शब्दकल्पद्रुमः/नेमः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/९२४

नेमः, पुं, (नयतीति । नी + “अर्त्तिस्तुसुह्विति ।”

उणां । १ । १३९ । इति मन् ।) कालः ।
अवधिः । खण्डम् । प्राकारः । कैतवम् । इति
मेदिनी । मे, १८ ॥ अर्द्धम् । गर्त्तः । इति हेम-
चन्द्रः । ६ । ७० ॥ नाट्यादिः । अन्यः । इति
शब्दरत्नावली ॥ सायंकालः । मूलम् । ऊर्द्ध्वम् ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

नेमिः, स्त्री, (नयति चक्रमिति । नी + “नियो

मिः ।” उणां । ४ । ४३ । इति मिः ।) चक्र-
परिधिः । रथचक्रस्य भूमिस्पर्शिभागः । तत्-
पर्य्यायः । प्रधिः २ । इत्यमरः । २ । ८ । ५६ ॥
नेमी ३ । इति भरतः ॥ (यथा, रघुः । १ । ३९ ।
“मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिख-
ण्डिभिः ॥”)
कूपोपरिस्थपट्टप्रान्तभागः । इति भरतः ॥
(प्रान्तभागः । यथा, रघुः । ९ । १० ।
“अजयदेकरथेन स मेदिनी-
मुदधिनेमिमधिज्यशरासनः ॥”)
भूमिस्थकूपपट्टः । इत्यन्ये । कूपस्य समीपे रज्जु-
धारणार्थं त्रिदारुयन्त्रम् । इति स्वामी ॥ तत्-
पर्य्यायः । त्रिका २ । इत्यमरः । १ । १० । २७ ॥
कूपनिकटसमानस्थानम् । यथा, --
“नेमिर्नेमीतिका च स्यात् कूपान्तिकसमस्थले ॥”
इति शब्दरत्नावली ॥

नेमिः, पुं, जिनविशेषः । इति हेमचन्द्रः । १ । २८ ॥

तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ मथुरादौ
तिनाश इति ख्यातः ॥ (दैत्यविशेषः । यथा,
भागवते । ८ । २१ । १९ ।
“हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः ।
मा युध्यत निवर्त्तध्वं न नः कालोऽयमर्थकृत् ॥”
नयति शत्रून् विनाशमिति । नी + “नियो मिः ।”
उणां ४ । ४३ । इति मिः । वज्रः । इति
निघण्टुः । २ । २० ॥)

नेमिचक्रः, पुं, परीक्षिद्वंशजः असीमकृष्णस्य पुत्त्रः ।

स हस्तिनानगरे नद्या हृते कौशाम्ब्यां पुर्य्यां
राजासीत् । इति श्रीभागवते । ९ । २२ । ३९ ॥
(अस्यैव राज्यशासनसमयनिर्णयो यथा, राजा-
वल्याम् १ परिच्छेदे ।
“गजाह्वये हृते नद्या कोशम्ब्यां निवसन् मुदा ।
षट्सप्ततिमितान् वर्षान् तथा मासत्रयाधिकान् ।
भुक्त्वा भोगान् गतः स्वर्गं सुप्तं राज्येऽभिषिच्य च ॥”)

नेमी, [न्] पुं, (नेम ऊर्द्ध्वमस्यास्तीति । नेम +

इनिः ।) तिनिशवृक्षः । इत्यमरटीकायां भरतः ॥

नेमी, स्त्री, (नेमि + वा ङीष् ।) नेमिः । इत्य-

मरटीकायां भरतः ॥ (तिनिशवृक्षः । पर्य्यायो-
ऽस्या यथा, --
“स्यन्दनस्तिनिशो नेमी -- ॥”
इति वैद्यकरत्नमालायाम् ॥)

नेष्टा, [ऋ] पुं, (नयति शुभमिति । नी + “नप्तृ-

नेष्टृत्वष्ट्रिति ।” उणां २ । ९६ । इति तृन्प्रत्य-
येन साधुः ।) ऋत्विक् । इति संक्षिप्तसारो-
णादिवृत्तिर्भूरिप्रयोगश्च ॥ (त्वष्टृदेवः । इति
सायनः ॥ यथा ऋग्वेदे । १ । १५ । ३ ।
“अभियज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ॥”

नैकटिकः, त्रि, (निकट + “निकटे वसति ।” ४ ।

४ । ७३ । इति ठक् ।) निकटवर्त्ती यथा, --
“व्रातीनव्यालदीप्रास्त्रः सुत्वनः परिपूजयन् ।
पर्षद्वलान्महाब्रह्मैराटनैकटिकाश्रमान् ॥”
इति भट्टिः । ४ । १२ ॥

नैकट्यं, क्ली, निकटस्य भाव इत्यर्थे ष्ण्यप्रत्यय-

निष्पन्नम् । निकटत्वम् ॥ (यथा, कथासरित्-
सागरे । १५ । १२५ ।
“बाधते तञ्च नैकट्यात् सर्व्वं स मगधेश्वरः ।
तत्तत्र रक्षाहेतोश्च विनोदाय च गम्यताम् ॥”)
निकटभवे, त्रि ॥

नैकभेदः, त्रि, (न एको भेदोऽत्रेति ।) उच्चा-

वचम् । अनेकप्रकारः । इत्यमरः । ३ । १ । ८३ ॥

नैकषेयः, पुं, (निकषाया अपत्यमिति । निकषा +

ढक् ।) निकषापुत्त्रः । राक्षसः । इति हला-
युधः ॥

नैगमः, पुं, (निगम एव । स्वार्थे अण् ।) उप-

निषत् । बणिक् । (यथा, रामायणे । १ ।
७७ । २३ ।
“एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥”
“नैगमा बणिजः ।” इति तट्टीकायां रामानुजः ॥)
नागरः । इति मेदिनीशब्दरत्नावल्यौ ॥ नयः ।
(यथा, महाभारते । १२ । १०० । ४ ।
“तेषां प्रंतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ॥”)
ऋतिः । इति हेमचन्द्रः । ३ । ५३१ ॥ त्रि
निगमसम्बन्धिनि, ॥ (निगमशास्त्रवेत्तरि । यथा,
महाभारते । १३ । १६७ । ४ ।
“द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च नित्यशः ॥”)

नैचिकं, क्ली, (नीच + ठक् ।) गोः शिरोदेशः ।

इति हेमचन्द्रः । ४ । ३३६ ॥

नैचिकी, स्त्री, (नीचैश्चरतीति ठक् । यद्वा निचिः

कर्णशिरोदेशः । ततः स्वार्थे कन् । प्रशस्तं निचि-
कमस्याः । ततो ज्योत्स्नादिभ्य इत्यण् ततो
ङीप् ।) उत्तमा गौः । इत्यमरः । २ । ६७ । ९ ॥

नैजं, त्रि, (निजस्येदमिति । निज + अण् ।)

निजसम्बन्धि । स्वीयम् । यथा, --
“ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्व्वतम् ।
आग्नेयस्य च पार्ज्जन्यं नैजं पाशुपतस्य च ॥”
इति श्रीभागवते १० स्कन्धे वाणयुद्धे ॥
(यथा च हरिवंशे भविष्ये । ३३ । ९ ।
“स ददौ दर्शनं नैजं व्याघ्रचर्म्माम्बरो हरः ॥”)

नैत्यं, क्ली, नित्यत्वम् । नित्यस्य भाव इत्यर्थे ष्ण्य-

प्रत्ययनिष्पन्नम् ॥ (नित्यसम्बन्धि । नित्यकर-
णीयं वा ॥)

नैपालः, पुं, (नेपाले नेपालाख्यदेशे भवः अण् ।)

नेपालनिम्बः । इति राजनिर्घण्टः ॥ नेपालदेश-
सम्बन्धिनि, त्रि ॥ (भूनिम्बविशेषः । यथा, भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ।
“किरातकोऽन्यो नैपालः सोऽर्द्धतिक्तो ज्वरा-
न्तकः ॥”
इक्षुजातिभेदः । यथा तत्रैव २ भागे । अथ
सूचीपत्रनैपालीदीर्घपत्रनीलपोराणां गुणाः ॥
“सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः ।
वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥”)

नैपालिकं, स्त्री, (नेपाले नेपालाख्यदेशे भवम् ।

इति ठक् ।) ताम्रम् । इति राजनिर्घण्टः ॥
(ताम्रशब्देऽस्य गुणादिकं व्याख्यातम् ॥)

नैपाली, स्त्री, (नेपाले भवा इत्यण् ङीप् च ।)

नवमल्लिका । (नेवारि इति लोके । यथास्याः
पर्य्यायः ।
“नैपाली कथिता तज्ज्ञैः सप्तला नवमल्लिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मनःशिला । (अस्याः पर्य्यायो यथा, --
“मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।
नैपाली कुनटी गोला शिलादिव्यौषधिः स्मृता ॥”
इति भाप्रकाशः । १ । १ ॥)
शेफालिका । इति मेदिनी । ले, १०४ ॥ नीली ।
इति शब्दरत्नावली ॥

नैपुणं, क्ली, (निपुणस्य भावः कर्म्म वा इति ।

“हायनान्तयुवादिभ्योऽण् ।” ५ । १ । ३० ।
इत्यण् ।) नैपुण्यम् । यथा, माघे । १६ सर्गः ।
“प्रकटान्यपि नैपुणं महत्
परवाच्यानि चिराय गोपितुम् ।
विपरीतमथात्मनो गुणान्
भृशमाकौशलमार्य्यचेतसा ॥”
(यथा, महाभारते । १३ । १८ । ८१ ।
“वैश्यो लाभं प्राप्नुयान्नैपुणञ्च
शूद्रो गतिं प्रेत्य तथा सुखञ्च ॥”)

नैपुण्यं, क्ली, (निपुणस्य भावः कर्म्म वा । “गुण-

वचनब्राह्मणादिभ्यः कर्म्मणि च ।” ५ । १ । १२४ ।
इति ष्यञ् ।) निपुणता । निपुणस्य भाव इत्यर्थे
ष्ण्यप्रत्ययनिष्पन्नम् । यथा, --
“अशक्यः सहसा राजन् भावो बोद्धुं परस्य वै ।
अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥”
इति रामायणे लङ्काकाण्डे १७ सर्गः ॥

नैमित्तिकं, त्रि, (निमित्तादागतं निमित्तभवं वा ।

इति ठक् ।) निमित्तजन्यम् । यथा, --
“नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।
तथा तथैव कार्य्याणि नात्र कालं विचारयेत् ॥”
इति ग्रहयागतत्त्वम् ॥
माससंवत्सरादिविशेष नियम-शून्यावश्यकर्त्तव्य-
कादाचित्कनिमित्तोत्पन्नं पुत्त्रजन्मादिनिमि-
त्तकश्राद्धादि । यथा, --
“नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे ।
तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥”
इति मलमासतत्त्वम् ॥
(निमित्तं वेत्ति निमित्तबोधकग्रन्थमधीते वा इति
ठक् । निमित्तशास्त्राभिज्ञे तदध्ययनकर्त्तरि च ॥)

नैमित्तिकक्रिया, स्त्री, (नैनित्तिकी चासौ क्रिया-

चेति निमित्तजन्या क्रियेत्यर्थः ।) निमित्तनिश्चय-
वदधिकारिकर्त्तव्यकर्म्म । यथा, --
“नित्यां नैमित्तिकीं काम्यां क्रियां पुंसामशेषतः ।
समाख्याहि द्विजश्रेष्ठ सर्व्वज्ञो ह्यसि मे मतः ॥
उर्व्व उवाच ।
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रितम् ।
तदहं कथयिष्यामि शृणुष्वैकमना मम ॥
पृष्ठ २/९२५
जातस्य जातकर्म्मादि क्रियाकाण्डमशेषतः ।
पुत्त्रस्य कुर्व्वीत पिता श्राद्धञ्चाभ्युदयात्मकम् ॥”
इति विष्णुपुराणे ३ अंशे ९ अध्यायः ॥
(यथा, मार्कण्डेये । ३० । १ ।
“नित्यं नैमित्तिकञ्चैव नित्यनैमित्तिकन्तथा ।
गृहस्थस्य तु यत् कर्म्म तन्निशामय पुत्त्रक ! ॥”)

नैमित्तिकदानं, क्ली, (निमित्तमाश्रित्य दीयते इति

दा + भावे ल्युट् । अस्य निरुक्तिर्थथा ।) निमित्त-
निश्चयवदधिकारिकर्त्तव्यदानम् । यथा, --
“यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥”
इति गरुडपुराणम् ॥

नैमित्तिकलयः, पुं, (नैमित्तिकः ब्रह्मणो दिवाव-

साननिमित्तवशात् यो लयः ।) प्रलयविशेषः ।
यथा, --
“चतुर्युगसहस्रान्ते ब्राह्मो नैर्मित्तिको लयः ।
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥
उत्तिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः ।
ते तु पीत्वा जलं सर्व्वं शोषयन्ति जगत्त्रयम् ॥
भूर्भुवःस्वर्म्महर्लोकसंस्था यान्ति जनं जनाः ।
रुद्रो भूत्वा त्वसौ विष्णुः पातालानि दहत्यधः ॥
विष्णुर्दहेत्त्रिलोकञ्च मुखान्मेघान् सृजत्यलम् ।
वर्षन्ते च वर्षशतं नानावर्णा महाघनाः ॥
विष्ण्वास्यजः शतं वाति वर्षाणां वायुरूर्ज्जितः ॥
विष्णुरेकार्णवे पीत्वा सव्व ब्रह्मस्वरूपधृक् ।
शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ।
सुप्त्वा युगसहस्रं स जगद्भूयोऽसृजद्धरिः ॥”
इति गरुडपुराणम् ॥
(तथा च भागवते । ८ । २४ । ७ ।
“आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको
लयः ॥”)

नैमित्तिकस्नानं, क्ली, (नैमित्तिकञ्च तत् स्नानञ्चेति ।

निमित्तवशात् निमित्तमाश्रित्य विधेयं स्नान-
मित्येके ।) निमित्तनिश्चयवदधिकारिकर्त्तव्य-
स्नानम् । यथा, --
“चाण्डालशवयूपादि स्पृष्ट्वा स्नातां रजस्वलाम् ।
स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं हि
तत् ॥”
इति गरुडपुराणम् ॥

नैमिषारण्यं, क्ली, (निमिषान्तरमात्रेण निहतं

आसुरं बलं यत्र ततस्तत् नैमिषं अरण्य-
मिति ।) अरण्यविशेषः । तस्योत्पत्तिर्यथा, --
“तेन चक्रेण तत्सैन्यमासुरं दौर्ज्जयं क्षणात् ।
निमिषान्तरमात्रेण भस्मवद्बहुधा कृतम् ॥
एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा ।
उवाच निमिषेणेदं निहतं दानवं बलम् ॥
अरण्येऽस्मिंस्त्वतस्त्वेवन्नैमिषारण्यसंज्ञकम् ।
भविष्यति यथार्थं वै ब्राह्मणानां विणेषतः ॥”
इति वराहपुराणे गौरमुखं प्रति भगवद्
वाक्यम् ॥ अपि च ।
“देशं वः संप्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ।
उक्त्वा मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ॥
क्षिप्तमेतन्मया चक्रमनुव्रजत माचिरम् ।
यत्रास्य नेमिः शीर्य्येत स देशः पुरुषर्षभ ॥
ततो मुमोच तच्चक्रं ते च तत् समनुव्रजन् ।
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्य्यत ॥
नैमिषं तत् स्मृतं नाम्ना पुण्यं सर्व्वत्र पूजितम् ।
सिद्धचारणसङ्कीर्णं यक्षगन्धर्व्वसेवितम् ॥
स्थानं भगवतः शम्भोरेतन्नैमिषमुत्तम् ।
अत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः ।
तपस्तप्त्वा पुरा देवा लेभिरे प्रचुरान् भगान् ॥”
इति कौर्म्मे ४० अध्याये षट्कुलीयान् प्रति
ब्राह्मवाक्यम् ॥ (क्वचि त्तालव्यशान्तोऽपि पाठो
दृश्यते तत्र तु ब्रह्मणा विसृष्टस्य मनोमयचक्रस्य
नेमिः शीर्य्यते यत्रेति व्युत्पत्त्र्या नेमिशं नेमिश-
मेव नैमिशं तदाख्यमरण्यमिति बोध्यम् । तथा
च वायवीये ।
“एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ।
यत्रास्य शीर्य्यते नेमिः स देशः तपसः शुभः ॥
इत्युक्त्रा सूर्य्यसङ्काशं चक्रं सृष्ट्वा मनोमयम् ।
प्रणिपत्य महादेवं विससर्ज्ज पितामहः ॥
तेऽपि हृष्टतमा विप्राः प्रणम्य जगतां प्रभुम् ।
प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्य्यत ॥
तद्बनं तेन विख्यातं नैमिशं मुनिपूजितम् ॥”
तथा च देवीभागवते । १ । २ । २८-३२ ।
“कलिकालविभीताः स्मो नैमिशारण्यवासिनः ।
ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥
कथितं तेन नः सर्व्वान् गच्छन्त्वेतस्य पृष्ठतः ।
नेमिः संशीर्य्यते यत्र स देशः पावनः स्मृतः ॥
कलेस्तत्र प्रवेशो न कदाचित् संभविष्यति ।
तावत् तिष्ठन्तु तत्रैव यावत् सत्ययुगं पुनः ॥
तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् ।
चालयन्निर्गतस्तूर्णं सर्व्वदेशदिदृक्षया ॥
प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः ।
तेनेदं नैमिशं प्रीक्तं क्षेत्रं परमपावनम् ॥”)

नैमेयः, पुं, (नि + मेङ् प्रणिदाने + अचो यत् इति

यत् । ततः स्वार्थे प्रज्ञाद्यण् । मिधातुना
निष्पन्नमिति केचित् ।) परिवर्त्तः । विनिमयः ।
इत्यमरः । २ । ९ । ८० ॥

नैयग्रोधं, क्ली, (न्यग्रोधस्य विकारः ततःप्लक्षादिभ्यो-

ऽण् ।” ४ । ३ । १६४ । इत्यण् । तस्य विधान-
सामर्थ्यात् फले न लुक् । “न्यग्रोधस्य च केव-
लस्य ।” ७ । ३ । ५ । इति न वृद्धिरैजागमश्च ।)
न्यग्रोधफलम् । इत्यमरः । २ । ४ । १८ ॥ न्यग्रोध-
जातचमसादि । इति वोपदेवरामतर्कवागीशौ ॥

नैयङ्कवं, त्रि, (न्यङ्कोर्व्विकार इति । “प्राणिरज-

तादिभ्योऽञ् ।” ४ । ३ । १५४ । इति विकारे-
ऽञ् ।) न्यङ्कुमृगजातवस्त्रचर्म्मादि । इति वोप-
देवरामतर्करागीशौ ॥

नैयत्यं, क्ली, (नियतस्येदं इति । नियत + ष्यञ् ।)

नियतत्वम् । नियतस्य भाव इत्यर्थे ष्ण्यप्रत्यय-
निष्पन्नम् ॥

नैयायिकः, पुं, (न्यायं गोतमादिप्रणीतं तर्कशास्त्र-

विशेषं अधीते, वेत्ति वा । न्याय + “क्रतूक्थादि-
सूत्राट्ठक् ।” ४ । २ । ६० । इति ठक् ।) न्यायवेत्ता ।
न्यायाध्येता । तत्पर्य्यायः । स्वाक्षपादः २
साम्बादिकः २ आर्हितः ४ । इति जटाधरः ॥
(यथा, महाभारते । १ । २ । १६९ ।
“नैयायिकानां मुख्येन वरुणस्यात्मजेन च ।
पराजितो यत्र बन्दी विवादेन महात्मना ॥”)

नैरन्तर्य्यं, क्ली, (निरन्तरस्य भाव इति । निरन्तर

+ ष्यञ् ।) निरन्तरत्वम् । निरन्तरस्य भाव
इत्यर्थे ष्ण्यप्रत्ययनिष्प्रन्नम् ॥ (यथा मनौ । ९ ।
२७१ श्लोकस्य टीकायां कुल्लूकभट्टः ।
“ये च ददति तानपि नैरन्तर्य्याद्यपराधगोचरा
पेक्षया घातयेत् ॥”)

नैराश्यं, क्ली, (निराशस्य निरभिलाषस्य भावः

इति । निराश + ष्यञ् ।) आशाया अभावः ।
यथा, --
“आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
आशया पिङ्गला वेश्या कृत्वा जन्म निरर्थकम् ॥”
इति ब्रह्मवैवर्त्तीयश्रीकृष्णजन्मखण्डे ९७ अः ।
(यथा, महाभारते । १ । २२५ । १ ।
“स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः ।
पितामहमुपागच्छत् संक्रुद्धो हव्यवाहनः ॥”)

नैरुक्तं, त्रि, (निरुक्तस्येदं निरुक्तौ भवं वा । “अणृ-

गयनादिभ्यः ।” ४ । ३ । ७३ । इति अण् ।)
निरुक्तसम्बन्धि । यथा, “षष्ठेत्यत्र ष्टुभिष्टेति थस्य
ठः न डः इति नैरुक्तम् ॥” इति रामतर्क-
वागीशः ॥
(निरुक्तं ग्रन्थविशेषं वेत्ति अधीते वा । निरुक्त-
वेत्ता । यथा, मनुः । १२ । १११ ।
“त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्म्मपाठकः ॥”)

नैरृतः, पुं, (निरृतेरपत्यम् । इत्यण् ।) राक्षसः ।

(यथा, महाभारते । १ । ६६ । ५५ ।
“तस्यापि निरृ तिर्भार्य्या नैरृता येन
राक्षसाः ॥”)
पश्चिमदक्षिणकोणाधिपतिः । इत्यमरः । १ ।
१ । ६३, १ । ३ । २ ॥ ज्योतिषमते तत्कोणा-
धिपती राहुः । यथा, --
“सूर्य्यः शुक्रः क्षमापुत्त्रः सैंहिकेयः शनिः शशी ।
सौम्यस्त्रिदशमन्त्री च प्रागादिदिगधीश्वराः ॥”
इति ज्योतिस्तत्त्वम् ॥

नैरृती, स्त्री, (निरृतेरियमिति । निरृतोऽधि-

ष्ठाता यस्यां वा । अण् ङीप् च ।) अबाची-
प्रतीच्योर्मध्या दिक् । नैरृतकोणः । इति
राजनिर्घण्टः जटाधरश्च ॥ (यथा, मनुः ।
११ । १०५ ।
“स्वयं वा शिश्नवृषणाबुत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥”)

नैर्गुण्यं, क्ली, (निर्गुणस्य भावः कर्म्म वा । निर्गुण +

ष्यञ् ।) निर्गुणत्वम् । यथा, श्रीभागवते । २ ।
१ । ९ ।
“परिनिष्ठितोऽपि नैर्गुंण्ये उत्तमश्लाकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥”
(यथा, महाभारते । २ । १६ । १५ ।
पृष्ठ २/९२६
“गुणान्निः संशयाद्राजन् नैर्गुण्यं मन्यसे कथम् ॥
न सन्ति प्रकृतेः सत्त्वादि गुणा यत्र ज्ञानयोगे ।
तत्त्वज्ञानयोगः । यथा, भागवते । ३ । ३२ । ३२ ।
“ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ॥”)

नैर्म्मल्यं, क्ली, (निर्म्मलस्य भावः । इति ष्यञ् ।)

निर्म्मलत्वम् । (तथा च हारीतेनोक्तम् ।
“जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी ॥”)
विषयवैराग्यम् । यथा, --
“विषयेष्वतिसंरागो मानसो मल उच्यते ।
तेष्वेव हि विरागस्तु नैर्म्मल्यं समुदाहृतम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

नैल्यं, क्ली, (नीलस्य भावः । ष्यञ् ।) नीलिमा ।

इति मुग्धबोधटीकायां रामतर्कवागीशः ॥

नैविड्यं, क्ली, वंशफुत्कारगुणविशेषः । यथा, --

“नैविड्यं प्रौढता चापि सुस्वरत्वञ्च शीघ्रता ।
माधुर्य्यमिति पञ्चामी फुत्कृतेषु गुणाः स्मृताः ॥”
इति सङ्गीतदामोदरः ॥
(निविडस्य भावः । निविड + ष्यञ् ।) निवि-
डता च ॥

नैवेद्यं, क्ली, (निवेदं निवेदनमर्हतीति । निवेद +

ष्यञ् ।) देवाय निवेदनीयद्रव्यम् । तस्य निरुक्ति-
र्यथा, --
“चतुर्व्विधं कुलेशानि द्रव्यं ते षड्रसान्वितम् ।
निवेदनात् भवेत्तृप्तिर्नैवेद्यं तदुदाहृतम् ॥”
इति कुलार्णवे १७ उल्लासः ॥
तद्द्रव्याणि यथा, --
“ससितेन सुशुद्धेन पायसेन ससर्पिषा ।
सितोदनं सकदलिदध्याद्यैश्च निवेदयेत् ॥”
इति प्रपञ्चसारः ॥
तत् पञ्चविधम् । यथा, --
“निवेदनीयं यद्द्रव्यं प्रशस्तं प्रयतं तथा ।
तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति कथ्यते ॥
भक्ष्यं भोज्यञ्च लेह्यञ्च पेयं चूष्यञ्च पञ्चमम् ।
सर्व्वत्र चैतन्नैवेद्यमाराध्यास्यै निवेदयेत् ॥” * ॥
तत् पात्रं यथा, --
“तैजसेषु च पात्रेषु सौवर्णे राजते तथा ।
ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथवा पुनः ॥
यज्ञदारुमये वापि नैवेद्यं स्थापयेद्बुधः ।
सर्व्वाभावे च माहेये स्वहस्तघटिते यदि ॥”
इति तन्त्रसारः ॥ * ॥
तद्दानफलं यथा, --
“नैबेद्येन भवेत् स्वर्गो नैवेद्येनामृतं भवेत् ।
धर्म्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः ॥
सर्व्वयज्ञफलं नित्यं नैवेद्यं स्रर्व्वतुष्टिदम् ।
ज्ञानदं मानदं पुण्यं सर्व्वभोग्यमयं तथा ॥
मनसापि महादेव्यै नैवेद्यं दातुमिच्छति ।
यो नरो भक्तियुक्तः सन् दीर्घायुः स सुखी भवेत् ॥
महामायां कदा देवीमर्च्चयिष्यामि शक्तितः ।
नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ।
स सर्व्वकामान् संप्राप्य मम लोके महीयते ॥”
इति कालिकापुराणे । १६९ । १७० । अध्यायः ॥
तत्कालो यथा, --
“अर्व्वाक् विसर्ज्जनाद्द्रव्यं नैवेद्यं सर्व्वमुच्यते ।
विसर्ज्जिते जगन्नाथे निर्म्माल्यं भवति क्षणात् ॥
पञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते सुखम् ॥”
इति गरुडपुराणम् ॥
तस्य स्थापनक्रमो यथा, -- गौतमीये ।
“नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः ॥
दक्षिणभागस्तु देवताया एव न तु साधकस्य ।
पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे ॥
पुरश्चरणचन्द्रिकायाम् ।
दक्षिणन्तु परित्यज्य वामे चैव निधापयेत् ।
अभोज्यं तद्भवेदन्नं पानीयञ्च सुरोपमम् ॥”
इति तन्त्रसारः ॥
तन्मुद्रा यथा, --
“नैवेद्यमुद्रामङ्गुष्ठकनिष्ठाभ्यां प्रदर्शयेत् ।
कनिष्ठानामिकाङ्गुष्ठैर्मुद्रा प्राणस्य कीर्त्तिता ॥
तर्ज्जनीमध्यमाङ्गुष्ठैरपानस्य तु मुद्रिका ।
अनामामध्यमाङ्गुष्ठैरुदानस्य तु सा स्मृता ॥
तर्ज्जन्यनामामध्याभिः साङ्गुष्ठाभिश्चतुर्थिका ।
सर्व्वाभिः सा समानस्य प्राणाद्यन्नेषु योजिता ॥
तारपूर्ब्बां जपेन्मुद्रां प्राणादीनां प्रदर्शयेत् ॥”
इति यामलः ॥
ब्राह्मणाय तत्समर्पणं यथा, --
“साक्षात् खादति नैवेद्यं विप्ररूपी जनार्द्दनः ।
ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्व्वदेवताः ॥
देवाय दत्त्वा नैवेद्यं द्बिजाय न प्रयच्छति ।
भस्मीभूतञ्च नैवेद्यं पूजनं निष्फलं भवेत् ॥
देवदत्तं न भोक्तव्यं नैवेद्यञ्च विना हरेः ।
प्रशस्तं सर्व्वदेवेषु विष्णोर्नैवेद्यभोजनम् ॥”
शूदस्य तद्भक्षणविधिर्यथा, --
शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ।
आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥”
इति श्रीकृष्णजन्मखण्डे २१ अध्यायः ॥ * ॥
विष्णुनैवेद्यभोजनफलादि स्कान्दे ।
“कृत्वा चैवोपवासन्तु भोक्तव्यं द्वादशीदिने ।
नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥
पाद्मे ।
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।
पादोदकञ्च निर्म्माल्यं मस्तके यस्य सोऽच्युतः ॥
स्कान्दे ।
अग्निष्टोमसहस्रैश्च वाजपेयशतैस्तथा ।
तुल्यं फलं भवेद्देवि ! विष्णोर्नैवेद्यभक्षणात् ॥
पादोदकञ्च निर्म्माल्यं नैवेद्यञ्च विशेषतः ।
महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः ॥
वह्वृचगृह्यपरिशिष्टे ।
पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणञ्चरेत् ॥
स्वदत्तमिति विशेषणीयम् ॥ स्मृतौ ।
ब्रह्मचारिगृहस्थैश्च वनस्थयतिभिस्तथा ।
भोक्तव्यं विष्णनैवेद्यं नात्र कार्य्या विचारणा ॥”
इत्येकादशीतत्त्वम् ॥
अपि च ।
“विष्णोर्निवेदितं पुष्पं नैवेद्य वा फलं जलम् ।
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा जनः ॥
भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः ।
यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ॥
प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम् ।
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ॥
विष्णुनैवेद्यभोजी यो नित्यं वा प्रणमेद्धरिम् ।
पूजयेत् स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ॥
पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च ।
यद्धरेरनिवेद्यञ्च वृथामांसमभक्षणम् ॥
शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम् ।
चिकित्सकद्बिजान्नञ्च देवलान्नं तथैव च ॥
कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ।
अशुद्धान्नं पर्य्युषितं सर्व्वभक्ष्यावशेषकम् ॥
शूद्रापतिद्बिजान्नञ्च वृषवाहद्विजान्नकम् ।
अदीक्षितद्विजानाञ्च यदन्नं शवदाहिनाम् ॥
अगम्यागामिनाञ्चैव द्विजानामन्नमेव च ।
मित्रद्रुहां कृतघ्नानामन्नं विश्वासघातिनाम् ॥
मिथ्यासाक्ष्यप्रदानाञ्च ब्राह्मणानान्तथैव च ।
एतत् सर्व्वं विशुध्येत विष्णोर्नैवेद्यभक्षणात् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३० अध्यायः ॥ *
“विष्णोर्निवेदितान्नेन यष्टव्याः सर्व्वदेवताः ।
पितरोऽतिथयश्चैवमिति वेदेषु विश्रुतम् ॥
अमृतं सर्व्ववस्तूनां मिष्टं सारं सुदुर्लभम् ।
विष्णोर्निवेदितान्नस्य कलां नार्हन्ति षोडशीम् ॥
यदृच्छया तन्नैवेद्यं यो भुङ्क्ते साधुसङ्गतः ।
षष्टिवर्षसहस्राणां प्राप्नोति तपसां फलम् ॥
यो निवेद्य हरिं भुङ्क्ते भक्त्या भुक्तश्च नित्यशः ।
किं वा तपस्या सुतरां स हरेस्तेजसा समः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३७ अध्यायः ॥
शिवनैवेद्ये विशेषो यथा, बह्वृचगृह्यपरिशिष्टे ।
“अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥
शालग्रामशिलायां शिवपूजने तद्ग्राह्यम् ।
इत्याह्निकतत्त्वम् ॥” कालिकापुराणे ।
“यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः ।
केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥”
वैष्णवपदमन्यदेवोपासकपरम् ।
‘समानन्त्वन्यनैवेद्यं भक्षयेदन्यदैवतः ।’
एतदन्योत्सृष्टपरम् । नन्दिकेश्वरपुराणे ।
‘दत्त्वा नैवेद्यवस्त्रादि नाददीत कथञ्चन ।
त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥’
इति शिवदत्ते विशेषः ।” इत्येकादशीतत्त्वम् ॥
स्वदत्तशिवनैवेद्यस्यापि भक्त्या भक्ष्यत्वमुक्तं यथा,
“रोगं हरति निर्म्माल्यं शोकन्तु चरणादकम् ।
अशेषं पातकं हन्ति शम्भोर्नैवेद्यभक्षणम् ॥”
इति शाक्तानन्दतरङ्गिणी ॥
शिवनैवेद्यस्याग्राह्यत्वकारणं यथा, --
राधिकोवाच ।
“एवम्भूतस्य च विभो ! सर्व्वेशस्य महात्मनः ।
न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन ! ॥
श्रीकृष्ण उवाच ।
शृणु देवि ! प्रवक्ष्येऽहमितिहासं पुरातनम् ।
पृष्ठ २/९२७
पापेन्धनानां दहने ज्वलदग्निशिखोपमम् ॥
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ।
ददर्श भुक्तवन्तञ्च नाथं नारायणं द्बिजः ॥
तुष्टाव गूढैः स्तोत्रैश्च ग्रणम्य भक्तितो मुदा ।
अवशेषं ददौ तस्मै सन्तुष्ठो भक्तवत्सलः ॥
प्राप्तमात्रेण तत्रैव भुक्तं तेनैब किञ्चन ।
किञ्चिद्ररक्ष बन्धूनां भक्षणाय च दुर्लभम् ॥
सिद्धाश्रमे च तद्दत्तं गुरवे शूलपाणिने ।
भक्त्युद्रेकाच्च तत् सर्व्वं भुक्तञ्च प्राप्तिमात्रतः ॥
भुक्त्वा सुदुर्लभं वस्तु ननर्त्त प्रेमविह्वलः ।
पुलकाञ्चितसर्व्वाङ्गः साश्रुनेत्रो मुदान्वितः ॥
गायन्मम गुणं भक्त्या सुकण्ठः पञ्चवक्त्रतः ।
रागभेदैकतानेन तालमानेन सुन्दरम् ॥
पपात डमरुर्हस्तात् शूलञ्च व्याघ्रचर्म्म च ।
स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप च ॥
अतीवकमनीयैतद्रूपध्यानैकमानसः ।
सहस्रदलमध्यस्थं मां पश्यन् हृत्सरोरुहे ॥
एतस्मिन्नन्तरे देवी दुर्गा दुर्गतिनाशिनी ।
मुदा जगाम शीघ्रं तत् प्रसन्नवदनेक्षणा ॥
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तञ्च भक्तितः ।
प्रहस्य वार्त्तां पप्रच्छ कुमारं शूलपाणिनः ।
सर्व्वं तां कथयामास कुमारः संपुटाञ्जलिः ।
श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः ।
बोधयामास विविधं तुष्टाव संपुटाञ्जलिः ॥
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ।
दुष्टञ्चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥
पार्व्वत्युवाच ।
सुचिरञ्च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।
त्वया विष्णोः प्रसादेन वञ्चिताहं कथं विभो ।
यतो न दत्तन्नैवेद्यं विष्णोर्मह्यं त्वयाधुना ।
अतो मत्तो गृहाणैतत् फलमेव महेश्वर !
अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव ।
ते जन्मैकं सारमेया भविष्यन्त्येव भारते ॥
इत्यक्त्वा पार्व्वती मानाद्रुरोद पुरतो विभोः ।
दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव सः ॥
तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम् ।
तन्मानभङ्गं स्तोत्रेण विनयेन चकार ह ॥
करेण चक्षुषोर्नीरं संमृज्य च पुनः पुनः ।
बोधयामास विविधैर्नीतिवाक्यैर्मनोहरैः ॥
परितुष्टा च सा देवी भर्त्तारं समुवाच ह ।
कलेवरञ्च त्यक्ष्यामि नैवेद्येन विना हरेः ॥
विभर्म्मि देहं सततं तव सौभाग्यवर्द्धितम् ।
कथं वहामि सौभाग्यरहितञ्च कलेवरम् ॥
अपूर्ब्बं तव नैवेद्यं जन्ममृत्युजराहरम् ।
कृतं दुष्टं यतस्तस्मात् पश्य देहं त्यजामि च ॥
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ! ।
सुपवित्रं भवेत्तत्र विष्णोर्नैवेद्यमिश्रितम् ॥
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता ।
त्रस्तो हरस्तत्पुरतः स्तुत्वा च स्वीचकार ह ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ३७ अः ॥
तत्कारणान्तरं यथा, --
श्रीदेव्युवाच ।
“दुर्लभं तव निर्म्माल्यं ब्रह्मादीनां कृपानिधे ! ।
तत् कथं परमेशान ! निर्म्माल्यं तव दूषितम् ॥
ईश्वर उवाच ।
माभैर्मार्भैर्महादेवि ! ज्ञानसारं शृणु प्रिये ।
एतज्ज्ञानं महादेवि ! सारात्सारं परात्परम् ॥
पञ्चभूतात्मकं देवि मुखं मे परिकीर्त्तितम् ।
मध्यस्थानं स्थितं तत्तु तन्मुखं परमेश्वरि ! ॥
श्यामलं तत्तु ईशानं सदा ऊर्द्धं सुचिस्मिते ! ।
कालाग्निरूपिणं तत्तु सर्व्वशक्तिमयं सदा ।
तेजोमयं महेशानि मुखमूर्द्ध्वं वरानने ! ॥
क्षीरोदमन्थने देवि उत्थितं गरलं विषम् ।
उत्थितं गरलं यत्तु ब्रह्माण्डनाशकारकम् ॥
तदेव गरलं देवि हस्ते कृत्वा तु तद्बिषम् ।
कृष्णाञ्जननिभं दिव्यं गरलं जलवत्तदा ॥
मम हस्ते महेशानि आविरासीत् शुचिस्मिते ।
ततः करतलीकृत्य तद्बिषं परमेश्वरि ॥
निपीय तद्बिषं सूक्ष्मं तीक्ष्णं ब्रह्माण्डनाशकम् ।
ततः श्याममुखे देवि न पीत्वा तद्बिषं प्रिये ॥
तद्विषं कण्ठदेशे तु स्थितं हि सर्व्वदा मम ।
ततःप्रभृति देवेशि मुखं ज्वालायते सदा ॥
कण्ठे तु कलुषं भूत्वा सदा तिष्ठति कामिनि ।
ततःप्रभृति देवेशि नीलकण्ठत्वमाप्नुयाम् ॥
ईशानं मन्मुखं देवि परं ब्रह्म वरानने ।
प्रत्यङ्गिरामयं देवि मन्मुखं कमलानने ॥
साक्षात् ज्योतिर्मयी देवी सदा मे मुखसंस्थिता ।
पत्रं वा यदि वा पुष्पं जलं वा वरवर्णिनि ॥
अन्यं हि परमेशानि उपचारं मनोहरम् ।
यो दद्यात् परमेशानि मन्मुखोपरि पार्व्वति ॥
अग्राह्यं तत्तु निर्म्माल्यं साक्षाद्ब्रह्ममयं ततः ।
एतत्तु परमेशानि निर्म्माल्यं यस्तु धारयेत् ॥
स भ्रष्टो जायते देवि निष्कृतिर्नास्ति तत्र वै ।
अग्राह्यं मम निर्म्माल्यं अतएव वरानने ॥
यद्दत्तं मन्मुखे देवि पुष्पं वा पत्रमुत्तमम् ।
तन्निर्म्माल्यं महेशानि ! गृह्णीयात् शिरसा सदा ॥
स ब्रह्मतेजसा तस्य समतां याति सुन्दरि ! ।
न दद्याद्यदि देवेशि ! उपचारं शुचिस्मिते ! ॥
लिङ्गापरि वरारोहे ! यश्च तस्य शुचिस्मिते ।
निगदामि शृणु प्रौढे वचनं मम कामिनि ॥
स एव नारकी भूत्वा नरकं सर्व्वदाप्नुयात् ।
अशेषनरकं भुक्त्वा अशेषयोनिमाव्रजेत् ॥
अशेषस्थावरं देवि जङ्गमञ्च तथा प्रिये ।
भुक्त्वा तु सर्व्वपापान् स अशेषक्रिमितां व्रजेत् ॥
शृणु देवि प्रवक्ष्यामि उच्छिष्टं मम पार्व्वति ।
उपचारं स्थापयित्वा पूतं पात्रान्तरे प्रिये ॥
कृत्वा तु मन्त्रपूतं हि उपचारं निवेदयेत् ।
वामदेवादि देवेशि मुखेषु वरवर्णिनि ॥
भक्षणं मम देवेशि ब्रह्माण्डसृष्टिकारकम् ।
एतद्धि परमेशानि ! ब्रह्मादीनां सुदुर्लभम् ॥
अशुचिर्व्वा शुचिर्व्वापि उच्छिष्टं भक्षयेद्यदि ।
स एव परमाराध्यः साक्षाद्ब्रह्म शुचिस्मिते ॥
उच्छिष्टभक्षणे कामी स एव श्रीसदाशिवः ।
निर्म्माल्यं दृढभक्तित्वाद्गृह्णीयाद्यस्तु पार्व्वति ॥
प्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण सुन्दरि ।
निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥
देवासुरमनुष्याश्च गन्धर्व्वाः किन्नरादयः ।
ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः ॥
निर्म्माल्येषु च देवेशि ! अधिकारी कथं भवेत् ॥”
इति लिङ्गार्च्चनतन्त्रे । १३ । १४ । पटलः ॥

नैवेशिकं, क्लो, (निवेशाय गार्हस्थाय हितम् ।

निवेश + ठक् ।) निवेशनार्थं गार्हस्थाय यत्
कन्या दीयते तत् । इति मिताक्षरा ॥ यथा,
याज्ञवल्क्यः । १ । २१० ।
“भूदीपांश्चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्य्यं दत्त्वा स्वर्गे महीयते ॥
निवेशसम्बन्धिनि, त्रि ॥

नैशं, त्रि, (निशायाइदम् । निशा + “तस्येदम् ।”

४ । ३ । १२० । इति अण् ।) निशासम्बन्धि ।
(यथा, बृहत्संहितायाम् । ४ । २ ।
“सलिलमये शशिनि रवेर्दीधितयो मूर्च्छिता-
स्तमो नैशम् ।
क्षपयन्ति दर्पणोदरनिहिता इव मन्दिर-
स्यान्तः ॥” * ॥
निशायां भवम् । निशा + “निशाप्रदोषाभ्याञ्च ।”
४ । ३ । १४ । इति पक्षे अण् ।) निशाभवम् ।
इति सिद्धान्तकौमुदी ॥ (यथा, मनुः । २ । १०२ ।
“पूर्ब्बां सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥”)

नैशिकं, त्रि, (निशायां भवम् । निशा + “निशा-

प्रदोषाभ्याञ्च ।” ४ । ३ । १४ । इति ठञ् ।)
निशाभवम् । इति सिद्धान्तकीमुदी ॥ (निशा-
व्यापकम् ॥ स्त्रियां ङीप् । यथा, मनुः ।
५ । ६७ ।
“नृणामकृतचूडाणां विशुद्धिर्नैशिकी स्मृता ॥”)

नैश्चित्यं, त्रि, निश्चितत्वम् । निश्चितस्य भाव इत्यर्थे

ष्ण्यप्रत्ययनिष्पन्नम् ॥

नैषधः, पुं, (निषधानां राजा । निषध + अण् ।)

नलराजा । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते । ३ । ५३ । १६ ।
“तस्याः समीपे तु नलं प्रशसंसुःकुतूहलात् ।
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥”
निषधदेशाधिपतिः । यथा, रघुः । १८ । १ ।
“स नैषधस्यार्थपतेः सुताया-
मुत्पादयामास निषिद्धशत्रुः ॥”
वर्षविशेषः । जम्बुद्वीपेश्वरोऽग्नीध्रस्तु स्वपुत्त्राय
हरिवर्षाय वर्षमेतद्दत्तवान् । यथा, विष्णु-
पुराणे । २ । १ । २० ।
“तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥”
नैषधं नलमधिकृत्य कृतो ग्रन्थः । नैषध + अण् ।
स्वनामख्यातो हर्षदेवविरचितो द्वाविंशसर्गा-
त्मकः काव्यग्रन्थविशेषः । यथा, --
“उदिते नैषधेकाव्ये क्व माघः क्वच भारविः ॥” * ॥
निषधानामयमिति । “तस्येदम् ।” ४ । ३ । १२० ।
इत्यण् ।) निषधसम्बन्धिनि, त्रि ॥
पृष्ठ २/९२८

नैष्किकः, पुं, (निष्के स्वर्णे दीनारे तदागारे वा

नियुक्तः । निष्क + “तत्र नियुक्तः ।” ४ । ४ ।
६९ । इति ठक् ।) रूप्याध्यक्षः । इत्यमरः । २ ।
८ । ७ ॥ टङ्ककपतिः । पुरुषाश्वादिरूपं गठितं
रजतं रूप्यं तस्याध्यक्षः । इति भरतः ॥ (त्रि,
निष्केण क्रीतं निष्कस्य विकारो वा । “क्रीत-
वत् परिमाणात् ।” ४ । ३ । १५६ । इत्यभि-
देशात् “असमासे निस्कादिभ्यः ।” ५ । १ । २० ।
इति ठक् । निष्कक्रीते । निष्कविकारे ॥)

नैष्ठिकः, त्रि, (निष्ठा विद्यतेऽस्येति । निष्ठा +

मत्वर्थीयष्ठक् ।) ब्रह्मचर्य्यं कृत्वा यावज्वीवं
“गुरुकुले यो वसति सः । यथा, --
नैष्ठिको ब्रह्मचारी च वसेदाचार्य्यसन्निधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥
अनेन विधिना देहं साधयेद्विजितेन्द्रियः ।
ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥”
इति गरुडपुराणम् ॥
(यथा, महाभारते । ३ । २८२ । २७ ।
“शतयोजनविस्तारं न शक्ताः सर्व्ववानराः ।
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥”)

नैसर्गिकः, त्रि, (निसर्गादागतः । निसर्ग + ठक् ।)

स्वाभाविकः । (यथा, रघुः । ५ । ३७ ।
“रूपं तदोजस्वि तदेव वीर्य्यं
तदेव नैसर्गिकमुन्नतत्वम् ॥”)
यथाच कल्किपुराणे २६ अध्याये ।
“पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः ।
कस्य वा शिक्षिता राजन् किंवा नैसर्गिकी तव ॥”

नैस्त्रिंशिकः, त्रि, (निस्त्रिंशः खड्गः प्रहरण-

मस्य । निस्त्रिंश + “प्रहरणम् ।” ४ । ४ । ५७ ।
इति ठक् ।) खड्गधारी । निस्त्रिंशेन प्रह-
रति यः । तत्पर्य्यायः । असिहेतिः २ । इत्य-
मरः । २ । ८ । ७० ॥ असिहेतिकः ३ । इति
शब्दरत्नावली ॥

नो, व्य, (नह + डो ।) नहि । अभावः । इत्य-

मरः । ३ । ४ । ११ ॥ (यथा, अपराधभञ्जन-
स्तोत्रे । ७ ।
“नो शक्यं स्मार्त्तकर्म्म प्रतिदिनगहनं प्रत्यवाया-
कुलाख्यम् ॥”)

नोधाः, [स्] पुं, (नूयते स्तूयते इति । नु + “नुवो

धुट् च ।” उणां ४ । २२५ । इति असिः धुट्
च । यद्वा, नवं दधातीति । नव + धा + असुन् ।
नवशब्दस्य नोभावश्च । इति यास्कः ।) ऋषि-
भेदः । इत्युणादिकोषः ॥ (यथा, ऋग्वेदे । १ ।
६१ । १४ ।
“उपो वेनस्य जोगुवान ओणिं
सद्यो भुवद्वीर्य्याय नोधाः ॥”)

नोपस्थाता, [ऋ] त्रि, (न उप समीपे तिष्ठतीति ।

स्था + तृच् ।) दूरस्थः । न उप समीपे तिष्ठति
यः सः ॥ हीनार्थिविशेषः । यथा, --
“अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥”
इति मिताक्षरायां व्यवहारमातृका ॥

नौः, स्त्री, (नुद्यतेऽनयेति । नुद प्रेरणे + “ग्लानु-

दिभ्यां डौः ।” उणां २ । ६४ । इति डौः ।)
नौका । इत्यमरः । १ । १० । १० ॥ यथा, महा-
भारते । १ । १५० । ४ -- ५ ।
“ततः स प्रेषितो विद्वान् विदुरेण नरस्तदा ।
पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥
सर्व्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
शिवे भागीरथीतीरे नरैर्व्विश्रम्भिभिः कृताम् ॥”
एतेन यन्त्रवाहिता नौका प्रतीयते । कलेर
नौका इति इष्टिम्बोट् इति च यस्याः प्रसिद्धिः ॥

नौका, स्त्री, (नौरेव । नौ + स्वार्थे कन् ।) नद्यादि-

सन्तरणार्थकाष्ठादिनिर्म्मितयानविशेषः । वारि-
रथः । इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । नौः २
तरिका ३ तरणिः ४ तरणी ५ तरिः ६ तरी ७
तरण्डी ८ तरण्डः ९ पादालिन्दा १० उत्प्लवा ११
होडः १२ वाधूः १२ वार्व्वटः १४ वहित्रम् १५
पोतः १६ । इति शब्दरत्नावली ॥ वहनम् १७ ।
इति जटाधरः ॥ * ॥
अथ निष्पदयानोद्देशः ।
“नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते ।
अश्वादिकन्तु यद्यानं स्थले सर्व्वं प्रतिष्ठितम् ॥
जले नौकैव यानं स्यादतस्तां यत्नतो वहेत् ॥”
अथ कालः ।
“सुवारवेलातिथिचन्द्रयोगे
चरे विलग्ने मकरादिषट्के ।
ऋक्षेऽन्त्यसप्तष्वतिरेकतोऽन्ये
व्रदन्ति नौकाघटनादि कर्म्म ॥ * ॥
अश्विखरांशुसुधानिधिपूर्ब्बा-
मित्रघनाच्युतभे शुभलग्ने ।
तारकयोगतिथीन्दुविशुद्धौ
नौगमनं शुभदं शुभवारे ॥” * ॥
“वृक्षायुर्व्वेदगदिता वृक्षजातिश्चतुर्व्विधा ।
समासेनैव गदितं तेषां काष्ठं चतुर्व्विघम् ॥”
तद्यथा, --
“लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् ।
दृढाङ्गं लधु यत् काष्ठमघटं क्षत्त्रजाति तत् ॥
कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते ।
दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते ॥
लक्षणद्बययोगेन द्विजातिः काष्ठसंग्रहः ॥
क्षत्त्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका
अन्ये लघुभिः सुदृढैर्व्विदधति जलदुष्पदे
नौकाम् ॥
विभिन्नजातिद्वयकाष्ठजाता
न श्रेयसे नापि सुखाय नौका ।
नैषा चिरं तिष्ठति पच्यते च
विभिद्यते वारिणि मज्जते च ॥
न सिन्धुगाद्यार्हति लौहबन्धं
तल्लोहकान्तैर्ह्रियते हि लौहम् ।
विपद्यते तेन जलेषु नौका
गुणेन बन्धं निजगाद भोजः ॥”
अथ लक्षणानि ।
“सामान्यञ्च विशेषश्च नौकाया लक्षणद्वयम् ॥”
अत्र सामान्यम् ।
“राजहस्तमितायामा तत्पादपरिणाहिनी ।
तावदेवोन्नता नौका क्षुद्रेति गदिता बुधैः ॥
अतः सार्द्धमितायामा तदर्द्धपरिणाहिनी ।
त्रिभागेणोत्थिता नौका मध्यमेति प्रचक्ष्यते ॥
क्षुद्राथ मध्यमा भीमा चपला पटलाभया ।
दीर्घा पत्रपुटा चैव गर्भरा मन्थरा तथा ॥
नौकादशकमित्यक्तं राजहस्तैरनुक्रमम् ।
एकैकवृद्धैः सार्द्धैश्च विजानीयात् द्वयं द्बयम् ॥
उन्नतिश्च प्रवीणा च हस्तादर्द्धांशसम्मिता ।
अत्र भीमाभया चैव गर्भरा चाशुभप्रदा ॥
मन्थरापरतो यास्तु तासामेवाम्बुधौ गतिः ।
तासां गुणस्तु संक्षेपात् दृढता च प्रकीर्णता ॥”
अथ विशेषः ।
“दीर्घा चैवोन्नता चेति विशेषे द्बिविधा भिदा ॥”
तत्र दीर्घा यथा, --
“राजहस्तद्बयायामा अष्टांशपरिणाहिनी ।
नौकेयं दीर्घिका नाम दशाङ्गेनोन्नतापि च ॥
दीर्घिका तरणिर्लोला गत्वरा गामिनी तरिः ।
जङ्घाला प्लाविनी चैव धारिणी वेगिनी तथा ॥
राजहस्तैकैकवृद्ध्या नौकानामानि वै दश ।
उन्नतिः परिणाहश्च दशाष्टांशमितौ क्रमात् ॥
अत्र लोला गामिनी च प्लाविनी दुःखदा भवेत् ।
लोलाया मानमारभ्य यावद्भवति गत्वरा ॥
लोलायाः फलमाधत्ते एवं सर्व्वासु निर्णयः ।
वेगिन्याः परतो या तु सा शिवायोत्तरा यथा ॥”
भोजोऽपि ।
“नौकादीर्घं यथेच्छं स्यात्तत्रतानि विवर्ज्जयेत् ।
हस्तसंख्या परित्याज्या वसुवेदग्रहोत्तरे ॥
षष्ट्युत्तरमिता नौका कुलं हन्ति बलं धनम् ।
नवतेरुत्तरे यापि या चत्वारिंशतेः परा ॥
एतेन चत्वारिंशतिषष्टिनवतिसंख्या तत्परतो-
ऽपि ।
यावदपरदशकं तावदेव तत्फलमिति ।”
इति दीर्घा ।
अथोन्नता ।
“राजहस्तद्बयमिता तावत् प्रसरणोन्नता ।
इयमूर्द्ध्वाभिधा नौका क्षेमाय पृथिवीभुजाम् ॥
ऊर्द्ध्वानूर्द्ध्वा स्वर्णमुखी गर्भिणी मन्थरा तथा ।
राजहस्तैकैकवृद्ध्या नाम पञ्चत्रयं भवेत् ॥
अत्रानूर्द्ध्वा गर्भिणी च निन्दितं नामयुग्मकम् ।
मन्थरायाः परा यास्तु ताः शुभाय यथोद्भवम् ॥”
भोजोऽपि ।
“बाणाग्न्युत्तरतो मानं नौकानामशुभं वहेत् ।
पञ्चाशदूर्द्धादुल्लासं धननाशं त्रयोर्द्ध्वतः ॥”
इत्युन्नता ॥ * ॥
“धात्वादीनामतो वक्ष्यं निर्णयं तरिसंश्रयम् ।
कनकं रजतं ताम्रं त्रितयं वा यथाक्रमम् ॥
ब्रह्मादिभिः परिन्यस्य नौकाचित्रणकर्म्मणि ।
चतुःशृङ्गा त्रिशृङ्गाभा द्बिशृङ्गा चैकशृङ्गिणी ॥
सितरक्तापीतनीलवर्णान्दद्याद्यथाक्रमम् ।
केशरी महिषो नागो द्बिरदो व्याघ्न एव च ॥
पृष्ठ २/९२९
पक्षी भेको मनुष्यश्च एतेषां वदनाष्टकम् ।
नावां मुखे परिन्यस्य आदित्यादिदशा भुवाम् ॥
कलसो दर्पणश्चन्द्रस्त्रैदशानां महीभुजाम् ।
हंसः केकी शुकः सिंहो गजोऽहिर्व्याघ्रषट्-
पदौ ॥
आदित्यादिदशाजातनौकोपरि परिन्यसेत् ॥ * ॥
नौकासु मणिविन्यासो विज्ञेयो नवदण्डवत् ।
मुक्तास्तवकैर्युक्ता नौका स्यात् सर्व्वतो भद्रा ।
तत्संख्या चेदथ रसवेदद्वयसम्मिता क्रमशः ॥
कनकादीनां माला जयमालेति गद्यते सद्भिः ।
ब्रह्मक्षत्त्रे द्बितये एकैके वैश्यशूद्रयोनी ॥ * ॥
निर्गृहं सगृहं वाथ तत् सर्व्वं द्विविधं भवेत् ।
निर्गृहं पूर्ब्बमुद्दिष्टं सगृहाणि यथा शृणु ॥
सगृहा त्रिविधा प्रोक्ता सर्व्वमध्याग्रमन्दिरा ।
सर्व्वतो मन्दिरं यत्र सा ज्ञेया सर्व्वमन्दिरा ॥
राज्ञां कोशाश्वनारीणां यानमत्र प्रशस्यते ।
मध्यतो मन्दिरं यत्र सा ज्ञेया मध्यमन्दिरा ॥
राज्ञां विलासयात्रादि वर्षासु च प्रशस्यते ।
अग्रतो मन्दिरं यत्र सा ज्ञेया त्वग्रमन्दिरा ॥
चिरप्रवासयात्रायां रणे काले घनात्यये ॥
मन्दिरमानं नौकाप्रसरत एवार्द्धभागतो न्यूनम् ।
भोजस्तु ।
दीर्घवृत्तवसुषट्दिवाकरा-
नेकदिङ्नवमिता यथाक्रमम् ।
राजपञ्चभुजसम्मितोन्नति-
र्मन्दिरे तरिगते महीभुजाम् ॥
भास्करादिकदशा भुवां पुनर्धातुनिर्णयनमत्र
नवदण्डवत् ॥
काष्ठजं धातुजञ्चेति मन्दिरं द्बिविधं भवेत् ।
काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ॥
अत्र शय्यासनादीनां मन्थरोल्लोचयोरपि ।
अन्येषाञ्चैव मुनिभिनिर्णयः पूर्ब्बवन्मतः ॥
दिङ्मात्रमिदमुदिष्टं नौकालक्षणमग्रजम् ।
प्रधानेष्वेव नियमः अप्रधाने न निर्णयः ॥
लघुता दृढता चैव गामिताच्छिद्रता तथा ।
समतेति गुणोद्देशो नौकानां संप्रकाशितः ॥
एवं विचिन्त्य यो राजा नौकायानं करोति च ।
स चिरं सुखमाप्नोति विजयं समरे श्रियम् ॥
योऽज्ञानादन्यथा यानं नौकावां कुरुते नृपः ।
तस्यैतानि विनश्यन्ति यशो वीर्य्यं बलं धनम् ॥”
इति निष्पदयानोद्देशे नौकायानम् ॥ * ॥
जघन्यजलयानानि यथा, --
“नौकान्यतो जले यानं जघन्यमिति गद्यते ।
तद्देहा बहवस्ते तु पाश्चात्यानां प्रकीर्त्तिताः ॥
द्रोणीरूपन्तु यद्यानं द्रोणीयानन्तदुच्यते ।
घटीभिर्घटितं यानं घटीनौकेति गद्यते ॥
तुम्ब्याद्यैस्तु फलैर्यानं फलयानं प्रचक्ष्यते ।
चर्म्मभिस्तूलपूर्णैर्यच्चर्म्मयानं तदुच्यते ॥
यानं यल्लघुभिर्वृक्षर्वृक्षयानन्तदुच्यते ।
जन्तुभिः सलिले यानं जन्तुयानं प्रचक्ष्यते ॥
बाहुभ्यां सन्तरेद्वारि जघन्येषु न निर्णयः ॥”
इति युक्तिकल्पतरौ निष्पदयानोद्देशः ॥

नौकादण्डः, पुं, (नौकायाः परिचालनार्थं यो

दण्डः ।) क्षेपणी । इत्यमरः । १ । १० । १३ ॥ चाइड
इति ध्वजी इति नगी इति च भाषा ॥

नौतार्य्यं, त्रि, (नावा नौकया तार्य्यं तरणीयम् ।)

नाव्यम् । नौकागम्यदेशादि । इत्यमरः । १ । १० । १० ।

न्यकारुका, स्त्री, (न्यक् क्रियतेऽसौ पृषोदरात्

कलोपे साधुः । शकृत्कीटः । विष्ठाक्रिमिः ।
इति हारावली । १६३ ॥ (क्वचित् अन्यकारका
इति पाठः ॥)

न्यक्वारः, पुं, (न्यक् क्रियते इति । कृ + घञ् ।)

न्यक्वरणम् । तत्पर्य्यायः । अवज्ञा २ परीहारः ३
परिहारः ४ पराभवः ५ अपमानम् ६ परि-
भवः ७ तिरस्कारः ८ तिरस्किया ९ अवहेला
१० हेला ११ अवहेलनम् १२ हेलनम् १३
अनादरः १४ अभिभवः १५ सूक्षणं १६ सूर्क्ष-
णम् १७ रीढा १८ अभिभूतिः १९ निकृतिः २०
असूक्षणम् २१ असूर्क्षणम् २२ नीकारः २३
अवहेलम् २४ अमाननम् २५ क्षेपः २६ निकारः
२७ धिक्कारः २८ । इति शब्दरत्नावली ॥ विमा-
नना । इति कालिदासः ॥ (यथा, महा-
नाटके । ९ । १४ ।
“न्यक्वारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो
रावणः ॥”)

न्यक्षं, क्ली, कार्त् स्न्यम् । तृणम् । निकृष्टे, त्रि ।

इति मेदिनी । षे, १६ ॥

न्यक्षः, पुं, (नीयते अक्षिणी यस्य । षच् समासे ।)

महिषः । इति मेदिनी । षे, १६ ॥ जामदग्न्यः ॥
इति हेमचन्द्रः ॥

न्यग्रोधः, पुं, (न्यक् रुणद्धि इति । रुय + अच् ।)

वटवृक्षः । (यथा, भागवते । ४ । ६ । १६ ।
“पनसोडुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः ॥”)
व्यामपरिमाणम् । इत्यमरः । २ । ४ । ३२,
३ । ३ । ९५ ॥ शमीवृक्षः । इति मेदिनी । धे, ३२ ॥
विषपर्णी । मोहनाख्यौषधिः । इति विश्वः ॥
(उग्रसेननृपपुत्त्राणामन्यतमः । यथा, हरि-
वंशे । ३७ । ३० ।
“नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्ब्बजः ।
न्यग्रोधश्च सुनामा च कल्कः शल्कः सुभूमिपः ॥”)

न्यग्रोधपरिमण्डलः, पुं, (न्यग्रोधः व्यामः परि-

मण्डलं परिणाहो यस्य ।) व्यामपरिमितोच्छ्रय-
परीणाहः पुरुषः । एतादृशाः पुरुषास्त्रेतायुगे
चक्रवर्त्तिन आसन् । यथा मात्स्ये ११८ अः ।
“महाधनुर्धराश्चैव त्रेतायां चक्रवर्त्तिनः ।
सर्व्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः ॥
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उट्यते ।
व्यामेन उच्छ्रयो यस्य अध ऊर्द्ध्वञ्च देहिनः ।
समोच्छ्रयपरीणाहो न्यग्रोधपरिमण्डलः ॥”
(अपिच । भट्टिटीकायां भरतमल्लिकधृताग्नि-
पुराणवचनम् ।
“प्रसारितभुजस्येह मध्यभागद्वयान्तरम् ।
उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः ॥”)

न्यग्रोधपरिमण्डला, स्त्री, (न्यक्रुणद्धि इति न्यग्रोधं

अधःप्रसूतं परितो मण्डलं नितम्बमण्डलरूं
यस्याः । यद्वा न्यग्रोधस्य वटस्य इव परिमण्डलं
परिणाहो नितम्बभागे यस्याः ।) अङ्गना-
विशेषः । यथा, --
“स्तनौ सुकठिनौ यस्या नितम्बे च विशालता ।
मध्ये क्षीणा भवेद्या सा न्यग्रोभपरिमण्डला ॥”
इति शब्दमाला ॥
(तथाच भट्टिः । ४ । १८ ।
“योषिद्वृन्दारिका तस्य दयिता हंसनादिनी ।
दूर्व्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला ॥”)

न्यग्रोधा, स्त्री, (न्यक्रुणद्धीति । रुध् + अच् ।

टाप् ।) न्यग्रोधी । इति शब्दरत्नावली ॥
(पर्य्यायोऽस्या यथा, --
“दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः ।
द्रवन्ती नामतश्चित्रा न्यग्रोधा मूषिकाह्वया ॥”
इति चरके कल्पस्थाने द्वादशेऽध्याये ॥)

न्यग्रोधी, स्त्री, (न्यक् रुणद्धीति । रुध् + अच् ।

गौरादित्वात् ङीष् इति प्राञ्चः ।) उपचित्रा ।
इत्यमरभरतौ ॥ इन्दुरकानी इति भाषा ।
थुलकुँडी इति केचित् ।

न्यङ्, [च्] त्रि, (नितरामञ्चतीति । अञ्चु + क्विप् ।)

नीचः । खर्व्वः इत्यमरः । ३ । १ । १० ॥ निम्नः ।
इति मेदिनी । चे, ५६ ॥ कार्त्स्न्यम् । इति
विश्वः ॥

न्यङ्कुः, पुं, (नितरां अञ्चति गच्छतीति । अञ्चु

गतौ + “नावन्चेः ।” उणां । १ । १८ । इति
उः । “न्यङ्क्वादीनाञ्च ।” ७ । ३ । ५३ । इति
कुत्वम् ।) मृगभेदः । इत्यमरः । २ । ५ । १० ॥
(यथा, हरिवंशे । १२१ । ४१ ।
“न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ॥”)
मुनिविशेषः । इति मेदिनी । के, २७ ॥

न्यङ्कुभूरुहः, पुं, (न्यङ्कुरिव भूरुहः ।) शोणक-

वृक्षः । इति त्रिकाण्डशेषः ॥ (शोणकशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

न्यच्छं, क्ली, (नितरामच्छम् ।) क्षुद्ररोगविशेषः ।

मेचेता इति भाषा ॥ तल्लक्षणं यथा, --
“मण्डलं महदल्पं वा श्यावं वा यदि वा सितम् ।
सहजं नीरुजं गात्रे न्यच्छं तदभिधीयते ॥”
तच्चिकित्सा यथा, --
“शिरावेधैः प्रलेपैश्च तथाभ्यङ्गैरुपाचरेत् ।
न्यच्छं लिम्पेत् पयःपिष्टैः कल्पैः क्षीरितरूद्भवैः ॥
त्रिभुवनविजयापत्रं मूलं स्थविरस्य शिंशपा
चैभिः ।
उद्बर्त्तनं विरचितं न्यच्छव्यङ्गापहं सिद्धम् ॥
स्थविरस्य वृद्धदारोः ।” इति भावप्रकाशः ॥

न्यञ्चितं, त्रि, (नि + अञ्च + णिच् + क्तः ।) अधः-

क्षिप्तम् । इति जटाधरः ॥

न्ययः, पुं, (नि + इ + “एरच् ।” ३ । ३ । ५६

इत्यच् ।) अपचयः । इति केचित् ॥

न्यस्तं, त्रि, (नि + अस + क्त ।) निहितम् ।

स्थापितम् । तत्पर्य्यायः । निसृष्टम् २ । इत्य-
पृष्ठ २/९३०
मरः । ३ । १ । ८८ ॥ अस्य पर्य्यायान्तरं
निक्षिप्तशब्दे द्रष्टव्यम् ॥

न्यस्तशस्त्रः, पुं, (न्यस्तं शस्त्रं येन । युद्धादिविरत-

त्वात् तथात्वम् ।) पितृलोकः । इति त्रिकाण्ड-
शेषः ॥ (यथा, मनुः । ३ । १९२ ।
“अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्ब्बदेवताः ॥”)
त्यक्तशस्त्रे, त्रि । यथा, --
“न्यस्तशस्त्रं दिलीपञ्च तञ्च शुश्रुवुषां प्रभुम् ।
राज्ञामुद्धृतनाराचे हृदि शल्यमिवार्पितम् ॥”
इति रघुः ॥

न्याक्यं, क्ली, (नितरामक्यते इति । नि + अक +

ण्यत् ।) भृष्टतण्डुलम् । मुडी इति भाषा ॥
तत्पर्य्यायः । भृष्टान्नम् २ कुहवम् ३ । इति
शब्दचन्द्रिका ॥

न्यादः, पुं, (न्यदनमिति । नि + अद भक्षणे +

“नौ ण च ।” ३ । ३ । ६० । इति णः ।)
आहारः । इत्यमरः । २ । ९ । ५६ ॥

न्यायः, पुं, विष्णुः । यथा,

“अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।”
इति तस्य सहस्रनाममध्ये गणितः ॥ * ॥
(नियमेन ईयते इति । नि + इण् + “परि-
न्योर्नीणोर्द्यूताभ्रेषयोः ।” ३ । ३ । ३७ । इति
घञ् ।) उचितः । तत्पर्य्यायः । अभ्रेषः २
क्वल्पः ३ देशरूपम् ४ समञ्जसम् ५ । इत्यमरः ।
२ । ८ । २४ ॥ * ॥ (नीयन्ते प्राप्यन्ते विवक्षितार्था
येनेति । नी + “अध्यायन्यायोद्यावसंहाराश्च ।”
३ । ३ । १२२ । इति घञ्प्रत्ययेन निपातनात्
साधुः । नीतिः । जयोपायः । भोगः । युक्तिः ।
इति चिन्तामणिः ॥) प्रतिज्ञाहेतूदाहरणोप-
नयनिगमनात्मकपञ्चावयववाक्यम् । तल्लक्षणं
यथा । अनुमितिचरमकारणलिङ्गपरामर्शप्रयो-
जकशाब्दज्ञानजनकवाक्यत्वम् । इति चिन्ता-
मणिः ॥ उचितानुपूर्ब्बिकप्रतिज्ञादिपञ्चकसमु-
दायत्वम् । इति शिरोमणिः ॥ तल्लक्ष्यं यथा ।
पर्व्वतो वह्निमान् धूमात् यो यो धूमवान् स्र
वह्रिमान् यथा महानसं वह्रिव्याप्यधूमवांश्चायं
तस्माद्बह्रिमान् । इति जगदीशः ॥ * ॥
(पञ्चाङ्गमधिकरणम् । यथा, महाभारते ।
२ । ५ । ३ ।
“न्यायविद्धर्म्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।”
“न्यायः पञ्चाङ्गमधिकरणम् । यथा, --
‘विषयो विषयश्चैव पूर्ब्बपक्षस्तथोत्तरः ।
पक्षद्वयफलञ्चैव शास्त्रेऽधिकरणं विदुः ॥’
अत्र, यूपस्य स्वरुं करोति इति वाक्यं विषयः ।
तत्र षष्ठी यूपसम्बन्धिकर्त्तव्यता लक्षणार्था उत
यूपावयवलक्षणार्था इति सन्देहो विषयः ।
एतावेव पूर्ब्बोत्तरपक्षौ ज्ञेयौ । कल्पना लाघ-
वानुग्रहादुत्तरः पक्षः सिद्धान्तः । फलं अनु-
ष्ठानभेदः । पूर्ब्बपक्षे तक्षणाष्टास्री करणादिना
काष्ठान्तरं यूपसदृशं निर्म्मातव्यम् । सिद्धान्ते
एकदेशस्य पृथक् करणमात्रमिति । इदमेव
पञ्चकं मोक्षधर्म्मेषूक्तम् ।
‘सूक्ष्मं सांख्यक्रमौ चोभौ निर्णयः सप्रयोजनः ।
पञ्चैतान्यनुजानीहि वाक्यमित्युच्यते बुधैः ॥”
सूक्ष्मं गहनार्थत्वाद्बिषयः । सांख्यः एवमेवं वेति
विचारः । क्रमः अतिक्रमः सिद्धान्तस्य पूर्ब्बः
पक्ष इत्यर्थः । निर्णयः सिद्धान्तः । प्रयोजनं
फलम् । इति वाक्यं वाक्यार्थनिर्णयोपायः एवं
पूर्ब्बोत्तरमीमांसाधिकरणानि न्यायस्तद्बित् ॥”
इति तट्टीकायां नीलकण्ठः ॥ * ॥)
षड्दर्शनान्तर्गतदर्शनविशेषः । तत्पर्य्यायः ।
तर्कविद्या २ आन्वीक्षिकी ३ । इत्यमरभरतौ ॥
एतद्दर्शनमते नित्येच्छाकृतिमतिसहितः पर-
मात्मा ईश्वरः स तु ब्रह्मपदार्थो जीवातिरिक्तः ।
एतच्छास्त्रप्रयोजनं चार्व्वाकादिमतनिराकरण-
पूर्ब्बकं जगत्कारणतया ईश्वरसंस्थापनं संश-
यादिनिरूपणेन वेदार्थनिर्णयश्च । न्यायदर्शन-
कारो गोतमः । तत्सूत्रे प्रमाणादिषोडश-
पदार्थनिरूपणम् । तेषां तत्त्वज्ञानान्निश्रेयसम् ।
तस्य भाष्यकारो वात्स्यायनः । तद्वार्त्तिककारः
कात्यायनः । तट्टीकाकारो वाचस्पतिमिश्रः ।
तच्छात्र उदयनाचार्य्यःकुसुमाञ्जलिप्रभृतिग्रन्थ-
कारः । कुसुमाञ्जलिटीकाकारौ हरिदासराम-
भद्रौ । गङ्गेशोपाध्यायः प्रत्यक्षानुमानोपमान-
शब्दाख्यखण्डचतुष्टयात्मकचिन्तामणिकारः ।
तत्सुतो वर्द्धमानोपाध्यायस्तयोश्छात्रौ मणि-
मिश्रयज्ञपत्युपाध्यायौ मणिप्रभाकरौ । यज्ञ-
पत्युपाध्यायच्छात्रः पक्षधरमिश्रश्चिन्तामणे-
रालोककारः । पक्षधरमिश्रच्छात्रो रघुनाथ-
शिरोमणिश्चिन्तामणेर्दीधितिकारः । तच्छात्रो
मथुरानाथतर्कवागीशश्चिन्तामणिदीधित्योष्टी-
काकारः । तच्छात्रो भवानन्दसिद्धान्तवागीशो
दीधितेष्टीकाकारः । तच्छात्रौ जगदीशतर्का-
लङ्कारगदाधरभट्टाचार्य्यौ दीधितिटीकाकारौ ।
एतदतिरिक्ता वादार्थकारा बहवः पण्डिता
आसन् ॥ तर्कशास्त्रम् । यथा, शब्दरत्नावल्याम् ।
“न्यायवैशेषिकादिः स्यात् तर्कविद्या प्रतिष्ठिता ।
तस्यामान्वीक्षिकी ज्ञेया तत्रात्मज्ञानमुन्नयेत् ॥”
अथ न्यायप्रथमसूत्रं लिख्यते प्रमाणप्रमेयसंशय-
प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद-
जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्था-
नानां तत्त्वज्ञानान्निश्रेयसाधिगमः । एषां लक्ष-
णानि यथा । प्रत्यक्षानुमानोपमानशब्दाः
प्रामाणानि । १ । आत्मशरीरेन्द्रियार्थबुद्धिमनः-
प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् २ ।
समानानेकधर्म्मोपपत्तेर्व्विप्रतिपत्तेरुपलब्ध्यनुप-
लब्ध्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः । ३ ।
यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम् । ४ ।
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसामान्यं
स दृष्टान्तः । ५ । तन्त्राधिकरणाभ्युपगमसंस्थितिः
सिद्धान्तः । ६ । प्रतिज्ञाहेतूदाहरणोपनयनि-
गमनान्यवयवाः । ७ । अविज्ञाततत्त्वेऽर्थे कार-
णोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः । ८ । विमृश्य-
पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः । ९ ।
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः
पञ्चाषयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ।
१० । यथोपपन्नच्छलजातिनिग्रहस्थानोपालम्भो
जल्पः ११ । सत्प्रतिपक्षस्थापनाहीनो वितण्डा ।
१२ । सव्यभिचारविरुद्धप्रकरणसमसाध्यसम-
कालात्ययापदिष्टा हेत्वाभासाः । १३ । वचन-
विघातोऽर्थविकल्पोपपत्त्या छलम् । १४ ।
साधर्म्म्यवैधर्म्म्याभ्यां प्रत्यवस्थानं जातिः । १५ ।
विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् । १६ ।
इति गोतमसूत्रम् ॥ * ॥ न्यायशास्त्रञ्च पञ्चा-
ध्यायात्मकम् । तत्र प्रत्यध्यायस्याह्रिकद्बयम् ।
तत्र प्रथमाध्ययस्य प्रथमाह्रिके भगवता गौत-
भेन प्रमाणादिपदार्थनवकलक्षणनिरूपणं
विधाय द्बितीये वादादिसप्तपदार्थलक्षणनिरू-
पणम् । १ । द्बितीयस्य तु प्रथमे संशयपरीक्षणं
प्रमाणचतुष्टयाप्रामाण्यशङ्कानिराकरणञ्च ।
द्वितीये अर्थापत्त्यादेरन्तर्भावनिरूपणम् । २ ।
तृतीयस्य प्रथमे आत्मशरीरेन्द्रियार्थपरीक्षणम् ।
द्वितीये बुद्धिमनःपरीक्षणम् । ३ । चतुर्थस्य
प्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरी-
क्षणम् । द्वितीये दोषनिमित्तकत्वनिरूपणं अव-
यवादिनिरूपणञ्च । ४ । पञ्चमस्यस्य प्रथमे
जातिभेदनिरूपणम् । द्बितीये निग्रहस्थानभेद-
निरूपणम् । ५ । इति सर्व्वदर्शननसंग्रहः ॥ * ॥
युक्तिमूलकदृष्टान्तविशेषः । स च बहुविधः ।
तेषां मध्ये प्रसिद्धानां नामलक्षणप्रमाणानि
लिख्यन्ते ॥
न्यायनामानि
अन्धगोलाङ्गूलन्यायः १ ।
तल्लक्षणानि
कश्चिद्दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं वभाषे
किमत्रायुष्मता दुःखितेन स्थीयत इति स चान्धः सुखवाणीमाकर्ण्य
तमाप्तं मत्वोवाच अहो मद्भागधेयं यदत्रभवान् दीनं मां स्वाभीष्टनगर
प्राप्त्यसमर्थं भाषत इति स च विप्रलिप्सुर्दुष्टो गोयुवानमानीय तदीय
तत्प्रमाणानि
हेत्वाभासमथुरानाथटीकादयः १ ।
पृष्ठ २/९३१
न्यायनामानि
अन्धपङ्गुन्यायः २ ।
अन्धहस्तिन्यायः ३ ।
अशोकवनिकान्यायः ४ ।
उष्ट्रकण्टकभोजनम्यायः ५ ।
कदम्बगोलकन्यायः ६ ।
करकङ्कणन्यायः ७ ।
काकाक्षिगोलकन्यायः ८ ।
कूर्म्माङ्गन्यायः ९ ।
कैसुतिकन्यायः १० ।
खलेकपोतन्यायः ११ ।
गुडजिह्विकान्यायः १२ ।
गोबलीवर्द्दन्यायः १३ ।
चालनीन्यायः १४ ।
तृणारणिमणिन्यायः १५ ।
दग्धपत्रन्यायः १६ ।
दण्डचक्रादिन्यायः १७ ।
दण्डापूपन्यायः १८ ।
पङ्कप्रक्षालनन्यायः १९ ।
मणिमन्त्रादिन्यायः २० ।
राजपुरप्रवेशन्यायः २१ ।
लूतातन्तुन्यायः २२ ।
विशेष्यविशेषणन्यायः २३ ।
वीचीतरङ्गन्यायः २४ ।
बीजाङ्कुरन्यायः २५ ।
शङ्खवेलान्यायः २६ ।
शतपत्रभेदन्यायः २७ ।
शृङ्गग्राहितान्यायः २८ ।
तल्लक्षणानि
लाङ्गूलमन्धं ग्राहयामास उपदिदेश चैनमन्धमेष गोयुवा त्वां नगरं
नेष्यति मा त्यज लाङ्गूलमिति स चान्धः श्रद्धालुतया तदत्यजन् स्वाभी-
ष्टमप्राप्यानर्थपरम्पराम्प्राप्तः । १ ।
अन्धस्कन्धारूढः पङ्गुर्यथा अन्धस्य पद्भ्यां अघ्वातिक्रमसमर्थस्तथा स
चान्धः पङ्गोदृग्भ्यां चक्षुष्मानिव भवति । २ ।
बहवोऽन्धा हस्तिनिरूपणार्थं प्रवृत्ताः केनचित् चरणं स्पृष्ट्वा स्तम्भाकार-
त्वेन केनापि लाङ्गूलं स्पृष्ट्वा रज्ज्वाकारत्वेन परेण श्रोत्रं स्पृष्ट्वा सूर्पा-
कारत्वेनापरेण शुण्डं स्पृष्ट्वा सर्पाकारत्वेन गजो निर्णीतः । ३ ।
तुल्यगुणादिशालिनामशोकादिनानावनानामशोकवनगमने सत्यन्यवन-
गमनापेक्षा न । अपि च । तुल्यगुणशालिनि वने सत्यपि रावणेनाशोक-
वने सीता स्थापिता तत्र वनान्तरे स्थापनानपेक्षा । ४ ।
उष्ट्रस्य शमीकण्टकक्षतजन्यबहुदुःखसहनपूर्ब्बकं किञ्चित्सुखजनक-
सपत्रशमीकण्टकभक्षणम् । ५ ।
कदम्बगोलकस्य सर्व्वावयवेषु युगपदेव पुष्पाणामुत्पत्तिः । ६ ।
कङ्कणशब्देनैव करभूषणविशेषबोधसम्भवेऽपि करशब्दपूर्व्वककङ्कणशब्दः
करसंलग्नकङ्कणबोधार्थकः । ७ ।
एकमेव चक्षुर्गोलकमुभयचक्षुःसम्बन्धिसदुभयचक्षुःकार्य्यकारकम् । ८ ।
कूर्म्मःस्वेच्छया अङ्गानि प्रसारयति संकोचयति तद्बत् । ९ ।
यद्भारवहनं दुर्ब्बलस्यापि साध्यं तद्भारवहनं सुतरां सबलस्य
साध्यम् । १० ।
वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत् पतन्ति । तथैव
सर्व्वे युगपत् पदार्थाः परस्परेणान्वयिनो भवन्ति । ११ ।
गुडजिह्वासम्बन्धे रसास्वादनमेव फलम् । १२ ।
बलीवर्द्दशब्देन महोक्षबोधसम्भवेऽपि गोशब्दपूर्ब्बकबलीवर्द्दशब्दो
झटिति बोधार्थकः । १३ ।
चालनीभ्रामणेन तण्डुलादेः स्थानान्तरपतनं तद्वत् । १४ ।
तृणारणिमणीनामेकमात्रजन्यवह्नौ व्यभिचारभिया नैकधर्म्मावच्छिन्नं
प्रति कारणत्वं किन्तु वह्निनिष्ठकार्य्यतावच्छेदकत्रयमवलम्ब्य कार्य्य-
कारणभावत्रयम् । १५ ।
पत्राणां दग्धानामपि पूर्ब्बाकारेणावस्थानज्ञानमात्रं न तु वस्तुतः पत्र-
त्वम् । १६ ।
घटत्वाद्येकधर्म्मावच्छिन्नं प्रति दण्डचक्रादीनां कारणत्वम् । १७ ।
आखुभक्सितैकदेशं दण्डं पश्यतस्तदेकदेशसंलग्नपिष्टकभक्षणबुद्धिः । १८ ।
पङ्कलेपनपूर्ब्बकक्षालनमपेक्ष्य पङ्कस्यालेपनं श्रेयः । १९ ।
दाहं प्रति जलस्य प्रतिबन्धकत्वं वह्निनाशकतया यौक्तिकं मणिमन्त्रा-
दीनान्तु तद्विलक्षणप्रतिबन्धकत्वं स्वातन्त्र्येण । २० ।
विशृङ्खलगमनासहिष्णुरक्षकसङ्कुले राजपुरे जनानां श्रेणीरूपेण
प्रवेशः । २१ ।
लूता सूत्रमुत्पाद्य जालं रचयति संहरति च तद्बत् । २२ ।
भूतले आदौ केवलघटो विशेषणं ततस्तत्र घटे जलं विशेषणं न तु जल-
विशिष्टघट एवादौ विशेषणम् । २३ ।
वीचीजनितस्तरङ्गस्तज्जनितोऽपि तरङ्ग इति क्रमेण तरङ्गोत्पत्तिः । २४ ।
आदौ बीजं ततोऽङ्गुरः किमादावङ्कुरस्ततो बीजमित्यनिर्णयेन बीजाङ्कुर-
प्रवाहोऽनादिः । २५ ।
कस्यचित् शङ्खशब्देनैव वेलाविशेषनिर्णयः । २६ ।
उपर्य्युपरिस्थितशतसंख्यकपत्राणां सूच्या युगपद्भेदभ्रमविषयाणामपि
वस्तुत एकभेदानन्तरमपरभेदः । २७ ।
दुर्वृत्तवृषभादेः प्रथमतः कौशलेनैकशृङ्गग्रहणं पश्चादपरशृङ्ग-
ग्रहणम् । २८ ।
तत्प्रमाणानि
काव्यप्रकाशे चण्डीदासटीका २ ।
भागवतादयः ३ ।
भाष्यसप्तमसूत्रव्याख्या ४ ।
वेदान्तशङ्करभाष्यटीका ५ ।
भाषापरिच्छेदादयः ६ ।
काव्यप्रकाशटीकादयः ७ ।
अमरकोषटीकादयः ८ ।
पञ्चदशीटीका ९ ।
व्यधिकरणधर्म्मावच्छिन्नाभावजग-
दीशटीका १० ।
सामान्यलक्षणाजगदीशटीका ११ ।
भाष्यरत्नप्रभा १२ ।
साहित्यदर्पणादयः १३ ।
व्याप्तिपञ्चके जगदीशः १४ ।
बाधग्रन्थटीका १५ ।
वेदान्तभाष्यर्टीका १६ ।
परामर्शमथुरानाथटीका १७ ।
दायभागादयः १८ ।
अवयवस्य गादाधरी टीका १९ ।
पक्षताजगदीशटीका २० ।

न्यायशब्दखण्डमथुरानाथटीका २१

वेदान्तसारटीका २२ ।
सामान्यलक्षणामथुरानाथ-
टीका २३ ।
भाषापरिच्छेदः २४ ।
कुमुमाञ्जलिटीकादयः २५ ।
मलमासतत्त्वादयः २६ ।
प्रत्यक्षखण्डमथुरानाथटीका २७ ।

अवच्छेदकत्वनिरुक्तेर्जागदीशी

टीका २८ ।
पृष्ठ २/९३२
सन्दंशप्रापितन्यायः २९ ।
सर्व्वापेक्षान्यायः ३० ।
सूचीकटाहन्यायः ३१ ।
स्थविरलगुडन्यायः । ३२ ।
सन्दंशः साँडाशी यस्य प्रसिद्धिः । यथा तेनोभयपार्श्वधारणेन वस्तु-
प्राप्तिस्तथा । तथा हि ।
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥
इत्यत्र काश्याः पुरत्रयपाठानन्तरं पुरत्रयपाटपूर्ब्बञ्च पठितत्वेन
तदितरषट्पुराणि काशीप्रापकाणि । २९ ।
बहुषु निमन्त्रितेषु एकस्मिन्नागतेऽपि भोज्यं न दीयते सर्व्वानपेक्षते
तद्वत् । ३० ।
स्वल्पश्रमसाध्यसूचीनिर्म्माणानन्तरं बहुश्रमसाध्यकटाहनिर्म्माणम् । ३१ ।
बृद्धहस्तस्थयष्टिः सहसा लक्ष्यस्थाने क्वचित् पतति क्वचिन्न पतति
तद्वत् । ३२ ।
काशीखण्डटीका २९ ।
भाष्यरत्नप्रभा ३० ।
कलापव्याकरणानन्दलहरीटीका-
दयः ३१ ।
कलापटीका । ३२ ।
(यदि च न्यायवेदान्तसाङ्ख्यपातञ्जलप्रभृत्या-
स्तिकदर्शनानां साक्षात्पारम्पर्य्येणैकमात्रा-
नन्तविश्वब्रह्माण्डस्योदयस्थितिलयकारणं एको-
ऽद्बितीयः सर्व्वपुषार्थस्वरूपः सनातनपुरुषः
सर्व्वशक्तिमान् परमेश्वरः परमात्मैव प्रतिपाद्यः
तत्रापि चार्व्वाकादिविपक्षमतनिराकरणेन
जगत्कारणतयेश्वरस्य संस्थापनात् न्यायदर्शन-
स्यैव सर्व्वप्राधान्यसिद्धिः । आत्मतत्त्वज्ञानोत्-
पादनाय साक्षादुपयोगितया समस्तश्रुतिमीमां-
सिततया च पुराणादिशास्त्रेषु वेदान्तस्य भूयसी-
प्रशंसादर्शनाच्च तस्यैव दर्शनस्य मुख्यत्वमायाति
चेत् न अतीवसूक्ष्मतमब्रह्मतत्त्वनिरूपकजगत्-
पूज्यवेदान्तशास्त्रे कदापि कस्यापि विषयभोग-
कलुषितबुद्धिपरिमार्ज्जकन्यायदर्शनबोधादृते प्रवे-
शानधिकारात् । अतो नितरामेव सर्व्वेभ्योऽस्यैव
गौरवमभ्युपजग्मिरे तार्किकाः । वस्तुतस्तु सर्व्वे
ष्वास्तिकदर्शनेषु न्यायदर्शनमेव सर्व्वोच्छ्रयसिंहा-
सनमारोढुमर्हतीति सर्व्वेषां प्रेक्षावतां परा-
मर्शः । विशेषतः चार्व्वाकादिदुष्टमतखण्डनपूर्ब्बक
मोक्षस्वरूपस्थापनायेश्वरसत्तासंस्थापनाय चैक-
मात्रन्यायदर्शनमेवालं नत्वन्यत् । एतच्च सत्यं
नवेति प्रतिपादनाय श्रीमन्माधवाचार्य्यसङ्कलित
सर्व्वदर्शनसारसंग्रहग्रन्थान्तर्गताक्षपाददर्शन-
शास्त्रादेव समुद्धृत्य दर्शयिष्यामः । तत्र प्रथमतः
ईश्वरसंस्थापनं यथा, --
“नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमान-
मागमो वा न तावदत्र प्रत्यक्षं क्रमते रूपादि-
रहितत्वेनातीन्द्रियत्वात् नाप्यनुमानं तद्ब्याप्ति-
लिङ्गाभावात् नागमः विकल्पासहत्वात् किं
नित्योऽवगमयत्यनित्यो वा । आद्ये अपसिद्धान्ता-
पातः द्बितीये परस्पराश्रयापातः । उपमाना-
दिकमशक्यशङ्कं नियतविषयत्वात् । तस्मादीश्वरः
शशविषाणायते इति चेत्तदेतन्न चतुरचेतसां
चेतसि चमत्कारमाविष्करोति । विवादास्पदं
नगमागरादिकं सकर्त्तृकं कार्य्यत्वात् कुम्भवत् । न
चायमसिंद्वो हेतुः सावयवत्वेन तस्य सुसाधन-
त्वात् । ननु किमिदं सावयवत्वं अवयवसं योगित्वं
अवयवसमवायित्वं वा नाद्यः गगनादौ व्यभि-
चारात् न द्वितीयः तन्तुत्वादावनैकान्त्यात् ।
तस्मादनुपपन्नमिति चेन्मैवं वादीः समवेतद्रव्यत्वं
सावयवत्वमिति निरुक्तेर्वक्तं शक्यत्वात् । अवा-
न्तरमहत्त्वेन वा कार्य्यत्वानुमानस्य सुकरत्वात् ।
नापि विरुद्धो हेतुः साध्यविपर्य्ययव्याप्तेरभावात्
नाप्यनैकान्तिकः पक्षादन्यत्र वृत्तेरदर्शनात् नापि
कालात्ययोपदिष्टः बाधकानुपलम्भात् नापि सत्-
प्रतिपक्षः प्रतिभटादर्शनात् । ननु नगादिक-
मकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नैतत्
परीक्षाक्षममीक्ष्यते नहि कठोरकण्ठीरवस्य
कुरङ्गशावः प्रतिभटो भवति अजन्यत्वस्यैव
समर्थतया शरीरविशेषणवैयर्थ्यात । तर्ह्यजन्यत्व-
मेव साधनमिति चेन्नासिद्धेः नापि सोपाधिकत्व-
शङ्काकलङ्काङ्कुरः सम्भवो अनुकूलतर्कसम्भवात्
यद्ययमकर्तृकः स्यात् कार्य्यमपि न स्यादिह
जगति नास्त्येव तत्कार्य्यं नाम यत्कारकचक्र-
मवधीर्य्यात्मानमासादयेदित्येतदविवादम् । तच्च
सर्व्वं कर्तृविशेषोपहितमर्य्यादं कर्तृत्वं चेतर-
कारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तुत्व-
लक्षणं ज्ञानचिकीर्षाप्रयत्नाधारत्वम् । एवञ्च
कर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावका-
रणककार्य्योत्पादप्रसङ्ग इति स्थूलः प्रमादः ।
तथा निरुटङ्कि शङ्करकिङ्करेण ।
“अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भव” इति ।
यदीश्वरः कर्त्ता स्यात्तर्हि शरीरी स्यादित्यादि-
प्रतिकूलतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्य-
सिद्धिभ्यां व्याघातात् । तदुदितमुदयनेन ।
“आगमादेः प्रमाणत्वे बाधनादनिषेधनम् ।
अभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धतेति ॥”
न च विशेषविरोधः शक्यशङ्कः ज्ञातत्वा-
ज्ञातत्वविकल्पपराहतः स्यात् । तदेतत् पर-
मेश्वरस्य जगव्रिर्म्माणे प्रवृत्तिः किमर्था स्वार्था
परार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरि-
हारार्था वा नाद्यः अवाप्तसकलकामस्य तदनुप
पत्तेः अतएव न द्बितीयः । द्वितीये प्रवृत्त्यनुप-
पत्तिः कः खलु परार्थं प्रवर्त्तमानं प्रेक्षावानित्या-
चक्षीत । अथ करुणया प्रवृत्त्युपपत्तिरित्या-
चक्षीत कश्चित्तं प्रत्याचक्षीत तर्हि सर्व्वान्
प्राणिनः सुखिन एव सृजेदीश्वरः न दुःख-
शवलान् करुणाविरोधात् स्वार्थमनपेक्ष्य पर-
दुःखप्रहाणेच्छा हि कारुण्यं तस्मादीश्वरस्य
जगत्सर्जनं न युज्यते । तदुक्तं भट्टाचार्य्यैः --
“प्रयोजनमनुद्दिश्य न मन्दो हि प्रवर्त्तते ।
जगच्चासृजतस्तस्य किं नाम न कृतं भवेदिति ।”
नास्तिकशिरोमणे ! तावदीर्ष्याकषायिते चक्षुषी
निमील्य परिभावयतु भवान् करुणयाप्रवृत्ति-
रस्त्येव न च निसर्गतः सुखमयसर्गप्रसङ्गः
सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैष-
म्योपपत्तेः न च स्वातन्त्र्यभङ्गः शङ्कनीयः स्वाङ्गं
स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत तन्नि-
र्व्वाहात् एक एव रुद्रो न द्बितीयाय तस्थे
इत्यादिरागमस्तत्र प्रमाणम् । यद्येवं तर्हि पर-
स्पराश्रयबाधव्याधिं समाधत्स्वेति चेत् तस्था-
नुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यते
ज्ञप्तौ वा । नाद्यः आगमस्येश्वराधीनोत्पत्तिक-
त्वेऽपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः
नापि ज्ञप्तौ परमेश्वरस्य आगमाधीनज्ञप्ति
कत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्य
त्यज्ञप्तौ आगमानित्यत्वस्य तीव्रादिधर्म्मोपेतत्वा-
दिना सुगमत्वात् ॥”
द्वितीये मोक्षस्वरूपसंस्थापनं यथा, --
“ननु दुःखात्यन्तोच्छेदोऽपवर्ग इत्येतदद्यापि
कफोणिगुडायितं वर्त्तते तत्कथं सिद्धवत्कृत्य व्यव
ह्रियत इति चेन्मैवं सर्व्वेषां मोक्षवादिनामप-
वर्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्य-
स्यार्थस्य सर्व्वतन्त्रसिद्धान्तसिद्धतया घण्टापथ-
त्वात् नह्यप्रवृत्तस्य दुःखं प्रत्यापद्यते इति कश्चित
प्रपद्यते तथा हि आत्मच्छेदो मोक्ष इति माध्य-
मिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवा-
पृष्ठ २/९३३
द्रम् । अथ मन्येथाः शरीरादिवदात्मापि दुःख-
हेतुत्वादुच्छेद्य इति तन्न सङ्गच्छते विकल्पानुप-
पत्तेः किमात्मा ज्ञानसन्तानो विवक्षितः तदति
रिक्तो वा प्रथमे न विप्रतिपत्तिः कः खल्वनुकूल-
माचरति प्रतिकूलमाचरेत् द्वितीये तस्य नित्यत्वे
निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपतिश्चाधिकं
दूषणं न खलु कश्चित् प्रेक्षावानात्मनस्तु कामाय
सर्व्वं प्रियं भवतीति सर्व्वतः प्रियतमस्यात्मनः
समुच्छेदाय प्रयतते सर्व्वो हि प्राणी मुक्त इति
व्यवहरति । ननु धर्म्मिनिवृत्तौ निर्म्मलज्ञानोदयो
महोदय इति विज्ञानवादिवादे सामग्र्यभावः
सामानाधिकरण्यानुपपत्तिश्च भावनाचतुष्टयं
हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षे स्थिरै-
काधारासम्भवात् लङ्घनाभ्यासादिवदनासादित-
प्रकर्षं न स्फटमभिज्ञानमभिजनयितुं प्रभवति
सीपप्लवस्य ज्ञानसन्तानस्य बद्धत्वे निरुपप्लवस्य
च मुक्तत्वे यो बद्धः स एव मुक्त इति सामा-
नाधिकरण्यं न सङ्गच्छते । आवरणमुक्तिर्मुक्ति-
रिति जैनजनाभिमतोऽपि मागो न निर्गतो
निरर्गलः अङ्ग भवान् पृष्टो व्याचष्टां किमावरणं
धर्म्माधर्म्मभ्रान्तय इति चेत् इष्टमेव । अथ देह-
मेवावरणं तथाच तन्निवृत्तौ पञ्जरान्मुक्तस्य
शुकस्येवात्मनः सततोर्द्ध्वगमनं मुक्तिरिति चेत्तदा
वक्तव्यं किमयमात्मा मूर्त्तोऽमूर्त्तो वा । प्रथमे
निरवयवः सावयवो वा निरवयवत्वे निरवयवो
मूर्त्तः परमाणुरिति परमाणुलक्षणापत्त्या पर-
माणुधर्म्मवदात्मधर्म्माणामतीन्द्रियत्वं प्रसजेत् ।
सावयवत्वे यत् सावयवं तदनित्यमिति प्रतिबन्ध-
बलेनानित्यत्वापत्तौ कृतप्रणाशाकृताभ्यागमौ
निष्प्रतिबन्धौ प्रसरेताम् । अमूर्त्तत्वे गमनमनुप-
पन्नमेव चलनात्मिकायाः क्रियायाः मूर्त्तप्रति-
बन्धात् पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति
चार्व्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेद-
विवाद ऐश्वर्य्यं चेत् सातिशयतया सदृक्षतया च
प्रेक्षावतां नाभिमतम् । प्रकृतिपुरुषान्यत्वख्यातौ
प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्ति-
रिति साङ्ख्याख्यातेऽपि पक्षे दुःखोच्छेदोऽभ्यु-
पेयते विवेकज्ञानं पुरुषाश्रयं वेति एतावदव-
शिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरु-
षस्य कौटस्थ्यात् स्थाननिरोधापातान्नापि
प्रकृत्याश्रयः अचेतनत्वात् तस्याः । किञ्च
षकृतिः प्रवृत्तिस्वभावा निवृत्तिस्वभावा वा
आद्ये अनिर्मोक्षः स्वभावस्यानपायात् द्वितीये
सम्प्रति संसारोऽस्तमियात् । नित्यनिरतिशय-
मुखाभिव्यक्तिर्मुक्तिरिति भट्टसर्व्वज्ञाद्यभिमते-
ऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्यसुखं
न प्रमाणपद्धतिमध्यास्ते । श्रुतिस्तत्र प्रमाण-
मिति चेन्न योग्यानुपलब्धिबाधिते तदनवकाशा-
दवकाशे वा ग्रावप्लवेपि तथा भावप्रसङ्गात् ।
ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य
दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं
विहायारोचकग्रस्तस्य सौवीररुचिमनुभवतीति
चेत्तदेतन्नाटकपक्षपतितं त्वद्वच इत्युपेक्ष्यते ।
सुखस्य सातिशयतया प्रत्यक्षतया बहुप्रत्यनीका-
क्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च
दुःखाविनाभूतत्वेन विषानुषक्तमधुवत् दुःखपक्ष-
निक्षेपात् । नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवते
इति न्यायेन दुःखवत् सुखमित्युच्छिद्यत इति
अकाम्योऽयं पक्ष इति चेन्मैवं मंस्थाः सुखसम्पा-
दने दुःखसाधनबाहुल्यानुषङ्गिनियमेन तप्तायः-
पिण्डे तपनीयबुद्ध्या प्रबर्त्तमानेन साम्यापातात्
तथा हि म्यायोपार्ज्जितेषु विषयेषु कियन्तः
सुखखद्योताः कियन्ति दुःखदुर्दिनानि अन्यायो-
पार्ज्जितेषु तु यद्भविष्यति तन्मनसापि चिन्तयितुं
न शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तो
विदाङ्कुर्व्वन्तु विदांवरा भवन्तः । तस्मात् परि-
शेषात् परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणात्म-
तत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःख-
निवृत्तिरात्यन्तिकी निश्रेयसमिति निरवद्य-
मिति ॥ * ॥
न्यायदर्शनन्तु पूर्ब्बोत्तरविभागभेदेन द्विविधम् ।
पूर्ब्बभागो भगवता महर्षिगोतमेन प्रणीतः
उत्तरभागस्तु भगवता महर्षिकणभुजैव प्रणीतः
पूर्ब्बभागे भगवान् गोतमः जीवनिश्रेयसाधि-
गमाय षोडशपदार्थान् निरूपितवान् तेषां
षोडशपदार्थानां तत्त्वज्ञानादेव निःश्रेयसाधि-
गम इत्युपदिदेशेति । परभागे तु भगवान्
कणादः द्रव्यादिषण्णां पदार्थानां तत्त्वज्ञानादेव
निःश्रेयसं स्यादित्युपदिष्टवान् । तद्यथा, “धर्म्म-
विशेषसूताद् द्रव्यगुणकर्म्मसामान्यविशेषसम-
वायानां साधर्म्म्यवैधर्म्म्याभ्यां तत्त्वज्ञाना-
न्निःश्रेयसमिति ।” परं एष्वेव षट्पदार्थेषु भग-
वता गोतमेनोपदिष्टाः षोडशपदार्थाः सर्व्व
एवार्न्तनिवेशिता भगवता कणभुजा । इह पुन-
र्व्विशेषपदार्थस्वीकरणात् लोके वैशेषिकमित्या-
ख्यान्तरेणैव प्रसिद्धमेतद्दर्शनमिति बोध्यम् ॥
अतिरिक्तन्यायनामानि यथा, --
१ अग्न्यातपनन्यायः । २ अजाकृपाणीयन्यायः ।
३ अजातपुत्त्रनामकरणन्यायः । ४ अण्ड-
कुक्कुटीन्यायः । ५ अत्यन्तं बलवन्तोऽपि पौर-
जानपदा जना इतिन्यायः । ६ अदग्धदहन-
न्यायः । ७ अध्यारोपापवादन्यायः । ८ अन-
धीते महाभाष्ये इतिन्यायः । ९ अनन्तरस्य
विधिर्वा भवति प्रतिषेधो वेतिन्यायः । १० अन्ते
या मतिः सा गतिरितिन्यायः । ११ अन्तेरण्डा-
विवाहश्चेदादावेव कुतो न स इतिन्यायः । १२
अन्धगजन्यायः । १३ अन्धचटकन्यायः । १४
अन्धदर्पणन्यायः । १५ अन्धस्येवान्धलग्नस्य विनि-
पातः पदे पदे इतिन्यायः । १६ अन्यभुक्त-
न्यायः । १७ अपराह्णच्छायान्यायः । १८ अप-
सारिताग्निभूतलन्यायः । १९ अपस्थानं तु
गच्छन्तं सोदरोऽपि विमुञ्चति इतिन्यायः । २०
अव्भक्षकन्यायः । २१ अभाण्डलाभन्यायः ।
२२ अरण्यरोदनन्यायः । २३ अर्के चेन्मधु विन्देत
किमर्थं पर्व्वतं व्रजेदितिन्यायः । २४ अर्द्ध-
जरतीन्यायः । २५ अर्द्धं त्यजति पण्डितन्यायः ।
२६ अर्द्धवैशसन्यायः । २७ अवश्यापेक्षितानपे
क्षितयोरितिन्यायः । २८ अश्मलोष्ट्रन्यायः । २९
अश्वतरीगर्भन्यायः । ३० अश्वभृत्यन्यायः । ३१
अस्नेहदीपन्यायः । ३२ अहिकुण्डलन्यायः ।
३३ अहित्रिपुत्त्र इतिन्यायः । ३४ अहिनकुल-
न्यायः । ३५ अहिमुक्कैवर्त्तन्यायः । ३६ आकाशा-
परिच्छन्नत्वन्यायः । ३७ आदावन्ते वेतिन्यायः ।
३८ आभाणकन्यायः । ३९ आयुर्घृतमितिन्यायः ।
४० आषाढवातन्यायः । ४१ इक्षुरसन्यायः ।
४२ इक्षुविकारन्यायः । ४३ इच्छेष्यमाणयोः
समभिव्याहारे इष्यमाणस्यैव प्राधान्यमिति-
न्यायः । ४४ इषुवेगक्षयन्यायः । ४५ उत्पाटित-
दन्तनागन्यायः । ४६ उदकनिमज्जनन्यायः ।
४७ उपजनिष्यमाणनिमित्तोऽप्यपवादो जात-
निमित्तमप्युत्सर्गं बाधते इतिन्यायः । ४८
उपजीव्योपजीवकन्यायः । ४९ उपपन्नधम्मो
विकरोति हि धर्म्मिणमितिन्यायः । ५० उप-
षासाद्वरं भिक्षेतिन्यायः । ५१ उभयतः पाश-
रज्जुन्यायः । ५२ उषरवृष्टिन्यायः । ५३ उष्ट्र-
लगुडन्यायः । ५४ ऋजुमार्गेण सिध्यतोऽर्थस्य
वक्रेण साधनायोग इतिन्यायः । ५५ एकत्र
निर्णीतः शास्त्रार्थः अन्यत्रापि तथेतिन्यायः ।
५६ एकदेशविकृतमनन्यवदितिन्यायः । ५७
एकसन्धित्सतोऽपरं प्रच्यवते इतिन्यायः । ५८
एकाकिनी प्रतिज्ञेतिन्यायः । ५९ एकामसिद्धिं
परिहरतो द्बितीया आपद्यते इतिन्यायः ।
६० कण्टकन्यायः । ६१ कण्ठचामीकरन्यायः ।
६२ कदम्बकुसुमन्यायः । ६३ करस्थविल्वन्यायः ।
६४ करिवृं हितन्यायः । ६५ कांस्यभोजिन्यायः ।
६६ काकतालीयन्यायः । ६७ काकदधिघातक-
न्यायः । ६८ काकदन्तपरीक्षान्यायः । ६९
काकाक्षिन्यायः । ७० कामनागोचरत्वेन शब्द-
बोध एव शब्दसाधनतान्वय इतिन्यायः । ७१
कारणगुणक्रमन्यायः । ७२ कार्य्येण कारण-
संप्रत्ययः इतिन्यायः । ७३ कालनाशे कार्य्यनाश-
न्यायः । ७४ किमज्ञानस्य दुष्करमितिन्यायः ।
७५ कीटभृङ्गन्यायः । ७६ कुक्कुटध्वनिन्यायः ।
७७ कुम्भीधान्यन्यायः । ७८ कुशकाशावलम्बन-
न्यायः । ७९ कूपखानकन्यायः । ८० कूपन्यायः ।
८१ कूपमण्डूकन्यायः । ८२ कृताकृतप्रसङ्गो यो
विधिः स नित्य इतिन्यायः । ८३ कृते कार्य्ये किं
मुहूर्त्तप्रश्नेन इतिन्यायः । ८४ कृदभिहितो
भावो द्रव्यवत् प्रकाशते इतिन्यायः । ८५ कोप्त-
पालन्यायः । ८६ कौण्डिन्यन्यायः । ८७ कौन्तेय-
राधेयन्यायः । ८८ क्रिया हि विकल्प्यते न
वस्त्वितिन्यायः । ८९ खलमैत्रीन्यायः । ९०
खादकघातकन्यायः । ९१ गजघटान्यायः । ९२
गजभुक्तकपित्थन्यायः । ९३ गड्डलिकाप्रवाह-
न्यायः । ९४ गणपतिन्यायः । ९५ गर्द्दभा-
रामगणनान्यायः । ९६ गले पादुकान्यायः ।
पृष्ठ २/९३४
९७ गुणोपसंहारन्यायः । ९८ गोक्षीरं श्वदन्तै-
र्धृतमितिन्यायः । ९९ गोबलीवर्द्दन्यायः । १००
गोमयपायसन्यायः । १०१ गोमहिषादिन्यायः ।
१०२ घटकुटीप्रपातन्यायः । १०३ घटप्रदीप-
न्यायः । १०४ घुणाक्षरन्यायः । १०५ चक्र-
अमणन्यायः । १०६ चतुर्व्वेदविन्न्यायः । १०७
चम्पकपटवासन्यायः । १०८ चर्म्मतन्तौ महिषीं
हन्तीतिन्यायः । १०९ चितामृतन्यायः । ११०
चित्रपटन्यायः । १११ चित्राङ्गनान्यायः । ११२
चित्रानलन्यायः । ११३ चिन्तामणिं परित्यज्य
काचमणिग्रहणन्यायः । ११४ चौरापराधात्
माण्डव्यनिग्रहन्यायः । ११५ जलतुम्बिकान्यायः ।
११६ जलमन्थनन्यायः । ११७ जलानयनन्यायः ।
११८ जलौकान्यायः । ११९ जामात्रर्थं क्लिप्तस्य
सूपादेरतिथ्युपकारकत्वभिति न्यायः । १२० ज्ञान-
धर्म्मिण्यभ्रान्तप्रकारे तु विपर्य्यय इति न्यायः ।
१२१ ज्ञानादेर्निष्कर्षवदुत्कषोऽप्यङ्गीकार्य्य इति-
न्यायः । १२२ ज्योतिर्न्यायः । १२३ तण्डुलन्यायः ।
१२४ तत्तादृगवगम्यते इतिन्यायः । १२५ तद-
भिन्नत्वमितिन्यायः । १२६ तदागमेऽपि दृश्यते
इतिन्यायः । १२७ तप्तमाषकोद्धरणन्यायः । १२८
तमःप्रकाशन्यायः । १२९ तरतमभावापन्नमिति-
न्यायः । १३० तामसं परिवर्ज्जयेदितिन्यायः । १३१
तालसर्पन्यायः । १३२ तिर्य्यगधिकरणन्यायः ।
१३३ तुलोन्नमनन्यायः । १३४ तुष्यतु दुर्ज्जन इति-
न्यायः । १३५ त्यजेदेकं कुलस्यार्थे इतिन्यायः । १३६
त्यज्या दुस्तटिनीतिन्यायः । १३७ दग्धरसना-
न्यायः । १३८ दग्धेन्धनवह्रिन्यायः । १३९ दण्ड-
सर्पमारणन्यायः । १४० दधिपयसि प्रत्यक्षो
ज्वर इतिन्यायः । १४१ दन्तपरीक्षान्यायः ।
१४२ दानव्यालकटन्यायः । १४३ दाहकदाह्य-
न्यायः । १४४ दुर्ब्बलैरपि बाध्यन्ते पुरुषैः पार्थि-
वाश्रितैरितिन्यायः । १४५ देवताधिकरणन्यायः ।
१४६ देवदत्तहन्तृहतन्यायः । १४७ देवदत्ता-
पुत्त्रन्यायः । १४८ देहलीदीपन्यायः । १४९
देहाधोमुखत्वन्यायः । १५० धटारोहणन्यायः ।
१५१ धर्म्मकल्पनान्यायः । १५२ धर्म्माधर्म्म-
न्यायः । १५३ धर्म्मिकल्पनान्यायः । १५४ धान्य-
पललन्यायः । १५५ नष्टाश्वदग्धरथन्यायः । १५६
न हि करकङ्कणदर्शनाय आदर्शापेक्षेतिन्यायः ।
१५७ न हि दुष्टे अनुपपन्नं नामेतिन्यायः ।
१५८ न हि निन्दा निन्दितुं प्रवर्त्तते अपि तु
विधेयं स्तोतुमितिन्यायः । १५९ न हि प्रत्य-
भिज्ञामात्रेण अर्थसिद्धिरितिन्यायः । १६० न हि
भिक्षुको भिक्षुकमितिन्यायः । १६१ न हि
विवाहानन्तरं वरपरीक्षा क्रियते इतिन्यायः ।
१६२ न हि शाब्दमशाब्देनान्वेतीतिन्यायः ।
१६३ न हि सुतीक्ष्णाप्यसिधारा स्वयमेव छेत्तु-
माहितव्यापारा भवतीतिन्यायः । १६४ नागोष्ट्र-
पतिन्यायः । १६५ नाज्ञातविशेषणा विशिष्ट-
बुद्धिः विशेष्यं संक्रामतीतिन्यायः । १६६ नारि-
केलफलाम्बुन्यायः । १६७ निम्नगाप्रवाहन्यायः ।
१६८ नीरक्षीरन्यायः । १६९ नीलेन्दीवरन्यायः ।
१७० नृपनापितपुत्त्रन्यायः । १७१ नौनाविक-
न्यायः । १७२ पञ्जरचालनन्यायः । १७३ पट-
न्यायः । १७४ पटे पक्षिन्यायः । १७५ पतन्तमनु-
धावतो बद्धोऽपि गत इतिन्यायः । १७६ पदमप्य-
धिकाभावात् स्मारकात् न विशिष्यत इति-
न्यायः । १७७ परशुग्रहणन्यायः । १७८ परिष-
न्यायः । १७९ पर्व्वताधित्यकान्यायः । १८०
पर्व्वतोपत्यकान्यायः । १८१ पाषाणेष्टिकान्यायः ।
१८२ पिञ्जरमुक्तपक्षिन्यायः । १८३ पिण्डं हित्वा
करं लेढीतिन्यायः । १८४ पिष्टपेषणन्यायः ।
१८५ पुत्त्रलिप्सया दैवं भजन्त्या भर्त्ताऽपि नष्ट
इतिन्यायः । १८६ पुरस्तादपवादा अनन्तरान्
विधिन् बाधते नेतरानितिन्यायः । १८७ पुष्ट-
लगुडन्यायः । १८८ पूर्ब्बमपवादा निविशन्ते
पश्चादुत्सर्गा इतिन्यायः । १८९ पूर्ब्बात् पर-
बलीयस्त्वन्यायः । १९० प्रकल्प्यापवादविषयं
पश्चादुत्सर्गोऽभिनिविशते इतिन्यायः । १९१
प्रकाशाश्रयन्यायः । १९२ प्रकृतिप्रत्ययार्थयोः
प्रत्ययार्थस्य प्राधान्यमितिन्यायः । १९३ प्रक्षा-
लनाद्धि पङ्कस्य दूरादस्पर्शनमितिन्यायः । १९४
प्रदीपन्यायः । १९५ प्रधानमल्लनिवर्हणन्यायः ।
१९६ प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्य-
पीतिन्यायः । १९७ प्रयोजनमनुद्दिश्य न मन्दो-
ऽपि प्रवर्त्तते इतिन्यायः । १९८ प्रसङ्गपठित-
न्यायः । १९९ प्रासादवासिन्यायः । २०० फल-
वत्सहकारन्यायः । २०१ बध्यघातकन्यायः ।
२०२ बहुच्छिद्रवटप्रदीपन्यायः । २०३ बहुवृका-
कृष्टन्यायः । २०४ बहुराजकपुरन्यायः । २०५
बहूनामनुग्रहो न्याय्य इतिन्यायः । २०६ ब्राह्मण-
परिव्राजकन्यायः । २०७ ब्राह्मणवसिष्ठन्यायः ।
२०८ ब्राह्मणश्रमणन्यायः । २०९ भक्षितेऽपि
लशुने न शान्तो व्याधिरितिन्यायः । २१० भच्छु-
न्यायः । २११ भामतीन्यायः । २१२ भावप्रधान-
माख्यातमितिन्यायः । २१३ भ्वादिन्यायः । २१४
भिक्षुपादप्रसारणन्यायः । २१५ भूलिङ्गपक्षि-
न्यायः । २१६ भूशैत्योष्णन्यायः । २१७ भैरवन्यायः ।
२१८ भ्रमरन्यायः । २१९ मक्षिकान्यायः ।
२२० मज्जनोन्मज्जनन्यायः । २२१ मण्डूकप्लुति-
न्यायः । २२२ मत्स्यकण्टकन्यायः । २२३
मरणाद्बरो व्याधिरितिन्यायः । २२४ मल्लग्राम-
न्यायः । २२५ महिषीप्रसवोन्मुखीतिन्यायः ।
२२६ मात्स्यन्यायः । २२७ मुञ्जादिष्विकान्यायः ।
२२८ मूकभयेन कथात्यागन्यायः । २२९ मूर्ख-
सेवनन्यायः । २३० भूषासिक्तताम्रन्यायः ।
२३१ मृगभयेन शस्यानाश्रयणन्यायः । २३२
मृगवागुरान्यायः । २३३ मृतमारणन्यायः ॥
२३४ यः कारयति स करोत्येवेतिन्यायः ।
२३५ यः कुरुते स भुङ्क्ते इतिन्यायः । २३६
यत् कृतकं तदनित्यमितिन्यायः । २३७ यत्परः
शब्दः स शब्दार्थ इतिन्यायः । २३८ यत्प्रायः
श्रूयते यादृक् तत्तादृगवगम्यते इतिन्यायः ।
२३९ यत्रोभयोः समो दोष इतिन्यायः । २४०
यथासंख्यन्यायः । २४१ यदर्था प्रवृत्तिः तदर्थः ।
प्रतिषेध इतिन्यायः । २४२ यद्विवाहगीत-
गानमितिन्यायः । २४३ यादृशं मुखं तादृशं
चपेटमितिन्यायः । २४४ यादृशो यक्षस्तादृशो
बलिरितिन्यायः । २४५ यस्याज्ञानं भ्रमस्तस्य
भ्रातः सम्यक् च वेद स इतिन्यायः । २४६
यावच्छिरस्तावच्छिरोव्यथेतिन्यायः । २४७ येन
उत्क्रम्यते येन च उपसंह्रियते स वाक्यार्थ
इतिन्यायः । २४८ येन चाप्राप्तेन यो विधि-
रारभ्यते स तस्य बाधको भवति इतिन्यायः ।
२४९ योजनप्राप्यायां कावेर्य्यां मल्लबन्धनन्यायः ।
२५० रक्तपटन्यायः । २५१ रज्जसर्पन्यायः ।
२५२ रथवडवाम्यायः । २५३ रश्मितृणादि-
न्यायः । २५४ राजपुत्त्रव्याधन्यायः । २५५
राजसं तामसञ्चेतिन्यायः । २५६ रासभरटित-
न्यायः । २५७ रूढिर्योगमपहरतीतिन्यायः ।
२५८ रेखागवयन्यायः । २५९ रोगिन्यायः ।
२६० लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति-
न्यायः । २६१ लाङ्गल्जीवनमितिन्यायः । २६२
लोहचुम्बकन्यायः । २६३ लौहाग्निन्यायः ।
२६४ वकबन्धनन्यायः । २६५ वरगोष्ठीन्यायः ।
२६६ वरघाताय कन्यावरणमितिन्यायः । २६७
वस्तूनि मानान्यपेक्ष्य प्रयोजनानीतिन्यायः ।
२६८ वह्रिधुमन्यायः । २६९ वह्निन्यायः । २७०
वाजिमन्दुरान्यायः । २७१ वातादिन्यायः ।
२७२ वायुभक्षकन्यायः । २७३ वायुशैत्योष्ण
म्यायः । २७४ विधिनिषेधौ सति विशेषबाधे
विशेषणमुपसंक्रामेत इतिन्यायः । २७५ विधेयं
हि स्तूयते वस्त्वितिन्यायः । २७६ विपरीतं
बलाबलमितिन्यायः । २७७ विल्वखल्लाटन्यायः ।
२७८ विवाह प्रवृत्तभृत्यन्यायः । २७९ विशिष्ट-
वृत्तेरितिन्यायः । २८० विशिष्टस्य वैशिष्ट्य-
मितिन्यायः । २८१ विषं मृत्युरितिन्यायः । २८२
विषभक्षणन्यायः । २८३ विषवृक्षोऽपि संवर्द्ध्य
स्वयं छेत्तुमसाम्प्रतमितिन्यायः । २८४ वृक्षप्रक-
म्पनन्यायः । २८५ वृद्धकुमारीवाक्यन्यायः ।
२८६ वृद्धिमिष्टवतो मूलं विनष्टमितिन्यायः ।
२८७ वृश्चिकीगर्भन्यायः । २८८ वैशे-
ष्यात्तु तद्वाद इतिन्यायः । २८९ व्यञ्जक-
व्यङ्गन्यायः । २९० व्याघ्रीक्षीरन्यायः । २९१
व्रणशोधनाय शस्त्रग्रहणमितिन्यायः । २९२
व्रीहिबीजन्यायः । २९३ शक्तिः सहकारिणीति
न्यायः । २९४ शवोद्बर्त्तनन्यायः । २९५ शाखा-
चन्द्रन्यायः । २९६ शालिसमृद्धौ कोद्रवनाशन-
न्यायः । २९७ शाब्दी ह्याकाङ्क्षा शब्देनैव
पूरणीयेतिन्यायः । २९८ शिरोवेष्टनेन नासिका-
स्पर्श इतिन्यायः । २९९ शैलुषीन्यायः । ३००
श्यालशुनकन्यायः । ३०१ श्वःकर्त्तव्यमद्य कुर्व्विति-
म्यायः । ३०२ श्वपुच्छोन्नामनन्यायः । ३०३
सच्छिद्रघटाम्बुन्यायः । ३०४ सति बोधे न जाना-
तीतिन्यायः । ३०५ सन्दिग्धस्य सन्दिग्धं स
पृष्ठ २/९३५
प्रयोजनं चेत् विचारमर्हतीतिन्यायः । ३०६
समुद्रवृष्टिन्यायः । ३०७ सम्भवत्येकवाक्यत्वे
वाक्यभेदो न चेष्यते इतिन्यायः । ३०८ सर्व्वं
वाक्यं साधारणमितिन्यायः । ३०९ सर्व्वं कार्य्यं
सकारणकमितिन्यायः । ३१० सर्व्वविशेषणं
साधारणमितिन्यायः । ३११ सर्व्वशास्त्राप्रत्यय-
मेकं कर्म्मेतिन्यायः । ३१२ साक्षात्प्रकृतमिति-
न्यायः । ३१३ साधुमैत्रीन्यायः । ३१४ सार्व्व-
जनीनतुल्यायव्ययन्यायः । ३१५ सावकाशनिर-
वकाशयोर्निरवकाशो बलीयानितिन्यायः । ३१६
सिंहमृगन्यायः । ३१७ सिंहावलोकन्यायः ।
३१८ सुतजनिमृतिन्यायः । ११९ सुभगा-
भिक्षुकन्यायः । ३२० सुन्दोपसुन्दन्यायः । ३२१
सूत्रसाटिकान्यायः । ३२२ सोपानारोहण-
न्यायः । ३२३ स्तनन्धयन्यायः । ३२४ स्थाली-
पुलाकन्यायः । ३२५ स्थावरजङ्गमविषन्यायः ।
३२६ स्थूणानिखनन्यायः । ३२७ स्थूलारुन्धती-
न्यायः । ३२८ स्फटिकलौहित्यन्यायः । ३२९
स्वकरकुचन्यायः । ३३० स्वपक्षहानिकर्त्तृत्वात्
स्वकुलाङ्गारतां गत इतिन्यायः । ३३१ स्वप्न-
व्याघ्रन्यायः । ३३२ स्वशिशुमपि चुम्बन्तमिति
न्यायः । ३३३ स्वामिभृत्यन्यायः । ३३४ हस्ता-
मलकन्यायः । इति श्रीरामदयालुशिष्यरघु-
नाथेन विरचितो लौकिकन्यायसंग्रहः ॥)

न्यायसारिणी, स्त्री, (न्यायं सरतीति । सृ +

णिनि + ङीप् ।) युक्तिपूर्ब्बककर्म्मकारिणी तत्-
पर्य्यायः । लुण्ठी २ । इति त्रिकाण्डशेषः ॥

न्यायी, [न्] त्रि, (न्यायोऽस्यास्तीति । न्याय +

इनिः ।) न्यायवान् । न्यायोऽस्यास्तीत्यर्थे इन्-
प्रत्ययनिष्पन्नः ॥

न्याय्यं, त्रि, (न्यायादनपेतम् । न्याय + “धर्म्म-

पथ्यर्थन्यायादनपेते ।” ४ । ४ । ९२ । इति
यत् ।) न्यायादनपेतम् । (न्याये भवः । न्याया-
दागतो वा । “दिगादिभ्यो यत् ।” ४ । ३ । ५४ ।
इति यत् ।) न्यायागतधनादिः । इति भरतः ॥
तत्पर्य्यायः । युक्तम् २ औपयिकम् ३ लभ्यम् ४
भजमानम् ५ अभिनीतम् ६ । इत्यमरः । २ ।
८ । २५ ॥ क्रमोचितम् ७ । इति शब्दरत्ना-
वली ॥ (यथा, मनुः । २ । १५२ ।
“देवाश्चैतान् समेत्योचुर्नाय्यं वः शिशुरुक्तवान् ॥”)

न्यासः, पुं, (न्यस्यत इति । नि + अस + घञ् ।)

उपनिधिः । स्थाप्यद्रव्यम् । इत्यमरः । २ । ९ ।
८९ ॥ अस्य विवरणं निक्षेपशब्दे द्रष्टव्यम् ॥ * ॥
विन्यासः । अर्पणम् । यदाह कालिदासः ।
“पदन्यासैरासीत् कमलपरिपूर्णा वमुमती
दृगान्दोलैरिन्दीवरमयमभूदम्बरतलम् ।
इदं याचे किञ्चिद्विरचय वचः स्मेरमधुरं
धरायामप्यास्तां विधुमुखि ! सुधायाः परि-
चयः ॥”
त्यागः । यथा, श्रीभगवद्गीतायां १८ अध्याये ।
“काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥”
काशिकाख्यपाणिनिसूत्रव्याख्यानग्रन्थविशेषः ।
यथा, माघे । २ । ११२ ।
“अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥”
सन्न्यासः । यथा, --
“वक्ष्ये विविदिषान्यासं विद्वन्न्यासञ्च भेदतः ।
हेतू विदेहमुक्तेश्च जीवन्मुक्तेश्च तौ क्रमात् ॥”
इति जीवन्मुक्तिप्रथमविवेकः ॥ * ॥
पूजाजपादेः प्राग्विघ्ननाशमन्त्रसिद्ध्याद्यर्थंदेहान्त-
र्बहिर्व्वर्णादिविन्यासः । तत्र न्यासकालो यथा,
“प्रातःकालेऽथवा पूजासमये होमकर्म्मणि ।
जपकालेऽपि वा तेषां विनियोगः पृथक् पृथक् ।
पूजाकाले समस्तं वा कुर्य्यात् साधकसत्तमः ॥”
इति योगिनीहृदयम् ॥ * ॥
अथ मातृकान्यासः । अस्य मातृकामन्त्रस्य
ब्रह्मऋषिर्गायत्त्री छन्दो मातृकासरस्वती
देवता हलो बीजानि स्वराः शक्तयो लिपि-
न्यासे विनियोगः । शिरसि ॐ ब्रह्मणे ऋषये
नमः । मुखे ॐ गायत्त्रीच्छन्दसे नमः । हृदि
ॐ मातृकासरस्वत्यै देवतायै नमः । गुह्ये
ॐ व्यञ्जनेभ्यो बीजेभ्यो नमः । पादयोः स्वरेभ्यः
शक्तिभ्यो नमः । तथा च ज्ञानार्णवे ।
मातृकां शृणु देवेशि ! न्यसेत् पापनिकृन्तनीम् ।
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्त्री छन्द उच्यते ॥
देवता भातृकादेवी बीजं व्यञ्जनसञ्चयम् ।
शक्तयस्तु स्वरा देवि ! षडङ्गन्यासमाचरेत् ॥
ततः षडङ्गन्यासौ ।
अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः ।
इं चं छं जं झं ञं ईं तर्ज्जनीभ्यां स्वाहा ।
उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट् ।
एं तं थं दं धं नं ऐं अनामिकाभ्यां हुम् ।
ओं पं फं बं भं मं औं कनिष्ठाभ्यां वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षं अः करतल-
पृष्ठाभ्यां फट् । एवं हृदयादिषु । अं कं खं घं ङं
आं हृदयाय नमः । इत्यादि ।
तथा च ज्ञानार्णवे ।
अं आं मध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् ।
उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम् ॥
ओं औं मध्ये पवर्गन्तु बिन्दुयुक्तं न्यसेत् प्रिये ।
अनुस्वारविसर्गान्तर्यशवर्गौ सलक्षकौ ॥
हृदयन्तु शिरो देवि ! शिखा कवचकं तथा ।
नेत्रमन्त्रं न्यसेत् ङेऽन्तं नमःस्वाहा क्रमेण तु ॥
वषट् हुं वौषडन्तञ्च फडन्तं योजयेत् प्रिये ! ।
षडङ्गोऽयं मातृकायाः सर्व्वपापहरः स्मृतः ॥
अथान्तर्मातृकान्यासः ।
अकारादिषोडशस्वरान् सबिन्दून् षोडशदल-
कमले कण्ठमूले न्यसेत् । ककारादिद्बादशवर्णान्
सबिन्दून् द्वादशदलकमले हृदये न्यसेत् । डका-
रादिदशवर्णान् सबिन्दून् दशदलकमले नाभौ
न्यसेत् । वकारादिषड् वर्णान् सबिन्दून् षड्-
दलकमले लिङ्गमूले न्यसेत् । वकारादिचतुरो
वर्णान् सबिन्दून् चतुर्द्दलकमले मूलाधारे न्यसेत् ।
हक्षवर्णद्वयं सबिन्दुं द्बिदलकमले भ्रमधे न्यमेत् ।
तथा च ज्ञानार्णवे ।
“द्ब्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् ।
द्बादशच्छदहृत्पद्मे कादीन् द्वादश यिन्य सेतु ॥
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश ।
षट्पत्रमध्ये लिङ्गस्थे वकारादीन्न्यसेच्च षट् ॥
आधारे चतुरो वर्णान् न्यसेद्वादीन् चतुर्द्दले ॥
हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये ॥”
अगस्त्यसंहितायाम् ।
“एकैकवर्णमेकैकपत्रान्ते विन्यसेत् प्रिये ।
एवमन्तः प्रविन्यस्य मनसातो वहिर्न्यसेत् ॥”
वैष्णवे तु ।
“एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् ।
नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥
अथान्तर्मातृकान्यासो मूलाधारे चतुर्द्दले ।
सुवर्णाभे वशषसचतुर्व्वर्णविभूषिते ॥
षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।
बभमैर्यवलैर्युक्ते वर्णैः षड्भिश्च सुव्रते ।
मणिपूरे दशदले नीलजीमूतसन्निभे ।
डादिफान्तदलैर्युक्ते बिन्दूद्भाषितमस्तकैः ॥
अनाहते द्वादशारे प्रवालरुचिसन्निभे ।
कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे ॥
विशुद्धे षोडशदले धूम्राभे स्वरभूषिते ।
आज्ञाचक्रे तु चन्द्राभे द्विदले हक्षलाञ्छिते ॥
सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते ।
अकथादित्रिरेखात्महलक्षत्रयभूषिते ॥
तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् ।
एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥” * ॥
अथ वाह्यमातृकान्यासः ।
अस्या ध्यानं यथा, --
“पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलां
भास्वन्मौलिनिबद्धचन्द्रसकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजै-
र्विभ्राणां विषदप्रभां त्रिनयनां वाग्देवतामा-
श्रये ॥”
एवं ध्यात्वा न्यसेत् । तत्राङ्गुलिनियमस्तन्त्रे ।
“ललाटे नासिकामध्ये विन्यसेन्मुखपङ्कजे ।
तर्ज्जनी मध्यमानामा वृद्धानामे च नेत्रयोः ॥
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः ।
मध्यास्तिस्रो गण्डयोश्च मध्यमाञ्चोष्ठयोर्न्यसेत् ॥
अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके ।
मुखेऽनामां मध्यमाञ्च हस्तपादेषु पार्श्वयोः ॥
कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् ।
ताः साङ्गुष्ठा नाभिदेशे सर्व्वाः कुक्षौ च विन्यसेत् ॥
हृदये च तलं सर्व्वमंसयोश्च ककुत्स्थले ।
हृत्पूर्ब्बं हस्तपत्कुक्षिमुखेषु तलमेव च ॥
एतास्तु मातृकामुद्राः क्रमेण परिकीर्त्तिताः ।
अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य
निष्फलः ॥”
गौतमीये ।
“ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्यदोःपत्सन्ध्यग्रकेषु च ॥
पृष्ठ २/९३६
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंशके ।
ककुद्यंशे च हृत्पूर्ब्बं पाणिपादयुगे तथा ॥
जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात् ॥”
तद्यथा । अं नमो ललाटे । आं नमो मुखे ।
इं ईं चक्षुषोः । उं ऊं कर्णयोः । ऋं ॠं
नसोः । ऌं ॡं गण्डयोः । एं ओष्ठे । ऐं अधरे ।
ओं ऊर्द्ध्वदन्ते । औं अधोदन्ते । अं ब्रह्मरन्ध्रे ।
अः मुखे । कं दक्षबाहुमूले । खं कुर्परे । गं
मणिबन्धे । घं अङ्गुलिमूले । ङं अङ्गुल्यग्रे । एवं
चं ५ वामबाहुमूलसन्ध्यग्रकेषु । एवं टं ५ दक्षिण-
पादमूलसन्ध्यग्रकेषु । एवं तं ५ वामपादमूल-
सन्ध्यग्रकेषु । पं दक्षिणपार्श्वे । फं वामपार्श्वे ।
बं पृष्ठे । भं नाभौ । मं उदरे । यं हृदि । रं
दक्षबाहुमूले । लं ककुदि । वं वामबाहुमूले ।
शं हृदादिदक्षहस्ते । ष हृदादिवामहस्ते ।
सं हृदादिदक्षपादे । हं हृदादिवामपादे । लं
हृदाद्युदरे । क्षं हृदादिमुखे । सर्व्वत्र नमो-
ऽन्तेन न्यसेत् । तथा च ।
“ओमाद्यन्तो नमोऽन्तो वा सविन्दुर्विन्दुवर्ज्जितः ।
पञ्चाशद्बर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥”
इति भट्टः ॥
अथ संहारमातृकान्यासः ।
तस्या ध्यानं यथा, --
“अक्षस्रजं हरिणपोतमुदग्रटङ्क-
विद्याः करैरविरतं दधतीं त्रिनेत्राम् ।
अर्द्धेन्दुमौलिमरुणामरविन्दरामां
वर्णेश्वरीं प्रणमतस्तनभारनम्राम् ॥”
न्यासस्तु क्षक्राराद्यकारान्तः । यथा । क्षं नमो
हृदादिमुखे इत्यादि ॥ * ॥
अपरञ्च ।
“चतुर्धा मातृका प्रोक्ता केवला विन्दुसंयुता ।
सविसर्गा सोभया च रहस्यं शृणु कथ्यते ॥
विद्याकरी केवला च सोभया भुक्तिदायिनी ।
पुत्त्रदा सविसर्गा तु सविन्दुर्वित्तदायिनी ॥”
विशुद्धेश्वरे ।
“वाग्भवाद्या च वाक्सिद्ध्यै रमाद्या श्रीप्रवृद्धये ।
हृल्लेखाद्या सर्व्वसिद्ध्यै कामाद्या लोकवश्यदा ॥
श्रीकण्ठाद्यानिमान् न्यस्येत् सर्व्वमन्त्रः प्रसीदति ॥”
श्रीविद्यात्वषये नवरत्नेश्वरे ।
“वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृका-
क्षराः ।
श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये ॥”
यामले ।
“भूतशुद्धिलिपिन्यासौ विना वस्तु प्रपूजयेत् ।
विपरीतफलं दद्यादभक्त्या पूजनं यथा ॥”
सामान्यन्यासे अङ्गुलिनियमो गौतमीये ।
“मनसा विन्यसेन्न्यासान् पुष्पेणैवाथवा मुने ।
अङ्गुष्ठानामिकाभ्यां वा चान्यथा विफलं भवेत् ॥”
विशेषन्यासे तु नायं नियमः ॥ * ॥
अथ पीठन्यासः ।
ॐ आधारशक्तये नमः ॐ प्रकृतये नमः ॐ
कूर्म्माय नमः ॐ अनन्ताय नमः ॐ पृथिव्यै
नमः ॐ क्षीरसमुद्राय नमः ॐ श्बेतद्वीपाय
नमः एवं मणिमण्डपाय कल्पवृक्षाय मणिवेदि-
कायै रत्नसिंहासनाय एतत् सर्व्वन्तु हृदि ।
ततो दक्षिणस्कन्धे ॐ धर्म्माय नमः । वामस्कन्धे
ॐ ज्ञानाय नमः । एवं वामोरौ वैराग्याय ।
दक्षिणोरौ ऐश्वर्य्याय । मुखे अधर्म्माय । वाम-
पार्श्वे अज्ञानाय । नाभौ अवैराग्याय । दक्षिण-
पार्श्वे अनैश्वर्य्याय । सर्व्वत्र प्रणवादिनमोऽन्तेन
न्यसेत् । तथा च शारदायाम् ।
“अंसोरुयुग्मयोर्व्विद्बान् प्रादक्षिण्येन साधकः ।
धर्म्मं ज्ञानञ्च वैराग्यमैश्वर्य्यं क्रमशः सुधीः ॥
मुखपार्श्वनाभिपार्श्वेष्वधर्म्मादीन् प्रकल्पयेत् ॥”
पुनर्हृदि । ॐ अनन्ताय नमः । एवं पद्माय
नमः । अं सूर्य्यमण्डलाय द्वादशकलात्मने नमः ।
उं सोममण्डलाय षोडशकलात्मने नमः । मं
वह्निमण्डलाय दशकलात्मने नमः । सं सत्त्वाय
नमः । रं रजसे नमः । तं तमसे नमः । आं
आत्मने नमः । अं अन्तरात्मने नमः । पं पर-
मात्मने नमः । ह्रीं ज्ञानात्मने नमः । इत्यन्तं
विन्यस्य हृत्पद्मस्य पूर्ब्बादिकेशरेषु तत्तत्-
कल्पोक्तपीठशक्तीर्मध्ये पीठमनुञ्च न्यसेत् ।
यथा शारदायाम् ।
“अनन्तं हृदये पद्मं तस्मिन् सूर्य्येन्दुपावकान् ।
एषु स्वस्वकलां न्यस्य नामाद्यक्षरपूर्ब्बतः ॥
सत्त्वादीन् त्रिगुणान् न्यस्य तथैवात्र गुरूत्तमः ।
“आत्मानमन्तरात्मानं परमात्मानमेव च ।
ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः ॥”
अथ ऋष्यादिन्यासः ।
ऋषिस्तु ।
“महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ।
संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ॥
गुरुत्वान्मस्तके चास्य न्यासस्तु परिकीर्त्तितः ।
सर्व्वेषां मन्त्रतत्त्वानां छादनाच्छन्द उच्यते ॥
अक्षरत्वात् पदत्वाच्च मुखे छन्दः समीरितम् ।
सर्व्वेषामेव जन्तूनां भाषणात् प्रेरणात्तथा ॥
हृदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत् ।
ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् ॥
दौर्ब्बल्यं याति मन्त्राणां विनियोगमजानताम् ॥”
तन्त्रान्तरे ।
“ऋषिं न्यसेन्मूर्द्ध्नि देशे छन्दस्तु मुखपङ्कजे ।
देवतां हृदये चैव बीजन्तु गुह्यदेशके ॥
शक्तिञ्च पादयोश्चैव सर्व्वाङ्गे कीलकं न्यसेत् ॥”
अथाङ्गन्यासः । तत्राङ्गुलिनियमः ।
त्रिद्ब्येकदशकद्वित्रिसंख्यया शैलसम्भवे ।
अङ्गुलीनामिति वचनादिति सर्व्वसाधारणम् ॥
यामले ।
“हृदयं मध्यमानामातर्ज्जनीभिः स्मृतं शिरः ।
मध्यमातर्ज्जनीभ्यां स्यादङ्गुष्ठेन शिखा स्मृता ॥
दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् ।
प्रोक्ताङ्गुलीभ्यामस्त्रं स्यादङ्गकॢप्तिरियं मता ॥
तिसृभिस्तर्ज्जनीमध्यमानामाभिः ॥
तर्ज्जनीमध्यमानामा प्रोक्ता नेत्रत्रये क्रमात् ।
यदि नेत्रद्बयं प्रोक्तं तदा तर्ज्जनिमध्यमे ॥”
इति भट्टधृतवचनात् ॥
“हृदयादिषु विन्यस्येदङ्गमन्त्रांस्ततः सुधीः ।
हृदयाय नमः पूर्ब्बं शिरसे वह्निवल्लभा ॥
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ।
नेत्रत्रयाय वौषट् स्यादस्त्राय फडितिक्रमात् ॥
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् ।
पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रमनुं त्यजेत् ॥”
इति शारदावचनम् ॥
वैष्णवे तु ।
“अनङ्गुष्ठा ऋजवो हस्तशाखा
भवेन्मुद्रा हृदये शीर्षके च ।
अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां
करद्वन्द्वाङ्गुलयो वर्म्मणि स्युः ॥
नाराचमुष्ट्युद्धृतबाहुयुग्म-
काङ्गुष्ठतर्ज्जन्युदितो ध्वनिस्तु ।
विश्वग्विशक्ता कथितास्त्रमुद्रा
यत्राक्षिणी तर्ज्जनिमध्यमे च ॥”
शारदायाम् ।
“न्यासक्रमेण देहेषु धर्म्मादीन् पूजयेत्ततः ।
पुष्पाद्यैः पीठमन्वन्तं तस्मिंश्च परदेवताम् ॥”
इति दर्शनात् शरीरे पीठपूजा ।
“अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत् ॥”
तथा ब्रह्मयामले ।
“स्वनामाद्यक्षरं बीजं सर्व्वेषामभिधीयते ॥”
अथ व्यापकन्यासः ।
नवधा सप्तधा वापि मूलेन पञ्चधा त्रिधेति
भैरवतन्त्रवचनात् । नवधाकरणे शिरस्तः
पादान्तं पादतः शिरोऽन्तम् । एवं चतुर्धा ।
सप्तधाकरणे तादृशं त्रिधा । पञ्चधाकरणे
तादृशं द्बिधा । त्रिधाकरणेऽपि तादृशमेकधा ।
हृदादिमुखान्तन्तु शेषे एकधा सर्व्वत्रैव ।
शतधाकरणे तु तादृशं पञ्चाशद्वारं हृदादि-
मुखान्तं नास्तीति व्यापकन्यासः । इत्यागम-
तत्त्वविलास्रः ॥ * ॥ नित्यं म्यासकरणफलं
यथा, --
“आगमोक्तन विधिना नित्यं न्यासं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥
यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये ।
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥”
न्यासाकरणे दोषो यथा, --
“अकृत्वा न्यासजालं यो मूढत्वात् प्रजपेन्मनुम् ।
सर्व्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगशिशुर्यथा ॥”
इति तन्त्रसारः ॥ * ॥
एते न्यासाः सामान्यपूजाप्रकरणोक्ताः ।
अन्ये च देवताविशेषे बहवः सन्ति बाहु-
ल्यभिया तेषां प्रमाणादिकमलिखित्वा केवलं
तत्र विष्णुविषये केशवकीर्त्त्यादि १ मूर्त्तिपञ्जर २
तत्त्व ३ भूतिपञ्जर ४ दशाङ्ग ५ पञ्चाङ्ग ६
न्यासाः । शिवविषये श्रीकण्ठादि १ ईशानादि-
पञ्चमूर्त्ति २ मन्त्र ३ मूर्त्ति ४ गोलक ५ सुभ-
गादि ६ भूषण ७ न्यासाः । अन्नपूर्णाविषये
पृष्ठ २/९३७
पदन्यासः १ । श्रीविद्याविषये वशिन्यादि १ नव-
योन्यात्मक २ पीठ ३ तत्त्व ४ पञ्चदशी ५
षोडशी ६ संहार ७ स्थिति ८ सृष्टि ९ नाद १०
षोढा ११ गणेश १२ ग्रह १३ नक्षत्र १४
योगिनी १५ राशि १६ त्रिपुरा १७ षोडश-
नित्या १८ कामरति १९ सृष्टिस्थिति २० प्रकट-
योगिनी २१ आयुध २२ न्यासाः । तारा-
विषये रुद्र १ ग्रह २ लोकपाल ३ न्यासाः ।
एतेषां प्रमाणानि तन्त्रसारादौ द्रष्टव्यानि ॥

न्युङ्खः, पुं, (न्युङ्ख्यते इति । नि + उङ्ख गतौ +

घञ् ।) सामवेदे नियतप्रणवषट्कम् । दीर्घ-
वानयमिति नयनानन्दः । इत्यमरभरतौ ॥
सम्यक् । मनोज्ञः । इति मेदिनी । खे, २ ॥

न्युब्जं, क्ली, (न्युब्जति अधोमुखीभवतीति । नि +

उब्ज + अच् ।) कर्म्मरङ्गफलम् । इति मेदिनी ।
जे, १२ ॥ श्राद्धादिपात्रभेदः । इति शब्दरत्नावली ॥
तथा च गोभिलः । प्रथमे पात्रे संस्रवान् सम-
वनीय पात्रं न्युब्जं कुर्य्यात् पितृभ्यः स्थान-
मसीति । प्रथमे पात्रे पितृपात्रे । संस्रवान्
पितामहादिपञ्चार्घपात्रस्थशेषजलानि । समव-
नीय क्रमेण स्थापयित्वा तत्पात्रस्य प्रपितामह-
पात्रेणाच्छादनमाह शौनकः । प्रपितामह-
पात्रेण पिधाय प्रतिष्ठापयतीति । याज्ञवल्क्ये-
नापि तत्पात्रस्याधःस्थत्वाभिधानात् पात्रा-
न्तरेण पिधानमाक्षिप्तम् । तथा च याज्ञ-
वल्क्यः ।
“दत्त्वार्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥”
विधानतः यथापूर्ब्बं स्थापितं क्रमेण । तेन
प्रपितामहपात्रेणाधःकृतं पितृपात्रं ऊर्द्ध्वमुख-
मवस्थितं न्युब्जं करोति । तन्न्यासश्च । पितृ-
पात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् । इति
मत्स्यपुराणवचने न्यसेदित्यत्राख्यातोपस्थापित-
कर्त्तुर्व्वामपार्श्वे कर्त्तव्यः । इति श्राद्धतत्त्वम् ॥

न्युब्जः, पुं, (नि + उब्ज + अच् ।) दर्भमयस्रुक् ।

इति मेदिनी । जे, ११ ॥ (यथा, --
“शयनासनयानानामुत्तानानान्तु दर्शनम् ।
न्युब्जानामितरेषाञ्च पात्रादीनामशोभनम् ॥”
इति वाभटे शारीरस्थाने । ६ । २३ ॥)
कुशः । स्रुक् । इति हेमचन्द्रः ॥

न्युब्जः, त्रि, (न्युब्जति अधोमुखीभवतीति । नि +

उब्ज + अच् ।) कुब्जः । अधोमुखः । इति
मेदिनी । जे, १२ ॥ (यथा, हरिवंशे । ६१ । ६ ।
“स तत्रैकेन पादेन शकटं पर्य्यवर्त्तयत् ।
न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥”)
रुजा भुग्नः । इत्यमरः । २ । ६ । ६१ ॥
रोगेण वक्रीकृतपृष्ठाधोमुखपुरुषादिः । इति
भरतः ॥

न्युब्जखड्गः, पुं, (न्युब्जः खड्गः ।) कुब्जखड्गः ।

वाँका तरवार इति भाषा ॥ तत्पर्य्यायः ।
कटीतलः २ । इति त्रिकाण्डशेषः ॥

न्यूनं, त्रि, (न्यूनयति । नि + ऊन परिहाणे +

अच् ।) गर्ह्यम् । (यथा, महाभारते । १३ ।
१४३ । ४६ ।
“एतैः कर्म्मफलैर्द्देवि ! न्यूनजातिकुलोद्भवः ।
शूद्रोऽप्यागमसम्पन्नो द्बिजो भवति संस्कृतः ॥”)
ऊनम् । इत्यमरः । ३ । ३ । १२७ ॥ (यथा,
मनुः । ८ । २०३ ।
“नान्यदन्येन संसृष्टरूपं विक्रयमर्हति ।
न चासारं न च न्यूनं न दूरे न तिरोहितम् ॥”)

न्यूनपञ्चाशद्भावः, पुं, (न्यूनपञ्चाशतः ऊनपञ्चा-

शब्दायूनां भावो यत्र ।) ऊनपञ्चाशद्भावः ।
पागल इत्यर्थः । यथा, --
“उदीरितेन्द्रियो धाता वीक्षाञ्चक्रेयदात्मजाम् ।
तदैव न्यूनपञ्चाशद्भावा जाताः शरीरतः ॥”
इति कालिकापुराणे द्बितीयाध्यायः ॥

न्रस्थिमाली, [न्] पुं, (नॄणामस्थिमाला न्रस्थि-

माला सा अस्त्यस्येति । इनिः ।) शिवः । इति
त्रिकाण्डशेषः ॥ नरास्थिमालाविशिष्टे, त्रि ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/नेमः&oldid=43990" इत्यस्माद् पुनः प्राप्तिः