सामग्री पर जाएँ

शब्दकल्पद्रुमः/पतनं

विकिस्रोतः तः

फलकम्:Chembox


पृष्ठ ३/०२२

पतनं, क्ली, (पत् + भावे ल्युट् ।) पातः । पडन्

इति भाषा । यथा, --
“अशनेः पतने न वेदना पतनज्ञानमतीव दुःसहम् ॥”
इत्युद्भटः ॥
“द्विजातिकर्म्मभ्यो हानिः पतनं परत्र चासिद्धि-
स्तमेके नरकम् ।” इति हारीतसूत्रम् ॥ पापम् ।
यथा, प्रायश्चित्तविवेके ।
“विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥”

पतमः, पुं, (पतति कर्म्मक्षये यस्मात् । पत् + अम ।

क्षीणपुण्यानां चन्द्रलोकात् पतनं शास्त्रे प्रसि-
द्धम् ।) चन्द्रः । (पततीति । पत् + अम ।) पक्षी ।
पतङ्गः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पतयालुः, त्रि, (पत + “स्पृहिगृहिपतिदयीति ।”

३ । २ । १५८ । इति आलच् ।) पतनशीलः । तत्-
पर्य्यायः । पातुकः २ । इत्यमरः । ३ । २ । २७ ॥

पतसः, पुं, (पततीति । “अत्यविचमीति ।” उणां

३ । ११७ । इति असच् ।) पक्षी । इत्युणादिवृत्तिः ॥
चन्द्रः । पतङ्गः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पताका, स्त्री, पत्यते ज्ञायते कस्यचित् भेदोऽनया ।

(पत् + “वलाकादयश्च ।” उणां ४ । १४ । इति
आक प्रत्ययेन साधुः ।) ध्वजम् । निशान् इति
भाषा । (यथा, महाभारते । ६ । १७ । १५ ।
“श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।
तान्यनीकान्यशोभन्त राजन्रथपदातिभिः ॥”)
तत्पर्य्यायः । वैजयन्ती २ केतनम् ३ ध्वजम् ४ ।
इत्यमरः । २ । ८ । ९९ ॥ पटाका ५ जयन्ती ६ वैज-
यन्तिका ७ कदली ८ कन्दुली ९ केतुः १० कद-
लिका ११ व्योममण्डलम् १२ । इति शब्दरत्नावली ॥
चिह्नम् १३ । इति जटाधरः ॥ केतनं ध्वजं एतद्दयं
पताकादण्डे । इति भरतः ॥ सौभाग्यम् । नाट-
काङ्गम् । इति मेदिनी ॥ (यथा, साहित्य-
दर्पणे । ६ । २७ ।
“पताकास्थानकं योज्यं सुविचार्य्येह वस्तुनि ॥”
इह नाट्टे ॥ तल्लक्षणं यथा तत्रैव । ६ । २८ ।
“यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकन्तु तत् ॥”
तद्भेदानाह तत्रैव । ६ । २९ -- ३२ ।
“सहसैवार्थसम्पत्तिर्गुणवत्युपचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्त्तितम् ॥
यथा, रत्नावल्यां ‘वासवदत्तेयमिति’ राजा यदा
तत्कण्ठपाशं मोत्तयति तदा तदुक्त्या ‘सागरि-
केयमिति’ प्रत्यभिज्ञाय ‘कथं प्रिया मे साग-
रिका अलमलमतिमात्रम्’ इत्यादि फलरूपार्थ-
सम्पत्तिः पूर्ब्बापेक्षया उपचारातिशयात् गुण-
वती उत्कृष्टा । १ ।
वचः सातिशयश्लिष्टं नानाबन्धसमाश्रयम् ।
पताकास्थानकमिदं द्वितीयं परिकीर्त्तितम् ॥
यथा, वेणीसंहारे सूत्रधारः ।
‘रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।
अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन
बीजार्थप्रतिपादनात् नेतृमङ्गलप्रतिपत्तौ सत्यां
द्वितीयं पताकास्थानम् । २ ।
अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥
लीनं अव्यक्तार्थं श्लेष्टेन सम्वन्धयोग्येनाभिप्राया-
न्तरप्रयुक्तेन प्रत्युत्तरेणोपेतं सविनयं विशेष-
निश्चयप्राप्त्या सहितं सम्पद्यते यत् तत् तृतीयं
पताकास्थानम् । यथा, वेणीसंहारे २ अङ्के ।
कञ्चुकी । ‘देव ! भग्नं भग्नम् ।’ राजा । ‘केन ।’
कञ्चुकी । ‘भीमेन ।’ राजा । ‘कस्य ।’ कञ्चुकी ।
‘भवतः ।’ राजा । ‘आः ! किं प्रलपसि ?’ कञ्चुकी ।
(सभयम्) ‘देव ! ननु ब्रवीमि । भग्नं भीमेन
भवतः ।’ राजा । ‘धिक् वृद्धापसद ! कोऽयमद्य ते
व्यामोहः ।’ कञ्चुकी । ‘देव ! न व्यामोहः सत्यमेव ।
भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितं किङ्किणीक्वाणबद्धाक्रन्दमिवक्षितौ ॥’
अत्र दुर्य्योधनोरुभग्नरूपप्रस्तुतसङ्क्रान्तमर्थोप-
क्षेपणम् । ३ ।
द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
प्रधानार्थान्तरापेक्षी पताकास्थानकं परम् ॥” ४ ॥)
अङ्कः । केतुः । इति हेमचन्द्रः ॥ अस्य विवरणं
ध्वजशब्दे द्रष्टव्यम् ॥

पताकी, [न्] त्रि, (पताका विद्यतेऽस्य । पताका

+ इनिः ।) वैजयन्तिकः । पताकाधारी । इत्य-
मरः । २ । ८ । ७१ ॥ (यथा, महाभारते ।
६ । १७ । २० ।
“स तु गोवासनः शैव्यः सहितः सर्व्वराजभिः ।
ययौ मातङ्गराजेन राजार्हेण पताकिना ॥”)
रिष्टारिष्टबोधकचक्रविशेषः । तस्य लिखनक्रमो
यथा, --
“तिर्य्यगूर्द्धगता रेखास्तिस्रो देयाः पताकया ।
युताः कार्य्या वेधविदा सर्व्वसङ्गतरेखया ॥
दक्षस्थोद्गतरेखातो वामं मेषाद्यराशयः ।
पञ्चाष्टयुग्मविंशाश्च शड्दशेन्द्राग्निसागराः ।
कर्क्कटान्मीनपर्य्यन्तमङ्का देया यथाक्रमम् ॥
५ -- ४
८ -- ३
२ -- १४
२० ६ १०
बालस्य जन्मकालीनग्रहलग्नमजादिष ।
विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाग्रहात् ॥”
तत्र शुभाशुभज्ञानं यथा, --
“शुभदण्डयोगवेधैर्लग्नाद्बालस्य शोभनम् ।
पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकालवित् ।
बलेऽधिके दिनं मध्ये मासो हीने च हायनम् ॥”
वेधज्ञानं यथा, --
“कर्केर्मीनधनुर्भ्याञ्च हरेः कीटघटेन च ।
स्त्रियास्तौलिमृगाभ्याञ्च धटे मीनेन कन्यया ॥
धनुषो मृगकर्किभ्यां मकरे धनुषा स्त्रिया ।
मीने कर्कितुलाभ्याञ्च मीनस्त्रीधनुषात्वजे ॥
तुलाकर्किमृगैर्द्वन्द्वे कीटकुम्भवृषेषु च ।
सिंहवद्वेध एतेषु वामदक्षिणसंमुखैः ॥
राहुकेत्वर्कसौरारैः पापैर्विद्धो युतोऽशुभः ।
तदन्यैर्युतविद्धस्तु लग्नराशिः शुभप्रदः ॥”
रिष्टिकालो यथा, --
“एकोनविंशतिः कर्के सिंहे सप्तदशैव तु ।
षट्त्रिंशदबलायाञ्च षड्विंशतिस्तुलाधरे ॥
वृश्चिके सिंहवज्ज्ञेयमूनत्रिंशच्छरासने ।
षड्विंशं मकरे ज्ञेयं कुम्भे सप्तदश स्मृताः ॥
नव युग्मे तथा मीने मेषे षड्दशभिस्तथा ।
वृषभे च तथा सिंहे युग्मेऽङ्कहरलोचने ॥
त्रितयाङ्कादियं संख्या दिनमासाब्दनिर्णये ।
एकाङ्काद्द्विगृहाङ्काद्वा क्वचिद्रिष्टेश्च सम्भवः ॥”
अथ यामार्द्धाधिपज्ञानम् ।
“वारेशादर्द्धयामेषु रात्र्यह्णोः पञ्चषट् क्रमात् ।
अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति ते ।
रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि ॥
रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः ।
दिने ऊह्याः परेष्वेवं तत्राध्यक्षाश्चतुर्ग्रहाः ॥”
अथ दण्डाधिपज्ञानम् ।
“पापदण्डे भवेद्रिष्टिः शुभदण्डे शुभं भवेत् ।
शुभग्रहस्य दण्डे तु कर्म्मारम्भाच्छुभं भवेत् ॥
यस्यार्द्धयामस्तस्यैव प्राग्दण्डः सर्व्वदा ततः ।
षट् षट् परीत्य दण्डाश्च त्रयो रात्रौ मतायथा ॥
आदित्येभृगुजो बुधोऽपि च शशी सोमे शनीज्यौ
कुजो
भौमेऽर्कः सितसोमजौ च शशिजे सोमः शनि-
र्व्वाक्पतिः ।
जीवेऽङ्गाररवी भृगुर्भृ गुसुते सौम्येन्दुमार्त्तण्डजाः
काले जीवमहीजतिग्नकिरणा रात्रौ च दण्डा-
धिपाः ॥
यामार्द्धाधिपसंख्यातो द्वितीयस्तु तदर्द्धकः ।
तदर्द्धात्तु तृतीयः स्यात्तदर्द्धात्तु तुरीयकः ॥
अङ्काभावे तु राहुः स्यात् तदङ्को वसुसंज्ञकः ।
भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा ॥
रविदनुजबुधग्लौश्चन्द्रसूरासुरज्ञाः
कुजरविदनुजज्ञाज्ञेन्दुसूरासुराश्च ।
गुरुशशिरविदैत्याः शुक्रभौमार्कदैत्याः
शनिकुजरविदैत्या दण्डपाल्वर्द्धयामे ॥”
शुभाशुभदण्डज्ञानं यथा, --
“शेषावर्कस्य दण्डौ सततशुभकरावादिशेषौ
तथेन्दोः
शेषो दण्डः कुजस्याप्यथ गुरुषुधयोराद्यमर्द्धं
प्रशस्तम् ।
आदिर्दण्डस्तथैको भृगुकुलनृपतेः सर्व्वकार्य्येष शस्तो
दण्डाश्चत्वार एते क्वचिदपि समये नैव शौरेः
प्रशस्ताः ॥”
पृष्ठ ३/०२३
पलपताकी यथा, --
“प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचिच्छभम् ॥
रवौ च वेदा वसवः सुधांशौ
कुजे च वाणाः शशिजे तथाङ्काः ।
शनावृतुर्दिक् च बृहस्पतौ स्या-
द्राहौ तुरङ्गा भृगुजे च रुद्राः ॥”
बालस्य शुभाशुभफलं यथा, --
“अशुभे दण्डसंयोगे सर्व्वत्र पुण्यवर्जिते ।
बालस्य मरणं शीघ्रं यदि पापैः समन्वितम् ॥
अशुभग्रहदण्डे तु सर्व्वत्र पापवर्ज्जिते ।
बालस्य कुशलं सर्व्वं शुभैर्यदि समन्वितम् ॥
अशुभो दण्डनाथो हि वेधश्चेत्तेन लभ्यते ।
मरणं तत्र वक्तव्यं बालस्य नान्यथा भवेत् ॥
पापस्य दण्डमात्रे तु तद्योगवेधवर्जिते ।
बालस्य कुशलं तत्र शुभैर्यदि समन्वितम् ॥”
इति ज्योतिषतत्त्वे पताकीवेधः ॥
(स्त्रियां ङीप् । सेना । यथा, रघुः । ४ । ८२ ।
“न प्रसेहे स रुद्धार्कमधारावर्षदुर्द्दिनम् ।
रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ॥”)

पतिः, पुं, (पाति रक्षतीति । पा ल रक्षणे + डतिः ।)

मूलम् । गतिः । इति विश्वः ॥ पाणिग्रहीता ।
भातार इति भाषा । तत्पर्य्यायः । धवः २
प्रियः ३ भर्त्ता ४ । इत्यमरः । २ । ६ । ३५ ॥
कान्तः ५ प्राणनाथः ६ गुरुः ७ हृदयेशः ८
जीवितेशः ९ जामाता १० सुखोत्सवः ११
नर्म्मकीलः १२ रतगुरुः १३ स्वामी १४ रमणः
१५ । इति शब्दरत्नावली ॥ वरः १६ परिणेता
१७ गृही १८ । इति राजनिर्घण्टः ॥ तस्य लक्ष-
णम् । विधिवत्पाणिग्राहकः । अनुकूलदक्षिण-
धृष्टशठभेदात् पतिश्चतुर्धा । सार्व्वकालिकपरा-
ङ्गनापराङ्मुखत्वे सति सर्व्वकालमनुरक्तोऽनु-
कूलः । १ । सकलनायिकाविषयसमसहजानु-
रागो दक्षिणः । २ । भूयो निःशङ्कः कृतदोषो-
ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणो
धृष्टः । ३ । कामिनीविषयकपटपटुः शठः । ४ ।
इति रसमञ्जरी ॥ * ॥ पतिसेवादिफलं यथा, --
“कथं मे सुव्रते ! साध्वि ! निद्राभङ्गः कृतस्त्वया ।
व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ॥
तपश्चानशनञ्चैव व्रतं दानादिकञ्च यत् ।
भर्त्तुरप्रियकारिण्याः सर्व्वं भवति निष्फलम् ॥
यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ।
पतिवताव्रतार्थञ्च पतिरूपी हरिः स्वयम् ॥
सर्व्वदानं सर्व्वयज्ञः सर्व्वतीर्थनिषेवणम् ।
सर्व्वं व्रतं तपः सर्व्वमुपवासादिकञ्च यत् ॥
सर्व्वधर्म्मञ्च सत्यञ्च सर्व्वदेवप्रपूजनम् ।
तत् सर्व्वं स्वामिसेवायाः कलां नार्हन्ति
षोडशीम् ॥
सुपुण्ये भारते वर्षे पतिसेवां करोति या ।
वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः शतम् ॥
विप्रियं कुरुते भर्त्तुर्विप्रियं वदति प्रियम् ।
असत्कुलप्रजाता या तत्फलं श्रूयतां सति ! ॥
कुम्भीपाकं व्रजेत् सा च यावच्चन्द्रदिवाकरौ ।
ततो भवति चाण्डाली पतिपुत्त्रविवर्ज्जिता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४३ अध्यायः ॥ * ॥
अपि च ।
“स्वकान्तश्च परो बन्धुरिह लोके परत्र च ।
नहि कान्तात् परः श्रेयान् कुलस्त्रीणां परो गुरुः ॥
देवपूजा व्रतं दानं तपश्चानशनं जपः ।
स्नानञ्च सर्व्वतीर्थेषु दीक्षा सर्व्वमखेष च ॥
प्रादक्षिण्यं पृथिव्याश्च ब्राह्मणातिथिसेवनम् ।
सर्व्वाणि पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥
किमतः पतिभक्ताया अभक्तायाश्च भारते ।
ययादुःखी सुखारम्भे साकाङ्क्षः प्रथमो भवेत् ॥
पतिसे वापरो धर्म्मो नहि स्त्रीणां श्रुतौ श्रुतम् ।
स्वप्ने ज्ञाने च सततं कान्तं नारायणाधिकम् ।
दृष्ट्वा तच्चरणाम्भोजं सेवां नित्यं करिष्यसि ॥
परिहासेन कोपेन भ्रमेणावज्ञया सुते ! ।
कटूक्तिं स्वामिनः साक्षात् परोक्षान्न करिष्यसि ॥
स्त्रिया वाग्योनिदुष्टायाः कामतो भारते भुवि ।
प्रायश्चित्तं श्रुतौ नास्ति नरकं ब्रह्मणः शतम् ॥
सर्व्वधर्म्मपरीता या कटूक्तं कुरुते पतिम् ।
शतजन्मकृतं पुण्यं तस्या नश्यति निश्चितम् ॥
दत्त्वा कन्यां बोधयित्वा जगाम मुनिपुङ्गवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २४ अध्यायः ॥
अपि च ।
“या स्त्री भर्त्तुरसौभाग्या साऽसौभाग्या च सर्व्वतः ।
शयने भोजने तस्या न सुखं जीवनं वृथा ॥
यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् ।
तत् किं पुत्त्रे धने रूपे सम्पत्तौ यौवनेऽथवा ॥
य भक्तिर्नास्ति कान्ते च सर्व्वप्रियतमे परे ।
सा शुचिर्धर्म्महीना च सर्व्वकर्म्मविवर्ज्जिता ॥
पतिर्ब्बन्धुर्गतिभर्त्ता दैवतं गुरुरव च ।
सर्व्वस्माच्च परः स्वामी न गुरुः स्वामिनः परः ॥
पिता माता सुतो भ्राताक्लिष्टो दत्त्वा मितं धनम् ।
सर्व्वस्वदाता स्वामी च मूढानां योषितां सुराः ! ॥
काचिदेव हि जानाति महासाध्वी च स्वामिनम् ।
अतिसद्वं शजाता च सुशीला कुलपालिका ॥
असद्वंशप्रसूता या दुःशीला धर्म्मवर्ज्जिता ।
मुखदुष्टा योनिदुष्टा पतिं निन्दति कोपतः ॥
या स्त्री द्वेष्टि सर्व्वपरं पतिं विष्णुसमं गुरुम् ।
कुम्भीपाके पचति सा यावदिन्द्राश्चतुर्द्दश ॥
व्रतञ्चानशनं दानं सत्यं पुण्यं तपश्चिरम् ।
पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५७ अध्यायः ॥
अपि च ।
“साध्व्याः सद्वंशजायाश्च शतपुत्त्राधिकः पतिः ।
असद्बंशप्रसूता या दुःशीला ज्ञानवर्ज्जिता ॥
स्वामिनं मन्यते नासौ पित्रोर्द्दोषेण कुत्सिता ।
कुत्सितं पतितं मूढं दरिद्रं रोगिणं जडम् ॥
कुलजा विष्णुतुल्यञ्च कान्तं पश्यति सन्ततम् ॥
हुताशनो वा सूर्य्यो वा सर्व्वतेजस्विनां परः ।
पतिव्रतातेजसश्च कलां नार्हन्ति षोडशीम् ॥
महादानानि पुण्यानि व्रतान्यनशनानि च ।
तपांसि पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥
पुत्त्रो वापि पिता वापि बान्धवो वा सहोदरः ।
योषितां कुलजातानां न कश्चित् स्वामिनः समः ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे ४४ अध्यायः ॥ * ॥
पतिदक्षिणादि यथा, --
“निरूपितश्च वेदेषु स्वशब्दो धनवाचकः ।
तद्यस्यास्तीति स स्वामी वेदज्ञ ! शृणु मद्बचः ॥
तस्य दाता सदा स्वामी न च स्वं स्वामिनो भवेत् ।
अहो व्यवस्था भवतां वेदज्ञानमबोधताम् ॥
धर्म्म उवाच ।
पत्नीं विना न स्वं साध्वि ! स्वामिनं दातुमक्षमम् ।
दम्पती ध्रुवमेकाङ्गौ तयोर्द्दाता च द्वौ समौ ॥
निरूपिता पुण्यके च व्रते स्वामी च दक्षिणा ।
श्रुतौ श्रुतो यः स्वधर्म्मो विपरीतो ह्यधर्म्मकः ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे ७ अध्यायः ॥

पतिः, त्रि, (पाति रक्षति पालयतीति वा । “पते-

र्डतिः ।” उणां । ४ । ५७ । इति डतिः ।)
अधिपतिः । तत्पर्य्यायः । स्वामी २ ईश्वरः ३
ईशिता ४ अधिभूः ५ नायकः ६ नेता ७ प्रभुः ८
परिवृढः ९ अधिपः १० । इत्यमरः । ३ । ११० । ११ ॥
(यथा, मनुः । ७ । ११५ ।
“ग्रामस्याधिपतिं कुर्य्यात् दशग्रामपतिं तथा ।
विंशतीशं शतेशञ्च सहस्रपतिमेव च ॥”)

पतिंवरा, स्त्री, (पतिं वृणीते या सा । वृ ञ वरणे +

खच् । “संज्ञायां भॄआतॄवृजीति ।” ३ । २ । ४६ ।
इति मुम् ।) स्वयंवरा । स्वेच्छया पत्यन्वेषिणी ।
(यथा, रघौ । ६ । १० ।
“मनुष्यवाह्यं चतुरस्रयान्-
मध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं
पतिंवरा कॢप्तविवाहवेशा ॥”)
कृष्णजीरकः । इति शब्दचन्द्रिका ॥

पतिघ्नी, स्त्री, (पतिं हन्ति इति । “लक्षणे जाया-

पत्योष्टक् ।” ३ । २ । ५२ । इति टक् ततो ङीप् ।)
पतिनाशकहस्तरेखाविशेषः । यथा, “लक्षणे
जायापतिभ्याम् । जायाघ्नो हस्तः । पतिघ्नी पाणि-
रेखा ।” इति संक्षिप्तसारव्याकरणम् ॥ स्वामिहन्त्री ।
(विवाहात् प्राक् क्षेत्रादिमृत्पिण्डाष्टकस्य कुमार्य्यै
परीक्षार्थं दाने तदा श्मशानजातमृत्पिण्डस्य
ग्रहणे कुमार्य्यास्तस्याः पतिहननरूपफलं यथा,
आश्वलायनगृह्यसूत्रे १ । ५ । ६ । “अष्टौ पिण्डान्
कृत्वा पिण्डानभिमन्त्र्य कुमारीं ब्रूयात् एषामेकं
गृहाणेति ।” इति नियोजिता कुमारी यदि
श्मशानादाहृतां मृदं गृह्णाति तदा पतिघ्नीति
तां विद्यात् ॥)

पतितः, त्रि, (पतति भ्रष्टो भवति स्वधर्म्मात् शास्त्र-

विहितकर्म्मणः सदाचारादिभ्यो वा यः । पत् +
कर्त्तरि क्तः चलितः । गलितः । पतनाश्रयः ।
पडा इति भाषा । तत्पर्य्यायः । प्रस्कन्नः २ ।
इति हेमचन्द्रः ॥ पातित्यविशिष्टः । स्वधर्म्मच्युतः ।
तस्य लक्षणं यथा, मार्कण्डेयपुराणे ।
“स्वधर्म्मं यः समुच्छिद्य परधर्म्मं समाश्रयेत् ।
अनापदि स विद्बद्भिः पतितः परिकीर्त्तितः ॥”
पृष्ठ ३/०२४
पातित्यकारणं यथा, मात्स्ये २०१ अध्याये ।
“चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥”
पतिता यथा, --
“गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः ।
क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम् ॥
गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ।
कुशिल्पजीविनश्चैव सूनालङ्कारकारिणः ॥”
तथा, --
“ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः ।
महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः ॥”
तेषां दाहादिनिषेधो यथा, --
“पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ।
न चाश्रुपातः पिण्डो वा कार्य्यंश्राद्धादिकं क्वचित् ॥”
इति शुद्धितत्त्वे ब्रह्मपुराणम् ॥ * ॥
तेषां संसर्गनिषेधो यथा, वराहपुराणे ।
“आसन्नशयनाच्चैनं भोजनात् कथनादिषु ।
सम्बत्सरेण पतति पतितेन सहाचरन् ॥”
प्रायश्चित्तेतरवैदिकर्म्मानधिकारी सन् नरक-
भागी । यथा, --
“पतितैः संप्रयुक्तानामिमां शृणुत निष्कृतिम् ।
सम्बत्सरेण पतति पतितेन सहाचरन् ॥
याजनाध्यापनाद्यौनाच्छ्वासपानाशनासनात् ।
यो येन पतितेनैव संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये ॥”
तेषामुदककार्य्यं यथा, --
“पतितस्यौदकं कार्य्यं सपिण्डैर्ब्राह्मणैः सह ।
निन्दितेऽहनि सायाह्ने ज्ञातिभिर्गुरुसन्निधौ ॥
दासीघटमयं पूर्णं पर्य्यस्येत् प्रेतवत् सदा ।
अहोरात्रमुपासीनं नाशौचं ब्राह्मणैः सह ॥
निवर्त्तयेरंस्तस्मात्तु सम्भाषणसहासनम् ॥”
इति मात्से २०१ अध्यायः ॥
अत्याज्या पतिता यथा, मत्स्यपुराणे ।
“पतिता गुरवस्त्याज्या न तु माता कदाचन ।
गर्भधारणपोषाभ्यां तेन माता गरीयसी ॥”
द्वादशवार्षिकव्रतनाश्यपापयुक्तः । तस्य और्द्ध्व-
देहिकविधिर्यथा, “पूर्ब्बोक्तश्चात्महादेः दाहा-
शौचादिनिषेधस्तदानीमेव । वत्सरान्ते तु सर्व्व-
मौर्द्धदेहिकं कुर्य्यात् ॥
गोब्राह्मणहतानाञ्च पतितानां तथैव च ।
ऊर्ड्घं संवत्सरात् कुर्यात् सर्व्वमेवौर्ड्घदेहिकम् ॥”
इति हेमाद्रौ षट्त्रिंशन्मतात् ॥
एवं म्लेच्छीकृतानामपि । गयाश्राद्धमपि कार्य्यम् ।
“ब्रह्महा च कृतघ्नश्च गोघाती पञ्चपातकी ।
सर्व्वेते निष्कृतिं यान्ति गयायां पिण्डपातनात् ॥”
इत्यग्निपुराणात् ॥ * ॥
एवं ब्राह्मेऽपि ।
“क्रियते पतितानान्तु गते संवत्सरे क्वचित् ।
देशधर्म्मप्रमाणत्वात् गयाकूपे स्वबन्धुभिः ॥
मार्त्तण्डपादमूले वा श्राद्धं हरिहरौ स्मरन् ॥”
सूर्यपदे इत्यर्थः ॥ * ॥ तत्र वर्षमध्ये कृत्यमुक्त-
मपरार्के वायुपुराणे ।
“शुक्लपक्षे तु द्बादश्यां कुर्य्यात् श्राद्धन्तु वत्सरम् ।
द्वादशाहानि वा कुर्य्यात् शुक्ले च प्रथमेऽहनि ॥”
छागलेयः ।
“नारायणवलिः कार्य्यो लोकगर्हाभयान्नरैः ।
तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः ॥”
व्यासः ।
“नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।
तस्य शुद्धिकरं कर्म्म तद्भवेन्नैतदन्यथा ॥”
स चात्मघातादिप्रायश्चित्तं कृत्वा कार्य्यः । तदुक्तं
हेमाद्रौ षट्त्रिंशन्मते ।
“कृत्वा चान्द्रायणं पूर्ब्बं क्रिया कार्य्या यथाविधि ।
नारायणवलिः कार्य्यो लोकगर्हाभयात् नरैः ॥
पिण्डोदकक्रियाः पश्चात् वृषोत्सर्गादिकञ्च यत् ।
एकोद्दिष्टानि कुर्व्वीत सपिण्डीकरणं तथा ॥”
दिवोदासीये वृद्धशातातपस्तु इत्याह ।
“पतिते च मृते शुद्ध्यौ प्राजापत्यांस्तु षोडश ।
मृते चापत्यरहिते कृच्छ्राणां नवतिं चरेत् ॥”
इदं प्रायश्चित्तार्हपित्रादिविषयम् ।
“इन्द्रियैरपरित्यक्ता ये च मूढा विषादिनः ।
घातयन्ति स्वमात्मानं चाण्डालादिहताश्च ये ॥
तेषां पुत्त्राश्च पौत्त्राश्च दयया समभिप्लुताः ।
यथाश्राद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितम् ॥
तथा ते संप्रवक्ष्यामि नमस्कृत्य स्वयम्भुवे ॥”
इति हेमाद्रौ तेनैवोक्तेः ॥ * ॥
तत्रैव वौधायनोऽपि । नारायणवलिं व्याख्या-
स्यामोऽभिशस्तपतितसुरापात्मत्यागिनां ब्राह्मण-
हतानाञ्च द्वादशवर्षाणि त्रीणि वा वारिमरणं
यत्र यस्य तत्र तत्र कुर्व्वीतेति ॥ * ॥ गृह्यपरि-
शिष्टे तु चण्डालादित्याद्युक्त्वा, --
“दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः ।
प्रायश्चित्तन्तु कर्त्तव्यं पुत्त्रैश्चान्द्रायणत्रयम् ॥”
इत्युक्तम् ॥ * ॥ मदनरत्ने ।
“ब्राह्मणहतानाञ्च द्बादशवर्षाणि त्रीणि वा
कुर्व्वीतेति ॥” * ॥ मदनरत्ने ब्राह्मे ।
“प्रमादादपि निःशङ्कस्त्वकस्माद्बिधिचोदितः ।
चण्डालैर्ब्राह्मणैश्चौरैर्निहतो यत्र कुत्रचित् ॥
तस्य दाहादिकं कार्य्यं यस्मान्न पतितस्तु सः ।
चान्द्रायणं तप्तकृच्छ्रद्वयं तस्य विशुद्धये ॥
यद्वा कृच्छ्रान् पञ्चदश कृत्वा तु विधिना दहेत् ।
बुद्धिपूर्ब्बमृतानान्तु त्रिंशत्कृच्छ्रं समाचरेत् ॥”
इत्युक्तम् । स्मृतिरत्नावल्यां तद्द्विगुणं प्रायश्चित्तं
कृत्वा अर्व्वागप्यब्दात् सर्व्वं कार्य्यं इत्युक्तम् ।
“आत्मनो घातशुद्ध्यर्थं चरेच्चान्द्रायणद्बयम् ।
तप्तकृच्छ्रचतुष्कञ्च त्रिंशत्कृच्छ्राणि वा पुनः ॥
अर्व्वाक् संवत्सरात् कुर्य्यात् दहनादि यथोदितम् ।
कृत्वा नारायणवलिमनित्यत्वात्तदायुषः ॥” इति ॥
इदञ्चात्मवधनिमित्तं तज्जातिवधप्रायश्चित्तेन
समुच्चितं कार्य्यम् । अतएव वौधायनेनोक्तम् ।
द्वादशवर्षाणि त्रीणि वेति । मदनपारिजाते
स्मृत्यर्थसारे च ब्रह्महादीनां तद्योग्यं प्रायश्चित्तं
कृत्वा नारायणवलिः कार्य्य इत्युक्तम् । एवं म्लेच्छी-
कृतानामपि ॥ * ॥ यत्तु कश्चिदाह । पुत्त्र-
कृतेन प्रायश्चित्तेन पितुः पापनाशे मानाभावः ।
आत्मघाते तु वचनादस्तु । महापातके तु कथं
स्यादिति । स स्वयमेव आत्मवधप्रायश्चित्तस्य
जातिवधनिमित्तेन समुच्चयं वदन् हृदयशून्य
एव । नहि जातिवधनिमित्तं पुत्त्रैः कार्य्यमिति
वचनमस्ति पुत्त्रकर्त्तृकसर्व्वप्रायश्चित्तादिविप्लवा-
पत्तेः । प्रागुक्तवौधायनवचनाच्चेति दिक् । इदं
प्रायश्चित्तार्हाणामेव । प्रायश्चित्तानर्हाणान्तु पति-
तौदकमात्रं कार्य्यमिति केचित् । मदनपारि-
जातादिस्वरसोऽप्येवम् । वस्तुतस्तु तदर्हानर्हयो-
र्व्वचनेऽनुपांदानात् अविशेषात् तत्रापि नारा-
यणवलिर्गयाश्राद्धञ्चेति युक्तम् ॥ * ॥ पतितोदक-
विधिस्तु मित्राद्यतिरिक्तविषय इत्यपरे । स यथा ।
हेमाद्रौ ब्राह्मे ।
“पतितस्य तु कारुण्यात् यस्तृप्तिं कर्त्तुमिच्छति ।
स हि दासीं समाहूय सर्व्वगां दत्तवेतनाम् ॥
अशुद्धघटहस्तान्तां यथावृत्तं ब्रवीत्यपि ।
हे दासि ! गच्छ मूल्येन तिलानानय सत्वरम् ॥
तोयपूर्णं घटञ्चेमं सतिलं दक्षिणामुखी ।
उपविष्टा तु वामेन चरणेन ततः क्षिप ॥
कीर्त्तयेः पातकिसंज्ञां त्वं पिबेति मुहुर्व्वद ।
निशम्य तस्य वाक्यं सा लब्धमूल्या करोति तत् ॥
एवं कृते भवेत्तृप्तिः पतितानां न चान्यथा ॥”
इति ।
इदञ्च मृताहे कार्य्यम् । पतितस्य दासी मृताह्नि
पदा घटमपवर्जयेदेतावतायमुपचरितो भव-
तीति मदनरत्ने विष्णूक्तेः । इदञ्चात्मत्यागि-
विषयम् । आत्मत्थागिनः पतितास्तेनाशौचोदक-
भाजः स्युरित्युपक्रम्य विष्णुना एतस्याभिधाना-
दिति गौडाः । उपलक्षणत्वात् सर्व्वेषामिति तु
युक्तम् । इति निर्णयसिन्धौ ५ परिच्छेदः ॥

पतिवत्नी, स्त्री, (पतिर्विद्यते यस्याः । पति +

मतुप् । “अन्तर्वत्पतिवतोर्नुक् ।” ४ । १ । ३२ ।
इति निपातनात् वत्वं नुगागमश्च । ततः ।
“ऋन्नेभ्यो ङीप् ।” ४ । १ । ५ । इति ङीप् ।)
सभर्त्तृका । सधवा । इत्यमरः । २ । ६ । १२ ॥
(यथा, रघुः । १५ । ३५ ।
“इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात् पतिवत्नीषु पत्नीष्वासन् द्विसूनवः ॥”)

पतिव्रता, स्त्री, (पतिर्व्रतमिव धर्म्मार्थकामेषु काय-

वाक्मनोभिः सदोपास्योऽस्याः ।) स्वाम्यनु-
रक्ता । तत्पर्य्यायः । सुचरित्रा २ सती ३
साध्वी ४ । इत्यमरः । २ । ६ । ६ ॥ एकपत्नी ५ ।
इति शब्दरत्नावली ॥ तस्या लक्षणं यथा, --
“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।
मृते म्रियेत यापत्यौ सा स्त्री ज्ञेया पतिव्रता ॥”
इति शुद्धितत्त्वम् ॥ * ॥
तस्या माहात्म्यं यथा, --
नारद उवाच ।
“कर्म्मणा केन राजेन्द्र ! तपसा वा तपोधन ! ।
उत्तमाञ्च गतिं याति कृष्णवासः प्रशंस मे
एवसुक्तस्तु धर्म्मात्मा नारदेनाब्रवीत्तदा ।
पृष्ठ ३/०२५
यम उवाच ।
न तस्या निषमो विप्र ! तपो नैव च सुव्रत ! ।
उपवासो न दानञ्च न दमो वा महामते ! ॥
यादृशी तु भवेद्विप्र ! शृणु तत्त्वं समासतः ।
प्रसुप्ते या प्रस्वपिति विबुद्धे जाग्रति स्वयम् ॥
भुङ्क्ते तु भोजिते विप्र ! सा मृत्युञ्जयति ध्रुवम् ।
मौने मौना भवेद्या तु स्थिते तिष्ठति या स्वयम् ।
सा मृत्युञ्जयते विप्र ! नान्यत् पश्यामि किञ्चन ॥
एकदृष्टिरेकमना भर्त्तुर्व्वचनकारिणी ।
तस्या बिभीमहे सर्व्वे ये तथान्ये तपोधन ! ॥
देवानामपि सा साध्वी पूज्या परमशोभना ।
भर्त्ता वाभिहिता वापि प्रणत्याख्यायिनी भवेत् ॥
वर्त्तमानापि विप्रेन्द्र ! प्रत्याख्यानापि सा यदा ।
तदैव तं संश्रयति पतिं नान्यं कदाचन ॥
भर्त्तुर्मृत्युमुखं ब्रह्मन् ! या पश्यति वराङ्गना ।
एवं याति भवेन्नित्यं भर्त्तुः प्रियहिते रता ॥
अनुविष्टेन भावेन भर्त्तारमनुगच्छति ।
सा तु मृत्युमुखद्वारं न गच्छेद्ब्रह्मसम्भव ! ॥
एष माता पिता बन्धुरेष मे दैवतं परम् ।
एवं शुश्रूषते या तु सा मां विजयते सदा ।
पतिव्रता तु या साध्वी तस्याश्चाहं कृताञ्जलिः ॥
भर्त्तारमनुध्यायन्ती भर्त्तारमनुगच्छति ।
भर्त्तारमनुशोचन्ती मृत्युद्बारं न पश्यति ॥
गीतवादित्रनृत्यानि प्रेक्षणीयान्यनेकशः ।
न शृणोति न पश्येत मृत्युद्बारं न पश्यति ॥
स्नायन्ती तिष्ठती वापि कुर्व्वन्ती वा प्रसाधनम् ।
नान्यञ्च मनसा ध्यायेत कदाचिदपि सुव्रता ॥
देवता अर्च्चयन्ती वा भीजयन्त्यथ वा द्बिजान् ।
पतिं न त्यजते चित्तात् मृत्युद्वारं न पश्यति ॥
भानौ चानुदिते या तु उत्थाय च तपोधन ! ।
गृहं मार्जयते नित्यं मृत्युद्बारं न पश्यति ॥
चक्षुर्देहः स्वभावश्च यस्या नित्यं सुसंवृतम् ।
शौचाचारसमायुक्ता सापि मृत्युं न पश्यति ॥
भर्त्तुर्मुखं प्रपश्यन्ती भर्त्तुश्चित्तानुसारिणी ।
वर्त्तते च हिते भर्त्तुर्मृत्युद्बारं न पश्यति ॥
एवं कीर्त्तिमतां लोके दृश्यन्ते दिवि देवताः ।
मानुषाणाञ्च भार्य्या वै तत्र देशे तु दृश्यते ॥
कथितैवं पुरा विप्र ! आदित्येन पतिव्रता ।
मया तस्माचु विप्रर्षे ! यथावृत्तं यथाशुतम् ॥
गुह्यमेतत्ततो दृष्ट्वा पूजयामि पतिव्रताम् ॥”
इति वाराहे पतिव्रताचरित्रम् ॥ * ॥
पतिव्रताधर्म्मो यथा, --
“पतिव्रतानां यद्धर्म्मं तन्निबोध व्रजेश्वर ! ।
नित्यं भर्त्तर्य्युत्सुकया तत्पादोदकमीप्सितम् ।
भक्तिभावेन सततं भोक्तव्यं तदनुज्ञया ॥
व्रतं तपस्यां देवार्च्चां परित्यज्य प्रयत्नतः ।
कुर्य्याच्चरणसेवाञ्च स्तवनं परितोषणम् ॥
तदाज्ञारहितं कर्म्म न कुर्य्याद्वैरतः सती ।
नारायणात् परं कान्तं ध्यायते सततं सती ॥
परपुंसां पुरञ्चैव सुवेशं पुरुषं परम् ।
यात्रामहोत्सवं नित्यं नर्त्तकं गायनं व्रज ।
परक्रीडाञ्च सततं नहि पश्यति सुव्रता ॥
यद्भक्ष्यं स्वामिनां नित्यं तदेवमपि योषिताम् ।
नहि त्यजेत्तु तत्सङ्गं क्षणमेव च सुव्रता ॥
उत्तरे नोत्तरं दद्यात् स्वामिनश्च पतिव्रता ।
न कोपं कुरुते शुद्धा ताडनाच्चापि कोपतः ॥
क्षुधितं भोजयेत् कान्तंदद्यात् पानञ्च तोषणे ।
न बोधयेत्तं निद्रालुं प्रेरयत्येव कर्म्मसु ॥
पुत्त्राणाञ्च शतगुणं स्नेहं कुर्य्यात् पतिं सती ।
पतिर्बन्धुर्गतिर्भर्त्ता दैवतं कुलयोषितः ॥
शुभं दृष्टा सुधातुल्यं कान्तं पश्यति सुन्दरी ।
सस्मितं वदनं कृत्वा भक्तिभावेन यत्नतः ॥
पुरुषाणां सहस्रञ्च सती स्त्री च समुद्धरेत् ।
पतिः पतिव्रतानाञ्च मुच्यते सर्व्वपातकात् ॥
नास्ति तेषां कर्म्मभोगः सतीनां व्रततेजसा ।
तया सार्द्धञ्च निष्कर्म्मी मोदते हरिमन्दिरे ॥
पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि ।
तेजश्च सर्व्वदेवानां मुनीनाञ्च सतीषु च ॥
तपस्विनां तपः सर्व्वं व्रतिनां यत् फलं व्रज ।
दाने फलं यद्दातॄ णां तत् सर्व्वं तासु सन्ततम् ॥
स्वयं नारायणः शम्भुर्विध ता जगतामपि ।
सुराः सर्व्वे सुमुनयो भीतास्ताभ्याञ्च सन्ततम् ॥
सतीनां पादरजसा सद्यः पूता वसुन्धरा ।
पतिव्रतां नमस्कृत्य मुच्यते पातकान्नरः ॥
त्रैलोक्यं भस्मसात् कर्त्तुं क्षणेनैव पतिव्रता ।
स्वतेजसा समर्था सा महापुण्यवती सदा ॥
सतीनाञ्च पतिः साध्वीपुत्त्रो निःशङ्क एव च ।
नहि तस्य भयं किञ्चिद्देवेभ्यश्च यमादपि ॥
शतजन्मपुण्यवतां गृहे जाता पतिव्रता ।
पतिव्रताप्रसूः पूता जीवन्मुक्तः पिता तथा ॥
सती स्त्री प्रातरुत्थाय त्यक्त्वा च रात्रिवाससम् ।
भर्त्तारञ्च नमस्कृत्य करोति स्तवनं मुदा ॥
गृहकार्य्यं ततः कृत्वा स्नात्वा धौते च वाससी ।
गृहीत्वा शुक्लपुष्पञ्च भक्तितः पूजयेत् पतिम् ॥
स्नापयित्वा सुपूतेन जलेन निर्म्मलेन च ।
तस्मै दत्त्वा धौतवस्त्रं तत्पादौ क्षालयेन्मुदा ॥
आसने वासयित्वा च दत्त्वा भाले च चन्दनम् ।
सर्व्वाङ्गलेपनं कृत्वा दत्त्वा माल्यं गलेऽपि च ॥
सामवेदोक्तमन्त्रेण भोगद्रव्यैः सुधोपमैः ।
संपूज्य भक्तितः कान्तं स्तुत्वा च प्रणमेन्मुदा ॥
‘ओं नमः कान्ताय शान्ताय सर्व्वदेवाश्रयाय
स्वाहा ॥’
इत्यनेनैव मन्त्रण दत्त्वा पुष्पञ्च चन्दनम् ।
पाद्यार्घ्यधूपदीपांश्च वस्त्रं नैवेद्यमुत्तमम् ॥
जलं सुवासितं शुद्धं ताम्बू लञ्च सुसंस्कृतम् ।
दत्त्वा स्तोत्रञ्च प्रपठेत् यत् कृतं पाठ्यमेव च ॥
ओं नमः कान्ताय शास्त्रे च शिवचन्द्रस्वरूपिणे ।
नमः शान्ताय दान्ताय सर्व्वदेवाश्रयाय च ॥
नमो ब्रह्मस्वरूपाय सतीप्राणपराय च ।
नमस्याय च पूज्याय हृदाधाराय ते नमः ॥
पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च ।
ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ॥
पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।
पतिश्च निर्गुणाधारो ब्रह्मरूप ! नमोऽस्तु ते ॥
क्षमस्व भगवन् ! दोषं ज्ञानाज्ञानकृतञ्च यत् ।
पत्नीबन्धो ! दयासिन्धो ! दासीदोषं क्षमस्व च ॥
इदं स्तोत्रं महापुण्यं सृष्ट्याद्ये पद्मया कृतम् ।
सरस्वत्या च धरया गङ्गया च पुरा व्रज ॥
सावित्र्या च कृतं पूर्ब्बं ब्रह्मणे चापि नित्यशः ।
पार्व्वत्या च कृतं भक्त्या कैलासे शङ्कराय च ॥
मुनीनाञ्च सुराणाञ्च पत्नीभिश्च कृतं पुरा ।
पतिव्रतानां सर्व्वासां स्तोत्रमेतत् शुभावहम् ॥
इदं स्तोत्रं महापुण्यं या शृणोति पतिव्रता ।
नरोऽन्यो वापि नारी वा लभते सर्व्ववाञ्छितम् ॥
अपुत्त्रो लभते पुत्त्रं निर्घनो लभते धनम् ।
रोगी च मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ॥
पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् ।
फलञ्च सर्व्वतपसां व्रतानाञ्च व्रजेश्वर ! ॥
इदं स्तुत्वा नमस्कृत्य भुङ्क्ते सा तदनुज्ञया ।
उक्तः पतिव्रताधर्म्मो गृहिणां श्रूयतां व्रज ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥ * ॥
पतिव्रतानामानि यथा, --
सूर्य्यस्य सुवर्च्चला १ शक्रस्य शची २ वशिष्ठस्य
अरुन्धती ३ चन्द्रस्य रोहिणी ४ अगस्त्यस्य
लोपामुद्र ५ च्यवनस्य सुकन्या ६ सत्यवतः
सावित्री ७ कपिलस्य श्रीमती ८ सौदासस्य
मदयन्ती ९ सगरस्य केशिनी १० नलस्य दम-
यन्ती ११ रामस्य सीता १२ शिवस्य सती १३
नारायणस्य लक्ष्मीः १४ ब्रह्मणः सावित्री १५
रावणस्य मन्दोदरी १६ । इति पुराणान्तरम् ॥
(गायत्रीस्वरूपा भगवती । यथा, देवीभागवते ।
१२ । ६ । ९६ ।
“पतिव्रता पवित्राङ्गी पष्पहासपरायणा ।
प्रज्ञावती सुता पौत्त्री पुत्त्रपूज्या पयस्विनी ॥”)

पतेरः, पुं, स्त्री, (पतति गच्छतीति । पत ऌ गतौ +

“पतिकठिकुठिगडिदंशिभ्य एरक् ।” उणां १ । ५९ ।
इति कर्त्तरि एरक् ।) पक्षी । गन्तरि त्रि । इत्यु-
णादिकोषः ॥

पतेरः, पुं, (पतत्यस्मिन्निति । “पति कठीति ।”

उणां १ । ५९ । इति अधिकरणे एरक् ।) आढकः ।
गर्त्तः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पतङ्गं, क्ली, (पत्रमिव अङ्गं यस्य । पृषोदरात्-

साधु ।) रक्तचन्दनम् । इति शब्दरत्नावली ॥
वृक्षविशेषः । वकम् इति भाषा । तत्पर्य्यायः ।
पत्राङ्गम् २ रक्तकाष्ठम् ३ सुरङ्गदम् ४ पत्रा-
ण्यम् ५ पट्टरङ्गम् ६ भार्य्यावृक्षः ७ रक्तकः ८
लोहितम् ९ रङ्गकाष्ठम् १० रोगकाष्ठम् ११
कुचन्दनम् १२ पट्टरञ्जनकम् १३ सुरङ्गम् १४ ।
अस्य गुणाः । कटुत्वम् । रूक्षत्वम् । अम्लत्वम् ।
शीतत्वम् । गौल्यत्वम् । वातपित्तज्वरविष्फो-
टोन्मादभूतनाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च भावप्रकाशे ।
“पतङ्गन्तु रक्तसारं सुरङ्गं रञ्जनं तथा ।
पटरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम् ॥
पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् ।
हरिचन्दनवज्ज्ञेयं विशेषाद्दाहनाशनम् ॥”
पृष्ठ ३/०२६

पत्तनं, क्ली, (पतन्ति गच्छन्ति जना यस्मिन् । पत ऌ

गतौ + “वीपतिभ्यां तनन् ।” उणां ३ । १५० । इति
तनन् ।) नगरम् । इत्यमरः । २ । २ । १० ॥ (यथा,
भागवते । ७ । २ । १४ ।
“पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ।
खेटखर्व्वटघोषांश्च ददहुः पत्तनानि च ॥”)
महती पुरी । इति श्रीधरस्वामी ॥ मृदङ्गः ।
इति हारावली ॥

पत्तनवणिक्, [ज्] पुं, (पत्तनस्य नगरस्य वणिक् ।)

नगरवणिक् । तत्पर्य्यायः । स्वाध्यायी २ । इति
त्रिकाण्डशेषः ॥

पत्तिः, पुं, (पद्यते विपक्षसेनां प्रति पद्भ्यां गच्छ-

तीति । पद्यौ ङ गतौ + “पदिप्रथिभ्यां नित् ।”
उणां ४ । १८२ । इति तिः स च नित् ।) पदा-
तिकः । इत्यमरः । २ । ८ । ६६ । (यथा, रघुः । ७ । ३७ ।
“पत्तिः पदातिं रथिनं रथेश-
स्तुंरङ्गसादी तुरगाधिरूढम् ।
यन्ता गजस्याभ्यपतद्गजस्थं
तुल्यप्रतिद्बन्दि बभूव युद्धम् ॥” * ॥
पद्यते विपक्षं प्राप्नोतीति । पद् + तिन् ।) वीरः ।
इति विश्वः ॥

पत्तिः, स्त्री, (पत ऌ गतौ + भावे क्तिन् ।) गतिः ।

(पत्यते विपक्षो यया । पत् + करणे क्तिन् ।)
सेनाविशेषः । यदुक्तं अमरे । २ । ८ । ८० ।
“एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ॥”

पत्तिसंहतिः, स्त्री, (पत्तीनां पदातीनां संहतिः ।)

पदातिसमूहः । तत्पर्य्यायः । पादातम् २ ।
इत्यमरः । २ । ८ । ६७ ॥

पत्तूरः, पुं, (पत गतौ + बाहुलकादूरः । निपातनात्

तस्य द्वित्वम् ।) शालिञ्चशाकः । इति त्रिकाण्ड-
शेषः ॥ पत्तङ्गे, क्ली । इति भावप्रकाशः ॥

पत्नी, स्त्री (पत्यर्यज्ञे सम्बन्धो यया । “पत्युर्नोयज्ञ-

संयोगे ।” ४ । १ । ३२ । इति नकारादेशः ङीप्
च ।) वेदविधानेनोढा । अन्यत्रोपचारात् ।
पत्या उद्वाहविहितमन्त्रादिना ऊढा । इति
भरतः ॥ तत्पर्य्यायः । पाणिगृहीती २ द्वितीया
३ सहधर्म्मिणी ४ भार्य्या ५ जाया ६ दाराः ७
सधर्म्मिणी ८ धर्म्मचारिणी ९ दारः १० गृहिणी
११ । इति शब्दरत्नावली ॥ सहचरी १२ गृहः
१३ क्षेत्रम् १४ वधूः १५ जनी १६ परिग्रहः १७
ऊढा १८ कलत्रम् १९ । इति हेमचन्द्रः ॥
(पत्नीगुणेनैव हि पुरुषाः सुखिनो भवन्ति ।
यस्य पत्नी वशानुगा स भूस्थोऽपि स्वर्गस्थः ।
गृहाश्रमतुल्यं किञ्चिदपि नास्ति यदि तत्र हित-
कामा पत्नी वर्त्तते । सपत्नीक एव सर्व्वधर्म्म-
करणार्हः । यदक्तं दक्षसंहितायाम् ।
“पत्नीमूलं गृहं पुंसां यदि छन्दोनुवर्त्तिनी ।
गृहाश्रमसमं नास्ति यदि भार्य्या वशानुगा ॥
तया धर्म्मार्थकामानां त्रिवर्गफलमश्नुते ।
प्राकाम्ये वर्त्तमाना तु स्नेहान्नतु निवारिता ॥
अवश्या सा भवेत् पश्चात् यथा व्याधिरपेक्षितः ।
अनुकूला न वागदुष्टा दक्षा साध्वी प्रियंवदा ॥
आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ।
अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि ॥
प्रतिकूलकलत्रस्य नरको नात्र संशयः ।
स्वर्गेऽपि दुर्लभं ह्येतदनुरागं परस्परम् ॥
रक्त एको विरक्तोऽन्यस्तस्मात् कष्टतरं नु किम् ॥
गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम् ।
सा पत्नी या विनीता स्याच्चित्तज्ञा वशवर्त्तिनी ॥
दुःखदान्या सदा खिन्ना चित्तभेदात् परस्परम् ।
प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ॥
योषित् सर्व्वा जलौकेव भूषणाच्छादनाशनैः ।
सुभूत्यापि कृता नित्यं पुरुषं ह्यपकर्षति ॥
जलौका रक्तमादत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्य्यं बलं सुखम् ॥
सशङ्का बालभावे तु यौवने विमुखी भवेत् ।
तृणवन्मन्यते पश्चाद्वृद्धभावे स्वकं पतिम् ॥
अनुकूला न वाग्दुष्टा दक्षा साध्वी पतिव्रता ।
एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः ॥
या हृष्टमनसा नित्यं स्थानमानविचक्षणा ।
भर्त्तुः प्रीतिकरी नित्यं सा पत्नी हीतरा ज्वरा ॥”)

पत्न्याटः, पुं, (अटति मुखं विहरति अत्र इति आटो

गृहम् । ततः पत्न्या आटः ।) पत्नीगृहम् ।
यदुक्तं त्रिकाण्डशेषे ।
“वासागारं भोगगृहं कन्यापत्न्याटनिष्कुटाः ॥”

प(त्र)त्त्रं, क्ली, (पतति वृक्षात् । पत ऌ गतौ +

“सर्व्वधातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् ।)
वृक्षावयवविशेषः । पाता इति भाषा । तत्-
पर्य्यायः । पलाशम् २ छदनम् ३ दलम् ४ पर्णम्
५ छदः ६ । इत्यमरः । २ । ४ । १४ ॥ पात्रम् ७
छादनम् ८ वर्हम् ९ वर्हणम् १० पत्रकम् ११ ।
इति शब्दरत्नावली ॥ * ॥ विष्णवे पत्रविशेष-
दानफलं यथा नारसिंहे ५२ अध्याये ।
“पत्राण्यपि सपुष्पाणि हरेः प्रीतिकराणि च ।
प्रवक्ष्यामि नृपश्रेष्ठ ! शृणुष्व गदतो मम ॥
अपामार्गपत्रं प्रथमं तस्माद्भृङ्गारकं परम् ।
तस्मात्तु खादिरं श्रेष्ठं ततश्च शमिपत्रकम् ॥
दूर्व्वापत्रं ततः श्रेष्ठं ततोऽपि कुशपत्रकम् ।
पत्रं तस्माद्दमनकं ततो विल्वस्य पत्रकम् ॥
विल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् ।
एतेषाञ्च यथालब्धैः पत्रैर्वा योऽर्च्चयेद्धरिम् ॥
सर्व्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥”
देवीप्रीतिकरपत्राणि यथा, --
“अपामार्गस्य पत्रन्तु ततो भृङ्गारपत्रकम् ।
ततोऽपि गन्धिनीपत्रं वलाहकमतः परम् ॥
तस्मात् खदिरपत्रन्तु वञ्जुलस्तवकस्तथा ।
आम्रन्तु वकगुच्छस्तु जम्बूपत्रं ततः परम् ॥
बीजपूरस्य पत्रन्तु ततोऽपि कुशपत्रकम् ।
दूर्व्वाङ्कुरं ततः प्रोक्तं शमीपत्रमतः परम् ॥
पत्रमामलकं तस्माद्दामपत्रमतः परम् ।
सर्व्वतो विल्वपत्रन्तु देव्याः प्रीतिकरं मतम् ॥”
इति कालिकापुराणे ९८ अध्यायः ॥ * ॥
तेजपत्रम् । तत्पर्य्यायः । तमालपत्रम् १ पत्रकम्
२ छदनम् ३ दलम् ४ पालाशम् ५ अंशुकम् ६
वासः ७ तापसम् ८ सुकुमारकम् ९ वस्त्रम् १०
तमालकम् ११ रामम् १२ गोपनम् १३ वस-
नम् १४ तमालम् १५ सुरनिर्गन्धम् १६ । अस्य
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफ-
वातविषवस्तिकण्डूतिदोषनाशित्वम् । मुखमस्तक-
शोधनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
भावप्रकाशे ।
“पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु ।
निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ॥”
(पत्यते स्थानात् स्थानान्तरे अनेन । पत + “दाम्नी-
शसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।”
३ । २ । १८२ । इति करणे ष्ट्रन् ।) वाहनम् ।
शरपक्षः । पक्षिपक्षः । इति मेदिनी ॥ * ॥
(पत्यते पात्यते शास्त्रबोधायवर्णनिचयोऽनेन ।
पत् + करणे ष्ट्रन् । अन्तर्निवन्तत्वात् तथात्वम् ।
(लिखनाधारः । पात् इति भाषा । यथा,
ज्योतिस्तत्त्वे ।
“षाण्मासिके तु सम्प्राप्ते भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥”
धातुमयपत्राकृतिद्रव्यम् । पतर् इति तवक् इति
च भाषा । यथा, तुलापुरुषदाने दानसागरे ।
“सुवर्णपत्राभरणा च कार्य्या
सुलोहपार्श्वद्बयशृङ्खलाभिः ॥” * ॥
(पात्यते स्थानात् स्थानान्तरं समाचारोऽनेन ।)
पत्री । लिपिः । तस्य रज्ञ्जनं यथा, --
“सुवर्णरूप्यरङ्गाद्यै रञ्जयेत् पत्रमुत्तमम् ।
सामान्योत्तममध्यानां पत्ररञ्जनमीरितम् ॥” * ॥
अथ पत्रप्रमाणम् ।
“षडङ्गुलाधिकं हस्तं पत्रमुत्तममीरितम् ।
मध्यमं हस्तमात्रं स्यात् सामान्यं मुष्टिहस्तकम् ॥”
अथ पत्रभङ्गप्रकारः ।
“पत्रन्तु त्रिगुणीकृत्य ऊर्द्धे तु द्बिगुणं त्यजेत् ।
शेषभागे लिखेद्बर्णान् गद्यपद्यादिसंयुतान् ॥” * ॥
अथ पत्रस्य रचनक्रमः ।
“राजलेखकमाहूय नृपो ब्रूयात् प्रयत्नतः ।
पत्रं कुरु यथायोग्यं गद्यपद्यादिसंयुतम् ॥
पण्डितद्बयमानीय लेखको रहसि स्थितः ।
यथायोग्यानुसारण पत्रं कुर्य्यान्मनोरमम् ॥
दिनद्वयं त्रयं वापि विचार्य्य पण्डितेन वै ।
स्वभ्रान्तेर्दूषणं ज्ञात्वा विलिखेत् पत्रपुस्तके ॥
सामान्यपत्रे संलिख्य रहसि श्रावयेन्नृपम् ।
नृपाज्ञया शुभे पत्त्रे विलिखेद्राजलेखकः ॥” * ॥
अथ लेखनप्रकारः ।
“अङ्कुशं प्रथमं दद्यात् मङ्गलार्थं विचक्षणः ।
मध्ये विन्दुसमायुक्तमधः सप्ताङ्कसंयुतम् ॥ ७ँ ॥
तदधः स्वस्ति विन्यस्य ततो गद्यं सुशोभनम् ।
ततः श्रीशब्दरूपाणि पदन्यासक्रमं लिखेत् ॥
भाषया संस्कृतेनैव कुशलं विलिखेत् सुधीः ।
ततः शुभाशुभां वार्त्तां संस्कृतैः प्राकृतैस्तथा ॥
ततः प्रमाणसन्देशं ततो वार्त्तां नियोजयेत् ।
कीर्त्तिप्रीतियुतं पद्यं ततः किमधिकादिकम् ॥
पत्रप्रेषणश्लोकञ्च अङ्कमासादिसंयुतम् ।
पृष्ठ ३/०२७
सर्व्वेषामेव पत्रेषु लिखनञ्चैवमीरितम् ॥
सर्व्वेषामेव पत्राणां विधिं ज्ञात्वा लिखेत्तु यः ।
स्वदेशे कीर्त्तिमाप्नोति तथा देशान्तरेष्वपि ॥
एवं शास्त्रक्रमं ज्ञात्वा यो लिखेद्राजपत्रकम् ।
स राजमन्त्रिभिः सार्द्धं यशः प्राप्नोत्यनुत्तमम् ॥
शास्त्रसन्दर्भमज्ञात्वा यो लिखेद्राजपत्रकम् ।
स राजमन्त्रिभिः सार्द्धं दुर्य्यशो महदाप्नुयात् ॥” * ॥
अथ पत्रनयनक्रमः ।
“राजपत्रं नयेन्मूर्द्ध्नि ललाटे पात्रमन्त्रिणाम् ।
गुरुपत्रं नयेन्मूर्द्ध्नि ब्राह्मणानान्तथैव च ॥
यतिसन्न्यासिनाञ्चैव स्वामिनश्च तथैव च ।
सादरेणैव यत्नेन तथा मूर्द्धनि धारयेत् ॥
भार्य्यापुत्त्रस्य मित्रस्य हृदये धारयेत् सुधीः ।
प्रवीराणां कण्ठदेशे पत्रधारणमीरितम् ॥
एतेषाञ्चैव पत्राणामुक्तं धारणलक्षणम् ।
अन्येषामपि पत्राणां नियमो नात्र दर्शितः ॥”
अथ पत्रपठनप्रकारः ।
“पत्रं धृत्वा नमस्कृत्य पूर्ब्बाग्रं स्थापयेत् सुधीः ।
दक्षिणाग्रेण सदसि नृपाग्रे राजलेखकः ॥
पत्रं वितत्य सदसि द्विवारं मनसा पठेत् ।
स्फुटं पश्चात् प्रवक्तव्यमक्षोभो राजलेखकः ॥
रहसि श्रावयेत् पत्रं शुभं वा यदि वाशुभम् ।
पत्रं श्रुत्वा विदित्वार्थं सभायां श्रावयेत्ततः ॥
रहस्य-पत्रं रहसि नृपाग्रे श्रावयेद्द्विजः ।
अशुभं नैव सदसि शुभं पत्रं नृपाज्ञया ॥
एवं क्रमेण पत्रार्थं श्रावयित्वा द्विजोत्तमः ।
नृपतेः सन्निधौ स्थित्वा नृपाज्ञामनुवर्त्तते ॥”
अथ पत्रचिह्नानि ।
“ऊर्द्ध्वे षडङ्गुलं त्यक्त्वा वर्त्तुलं चन्द्रविम्बवत् ।
कस्तूरीकुङ्कुमैः कुर्य्याद्राजपत्रं सुचिह्नितम् ॥
मन्त्रिणां कुङ्कुमेनैव पण्डितस्यैव चन्दनैः ।
गुरूणां चन्दनेनैव सिन्दूरेणैव स्वामिनः ॥
भार्य्यायाश्चाप्यलक्तेन चन्दनैः पितृपुत्त्रयोः ।
सन्न्यासिनां चन्दनेन यतीनां कुङ्कुमेन च ॥
रक्तचन्दनपङ्केन भृत्यस्य समुदीरितम् ।
शोणितेनैव शत्रूणां पत्रचिह्नं प्रकल्पयेत् ॥
एतेषाञ्चैव सर्व्वेषां यथायोग्यानुसारतः ।
पत्रस्योर्द्ध्वे तु मतिमान् कुर्य्यात् चिह्नं सुवर्त्तुलम् ॥”
अथ राजपत्रस्य कोणच्छेदनप्रकारः ।
“दक्षिणे पत्रकोणस्य अधस्तात छेदयेत् सुधीः ।
एकाङ्गुलप्रमाणेन राजपत्रस्य चैव हि ॥”
अथ राजपत्रादेः पदन्यासः ।
“महाराजाधिराजञ्च दानशौण्डं तथैव च ।
तथा सच्चरितं योज्यं कल्पवृक्षादिकं न्यसेत् ॥
यथायोग्यानुसारेण तथैव गुणभेदतः ।
राजपत्रेषु सर्व्वेषु पदन्यासक्रमं विदुः ॥”
अथ मन्त्रिपत्रस्य ।
“प्रवरं गुणमेदेन तथा सच्चरितादिकम् ।
विन्यस्य विलिखेत् प्राज्ञो मन्त्रिपत्रे पदक्रमम् ॥”
अथ पण्डितस्य ।
“संख्यावद्वन्दितपदं शास्त्रार्थनिपुणादिकम् ।
पण्डितानाञ्च पत्रेषु विलिखेद्वै पदक्रमम् ॥”
अथ गुरुपत्रस्य ।
“सांख्यसिद्धान्तनिपुणं सनमस्कारकं पदम् ।
विन्यस्य विलिखेत् प्राज्ञो गुरुपत्रपदक्रमम् ॥”
अथ स्वामिपत्रस्य ।
“प्रवर्य्यं सनमस्कारं प्राणप्रियादिकं पदम् ।
विन्यस्य विलिखेद्धीमान् स्वामिपत्रपदक्रमम् ॥”
अथ भार्य्यापत्रस्य ।
“प्राणप्रियापदं साध्वीं तथा सच्चरितादिकम् ।
भार्य्यापत्रं लिखेद्विद्बान् पदक्रममनुत्तमम् ॥”
अथ पुत्त्रस्य ।
“प्राणपुत्त्रपदं तद्वत्तथा सच्चरितादिकम् ।
आशीर्व्वचनसंयुक्तं पुत्त्रपत्रपदक्रमम् ॥”
अथ पितृपत्रस्य ।
“प्रभुवर्य्यं नमस्कारं तथा सच्चरितादिकम् ।
विन्यस्य विलिखेत् पुत्त्रः पितृपत्रपदक्रमम् ॥”
अथ सन्न्यासियतिपत्रस्य ।
“सर्व्ववाञ्छाविनिर्मुक्तं सर्व्वशास्त्रार्थपारगम् ।
सन्न्यासियतिपत्रेषु विलिखेच्च पदक्रमम् ॥”
सामान्यस्य ।
“सामान्यभृत्यशत्रूणां विनियोज्यामुकं प्रति ।
शस्त्रावशेषितपदं छागतुल्यादिकं तथा ॥
एतेषामेव पत्रेषु यथायोग्यानुसारतः ।
विन्यस्य विलिखेत् प्राज्ञः पदक्रममनुत्तमम् ॥”
श्रीशब्दविन्याससंख्या यथा, --
“षड्गुरोः स्वामिनः पञ्च द्वे भृत्येचतुरो रिपौ ।
श्रीशब्दानां त्रयं मित्रे एकैकं पुत्त्रभार्य्ययोः ॥” * ॥
अथ राज्ञः प्रशस्तिः ।
स्वस्तिगीर्व्वाणचयचूडारत्रराजिरोचिश्चुम्बित-
चन्द्रचूडचरणनखेन्दुवृन्दचन्द्रिकासन्दोहास्वाद-
चतुरचेतश्चकोरवरविषमसमरसञ्चरत्प्रबलतर-
तुरगखुरपुटपटलदलितभूपृष्ठोत्तिष्ठद्भूयिष्ठधूलि-
धाराधूसरितसकलहरिदन्तरप्रचण्डभुजदण्ड-
भ्राजमानखरतरासिवित्रासितप्रत्यर्थिपृथ्वीपति-
सार्थप्रार्थितानुकम्पासुधासम्पातानवरतविद्बद्दा-
रिद्र्यविद्रावणद्रविणराशिविश्राणनसमुपार्ज्जितो-
र्ज्जितयशोमरालावलिकवलितवलिदधीचिसञ्चित-
यशोमृणालजालभूपालकुलतिलकश्रीयुतमहा-
राजाधिराजेषु ॥ १ ॥
स्वस्तिप्रचण्डदोर्दण्डखण्डखण्डितारिमण्डल-
मुण्डोन्मुक्तमुक्तावलीमण्डितसंग्रामाङ्गनरिङ्गमा-
णानेकवारणवाहादिकायकाण्डवक्रतरनक्रचक्र-
चंक्रमणदुरतिक्रमणीयापगापतिप्रभूतयशश्चन्द्र-
चन्द्रिकाद्योतविद्योतितात्खिलजगन्मण्डलविविध-
द्रविणार्पणसन्तोषितसूरिसमूहस्तूयमानावदात-
कीर्त्तिनर्त्तकीनर्त्तनलीलालेपलेपितगीतिधुरीणो-
र्व्वश्यादिवेश्याजनसविलासगीयमानगुणश्रवणा-
न्दोलिताखण्डश्रवणकुण्डलपरितःप्रसर्पितप्रताप-
तपनोत्तापितारातिततिसमध्यासितनिकुञ्जकुञ्ज-
प्रस्तुतसौन्दर्य्यगाथाप्रमुदितश्रीमन्नारायणचरण-
किङ्करश्रीयुतमहाराजदानशौण्डेषु ॥ २ ॥ * ॥
अथ मन्त्रिप्रशस्तिः ।
स्वस्तिश्रीमत्समस्तसामन्तसेवकनिर्व्वाहकेषु ।
कोषगोकृषिकृषीवलगजवाजिगृहपरिवारहर्ष-
हेतुनीतिसेतुरक्षणनिपुणेषु । अस्मद्विश्वासैक-
निकेतनेषु श्रीश्रीमन्त्रिप्रवीरेषु आशीराशिनिवे-
दनकोऽयं वर्णभूतोऽत्रत्यं भव्यमावेदयन् तत्रत्यं
भव्यमव्याहतमनुदिनमनुक्षणं पृच्छति स्म ॥ * ॥
अथ गुरुप्रशस्तिः ।
स्वस्तिश्रीनारायणपदपाथोरुहनिःसरन्मक-
रन्दमघुपायमानमानसेषु । विविधविद्याविद्योति-
ताखिलगुणगणालङ्कृतवेदवेदाङ्गपारगस्वाश्रमो-
चिताचारसम्पन्नपरमहंसपरिव्राजकाचार्य्यसेव्य-
मानश्रीगोविन्दस्वरूपगुरुचरणारविन्देषु कोटि-
शः प्रणामाः ॥ * ॥
अथ भार्य्यायाः स्वामिप्रशस्तिः ।
स्वस्तिश्रीमदुद्दामप्रेमहेमभूषितास्मदादिभक्त-
जनेषु । कर्णयोरधिष्ठानेषु । नेत्रयोरधिदैवतेषु ।
कामस्य परिणामेषु । चतुर्व्वर्गप्रदायकेषु । ममा-
पररूपेषु । श्रीमत्स्वामिचरणारविन्देषु । गोविन्द
इवेन्दिरायाः शङ्कर इव गिरिजायाः महेन्द्र इव
पुलोमजायाः प्रतिदिनं वर्द्धमाना समाराधना
प्रणामपूर्ब्बमास्ताम् ॥ * ॥
अथ भर्त्तुर्भार्य्याप्रशस्तिः ।
स्वस्तिश्रीमत्समस्तप्रेमपारलावण्यमूर्त्तौ प्रिय-
तमायां नेत्रयुम्मस्य कनीनिकायामिव चन्द्रस्य
क्षणदायामिव कमलाकरस्य कमलिन्यामिव
पथिकस्य छायायामिव तृषातुरस्य शीतलामृत-
धारायामिव मम सप्रेम निवेदयन्ती पत्री
शुभाशीराशीन्निवेदयतु सर्व्वदा ॥ * ॥
अथ पुत्त्रस्य पितरं प्रति प्रशस्तिः ।
स्वस्तिश्रीमदभिनववशम्बदचित्तचिन्तितस्वी
यानुरागानुरञ्जितानुगृहीतस्वगृह्यवर्गेषु । निज-
चरणसरोज-रञ्जितपरागसं रक्तास्म दादिभाल-
स्थलविशालभाग्यसम्भावुक्षु । श्रीयुतपितृचरण-
सरोरुहेषु । अकिञ्चित्करकिङ्करस्य मम वद्ध-
करसम्पुटस्यावनीपृष्ठलग्नाः साष्टाङ्गप्रणतयः
सहस्रमजस्रं विज्ञाप्यञ्च ॥ * ॥
अथ पितुः पुत्त्रं प्रति प्रशस्तिः ।
स्वस्तिश्रीविश्वेश्वरचरणसरोरुहानुग्रहसमा-
सादितातिविततानवद्यविद्याविलासपीयूषपर-
म्परापराभावुकानुपममाधुरीधुरीणविविधगुणा-
लङ्कृतनिजवंशावतंससकलविश्वासनिधाननिज-
कुलपवित्रीकृतात्मप्रायेषु । श्रीयुतशुद्धाचारपरि-
पूरितपुत्त्रेषु शुभाशिषां राशयः सन्तु विज्ञा-
प्यञ्च ॥ * ॥
अथ सन्न्यासियतिप्रशस्तिः ।
स्वस्तिश्रीमत्परमहंसपरिव्राजकाचार्य्यकरण-
निपुणतापराङ्मुखेषु । विषमविषयदोषदर्शन-
दूषितप्रपञ्चरचनाविभावेषु । वेदवेदान्तसांख्य-
सिद्धान्तबद्धदेवप्रकृतिपुरुषविवेकज्ञानशीलेषु ।
संख्यावन्मुख्यवन्दितचरणारविन्दस्वाश्रमोचिता-
चारपरिपालनपवित्रीकृतधरित्रीतलेषु । सकल-
भूदेव-पूजित-श्रीयुत-गोस्वामि-चरणारविन्देषु ।
पृष्ठ ३/०२८
ममावनीसंलग्नाः साष्टाङ्गप्रणामसहस्रमजस्रं ओं
नमो नारायणायेति मन्त्रेणाकलितमस्तु ॥ * ॥
अथ भृत्यप्रशस्तिः ।
१ँस्वस्तिभगवच्चरणपरायणसकलद्रविणाधि-
रक्षकगोमहिष्यादिप्रतिपालकनिखिलवंशानु-
सेवकवशंवदामुकभृत्यं प्रति ॥ * ॥
अथारिप्रशस्तिः ।
स्वस्तिसमराङ्गनभ्रष्टप्रतिभटयशःपरिपूरित-
सकलसामन्तराजधानीविजृम्भितवीरशस्त्राव-
शेषितनिजवंशानुरक्षकसततपरित्रस्तशरणा-
गतामुकं प्रति ॥ * ॥
अथ विवेकिनां प्रशस्तिः ।
स्वस्तिश्रीभगवत्पदपङ्कजपूजनोपचितपुण्य-
पुञ्जपवित्रीकृतान्तःकरणदिग्विलासिनीविसर-
द्धम्मिल्लमिलन्मल्लीमालाकलायशोऽनुबन्धिनिर-
वधिवसुविश्राणनाधरीकृतसुरपुरभूमीरुहेषु ।
स्वस्तिश्रीमत्परमेश्वरपादपाथोरुहास्वाद-
चतुरचित्तचञ्चरीकभूवृन्दारकवृन्दावनजनिता-
मितयशःपटीरपङ्कपटलालङ्कृतदिगङ्गनागणस्तन-
तटप्रबलप्रतापौर्व्वखर्व्वीकृतप्रत्यर्थिसार्थगर्व्वाकू-
पारपारेषु ।” इति वररुचिकृतपत्रकौमुदी ॥

पत्रकं, क्ली, (पत्रमेव । पत्र + स्वार्थे कन् ।)

वृक्षस्य पत्रम् । पत्रावली । इति शब्दरत्ना-
वली । तेजपत्रम् । अस्य गुणः । कफवाय्वर्शो-
हृल्लासारुचिनाशित्वम् । इति राजवल्लभः ।
शालिञ्चशाके पुं । इति रत्नमाला ॥

पत्रकाहला, स्त्री, (पत्रकाणां आहला शब्दः ।)

पिञ्जोला । पत्रशब्दः । इति हारावली ॥

पत्रकृच्छ्रः, पुं, (पत्रैः पत्रक्वाथैः साध्यः कृच्छ्रो-

व्रतविशेषः ।) पर्णकृच्छ्रव्रतम् । यथा, --
“पर्णोदुम्बरराजीवविल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥”
इति याज्ञवल्क्यः ॥
“पलाशोदुम्बरारविन्द-श्रीवृक्ष-पर्णानामेकैकेंन
क्वथितमुदकं प्रत्यहं पिबेत् कुशोदकञ्च एक-
स्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः ।” इति
मिताक्षरा ॥

पत्रगुप्तः, पुं, (पत्राणि गुप्तानि अस्य ।) त्रिकण्टः ।

इति शब्दचन्द्रिका । तेकाँटा सिज् इति
भाषा ॥

पत्रधना, स्त्री, (पत्रमेव धनं यस्याः । पत्र-

बाहुल्यात्तथात्वम् ।) सातलावृक्षः । इति राज-
निर्घण्टः ॥

पत्रङ्गं, क्ली, (पत्रमज्यतेऽनेन । अञ्ज + करणे

घञ् । यद्वा पत्रवत् अङ्गं यस्य । शकन्धादित्वात्
साधु ।) पत्राङ्गम् । रक्तचन्दनम् । इति शब्द-
रत्नावली ।

पत्रझङ्कारः, पुं, (पत्रेषु झङ्कारस्तद्बत् शब्दो

यस्य ।) पुरोटिः । इति त्रिकाण्डशेषः । राय-
भाटी इति भाषा ॥

पत्रणा, स्त्री, (अण प्राणे + अप् अणः ।

लक्ष्यं प्रतिगमनाय । पत्त्रैः अणो जीवनमिव
यत्र ।) शरपत्ररचना । यथाह हारावली ।
“शराणां पत्ररचना पत्रणा परिकीर्त्तिता ॥”

पत्रतण्डुली, स्त्री, (पत्रेषु तण्डुलवत् विद्यते-

ऽस्याः । अर्श-आदित्वादच् । गौरादित्वात्
ङीष् ।) यवतिक्ता । इति राजनिर्घण्टः ॥

पत्रतरुः, पुं, (पत्रप्रधानस्तरुः । शाकपार्थिववत्

समासः ।) दुष्खदिरः । इति राजनिर्घण्टः ॥

पत्रदारकः, पुं, (पत्रवत् दारयति वृक्षाणि इति ।

दॄ + णिच् + ण्वुल् ।) क्रकचः । इति त्रिकाण्ड-
शेषः । करात् इति भाषा ॥

पत्रनाडिका, स्त्री, (पत्रस्य नाडिका ।) पत्रशिरा ।

इति जटाधरः ॥

पत्रपरशुः, पुं, (पत्रे घातुनिर्म्मितपत्राकारे परशु-

रिव । तच्छेदकत्वात्तथात्वम् ।) स्वर्णकारा-
दीनां स्वर्णादिच्छेदिका । छेनी इति भाषा ।
तत्पर्य्यायः । व्रश्चनः २ । इत्यमरः । २ । १० । ३३ ॥
पत्रपर्शुः ३ । इति शब्दरत्नावली ॥

पत्रपा, स्त्री, (अपत्रपणमिति । अप + त्रप् + अच् ।

निपातनात् अकारलोपः ।) अपत्रपा । लज्जा ।
इति शब्दरत्नावली ॥

पत्रपालः, पुं, (पत्रवत् पल्यते प्राप्यतेऽसौ । पत्र +

पलं गतौ + घञ् ।) आयता छुरिका । इति
हेमचन्द्रः । ३ । ४४८ ॥

पत्रपाली, स्त्री, (पत्रवत् पालिरग्रभागो यस्याः । ङीप् ।

कर्त्तनी । इति हलायुधः ॥ काँची इति भाषा ।

पत्रपाश्या, स्त्री, (पाशानां समूहः पाश्या । पत्र-

मिव पाश्या ।) स्वर्णादिरचितललाटाभरणम् ।
इत्यमरः । २ । ६ । १०३ ॥ टीका इति भाषा ॥

पत्रपिशाचिका, स्त्री, (पत्रैः पत्रेण वा पिशा-

चीव । इवार्थे कन् ।) जलत्रा । टोका इति
भाषा । तत्पर्य्यायः । खर्परः २ वारित्रा ३
मूर्द्धखोलम् ४ । इति त्रिकाण्डशेषः ॥ मस्तके
पलाशपत्रबन्धनम् । यदुक्तं
“बन्धः पलाशपत्राणां शीर्षे पत्रपिशाचिका ॥”
इति हारावली ॥

पत्रपुष्पः, पुं, (पत्रं पुष्पमिव यस्य ।) रक्ततुलसी ।

इति शब्दचन्द्रिका ॥

पत्रपुष्पकः, पुं, (पत्रपुष्प इव कायते प्रकाशते इति ।

कै + कः ।) भूर्ज्जपत्रम् । इति शब्दमाला ॥

पत्रपुष्पा, स्त्री, (पत्रपुष्प + स्त्रियां टाप् ।) तुलसी ।

इति शब्दमाला ॥ क्षुद्रपत्रतुलसी । इति रत्न-
माला ॥

पत्रबन्धः, पुं, (पत्राणां बन्धो बन्धनं यस्मिन् । पुष्प-

रचनाकाले हि पत्राणां ग्रन्थनं स्यादतस्तथा-
त्वम् ।) पुष्परचना । यथा, शब्दरत्नावल्याम् ।
“रचना च परिष्पन्दः पत्रबन्ध इति त्रयम् ।
पत्रभङ्गप्रसूनादिरचनायां निगद्यते ॥”

पत्रबालः, पुं, (पत्रवत् बल्यते ध्रीयतेऽस्मिन् । बल-

रक्षणे + अधिकरणे घञ् । अग्रभागे पत्राकृते-
स्तथात्वम् ।) तुलाधटः । इति त्रिकाण्डशेषः ।
दाँड् इति भाषा ॥

पत्रभङ्गः, पुं, (पत्राणां लिखितपत्राकृतीनां भङ्गो

विचित्रता यत्र ।) स्तनकपोलादौ कस्तूरिकादि-
रचितपत्रावली । तत्पर्य्यायः । पत्रलेखा २
पत्रवल्ली ३ पत्रलता ४ पत्राङ्गुली ५ । इति
हेमचन्द्रः ॥ पत्राङ्गुलिः ६ पत्रभङ्गी ७ पत्रकम् ८
पत्रभङ्गिः ९ पत्रावली १० । इति शब्दरत्नावली ॥

पत्रभङ्गी, स्त्री, (पत्रभङ्ग + गौरादित्वात् ङीष् ।)

पत्रभङ्गः । इति शब्दरत्नावली ॥

पत्रयौवनं, क्ली, (पत्राणां यौवनं यत्र ।) पल्लवम् ।

नूतनपत्रम् । यथा, जटाधरः ।
“नवोद्गते किशलयं किशलं पत्रयौवनम् ॥”

पत्ररथः, पुं, स्त्री, (पत्रं पक्षो रथो यानमिव यस्य ।)

पक्षी । इत्यमरः । २ । ५ । ३३ ॥ (यथा, भाग-
वते । १ । ६ । १३ ।
“चित्रस्वनैः पत्ररथैर्विभ्रमद्भमरश्रियम् ।
नलवेणुशरस्तम्बकुशकीचकगह्वरम् ॥”)

पत्रलं, क्ली, द्रपसम् । अघनदधि । इति हेमचन्द्रः ॥

पत्रलेखा, स्त्री, (पत्राणां कस्तूरिकादिरचितपत्रा-

कृतीणां लेखा रचना ।) पत्रभङ्गः । इत्यमरः ॥
२ । ६ । १२२ ॥ (यथा, रघुः ६ । ७२ ।
“महेन्द्रमास्थाय महोक्षरूपं
यः संयति प्राप्तपिनाकलीलः ।
चकार वाणैरसुराङ्गनानां
गण्डस्थलीः प्रोषितपत्रलेखाः ॥”)

पत्रवल्ली, स्त्री, (पत्राणां रचितपत्राकृतीनां वल्ली

लतेव ।) पत्रभङ्गः । इति हेमचन्द्रः । ३ । ३१९ ॥
(यथा, माघे । ८ । ५९ ।
“गण्डेषु स्फुटरचनाब्जपत्रवल्ली
पर्य्याप्तं पयसि विभूषणं बधूनाम् ॥”)
रुद्रजटा । पलाशी लता । इति राजनिर्घण्टः ॥
पर्णलता च ॥

पत्रवाहः, पुं, (पत्रेण पक्षच्छदेन उह्यते इति ।

वह + घञ् ।) बाणः । इति जटाधरः ॥ (पत्र
लिपिं वहतीति । वह + अण् ।) लिपिवाहकेत्रि ॥

पत्रशाकः, पुं, (पत्रप्रधानः शाकः । शाकपार्थिववत्

समासः ।) षड्वि धशाकान्तर्गतपत्रात्मकशाकः
यथाह राजवल्लभः ।
“पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥”

पत्रशिरा, स्त्री, (पत्रस्य शिरेव ।) पत्रभङ्गः । तत-

पर्य्यायः । माढिः २ । इति हारावली ॥ पर्ण-
नाडी च ॥

पत्रश्रेणी, स्त्री, (पत्राणां श्रेणीव ।) द्रवन्ती ।

इति राजनिर्घण्टः ॥ पर्णपंक्तिश्च ॥

पत्रश्रेष्ठः, पुं, (पत्रं श्रेष्ठं यस्य ।) विल्वः । इति

राजनिर्घण्टः ॥

पत्रसूचिः, पुं, (पत्राणां सूचिरिव ।) कण्टकम् ।

इति त्रिकाण्डशेषः ॥

पत्रहिमं, क्ली, (पत्रेषु हिमं यस्मिन् दिने ।) हिम-

दुर्द्दिनम् । इति त्रिकाण्डशेषः ॥

पत्राख्यं, क्ली, (पत्रमेव आख्या यस्य ।) तेजपत्रम् ।

इति शब्दचन्द्रिका ॥ तालीशपत्रम् । इति राज-
निर्घण्टः ॥
पृष्ठ ३/०२९

पत्राङ्गं, क्ली, (पत्रमिव अङ्गं यस्य । यद्बा पत्रेषु

अङ्गतीति । अगि गतौ + अच् ।) रक्तचन्दनम् ।
रक्तचन्दनसदृशकाष्ठविशेषः । वकम् इति भाषा ।
इत्यमरः । २ । ६ । १३२ ॥ भूर्ज्जम् । पद्मकम् ।
इति मेदिनी ॥

पत्राङ्गुलिः, स्त्री, (पत्रं अङ्गुलिरिव यत्र । यद्वा

अङ्गुलिभिर्लिखितं रचितं पत्रं पत्राकृतिरत्र
इति परनिपातत्वात्तथात्वम् ।) पत्रभङ्गः ।
स्तनकपोलादौ कस्तूरिकादिरचितपत्रावली ।
इत्यमरः । २ । ६ । १२२ ॥

पत्राञ्जनं, क्ली, (पत्रं लेखनपत्रमज्यतेऽनेन । पत्र +

अञ्ज + करणे ल्युट् ।) मसी । इति शब्द-
रत्नावली ॥

पत्राढ्यं, क्ली, (पत्रराढ्यम् ।) पिप्पलीमूलम् ।

पर्व्वततृणम् । इति राजनिर्घण्टः ॥

पत्रान्यं, क्ली, पत्तङ्गम् । इति राजनिर्घण्टः ॥

पत्रालुः, पुं, (पत्र + अस्त्यर्थे आलुः ।) कासालुः ।

इक्षुदर्भा । इति राजनिर्घण्टः ॥

पत्रावलिः, स्त्री, (पत्राणां पत्राकृतीनां आवलिः

पङ्क्तिरिव रचना यस्याः ।) गैरिकम् । इति
शब्दचन्द्रिका ॥ (पत्राणां आवलिः श्रेणी
राजिर्वा ।) पत्रश्रेणी च ॥

पत्रावली, स्त्री, (पत्रावलि + वा ङीप् ।) पत्रभङ्गः ।

इति शब्दरत्नावली ॥ नवदुर्गासम्प्रदानकमधु-
मिश्रितयवचूर्णयुक्तनवाश्वत्थपत्राणि । यथा, --
“अमायां निशि संघे तु पत्रे चाश्वत्थसंज्ञके ।
क्रमात् पत्रावली देयं मधुना यवचूर्णकम् ॥”
इति कैवल्यतन्त्रम् ॥
देवादिसन्निधौ सन्दिग्धवस्तुनोरेकतरावधारणा-
र्थकब्राह्मणबालकोत्तोलिततत्तत्सन्देहकोटिलि-
स्वितपत्रसमूहश्च ॥

पत्रिका, स्त्री, (पत्री एव । स्वार्थे कन् ततो ह्नस्वः ।)

पत्त्री । लिपिः । यथा, ज्योतिषे ।
“आदित्यादिग्रहाः सर्व्वे नक्षत्राणि च राशयः ।
दीर्घमायुः प्रकुर्व्वन्तु यस्येयं जन्मपत्रिका ॥”
(प्रशस्तपत्रं विद्यते यस्याः । पत्र + विद्यमानार्थे
ठन् । कदल्यादिनवपत्रिका । यथा, दुर्गोत्सव-
पद्धतौ ।
“कदली दाडिमी धान्यं हरिद्रा मानकं कचु ।
विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिका ॥”)

पत्रिकाख्यः, पुं, (पत्रिका आख्या यस्य ।) कर्पूर-

भेदः । इति राजनिर्घण्टः ॥ पत्रिकानामके त्रि ॥

पत्रिणी, स्त्री, (पत्राणि सन्त्यस्याः । पत्र + इनिः ।

स्त्रियां ङीप् ।) पल्लवः । इति शब्दचन्द्रिका ॥

पत्री, [न्] पुं, (पत्रं पक्षो विद्यतेऽस्य । पत्र +

इनिः ।) वाणः । (यथा, रघुः । ११ । ८४ ।
“शंस किं गतिमनेन पत्रिणा
हन्मि लोकमुत ते मखार्ज्जितम् ॥”)
पक्षी । इत्यमरः । ३ । ३ । १०५ ॥ (यथा, रघुः
११ । २९ ।
“तं क्षुरप्रशकलीकृतं कृती
पत्रिणां व्यभजदाश्रमाद्बहिः ॥”)
श्येनः । (यथा, नैषधे । १९ । १२ ।
“नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणा-
मिह विहरणैः श्यैनम्पातां रवेरवधारयन् ॥”
“पत्रिणां श्येनाख्यपक्षिरूपाणाम् ।” इति तट्टी-
कायां नारायणः ॥ पत्राणि च्छदानि सन्त्यस्य ।
अत इनिः ।) वृक्षः । रथी । पर्व्वतः । इति
मेदिनी ॥ तालः । श्वेतकिणिही । गङ्गापत्री ।
पाची । इति राजनिर्घण्टः ॥ पत्रविशिष्टे, त्रि ॥

पत्री, स्त्री, (पत्र + स्त्रियां ङीप् ।) लिपिः । पत्रम् ।

यथा, जातके ।
“श्रीमत्पङ्कजिनीपतिः कुमुदिनीप्राणेश्वरो
भूभवः
शाशाङ्किः सुरराजवन्दितपदो दैत्येन्द्रमन्त्री शनिः ।
स्वर्भानुः शिखिनां गणो गणपतिर्ब्रह्मेशलक्ष्मीधरा-
स्त्वां रक्षन्तु सदैव यस्य विमला पत्री मया
लिख्यते ॥”

पत्रोपस्करः, पुं, (पत्रमेव उपस्कर उपकरणं यस्य ।)

कासमर्द्दः । इति हारावली ॥

पत्रोर्णं, क्ली, (पत्रजा ऊर्णा साधनत्वेनास्त्यस्य ।

“अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इति अच् ।)
वटलकुचादिपत्रेषु क्रिमिभिरुर्णायाः कृतत्वात्
पत्रसम्बन्धिनी ऊर्णा अत्रेति । इति भरतः ॥
घौतकौषेयम् । इत्यमरः । २ । ६ । ११३ ॥ (यथा,
महाभारते । १३ । १११ । १०३ ।
“पत्रोर्णं चोरयित्वा तु क्रकरत्वं नियच्छति ॥”)

पत्रोर्णः, पुं, (पत्रेषु ऊर्णा यस्य ।) श्योणाकवृक्षः ।

इत्यमरः । २ । ४ । ५६ ॥

पत्सलं, क्ली, (पतति गच्छति अस्मिन् । पत ऌ गतौ

+ “पते रश्च लः ।” उणां । ३ । ७४ । इति
सरन् रस्य लश्च ।) पन्थाः । इत्युणादिवृत्तिः ॥

पथ, इ क गत्याम् । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् । इदित् ।) इ क, पन्थयति ।
इति दुर्गादासः ॥

पथ, ए ज गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् । ज्वलादिः ।) ए, अपथीत् । ज,
पाथः पथः । इति दुर्गादासः ॥

पथः, पुं, (पथति गच्छति अत्र । पथ गतौ + घञथ

अधिकरणे कः ।) पन्थाः । इति त्रिकाण्डशेषः ॥

पथन्, [त्] पुं, पथः । इत्यमरटीका ॥ (पथति

गच्छति । पथ गतौ + शतृ ।) गमनकर्त्ता च ॥

पथिकः, त्रि, पन्थानं गच्छति यः । (पथिन् + “पथः

ष्कन् ।” ५ । १ । ७५ । इति ष्कन् षो ङीषर्थः ।)
पथगन्ता । (यथा, गोः रामायणे । १ । ५ । १० ।
“नानापथिकदूतैश्च वणिग्भिश्चोपशोभिताम् ।
देवतायतनैश्चैव विमानैरिव शोभिताम् ॥”)
तत्पर्य्यायः । अध्वनीनः २ अध्वगः ३ अध्वन्यः
४ पान्थः ५ । इत्यमरः । २ । ८ । १७ ॥ गन्तुः ६
यातुः ७ पथकः ८ यात्रिकः ९ यातृकः १० ।
इति शब्दरत्नावली ॥ पथिलः ११ । इत्युणादि-
कोषः ॥

पथिकसन्ततिः, स्त्री, (पथिकानां सन्ततिः समूहः ।)

पथिकसङ्घः । तत्पर्य्यायः । हारिः २ । इति
त्रिकाण्डशेषः ॥ पथिकसंहतिः ३ । इति हारा-
वली ॥

पथिका, स्त्री, (पथिक + टाप् ।) कपिलद्राक्षा ।

इति राजनिर्घण्टः ॥

पथिद्रुमः, पुं, (पथिः प्राप्तगुणो द्रुमः । बहुगुणवत्त्वा-

त्तथात्वम् ।) स्वदिरवृक्षः । इति जटाधरः ॥
श्वेतखदिरः । इति राजनिर्घण्टः ॥

पथिलः, त्रि, (पथति गच्छतीति । पथ गतौ +

“मिथिलादयश्च ।” उणां । १ । ५८ । इति
निपातनात् साधुः ।) पथिकः । इत्युणादिकोषः ॥

पथिवाहकः, त्रि, (पन्थानं वाहयतीति । वह

+ णिच् + ण्वुल् ।) शाकुनिकः । निष्ठुरः । इति
शब्दमाला ॥ भारवाहकश्च ॥

पथ्यं, त्रि, (पथिन् + “धर्म्मपथ्यर्थन्यायादनपेते ।”

४ । ४ । ९२ । इति यत् ।) चिकित्सादौ हित-
कारकम् । तत्पर्य्यायः । करणम् २ हितम् ३ ।
इति शब्दचन्द्रिका ॥ आत्मीयम् ४ आयुष्यम्
५ । सैन्धवे क्ली । इति राजनिर्घण्टः ॥

पथ्यः, पुं, (पथि साघुः । दिगादित्वात् यत् इनो-

लोपः ।) हरीतकीवृक्षः । यथा, --
शिवायां वनतिक्तः स्यात् पथ्यः सुन्दरमातृकौ ।”
इति शब्दमाला ॥

पथ्यशाकः, पुं, (पथ्यं हितकरं शाकं यस्य ।) तण्डु-

लीयशाकः । इति राजनिर्घण्टः ॥

पथ्या, स्त्री, (पथ्य + टाप् ।) हरीतकी । (यथा,

हठयोगदीपिकायाम् । ३ । ३५ ।
“ततः सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् ।”
पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥”)
मृगेर्व्वारुः । चिर्भिटा ॥ बन्ध्या कर्कोटकी । इति
राजनिर्घण्टः ॥ (संसाररोगस्य पथ्यस्वरूपत्वात्
गङ्गापि पथ्यस्वरूपा । यथा, काशीस्वण्डे
२९ । ११२ ।
“पद्मनाभपदार्घ्येण प्रसूता पद्ममालिनी ।
परर्द्ध्विदा पुष्टिकरी पथ्या पूर्त्तिः प्रभावती ॥”)

पथ्यादिगुग्गुलुः, पुं, (पथ्या आदिर्यस्य तथाविघो

गुग्गुलुः ।) औषधविशेषः । यथा, --
“पथ्या विभीतामलकीफलानां
शतं क्रमेण द्विगुणाभिवृद्धम् ।
प्रस्थेन युक्तञ्च पलङ्कषाणां
द्रोणे जले संस्थितमेकरात्रम् ॥
अर्द्धावशेषं क्वथितं कषायं
भाण्डे पचेत्तत् पुनरेव लोहे ।
अमूनि वह्नेरवतार्य्य दद्यात्
द्रव्याणि संचूर्ण्य पलार्द्धकानि ॥
विडङ्गदन्तीत्रिफलागुडूची-
कृष्णात्रिवृन्नागरकोषणानि ।
यथेष्टचेष्टस्य नरस्य शीघ्रं
हिमाम्वुपानानि च भोजनानि ॥
निषेव्यमानो विनिहन्ति रोगान्
सगृध्रसीं नूतनखञ्जताञ्च ।
प्लीहानमुग्रं जठरार्त्तिगुल्मं
पाण्डुत्वकण्डुत्वविवातरक्तम् ॥
पृष्ठ ३/०३०
पथ्यादिको गुग्गुलुरेष नाम्ना
ख्यातः क्षितावप्रमितप्रभावः ।
बलेन नागेन समं मनुष्यं
जवेन कुर्य्यात्तुरगेण तुल्यम् ॥
आयुःप्रकर्षं विदधाति चक्षु-
र्ब्बलं तथा पुष्टिकरो विषघ्नः ।
क्षतस्य सन्धानकरो विशेषा-
द्रोगेषु शस्तः सकलेषु तज्ज्ञैः ॥”
इति भावप्रकाशः ॥

पथ्यापथ्यं, क्ली, (पथ्यं रोगिणां हितकरं अपथ्यं

अशुभकरं द्वयोः समाहारः ।) रोगाणां हिता-
हितकारकद्रव्याणि ।
तत्र तरुणज्वरे पथ्यं यथा ।
वमनम् । लङ्घनम् । कालोऽष्टाहः । यवागुः ।
स्वेदनम् । कटुतिक्तरसौ । एतानि पाचनानि ॥ * ॥
नवज्वरे अपथ्यं यथा ।
स्नानम् । विरेकः । सुरतम् । कषायः । व्यायामः ।
अभ्यञ्जनम् । दिवानिद्रा । दुग्धम् । घृतम् । वैद-
लम् । आमिषम् । तक्रम् । सुरा । स्वादुगुरुद्रष-
द्रव्याणि । अन्नम् । प्रवातः । भ्रमणम् । कोपः ॥ * ॥
मध्यज्वरे पथ्यं यथा ।
पुरातनषष्टिकः । पुरातनशालिः । वार्त्ताकुः ।
शोभाञ्जनम् । कारवेल्लः । वेत्राग्रम् । आषाढ-
फलम् । पटोलम् । कर्कोटकम् । मूलकपोतिका ।
मुद्गमसूरचणककुलत्थमुकुष्टकानां यूषः । पाठा ।
अमृता । वास्तूकम् । तण्डुलीयः । जीवन्ती ।
काकमाची । सुपक्वानि द्राक्षाकपित्थदाडिम-
वैकङ्कतफलानि । लघूनि सात्म्यानि च भेष-
जानि ॥ * ॥
अथ पुराणज्वरे पथ्यम् ।
विरेचनम् । छर्द्दनम् । अञ्जनम् । नस्यम् । धूमः ।
अनुवासनम् । सिराव्यधः । संशमनम् । प्रदेहः ।
अभ्यङ्गः । अवगाहः । शिशिरोपचारः । एणः ।
कुलिङ्गः । हरिणः । मयूरः । लावः । शशः ।
तित्तिरिः । कुक्कुटः । क्रौञ्चः । कुरङ्गः । पृषतः ।
चकोरः । कपिञ्जलः । वर्त्तकः । कालपुच्छः ।
गोक्षीरम् । अजाक्षीरम् । गोघृतम् । अजा-
घृतम् । हरीतकी । पर्व्वतनिर्झराम्भः । एरण्ड-
तलम् । सितचन्दनम् । ज्योत्स्ना । प्रिया-
लिङ्गनम् ॥ * ॥
व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणं तथा ।
ज्वरमुक्तो न सेवेत यावन्नो बलवान् भवेत् ॥ * ॥
अथातिसाररोगे पथ्यम् ।
वमनम् । लङ्घनम् । निद्रा । पुराणाः शालि-
षष्टिकाः । विलेपी । लाजमण्डः । मसूर-
तुवरीशशैणलावहरिणकपिञ्जलभवयूषः । सर्व्वे
क्षुद्रमत्स्याः । शृङ्गी । खुड्डीशः । मधुरा-
लिका । तैलम् । छागघृतक्षीरे । गोदधितक्रे ।
गवाजयोर्दधिजं पयोजं वा नवनीतम् । नव-
रम्भापुष्पम् । नवरम्भाफलम् । क्षौद्रम् । जम्वु-
फलम् । भव्यम् । महार्द्रकम् । निम्बम् । शालु-
कम् । विकङ्कतम् । कपित्थम् । वकुलम् ।
विल्वम् । तिन्दुकम् । दाडिमद्बयम् । तिल-
कम् । कञ्चटदलम् । चाङ्गेरी । विजया ।
अरुणा । जातीफलम् । अहिफेनम् । जीरकः ।
गिरिमल्लिका । कुस्तुम्वुरु । महानिम्बम् । सकल-
कषायरसः । दीपनानि लघून्यन्नपानानि । नाभे-
र्द्व्यङ्गुलतोऽधस्तात् तथा वंशास्थिमूले शस्त्रेण
अर्द्धचन्द्रवद्दाहः ॥ * ॥
अतीसारे अपथ्यं यथा ।
स्वेदः । अञ्जनम् । रुधिरमोक्षणम् । अम्वुपानम् ।
स्नानम् । व्यवायः । जागरणम् । धूमः । नस्यम् ।
अभ्यञ्जनम् । सकलवेगधारणम् । रूक्षाणि ।
असात्म्यमशनम् । विरुद्धान्नम् । गोधूमः ।
माषः । यवः । वास्तूकम् । काकमाची ।
निष्पावः । कन्दः । मधुशिग्रुः । रसालम् ।
पूगम् । कुष्माण्डम् । तुम्बी । वदरम् । गुर्व्व-
न्नम् । गुरुपानम् । ताम्वूलम् । इक्षुः । गुडः ।
मद्यम् । उपोदिका । द्राक्षा । अम्लवेतसफलम् ।
लशुनम् । धात्री । दुष्टाम्वु । मस्तु । गृहवारि ।
नारिकेलम् । स्नेहनम् । मृगमदः । अखिल-
पत्रशाकम् । क्षारः । सर्व्वाणि सराणि । पुन-
र्नवा । इर्वारुकम् । लवणम् । अम्लम् ॥ * ॥
अथ ग्रहणीरोगे पथ्यम् ।
निद्रा । छर्द्दनम् । लङ्घनम् । पुरातनशालयः ।
पुरातनषष्टिकाः । लाजमण्डः । मसूरतुवरी-
मुद्गभवयूषः । निःशेषोद्धृतसारगव्यदधि । गवां
छाग्या वा पयोजं नवनीतम् । छागघृतपयो-
दधीनि । तिलतैलम् । सुरा । माक्षिकम् ।
शालूकम् । वकुलम् । दाडिमयुगम् । नव्यं
भव्यम् । रम्भापुष्पम् । रम्भाफलम् । तरुण-
विल्वम् । शृङ्गाटकम् । चाङ्गेरी । विजया ।
कपित्थम् । कुटजम् । अजाजी । कशेरुः ।
तक्रम् । कञ्चटपल्लवम् । तिलकम् । जाती-
फलम् । जाम्बवम् । धन्याकम् । तिन्दुकम् ।
महानिम्बम् । अरुणा । अफेनम् । क्रव्यात् ।
लावशशैणतित्तिरिमांसयूषः । सर्व्वे क्षुद्रमत्स्याः ।
खुड्डीशः । मधरालिकामत्स्यः । खलिशः ।
सर्व्वकषायरसः । नाभेर्द्व्यङ्गुलतोऽधस्तात् तथा
वंशास्थिमूले प्रज्वलितायसार्द्धचन्द्रवद्दाहः ॥ * ॥
ग्रहण्यामपथ्यं यथा ।
रक्तस्रुतिः । जागरः । अम्बुपानम् । स्नानम् ।
स्त्री । वेगविधारणम् । नस्यम् । अञ्जनम् ।
स्वेदनम् । धूमपानम् । श्रमः । विरुद्धाशनम् ।
आतपः । गोधूमः । निष्पावः । कलायः ।
माषः । यवः । आर्द्रकम् । छत्रकम् । राज-
माषः । उपोदिका । वास्तूकः । काकमाची ।
कुष्माण्डः । तुम्बी । मधुशिग्रुः । कन्दः । ताम्वू-
लम् । इक्षुः । वदरम् । रसालम् । इर्व्वारुकम् ।
पूगफलम् । रसोनम् । धान्याम्लम् । सौवीरम् ।
तुषोदकम् । दुग्धम् । गुडः । मस्तु । नारि-
केलम् । पुनर्नवा । बार्हतम् । वैणवम् । सर्व्वाणि
पत्रशाकानि । दुष्टाम्वु । गोमूत्रम् । मृग-
नाभिः । क्षारम् । समस्तानि सराणि । द्राक्षा ।
अम्लम् । लवणरसः । गुर्व्वन्नम् । गुरुपानम् ।
सर्व्वे पूपाः ॥ * ॥
अथार्शसि पथ्यम् ।
विरेचनम् । लेपनम् । अस्रमोक्षः । क्षारः ।
अग्निकर्म्म । शस्त्रकर्म्म । पुरातनलोहितशालयः ।
पुरातनषष्टिकाः । यवाः । कुलत्थाः । गोधाखु-
गजोष्ट्रकूर्म्माविकलिङ्गाजखरौतुकीशतरक्षुचास-
शृगालकाकानां मांसानि । स्वल्पमांसाः
प्रसहाः । पटोलम् । पत्तूरः । रसोनकम् ।
वह्निः । पुनर्नवा । शूरणः । वास्तूकम् । जीव-
न्तिका । दन्तशठः । सुरा । त्रुटिः । वयःस्था ।
नवनीतम् । तक्रम् । कक्कोलम् । धात्री । रुच-
कम् । कपित्थम् । औष्ट्रमूत्राज्यपर्यांसि । भल्ला-
तकम् । सर्षपतैलम् । गोमूत्रम् । सौवीरम् ।
तुषोदकम् । वातापहान्नपानम् । अग्निवर्द्धकान्न-
पानम् ॥ * ॥
अर्शसि अपथ्यं यथा ।
आनूपमामिषम् । मत्स्यः । पिण्याकः । दधि ।
पिष्टकम् । माषः । करीरम् । निष्पावः ।
विल्वम् । तुम्बी । उपोदिका । पक्वाम्रम । सर्व्व-
शालूकम् । विष्टम्भीनि । गुरूणि । आतपः ।
जलपानम् । वमनम् । वस्तिकर्म्म । नदीनां
सलिलम् । विरुद्धानि सर्व्वाणि । पूर्ब्बदिग्भव-
वायुः । वेगरोधः । स्त्रियः । पृष्ठयानम् । उत्-
कटकासनम् । यथास्वं दोषलं द्रव्यम् । रक्त-
पित्तिनां यद्यत् पथ्यापथ्यं तत्तदपि रक्तार्शो-
रोगिणां बिशेषतो विद्यात् ॥ * ॥
अथाग्निमान्द्याजीणादौ पथ्यम् ।
श्लौष्मके पूर्ब्बं बमनम् । पैत्तिके मृदुरेचनम् ।
वातिके स्वेदनम् । यथावस्थं हितवस्तूनि । नाना-
प्रकारव्यायामः । दीपनानि । लघूनि । बहु-
कालसमुत्पन्ना मुद्गलोहितशालयः । विलेपी ।
लाजमण्डः । मुद्गभवमण्डः । सुरा । एणः ।
वर्ही । शशः । लावः । सर्व्व क्षुद्रमत्स्यः । शालिञ्च-
शाकम् । वेत्राग्रम् । वास्तूकम् । बालमूलम् ।
लशुनम् । वृद्धकुष्माण्डम् । नवीनकदलीफलम् ।
शोभाञ्जनम् । पटोलम् । वार्त्ताकुः । नलदाम्वु ।
कर्कोटकम् । कारवेल्लम् । बार्हतम् । महा-
र्द्रकम् । प्रसारणी । काकमाची । चाङ्गेरी ।
सुनिषण्णकम् । धात्रीफलम् । मातुलुङ्गम् ।
दाडिमम् । यवः । पर्पटः । अम्लवेतसम् । जम्बी-
रम् । नागरङ्गम् । माक्षिकम् । नवनीतम् ।
घृतम् । तक्रम् । सौवीरकम् । तुषोदकम् ।
धान्याम्लम् । कटुतैलम् । रामठम् । लवणार्द्र-
कम् । यमानी । मरिचम् । मेथी । धान्यकम् ।
जीरकम् । दधि । ताम्वूलम् । तप्तसलिलम् ।
कटुरसः । तिक्तरसः ॥ * ॥
अग्निमान्द्याजीर्णादौ अपथ्यं यथा ।
विरेचनम् । विण्मूत्रवायूनां वेगधारणम् । अति-
रिक्ताशनम् । अध्यशनम् । जागरणम् । विषमा-
शनम् । रक्तस्रुतिः । शमीध्यानम् । मत्स्यः ।
मांसम् । उपोदिका । जलपानम् । पिष्टकम् ।
पृष्ठ ३/०३१
जाम्बवम् । सर्व्वशालूकम् । कूर्च्चिका । मोरटः ।
क्षीरम् । किलाटः । प्रपानकम् । तालास्थि-
शस्यम् । बालतालम् । स्नेहनम् । दुष्टवारि ।
विरुद्धपानान्नम् । असात्म्यपानान्नम् । विष्ट-
म्भीनि । गुरूणि ।
फलवर्त्तिं वमिं स्वेदं लङ्घनं चापतर्पणम् ।
विशेषादलसे कुर्य्याद्बिसूच्यामतिसारवत् ॥ * ॥
अथ क्रिमिरोगे पथ्यम् ।
आस्थापनम् । कायविरेचनम् । शिरोविरे-
चनम् । धूमः । कफघ्नानि द्रव्याणि । शरीर-
मार्ज्जना । पुरातनवैणवरक्तशालयः । पटोलम् ।
वेत्राग्रम् । रसोनम् । वास्तूकम् । हुताशः ।
मन्दारदलम् । सर्षपाः । नवीनमोचम् । बृहती-
फलम् । तिक्तानि नालीचदलानि । मौषिक-
मांसम् । विडङ्गम् । पिचुमर्द्दपल्लवम् । पथ्या ।
तिलतैलम् । सर्षपतैलम् । सौवीरम् । शुक्तम् ।
तुषोदकम् । मध । पचेलिमतालम् । अरु-
ष्करम् । गोमूत्रम् । ताम्बूलम् । सुरा । मृगा-
ण्डजम् । औष्ट्रमूत्राज्यपयांसि । रामठम् ।
क्षारः । अजमोदा । खदिरः । वत्सकम् ।
जम्बीरनीरम् । सुषवी । यमानिका । सुराह्वा-
गुरुसिंशपोद्भवक्षारः । तिक्तकटुकषायरसाः ॥ * ॥
क्रिमिरोगे अपथ्यं यथा ।
छर्द्दिः । तद्वेगविधारणम् । विरुद्धपानाशनम् ।
दिवानिद्रा । द्रवद्रव्यम् । पिष्टान्नम् । अजीर्ण-
भोजनम् । घृतम् । माषः । दधि । पत्रशाकम् ।
मांसम् । पयः । अम्लः । मधुररसः ॥ * ॥
अथ पाण्डरोगे पथ्यम् ।
छर्द्दिः । विरेचनम् । पुरातनयवगोधूमशालयः ।
मुद्गाढकीमसूराणां यूषः । जाङ्गलजरसः । पटो-
लम् । वृद्धकुष्माण्डम् । तरुणकदलीफलम् ।
जीवन्ती । क्षुरः । मत्स्याक्षी । गुडूची । तण्डु-
लीयकम् । पुनर्नवा । द्रोणपुष्पी । वार्त्ताकुः ।
लशुनद्वयम् । पक्वाम्रम् । अभया । विम्बी । शिङ्गी
मत्स्यः । गोमूत्रम् । धात्री । तक्रम् । घृतम् ।
तैलम् । सौवीरकम् । तुषोदकम् । नवनीतम् ।
गन्धसारः । हरिद्रा । नागकेशरम् । यवक्षारः ।
लौहभस्म । कषायद्रव्यम् । कुङ्कुमम् । चरणयोः
सन्धौ नाभेर्द्ब्यङ्गुलादधः मस्तके हस्तयोर्मूले
स्तनकक्षयोर्मध्ये च दाहः । यथादोषमिदं पथ्यं
पाण्डुरोगवतां भवेत् ॥ * ॥
पाण्डुरोगे अपथ्यं यथा ।
रक्तस्रुतिः । धूमपानम् । वमिः । वेगधारणम् ।
स्वेदनम् । मैथुनम् । शिम्बी । पत्रशाकानि ।
रामठम् । माषः । अम्बुपानम् । पिण्याकः ।
ताम्बू लम् । सर्षपः । सुरा । मृद्भक्षणम् । दिवा-
स्वप्तः । तीक्ष्णानि । लवणानि । सिन्धुविन्ध्याद्रि-
जातनदीनां जलम् । सर्व्वाण्यम्लानि । दुष्टाम्भः ।
विरुद्धाशनानि । गुर्व्वन्नम् । विदाहीनि ॥ * ॥
अथ रक्तपित्ते पथ्यम् ।
अधोगमे छर्द्दनम् । ऊर्द्ध्वनिर्गमे विरेचनम् ।
उभयत्र लङ्घनम् । पुरातनाः षष्टिकशालिकोद्रव-
प्रियङ्गुनीवारयवप्रशातिकाः । मुद्गः । मसूरः ।
चणकः । तुवरी । मुकुष्टकः । चिङ्गटः । वर्म्मि-
मत्स्यः । शशः । कपोतः । हरिणः । एणः ।
लावः । शरालिः । पारावतः । वर्त्तकः । वकः ।
उरभ्रः । कालपुच्छः । कपिञ्जलः । कषायवर्गः ।
गोदुग्धघृतम् । अजादुग्धघृतम् । महिषीघृतम् ।
पनसम् । पियालम् । रम्भाफलम् । कञ्चटम् ।
तण्डलीयः । पटोलम् । वेत्राग्रम् । महार्द्रकम् ।
पुराणकुष्माण्डफलम् । पक्वतालम् । तद्बीजजलम् ।
वासा । स्वादूनि । विल्वम् । दाडिमम् । खर्ज्जू-
रम् । धात्री । मिषिः । नारिकेलम् । कशेरु ।
शृङ्गाटकम् । पौष्करम् । कपित्थम् । शालू-
कम् । परूषकम् । भूनिम्बशाकम् । पिचुमर्द्द-
पत्रम् । तुम्वी । कलिङ्गम् । लाजशक्तवः ।
द्राक्षा । सिता । माक्षिकम् । ऐक्षवम् । शीतो-
दकम् । औद्भिदवारि । सेकः । अवगाहः ।
शतधौतसर्पिः । अभ्यङ्गः । शिशिरप्रदेहः ।
हिमानिलः । चन्दनम् । इन्दुपादाः । मनोऽनु-
कूलविचित्रकथा । धारागृहम् । सुशीतं भूमि-
गृहम् । वैदूर्य्यमुक्तामणीनां धारणम् । रम्भोत्-
पलाम्भोरुहपत्राणां शय्या । क्षौमाम्बरम् ।
सुशीतोपवनम् । प्रियङ्गुः । चन्दनरूषितानां
वराङ्गनानामालिङ्गनम् । पद्माकरसरिथ्रद-
चन्द्रोदयहिमवद्दरीसुशीतलगिरिनिर्झराणामा-
लिङ्गनम् । श्रुतिप्रशस्तकीर्त्तनम् । प्रवीणनीरम् ।
हिमवालुका ॥ * ॥
रक्तपित्ते अपथ्यं यथा ।
व्यायामः । अध्वनिषेवणम् । रविकरः । ती-
क्ष्णानि कर्म्माणि । क्षोभः । वेगधारणम् ।
चपलता । हस्त्यश्वयानानि । स्वेदः । अस्रस्रुतिः ।
धूमपानम् । सुरतः । क्रोधः । कुलत्थः । गुडः ।
वार्त्ताकुः । तिलः । माषः । सर्षपः । दधि ।
क्षारः । कौपपयः । ताम्बूलम् । नलदाम्बु ।
मद्यम् । लशुनम् । शिम्बी । विरुद्धाशनम् । कटु ।
अम्लम् । लवणम् । विदाहिद्रव्यम् ॥ * ॥
अथ राजयक्ष्मणि पथ्यम् ।
घृतपक्वमरिचजीरकसंस्कृतलावतित्तिरिजरसः ।
दोषाधिकस्य बलिनोऽग्रे मृदुशुद्धिः । गोधूमः ।
मुद्गः । चणकः । अरुणशालयः । छागानि मांस-
नवनीतपयोघृतानि । क्रव्याट्मांसम् । जाङ्ग-
लजा रसाः । मार्त्तण्डचण्डकिरणपरिशोषितसु-
चूर्णितपक्वपललं लेह्यम् । रागाः । काम्बलिकः ।
षाडवः । वेशवारः । शशाङ्ककिरणः । मधुर-
रसः । मोचपनसाम्राणां पक्वफलानि । धात्री ।
खर्ज्जूरम् । पौष्करम् । परूषकम् । नारि-
केलम् । शोभाञ्जनम् । वकुलम् । नवताल-
शस्यम् । द्राक्षा । मिषिः । माणिमन्थम् ।
सिंहास्यपत्रम् । अजागोमहिषीघृतम् । छागा-
श्रयः । छागावस्करमूत्रलेपः । मत्स्यण्डिका ।
शिखरिणी । मदिरा । रसाला । कर्पूरम् ।
मृगमदः । सितचन्दनम् । अभ्यञ्जनानि । सुरभी-
ण्यनुलेपनानि । स्नानम् । वेशरचनम् । अव-
गाहनम् । हर्म्यम् । स्रजः । स्मरकथा । मृदु-
गन्धवाहः । गीतानि । लास्यम् । चन्द्ररुचिः ।
विपञ्ची । मृगदृशां सन्दर्शनम् । हेमचूर्णम् ।
मुक्तामणिप्रचूरभूषणधारणम् । होमः । प्रदा-
नम् । अमरपूजा । द्विजपूजा । हृद्यान्न-
पानम् ॥ * ॥
राजयक्ष्मणि अपथ्यं यथा ।
विरेचनम् । वेगधारणम् । श्रमः । स्त्री । स्वेदः ।
अञ्जनम् । प्रजागरः । साहसकर्म्मसेवा ।
रूक्षान्नपानम् । विषमाशनम् । ताम्बू लम् ।
कालिङ्गम् । कुलत्थम् । माषः । रसोनम् । वंशा-
ङ्कुरः । रामठम् । अम्लम् । तिक्तम् । कषायः ।
सर्व्वकटु । पत्रशाकः । क्षारः । विरुद्धाशनम् ।
शिम्बी । कर्कोटकम् । विदाहिद्रव्यम् । कृष्ण-
कठिल्लकम् ॥ * ॥
अथ कासे पथ्यम् ।
स्वेदः । विरेचनम् । छर्दिः । धूमपानम् । समा-
शनम् । शालिः । षष्टिकः । गोधूमः । श्यामाकः ।
यवः । कोद्रवः । आत्मगुप्ता । माषमुद्गकुलत्थानां
रसाः । ग्राम्योदकम् । अनूपधन्वदेशभवविविध-
मांसानि । सुरा । पुरातनसर्पिः । छागदुग्धम् ।
छागघृतम् । वास्तूकम् । षायसीशाकम् ।
वार्त्ताकुः । बालमूलकम् । कण्टकारी । कास-
मर्द्दः । जीवन्ती । सुनिषण्णकम् । द्राक्षा ।
विम्बी । मातुलुङ्गम् । पौष्करम् । वासकः ।
त्रुटिः । गोमूत्रम् । लशुनम् । पथ्या । व्योषम् ।
उष्णोदकम् । मधु । लाजाः । दिवसनिद्रा ।
लघून्यन्नानि ॥ * ॥
कासे अपथ्यं यथा ।
वस्तिः । नस्यम् । असृङ्मोक्षः । व्यायामः ।
दन्तघर्षणम् । आतपः । दुष्टपवनः । रजः ।
मार्गनिषेवणम् । विष्टम्भीनि । विदाहीनि ।
विविधरूक्षाणि । शकृन्मूत्रोद्गारकासवमिवेग-
विधारणम् । मत्स्यः । कन्दः । सर्षपः । तुम्बी ।
उपोदिका । दुष्टाम्बु । दुष्टान्नपानम् । विरुद्धा-
शनम् । गुरुशीतान्नपानम् ॥ * ॥
अथ श्वासे पथ्यम् ।
विरेचनम् । स्वेदनम् । धूमपानम् । प्रच्छर्द्दनम् ।
दिवास्वपनम् । पुरातनाः षष्टिकरक्तशालिकुलत्थ-
गोधूमयवाः । शशः । अहिभुक् । तित्तिरिः ।
लावः । दक्षः । शुकादयः । धन्वमृगाः । धन्व-
पक्षिणः । पुरातनसर्पिः । अजादुग्धघृतम् ।
सुरा । मधु । निदिग्धिका । वास्तूकम् । तण्डु-
लीयः । जीवन्तिका । मूलकपोतिका । पटो-
लम् । वार्त्ताकुः । रसोनम् । पथ्या । जम्बीरम् ।
विम्बीफलम् । मातुलुङ्गम् । द्राक्षा । त्रुटिः ।
पौष्करम् । उष्णवारि । कटुत्रयम् । गोमूत्रम् ।
कफानिलघ्नान्यन्नपानभेषजानि । वक्षःप्रदेशात्
पार्श्वयुग्मे करस्थयोर्मध्यमयोर्द्बयोः कण्ठकूपे च
प्रदीप्तलौहेन दाहः ॥ * ॥
श्वासे अपथ्यं यथा ।
मूत्रोद्गारच्छर्द्दितृट्कासानां रोधः । नस्यम् ।
पृष्ठ ३/०३२
वस्तिः । दन्तकाष्ठम् । श्रमः । अध्वा । भारः ।
रेणुः । सूर्य्यकिरणः । विष्टम्भीनि । ग्राम्यधर्म्मः ।
विदाहीनि । आनूपमामिषम् । निष्पावः । श्लेष्म-
कारीणि । माषः । रक्तस्रावः । पूर्ब्बवातान्न-
पानम् । मेषीघृतदुग्धम् । दुष्टजलम् । मत्स्यः ।
कन्दः । सर्षपः । रूक्षशीतगुर्व्वन्नपानम् ॥ * ॥
अथ हिक्कायां पथ्यम् ।
स्वेदनम् । वमनम् । नस्यम् । धूमपानम् । विरे-
चनम् । निद्रा । स्निग्धानि लघून्यन्नानि । लव-
णानि । जीर्णकुलत्थगोधूमशालिषष्टिकयवाः ।
एणतित्तिरिलावाद्या जाङ्गला मृगपक्षिणः ।
पक्वकपित्थभ् । लशुनम् । पटोलम् । बालमूल-
कम् । पौष्करम् । कृष्णतुलसी । मदिरा । नल-
दाम्वु । उष्णोदकम् । मातुलुङ्गम् । माक्षिकम् ।
सुरभिजलम् । वातश्लेष्महराण्यन्नपानानि ।
शीताम्वुसेकः । सहसा त्रासः । विस्मापनम् ।
भयम् । क्रोधः । हर्षः । प्रियोद्वेगः । प्राणा-
यामनिषेवणम् । दग्धसिक्तमृदाध्राणम् । कूर्च्चे
धाराजलार्पणम् । नाभ्यूर्द्ध्वपीडनम् । पायूर्द्ध्वं
नाभेर्द्व्यङ्गुलादूर्द्ध्वञ्च दीपदग्धहरिद्रया दाहः ॥ * ॥
हिक्कायां अपथ्यं यथा ।
वातमूत्रोद्गारकासशकृद्वेगधारणम् । रजः ।
अनिलः । आतपः । विरुद्धाशनम् । विष्टम्भीनि ।
विदाहीनि । रूक्षाणि । कफदानि । निष्पावः ।
पिष्टकः । माषः । पिण्याकः । आनूपमामिषम् ।
अविदुग्धम् । दन्तकाष्ठम् । वस्तिः । मत्स्यः ।
सर्षपम् । अम्लम् । तुम्बी । कन्दः । तैलभृष्टम् ।
उपोदिका । गुरुशीतान्नपानम् ॥ * ॥
अथ स्वरभेदे पथ्यम् ।
स्वेदः । वस्तिः । धूमपानम् । विरेकः । कवल-
ग्रहः । नस्यम् । भालसिरावेधः । यवः । लोहित-
शालिः । हंसाटवी । ताम्रचूडकेकिनां मांस-
रसाः । सुरा । गोकण्टकः । काकमाची ।
जीवन्ती । बालमूलकम् । द्राक्षा । पथ्या । मातु-
लुङ्गम् । लशुनम् । लवणार्द्रकम् । ताम्बूलम् ।
मरिचम् । सर्पिः ॥ * ॥
स्वरभेदे अपथ्यम् ।
आमकपित्थम् । वकुलम् । शालूकम् । जाम्ब-
वम् । तिन्दुकम् । कषायः । वमिः । स्वप्नः ।
प्रजल्पनम् । अनुपानम् ॥ * ॥
अथारोचके पथ्यम् ।
वस्तिः । विरेकः । यथाबलं वमनम् । धूमोप-
सेवा । कवडग्रहः । तिक्तकाष्ठेन दन्तधावनम् ।
चित्रान्नपानम् । गोधूमः । मुद्गाः । लोहित-
शालयः । षष्टिका । वराहच्छागशशैणानां
मांसम् । चेङ्गः । झसाण्डम् । मधुरालिका ।
इल्लिशः । प्रोष्ठी । खलेशः । कवयी । रोहितः ।
कर्कारुः । वेत्राग्रम् । नवीनमूलकम् । वार्त्ताकुः ।
शोभाञ्जनम् । मोचम् । दाडिमम् । भव्यम् ।
पटोलम् । रुचकम् । घृतम् । पयः । बाल-
तालम् । रसोनम् । शूरणम् । द्राक्षा । रसा-
लम् । नलदाम्वु । काञ्जिकम् । मद्यम् । रसाला ।
दधि । तक्रम् । आर्द्रकम् । कक्कोलम् । खर्ज्जू-
रम् । पियालम् । तिन्दुकम् । पक्वकपित्थम् ।
वदरम् । विकङ्कतम् । तालास्थिमज्जा । हिम-
वालुका । सिता । पथ्या । यमानी । मरिचम् ।
रामठम् । स्वाद्वम्लतिक्तानि । देहमार्जना ॥ * ॥
अरोचके अपथ्यम् ।
कासोद्गारक्षुघानिद्रावमीनां वेगधारणम् । अहृ-
द्यान्नम् । असृङ्मोक्षः । क्रोधः । लोभः । भयम् ।
शोकः । दुर्गन्धः । सूर्य्यसेवा ॥ * ॥
अथ छर्द्यां पथ्यम् ।
विरेचनम् । छर्द्दनम् । लङ्घनम् । स्नानम् । मृजा ।
लाजमण्डः । पुरातनाः षष्टिकशालिमुद्गाः ।
कलायः । गोधूमः । यवः । मधु । शशाहिभुक्-
तित्तिरिलावकाद्याः । जाङ्गलमृगपक्षिणः ।
मनोज्ञनानारसगन्धरूपा रसाः । षाडवा यूषाः ।
रागाः । खडाः । काम्बलिकाः । सुरा । वेत्रा-
ग्रम् । कुस्तुम्बुरु । नारिकेलम् । पचेलिमानि
जम्बीरधात्रीसहकारकोलद्राक्षाकपित्थानि । ह-
रीतकी । दाडिमम् । बीजपूरम् । जातीफलम् ।
बालकम् । निम्बम् । वासा । सिता । शताह्वा ।
करिकेशरम् । हितमनःप्रीतिकरभक्ष्याः । भुक्तस्य
वक्त्रे शिशिराम्बुसेकः । कस्तूरिका । चन्दनम् ।
इन्दुकिरणः । मनोज्ञगन्धान्यनुलेपनानि । सु-
गन्धिपुष्पपानफलानि । स्वमनोऽनुकूलरूपरस-
गन्धस्पर्शशब्दाः । नाभेस्त्रियवोपरिष्टाद्दाहः ॥ *
छर्द्यां अपथ्यम् ।
नस्यम् । वस्तिः । स्वेदनम् । स्नेहपानम् । रक्त-
स्रावः । दन्तकाष्ठम् । द्रवान्नम् । वीभत्सदर्श-
नम् । भीतिः । उद्वेगः । उष्णस्त्रिग्धासात्म्या-
हृद्यवैरोधिकान्नम् । रम्भा । शिम्बी । कोष-
वती । मधूकम् । चित्रा । सूक्ष्मैला । सर्षपः ।
देवदाली । व्यायामः । छत्रिका । अञ्जनम् ॥ * ॥
अथ तृष्णायां पथ्यम् ।
शोधनम् । वमनम् । निद्रा । स्नानम् । कवलधार-
णम् । दीपदग्धहरिद्रया जिह्वाधःशिरयोर्द्दाहः ।
कोद्रवाः । शालयः । पेयाः । विलेपी । लाज-
शक्तवः । अन्नमण्डः । धन्वरसः । शर्करा । रागः ।
षाडवः । भृष्टमुद्गमसूरचणककृतरसः । रम्भा-
पुष्पम् । तैलकूर्च्चम् । द्राक्षा । पर्पटपल्लवः । क-
पित्थम् । कोलम् । मल्लिका । कुष्माण्डकम् । उपो-
दिका । खर्ज्जूरम् । दाडिमम् । धात्री । कर्कटी ।
नलदाम्बु । जम्बीरम् । करमर्द्दम् । बीजपूरम् ।
गवां पयः । मधूकपुष्पम् । ह्रीवेरम् । तिक्तानि ।
मघुराणि । बालतालाम्वु । शीताम्बु । पयःपेटी ।
प्रपानकम् । माक्षिकम् । सरसीतोयम् । शताह्वा ।
नागकेशरम् । एला । जातीफलम् । पथ्या ।
कुस्तुम्बुरु । टङ्कणम् । घनसारः । गन्धसारः ।
कौमुदी । शिशिरानिलः । चन्दनार्द्रप्रियाश्लेषः ।
रत्नाभरणधारणम् । हिमानुलेपनम् ॥ * ॥
तृष्णाया अपथ्यम् ।
स्नेहः । अञ्जनम् । स्वेदः । धूमपानम् । व्यायामः ।
नस्यम् । आतपः । दन्तकाष्ठम् । गुर्व्वन्नम् ।
अम्लम् । लवणम् । कषायः । कटुः । स्त्रियः ।
दुष्टजलम् । तीक्ष्णम् ॥ * ॥
अथ मूर्च्छायां पथ्यम् ।
सेकः । अवगाहः । मणिः । हारः । शीताः ।
प्रदेहाः । व्यजनानिलः । शीतानि गन्धवन्ति
पानानि । धारागृहम् । शीतमरीचिरोचिः ।
धूमः । अञ्जनम् । लावणम् । अस्रमोक्षः । दाहः ।
सूचीपरितोदनम् । लोम्नां कचानाञ्च लुञ्च-
नम् । नखान्तपीडा । दशनोपदंशः । नासा-
मुखद्वारमरुन्निरोधः । विरेचनम् । छर्द्दनम् ।
लङ्घनम् । क्रोघः । भयम् । दुःखकरी शय्या ।
विचित्रा मनोहराः कथाः । छाया । नभोऽम्भः ।
शतधौतसर्पिः । मृदूनि । तिक्तानि । लाजमण्डः ।
जीर्णयवलोहितशालयः । कौम्भं हविः । मुद्ग-
यूषः । सतीलयूषः । धन्वोद्भवा मांसरसाः ।
रागाः । षाडवाः । गव्यपयः । सिता । पुराण-
कुष्माण्डम् । पटोलम् । मोचम् । हरीतकी ।
दाडिमम् । नारिकेलम् । मधूकपुष्पम् । तण्डु-
लीयः । तुषोदकम् । लघून्यन्नानि । प्रनीर-
नीरम् । सितचन्दनम् । कर्पूरनीरम् । हिम-
वालका । अत्युञ्चशब्दः । अद्भुतदर्शनम् । उत्-
कटगीतम् । उत्कटवाद्यम् । श्रमः । स्मृतिः ।
चिन्तनम् । आत्मबोधः । धैर्य्यम् ॥ * ॥
मूर्च्छायामपथ्यं यथा ।
ताम्बूलम् । पत्रशाकम् । व्यवायः । स्वेदनम् ।
कटुः । तृन्निद्रयोर्वेगरोधः । तक्रम् ॥ * ॥
अथ मदात्यये पथ्यम् ।
संशोधनम् । संशमनम् । स्वपनम् । लङ्घनम् ।
श्रमः । सम्बत्सरसमुत्पन्नशालिषष्टिकयवमुद्ग-
माषगोधूमसतीलाः । रागः । षाडवः । एण-
तित्तिरिलावाजदक्षवर्हिशशानामामिषम् । वेश-
वारः । विचित्रान्नम् । हृद्यमद्यम् । पयः ।
सिता । तण्डुलीयः । पटोलम् । मातुलुङ्गम् ।
परूषकम् । स्वर्ज्जूरम् । दाडिमम् । घात्री ।
नारिकेलम् । गोस्तनी । पुराणसर्पिः । कर्पूरम् ।
प्रनीरम् । शिशिरानिलः । धारागृहम् । चन्द्र-
पादाः । मणयः । मित्रसङ्गमः । क्षौमाम्बरम् ।
प्रियाश्लेषः । उद्धतगीतवादित्रम् । शीताम्ब ।
चन्दनम् । स्नानम् ॥ * ॥
मदात्यये अपथ्यं यथा ।
स्वेदः । अञ्जनम् । धूमपानम् । लावणम् । दन्त-
घर्षणम् । ताम्बू लम् ॥ * ॥
अथ दाहे पथ्यम् ।
शालयः । षष्टिकाः । मुद्गाः । मसूराः । चणकाः ।
यवाः । घन्वमांसरसाः । लाजमण्डः । लाज-
शक्तवः । सिता । शतघौतघृतम् । दुग्धम् ।
पयोभवनवनीतम् । कुष्माण्डम् । कर्कटी ।
मोचम् । पनसम् । स्वादुदाडिमम् । पटोलम् ।
पर्पटम् । द्राक्षा । धात्रीफलम् । परूषकम् ।
शिम्बी । तुम्बी । पयःपेटी । खर्ज्जूरम् । धान्य-
कम् । मिसिः । बालतालम् । पियालम् । शृङ्गा-
टकम् । कशेरुकम् । मधूकपुष्पम् । ह्नीवेरम् ।
पृष्ठ ३/०३३
पथ्या । सर्व्वाणि तिक्तानि । शीताः प्रदेहाः ।
भूवेश्म । सेकः । अभ्यङ्गः । अवगाहनम् ।
पद्मोत्पलदलक्षौमाणां शय्या । शीतलकाननम् ।
विचित्रा कथा । गीतानि । शिशिरः । मञ्जु-
भाषणम् । उशीरचन्दनालेपः । शीताम्बु ।
शिशिरानिलः । घारागृहम् । प्रियास्पर्शः ।
प्रनीरम् । हिमवालुका । सुधांशुरश्मयः । स्नानम् ।
मणयः । मघुररसः ॥ * ॥
दाहे अपथ्यम् ।
विरुद्धान्यन्नपानानि । क्रोधः । वेगधारणम् ।
गजाश्वयानम् । अध्वा । क्षारम् । पित्तकराणि ।
व्यायामः । आतपः । तक्रम् । ताम्बूलम् ।
मधु । रामठम् । व्यवायः । कटुः । तिक्तः ।
उष्णः ॥ * ॥
अथोन्मादे भूतोन्मादे च पथ्यम् ।
मरुद्भवे पूर्ब्बं स्वेदः । पित्तोदभवे पूर्ब्बं विरेकः ।
कफोद्भवे पूर्ब्बं वमनम् । ततःपरं वस्तिविधिः ।
नस्यम् । सन्तर्जनम् । ताडनम् । अञ्जनम् ।
आश्वासनम् । त्रासनम् । बन्धनम् । भयम् ।
हर्षणम् । दानम् । धूपः । दमः । विस्मरणम् ।
प्रदेहः । शिराव्यधः । संशमनम् । सेकः ।
आश्चर्य्यकर्म्माणि । घूमपानम् । धीधैर्य्यम् ।
सत्वम् । आत्मनिवेदनम् । अभ्यञ्जनम् । स्वाप-
नम् । आसनम् । निद्रा । सुशीतान्यनुलेपनानि ।
गोधूमः । मुद्गः । अरुणशालयः । धारोष्णदुग्धम् ।
शतधौतसर्पिः । नवीनघृतम् । पुरातनघृतम् ।
कूर्म्मामिषम् । धन्वरसः । रसालम् । पुराण-
कुष्माण्डफलम् । पटोलम् । ब्रह्मीदलम् । वास्तू-
कम् । तण्डुलीयः । खराश्वमूत्रम् । गगनाम्बु ।
पथ्या । सुवर्णचूर्णम् । नारिकेलम् । द्राक्षा ।
कपित्थम् । पनसम् ॥ * ॥
उन्मादे अपथ्यम् ।
मद्यम् । विरुद्धाशनम् । उष्णभोजनम् । निद्रा-
क्षुत्तृष्णावेगधारणम् । व्यवायः । आषाढफलम् ।
कठिल्लकम् । पत्रशाकम् । तिक्तानि । विम्बी ॥ * ॥
अथापस्मारे पथ्यम् ।
वातोद्भवे पूर्ब्बं वस्तिः । पैत्तिके विरेचनम् ।
श्नैष्मिके वमनम् । परं धूपनम् । अञ्जनम् । नस्यम् ।
शिराव्यधः । दानम् । त्रासनम् । बन्धनम् ।
भयम् । तर्ज्जनम् । ताडनम् । हर्षः । धूम-
पानम् । विस्मयः । धीधैर्य्यम् । आत्मादिविज्ञा-
नम् । स्नानम् । अभ्यञ्जनम् । लोहितशालयः ।
मुद्गाः । गोधूमाः । प्रतनं हविः । कूर्म्मामिषम् ।
घन्वरसः । दुग्धम् । ब्रह्मीदलभ् । वचा । पटो-
लम् । वृद्धकुष्माण्डम् । वास्तूकम् । स्वादुदाडि-
मम् । शोभाञ्जनम् । पयःपेटी । द्राक्षा । धात्री ।
परूषकम् । तैलम् । खराश्बमूत्रम् । गगनाम्बु ।
हरीतकी ॥ * ॥
अपस्मारे अपथ्यम् ।
चिन्ता । शोकभयम् । क्रोधः । अशुचीन्यश-
नानि । मद्यम् । मत्स्यः । विरुद्धान्नम् । तीक्ष्णोष्ण-
गुरुभोजनम् । अतिव्यवायः । आयासः । पूज्य-
पूजाव्यतिक्रमः । पत्रशाकानि । विम्वी । आषाढ-
फलम् । तृष्णानिद्राक्षुधावेगाः ॥ * ॥
अथ वातरोगे पथ्यम् ।
अभ्यङ्गः । मर्द्दनम् । वस्तिः । स्नेहः । स्वेदः ।
अवगाहनम् । संवाहनम् । संशमनम् । प्रावृतिः ।
वातवर्ज्जनम् । अग्निकर्म्म । उपनाहः । भूशय्या ।
स्नानम् । आसनम् । तैलद्रोणी । शिरोवस्तिः ।
शयनम् । नस्यम् । आतपः । सन्तर्पणम् । बृंह-
णम् । किलाटः । दधि । कूर्च्चिका । सर्पिः ।
तैलम् । वसा । मज्जा । स्वाद्बम्ललवणा रसाः ।
नवीनतिलगोधूममाषाः । सम्बत्सरोषितशालि-
षष्टिकाः । कुलत्थरसः । सुरा । ग्राम्या गोऽश्व-
तरोष्ट्ररासभच्छागलादयः । आनूपाः कोल-
महिषन्थङ्कखड्गिगजादयः । औदका हंस-
कादम्बचक्रमद्गुरकादयः । विलेशया भेक-
गोधानकुलश्वाविदादयः । जाङ्गलाः चटक-
कुक्कुटवर्हितित्तिरयः । शिलिन्दः । पर्व्वतः ।
नक्रः । गर्गरः । कवयी । इल्लिशः । एरण्डः ।
चुलुकी । कूर्म्मः । शिशुमारः । तिमिङ्गिलः ।
रोहितः । मद्गुरः । शृङ्गी । वर्म्मी । खुड्डीशः ।
एते झषाः । पटोलम् । शिग्रु । वार्त्ताकुः ।
लशुनम् । दाडिमद्वयम् । पक्वतालम् । रसा-
लम् । नलदाम्बु । परूषकम् । जम्बीरम् ।
वदरम् । द्राक्षा । नागरङ्गम् । मधूकजम् ।
प्रसारणी । गोक्षुरकः । शुक्लाक्षी । पारि-
भद्रकः । पयांसि । पयःपेटी । रुवुतैलम् । गवां
जलम् । मत्स्यण्डिका । ताम्बूलम् । धान्याम्लम् ।
निन्तिडीफलम् । स्निग्धोष्णभोज्यानि । स्निग्धो-
ष्णानुलेपनम् । आमाशयमुपागते विशेषाद्वम-
नम् । पक्वाशयस्थे तथा मांसस्थे स्निग्धविरेच-
नम् । प्रत्याध्मानाध्मानसङ्गे वर्त्तिः लङ्घनं दीप-
नम् । अष्ठीलाख्ये गुल्मविधिः । शुक्रस्थे क्षय-
जित्क्रिया । त्वङ्मांसासृक्सिराप्राप्ते रक्त-
मोक्षणम् ॥ * ॥
वातरोगे अपथ्यम् ।
चिन्ता । प्रजागरः । वेगधारणम् । छर्द्दिः ।
श्रमः । अनशनम् । चणकः । कलायः । नीवार-
कङ्गुयववैणवकोरदूषश्यामाकचूर्णम् । कुरु-
विन्दः । तृणधान्यानि । राजमाषः । मुद्गः ।
तडागसरिदम्बु । करीरम् । जम्बु । कशेरु ।
तलकम् । क्रमुकम् । मृणालम् । निष्पावबीजम् ।
तालफलास्थिमज्जा । शालूकम् । तिन्दुकम् ।
कठिल्लकम् । बालतालम् । विम्बी । पत्रशाकम् ।
उडुम्बरम् । शीताम्बु । रासभपयः । विरुद्ध-
मन्नम् । क्षारः । शुष्कपललम् । क्षतजस्रुतिः ।
क्षौद्रम् । कषायकटुतिक्तरसाः । व्यवायः ।
हस्त्यश्वयानम् । चंक्रमणम् । खट्वा । आध्मानि-
नोऽर्द्दितवतोऽपि विशेषात् स्नानम् । प्रदुष्ट-
सलिलम् । दन्तघर्षणम् ॥ * ॥
अथ वाते गुग्गुलुसेविनां पथ्यम् ।
क्षीरम् । मांसरसाः । यूषाः । कलमादिशालयः ।
यवगोधूममाषाः ॥ * ॥
गुग्गुलावपथ्यम् ।
व्यायामः । आतपः । रूक्षम् । स्नानम् । बहु-
भाषणम् । प्रवातः । मैथुनम् । यानम् ॥ * ॥
अथ वातरक्ते पथ्यम् ।
उत्तानेऽभ्यञ्जनम् सेकः सोपनाहः प्रलेपनम् ।
गम्भीरे स्नेहपानं आस्थापनं विरेचनम् । सर्व्वत्र
सूचीजलौकशृङ्गालावुभिरस्रस्रुतिः । शतधौत-
घृताभ्यङ्गः । मेषीदुग्धावसेचनम् । यवः ।
षष्टिकः । नीवारः । कलमः । अरुणशालिः ।
गोधूमः । चणकः । मुद्गः । तुवरी । मुकुष्टकः ।
अव्यजामहिषीगवां पयः । लावः । तित्तिरिः ।
सर्पद्बिट् । ताम्रचूडादिः । एते विष्किराः ।
प्रत्तदाः शुकदात्यूहकपोतचटकादयः । उपो-
दिका । काकमाची । वेत्राग्रम् । सुनिषण्णकम् ।
वास्तूकम् । कारवेल्लम् । तण्डुलीयः । प्रसारणी ।
पत्तूरः । वृद्धकुष्माण्डम् । सर्पिः । सम्पाकपल्ल-
वम् । पटोलम् । रुवुतैलम् । मृद्वीका । श्वेत-
शर्करा । नवनीतम् । सोमवल्ली । कस्तूरी ।
सितचन्दनम् । शिंशपागुरुदेवाह्वसरलस्नेह-
मर्द्दनम । तिक्तम् ॥ * ॥
वातरक्ते अपथ्यम् ।
दिवास्वप्नः । अग्निसन्तापः । व्यायामः । आतपः ।
मैथुनम् । माषः । कुलत्थः । निष्पावः । कलायः ।
क्षारसेवनम् । अम्बुजानूपमांसानि । विरुद्धानि ।
दधीनि । इक्षुः । मूलकम् । मद्यम् । पिण्या-
कम् । अम्लम । काञ्जिकम् । कटु । उष्णम् ।
गुरु । अभिष्यन्दि । लवणम् । शक्तवः ॥ * ॥
अथोरुस्तम्भे पथ्यम् ।
सर्व्वो रूक्षविधिः । स्वेदः । कोद्रवः । रक्तशालिः ।
यवः । कुलत्थः । श्यामाकः । पुरातनोद्दालाः ।
शोभाञ्जनम् । कारवेल्लम् । पटोलम् । लशुनम् ।
सुनिषण्णम् । काकमाची । वेत्राग्रम् । निम्ब-
पल्लवम् । पत्तूरः । वास्तूकम् । पथ्या । वार्त्ताकुः ।
तप्तवारि । सम्पाकशाकम् । पिण्याकम् । तक्रम् ।
अरिष्टम् । मधु । कटुः । तिक्तः । कषायः ।
क्षीरसेवा । गवां जलम् । यथाशक्तिव्यायामः ।
स्थूलस्याक्रमणम् । अच्छह्रदे सन्तरणम् । नदीषु
प्रतिस्रोतः सन्तरणम् । श्लेष्मापहरणम् । अमा-
रुतकोपनम् ॥ * ॥
ऊरुस्तम्भे अपथ्यम् ।
गुरुशीतद्रवस्निग्धविरुद्धासात्म्यभोजनम् । विरे-
चनम् । स्नेहनम् । वमनम् । रक्तमोक्षणम् ।
वस्तिः ॥ * ॥
अथामवाते पथ्यम् ।
रूक्षस्वेदः । लङ्घनम् । स्नेहपानम् । वस्तिः ।
लेपः । रेचनम् । पायुवर्त्तिः । अब्दोत्पन्नशालि-
कुलत्थाः । जीर्णं मद्यम् । जाङ्गलानां रसः ।
वातश्लेष्मघ्नानि सर्व्वागि । तक्रम् । वर्षाभूः ।
एरण्डतैलम् । रमोनम् । पटोलम् । पत्तूरकम् ।
कारवेल्लम् । वार्त्ताकुः । शिग्रु । तसनीरम् ।
मन्दारः । गोकण्टकः । वृद्धदारः । मल्लातकम् ।
पृष्ठ ३/०३४
गोजलम् । आर्द्वकम् । कटूनि । तिक्तानि ।
दीपनानि ॥ * ॥
आमवाते अपथ्यम् ।
दधिः । मत्स्यः । गुडः । क्षीरम् । उपोदिका ।
माषः । पिष्टकम् । दुष्टनीरम् । पूर्ब्बवातः ।
विरुद्धाशनम् । असात्म्यम् । वेगरोधः । जागरः ।
विषमाशनम् ॥ * ॥
अथ शूले पथ्यम् ।
छर्द्दिः । स्वेदः । लङ्घनम् । पायुवर्त्तिः । वस्तिः ।
निद्रा । रेचनम् । पाचनम् । अब्दोत्पन्नाः
शालयः । वाट्यमण्डः । तप्तक्षीरम् । जाङ्गलानां
रसः । पटोलम् । शोभाञ्जनम् । कारवेल्लम् ।
वार्त्ताकुः । पक्वाम्रम् । द्राक्षा । कपित्थम् । रुच-
कम् । पियालम् । शालिञ्चपत्राणि । वास्तूकम् ।
सामुद्रम् । सौवर्च्चलम् । हिङ्गु । विश्वम् । विडम् ।
शताह्वा । लशुनम् । लवङ्गम् । एरण्डतैलम् ।
सुरभीजलम् । तप्ताम्बु । जम्बीररसः । कुष्ठम् ।
लघूनि । क्षाररजांसि ॥ * ॥
शूले अपथ्यम् ।
विरुद्धान्नपानम् । जागरः । विषमाशनम् ।
रूक्षतिक्तकषायाणि । शीतलानि । गुरूणि ।
व्यायामः । मैथुनम् । मद्यम् । वैदलम् । लव-
णम् । कटु । वेगरोधः । शोकः । क्रोधः ॥ * ॥
अथोदावर्त्तानाहयोः पथ्यम् ।
नारिकेलपुष्पमिश्रितशीतलोदकपानम् । स्नेह-
स्वेदः । विरेकः । वस्तिः । फलवर्त्तिः । अभ्यङ्गः ।
यवः । सृष्टविण्मूत्रमारुतः । ग्राम्योदकम् । आनूप-
रसः । रुवुतैलम् । वारुणी । बालमूलकम् ।
सम्पाकः । त्रिवृत् । तिलः । सुधादलम् । शृङ्ग-
वेरम् । मातुलुङ्गम् । यवक्षारः । हरीतकी ।
लवङ्गम् । रामठम् । द्राक्षा । गोमूत्रम् । लव-
णानि । अधोवातसमुत्थे तु । स्नेहः । स्वेदः ।
वर्त्तिः । वस्तिः । समीरणहरान्नपानम् । तथा
पुरीषजे । वस्तिः । स्वेदः । अभ्यङ्गः । अव-
गाहनम् । फलवर्त्तिः । विड्भेद्यशनपानम् ।
मूत्रवेगसमुत्पन्ने । त्रिविधं वस्तिकर्म्म । स्वेदः ।
अभ्यङ्गः । अवगाहः । सर्पिषावपीडनम् ।
उद्गारोत्थे हिक्काघ्नविधिः । कासजे कासजि-
द्विघिः । क्षवजे । स्वेदनम् । धूमः । औत्तरभक्तिक-
घृतम् । क्षवप्रवर्त्तननस्यम् । ऊर्द्ध्वजत्रुकाभ्यङ्गः ।
तृष्णोत्थे शीतान्नपानम् । जृम्भोत्थे वातजित्-
क्रिया । निद्रावेगोत्थिते क्षीरम् । स्वप्नसंवाह-
नम् । बुभुक्षोत्थे स्निग्धाल्पोष्णलघुभोजनम् ।
वास्पजे वास्पसंमोक्षः । स्वप्नः । मद्यम् । प्रिय-
कथा । श्रमश्वाससमुत्पन्ने विश्रामः । वात-
हारिद्रव्यम् । शुक्रोत्थे वस्तिः । अभ्यङ्गः । अव-
गाहः । चरणायुधः । शालिः । मदिरा ।
क्षीरम् । यौवनगर्व्वितप्रिया । छर्द्द्युत्थे लङ्घ-
नम् । धूमः । भुक्त्वा प्रच्छर्द्दनम् । श्रमः । रूक्षान्न-
पानम् । विरेकः । रक्तमोक्षणम् ॥ * ॥
उदावर्त्तानाहयोरपथ्यम् ।
वमनम् । वेगरोधः । शमीधान्यम् । कोद्रवः ।
नालीचशाकम् । शालूकम् । जाम्बवम् । कर्कटी-
फलम् । पिण्याकम् । सर्व्वमालुकम् । करीरः ।
पिष्टवैकृतम् । विष्टम्भीनि । विरुद्धानि । कषा-
याणि । गुरूणि ॥ * ॥
अथ गुल्मे पथ्यम् ।
स्नेहस्वेदः । विरेकः । वस्तिः । बाहुसिराव्यधः ।
लङ्घनम् । वर्त्तिः । अभ्यङ्गः । स्नेहः । पक्वे तु
पाटनम् । सम्बत्सरसमुत्पन्नकलायरक्तशालयः ।
खडः । कुलत्थयूषः । घन्वमांसरसः । सुरा ।
गवाजयोः पयः । मृद्वीका । परूषकम् । खर्ज्जू-
रम् । दाडिमम् । धात्री । नागरङ्गम् । अम्ल-
वेतसम् । तक्रम् । एरण्डतैलम् । लशुनम् । बाल-
मूलकम् । पत्तूरः । वास्तूकम् । शिग्रु । यव-
क्षारः । हरीतकी । रामठम् । मातुलुङ्गम् ।
त्र्यूषणम् । सुरभीजलम् । स्निग्धोष्णबृंहणलघु-
दीपनान्नानि । वातानुलोमनम् ॥ * ॥
गुल्मे अपथ्यम् ।
सर्व्वं वातकारि । विरुद्धाशनम् । वल्लूरम् । मूल-
कम् । मत्स्थः । मधुरफलम् । शुष्कशाकम् ।
शमीधान्यम् । विष्टम्भीनि । गुरूणि । अघो-
वातशकृन्मूत्रश्रमश्वासाश्रुधारणम् । वमनम् ।
जलपानम् ॥ * ॥
अथ हृद्रोगे पथ्यम् ।
स्वेदः । विरेकः । वमनम् । लङ्घनम् । वस्तिः ।
विलेपी । पुरातनरक्तशालयः । जाङ्गलमृग-
पक्षियूषाः । मुद्गकुलत्थरसाः । रागाः । खडाः ।
काम्बलिकाः । षाडवाः । भव्यम् । पटोलम् ।
कदलीफलम् । पुराणकुष्माण्डम् । रसालम् ।
दाडिमम् । सम्पाकशाकम् । नवमूलकम् । एरण्ड-
तैलम् । गगनाम्बु । सैन्धवम् । द्राक्षा । तक्रम् ।
पुरातनगुडः । शुण्ठी । यमानी । लशुनम् । हरी-
तकी । कुष्ठम् । कुस्तुम्बुरु । कृष्णम् । आर्द्रकम् ।
सौवीरम् । शुक्तम् । मधु । वारुणीरसः । कस्तू-
रिका । चन्दनम् । प्रपानकम् । ताम्बूलम् ॥ * ॥
हृद्रोगे अपथ्यम् ।
तृट्छर्द्दिमूत्रानिलशुक्रकासोद्गारश्रमश्वासविड-
श्रूणां वेगधारणम् । सह्याद्रिविन्ध्याद्रिनदीनां
जलम् । मेषीपयः । दुष्टजलम् । कषायः । विरु-
द्धम् । उष्णम् । गुरु । तिक्तः । अम्लः । चिर-
न्तनपत्रोत्थशाकानि । क्षारः । मधूकम् । दन्त-
काष्ठम् । रक्तस्रुतिः ॥ * ॥
अथ मूत्रकृच्छ्रे पथ्यम् ।
वातोद्भवे अभ्यङ्गः । निरूहः । वस्तिः । स्नेहः ।
अवगाहः । उत्तरवस्तिः । सेकः । पैत्ते अव-
गाहः । शिशिरप्रदेहः । ग्रैष्मो विधिः । वस्ति-
विधिः । विरेकः । श्लेष्मोद्भवे स्वेदः । विरेकः ।
वस्तिः । क्षारः । यवान्नम् । तीक्ष्णम् । उष्णम् ।
त्रिदोषजे अभ्यङ्गपुरःसराणि त्रिमलोदितानि
सर्व्वाण्यमूनि । यथा यथा दोषमयं गणः । पुरा-
तनलोहितशालिः । गोभवतक्रपयोदधीनि ।
धन्धामिषम् । मुद्गरसः । सिता । पुराणकुष्माण्ड-
फलम् । पटोलम् । महार्द्रकम् । गोक्षुरकः ।
कुमारी । गुवाकखर्ज्जूरनारिकेलतालद्रुमाणां
शिरांसि । पथ्या । तालास्थिमज्जा । त्रपुषम् ।
त्रुटिः । शीतपानम् । शीताशनम् । प्रनीर-
नीरम् । हिमवालुका ॥ * ॥
मूत्रकृच्छ्रे अपथ्यम् ।
मद्यम् । श्रमः । निधुवनम् । गजवाजियानम् ।
सर्व्वं विरुद्धाशनम् । विषमाशनम् । ताम्बूलम् ।
मत्स्यः । लवणम् । आर्द्रकम् । तैलभृष्टम् ।
पिण्याकम् । हिङ्गु । तिलः । सर्षपः । वेगरोधः ।
माषः । करीरः । अतितीक्ष्णम् । विदाहि ।
रूक्षम् । अम्लः ॥ * ॥
अथ मूत्राघाते पथ्यम् ।
अभ्यञ्जनम् । स्नेहः । विरेकः । वस्तिः । स्वेदः ।
अवगाहः । उत्तरवस्तिः । पुरातनलोहित-
शालिः । धन्वभवमांसम् । मद्यम् । तक्रम् । पयः ।
दधि । माषयूषः । पुराणकुष्माण्डफलम् । पटो-
लम् । महार्द्रकम् । तालफलास्थिलज्जा । हरी-
तकी । कोमलनारिकेलम् । गुवाकखर्ज्जूरनारि-
केलतालद्रुमाणां मस्तकानि ॥ * ॥
मूत्राघाते अपथ्यम् ।
सर्व्वाणि विरुद्धानि । व्यायामः । मार्गः । शीत-
लम् । रूक्षम् । विदाहि । विष्टम्भि । व्यवायः ।
वेगधारणम् । करीरम् । वमनम् ॥ * ॥
अथाश्मर्य्यां पथ्यम् ।
वस्तिः । विरेकः । वमनम् । लङ्घनम् । स्वेदः ।
अवगाहः । वारिसेचनम् । यवाः । कुलत्थाः ।
प्रपुराणशालयः । मद्यम् । घन्वाण्डजसम्भवरसः ।
पुराणकुष्माण्डफलम् । कशेरुकम् । गोकण्टकः ।
वारुणशाकम् । आर्द्रकम् । पाषाणभेदी । यव-
शूकः । रेणुः । छिन्ना । अश्मनां समाकर्षणम् ॥
अश्मर्य्यां अपथ्यम् ।
मूत्रस्य शुक्रस्य च वेगधारणम् । अम्लः ।
विष्टम्भि । रूक्षम् । गुर्व्वन्नपानम् । विरुद्धपाना-
शनम् ॥ * ॥
अथ प्रमेहे पथ्यम् ।
पूर्ब्बं लङ्घनम् । वमनम् । विरेचनम् । प्रोद्वर्त्त-
नम् । शमनम् । दीपनम् । नीवारः । कङ्गुः ।
यवः । वैणवः । कोरदूषः । श्यामाकः । जूर्णः ।
कुरुविल्वः । मुकुष्टकः । गोधूमः । शालिः ।
कलमः । पुरातनकुलत्थः । मुद्गाढकीचणक-
यूषरसाः । तिलाः । लाजाः । पुरातनसुरा ।
मधु । वाट्यमण्डः । तक्रम् । रासभजलम् ।
महिषीजलम् । कह्वः । जाङ्गलाः कपोतशश-
तित्तिरिलाववर्हिभृङ्गैणवर्त्तकशुकादयः । शोभा-
ञ्जनम् । कुलकम् । कठिल्लकम् । कर्कोटकम् ।
तलकम् । वार्हतम् । औड म्बरम् । लशुनम् ।
नवीनमोचम् । पत्तूरम् । गोक्षुरकम् । मूषिक-
पर्णिशाकम् । मन्दारपत्रम् । अमृता । त्रिफला ।
कपित्थम् । जम्बूः । कशेरु । कमलोत्पलकन्द-
बीजम् । खर्ज्जूरलाङ्गलिकतालतरूणां मस्तकम् ।
व्योषम् । तिन्दुकफलम् । खदिरः । कलिङ्गः ।
पृष्ठ ३/०३५
तिक्तः । कषायः । हस्त्यश्ववाहनम् । अतिभ्रम-
णम् । रविकिरणः । व्यायामः ॥ * ॥
प्रमेहे अपथ्यम् ।
मूत्रवेगः । धूमपानम् । स्वेदः । रक्तमोक्षणम् ।
सदासन्नम् । दिवानिद्रा । नवान्नम् । दधि ।
आनूपमांसम् । निष्पावम् । पिष्टान्नम् । मैथु-
नम् । सौवीरकम् । सुरा । शुक्तम् । तैलम् ।
क्षीरम् । घृतम् । गुडः । तुम्बी । तालास्थिमज्जा ।
विरुद्धाशनम् । कुष्माण्डम् । इक्षुः । दुष्टाम्बु ।
स्वादु । अम्लः । लवणम् । अभिष्यन्दि ॥ * ॥
अथ मेदसि पथ्यम् ।
चिन्ता । श्रमः । जागरणम् । व्यवायः । प्रोद्बर्त्त-
नम् । लङ्घनम् । आतपः । हस्त्यश्वयानम् ।
भ्रमणम् । विरेकः । प्रच्छर्द्दनम् । अपतर्पणम् ।
पुरातना वैणवकोरदूषश्यामाकनीवारप्रियङ्गु-
जूर्णाः । यवः । कुलत्थः । चणकः । मसूरः ।
मुद्गः । तुवरी । मधु । लाजाः । कटुतिक्तकषा-
याणि । तक्रम् । सुरा । चिङ्गटमत्स्यः । दग्ध-
वार्त्ताकुः । फलत्रयम् । यवासकम् । शिरीष-
लोध्रहरीतकीनां चूर्णेन गात्रविलेपनम् । कटु-
त्रयम् । सर्षपतैलम् । एला । सर्व्वाणि रूक्षाणि ।
मुख्यतैलम् । पत्रशाकः । अगुरुलेपनम् । प्रतप्त-
नीराणि । शिलाजतूनि । भोजनात् प्राक् वारि-
पानम् ॥ * ॥
मेदसि अपथ्यम् ।
स्नानम् । रसायनम् । शालिः । गोधूमः । सुख-
शीलता । क्षीरम् । इक्षुविकृतिः । माषः ।
सौहित्यम् । स्वेदनानि । मत्स्यः । मांसम् ।
दिवानिद्रा । स्रक् । गन्धः । मधुराणि । समग्र-
भोजनस्य पश्चात् जलपानम् । अतिमात्रोप-
चिते विशेषाद्बमनक्रिया ॥ * ॥
अथोदररोगे पथ्यम् ।
विरेचनम् । लङ्घनम् । अब्दसम्भवकुलत्थमुद्गा-
रुणशालियवाः । जाङ्गलमृगपक्षिणः । सिता ।
सुरा । माक्षिकम् । सीधुः । माध्वीकम् ।
षाडवः । तक्रम् । रसोनम् । रुवुतैलम् । आर्द्र-
कम् । शालिञ्चशाकम् । कुलकम् । कठिल्लकम् ।
पुनर्नवा । शिग्रुफलम् । हरीतकी । ताम्बू-
लम् । एला । यवशूकम् । आयसम् । अजा-
गवोष्ट्रीमहिषीणां पयः मूत्रञ्च । लघूनि ।
तिक्तानि । दीपनानि । वस्त्रेण सम्बेष्टनम् ।
अग्निकर्म्म । विषप्रयोगः । विशेषतः प्लोहसमु-
द्भवे वामे अग्रवाहौ धमनीव्यधः । वद्धाह्वये
उदकजे क्षतोत्थिते नाभेरधः यथाविधिशस्त्र-
विधिः । समीरणोत्थे आदितः घृतपानम् ।
अभ्यञ्जनम् । अनुवासनम् ॥ * ॥
उदररोगे अपथ्यम् ।
सस्नेहनम् । धूमपानम् । जलपानम् । सिरा-
व्यधः । छर्द्दिः । यानम् । दिवानिद्रा । व्यायामः ।
पिष्टवैकृतम् । औदकानूपमांसम् । पत्रशाकम् ।
तिलः । उष्णानि । विदाहीनि । लवणाशनम् ।
शमीधान्यम् । विरुद्धान्नम् । दुंष्टनीरम् । गुरूणि ।
महेन्द्रगिरिजातानां नदीनां जलम् । विष्ट-
म्भीनि । छिद्रसमुद्भवे विशेषतः स्वेदः ॥ * ॥
अथ शोथे पथ्यम् ।
संशोधनम् । लङ्घनम् । अस्रमोक्षः । स्वेदः ।
प्रलेपः । परिषेचनम् । पुरातनशालियवकुलत्थ-
मुद्गाः । गोधा । शल्लकः । भुजङ्गभुक्तित्तिरि-
ताम्रचूडलावादयो जाङ्गलविष्किराः । कूर्म्मः ।
शृङ्गी । प्रपुराणसर्पिः । तक्रम् । सुरा ।
माक्षिकम् । आसवः । निष्पावः । कठिल्लकम् ।
रक्तशिग्रु । रसोनम् । कर्कोटकम् । मानमूलम् ।
सुवर्च्चला । गृञ्जनकह् । पटोलम् । वेत्राग्रम् ।
वाडिङ्गनम् । मूलकम् । पुनर्नवा । चित्रकम् ।
पारिभद्रः । श्रीपर्णम् । निम्बः । क्षुरपल्लवम् ।
एरण्डतैलम् । कटुका । हरिद्रा । हरीतकी ।
क्षारनिषेवणम् । भल्लातकम् । गुग्गुलुः । आय-
सम् । कटूनि । तिक्तानि । दीपनानि । गोऽजा-
महिषीभवमूत्राणि । कस्तूरिका । शिलाजतु ।
पाण्डुरोगोक्तवह्निकर्म्म ॥ * ॥
शोथे अपथ्यम् ।
पवनसलिलम् । वेगरोधः । विरुद्धपानाशनम् ।
विषमाशनम् । मृद्भक्षणम् । ग्राम्याब्जानूपे
पिशितलवणे । शुष्कशाकम् । नवान्नम् । गौडम् ।
पिष्टान्नम् । दधि । कृशरम् । विज्जलम् । मद्यम् ।
अम्लम् । धानाः । वल्लूरम् । गुरु । असात्म्यम् ।
विदाहि । अरात्रौ स्वप्नः । मैथुनम् ॥ * ॥
अथ वृद्धिव्रध्नाधिकारे पथ्यम् ।
संशोधनम् । वस्तिः । असृग्विमोक्षः । स्वेदः ।
प्रलेपः । अरुणशालयः । एरण्डतैलम् । सुरभी-
जलम् । धन्वामिषम् । शिग्रुफलम् । पटोलम् ।
पुनर्नवा । गोक्षुरः । अग्निमन्थः । ताम्बूलम् ।
पथ्या । सरला । रसोनम् । वाडिङ्गनम् । गृञ्ज-
नकम् । मधूनि । कौम्भं घृतम् । तप्तजलम् ।
तक्रम् । आमवातापहमग्निकारि चान्नपानम् ।
पुराणसुरा । अर्द्धेन्दुवद्वक्षणयोर्द्दाहः । आमा-
शये बाहुशिराव्यधः ॥ * ॥
व्रध्नवृद्धावपथ्यम् ।
विरुद्धपानान्नम् । असात्म्यसेवा । संक्षोभणम् ।
हस्तिहयादियानम् । आनूपमांसानि । दधीनि ।
माषाः । दुग्धानि । पिष्टान्नम् । उपोदिका ।
गुरूणि । शुक्रोत्थितवेगरोधः ॥ * ॥
अथ गलगण्डादौ पथ्यम् ।
छर्द्धिः । विरेचनम् । नस्यम् । स्वेदः । धूमः ।
शिराव्यधः । अग्निकर्म्म । क्षारयोगः । प्रलेपः ।
लङ्घनम् । पुराणघृतपानम् । जीर्णलोहित-
शालयः । यवाः । मुद्गाः । पटोलम् । रक्त-
शिग्रु । कठिल्लकम् । शालिञ्चशाकम् । वेत्रा-
ग्रम् । रूक्षाणि । कटूनि । सर्व्वाणि दीवनानि ।
गुग्गुलुः । शिलाजतु । विशेषतः जिह्वातलस्थ-
सिराद्वयच्छेदः । मणिबन्धोर्द्धं अङ्गुलान्तरास्तिस्रो
रेखाः कार्य्याः । गलगण्डगण्डमालापचीग्रन्थ्य-
र्व्वुदातुरे यथादोषं यथावस्थं एतत् सर्व्वं
पथ्यम् ॥ * ॥
गलगण्डे अपथ्यम् ।
सर्व्वक्षीरेक्षुविकृतिः । आनूपमांसम् । पिष्टा-
न्नम् । अम्लम् । मधुरम् । गुरुद्रव्यम् । अभि-
ष्यन्दिद्रव्यम् ॥ * ॥
अथ श्लीपदे पथ्यम् ।
प्रच्छर्द्दनम् । लङ्घनम् । अस्रमोक्षः । स्वेदः ।
विरेकः । परिलेपनम् । पुरातनषष्टिकशालयः ।
यवाः । कुलत्थाः । लशुनम् । पटोलम् । वार्त्ताकुः ।
शोभाञ्जनम् । कारवेल्लम् । पुनर्नवा । मूलकम् ।
पूतिका । एरण्डतैलम् । सुरभीजलम् । कटूनि ।
तिक्तानि । दीपनानि । वातोद्भवे गुल्फोपरि-
ष्टात् चतुरङ्गुले सिराव्यधः । पैत्तिके गुल्फतले
शिराव्यधः । कफजे अङ्गुष्ठमूले सिराव्यधः ॥ * ॥
श्लीपदे अपथ्यम् ।
पिष्टान्नम् । दुग्धविकृतम् । गुडः । आनूपमामि-
षम् । स्वादुरसः । पारिपात्रसह्यविन्ध्यनदी-
जलम् । पिच्छिलम् । गुरुद्रव्यम् । अभिष्यन्दि-
द्रव्यम् ॥ * ॥
अथ विद्रधौ पथ्यम् ।
आमावस्थे रेचनलेपस्वेदास्रमोक्षणानि । जीर्ण-
श्यामाककलमौ । कुलत्थः । लशुनम् । रक्त-
शिग्रु । निष्पावः । कारवेल्लः । पुनर्नवा ।
श्रीपर्णी । चित्रकम् । क्षौद्रम् । शोथोक्तानि
सर्व्वाणि । पक्वावस्थे शस्त्रकर्म्म । पुराणरक्त-
शालिः । घृतम् । तैलम् । मुद्गरसः । विलेपी ।
घन्वजरसाः । शालिञ्चशाकम् । कदलम् । पटो-
लम् । हिमवालुका । चन्दनम् । तप्ताम्बु ।
शीताम्बु । व्रणोदितं सर्व्वम् ॥ * ॥
विद्रधावपथ्यम् ।
आमावस्थे शोथोक्तान्यपथ्यानि । पक्वावस्थे व्रणो-
क्तान्यपथ्यानि ॥ * ॥
अथ व्रणशोथव्रणसद्योव्रणनाडीव्रणेषु
पथ्यम् ।
विम्लापनम् । रक्तमुक्तिः । उपनाहः । विपा-
टनम् । शोधनम् । रोपणम् । पुराणसित-
शालयः । यवः । षष्टिकः । गोधूमः । जाङ्गलमृग-
पक्षिणः । विलेपी । लाजमण्डः । कटुतैलम् ।
घृतम् । मधु । तैलम् । मसूरम् । तुवरी ।
मुद्गयूषः । शर्करा । आषाढफलम् । वार्त्ताकुः ।
कर्कोटकम् । पटोलम् । कारवेल्लम् । निम्ब-
पत्रम् । वेत्राग्रम् । बालमूलकम् । सुनिषण्ण-
कम् । शालिञ्चशाकम् । तण्डुलीयः । वास्तू-
कम् । त्रिफला । पनसम् । चोचम् । दाडि-
मम् । कटुकाफलम् । जीवन्ती । सैन्धवम् ।
द्राक्षा । स्वादुतिक्तकषायाः । स्निग्धोष्णद्रवो-
त्तरान्नम् । एषणम् । शमनम् । दाहः । स्वेद-
नम् । बन्धनक्रिया । व्रणावचूर्णनम् । लेपः ।
धूपनम् । पत्रधारणम् । उशीरम् । बालव्यज-
नम् । चन्दनम् । तिललेपनम् । तप्तशीताम्बु ।
कर्पूरम् । पक्वतः परा वैकृताः ॥ * ॥
व्रणशोथव्रणसद्योव्रणनाडीव्रणेषु अपथ्यम् ।
नवधान्यम् । तिलः । कलायः । माषः । कुलत्थः ।
पृष्ठ ३/०३६
कृषरः । हिमाम्भः । विविधक्षीरेक्षुविकारः ।
अम्लानि । पत्रशाकम् । अजाङ्गलमांसम् ।
असात्म्यमन्नम् । विदाहि । विष्टम्भि । गुरूणि ।
कटु । अम्लम् । शीतम् । लवणम् । व्यवायः ।
व्यायामः । उच्चैः परिभाषणम् । प्रियासमा-
लोकनम् । अह्नि निद्रा । प्रजागरम् । नितान्त-
चंक्रमणम् । यथास्थितं प्रागधिरोपणम् । नस्यम् ।
ताम्बूलम् । अजीर्णता । प्रचण्डवातः । आतपः ।
धूमः । वृष्टिः । रजः । भयम् । क्रोधः । वमिः ।
प्रहर्षः । शोकः । विरुद्धाशनम् । अम्बुपानम् ।
तीक्ष्णम् । उष्णम् । रूक्षम् । विघट्टनम् । कण्डू-
यनम् । काष्ठनखादितोदः । निरन्नभावः । विष-
मोपचारः ॥ * ॥
अथ भग्ने पथ्यम् ।
शीताम्बु । चन्दनम् । पङ्कप्रदेहः । बन्धनक्रिया ।
शालिः । प्रियङ्गुः । गोधूमः । मुद्गसतीलयो-
र्यूषः । नवनीतम् । घृतम् । क्षीरम् । तैलम् ।
मांसरसः । मधु । पटोलम् । लशुनम् । शिग्रु ।
पत्तूरम् । बालमूलकम् । द्राक्षा । धात्री ।
वज्रवल्ली । लाक्षा । बृंहणम् ॥ * ॥
भग्ने अपथ्यम् ।
लवणम् । कटुकम् । क्षारः । अम्लः । मैथुनम् ।
आतपः । व्यायामः । रूक्षान्नम् ॥ * ॥
अथ भगन्दरे पथ्यम् ।
आमे संशोधनम् । लेपः । लङ्घनम् । रक्त-
मोक्षणम् । पक्वे यथाविधिशस्त्रवह्निक्षार-
कर्म्माणि । सर्षपः । शालिः । मुद्गः । विलेपी ।
जाङ्गलरसः । पटोलम् । शिग्रु । वेत्राग्रम् ।
पत्तूरम् । बालमूलकम् । तिलसर्षपयोस्तैलम् ।
तिक्तवर्गः । घृतम् । मधु ॥ * ॥
भगन्दरे अपथ्यम् ।
विरुद्धान्यन्नपानानि । विषमाशनम् । आतपः ।
व्यायामः । मैथुनम् । युद्धम् । पृष्ठयानम् ।
गुरूणि । रूढव्रणोऽपि नरः सम्बत्सरं एतत्
सर्व्वं परिहरेत् ॥ * ॥
अथोपदंशे पथ्यम् ।
छर्द्दिः । विरेकः । ध्वजमध्यनाडीवेधः ।
जलौका । परिपातनम् । सेकः । प्रलेपः । यवः ।
शालयः । धन्वामिषम् । मुद्गरसः । घृतम् ।
कठिल्लकम् । शिग्रुफलम् । पटोलम् । शालिञ्च-
शाकम् । नवमूलकम् । तिक्तम् । कषायम् ।
मधु । कूपवारि । तैलम् ॥ * ॥
उपदंशे अपथ्यम् ।
दिवानिद्रा । मूत्रवेगः । गुर्व्वन्नम् । मैथुनम् ।
गुडः । आयासः । अम्लम् । तक्रम् ॥ * ॥
अथ शूकदोषे पथ्यम् ।
लेपः । विरेकः । असृङ्मोक्षः । सर्पिःपानम् ।
शालिः । यवः । जाङ्गलमांसम् । मुद्गयूषः ।
कठिल्लकम् । पटोलम् । शिग्रु । ककोटम् ।
पत्तूरम् । बालमूलकम् । वेत्राग्रम् । आषाढ-
फलम् । दाडिमम् । सैन्धवम् । वचा । कूपो-
दकम् । गन्धसारः । कस्तूरी । हिमवालुका ।
तक्रम् । कषायम् । तैलम् ॥ * ॥
शूकदोषे अपथ्यम् ।
मूत्रवेगः । दिवानिद्रा । व्यायामः । मैथुनम् ।
गुडः । विदाहि । गुरुद्रव्यम् । तक्रम् ॥ * ॥
अथ कुष्ठरोगे पथ्यम् ।
पक्षात् पक्षात् छर्द्दनम् । मासात् मासाद्बिरे-
चनम् । त्र्यहात् त्र्यहात् नस्यम् । षष्ठे षष्ठे
मासि अस्रमोक्षणम् । सर्पिर्लेपः । पुराणाः यव-
गोधूमशालिमुद्गाढकीमसूराः । माक्षिकम् ।
जाङ्गलामिषम् । आषाढफलम् । वेत्राग्रम् ।
पटोलम् । बृहतीफलम् । काकमाची । निम्ब-
पत्रम् । लशुनम् । हिलमोचिका । पुनर्नवा ।
मेषशृङ्गम् । चक्रमर्द्ददलम् । भल्लातकम् । पक्व-
तालम् । खदिरः । चित्रकः । वरा । जाती-
फलम् । नागपुष्पम् । कुङ्कुमम् । प्रतनहविः ।
कोषातकी । करञ्जोमातिलसर्षपनिम्बेङ्गुदीभव-
तैलम् । लघूनि अन्नानि । सरलदेवाह्वशिंशपा-
गुरुसम्भवस्नेहः । गोखरोष्ट्राश्वमहिषीणां
मूत्राणि । कस्तूरिका । गन्धसारा । तिक्तानि ।
क्षारकर्म्म ॥ * ॥
कुष्ठरोगे अपथ्यम् ।
पापकर्म्म । कृतघ्नभावः । गुरुनिन्दा । गुरुधर्ष-
णम् । विरुद्धपानाशनम् । दिवानिद्रा । चण्डांशु-
तापः । विषमाशनम् । स्वेदः । रतम् । वेग-
रोधः । इक्षुः । व्यायामः । अम्लम् । तिलः ।
माषः । द्रवगुरुनवान्नानां भोजनम् । विदाहि ।
विष्टम्भि । मूलकम् । सह्याद्रिविन्ध्याद्रिसमुद्भव-
नदीजलम् । आनूपमांसम् । दधि । दुग्धम् ।
मद्यम् । गुडः ॥ * ॥
अथ शीतपित्तोदर्द्दकोठरोगेषु पथ्यम् ।
छर्द्दिः । विरेचनम् । लेपः । असृङ्मोक्षः ।
पुराणशालिः । जाङ्गलामिषमुद्गकुलत्थानां यूषः ।
कर्कोटकम् । कारवेल्लम् । शिग्रु । मूलकपो-
तिका । शालिञ्चशाकम् । वेत्राग्रम् । दाडिमम् ।
त्रिफला । मधु । कटुतैलम् । तप्तनीरम् । पित्त-
श्लेष्महरद्रव्यम् । सर्व्वकटुतिक्तकषायाणि ॥ * ॥
शीतपित्तादावपथ्यम् ।
विविधक्षीरेक्षुविकारः । मत्स्यः । उदकानूप-
भवामिषम् । नवीनमद्यम् । वमिवेगरोधः ।
प्राग्दक्षिणाशापवनः । अह्नि निद्रा । स्नानम् ।
विरुद्धाशनम् । आतपः । स्निग्धम् । अम्लम् ।
मधुरम् । कषायः । गुर्व्वन्नपानानि ॥ * ॥
अथाम्लपित्ते पथ्यम् ।
ऊर्द्ध्वगे पूर्ब्बं वमनम् । अधोगे पूर्ब्बं विरेचनम् ।
पश्चादन्नाशनम् । निरूहः । शालिः । यवः ।
गोधूमः । मुद्गः । जाङ्गलजरसः । तप्तशीत-
जलानि । शर्करा । मधु । शक्तुः । कर्कोटकम् ।
कारवेल्लम् । पटोलम् । हिलमोचिका । वेत्रा-
ग्रम् । वृद्धकुष्माण्डम् । रम्भापुष्पम् । वास्तूकम् ।
कपित्थम् । दाडिमम् । धात्री । तिक्तानि ।
कफपित्तहरपानान्नम् ॥ * ॥
अम्लपित्ते अपथ्यम् ।
नवान्नम् । विरुद्धद्रव्यम् । पित्तकोपकरद्रव्यम् ।
वेगरोधः । तिलः । माषः । कुलत्थः । तैल-
भक्षणम् । अविदुग्धम् । धान्याम्लम् । लवणम् ।
अम्लम् । कटु । गुर्व्वन्नम् । दधि । मत्स्यः ॥ * ॥
अथ विसर्पे पथ्यम् ।
विरेकः । वमनम् । लेपः । लङ्घनम् । रक्त-
मोक्षणम् । पुराणायवगोधूमकङ्गुषष्टिकशालयः ।
मुद्गः । मसूरः । चणकः । तुवरी । जाङ्गलज-
रसः । नवनीतम् । घृतम् । द्राक्षा । दाडि-
मम् । कारवेल्लकम् । वेत्राग्रम् । कुलकम् ।
धात्री । खदिरः । नागकेशरम् । लाक्षा ।
शिरीषः । कर्पूरम् । चन्दनम् । तिललेपनम् ।
ह्नीवेरकम् । मुस्तकम् । सकलानि तिक्तानि ॥
विसर्पे अपथ्यम् ।
व्यायामः । अह्नि शयनम् । सुरतम् । प्रवातः ।
क्रोधः । शोकः । वमनम् । वेगः । असूयनम् ।
शाकम् । विरुद्धाशनम् । दधि । कूर्च्चिका ।
सौवीरकादि । अनेकविधकिलाटः । गुर्व्वन्न-
पानम् । लशुनम् । कुलत्थः । माषः । तिलः ।
सकलमजाङ्गलमांसम् । स्वेदः । विदाहि । लव-
णम् । अम्लम् । कटु । मद्यम् । अर्कप्रभा ॥ * ॥
अथ विस्फोटे पथ्यम् ।
विरेचनम् । छर्द्दनम् । लेपः । लङ्घनम् । पुरा-
तनषष्टिकशालयः । यवः । मुद्गः । मसूरः ।
चणकः । मुकुष्टकः । धन्वामिषम् । गव्यघृतम् ।
कठिल्लकम् । वेत्राग्रम् । आषाढफलम् । पटो-
लम् । ज्योतिष्मती । निम्बदलम् । चन्दनम् ।
तैलम् । सिताभ्रः । तिललेपः । लङ्घनम् ।
बालम् ॥ * ॥
विस्फोटे अपथ्यम् ।
स्वेदः । व्यवायः । व्यायामः । क्रोधः । गुर्व्व-
न्नम् । आतपः । वमिवेगः । पत्रशाकम् ।
प्रवातः । दिवास्वप्नः । ग्राम्योदकम् । आनूप-
मांसम् । विरुद्धान्यशनानि । तिलः । माषः ।
कुलत्थः । लवणाम्लकटूनि । विदाहि । रूक्षम् ।
उष्णम् ॥ * ॥
अथ मसूर्य्यां पथ्यम् ।
पूर्ब्बं लङ्घनवान्तिरेचनशिरावेधाः । शशाङ्को-
ज्ज्वलजीर्णषष्टिकशालयः । चणकः । मुद्गः ।
मसूरः । यवः । कपोतचटकदात्यूहक्रौञ्च-
जीवञ्जीवशुकादयः पक्षिणः । नङ्गलः । काठि-
ल्लम् । आषाढकम् । कर्कोटम् । कदलम् ।
शिग्रु । रुचकम् । द्राक्षा । दाडिमम् । मेध्य-
बृंहणान्नपानम् । कोलम् । माषरसः । अक्ष्णोः
सेकविधौ गवेधुमधुकोद्भूतसुशीतोदकम् । शम्बू-
कोदरकोषनीरम् । कर्पूरचूर्णम् । पक्वे मुद्ग-
रसः । जाङ्गलरसः । शालिञ्चशाकम् । घृतम् ।
निर्गुण्डीजलम् । यक्षघूपविहितो धूपः । शश्वद्-
गोमयभस्मगुण्डनम् । शुष्के शिलापिष्टयोः
पिचुमर्द्दपत्रनिशयोरालेपः । शेषे व्रणोक्त-
क्रिया ॥ * ॥
पृष्ठ ३/०३७
मसूर्य्यामपथ्यम् ।
रतम् । स्वेदः । श्रमः । तैलम् । गुर्व्वन्नम् ।
क्रोधः । आतपः । दुष्टाम्बु । दुष्टपवनः ।
विरुद्धाशनम् । निष्पावः । आनूपशाकम् ।
लवणम् । विषमाशनम् । कटु । अम्लम् । वेग-
रोधः ॥ * ॥
अथ क्षुद्ररोगे पथ्यापथ्यम् । यथा, --
क्षुद्ररोगेषु सर्व्वेषु नानारोगानुकारिषु ।
दोषान् दुष्यानवस्थाश्च निरीक्ष्य मतिमान् भिषक् ।
तस्य तस्य च रोगस्य पथ्यापथ्यानि सर्व्वशः ।
यथादोषं यथादुष्टं यथादृष्टञ्च कल्पयेत् ॥ * ॥
अथ मुखरोगे पथ्यम् ।
स्वेदः । विरेकः । वमनम् । गण्डूषः । प्रतिसार-
णम् । कवलः । असृक्स्रुतिः । नस्यम् । धूमः ।
शस्त्राग्निकर्म्मणी । तृणधान्यम् । यवः । मुद्गः ।
कुलत्थः । जाङ्गलरसः । बृहत्प्रोष्ठी । कार-
वेल्लम् । पटोलम् । बालमूलकम् । कर्पूरनीरम् ।
ताम्बूलम् । तप्ताम्बु । खदिरः । घृतम् । कटु ।
तिक्तम् ॥ * ॥
मुखरोगे अपथ्यम् ।
दन्तकाष्ठम् । स्नानम् ॥ अम्लम् । मत्स्यः ।
आनूपामिषम् । दधि । क्षीरम् । गुडः ।
मांसम् । रूक्षान्नम् । कठिनाशनम् । अधो-
मुखशयनम् । गुरु । अभिष्यन्दकारि । दिवा-
निद्रा ॥ * ॥
अथ कर्णरोगे पथ्यम् ।
स्वेदः । विरेकः । वमनम् । नस्यम् । धूमः ।
सिराव्यधः । गोधूमः । शालिः । मुद्गः । यवः ।
प्रतनहविः । लावः । मयूरः । हरिणः ।
तित्तिरिः । वनकुक्कुटः । पटोलम् । शिग्रु ।
वार्त्ताकुः । सुनिषण्णम् । कठिल्लकम् । रसायन-
द्रव्यम् । ब्रह्मचर्य्यम् । अभाषणम् ॥ * ॥
कर्णरोगे अपथ्यम् ।
विरुद्धान्नपानम् । वेगरोधः । प्रजल्पनम् । दन्त-
काष्ठम् । शिरःस्नानम् । व्यवायः । श्लेष्मलम् ।
गुरु । कण्डूयनम् । तुषारः ॥ * ॥
अथ नासारोगे पथ्यम् ।
निर्व्वातनिलयस्थितिः । प्रगाढोष्णीषधारणम् ।
गण्डूषः । लङ्घनम् । नस्यम् । धूमः । छर्द्दिः ।
सिराव्यधः । कटुचूर्णं नासारन्ध्रे निःक्षिप्य त्रिः
प्रवेशनम् । स्वेदः । स्नेहः । शिरोऽभ्यङ्गः ।
पुराणा यवशालयः । कुलत्थमुद्गयोर्यूषः ।
ग्राम्यजाङ्गलजा रसाः । वार्त्ताकुः । कुलकम् ।
शिग्रु । कर्कोटः । बालमूलकम् । लशुनम् ।
दधि । तप्ताम्बु । वारुणी । कटुत्रयम् । कटु ।
अम्लम् । लवणम् । स्निग्धम् । उष्णम् । लघु-
भोजनम् ॥ * ॥
नासारोगे अपथ्यम् ।
विरुद्धान्नम् । दिवास्वप्नः । अभिष्यन्दि । गुरूणि ।
स्नानम् । क्रोधः । शकृन्मूत्रवाष्पाणां वेगधार-
णम् । शोकः । द्रवम् । भूशय्या ॥ * ॥
अथ नेत्ररोगे पथ्यम् ।
आश्च्योतनम् । लङ्घनम् । अञ्जनम् । स्वेदः ।
विरेकः । प्रतिसारणम् । प्रपूरणम् । नस्यम् ।
असृङ्मोक्षः । शस्त्रक्रिया । लेपनम् । आज्य-
पानम् । सेकः । मनोनिर्वृतिः । अङ्घ्रिपूजा ।
मुद्गः । यवः । लोहितशालिः । लावः । मयूरः ।
वनकुक्कुटः । कूर्म्मः । कुलिङ्गः । कपिञ्जलः ।
कौम्भं हविः । वन्यकुलत्थयूषः । पेया । विलेपी ।
लशुनम् । पटोलम् । वार्त्ताकुः । कर्कोटकः ।
कारवेल्लम् । नवीनमोचम् । नवमूलकम् । पुन-
र्नवा । मार्कवः । काकमाची । पत्तूरशाकम् ।
कुमारिका । द्राक्षा । कुस्तुम्बुरु । माणिमन्थम् ।
लोध्रम् । वरा । क्षौद्रम् । उपानहौ । नारी-
पयः । चन्दनम् । इन्दुखण्डम् । तिक्तम् । लघु ॥
नेत्ररोगे अपथ्यम् ।
क्रोधः । शोकः । मैथुनम् । अश्रुवायुविण्मूत्र-
निद्रावमीनां वेगरोधः । सूक्ष्मेक्षणम् । दन्त-
विघर्षणम् । स्नानम् । निशाभोजनम् । आतपः ।
प्रजल्पनम् । छर्द्दनम् । अम्बुपानम् । मधूक-
पुष्पम् । दधि । पत्रशाकम् । कठिल्लम् ।
पिण्याकः । विरूढकम् । मत्स्यः । सुरा ।
अजाङ्गलमांसम् । ताम्बुलम् । अम्लम् । लव-
णम् । विदाहि । तीक्ष्णम् । कटु । उष्णम् ।
गुर्व्वन्नपानम् ॥ * ॥
अथ शिरोरोगे पथ्यम् ।
स्वेदः । नस्यम् । धूमपानम् । विरेकः । लेपः ।
छर्द्दिः । लङ्घनम् । शीर्षवस्तिः । रक्तोन्मुक्तिः ।
वह्निकर्म्म । उपनाहः । जीर्णसर्पिः । शालिः ।
षष्टिकः । यूषः । दुग्धम् । धन्वमांसम् । पटो-
लम् । शिग्रु । द्राक्षा । वास्तूकम् । कारवेल्लम् ।
आम्रम् । घात्री । दाडिमम् । मातुलुङ्गम् ।
तैलम् । तक्रम् । काञ्जिकम् । नारिकेलम् ।
पथ्या । कुष्ठम् । भृङ्गराजः । कुमारी । मुस्तः ।
उशीरम् । चन्द्रिका । गन्धसारः । कर्परम् ॥ * ॥
शिरोरोगे अपथ्यम् ।
क्षवजृम्भमूत्रवास्पनिद्राविष्ठानां वेगधारणम् ।
अञ्जनम् । दुष्टनीरम् । विरुद्धान्नम् । सह्यविन्ध्य-
सरिज्जलम् । दन्तकाष्ठम् । दिवानिद्रा ॥ * ॥
अथ स्त्रीरोगे पथ्यापथ्यम् ।
यत्पथ्यं यदपथ्यञ्च रक्तपित्तेषु कीर्त्तितम् ।
प्रदरेषु यथादोषं तत्तन्नारी भजेत्त्यजेत् ॥
वातव्याधिमतां पथ्यमपथ्यञ्च यदीरिम् ।
योनिव्यापत्सु सर्व्वासु तद्विद्याच्च यथामलम् ॥ * ॥
अथ गर्भिणीपथ्यम् ।
शालिः । षष्टिकः । मुद्गः । गोधूमः । लाजशक्तुः ।
नवनीतम् । घृतम् । क्षीरम् । रसाला । मधु ।
शर्करा । पनसम् । कदलम् । धात्री । द्राक्षा ।
अम्लम् । स्वादु । शीतलम् । कस्तूरी । चन्दनम् ।
माला । कर्पूरम् । अनुलेपनम् । चन्द्रिका ।
स्नानम् । अभ्यङ्गः । मृदुशय्या । हिमानिलः ।
सन्तर्पणम् । प्रियवाक् । मनोरमविहारः । प्रिय-
ङ्करान्नपानम् ॥ * ॥
गर्भिण्या अपथ्यम् ।
स्वेदनम् । वमनम् । क्षारः । कलहः । विषमा-
शनम् । असात्म्यम् । नक्तसञ्चारः । चौर्य्यम् ।
अप्रियदर्शनम् । अतिव्यवायः । आयासः । भारः ।
गुरुप्रावरणम् । अकालजागरणं स्वप्नश्च ।
कठिनोत्कटकासनम् । शोकः । क्रोधः । भयम् ।
उद्वेगः । श्रद्धा । वेशविधारणम् । उपवासः ।
अध्वगमनम् । तीक्ष्णोष्णगुरुविष्टम्भिभोजनम् ।
नक्तम् । निरशनम् । श्वभ्रकूपेक्षणम् । मद्यम् ।
आमिषम् । उत्तानशयनम् । स्त्रीणामनीप्सि-
तम् ॥ * ॥
अष्टममासमारभ्य गर्भिण्या अपथ्यं यथा, --
तथा रक्तस्रुतिं शुद्धिं वस्तिमायासतोऽष्टमात् ।
एभिर्गभः स्रवेदामः कुक्षौ शुष्येन्म्रियेत वा ॥
भजेन्न नित्यं तिक्ताम्लकटूषणकषायकान् ।
वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः ॥
पित्तलैः खलती पिङ्गः श्वित्री पङ्गः कफात्मभिः ।
अपथ्यमिदमुद्दिष्टं गर्भिणीनां महर्षिभिः ॥ * ॥
अथ प्रसूतायाः पथ्यम् ।
लङ्घनम् । मृदुस्वेदः । गर्भकोष्ठविशोधनम् ।
अभ्यञ्जनम् । तैलपानम् । कटुतिक्तोष्णसेवनम् ।
दीपनम् । पाचनम् । मद्यम् । पुराणषष्टि-
शालयः । कुलत्थः । लशुनम् । शिग्रु । वार्त्ताकुः ।
बालमूलकम् । पटोलम् । मातुलुङ्गम् । ताम्बू-
लम् । दाडिमद्बयम् । श्लेष्मानिलघ्नानि । सप्ता-
हात् परं किञ्चित् बृंहणम् । द्बादशाहात् परं
आमिषम् । सार्ड्घमासात्परं आहारादियन्त्रणा-
त्यागः ॥ * ॥
प्रसूताया अपथ्यम् ।
श्रमः । नस्यम् । रक्तमुक्तिः । मैथुनम् । विषमा-
शनम् । विरुद्धान्नम् । वेगरोधः । असात्म्यम् ।
अतिभोजनम् । दिवानिद्रा । अभिष्यन्दि । वि-
ष्टम्भि गुरुभोजनम् ॥
सूतिकाख्येष रोगेषु वातश्लेष्मोचितानि च ।
तत्तद्रोगानुकूल्ये न पथ्यापथ्यानि निर्द्दिशेत् ॥ * ॥
अथ बालरोगे पथ्यापथ्यम् ।
नृणां ज्वरादिषु यत् पथ्यापथ्यं बालानामौचि-
त्यात् तद्विधेयम् । मन्दाग्नौ यत् पथ्यापथ्यं
बालानां पारिगर्भिके तद्बिधेयम् । आगन्तुको-
न्मादिनां यत् पथ्यापथ्यं बालानां ग्रहरोगिणां
तद्योज्यम् ॥ * ॥
अथ विषरोगे पथ्यम् ।
अरिष्टाबन्धनम् । मन्त्रक्निया । छर्द्दिः । विरे-
चनम् । रूषणम् । शोणिताकृष्टिः । परिषेकः ।
अवगाहनम् । हृदयावरणम् । नस्यम् । अञ्ज-
नम् । प्रतिसारणम् । उत्कर्त्तनम् । प्रधमनम् ।
प्रलेपः । वह्निकर्म्म । उपधानम् । प्रतिविषम् ॥
धूपः । संज्ञाप्रबोधनम् । शालिः । षष्टिकः । कोर-
दूषः । प्रियङ्गुः । मुद्गः । हरेणुः । तैलम् । सर्पिः ।
शिखितित्तिरिलावैणगोधाखुश्वाविदामिषम् ।
वार्त्ताकुः । कुलकम् । धात्री । निव्पावः । तण्डु-
लीयः । मण्डुकपर्णी । जीवन्ती । सुनिषण्णम् ।
पृष्ठ ३/०३८
उपोदिका । कालशाकम् । लशुनम् । दाडि-
मम् । विकङ्कतम् । प्राचीनामलकम् । पथ्या ।
कपित्थम् । नागकेशरम् । गोच्छागनरमूत्राणि ।
तक्रम् । शीताम्बु । शर्करा । अबिदाहीन्य-
न्नानि । सैन्धवम् । मधु । कुङ्कुमम् । पश्चिमो-
त्तरवातः । हरिद्रा । सितचन्दनम् । मुस्तम् ।
शिरीषः । कस्तूरी । तिक्तानि । मधुराणि ।
हेमचूर्णम् ॥ * ॥
विषरोगे अपथ्यम् ।
क्रोधः । विरुद्धाशनम् । अध्यशनम् । व्यवायः ।
ताम्बूलम् । आयासः । प्रवातः । सर्व्वाम्लम् ।
सर्व्वलवणम् । नानाविधसंस्वेदनम् । निद्रा ।
भयम् । धूमविधिः । क्षुधा ॥ * ॥
अथ रोगसङ्करे पथ्यम् ।
एषां गदानां यदि सङ्करः स्या-
त्तत्र प्रयत्नेन भिषङ्मनीषी ।
उक्तेषु पथ्येषु विरोधि यद्य-
त्तत्तत् प्रयुञ्जीत चिकित्सितेषु ॥ * ॥
रोगसङ्करे अपथ्यम् ।
अपथ्यानि च सर्व्वाणि तत्तदरोगोचितानि च ।
रुग्बलाबलविद्वैद्यो वर्ज्जयेद्ब्याधिसङ्करे ॥ * ॥
अथ वातिकरोगे पथ्यम् ।
अभ्यङ्गः । परिमर्द्दनम् । शमनम् । संस्नेहनम् ।
बृंहणम् । स्नेहः । स्वेदनम् । आसना । शय-
नम् । संवाहनम् । वस्तिः । नस्यम् । प्राव-
रणम् । समीरणपरित्यागः । अवगाहः । शिरो-
वस्तिः । विस्मरणम् । दिवाकरकरः । स्नानम् ।
विस्मापनम् । तैलद्रोणी । सरसता । गाढोप-
नाहः । सुरा । भूशय्या । सुखशीलता । स्वा-
द्वम्ला रसाः । मज्जा । तैलम् । वसा । घृतम् ।
नवमाषः । कुलत्थः । तिलः । गोधूमः । मुद्गः ।
कलमः । शालिः । षष्टिकः । पेया । धान्य-
जलम् । पयः । कृषरः । मस्तुः । सुखोष्णो-
दकम् । गोमूत्रम् । नलदाम्बु । दधि । पयः-
पेटी । यवः । कूर्च्चिका । आनूपाःरुरुखड्गि-
कोलमहिषाः । एणः । धन्वोद्भवाः सर्पद्बिट्-
कृकवाकुतित्तिरिकुलिङ्गाः । कुम्भीरः । तिमि-
ङ्गिलः । मकरः । गण्डूपदः । कच्छपः । रोहित-
मत्स्यः । वर्म्मिः । मदगुरः । सिलिन्धः । एरङ्गः ।
शृङ्गी । इल्लिशः । प्रोष्ठी । गर्गरः । पर्व्वतः ।
अन्ये जलजन्तवः । वार्त्ताकुः । कुलकम् । शिग्रु ।
लशुनम् । द्राक्षा । आम्रम् । आम्रातकम् ।
धात्री । दाडिमम् । अम्लवेतसफलम् । कोलम् ।
कपित्थम् । शिवा । पक्वतालम् । वकुलम् ।
गोकण्टकः । वास्तूकम् । शुक्लाक्षी । गणिका ।
सरस्रा । मन्दारपत्रम् । ताम्बूलम् । सित-
शर्करा । लवणः । लोध्रः । तुरुष्कः । अगुरु ।
श्रीवासः । सुरदारु । गुग्गुलुः । ग्रन्थाह्वः ।
कुङ्कुमम् । स्निग्धोष्णविधिः । सञ्चूर्णितं हेम
रजतं सीसकञ्च । जात्युत्पाटनमल्लिकापुष्पाणां
विशाला माला ॥ * ॥
वातिकरोगे अपथ्यम् ।
चिन्ता । जागरणम् । असृङ्मोक्षः । वमिः ।
लङ्घनम् । व्यायामः । गजवाजिवाहनविधिः ।
सन्धारणम् । मैथुनम् । आघातः । अपतर्प-
णम् । प्रपतनम् । धातुक्षयः । क्षोभणम् ।
शोकः । चंक्रमणम् । विरुद्धाशनम् । सम्पक्व-
भुक्तक्रमः । वृद्धत्वम् । जलदागमः । रजनी-
शेषः । अपराह्णः । भयम् । रूक्षात्यल्पकषाय-
तिक्तकटुकक्षारातिशीतानामशनम् । तृण-
धान्यम् । उद्रिका । आढकी । कङ्गुः । उद्दालः ।
मुकुष्टकः । कोद्रवः । यवः । श्यामाकः । जूर्णा-
दयः । शिम्बी । जम्बु । राजमाषः । चणकः ।
मुद्गः । कुलत्थः । विषम् । शालूकम् । क्रमुकम् ।
कशेरु । तलकम् । कठिल्लकम् । तिन्दुकम् ।
कर्कोटम् । नवतालशस्यम् । तालास्थिमज्जा ।
नदीतडागजलम् । करका । निक्षारबीजम् ।
पिण्याकः । शिशिराम्बु । रासभपयः । पत्र-
शाकम् । त्रिवृत् । भूनिम्बम् । कटुका । करी-
रम् । अखिलशुष्कामिषम् । माक्षिकम् । धूमः ।
बद्धमरुत् । रजः । परिभवः । खट्वा ॥ * ॥
अथ पैत्तिके पथ्यम् ।
सर्पिःपानविधिः । विरेचनम् । असृङ्मोक्षः ।
सितशालिः । गोधूमः । आढकिः । धान्यकम् ।
चणकः । मुद्गः । मसूरः । यवः । पर्य्यूषित-
मण्डः । पयः । पयःपेटी । वरा । माक्षिकम् ।
लाजाः । धन्वरसः । घृतानि । सिता । शीतो-
दकम् । उद्भिदः । कर्कोटम् । कदलम् । कण्टकि-
फलम् । वेत्राग्रम् । आषाढकम् । मृद्वीका ।
कोमलकुलकम् । कुष्माण्डम् । इर्व्वारुः । तुम्बी ।
पर्पटकः । अल्पमारिषदलम् । कठिल्लकम् ।
दाडिमम् । धात्री । कोमलतालशस्यम् ।
अभया । खर्जूरम् । औडुम्बरम् । विश्वम् ।
कषायः । तिक्तः । मधुरः । मधूकम् । वरी ।
कांस्यम् । अयः । रजतम् । हेम । कटुका ।
निम्बः । त्रिवृत् । चन्दनम् । हर्म्म्यम् । भूमि-
गृहम् । सुशीतलवनम् । धारागृहम् । चन्द्रिका ।
रम्भाम्भोरुहनव्यपत्रशयनम् । शीताः प्रदेहाः ।
भूशय्या । मणिः । प्रदोषसमयः । गीतम् ।
प्रियालिङ्गनम् । स्नानम् । मित्रसमागमः ।
प्रियकथा । मन्दानिलः । अभ्युक्षणम् । वादित्र-
श्रवणम् । मनोरमतरभावाः । सुलास्येक्षणम् ।
पुन्नागोत्पलपाटलाब्जसुमनःकह्लारपुष्पाणि ।
कर्परम् । प्रनीरनीरम् । शीतक्रिया ॥ * ॥
पैत्तिके अपथ्यम् ।
धूमः । स्वेदनम् । आतपः । निधुवनम् । सन्धा-
रणम् । क्रोधः । क्षारः । अध्वा । गजवाजि-
वाहनविधिः । तीक्ष्णकर्म्म । व्यायामः । अन्न-
विदाहकारिसमयः । ग्रीष्मः । विरुद्धाशनम् ।
मध्याह्नः । जलदात्ययः । रजनीमध्यम् । मध्य-
वयः । व्रीहिः । वेणुफलम् । तिलः । लशुनम् ।
माषः । कुलत्थः । गुडः । निष्पावः । मदिरा ।
अतसी । प्रहीजलम् । घान्याम्लम् । उष्णोदकम् ।
जम्बीरम् । नलदाम्बु । हिङ्गु । लकुचम् ।
मूत्रम् । भल्लातकम् । ताम्बूलम् । दधि । सर्षपः ।
वदरम् । तैलाशनम् । तिन्तिडी । कटु । अम्लम् ।
लवणम् । विदाहि ॥ * ॥
अथ श्लैष्मिके पथ्यम् ।
छर्द्दिः । लङ्घनम् । अञ्जनम् । निधुवनम् ।
प्रोद्वर्त्तनम् । स्वेदनम् । चिन्ता । जागरणम् ।
श्रमः । अतिगमनम् । तृड्वेगधारणम् । गण्डूषः ।
प्रतिसारणम् । प्रधमनम् । हस्त्यश्वयानम् ।
धूमः । प्रावरणम् । नियुद्धम् । अतिसंक्षोभः ।
नस्यम् । भयम् । रूक्षोष्णविधिः । पुरातन-
शालिः । षष्टिका । निष्पावः । तृणधान्यम् ।
चणकः । मुद्गः । कुलत्थरसः । क्षारः । सर्षप-
तैलम् । उष्णजलम् । धन्वामिषम् । राजिका ।
वेत्राग्रम् । कुलकम् । कठिल्लकम् । वार्त्ताकुः ।
औडुम्बरम् । कर्कोटम् । लशुनम् । मोचकुसु-
मम् । शक्राशनम् । शूरणः । निम्बम् । मूलक-
पोतिका । वरुणः । तिक्ता । त्रिवृत् । माक्षि-
कम् । ताम्बूलम् । नलदाम्बु । जीर्णमदिरा ।
व्योषम् । वरा । गोजलम् । लाजाः । सुभृष्ट-
तण्डुलभवम् । तिक्तम् । सुखोष्णालयः । कांस्यम् ।
अयः । अञ्जनम् । मौक्तिकम् । कटुः । कषाय-
रसः ॥ * ॥
श्लैष्मिके अपथ्यम् ।
स्रेहः । अभ्यञ्जनम् । आसनम् । अस्ह्नि शय-
नम् । स्नानम् । विरुद्धाशनम् । पूर्ब्बाह्णः ।
शिशिरः । वसन्तसमयः । रात्र्यादिः । आद्य-
वयः । भुक्तमात्रसमयः । अन्नपानकरणम् ।
माषः । नवतण्डुलः । मत्स्यः । मांसम् । इक्षु-
विकृतिः । दुग्धविकृतिः । तालास्थिमज्जा ।
द्रवः । पेया । भव्यम् । उपोदिका । पनसम् ।
छत्राकम् । आषाढकम् । खर्ज्जूरम् । अनु-
लेपनम् । पयःपेटी । पयः । पायसः । स्वादु ।
अम्लम् । लवणम् । गुरूणि । तुहिनम् । सन्तर्प-
णम् ॥ * ॥
अथ वसन्तर्त्त्यौ पथ्यम् ।
वमनम् । व्यवायः । व्यायामः । भेदः । भ्रमणम् ।
अग्निसेवा । कटुः । तिक्तः । विदाहि । तीक्ष्णम् ।
कषायः । मध्वोदनम् ॥ * ॥
वसन्तर्त्तावपथ्यम् ।
दिवानिद्रा । सन्तर्पणम् । आलस्यम् । सुधांशु-
सेवा । पिण्डालुकम् । स्वादु । गुरूदकान्नम् ।
पिष्टम् । दधि । क्षीरम् । घृतम् ॥ * ॥
अथ ग्रीष्मर्त्तौ पथ्यम् ।
चन्दनम् । शीतवातः । छाया । अम्बु । कक्षा-
शयनम् । प्रसूनम् । सद्यःपयोभावितशीतभक्तम् ।
विशिष्टद्रव्यम् । प्रियभोजंनम् ॥ * ॥
ग्रीष्मर्त्तावपथ्यम् ।
कटु । तिक्तम् । उष्णम् । क्षारम् । अम्लम् ।
रौद्रम् । भ्रमणम् । अग्निसेवा । उन्निद्रता ।
भास्करतप्ततोयस्नानम् । अतिपानम् । दधि ।
तक्रम् । तैलम् ॥ * ॥
पृष्ठ ३/०३९
अथ वर्षासु पथ्यम् ।
लवणम् । अम्लम् । मिष्टम् । सारम् । प्रियम् ।
स्निग्धम् । गुरु । उष्णम् । बल्यम् । अभ्यङ्गः ।
उद्वर्त्तनम् । अग्निसेवा । तप्तान्नपानम् । दधि ॥
वर्षास्वपथ्यम् ।
पूर्ब्बपवनः । वृष्टिः । घर्म्मः । हिमः । श्रमः ।
नदीनीरम् । दिवास्वप्नः । रूक्षम । नित्यमैथु-
नम् ॥ * ॥
शरदि पथ्यम् ।
शीतरसाम्बुपानम् । तरुच्छाया । चन्दनम् ।
इन्दुसेवा । सिता । मुद्गः । मसूरम् । गव्य-
दुग्धम् । इक्षुः । शाल्योदनम् ॥ * ॥
शरद्यपथ्यम् ।
लवणम् । अम्लम् । तीक्ष्णम् । कटु । पिष्टम् ।
अतसी । विदाहि । सुरा । नालम् । दधि ।
तक्रम् । तैलम् । क्रोधः । उपवासः । आतपः ।
मैथुनम् ॥ * ॥
अथ हिमर्त्तौ पथ्यम् ।
तप्तजलम् । उपनाहः । पयः । अन्नम् । पानम् ।
घृतम् । स्त्रीसेवा । वह्निसेवा । गुरूणि । यथेष्ट-
भुक्तम् ॥ * ॥
हिमर्त्तावपथ्यम् ।
दिवानिद्रा । कुभोजनम् । अभोजनम् । लङ्घ-
नम् । पुरातनान्नम् । लघुपाकि । शैत्यम् ।
वार्ग्धोदनम् । शीतजलावगाहः ॥ * ॥
शिशिरे पथ्यम् ।
स्त्री । वाह्नसेवा । मतस्यः । अजमांसम् । दधि ।
दुग्धम् । सर्पिः ॥ * ॥
शिशिरेऽपथ्यम् ।
तीक्ष्णोष्णकट्वम्लकषायतिक्तानि । सामुद्रकम् ।
आर्द्रभोजनम् । दिवानिद्रा । चन्दनम् । चन्द्र-
सेबा । शीतजलस्नानादि ॥ * ॥
माघे विशेषो यथा ।
माघे च शीतद्रवमिष्टपिष्टं
कन्दः कदल्या गुरुशालिभक्तम् ।
इति षडृतुपथ्यापथ्याधिकारः ॥ * ॥
आगन्तुकज्वराणां पथ्यापथ्यं ज्वराधिकारे
न लिखितमतोऽत्र लिख्यते ।
“अभिघातसमुत्थाने पानाभ्यङ्गौ च सर्पिषः ।
क्षतजे व्रणजे चापि क्षतव्रणचिकित्सितम् ॥
ओषधीगन्धविषजे विषपित्तप्रसाधनम् ।
अभिचाराभिशापोत्थे जपहोमादिभेषजम् ॥
उत्पातग्रहपीडोत्थे दानस्वस्त्ययनादयः ।
क्रोधोत्थिते पित्तहरं कामजे कामजित्क्रिया ॥
कामशोकभयोद्भूते सर्व्वा वातहरी क्रिया ।
आश्वासनञ्चेष्टलाभो हर्षदायीनि यानि च ॥
विशेषतः पुनश्चात्र कामक्रोधसमुत्थिते ।
भयशोकसमुद्भूते कामक्रोधोक्तमौषधम् ।
भूताभिषङ्गजे भूतबन्धावेशनताडनम् ।
मनःक्षोभसमुत्पन्ने मनसः सान्त्वनानि च ॥
इत्यागन्तुज्वरे पूर्ब्बैर्भिषाग्भिः पथ्यमिष्यते ।
विष्णोर्नामसहस्रस्य पाठनं श्रवणं श्रुतेः ॥
देवानां ब्राह्मणानाञ्च गुरूणामपि पूजनम् ।
ब्रह्मचर्य्यं तपो होमः प्रदानं नियमो जपः ॥
साधूनां दर्शनं सत्यं रत्नौषधिविधारणम् ।
मङ्गलाचरणञ्चेति वर्गः सर्व्वान् ज्वरान् जयेत् ॥”
आगन्तुकज्वरे अपथ्यम् ।
“अधिवासनकर्म्माणि रक्तस्रग्वस्त्रर्धारणम् ।
वमिवेगं दन्तकाष्ठमसात्म्यमपि भोजनम् ॥
विरुद्धान्यन्नपानानि विदाहीनि गुरूणि च ।
दुष्टाम्वुक्षारमम्लांनि पत्रशाकं विरूढकम् ॥
नलदाम्बु च ताम्वूलं कलिङ्गं लकुचं फलम् ।
आडीमत्स्यञ्च पिण्याकं छत्त्राकं पिष्टवैकृतम् ॥
अभिष्यन्दीनि चैतानि ज्वरितः परिवर्ज्जयेत् ॥”
इति पथ्यापथ्यविनिश्चयः समाप्तः ॥

पद, स्थ्यैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) पदति । इति दुर्गादासः ॥

पद, त् क ङ गतौ । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-आत्मं-सकं-सेट् ।) क ङ, पदयते । इति
दुर्गादासः ॥

पद, य ङ औ गत्याम् । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-सकं-अनिट् ।) य ङ, पद्यते । औ,
पत्ता । इति दुर्गादासः ॥

पदं, क्ली, (पद + ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।’

३ । १ । १३४ । इति अच् ।) व्यवसायः ।
त्राणम् । स्थानम् । (यथा, मनुः । १२ । १२५ ।
“एवं यः सर्व्वभूतेषु पश्यत्यात्मानमात्मना ।
स सर्व्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥”)
चिह्नम् । पादः । वस्तु । इत्यमरः । ३ । ३ । ९३ ॥
शब्दः । वाक्यम् । प्रदेशः । पादचिह्नम् । श्लोक-
पादः । (यथा, हेः रामायणे । १ । २ । १८ ।
“पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥”)
किरणे पुं । इति मेदिनी ॥ पदलक्षणं यथा, --
“वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ।”
इति साहित्यदर्पणे । २ । ४ ॥
श्रीकृष्णपदचिह्नं यथा, --
“सौवर्णीं राजतीं वापि पाषाणनिर्म्मितामपि ।
पादयोश्चाङ्कितां कृत्वा पूजाञ्चैव समाचरेत् ॥
दक्षिणस्य पदाङ्गुष्ठमूले चक्रं विभर्त्त्यजः ।
तत्र नम्रजनस्योग्रसंसारच्छेदनाय सः ॥
मध्यमाङ्गुलिमूले तु धत्ते कमलमच्युतः ।
धातुश्चित्तद्विरेफाणां लोभमायाति शोभनम् ॥
पद्मस्याधो ध्वजं धत्ते सर्व्वानर्थजयध्वजम् ।
कनिष्ठामूलतो वज्रं भक्तपापाद्रिभेदनम् ॥
पार्ष्णिमध्येऽङ्कुशं भक्तचित्तेभवशकारणम् ।
भोगसम्पन्मयं धत्ते यवमङ्गुष्ठपर्व्वणि ।
तथा वामाङ्गुष्ठमूले पाञ्चजन्यस्य लक्षणम् ।
सर्व्वविद्याप्रकाशाय धत्ते च भगवानजः ॥”
इति पाद्मे पातालखण्डे १२ अध्यायः ॥

पदकः, पुं, पदं वेत्ति यः (“क्रमादिभ्यो पुन् ।” ४ । २ ।

६१ । इति वुन् ।) पदज्ञाता । इति व्याकर-
णम् ॥ (यथा, राजतरङ्गिण्याम् । ५ । ४९ ।
“रामजाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् ।
व्याख्यातृपदकञ्चक्रे स तस्मिन् सुरमन्दिरे ॥”)
स्वनामख्यातकण्ठभूषणञ्च । देवपदचिह्नादि-
युक्तत्वात् ॥ (पदमेव इति स्वार्थे के कृते, क्लो ।
पदम् । यथा, महाभारते अनुशासनपर्व्वणि ।
“इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥”)

पदगः, पुं, (पदाभ्यां गच्छतीति । गम ऌगतौ +

“अन्येभ्योऽपि ।” इति डः ।) पदातिकः । इत्य-
मरः । २ । ८ । ६६ ॥ पद्भ्यां गमनकर्त्तरि त्रि ॥

पदन्यासः, पुं, (पदस्य गोपदस्येव न्यासो यत्र ।)

गोक्षुरः । रति शब्दचन्द्रिका ॥ पदस्य विन्यासः ।
यथा, रसमञ्जरी ।
“पदन्यासो गेहाट्वहिरहिफणारोहणसमः
स्वगेहादन्यत् स्याद्भवनमपरद्बीपतुलितम् ।
वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः
पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥”
(तन्त्रोक्तान्नपूर्णामन्त्रस्थपदानां तत्तदङ्गेषु न्यासः ।
यदुक्तं तन्त्रसारज्ञानार्णवे ।
“एकमेकं पुनश्चैकं पुनरेकं द्वयन्ततः ।
चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्व्वति ! ॥
पदान्येतानि देवेशि ! नवद्बारेषु विन्यसेत् ।
मूर्द्धादिगुह्यपर्य्यन्तं पुनस्तेषु वरानने ! ॥
गुह्यादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् ॥”)

पदभञ्जनं, क्ली, (विभक्तियुक्तानां पदानां भञ्जनं

विश्लेषो यत्र । यद्बा, पदानि भज्यन्तेऽनेन ।
भञ्ज + करणे ल्युट् ।) निरुक्तम् । गूढार्थशब्द-
व्याख्या । इति हेमचन्द्रः ॥

पदभञ्जिका, स्त्री, (पदानां भञ्जिका विश्लेषिका ।)

पञ्जिका । टिप्पनी । इति हेमचन्द्रः ॥

पदमाला, स्त्री, (पदानां माला विस्तृतिर्य्यस्याम् ।)

मोहनशीला विद्या । यथा, --
“पदमालां महाविद्यां सर्व्वदेवनमस्कृताम् ।
याचयामि सुरेशानमुमादेहार्द्धधारिणम् ॥”
इति देवीपुराणे ९ अध्यायः ॥
अस्या विवरणं तत्रैव द्रष्टव्यम् । पदश्रेणी च ॥

पदविः, स्त्री, (पद्यते गम्यतेऽनया । पद गतौ +

“पद्यटिभ्यामविः ।” इति अविः ।) पद्धती ।
पन्थाः । इत्यमरः । २ । १ । १५ ॥

पदवी, स्त्री, (पदवि + “कृदिकारान्तादक्तिनः ।”

इति पक्षे ङीष् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥
(यथा, रघुः । ७ । ७ ।
“उत्सृष्टलीलागतिरागवाक्षा-
दलक्तकाङ्कां पदवीं ततान ॥”
पद्धतिः । यथा, तत्रैव । ३ । ५० ।
“अलं प्रयत्नेन तवात्र मा निधाः
पदं पदव्यां सगरस्य सन्ततेः ॥”
पदम् । यथा, पञ्चतन्त्रे । १ । २५८ । “अथ तेन
सिंहाय अमात्यपदवी प्रदत्ता व्याघ्राय शय्या-
पालत्वमिति ॥”)

पदष्ठीवं, क्ली, (पादौ च अष्ठीवन्तौ च तयोः समा-

हारः । “अचतुरविचतुरेति ।” ५ । ४ । ७७ । इति
पृष्ठ ३/०४०
निपातनात् सिद्धम् ।) युगपदुपस्थितचरण-
जानुनी । इति व्याकरणम् ॥

पदाङ्कः, पुं, (पदस्य अङ्कश्चिह्नम् ।) क्रमाङ्कः । पाद-

चिह्नम् । यथा, --
“शाके शायकवेदषोडशमिते श्रीकृष्णशर्म्मार्पय-
न्नानन्दप्रदनन्दनन्दनपदद्बन्दारविन्दं हृदि ।
चक्रे कृष्णपदाङ्कदूतमतुलं प्रीतिप्रदं शृण्वतां
धीरः श्रीरघुरामरायनृपतेराज्ञां गृहीत्वादरात् ॥
इति पदाङ्कदूतकाव्यम् ॥

पदाङ्गी, स्ती, (हंसस्य पदमिव अङ्गं यस्याः । स्तियां

ङीष् ।) हंसपदी । इति राजनिर्घण्टः ॥

पदाजिः, पुं, (पादाभ्यामजतीति । अज गतौ +

“पादे च ।” उणां । ४ । १३१ । इति पादे चोप-
पदे अजेरिण् । “पादस्य पदाज्यातिगोप-
हतेषु ।” ६ । ३ । ५२ । इति पदादेशः । बहुल-
वचनात् अजेर्व्यभावः ।) पदातिकः । इत्य-
मरः । २ । ८ । ६६ ॥

पदातः, पुं, (पदाभ्यामततीति । पद् + अत् + अच् ।)

पादातिकः । इति शब्दरत्नावली ॥

पदातिः, पुं, (पादाभ्यामतति गच्छतीति “पादे

च ।” उणां ४ । १३१ । इति पाद् + अति + इण् ।
“पादस्य पदाज्यातिगोपहतेषु ।” ६ । ३ । ५२ ।
इति पदादेशः ।) पदातिकः । पेयादा इति
भाषा । तत्पर्य्यायः । पत्तिः २ पतगः ३ पादा-
तिकः ४ पदाजिः ५ पद्गः ६ पदिकः ७ । इत्य-
मरः । २ । ८ । ६६ ॥ पदातिकः ८ पादात् ९
पादाविकः १० पदात् ११ पायिकः १२ शव-
रालिः १३ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १ । १३९ । ३१ ।
“गजानश्वान् रथांश्चैव पातयामास पाण्डवः ।
पदातींश्च रथांश्चैव न्यवधीदर्ज्जनाग्रजः ॥”)

पदातिकः, पुं, (पदाति + स्वार्थे कन् ।) पदातिः ।

इति शब्दरत्नावली ॥

पदारः, पुं, (पदं ऋछति प्राप्नोतीति । ऋ + अण् ।)

पादधूलिः । पादालिन्दः । इति मेदिनी ॥

पदार्थः, पुं, पदानां घटपटादीनां अर्थोऽभिधेयः ।

तत्पर्य्यायः । भावः २ धर्म्मः ३ तत्त्वम् ४ सत्त्वम्
५ वस्तु ६ । इति जटाधरः ॥ * ॥ (पदार्था हि
दर्शनमतभेदेन नानाविधाः । तत्र वैशेषिकाणां
मते ।) सप्त पदार्थाः । यथा, --
“द्रव्यं गुणास्तथा कर्म्म सामान्यं सविशेषकम् ।
समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥”
“सप्तानामपि साधर्म्म्यं ज्ञेयत्वादिकमिष्यते ।
द्रव्यादयः पञ्च भावा अनेके समवायिनः ॥
सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥”
इति भाषापरिच्छेदे । २, १४ ॥
“एते पदार्था वैशेषिकप्रसिद्धाः । नैयायिकाना-
मप्यविरुद्धाः ।” इति सिद्धान्तमुक्तावली ॥ गोत-
मोक्तषोडशपदार्थास्तु न्यायशब्दे द्रष्टव्याः ॥
(कपिलमते प्रकृत्यादयः पञ्चविंशतिः । पातञ्जल-
मते तु ईश्वरेण सह षड्विंशतिः । वेदान्तमते
आत्मानात्मभेदात् द्विविधः । तत्र आत्मापि
द्विविधः ईश्वरजीवाद्युपाधिभेदात् । एतावपि
विद्याविद्याभेदेन द्विविधौ । केवलमविद्योप-
हितत्वाद्भेदव्यवहारः । अनात्मापि कारण-
सूक्ष्मस्थूलभेदात् त्रिविधः इति ॥)

पदासनं, क्ली, (पदः पादस्य वा आसनम् ।) पाद-

पीठम् । इति हेमचन्द्रः ॥ पा राखा टुल् ।
इति भाषा ॥

पदिकः, पुं, (पादेन चरतीति । पाद + “पर्पादिभ्यः

ष्ठन् ।” ४ । ४ । १० । इति ष्ठन् । ततः पदादेशश्च ।)
पदातिः । इत्यमरः । २ । ८ । ६७ ॥

पद्गः, पुं, (पद्भ्यां गच्छतीति । पत् + गम् + अन्ये-

भ्योऽपीति डः ।) पदातिकः । इत्यमरः । २ । ८ । ६७ ॥

पद्धतिः, स्त्री, (पद्भ्यां हन्ति गच्छतीति । हन

गतौ + क्तिन् । “हिमकाषिहतिषु
च ।” ६ । ३ । ५४ । इति पद्भावः । “बह्वादिभ्यश्च ।”
४ । १ । ४५ । इति वा ङीष् ।) वर्त्म । (यथा, रघुः
३ । ४६ ।

पद्धती, स्त्री, (पद्भ्यां हन्ति गच्छतीति । हन

गतौ + क्तिन् । “हिमकाषिहतिषु
च ।” ६ । ३ । ५४ । इति पद्भावः । “बह्वादिभ्यश्च ।”
४ । १ । ४५ । इति वा ङीष् ।) वर्त्म । (यथा, रघुः
३ । ४६ ।
“पथः श्रुतेर्दर्शयितार ईश्वराः
मलीमसामाददते न पद्धतिम् ॥”)
पंक्तिः । इति मेदिनी ॥ ग्रन्थार्थबोधकग्रन्थः ।
इति हेमचन्द्रः ॥ पदवी । सा च घोषवसु-
मित्रादिरूपा । यथा । “षष्ठेऽन्नप्राशनं मासि
यद्वेष्टं मङ्गलं कुले इति मनुवचनात् चूडाकार्य्या
यथाकुलमिति याज्ञवल्क्यवचनात् देशानु-
शिष्टं कुलधर्म्ममुख्यं सगोत्रधर्म्मं नहि संत्यजेच्च
इति वामनपुराणाच्च संस्कारमात्रे कुलधर्म्मानु-
रोधेन कालान्तरे मङ्गलविशेषाचरणवत्
शूद्राणां नामकरणे वसुघोषादिरूपपद्धतियुक्त-
नामत्वञ्च बोध्यम् । एवमेव कुल्लूकभट्टः ।” इत्यु-
द्वाहतत्त्वम् ॥

पद्धिमं, क्ली, (पादस्य हिमम् । “हिमकाषिहतिषु

च ।” ६ । ३ । ५४ । इति पद्भावः ।) पदस्य शीत-
लता । इति संक्षिप्तसारव्याकरणम् ॥

पद्मं, क्ली पुं, (पद्यते इति । पद गतौ + “अर्त्तिस्तु-

सुहुस्रिति ।” उणां । १ । १३९ । इति मन् ।
यद्वा, पद्मा लक्ष्मीरस्त्यस्मिन् । “अर्श आदि-
भ्योऽच् ।” ५ । २ । १२३ । इति अच् ।) स्वनाम-
ख्यातपुष्पविशेषः । तत्पर्य्यायः । नलिनम् २
अरविन्दम् ३ महोत्पलम् ४ सहस्रपत्रम् ५
कमलम् ६ शतपत्रम् ७ कुशेशयम् ८ पङ्केरु-
हम् ९ तामरसम् १० सारसम् ११ सरसी-
रुहम् १२ विसप्रसूनम् १३ राजीवम् १४ पुष्क-
रम् १५ अम्भोरुहम् १६ । इत्यमरः । १ । १० ।
३९-४० ॥ पङ्कजम् १७ अम्भोजम् १८ अम्बु-
जम् १९ सरसिजम् २० श्रीवासम् २१ श्रीपर्णम्
२२ इन्दिरालयम् २३ जलेजातम् २४ अब्जम् २५
कञ्जम् २६ नलम् २७ नालीकम् २८ नालिकम्
२९ वनजम् ३० अम्लानम् ३१ पुटकम् ३२
अब्जः ३३ । इति शब्दरत्नावली ॥ अस्य गुणाः ।
कषायत्वम् । मधुरत्वम् । शीतत्वम् । पित्त-
कफास्रनाशित्वञ्च । इति राजवल्लभः ॥ अव-
शिष्टम् कमलशब्दे द्रष्टव्यम् ॥ * ॥ पद्मकम् ।
तच्च गजस्य मुखादिस्थो बिन्दुसमूहः । व्यूह-
विशेषः । (यथा, मनुः ७ । १८८ ।
“यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्” ॥)
निधिभेदः । (यथा, महाभारते । २ । १० । ३६ ।
“निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ ।
सर्व्वान्निधीन् प्रगृह्याथ उपास्तां वै धनेश्वरम्” ॥)
संख्यान्तरम् । तच्च दशार्वुदम् । (यथा, महा-
भारते ।
“अयुतम् प्रयुतञ्चैव पद्मम् खर्वमथार्व्वुदम्” ॥)
दशशङ्खश्च इति मेदिनी ॥ पद्मकाष्ठौषधिः । इति
धरणिः ॥ पुष्करमूलम् । सीसकम् । इति राज-
निर्घण्टः (कल्पविशेषः । यथा, मार्कण्डेये ४७ । ३ ॥
“पद्मावसाने प्रलये निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत” ॥)
शरीरस्थषट्पद्मानि यथा, --
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥
तदूर्द्ध्वे कामबीजन्तु कलशान्तीन्दुनादकम् ।
तदूर्द्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥
तद्वाह्ये हेमवर्णाभम् व-स-वर्णचतुर्द्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥
तदूर्द्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ॥
वादिलान्तषड्र्णेन युक्ताधिष्ठानसंज्ञकम् ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः ॥ १ ॥
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ २ ॥
तदूर्ड्घे नाभिदेशे तु मणिपूरं महत्प्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥
मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥
शिवेनाधिष्ठितं पद्मं विश्वालोकैककारणम् ॥ ३ ॥
तदूर्ड्घेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् ॥
तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् ।
शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ॥
तेनाहताख्यं पद्मं तन्मुनिभिः परिकीर्त्त्यते ।
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ॥ ४ ॥
तदूर्ड्घन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।
स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् ॥
विशुद्धं तनुते यस्मात् जीवस्यस् हंसलोकनात् ।
विशुद्धं पद्ममाख्यातमाकाशाख्यं महत् परम् ॥ ५ ॥
आज्ञाचक्रं तदूर्द्ध्वे तु आत्मनाधिष्ठितं परम् ।
आज्ञा संक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ॥ ६ ॥
कैलासाख्यं तदूर्द्ध्वे तु बोधनीन्तु तदूर्द्ध्वतः ।
एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ! ।
सहस्राराम्बुजं बिन्दुस्थानं तदूर्द्ध्वमीरितम् ॥”
इति तन्त्रसारः ॥

पद्मः, पुं, (पद्यते इति । पद गतौ + “अर्त्तिस्तु

स्विति ।” उणां । १ । १३९ । इति मन् ।) दाश-
रथिः । नागविशेषः । इति धरणिः ॥ (यथा,
महाभारते । २ । ९ । ८ ।
“कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥”
पृष्ठ ३/०४१
पद्मोत्तरात्मजः । स तु द्बादशजिनचक्रवर्त्त्यन्त-
र्गतचक्रवर्त्तिविशेषः । बलदेवः । इति हेमचन्द्रः ।
षोडशरतिबन्धान्तर्गतप्रथमबन्धः । यथा, --
“हस्ताभ्याञ्च समालिङ्ग्य नारी पद्मासनोपरि ।
रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥”
इति रतिमञ्जरी ॥

पद्मकं, क्ली, (पद्ममिव कायतीति । पद्म + कै +

कः । पद्मप्रतिकृतिरक्तवर्णत्वात् तथात्वम् ।)
बिन्दुजालम् । गजस्य मुखादिस्थो बिन्दुसमूहः ।
इत्यमरभरतौ ॥ (यथा, कुमारे । १ । ७ श्लोक-
टीकायां मल्लिनाथः । “अतएव कुञ्जरस्य ये
बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः ।)
पद्मकाष्ठम् । इति मेदिनीधरण्यौ ॥ (यथा,
गारुडे १९८ अध्याये ।
“कर्पूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ।
प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ॥”
अस्य गुणा यथा, भावप्रकाशे ।
“पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ।
विसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तहृत् ।
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणत् ॥”)
कुष्ठम् । इति राजनिर्घण्टः ॥

पद्मकन्दः, पुं, (पद्मस्य कन्दः ।) कमलकन्दः ।

तत्पर्य्यायः । शालूकम् २ पद्ममूलम् ३ कटा-
ह्वयम् ४ शालुकम् ५ जलालूकम् ६ । अस्य
गुणाः । कटुत्वम् । विष्टम्भित्वम् । रूक्षत्वम् ।
रुच्यत्वम् । कषायत्वम् । कफपित्तकाशतृष्णादाह-
विनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“पद्मादिकन्दः शालूकं करहाटश्च कथ्यते ।
मृणालमूलं भिष्माण्डं जलालूकञ्च कथ्यते ॥
शालूकं शीतलं वृष्यं पित्तदाहास्रनुद्गुरु ।
दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम् ॥
संग्राहि मधुरं रूक्षं भिष्माण्डमपि तद्गुणम् ॥”
इति भावप्रकाशः ॥

पद्मकाष्ठं, क्ली (पद्ममिव गन्धवत् काष्ठम् ।)

ओषधिविशेषः । तत्पर्य्यायः । पद्मकम् २ पीत-
कम् ३ पीतम् ४ मालयम् ५ शीतलम् ६
हिमम् ७ शुभम् ८ केदारजम् ९ रक्तम् १०
पाटलापुष्पसन्निभम् ११ पद्मवृक्षम् १२ । अस्य
गुणाः । शीतलत्वम् । तिक्तत्वम् । रक्तपित्त-
विनाशित्वम् । मोहदाहज्वरभ्रान्तिकुष्ठविस्फोट-
शान्तिकारित्वञ्च । इति राजनिर्घण्टः ॥
अपि च भावप्रकाशे ।
“पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् ।
पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ॥
विसर्पदाहविस्फोटकुष्थश्लेष्मास्रपित्तहृत् ।
गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ॥”
इति भावप्रकाशः ॥

पद्मकी [न्,] पुं, (पद्मकं बिन्दुजालमस्त्यस्य ।

इनिः ।) भूर्ज्जवृक्षः । इति शब्दमाला ॥

पद्मकेशरः, पुं, क्ली, (पद्मस्य केशरः ।) किञ्जल्कः ।

इति राजनिर्घण्टः ॥ (यथा, इन्द्रजालसंग्रहे ।
“गोक्षीरैः पेषयेत्तुल्यं पद्मकेशरचन्दनम् ॥”)

पद्मगन्धं, त्रि, (पद्मस्येव गन्धोऽस्य । “उप-

मानाच्च ।” ५ । ४ । १३६ । इति इत् ।
मुग्धबोधमते तु वातूपमानादित्युक्तेर्विभाषा ।)
पद्मस्येव गन्धो यस्य तत् । इति मुग्धबोधव्याक-
रणम् ॥

पद्मगन्धि, त्रि, (पद्मस्येव गन्धोऽस्य । “उप-

मानाच्च ।” ५ । ४ । १३६ । इति इत् ।
मुग्धबोधमते तु वातूपमानादित्युक्तेर्विभाषा ।)
पद्मस्येव गन्धो यस्य तत् । इति मुग्धबोधव्याक-
रणम् ॥

पद्मगर्भः, पुं, (पद्मं गर्भः कुक्षिरिव यस्य । विष्णु-

नाभिकमलजातत्वात् तथात्वम् ।) ब्रह्मा । इति
शब्दरत्नावली ॥ (पद्मस्य हृदयस्थपद्मस्य गर्भ
आसनत्वेन कल्पितो यस्य उपासकैरितिशेषः ।
विष्णुः । यथा, महाभारते । १३ । १४९ । ५१ ।
“पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ॥”
“पद्मस्य हृदयाख्यस्य मध्ये उपास्यत्वात् पद्मगर्भः ।”
इति भाष्यम् ॥
शिवः । यथा, तत्रैव १३ । १७ । १३२ ।
“पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥”)

पद्मचारिणी, स्त्री (पद्ममिव चरतीति । चर +

णिनिः स्त्रियां ङीप् ॥) उत्तरापथभवस्वनाम-
ख्यातवृक्षविशेषः । (स्थलकमलिनी इति ख्याता ॥)
तत्पर्य्यायः । अव्यथा २ अतिचरा ३ पद्मा ४
चारटी ५ । इत्यमरः । २ । ४ १४६ ॥ अस्याः
पर्य्यायान्तरं गुणाश्च स्थलपद्मिनीशब्दे द्रष्टव्याः ॥

पद्मतन्तुः, पुं, (पद्मस्य तन्तुः ।) मृणालम् । इति

राजनिर्घण्टः ॥

पद्मदर्शनः, पुं, (पद्मस्येव दर्शनमस्य ।) श्रीवासः ।

इति शब्दचन्द्रिका ॥ लोवान् इति भाषा ॥

पद्मनाभः, पुं, (पद्मं नाभौ यस्य । “अच्प्रत्यन्वय

पूर्ब्बात् सामलोम्नः ।” ५ । ४ । ७५ । इत्यत्र
“अच्” इति योगविभागादच् । ब्रह्मोत्पत्ति-
कारणीभूतपद्मस्य नाभिजातत्वादस्य तथात्वम् ।)
विष्णुः । इत्यमरः । १ । १ । १० ॥ (यथा, महा-
भारते । १३ । १४९ । १९ ॥
“अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ॥”)
शयने तस्य स्मरणीयत्वं यथा, --
“औषये चिन्तयेद्विष्णुं भोजने च जनार्द्दनम् ।
शयने पद्मनाभञ्च विवाहे च प्रजापतिम् ॥”
इत्यादि बृहन्नन्दिकेश्वरपुराणम् ॥
(हृदयपद्मस्यनाभौ नाभेरीषदुपरिभागे प्रकाश-
नात् महादवः । यथा, महाभारते । १३ ।
१७ । १०५ ।
“पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥”
पद्ममिव वर्त्तुलाकृतिः नाभिर्यस्य । धृतराष्ट्रपुत्त्रा-
णामन्यतमः । यथा, महाभारते । १ । ६७ । ९५ ।
“ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥”
नागविशेषः । यथा, तत्रैव । १२ । ३५५ । ४ ।
“कृताधिवासो धर्म्मात्मा तत्र चक्षुःश्रवा महान् ।
पद्मनाभो महानाभः पद्म इत्येव विश्रुतः ॥”)
भाविजिनविशेषः । इति हेमचन्द्रः ॥ (स्तम्भ-
नास्त्रविशेषः । यथा, गोः रामायणे १ । ३१ । ७ ।
“पद्मनाभो महानाभः सुनाभो दुन्दुभिस्वनः ॥”)

पद्मनाभिः, पुं, (पद्मं नाभौ यस्य । अजिति योग-

विभागस्य असार्व्वत्रिकत्वात् न अच् ।) पद्म-
नाभः । इति द्विरूपकोषः ॥

पद्मनालं, क्ली, (पद्मस्य नालम् ।) मृणालम् । यथा,

“कर्णिका पद्मनालन्तु मृणालं तन्तुलं विसम् ॥”
इति हेमचन्द्रः । ४ । २३१ ॥

पद्मपत्रं, क्ली, (पद्मस्य पत्रमिव । पद्मपर्णसादृश्या-

दस्य तथात्वम् ।) पुष्करमूलम् । इत्यमरः । २ ।
४ । १४५ ॥ (यथा, सुश्रुते चिकित्सितस्थाने ५
अध्याये । “शैवलपद्मकपद्मपत्रप्रभृतिभिः ॥” * ॥
पद्मस्य पत्रम् ।) कमलदलम् ॥ (यथा, हठयोग-
दीपिकायाम् । २ । ७० ।
“अन्तः प्रवर्त्तितोदारमारुतापूरितोदरः ।
पयस्यगाधेऽपि सुखात् प्लवते पद्मपत्रवत् ॥”)

पद्मपर्णं, क्ली, (पद्मस्य पर्णं पत्त्रम् ।) पद्मपत्रम् ।

पुष्करमूलम् । इत्यमरटीका ॥

पद्मपलाशलोचनः, पुं, (पद्मस्य पलाशे पत्त्रे इव

लोचने यस्य । पद्मपुष्पदलाकारचक्षुर्विशिष्टत्वा-
त्तथात्वम् ।) विष्णुः । । यथा, --
“नान्यं ततः पद्मपलाशलोचनाद्-
दुःखच्छिदन्ते मृगयामि कञ्चन ।
यो मृग्यते हस्तगृहीतपद्मया-
श्रियेतरैरङ्ग ! विमृग्यमाणया ॥”
इति श्रीभागवते ४ स्कन्धः ॥

पद्मपाणिः, पुं, (पद्मं पाणौ यस्य ।) ब्रह्मा । इति

शब्दरत्नावली ॥ बुद्धः । सूर्य्यः । इति त्रिकाण्ड-
शेषः ॥ (पद्महस्तके त्रि ॥)

पद्मपुष्पः, पुं, (पद्ममिव पुष्पमस्य ।) कर्णिकार-

वृक्षः । पिकाङ्गपक्षी । इति शब्दचन्द्रिका ॥

पद्मप्रभः, पुं, (पद्मस्येव प्रभा दीप्तिर्यस्य ।) चतु-

र्विंशतिवृत्तार्हदन्तर्गतषष्ठार्हन् । इति हेम-
चन्द्रः ॥ पद्मतुल्यप्रभायुक्ते त्रि ॥

पद्मप्रिया, स्त्री, (पद्मानि प्रियाणि यस्याः ।)

जरत्कारुमुनिपत्नी । मनसादेवी । इति शब्द-
रत्नावली ॥ (गायत्त्रीरूपा महादेवी । यथा,
देवीभागवते । १२ । ६ । ९४ ।
“पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ॥”)

पद्मबन्धः, पुं, (पद्मस्येव बन्धो रचना यस्य ।)

चित्रकाव्यविशेषः । शब्दालङ्कारप्रभेदः । यथा,
“पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।”
अस्य च तथाविधसन्निवेशवशेन चमत्कार-
विधायिनामपि वर्णानां तथाविधश्रोत्राकाश-
समवायविशेषवशेन च चमत्कारविधायिभि-
र्वर्णैरभेदेनोपचारत्वाच्छब्दालङ्कारत्वम् । उदा-
हरणं यथा, साहित्यदर्पणे ॥
“मारमा सुषमा चारु रुचा मार बधूत्तमा ।
मात्त धूर्त्ततमा वासा सा वामा मेस्तु मा रमा ॥”
अद्म पद्मदलेषु वर्णविन्यासक्रमः ॥
पृष्ठ ३/०४२

पद्मबन्धुः, पुं (पद्मस्य कमलस्य बन्धुः । सूर्य्योदये

पद्मस्य प्रकाशतया तथात्वम् ।) सूर्य्यः । इति
शब्दरत्नावली ॥ (पद्मेन बध्यते रुध्यते असौ
निशायां मधुलोभात् इति भावः । बन्ध + उन् ।)
भ्रमरः । इति शब्दचन्द्रिका ॥

पद्मभूः पुं, (पद्मं विष्णुनाभिभवकमलं भूरुत्पत्ति-

स्थानं यस्य । (यद्बा, पद्मात् भवतीति । भू +
क्विप् ।) ब्रह्मा । इति हलायुधः ॥ (अस्योत्पत्ति-
कथा यथा भागवते । ९ । १ । ८ -- ९ ।
“परावरेषां भूतानामात्मा यः पुरुषः परः ।
स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ॥
तस्य नाभेः समभवत् पद्मकोशो हिरण्मयः ।
तस्मिन् जज्ञे महाराज ! स्वयम्भूश्चतुराननः ॥”)

पद्ममुखी, स्त्री, (पद्मस्य मुखमिव मुखं उत्पत्ति-

प्रारम्भो यस्याः । स्त्रियां ङीप् ।) दुरालभा ।
इति शब्दचन्द्रिका ॥ (पद्मस्य मुखमिव मुखं
वदनं यस्य ।) पद्मसदृशमुखविशिष्टे त्रि ॥

पद्मयोनिः, पुं, (पद्मं विष्णुनाभिकमलं योनिरुत्-

पत्तिस्थानं यस्य ।) ब्रह्मा । यथा, --
“अस्माच्च कारणाद्ब्रह्मन् ! पुत्त्रो भवतु मे भवान् ।
पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मयः ॥”
इति कौर्म्मे ९ अध्यायः ॥

पद्मरागः, पुं, (पद्मस्येव रागो यस्य ।) रक्तवर्ण-

मणिविशेषः । माणिक इति भाषा । तत्प-
र्य्यायः । शोणरत्नम् २ । लोहितकः ३ । इत्य-
मरः । २ । ९ । ९२ ॥ लोहितम् ४ । कुरुबिन्दकम् ५ ।
इति शब्दरत्नावली ॥ (बृहत्संहितायां ८२
अध्याये अस्य परीक्षादिकं यथा, --
“सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।
सौगन्धिकजा भ्रमराञ्जनाब्जजम्वूरसद्युतयः ॥
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभि-
र्विद्धाः ।
स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥
स्रिग्धः प्रभानुलेपो स्वच्छोऽर्च्चिष्मान् गुरुः
सुसंस्थानः ।
अन्तःप्रभोऽतिरागा मणिरत्नगुणाः समस्ता-
नाम् ॥
कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः
खण्डाः ।
दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥
भ्रमरशिखिकण्ठवर्णा
दीपशिखासमप्रभो भुजङ्गानाम् ।
भवति मणिः किल मूर्द्धनि योऽनर्घेयः स विज्ञेयः ॥
यस्तं बिभर्त्ति मनुजाधिपतिर्न तस्य
दोषा भवन्ति विषरोगकृताः कदाचित् ।
राष्ट्रे च नित्यमभिवर्षति तस्य देवः
शत्रूश्च नाशयति तस्य मणेः प्रभावात् ॥
षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमा-
णस्य ।
कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥
अर्द्धपलस्य द्वादशकर्षस्यैकस्य षट् सहस्राणि ।
यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥
माषकचतुष्टयं दशशतक्रयं
द्वौ तु पञ्चशतमूल्यौ ॥
परिकल्प्यमन्तराले
मूल्यं हीनाधिकगुणानाम् ॥
वर्ण यूनस्यार्द्धं तेजोहीनस्य मूल्यमष्टांशः ।
अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥
आधूम्रं व्रणबहुलं स्वल्पगुणञ्चाप्नुयाद्द्विशत-
भागम् ।
इति पद्मरागमूल्यं पूर्ब्बाचार्य्यैः समुद्दिष्टम् ॥”)
राजनिर्घण्टोक्तपर्य्यायगुणौ माणिक्यशब्दे द्रष्टव्यौ
तस्य वर्णो यथा, --
“सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् ।
पीतं काणपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥
अशोकपल्लवच्छायममुं सौगन्धिकं विदुः ।
तुम्बुरे छायया नीलं नीलगन्धि प्रकीर्त्तितम् ॥
उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् ।
मध्यमं मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥ * ॥
तथा च ।
बन्धूकगुञ्जासकलेन्द्रगोप-
जवासनासृक्समवर्णशोभाः ।
भ्राजिष्णवो दाडि मबीजवर्णा-
स्तथापरे किंशुकपुष्पभासः ॥
सिन्दूरपद्मोत्पलकुङ्कुमानां
लाक्षारसस्यापि समानवर्णाः ।
सान्द्रे निरागे प्रभया स्वयैव
भान्ति स्वलक्ष्म्या स्फुटमध्यशोभाः ॥
भानोश्च भासामनुवेधयोग-
मासाद्य रश्मिप्रकरेण दूरम् ।
पार्श्वानि सर्व्वाण्यनुरञ्जयन्ति
गुणोपपन्नाः स्फटिकप्रसूताः ॥
कुसुम्भनीलीव्यतिमिश्रराग-
प्रत्यग्ररक्ताम्बरतुल्यभासः ।
तथापरेऽरुष्करकण्टकारी-
पुष्पत्विषो हिङ्गुलकत्विषोऽन्ये ॥
चकोरपुंस्कोकिलसारसानां
नेत्रावभासश्च भवन्ति केचित् ।
अन्ये पुनर्नातिविपुष्पितानां
तुल्यत्विषः कोकनदोदराणाम् ॥
प्रभावकाठिन्यगुरुत्वयोगैः
प्रायः समानाः स्फटिकोद्भवानाम् ।
आनीलरक्तोत्पलचारुभासः
सौगन्धिकाख्या मणयो भवन्ति ॥
यो मन्दराजः कुरुबिन्दजेषु
स एव जातः स्फटिकोद्भवेषु ।
निरर्च्चिषोऽन्तर्ब्बहुलीभवन्ति
प्रभाववन्तोऽपि न तत्समानाः ॥
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।
पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्च्चिषः ॥
वर्णानुयायिनस्तेषामन्ध्रदेशे तथापरे ।
न जायन्ते तु ये केचित् मूल्यलेशमवाप्नुयुः ॥
तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके ।
सधर्म्माणः प्रजायन्ते स्वल्पमूल्याहि ते स्मृताः ॥” *
अथ जात्यादि ।
“माणिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम् ।
ब्रह्मक्षत्त्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥
रक्तश्वे तो भवेद्विप्रस्त्वतिरक्तस्तु क्षत्त्रियः ।
रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्त्यजः ।
पद्मरागो भवेद्विप्रः कुरुविन्दस्तु बाहुजः ।
सौगग्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः ॥
शोणपद्मसमाकारः खदिराङ्गारसप्रभः ।
पद्मरागो द्बिजः प्रोक्तश्छायाभेदेन सर्व्वदा ॥
गुञ्जासिन्दूरबन्धूकनागरङ्गसमप्रभः ।
दाडिमीकुसुमाभासः कुरुविन्द स्तु बाहुजः ॥
हिङ्गुलाभाशोकपुष्पाभमीषत्पीतलोहितम् ।
जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः ॥
आरक्तः कान्तिहीनश्च चिक्कणश्च विशेषतः ।
मांसखण्डसमाभासो ह्यन्त्यजः पापनाशनः ॥”
मांसखण्डस्तु नीलगन्धेः संज्ञा ॥ * ॥
अथ दोषाः ।
“माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः ।
द्विच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा ॥
अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै ।
गुणाश्चत्वार आख्याताश्छायाः षोडश कीर्त्तिताः ॥
छायास्तु पूर्ब्बोक्ता एव ।
“छायाद्वितयसम्बन्धादद्विच्छायं बन्धुनाशनम् ।
द्विरूपं द्बिपदन्तेन माणिक्येन पराभवः ॥
सम्भेदो भिन्नमित्युक्तं शस्त्रघातविधायकः ।
कर्करं कर्करायुक्तं पशुबन्धुविनाशकृत् ॥
दुग्धेनेव समालिप्तमघनीपुटमुच्यते ।
अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥
मधुविन्दुसमच्छायं कोकिलं परिकीर्त्तितम् ।
आयुर्लक्ष्मीयशो हन्ति सदोषं तन्न धारयेत् ॥
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् ।
धूम्रं धूमसमाकारं वैद्युतं भयमावहेत् ॥
तथा, --
“शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः ।
उभयत्र पदं येषां तेन च स्यात् पराभवः ॥
भिन्नेन युद्धे मृत्युः स्यात् कर्करन्धननाशकृत् ।
दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत् ॥
दुःखकृत् स समाख्यातो न नृपै रक्षणीयकः ।
मधुबिन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता ॥
तेषाञ्च बहुभेदाः स्युर्नते धार्य्याः कदाचन ॥”
अथ गुणाः ।
“गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता ॥”
तथा च ।
“वर्णाधिकं गुरुत्वञ्च स्निग्धता समताच्छता ।
अर्च्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥” * ॥
फलम् ।
“ये कर्कराश्छिद्रमलोपदिग्धाः
प्रभाविमुक्ताः परुषा विवर्णाः ।
न ते प्रशस्ता मणयो भवन्ति
समानतो जातिगुणैः समस्तैः ॥
दोषोपसृष्टं मणिमप्रबोधाद्-
बिभर्त्ति यः कश्चन कञ्चिदेकम् ।
पृष्ठ ३/०४३
तं बन्धुदुःखाय सबन्धुवित्त-
नाशादयो दोषगणा भजन्ते ॥
सपत्नमध्येऽपि कृताधिवासं
प्रमादवृत्तावपि वर्त्तमानम् ।
न पद्मरागस्य महागुणस्य
भर्त्तारमापत समुपैति काचित् ॥
दोषोपसर्गप्रभवाश्च ये ते
नोपद्रवास्तं समभिद्रवन्ति ।
गुणैः समुख्यैः सकलैरुपेतं
यः पद्मरागं प्रयतो बिभर्त्ति ॥” * ॥
अस्य परीक्षा यथा, --
“बालार्ककरसंस्पर्शात् यः शिखां लोहितां
वमेत् ।
रञ्जयेदाश्रमं वापि स महागुण उच्यते ॥
दुधे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः ।
वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः ॥
अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः ।
प्रकाशयति सूर्य्यामः सश्रेष्ठः पद्मरागकः ॥
पद्मकोषे तु यो न्यस्तो विकाशयति तत्क्षणात् ।
पद्मरागवरो ह्येष देवानामपि दुर्लभः ॥
सर्व्वारिष्टप्रशमनाः सर्व्वसम्पत्तिदायकाः ।
चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥
यो मणिर्दृ श्यते दूराज्ज्वलदग्निसमच्छविः ।
वंशकान्तिः स विज्ञेयः सर्व्वसम्पत्तिकारकः ॥
पञ्च सप्त नव विंशति रागः
क्षिप्त एव सकलः खलु वस्त्रे ।
वर्ज्जयेद्वमति वा करजाल-
मुत्तरोत्तरमहागुणिनस्ते ॥
नीलं रसं दुग्धरसं जलं वा
ये रञ्जयन्ति द्विशतप्रमाणम् ।
ते ते यथापूर्ब्बमतिप्रशस्ताः
सौभाग्यसम्पत्तिविधानदायकाः ॥ * ॥
परिमाणम् ।
“गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।
पद्मरागस्तुलयति यथापूर्ब्बं महागुणः ॥
क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् ।
पद्मरागस्तुलयति यथापूर्ब्बं महागुणः ॥
वदरीफलतुल्यो यः स्वरदिग्वसुमाषक ।
तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमाषकः ॥
तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः ।
ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः ॥
बिम्बीफलसमाकारो वसुषड्दशतोलकः ।
अतःपरं प्रमाणेन मानेन च न लभ्यते ।
यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात् ॥
केचिच्चारुतराः सन्ति जातीनां प्रतिरूपकाः ।
विजातयः प्रयत्नेन विद्बांस्तानुपलक्षयेत् ॥
कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः ।
श्रीपर्णिकाश्च सदृशा विजातयः पद्मरागाणाम् ॥
तुषोपसर्गात् कलसाभिधान-
माताम्रभावादपि तुम्वुरूत्थम् ।
कार्ष्णात्तथा सिंहलदेशजातं
मुक्ताभिधानं नभसः स्वभावात् ।
श्रीपर्णकं दीप्तिनिराकृतित्वा-
द्विजातिलिङ्गाश्रय एष भेदः ॥”
तथा च ।
“स्नेहप्रदेहो मृदुता लघुत्वं
विजातिलिङ्गं खलु सार्व्वजन्यम् ।
यः श्यामिकां पुष्यति पद्मरागो
यो वा तुषाणामिव चूर्णमध्यः ॥
स्नेहप्रदिग्धो न च यो बिभाति
यो वा प्रमृष्टः प्रजहाति दीप्तिम् ।
आक्रान्तमूर्ड्घा च तथाङ्गुलिभ्यां
यः कालिकां पार्श्वगतां बिभर्त्ति ॥
सम्प्राप्य चोत्क्षेपपथानुवृत्तिं
बिभर्त्ति यः सर्व्वगुणानतीव ।
तुल्यप्रमाणस्य च तुल्यजाते-
र्यो वा गुरुत्वेन भवेन्न तुल्यः ॥
प्राप्यापि रत्नाकरजां स्वजातिं
लक्षेद्गुरुत्वेन गुणेन विद्वान् ॥
अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् ।
घृष्टो योऽत्यन्तशोभावान् गरिमाणं न मुञ्चति ।
स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः ॥
स्वजातकं समुत्थेन विलिखेद्वा परस्परम् ।
वज्रं वा कुरुबिन्दं वा विमुच्यान्योन्यकेनचित् ।
न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः ॥
जातस्य सर्व्वेऽपि मणेर्न जातु
विजातयः कान्तिसमानवर्णाः ।
तथापि नानाकरणार्थमेवं
भेदप्रकारः परमः प्रदिष्टः ॥
गुणोपपन्नेन सहावबद्धो
मणिस्तु धार्य्यो विगुणेन जात्यः ।
न कौस्तुभेनापि सहावबद्धं
विद्वान् विजातिं बिभृयात् कदाचित् ॥
चण्डाल एकोऽपि यथा द्बिजातीन्
समेत्य भूरीनपहन्त्ययत्नात् ।
तथा मणीन् भूरिगुणोपपन्नान्
शक्नोति विद्रावयितुं विजातः ॥” * ॥
अथ मूल्यम् ।
बालार्काभिमुखं कृत्वा दर्पणे धारयेन्मणिम् ।
तत्र कान्तिविभागेन छायाभागं विनिर्द्दिशेत् ॥
वज्रस्य यत्तण्डुलसंख्ययोक्तं
मूल्यं समुन्मापितगौरवस्य ।
तत्पद्मरागस्य गुणान्वितस्य
स्यान्माषकाख्या तुलितस्य मूल्यम् ॥
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।
तावन्मूल्यं तथाशुद्धे कुरुविन्दे विधीयते ॥
सगुणे कुरुबिन्दे च यावन्मूल्यं प्रकीर्त्तितम् ।
तावन्मूल्यचतुर्थांशहीनं स्याद्वै सुगन्धिके ॥
यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः ।
तावन्मूल्यचतुर्थांशं हीयते शूद्रजन्मनि ॥
पद्मरागः पणं यस्तु धत्ते लाक्षारसप्रभः ।
कार्षापणसहस्राणि त्रिंशन्मूल्यं लभेत सः ॥
इन्द्रगोपकसङ्काशः कर्षत्रयधृतो मणिः ।
द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्द्दिशेत् ॥
एकोनो नूयते यस्तु जवाकुसुमसन्निभः ।
कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश ॥
बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते ।
कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥
यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः ।
कार्षापणशतानान्तु विंशतिं मूल्यमादिशेत् ॥
चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः ।
मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् ॥
द्विमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः ।
तस्य मूल्यं विधातव्यं द्बिशतं तत्त्ववेदिभिः ॥
माषकैकमितो यस्तु पद्मरागो गुणान्वितः ।
शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः ॥
अतोऽन्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः ।
स्वर्णद्विगुणमूल्येन मूल्यं तेषां प्रकल्पयेत् ॥
कार्षापणः समाख्यातः पुराणद्बयसम्मितः ।
अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः ॥
काषाया इति विख्याताः स्फटिकप्रभवाश्च ते ।
तेषां दोषान् गुणान् वापि पद्मरागवदादिशेत् ॥
मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।
ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः ॥
चतुर्विधैर्नृपतिभिर्धार्य्या सम्पत्तिहेतवे ।
अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम् ॥”
इति युक्तिकल्पतरौ पद्मरागपरीक्षा ॥

पद्मलाञ्छनः, पुं, (पद्मवत् लाञ्छनं पद्माकारलक्षणं

चिह्नमितिशेषः यस्य ।) ब्रह्मा । सूर्य्यः । कुवेरः ।
राजा । इति मेदिनी ॥ (बुद्धविशेषः । इति
शब्दचिन्तामणिः ॥)

पद्मलाञ्छना, स्त्री, (पद्मं लाञ्छनं यस्याः ।)

तारा । लक्ष्मीः । स्वरस्वती । इति मेदिनी ॥

पद्मवर्णकं, क्ली, (पद्मस्येव वर्णोऽस्य । कप् ।

पुष्करमूलम् । इति जटाधरः ॥ पद्मतुल्यवर्ण-
युक्ते त्रि ॥

पद्मवासा, स्त्री, (पद्मे वासो यस्याः ।) लक्ष्मीः)

इति हेमचन्द्रः ॥

पद्मवीजं, क्लीं, (पद्मस्य वीजम् ।) कमलवीजम् ।

तत्पर्य्यायः । पद्माक्षम् २ गालोड्यम् ३ कन्दली
४ भेण्डा ५ क्रौञ्चादनी ६ क्रौञ्चा ७ श्यामा ८
पद्मपर्क्कटी ९ । अस्य गुणाः । कटुत्वम् । स्वादुत्वम् ।
पित्तच्छर्द्दिदाहास्रशोषनाशित्वम् । पाचनत्वम् ।
रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥
“पद्मवीजं हिमं स्वादु कषायं तिक्तकं गुरु ।
विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम् ॥
कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत् ॥”
इति भावप्रकाशः ॥
(पद्मबीजमालाजपेनाशु साधकः सिद्धिमाप्नुयात् ।
इति तन्त्रशास्त्रे प्रसिद्धिः ॥ तदुक्तं यथा, --
“भक्त्या यो जपते नित्यं पद्मवीजैः सुदेशिकः ।
अचिराल्लभते सिद्धिं सत्यं सत्यं न संशयः ॥”

पद्मवीजाभं, क्ली, (पद्मवीजस्य आभा इव आभा

यस्य । पद्मवीजवत् आभातीति वा । आ +
भा + कः ।) मखान्नम् । इति राजनिर्घण्टः ।
माखाना इति भाषा ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पतनं&oldid=77143" इत्यस्माद् प्रतिप्राप्तम्