शब्दकल्पद्रुमः/निष्क्रयः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/९०५

निष्क्रयः, पुं, (निष्क्रीयते विनिमीयतेऽनेनेति । निर +

क्री + “एरच् ।” ३ । ३ । ५६ । इति करणे अच् ।)
भृतिः । वेतनम् । इति हेमचन्द्रः । ६ । २६ ॥
बुद्धियोगः । सामर्थ्यम् । निर्गतिः । इति माध-
टीकाधृतवैजयन्ती ॥ प्रत्युपकारः । विनिमयः ।
यथा, माघे । १ । ५० ।
“समुत्क्षिपन् यः पृथिवीभृताम्बरं
वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससम्भ्रम-
स्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥”
(विक्रयः । यथा, मनुः । ९ । ४६ ।
“न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या विमुच्यते ॥”)

निष्क्रान्तः, त्रि, (निर् + क्रम + क्तः ।) निर्गतः ।

यथा, मार्कण्डेये । ८७ । ५ ।
“भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ॥”
(यथाच, महाभारते । १३ । २ । ४५ ।
“निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे ।
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥”)

निष्क्रियं, क्ली, (निर्गता क्रिया यस्य ।) ब्रह्म ।

यथा, वेदान्तसूत्रभाष्यम् ।
“निष्क्रियं निर्गुणं शान्तं निरपेक्षं निरञ्जनम् ॥”
क्रियाशून्ये, त्रि । यथाह कश्चित् ।
“बन्धनानि यदि सन्ति बहूनि
प्रेमरज्जुकृतबन्धनमन्यत् ।
दारुभेदनिपुणोऽपि षडङ्घ्रि-
र्निष्क्रियो भवति पङ्कजबद्धः ॥”

निष्क्वाथः, पुं, (निःसृतः क्वाथो यत्र ।) मांसादि-

क्वाथः । झोल इति भाषा । तत्पर्य्यायः ।
रसकः २ । इति हेमचन्द्रः । ३ । ७७ ॥

निष्ट्यः, पुं, (वर्णाश्रमादिभ्यो निर्गतः । निस् +

“अव्ययात् त्यप् ।” ४ । २ । १०४ । इत्यस्य
“निसो गते ।” इति वार्त्तिकोक्त्या त्यप् ।
“ह्रस्वात्तादौ तद्धिते ।” ८ । ३ । १०१ । इति
षत्वम् ।) म्लेच्छजातिविशेषः । इति हेमचन्द्रः ।
५ । ५९८ ॥ (पुत्त्रादिः । इति महीधरः । यथा,
वाजसनेयसंहितायाम् । ५ । २३ ।
“यं मे निष्ट्यो यममात्यो निचखान ॥”
“ष्ट्यै स्त्यै शब्दसंघातयोः । नितरां स्त्यायति
संघातरूपेण सह वर्त्तत इति निष्ट्यः । यद्वा,
निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति
निष्ट्यः पुत्त्रादिः । यद्वा, निर्गतो वर्णाश्रमेभ्यो
निष्ट्यश्चण्डालादिः । निसो गते इति वार्त्तिकेन
निस उपसर्गाद्गतार्थे त्यप् इति काशिका-
याम् ।” इति तत्र वेददीपः ॥)

निष्ठः, त्रि, (नितरां तिष्ठतीति । नि + स्था +

कः ।) स्थितः । नितिष्ठतीति स्थाघातोर्डप्रत्यय-
निष्पन्नः ॥

निष्ठा, स्त्री, (नितरां तिष्ठतीति । नि + स्था +

“आतश्चोपसर्गे ।” ३ । १ । १३५ । इति कः ।
“उपसर्गादिति ।” ८ । ३ । ६५ । इति षत्वम्
तसष्टाप् ।) निष्पत्तिः । नाशः । (यथा, भाग-
वते । ५ । १२ । ८ ।
“यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवञ्च नित्यम् ॥”)
अन्तः । निर्वहणम् । इत्यमरः । ३ । ६ । ४० ॥
याच्ञा । इति मेदिनी । ठे, ६ ॥ क्तक्तवतू
प्रत्ययौ । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥
(यथा, “क्तक्तवतू निष्ठा । १ । १ । २६ । एतौ
निष्ठासंज्ञौ स्तः ।” इति सिद्धान्तकौमुदी ॥)
धर्म्मादौ श्रद्धा । यथा, --
“निष्ठया हि प्रतिष्ठा स्यादनिष्ठस्य कुतः कुलम् ।
शक्नोति नैष्ठिकः स्वीयं धर्म्मं त्रातुं न चेतरः ॥
एकस्य देवस्य विहाय मन्त्र-
मेकं परञ्चेद्भजतेऽपि तस्य ।
तदा भवेन्मृत्युरनैष्ठिकत्वा-
न्निष्ठाविहीनस्य न कापि सिद्धिः ॥”
इति वैद्यकुलतत्त्वे मरतमल्लिकः ॥
प्राप्यम् । यथा, --
“भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।
तेषामशान्तकामानां का निष्ठा विजितात्म-
नाम् ॥”)
इति श्रीभागवतैकादशस्कन्धपञ्चमाध्यायश्लोक-
टीकाव्याख्यायां श्रीधरस्वामी ॥ (नि + स्था +
क्विप् । स्थितिः । यथा, ऋग्वेदे । ३ । ३१ । १० ।
“जाते निष्ठामदधुर्गोषु वीरान् ॥”
“निष्ठां पूर्ब्बं यथास्थितिम् ।” इति सायनः ॥)

निष्ठानं, क्ली, (नि + स्था + करणे ल्युट् ।) व्यञ्ज-

नम् । इत्यमरः । ३ । ३ । ११५ ॥ (यथा,
रामायणे । २ । ९१ । ६७ ।
“आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्य्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥”)

निष्ठितं, त्रि, (नि + स्था + क्तः ।) नितरां स्थितम् ।

यथा, भागवते । २ । ७ । ३६ ।
“देवद्विषां निगमवर्त्मनि निष्ठितानां
पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः ।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं
वेशं विधाय बहुभाष्यत औपधर्म्म्यम् ॥”
“देवद्विषां दैत्यानां निष्ठितानां नितरां स्थिता-
नाम् ।” इति श्रीधरस्वामी ॥ (निष्ठा जाता-
स्येति । तारकादित्वादितच् ।) निष्ठाविशिष्टः ।
निश्चयेन स्थितश्च ॥ (सम्यक्ज्ञाता । यथा,
रामायणे । १ । १ । १४ ।
“रक्षिता स्वस्य धर्म्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्व्वेदे च निष्ठितः ॥”)

निष्ठीवः, पुं, (नि + ष्ठिव + भावे घञ् । पृषोदरा-

दित्वात् दीर्घः ।) निष्ठीवनम् । इति द्विरूप-
कोषः ॥ (यथाह वाभटः ।
“निष्ठीवः पाश्वतो यायादेकस्याक्ष्णो निमी-
लनम् ॥”)

निष्ठीवनं, क्ली, (नि + ष्ठिव + भावे ल्युट् । ष्ठिवु-

सिव्योर्ल्युटि दीर्घो वेति स्वामी । पृषोदरादि-
त्वादिति मुकुटः ।) श्लेष्मादीनां मुखेन वमनम् ।
छेप इति थुथु इति च भाषा ॥ तत्पर्य्यायः ।
निष्ठेवः २ निष्ठूतिः ३ निष्ठेवनम् ४ । इत्यमरः ।
३ । २ । ६८ ॥ निष्ठेवा ५ । निष्ठेवम् ६ । इति
तट्टीका ॥ (यथा, मार्कण्डेयपुराणे । ३४ । ७० ।
“क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु ।
कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ॥”)

निष्ठुरं, त्रि, (नि + स्था + मद्गुरादयश्चेति उरच् ।)

परुषम् । कठिनम् । इत्यमरः । ३ । १ । ७६ ॥
(यथा, माघे । ५ । ४९ ।
“जज्ञे जनैर्मुकुलिताक्षमनाददाने
संरब्धहस्तिपकनिष्ठुरचोदनाभिः ॥”)

निष्ठ्यूतं, त्रि, (नि + ष्ठिव् + क्तः । “च्छ्वोः शूडिति ।”

६ । ४ । १९ । इत्यूठ् ।) क्षिप्तम् । इत्यमरः ।
३ । १ । ८७ ॥

निष्ठ्यूतिः, स्त्री, (नि + ष्ठिव् + क्तिन् । “च्छ्वोः

शूडिति ।” ६ । ४ । १९ । इत्यूठ् ।) निष्ठीवनम् ।
इत्यमरः । ३ । २ । ३८ ॥

निष्ठेवः, त्रि, (नि + ष्ठिव् + घञ् ।) निष्ठीवनम् ।

इत्यमरः । ३ । २ । ३८ ॥

निष्ठेवनं, क्ली, (नि + ष्ठिव् + भावे ल्युट् ।) निष्ठी-

वनम् । इत्यमरः । ३ । २ । ३८ ॥

निष्णातः, त्रि, (नितरां स्नाति स्मेति । नि +

स्ना + क्तः । “निनदीभ्यां स्नातेः कौशले ।”
८ । ३ । ८९ । इति षत्वम् ।) विज्ञः । निपुणः ।
इत्यमरः । ३ । १ । ४ ॥ (यथा, सुश्रुते सूत्रस्थाने
तृतीयेऽध्याये ।
“यस्तु कर्म्मसु निष्णातो धार्ष्ट्याच्छात्रबहिष्कृतः ।
स सत्सु पूजां नाप्नोति वधञ्चार्हति राजतः ॥”)
पारं गतः । यथा, भागवते १ । ४ । २१ ।
“वैशम्पायन एवैको निष्णातो यजुषामुत ॥”

निष्पक्वं, त्रि, (नितरां पक्वम् ।) अतिपक्वव्यञ्जन-

दशमूलादि । इति भरतः ॥ तत्पर्य्यायः ।
क्वथितम् २ । इत्यमरः । ३ । १ । ९५ ॥ पक्वता-
शून्यञ्च ॥

निष्पताकध्वजः, पुं स्त्री, राज्ञां पताकाशून्यदण्ड-

विशेषः । इति युक्तिकल्पतरुः ॥ तद्विवरणं ध्वज-
शब्दे द्रष्टव्यम् ॥

निष्पत्तिः, स्त्री, (निर् + पद + क्तिन् ।) समाप्तिः ।

सिद्धिः । यथा, --
“क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
विवक्षते यदा तत्र करणत्वं तदा स्मृतम् ॥”
इति रामतर्कवागीशधृतकारिका ॥
(नादस्यावस्थाविशेषः । यथा, हठयोगप्रदी-
पिकायाम् । ४ । ६९ ।
“आरम्भश्च घटश्चैव तथा परिचयोऽपि च ।
निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥”
तथा, तत्रैव । ४ । ७६ ।
“रुद्रग्रन्थिं यदा भित्वा सर्व्वपीठगतोऽनिलः ।
निष्पत्तौ वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ॥”)

निष्पत्राकृतिः, स्त्री, (निष्पत्र + कृ + भावे क्तिन् +

डाच् ।) सपत्राकृतिः । अत्यन्तपीडा । इति
हेमचन्द्रः । ६ । ८ ॥

निष्पत्रिका, स्त्री, (निष्पत्रमस्या अस्तीति । ठन् ।)

करीरवृक्षः । इति राजनिर्घण्टः ॥

निष्पदयानं, क्ली, (निष्पदं पदरहितं यानम् ।)

पदरहितवाहनम् । तच्च नौकादिकम् । इति
पृष्ठ २/९०६
युक्तिकल्पतरुः ॥ तल्लक्षणादि नौकाशब्दे
द्रष्टव्यम् ॥

निष्पन्नः, त्रि, (निर् + पद् + क्तः ।) निष्पत्ति-

विशिष्टः । सम्पन्नः । तत्पर्य्यायः । सिद्धः २
निर्वृत्तः ३ । इत्यमरः । ३ । १ । १०० ॥ (यथा,
देवीभागवते । ३ । ८ । २२ ।
“निष्पापत्वं फलं विद्धि तीर्थस्य मुनिसत्तम् ! ।
कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥”)

निष्पादनं, क्ली, (निर् + पद् + णिच् + ल्युट् ।)

निष्पत्तिः । निष्पत्तिनियुक्तिः । यथा, धात्वर्थता-
वच्छेदकफलनिष्पादकतया ददस्वेत्यनुमतिप्रका-
शनेन कर्त्तुरिच्छामुत्पाद्य दाननिष्पादनेन वेति
कारकचक्रे भवानन्दसिद्धान्तवागीशः ॥

निष्पादना, स्त्री, (निर् + पद + णिच् + युच् ।

स्त्रियां टाप् ।) निष्पत्तिप्रेरणम् । यथा, --
“यदा निष्पादनाथकृधुस्तदा चैत्रः कटं करोति ।
यदा निष्पत्त्यर्थस्तदा क्रियते कटः स्वयमेवेति ।”
इति रामतर्कवागीशः ॥

निष्पादितं, त्रि, (निर् + पद + णिच् + क्तः ।)

कृतनिष्पादनम् । यथा, --
“निष्पादितं दैवकृत्यमवशेषं प्रतीक्षते ॥”
इति भागवते । १ । १३ । ५० ॥

निष्पाद्यं, त्रि, (निर् निश्चयेन पाद्यते समाप्यते

इति । निर् + पद् + णिच् + ण्यत् ।) निष्पा-
दनीयम् । (यथा, राजतरङ्गिण्याम् । २ । १५८ ।
“कृत्ये बहूनि निष्पाद्ये श्रमात् कौसीद्यमाश्रयन् ।
प्रावृषीवाध्वगो दिष्ट्या मोहितोऽस्मि न
निद्रया ॥”)
साध्यम् । यथा, चेष्टाव्यापारेण छेदनादेर्निष्पा-
द्यत्वात् साधनत्वमिति रामतर्कवागीशः ॥

निष्पावः, पुं, (निष्पूयते तुषाद्यपनयनेन शोध्यते

इति । निर् + पू + णिच् + घञ् ।) धान्यादीनां
निस्तुषीकरणम् । बहुलीकरणम् । तत्पर्य्यायः ।
पवनम् २ पवः ३ । इत्यमरः । ३ । २ । २४ ॥
पूतीकरणम् ४ । यथा, --
“धान्यादिनिस्तुषीकार्य्यबहुलीकरणादिषु ।
तथा च पूतीकरणे निष्पावः पवनं पवः ॥”
इति शब्दरत्नावली ॥
राजशिम्बीबीजम् । भटवासु इति भृष्टवांसु
इति वा हिन्दीभाषा ॥ तत्पर्य्यायगुणाः ।
“निष्पावो राजशिम्बी स्याद्बल्लकः श्वेतशिम्बिकः ।
निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः ॥
कषायस्तन्यपित्तास्रमूतवातविबन्धकृत् ।
विदाह्युष्मो विषश्लेष्मशोथहृच्छुक्रनाशनः ॥”
इति भावप्रकाशः ॥
(निष्पूयतेऽनेनेति । करणे घञ् ।) सूर्पवायुः ।
राजमाषः । (यथा, मार्कण्डेयपुराणे । १५ । २४ ।
“मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।
चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥”)
कडङ्गरः । समीरणः । शिम्बिका । निर्व्विकल्पे,
त्रि । इति मेदिनी । वे, ३८ ॥ श्वेतशिम्बी ।
इति रत्नमाला ॥ (यथा, --
“क्षारातितीक्ष्णोष्णविदाहितैल-
निष्पावपिण्याककुलत्थयूषैः ॥”
इति माधवकृतरुग्विनिश्चये शूलाधिकारे ॥)

निष्पावकः, पुं, (निष्पाव एव । स्वार्थे कन् ।) श्वेत-

शिम्बी । अस्य भ्रष्टफलगुणः । मलबन्धकारि-
त्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ (अस्य
गुणा यथा, --
“निष्पावको वैषवलासशोफ-
शुक्रान्तको रूक्षगुणो विदाही ।
कषायकः स्यान्मधुरो गुरुश्च
स्तन्यास्रपित्तञ्च करोति वातम् ॥”
इति हारीते प्रथमस्थाने दशमेऽध्याये ॥)

निष्पावी, स्त्री, (निष्पाव + स्त्रियां ङीष् ।) शिम्बी-

विशेषः । वोडा इति भाषा ॥ सा द्बिधा । तत्र
हरिद्वर्णायाः पर्य्यायः । ग्रामजा २ फलिनी ३
नखपूर्ब्बिका ४ मण्डपी ५ फलिका ६ शिम्बी ७
गुच्छफला ८ विशालफलिका ९ निष्पाविः १०
चिपिटा ११ ॥ शुभ्रायाः पर्य्यायः । अङ्गुलि-
फला १ नखनिष्पाविका २ वृन्तनिष्पाविका ३
ग्राम्या ४ नखपुञ्जफला ५ अशना ६ । एतयो-
र्गुणाः । कषायत्वम् । मधुररसत्वम् । कण्ठ-
शुद्धिकरत्वम् । मेध्यत्वम् । दीपनत्वम् । रुचि-
कारित्वञ्च । इति राजनिर्घण्टः ॥

निष्प्रतिभः, त्रि, (निर्नास्ति प्रतिभा बुद्धिर्यस्य ।)

अज्ञः । जडः । इति जटाधरः ॥ (निर्गता
प्रतिभा दीप्तिरस्येति । दीप्तिशून्यः । यथा,
हरिवंशे । ८२ । ३४ ।
“क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्द्दधे रूपमुदगच्छद्दिवाकरः ॥”)

निष्प्रत्यूहः, त्रि, (निर्गतः प्रत्यूहो बाधा अस्येति ।)

निर्व्विघ्नः । यथा, --
“निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः ॥”
इति मुरारिः ॥
(स्त्री, गङ्गा । यथा, काशीखण्डे । २९ । १०३ ।
“निष्प्रत्थूहा नाकनदी निरयार्णवदीर्घनौः ॥”)

निष्प्रभः, त्रि, (निर्गता प्रभा अस्येति ।) प्रभा-

शून्यः । दीप्तिरहितः । तत्पर्य्यायः । विगतः २
अरोकः ३ । इत्यमरः । ३ । १ । १०० ॥ (यथा,
रघुवंशे । ११ । ८१ ।
“निष्प्रभश्च रिपुरास भूभृतां
धूमशेष इव धूमकेतनः ॥”)

निष्प्रयोजनं, त्रि, (निर्नास्ति प्रयोजनं यस्मिन्निति ।)

प्रयोजनरहितम् ।
“अन्यथा हि महाबाहो लघूनामुपदेशतः ।
गुरूणामुपदेशो हि निष्प्रयोजनतां व्रजेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(यथा, हरिवंशे । ६४ । १५ ।
“निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् ॥”)

निष्प्रवाणं, त्रि, (नितरां प्रकर्षेण ऊयते इति ।

निर् + प्र + वे + करणे ल्युट् ।) तन्त्रविमुक्त-
वासः । नूतनवस्त्रम् । इति हारावली । ६९ ॥

निष्प्रवाणि, त्रि, (निर्गता प्रवाणी तन्तुवायशलाका

अस्मादस्य वा । “निष्प्रवाणिश्च ।” ५ । ४ । १६० ।
इति कपोऽभावो निपात्यते ।) नूतनवस्त्रम् ।
तत्पर्य्यायः । अनाहतम् २ तन्त्रकम् ३ नवाम्ब-
रम् ४ । इत्यमरः । २ । ६ । ११२ ॥ आह-
तम् ५ अहतम् ६ नववस्त्रम् ७ । इति शब्द-
रत्नावली ॥

निष्फलः, त्रि, (निर्गतं फलं यस्मात् ।) फलशून्यः ।

यथा, “पलालोऽस्त्री स निष्फलः ।” इत्यमरः ।
२ । ९ । २२ ॥ (यथा, देवीभागवते । ३ । ८ । २५
“कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् ।
निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥”)

निष्फला, स्त्री, (निवृत्तं फलं यस्या इति ।) पञ्च-

पञ्चाशदब्देभ्य ऊर्द्ध्वं गतरजस्का । इत्यमरः ॥
तत्पर्य्यायः । निष्फली २ निष्कली ३ निष्कला ४
विकली ५ विकला ६ ऋतुहीना ७ । इति
शब्दरत्नावली ॥ विरजाः ८ विगतार्त्तवा ९ ।
इति जटाधरः ॥

निष्फली, स्त्री, (निवृत्तं फलं यस्याः । ङीष् ।)

निष्फला । इति शब्दरत्नावली ॥

निसम्पातः, पुं, (निवृत्तः सम्पातो यत्र ।) निशीथः ।

निःसम्पातः । इति शब्दरत्नावली ॥

निसर्गः, पुं, (नि + सृज् + घञ् ।) स्वभावः ।

इत्यमरः । १ । ७ । ३८ ॥ (यथा, किराता-
र्ज्जुनीये । १ । ६ ।
“निसर्गदुर्बोधमबोधविक्लवाः
क्व भूपतीनाञ्चरितं क्व जन्तवः ॥”)
रूपम् । सर्गः । इति मेदिनी । गे, ४० ॥ (यथा,
महाभारते । १३ । ८५ । १२३ ।
“निसर्गाद्ब्रह्मणश्चापि वरुणो यादसां पतिः ॥”
दानम् ॥ यथा, मनुः । ८ । १४३ ।
“न त्वेवाधौ सोपक रे कौशीदीं वृद्धिमाप्नुयात् ।
न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥”)

निसिन्धुः, पुं, वृक्षविशेषः । निसिन्धा इति भाषा ।

तत्पर्य्यायः । सिन्धुकः २ सिन्धुः ३ तापिञ्जः ४
शुक्लपृष्ठकः ५ सिन्धुवारः ६ इन्द्रसुरिषः ७
निर्गुण्डी ८ इन्द्राणिका ९ । इति शब्दचन्द्रिका ॥

निसूदनं, क्ली, (नि + सूद् + भावे ल्युट् ।) निहिं-

सनम् । वधः । इत्यमरः । २ । ८ । ११३ ॥
(यथा, “प्रवासनं निसूदनं निहिंसनमिति
वधपर्य्यायं प्रवासनशब्दं पठन्त्याभिधानिकाः ।”
इति । ९ । २४२ मनुश्लोकटीकायां कुल्लूकभट्टः ॥
त्रि, नि + सूद + ल्युः । विनाशकः । यथा,
रघुवंशे । ९ । ३ ।
“उभयमेव वदन्ति मनीषिणः
समयंवर्षितया कृतकर्म्मणाम् ।
बलनिसूदनमर्थपतिञ्च तं
श्रमनुदं मनुदण्डधरान्वयम् ॥”)

निसृता, स्त्री, (नितरां सृता । नि + सृ + क्तः ।)

त्रिवृता । इति रत्नमाला ॥ तेउडि इति भाषा ॥
(त्रिवृताशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

निसृष्टं, त्रि, (नि + सृज् + क्तः ।) न्यस्तम् । इत्य-

मरः । ३ । १ । ८८ ॥ (यथा, मनुः । ८ । ४१४ ।
पृष्ठ २/९०७
“न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्बिमुच्यते ।
निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥”)
मध्यस्थम् । इति त्रिकाण्डशेषः ॥

निसृष्टार्थः, पुं, (निसृष्टो न्यस्तोऽर्थः प्रयोजनं

यस्मिन्निति ।) दूतविशेषः । यथा, --
“निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः ।
कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथा त्रिधा ॥”
तल्लक्षणं यथा, --
“उभयोर्भावमुन्नीय स्वथं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कर्म्म निसृष्टार्थस्तु स स्मृतः ॥”
इति साहित्यदर्पणे ३ परिच्छेदः ॥
धनायव्ययपालनादौ नियुक्तः । यथा बृहस्पतिः ।
“यः स्वामिना नियुक्तोऽपि धनायव्ययपालने ।
कषीदकृषिबाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥”
इति व्यवहारतत्त्वम् ॥
पुरुषविशेषः । तस्य लक्षणं यथा, --
“धीरः स्थिरमतिः शूरः स्वामिकार्य्यविधायकः ।
स्वपौरुषप्रकाशी च निसृष्टार्थेः स उच्यते ॥”
इति सङ्गीतदामोदरः ॥

निस्तनी, स्त्री, (नितरां स्तनवदाकारोऽस्त्यस्या

इति । अच् । गौरादित्वात् ङीष् ।) वटिका ।
इति शब्दचन्द्रिका ॥ वडि इति भाषा ॥
(निर्गतौ स्तनौ यस्या इति ।) स्तनहीना च ॥

निस्तरणं, क्ली, (निस्तीर्य्यतेऽनेनेति । निर् + तॄ +

करणे ल्युट् ।) उपायः । निस्तारः । तरणम् ।
इति मेदिनी । णे, ९९ ॥ निर्गमः । इति विश्वः ॥

निस्तर्हणं, क्ली, (निर् + तृह् हिंसायाम् + भावे

ल्युट् ।) मारणम् । इत्यमरः । २ । ८ । ११४ ॥

निस्तलं, त्रि, (निरस्तं तलं स्वरूपमस्येति ।)

वर्त्तुलम् । इत्यमरः । ३ । १ । ६९ ॥ (यथा,
कुमारसम्भवे । १ । ४२ ।
“कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य ॥”)
चलम् । इति मेदिनी । ले, १०३ ॥ (नितरां
तलम् ।) तलम् । इति हेमचन्द्रः ॥

निस्तारः, पुं, (निर् + तॄ + घञ् ।) निस्तरणम् ।

उद्धारः । (यथा, शृङ्गारशतके । ७१ ।
“संसार तव निस्तारपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥”)

निस्तारबीजं, क्ली, (निस्तारस्य संसारसमुद्र-

समुत्तरणस्य बीजम् ।) संसारतरणकारणम् ।
तद्यथा, --
“स्मरणं कीर्त्तनं विष्णोरर्च्चनं पादसेवनम् ।
वन्दनं स्तवनं नित्यं भक्त्या नैवेद्यभक्षणम् ॥
चरणोदकपानञ्च तन्मन्त्रजपनं तथा ।
इदं निस्तारबीजञ्च सर्व्वेषामीप्सितं भवेत् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥
(अपि च । महानिर्व्वाणतन्त्रे ।
“कलौ पापयुगे घोरे तपोहीनेऽति दुस्तरे ।
निस्तारबीजमेतावद् ब्रह्ममन्त्रस्य साधनम् ॥
साधनानि बहूक्तानि नानातन्त्रागमादिषु ।
कलौ दुर्ब्बलजीवानामसाध्यानि महेश्वरि ! ॥”
उद्धारकारणमात्रम् । यथा, --
“जीर्णा तरिः सरिदतीवगभीरनीरा
वाला वयं सकलमित्थमनर्थहेतुः ।
निस्तारबीजमिदमेव कृशोदरीणां
यन्माधव त्वमसि सम्प्रति कर्णधारः ॥”
इत्युद्भटः ॥)

निस्तितीर्षत्, त्रि, (निर् + तॄ + सन् + शतृ ।)

निस्तरितुमिच्छत् । यथा, --
“तन्नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्ष-
ताम् ॥”
इति श्रीभागवते । १ । १ । २२ ॥

निस्तुषक्षीरः, पुं, (निस्तुषं परिष्कृतं क्षीरं यस्येति ।)

गोधूमः । इति राजनिर्घण्टः ॥

निस्तुषरत्नं, क्ली, (निस्तुषं निर्म्मलं रत्नम् ।)

स्फटिकः । इति राजनिर्घण्टः ॥

निस्तुषितं, त्रि, (निस्तुष + कृतौ णिच् + क्तः ।)

त्वग्विहीनम् । त्यक्तम् । लघूकृतम् । इति
मेदिनी । ते, २०२ ॥

निस्तेजाः, [स्] त्रि, (निर्गतं तेजो यस्मादिति ।)

तेजोरहितः । यथा, --
“इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः ।
सर्व्वं तस्य वृथा देवि ! निस्तेजो न च सिद्धिदम् ॥”
इति ब्रह्मजामलीयगायत्त्रीकवचधृतम् ॥
(यथा च देवीभागवते । २ । ८ । ११ ।
“कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिताः ।
धनं सर्व्वं गृहीतञ्च निस्तेजाश्चार्ज्जुनोऽभवत् ॥”)

निस्त्रिंशः, पुं, (निर्गतस्त्रिंशद्भ्योऽङ्गुलिभ्य इति ।

निरादय इति समासः । “संख्यायास्तत्पुरुषस्य
डज्वाच्यः ।” ५ । ४ । ११३ । इत्यस्य वार्त्तिकोक्त्या
डच् ।) खड्गः । इत्यमरः । २ । ८ । ८९ ॥
(यथा, महाभारते । ४ । ४१ । २४ ।
“नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥”)
निर्द्दये, त्रि । इति मेदिनी । शे, २१ ॥ (यथा,
अमरुशतके । ५ ।
“दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं
लालिता
दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् ।
मन्युर्दुःसह एष यात्युपशमं नो शान्तवादैः
स्फुटम् ।
हे निस्त्रंश ! विमुक्तकण्ठकरुणं तावत् सखी
रोदितु ॥”)
त्रिंशत्शून्यः । इति व्याकरणम् ॥

निस्त्रिंशधारी, [न्] त्रि, (निस्त्रिंशं धरतीति ।

निस्त्रिंश + धृ + णिनि ।) खड्गधारी । तल्ल-
क्षणं यथा, मात्स्ये १८९ अध्यायः ।
“सुरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः ।
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्त्तितः ॥”

निस्त्रिंशपत्रिका, स्त्री, (निस्त्रिंशः खड्ग इव पत्र-

मस्या अस्तीति । ठन् ।) स्नुहीवृक्षः । इति
राजनिर्घण्टः ॥

निस्त्रैणपुष्पिकः, पुं, राजधत्तूरकः । इति राज-

निर्घण्टः ॥

निस्नेहफला, स्त्री, (निस्नेहं तैलविहीनं फलं

यस्याः ।) श्वेतकण्टकारी । इति राज-
निर्घण्टः ॥

निस्पन्दः, पुं, (नि + स्पन्द + भावे घञ् ।) स्पन्द-

नम् । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते ।
१२ । ३३५ । ९ ।
“मेरोः सहस्रैः स हि योजनानां
द्वात्रिंशतोर्द्धं कविभिर्निरुक्तः ।
अनिन्द्रियाश्चानशनाश्च तत्र
निस्पन्दहीनाः सुसुगन्धिनस्ते ॥”)

निस्पन्दः, त्रि, (निवृत्तः स्पन्दश्चक्षुपलकादिस्पन्दनं

यस्मात् ।) स्पन्दरहितः । ईषत्कम्पशून्यः । यथा,
“कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टः
कार्णाटीचीनपीनस्तनवसनदशान्दोलनिस्पन्द-
मन्दः ॥”
इति विक्रमादित्यराजसभायां राक्षसपद्यम् ॥

निस्पन्दतरं, त्रि, (निस्पन्द + तरप् ।) एकान्त-

स्पन्दरहितम् । यथा, नैषधे । ८ । १३ ।
“सूक्ष्मे घने नैषधकेशपाशे
निपत्य निस्पन्दतरी भवद्भ्याम् ।
तस्यानुबन्धं न विमोच्य गन्तु-
मपारि तल्लोचनखञ्जनाभ्याम् ॥”

निस्तृहः, त्रि, (निर्गता स्पृहा दृष्टादृष्टविषयवासना

यस्येति ।) स्पृहाशून्यः । यथा, --
“निस्पृहः सर्व्वकामेभ्यो युक्त इत्युच्यते तदा ॥”
इति श्रीभगवद्गीतायाम् । ६ । १८ ॥

निस्पृहा, स्त्री, अग्निशिस्वावृक्षः । यथा, --

“अमूला निस्पृहा चापि मालिनी विष्णुवल्लभा ॥”
इति शब्दचन्द्रिका ॥
स्पृहाया अभावश्च ॥ (अत्राव्ययीभावः ॥)

निस्य(ष्य)न्दः, पुं, (नि + स्यन्दू ङ क्षरणे + भावे

घञ् । “अनुविपर्य्यभिनिभ्यः स्यन्दतेरप्राणिषु ।”
८ । ३ । ७२ । इति वा षत्वम् ।) स्यन्दनम् ।
क्षरणम् । यथा, --
“माकन्दरसनिस्यन्दसुन्दरोद्गारकारिणौ ।
श्रवणानन्दिनावेतौ वन्दिनाविव राजतः ॥”
इति प्रसन्नराघवनाटके पक्षधरमिश्रः ॥
(यथा च रामायणे । २ । ९४ । १३ ।
“जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।
स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥”
निस्यन्दते इति कर्त्तरि अच् । क्षरणशीले,
त्रि । यथा, रघुः । ३ । ४१ ।
“तदङ्गनिस्यन्दजलेन लोचने
प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो
बभूव भावेषु दिलीपनन्दनः ॥”)

निस्रावः, पुं, (निस्राव्यते इति । नि + स्रु + णिच्

+ घञ् ।) भक्तसमुद्भवमण्डम् । फेन इति माड
इति च भाषा । तत्पर्य्यायः । मासरः २
आचामः ३ । इत्यमरः । २ । ९ । ४९ ॥ (नि + स्रु +
घञ् । द्रवः । यथा, हरिवंशे । ९६ । ९ ।
“धातुनिस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥”)
पृष्ठ २/९०८

निस्वनः, पुं, (नि + स्वन + “नौ गदनदपठस्वनः ।”

३ । ३ । ६४ । इति अप् ।) शब्दः । इत्यमरः ।
१ । ६ । २३ ॥ (यथा, महाभारते । ७ । २६ । ३ ।
“यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन ।
त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैष निस्वनः ॥”)

निस्वानः, पुं, (नि + स्वन + पक्षे घञ् ।) शब्दः ।

इत्यमरः । १ । ६ । २३ ॥

निहननं, क्ली, (नि + हन + ल्युट् ।) मारणम् ।

वधः । इत्यमरः । २ । ८ । ११४ ॥

निहन्ता, [ऋ] त्रि, (नि + हन + तृच् ।) हनन-

कर्त्ता । यथा, भट्टिः ।
“निहन्ता वैरकाराणां सतां बहुकरः सदा ।
पारश्वधिकरामस्य शक्तेरन्तकरो रणे ॥”
(महादेवे, पुं । यथा, महाभारते । १३ ।
१७ । ७५ ।
“भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥”)

निहाका, स्त्री, (नियतं जहाति भुवमिति ।

नि + हा त्यागे + “नौ हः ।” उणां ३ । ४४ ।
इति कन् ।) गोधिका । इत्यमरः । १ । १० । २२ ॥
(यथा, ऋग्वेदे । १० । ९७ । १३ ।
“साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥”)

निहारः, पुं, (नितरां ह्रियन्ते पदार्था येन । नि +

हृ + घञ् ।) नीहारः । इति शब्दरत्नावली ॥

निहितं, त्रि, (नि + धा + क्त । “दधातेर्हिः ।”

७ । ४ । ४२ । इति हिः ।) स्थापितम् । इति
हलायुधः ॥ यथा, महाभारते । ३ । ३१२ । ११२ ।
“धर्म्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥”

निहिंसनं, क्ली, (नि + हिन्स + भावे ल्युट् ।)

मारणम् । इत्यमरः । २ । ८ । ११३ ॥

निहीनः, त्रि, (नितरां हीनः । कुगतीति

समासः ।) नीचः । पामरः । इत्यमरः । २ । १० । १६ ॥
(यथा, महाभारते । ३ । १२ । ११९ ।
“त इमे सिंहविक्रान्ता वीर्य्येणाभ्यधिकाः परैः ।
निहीनैः परिक्लिश्यन्तीं समुपेक्षन्ति मांकथम् ॥”)

निह्नवः, पुं, (निह्रूयते सत्यवाक्यमनेनेति । नि +

ह्न + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।)
अपलापः । येन वचनं निह्नूयते सः । यथा,
धारयन्नेव न धारयामीति । इत्यमरभरतौ ॥
तत्पर्य्यायः । निह्रुतिः २ अपह्रुतिः ३ अपह्रवः ४ ।
इति शब्दरत्नावली ॥ (यथा, याज्ञवल्के । २ । ११ ।
“निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ॥”)
निकृतिः । अविश्वासः । इति मेदिनी । वे, ३९ ॥
(यथा, महाभारते । ५ । ३७ । ३० ।
“न निह्नवं मन्त्रगतस्य गच्छेत्
संसृष्टमन्त्रस्य कुसङ्गतस्य ॥”)
गुप्तः । इति शब्दरत्नावली ॥ (शुद्धिः । यथा,
मनुः । ९ । २१ ।
“ध्यायत्यनिष्टं यत् किञ्चित् प्राणिग्राहस्य चेतसा ।
तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥”)

निह्रुतिः, स्त्री, (नि + ह्रु + क्तिन् ।) निह्रवः । इति

शब्दरत्नावली ॥

निह्रादः, पुं, (नि + ह्राद अव्यक्तशब्दे + घञ् ।)

शब्दः । इत्यमरः । १ । ६ । २३ ॥ (यथा, रघुः । १ । ४१ ।
“सारसैः कलनिह्रादैः क्वचिदुन्नमिताननौ ॥”)

निक्षणं, क्ली, (निक्ष चुम्बने + भावे ल्युट् ।) चुम्बनम् ॥

निक्षा, स्त्री, (निक्षति चुम्बतीव भस्तकमिति ।

निक्ष + अच् + टाप् ।) लिख्या । यूकः । इत्यु-
णादिकोषः ॥ निकी इति भाषा ॥

निक्षिप्तं, त्रि, (निक्षिप्यते स्मेति । नि + क्षिप +

क्तः ।) त्यक्तम् । तत्पर्य्यायः । परिक्षिप्तम् २
निवृतम् ३ परीतम् ४ परिवेष्टितम् ५ न्यस्तम् ६
निसृष्टम् ७ । इति जटाधरः ॥ स्थापितधनादि ।
यथा, --
“निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्य्यादक्षिण्वन्न्यासधारिणम् ॥”
इति मनुः । ८ । १९६ ॥

निक्षेपः, पुं, (नि + क्षिप् + घञ् ।) क्षेपणम् ।

त्यागः । समर्पितवस्तु । गच्छितद्रव्य इति भाषा ।
तत्पर्य्यायः । उपनिधिः २ न्यासः ३ । इति
हेमचन्द्रः ॥ यथा, --
“स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥
असंख्यातमविज्ञातं समुद्रं यन्निधीयते ।
तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः ॥
निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च ।
याच्यमानो न चेद्दद्याद्वर्द्धते पञ्चकं शतम् ॥”
इति मिताक्षरायां नारदः ॥ * ॥
“कुलजे वृत्तसम्पन्ने धर्म्मज्ञे सत्यवादिनि ।
गहापक्षे धनिन्यार्य्ये निक्षेपं निक्षिपेद्बुधः ॥
आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः ।
राजस्वं श्रोत्रियस्वञ्च न भोगेन प्रणश्यति ॥
स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे ।
न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥
यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।
तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥”
इति मनुः । ८ अध्याये ॥

नीकः, पुं, (नीयते इति । नी प्रापणे + “अजि-

युधूनीभ्यो दीर्घश्च ।” उणां ३ । ४७ । इति
कन् ।) वृक्षविशेषः । इत्युणादिकोषः ॥

नीकारः, पुं, (नि + कृ + घञ् । “उपसर्गस्य

घञ्यमनुष्ये बहुलम् ।” ६ । ३ । १२२ । इति
उपसर्गस्य दीर्घः ।) न्यक्कारः । इति शब्द-
रत्नावली ॥

नीकाशः, त्रि, (नितरां काशते इति । नि +

काश + अच् । “इकः काशे ।” ६ । ३ । १२३ ।
इति उपसर्गस्य दीर्घः ।) तुल्यः । उपमा ।
इत्यमरः । २ । १० । ३८ ॥ (यथा, महाभारते ।
३ । १८२ । १३ ।
“आकाशनीकाशतटां तीरवानीरसङ्कुलाम् ।
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥”)
निश्चये, पुं । इति मेदिनी । शे, २३ ॥

नीचः, त्रि, (निकृष्टामीं लक्ष्मीं शोभां चिनोतीति ।

चि + “अन्येभ्योऽपि दृश्यते ।” इति डः ।) हीन-
जातिकर्म्मा । वर्व्वरः । इत्यमरटीकायां भरतः ॥
तत्पर्य्यायः । विवर्णः २ पामरः ३ प्राकृतः ४
पृथग्जनः ५ निहीनः ६ अपसदः ७ जाल्मः ८
क्षुल्लकः ९ इतरः १० । इत्यमरः । २ । १० । १६ ॥
अपशदः ११ खुल्लकः १२ । इति भरतः ॥ हीनः
१३ क्षुल्लः १४ क्षुण्णः १५ वेतकः १६ । इति
शब्दरत्नावली ॥ नीचसङ्गदोषो यथा, --
“न प्राप्नोति सुखं किञ्चिन्नीचसङ्गान्महानपि ।
प्रेतसङ्गान्महादेवो नग्नो भस्मविभूषितः ॥
प्रविश्य निलयं नीचः स्त्रीधनादिकमिष्यते ।
स्वयं नेतुं न शक्नोति तदा नाययति ध्रुवम् ॥
स्थिते गुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते ।
किञ्चित्तु सङ्गमासाद्य तदुक्तं स्यात् सनातनम् ॥
सतां श्रुत्वा गुणं नीचः श्रोतुमायाति बन्धुवत् ।
ततः समयमासाद्य प्रकाशयति तद्धसन् ॥
मनस्येकं वचस्येकं कर्म्मण्येकं महात्मनाम् ।
मनस्यन्यद्बचस्यन्यत् कर्म्मण्यन्यद्दुरात्मनाम् ॥”
इति पाद्मे क्रियायोगसारे ५ अध्यायः ॥
अपि च ।
“बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमे मध्यतां याति श्रेष्ठतां याति वित्तमे ॥”
इति शान्तिपर्व्व ॥ * ॥
अनुच्चः । तत्पर्य्यायः । वामनः २ न्यङ् ३
खर्व्वः ४ ह्रस्वः ५ । इत्यमरः । ३ । १ । ७० ॥ (यथा, --
“नीचरोमनखश्मशुनिर्म्मलाङ्घ्रिमलायनः ।
स्नानशीलः ससुरभिः सुवेषोऽनुल्वणोज्ज्वलः ।
धारयेत् सततं रत्नसिद्धमन्त्रमहौषधीः ॥”
इति वाभटे सूत्रस्थाने द्वितीयेऽध्याये ॥)
निम्नः । यथा, --
“शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी
स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन
यस्यापरे ।
किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां
जीवनं
त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धुं
क्षमः ॥”
इति लक्ष्मणसेनः ॥ * ॥
चोरकनामगन्धद्रव्ये, पुं । इति राजनिर्घण्टः ॥

नीचकः, त्रि, (नीच एव । नीच + स्वार्थे कन् ।)

वामनः । खर्व्वः । इति शब्दरत्नावली ॥

नीचका, स्त्री, (निकृष्टामीं शोभां चकति प्रति-

हन्तीति । चक प्रतिघाते + अच् । टाप् ।)
नैचिकी । उत्तमगवी । इत्यमरटीकायां भरतः ॥

नीचकी, [न्] पुं, उच्चः । उपरिभागः । इति

हलायुधः ॥ उत्तमगवीमांश्च ॥

नीचकैः, [स्] व्य, (नीचैस् + “अव्ययसर्व्व-

नाम्नामकच् प्राक् टेः ।” ५ । ३ । ७१ । इति
टेः प्रागकच् ।) नीचैः । नीचैः शब्दस्य टेः
पूर्ब्बकृतेनाका निष्पन्नः । यथा, उच्चकैरित्यादि ॥

नीचगं, क्ली, (नीचं निम्नदेशं गच्छतीति । गम +

डः ।) जलम् । इति कोषान्तरम् ॥ पामरे, त्रि ॥
पृष्ठ २/९०९
यथा, भूतडामरतन्त्रे ।
“नीचगामङ्गनां प्राप्य चन्दनैर्मण्डलं लिखेत् ॥”
(निम्नगे च । यथा, बृहत्संहितायाम् । १९ । २२ ।
“अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा
न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः ॥”)

नीचगा, स्त्री, (नीचं निम्नं गच्छतीति । गम +

ड । टाप् ।) निम्नगा । नदी । यथा, --
“नीचगा तु नदी नीचो नीचगो नीचगं जले ।”
इति कोषः ॥
अपि च ।
“सङ्गमयति विद्यैव नीचगापि नरं सरित् ।
समद्रमिव दुर्द्धर्षं नृपं भाग्यमतः परम् ॥”
इति हितोपदेशः ॥

नीचभोज्यः, पुं, (नीचैर्यवनादिभिर्भोज्यः ।)

पलाण्डुः । इति शब्दचन्द्रिका ॥ पामरभक्ष्ये, त्रि ॥

नीचवज्रं, क्ली, (नीचमनुत्कृष्टं वज्रम् ।) वैक्रान्त-

मणिः । इति राजनिर्घण्टः ॥

नीचिकी, स्त्री, नैचिकी । इत्यमरटीकायां भरतः ॥

नीचैः, [स्] व्य, (नि + चि + “नौ दीर्घश्च ।”

उणां । ५ । १३ । इति डैसिः निशब्दस्य
दीर्घश्च ।) अल्पम् । अनुच्चम् । इत्यमरः ॥
(यथा, मेघदूते । १०८ ।
“नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥”)

नीडः, पुं क्ली, (नितरां ईड्यते स्तूयते सुदृश्यत्वा-

दिति । नि + ईड स्तुतौ + घञ् ।) पक्षिवास-
स्थानम् । पाखीरवासा इति भाषा ॥ तत्-
पर्य्यायः । कुलायः २ । इत्यमरः । २ । ५ । ३७ ॥
(यथा, भागवते । ३ । ५ । ३९ ।
“मार्गन्ति यत्ते मुखपद्मनीडै-
श्छन्दःसुपर्ण्णैरृषयो विविक्ते ॥”)
स्थानम् । इति मेदिनी । डे, १७ ॥ (रथ्यधि-
ष्ठानस्थानम् । यथा, रामायणे । ५ । ४८ । ३२ ।
“स भग्ननीडः परिवृत्तकूवरः
पपात भूमौ हतवाजिरम्बरात् ॥”)

नीडजः, पुं, (नीडे जायते इति । जन + डः ।)

पक्षी । इति हेमचन्द्रः । ४ । ३८३ ॥

नीडजेन्द्रः, पुं, (नीडजानां पक्षिणामिन्द्रः ।)

गरुडः । यथा, --
“अनडुहि जितनीडजेन्द्रवेगे
कृतनिविडासनमुज्झताघपीडे ।
स्मरशमनतडित्कडारदृष्टिं
मृडमुडुराडिव शोभिचूडमीडे ॥”
इति प्राचीनशिवस्तुतिः ॥

नीडोद्भवः, पुं, (नीडे कुलाये उद्भव उत्पत्ति-

र्यस्य ।) पक्षी । इत्यमरः । २ । ५ । ३४ ॥

नीतं, त्रि, (नी + क्तः ।) प्राप्तम् । नेओया इति

भाषा ॥ यथा, --
“नीतं यदि नवनीतं नीतं नीतं किमेतेन ।
आतपतापितभूमौ माधव ! मा घाव मा धाव ॥”
इत्युद्भटः ॥

नीतिः, स्त्री, (नीयन्ते संलभ्यन्ते उपायादय

ऐहिकामुष्मिकार्था वास्यामनया वा । नी +
अधिकरणे करणे वा क्तिन् ।) नयः । (नी +
भावे क्तिन् ।) प्रापणम् । इति मेदिनी । ते,
३० ॥ अथ नीतिशास्त्रं लिख्यते ।
“नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ।
विनयो हीन्द्रियजयस्तद्युक्तशास्त्रमिच्छति ॥
आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
ततोऽमात्यान् ततो भृत्यांस्ततः पुत्त्रांस्ततः प्रजाः ॥
सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥
एवंकरणसामर्थ्यात् संयम्यात्मानमात्मना ।
नयानयनविद्राजा कुर्व्वीत हितमात्मनः ॥
जितेन्द्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः ।
भवन्त्युज्ज्वलिता लक्ष्म्यः र्कीत्तयश्च नभस्पृशः ॥”
इति नीतिमयूखद्वितीयप्रयागः ॥
सगर उवाच ।
“यया नीत्या प्रयोक्तव्यः सुत आत्मा प्रिया तथा ।
तेषां विशेषैः सहितं सदाचारं वदस्व मे ॥”
और्व्व उवाच ।
क्रमेण शृणु राजेन्द्र ! यया नीत्या नियुज्यते ।
आत्मा सुतो वा भार्य्या वा तद्विशेषं शृणुष्व मे ॥
ज्ञानवृद्धांस्तपोवृद्धान् वयोवृद्धान् सुदक्षिणान् ।
सेवेत प्रथमं विप्रानसूयापरिवर्ज्जितान् ॥
तेभ्यश्च शृणुयान्नित्यं वेदशास्त्रविनिर्णयम् ।
यदूचुस्ते च तत् कार्य्यं प्राज्ञैश्चैतन्नृपश्चरेत् ॥
पञ्चेन्द्रियाणि पञ्चाश्वाः शरीरं रथ उच्यते ।
आत्मा रथी कशा ज्ञानं सारथिर्म्मन उच्यते ॥
अश्वान् सुदान्तान् कुर्व्वीत सारथिं चात्मनो
वशम् ।
कशा भूप ! दृढा कार्य्या शरीरस्थिरता तथा ॥
अदान्तांस्तु समारुह्य सैन्धवान् स्यन्दनी यथा ।
अश्वानामिच्छया गच्छन्नुत्पथं प्रतिपद्यते ॥
यत्रावशः सारथिस्तु स्वेच्छया प्रेरयन् हयान् ।
नयेत् परवशं सम्यक् प्रथितं वीरमप्युत ॥
यथेन्द्रियाणि नृपतिर्व्विषयाणां परिग्रहे ।
स्ववश्यानि प्रकुर्व्वीत मनोज्ञानं दृढं तथा ॥
ज्ञाने दृढे कशायां वा दृढायां नृपसत्तम ! ।
सारथिः स्ववशो दान्तोऽनीशः प्ररयितुं हयान् ॥
अतो नृपः स्वेन्द्रियाणि वशे कृत्वा मनस्तथा ।
ज्ञानमार्गमधिष्ठाय प्रकुर्व्वीतात्मनो हितम् ॥
भोक्तव्यं स्वेच्छया भूपो न कुर्य्यादुत्पथे रतिम् ।
द्रष्टव्यामाति द्रष्टव्यं न द्रष्टव्यञ्च स्वेच्छया ॥
श्रोतव्यमिति श्रोतव्यं नाधिकं श्रवणे चरेत् ।
शास्त्रतत्त्वमृते धीरः श्रुतिवश्यो भवेन्नहि ॥
एवं घ्राणं त्वचं वापि वशीकृत्येच्छया नृपः ।
स्वेच्छयैवोपभुञ्जीत नोद्दामं विषयं व्रजेत् ॥
एवं यदि भवेद्राजा तदा स स्याज्जितेन्द्रियः ।
जितेन्द्रियत्वे हेतुश्च शास्त्रवृद्धोपसेवनम् ॥
अवृद्धसेव्यशास्त्रज्ञो नृपः शत्रुवशो भवेत् ।
तस्माच्छास्त्रमधिष्ठाय भवेद्राजा जितेन्द्रियः ॥
धृतिः प्रागल्म्यमुत्साहो वाक्पटुत्वं विवेचनम् ।
दक्षत्वं धारयिष्णुत्वं दानं मैत्री कृतज्ञता ॥
दृढशासनता सत्यं शौचं मतिविनिश्चयः ।
पराभिप्रायवेदित्वं चारित्वं धैर्य्यमापदि ॥
क्लेशधारणशक्तिश्च गुरुदेवद्विजार्च्चनम् ।
अनसूया ह्यकोपित्वं गुणानेतान्नृपोऽभ्यसेत् ॥
कार्य्याकार्य्यविभागञ्च धर्म्मार्थौ काममेव च ।
दानस्य विषये सामयोगमेवोपलक्षते ॥
सततं प्रतिबुध्येत कुर्य्यादवसरेऽपि तत् ।
साम दानञ्च भेदश्च दण्डश्चेति चतुष्टयम् ॥
ज्ञात्वोपायांस्तु तत्स्थाने तानुपायान् प्रयोजयेत् ।
साम्नस्तु विषये भेदो यध्यमः परिकीर्त्तितः ॥
दानस्य विषये दण्डो ह्यधमः परिकीर्त्तितः ।
दण्डस्य विषये दानं तदप्यधममुच्यते ॥
साम्नस्तु गोचरे दण्डो ह्यधमादधमः स्मृतः ।
सौजन्यं सततं ज्ञेयं भृभृतो भेददण्डयोः ॥
साम्नो दानस्य च तथा सौजन्यं याति गोचरे ॥
कामः क्रोधश्च लोभश्च हर्षो मानमदौ तथा ।
एतानतिशयान्राजा शत्रूनिव विशातयेत् ॥
सेव्याः कालेषु युक्त्यैते लोभगर्व्वौ विवर्ज्जयेत् ।
तेज एव नृपाणान्तु तीव्रं सूर्य्यस्य वै यथा ॥
तत्र गर्व्वं रोगयुक्तकायवत्तन्तु संत्यजेत् ।
आखेटकाक्षौ स्त्रीसेवा पानञ्चैवात्मदूषणम् ॥
वाग्दण्डयोश्च पारुष्यं सप्तैतानि विवर्ज्जयेत् ।
परस्त्रीषु विरक्तासु सेवामेकान्ततस्त्यजेत् ॥
सतीषु निजनारीषु प्रेम्णा कुर्य्याच्च सेवनम् ।
रतिपुत्त्रफला दारास्तांस्तु नैकान्ततस्त्यजेत् ॥
तयोः सिद्ध्यै स्त्रियः सेव्या वर्ज्जयित्वातिसक्तताम् ।
मृगयान्तु प्रमादानां स्थानं नित्यं विवर्ज्जयेत् ॥
अक्षांस्तथा न कुर्व्वीत सत्कार्य्यासक्तिनाशनान् ।
अन्यैः कृतं कदाचित्तु सेवेत नात्मनाचरेत् ॥
अकार्य्यकरणे बीजं कृत्यानाञ्च विवर्ज्जनम् ।
वर्जयेत् सततं पानं शौचमाङ्गल्यनाशनम् ।
अर्थक्षयकरं नित्यं यजेच्चैवात्मदूषणम् ॥
अभिशस्तेषु चौरेषु घातकेष्वाततायिषु ।
सततं पृथिवीपालो दण्डपारुष्यमाचरेत् ॥
नान्यत्र दण्डपारुष्यं कुर्य्यान्नृपतिसत्तमः ।
वाक्पारुष्यन्तु सर्व्वत्र नैव कुर्य्यात् कदाचन ॥
रक्षणीयं सदा सत्यं सत्यमेकं परायणम् ।
क्षमां तेजस्विताञ्चैव प्रस्तावान्नृप आचरेत् ॥
यान्नासनाश्रयद्वैधसन्धयो विग्रहस्तथा ।
अभ्यसेत् षड्गुणानेतान तेषां स्थानञ्च शाश्वतम् ॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
कोषे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥
कोषे जनपदे दण्डे चैकैकत्र त्रयं त्रयम् ।
प्रस्तावाद्विनियुञ्जीत रक्षेन्नैकान्ततस्त्विमान् ॥
मित्रे शत्राबुदासीने प्रभावं त्रिष्वपीरयेत् ।
उतसाहो विजिगीषायां धर्म्मकृत्येऽष्टवर्गके ॥
शरीरयात्रानिर्व्वाहे क्रियेत सततं नृपैः ।
मन्त्रनिश्चयसम्भूतां बुद्धिं सर्व्वत्र योजयेत् ॥
अमात्ये शात्रवे राज्ये पुत्त्रेष्वन्तःपुरेषु च ॥ * ॥
कृषिदुर्गञ्च बाणिष्यं खल्यानां करसाधनम् ।
आदानं सैन्यकरयोर्ब्बन्धनं गजवाजिनोः ॥
शून्यसद्ममुखानाञ्च योजनं सततं जनैः ।
प्रपाणागारसेतूनां रक्षणञ्चेति चाष्टमम् ॥
पृष्ठ २/९१०
एतदष्टासु वर्गेषु चारान् सम्यक् प्रयोजयेत् ॥
कार्य्याकार्य्यविभागाय चाष्टवर्गाधिकारिणाम् ।
अष्टौ चारान्नियुञ्जीयादष्टवर्गेषु पार्थिवः ॥
दशस्वन्येषु युञ्जीत क्रमतः शृणु तानि मे ।
स्वामिसचिवराष्ट्राणि मित्रं कोषो बलन्तथा ॥
दुर्गन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् ।
दुर्गयुक्तञ्चाष्टवर्गे चारं नात्मनि योजयेत् ॥
तस्मादिमानि शेषाणि पञ्च चारपदानि तु ।
शुद्धान्तेष्वेव पुत्त्रेषु स्रक्पूपादौ महानसे ॥
शत्रूदासीनयोश्चैव बलाबलविनिश्चये ।
आदौ दशसु चैतेषु चारान्राजा प्रयोजयेत् ॥
न यत् प्रकाशं जानीयात् तत्तु चारैर्निरूपयेत् ।
निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत् ॥
यथा नियोगमेतेषां यो यो यत्रान्यथाचरेत् ।
ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद्वा नियोजयेत् ॥
चारांस्तु मन्त्रिणा सार्द्धं रहस्ये संस्थितो नृपः ।
प्रदोषसमये पृच्छेत्तदानीमेव साधयेत् ॥
स्वपुत्त्रे चाथ शुद्धान्ते ये तु चारा महानसे ।
नियुक्तास्तान् मध्यरात्रौ पृच्छेद्यश्चापि मन्त्रिणि ॥
एतान् चारान् स्वयं पश्येन्नृपतिर्मन्त्रिणा विना ।
अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत् फलम् ॥
नैकवेशधरश्चारो नैको नोत्साहवर्ज्जितः ।
संस्तुतो नहि सर्व्वत्र नातिदीर्घो न वामनः ॥
सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् ।
न वित्तविभवैर्हीनो न भार्य्यापुत्त्रवर्ज्जितः ॥
कार्य्यश्चारो नृपतिना गुह्यतत्त्वविनिर्णये ।
अनेकवेशग्रहणक्षमं भार्य्यासुतैर्य्युतम् ॥
बहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् ।
दृढभक्तं प्रकुर्व्वीत चारं शक्तमसाध्वसम् ॥
अधितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा ।
बणिक्पथे च दुर्गादौ तेषु शक्तान्नियोजयेत् ॥
अन्तःपुरे पितुस्तुल्यान् धीमान् वृद्धान्नियोजयेत् ।
षण्डान पण्डांस्तथा वृद्धान् स्त्रियो या बुद्धितत्-
पराः ॥ * ॥
शुद्धान्तद्बारि युञ्जीयात् स्त्रियो वृद्धा मनीषिणीः ।
नैकः स्वपेत् कदाचित्तु नैको भुञ्जीत पार्थिवः ॥
नैकाकिनीन्तु महीषीं व्रजेन्मैत्राय नैककः ।
अमात्यानुपधाशुद्धान् भार्य्याः पुत्त्रांस्तथैव च ॥
प्रकुर्य्यात् सततं भूपः स्वप्रसादं समाचरन् ।
धर्म्मार्थकाममोक्षैश्च प्रत्येकपरिशोधनैः ॥
उपेत्य धीयते यस्मादुपधा परिकीर्त्तिता ।
अथ कामोपधाभ्यान्तु भार्य्याः पुत्त्रांस्तु शोधयेत् ॥
धर्म्मापधाभिर्विप्रांस्तु सर्व्वाभिः सचिवान् पुनः ।
एभिर्यज्ञैस्तथा दानैरिहैव नृपता भवेत् ॥ * ॥
तस्माद्भवांस्तु राज्यार्थी धर्म्ममेवं समाचरेत् ।
अनेनैवाभिचारेण यज्ञैर्वा पार्थिवो ह्ययम् ।
प्राणांस्त्यक्ष्यति राजा त्वं भविष्यसि न संशयः ॥
इति धर्म्मो नृपस्यैव अश्वमेधादिकञ्च यत् ।
स्वयं न कुरुते भूपस्तस्मात्त्वं कुरु सत्तम ! ॥
एवं मन्त्रैर्मन्त्रयित्वा नृपः कार्त्तान्तिकान् द्विजान् ।
तैर्ज्ञातान् स्वयं ज्ञात्वा गृह्णीयात्तस्य तैर्म्मनः ॥
यदि राज्याभिलाषेण सचिवो धर्म्ममाचरेत् ।
नृपतौ वाधिकं कुर्य्याद्धर्म्मं तं हीनतां नयेत् ॥
आभिचारिकमत्यर्थं कुर्व्वाणन्तु विघातयेत् ।
प्रवासयेद्ब्राह्मणन्तु पार्थिवो ह्याभिचारिकम् ॥
एषां धर्म्मोपधा ज्ञेया तैरमात्यान् सदा चरेत् ।
एतादृशीं तथैवान्यामुपधां धर्म्मतश्चरेत् ॥ * ॥
कोषाध्यक्षान् समामन्त्र्य राजामात्यान् प्रती-
रयेत् ।
पुत्त्रानन्यान् प्रति तथामन्त्र्य संवरणक्षमान् ॥
अयं हि प्रचुरः कोषो सदायत्तो नरोत्तम ।
आनये तव सम्मत्या तद्यदि त्वं प्रतीच्छसि ॥
तवान्नलब्धादस्माकं जीवनञ्च भविष्यति ।
त्वञ्चापि प्रचुरैः कोषैः किं किं नो वा करिष्यसि ।
एवमन्यैः कोषगतैरुपायैनृपसत्तम ॥
पुत्त्रामात्यादिकान् सर्व्वान् सततं परिशोधयेत् ।
कोषदोषकरान् हन्याद्धर्त्तुमिच्छून्निवारयेत् ॥
द्वैधचित्तान् विमन्येत कुर्य्याद्वै कोषरक्षणम् ॥ * ॥
दासीश्च शिल्पिनीर्वृद्धा मेधाधृतिमतीः स्त्रियः ॥
अन्तर्ब्बहिश्च या यान्ति विदिता सचिवादिभिः ।
ता राजा रहसि स्थित्वा भार्य्यादिभिरलक्षितः ॥
अभिमन्त्र्याथ संमन्त्र्य प्रेरयेत् सचिवान् प्रति ।
ता गत्वा हृदयं बुद्ध्वा स्त्रियो वै ज्ञानतत्पराः ॥
महिषीप्रमुखा राज्ञस्त्वां वै कामयते शुभाः ।
तत्राहं योजयिष्यामि यदि ते वर्त्तते स्पृहा ॥
सचिवस्त्वां कामयते त्वद्योग्यो वरवर्णिनि ! ।
तं सङ्गमयितुं शक्ता यदि श्रद्धा तवास्त्यहम् ॥
इत्यनेन प्रकारेण नानोपायैस्तथेतरैः ।
भार्य्याः पुत्त्रीर्दुहितॄश्च स्नुषाश्च प्रस्नुषास्तथा ॥
शोधयेत् सचिवान् पुत्त्रान् पौत्त्रादीन् सेवकां-
स्तथा ।
कामोपधाविशुद्धांस्तु घातयेदविचारयन् ॥
स्त्रियश्च दण्ड्या योग्येन ब्राह्मणांस्तु प्रवासयेत् ।
मोक्षमार्गावसक्तन्तु हिंसापैशुन्यवर्ज्जितम् ।
क्षमैकसारं नृपतिः सचिवं परिवर्ज्जयेत् ॥
मोक्षमार्गावसक्तांस्तु दण्ड्यानपि न दण्डयेत् ।
समबुद्धिस्तु सर्व्वत्र तस्मात्तं परिवर्ज्जयेत् ॥ * ॥
इति सूत्रं चोपधानामुपधां बहुधा पुनः ।
विवेचिता चोशनसा तच्छास्त्रे तत्र बोधयेत् ॥
विग्रहं सततं राजा परैर्न सम्यगाचरेत् ।
भूवित्तमित्रलाभेषु निश्चितेष्वेव विग्रहः ॥
सप्ताङ्गेष्वप्रमादश्च सदा कार्य्यो नृपोत्तमैः ।
कोषस्य सञ्चयं रक्षां सततं सम्यगाचरेत् ॥ * ॥
मन्त्रिणस्तु नृपः कुर्य्याद्बिप्रान् विद्याविशारदान् ।
विषयज्ञान् कुलीनांश्च धर्म्मार्थकुलजानृजून् ॥
मन्त्रयेत्तैः समं काले नात्यर्थं बहुभिश्चरेत् ।
एकैकेनैव कर्त्तव्यं मन्त्रस्य तु विनिश्चयम् ॥
व्यस्तैश्चैव समस्तैश्च धान्यस्य व्यपदेशतः ।
समुद्धृतं मन्त्रगृहं स्थलमारुह्य मन्त्रयेत् ॥
अरण्ये निःशलाके वा न यामिन्यां कदाचन ।
शिशून् शाखामृगान् पण्डान् शुकान् वै शारि-
कास्तथा ॥
वर्ज्जयेन्मन्त्रगेहेषु मनुष्यानुद्धतांस्तथा ।
दूषणं मन्त्रभेदेषु नृपाणां यत्र जायते ॥
न तच्छक्यं समाधातुं दक्षैर्नृपशतैरपि ।
दण्ड्यांस्तु दण्डयेद्दण्डैरदण्ड्यान् दण्डयेन्नहि ॥
अदण्डयन्नृपो दण्ड्यानदण्ड्यांश्चापि दण्डयन् ।
नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात् ॥ * ॥
दुर्गन्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः ।
दूषितान्नगराद्राजा दूरे दुर्गाश्रयं चरेत् ॥
दुर्गं बलं नृपाणान्तु नित्यं दुर्गं प्रशस्यते ।
शतमेको योधयति दुर्गस्थो यो धनुर्धरः ॥
शतं दशसहस्राणि तस्माद्दुर्गं प्रशस्यते ॥
जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च ।
अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम् ।
दुर्गं कार्य्यं नृपतिना यथायोग्यं स्वदेशतः ॥
दुर्गङ्कुर्व्वन् पुरङ्कुर्य्यात्त्रिकोणं धनुराकृति ।
वर्त्तुलं वा चतुष्कोणं नान्यथा नगरञ्चरेत् ॥
मृदङ्गाकृतिदुर्गञ्च सततं कुलनाशनम् ।
यथा राक्षसराजस्य लङ्का दुर्गा जिता पुरा ॥
बलेः पुरं शोणिताख्यं तेजो दुर्गे प्रतिष्ठितम् ।
यतस्तद्व्यजनाकारमतो भ्रष्टः श्रिया बलिः ॥
सौभाख्यं शाल्बराजस्य नगरं पञ्चकोणकम् ।
दिवि यद्बर्त्तते राजंस्तच्च भ्रष्टं भविष्यति ॥
यच्चायोध्याह्वयं भूप ! पुरमिक्ष्वाकुभूभुजाम् ।
धनुराकृति तच्चापि ततो भूरिजयप्रदम् ॥
दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्बारतः ।
पूजयित्वा विधानेन जयं भूपः समाप्नुयात् ।
ततो दुर्गं नृपः कुर्य्यात् सततं जयवृद्धये ॥ * ॥
न ब्राह्मणान् सदा राजा कदाचिदवमन्यते ।
अवमत्य नृपो विप्रान् प्रेत्येह दुःखमाग्भवेत् ॥
न विरोधस्तु तैः कार्य्यः स्वानि तेषां न चाददेत् ।
कृत्यकालेषु सततं तानेव परिपूजयेत् ।
नैषां निन्दां प्रकुर्व्वीत नाभ्यसूयां तथाचरेत् ॥
एवं नृपो महाबुद्धिस्तद्भूमण्डलसंयतः ।
अप्रमादी चारचक्षुर्गुणवान् सुप्रियंवदः ॥
प्रेत्येह महतीं सिद्धिं प्राप्नोति सुखभोगवान् ।
यैर्गुणैर्योजितश्चात्मा तैः पुत्त्रानपि योजयेत् ॥
नृपस्य च स्वतन्त्रत्वं सततं स्वं विनाशयेत् ।
स्वतन्त्रो भूपतनयो विकारं याति निश्चयम् ॥
निर्व्विकाराय सततं तमुच्चैः परिपूजयेत् ।
भोजने शयने पाने पुरुषाणाञ्च वीक्षणे ॥
नियोजयेत् सदाचारान् भूपः कामविचेष्टने ।
अस्वतन्त्राः स्त्रियो नित्यं हानये संभवन्ति हि ॥
तस्मात् कुमारं महिषीमुपधाभिर्म्मनोहरैः ॥
शोधयित्वा नियुञ्जीत यौवराज्यावरोधयोः
अन्तःपुरप्रवेशे तु स्वतन्त्रत्वं निषेधयेत् ॥
भूपपुत्त्रस्य भार्य्याया बहिःसारे तथैव च ।
अयं विशेषः संक्षेपान्नृपधर्म्मो मयोदितः ॥
पुत्त्राणां गुणविन्यासो भार्य्याणामपि भूपते ।
उशना राजनीतीनां तन्त्राणि च बृहस्पतिः ॥
चकारान्यान् विशेषांस्तु तयोस्तन्त्रेषु शोधयेत् ।
एवं राजा महाभागो राजनीतौ विशेषताम् ।
कुर्व्वन्न सीदति सदा भूयसीं श्रियमश्नुते ॥”
इति कालिकापुराणे राजनीतिविशेषे ८५
अध्यायः ॥ * ॥
पृष्ठ २/९११
अन्यत्तु औशनससूत्रकामन्दकपञ्चतन्त्रनीति-
मयूखहितोपदेशचाणक्यभारतीय-राजधर्म्मादौ
द्रष्टव्यम् ॥

नीतिघोषः, पुं, (नीतिरेव नीत्यात्मको वा घोषो

रबो यस्येति ।) बृहस्पतिरथः । इति त्रिकाण्ड-
शेषः ॥ (नीतेर्नयस्य घोषः ।) नयष्वनिश्च ॥

नीतिसारः, पुं, (नीतिरेव सारो यस्येति ।)

इन्द्रं प्रति बृहस्पत्युक्तनीतिशास्त्रविशेषः । अयं
चाणक्यसंग्रहमूलम् । गरुडपुराणे अष्टास्व-
ध्यायेष्वस्ति । बाहुल्यभिया तत् समुदायं न
लिखित्वा अष्टानामध्यायानां प्राथमिकाष्टश्लोका
लिख्यन्ते । यथा, --
“सद्भिः सङ्गं प्रकुर्व्वीत सिद्धिकामः सदा नरः ।
नासद्भिरिह लोकाय परलोकाय वा हितम् ॥ १ ॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ २ ॥
यो ध्रुवाणि परित्यज्य अध्रुवाणि च सेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रवं नष्टमेव च ॥ ३ ॥
राज्यं पालयते नित्यं सत्यधर्म्मपरायणः ।
निर्ज्जित्य परसैन्यानि क्षितिं धर्म्मेण पालयेत् ॥ ४ ॥
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः ।
नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥ ५ ॥
गुणवन्तं नियुञ्जीत गुणहीनं विवर्ज्जयेत् ।
पण्डिते च गुणाः सर्व्वे मूर्खे दोषाश्च केवलम् ॥ ६ ॥
न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ ७ ॥
कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् ।
कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्ज्जयेत् ॥” ८ ॥
इति गारुडे ॥

नीथः, पुं, (नयति प्रापयतीति । नी + “हनि-

कुषिनीरमिकाशिभ्यः क्थन् ।” उणां २ । २ ।
इति क्थन् ।) नियन्ता । प्रापयिता । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (नी + भावे
क्थन् । नयनम् । इति उज्ज्वलदत्तः ॥ यथा,
ऋग्वेदे । १ । १०० । १२ ।
“सहस्रचेताः शतनीथ ऋभ्वा ॥”
स्तोत्रम् । यथा, ऋग्वेदे । ३ । १२ । ५ ।
“नीथाविदो जरितारः ॥”
“नीथाविदस्तोत्राभिज्ञाः ।” इति तद्भाष्ये
सायनः ॥)
जले, क्ली । इति संक्षिप्तसारोणादिवृत्तिः ॥
(नीयतेऽनेनेति । करणे + क्थन् । प्रापणहेतु-
भूते, त्रि । यथा, ऋग्वेदे । १ । १०४ । ५ ।
“प्रति यत्स्या नीथादर्शि ॥”
“यद्यदा नीथा नयनहेतुभूता स्या सा पदवी
प्रत्यदर्श ।” इति तद्भाष्ये सायनः ॥)

नीध्रं, क्ली, (नितरां ध्रियत इति । नि + धृ + मूल-

विभुजादित्वात् कः ।) वलीकम् । वनम् ।
नेमिः । चन्द्रः । रेवतीनक्षत्रम् । इति हेम-
चन्द्रः ॥ नीव्रमपि पाठः ॥

नीपः, पुं, (नी + “पानीविषिभ्यः पः ।” उणां ३ ।

२३ । इति पः । बाहुलकात् गुणाभावः ।)
कदम्बवृक्षः । इत्यमरः । २ । ४ । ४२ ॥ (यथा,
ऋतुसंहारे । ३ । १३ ।
“त्यक्त्वा कदम्बकूटजार्ज्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥”
क्वचित् क्ली । यथा, --
“नीपं सभार्गकं पीलु तृणशून्यं विकङ्कतम् ।
प्राचीनामलकञ्चैव दोषघ्नङ्गरहारि च ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“गरदोषहरं नीपं प्राचीनामलकन्तथा ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)
धाराकदम्बः । इति राजनिर्घण्टः ॥ बन्धूक-
वृक्षः । नीलाशोकवृक्षः । इति मेदिनी । पे, ८ ॥

नीयमानं, त्रि, (नीयते इति । नी + कर्म्मणि

शानच् ।) प्राप्यमाणम् । यथा, कालिकापुराणे ।
“नीयमानो न गच्छेच्चेन्महिषीमरणं तदा ॥”

नीरं, क्ली, (नयति प्रापयति स्थानात् स्थानान्तर-

मिति । नी प्रापणे + “स्फारितञ्चीति ।” उणां
२ । १३ । इति रक् । यद्वा, “अग्नेरापः ।”
इति श्रुतेः निर्गतं रादग्नेरिति, “अद्भ्योऽग्नि-
र्ब्रह्मणः क्षत्त्रम् ।” इति स्मृतेः निर्गतो रोऽग्नि-
र्यस्मादिति वा । “ढ्रलोपे पूर्ब्बस्य दीर्घोऽणः ।”
६ । ३ । १११ । इति रलोपे पूर्ब्बदीर्घः ।) जलम् ।
इत्यमरः । १ । १० । ४ ॥ (यथा, गीतगोविन्दे । १ । ९ ।
“छलयसि विक्रमणे वलिमद्भुतवामन
पदनखनीरजनितजनपावन ।
केशव धृतवामनरूप
जय जगदीश हरे ॥”)
रसः । इत्युणादिकोषः ॥ नीरे अक्षेपणीयानि
यथा, गरुडपुराणे ।
“निष्ठीवासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥”
(अस्य पानविधेयता विधीयते यथा, --
“षाप्युद्भवन्तत् प्रवदन्ति धीरा
नीरं समासेन निगद्यतेऽत्र ।
यत् श्रीमताञ्चैव महायतीनां
बलप्रदं पथ्यतरं प्रदिष्टम् ॥”
“विण्मूत्रे तृणनीलिका विषयुतं तप्तं घनं फेनिलं
दन्तग्राह्यमनार्त्तवं हि सलिलं दुर्गन्धि वै
गर्हितम् ।
नानाजीवविमिश्रितं गुरुतरं वर्णौघपङ्काविल-
ञ्चन्द्रार्कांशुसुगोपितं न च पिबेन्नीरं सुदोषा-
न्वितम् ॥”
इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)

नीरजं, क्ली, (नीरे जले जायते इति । जन +

डः ।) कुष्ठौषधिः । (यथा, सुश्रुते चिकित्सित-
ष्ठाने । २५ ।
“फलत्रयं लौहरजोऽञ्जनञ्च
यष्ट्याह्वयं नीरजसारिवे च ॥”)
पद्मम् । इति मेदिनी । जे, २४ ॥ (यथा, भ्रम-
राष्टके । ४ ।
“नीतं जन्म नवीननीरजवने पीतं मधु
स्वेच्छया ॥”)
मुक्ता । इति राजनिर्घण्टः ॥ जलजाते, त्रि ॥

नीरजः, पुं, (नीरे जायते इति । जन + डः ।)

उद्रजन्तुः । इति शब्दरत्नावली ॥ उशीरी ।
इति राजनिर्घण्टः ॥ (महादेवः । यथा, महा-
भारते । १३ । १७ । १४६ ।
“उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ॥”)

नीरजः, [स्] त्रि, (निर्नास्ति रजो धूलिः

कुसुमपरागादिर्वा यत्र ।) निर्धूलिदेशपूष्यादि ।
(यथा, महाभारते । १३ । ८१ । २० ।
“सर्व्वा मणिमयी भूमिः सर्व्वकाञ्चनवालुका ।
सर्व्वर्त्तुसुखसंस्पर्शा निष्पङ्का नीरजाः शुभा ॥”)
अरजस्कायाम् स्त्री ॥

नीरतः, स्त्रि, (निर्गतं रतं रमणं यस्मात् ।)

विरतः । रमणाभाववान् । यथा, --
“दिशि दिशि नीरतरङ्गो नीरतरङ्गो ममापि
हृदयेशः ।
आयाताः सखि वर्षा वर्षादपि यासु वासरो
दीर्घः ॥”
इत्युद्भटद्व्यर्थपद्यम् ॥

नीरदः, पुं, (नीरं जलं ददातीति । नीर + दा +

कः ।) मेघः । यथाह घटकर्परः ।
“निचितं खमुपेत्य नीरदैः प्रियहीना हृदयाव-
नीरदैः ।”
मुस्तकम् । इति राजनिर्घण्टः ॥ (निर्नास्ति
रदो दन्तो यस्य ।) रदशून्ये, त्रि ॥ यथा, --
“आस्वाद्य निरवशेषं विरहिवधूनां मृदूनि
मांसानि ।
करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि ॥”
इत्युद्भटः ॥

नीरधिः, पुं, (नीराणि धीयन्तेऽस्मिन्निति । नीर +

धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ ।
इति किः ।) समुद्रः । इति शब्दरत्नावली ॥

नीरनिधिः, पुं, (नीराणि निधीयन्तेऽत्रेति । नीर

+ नि + धा + किः ।) समुद्रः । इति शब्द-
रत्नावली ॥ (यथा, माघे । ३ । ७० ।
“पारे जलं नीरनिधेरपश्य-
न्मुरारिरानीलपलाशराशीः ॥”)

नीरन्ध्रं, त्रि, (निर्नास्ति रन्ध्रं छिद्रं यस्मिन् ।)

घनम् । इति हेमचन्द्रः । ६ । ८३ ॥ (यथा,
माघे । ८ । ३ ।
“नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः
साशङ्कं मुहुरिव कौतुकात् करैस्ताः ।
पस्पर्श क्षणमलिनाकुलीकृतानां
शाखानामतुहिनरश्मिरन्तरालैः ॥”)
छिद्ररहितम् । यथा, --
“श्रीमन्नाथ तवार्जितोर्जितयशःसंशुद्धमुक्तावली-
मादायैव विधिर्व्विधित्सुरमलं हारं त्वदीयै-
र्गुणैः ।
नीरन्ध्रामवलीक्य तामपि ततो नान्तं गुणानामहो
उत्पित्सुर्गगनान्तरे समकिरत्तास्तास्तत-
स्तारकाः ॥”
इति कालीदासः ॥
पृष्ठ २/९१२

नीरसः, पुं, (नितरां रसो यत्र ।) दाडिमः ।

इति हारावली ॥ (निर्नास्ति रसो यत्र ।)
रसशून्ये, त्रि । यथा, --
“शृङ्गारी चेत् कविः काव्ये जातं रसमयं सगत् ।
स एव चेदशृङ्गारी नीरसं सर्व्वमेव तत् ॥”
इति प्राञ्चः ॥

नीराखुः, पुं, (नीरस्य आखुः ।) उद्रः । उद्बि-

डाल इति भाषा ॥ तत्पर्य्यायः । जलनकुलः २
जलविडालः ३ जलप्लवः ४ । इति हारावली ।
७६ ॥ उर्द्रः ५ जलाखुः ६ नीरजः ७ नकुलः ८ ।
इति शब्दरत्नावली ॥

नीराजनं, क्ली, (राज दीप्तौ + ल्युट् ।

नितरां राजनं यत्र ॥ निर्
+ राज् + णिच् + “ण्यासश्रन्थो युच् ।” ३ ।
३ । १०७ । इति भावे युच् ।) वाहनायुधादे-
र्निःशेषेण राजनं यत्र सा नीराजना । नीरस्य
शान्त्युदकस्य अजनं क्षेपो यत्र सा नीराजना
वा । इत्यमरटीकायां भरतः ॥ * ॥

नीराजना, स्त्री, (राज दीप्तौ + ल्युट् ।

नितरां राजनं यत्र ॥ निर्
+ राज् + णिच् + “ण्यासश्रन्थो युच् ।” ३ ।
३ । १०७ । इति भावे युच् ।) वाहनायुधादे-
र्निःशेषेण राजनं यत्र सा नीराजना । नीरस्य
शान्त्युदकस्य अजनं क्षेपो यत्र सा नीराजना
वा । इत्यमरटीकायां भरतः ॥ * ॥
तद्बिधानं यथा, --
“शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् ।
नीराजनं दशम्यान्तु कुर्य्याद्वै बलवृद्धये ॥
विधिं नीराजनस्य त्वं शृणु पार्थिवसत्तम ! ।
कृतेन येन चाश्वानां गजानामपि चेष्टनम् ॥
आश्विने शुक्लपक्षे या तृतीया स्वातियोगिनी ।
ऐशान्यां स्वपुरस्यैव गृह्णीयात् स्थानमुत्तमम् ॥
नीराजनं ततः कुर्य्यात् संप्राप्ते दिवसेऽष्टमे ।
नीराजनस्य कालस्तु पूर्ब्बमुक्तस्तु ते मया ॥
विधानमत्र शृणु मे कृतकृत्यो भविष्यसि ।
एकं हयं महासत्वं सुमनोहरमेव वा ॥
पूजयेत् सप्तदिवसान् गन्धपुष्पादिकांशुभिः ।
तृतीयादौ पूजयित्वा नयेत्तं यज्ञमण्डपम् ॥
चेष्टां निरूपयंस्तस्य जानीयाच्च शुभाशुभम् ।
परराष्ट्रविमर्द्दः स्यादश्वो यदि पलायते ॥
म्रियते राजपुत्त्रस्तु यदि चाश्रूणि मुञ्चति ।
नीयमानो न गच्छेच्चेन्महिषीमरणं तदा ॥
तथैव मुखनासाक्षिशब्दं कुर्य्याद्धयो यदि ।
यत्काष्ठाभिमुखः कुर्य्यात्तत्काष्ठायां जयेद्रिपून् ॥
उत्क्षिप्य दक्षिणाग्रन्तु पदमश्वो भवेत् पुरा ।
तदा जयेत् समस्तांश्च नृपतिर्व्विजयेद्रिपून् ॥
प्रातर्नीराजनं कुर्य्याद्दशम्यां नृपसत्तम ! ।
तदप्राप्तौ तु द्वादश्यां तस्यामेव समाचरेत् ॥
कार्त्तिके पञ्चदश्यां वा तत्राभावे तु पार्थिवः ।
ऐशान्यां स्वपुरस्योच्चैर्हस्तमानेन षोडश ॥
दशहस्तन्तु विपुलं कुर्य्याद्वै तत्र तोरणम् ।
द्वात्रिंशद्धस्तमात्रन्तु हस्तषोडशविस्तृतम् ॥
यज्ञार्थं मण्डपं कुर्य्यात् मध्ये वेदिं विनिर्णयेत् ।
वेद्याश्चोत्तरतश्चाश्ववेदिं कुर्य्यादनुत्तमाम् ॥
यत्र संस्थाप्य चाश्वश्च पूजितव्यः पुरोहितैः ।
सज्जडिम्बरशाखानामर्ज्जुनस्याथवा नृपः ॥
मत्स्वशङ्खाङ्कितैश्चक्रैर्ध्वजैश्चापि विभूषयेत् ।
तोरणं कनकै रत्नैस्तथा नानाविधैर्म्मतैः ॥
भल्लातकं शालिकुष्ठं सिद्धार्थं सैन्धवस्य तु ।
कण्ठदेशे निबध्नीयात् पुष्टिशान्त्यर्थमेव च ॥
वैष्णवं मण्डलं कृत्वा दिक्पालांश्च नवग्रहान् ।
विश्वेदेवांस्तु मन्त्रेण विष्णुमुख्यान् प्रपूजयेत् ॥
आज्यैस्तिलैश्च पुष्पैश्च मिश्रीकृत्य पुरोहितः ।
रवेस्तु वरुणस्यैव प्रजेशस्य तथैव च ॥
पुरुहूतस्य विष्णोश्च होमं सप्ताहमाचरेत् ।
एकैकस्य सहस्रं वा अष्टोत्तरशतञ्च वा ॥
कुर्य्यात्तु प्रत्यहं होमं चतुर्व्वर्गस्य सिद्धये ।
समिधश्चापि होतव्याः पलाशं खदिरं तथा ॥
औडुम्बरञ्च काश्मर्य्यमश्वत्थञ्च पुरोहितः ।
सौवर्णान् राजतान् वापि मार्त्तिकान् वा यथे-
च्छया ॥
कुर्य्यात्तु कलसानष्टौ फलपल्लवयोजितान् ।
क्षिपेत्तेषु घटेष्वेव समङ्गां हरितालकम् ॥
चन्दनञ्च तथा कुष्ठं प्रियङ्गुञ्च मनःशिलाम् ।
अञ्जनञ्च हरिद्राञ्च श्वेतां दन्तीं तथैव च ॥
भल्लातकं पूर्णकोषं सहदेवां शतावरीम् ।
वचां सनागकुसुमां सोमराजीं स्वगुप्तिकाम् ॥
तुत्थञ्च करवीरञ्च तुलसीदलमेव च ।
एतानि निःक्षिपेन्मध्ये कलसानां पुरोहितः ॥
कनकैरम्बुजैर्यज्ञदारुभिः स्रुक्स्रुवौ तथा ।
कर्त्तव्यौ शान्तिकामेन नीराजनविधौ नृप ! ॥
एवं सप्ताहपर्य्यन्तं पूजाभिर्हवनैस्तथा ।
पूर्ब्बोक्तान् पूजयित्वा तु नृपः सप्ताहमाचरेत् ॥
यावन्नीराजनं कुर्य्यात्तावद्राजा वसेद्गृहे ।
रात्रौ न यज्ञभूमौ तु निवसेच्छान्तिमिच्छुकः ॥
नारोहयेत्तु तुरगं गजं वा तत्र पार्थिवः ।
यावत् सप्ताहपर्य्यन्तं यानेनान्येन वै व्रजेत् ॥
भक्ष्यैर्नानाविधैश्चैव मधुपायसयावकैः ।
मोदकैर्व्वा बलिं कुर्य्याच्चान्नव्यञ्जनसम्भवैः ॥
पूर्ब्बोक्तानान्तु देवानां सप्ताहं यावदुत्तमम् ।
सप्तमेऽह्नि तु रेमन्तं पूजयेत्तोरणान्तरे ॥
सूर्य्यपुत्त्रं महाबाहुं द्विभुजं कवचोज्वलम् ।
ज्वलन्तं शुक्लवस्त्रेण केशानुद्ग्रथ्य वाससा ॥
कशां वामकरे बिभ्रद्दक्षिणन्तु करं पुनः ।
सखड्गं न्यस्य वल्गायां सितसैन्धवसंस्थितम् ॥
एवंविधन्तु रेमन्तं प्रतिमायां घटेऽपि वा ।
सूर्य्यपूजाविधानेन पूजयेत्तोरणान्तरे ॥ * ॥
पूजयित्वा तु रेमन्तं द्विरदं तुरगन्तथा ।
आहताम्बरसंवीतं स्रक्चन्दनसमन्विलम् ॥
सुवर्णाबद्धनिस्त्रिंशं विचित्रकवचादिभिः ।
युक्तन्तु होमकुण्डस्य ऐशान्यामश्ववेदिकाम् ॥
पूर्ब्ब कृत्वा नयेदश्वगजपालः पृथक् पृथक् ।
नीयमाने गजे चाश्वे पूर्ब्बोक्तञ्च निमित्तकम् ।
यत्नाद्वीक्षेत नृपतिः फलं चैवावधारयेत् ।
होमकुण्डस्योत्तरस्यां वैयाघ्रे चर्म्मणि स्यितः ॥
दैवविदा चाश्वविदा सहितो वीक्ष्य सैन्धवम् ।
नीताय तुरगायाशु भक्तपिडीं सुगन्धिनीम् ॥
दद्यात् पुरोहितस्तत्र संमन्त्र्य शान्तिमन्त्रकैः ।
तत्क्षणाद्यदि जिघ्रेत्तदश्नीयाद्बा हयः स च ॥
तदा स्यात् सर्व्वकल्याणं विपरीतमतोऽन्यथा ॥
शाखामौडम्बरीमाभ्रीं सकुशाञ्च घटोदके ।
आप्लाव्याप्लाव्य तुरगान् गजान् भूपञ्च सैनिकान् ।
रथांश्च संस्पृशेन्मन्त्रैः शान्तिकैः पौष्टिकैस्तथा ॥
सेचयन् सहितैर्विप्रैश्चतुरङ्गं पुरोहितः ।
दिक्पालानां ग्रहाणाञ्च मन्त्रैश्चैव सवैष्णवैः ॥
बहुधा चाभिषिच्याथ ततः सौवर्णदर्पणम् ।
वीक्षयित्वा नृपञ्चर्त्विक् ततो मन्त्रिणमेव च ॥
राजपुत्त्रांस्तथामात्यानन्यानपि च पौरवान् ।
कल्पयन् द्बिजशार्द्दूलः सर्व्वानेव तु दर्शयेत् ॥ * ॥
चतुरङ्गबलस्यापि कृत्वैवं शान्तिपौष्टिके ।
मृण्मयं शात्रवं कृत्वा ह्यभिचारकमन्त्रकैः ॥
हृदि शूलेन विद्ध्वा तं शिरः खड्गेन छेदयेत् ॥
आचार्य्यः कविकां पश्चादभिमन्त्र्य हयाय वै ॥
ऐन्द्रैः प्राभाकरैर्म्मन्त्रैर्दव्याद्वक्त्रे स्वयं पुनः ।
तमनेन तु मन्त्रेण समारुह्य नृपस्तदा ॥
गच्छेदुत्तरपूर्ब्बान्तु दिशं सर्व्वबलैर्युतः ।
ऋत्विक्पुरोहिताचार्य्याः सर्व्व एव नृपन्तथा ॥
अनुगच्छेयुरव्यग्रा निमित्तानि व्यलोकयन् ।
वादित्रघौषैस्तुमुलैरातपत्रैर्वृतस्तथा ॥
गच्छेन्नीराजने राजा दारयन्निव मेदिनीम् ।
मणिविद्रुममुक्तादस्वर्णरत्नैरलङ्कुतः ।
क्रोशमात्रं ततो गत्वा पूर्ब्बद्बारेण पार्थिवः ॥
स्वपुरं प्रविशेद्विप्रैर्यज्ञं यायात् पुरोहितः ।
तत्र गत्वा दक्षिणान्तु हिरण्यं गां तथा तिलम् ।
दत्वा पश्चाद्द्विजेभ्यस्तु दद्याद्दानानि शक्तितः ॥
एवं नीराजनं कृत्वा बलानाञ्च महीक्षितः ।
प्रेत्येह च स्थितां लक्ष्मीं नृपतिः प्राप्नुयात्तथा ॥
त्वमश्वामृतसंजात सागरोद्भव सैन्धव ।
येन सत्येन वहसे शक्रं तेनेह मां वह ॥
येन सत्येन रेमन्तं येन सत्येन भास्करम् ।
वहसं तेन सत्येन विजयाय वहस्व माम् ॥
आभ्यान्तु नृपमन्त्राभ्यामश्वारोहणमाचरेत् ।
आरुह्याग्रे महिष्यास्तु शुद्धान्ते लम्बयेत्ततः ॥
महिषी च ततो भूपं पर्य्यङ्कोपरिसंस्थितम् ।
दूर्व्वाक्षतः ससिद्धार्थैः स्त्रीभिः सह समर्च्चयेत् ॥
कृते तु भूमिग्रहणे तृतीयायां नीराजने ।
सूतकं यदि जायेत तन्न दुष्यति केवलम् ॥
सूतके मृतके वापि पार्थिवस्तु यथा तथा ।
बलं नीराजनं कुर्य्यात्तन्माचञ्च विशेषतः ॥
सद्यःशौचं भवेद्राज्ञां व्यवहारविलोकने ।
तथा विवासिते यज्ञे परराष्ट्रविमर्द्दने ।
अयन्ते कथितो राजन्नीराजनक्रमो मया ॥”
इति कालिकापुराणे ८६ अध्यायः ॥ * ॥
(निर् + राज + भावे ल्युट् ।) निर्म्मञ्छनम् ।
आरति इति भाषा ॥ तत्र पञ्चनीराजनं यथा,
“पञ्चनीराजनं कुर्य्यात् प्रथमं दीपमालया ।
द्बितीयं सोदकाब्जेन तृतीयं धौतवाससा ॥
चूताश्वत्थादिपत्रैश्च चतुर्थं परिकीर्त्तितम् ।
पञ्चमं प्रणिपातेन साष्टाङ्गेन यथाविधि ॥”
इति कालोत्तरतन्त्रम् ॥
तस्य वर्त्तिकादिप्रमाणं यथा, --
“कुङ्कुमागुरुकर्पूरघृतचन्दबनिर्म्मिताः ।
वर्त्तिकाः सप्त वा पञ्च कृत्वा वन्दापनीयकम् ॥
पृष्ठ २/९१३
कुर्य्यात् सप्तप्रदीपेन शङ्खघण्टादिवाद्यकैः ।
हरेः पञ्चप्रदीपेन वहुशो भक्तितत्परः ॥”
इति पाद्मोत्तरखण्डे १०७ अध्यायः ॥ * ॥
अथ नीराजनमाहात्म्यम् ।
स्कान्दे ब्रह्मनारदसंवादे ।
“वहुवर्त्तिसमायुक्तं ज्वलन्तं केशवोपरि ।
कुर्य्यादारात्रिकं यस्तु कल्पकोटिं वसेद्दिवि ॥
कर्पूरेण तु यः कुर्य्याद्भक्त्या केशवमूर्द्धनि ।
आरात्रिकं मुनिश्रेष्ठ ! प्रविशेद्बिष्णुमव्ययम् ॥”
तदेवान्यत्र ।
“दीप्तिमन्तं सकर्पूरं करोत्यारात्रिकं नृप ! ।
कृष्णस्य वसते लोके सप्तकल्पानि मानवः ॥”
तत्रैव शिवोमासंवादे ।
“मन्त्रहीनं क्रियाहीनं यत् कृतं पूजनं हरेः ।
सर्व्वं सम्पूर्णतामेति कृते नीराजने शिवे ! ॥”
हरिभक्तिसुधोदये ।
“कृत्वा नीरत्जनं विष्णोर्दीपावल्या सुदृश्यया ।
तमोविकारं जयति जिते तस्मिंश्च को भवः ॥”
अन्यत्र च ।
“कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।
दहत्यालोकमात्रेण विष्णोः सारात्रिकं मुखम् ॥
यच्च दीपस्य माहात्म्यं पूर्ब्बं लिखितमस्ति तत् ।
द्रष्टव्यं सर्व्वमत्रापि प्रायेणाभेदतोऽनयोः ॥
अतः सादरमुत्थाय महानीराजनन्त्विदम् ।
द्रष्टव्यं दीपवत् सर्व्वैर्व्वन्द्यमारात्रिकञ्च यत् ॥”
तदुक्तं श्रीपुलस्त्येन विष्णुधर्म्मे ।
“धूपं चारात्रिकं पश्येत् कराभ्याञ्च प्रवन्दते ।
कुलकोटिं समुद्धृत्य याति विष्णोः परं पदम् ॥”
मूलागमे च ।
“नीराजनञ्च यः पश्येत् देवदेवस्य चक्रिणः ।
सप्तजन्मनि विप्रः स्यादन्ते च परमं पदम् ॥”
इति हरिभक्तिविलासः ॥
अवशिष्टं आरात्रिकशब्दे द्रष्टव्यम् ॥

नीरिन्दुः, पुं, (नि + ईर् कम्पने + भावे क्विप् ।

नीरा नितरां कम्पनेन इन्दति सुभगेन शोभते
इति । इति परमैश्वर्य्ये + उन् ।) अश्वशाखोट-
वृक्षः । इति शब्दचन्द्रिका ॥ आश्वेओडा इति
भाषा ॥

नीरुक्, [ज्] पुं स्त्री, (निर् + रुज + भावे

क्विप् ।) रोगाभावः । तत्पर्य्यायः । स्वास्थ्यम्
२ वार्त्तम् ३ अनामयम् ४ आरोग्यम् ५ ।
(रुज् + भावे क्विप् । निर्नास्ति रुक् रोगो यस्य ।)
रोगशून्ये, त्रि । तत्पर्य्यायः । पटुः २ उल्लाघः
३ वार्त्तः ४ कल्यः ५ । इति हेमचन्द्रः । १ । १३८ ॥
(यथा, सुश्रुते चिकित्सितस्थाने २५ अध्याये ।
“एतेन पाल्या वर्द्धन्ते नीरुजो निरुपद्रवाः ॥”)

नीरुजं, क्ली, (निर्गता रुजा रोगो यस्मात् ।)

कुष्ठौपधिः । इति जटाधरः ॥

नीरुजः, त्रि, (निर्गता रुजा रोगो यस्य ।)

रोगाभाववान् । यथा, शाम्बपुराणे ।
“शाम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् ।
पूतात्मा नीरुजः श्रीमांस्तस्माद्रोगाद्विमुक्तवान् ॥”

नीरूपं, त्रि, (निर्नास्ति रूपमस्येति ।) रूपा-

भावविशिष्टम् । यथा । नीरूपस्यापि कालस्य
इन्द्रियवेद्यत्वाभ्युपगमेनेति वेदान्तपरिभाषा ॥

नीरेणुकः, त्रि, (निर्गतो रेणुः पांशुर्यस्मात् ।

कप् ।) धूलिशून्यभूम्यादिः । यथा । नीरेणुक-
भूरभूदिति सत्पद्यरत्नाकरः ॥

नीलं, क्ली, (नीलतीति । नील + अच् ।) नीली ।

इति मेदिनी । ले, ३३ ॥ काचलवणम् । तालीश-
पत्रम् । विषम् । सौवीराञ्जनम् । (पर्य्यायोऽस्य
यथा, वैद्यकरत्नमालायाम् ।
“सुवीरकं पार्व्वतेयं सौवीरं नीलमञ्जनम् ॥”)
तुत्थम् । इति राजनिर्घण्टः ॥ नृत्याङ्गाष्टोत्तर-
शतकरणान्तर्गतकरणविशेषः । इति सङ्गीत-
दामोदरः ॥

नीलः, पुं, पर्व्वतविशेषः । स तु इलावृतस्योत्तरतो

रम्यकवर्षस्य सीमापर्व्वतः । प्रागायत उभयतः
क्षीरोदावधि द्बिसहस्रयोजनपृथुः । अयुत-
योजनोत्सेधः । इति श्रीभागवते ५ स्कन्धे
१६ अध्यायः ॥ (तथाच विष्णुपुराणे । २ । २ । १० ।
“नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः ।
लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथापरे ॥”
“लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध-
नीलौ । यद्यपि जम्बुद्वीपस्य मण्डलाकारस्य
लक्षयोजनप्रमाणत्वात् तन्मध्ये रेखायामेव मुख्य-
लक्षप्रमाणत्वं निषधनीलौ तु तन्मध्यरेखातो
दक्षिणश्चोत्तरश्च सलक्षयोजनसहस्रान्तरित-
त्वादीषन्न्यनौ तथापि स्थूलदृष्ट्या लक्षप्रमाणावि-
त्युक्तम् ॥” इति तट्टीकायां स्वामी ॥ * ॥
(नीलासनवृक्षः । तत्पर्य्यायो यथा, --
“नीलः स्यान्नीलपत्रिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
मणिविशेषः । नीलम् इति पारस्यभाषा ॥
अस्याधिष्ठातृदेवता शनिः । यथा, --
“माणिक्यमुक्ताफलविद्रुमाणि
गारुत्मतं पुष्पकवज्रनीलम् ।
गोमेदवैदूर्य्यकमर्कतः स्यू
रत्नान्यथोऽज्ञस्य मुदे सुवर्णम् ॥”
इति मुहूर्त्तचिन्तामणिः ॥
तत्पर्य्यायः । सौरिरत्नम् २ नीलाश्मा ३ नीलोत्-
पलः ४ तृणग्राही ५ महानीलः ६ सुनी-
लकः ७ । अस्य गुणाः । तिक्तत्वम् । उष्ण-
त्वम् । कफपित्तानिलापहत्वम् । शरीरे धृते
सौरिर्म्मङ्गलदो भवति । इति राजनिर्घण्टः ॥ *
अथ इन्द्रनीलमणेरुत्पत्तिपरीक्षादि यथा, --
“तत्रैव सिंहलवधूकरपल्लवाग्र-
व्यालूनबाललवनीकुसुमप्रवाले ।
देशे पपात दितिजस्य नितान्तकान्तं
प्रोत्फुल्लनीरजसमद्युतिनेत्रयुग्मम् ॥
तत्प्रत्ययादुभयशोभनवीचिभासा
विस्तारिणी जलनिधेरुपकच्छभूमिः ।
प्रोद्भिन्नकेतकवनप्रतिबद्धलेखा
सान्द्रेन्द्रनीलमणिरत्नवती विभाति ॥
तत्रासिताब्जहलभृद्धसनासिभृङ्ग-
शार्ङ्गायुधाभहरकण्ठकलायपुष्पैः ।
शुक्लेतरैश्च कुसुमैर्गिरिकर्णिकाया-
स्तस्मिन् भवन्ति मणयः सदृशावभासः ॥
अन्ये प्रसन्नपयसः पयसां निधातु-
रम्बुत्विषः शिखिगलप्रतिमास्तथान्ये ।
नीलीरसप्रभववुद्वुदभाश्च केचित्
केचित्तथा समदकोकिलकण्ठभासः ॥
एकप्रकारा विस्पष्टवर्णशोभावभासिनः ।
जायन्ते मणयस्तस्मिन् इन्द्रनीला महागुणाः ॥
मृत्पाषाणशिलावज्रकर्कराभाससंयुताः ।
अब्भ्रिकापटलच्छायावर्णदोषैश्च दूषिताः ॥
तत एव हि जायन्ते मणयस्तत्र भूरयः ।
शास्त्रसंबोधितधियस्तान् प्रशंसन्ति सूरयः ॥
धार्य्यमाणस्य ये दृष्टाः पद्मरागमणेर्गुणाः ।
धारणादिन्द्रनीलस्य तानेवाप्नोति मानबः ॥
यथा च पद्मरागाणां जातुकर्त्तृभयं भवेत् ।
इन्द्रनीलेष्वपि तथा द्रष्टव्यमविशेषतः ॥
परीक्षाप्रत्ययैर्यैश्च पद्मरागः परीक्ष्यते ।
त एव प्रत्यया दृष्टा इन्द्रनीलमणेरपि ॥
यावन्तञ्च क्रमेदग्निं पद्मरागः पयोगतः ।
इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥
तथापि न परीक्षार्थं गुणानामतिवृद्धये ।
मणिरग्नौ समाधेयः कथञ्चिदपि कश्चन ॥
अग्निमात्रापरिज्ञाने दाहदोषैश्च दूषितः ।
सोऽनर्थाय भवेद्भर्त्तुः कर्त्तुः कारयितुस्तथा ॥
काचोत्पलकरवीरस्फटिकाद्या इह बुधैः सवै-
दूर्य्याः ।
कथिता विजातय इमे सदृशां मणिनेन्द्रनीलेन ॥
गुरुभावकठिनभावावेतेषां नित्यमेव विज्ञेयौ ।
काचाद्यथावदुत्तरविवर्द्धमानौ विशेषेण ॥
इन्द्रनीलो यदा कश्चित् विभर्त्त्याताम्रवर्णताम् ।
रक्षणीयौ तथा ताम्रौ करवीरोत्पलावुभौ ।
यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा ॥
तदिन्द्रनीलमित्याहुर्म्महार्घं भुवि दुर्लभम् ॥
यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः ।
नीलतां तन्नयेत् सर्व्वं महानीलः स उच्यते ॥
यत् पद्मरागस्य महागुणस्य
मूल्यं भवेन्माससमुत्थितस्य ।
तदिन्द्रनीलस्य महागुणस्य
सवर्णसंख्यातुलितस्य मूल्यम् ॥”
इति गरुडपुराणे इन्द्रनीलपरीक्षा ॥ * ॥
वानरान्तरः । इति मेदिनी । ने, २९ ॥ नील-
वर्णः । नीलौषधिः । निधिविशेषः । लाञ्छनम् ।
इति हेमचन्द्रः ॥ मञ्जुघोषः । इति त्रिकाण्ड-
शेषः ॥ वटवृक्षः । इति राजनिर्घण्टः ॥ नील-
वर्णयुक्ते, त्रि । इत्यमरः ॥ (यथा, देवीभाग-
वते । ५ । ८ । ३८ ।
“नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥”)
नीलवर्णवस्तूनि यथा । शुकः १ शैवालम् २
दूर्व्वा ३ बालतृणम् ४ बुधः ५ वंशाङ्कुरः
मरकतः ७ इन्द्रनीलमणिः ८ सूर्य्याश्वादीनि ९
पृष्ठ २/९१४
इति कविकल्पलता ॥ अजमीढस्य राज्ञः
नीलिन्यां पत्न्यां जातः पुत्त्रः । यथा । “अजमी-
ढस्य नीलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्त्रो-
ऽभवत् ।” इति विष्णुपुराणे ४ अंशे १९ अध्यायः ॥
(माहिष्मतीवासी नृपतिविशेषः । अग्निस्तु
अस्य दुहितरमुपसंगृह्य वरेणैनं छन्दयामास
परनृपादभयञ्चास्मै दत्तवान् । गच्छति काले
पाण्डवः सहदेवस्तु दिग्विजयक्रमेण अस्य नगर-
मवरोध्य वैश्वानरात् महद्भयमवाप्तवान् । ततो
हव्यवाहनं स्तुत्वा शान्तिमलभत । एतद्बिवरणं
महाभारते । २ । ३१ । अध्याये विस्तरतो द्रष्ट-
व्यम् ॥ * ॥ नागविशेषः । यथा, महाभारते ।
१ । ३५ । ७ ।
“नीलानीलौ तथा नागौ कल्माषशवलौ तथा ॥”

नीलकं, क्ली, (नीलमेव । स्वार्थे कन् ।) काच-

लवणम् । वर्त्तलोहम् । असनवृक्षे, पुं, । इति
राजनिर्घण्टः ॥

नीलकण्ठः, पुं, (नीलः नीलवर्णः कण्ठो यस्य ।)

शिवः । (यथा, महाभारते । १ । १८ । ४३ -- ४४ ।
“त्रैलोक्यं मोहितं यस्य गन्धमाध्राय तद्बिषम् ।
प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः ॥
दधार भगवान् कण्ठे मन्त्रमूर्त्तिर्महेश्वरः ।
तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतः ॥”)
मयूरः । इत्यमरः । ३ । ३ । ३९ ॥ (यथा,
मेघदूते । ७९ ।
“यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्बः ॥”)
पीतसारः । दात्यूहः । ग्रामचटकः । खञ्ज-
रीटः । इति हेमचन्द्रः ॥ मूलके, क्ली । इति
राजनिर्घण्टः ॥ * ॥ विजयदशम्यां नीलकण्ठ-
दर्शनविधिर्यथा, --
“कृत्वा नीराजनं राजा बलवृद्धौ यथाबलम् ।
शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ ॥”
दर्शनानन्तरं नमस्कारमन्त्रो यथा, --
“नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद ।
पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते ॥
त्वं योगयुक्तो मुनिपुत्त्रकस्त्व-
मदृश्यतामेषि शिखोद्गमेन ।
त्वं दृश्यसे प्रावृषि निर्गतायां
त्वं खञ्जनाश्चर्य्यमयो नमस्ते ॥”
द्रव्यविशेषोपरिस्थितस्य तस्य दर्शनफलं यथा, --
“अब्जेषु गोषु गजवाजिमहोरगेषु
राज्यप्रदः कुशलदः शुचिशाद्वलेषु ।
भस्मास्थिकेशनखलोमतुषेषु दृष्टो
दुःखं ददाति बहुशः खलु खञ्जरीटः ॥”
दिग्विशेषे फलं यथा, --
“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे
भयं
याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये ।
वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे
ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं
खञ्जने ॥”
अशुभखञ्जनदर्शनप्रायश्चित्तं यथा, --
“अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् ।
दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः ॥”
इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥
(पीतशालवृक्षः । अस्य पर्य्यायो यथा, --
“नीलकण्ठः पीतशालः पीतकः प्रियकोऽसनः ॥”
इति वैद्यकरत्नमालायाम् ॥)

नीलकण्ठाक्षं, क्ली, (नीलकण्ठो महादेवस्तत्-

प्रियोऽक्षो यत्र ।) रुद्राक्षम् । इति राज-
निर्घण्टः ॥ (नीलकण्ठः खञ्जनस्तस्य अक्षिणीव
अक्षिणी यस्य । षच् समासे ।) खञ्जनाक्षे, त्रि ॥

नीलकन्दः, पुं, (नीलः कन्दो मूलं यस्य ।) महिष-

कन्दभेदः । तत्पर्य्यायः । सर्पाख्यः २ वनवासी ३
विषकन्दः ४ महिषीकन्दः ५ । अस्य गुणाः ।
कटुत्वम् । उष्णत्वम् । कफवातामयमुखजाड्य-
नाशित्वम् । रुच्यत्वम् । सितस्य तस्य महा-
सिद्धिकरत्वञ्च । इति राजनिर्घण्टः ॥ नील-
वर्णमूलञ्च ॥

नीलकमलं, क्ली, (नीलं कमलं पद्मम् ।) नील-

वर्णपद्मम् । तत्पर्य्यायः । उत्पलम् २ नील-
पङ्कजम् ३ नीलपद्मम् ४ नीलाब्जम् ५ । अस्य
गुणाः । शीतलत्वम् । स्वादुत्वम् । सुगन्धित्वम् ।
पित्तनाशित्वम् । रुच्यत्वम् । रसायने श्रेष्ठत्वम् ।
देहदार्ढ्यकैश्यदञ्च । इति राजनिर्घण्टः ॥ नील-
वर्णजलञ्च ॥

नीलकुन्तला, स्त्री, (नीला नीलवर्णाः कुन्तला

यस्याः ।) गौर्य्याः सखीविशेषः । यथा, --
“सखी रत्नमुखी नाम जगादैवं शुचिस्मिता ।
तां निवार्य्यापरा प्राह सखी सा नीलकुन्तला ॥”
इति बृहद्धर्म्मपुराणे ३४ अध्यायः ॥

नीलकुरण्टकः, पुं, (नीलः कुरण्टकः ।) नील-

झिण्टी । इति रत्नमाला ॥ (विवृतिरस्य नील-
झिण्टीशब्दे ज्ञातव्या ॥)

नीलक्रान्ता, स्त्री, (नीलेन नीलवर्णेन क्रान्ता ।)

विष्णुक्रान्ता । इति राजनिर्घण्टः ॥

नीलक्रौञ्चः, पुं, (नीलः क्रौञ्चः ।) नीलवकः ।

तत्पर्य्यायः । नीलाङ्गः २ दीर्घग्रीवः ३ अति-
जागरः ४ । इति राजनिर्घण्टः ॥

नीलगणेशः, पुं, (नीलो नीलवर्णो गणेशः ।)

नीलवर्णगणपतिः । इति भूतडामरः ॥ अपि च ।
“लीलागललुलल्लोलकालव्यालविलासिने ।
गणेशाय नमो नीलकमलामलकान्तये ॥”
इति लीलावती ॥

नीलग्रीवः, पुं, (नीला नीलवर्णा ग्रीवा यस्य ।)

महादेवः । इति हलायुधः ॥ (यथा, महा-
भारते । ३ । ३९ । ७४ ।
“देवदेव महादेव नीलग्रीव जटाधर ॥”)
नीलवर्णग्रीवायुक्ते, त्रि ॥

नीलङ्गुः, पुं, (निलङ्गति गच्छतीति । नि + लगि

गतौ + “खरुशङ्कुपीयुनीलङ्गुलिगु ।” उणां । १ ।
३७ । इति कुप्रत्ययेन निपातनात् पूर्ब्बदीर्घे
साधुः ।) अतिक्षुद्रजन्तुमात्रम् । इत्यमरटीकायां
भरतः ॥ क्रिमिभेदः । शृगालः । इति सिद्धान्त
कौमुद्यामुणादिवृत्तिः ॥ (भ्रमराली । प्रसूनम् ।
इति विश्वः । गे, ५० ॥)

नीलचर्म्म, [न्] क्ली, (नीलं चर्म्म फलत्वग्

यस्य ।) परूषकम् । इति राजनिर्घण्टः ॥
(नीलञ्च तत् चर्म्म चेति ।) नीलवर्णाजिनञ्च ॥
(नीलचर्म्मविशिष्टे, त्रि ॥)

नीलजं, क्ली, (नीलात् जायते इति । जन +

डः ।) वर्त्तलोहम् । इति राजनिर्घण्टः ॥
नीलजाते, त्रि ॥ (स्त्री, नीलात् नीलपर्व्वतात्
जायते इति । वितस्ता नदी । यथा, राजतर-
ङ्गिण्याम् । ५ । ९६ ।
“पाषाणसेतुबन्धेन सुय्येनाद्भुतकर्म्मणा ।
सप्ताहमभवद्बद्धा निखिला नीलजा सरित् ॥”)

नीलझिण्टी, स्त्री, (नीला नीलवर्णा झिण्टी ।)

नीलवर्णझिण्टीपुष्पवृक्षः । तत्पर्य्यायः । नील-
कुरण्टः २ नीलकुसुमा ३ बाला ८ वाणा ५
दासी ६ कण्टार्त्तगला ७ । अस्या गुणाः । कटु-
त्वम् । तिक्तत्वम् । दन्तामयशूलवातकफकास-
त्वग्दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

नीलतरुः, पुं, (नीलस्तरुः ।) नारिकेलः । इति

राजनिर्घण्टः ॥

नीलतालः, पुं, (नीलस्तालः ।) हिन्तालः । तमालः ।

इति राजनिर्घण्टः ॥

नीलदूर्व्वा, स्त्री, (नीला दूर्व्वा ।) हरितदूर्व्वा ।

तत्पर्य्यायः । हरिता २ शाम्भवी ३ श्यामा ४
शीता ५ शतपर्व्विका ६ अमृता ७ पूता ८
शतग्रन्थिः ९ अनुष्णवल्लिका १० शिवा ११
शिवेष्टा १२ मङ्गला १३ जया १४ सुभगा १५ भूत-
हन्त्री १६ शतमूला १७ महौषधी १८ विजया १९
गौरी २० शान्ता २१ ॥ (यथा निघण्टौ धन्व-
न्तरिः ।
“नीलदूर्व्वा स्मृता शस्यं शाद्बलं हरितं तथा ।
शतपर्व्वा शीतकुम्बी शीतला वामनी तथा ॥”)
तस्या गुणाः । हिमत्वम् । तिक्तत्वम् । मधु-
रत्वम् । तुवरत्वम् । लघुत्वम् । रक्तपित्ताति-
सारकफवान्तिज्वरनाशित्वञ्च । पुस्तकान्तरे
रोचनत्वम् । वातापहत्वञ्च । इति राजनिर्घण्टः ॥
(अस्याः पर्य्यायान्तरं गुणान्तरञ्च यथा, --
“नीलदूर्व्वारुहानन्ता भार्गवी शतपर्व्विका ।
शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता
नीलदूर्व्वा हिमा तिक्ता मधुरा तुवरा हरेत् ।
कफपित्तास्रवीसर्पतृष्णादाहत्वगामयान् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नीलध्वजः, पुं, (नीलः नीलवर्णः ध्वज इव ।)

तमालवृक्षः । इति राजनिर्घण्टः ॥ (नीलो
ध्वजो यस्य ।) राजविशेषः । अस्य पुरी माहि-
ष्मती । भार्य्याज्वाला । कन्या स्वाहा लक्ष्मी-
शापाज्जाता ।
“अर्ज्जुनस्य हयो राजन् ! पुरीं माहिष्मतीं ययौ ।
नीलध्वजेन वीरेण रक्षितां दुर्गमण्डिताम् ॥
नीलध्वजस्य महिषी ज्वालानाम्नी सुमध्यमा ।
स्वाहां कन्यां प्रसूता सा सुन्दरीं धर्म्मतत्परा ॥”
पृष्ठ २/९१५
इति जैमिनिभारते आश्वमेधिके पर्व्वणि १५
अध्यायः ॥ नीलध्वजाविशेष्टे, त्रि ॥

नीलनिर्गुण्डी, स्त्री, (नीला निर्गुण्डी ।) नील-

सिन्धुवारः । इति राजनिर्घण्टः ॥

नीलनिर्य्यासकः, पुं, (नीलः निर्य्यासो यस्य ।

कप् ।) नीलासनवृक्षः । इति राजनिर्घण्टः ॥
कृष्णवर्णनिर्य्यासश्च ॥

नीलपङ्कं, क्ली, (नीलं पङ्कमिव ।) अन्धकारः । इति

त्रिकाण्डशेषः ॥ कृष्णवर्णकर्दमश्च ॥

नीलपत्रं, क्ली, (नीलं पत्रं पुष्पदलं यस्य ।) इन्दी-

वरम् । इति शब्दचन्द्रिका ॥ नीलवर्णपत्र-
युक्ते, त्रि ॥

नीलपत्रः, पुं, (नीलानि पत्राणि यस्य ।) गुण्ड-

तृणम् । अश्मन्तकवृक्षः । नीलासनवृक्षः ।
दाडिमः । इति राजनिर्घण्टः ॥

नीलपद्मं, क्ली, (नीलं पद्मम् ।) नीलकमलम् ।

इति शब्दचन्द्रिका ॥ (नीलकमलशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

नीलपिङ्गला, स्त्री, (नीला पिङ्गला चेति कर्म्म-

धारयः ।) गोजातिविशेषः । यथा, --
“गवां जातिन्तु वक्ष्यामि शृणुष्वैकमना द्विज ! ।
प्रथमा गौरकपिला द्बितीया गौरपिङ्गला ॥
तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला ।
पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला ॥
सप्तमी चित्रपिङ्गाक्षी अष्टमी वभ्रुरोहिणी ।
नवमी श्वेतपिङ्गाक्षी दशमी श्वेतपिङ्गला ॥
तादृशास्तेऽप्यनड्वाहः कपिलास्तु प्रकीर्त्तिताः ॥”
इति बृहद्धर्म्मपुराणे उत्तरखण्डे १५ अध्यायः ॥

नीलपिच्छः, पुं, (नीलं पिच्छं यस्य ।) श्येनपक्षी ।

इति राजनिर्घण्टः ॥

नीलपुनर्नवा, स्त्री, (नीला पुनर्नवा ।) कृष्णवर्ण-

पुनर्नवाशाकम् । नीलगदपडोया इति हिन्दी
भाषा ॥ तत्पर्य्यायः । नीला २ श्यामा ३ कृष्णाख्या
४ नीलवर्षाभूः ५ । अस्या गुणाः । तिक्तत्वम् ।
कटुत्वम् । उष्णत्वम् । रसायनत्वम् । हृद्रोग-
पाण्डुश्वयथुश्वासवातकफनाशित्वञ्च । इति राज-
निर्घण्टः ॥

नीलपुष्पं, क्ली, (नीलं पुष्पमस्य ।) ग्रन्थिपर्णम् ।

इति भावप्रकाशः ॥ (नीलञ्च तत् पुष्पञ्चेति ।)
नीलवर्णकुसुमञ्च ॥

नीलपुष्पः, पुं, (नीलं पुष्पं यस्य ।) नीलभृङ्ग-

राजः । नीलाम्लानः । इति राजनिर्घण्टः ॥

नीलपुष्पा, स्त्री, (नीलं पुष्पं यस्याः ।) विष्णु-

क्रान्ता । इति राजनिर्घण्टः ॥

नीलपुष्पिका, स्त्री, (नीलं पुष्पं यस्याः । कप् ।

कापि अत इत्वम् ।) असती । इति राज-
निर्घण्टः ॥ नीली । इति रत्नमाला ॥

नीलपुष्पी, स्त्री, (नीलं पुष्पं यस्याः । ङीष् ।)

नीलवुह्ना । इति रत्नमाला ॥ (शेफालिका ।
तत्पर्य्यायो यथा, --
“नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा
च सा ॥”
अतसी । तस्याः पर्य्यायो यथा, --
“अतसी नीलपुष्पी च पार्व्वती स्यादुमाक्षमा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नीलफला, स्त्री, (नीलं फलं यस्याः ।) जम्बूः ।

इति राजनिर्घण्टः ॥

नीलभृङ्गराजः, पुं, (नीलो भृङ्गराजः ।) नील-

वर्णभृङ्गराजः । नीलकेशरिया इति नील-
भेगरिया इति च भाषा । तत्पर्य्यायः । महा-
भृङ्गः २ महानीलः ३ सुनीलकः ४ नीलपुष्पः
५ श्यामलः ६ । अस्य गुणाः । तिक्तत्वम् ।
उष्णत्वम् । चक्षुष्यत्वम् । केशरञ्जनत्वम् । कफा-
मशोफश्वित्रनाशित्वम् । रसायनत्वञ्च । इति
राजनिर्घण्टः ॥

नीलमणिः, पुं, (नीलो मणिः ।) स्वनामख्यात-

मणिः । तत्पर्य्यायः । मसारः २ । इति हारा-
वली । १४५ ॥ अस्य विवरणं नीलशब्दे द्रष्टव्यम् ॥

नीलमाधवः, पुं, (नीलो नीलवर्णो माधवः ।

नीलपर्व्वतस्थो माधवो वा ।) विष्णुः । जग-
न्नाथः । यथा, --
“प्रेषितोऽहं हरिं द्रष्टुमत्रस्थं नीलमाधवम् ।
दृष्ट्वा यावत् सुपतितं वार्त्तां नेष्यामि सोऽप्यहम् ॥”
इत्युत्कलखण्डे ७ अध्यायः ॥

नीलमासः, पुं, (नीलो नीलवर्णो मासः ।) राज-

मासः ! इति राजनिर्घण्टः ॥

नीलमीलिकः, पुं, (नीलमीलं नीलवर्णनिमीलन-

मस्त्यस्येति । नीलमील + ठन् ।) खद्योतः । इति
शब्दमाला ॥

नीलमृत्तिका, स्त्री, (नीला नीलवर्णा मृत्तिकेव ।)

पुष्पकासीसम् । इति राजनिर्घण्टः ॥ कृष्ण-
वर्णमृच्च ॥

नीललोहं, क्ली, (नीलं नीलवर्णं लोहम् ।) वर्त्त-

लोहम् ।) इति राजनिर्घण्टः ॥

नीललोहितः, पुं, (नीलश्चासौ लोहितश्चेति ।

“वर्णो वर्णेन ।” २ । १ । ६९ । इति समासः ।
नीलः कण्ठे लोहितश्च केशेष्विति स्वामी ।)
शिवः । इत्यमरः । १ । १ । ३५ ॥ (यथा,
कुमारे । २ । ५७ ।
“संयुगे सांयुगीनं तमुद्यन्तं प्रसहेत कः ।
अंशादृते निषिक्तस्य नीललोहितरेतसः ॥”)
चैत्रे मासि तस्य व्रतविधानं यथा, --
“चैत्रे शिवोत्सवं कुर्य्यान्नृत्यगीतमहोत्सवैः ।
स्नात्वा त्रिसन्ध्यं रात्रौ च हविष्याशी जितेन्द्रियः ॥
किमलभ्यं भगवति प्रसन्ने नीललोहिते ।
उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समर्पयेत् ॥”
इति मासकृत्ये बृहद्धर्म्मपुराणम् ॥
कल्पविशेषः । इति महाभारतम् ॥ अस्य विव-
रणं कल्पशब्दे द्रष्टव्यम् ॥) नीलरक्तमिश्रितवर्णश्च ॥

नीललोहिता, स्त्री, (नीला लोहिता च ।)

भूमिजम्बुः । इति शब्दचन्द्रिका । शिवा च ॥

नीलवर्षाभूः, स्त्री, (नीला नीलवर्णा वर्षाभूः ।)

नीलपुनर्नवा । इति राजनिर्घण्टः ॥ कृष्ण-
भेके, पुं ॥

नीलवल्ली, स्त्री, (नीला नीलवर्णा वल्ली ।) वन्दा-

कम् । इति रत्नमाला ॥

नीलवसनः, पुं, (नीलं वसनं वस्त्रं यस्य ।) शनै-

श्चरः । इति हारावली । १२ ॥ (बलरामः ।
परिधेयनीलवस्त्रत्वादस्य तथात्वम् ॥) नील-
वस्त्रयुक्ते, त्रि ॥

नीलवस्त्रः, पुं, (नीलं वस्त्रं यस्य ।) बलरामः ।

इति हेमचन्द्रः । २ । १३९ ॥ (नीलं वस्त्रम् ।)
नीलवर्णवसने, क्ली । यथा, --
“स्त्रीक्रीडाशयनीयादौ नीलवस्त्रं न दुष्यति ।
नीलीवस्त्रं न स्पृशेच्च नीलीमनिरयं व्रजेत् ॥”
इति गारुडे प्रायश्चित्ताध्यायः ॥
तस्य धारणप्रायश्चित्तादि यथा । यत्र भविष्य-
पुराणम् ।
“शृणुष्वेति महावाहो ! नीलीरक्तस्य धारणात् ।
वाससो गणशार्द्दूल ! गदतो मम कृत्स्नशः ॥
पालनाद्विक्रयाच्चैव उद्वृत्तैरुपजीवनात् ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति ॥
नीलीरक्तेन वस्त्रेण यत् कर्म्म कुरुते द्बिजः ।
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृथा तस्य महायज्ञो नीलीवस्त्रस्य धारणात् ।
नीलीरक्तं यदा वस्त्रं कचिद्विप्रस्तु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥
इदमज्ञाने । ज्ञाने तु द्वैगुण्यम् । अत्रापवादः ।
नीलीत्यनुवृत्तावापस्तम्बः ।
स्त्रीणां क्रीडार्थसंयोगे शयनीये न दुष्यति ॥
इति प्रायश्चित्तविवेकः ॥

नीलवासाः, पुं, (नीलं वासो वस्त्रं यस्य ।) शनि-

ग्रहः । इति त्रिकाण्डशेषः ॥ (नीलवस्त्रयुक्ते,
त्रि । यथा, हरिवंशे । ८२ । ४३ ।
“श्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥”)

नीलवुह्ना, स्त्री, (नीला नीलवर्णा वुह्ना ।)

नीलवृध्ना । नीलवर्णवोना इति भाषा ॥ तत्-
पर्य्यायः । अजान्त्री २ नीलपुष्पी ३ अति-
लोमशा ४ । इति रत्नमाला ॥ (यथा, --
“नीलवुह्नारसस्तैलसिन्धुकाञ्जिकसंयुतः ।
कदुष्णं पूरणात् कर्णे निःशेषक्रिमिपातनः ॥”
इति वैद्यकचक्रपाणिसंग्रहे कर्णरोगाधिकारे ॥)

नीलवृक्षः, पुं, (नीलो वृक्षः ।) वृक्षप्रभेदः । तत्-

पर्य्यायः । नीलः २ वातारिः ३ शोफनाशनः ४
नरनामा ५ नखवृक्षः ६ नखालुः ७ नरप्रियः
८ । अस्य गुणाः । कटुत्वम् । कषायत्वम् ।
उष्णत्वम् । लघुत्वम् । वातामयनानाश्वयथु-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

नीलवृन्तकं, क्ली, (नीलवर्णं वृन्तं यस्य । कप् ।)

तूलम् । इति राजनिर्घण्टः ॥

नीलवृषः, पुं, कृष्णवर्णवृषः । वृषविशेषः । तस्य

लक्षणं यथा, --
“लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डरः ।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥”
इति शुद्धितत्त्वम् ॥
पृष्ठ २/९१६
अपि च ।
“लोहितो यस्तु वर्णेन शङ्खवर्णः खुरो वृषः ।
लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः ॥”
तस्योत्सर्गे गयाश्राद्धादितुल्यफलं यथा, --
“जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥”
इति देवीपुराणम् ॥

नीलवृषा, स्त्री, (नीलं नीलवर्णं पुष्पफलादिकं

वर्षति प्रसूते इति । वृष + इगुपधेति कः ।
ततष्टाप् ।) वार्त्ताकी । इति राजनिर्घण्टः ॥
(वार्त्ताकीशब्देऽस्या गुणाः पर्य्यायाश्च ज्ञेयाः ॥)

नीलव्रतं, क्ली, व्रतविशेषः । यथा, --

“यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् ।
एकान्तरितनक्ताशी समान्ते वृषभं युतम् ।
वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम् ॥”
इति मात्स्ये ८३ अध्यायः ॥
नीललोहितव्रतञ्च ॥

नीलशिग्रुः, पुं, (नीलः शिग्रुः ।) शोभाञ्जनः ।

इति राजनिर्घण्टः ॥

नीलसारः, पुं, (नीलः सारो ऽस्य ।) तिन्दुक-

वृक्षः । इति राजनिर्घण्टः ॥

नीलसिन्दुवारः, पुं, (नीलः सिन्दुवारः ।) कृष्ण-

वर्णसिन्दुवारवृक्षः । नीलसिन्दुयार इति भाषा ।
तत्पर्य्यायः । शीतसहा २ निर्गुण्डी ३ नील-
सिन्दुकः ४ सिन्दुकः ५ कपिका ६ भूतकेशी ७
इन्द्राणी ८ नीलिका ९ नीलनिर्गुण्डी १० ।
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् ।
रूक्षत्वम् । कासश्लेष्मशोफसमीरणार्त्तिप्रदरा-
ध्माननाशित्वञ्च । इति राजनिर्घण्टः ॥

नीला, स्त्री, (नीलो नीलवर्णोऽस्त्यस्या इति । अच् ।

ततष्टाप् ।) नीलवर्णमक्षिका । इत्यमरः । २ ।
५ । २६ ॥ नीलपुनर्नवा । नीली । इति राज-
निर्घण्टः ॥ (कुब्जकः । तत्पर्य्यायो यथा, --
“कुब्जको भद्रतरणिर्बृहत्पुष्पोऽतिकेसरः ।
महासहा कण्टकाट्या नीलालिकुलसङ्कुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“नीलानामौषधिस्तु नीलक्षीरा नीलपुष्पीलता
प्रताणबहुला ।” इति चरके चिकित्सितस्थाने ।
१ अध्यायः ॥ नदीविशेषः । यथा, --
“वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥”
इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥
यथा च महाभारते । ६ । ९ । ३१ ।
“नीलां धृतिकरोञ्चैव पर्णासाञ्च महानदीम् ॥”)
मल्लाररागस्य स्त्री । इति बृहद्धर्म्मपुराणे ४४ अः ॥

नीलाङ्गः, पुं, (नीलमङ्गं यस्य ।) सारसपक्षी ।

चासपक्षी । इति राजनिर्घण्टः ॥

नीलाङ्गुः, पुं, (नितरां लिङ्गतीति । नि + लिगि

गतो + कुः । केचित् धातूपसर्गयोर्दीर्घमाहुः ।
इत्युज्ज्वलद्त्तोक्त्या धातूपसर्गयोर्द्दीर्घत्वम् ।)
कृमिः । इत्यमरः । २ । ५ । १३ ॥ भ्रमराल्यां
स्त्री । इति मेदिनी । गे, ४० ॥ शुषिरम् । इति
विश्वः ॥

नीलाञ्जनं, क्ली, (नीलमञ्जनम् ।) सौवीराञ्जनम् ।

(यथा, नवग्रहस्तोत्रे शनैश्चरप्रणाममन्त्रम् ।
“नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् ।
छायाया गर्भसग्भूतं वन्दे भक्त्या शनैश्चरम् ॥”)
तत्तु उपधातुविशेषः । तस्य गुणाः । कटुत्वम् ।
श्लेष्ममुखरोगनेत्ररोगव्रणदाहनाशित्वम् । उष्ण-
त्वम् । रसायनत्वम् । तिक्तत्वम् । भेदकत्वञ्च ।
इति राजवल्लभः ॥ (अस्य शोधनविधिर्यथा, --
“नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ।
दिनैकमातपे शुद्धं भवेत् कार्य्येषु योजयेत् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥) तुत्थम् । इति राजनिर्घण्टः ॥

नीलाञ्जना, स्त्री, (नीलं मेघं अञ्जयतीति । अञ्ज

+ णिच् + ल्युः ।) विद्युत् । इति जटाधरः ॥

नीलाञ्जनी, स्त्री, (नीलवत् अञ्ज्यतेऽनयेति । अञ्ज

+ करणे ल्युट् । ततो ङीष् ।) कालाञ्जनी-
क्षुपः । इति राजनिर्घण्टः ॥

नीलाञ्जसा, स्त्वी, अप्सरोभेदः । नदीविशेषः ।

विद्युत् । इति मेदिनी । से, ५७ ॥

नीलापराजिता, स्त्री, (नीला अपराजिता ।)

नीलवर्णापराजितालता । तत्पर्य्यायः । नील-
पुष्पी २ महानीली ३ नीलगिरिकर्णिका ४ गवा-
दनी ५ व्यक्तगन्धा ६ नीलसन्ध्या ७ नीलाद्रिकर्णी
८ । अस्या गुणाः । शिशिरत्वम् । तिक्तत्वम् ।
रक्तातिसारज्वरदाहच्छर्द्युन्मादमदश्रमार्त्तिश्वा-
सातिकासामयनाशित्वञ्च । इति राजनिर्घण्टः ॥

नीलाब्जं, क्ली, (नीलमब्जमिति कर्म्मधारयः ।)

नीलोत्पलम् । इति रत्नमाला ॥ (नीलोत्-
पलशब्देऽस्य विशेषो ज्ञेयः ॥)

नीलाम्बरं, क्ली, (नीलमम्बरमिव । नीलमम्बतीति

वा । अबि + अरण् ।) तालीशपत्रम् । इति
राजनिर्घण्टः ॥ (नीलञ्च तदम्बरञ्चेति । नील-
वस्त्रञ्च ॥)

नीलाम्बरः, पुं, (नीलमम्बरं यस्येति ।) बलदेवः ।

राक्षसः । शनैश्चरः । इति मेदिनी । रे, २७४ ॥
नीलवस्त्रयुक्ते, त्रि ॥

नीलाम्बुजन्म, [न्] क्ली, (अम्बुनि जन्मास्य । ततः

नीलवर्णं अम्बुजन्मेति ।) नीलोतपलम् । इत्य-
मरः । १ । १० । ३७ ॥

नीलाम्लानः, पुं, (आम्लायति यथाकालमिति ।

आ + म्ला + ल्युः । नीलो नीलवर्ण आम्लानः ।)
पुष्पवृक्षभेदः । काला कोराठा इति हिन्दी
भाषा ॥ तत्पर्य्यायः । दासी २ छादनः ३
बाला ४ आर्त्तगला ५ नीलपुष्पः ६ । अस्य
गुणाः । कटुत्वम् । तिक्तत्वम् । कफमारुतशूल-
कण्डूकुष्ठव्रणशोफत्वग्दोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥

नीलाम्ली, स्त्री, (नीला अम्ली ।) क्षुपभेदः ।

नल्लवुलगुड इति हिन्दी भाषा ॥ तत्पर्य्यायः ।
नीलपिष्टोडी २ श्यामाम्ली ३ दीर्घशाखिका ४ ।
अस्या गुणाः । मधुरत्वम् । रूक्षत्वम् । कफ-
वातहरत्वञ्च । इति राजनिर्घण्टः ॥

नीलालुः, पुं, (नीलवर्ण आलुरिति कर्म्मधारयः ।)

कन्दभेदः । तत्पर्य्यायः । असितालुः २ श्यामला
लुकः ३ । अस्य गुणाः । मधुरत्वम् । शीतत्वम्
पित्तदाहश्रमनाशित्वञ्च । इति राजनिर्घण्टः ॥

नीलाश्मा, [न्] पुं, (नीलवर्णः अश्मा प्रस्तर-

भेदः ।) नीलमणिः । इति राजनिर्घण्टः ॥

नीलासनः, पुं, (नीलवर्णः असनो वृक्षभेदः ।)

असनवृक्षविशेषः । पियाशालप्रभेदः । तत्-
पर्य्यायः । नीलबीजः २ नीलपत्रः ३ सुनी-
लकः ४ नीलद्रुमः ५ नीलसारः ६ नीलनिर्य्या-
सकः ७ । अस्य गुणाः । कटुत्वम् । शीतत्वम् ।
कषायत्वम् । कुष्ठकण्डूदद्रुनाशित्वम् । सारक-
त्वम् । तत्र सितस्य श्रेष्ठत्वञ्च । इति राज-
निर्घण्टः ॥ रतिबन्धविशेषः । यथा, --
“लिङ्गोपरिस्थिता नारी शय्यां कृत्वा पदद्वयम् ।
हृदये दत्तहस्ता च बन्धो नीलासनो मतः ॥”
इति स्मरदीपिका ॥

नीलिका, स्त्री, (नीलक + टाप् । कापि अत

इत्वम् । नीलीव इवार्थे कन् टाप् पूर्ब्बह्रस्वः ।
इति केचित् ।) नीलसिन्दुवारः । इति राज-
निर्घण्टः ॥ नीलिनी । (पर्य्यायोऽस्या यथा, --
“नीली तु नीलिनी तूली कालदोला च नीलिका ।
रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥
क्लीतका कालकेशी च नीलपुष्पा च सा
स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शेफालिका । इति मेदिनी । के, १११ ॥ नेत्र-
रोगविशेषः । यथा, --
“दोषे दृष्ट्याश्रिते तिर्य्यगेकं वै मन्यंते द्बिधा ।
तिमिराख्यः स वै दोषश्चतुर्थपटलं गतः ॥
रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् ।
अस्मिन्नपि तमोभूते नातिरूढे महागदे ॥
चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः ।
निर्म्मतानि च तेजांसि भ्राजिष्णूनि च पश्यति ।
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः ॥”
क्षुद्ररोगभेदः । यथा, --
“क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ।
मुखमागत्य सहसा मण्डलं विसृजत्यतः ॥
नीरुजं तनुकं श्यावं तं व्यङ्गमिति निर्द्दिशेत् ।
कृष्णमेवं गुणं गात्रे मुखे वा नीलिकां विदुः ॥”
इति माधवकरः ॥
जलस्य ज्वरः । यथा, “भूमेरूषरा वृक्षस्य
कोटरः जलस्य नीलिका इत्यादि ।”
इति ज्वरप्रकरणे विजयरक्षितः ॥
क्षुद्ररोगविशेषः । तल्लक्षणं यथा, --
“कृष्णमेवं गुणं वक्त्रे गात्रे वा नीलिकां विदुः ।”
एवं गुणं नीरुजं तनुकं मण्डलम् ॥
तच्चिकित्सा यथा, --
“शिरावेधैः प्रलेपैश्च तथाभ्यङ्गैरुपाचरेत् ।
व्यङ्गञ्च नीलिकां वापि न्यच्छञ्च तिलकालकम् ॥
वटाङ्कुरा मसूराश्च प्रलेपाद्व्यङ्गनाशनाः ।
व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥
पृष्ठ २/९१७
अथवा लेपनं शस्तं शशस्य रुधिरेण च ।
व्यङ्गहृद्वरुणत्वक् स्यादजामूत्रेण पेषिता ॥
जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् ।
अर्कक्षीरहरिद्राभ्यां मर्द्दयित्वा प्रलेपनात् ॥
मुखकार्ष्ण्यं समं याति चिरकालोद्भवं ध्रुवम् ।
मसूरैः क्षीरसंपिष्टैर्लिप्तमास्यं घृतान्वितैः ॥
सप्तरात्रात् भवेत् सत्यं पुण्डरीकदलोपमम् ।
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ॥
कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत् ॥
युवानपिडकानान्तु व्यङ्गानाञ्च विनाशनम् ।
स्यादेतेन मुखञ्चापि वर्जितं नीलिकादिभिः ॥
कालीयकं कलम्बक इति लोके । युवानपिडका
युवाननं तत्र पिडका पृषोदरादित्वान्नकारलोपः ।
कुङ्कुमं चन्दनं लोध्रं पत्तङ्गं रक्तचन्दनम् ।
कालीयकमुशीरञ्च मञ्जिष्ठा मधुयष्टिका ॥
पत्रकं पद्मकं कुष्ठं पद्मं गोरोचना निशा ।
लाक्षा दारुहरिद्रा च गैरिकं नागकेशरम् ॥
पलाशकुसुमञ्चापि प्रियङ्गुश्च वटाङ्कुराः ।
मालती च मधूच्छिष्टं सर्षपाः सुरभिर्व्वचा ॥
चतुर्गुणपयःपिष्टैरेतैरक्षमितैः पृथक् ।
पचेन्मन्दाग्निना वैद्यस्तैलं प्रस्थद्बयोन्मितम् ॥
वदनाभ्यञ्जनादेतद्व्यङ्गं नीलिकया सह ।
तिलकं माषकं न्यच्छं नाशयेन्मुखदूषिकाम् ॥
पद्मिनीकण्टकं वापि हरेज्जतुमणिं तथा ।
विदध्याद्बदनं पूर्णचन्द्रमण्डलसुन्दरम् ॥
पत्तङ्गं वकम् इति लोके । कालीयकं कलम्ब इति
लोके । सुरभिर्व्वचा महाभरी इति लोके ।
कुङ्कुमाद्यं तैलम् ।” इति भावप्रकाशः ॥

नीलिनी, स्त्री, (नीलः प्रशस्ततयास्त्यस्या इति ।

इनिः । ततो ङीप् ।) नीलीवृक्षः । इत्यमरः ।
२ । ४ । ९५ ॥ (पर्य्यायोऽस्या यथा, वैद्यक-
रत्नमालायाम् ।
“नीलिनीच्छगलान्त्री स्यादन्तःकोटरपुष्प्यपि ।
अजाजी नीलबुह्ना स्यान्नीलपुष्प्यतिलोमशा ॥”
यथा च ।
“नीली तु नीलिनी तूली कालदोला च नीलिका ।
रञ्जनी श्रीफली तुत्था ग्रामीणा मधुपर्णिका ॥
क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ।
नीलिनी रेचनी तिक्ता केश्या मोहभ्रमापहा ॥
उष्णा हन्त्युदरप्लीहवातरक्तकफानिलान् ।
आमवातमुदावर्त्तं मन्दञ्च विषमुद्धृतम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
श्यामत्रिपुटा । इति शब्दरत्नावली ॥
अजमीढस्य पत्नी । इति विष्णुपुराणे ४ अंशे
१९ अध्यायः ॥ (तथा च हरिवंशे । ३२ । ४५ ।
“अजमीढस्य पत्न्यस्तु तिस्रो रूपसमन्विताः ।
नलिनी केशिनी चैव धूमनी च वराङ्गना ॥”)

नीली, स्त्री, (नीलो निष्पाद्यत्वेनास्त्यस्याः इति ।

नील + अच् ततो ङीष् ।) वृक्षभेदः । नीलेर
गाछ इति भाषा ॥ तत्पर्य्यायः । काला २
क्लीतकिका ३ ग्रामीणा ४ मधुपर्णिका ५
रञ्जनी ६ श्रीफली ७ तुत्था ८ तूणी ९ दोला १०
नीलिनी ११ । इत्यमरः । २ । ४ । ९४ ॥
नीला १२ तूली १३ द्रोणी १४ मेला १५ । इति
भरतः ॥ नीलपत्री १६ राज्ञी १७ नीलिका १८
नीलपुष्पी १९ काली २० श्यामा २१ शोधनी २२
श्रीफला २३ ग्राम्या २४ भद्रा २५ भारवाही २६
मोचा २७ कृष्णा २८ व्यञ्जनकेशी २९ महा-
फला ३० असिता ३१ क्लीतनी ३२ केशी ३३
चारटिका ३४ गन्धपुष्पा ३५ श्यामलिका ३६
रङ्गपत्री ३७ महाबला ३८ स्थिररङ्गा ३९
रङ्गपुष्पी ४० दूली ४१ दूलिका ४२ द्रोणिका ४३ ।
इति शब्दरत्नावली ॥ अस्या गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । केश्यत्वम् । कासकफमरु-
द्विषोदरव्याधिगुल्मजन्तुव्रणनाशित्वञ्च । इति
राजनिर्घण्टः ॥ नीलिकारोगः । इति मेदिनी ।
ले, २९ ॥

नीलीरागः, पुं, स्थिरप्रेमपुरुषः । तत्पर्यायः ।

स्थिरसौहृदः २ । इति हेमचन्द्रः । १ । १४० ॥
(नीलीसञ्जातो रागः ।) नीलवर्णः । इति
नीलशब्दस्य नानार्थे शब्दरत्नावली ॥ नायक-
नायिकयोः पूर्ब्बरागविशेषः । यथा, --
“नीलीकुसुम्भमञ्जिष्ठाः पूर्ब्बरागोऽपि च त्रिधा ।”
तल्लक्षणोदाहरणे ।
“न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
नीलीरामः स विज्ञेयो यथा श्रीरामसीतयोः ॥”
इति साहित्यदर्पणम् ॥

नीलोत्पलं क्ली, (नीलं नीलवर्णमुत्पलमिति ।)

नीलवर्णोत्पलम् । नीलशाँपला इति भाषा ।
तत्पर्य्यायः । उत्पलकम् २ कुवलयम् ३ इन्दी-
वरम् ४ कन्दोत्थम् ५ सौगन्धिकम् ६ सुगन्धम् ७
कुड्मलकम् ८ असितोत्पलम् ९ ॥ (यथा,
भागवते । ५ । २४ । १० ।
“झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलय-
कह्लारनीलोत्पललोहितशतपत्रादिवनेषु ॥”)
अस्य गुणाः । अतिस्वादुत्वम् । शीतत्वम् ।
सुरभिलम् । सौख्यकारित्वम् । पाके अत्यन्ततिक्त-
त्वम् । रक्तपित्तहरत्वञ्च । इति राजनिर्घण्टः ॥

नीलोत्पली, [न्] पुं, (नीलोत्पलं नीलोत्पलबीजं

मनोहरशिञ्जनाय धार्य्यत्वेनास्त्यस्य इति इनिः ।)
मञ्जुघोषः । इति त्रिकाण्डशेषः ॥

नीवरः, पुं, (नयत्यात्मानं यत्र कुत्रचित् देहयात्रा-

निष्पादनायेति । नी + “छित्वरच्छत्वरेति ।”
उणां ३ । १ । इति ष्वरच्प्रत्ययेन निपातनात्
गुणाभावात् साधुः ।) भिक्षुः । इत्युणादि-
कोषः ॥ बणिजकम् । वास्तव्यम् । इति मेदिनी ।
रे, १७५ ॥ परिव्राट् । पङ्कः । जले, क्ली । इति
संक्षिप्तसारोणादिवृत्तिः ॥

नीवाकः, पुं, (निरन्तरं नियतं वा उच्यते इति ।

नि + वच् + घञ् कुत्वं उपसर्गस्य दीर्घत्वं च ।)
महार्घहेतोर्धान्यादिषु जनानामादरातिशयः ।
तुलाधरणाधिक्यम् । क्रमाक्रमादरः । मूल्या-
धिक्यहेतोर्निश्चयेन परिच्छेदनम् । इति भरतः ॥
तत्पर्य्यायः । प्रयामः २ । इत्यमरः । ३ । २ । २३ ॥

नीवारः, पुं, (नि + वृ + घञ् उपसर्गस्य दीर्घत्वं

च ।) तृणधान्यभेदः । इत्यमरः । २ । ९ । २५ ॥
उडीधान इति वङ्गभाषा । तीनी इति हिन्दी-
भाषा । तत्पर्य्यायः । अरुण्यधान्यम् २ मुनि-
धान्यम् ३ तृणोद्भवम् ४ अरण्यशालिः ५ ।
(यथा, शाकुन्तले । १ अङ्के ।
“नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणा-
मधः ॥”)
अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । पवि-
त्रत्वम् । पथ्यत्वम् । लघुत्वञ्च । इति राज-
निर्घण्टः ॥ तन्नामगुणाः
“प्रसाधिका तु नीवारस्तृणान्तमिति च स्मृतम् ।
नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् ॥”
इति भाषप्रकाशः ॥

नीविः, स्त्री, (निव्ययति निवीयते वा । नि +

व्येञ् + “नौ व्यो यलोपः पूर्ब्बस्य च
दीर्घः ।” उणां । ४ । १३५ । इति इञ् यलापः
निशब्दस्य दीर्घत्वञ्च । ततः कृदिकारादिति
वा ङीष् ।) परिपणम् । बणिजां मूलधनम् ।
राजपुत्त्रादेर्बन्धकः । इति सुभूतिः ॥ स्त्रीकटी-
वस्त्रबन्धः । कोँचडी इति भाषा । (यथा,
महाभारते । २ । ६३ । १९ ।

नीवी, स्त्री, (निव्ययति निवीयते वा । नि +

व्येञ् + “नौ व्यो यलोपः पूर्ब्बस्य च
दीर्घः ।” उणां । ४ । १३५ । इति इञ् यलापः
निशब्दस्य दीर्घत्वञ्च । ततः कृदिकारादिति
वा ङीष् ।) परिपणम् । बणिजां मूलधनम् ।
राजपुत्त्रादेर्बन्धकः । इति सुभूतिः ॥ स्त्रीकटी-
वस्त्रबन्धः । कोँचडी इति भाषा । (यथा,
महाभारते । २ । ६३ । १९ ।
“एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला ॥”)
स्त्रीत्युपलक्षणं पुंस्कटीवस्त्रबन्धेऽपि । इत्यमर-
टीकायां भरतः । तथा च । “नीवीं विस्रंस्य
परिहितवस्त्रस्य षामाङ्गग्रन्थिं प्रोचयित्वा
आचमनमाह बौधायनः ।” इति यजुर्व्वेदिश्राद्ध-
तत्त्वम् ॥ शूद्रस्य पित्रादिश्राद्धे मोटकबन्धनम् ।
इति मथुरेशः ॥

नीवृत्, पुं, (नियतं वर्त्तते वसत्यत्र जनसमूह इति ।

नि + वृत् + अधिकरणे क्विप् । “नहिवृतिवृषि-
व्यधिरुचिसहितनिषु कौ ।” ६ । ३ । ११६ । इति
पूर्ब्बपदस्य दीर्घः ।) जनपदः । इत्थमरः । २ । १ । ८ ॥
“द्वेअङ्गवङ्गकलिङ्गपञ्चालमगधकोशलादौ मण्ड-
लत्वेन ख्याते ग्रामसमूहे ।” इति भरतः ॥

नीव्रं, क्ली, (नितरां व्रियते इति । नि + वृ +

बाहुलकात् कप्रत्ययेन साधुः ।) छदिप्रान्त-
भागः । छाँचि इति भाषा । तत्पर्य्यायः ।
वलीकम् २ पटलप्रान्तम् ३ । इत्यमरः ॥
नीध्रम् । इति भरतः ॥ नेमिः । चन्द्रः । रेवती-
नक्षत्रम् । वनम् । इति मेदिनी । रे, ५३ ॥

नीशारः, पुं, (निःशेषेण नितरां वा शीर्य्यन्ते

हिमवाय्वादयोऽनेन अस्मादत्र वा । शॄ + घञ् ।
उपसर्गस्य दीर्घत्वञ्च ।) हिमानिलनिवारण-
प्रावरणम् । इत्यमरः । २ । ६ । ११८ ॥ हिमा-
निलप्रावरणं घनं महद्बस्त्रम् । इति रमानाथः ॥
काण्डारः । इति नयनानन्दः ॥ मशारि इति
कश्चित् । काण्डपटः । कानात् इति कश्चित् ।
इति भरतः ॥ (यथा, --
“गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः ॥”
इति सिद्धान्तकौसद्याम् । ३ । ३ । २१ ।
इत्यस्य वृत्तौ ॥)
पृष्ठ २/९१८

नीहारः, पुं, (निर्ह्रियते इति । नि + हृ + घञ् ।

उपसर्गस्य घञीति दीर्घत्वम् ।) घनीभूतशिशि-
रम् । तत्पर्य्यायः । अवश्यायः २ तुषारः ३
तुहिनम् ४ हिमम् ५ प्रालेयम् ६ महिका ७ ।
इत्यमरः । १ । ३ । १८ ॥ खजलम् ८ निशा-
जलम् ९ । इति त्रिकाण्डशेषः ॥ निहारः १०
मिहिका ११ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १ । २२८ । २ ।
“खाण्डवञ्च वनं सर्व्वं पाण्डवो बहुभिः शरैः ।
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥”)
अस्य गुणः । कफवायुवर्द्धकत्वम् । इति राज-
वल्लभः ॥

नु, व्य, (नौति नुदति वा । नु नुद वा + यथा-

यथं कर्त्तर्य्यादिषु मितद्र्वादित्वात् डुः ।) वितर्कः ।
(यथा, शाकुन्तले । १ ।
“निष्कम्पचामरशिखाश्च्युतकर्णभङ्गाः
धावन्ति वर्त्मनि तरन्ति नु वाजिनस्ते ॥”)
अपमानः । विकरपः । (यथा, महाभारते ।
५ । १७५ । ३ ।
“किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ॥”)
अनुनयः । अतीतः । प्रश्वः । (यथा, महा-
भारते । ३ । ६३ । १२ ।
“कथं नु राजंस्तृषितः क्षुधितः श्रमकर्षितः ॥”)
हेतुः । अपदेशः । इति मेदिनी । अव्यये, ४१ ॥

नुः, पुं, अनुस्वारः । इति वोपदेवः । यथा, --

“नुवी पूर्ब्बेण सम्बद्धौ मुन्यौ तु परगामिनौ ।”
इति दुर्गादासः ॥

नुड, शि वधे । इति कविकल्पद्रुमः ॥ (तुदां-कुटां-

परं-सकं-सेट् ।) शि, नुडति अनुडीत् नुनोड ।
इति दुर्गादासः ॥

नुतं, त्रि (नु ल स्तुतौ + क्तः ।) स्तुतम् । यथा, --

“तं वेदशास्त्रपरिनिष्ठितशुद्धबुद्धिं
चर्म्माम्बरं सुरमुनीन्द्रनुतं कवीन्द्रम् ।
कृष्णत्विषं कनकपिङ्गजटाकलापं
व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥”
इति पुराणम् ॥

नुतिः, स्त्री, (नु + भावे क्तिन् ।) स्तुतिः । इत्य-

मरः । १ । ६ । ११ ॥ (यथा, भर्त्तुहरिः ।
“परगुणनुतिभिः स्वान् गुणान् ख्यापयन्तः ॥”)
पूजा । इति शब्दरत्नावली ॥

नुत्तः, त्रि, (नुद् + क्तः । “नुदविदेति ।” ८ । २ ।

५६ । इति पाक्षिको नत्वाभावः ।) क्षिप्तः ।
प्रेरितः । इत्यमरः । ३ । १ । ८७ ॥

नुन्नः, त्रि, (नुद + क्तः । निष्ठातस्य पूर्ब्बदस्य च

नत्वम् ।) नुत्तः । इत्यमरः । ३ । १ । ८७ ॥ (यथा,
माये । १ । २७ ।
“प्रसह्य तेजोमिरसङ्ख्यतां गतै-
रदस्त्वया नुन्नमनुत्तमं तमः ॥”)

नूतः, त्रि, नू शि स्तवने + कर्म्मणि क्तप्रत्ययः ।

स्तुतः । इति व्याकरणम् ॥

नूतनः, त्रि, (नव एव । “नवस्य नूरादेशो त्नप्त-

नपस्वाग्र प्रत्यया वक्तव्याः ।” ५ । ४ । २५ । इत्यस्य
वार्त्तिकोक्त्या तनप् नवस्य नूरादेशश्च ।) अपुरा-
तनम् । तत्पर्य्यायः । प्रत्यग्रः २ अभिनवः ३
नव्यः ४ नबीनः ५ नवः ६ नूत्नः ७ । इत्यमरः ।
३ । १ । ७७ ॥ सद्यस्कः ८ अजीर्णः ९ । इति
हेमचन्द्रः । ६ । ८४ ॥ अभ्यग्रः १० प्रतिनवः ११ ।
इति जटाधरः ॥ (यथा, रघौ । ८ । १५ ।
“प्रशमस्थितपूर्ब्बपार्थिवं
कुलमभ्युद्यतनूतनेश्वरम् ॥”)

नूत्नः, त्रि, (नव एव । नव + त्नप् नूरादेशश्च ।)

नूतनः । इत्यमरः । ३ । १ । ७८ ॥ (यथा,
ऋग्वेदे । ७ । १८ । २० ।
“न त इन्द्र सुमतयो न रायः
सं चक्षे पूर्ब्बा उषसो न नूत्नाः ॥”
“न नूत्ना नूतनाश्च ।” इति सायनभाष्यम् ॥”)

नूदः, पुं, (नुदति रोगाद्यनिष्टमिति । नुद +

“इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति
कः । पृषोदराद्दीर्घः ।) ब्रह्मदारुवृक्षः । इत्य-
मरः । २ । ४ । ४२ ॥ (ब्रह्मदारुशब्देऽवि-
शेषोऽस्य ज्ञातव्यः ॥)

नूनं, व्य, (नु ऊनयतीति । ऊन परिहाणे +

अम् ।) तर्कः । ऊहः । यथा, ओजसापि खलु
नूनमनूनम् । अर्थनिश्चयः । (यथा, देवीभाग-
वते । १ । १० । ३६ ।
“स्वर्गदञ्च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा ।
न भविष्यति तन्नूनमनया देवकन्यया ॥”)
अवधारणम् । यथा, नूनं हन्ति स्म रावणम् ।
इत्यमरभरतौ ॥ स्मरणम् । वाक्यपूरणम् । इति
मेदिनी ॥

नूपुरं, पुं, क्ली, (नू + क्विप् । नुवि पुरति इति । पुर

अग्रगमने + “इगुपधेति ।” ३ । १ । १३५ । इति
कः ।) स्वनामख्यातपादभूषणम् । नेपुर इति
भाषा । तत्पर्य्यायः । पादाङ्गदम् २ तुला-
कोटिः ३ मञ्जीरः ४ हंसकः ५ पादकटकः ६ ।
इत्यमरः ॥ पदाङ्गदम् ७ । इति शब्दरत्नावली ॥
(यथा, मार्कण्डेये । ८२ । २५ ।
“नूपुरौ विमलौ तद्वद्ग्रैवेयकमनुत्तमम् ॥”
“गुणवानपि मौखर्य्यात् पादे लुठति नूपुरः ।
हारस्तु मूकभावेन कण्टवल्लभतां गतः ॥
इत्युद्भटः ॥)

नृकेशरी, [न्] पुं, (केशरः प्राचुर्य्येणास्त्यस्येति

इनिः । ना चासौ केशरी चेति ।) नरसिंहाव-
तारः । इति पुराणम् ॥ (ना केशरीवेति उप-
मितिसमासे कृते “सिंहशार्द्दलनागाद्याः पुंसि
श्रेष्ठार्थवाचकाः ।” इत्यमरोक्तेः । पुरषश्रेष्ठः ॥)

नृगः, पुं, राजविशेषः । यथा, श्रीभागवते ।

“नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ॥”
(अस्य राजप्रवरस्य कदाचिद् गोदानप्रमाद-
जनितपापात् कृकलासत्वप्राप्तिर्वृष्णिकुमार-
गणानुरुद्धेन पुनर्भगवता वासुदेवेनोद्धारादिकथा
च महाभारते । १३ । ६० । अध्यायस्य प्रथम-
श्लोकादास्रमाप्तेर्द्रष्टव्या ॥ नॄन् जीवान् गच्छति
प्राप्नोति जानाति वेति व्युत्पत्त्या परमात्मा ॥)

नृचक्षाः [स्] पुं, (नन् चष्टे भक्ष्यत्वेन पश्यतीति ।

चक्ष ङ् दर्शने + “सर्व्वधातुभ्योऽसुन्” उणां ४ ।
१८८ । इत्यसुन् । यद्वा, “चक्षेर्बहुलं शिच्च ।”
उणां । ४ । २३२ । इत्यसिः । असनयोश्चेति
न ख्याञादेशः ।) राक्षसः । इति हेमचन्द्रः ।
२ । १०१ ॥ (नॄन् चष्टे पश्यतीति नॄन् शुभा-
शुभकर्त्तॄन् चष्टे पश्यति जानातीत्यर्थः । देवः ।
यथा, ऋग्वेदे । १० । १०७ । ४ ।
“शतधारं वायुमर्कं स्वर्विदं
नृचक्षसस्ते अभिचक्षते हविः ॥”
“नृचक्षसः नॄणां द्रष्टॄनन्यानिन्द्रादीन् देवांश्च ।”
इति भाष्यकृत्सायनः ॥ नॄणां कर्म्मणेतॄणा-
मध्वर्यादीनामुपद्रष्टा । यथा, ऋग्वेदे । ३ । ५३ । ९ ।
“अस्तभ्नात् सिन्धुमर्णवं नृचक्षाः ॥”)

नृचक्षुः, [स्] पुं, (नॄणां प्रजाजनानां चक्षुरिव ।)

सुनीथराजपुत्त्रः । इति महाभारतम् ॥ (यथा,
भागवते । ९ । २२ । ४१ ।
“सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥”
विष्णुपुराणे तु । ४ । २१ । ३ ।
“तस्मादपि सुनीथः सुनीथादृचः ततो नृचक्षुः ॥”)

नृत, य नर्त्ते । इति कविकल्पद्रुमः ॥ (दिवां-परं-

अकं-सेट् ।) य, नृत्यति नर्त्तकः । इति दुर्गा-
दासः ॥

नृतिः, स्त्री, (नृत् नर्त्तने + “इगुपधात् कित् ।”

उणां ४ । ११९ । इति इन् स च कित् ।) नर्त्त-
नम् । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे ।
१० । १८ । ३ ।
“प्राञ्चो अगाय नृतये हसाय
द्राघीय आयुः प्रतरं दधानाः ॥”)

नृतुः, पुं, (नृत्यतीति । नृत् + बाहुलकात् कुः ।)

नर्त्तकः । इत्युणादिकोषः ॥ (यथा, ऋग्वेदे ।
८ । २४ । ९ ।
“इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ॥”
नृत्यत्यत्रेति । अधिकरणे कुः ।) भूमिः ।
दीर्घः । क्रिमिः । इति संक्षिप्तसारोणादिवृत्तिः ॥

नृत्तं, क्ली, (नृत् + भावे क्तः ।) नृत्यम् । इत्यमर-

टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् ।
५ । ७३ ।
“नृत्तज्ञशस्यप्रवराङ्गनानां
धनुष्करक्षत्त्रतपस्विनाञ्च ॥”)

नृत्यं, क्ली, (नृत् + “ऋदुपधाच्चाकॢपिचृतेः ।”

२ । १ । ११० । इति क्यप् ।) तालमानरसा-
श्रयसविलासाङ्गविक्षेपः । नाच इति भाषा ।
तत्पर्य्यायः । ताण्डवम् २ नटनम् ३ नाट्यम् ४
लास्यम् ५ नर्त्तनम् ६ । इत्यमरः । ४ । ७ । १० ॥
नृत्तम् ७ । उद्धृतं नृत्यं ताण्डवम् । सुकुमारन्तु
लास्यम् । भावाश्रयं नृत्तम् । ताललयाश्रयं
नृत्यमिति भेदोऽत्र नादृतः । इति भरतः ॥ नाटः
८ लासः ९ लास्यकम् १० नृतिः ११ इति
शब्दरत्नावली ॥ * ॥ तस्य लक्षणादि यथा, --
“देवरुच्या प्रतीतो यस्तालमानरसाश्रयः ।
सविलासोऽङ्गविक्षेपो नृत्यमित्युच्यते बुधैः ॥ * ॥
पृष्ठ २/९१९
ताण्डवञ्च तथा लास्यं द्बिविधं नृत्यमुच्यते ।
पेवलिर्बहुरूपञ्च ताण्डवं द्बिविधं मतम् ॥
अङ्गविक्षेपबाहुल्यं तथाभिनयशून्यता ।
यत्र सा पेवलिस्तस्याः सङ्गादेशीति लोकतः ॥
छेदनं भेदनं यत्र बहुरूपा मुखावली ।
ताण्डव बहुरूपन्तद्बारुणागलमुद्बतम् ॥ * ॥
छरितं यौवतञ्चेति लास्यं द्विविधमुच्यते ।
यत्राभिनयाद्यैर्भावै रसैराश्लेषचुम्बनैः ॥
नायिकानायकौ रङ्ग नृत्यतश्छुरितं हि तत् ॥
मधुरं बद्धलीलाभिर्नटीभिर्यत्र नृत्यते ।
वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ * ॥
गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः ।
लयतालसमारब्धं ततो नृत्यं प्रवर्त्तते ॥”
इति सङ्गीतदामोदरः ॥
अरूपस्य नृत्यं व्यर्थम् । यथा, --
“नृत्येनालमरूपेण सिद्धिर्नाट्यस्य रूपतः ।
चार्व्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बना ॥”
इति मार्कण्डेयपुराणम् ॥
विष्णुगृहे नृत्यफलं यथा, --
“नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।
मनुजा येन गच्छन्ति छित्वा संसारसागरम् ॥
त्रिंशद्वर्षसहस्राणि त्रिंशद्बर्षशतानि च ।
पुष्करद्वीपमासाद्य मोदते वै यदृच्छया ॥
पुष्कराच्च परिभ्रष्टः स्वच्छन्दगमनालयः ।
फलं प्राप्नोति सुश्रोणि ! मम कर्म्मपरायणः ॥
रूपवान् गुणवान् शूरः शीलवान् सुपथे
स्थितः ।
मद्भक्तश्चैव जायेत संसारपरिमोचितः ॥”
इति वाराहे शौकरमाहात्म्यम् ॥
“दृष्ट्वा संपूजितं देवं नृत्यमानोऽनुमोदयेत् ।
असंशयमतिः शुद्धः परं ब्रह्म स गच्छति ॥”
इत्यग्निपुराणम् ॥
अपि च । द्बारकामाहात्म्ये श्रीभागवते ।
“यो नृत्यति प्रहृष्टात्मा भावैर्बहुसुभक्तितः ।
स निर्द्दहति पापानि जन्मान्तरशतेष्वपि ॥”
हरिभक्तिसुधोदये ।
“बहुधोत्सार्य्यते हर्षाद्विष्णुभक्तस्य नृत्यतः ।
पद्भ्यां भूमेर्दिशोऽक्षिभ्यां दोर्भ्याञ्चामङ्गलं दिवः ॥”
विष्णुधर्म्मोत्तरे ।
“नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् ।
स्वयं नृत्येन संपूज्य तस्यैवानुत्तरो भवेत् ॥”
अन्यत्र च नारदोक्तौ ।
“नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् ।
उड्डीयन्ते शरीरस्थाः सर्व्वे पातकपक्षिणः ॥”
इति हरिभक्तिविलासः ॥

नृदेवः, पुं, (नृधु नरेषु मध्ये देवः । ना देव इव

इत्युपमितसमासो वा ।) राजा । यथा, नैषधे ।
१० । ३३ ।
“अम्लानमालाविपुलातपत्रै-
र्देवा नृदेवाश्च भिदां न भेजुः ॥”

नृधर्म्मा, [न्] पुं, (नुर्नरस्य इव धर्म्मो यस्य ।

“धर्म्मादनिच् केवलात् ।” ५ । ४ । १२४ । इति
अनिच् ।) कुवेरः । इति हेमचन्द्रः । २ । १०३ ॥
नरधर्म्मयुक्ते, त्रि ॥

नृपः, पुं, (नॄन् नरान् पाति रक्षतीति । नृ + पा

रक्षणे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ ।
इति कः ।) नरपतिः । इत्यमरः । २ । ८ । १ ।
तस्य लक्षणं यथा, --
“चतुर्योजनपर्य्यन्तमधिकारी नृपस्य च ।
यो राजा तच्छतगुणः स एव मण्डलेश्वरः ।
तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अः ॥
तत्प्रमाणं यथा, --
“अपुत्त्रस्य नृपः पुत्त्रो निर्धनस्य धनं नृपः ।
अमातुर्जननी राजा अतातस्य पिता नृपः ॥
अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः ।
अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥
सर्व्वदेवमयो राजा तस्मात्त्वामर्थये नृप ! ॥”
इति कालिकापुराणे ५० अध्यायः ॥
नृपदर्शनदिनं यथा । तत्र तिथयः शुभाः ।
वाराः शनिमङ्गलभिन्नाः । नक्षत्राणि उत्तर-
फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी-
हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः ।
लग्नानि मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ-
कानि । तत्र चन्द्रः शोभनः । इति ज्योतिषम् ॥

नृपकन्दः, पुं, (नृपप्रियः कन्दः । कन्दानां नृपः

श्रेष्ठो वा । राजदन्तादिवत् समसः ।) राज-
पलाण्डुः । इति राजनिर्घण्टः ॥

नृपतिः, पुं, (नॄन् पातीति । पा रक्षणे + डतिः ।

यद्वा, नृणां पतिः ।) राजा । (यथा, मनुः ।
७ । ३४ ।
“अतस्तु विपरीतश्च नृपतेरजितात्मनः ।
संक्षिप्यते यशो लोके घृतविन्दुरिवाम्भसि ॥”)
कुवेरः । इति शब्दरत्नावली ॥

नृपतिवल्लभः, पुं, (नृपतीनां वल्लभः प्रियः ।)

औषधविशेषः । नृपवल्लभ इति ख्यातः । यथा,
“जातीफलं लवङ्गाब्दत्वगेलाटङ्गरामठम् ।
जीरकञ्च यमानी च विश्वसैन्धवपत्रकम् ॥
लौहमभ्रं रसं गन्धं ताम्रं प्रत्येकशः पलम् ।
मरिचं त्रिपलं दत्त्वा छागीदुग्धेन पेषयेत् ॥
धात्रीरसेन वा पिष्ट्वा वटिकां कुरु यत्नतः ।
श्रीमद्गहननाथेन विचिन्त्य परिनिर्म्मितः ॥
सूर्य्यवत्तेजसा चायं रसो नृपतिवल्लभः ।
अष्टाद्दशवटीं खादेत् पवित्रः सूर्य्यदर्शकः ॥
हन्ति मन्दानलं सर्व्वमामदोषं विसूचिकाम् ।
प्लीहगुल्मोदराष्ठीलायकृत्पाण्डुहलीमकम् ॥
हृत्शूलं कण्ठशूलञ्च चक्षुःशूलञ्च कामलाम् ।
शिरःशूलं कटीशूलमानाहमोष्ठशूलकम् ॥
कासश्वासामवातञ्च श्लीपदं शोथमर्व्वुदम् ।
गलगण्डं गण्डमालामम्लपित्तञ्च गर्द्दभीम् ॥
क्रिमिकुष्ठानि दद्रूणि वातरक्तं भगन्दरम् ।
उपदंशमतीसारं ग्रहण्यर्शःप्रमेहकम् ॥
अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातमसृग्दरम् ।
ज्वरं जीर्णज्वरं कण्डुं तन्द्रालस्यं वमिं भ्रमिम् ॥
दाहविद्रधिहिक्काश्च जडगद्गदमूकताः ।
वाधिर्य्यं स्वरभेदञ्च वृध्नवृद्धिविसर्पकान् ॥
ऊरुस्तम्भं रक्तपित्तं गुदभ्रंशारुचिं तृषाम् ।
कर्णनासानुशोथांश्च दन्तरोगञ्च पीनसम् ॥
स्थौल्यञ्च शीतपित्तञ्च स्थावराणि विषाणि च ।
वातपित्तकफोत्थांश्च द्वन्द्बजान् सान्निपाति-
कान् ॥
सर्व्वरोगचयान् हन्ति चण्डांशुरिव पापहा ।
बलवर्णकरो ह्येष आयुष्यो वीर्य्यवर्द्धनः ॥
परं वाजीकरः श्रेष्ठः पटुतामन्त्रसिद्धिदः ।
अरोगीदीर्घजीवी स्यात् रोगी रोगं विमुञ्चति ।
रसस्यास्य प्रसादेन सुबुद्धिर्जायते नरः ॥”
इति रत्नावली ॥

नृपद्रुमः, पुं, (नृपप्रियो द्रुमो वृक्षः ।) आरग्बधः ।

राजादनीवृक्षः । इति राजनिर्घण्टः ॥

नृपप्रियः, पुं, (नृपाणां प्रियः ।) वेष्टवंशः । इति

शब्दचन्द्रिका । वेड वाँश इति भाषा ॥ राज-
पलाण्डुः । रामशरः । शालिधान्यम् । आम्रम् ।
इति राजनिर्घण्टः ॥

नृपप्रियफला, स्त्री, (नृपप्रियं फलं यस्याः ।)

वार्त्ताकी । इति राजनिर्घण्टः ॥

नृपप्रिया, स्त्री, (नृपाणां प्रिया ।) केतकी । राज-

खर्ज्जूरी । इति राजनिर्घण्टः ॥

नृपबदरः, पुं, (नृपप्रियो बदरः ।) राजबदर-

वृक्षः । तत्फले क्ली । इति राजनिर्घण्टः ॥

नृपमन्दिरं, क्ली, (नृपस्य मन्दिरम् ।) राजसद-

नम् । तत्पर्य्यायः । सौधम् २ । इति हेम-
चन्द्रः । ४ । ५२ ॥

नृपमाङ्गल्यकं, क्ली, (नृपस्य माङ्गल्यं मङ्गलं यस्मा-

दिति । कप् ।) आहुल्यवृक्षः । इति राज-
निर्घण्टः ॥

नृपलक्ष्म, [न्] क्ली, (नृपस्य लक्ष्म चिह्नम् ।)

राजच्छत्रम् । इत्यमरः । २ । ८ । ३२ ॥ राज-
चिह्नञ्च ॥

नृपलिङ्गधरः, पुं, (धरतीति । धृ + अच् । नृप-

लिङ्गस्य धरः ।) राजवेशधारी । यथा, --
“निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित्
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥”
इति श्रीभागवते । १ । १५ ॥

नृपवल्लभः, पुं, (नृपाणां वल्लभः प्रियः ।) राजाम्रः ।

इति राजनिर्घण्टः ॥ राजप्रिये, त्रि ॥

नृपवल्लभा, स्त्री, (नृपस्य वल्लभा ।) केविक-

पुष्पम् । इति राजनिर्घण्टः ॥ राजमहिषी च ॥

नृपसभं, क्ली, (नृपाणां सभा । “सभा राजा-

मनुष्यपूर्ब्बा ।” २ । ४ । २३ । इति क्लीवत्वम् ।)
नृपाणां शाला संहतिर्व्वा । इत्यमरभरतौ ॥

नृपात्मजा, स्त्री, (नृपस्य आत्मजेव । सुदृश्यत्वात्

तथात्वम् ।) कटुतुम्बी । इति रत्नमाला ॥
(नृपस्य आत्मजा कन्या ।) राजकन्या । यथा,
“स्वयम्बरं भीमनृपात्मजाया
दिशः पतिर्न प्रविवेश शेषः ॥”
इति नैषधे १० सर्गः ॥
पृष्ठ २/९२०

नृपाध्वरः, पुं, (नृपाणामध्वरो यज्ञः ।) राज-

सूययज्ञः । इति त्रिकाण्डशेषः ॥

नृपान्नं, क्ली, (नृपप्रियं अन्नम् ।) राजान्ननाम-

धान्यम् । इति राजनिर्घण्टः ॥ राज्ञ ओदनञ्च ॥

नृपाभीरं, क्ली, (अभीरयति सूचयति भोजन-

कालमिति । अभि + ईर् + कः । नृपस्य अभीरं
भोजनकालसूचकवाद्यविशेषः ।) भक्ततूर्य्यम् ।
राजभोजनकालीनवाद्यविशेषः । इति त्रिकाण्ड-
शेषः ॥

नृपामयः, पुं, (आमयानां नृपः । राजदन्तादि-

वत् पूर्ब्बनिपातः ।) राजयक्ष्मा । क्षयरोगः ।
इति राजनिर्घण्टः ॥ (नृपस्य आमयो व्याधिः ।)
राज्ञो रोगश्च ॥

नृपावर्त्तं, क्ली, (नृप इव आवर्त्तते इति । आ +

वृत् + अच् ।) राजावर्त्तरत्नम् । इति राज-
निर्घण्टः ॥

नृपासनं, क्ली, (नृपस्य आसनम् ।) राजासनम् ।

तत्पर्य्यायः । भद्रासनम् २ सिंहासनम् ३ ।
इत्यमरः । २ । ८ । ३१ ॥ (यथा, भागवते ।
३ । १ । २८ ।
“यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां परिहृत्य दूरात् ॥”)

नृपाह्वयः, पुं, (नृपं आह्वयते गन्धेनेति । आ +

ह्वे + अच् ।) राजपलाण्डुः । इति राज-
निर्घण्टः ॥ नृपनामा च ॥

नृपोचितः, पुं, (नृपाणामुचितो योम्यः ।) राज-

माषः । इति राजनिर्घण्टः । राजयोग्ये, त्रि ॥

नृयज्ञः, पुं, (ना मनुष्यस्तदर्थो यो यज्ञः ।)

अतिथिसेवा । यथा, मनुः । ७ । ७० ।
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”

नृवराहः, पुं, (ना चासौ वराहश्चेति ।) वराह-

रूपधृग्भगवदवतारः । यथा, --
“नृवराहस्य वसतिर्महर्ल्लोके प्रतिष्ठिता ।
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ॥”
स एव बलेर्द्बारी । यथा, --
“शौकरं रूपमास्थाय द्बार्य्यस्य च दुरात्मनः ।
भविष्यामि न सन्देहो व्रज शक्र ! त्यरान्वितः ॥”
इति पाद्मे सृष्टिखण्डे २८ अध्यायः ॥
अपि च ।
“दैत्यस्ततोऽसौ नृवराहमाहवे
निपातयामास रुषा ज्वलन्तीम् ।
शक्तिं यथा विद्युतमाशु कुञ्जे
प्रवर्षमाणोऽपि गिरिं सुमेघः ॥
स हन्यमानो गदयाप्रमेयः
प्रोवाच दैत्यं नृवराहमूर्त्तिः ।
प्रजापतेः सेतुमिमं निहत्य
व्रजेच्च कः स्वस्ति यथासुरेन्द्र ॥”
इत्यग्निपुराणम् ॥

नृशसः, त्रि, (नॄन् नरान् शंसति हिनस्तीति ।

नृ + शन्स हिंसायाम् + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) क्रूरः । परद्रोही । इत्यमरः । ३ ।
१ । ४७ ॥ (यथा, पञ्चतन्त्रे । ३ । १४२ ।
“ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥”)

नृसिंहः, पुं, (ना चासौ सिंहश्चेति । नरसिंह-

मूर्त्तिधरत्वादेवास्य तथात्वम् ।) विष्णुः । इति
त्रिकाण्डशेषः ॥ विष्णोर्दशावताराणां मध्ये
चतुर्थः पूर्णावतारः । तस्य रूपं यथा, --
“सिंहस्य कृत्वा वदनं मुरारिः
सदा करालञ्च सुरक्तनेत्रम् ।
अर्द्धं वपुर्व्वै मनुजस्य कृत्वा
ययौ सभां दैत्यपतेः पुरस्तात् ॥”
इत्यग्निपुराणम् ॥
महाविष्णुः । तन्मन्त्रादि यथा, --
अथ नृसिंहमन्त्राः । निबन्धे ।
“उग्रं वीरं वदेत् पूर्ब्बं महाविष्णुमनन्तरम् ।
ज्वलन्तं पदमाभाष्य सर्व्वतोमुखमीरयेत् ॥
नृसिंहं भीषणं भद्रं मृत्युमृत्युं वदेत्ततः ।
नमाम्यहमिति प्रोक्तो मन्त्रराजसुरद्रुमः ॥
अयं मन्त्रो मायापुटितोऽपि भवति तदा सर्व्व-
फलप्रदः । तथा च निबन्धे ।
“हृल्लेखापुटितश्चेत् स्यात् सर्व्वकामफलप्रदः ।”
अस्य पूजा प्रातःकृत्यादिवैष्णवोक्तपीठमन्वन्तं
विधाय ऋष्यादिन्यासं कुर्य्यात् । शिरसि ब्रह्मणे
ऋषये नमः । मुखेऽनुष्टुप्छन्दसे नमः । हृदि
नृसिंहाय देवतायै नमः ॥ ततः कराङ्गन्यासौ ।
“चतुर्भिर्हृदयं वर्णैः शिरस्तावद्भिरक्षरैः ।
शिखाष्टाभिःसमुद्दिष्टा षड्भिः कवचमीरितम् ॥
तावद्भिर्नयनं प्रोक्तं अस्त्रं स्यात् करणाक्षरैः ॥”
ततो मन्त्रन्यासः ।
“शिरोललाटनेत्रेषु मुखबाह्वङ्घ्रिसन्धिषु ।
साग्रेषु कुक्षौ हृदये गले पार्श्वद्वये पुनः ॥
अपराङ्गे च ककुदि न्यसेद्बर्णान् यथाक्रमम् ॥”
ध्यानन्तु ।
“माणिक्त्याद्रिसमप्रभं निजरुचा संत्रस्तरक्षोगणं
जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् ।
बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्वोग्रवक्त्रोल्लसज्-
ज्वालाजिह्वमुदारकेशरचयं वन्दे नृसिंहं विभुम् ॥
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वा
वैष्णवोक्तपीठपूजां कृत्वा पुनर्ध्यात्वावाहनादि-
पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजा-
मारभेत । केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च
अङ्गानि पूजयेत् । यथा उग्रं वीरं हृदयाय
नमः । महाविष्णुं शिरसे स्वाहा । ज्वलन्तं
सर्व्वतोमुखं शिखायै वषट् । नृसिंहं भीषणं
कवचाय हूं । भद्रं मृत्युमृत्युं नेत्रत्रयाय
वौषट् । नमाम्यहं अस्त्राय फट् । ततः पूर्ब्बादि-
दलेषु गरुडं शङ्करं शेषं ब्रह्माणञ्च प्रपूजयेत् ।
विदिग्दलेषु श्रियं ह्रियं धृतिं पुष्टिञ्च प्रण-
वादिनमोऽन्तेन पूजयेत् । तद्बहिः इन्द्रादीन्
वज्रादींश्च संपूज्य धूपादिविसर्ज्जनान्तं कर्म्म
समापयेत् । अस्य पुरश्चरणं द्बात्रिंशल्लक्ष-
जपः । तथा च ।
“वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं घृतप्लुतैः ।
पायसान्नैः प्रजुहुयाद्विधिवत् पूजितेऽनले ॥”
मन्त्रान्तरं यथा, --
“पाशः शक्तिर्नरहरिरङ्कुशो वर्म्मफट् मनुः ।
षडक्षरो नरहरेः कथितः सर्व्वकामदः ॥”
अस्य पूजा प्रातःकृत्यादिवैष्णवोक्तपीठन्यासान्त
पीठमन्वन्तं विधाय ऋष्यादिन्यासं कुर्य्यात् ।
शिरसि ब्रह्मणे ऋषये नमः । मुखे पङ्क्ति-
च्छन्दसे नमः । हृदि नृसिंहाय देवतायै नमः ।
ततः कराङ्गन्यासौ । आं अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्ज्जनीभ्यां स्वाहा । क्ष्रौं मध्यमाभ्यां वषट् ।
क्रो अनामिकाभ्यां हूम् । हूं कनिष्ठाभ्यां
वौषट् । फट् करतलपृष्ठाभ्यां फट् । एवं हृद-
यादिषु । ततो ध्यानम् ।
“कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्य्या-
ग्निनेत्त्रं
पादादानाभिरक्तप्रभमुपरिसितं भिन्नदैत्येन्द्र-
गात्रम् ।
शङ्खं चक्रासिपाशाङ्कुशकुलिशगदादारणान्यु-
द्बहन्तं
भीमं तीक्ष्णोग्रदंष्ट्रं मणिमयविविधाकल्पमीडे
नृसिंहम् ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वा
वैष्णवोक्तपीठपूजां कृत्वा पुनर्ध्यात्वावाहनादि-
पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजा-
मारभेत । केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च
आं हृदयाय नमः । इत्यादिना षडङ्गानि पूज-
येत् । ततः पत्रेषु पूर्ब्बादिषु शङ्खं चक्रं पाशं
अङ्गुशं वज्रं गदां खड्गं खेटकञ्च प्रणवादि-
नमोऽन्तेन पूजयेत् । तथा च निबन्धे ।
“अङ्गावृतैर्ब्बहिश्चक्रं शङ्खं पाशाङ्कुशौ पुनः ।
वज्रं कौमोदकीं खड्गखेटौ पत्रेषु पूजयेत् ॥”
तत इन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादिविस-
र्ज्जनान्तं कर्म्म समापयेत् ॥ अस्य पुरश्चरणं
षड्लक्षजपः । तथा च ।
“ऋतुलक्षं जपेन्मन्त्रं घृतेन जहयात्ततः ।
तत्सहस्रं समिद्धेऽग्नौ तोषयेद्वगना गुरुम् ॥”
मन्त्रान्तरं यथा, --
“क्षकारो वह्निमारूढो मनुबिन्दुसमन्वितः ।
एकाक्षरो मनुः प्रोक्तः सर्व्वकामफलप्रदः ॥”
अस्य पूजा प्रातःकृत्यादिवैष्णवोक्तध्यानार्च्चना-
दिकं सर्व्वं मन्त्रराजवत् । विशेषस्तु ऋषिस्त्वत्रि-
र्गायत्त्री छन्दो नृसिंहो देवता क्षकारो बीजं
औकारः शक्तिः षड्दीर्घभाजा बीजेनाङ्ग-
कल्पना । अस्य पुरश्चरणमष्टलक्षजपः । तथा
च । अष्टलक्षं जपेन्मन्त्रमित्यादि ॥ * ॥
मन्त्रान्तरं यथा । कल्पे ।
“जयद्वयं समुच्चार्य्य श्रीपूर्ब्बो नृसिंहेत्यपि ।
अष्टाक्षरो मनुः प्रोक्तो भजतां कामदो मणिः ॥
अस्य ब्रह्मा ऋषिर्गायत्त्री छन्दो नृसिंहो देवता
षड्दीर्घयुक्तवीजेनाङ्गकल्पना । ध्यानार्च्चनं
मन्त्रराजवत् । अस्य पुरश्चरणमष्टलक्षजपः ।
पृष्ठ २/९२१
वसुलक्षं जपेन्मन्त्रमित्यादिवचनात् ।” इति तन्त्र-
सारः ॥ * ॥ षोडशरतिबन्धान्तर्गतनवमबन्धः ।
तस्य लक्षणं यथा, रतिमञ्जर्य्याम् ।
“पादौ संपीड्य योनौ च हठाल्लिङ्गप्रवेशनम् ।
हस्तयोर्वेष्टयेद्गात्रं बन्धो नृसिंहसंज्ञकः ॥”
(स्वनामख्यातनृपविशेषः । यथा, सह्याद्रिखण्डे ।
३१ । ४० ।
“नागात् नृसिंहभूपालस्तत्सुतो गाढभाषणः ॥”
ना सिंह इव इत्युपमितसमासः ।) नरश्रेष्ठः ॥
(यथा, महाभारते । ९ । ५३ । २४ ।
“इष्ट्वा महार्हैः क्रतुभिर्नृसिंहाः
सन्त्यज्य देहान् सुगतिं प्रपन्नाः ॥”)

नृसिंहचतुर्द्दशी, स्त्री, (नृसिंहप्रिया नृसिंहव्रतोप-

लक्षिता वा चतुर्द्दशी ।) वैशाखशुक्लचतु-
र्द्दशी । तत्र व्रतविधिर्यथा, --
“वैशाखस्य चतुर्द्दश्यां शुक्लायां श्रीनृकेशरी ।
जातस्तदस्यां तत्पूजोत्सवं कुर्व्वीत सव्रतम् ॥”
अथ श्रीनृसिंहचतुर्द्दशीव्रतनित्यता । बृहन्नार-
सिंहपुराणे श्रीभगवन्नृसिंहप्रह्लादसंवादे व्रत-
विधिकथने ।
“वर्षे वर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम् ।
महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः ॥”
किञ्च
“विज्ञाय मद्दिनं यस्तु लङ्घयेत् स तु पापभाक् ।
एवं ज्ञात्वा प्रकर्त्तव्यं मद्दिने व्रतमुत्तमम् ।
अन्यथा नरकं याति यावच्चन्द्रदिवाकरौ ॥” * ॥
तत्राधिकारिनिर्णयः । तत्रैव ।
“सर्व्वेषामेव लोकानामधिकारोऽस्ति मद्व्रते ।
मद्भक्तैस्तु विशेषेण प्रणेयं मत्परायणैः ॥” * ॥
अथ तन्माहात्म्यम् । तत्रैव ।
श्रीप्रह्लाद उवाच ।
“नमस्ते भगवन् विष्णो नृसिंहवपुषे नमः ।
त्वद्भक्तोऽहं मुरेशैकं त्वां पृच्छामि च तत्त्वतः ॥
स्वामिंस्त्वयि ममोत्पन्ना भक्तिर्ब्बहुविधा कथम् ।
कथं ते सुप्रियो जातः कारणं वद मे प्रभो ! ॥
श्रीनृसिंह उवाच ।
कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः ।
भर्क्तेर्यत् कारणं वत्स ! प्रियत्वस्य च तत् पुनः ॥
पुराकल्पे ह्यभूर्व्विप्रः किञ्चित्त्वं नाप्यधीतवान् ।
नाम्ना च वसुदेवो हि वेश्यायां तत्परो ह्यभूः ॥
तस्मिन् जन्मनि नैव त्वं चकर्थ सुकृतं कियत् ।
मुक्त्वा तु मद्व्रतं चैकं वेश्यासङ्गतिलालसः ॥
मद्व्रतस्य प्रभावेण भक्तिर्ज्जाता तवेदृशी ।
श्रीप्रह्लाद उवाच ।
श्रीनृसिंहाच्युत स्वामिन् कस्य पुत्त्रेण किं कृतम् ।
वेश्यायां वर्त्तमानेन कथं तद्धि कृतं मया ॥
आख्यानं विस्तरेणेदं वक्तुमर्हसि साम्प्रतम् ।
श्रीनृसिंह उवाच ।
पुरावन्तीपुरे ह्यासीद्ब्राह्मणो वेदपारगः ।
तन्नाम वसुशर्म्मेति सर्व्वलोकेषु विश्रुतम् ॥
नित्यं होमक्रियामेष करोति द्बिजसत्तमः ।
ब्रह्मक्रियासु सततं सर्व्वासु किल तत्परः ॥
अग्निष्टोमादिभिर्यज्ञैरिष्टाः सर्व्वे सुरोत्तमाः ।
तेनापि विद्यमानेन न कृतं दुष्कृतं कियत् ॥
तस्य भार्य्या सुशीलाभूद्विख्याता भुवनत्रये ।
पतिव्रता सदाचारा पतिभक्तिपरायणा ॥
जज्ञिरे च सुताः पञ्च तस्यां द्बिजवरात्ततः ।
सदाचाराः सुविद्बांसः पितृभक्तिपरायणाः ॥
तेषां मध्ये कनिष्ठस्त्वं वेश्यायां तत्परः सदा ।
तां सन्निवेशमानेन सुरापानं कृतं त्वया ॥
सदा पापरतस्त्वं हि नाकृथाध्ययनं भृशम् ।
विलासिनीगृहे नित्यं वसतिर्ह्यभवत्तव ॥
एकदा तद्गृहे ह्यासीत्तया सह महान् कलिः ।
ततः कलहभावेन भोजनं न कृतं त्वया ॥
अज्ञानान्मद्व्रतं चक्रे व्रतानामुत्तमं व्रतम् ।
तया सह विवादेन रात्रौ जागरणं कृतम् ॥
वेश्याया अपि तत् सर्व्वं प्रजातं तु त्वया समम् ।
रात्रौ जागरणे तस्याः सञ्जातं कायशोधनम् ॥
युवयोर्म्मद्व्रतं जातमज्ञानाद्बहुपुण्यदम् ।
येन चीर्णव्रतेनाद्य मोदन्ते दिवि देवताः ॥
सृष्ट्यर्थन्तु ततो ब्रह्मा चक्रे मद्व्रतमुत्तमम् ।
मद्व्रतस्य प्रभावेण निर्म्मितं सचराचरम् ॥
ईश्वरेणापि तच्चीर्णं वधार्थं त्रिपुरस्य च ।
महिम्नैव व्रतस्यास्य त्रिपुरं संनिपातितम् ॥
अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः ।
राजभिश्च महाप्राज्ञैर्व्विहितं व्रतमुत्तमम् ॥
एतद्व्रतप्रभावेण सर्व्वे सिद्धिमुपागताः ॥
वेश्यापि मत्प्रिया जाता त्रैलोक्ये सुखचारिणी ।
ईदृशं मद्व्रतं वत्स ! त्रैलोक्ये चैव विश्रुतम् ॥
धूर्त्तायाश्च विलासिन्या व्रतमेतदुपस्थितम् ।
प्रह्लाद ! तेन ते भक्तिर्म्मयि जाता ह्यनुत्तमा ।
सा वेश्या त्वप्सरा जाता दिवि भोगाननेकशः ।
भुक्त्वा कामं विलीना तु त्वं प्रह्लाद विविष्ट माम् ॥
कार्य्यार्थमवतारस्ते मच्छरीरात् पृथक् त्वसौ ।
विधाय सर्व्वकार्य्याणि शीघ्रं मयि गमिष्यसि ॥
य इदं व्रतमग्र्यन्तु प्रविधास्यन्ति मानवाः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
अपुत्त्रो लभते पुत्त्रान्मद्भक्तांश्च सुवर्च्चसः ।
दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी ॥
तेजस्कामो लभेत्तेजो राज्येप्सू राज्यमुत्तमम् ।
आयुस्कामो लभेत्त्वायुर्यादृशन्तु शिवस्य च ॥
स्त्रीणां व्रतमिदं साधु पुत्त्रदं भाग्यदं तथा ।
अवैधव्यकरं तासां पुत्त्रशोकविनाशनम् ॥
धनधान्यफलञ्चैव पतिप्रियकरं सुखम् ।
सार्व्वभौमसुखं तासां दिव्यसौख्यं भवेत्ततः ॥
स्त्रियो वा पुरुषा वापि कुर्व्वन्ति व्रतमुत्तमम् ।
तेभ्यो ददाम्यहं सौख्यं भुक्तिमुक्तिफलं तथा ॥
बहुनोक्तेन किं वत्स ! व्रतस्यास्य फलस्य हि ।
यद्व्रतस्य फलं वक्तुं नाहं शक्तो न शङ्करः ।
ब्रह्मा चतुर्भिर्व्वक्तैश्च नालं स्याज्जीवितावधि ॥”
किञ्च तत्रैव व्रतविधिकथने ।
“यथा यथा प्रवृत्तिः स्यात् पातकस्य कलौ युगे ।
तथा तथा विधास्यन्ति मद्व्रतं विरलं जनाः ॥
मद्व्रतस्य विधाने च मतिर्व स्यात् दुरात्मनाम् ।
सदा पापरतानान्तु पुरुषाणां विकर्म्मणि ॥
विचार्य्यैवं प्रकर्त्तव्यं माधवे मासि मद्व्रतम् ।
प्राप्ते भूतदिने वत्स ! सर्व्वकल्मषनाशनम् ॥
येनैव क्रियमाणेन सहस्रद्वादशीफलम् ।
जायते न मृषा वच्मि मानुषाणां महात्मनाम् ॥”
तदन्ते च ।
“य इद्दं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् ।
तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ॥
पवित्रं परमं गुह्यं कीर्त्तयेत् यस्तु मानवः ।
सर्व्वान् कामानवाप्नोति व्रतस्यास्य फलं लभेत् ॥
अथ तद्व्रतदिननिर्णयः । आगमे ।
“वैशाखे शुक्लपक्षे च चतुर्दश्यां महातिथौ ।
सायं प्रह्लादधिक्कारमसहिष्णुः परो हरिः ॥
सद्यः कटकटाशब्दविस्मापितसभाजनः ।
लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः ॥
नृहरेरवतारात्तां यत्नतः समुपोषयेत् ।
महापुण्यतमायाञ्च सायं विष्णुं प्रपूजयेत् ॥”
बृहन्नारसिंहे ।
“वैशाखशुक्लपक्षस्य चतुर्द्दश्यां समाचरेत् ।
मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम् ॥”
किञ्च ।
“स्वातीनक्षत्रयोगे तु शनिवारे हि मद्व्रतम् ।
सिद्धयोगस्य योगे च लभ्यते दैवयोगतः ॥
सर्व्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम् ।
केवलञ्च प्रकर्त्तव्यं मद्दिनं फलकाङ्क्षिभिः ।
वैष्णवैर्न तु कर्त्तव्या स्मरविद्धा चतुर्द्दशी ॥”
अथ तद्व्रतविधिः । तत्रैव ।
“प्रातरुत्थाय कुर्व्वीत नियमं मनसा स्मरन् ।
मामेव मद्दिने वत्स ! दन्तधावनपूर्ब्बकम् ॥”
नियममन्त्रम् ।
“श्रीनृसिंह महोग्रस्त्वं दयां कुरु ममोपरि ।
अद्याहं ते विधास्यामि व्रतं निर्व्विघ्नतां नयेति ॥
व्रतस्थेन न वक्तव्यं मद्दिने पापिभिः सह ।
मिथ्यालापो न कर्त्तव्यः समग्रफलकाङ्क्षिभिः ॥
स्त्रियं दूतं विहायोच्चैर्व्रतस्थेन महात्मना ।
स्मर्त्तव्यं मम रूपञ्च मद्दिने सकले शुभे ॥
ततो मध्याह्नवेलायां नद्यादौ विमले जले ।
गृहे वा देवखाते वा तडागे वातिशोभने ॥
वैदिकेन च मन्त्रेण स्नानं कुर्य्याद्विचक्षणः ।
मृत्तिकागोमयेनैव तथा धात्रीफलेन वा ॥
तिलैर्व्वा सर्व्वपापघ्नैः स्नानं कृत्वा महात्मभिः ।
परिधाय शुचिर्व्वस्त्रे नित्यकर्म्म समाचरेत् ॥
ततो गृहं समागत्य स्मरन् मां भक्तियोगतः ।
गोमयेन विलिप्याथ कुर्य्यादष्टदलाम्बुजम् ॥
कलसं तत्र संस्थाप्य ताम्ररत्नसमन्वितम् ।
तस्योपरि न्यसेत् पात्रं तण्डुलैः परिपूरितम् ॥
हैमी मूर्त्तिस्तु तत्रैव स्थाप्या लक्ष्मीस्तथैव च ।
पलेन च तदर्द्धेन तदर्द्धार्द्धेन वा पुनः ॥
यथाशक्ति तथा कार्य्ये वित्तशाठ्यविवर्ज्जितैः ।
पञ्चामृतेन ते स्नाप्य पूजनन्तु समाचरेत् ॥
ततो ब्राह्मणमाहूय तमाचार्य्यमलोलुपम् ।
कुर्य्याच्छास्त्रसमायुक्तं शान्तं दान्तं जितेन्द्रियम् ॥
पृष्ठ २/९२२
तेनैव कारयेत् पूजां दृष्ट्वा शास्त्रानुसारतः ।
आचार्य्यवचनाद्धीमान् पूजां कुर्य्याच्चरन् व्रतम् ॥”
तत्राग्रे प्रह्लादः पूजनीयः । तथा चागमे ।
“प्रह्लादक्लेशनाशाय या हि पुण्या चतुर्द्दशी ।
पूजयेत्तत्र यत्नेन हरेः प्रह्लादमग्रतः ॥”
बृहन्नारसिंहे ।
“मण्डपं कारयेत्तत्र पुष्पस्तवकशोभितम् ।
ऋतुकालोद्भवैः पुष्पैः पूज्योऽहञ्च यथाविधि ॥
उपचारैः षोडशभिर्म्मन्मन्त्रैर्नामभिस्तथा ।
ततः पौराणिकैर्म्मन्त्रैः पूजनीयो विशेषतः ॥”
तत्र चन्दनमन्त्रः ।
“चन्दनं शीतलं दिव्यं चन्द्रकुङ्कुममिश्रितम् ।
ददामि ते प्रतुष्ट्यर्थं नृसिंह परमेश्वरेति ॥”
पुष्पमन्त्रः ।
“कालोद्भवानि पुष्पाणि तुलस्यादीनि वै प्रभो ! ।
पूजयामि नृसिंहेश ! लक्ष्म्या सह नमोऽस्तु ते ॥”
धूपमन्त्रः ।
“कालागुरुमयं धूपं सर्व्वदेवसुवल्लभम् ।
करोमि ते महाविष्णो ! सर्व्वकामसमृद्धये ॥”
द्वीपमन्त्रः ।
“दीपः पापहरः प्रोक्तस्तमसां राशिनाशनः ।
दीपेन लभते तेजस्तस्माद्दीपं ददामि ते ॥”
नैवेद्यमन्त्रः ।
“नैवेद्यं सौख्यदं चास्तु भक्ष्यभोज्यसमन्वितम् ।
ददामि ते रमाकान्त सर्व्वपापक्षयं कुरु ॥”
अर्घमन्त्रः ।
“नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते ।
अनेनार्घ्यप्रदानेन सफलाः स्युर्म्मनोरथाः ॥”
पूजामन्त्रः ।
“पीताम्बर महाविष्णो प्रह्लादभयनाशकृत् ।
यथा भूतार्च्चने नाथ यथोक्तफलदो भवेति ॥
रात्रौ जागरणं कुर्य्यात् गीतवादित्रनर्त्तनैः ।
पुराणपठनं नृत्यं श्रोतव्यं मत्कथानकम् ॥
ततः प्रभातसमये स्नानं कृत्वा ह्यतन्द्रितः ।
पूर्ब्बोक्तेन विधानेन पूजयेन्मां प्रयत्नतः ॥”
किञ्च ।
“मद्वंशे ये नरा जाता ये जनिष्यन्ति मत्पुरः ।
तांस्त्वमुद्धर देवेश ! दुःसहात् भवसागरात् ॥
पातकार्णवमग्नस्य व्याधिदुःखाम्बुराशिभिः ।
तीव्रैस्तु परिभूतस्य महादुःखगतस्य मे ॥
करावलम्बनं देहि शेषशायिन् जगत्पते ।
श्रीनृसिंह रमाकान्त भक्तानां भयनाशन ॥
क्षीराम्बुधिनिवास त्वं प्रीयमाणो जनार्द्दन ।
व्रतेनानेन मे देव भुक्तिमुक्तिप्रदो भव ॥
एवं प्रार्थ्य ततो देवं विसर्ज्ज्य च यथाविधि ।
उपहारादिकं सर्व्वमाचार्य्याय निवेदयेत् ॥
दक्षिणाभिः सुसन्तोष्य ब्राह्मणांश्च विसर्ज्जयेत् ।
मम ध्यानसमासक्तो भुञ्जीत सह बन्धुभिरिति ॥”
इति श्रीहरिभक्तिविलासे १४ विलासः ॥

नृसेनं, क्ली स्त्री, (नणां सेना । “विभाषा सेनेति ।”

२ । ४ । २५ । इति पाक्षिकं क्लीवत्वम् ।) नॄणां
सेना । इत्यमरः । ३ । ५ । ४० ॥

नृसोमः, पुं, (ना सोमश्चन्द्र इव । इत्युपमिति-

समासः ।) नरश्रेष्ठः । यथा, रघौ । ५ । ५९ ।
“तथेत्युपस्पृश्य पयः पवित्रं
सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमस्त्रं
जग्राह तस्मान्निगृहीतशापात् ॥”

नृहरिः, पुं, (ना चासौ हरिश्चेति ।) नृसिंहाव-

तारः । यथाह वोपदेवः ।
“शेते स चित्तशयने मम मीनकूर्म्म-
कोलोऽभवन्नृहरिवामनयामदग्न्यः ।
योऽभूद्बभूव भरताग्रजकृष्णबुद्धः
कल्की सताञ्च भविता प्रहरिष्यतेऽरीन् ॥”
(यथा च भागवते । ७ । ८ । २७ ।
“तं मन्यमानो निजवीर्य्यशङ्कितं
यद्धस्तमुक्तो नृहरिं महासुरः ॥”)

नॄ, गि नीतौ । कविकल्पद्रुमः ॥ (क्र्यां-प्वां-परं-

सकं-सेट् ।) गि, नृणाति नीर्णः नीर्णिः । नीतिः
प्रापणा । इति दुर्गादासः ॥

नॄ, म नीतौ । इति कविकल्पद्रुमः ॥ (स्वां-णिचि

घटां-सकं-सेट् ।) म, नरयति । नीतिः प्रापणा ।
इति दुर्गादासः ॥

नेजकः, पुं, (निज शुद्धौ + ण्वुल् ।) निर्नेजकः ।

रजकः । (यथा, मनौ । ८ । ३९६ ।
“शाल्मले फलके श्लक्ष्णे नेनिज्यान्नेजकःशनैः ।
न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥”
(शोधके, त्रि ॥)

नेता, [ऋ] पुं, (नयतीति । नी + तृच् ।)

प्रभुः । इत्यमरः । ३ । १ । ११ ॥ (यथा,
रघौ । ४ । ७५ ।
“आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥”)
निम्बवृक्षः । इति राजनिर्घण्टः ॥ प्रापके, त्रि ।
(यथा, महाभारते । ३ । ६६ । ६ ।
“तिष्ठ त्वं स्थावर इव यावदेव नलः क्वचित् ।
इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि यत्-
कृतात् ॥”)

नेत्रं, क्ली, (नीयते नयति वानेनेति । “दाम्नी-

शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् ।)
चक्षुः । (यथा, मनुः । ४ । ४४ ।
“नाञ्जयन्तीं स्वके नेत्रे नचाभ्यक्तामनावृताम् ।
न पश्येत् प्रसवन्तीञ्च तेजस्कामो द्विजोत्तमः ॥”)
जटा । अंशुकम् । इत्यमरः । २ । ६ । ९३,
३ । ३ । १७९ ॥ मन्थगुणः । (यथा, महाभारते ।
१ । १८ । १३ ।
“मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासुकिम् ।
देवा मथितुमारब्धाः समुद्रं निधिमम्भ-
साम् ॥”)
वृक्षमूलम् । रथः । नेतरि, त्रि । इति मेदिनी ।
रे, ५४ ॥ (यथा, महाभारते । २ । ६० । ४ ।
“नावं समुद्र इव बालनेत्रा-
मारुह्य घोरे व्यसने निमज्जेत् ॥”)
नाडी । इति विश्वः ॥ वस्तिशलाका । इति
राजनिर्घण्टः ॥

नेत्रच्छदः, पुं, (नेत्रे छाद्येतेऽनेनेति । छद +

णिच् + कः । ततो ह्रस्वः ।) नेत्रपिधायकचर्म्म-
पुटः । चक्षुर पाता इति भाषा । इति वर्त्म-
शब्दस्य नानार्थे अमरः । ३ । ३ । १२१ ॥

नेत्रपर्य्यन्तः, पुं, (नेत्रयोः पर्य्यन्तः अन्तः ।)

अपाङ्गः । इति राजनिर्घण्टः ॥ नयनावधिके, त्रि ॥

नेत्रपिण्डः, पुं, (नेत्रे नेत्रं वा पिण्ड इवास्य इति ।)

विडालः । इति हारावली । ८३ ॥ चक्षुर्गोल-
कश्च ॥

नेत्रपुष्करा, स्त्री, (नेत्रयोः पुष्करं जलं यस्याः यत्

सेवनादित्यर्थः ।) रुद्रजटा । इति राजनिर्घण्टः ॥

नेत्रमीना, स्त्री, (नेत्रयोर्म्मिला मेलनं मुद्रणं

यस्याः । ततः पृषोदरादित्वात् लस्य नत्वम् ।
क्वचित् नेत्रमिला इति वा पाठः ।) यवतिक्ता-
लता । इति राजनिर्घण्टः ॥

नेत्रयोनिः, पुं (नेत्राणि योनिभिर्ज्जातानि अस्य ।

सहस्रयोनय एव सहस्रनेत्राणि जातानि अत-
स्तन्नाम्ना विश्रुतः । नेत्राणि योनय इवास्येति
वा ।) इन्द्रः । इति शब्दमाला ॥ (नेत्रं अत्रि-
लोचनं योनिरुत्पतिकारणं यस्य ।) अत्रि-
नेत्रोद्भवत्वात् चन्द्रः ॥

नेत्ररञ्जनं, क्ली, (रज्यतेऽनेनेति । रन्ज + करणे

ल्युट् । नेत्रस्य रञ्जनम् ।) कज्जलम् । यथा, --
“एष नौ कथितो धूपः शृणुतां नेत्ररञ्जनम् ।
येन तुष्यति कामाख्या त्रिपुरा वैष्णवी तथा ॥
सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा ।
दर्व्विका मेघनीलश्च अञ्जनानि भवन्ति षट् ॥
स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरन्तथा ।
मयूरश्रीकरं रत्नं मेवनीलन्तु तैजसम् ॥
घृष्ट्वा निगाह्य चैतानि शिलायां तैजसेऽथवा ।
प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्त्रक ॥
घृततैलादियोगेन ताम्रादौ दीपवह्निना ।
यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥
सर्व्वाभावे तु तद्दद्याद्देवीभ्यो दर्व्विकाञ्जनम् ।
महामाया जगद्धात्री कामाख्या त्रिपुरा तथा ॥
आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः ।
विधवा नाञ्जनं कुर्य्यान्महामायार्थमुत्तमम् ॥
नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतम् ।
न मृत्पात्रे योजयेत्तु साधको नेत्ररञ्जनम् ॥
न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः ॥
चतुर्व्वर्गप्रदो धूपः कामदं नेत्ररञ्जनम् ।
तस्माद्द्वयमिदं दद्याद्देवेभ्यो भक्तितो नरः ॥
इति नौ कथितो धूपस्तथोक्तं नेत्ररञ्जनम् ॥”
इति कालिकापुराणे ६८ अध्यायः ॥

नेत्ररोगः, पुं, (नेत्रस्य चक्षुषो रोगः ।) चक्षू-

रोगः । तस्य निदानं यथा, --
“उष्णाभितप्तस्य जलप्रवेशाद्-
दूरेक्षणात् स्वप्नविपर्य्ययाच्च ।
स्वेदाद्द्रजोधूमनिषेवणाच्च
छर्द्देर्व्विघाताद्बमनातियोगात् ॥
द्रवात्तथान्नान्निशि सेविताच्च
विण्मूत्रवातक्रमनिग्रहाच्च ।
पृष्ठ २/९२३
प्रसक्तसंरोदनशोककोपा-
च्छिरोऽभिघातादतिमद्यपानात् ॥
तथा ऋतूनाञ्च विपर्य्ययेण
क्लेशाभिघातादतिमैथुनाच्च ।
वास्पग्रहात् सूक्ष्मनिरीक्षणाच्च
नेत्रे विकारान् जनयन्ति दोषाः ॥
वातात् पित्तात् कफाद्रक्तादभिस्यन्दश्चतुर्विधः ।
प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः ॥”
तस्य सम्प्राप्तिर्यथा, --
“निस्तोदनस्तम्भनरोमहर्ष-
संघर्षपारुष्यशिरोऽभितापाः ।
विशुष्कभावः शिशिराश्रुता च
वाताभिपन्ने नयने भवन्ति ॥
दाहप्रपाकौ शिशिराभिनन्दा
धूमायनं वास्पसमुच्छ्रयश्च ।
उष्णाश्रुता पीतकनेत्रता च
पित्ताभिपन्ने नयने भवन्ति ॥
उष्णाभिनन्दा गुरुताक्षिशोथः
कण्डूपदेहावतिशीतता च ।
स्रावो बहुः पिच्छिल एव चापि
कफाभिपन्ने नयने भवन्ति ॥
ताम्राश्रुता लोहितनेत्रता च
बाह्यः समन्तादतिलोहितश्च ।
पित्तस्य लिङ्गानि च यानि तानि
रक्ताभिपन्ने नयने भवन्ति ॥”
इति माधवकरः ॥
(अस्य निदानादिपूर्ब्बकं लक्षणं चिकित्सा च
यथा, --
“उष्णातिक्षारकटुकैरभिघातेन वा पुनः ।
सूक्ष्मवस्त्वीक्षणेनापि दोषाः कुप्यन्ति नेत्रजाः ॥
सहजा ये परा ज्ञेया वक्ष्यामि शृणु लक्षणम् ।
रूक्षः कण्डूश्च तोदश्च शुष्कशीतास्रसन्ततिः ।
वातिकं तं विजानीयात् पैत्तिकं शृण्वतः परम् ॥
सरक्तदाहे नेत्रे च उष्णस्रावश्च पैत्तिके ।
शोफकण्डूः सन्निपाते शीतजाड्ये कफात्मके ॥
द्वन्द्वजो मिश्रलिङ्गैश्च सर्व्वैस्तैः सान्निपातिकः ।
एतद्धि लक्षणं ज्ञात्वा चोपचारं शृणुष्व मे ॥
शुण्ठी सुराह्वसुरसाः सह काञ्जिकेन
चोष्णेन धावनमिदं सहपैत्तिके च ।
श्लेष्मोद्भवे त्रिफलकल्कमिदं समूत्र-
मन्यैस्तथा कथितमत्रभिषग्वरैस्तत् ॥
शुण्ठी शठी च रजनी त्रिफला सनिम्बा
पत्राणि सैन्धवयुतानि तुषाम्लकेन ।
शस्तं वदन्ति नयने च ससन्निपाते
रक्तोद्भवे च सरुजे च तथा प्रशस्तम् ॥
फलत्रिकं दारु निशासु धूमो
वचासु वर्षाभवसैन्धवेन ।
प्रलेपनं श्लेष्मभवे विकारे
सवातिके वा हितमेव शस्तम् ॥
शुण्ठी सैन्धवतक्रेण ताम्रभाण्डे विघर्षितम् ।
अपामार्गस्य मूलं वा मूलं धूस्तूरकस्य वा ॥
अञ्जनञ्च हितं तेषां वातनेत्रामयापहम् ॥
दुग्धोत्पन्नं नवनीतं यष्टीनिम्बस्तिलाश्च
संयोज्याः ।
त्रिफला गुडसंयुक्ता लेपनं कफनेत्रजरोगघ्नम् ॥
शुण्ठी सैन्धवतुल्यं मागधिका ताम्रभाजने घृष्टम् ।
दध्ना धृतेनाञ्जनकं निहन्ति सर्व्वांश्च नेत्रगदान् ॥
वातपित्तकफदोषसम्भवान्
नेत्रयोर्बहुपीडनं क्षणात् ।
एक एव हरति प्रयोजितः
शिशुपल्लवरसः समाक्षिकः ॥”
इति हारीते चिकित्सितस्थाने ४४ अध्यायः ॥)

नेत्ररोगहा, [न्] पुं, (नेत्ररोगं हन्तीति । हन् +

क्विप् ।) वृश्चिकालीवृक्षः । इति राजनिर्घण्टः ॥
चक्षूरोगनाशके, त्रि ॥

नेत्रामयः, पुं, (नेत्रस्य आमयो रोगः ।) चक्षू-

रोगः । तस्य निदानं यथा, --
“वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः ।
प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः ॥”
इति माधवकरः ॥
(अस्य लक्षणं यथा, --
“अल्पास्रुरागाऽनुपदेहता च
प्रस्पन्दतोदातिरुजश्च वातात् ।
पित्तात्तु दाहार्त्ति रुजोऽतिरागाः
पीतोऽतिदेहः सुभृशोष्णमस्रु ॥
शुक्लोपदेहो बहुपिच्छिलास्रु
नेत्रं कफात् स्यात् गुरुता सकण्डूः ।
सर्व्वाणि रूपाणि तु सन्निपाता
नेत्रामयाः षण्णवतिस्तु भेदात् ॥
तेषामभिव्यक्तिरभिप्रदिष्टा
शालाक्यतन्त्रेषु चिकित्सितञ्च ।
पराधिकारे तु न विस्तरोक्तिः
शस्तेति तेनात्र न नः प्रयासः ॥”
इति चिकित्सितस्थाने षड्विंशतितमेऽध्याये
चरकेनोक्तम् ॥)

नेत्राम्बु, क्ली, (नेत्रस्य अम्बु जलम् ।) अश्रु ।

इत्यमरः । २ । ६ । ९३ ॥

नेत्रारिः, पुं, (नेत्रस्य अरिः शत्रुः ।) सेहुण्डवृक्षः ।

इति राजनिर्घण्टः ॥

नेत्री, स्त्री, (नीयतेऽनयेति । नी + “दाम्नी-

शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् ।
षित्वात् ङीष् ।) लक्ष्मीः । नाडी । इति शब्द-
रत्नावली ॥ नदी । इति मेदिनी । रे, ५४ ॥
(नयतीति । नी + तृच् + ङीप् ।) प्रापण-
कर्त्री ॥ (शिक्षयित्री । इति नीलकण्ठः ॥
यथा, महाभारते । ५ । १३६ । १३ ।
“यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥”)

नेत्रोपमफलः, पुं, (नेत्रोपमं नयनतुल्यं फलं यस्य ।)

वातादः । इति भावप्रकाशः ॥ वादाम इति
भाषा ॥

नेत्रौषधं, क्ली, (नेत्रस्य औषधम् ।) पुष्पकासीसम् ।

इति राजनिर्घण्टः ॥ चक्षूरोगौषधमात्रञ्च ॥

नेत्रौषधी, स्त्री, (नेत्रस्य औषधी ।) अजशृङ्गी ।

इति रत्नमाला ॥ कोँगा इति भाषा ॥

नेदिष्ठं, त्रि, (अयमेषामतिशयेनान्तिकः । अन्तिक

+ “अतिशायने तमबिष्टनौ ।” ५ । ३ । ५५ ।
इति इष्ठन् । “अन्तिकवाढयोर्नेदसाधौ ।” ५ ।
३ । ६३ । इति नेदादेशः ।) अन्तिकतमम् ।
अतिनिकटम् । इत्यमरः । ३ । १ । ६८ ॥ (यथा,
ऋग्वेदे । ४ । १ । ५ ।
“स त्वं नो अग्नेऽवमो भवोती नेदेष्टो अस्या
उषसो व्युष्टौ ॥”
यथाच, उद्धवसन्देनो । ३ ।
“सोत्कण्ठोऽभूदभिमतकथां संशितुं कंसभेदी
नेदिष्ठाय प्रणयलहरी बद्धवागुद्धवाय ॥”)
निपुणम् । इति राजनिर्घण्टः ॥ अङ्कोठवृक्षे
पुं । इति जटाधरः ॥

नेदीयान्, [स्] त्रि, (अयमनयोरतिशयेनान्तिकः ।

अन्तिक + इयसुन् । नेदादेशः ।) नेदिष्ठः ।
अत्यन्तसमीपः । इति जटाधरः ॥ (यथा, सर्व्व-
दर्शनसंग्रहे आर्हतदर्शने ।
“न चेदमिष्टापादनमेष्टव्यं दवीयान् महीधरो
नेदीयान् दीर्घो बाहुरिति व्यवहारस्य निरा-
बाधं जागरुकत्वात् ॥”)

नेपः, पुं, (नयति प्रापयति शुभमिति । नी +

“पानीविषिभ्यः पः ।” उणां । ३ । २३ । इति
पः ।) पुरोहितः । उदकम् । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

नेपथ्यं, क्ली, (नी + विच् + गुणः । नेः नेता तस्य

पथ्यम् ।) वेशः । इत्यमरः । २ । ६ । ९९ ॥
(यथा, रघुः । १४ । ९ ।
“राजेन्द्रनेपथ्यविधानशोभा
तस्योदितासीत् पुनरुक्तदोषा ॥”)
अलङ्कारः । रङ्गभूमिः । इति मेदिनी । ये, ८८ ॥
(यथाह भरतः ।
“वाक्यस्यार्थतया यत्र पात्रं नैव प्रवेश्यते ।
नेपथ्यमिति प्राकाश्ये प्रयोज्यं तत्र नाटके ॥”)

नेपालः, पुं, स्वनामप्रसिद्धदेशः । इति जटाधरः ॥

(यथा, शक्तिसङ्गमतन्त्रे ।
“जटेश्वरं समारभ्य योगेशान्तं महेश्वरि ! ।
नेपालदेशो देवेशि ! साधकानां सुसिद्धिदः ॥”)

नेपालनिम्बः, पुं, (नेपालोद्भवो निम्बः ।) नेपाल-

देशोद्भवनिम्बः । तत्पर्य्यायः । नैपालः २ तृण-
निम्बः ३ ज्वरान्तकः ४ नाडीतिक्तः ५ निद्रारिः
६ सन्निपातरिपुः ७ । अस्य गुणाः । शीतत्वम् ।
उष्णत्वम् । योगवाहित्वम् । लघुत्वम् । तिक्त-
त्वम् । अतिकफपित्तास्रशोफतृष्णाज्वरापह-
त्वञ्च । इति राजनिर्घण्टः ॥

नेपालिका, स्त्री, (नेपालः उत्पत्तिस्थानत्वेना-

स्त्यस्या इति । नेपाल + ठन् + टाप् ।) मनः-
शिला । इति राजनिर्घण्टः ॥