ऋग्वेदे । १० । ९७ । ५ ।
“अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ॥”)

पर्णकारः, पुं, (पर्णं ताम्वूलम् । करोति उत्पादय-

तीति । पर्ण + कृ + अण् ।) वारजीवी । वारुइ
इति भाषा ॥ इति केचित् ॥

पर्णकृच्छ्रः, पुं, (पर्णैः साध्यं कृच्छ्रं व्रतं यत्र ।

पत्रकृच्छ्रव्रतम् । यथा, याज्ञवल्क्ये । ३ । ३१६ ।
“पर्णोडुम्बरराजीवविल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहाभ्यस्तैः पर्णकृच्छ्र उदाहृतः ॥”

पर्णखण्डः, पुं, (पर्णमेव खण्डो यस्य । पुष्पादि-

हीनत्वात्तथात्वम् ।) वनस्पतिः । इति शब्द-
चन्द्रिका ॥ (पर्णस्य ताम्बुलस्य खण्डः ।) ताम्बूलै-
कांशश्च ॥

पर्णचोरकः, पुं, (पर्णं चोरयतीति । पर्ण +

चोरि + ण्वुल् ।) चोरकनामगन्धद्रव्यम् । इति
राजनिर्घण्टः ॥

पर्णध्वत्, [स्] त्रि, पर्ण + ध्वन्स् + कर्त्तरि क्विप् ।

पत्रध्वंसकर्त्ता । इति व्याकरणम् ॥

पर्णनरः, पुं, (पर्णैः पलाशपत्रैर्निर्म्मितो नरः नरा-

कारः पुत्तलकः ।) पित्रादिशवास्थ्यलाभे दाहार्थ-
तत्प्रतिनिधीभूतशरपलाशपत्ररचितोर्णातन्तु-
वेष्टितयवपिष्टलिप्तनराकारपुत्तलकः । यथा,
“आश्वलायनगृह्यपरिशिष्टम् । अस्थिनाशे पलाश-
वृन्तानां त्रीणि षष्टिशतानि पुरुषप्रतिकृतिं कृत्वा,
अशीत्यर्द्धन्तु शिरसि ग्रीवायां दश योजयेत् ।
‘उरसि त्रिंशतं दद्यात् विंशतिं जठरे तथा ॥
बाहुभ्याञ्च शतं दद्यात् दद्यादङ्गुलिभिर्दश ।
द्वादशार्द्धं वृषणयोरष्टार्द्धं शिश्न एव च ॥
ऊरुभ्यान्तु शतं दद्यात् त्रिंशतं जानुजङ्घयोः ।
पादाङ्गुलीषु च दश एतत् प्रेतस्य लक्षणम् ॥
ऊर्णासूत्रेण संवेष्ट्य यवपिष्टेन लेपयेत् ॥’
आदिपुराणम् ।
‘तदलाभे पलाशोत्थैः पत्रैः कार्य्यः पुमानपि ।
शतैस्त्रिभिस्तथा षष्ट्या शरपत्रैर्विधानतः ॥’
तदलाभे अस्थ्यलाभे । अत्र पलाशपत्रशरपत्रयोः
तुल्यत्वेनोपादानात् आश्वलायनसूत्रेऽपि प्रति-
कृतौ शरपत्रस्य लाभः । अत्राचाराद्योग्यत्वाच्च
शरपत्रैः पुत्तलकं कृत्वा शिरप्रभृतिषु पलाश-
पत्राणि देयानि । ततो वेष्टनं ऊर्णासूत्रेण लेपनं
यवपिष्टेनेति । अशौचाभ्यन्तरदाहे शेषाहेन-
शुद्धिः । तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । एवं
पर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदित्यादि पुरा-
णात् । यज्ञपार्श्वः ।
‘पुत्त्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन ।
तदलामे पलाशस्य सम्भवे हि पुनः क्रिया ॥’
पृष्ठ ३/०७२
हि यस्मात्तदलाभे अस्थ्नामप्राप्तौ पलाशस्य तत-
कृतपुत्तलकस्य दाहक्रिया । पुनरपि सम्भवे
अस्थिलाभे पुनरपि अस्थिदाहक्रिया विहिता
तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाह-
त्रिरात्राशौचे कर्त्तव्ये न पुनः पिण्डादिदानं वक्ष्य-
माणयुक्तेः । विष्णुः ।
“त्रिपक्षे तु गते पर्णनरं दह्यादनग्निकः ।
त्रिपक्षाभ्यन्तरे राजन्नैव पर्णनरं दहेत् ॥
तदूर्द्ध्वमष्टमीं प्राप्य दर्शं वापि विचक्षणः ॥”
दहेदिति शेषः । अस्यार्थः । अशौचाभ्यन्तरे
यदि पर्णनरदाहं न कुर्य्यात्तदा मरणदिना-
वधित्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः । इति
हरिदासतर्काचार्य्याः ॥ यादवभट्टोऽप्येवम् । व्यव-
हारोऽपि ईदृश एव ।
‘पर्णनरं दहेन्नैव विना दर्शं कदाचन ।
अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेदिति ॥’
दीपकलिकायां सुमन्तुवचनात् दर्शे पर्णनर-
दाहः । दर्शमित्यत्राष्टमीमिति क्वचित् पाठः ।
अत्राष्टमी कृष्णा पितृकर्म्मणि कृष्णपक्षस्य
प्राशस्त्योक्तेः ।” इति शुद्धितत्त्वम् ॥

पर्णभेदिनी, स्त्री, (पर्णानि भिनत्तीति । पर्ण +

भिद् + णिनिः स्त्रियां ङीप् ।) प्रियङ्गुः । इति
राजनिर्घण्टः ॥

पर्णभोजनः, पुं, (पर्णान्येव भोजनं यस्य । पर्णानि

भुङ्क्ते इति वा । भुज् + कर्त्तरि ल्युः ।) छागलः ।
इति शब्दरत्नावली ॥

पर्णमाचालः, पुं, (पर्णमाचालयतीति । पर्ण +

आ + चल + णिच् + अण् । निपातनात् विभक्ते-
र्लोपाभावः । बाहुलकात् मुम् वा ।) कर्म्मरङ्ग-
वृक्षः । इति शब्दमाला ॥

पर्णमृगः, पुं, (पर्णचरो मृगः पशुः ।) मृग-

गणविशेषः । यथा, --
“वनौकोवृक्षमार्ज्जारवृक्षमर्कटिकादयः ।
एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः ॥
वनौका वानरो वृक्षमार्ज्जारो वृक्षविडालः ।
वृक्षमर्कटिका रुषी इति लोके । एतेषां
मांसगुणाः ।
“स्मृताः पर्णमृगा वृष्याश्चक्षुष्याः शोषिणे हिताः ।
श्वासार्शःकासशमनाः सृष्टमूत्रपुरीषकाः ॥”
इति भावप्रकाशः ॥

पर्णलता, स्त्री, (पर्णप्रधाना लता ।) नागवल्ली ।

इति राजनिर्घण्टः ॥

पर्णवल्ली, स्त्री, (पर्णप्रधाना वल्ली ।) पलाशी

लता । इति राजनिर्घण्टः ॥

पर्णशाला, स्त्री, (पर्णैः पत्रादिभिः रचिता

शाला । मध्यपदलोपिसमासः ।) मुनीनां पत्र-
रचितगृहम् । तत्पर्य्यायः । उटजम् २ । इत्य-
मरः । २ । २ । ६ ॥ पर्णोटजम् ३ । इति शब्द-
रत्नावली ॥ पर्णवती शाला । पर्णप्रधाना शाला
वा । इति भरनः ॥ (यथा, रघुः । १ । ९५ ।
“निदिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्बितीयः ।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥”
मध्यदेशस्थग्रामविशेषः । यथा महाभारते ।
१३ । ६८ । ३ ।
“मध्यदेशे महान् ग्रामो ब्राह्मणानां बभूव ह ।
गङ्गायमुनयोर्मध्ये यासुनस्य गिरेरधः ॥
पर्णशालेति विख्यातो रमणीयो नराधिप ! ॥”)

पर्णसिः, पुं, (पॄ पूरणे + “सानसिवर्णसिपर्ण-

सीति ।” उणां । ४ । १०७ । इति असिर्नुक्
च ।) पद्मम् । इत्युणादिकोषः ॥ जलगृहम् ।
जलटुङ्गी इति भाषा ॥ इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ शाकम् । आभरणक्रिया । इति
संक्षिप्तसारोणादिवृत्तिः ॥

पर्णाशनः, पुं, (पर्णं अश्नाति भक्षयतीति । अश +

ल्युः । पर्णानामशनः ।) मेघः । इति शब्दमाला ॥

पर्णासः, पुं, (पर्णैरसति दीप्यति शोभते इति

यावत् । अस दीप्तौ + अच् ।) तुलसी । इत्य-
मरः । २ । ४ । ७९ ॥

पर्णिनी, स्त्री, (पर्णानि सन्त्यस्याः । पर्ण + इनिः ।)

माषपर्णी । इति रत्नमाला ॥ (यथा, सुश्रुते
उत्तरतन्त्रे ६२ अध्याये ।
“वर्हिष्ठरजनीकुष्ठ पर्णिनीशारिवाह्वयैः ॥”
अप्सरोविशेषः । यथा, हरिवंशे । २१८ । ४९ ।
“मेनकासहजन्या च पर्णिनी पुञ्जिकास्थला ॥”)

पर्णी, [न्] पुं, (पर्णानि सन्त्यस्य । पर्ण + इनिः ।)

वृक्षः । इति हेमचन्द्रः । ४ । १८० ॥

पर्णोटजं, क्ली, (पर्णनिर्म्मितं उटजम् ।) पर्ण-

शाला । इति शब्दरत्नावली ॥

पर्द्द, ङ अपानोत्सर्गे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ङ, पर्द्दते वृद्धः । इति
दुर्गादासः ॥

पर्द्दः, पुं, (पॄ + बाहुलकात् दः ।) केशसमूहः ।

इत्युणादिकोषः ॥ (पर्द्द अपानोत्सर्गे + अच् ।)
अपानोत्सर्गश्च ॥

पर्द्दनं, क्ली, (पर्द्द + ल्युट् ।) अपानोत्सर्गः ।

इति हेमचन्द्रः । ६ । ३९ ॥ पाद् इति भाषा ॥

पर्पं, क्ली, (पॄ पालनादौ + “खष्पशिल्पशष्पवाष्प-

रूपपर्पतल्पाः ।” उणां । ३ । २८ । इति निपा-
तनात् सिद्धम् ।) नवतृणम् । गृहम् । इत्युणादि-
कोषः ॥ खञ्जवाह्यशकटम् । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

पर्पटः, पुं, (पर्प + अटन् ।) वृक्षविशेषः । क्षेत-

पापडा इति वङ्गभाषा । दवनपापर इति
हिन्दीभाषा । तत्पर्य्यायः । त्रियष्टिः २ तिक्तः ३ ।
इति रत्नमाला ॥ चरकः ४ रेणुः ५ तृष्णारिः ६
वरकः ७ अरकः ८ शीतः ९ शीतप्रियः १०
पांशुः ११ कल्पाङ्गः १२ कर्म्मकण्टकः १३ कृश-
शाखः १४ प्रगन्धः १५ सुतिक्तः १६ रक्त-
पुष्पकः १७ पित्तारिः १८ कटुपत्रः १९ वक्रः २० ।
अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् ।
पित्तश्लेष्मज्वररक्तदाहारुचिग्लानिमदभ्रमनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥
“पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः ।
कथितः पांशुपर्य्यायस्तथा कवचनामकः ॥
पर्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वंरान् ।
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥”
इति भावप्रकाशः ॥ * ॥
पिष्टकभेदः । पापर इति भाषा ॥ तस्य गुणः ।
लघुत्वम् । रूक्षत्वञ्च । इति राजवल्लभः ॥
“धूमसीरचिता हिङ्गुहरिद्रालवणैर्युताः ।
जीरकस्वर्जिकाभ्याञ्च तनुं कृत्वा च वेल्लिताः ॥
दीपनाः पाचना रूक्षा गुरवः किञ्चिदीरिताः ॥
मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः ।
चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः ॥
स्नेहे भृष्टास्तु ते सर्व्वे भवेयुर्मध्यमा गुणैः ॥”
इति भावप्रकाशे पूर्ब्बखण्डे द्बितीयभागे ॥

पर्पटद्रुमः, ण, (पर्पट एव द्रुमः ।) कुम्भीवृक्षः

इति राजनिर्घण्टः ॥

पर्पटी, स्त्री, (पर्पट + ङीप् ।) सौराष्ट्रमृत्तिका ।

इति रत्नमाला ॥ पिष्टकभेदः । इत्युणादिकोषः ॥
उत्तरदेशभवसुगन्धिद्रव्यम् । पपरीति प्रसि-
द्धम् । पद्मावतीति च । तत्पर्य्यायः । रञ्जनी २
कृष्णा ३ जतुका ४ जननी ५ जनी ६ जतु-
कृष्णा ७ संस्पर्शा ८ जतुकृत् ९ चक्रवर्त्तिनी १० ।
अस्या गुणाः । तुवरत्वम् । तिक्तत्वम् । शिशि-
रत्वम् । वर्णकृत्त्वम् । लघुत्वम् । विषव्रणकण्डू-
कफपित्तास्रकुष्ठनाशित्वञ्च । इति भावप्रकाशः ॥

पर्परीकः, पुं, (पिपर्त्तीति । प + “शपॄवृञां द्वे

रुक्चाभ्यासस्य ।” उणां । ४ । १९ । इति इकन्
द्वित्वं अभ्यासस्य रुगागमश्च ।) सूर्य्यः । इत्यु-
णादिकोषः ॥ वह्निः । इति त्रिकाण्डशेषः ।
जलाशयः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पर्पिकः, पुं, स्त्री, पर्पेण गच्छतीति । (र्पा + ठन् ।

खञ्जः । इति सिद्धान्तकौमुदी ॥

पर्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां परं-सकं-

पर्य्यङ्कः, पुं, (परितोऽङ्व्यते इति । परि + अकि-

लक्षणे + घञ् ।) खट्वा । पालङ्ग इति भाषा ॥
इत्यमरः । २ । ६ । १३८ ॥ तत्पर्य्यायः । (मञ्चः
मञ्चकः ३ पल्यङ्कः ४ । इति हेमचन्द्रः । ३ । ३४७ ॥)
पर्य्यस्तिका ५ परिकरः ६ अवसक्थिका ७)
इति च तत्रैव । ३ । ३४३ ॥ (यथा, महा-
भारते । ३ । २४६ । ८ ।
“अथोपविष्टं राजानं पर्य्यङ्के ज्वलनप्रभे ।
उपप्लुतं यथा सोमं राहुणा रात्रिसं क्षये ।
उपगम्याब्रवीत् कर्णो दुर्य्योधनमिदं तदा ॥”
योगपट्टः । यथा, कुमारे । ३ । ४५ ।
पर्य्यङ्कबन्धस्थिरपूर्ब्बकायं
मृज्वायतं सन्नमितोभयांसम् ॥”)

पर्य्यङ्कपादिका, स्त्री, (पर्य्यङ्कस्येव पादोऽस्त्यस्याः ।

ठन् टाप् च ।) कोलशिम्बी । इति राज-
निर्घण्टः ॥

पर्य्यङ्कबन्धनं, क्ली, (पर्य्यङ्कवत् यद्बन्धनम् ।)

वस्त्रादिना पृष्ठजानुजङ्घावन्धनम् । फाँड्वाँधा
इति भाषा ॥ यथा, --
पृष्ठ ३/०७३
“पादप्रसारणञ्चाग्रे तथा पर्य्यङ्कबन्धनम् ॥”
इत्यपराधगणनायां हरिभक्तिविलासः ॥

पर्य्यटनं, क्ली, (परितोऽटनं भ्रमणम् । परि +

अट + भावे ल्युट् ।) सर्व्वतोभावेनाटनम् । पुनः
पुनर्गमनम् । भ्रमणम् । तत्पर्य्यायः । व्रज्या २
अटाट्या ३ । इत्यमरः । २ । ७ । ३६ ॥ (यथा,
भागवते । ९ । ७ । १८ ।
“भूमेः पर्य्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः ॥”)

पर्य्यनुयोगः, पुं, (परितोऽनुयोगः पृच्छा । परि +

अनु + युज् + भावे घञ् ।) जिज्ञासा । इति
हलायुधः ॥ (“एतेनास्यापि पर्य्यनुयोगस्या-
नवकाशः ।” इति दायभागः ॥)

पर्य्यन्तः, पुं, (परितोऽन्तम् । प्रादिसमासः ।)

शेषसीमा । इति दुर्गादासः ॥ (यथा, पञ्च-
तन्त्रे । १ । १४१ ।
“पर्य्यन्तो लभ्यते भूमेः ससुद्रस्य गिरेरपि ।
न कथञ्चित् महीपस्य चित्तान्तः केनचित्
क्वचित् ॥”
समीपम् । यथा, हरिवंशे । १२२ । ५३ ।
“पर्य्यन्तदेशं सरसेन देवी
लिलेप सा लोहितचन्दनेन ॥”
पार्श्वः । यथा, रघौ । १८ । ४३ ।
“पर्य्यन्तसञ्चारितचामरस्य
कपोललोलोभयकाकपक्षात् ।
तस्याननादुच्चरितो विवादः
चस्खाल वेलास्वपि नार्णवानाम् ॥”)

पर्य्यन्तभूः, स्त्री, (पर्य्यन्तस्य शेषसीमाया भूः

पृथिवी ।) नदीनगरपर्व्वतादेरुपान्तभूमिः ।
तत्पर्य्यायः । परिसरः २ । इत्यमरः । २ । १ । १४ ॥

पर्य्यन्तिका, स्त्री, (परितः सर्व्वतो भावेन अन्तिका

गुणादीनां नाशिका ।) गुणभ्रंशः । इति हारा-
वली । २१० ॥

पर्य्यन्यः, पुं, (पर्जन्य + पृषोदरादित्वात् साधुः ।)

इन्द्रः । शब्दायमानमेघः । मेघशब्दः । इत्यु-
णादिकोषः ॥ (यथा, गोः रामायणे । ६ । ३१ । ३२ ।
“ततो दुन्दुभिनिर्घोषः पर्य्यन्यनिनदोपमः ॥”)

पर्य्ययः, पुं, (परि क्रमशः अयो गमनम् ।) क्रमो-

ल्लङ्घनम् । (परि शास्त्रलोकाचारमर्य्यादां परि-
त्यज्य अयो गमनमुल्लङ्घनमित्यर्थः ।) व्यति-
क्रमः । शास्त्रतो लोकव्यवहाराच्च प्राप्तस्यार्थस्य
परित्यागः । तत्पर्य्यायः । अतिपातः २ उपा-
त्ययः ३ । इत्यमरभरता ॥ विपर्य्ययः ४ अत्ययः ५ ।
अतिपतनम् ६ व्यत्ययः ७ अतिक्रमः ८ । इति
शब्दरत्नावली ॥ (यथा, महाभारते । २ । ४८ । १२ ।
“अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।
अमर्षं धारये चोग्रं प्रतीक्षन् कालपर्य्ययम् ॥”)

पर्य्ययणं, क्ली, (परितोऽयते गच्छत्यनेन । परि +

अय + ल्युट् ।) अश्वसज्जा । इति शब्दमाला ॥
जिन् इति भाषा ॥

पर्य्यवस्था, स्त्री, (परितोऽवस्थानम् । परि + अव

+ स्था + “आतश्चोपसर्गे ।” ३ । ३ । १०६ ।
इत्यङ् ।) विरोधनम् । इत्यमरः । ३ । २ । २१ ॥

पर्य्यवस्थाता [ऋ] त्रि, (पर्य्यवतिष्ठते इति । परि +

अव + स्था + तृच् ।) पर्य्यवस्थाकर्त्ता । विरोधी ।
इति हलायुधः ॥ (यथा, किरा-तार्ज्जुनीये ।
११ । १३ ।
“अन्तकः पर्य्यवस्थाता जन्मिनः सन्ततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥”)

पर्य्यवस्थानं, क्ली, (परितोऽवतिष्ठतेऽनेन । परि +

अव + स्था + करणे ल्युट् ।) विरोधः । इति
जटाधरः ॥ सर्व्वतोभावेनावस्थितिश्च ॥

पर्य्यस्तः, त्रि, (परितोऽस्तः क्षिप्तः । अस्यु इर

क्षेपे + क्तः ।) पतितः । हतः । इति मेदिनी ।
ते, १२१ ॥ (सर्व्वतः प्रसृतः । विस्तृतः । यथा,
हरिवंशे । १५९ । २० ।
“पर्य्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् ॥”)

पर्य्यस्तिका, स्त्री, (परितः अस्यते क्षिप्यते शरीर-

मत्र । परि + अस क्षेपे + अधिकरणे क्तिन् ।
ततः स्वार्थे कन् ।) खट्वा । इति हेमचन्द्रः ।
३ । ३४३ ॥

पर्य्याणं, क्ली, (परितो याति गच्छत्यनेनेति । परि

+ या + ल्युट् । पृषोदरादित्वात् साधुः । अश्व-
पल्ययनम् । इति हेमचन्द्रः । ४ । ३१८ ॥ (यथा,
बृहत्संहितायाम् । ९३ । ६ ।
“आरोहणमन्यवाजिनां
पर्य्याणादियुतस्य वाजिनः ।
उपवाह्य तुरङ्गमस्य वा
कल्यस्यैव विपन्नशोभना ॥”)

पर्य्याप्तं, क्ली, (परि + आप् + भावे क्तः ।) यथेष्टम् ।

तृप्तिः । शक्तिः । निवारणम् । इति मेदिनी ।
ते, १२७ ॥ त्रि, प्राप्तः ॥ (शक्तिसम्पन्नः । यथा,
भगवद्गीतायाम् । १ । १० ।
“पर्य्याप्तन्त्विदमेतेषां बलं भीमाभिरक्षितम् ।”
“पर्य्याप्तं समर्थं भाति इति ।” श्रीधरस्वामी ॥)

पर्य्याप्तिः, स्त्री, (परि + आप + क्तिन् ।) परि-

त्राणम् । मरणोद्यतस्य निवारणम् । इत्यमर-
भरतौ ॥ प्रकाशः । प्राप्तिः । इति शब्दरत्ना-
वली ॥ (तृप्तिः । यथा, कथासरित्सागरे ।
२६ । १९९ ।
“नास्ति व्यसनिनां वत्स ! भुवि पर्य्याप्तये धनम् ॥”
शक्तिः । यथा, तत्रैव । २६ । ४७ ।
“प्रविष्टः सोऽप्यपश्यत्तां तत्र नेत्रोत्सवप्रदाम् ।
धातुरद्भुतनिर्म्माणपर्य्याप्तिमिव रूपिणीम् ॥”)
स्वरूपसम्बन्धविशेषः । स च सर्व्वेषामेव पदार्थानां
विशिष्टबुद्धिनियामकः । पदार्थभेदेन नाना ।
यथा । पर्य्याप्तिश्चायमेको घट इमौ द्बौ इत्यादि
प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः । इति
दीधितिः ॥ समवायेन गुणे गुणस्यासत्त्वेऽपि
चत्वारो गुणा इत्यादि प्रतीत्या गुणादिषु
संख्यादिमत्त्वनियामकोऽपि तादृशसम्बन्धः । इति
सामान्याभावे जगदीशः ॥ द्वितीयव्यत्पत्तिवादे
गदाधरभट्टाचार्य्यश्च ॥

पर्य्यायः, पुं, (परि + इन गतौ + ‘परावनुपात्यय

इनः ।’ ३ । ३ । ३८ । इति घञ् । क्रमप्राप्त-
स्यानतिपातोऽनुपात्ययः ।) पर्य्ययणम् । क्रमः ।
(यथा, कुमारे । २ । ३६ ।
“पर्य्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः ।
उद्यानपालसामान्यमृतवस्तमुपासते ॥”)
तत्पर्य्यायः । आनुपूर्ब्बी २ आवृत् ३ परिपाटी ४
अनुक्रमः ५ । इत्यमरः । २ । ७ । ३७ ॥ आनु-
पूर्ब्ब्यम् ६ आनुपूर्ब्बम् ७ आनुपूर्ब्बकम् ८ परि-
पाटिः ९ । इति भरतादयः ॥ प्रकारः । अव-
सरः । इति मेदिनी । ये, ८९ ॥ निर्म्माणम् ।
द्रव्यधर्म्मः । इति हेमचन्द्रः ॥ ६ । १३९ । क्रमे-
णैकार्थवाचकाः शब्दाः पर्य्यायाः । इति विजय-
रक्षितः ॥ सम्पर्कविशेषः । येन सह यत्सम्पर्कः
सम्बन्धस्तेन सह तत्पर्य्यायः । यथा, --
“समानं कुलभावञ्च दानादानन्तथैव च ।
तयोर्व्वंशसमानं हि पर्य्यायञ्च प्रचक्षते ॥”
इति कुलदीपिका ॥
(अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे
१० । १०४ ।
“क्वचिदेकमनेकस्मिन्ननेकञ्चैकगं क्रमात् ।
भवति क्रियते वा चेत् तदा पर्य्याय इष्यते ॥”
उदाहरणं क्रमेण यथा, --
“स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
क्रमेण नाभिं प्रथमोदविन्दवः ॥
विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः ।
वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ॥
विमृष्टरागादधरान्निवर्त्तित-
स्तनाङ्गरागादरुणाच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोक्षसूत्रप्रणयी तया करः ॥
ययोरारोपितस्तारो हारस्तेऽरिबधूजनैः ।
निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः ॥
एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च ।
क्वचिदाधेयमपि । यथा, ‘स्थिताःक्षणं पक्ष्मसु’
इत्यत्र उदबिन्दवः पक्ष्मादावसं हतरूप आधारे
क्रमेणाभवन् । ‘विचरन्ति’ इत्यत्राधेयभूता
वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एव-
मन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्ते-
र्विशेषालङ्काराद्भेदः । विनिमयाभावात् परि-
वृत्तेः ॥”)

पर्य्यायशयनं, क्ली, (पर्य्यायेण क्रमेण शयनम् ।)

प्रहरिकादीनां क्रमेण शयनम् । तत्पर्य्यायः ।
उपशायः २ विशायः ३ । इत्यमरभरतौ ॥

पर्य्यासः, पुं, (पर्य्यस्यते इति । परि + अस् + घञ् ।)

पतनम् । हननम् । इति पर्य्यस्तशब्दार्थदर्शनात् ॥
(परिवर्त्तः । यथा, मार्कण्डेयपुराणे । ५४ । २ ।
“महाभूतप्रमाणञ्च लोकालोकन्तथैव च ।
पर्य्यासं परिमाणञ्च गातञ्चन्द्रार्कयोरपि ॥”)

पर्य्युदच्चं, क्ली, (पर्य्युदच्यते इति । परि + उत् +

अञ्च + “कृत्यल्युटो बहुलम् ।” ३ । ३ । ११३ ।
इति ल्युट् ।) ऋणम् । इत्यमरः । २ । ९ । ३ ॥
पृष्ठ ३/०७४

पर्य्युदस्तः, त्रि, (पर्य्युदस्यते इति । परि + उत् +

अस + क्तः ।) पर्य्युदासविशिष्टः । विध्यन्वयि-
भेदात्मकनञर्थयुक्तः । यथा । यद्यपि पर्य्युदस्त-
रात्र्यादिषु श्राद्धादिकरणे विधेरौदासीन्यान्न
फलं न वा प्रत्यवाय इति सिद्धान्तः ॥ इति मल-
मासतत्त्वम् ॥ (परित उत्क्षिप्ते त्रि ॥)

पर्य्युदासः, पुं, परि सर्व्वतोभावेन उदास्यते विधि-

यत्र सः । (परि + उत् + अस् + घञ् ।) तस्य
लक्षणम् श्राद्धविवेके ।
“सामान्यशास्त्रप्राप्तनिषेधस्यैव पर्य्युदासत्वम् ॥”
अपि च मलमासतत्त्वे ।
“प्राधान्यन्तु विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥”
अस्योदाहरणम् । अमावस्यायां पितृभ्यो दद्यात्
रात्रौ श्राद्धं न कुर्व्वीत । अत्र श्राद्धकरणे रात्रेः
पर्य्युदासः ॥ (यथा च साहित्यदर्पणे । ७ । ३ ।
“जुगोपात्मानमत्रस्तो भेजे धर्म्ममनातुरः ।
अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ॥
अत्रात्रस्ततामनूद्यात्मगोपनाद्येवविधेयमिति
नञः पर्य्युदासतया गुणभावो युक्तः ॥”)

पर्य्युषितं, त्रि, (परित्यज्य स्वकालमुषितम् । वस

+ क्तः ।) व्युष्टम् । वासि इति भाषा । तस्या-
भक्षणीयत्वं यथा, --
“भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।
उदक्यास्पृष्टसंमृष्टं पर्य्यायाप्तञ्च वर्ज्जयेत् ॥”
इति गरुडपुराणम् ॥
“यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥”
इति भगवद्गीता ॥ * ॥
तस्य भक्ष्यत्वं यथा, --
“मन्त्राभिमन्त्रितं शस्तं न च पर्य्युषितं नृप ! ।
अन्यत्र फलमासेभ्यः शुष्कशाकादिकात्तथा ॥
तद्वद्वादरिकेभ्यश्च गुडपक्वेभ्य एव च ॥”
इत्याह्निकतत्त्वम् ॥
तुलसीयुक्तपुष्पे पर्य्युषितदोषाभावो यथा, --
“तुलसीलग्नपुष्पाणि पद्मं गङ्गोदकं कुशाः ।
न पर्य्युषितदोषोऽत्र छिन्नभिन्नं न दुष्यति ॥”
इति पुराणम् ॥

पर्य्युषितभोजी, [न्] त्रि, (पर्य्युषितं व्युष्टं भुङ्क्ते

इति । भुज + णिनिः ।) व्युष्टद्रव्यभोक्ता । इति
कलापव्याकरणम् ॥

पर्य्येषणा, स्त्री, (इष् + युच् + टाप् । ततः परित

एषणा ।) अन्वेषणा । इत्यमरः । २ । ७ । ३२ ॥
तर्कादिना यथाबोधितधर्म्माद्यन्वेषणे । अन्वे-
षणमात्रेऽपि । इति भरतः ॥ (क्ली, अन्वे-
षणम् । यथा, महाभारते । ३ । २६ । १८ ।
“ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणञ्चरेत् ॥”)

पर्व्व, गतौ । (भ्वां-परं-सकं-सेट् ।) पर्व्वति ।

इति दुर्गादासः ॥

पर्व्व, पूर्त्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पर्व्वति पयसा कुम्भं चेटी । इति
दुर्गादासः ॥

पर्व्व, [न्] क्ली, (पर्व्वतीति । पर्व्व गतौ + बाहु-

लकात् कनिन् । यद्वा, पिपर्त्तीति । पॄ + “स्ना-
मदिपद्यर्त्तिपॄशकिभ्यो वनिप् ।” उणां । ४ ।
११२ । इति वनिप् ।) महः । ग्रन्थिः । (यथा,
भागवते । ५ । २१ । १७ । “तथा वालखिल्या
ऋषयोऽङ्गुष्ठपर्व्वमात्राः षष्टिसहस्राणि पुरतः
सूर्य्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥”)
प्रस्तावः । लक्षणान्तरम् । दर्शप्रतिपदोः सन्धिः ।
(पूर्णिमाप्रतिपदोःसन्धिश्च । यथा, साहित्यदर्पणे ।
“अकालजलदावली किरतु नाम मुक्तावली-
रपर्व्वणि विधुन्तुदस्तुदतु नाम शीतद्युतिम् ॥”)
विषुवत्प्रभृति । इति मेदिनी । ने, ८८ ॥ ग्रन्थ-
विच्छेदः । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते अष्टादशपर्व्वाणि । तानि उक्तानि यथा
तट्टीकायाम् ।
“आदिः सभावनविराटमथोद्यमश्च
भीष्मो गुरू रविजमद्रकसौप्तिकश्च ।
स्त्रीपर्व्व शान्तिरनुशासनमश्वमेध-
व्यासाश्रमो मुषलयानदिवावरोहः ॥”)
क्षणः । इति शब्दचन्द्रिका ॥ (भङ्गी । यथा,
रघुवंशे । १६ । ४६ ।
दिने दिने शैवलवन्त्यधस्तात्
सोपानपर्व्वाणि विमुञ्चदम्भः ॥”)
पञ्चपर्व्वाणि यथा । विष्णुपुराणम् ।
“चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥
स्त्रीतैलमांससम्भोगी पर्व्वस्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥”
पर्व्वसु कर्त्तव्याकर्त्तव्यानि यथा । ब्रह्मपुराणे ।
“नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः ।
चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्व्वसु ॥
अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् ।
यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत् ॥”
पराशरभाष्ये कूर्म्मपुराणम् ।
“अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत् ॥”
पैठीनसिः । न पर्व्वसु तैलं क्षौरं मांसमभ्यु-
पेयात् नामावस्यायां हरितमपि छिन्द्यात् ।
इति तिथ्यादितत्त्वम् ॥

पर्व्वकं, क्ली, (पर्व्वणा ग्रन्थिना कायतीति । कै +

कः ।) ऊरुपर्व्व । इति शब्दचन्द्रिका ॥ आँटु
इति भाषा ॥

पर्व्वकारी, [न्] पुं, (पर्व्व करोतीति । पर्व्व + कृ +

णिनिः ।) धनादिलोभेनापर्व्वसु अमावास्याक्रिया-
प्रवर्त्तकः । यथा, विष्णुपुराणे द्वितीयांशे ६ अः ।
“सूची माहिषकश्चैव पर्व्वकारी च यो द्बिजः ॥”

पर्व्वगामी, [न्] पुं, (पर्व्वसु चतुर्द्दश्यष्टम्यादिषु

गच्छति स्त्रियमिति । पर्व्व + गम + णिनिः ।)
पर्व्वसु स्त्रीगामी । इति पूर्ब्बोक्तश्लोके पर्व्व-
कारीत्यत्र पर्व्वगामीति पाठद्वैधे स्वामी ॥

पर्व्वतः, पुं, (पर्व्वति पूरयतीति । पर्व्व पूरणे +

“भृमृदृशियजिपर्व्वीति ।” उणां । ३ । ११० ।
इति अतच् ।) यद्वा, पर्व्वणि भागाः सन्त्यत्र ।
पाहाड इति भाषा ॥ तत्पर्य्यायः । महीध्रः २
शिखरी ३ क्ष्माभृत् ४ अहार्य्यः ५ धरः ६
अद्रिः ७ गोत्रः ८ गिरिः ९ ग्रावा १०
अचलः ११ शैलः १२ शिलोच्चयः १३ । इत्य-
मरः । २ । ३ । १ ॥ स्थावरः १४ सानुमान् १५
पृथुशेखरः १६ धरणीकीलकः १७ कुट्टारः १८
जीमूतः १९ धातुभृत् २० भूधरः २१ स्थिरः २२
कुलीरः २३ कटकी २४ शृङ्गी २५ निर्झरी २६
अगः २७ नगः २८ दन्ती २९ । इति शब्द-
रत्नावली ॥ धरणीध्रः ३९ भूभृत् ३१ क्षिति-
भृत् ३२ अवनीधरः ३३ कुधरः ३४ धराधरः ३५
प्रस्थवान् ३६ वृक्षवान् ३७ । इति राज-
निर्घण्टः ॥ * ॥ सुमेरोः पूर्ब्बे पर्व्वता यथा, --
“शीतान्तश्चक्रमुञ्जश्च कुलीरोऽश्वश्च कङ्कवान् ।
मणिशैलोऽथ वृषवान् महानीलो भवाचलः ॥
सुबिन्दुर्मन्दरो वेणुः सुमेषो निमिषस्तथा ।
देवशैलस्य पूर्ब्बेण मन्दरस्य महाचलाः ॥” * ॥
सुमेरोर्दक्षिणे पर्व्वता यथा, --
“त्रिकूटः शिखराद्रिश्च कलिङ्गोऽथ पतङ्गकः ।
रुचकः सानुमांश्चैव ताम्रकोऽथ विशाखवान् ॥
श्वेतोदरः समलश्च वसुधारश्च रत्नवान् ।
एकशृङ्गो महाशैलो गजशैलः पिशाचकः ॥
पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ।
इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः ॥”
सुमेरोः पश्चिमे पर्व्वता यथा, --
“सुचक्षुः शिशिरश्चैव वैदूर्य्यः पिङ्गलस्तथा ।
पिञ्जरोऽथ तथा भद्रः सुरसः कपिलो मधुः ॥
अञ्जनः कुक्कुटः कृष्णः पाण्डुरश्चाचलोत्तमः ।
सहस्रशिखरश्चाद्रिः पारिपात्रः स शृङ्गवान् ॥
पश्चिमेन तथा मेरोर्विष्कम्भात् पश्चिमाद्वहिः ।
एतेऽचलाः समाख्याताः शृणुष्वातस्तथो-
त्तरान् ॥”
सुमेरोरुत्तरे पर्व्वता यथा, --
“शङ्खकूटोऽथ ऋषभो हंसनाभौ तथाचलौ ।
कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च ॥
शतशृङ्गः स्वर्णशृङ्गः तुन्नाको मेघपर्व्वतः ।
विराजाख्यो वराहाद्रिर्मयूरो रुचिरस्तथा ॥
इत्येते कथिता ब्रह्मन्मेरोरुत्तरतो नगाः ॥”
इति माकण्डेयपुराणम् ॥ * ॥
सप्तकुलपर्व्वतादि यथा, --
“सप्त येऽस्मिन् महापर्व्वा विस्तृताः कुलपर्व्वताः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताः ।
तेषां सहस्रशश्चान्ये पर्व्वतास्तु समीपतः ॥
अविज्ञाताः पर्व्ववन्तो विपुलाश्चित्रसानवः ।
अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वल्पोपजीविनः ॥
तैर्विमिश्रा जनपदा आर्य्या म्लेच्छाश्च सर्व्वशः ॥”
इति मात्स्ये ९५ अध्यायः ॥ * ॥
विंशतिः श्रेष्ठपर्व्वता यथा, --
“हिमवान् हेमकूटश्च निषधो नीलपर्व्वतः ।
श्वेतश्च भृङ्गवान् मेरुर्माल्यवान् गन्धमादनः ॥
पृष्ठ ३/०७५
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथा ॥
लोकालोको महांस्तेषु तथैवोत्तरमानसः ।
एते विंशतिर्विख्याताः पर्व्वतास्तस्थुषां वराः ॥”
जम्बु द्वीपवर्षविभाजकपर्व्वता यथा, --
“लङ्कादेशाद्धिमगिरिरुदक् हेमकूटश्च तस्मा-
त्तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः ।
एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला
वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ॥”
इति सिद्धान्तशिरोमणिः ॥ * ॥
पर्व्वतानां पक्षोत्पत्तिर्यथा, --
“ततोऽद्रयो जातपक्षा विष्णोश्चैव तु मायया ।
प्रस्थिता मेदिनीं त्यक्त्वा यथापूर्ब्बं निवेशिताः ॥
तत् स्थानमसुराणान्तु धात्रादिष्टं जलार्णवे ।
प्रतीच्यां पर्व्वताः सर्व्वे निममज्जुर्यथा गजाः ॥
तत्रासुरेभ्यः शंसुस्ते आधिपत्यं सुराश्रयम् ।
तच्छ्रत्वैवासुराः सर्व्वे चक्रुरुद्योगमुत्तमम् ॥ * ॥”
युद्धजयानन्तरं तेषां पक्षोच्छेदो यथा, --
“धरण्यान्तु गिरीन् स्याप्य स्वेषु स्थानेषु गोःपतिः ।
चिच्छेद पविना पक्षान् सर्व्वेषां भुवि चारिणाम् ॥
एकः सपक्षो मैनाकः सुरैस्तत्समये कृतः ॥”
इत्यग्निपुराणम् ॥ * ॥
पर्व्वतानां स्थावरजङ्गमरूपे यथा, --
“नद्यश्च पर्व्वताः सर्व्वे द्विरूपाश्च स्वभावतः ।
तोयं नदीनां रूपन्तु शरीरमपरन्तथा ॥
स्थावरं पर्व्वतानान्तु रूपं कायस्तथापरः ।
शुक्तीनामथ कम्बूनां तथैवान्तर्गता तनूः ॥
वहिरस्थिस्वरूपन्तु सर्व्वदैव प्रवर्त्तते ।
एवं जलं स्थावरश्च नदीपर्व्वतयोस्तथा ॥
अन्तर्व्वसति कायस्तु सततं नोपपद्यते ।
आप्याय्यते स्थावरेण शरीरं पर्व्वतस्य तु ॥
तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा ।
नदीनां कामरूपित्वं पर्व्वतानान्तथैव च ॥
जगत्स्थित्योः पुरा विष्णुः कल्पयामास यत्नतः ।
तोयहानौ नदीदुःखञ्जायते सततन्दिजाः ॥
विशीर्णे स्थावरे दुःखं जायते गिरिकायगम् ॥”
इति कालिकापुराणे २२ अध्यायः ॥ * ॥
अतः परं पर्व्वतेषु देवानामवकाशा वंर्ण्यन्ते ।
तत्र योऽसौ शान्ताख्यः पर्व्वतस्तस्योपरि महे-
न्द्रस्य क्रीडास्थानं तत्र देवराजस्य पारिजातक-
वृक्षवनम् । तस्थ पूर्ब्बपार्श्वे कुञ्जरो नाम गिरिः
तस्योपरि दानवानामष्टौ पुराणि च । तथा
वज्रकेतुपर्व्वते राक्षसानामनेकानि पुराणि ते च
नाम्ना नीलकाः कामरूपिणः महानीले च
शैलेन्द्रे पुराणि पञ्चदशसहस्राणि किन्नराणां
ख्यातानि तत्र देवताश्चन्द्रादयो राजानः पञ्च-
दश किन्नराणां गर्व्विताः तानि सौवर्णानि विल-
प्रवेशनानि च पुराणि चन्द्रोदये च पर्व्वतवरे
नागानामधिवासः ते च विलप्रवेशासेवितेषु
वैनतेयविषयावर्त्तिनो व्यवस्थितानुरागे च दान-
वेन्द्रा व्यवस्थिता वेणुवत्यपि विद्याधरपुरत्रयं
त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतं
उलूकरोमसममहावेत्रादयश्च राजानो विद्या-
धराणाञ्च एकैके च शैलराजनि स्वयमेव गरुडो
व्यवस्थितः । कुञ्जरे तु पर्व्वतवरे नित्यं पशुपतिः
स्थितः वृषभाङ्को महादेवः शङ्करो योगिनां
प्रभुः अनेकगुणभूतकोटिसहस्रपरिवारो भग-
वानादिपुरुषो व्यवस्थितः । वसुधारे चायुष्मतां
वसूनाञ्च समावासः वसुधाररत्नधारयोर्मूर्द्ध्नि
अष्टौ सप्त च संख्यया पुराणि वसुसप्तर्षीणाञ्च ।
एकशृङ्गे च पर्व्वतोत्तमे प्रजापतेः स्थानं चतु-
र्व्वक्त्रस्य ब्रह्मणः । गजपर्व्वते च महाभूतपरि-
वृता स्वयमेव भगवती तिष्ठति । वसुधारे च
पर्व्वतवरे मुनिसिद्धविद्याधराणामायतनं चतु-
रशीत्यपरपुर्य्यो महाप्राकारतोरणाः तत्र
चानेकपव्वता नाम गन्धर्व्वा युद्धशालिनो वसन्ति
तेषाञ्चाधिपतिर्देवो राजराजैकपिङ्गलः । सुर-
राक्षसाः पञ्चकूटे दानवाः शतशृङ्गे यक्षाणां
पुरशतम् । प्रभेदकस्य पश्चिमेन देवदानवसिद्धा-
दीनां पुराणि तस्य गिरेर्मूर्द्ध्नि महती सोमशिला
तिष्ठति तस्याञ्च पर्व्वणि पर्व्वणि सोमः स्वयमेवा-
वतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम तत्र
ब्रह्मा तिष्ठति क्वचित्तत्र च वह्न्यायतनं तत्र
मूर्त्तिमान् वह्निरुपास्यते देवैः । उत्तरे च शृङ्गाक्षे
पर्व्वतवरे देवतानामायतनानि पूर्ब्बेण नारा-
यणस्यायतनं मध्ये ब्रह्मणः शङ्करस्य च पश्चिमे
तत्र यक्षादीनां कानिचित् पुराणि । तस्य
चोत्तरतीरे जातुच्छमहापर्व्वते त्रिंशद्योजन-
मण्डलं नन्दजं नाम सरस्तत्र नन्दो नाम नाग-
राजो वसति शतशीर्षप्रचण्ड इति । इत्येतेऽष्टौ
देवपर्व्वता विज्ञेयाः तेनानुक्रमेण हेमरजतरत्न-
वैदूर्य्यमनःशिलादिवर्णाः । इत्यञ्च पृथ्वी लक्ष-
कोटिशतानेकसंख्याता पूर्णा तेषु च सिद्धविद्या-
धराणां निलयाः । तद्यथा मेरोः पार्श्वतः
केशरवलयालबालं सिद्धलोकेति कीर्त्त्यते इयञ्च
पृथ्वी पद्माकारेण व्यवस्थिता एष सर्व्वपुराणेषु
क्रमः सामान्यः प्रतिपाद्यते । इति वराहपुरा-
णम् ॥ * ॥ हिमालयादिपर्व्वतवासिनो यथा, --
“रक्षःपिशाचा यक्षाश्च सर्व्वे हैमवतास्तु ते ।
हेमकूटे तु गन्धर्व्वा विज्ञेयाश्चाप्सरोगणाः ॥
सर्व्वे नागाश्च निषधे शेषवासुकितक्षकाः ।
महामेरौ त्रयस्त्रिंशत् क्रीडन्ते याज्ञिकाः सुराः ॥
नीले तु वैदूर्य्यमये सिद्धा ब्रह्मर्षयोऽवसन् ।
दैत्यानां दानवानाञ्च श्वेतपर्व्वत उच्यते ॥
शृङ्गवान् पर्व्वतश्रेष्ठः पितॄणां प्रतिसञ्चरः ।
इत्येतानि मयोक्तानि नव वर्षाणि भागशः ॥”
इति मात्स्ये ९५ अध्यायः ॥ * ॥
अथ पर्व्वतनदीजलगुणाः ।
“हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् ।
पारिपात्रभावा याश्च बिन्ध्यर्क्षप्रभवाश्च याः ॥
शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ।
चन्द्रार्ककरसंस्पृष्टं वायुनास्फालितां मुहुः ॥
पर्व्वतोपरि यद्बारि समं पौरन्दरेण तत् ।
तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम् ॥
लेखनं दीपनं रूक्षं किञ्चिद्वातप्रकोपणम् ॥”
इति राजवल्लभः ॥ * ॥
पर्व्वते वर्णनीयानि यथा, --
“शैले मेघौषधीधातुवंशकिन्नरनिर्झराः ।
शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः ॥”
इति कविकल्पलता ॥ * ॥
अथ कैलासपर्व्वतवर्णनम् ।
“मध्ये हिमवतः पृष्ठे कैलासो नाम पर्व्वतः ।
तस्मिन्निधिपतिः श्रीमान् कुवेरः सह राक्षसैः ॥
अप्सरःसहितो राजा मोदते ह्यलकाधिपः ।
कैलासपादसम्मूतं पुण्यं शीतजलं शुभम् ॥
मन्दोदकं नाम सरः पयस्तु दधिसन्निभम् ।
तस्मात् प्रभवते दिव्या नदी मन्दाकिनी शुभा ॥
दिव्यञ्च चन्दनन्तत्र तस्यास्तीरे महद्बनम् ।
प्रागुत्तरेण कैलासं दिव्यं सौगन्धिकं गिरिम् ॥
सर्व्वधातुमयं दिव्यं शबलं पर्व्वतं प्रति ।
चन्द्रप्रभो नाम गिरिः शुपुभे रत्नसन्निभः ॥
तत्समीपे सरो दिव्यमच्छोदन्नाम विश्रुतम् ।
तस्मात् प्रभवते दिव्या नदी ह्यच्छोदका शुभा ॥
तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् ।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥
यक्षसेनापतिः क्रूरैर्गुह्यकैः परिवारितः ।
पुण्या मन्दाकिनी चैव नदी ह्यच्छोदका शुभा ॥
महीमण्डलमध्ये तु प्रविष्टा तु महोदधिम् ।
कैलासाद्दक्षिणप्राच्यां शिवं सर्व्वौषधिं गिरिम् ।
मनःशिलामयं दिव्यं शबलं पर्व्वतं प्रति ॥
लोहितो हेमशृङ्गस्तु गिरिः सूर्य्यप्रभो महान् ।
तस्य पादे महद्दिव्यं लोहितं सुमहत् सरः ॥
तस्मात् प्रभवते पुण्यो लोहितश्च नदो महान् ।
देवारण्यं विशोकञ्च तस्य तीरे महद्वनम् ॥
तस्मिन् गिरौ निवसति यक्षो मणिधरो बली ।
सौम्यैः स धार्म्मिकैश्चैव गुह्यकैः परिवारितः ॥ * ॥
कैलासात् पश्चिमोदीच्यां ककुद्मानोषधीगिरिः ॥
ककुद्मति च रुद्रस्य चोत्पत्तिस्त्रिककुद्मिनः ।
तदञ्चनं त्रैककुदं शैलं त्रिककुदं प्रति ॥
सर्व्वधातुमयस्तत्र सुमहद्वैद्युतो गिरिः ।
तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम् ॥
तस्मात् प्रभवते पुण्या सरयूर्लोकपावनी ।
तस्यास्तीरे वनं दिव्यं वैभ्राजन्नाम विश्रुतम् ॥
कुवेरानुचरस्तस्मिन् प्रहेतितनयो बली ।
नाम्ना वै ब्रह्मधामेति राक्षसोऽनन्तविक्रमः ॥ * ॥
कैलासात् पश्चिमामाशां दिव्यः सर्व्वौषधिर्गिरिः ।
अरुणः पर्व्वतश्रेष्ठो रुक्मधातुविभूषितः ॥
भवस्य दयितः श्रीमान् पर्व्वतो हेमसन्निभः ।
शातकौम्भमयैर्दिव्यैः शिलाजालैः समन्ततः ॥
शतसंख्यैस्तापनीयैः शृङ्गैर्द्दिवमिवोल्लिखन् ।
युक्तवान् सुमहद्दिव्यैर्दुर्गशैलो महोच्छ्रितः ॥
तस्मिन् गिरौ निवसति गिरीशो धूम्रलोहितः ॥
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ॥
तस्य पादात् प्रभवति शैलोदं नाम तत् सरः ।
तस्मात् प्रभवते पुण्या नदी शैलोदका शुभा ॥
सा वङ्क्षुशीतयोर्मध्ये प्रयिष्ठा पश्चिमोदधिम् ।
पृष्ठ ३/०७६
अभ्युत्तरेण कैलासं शिवं सर्व्वौषधिं गिरिम् ।
गौरन्तु पर्व्वतश्रेष्ठं हरितालमयं प्रति ।
हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः ॥
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ।
दिवं यास्यन्ति मे पूर्ब्बे गङ्गातोयपरिप्लुताः ॥
तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता ॥”
इति मात्स्ये १०१ अध्यायः ॥
अथ दशधा कृत्रिमपर्व्वतदानम् ।
“प्रथमो धान्यशैलः स्याद्द्बितीयो लवणाचलः ।
गुडाचलस्तृतीयस्तुं चतुर्थो हेमपर्व्वतः ॥
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्व्वतः ।
सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ॥
राजतो नवमस्तद्बद्दशमः शर्कराचलः ।
वक्ष्ये विधानमेतेषां यथावदनुपूर्ब्बशः ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ॥
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः ।
शुक्लायां पञ्चदश्यां वा पुष्यर्क्षे वा विधानतः ॥
धान्यशैलादयो देया यथाशास्त्रं विजानता ।
तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गने ॥
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ।
प्रागुदक्प्लवनञ्चैव प्राङ्मुखं वा विधानतः ॥
गोमयेनानुलिप्तायां भूमावास्तीर्य्य वै कुशान् ।
तन्मध्ये पर्व्वतं कुर्य्याद्बिष्कम्भपर्व्वतान्वितम् ॥
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ॥
मेरुर्महाब्रीहिमयस्तुमध्ये
सुवर्णवृक्षत्रयसंयुतः स्यात् ।
पूर्ब्बेण मुक्ताफलवज्रयुक्तो
याम्येन गोमेदकपुष्परागैः ॥
पश्चाच्च गारुत्मतनीलरत्नैः
सौम्येन वैदूर्य्यसरोजरागैः ।
श्रीखण्डखण्डैरभितः प्रवाल-
लतान्वितः शुक्तिशिलातलः स्यात् ॥
ब्रह्माथ विष्णुर्भगवान् मुरारि-
र्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।
मूर्द्धन्यवस्थानममत्सरेण
कार्य्यन्त्वनेके च पुनर्दिवीशाः ॥
चत्वारि शृङ्गाणि च राजतानि
नितम्बभागेष्वपि राजतः स्यात् ।
तथेक्षुवंशावृतकन्दरस्तु
घृतोदकप्रस्रवणश्च दिक्षु ॥
शुक्लाम्बराण्यम्बु धरावली स्यात्
पूर्ब्बेण नीलानि च दक्षिणेन ।
वासांसि पश्चादथ कर्व्वुराणि
रक्ताणि चैवोत्तरतो घनाली ॥
रौप्यान्महेन्द्रप्रमुखानथाष्टौ
संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाफलाली च समन्ततः स्या-
न्मनोरमं माल्यविलेपनञ्च ॥
वितानकञ्चोपरि पञ्चवर्ण-
मम्लानपुष्पाभरणं सितं वा ।
इत्थं निवेश्यामरशैलमग्र्य-
मतस्तु विष्कम्भगिरीन् क्रमेण ॥
तुरीयभागेण चतुर्द्दिशञ्च
संस्थापयेत् पुष्पविलेपनाढ्यान् ॥
पूर्ब्बेण मन्दरमनेकफलावलीभि-
र्युक्तं यवैः कनकभद्रकदम्बचिह्नम् ।
कामेन काञ्चनमयेन विराजमान-
माकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ॥
क्षीरारुणोदसरसाथ वनेन चैव
रौप्येण शक्तिघटितेन विराजमानम् ।
याम्येन गन्धमदनश्च निवेशनीयो
गोधूमसञ्चयमयः कलधौतजो वा ॥
हैमेन यक्षपतिना हृतमानसेन
वस्त्रैश्च राजतवनेन च संयुतः स्यात् ।
पश्चात्तिलाचलमनेकसुगन्धिपुष्पं
सौवर्णपिप्पलहिरण्मयहंसयुक्तम् ॥
आकारयेद्रजतपुष्पवनेन तद्व-
द्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ।
संस्थाप्य तं विपुलशैलमथोत्तरेण
शैलं सुपार्श्वमपि ताम्रमयं सुवस्त्रम् ॥
पुष्पैश्च हेमवटपादपशेखरन्त-
माकारयेत् कनकधेनुविराजमानम् ।
माक्षीकभद्रसरसा च वनेन तद्व-
द्रौप्येण भास्वरवता च युतं विधाय ॥
होमश्चतुर्भिरथ वेदपुराणविद्भि-
र्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ।
पूर्ब्बेण हस्तमितमत्र विधाय कुण्डं
कार्य्यन्तिलैर्यवघृतेन समित्कुशैश्च ॥
रात्रौ च जागरमनुद्धतगीततूर्य्यै-
रावाहनञ्च कथयामि शिलोच्चयानाम् ।
त्वं सर्व्वदेवगणधामनिधे ! विरुद्ध-
मस्मद्गृहेष्वमरपर्ब्बत ! नाशयाशु ॥
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः
संपूजितः परमभक्तिमता मया हि ॥
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः ।
मूर्त्तामूर्त्तजगद्बीजस्त्वं नः पाहि सनातनः ॥
यस्मात्त्वं लोकपालानां विश्वमूर्त्तेश्च मन्दिरम् ।
रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छ मे ॥
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव ।
तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥
एवमभ्यर्च्च्य तं मेरुं मन्दरञ्चाभिपूजयेत् ।
यस्माच्चैत्ररथेन त्वं भद्राश्वे च विशेषतः ।
शोभसे मन्दर ! क्षिप्रमतस्तुष्टिकरो भव ॥
यस्माच्चूडामणिर्जम्बुद्बीपे त्वं गन्धमादन ! ।
गन्धर्व्ववनशोभावांस्ततः कीर्त्तिर्दृढास्तु मे ॥
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ।
हिरण्मयश्च शिखरस्तस्मात् पुष्टिर्ध्रुवास्तु मे ॥
उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ।
सुपार्श्व ! राजसे नित्यमतः श्रीरक्षयास्तु मे ॥
एवमामन्त्र्य तान् सर्व्वान् प्रभाते विमले पुनः ।
स्नात्वाथ गुरवे दद्यान्मध्यमं पर्व्वतोत्तमम् ॥
विष्कम्भान् पर्व्वतान्दद्यादृत्विग्भ्यः क्रमशो मुने ! ।
गावो देयाश्चतुर्व्विंशदथवा दश नारद ! ॥
शक्तितः सप्त चाष्टौ वा पञ्च दद्यादशक्तिमान् ।
एकापि गुरवे देया कपिलाथ पयस्विनी ।
पर्व्वतानामशेषाणामेष एव विधिः स्मृतः ॥
त एव पूजने मन्त्रास्त एवोपस्कराः स्मृताः ।
ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्व्वदा ॥
स्वमन्त्रेणैव सर्व्वेषु होमः शैलेषु पठ्यते ।
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ॥
विधानं सर्व्वशैलानां क्रमशः शृणु नारद ! ।
दानकाले च ये मन्त्राः पर्व्वतेषु च यत् फलम् ॥
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्त्तिताः ।
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते ॥
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्द्दनः ।
धान्यपर्व्वतरूपेण पाहि तस्मान्नगोत्तम् ! ॥
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ।
मन्वन्तरशतं साग्रं देवलोके महीयते ॥
अप्सरोगणगन्धर्व्वैराकीर्णेन विराजितः ।
विमानेन दिवः पृष्ठमायाति सुरसेवितम् ॥
ततः कर्म्मक्षये राज्यमाप्नोतीह न संशयः ॥ १ ॥
अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम् ।
यत्प्रदाता नरो लोकं प्राप्नोति शिवसंयुतम् ॥
उत्तमः षोडशद्रोणः कर्त्तव्यो लवणाचलः ।
मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः ॥
वित्तहीनो यथाशक्त्या द्रोणादूर्द्ध्वन्तु कारयेत् ।
चतुर्थांशेन विष्कम्भान् पर्व्वतान् कारयेत् पृथक् ॥
विधानं पूर्ब्बवत् कुर्य्यात् ब्रह्मादीनाञ्च सर्व्वदा ।
तद्वद्धेमतनून् सर्व्वान् लोकपालान्निवेशयेत् ॥
सरांसि कामदेवादींस्तद्वच्चात्र निवेशयेत् ।
कुर्य्याज्जागरमत्रापि दानमन्त्रं निबोधत ॥
सौभाग्यरससंभूतो यतोऽयं लवणो रसः ।
तथात्मकत्वेन च मां पाहि पापान्नगोत्तम ! ॥
यस्मादन्नरसाः सर्व्वे सोत्कटा लवणं विना ।
प्रियश्च शिवयोर्नित्यं तस्माच्छान्तिप्रदो भव ॥
विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्द्धनः ।
तस्मात् पर्व्वतरूपेण पाहि संसारसागरात् ॥
अनेन विधिना यस्तु दद्याल्लवणपर्व्वतम् ।
उमालोके वसेत् कल्पं ततो याति परां गतिम् ॥ २ ॥
अतः परं प्रवक्ष्यामि गुडपर्व्वतमुत्तमम् ।
यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितः ॥
उत्तमो दशभिर्भारैर्सध्यमः पञ्चभिर्म्मतः ।
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पवित्तवान् ॥
तद्वदामन्त्रणं पूजां हैमवृक्षसुरार्च्चनम् ।
विष्कम्भपर्व्वतास्तद्वत् सरांसि वनदेवताः ॥
होमजागरणन्तद्वत् लोकपालाधिवासनम् ।
धान्यपर्व्वतवत् कुर्य्यादिमं मन्त्रमुदीरयेत् ॥
यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्द्दनः ।
सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥
प्रणवः सर्व्वमन्त्राणां नारीणां पार्व्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात् परां लक्षीं गुडपर्व्वत ! देहि वै ।
पृष्ठ ३/०७७
यस्मात् सौभाग्यदायिन्या भ्राता त्वं गुडपर्व्वत ! ॥
निवासस्त्वं हि पार्व्वत्यास्तस्मान्मां पाहि सर्व्वदा ।
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् ॥
पूज्यमानः सगन्धर्व्वैर्गौरीलोके महीयते ।
पुनः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ॥
आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः ॥ ३ ॥
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ।
यस्य प्रदानाद्भुवनं वैरिञ्चं याति मानवः ॥
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।
तदर्द्धेनाधमस्तद्बदल्पवित्तोऽपि शक्तितः ॥
दद्यादेकपलादूर्द्ध्वं यथाशक्त्या विमत्सरः ।
घान्यपर्व्वतवत् सर्व्वं विदध्यान्मुनिपुङ्गव ! ॥
विष्कम्भशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत् ।
नमस्त ब्रह्मबीजाय ब्रह्मगर्भाय वै नमः ॥
यस्मादनन्तफलदस्तस्मात् पाहि शिलोच्चय ! ।
यस्मादग्नेरपत्यं त्वं तस्माद्रत्नं जगत्पते ! ॥
हेमपर्व्वतरूपेण तस्मात् पाहि नगोत्तम ! ॥
अनेन विधिना यस्तु दद्यात् कनकपर्व्वतम् ॥
स याति परमं ब्रह्मलोकमानन्दकारकम् ।
तच कल्पशतन्तिष्ठेत्ततो याति परां गतिम् ॥ ४ ॥
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः ।
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ॥
उत्तमो दशभिर्द्रोणैः पञ्चभिर्मध्यमो मतः ।
त्रिभिः कनिष्ठो विप्रेन्द्र ! तिलशैलः प्रकीर्त्तितः ॥
पूर्ब्बवच्चापरं सर्व्वं विष्कम्भपर्व्वतादिकम् ।
दानमन्त्रं प्रवक्ष्यामि यथावन्मुनिसत्तम् ! ॥
यस्मान्मधुवधे विष्णोर्देहात् स्वेदसमुद्भवाः ।
तिलाः कुशाश्च समिधस्तस्माच्छान्त्यै भवन्त्विह ॥
हव्यकव्येषु यस्माच्च तिला एवाभिरक्षणम् ।
भवादुद्धर शैलेन्द्र ! तिलाचल ! नमोऽस्तु ते ॥
इत्यामन्त्र्य च यो दद्यात्तिलाचलमनुत्तमम् ।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥
दीर्घायुष्ट्वमवाप्नोति पुत्त्रपौत्त्रैश्च मानवः ।
पितृभिर्देवगन्धर्व्वैः पूज्यमानो दिवं व्रजेत् ॥ ५ ॥
अथातः संप्रवक्ष्यामि कार्पासाचलमुत्तमम् ।
यत्प्रदानान्नरो नित्यमाप्नोति परमं पदम् ॥
कार्पासपर्व्वतस्तद्वद्विंशद्भारैरिहोत्तमः ।
दशभिर्म्मध्यमः प्रोक्तः कनिष्ठः पञ्चभिर्म्मतः ॥
भारेणाल्पधनो दद्याद्बित्तशाठ्येन वर्ज्जितः ।
धान्यपर्व्वतवत् सर्व्वमासाद्य मुनिपुङ्गव ! ॥
प्रभातायान्तु शर्व्वर्य्यां दद्यादिदमुदीरयेत् ।
त्वमेवावरणं यस्माल्लोकानामिह सर्व्वदा ॥
कार्पासाद्रे नमस्तस्मादघौघध्वंसनो भव ।
इति कार्पासशैलेन्द्रं यो दद्यात् शर्व्वसन्निधौ ॥
रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह ॥ * । ६ ।
अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम् ।
तेजोऽमृतमयं दिव्यं महापातकनाशनम् ॥
विंशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः ।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्ववरः स्मृतः ॥
अल्पवित्तोऽपि कुर्व्वीत द्वाभ्यामिह विधानतः ।
विष्कम्भान् पर्व्वतांस्तद्बच्चतुर्भागेन कल्पयेत् ॥
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् ।
कारयेत् संहृतानुच्चान् यथाशोभं विधानतः ॥
वेष्टयेत् शुक्लवासोभिरिक्षुदण्डफलादिकैः ।
धान्यपर्व्वतवत् सर्व्वं विधानमिह पठ्यते ॥
अधिवासनपूर्ब्बन्तु तद्बद्धोमसुरार्च्चनम् ।
प्रभातायान्तु शर्व्वर्य्यां गुरवे च निवेदयेत् ॥
विष्कम्भपर्व्वतांस्तद्वदृत्विग्भ्यः शान्तमानसः ।
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः ॥
तस्माद्घृतार्च्चिर्विश्वात्मा प्रीयतामत्र शङ्करः ।
यस्मात्तेजोमयं ब्रह्म घृते तच्च व्यवस्थितम् ॥
घृतपर्व्वतरूपेण तस्मान्मां पाहि भूधर ! ।
अनेन विधिना दद्याद्घृताचलमनुत्तमम् ॥
महापातकयुक्तोऽपि लोकमायाति शाङ्करम् ।
हंससारसयुक्तेन किङ्किणीजालमालिना ॥
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः ।
विहरेत् पितृभिः सार्द्धं यावदाहूतसंप्लवम् ॥ ७ ॥
अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् ।
मुक्ताफलसहस्रेण पर्व्वतः स्यादनुत्तमः ॥
मध्यमः पञ्चशतिकस्त्रिशतैरवरः स्मृतः ।
चतुर्थांशेन विष्कम्भाः पर्व्वताः स्युः समन्ततः ॥
पूर्ब्बेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः ।
पुष्परागयुतैः कार्य्यो विद्बद्भिर्गन्धमादनः ॥
वैदूर्य्यविद्रुमैः पश्चात् संमिश्रो विपुलोऽचलः ।
पद्मरागैः ससौवर्णैरुत्तरेण तु विन्यसेत् ॥
धान्यपर्व्वतवत् सर्व्वमत्रापि परिकल्पयेत् ।
तद्वदावाहनं कृत्वा वृक्षान् देवांश्च काञ्चनान् ॥
पूजयेद् पुष्पपानीयैः प्रभाते चाथ पूर्ब्बवत् ।
पूर्ब्बवद्गुरु-ऋत्विग्भ्यः फलमन्त्रानुदीरयेत् ॥
यथा देवगणाः सर्व्वे सर्व्वरत्नेष्ववस्थिताः ।
त्वञ्च रत्नमयो नित्यमतः पाहि महाचल ! ॥
यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरेः ।
सदानन्दप्रदानेन तस्मान्नः पाहि पर्व्वत ! ॥
अनेन विधिना यस्तु दद्याद्रत्नमहागिरिम् ।
स याति वैष्णवं लोकममरेश्वरपूजितः ॥
यावत् कल्पशतं साग्रं वासश्चेह नराधिप ! ।
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।
तत् सर्व्वं नाशमायाति गिरिर्वज्रहतो यथा ॥ ८ ॥
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।
यत्प्रदानान्नरो याति सोमलोकं द्विजोत्तम् ! ॥
दशभिः पलसाहस्रैरुत्तमो रजताचलः ।
पञ्चभिर्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः ॥
अशक्तौ विंशतेरूर्द्ध्वं कारयेत् शक्तितः सदा ।
विष्कम्भपर्व्वतांस्तद्वत्तुरीयांशेन कल्पयेत् ॥
पूर्ब्बवद्राजतान् कुर्य्यान्मन्दरादीन् विधानतः ।
कलधौतमयांस्तत्र लोकेशान् रचयेद्बुधः ॥
ब्रह्मविष्ण्वर्कवत् कार्य्यो नितम्बोऽत्र हिरण्मयः ।
राजतं स्याद्यदन्येषां सर्व्वन्तदिह काञ्चनम् ॥
शेषञ्च पूर्ब्बवत् कुर्य्याद्धोमजागरणादिकम् ।
प्रदद्यात्तं प्रभाते तु गुरवे रौप्यपर्व्वतम् ॥
विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः ।
इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्विमत्सरः ॥
पितॄणां वल्लभं यस्माद्विष्णोर्व्वा शङ्करस्य च ।
रजतं पाहि तस्मान्नः शोकसंसारसागरात् ।
इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम् ।
गवामयुतदानस्य फलं प्राप्नोति मानवः ॥
सोमलोके स गन्धर्व्वैः किन्नराप्सरसाङ्गणैः ।
पूज्यमानो वसेद्विद्वान् यावदाहूतसंप्लवम् ॥ ९ ॥
अथातः संप्रवक्ष्यामि शर्कराशैलमुत्तमम् ।
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्व्वदा ॥
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः ।
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥
सार्द्धभारेण शैलन्तु यः कुर्य्यात् स्वल्पवित्तवान् ।
विष्कम्भपर्व्वतान् कुर्य्यात्तुरीयांशेन मानवः ॥
धान्यपर्व्वतवत् सर्व्वमासाद्य मेरुसंयुतम् ।
मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम् ॥
मन्दारः पारिजातश्च तृतीयः कल्पपादपः ।
एतद्वृक्षत्रयं मूर्द्ध्नि सर्व्वेष्वपि निवेशयेत् ॥
हरिचन्दनसन्तानौ पूर्ब्बपश्चिमभागयोः ।
निवेश्यौ सर्व्वशैलेषु विशेषाच्छर्कराचले ॥
मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् ।
गन्धमादनशृङ्गेषु धनदः स्यादुदङ्मुखः ॥
प्राङ्मुखो वेदमूर्त्तिश्च हंसः स्याद्विपुलाचले ।
हैमी सुपार्श्वसुरभी दक्षिणाभिमुखी भवेत् ॥
धान्यपर्व्वतवत् सर्व्वमावाहनमखादिकम् ।
कृत्वाथ गुरवे दद्यान्मध्यमं पर्व्वतोत्तमम् ।
ऋत्विग्भ्यश्च नरः शैलानिमान्मन्त्रानुदीरयेत् ॥
सौभाग्यामृतसारोऽयं परमः शर्करायुतः ।
तत् सदानन्दकारी त्वं भव शैलेन्द्र ! सर्व्वदा ॥
अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः ।
देवानान्तत्समुत्थोऽयं पाहि नः शर्कराचल ! ॥
मनोभवधनुर्मध्यादुद्भूता शर्करा यतः ।
तन्मयोऽसि महाशैल ! पाहि संसारसागरात् ॥
यो दद्यात् शर्कराशैलमनेन विधिना नरः ।
सर्व्वपापविनिर्मुक्तः प्रयाति शिवमन्दिरम् ॥
चन्द्रादित्यप्रतीकाशमधिरुह्यानुजीविभिः ।
सहैव यानमातिष्ठेत् स तु विष्णुप्रचोदितः ॥
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् ।
आयुरारोग्यसम्पन्नो यावज्जन्मार्व्वुदत्रयम् ॥
भोजनं शक्तितः कुर्य्यात् सर्व्वशैलेष्वमत्सरः ।
सर्व्वत्राक्षारलवणमश्नीयात्तदनुज्ञया ।
पर्व्वतोपस्करान् सर्व्वान् प्रापयेत् ब्राह्मणा-
लयम् ॥ १० ॥
इति मात्स्ये ७७ अध्यायः ॥
देवर्षिविशेषः । यथा, --
“कश्यपान्नारदश्चैव पर्व्वतोऽरुन्धती तथा ॥”
इत्यग्निपुराणम् ॥
(यथाच, महाभारते । ३ । ९३ । २५ ।
“लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च ।
नारदस्य च राजेन्द्र ! देवर्षेः पर्व्वतस्य च ॥”)
मत्स्यविशेषः । पाव्दा इति भाषा । अस्य
गुणाः । वायुनाशित्वम् । स्निग्धत्वम् । बलशुक्र-
कारित्वञ्च । इति राजवल्लभः ॥ वृक्षः । शाक-
भेदः । इति मेदिनी । ते, १२६ ॥ (सन्न्यासि-
विशेषः । स तु शङ्कराचार्य्यशिष्यस्य मण्डनमिश्रस्य
पृष्ठ ३/०७८
शिष्यविशेषः । यथा, प्राणतोषिण्यां अवधूत-
प्रकरणे ।
“वसेत् पर्व्वतमूलेषु प्रौढो यो ध्यानधारणात् ।
सारात्सारं विजानाति पर्व्वतः परिकीर्त्तितः ॥”)

पर्व्वतकाकः, पुं, (पर्व्वते जातः काकः । प्रायशः

पर्व्वतजातत्वात्तथात्वम् ।) द्रोणकाकः । इति
हेमचन्द्रः । ४ । ३ । ८९ ॥

पर्व्वतजा, स्त्री, (पर्व्वताज्जायते या । पर्ब्बत +

जन् + “पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति
डः ।) नदी । इति हेमचन्द्रः । ४ । १४६ ॥
(हिमगिरिजातत्वात् गौरी ।) गिरिभववस्तुनि
त्रि ॥

पर्व्वततृणं, क्ली, (पर्व्वतभवं तृणम् । शाकपार्थिव-

वत् समासः ।) तृणभेदः । सण्ड इति हिन्दी
भाषा । तत्पर्य्यायः । तृणाढ्यम् २ पत्राढ्यम् ३
मृगप्रियम् ४ । अस्य गुणाः । बलपुष्टिकरत्वम् ।
पशूनां सर्व्वदा प्रियत्वञ्च । इति राजनिर्घण्टः ॥

पर्व्वतमोचा, स्त्री, (पर्व्वतोद्भवा मोचा कदली-

त्यर्थः ।) गिरिकदली । इति राजनिर्घण्टः ॥

पर्व्वतराजः, पुं, (पर्व्वतानां राजा । “राजाहः-

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
हिमालयगिरिः । अस्य प्रमाणं वक्ष्यमाणशब्दे
द्रष्टव्यम् ॥

पर्व्वतराजपुत्त्री, स्त्री, (पर्व्वतराजस्य हिमालयस्य

पुत्त्री ।) दुर्गा । यथा, जिकनधनञ्जयसंग्रहयोः ।
“शक्रध्वजात् पक्षयुते दशाहे
मूलर्क्षयुक्ता सितसप्तमी या ।
आरभ्य तस्यां दशमीञ्च यावत्
प्रपूजयेत् पर्व्वतराजपुत्त्रीम् ॥”
इति तिथ्यादितत्त्वम् ॥

पर्व्वतवासिनी, स्त्री, (पर्व्वते वसतीति । पर्व्वत +

वस + णिनि + ङीप् ।) आकाशमांसी । इति
राजनिर्घण्टः ॥ गायत्त्री । यथा, --
“उत्तरे शिखरे देवि ! भूम्यां पर्व्वतवासिनि ! ।
ब्रह्मयोनिसमुत्पन्ने ! गच्छ देवि ! यथासुखम् ॥”
इति यजुर्व्वेदीयगायत्त्रीविसर्ज्जनमन्त्रः ।
काली । यथा, श्यामापूजायां विसर्जनमन्त्रः ॥
“उत्तरे शिखरे देवि ! भूम्यां पर्व्वतवासिनि ! ।
ब्रह्मयोनिसमुत्पन्ने गच्छ देवि ! ममान्तरम् ॥”

पर्व्वताधारा, स्त्री, (पर्व्वतः आधारो यस्याः ।

अष्टकुलाचलैः पृथिवी ध्रियते इति पुराण-
प्रसिद्धेस्तथात्वम् ।) पृथिवी । इति हेम-
चन्द्रः । ४ । ३ ॥

पर्व्वतारिः, पुं, (पर्व्वतानामरिः शत्रुः । पर्व्वत-

पक्षच्छेदनादस्य तथात्वम् ।) इन्द्रः । इति
शब्दरत्नावली ॥

पर्व्वताशयः, पुं, (पर्व्वते आशेते इति । आ + शी

शयने + अच् ।) मेघः । इति शब्दचन्द्रिका ॥

पर्व्वताश्रयः, पुं, (पर्व्वत आश्रयो वासस्थानं यस्य ।)

शरभः । इति राजनिर्घण्टः ॥ पर्व्वतवासिनि त्रि ॥

पर्व्वतीयः, त्रि, (पर्व्वते भवः । पर्व्वत + “विभाषा-

मनुष्ये ।” ४ । २ । १४४ । इति छः ।) पर्व्वत-
सम्बन्धी । पर्व्वतभवः । पाहाडिया इति भाषा ।
पर्व्वतशब्दात् भवार्थे ईयप्रत्ययनिष्पन्नः । (मनुष्ये
तु पार्व्वतीयः । इति सिद्धान्तकौमुदी ॥ यथा,
रघुः । ४ । ७७ ।
“तत्र जन्यं रघोर्घोरं पार्व्वतीयैर्गणैरभूत् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥”)

पर्व्वतोर्म्मिः, पुं, मत्स्यविशेषः । इति कस्मिन् भूरि-

प्रयोगे प्रमादलिखनं, पर्व्वतोवर्म्मिरिति मत्स्य-
द्वयबोधकपाठः साधुः ॥

पर्व्वधिः, पुं, (पर्व्वणि अमावस्यापूर्णिमयोः ह्नास-

वृद्धिं दधातीति । पर्व्व + धा + किः ।) चन्द्रः ।
इति त्रिकाण्डशेषः ॥

पर्व्वपुष्पी, स्त्री, (पर्व्वसु ग्रन्थिषु पुष्पं यस्याः ।

स्त्रियां ङीष् ।) रामदूतीवृक्षः । नागदन्ती ।
इति शब्दचन्द्रिका रत्नमाला च ॥

पर्व्वपूर्णता, स्त्री, (पर्व्वणः पूर्णता ।) सम्भारः ।

आयोजनम् । इति भूरिप्रयोगः ॥ पर्व्वणः पूर्ण-
त्वञ्च ॥

पर्व्वमूला, स्त्री, (पर्व्वणि पर्व्वणि मूलं यस्याः ।

यद्वा, पर्व्व ग्रन्थिरेव मूलं यस्याः ।) श्वेता ।
इति राजनिर्घण्टः ॥

पर्व्वयोनिः, पुं, (पर्व्व ग्रन्थिरेव योनिरुत्पत्तिकारणं

यस्य ।) इक्ष्वादि । इति हेमचन्द्रः । ४ । २६६ ॥

पर्व्वरीणं, क्ली, पर्व्व । इति शब्दरत्नावली ॥

पर्व्वरीणः, पुं, पर्णवृन्तरसः । गर्व्वः । मारुतः ।

पर्णशिरा । मृतकम् । द्यूतकम्बलः । पत्र-
चूर्णरसः । इति शब्दरत्नावली ॥ पर्परीण
इति मेदिन्यां पाठः ॥

पर्व्वरुट् [ह्] पुं, (पर्व्वसु ग्रन्थिषु रोहतीति ।

रुह + क्विप् ।) दाडिमः । इति त्रिकाण्डशेषः ॥

पर्व्ववल्ली, स्त्री, (पर्व्वप्रधाना ग्रन्थिबहुला वल्ली

लता ।) मालादूर्ब्बा । इति राजनिर्घण्टः ॥

पर्व्वसन्धिः, पुं, (पर्व्वणोः सन्धिः) प्रतिपत्पञ्च-

दश्योरन्तरम् । इत्यमरः । १ । ४ । ७ ॥ “प्रतिपत्-
पञ्चदश्योर्यन्मध्यं स पर्व्वसन्धिः । किंवा स
सन्धिः पर्व्वेत्यन्वयः । पञ्चदशानां पूरणी पञ्च-
दशी संख्याया डडिति डट् टित्त्वादीप् ।
पञ्चदशीशब्देन पूर्णिमामावास्ययोर्द्वयोर्ग्रहणम् ।
अतएव पौर्णमास्या अमावास्या वा शेषसार्द्ध-
दण्डचतुष्टयं प्रतिपदश्च प्रथमसार्द्धदण्डचतुष्टयं
पर्व्वसन्धिरिति वृद्धाः ॥ सैहिकेयो यदा राहु-
र्ग्रसते पर्व्वसन्धिष्विति यमः ॥ पर्व्वणोः सन्धिः
पर्व्वसन्धिः पृधातोर्वनिपि पर्व्वपूरणे इत्यस्य
नाम्नीत्यनि वा पर्व्व । प्रतिपत्पञ्चदश्योस्तु
सन्धिः पर्व्वाथ दिक् ककुविति स्वामी ॥
दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि ।
पर्व्वशब्दो हि विषुवत्प्रभृतिष्वपि दृश्यते ॥
इति रत्नः ।” इति भरतः ॥

पर्व्वितः, पुं, (पर्व्व ग्रन्थिर्जातमस्य । पर्व्व +

इतच् ।) पर्व्वतमत्स्यः । इति शब्दरत्नावली ॥

पर्शुः, पुं, (परं शत्रुं शृणातीति । शृगि हिंसे +

“आङ् परयोः खनिशृभ्यां डिच्च ।” उणां ।
१ । ३४ । इति कुः स च डित् । पुषोदरादि-
त्वात् दलोपः । यद्वा, स्पृशति शत्रूनिति । स्पृश
संस्पर्शे + “स्पृशेः श्वण् शुनौ पृ च ।” उणां
५ । २७ । इति शुन् धातोश्च पृ-आदेशः ।)
परशुः । इति हेमचन्द्रः । ३ । ४५० ॥ (यथा,
रामायणे । ३ । २८ । २४ ।
“भिन्दिपालान् सुतीक्ष्णाग्रान् पाषाणांश्च
महोपलान् ।
प्रासान् पाशांस्तथा पर्शून् कुन्तांश्च कुणपां-
स्तथा ॥”)

पर्शुका, स्त्री, (पर्शुरिव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् । स्त्रियां टाप् ।)
पार्श्वास्थि । इत्यमरः । २ । ६ । ६९ ॥

पर्शुपाणिः, पुं, (पर्शुः परशुः पाणौ यस्य ।)

गणेशः । इति हेमचन्द्रः । २ । १२१ ॥ (परशुरामः ।
इति व्युत्पत्तिलब्धोऽर्थः ॥)

पर्शुरामः, पुं, (पर्शुधारी रामः । शाकपार्थिवादि-

वत् समासः । परशुना सह जातत्वादस्य तथा-
त्वम् । यदुक्तं कालिकापुराणे ७८ अध्याये ।
“भारावतरणार्थाय जातः परशुना सह ।
सहजः परशुस्तस्य न जहाति कदाचन ॥”)
परशुरामः । इति शब्दरत्नावली ॥

पर्श्वधः, पुं, (परश्वं दधातीति । परश्व + धा +

“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।
पृषोदरात् साधुः ।) कुठारः । इति जटाधरः ॥

पर्ष, ङ स्नेहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) रेफोपधः । स्नेह इह आर्द्री-
भावः । ङ, पर्षते पयसा पटः । स्पर्ष इति
चतुर्भुजः । स्पर्षते पस्पर्षे । इति दुर्गादासः ॥

पर्षत्, [द्] स्त्री, (परिसीदन्त्यस्याम् । परि +

सद् + “सत्सूद्विषेति ।” ३ । २ । ६१ । इति
क्विप् । “सदिरप्रतेः ।” ८ । ३ । ६६ । इति
षत्वम् । बाहुलकात् इकारलोपः । यद्वा,
“शॄदॄभसोऽदिः ।” उणां १ । १२९ । इति बहुल-
वचनात् पर्ष स्नेहने इत्यस्मादपि अदिः ।) सभा ।
इत्युणादिकोषः ॥ (यथा, याज्ञवल्क्ये । १ । ९ ।
“चत्वारो वेदधर्म्मज्ञाः पर्षत्त्रैविद्यमेव वा ।
सा ब्रूते यं स धर्म्मः स्यादेको वाध्यात्म-
वित्तमः ॥”)

पर्षद्बलः, त्रि, (पर्षत् सभा विद्यते यस्य । पर्षत्

+ “रजःकृषीति ।” ५ । २ । ११२ । इति वलच् ।)
पारिषदः । इति शब्दरत्नावली ॥ (यथा,
भट्टिः । ४ । १२ ।
“व्रातीनव्यालदीप्तास्त्रः सुत्वनः परिपूजयन् ।
पर्षद्वलान् महाब्रह्मैराट नैकटिकाश्रमान् ॥”)

पल, क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, पालयति । ह्रस्ववतै-
वेष्टसिद्धे दीर्घिणोऽपि पाठः कानुबन्धाना-
मिदनुबन्धवत् ञेरनित्यतां बोधयति । तेन पालति
पलति इत्यपि सिद्धम् । इति दुर्गादासः ॥

पल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ज, पालः पलः । इति दुर्गादासः ॥
पृष्ठ ३/०७९

पलं, क्ली, (पलतीति । पल + अच् ।) आमिषम् ।

कर्षचतुष्टयम् । इत्यमरः । ३ । ३ । २०१ ॥ २ । ९ । ८६ ॥
तत्तु शास्त्रे तोलकचतुष्टयम् । वैद्यके अष्ट-
तोलकम् । लौकिके साष्टरक्तिद्विमाषकतोलक-
त्रितयम् । तत्पर्य्यायः । मुष्टिः २ प्रकुञ्चः ३
चतुर्थिका ४ विल्वम् ५ षोडशिकाम्रम् ६ । इति
वैद्यकपरिभाषा ॥ यथा, तिथ्यादितत्त्वे ।
“पलन्तु लौकिकैर्मानैः साष्टरक्तिद्बिमाषकम् ।
तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥”
विघटिका । इति राजनिर्घण्टः ॥ सा तु
घटिकाषष्टिभागैकभागः । षष्टिविपलश्च । पल-
दण्डयोः प्रमाणन्तु ।
“दशगुर्व्वक्षरोच्चारकालः प्राणः षडात्मकैः ।
तैः पलं स्यात्तु तत्षष्ट्या दण्ड इत्यभिधीयते ॥”
तेन च ।
“मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः
कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् ।
क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या-
त्तस्माद्धान्ते हर्म्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥”
अस्यैकपाठात् पलं षष्ठिपाठाद्दण्डः । इति
ज्योतिस्तत्त्वम् ॥

पलः, पुं, (पलतीति । पल् + अच् ।) पलालः ।

इति हेमचन्द्रः । ४ । २४८ ॥ (यथा, महा-
भारते । ३ । २३३ । ११ ।
“चण्डाश्च शौण्डाश्च महाशनाश्च
चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥”)

पलक्या, स्त्री, (पलकं मांसं तद्वृद्धये हितम् ।

पलक + यत् । स्त्रियां टाप् ।) पालङ्क्यशाकः ।
इति राजनिर्घण्टः ॥

पलगण्डः, पुं, (पलं मांसं तद्वत् गण्डति भित्तौ

मृदादिना लिम्पतीति । गण्ड + अच् ।)
लेपकः । इत्यमरः । २ । १० । ६ ॥ राज इति
भाषा ॥

पलङ्कटः, त्रि, (पलं मांसं कटति आकुञ्चितं

करोतीति । पल + कट + बाहुलकात् खच् मुम्
च ।) भयशीलः । भीरुः । इति त्रिकाण्डशेषः ॥

पलङ्करः, पुं, (पलं मांसं करोतीति । पल + कृ

+ अच् । “तत्पुरुषे कृतीति ।” ६ । ३ । १४ । इति
द्वितीयायाः अलुक् ।) पित्तम् । इति त्रिकाण्ड-
शेषः ॥

पलङ्कषः, पुं, (पलं कषतीति । कष हिंसायाम् +

अच् । “तत्पुरुषे कृतीति ।” ६ । ३ । १४ ।
इति द्वितीयाया अलुक् ।) राक्षसः । इति
मेदिनी । षे, ५३ ॥ कणगुग्गुलुः । इति
राजनिर्घण्टः ॥

पलङ्कषा, स्त्री, (पलङ्कष् + टाप् ।) गोक्षुरकः ।

रास्ना । गुग्गुलुः । किंशुकः । मुण्डीरी ।
लाक्षा । इति मेदिनी ॥ क्षुद्रगोक्षुरकः । महा-
श्रावणी । (यथा, सुशुते उत्तरतन्त्रे ३९
अध्याये ।
“अजाव्योश्चर्म्मरोमाणि वचाकुष्ठं पलङ्कषा ॥”)
मक्षिका । इति राजनिर्घण्टः ॥

पलप्रियः, पुं, (पलमामिषं प्रियं यस्य ।) द्रोण-

काकः । इति राजनिर्घण्टः ॥ मांसाशिनि, त्रि ॥

पलभा, स्त्री, (पलस्य भा छविर्यत्र ।) मेषसंक्रमणा-

दर्व्वाक् सपादाष्टदिने मध्याह्ने द्बादशाङ्गुल-
शङ्कुजा छाया । तत्पर्य्यायः । पलविभा २
विषुवत्प्रभा ३ । यथा, ग्रहलाघवे ।
“मेषादिगे सायनभागसूर्य्ये
दिनार्द्धजा भा पलभा भवेत् सा ॥”
पलभयोद्भुतचरखण्डकैः क्रमोत्क्रमस्थैर्हीनान्वितै-
र्लङ्कोदयैः स्वदेशीयोदया भवन्ति । अन्यत्स्पष्टा-
घिकारेऽपि चरसंस्कृता ग्रहाः स्पष्टा भवन्तीति
प्रयोजनम् ॥ यथा, सिद्धान्तशिरोमणौ ॥
“क्रियतुलाधरसंक्रमपूर्ब्बतोऽयनलवोत्थदिनैर्विषु-
वद्दिनम् ।
मकरकर्कटसंक्रमतोऽयनं द्युदलभा विषुवद्दिवसे-
ऽक्षभा ॥”
“एवं विषुवती छाया स्वदेशे या दिनार्द्धजा ।
दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा ॥”
इति सूर्य्यसिद्धान्तः ॥
“अजतुलादिगतस्य रवेर्द्दिने
द्युदलभार्कमिताङ्गुलशङ्गुजा ।
पलविभाथ -- ॥”
इति वृद्धवशिष्ठसिद्धान्तः ॥

पललं, क्ली, (पलति पल्यतेऽनेन वा । पल गतौ

+ “वृषादिभ्यश्चित् ।” उणां १ । १०८ । इति
कलच् ।) मांसम् । इत्यमरः । २ । ६ । ३३ ॥ (यथा,
गारुडे । १८१ । अध्याये ।
“मार्ज्जारपललं विष्ठा हरितालञ्च भावितम् ।
छागमूत्रेण तल्लिप्तो मूषिको मूषिकान् हरेत् ॥”)
पङ्कम् । (यथा, गोः रामायणे । ५ । ८७ । २६ ।
“दोषपङ्कनिमग्नं त्वामयशःपललावृतम् ।
सर्व्वथा मानुषो रामस्त्वामन्तमुपनेष्यति ॥”)
तिलचूर्णम् । इति मेदिनी । ले, १०४ ।
“पललं तिलकल्कं स्यात्तिलचूर्णञ्च पिष्टकः ।
पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥”
इति राजनिर्घण्टः ॥
सैक्षवतिलचूर्णम् । तिलकुटा इति भाषा ।
यथा, वैद्यके ।
“पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम् ।
पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत् ॥
बृंहणं गुरु वृष्यञ्च स्निग्धं मूत्रनिवर्त्तकम् ॥”

पललः, पुं, (पलतीति । पल गतौ + “वृषादिभ्य-

श्चित् ।” उणां । १ । १०८ । इति कलच् ।
यद्वा, पलं मांसं लातीति । ला + कः ।)
राक्षसः । इति मेदिनी । ले, १०४ ॥

पललज्वरः, पुं, (पललस्य मांसस्य ज्वर इव ।)

पित्तम् । इति हारावली । १४१ ॥

पललाशयः, पुं, (पलले आशेते इति । आ +

शीङ शयने + अच् ।) गण्डरोगः । इति शब्द-
रत्नावली ।

पलवः, पुं, (पलं पलायनं वाति हिनस्ति नाशय-

तीति । पल + वा ल गमनहिंसयोः + “आतो-
ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) मत्स्य-
धारणोपायः । पोलो इति भाषा । तत्पर्य्यायः ।
प्लवः २ पञ्जराखेटः ३ । इति त्रिकाण्डशेषः ॥

पलाग्निः, पुं, (पलस्य मांसस्य अग्निः । मांस-

पाकशक्तिवत्तयास्य तथात्वम् ।) पित्तम् । इति
हारावली । १४१ ॥

पलाङ्गः, पुं, (पलं मांसं तत्प्रधानं अङ्गं यस्य ।)

शिशुमारः । इति हारावली । ७७ ॥

पलाण्डुः, पुं, (पलस्य मांसस्य अण्डमिवाचर-

तीति । “मृगय्वादयश्च ।” उणां १ । ३८ । इति
कुप्रत्ययात् साधुः ।) मूलविशेषः । पेयाज्
इति भाषा । तत्पर्य्यायः । सुकन्दकः २ । इत्य-
मरः । २ । ४ । १४७ ॥ लोहितकन्दः ३ । इति
रत्नमाला ॥ तीक्ष्णकन्दः ४ उष्णः ५ मुख-
दूषणः ६ शूद्रप्रियः ७ कृमिघ्नः ८ दीपनः ९
मुखगन्धकः १० बहुपत्त्रः ११ विश्वगन्धः १२
रोचनः १३ पलाण्डूः १४ सुकुन्दकः १५ ।
इति शब्दरत्नावली ॥ अस्य गुणाः । कटुत्वम् ।
बल्यत्वम् । कफपित्तवान्तिदोषनाशित्वम् ।
गुरुत्वम् । वृष्यत्वम् । रोचनत्वम् । स्निग्धत्वञ्च ।
इति राजनिर्घण्टः ॥ यथा, भावप्रकाशे ।
“पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः ।
पलाण्डुस्तु गुणैर्ज्ञेयो रसोनसदृशो गुणैः ॥
स्वादुपाकरसोऽनुष्णः कफकृन्नातिपित्तलः ।
हरते केवलं वातं बलवीर्य्यकरो गुरुः ॥”
पलाण्डुभक्षणे दोषो यथा, --
“पलाण्डुं विड्वराहञ्च छत्त्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनञ्चैव जग्ध्वा चान्द्रायणञ्चरेत् ॥”
इति प्रायश्चित्तविवेके याज्ञवल्क्यः ॥

पलादः, पुं स्त्री, (पलं मांसमत्तीति । अद्

भक्षणे + “कर्म्मण्यण् ।” ३ । २ । १ इत्यण् ।)
राक्षसः । इति जटाधरः ॥ (मांसभक्षके, त्रि ॥)

पलादनः, पुं, स्त्री, (पलं मांसमत्तीति । पल +

अद् + ल्युः ।) राक्षसः । इति हेमचन्द्रः ॥ मांस-
भक्षणशीले, त्रि ॥

पलान्नं, क्ली, (पलं मांसं तेन सह पक्वं अन्नम् ।

शाकपार्थिवादिवत् समासः ।) मांसादि-
युक्तसिद्धभक्तम् । पोलाओ इति भाषा । तस्य
पाकप्रकारो द्रव्याणि च यथा । छागमांसं १
शरावः । घृतं । ० शरावपादः । त्वचं ३
माषकम् । लवङ्गं ३ माषकम् । एला ३
माषकम् । तण्डुलं १ शरावः । मरिचं २
तोलकम् । तेजपत्रं २ तोलकम् । कुङ्कमं १
माषकम् । आर्द्रकं २ तोलकम् । लवणं ६
तोलकम् । धन्याकं २ तोलकम् । द्राक्षा ०
शरावपादार्द्धम् । छागमांसं सूक्ष्मं थोरयित्वा
शुष्कप्रलेहपाककरणानन्तरं पात्रान्तरे तेज-
पत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमं
सज्जीकर्त्तव्यम् । ततस्तण्डुलं जलेनार्द्धसिद्धं
कृत्वा मण्डगालनपूर्ब्बकमल्पाखण्डगन्धद्रव्येण सह
तन्मांसोपरि सज्जीकर्त्तव्यम् । एवं प्रकारेण
वारं वारं सज्जीकृत्य तदुपरि अवशिष्टघृत-
पृष्ठ ३/०८०
क्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत् । इति
पाकराजेश्वरः ॥ * ॥ अत्र मांसस्थाने मत्स्य-
फलमूलादिकं गन्धद्रव्येण सह दधियोगः घृत-
परिमाणस्याधिक्यञ्च भवितुमर्हति ॥

पलापः, पुं, (पलं मांसं आप्यते प्राप्यते बाहु-

ल्येन अत्र । पल + आप् + घञ् ।) कण्ठ-
पाशकः । हस्तिकपोलः । इति शब्दमाला ॥

पलायनं, क्ली, (पलाय्यते इति । पलाय + भावे

ल्युट् ।) भयादिना स्थानान्तरगमनम् । पालान
इति पीठ देओन इति च भाषा ॥ (यथा,
रघुः । १९ । ३१ ।
“मित्र कृत्यमपदिश्य पार्श्वतः
प्रस्थितं तमनवस्थितं प्रियाः ।
विद्म हे शठ ! पलायनच्छला-
न्यञ्जसेति रुरुधुः कचग्रर्हैः ॥”)
तत्पर्य्यायः । अपयानम् २ संदावः ३ द्रवः ४
विद्रवः ५ उपक्रमः ६ संद्रावः ७ उद्द्रावः ८
प्रद्रावः ९ । इति हेमचन्द्रः । ३ । ४६६ ॥
निद्रावः १० उद्द्रवः ११ सन्त्रापः १२ द्रावः १३
शृगालिका १४ अपक्रमः १५ चंक्रमः १६ ।
इति शब्दरत्नावली ॥

पलायितः, त्रि, (पलाय + क्त ।) पलायनविशिष्टः ।

तत् पर्य्यायः । नष्टः २ गृहीतदिक् ३ तिरो-
हितः ४ । इति हेमचन्द्रः ॥

पलालः, पुं, क्ली, (पलति शस्यशून्यत्वं प्राप्नोतीति ।

पल + “तमिविशिविडीति ।” उणां १ । ११७ ।
इति कालन् । यद्वा, पलं अलतीति । अल +
“कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।)
निष्फलकाण्डः । शस्यशून्यधान्यनालः । इत्य-
मरः । २ । ९ । २२ ॥ पोयाल इति भाषा ॥ (यथा,
मनुः । ५ । १२२ ।
“प्रोक्षणात् तृणकाष्ठञ्च पलालञ्चैव शुध्यति ॥”
स्त्री, स्कन्दस्य मातृविशेषः । यथा, महा-
भारते । ३ । १२७ । १० ।
“काकी च हलिमा चैव मालिनी बृंहिला तथा ।
आर्य्या पलाला वैमित्रा सप्तैताः शिशुमातरः ॥”)

पलालदोहदः, पुं, (पलालं दोहदं यस्य ।)

आम्रवृक्षः । इति शब्दमाला ॥

पलाशं, क्ली, (पलं गतिं कम्पनमित्यर्थः । अश्नुते

व्याप्नोतीति । पल + अश + “कर्म्मण्यण् ।” ३ ।
२ । १ । इत्यण् ।) पत्रम् । इत्यमरः । २ । ४ । १४ ॥
(यथा, महाभारते । ३ । ३५ । २५ ।
“बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ॥”
पलाशस्य पलाशवृक्षस्य इदम् । पलाशपुष्पादि ।
यथा कुमारे । ३ । २९ ।
“बालेन्दुवक्राण्यविकाशभावात्
बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन ममागतानां
नखक्षतानीव वनस्थलीनाम् ॥”)

पलाशः, पुं, (पलाशानि पर्णानि सन्त्यस्य । “अर्श

आदिभ्योऽच ।” ५ । २ । १२७ । इत्यच् ।) स्वनाम-
ख्यातवृक्षः । स तु ब्रह्मणः स्वरूपः । यथा, --
सूत उवाच ।
“अश्वत्थरूपो भगवान् विष्णुरेव न संशयः ।
रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।
दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवम् ॥
ऋषय ऊचुः ।
कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।
एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः ॥
सूत उवाच ।
पार्व्वतीशिवयोर्देवैः सुरतं कुर्व्वतोः किल ।
अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा ॥
ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः ।
रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा ॥
पार्व्वत्युवाच ।
क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् ।
तस्मान्ममसुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ ॥
सूत उवाच ।
एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा ।
तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥”
इति पाद्मोत्तरखण्डे १६० अध्यायः ॥
तत्पर्य्यायः । किंशुकः २ पर्णः ३ वातपोथः ४ ।
इत्यमरः । २ । १ । २९ ॥ याज्ञिकः ५ त्रिपर्णः ६
वक्रपुष्पः ७ पूतद्रुः ८ ब्रह्मवृक्षकः ९ ब्रह्मोप-
नेता १० काष्ठद्रुः ११ । अस्य गुणाः । कषा-
यत्वम् । उष्णत्वम् । क्रिमिदोषविनाशित्वञ्च ॥ तद्-
बीजगुणः । पामकण्डूतिदद्रुत्वग्दोषनाशित्वम् ॥
तत्पुष्पगुणः । उष्णत्वम् । कण्डूकुष्ठनाशित्वञ्च ॥
तत्पुष्पं चतुर्विधं यथा, राजनिर्घण्टे ।
“रक्तः पीतः सितो नीलः कुसुमैस्तु विभाव्यते ।
किंशुकैर्गुणसाम्योऽपि सितो विज्ञानदः स्मृतः ॥”
“पलाशः किंशुकः पर्णो याज्ञिको रक्तपुष्पकः ।
क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः ॥
पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् ।
कषायः कटुकस्तिक्तः स्निग्धो गुदजरोगजित् ॥
भग्नसन्धानकृद्दोषग्रहण्यर्शःक्रिमीन् हरेत् ।
तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम् ॥
वातलं कफपित्तास्रकृच्छ्रजिद्ग्राहि शीतलम् ।
तृड्दाहशमनं वातरक्तकुष्ठहरं परम् ॥
फलं लघूष्णं मेहार्शःक्रिमिवातकफापहम् ।
विपाके कटुकं रूक्षं कुष्ठगुल्मोदरप्रणुत् ॥”
इति भावप्रकाशः ॥
पलाशभेदा । यथा, --
“तद्भेदे स्यात् किंशुलुकः किञ्चलो हस्तिकर्णकः ॥”
इति शब्दरत्नावली ॥
(पलाशस्य फलपुष्पादौ क्ली ॥) शटी । (पलं
मांशं अश्नातीति । पल + अश् + अण् । यद्वा,
पले मांसे आशा यस्य ।) राक्षसः । इति
मेदिनी । शे, २४ ॥ हरितः । मगधदेशः । इति
शब्दरत्नावली ॥

पलाशः, त्रि, (पलवद्धरिद्बर्णेन अश्यते व्याप्यते

इति । अश + घञ् ।) हरिद्वर्णविशिष्टः । इति
मेदिनी । शे, २४ ॥ निर्द्दयः । इति धरणिः ॥

पलाशकः, पुं, (पलाश + संज्ञायां कन् ।) शटी ।

इति जटाधरः ॥ पलाशवृक्षः । इति शब्द-
रत्नावली ॥

पलाशपर्णी, स्त्री, (पलाशस्य पर्णमिव पर्णमस्याः ।

गौरादित्वात् ङीष् ।) अश्वगन्धा । इति राज-
निर्घण्टः ॥

पलाशाख्यः, पुं, (पलाशस्य आख्या आख्या यस्य ।

यद्वा, पलाशं पलाशगन्धमाख्यातीति । आ +
ख्या + कः ।) नाडीहिङ्गु । इति राजनिर्घण्टः ॥

पलाशान्ता, स्त्री, (पलाशं अन्ते यस्याः । यद्वा,

पलाशानां पत्राणां अन्तो गन्धवान् यस्याः ।)
गन्धपत्रा । इति राजनिर्घण्टः ॥

पलाशी, [न्] पुं, (पलाशं विद्यतेऽस्य । पलाश

+ इनिः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥
(पलं मांसं अश्नातीति । अश + णिनिः ।)
राक्षसः । इति मेदिनी । ने, १९३ ॥ क्षीरि-
वृक्षः । इति रत्नमाला ॥ (पत्रविशिष्टे वाच्य-
लिङ्गः । यथा, --
“ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः ।
भष्मराशीकृतं वृक्षं विद्यया समजीवत् ॥
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनञ्च तथा विटपिनं पुनः ॥”
इति महाभारते । १ । ४३ । ९ -- १० ॥
स्त्री, नदीविशेषः । इत्यन्तु शुक्तिमत्पर्व्वतसम्भूता ।
यथा, मार्कण्डेये । ५७ । ३० ।
“कृपा पलाशिनी चैव शुक्तिमत्प्रभवा स्मृता ॥”)

पलाशी, स्त्री, (पलाश + गौरादित्वात् ङीष् ।)

लाक्षा । लताविशेषः । तत्पर्य्यायः । पत्रवल्ली २
पर्णवल्ली ३ पलाशिका ४ सुरपर्णी ५ सुपर्णी ६
दीर्घवल्ली ७ विषादनी ८ अम्लपत्री ९ दीर्घपत्री १०
रसाम्ला ११ अम्लिका १२ अम्लातकी १३
काञ्जिका १४ । अस्या गुणाः । मधुरत्वम् ।
अम्लत्वम् । मुखदोषारोचकनाशित्वम् । पथ्य-
त्वम् । पित्तकोपकारित्वञ्च । इति राजनिर्घण्टः ॥

पलिक्नी, स्त्री, (पलितमस्या अस्तीति । “अर्श

आदिभ्योऽच् ।” इत्यच् । “असितपलितयोर्न ।”
वार्त्तिं । “छन्दसि क्नमेके ।” इत्येकोक्तेर्भाषाया-
मपि तस्य क्न इत्यादेशो भवति । ततो नान्त-
त्वात् ङीप् ।) वृद्धा । इत्यमरः । २ । ६ । १२ ॥
वालगर्भिणी गौः । इति हेमचन्द्रः ॥

पलिघः, पुं, (परिहन्यतेऽनेनेति । परि + हन +

“परौ घः ।” ८ । २ । २२ । इति अप् घादे-
शश्च । ततः “परेश्च घाङ्कयोः ।” ८ । २ । २२ ।
इति रस्य लः ।) काचकलसः । घटः । प्राकारः ।
गोपुरम् । इति मेदिनी । घे, ९ ॥

पलितं, क्ली, (पलि + भावे क्तः । यद्वा, फलन-

मिति । फल + “फलेरितजादेश्च पः ।” उणां ।
५ । ३४ । इति इतच् फस्य पत्वम् ।) जरसा
केशादौ शौक्ल्यम् । केशपाकः । इत्यमरः । २ ।
६ । ४१ ॥ (यथा, मनुः । ६ । २ ।
“गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥”)
पृष्ठ ३/०८१
तस्य निदानं यथाह माधवकरः ।
“क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः ।
पित्तञ्च केशान् पचति पलितं तेन जायते ॥”
तच्चिकित्सा यथा, --
“लौहचूर्णस्य कर्षन्तु दशार्द्धञ्चूतमज्जतः ।
धात्रीफलद्बयं पथ्ये द्बे तथैकं विभीतकम् ॥
पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत् ।
लेपोऽयमचिराद्धन्ति पलितं नेह संशयः ॥
दशार्द्धं पञ्चकर्षाणि ।
काशमर्य्या मूलमादौ सहचरकुसुमं केतकस्यापि
मूलं
लौहं चर्णं सभृङ्गं त्रिफलपलयुतं तैलमेभिः
पचेयुः ।
कृत्वा लोहस्य भाण्डे क्षितितलनिहितं स्थापये-
न्मासमेकं
केशाः काशप्रकाशा अपि मधुपनिभा अस्य
योगाद्भवन्ति ॥
त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः ।
अवीमूत्रेण संपिष्टं लेपात् कृष्णीकरं परम् ॥”
इति भावप्रकाशे मध्यखण्डे क्षुद्ररीगाधिकारे ॥
शैलजम् । तापः । कर्द्दमः । इति मेदिनी । ते,
१२२ ॥ (पल गतौ + “लोष्टपलितौ ।” उणां । ३ ।
९२ । इति क्तप्रत्ययेन निपातनात् सिद्धम् ।)
केशपाशः । इति हेमचन्द्रः उज्ज्वलदत्तश्च ॥

पलितः, पुं, (फलति वृद्धावस्थायां केशशौक्ला-

दिकं प्राप्नोतीति । फल + “फलेरितजादेश्चपः ।”
उणां । ५ । ३४ । इति इतच् फस्य च पः ।)
वृद्धः । इति जटाधरः ॥

पलिता, स्त्री, (पलित + टाप् ।) वृद्धा । इति

जटाधरः ॥

पल्यङ्कः, पुं, (परितोऽङ्क्यतेऽत्र इति । परि + अकि

लक्षणे + घञ् । “परेश्च घाङ्कयोः ।” ८ । २ । २२ ।
इति रस्य लः ।) पर्य्यङ्कः । इत्यमरः । २ । ७ ।
१३८ ॥ (यथा, रामायणे । २ । ३२ । ९ ।
“पल्यङ्कमग्य्रास्तरणं नानारत्नविभूषितम् ।
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥”)

पल्ययनं, क्ली, (परितः अयति गच्छति अनेन ।

परि + अय गतौ + करणेल्युट् । रस्य लत्वम् ।)
पर्य्याणम् । इति हेमचन्द्रः । ४ । ३१८ ॥ घोडार
जिन् इति भाषा ॥

पल्युल, त् क लूनिपूत्योः । इति कविकल्पद्रुमः ।

(अदन्तचुरां-परं-सकं-सेट् ।) यकारयुक्तैक-
लकारमध्यः ह्रस्वमध्यश्च । लूनिश्छेदः । पूतिः
पवित्रीकरणम् । अपपल्युलत् तृणं लोकः ।
पल्युलयति जनं गङ्गा । इति दुर्गादासः ॥

पल्यूल, त् क लूनिपूत्योः । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-सकं-सेट् ।) यकारयुक्तैक-
लकारमध्यः दीर्घमध्यश्च । लूनिश्छेदः । पूतिः
पवित्रीकरणम् । अपपल्यूलत् तृणं लोकः ।
पल्यूलयति जनं गङ्गा । इति दुर्गादासः ॥

पल्ल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) पल्लति । इति दुर्गादासः ॥

पल्लः, पुं, (पल्लति शस्यादिप्राचुर्य्यं गच्छतीति ।

पल्ल + पचाद्यच् ।) स्थूलकुशूलकम् । इति
मेदिनी । ले, ३० ॥ पालुइ इति मराइ इति
च भाषा ॥ (यथा, सुश्रुते चिकित्सितस्थाने
१३ अध्याये ।
“सुपिधानन्तु तं कृत्वा यवपल्ले निधापयेत् ॥”)

पल्लवः, पुं, क्ली, (पल्यते इति पल् । पल् + क्विप् ।

लूयते इति लवः । लू + “ऋदोरप् ।” ३ । ३ । ५७ ।
इति अप् । ततः पल् चासौ लवश्चेति ।)
नवपत्रादियुक्तशाखाग्रपर्व्व । इति भरतः ॥ नव-
पत्रस्तवकः । “इति मधुः ॥ पर्व्वपत्रादिसंघाते
शाखायाः पल्लवो मतः ।” इति कोषान्तरम् ॥
(यथा, रघुः । ९ । ३३ ।
“अभिनयान् परिचेतुमिवोद्यता
मलयमारुतकम्पितपल्लवा ।
अमदयत् सहकारलता मनः
सकलिकाकलिकामजितामपि ॥”)
तत्पर्य्यायः । किसलयम् २ । इत्यमरः । २ ।
४ । १४ ॥ प्रवालम् ३ नबपत्रम् ४ । इति राज-
निर्घण्टः ॥ वंलम् ५ किसलम् ६ किशलम् ७
किशलयम् ८ विटपः ९ । इति शब्दरत्नावली ॥
पत्रयौवनम् १० । इति जटाधरः ॥ विस्तरः ।
वलम् । शृङ्गारः । अलक्तरागः । इति विश्व-
मेदिन्यौ ॥ वलमित्यत्र वनमिति क्वचित् पाठः ॥
वलयः । चापलः । इति शब्दरत्नावली ॥ (देश-
विशेषः । तद्देशवासिषु पुं भूम्नि । यथा, मार्क-
ण्डेये । ५७ । ३६ ।
“अपरान्ताश्च शूद्राश्च पल्लवाश्चर्म्मखण्डिकाः ।
गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः ॥”)

पल्लवकः, पुं, (पल्लवेन शृङ्गारेण कायतीति ।

पल्लव + कै + कः ।) वेश्यापतिः । (पल्लव इव
कायतीति ।) मत्स्यविशेषः । इति हलायुधः ॥
(पल्लवः किसलयैः कायतीति । अशोकवृक्षः ।
इति कश्चित् ॥)

पल्लवद्रुः, पुं, (पल्लवप्रधानो द्रुर्वृक्षः ।) अशोक-

वृक्षः । इति राजनिर्घण्टः ॥

पल्लवाधारः, पुं, (पल्लवस्य आधारः ।) शाखा ।

इति शब्दचन्द्रिका ॥

पल्लविकः, त्रि, (पल्लवः शृङ्गाररसोऽस्त्यस्यास्मिन्

वा । पल्लव + ठन् ।) कामुकः । इति हेमचन्द्रः ।
२ । २४५ ॥

पल्लवितं, क्ली, (पल्लवोऽलक्तरागः सञ्जातोऽस्य ।

तारकादिभ्य इतच् ।) लाक्षारक्तः । इति
मेदिनी । ले, २०४ ॥

पल्लवितः, त्रि, (पल्लवः सञ्जातोऽस्य । पल्लव +

इतच् ।) सपल्लवः । पल्लवयुक्तः । ततम् । विस्तृ-
तम् । इति मेदिनी । ले, २०४ ॥

पल्लवी, [न्] पुं, (पल्लवाः सन्त्यस्य । पल्लव + इनिः ।)

वृक्षः । इति शब्दमाला ॥ (पल्लवविशिष्टे, त्रि ।
यथा, कुमारे । ३ । ५४ ।
“पर्य्याप्तपुष्पस्तवकावनम्रा
सञ्चारिणी पल्लविनी लतेव ॥”)

पल्लिः, स्त्री, (पल्लतीति । पल्ल + “सर्व्वधातुभ्य

इन् ।” इति इन् ।) ग्रामकः । कुटी । इति
हेमचन्द्रः ॥ कुटीसमुदायः । ग्रामः । इत्यन्ये ॥
गृहमिति भट्टः ॥ कुटीग्रामकयोः पल्लीति
शाश्वतः ॥ स्थानमिति स्वामी ॥ पतन्ति भरणेन
भ्रमणेन च जीवन्तीति क्विपि पतो गावः ते
लीयन्तेऽत्र पल्लिः नाम्नीति डिः पाच्छोणादीति
ईपि पल्ली च गोपपल्लीप्रभृति च । इत्याभीर-
पल्लिशब्दटीकायां भरतः ॥ (गृहगोधिका ।
इति हेमचन्द्रे पल्लीशब्ददर्शनात् ॥)

पल्लिका, स्त्री, (पल्लि + स्वार्थे कन् ततष्टाप् ।)

गृहगोधिका । इति राजनिर्घण्टः ॥

पल्लिवाहः, पुं, (पल्लिं कुटीं वाहयति निर्वाहय-

तीति । पल्लि + वह + णिच् + अण् ।) तृण-
भेदः । यथाह राजनिर्घण्टः ।
“पल्लिवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः ।
अदृढः शाकपत्रादिः पशूनामबलप्रदः ॥”

पल्ली, स्त्री, (पल्लि + “कृदिकारादिति ।” वा

ङीष् ।) स्वल्पग्रामः । (यथा, कथासरित्-
सागरे । १० । १३५ ।
“इतस्त्वं गच्छ मत्पल्लीं जाने सा तत्र ते गता ।
अहं तत्रैव चैष्यामि दास्याम्यसिमिमञ्च ते ॥”)
कुटी । इति विश्वमेदिन्यौ ॥ नगरभेदः । स तु
दक्षिणदेशे प्रसिद्धः त्रिचनापल्ल्यादिः । इति
शब्दरत्नावली ॥ क्षुद्रजन्तुविशेषः । टिक्टिकी
इति भाषा । तत्पर्य्यायः । मुषली २ गृहगोधा
३ विशम्बरा ४ ज्येष्ठा ५ कुड्यमत्स्यः ६ पल्लिका
७ गृहगोधिका ८ । इति राजनिर्घण्टः ॥ गृह-
गोलिका ९ माणिक्या १० भित्तिका ११ गृहो-
लिका १२ । इति हेमचन्द्रः । ४ । ३६३ ॥
अवशिष्टं ज्येष्ठीशब्दे द्रष्टव्यम् ॥ (अस्याः पतन-
फलमुक्तं यथा, ज्योतिषशास्त्रे ।
“निपतति यदि पल्ली दक्षिणाङ्गे नराणां
स्वजनधनवियोगो लाभदा वामभागे ।
उरसि शिरसि पृष्ठे कण्ठदेशे च राज्यं
करचरणहृदिस्था सर्व्वसौख्यं ददाति ॥”)

पल्वलं, क्ली, पुं, (पलति गच्छति पिबत्यस्मिन् वा ।

पल गतौ पा पाने वा + “सानसिवर्णसिपर्ण-
सीति ।” उणां । ४ । १०७ । इति निपातनात्
वलच् प्रत्ययेन सिद्धम् ।) अल्पसरः । इत्य-
मरः । १ । १० । २८ ॥ (यथा, महाभारते ।
७ । ५१ । ९ ।
“पल्वलानि च सर्व्वानि सर्व्वे चैव तृणोपलाः ।
स्थावरं जङ्गमञ्चैव निःशेषं कुरुते जगत् ॥”)
तस्य लक्षणं यथा, --
“अल्पं सरः पल्वलं स्याद्यत्र चन्द्रर्क्षगे रवौ ।
न तिष्ठति जलं किञ्चित्तत्रत्यं वारि पाल्वलम् ॥
तज्जलगुणाः ।
पाल्वलं वार्य्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ॥”
इति भावप्रकाशः ॥
“पाल्वलं गुर्व्वभिष्यन्दि विष्टम्भि दोषलं परम् ॥”
इति राजवल्लभः ॥