सामग्री पर जाएँ

शब्दकल्पद्रुमः/निरशनं

विकिस्रोतः तः
पृष्ठ २/८८८

निरशनं, क्ली, (निर् + अश + ल्युट् ।) भोजना-

भावः । अनशनम् । (निर्गतं अशनं भोजना-
दिकं यस्मात् । भोजनरहिते त्रि ॥)

निरसः, त्रि, (निवृत्तो रसो यस्मात् ।) नीरसः ।

पुं, रसाभांवः । रसस्य अभावः इति तत्पुरुष-
समासनिष्पन्नः ॥

निरसनं, क्ली, (निरस्यते क्षिप्यते इति । निर् +

अस + ल्युट् ।) प्रत्याख्यानम् । इत्यमरः । ३ । २ ।
३१ ॥ (यथा, महाभारते । १४ । ४ । १० ।
“स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनञ्च तत् ।
नियतो वर्त्तयामास प्रजाहितचिकीषया ॥”)
वधः । निष्ठीवनम् । इति मेदिनी । ने, १९१ ॥

निरसा, स्त्री, (निवृत्तो रसो यस्याः ।) निःश्रेणिका-

तृणम् । इति राजनिर्घण्टः ॥

निरस्तः, त्रि, (निर् + अस् + क्तः ।) प्रहित-

बाणः । त्यक्तशरः । त्वरितोदितम् । शीघ्रो-
च्चारितवचः । निराकरणविशिष्टः । तत्पर्य्यायः ।
प्रत्यादिष्टः २ प्रत्याख्यातः ३ निराकृतः ४
निकृतः ५ विप्रकृतः ६ । इत्यमरः । ३ । १ । ४० ॥
प्रतिक्षिप्तम् ७ अपविद्धम् ८ । इति हेमचन्द्रः ॥
निष्ठ्यूतः । प्रेषितः । संत्यक्तः । प्रतिहतः । इति
मेदिनी । ते, ११७ ॥ (यथा, हितोपदेशे ।
१ । ४८ ।
“यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥”
यथाच मार्कण्डेयपुराणे । ८९ । २३ ।
“आयान्ती वह्निकूटाभा सा निरस्ता महो-
ल्कया ॥”)

निराकरणं, क्ली, (निर् + आ + कृ + ल्युट् ।)

निवारणम् । निरसनम् । इति निराकरिष्णु-
शब्दटीकायां भरतः ॥

निराकरिष्णुः, त्रि, (निराकरोति तच्छीलः । निर

+ आ + कृ + “अलंकृञ्निराकृञिति ।” ३ । २ ।
१३६ । इति इष्णुच् ।) निराकरणशीलः । तत्-
पर्य्यायः । क्षिप्नुः २ । इत्यमरः । ३ । १ । ३० ॥
(यथा, भट्टिकाव्ये । ५ । १ ।
“निराकरिष्णुर्वर्त्तिष्णुर्वर्द्धिष्णुः परितो रणम् ॥”)

निराकारः, पुं, (निर्गत आकारो देहादिदृश्य-

स्वरूपं यस्मादिति । निरादय इति समासः ।)
परमेश्वरः । ब्रह्म । यथा, --
“साकारञ्च निराकरं सगुणं निर्गुणं प्रभुम् ।
सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥”
अपि च ।
“तेजःस्वरूपो भगवान् निराकारो निराश्रयः ।
निलिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ॥
ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरिणम् ।
वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ॥
केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ।
शप्त्रचक्रगदापद्मधरं पीताम्बरं परम् ॥
द्विभुजं कमनीयञ्च किशोरं श्यामसुन्दरम् ।
शान्तं गोपाङ्गनाकान्तं रत्नभूयणभूषितम् ॥
एषं तेजस्विनं भक्त्या सेवन्ते सततं मुदा ।
ध्यायन्ति योगिनो यत्तु कुतस्तेजस्विनं विना ॥”
अपि च ।
“योनिर्गुणः स निर्लिप्तः शक्तिभ्यो नहि संयुतः ।
सिसृक्षुराश्रितः शक्तौ निर्गुणः सगुणो भवेत् ॥
यावन्ति च शरीराणि भोगार्हाणि महामुने ! ।
प्राकृतानि च सर्व्वाणि श्रीकृष्णविग्रहं विना ॥
ध्यायन्ति योगिनस्तञ्च शुद्धं ज्योतिःस्वरूपिणम् ।
हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् ॥
वैष्णवास्तं न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः ।
कुतो बभूव तज्ज्योतिरहो तेजस्विनं विना ॥
ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् ।
अतीवामूल्यसद्रत्नभूषणेन विभूषितम् ॥
एवं भक्ताश्च ध्यायन्ति शश्वच्चरणसेविनः ।
योगिनो योगरूपञ्च काले भक्तिबिपाकतः ॥
ज्योतिरभ्यन्तरे मूर्त्तिं पश्यन्ति कृपया प्रभोः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३२ । ७ । ४२ अः ॥
तस्य द्बिचत्वारिंशन्नामानि यथा, --
“जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च ।
ज्योतिःस्वरूपो ह्यनघः सगुणो निर्गुणो महान् ॥
भक्तानुरोधात् साकारो निराकारो निरङ्कुशः ।
निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः ॥
निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ।
स्वात्मारामः पूर्णकामोऽनिमेषो नित्य एव च ॥
सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः ।
वेदहेतुश्च वेदाश्च वेदाङ्गो वेदविद्बिभुः ॥
द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् ।
दृढां भक्तिं हरेर्दास्ये लभते वाञ्छितञ्च यत् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः ॥
आकारशून्ये, त्रि ॥

निराकृतः, त्रि, (निर् + आ + कृ + क्तः ।) प्रत्या-

ख्यातः । निरस्तः । इत्यमरः । ३ । १ । ४० ॥

निराकृतिः, स्त्री, (निर् + आ + कृ + क्तिन् ।) निर-

सनम् । निराकरणम् । इत्यमरः । ३ । २ । ३१ ॥
(निर्गता आकृतिर्यस्मादिति ।) अनाकारे
अस्वाध्याये च त्रि । इति मेदिनी । ते, २०३ ॥
(पुं, पञ्चमहायज्ञानुष्ठानरहितः । यथा, मनुः ।
३ । १५४ ।
“यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥”
“निराकृतिः पञ्चमहायज्ञानुष्ठानरहितः ।
तथा च छन्दोगपरिशिष्टम् ।
निराकर्त्तामरादीनां स विज्ञेयो निराकृतिः ॥”
इति कुल्लूकभट्टः ॥
“निराकृतिः सत्यधिकारे महायज्ञानुष्ठान-
रहितः । अनद्धा निराकृतिरुच्यते । एवं हि
शतपथे । यो न देवानर्च्चति न पितॄन् न मनुष्या-
निति । यैस्तु पठ्यते अस्वाध्यायश्रुतधनैर्निरा-
कृतिरुदाहृतः ।” इति मेधातिथिः ॥ * ॥
रोहितमनुपुत्त्रः । यथा, हरिवंशे । ७ । ६३ ।
“दक्षपुत्त्रस्य पुत्त्रास्ते रोहितस्य प्रजापतेः ।
मनोः पुत्त्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥”)

निराचारः, त्रि, निर्न विद्यते आचारो यस्य सः ।

अनाचारः । आचारशून्यः ॥

निरातपा, स्त्री, (निर्गत आतपो यस्याः ।)

रात्रिः । इति शब्दचन्द्रिका ॥ आतपशून्ये, त्रि ॥

निराबाधः, त्रि, (निर्गता आबाधा प्रतिबन्धो

यस्मात् ।) पक्षाभासविशेषः । यथा, --
“अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्ज्जयेत् ॥
निरावाधं अस्मद्गृहप्रदीपप्रकाशेनायं स्वगृहे
व्यवहरति ।” इति मिताक्षरा ॥

निरामयः, त्रि, (निर्गत आमयो व्याधिर्यस्मात् ।)

रोगरहितः । तत्पर्य्यायः । वार्त्तः २ कल्यः ३ ।
इत्यमरः । २ । ६ । ५७ ॥ नीरुजः ४ पटुः ५
उल्लाघः ६ लघुः ७ अगदः ८ निरातङ्कः ९ ।
अनातङ्कोऽपि पाठः । इति राजनिर्घण्टः ॥
(यथा, सुश्रुते । १ । ४६ ।
“निरामयाणां चित्रन्तु भक्तमध्ये प्रकीर्त्तितम् ॥”
उपद्रवादिशून्यः । यथा, महाभारते । १ ।
१५७ । ११ ।
“इदं नगरमभ्यासे रमणीयं निरामयम् ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥”
रोगनाशकः । यथा, मुकुन्दमालायाम् । २१ ।
“किमौषधैः क्लिश्यसि मूढ दुर्म्मते !
निरामयं कृष्णरसायनं पिब ॥”)

निरामयः, पुं, (निर्गतः आमयो यस्मात् ।)

इडिक्कः । वनच्छगलः । इति मेदिनी । ये,
१२१ ॥ शूकरः । इति शब्दमाला ॥ (नृप-
विशेषः । यथा, महाभारते । १ । १ । २३४ ।
“धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥”
महादेवः । इति महाभारतम् । १३ । १७ । १४८ ॥
क्ली, कुशलम् । यथा, तत्रैव । ५ । ७८ । ८ ।
“कुरूणां पाण्डवानाञ्च प्रतिपत्स्व निरामयम् ॥”)

निरामालुः, पुं, (नितरां रमतेऽनेनेति । नि + रम

+ बाहुलकात् आलु दीर्घश्च ।) कपित्थः । इति
शब्दचन्द्रिका ॥ (विवरणमस्य कपित्थशब्दे
ज्ञातव्यम् ॥)

निरालम्बा, स्त्री, (निर्नास्ति आलम्बो यस्याः ।)

आकाशमांसी । इति राजनिर्घण्टः ॥ (शुक्ल-
यजुर्व्वेदान्तर्गतोपनिषद्बिशेषः । इति मुक्तिको-
पनिषत् ॥ अवलम्बनशून्ये, त्रि । यथा, हठ-
योगप्रदीपिकायाम् । ३ । ५४ ।
“एको देवो निरालम्ब एकावस्था मनोन्मनी ॥”)

निराशः, त्रि, (निर्गता आशा यस्मादिति ।)

आशाशून्यः । यथा, तिथितत्त्वे ।
“भूताहे ये प्रकुर्व्वन्ति उल्काग्रहमचेतसः ।
निराशाः पितरो यान्ति शापं दत्त्वा सुदा-
रुणम् ॥”

निरासनं, क्ली, (निर् + आस + ल्युट् ।) निर-

सनम् । (निर्गतं आसनं यस्मात् ।) आसना-
भावविशेष्टे, त्रि ॥

निराहारः, त्रि, (निर्गत आहारो यस्य ।)

आहाररहितः । यथा, --
“निराहाराश्च ये जीवाः पापे धर्म्मे रताश्च ये ।”
इति तर्पणप्रकरणीयाह्निकाचारधृतवचनम् ॥
पृष्ठ २/८८९

निरिङ्गिणी, स्त्री, (निर्निभृतं जनं इङ्गति प्राप्नो-

तीति । निर् + इङ्ग + णिनिः ततो ङीप् ।)
तिरष्करिणी । तत्पर्य्यायः । अवगुण्ठिका २
पटी ३ यवनिका ४ । इति त्रिकाण्डशेषः ॥

निरिन्द्रियः, त्रि, (निर्गतानि इन्द्रियाणि यस्मात् ।)

इन्द्रियशून्यः । यथा, मनुः । ९ । २०१ ।
“अनंशौ क्लीवपतितौ जात्यन्धवधिरौ तथा ।
उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥”

निरीक्षणं, क्ली, (निर् + ईक्ष + भावे ल्युट् ।)

दर्शनम् । यथा, --
“द्रवात्तथान्नान्निशि सेविताच्च
विण्मूत्रघातक्रमनिग्रहाच्च ।
वास्पग्रहात् सूर्य्यनिरीक्षणाच्च
नेत्रे विकारान् जनयन्ति दोषाः ॥”
इति माधवकरः ॥
(निरीक्षते इति । निर् + ईक्ष + ल्युः । दर्शके,
त्रि । यथा, भागवते । ७ । १५ । ३२ ।
“प्राणापानौ संनिरुन्ध्यात् पूरकुम्भकरेचकैः ।
यावत् मनस्त्यजेत् कामान् स्वनासाग्रनिरी-
क्षणः ॥”)

निरीक्षितं, त्रि, (निर् + ईक्ष + क्तः ।) अवलो-

कितम् । यथा, --
“निरीक्षितं चाङ्गमवीक्षितञ्च
दृशा पिबन्ती रभसेन तस्य ।
समानमावन्दमियं दधाना
विवेद भेदं न विदर्मसुभ्रूः ॥”
इति नैषधः ॥

निरीशं, क्ली, (निर्गतां ईशा यस्मात् ।) फालः ।

इत्यमरः । २ । ९ । १३ ॥ (निर्नास्ति ईश
ईश्वरो यस्य ।) ईशशून्ये नास्तिके च त्रि ॥

निरीषं, क्ली, (निर्गता ईषा यस्मात् । निरादय

इति समासः ।) निरीशम् । इत्यमरटीकायां
भरतः ॥

निरीहः, पुं, (निर्गता ईहा चेष्टा यस्मात् ।) विष्णुः ।

यथा, --
“निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे चत्वारिशन्ना-
मकथने ७ अध्यायः ॥ ईहाशून्ये, त्रि ॥ (यथा,
देवीभागवते । ४ । १० । ११ ।
“निरीहः पुरुषः कस्मात् प्रकुर्य्याद् युद्धमीदृ-
शम् ॥”)

निरुक्तं, क्ली, (निर्निश्चयेन उक्तम् ।) वेदवेदाङ्ग-

शास्त्रविशेषः । यथा, --
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषन्तथा ।
छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥”
इति शब्दरत्नावली ॥
(तथाहि, --
“वर्णागमो वर्णविपर्य्ययश्च
द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योग-
स्तदुच्यते पञ्चविधं निरुक्तम् ॥”
यदुक्तं देवराजयज्वना निर्व्वचने, तद्यथा, --
“अत उक्ताध्ययनविधेरुक्तच्छन्दःप्रविभागस्योक्त-
विनियोगस्योपलक्षितकर्म्माङ्गभूतकालस्योपद-
र्शितलक्षणस्यैतैरङ्गैर्वेदस्यार्थपरिज्ञानविषये नि-
रुक्तं नामेदमङ्गमारभ्यते । प्रधानञ्चेदमितरेभ्यो-
ऽङ्गेभ्यः सर्व्वशास्त्रेभ्यश्चार्थपरिज्ञानाभिनिवेशात् ।
अर्थो हि प्रधानम् । तद्गुणः शब्दः । स चेतरेषु
व्याकरणादिषु चिन्त्यते । कल्पे खल्वपि विनि-
योगश्चिन्त्यते । स च पुनरर्थाभिधानवशेन मन्त्रा-
णाम् । यो यमर्थमभिधानेन संस्कर्त्तुं समर्थो मन्त्रः
स तत्र विनियुज्यते । तदुक्तं अर्थाभिधान-
संयोगान्मन्त्रेषु शेषभावः स्यात् इति । न च
निरुक्तादृतेऽन्यदङ्गमन्यद्वा बाह्यं शास्त्रमस्ति
तात्पर्येण यदशेषान् शब्दान् निर्ब्रूयात् । यदपि
च क्वचित् क्वचिदन्यशास्त्रे शब्दनिर्व्वचनम् ।
अतएव तदित्युपलक्ष्यम् । यथा शब्दलक्षणपरि-
ज्ञानं सर्व्वशास्त्रेषु व्याकरणात् एवं शब्दार्थनिर्व्व-
चनपरिज्ञानं निरुक्तात् । वस्तुमात्रमेव हि इत-
रेषु शास्त्रेषु स्वाभिमतबुद्धिविषयमेव किञ्चि-
च्चिन्त्यते ब्राह्मणमपि च विध्यर्थवादरूपमशेष-
मन्त्रार्थशेषभूतमेव । मन्त्रब्राह्मणार्थपरिज्ञानबद्ध-
श्चाध्यात्माधिदैवाधिभूतपरिज्ञानद्बारेण धर्म्मार्थ-
काममोक्षाख्योऽखिलपुरुषार्थः । न चानिरुक्तो
मन्त्रार्थो व्याख्यातव्य इति । तस्मादर्थपरिज्ञाना-
भिनिवेशादिदमेव प्रधानमित्युपपन्नम् । अथा-
स्यैवमखिलपुरुषार्थोपकारवृत्तिसमर्थस्य संग्रहः ।
तद्यथा, --
नामाख्यातोपसर्गनिपातलक्षणम् । भावविकार-
लक्षणम् । नामान्याख्यातजानि सर्व्वाणि च
यथोपन्यस्य पक्षप्रतिपक्षतो विचार्यावधारणम् ।
सर्व्वाण्याख्यातजानि कानिचिदेवानेक-धातु-
जान्यपीति मन्त्राणामर्थवत्त्वानर्थवत्त्वे विचार्य्य
शास्त्रारम्भप्रयोजनद्बारेणार्थवत्तावधारणम् ।
पदविभागपरिज्ञानप्रतिज्ञानबोधावलम्बिप्रदर्श-
नाय आदिमध्यान्तानेकदैवतलिङ्गसङ्कटेषु मन्त्रेषु
याज्ञिकपरिज्ञानद्वारेण देवतापरिज्ञानप्रतिज्ञा ।
अर्थज्ञप्रशंसा । अनर्थज्ञावधारणम् । वेदवेदाङ्ग-
व्यूहः । सप्रयोजननिघण्टुसमाम्नायविरचनम् ।
प्रकरणत्रयविभागेन नैघण्टुकप्रधानदेवताभि-
धानप्रविभागलक्षणम् । निर्व्वचनलक्षणद्वारेण
शब्दवृत्तिविषयोपदेशः । अर्थप्राधान्यात् लोपो-
पधाविकारवर्णलोपविपर्ययोपदेशेन सामर्थ्योप-
प्रदर्शनायादिमध्यान्तलोपोपधाविकारवर्णलोप-
विपययाद्यन्तवर्णव्यापत्तिवर्णोपजनोदाहरण-
चिन्ता । अन्तस्थान्तर्द्धातुनिमित्तेन सम्प्रसार्या-
सम्प्रसार्योभयप्रकृतिधातुनिर्व्वचनोपदेशः । भा-
षिकप्रायोवृत्तिभ्यो नैगमशब्दार्थप्रसिद्धिः । नैग-
मप्रायोवृत्तिभ्यो भाषिकशब्दार्थप्रसिद्धिः । देश-
व्यवस्थया शब्दरूपव्यपदेशः । तद्धितसमासनाम-
निर्व्वचनलक्षणम् । शिष्यलक्षणम् । विशेषेण
व्याख्यया तत्त्वपर्यायभेदसङ्ख्यासन्दिग्धोदाहरणा-
न्निर्व्वचनव्यवस्थया नामाख्यातोपसर्गनिपातानां
विभागेन नैघण्टुकप्रकरणानुक्रमणम् । अने-
कार्थानवगतसंस्कारानुक्रमणम् । परोक्षकृता-
ध्यात्मिकमन्त्रलक्षणम् । स्तुत्याशीःशपथाभि-
शापाभिख्यापरिदेवनानिन्दाप्रशंसादिभिर्मन्त्रा-
भिव्यक्तिहेतूपदेशः । निदानपरिज्ञानव्याख्या-
पनायानादिष्टदेवतोपपरीक्षणायाध्यात्मोपदेश-
प्रकृतिभूमत्वम् । इतरेतरजन्मत्वम् । स्थानत्रय-
भेदतः तिसृणामेकैकस्या माहाभाग्यकृतोऽनेक-
नामधेयप्रतिलम्भः । पृथगभिधानन्तूत्पत्तिसम्ब-
न्धाद्बा । देवतानामाकारचिन्तनम् । भक्तिसाह-
चर्यसंस्तवकर्म्मसूक्तभाक्त्वहविर्भाक्त्वव्यञ्जनभाक्त्वानि ।
पृथिव्यन्तरिक्षद्युस्थानदेवतानामभिधेयाभिधान-
व्युत्पत्तिप्राधान्यश्रुत्युदाहरणम् । तन्निर्व्वचन-
विचारोपपत्यवधारणानुक्रमेण व्याख्याय दैवत-
प्रकरणनिर्णयः । विद्यापारप्राप्त्युपायोपदेशः ।
मन्त्रार्थनिर्व्वचनद्वारेण देवताभिधाननिर्व्वचनफलं
देवताताद्भाव्यम् । इत्येष समासतो निरुक्त-
शास्त्रचिन्ताविषयः ॥” * ॥
“वर्णागमो वर्णविपर्य्ययश्च इत्यादिना निश्चये-
नोक्तं निरुक्तम् ।” इत्यमरटीकायां भरतः ॥
पदभञ्जनम् । यथा, --
“प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥”
इति हेमचन्द्रः ॥
कथिते, त्रि । यथा । “निरुक्ता प्रकृतिर्द्वेधा ।”
इति जगदीशः ॥

निरुद्धः, त्रि, (नि + रुध + क्तः ।) संरुद्धः । रोध-

विशिष्टः । इति अनिरुद्धशब्दटीकायां भरतः ॥
(यथा, देवीभागवते । ३ । २९ । १५ ।
“मया निरुद्धः पापात्मा पतितोऽहं मृधे पुनः ॥”)

निरुद्धप्रक(का)शः, पुं, मेढ्रजातक्षुद्ररोगविशेषः ।

तल्लक्षणमाह ।
“वातोपसृष्टे मेढ्रे तु चर्म्म संश्रयते मणिम् ।
मणिश्चर्म्मोपनद्धश्च मूत्रस्रोतो रुणद्धि च ॥
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ।
मूत्रं प्रवर्त्तते जन्तोर्म्मणिर्व्विव्रियते न च ॥
निरुद्धप्रकशं विन्द्यात् सरुजं वातसम्भवम् ।
निरुद्धप्रकाश इत्यस्य स्थाने निरुद्धप्रकशपद-
मार्षत्वात् ॥ * ॥
अथ तस्य चिकित्स्या ।
“निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम् ।
दारवीं वा जतुकृतां घृताक्तां संप्रवेशयेत् ॥
परिषिञ्चेद्बसां मज्जां शिशुमारवराहयोः ।
चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम् ॥
त्र्यहात् स्थूलतरां सम्यक् नाडीं गर्भे प्रवेशयेत् ।
स्रोतो विवर्द्धयेदेव स्निग्धमन्नञ्च भोजयेत् ॥
भित्त्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत् ॥”
इति भावप्रकाशः ॥

निरुद्योगः, त्रि, (निर्नास्ति उद्योगो यस्य ।)

निरुद्यमः । उद्योगाभावविशिष्टः । (यथा,
भागवते । ८ । ८ । २९ ।
“निःसत्त्वा लोलुपा राजन् ! निरुद्योगागत-
त्रपाः ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥”)
पृष्ठ २/८९०

निरुपद्रवः, त्रि, (निर्गत उपद्रवो यस्मादिति ।)

उत्पातरहितः । यथा, --
“जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।
सौम्यदृष्टिर्भवेद्राजा विकले च शुभं वदेत् ॥”
इति ज्योतिस्तत्त्वम् ॥

निरुपमः, त्रि, (निर्गता उपमा सादृश्यं यस्मात् ।)

उपमारहितः । अनुपमः । यथा, --
“गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा
पुरी ।”
इति प्रबोधचन्द्रोदयः ॥

निरुपेक्षः, त्रि, (निर्गता उपेक्षा यस्मात् ।) यद्वा

निर्नास्ति उपेक्षा यस्य सः । अनुपेक्षः ।
उपेक्षाशून्यः ॥

निरूढः, पुं, (नि + रुह + क्तः ।) निरूढलक्ष-

णाकः शब्दः । यथा, -- “पूर्ब्बस्वामिसम्बन्धाधीनं
तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढो
दायशब्दः ।” इति दायभागः ॥

निरूढलक्षणा, स्त्री, (निरूढा लक्षणा ।) शक्ति-

तुल्यलक्षणा । यथा,
“निरूढलक्षणाःकाश्चित् काश्चिन्नैव त्वशक्तितः ।”
इति काव्यप्रकाशटीकायां महेश्वरः ॥

निरूढा, स्त्री, (निरूढ + स्त्रियां टाप् ।) लक्षणा-

विशेषः । यथा । “काचित् लक्षतावच्छेदकी-
भूततत्तद्रूपेण पूर्ब्बपूर्ब्बं प्रत्यायकत्वात् निरूढा ।
यथा आरुण्यादिप्रकारेण तदाश्रयद्रव्यानुभाव-
कत्वादरुणादिपदस्य ।” इति शब्दशक्तिप्रका-
शिका ॥

निरूपणं, क्ली, (नि + रूप + णिच् + ल्युट् ।)

आलोकः । विचारः । निदर्शनम् । इति मेदिनी ।
णे, ९९ ॥ (यथा, महाभारते । ३ । ७१ । ३१ ।
“प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥”
निरूपयतीति । नि + रूप + णिच् + ल्युः ।
निरूपके, त्रि । यथा, मार्कण्डेये । १६ । ६९ ।
“एते देवा सहेन्द्रेण मामुपागम्य दुःखिताः ।
तद्बाक्यापास्तसत्कर्म्मदिननक्तं निरूपणाः ॥
याचन्तेऽहर्निशं संस्थां यथावदविखण्डिताम् ॥”)

निरूपितः, त्रि, (नि + रूप + णिच् + क्तः ।)

कृतनिरूपणः । नियुक्तः । इति श्रीधरस्वामी ॥
यथा, श्रीभागवते । १ । ५ । २३ ।
“निरूपितो बालक एव योगिनां
सुश्रूषणे प्रावृषि निर्विविक्षताम् ॥”

निरूहः, पुं, (निर् + ऊह शून्ये + घञ् ।) वस्ति-

भेदः । यथा, --
“वस्तिर्द्विधानुवासाख्यो निरूहश्चेतिसंज्ञितः ।
यः स्नेहैर्दीयते स स्यादनुवासननामकः ।
कषायक्षीरतैलैर्यो निरूहः स निगद्यते ॥”
इति सारकौमुदी ॥
अथ निरूहवस्तिकर्म्मविधिः ।
आत्रेय उवाच ।
“चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा
तथा वस्तिप्रतिकर्म्म कुर्य्यात् ।
नातिचोष्णे च काले च न शीते नच भोजिते ।
न निद्रादौ न मूत्रार्त्ते विष्ठार्त्ते नच वेदभाक् ॥
वस्तिकर्म्मनिरूहञ्च कारयेत्तं निरस्य च ।
आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य
नातिशिथिलशय्यायां शाययित्वा वामाङ्गे वाम-
पादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घो-
परि संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडीं
सुधीः सञ्चारयेत् । ततः शनैः शनैः वस्तिं
निष्पीड्य द्बिपलपरिमिततैलेन निरूहं कुर्य्यात् ।
निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वोर्ड्घी-
कृत्य च पश्चात् सङ्कोच्य पाणिभिः पञ्चवारान्
स्फिक्पिण्डान् त्रोटयेत् । ततः स्वस्थं कृत्वा
क्षणेनाप्यामाशयं मलस्थानं बोधयति । वस्त्यु-
दरवातान् दोषान् निवारयति । पण्डितास्तं
वस्तिनिरूहं तद्वस्तिकर्म्म च विदुः ।” इति
हारीतोत्तरे सूत्रस्थाने तृतीयोऽध्यायः ॥
“नरो विरिक्तस्तु निरूहदानं
विवर्ज्जयेत् सप्तदिनान्यवश्यम् ।
शुद्धो विरेकेण निरूहदानं
तद्ध्यस्य शून्यं विकृषेच्छरीरम् ॥”
“विश्वक्स्थितं दोषचयं निरस्य
सर्व्वान् विकारान् शमयेन्निरूहः ।
देहे निरूहेण विशुद्धमार्गे
सस्नेहनं वर्णवलप्रदश्च ॥”
इति सिद्धिस्थाने प्रथमेऽध्याये ॥
“ससैन्धवक्षौद्रयुतः सतैलो
देयो निरूहो बलवर्णकारी ।
आनाहपार्श्वामययोनिदोषान्
गुल्मानुदावर्त्तरुजञ्च हन्यात् ॥
यष्ट्याह्वमूलाष्टपलेन सिद्धं
पयः शताह्वाफलपिप्पलीभिः ।
युक्तं ससर्पिर्मधुवातरक्तः
वैस्वर्य्यवीसर्पहितो निरूहः ॥”
इति सिद्धिस्थाने तृतीयेऽध्याये चरकेणोक्तम् ॥)
ऊहशून्यः । निश्चितम् । इति मेदिनी । हे,
१८ ॥ निग्रहः । तर्कः । इति हेमचन्द्रः ॥

निरृतिः, स्त्री, (निर्नियता ऋतिर्घृणा अशुभं वा

यत्र ।) अलक्ष्मीः । इत्यमरः । १ । ८ । २ ॥
(यथा, महाभारते । १ । ८७ । ९ ।
“अरुन्तुदं परुषं तीक्ष्णवाचं
वाक्कण्टकैर्व्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानां
सुखे निबद्धां निरृतिं वहन्तम् ॥”)
अस्या उपाख्यानं यथा, --
“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।
श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः ॥
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।
तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥
लक्ष्मीरुवाच ।
असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते ।
तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ! ॥
विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः ।
तस्माद्धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ! ॥
सूत उवाच ।
इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः ।
उद्दालकाय मुनये मुदीर्घतपसे तदा ।
आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ॥
स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् ।
स्रवदारक्तनयनां रूक्षपिङ्गशिरोरुहाम् ॥
स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ।
वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ॥
होमधूपसुगन्धाढ्यं वेदघोषेण नादितम् ।
आश्रमं तं विलोक्याथ व्यथिता साब्रवीदिदम् ॥
ज्येष्ठोवाच ।
नहि वासानुरूपोऽयं वेदध्वनियुतो मम ।
नात्रागमिष्ये भो ब्रह्मन् ! नयस्वान्यत्र मां ध्रुवम् ॥
उद्दालक उवाच ।
कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।
तव योग्या च वसतिः का भवेत् तद्वदस्व माम् ॥
ज्येष्ठोवाच ।
वेदध्वनिर्भवेद्यस्मिन्नतिथीनाञ्च पूजनम् ।
यज्ञदानादिकं यत्र नैव तत्र वसाम्यहम् ॥
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।
पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ॥
दानशौचे न विद्येते परद्रव्यापहारिणः ।
परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।
निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम् ॥
सूत उवाच ।
इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् ।
उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ॥
उद्दालक उवाच ।
अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि श्रम्यतां क्षणम् ।
आश्रमस्थानमालोक्य यावदायाम्यहं पुनः ॥
सूत उवाच ।
इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।
प्रतीक्षन्ती चिरं तत्र यदा तं न ददर्श सा ॥
तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता ।
तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ॥
तदा विज्ञापयामास विष्णुमुद्बिग्नमानसा ॥
लक्ष्मीरुवाच ।
स्वामिन्मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता ।
तामाश्वासयितुं याहि कृपालो ! यद्यहं प्रिया ॥
सूत उवाच ।
लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।
आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् ॥
विष्णुरुवाच ।
अश्वत्थवृक्षमासाद्य सदालक्ष्मीः स्थिरा भव ।
ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।
अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥
प्रत्यब्दमर्च्चयिष्यन्ति तां ज्येष्ठां गृहधर्म्मिणः ।
तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥”
इति पाद्मोत्तरखण्डे १६१ अध्यायः ॥
पृष्ठ २/८९१
(पापदेवता । यथा, ऋग्वेदे । १० । १६५ । १ ।
“दूतो निरृत्या इदमाजगाम ।”
“निरृत्याः पापदेवताया दूतोऽनुचरः ।” इति
तद्भाष्ये सायनः ॥)

निरृतिः, त्रि, (निर्गता ऋतिरशुभं यस्मात् ।)

निरुपद्रवः । इति धरणिः ॥ दिक्पालविशेषे,
पुं । इति मेदिनी । ते, ११६ ॥ स तु नैरृत-
कोणाधिपतिः । तस्य विवरणं यथा, --
“पूर्ब्बस्यान्तु सुकान्तस्य रक्षकूटाह्वयो गिरिः ।
यत्रास्ते सततं देवो निरृती राक्षसेश्वरः ॥
खड्गहस्तो महाकायो वामे चर्म्मधरस्तथा ।
जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः ॥
द्विभुजः कृष्णवस्त्रस्तु गर्द्दभोपरिसंस्थितः ।
प्रान्तोपान्तौ विन्दुसर्गसहितौ वादिरेव च ॥
नैरृत्यं कथितं बीजं तेन तं परिपूजयेत् ।
रक्षकूटं समारुह्य निरृतिं राक्षसेश्वरम् ॥
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् ।
न तस्य राक्षसेभ्योऽस्ति भयं वापि कदात्तन ॥
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः ।
तं दृष्ट्वा पुरुषं राजन् ! सर्व्वदैव प्रबिभ्यति ॥”
इति कालिकापुराणे ८१ अध्यायः ॥
(राक्षसः । यथा, ऋग्वेदे । ८ । २४ । २४ ।
“वेत्था हि निरृतीनां वज्रहस्तपरिवृजम् ॥”
मृत्युः । यथा, भागवते । १ । १९ । ४ ।
“स चिन्तयन्नित्थमथाशृणोद्यथा
मुनेः सुतोक्तो निरृ तिस्तक्षकाख्यः ॥”)

निरृथः, पुं, (निरन्तरं ऋच्छतीति । निर् + ऋ

गतौ + “अर्त्तेर्निरि ।” उणां २ । ८ । इति
थक् ।) सामवेदः । इत्युणादिकोषः । २ । १०८ ॥
(हिंसा । यथा, ऋग्वेदे । ७ । १०४ । १४ ।
“किमस्मभ्यं जातवेदो हृणीषे
द्रोघवाचस्ते निरृथं सचन्ताम् ।”
“द्रोघवाचोऽनृचवाचो राक्षसास्ते तव निरृ-
थम् । निःपूर्ब्बोऽर्त्तिर्हिंसायां वर्त्तते । निरृथं
निःशेषेणार्त्तिं हिंसां सचन्तां सेवन्ताम् ।” इति
तद्भाष्ये सायनः ॥)

निरोद्धव्यं, त्रि, (नि + रुध + तव्य ।) रक्षणीयम् ।

(यथा, महाभारते । १२ । ८६ । १५ ।
“आशयाश्चोपदानाश्च प्रभूतसलिलाकराः ।
निरोद्धव्याः सदाराज्ञा क्षीरिणश्च महीरुहाः ॥”

निरोधः, पुं, (नि + रुध + घञ् ।) नाशः । (यथा,

हरिवंशे । २ । ५४ ।
“उत्पत्तिश्च निरोधश्च नित्यं भूतेषु पार्थिव ! ।
ऋषयोऽत्र न मुह्यन्ति विद्बांसश्चैव ये नराः ॥”)
रोधः । इति मेदिनी । धे, ३२ ॥ (यथा, पञ्च-
तन्त्रे । २ । १६७ ।
“निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि ।
आच्छादिते वरौ मेघैराच्छन्नाः स्युर्गभस्तयः ॥”)
निग्रहः । इति हेमचन्द्रः । ६ । १४४ ॥ (यथा,
मनुः । ६ । ६० ।
“इन्द्रियाणां निरोधेन रागद्बेषक्षयेण च ।
अहिंसया च भूतानाममृतत्वाय कल्पते ॥”)

निर्गः, पुं, (निरन्तरं गच्छत्यत्रेति । निर् + गम +

“अन्यत्रापि दृश्यते इति वक्तव्यम् ।” इति
डः ।) देशः । इति हेमचन्द्रः । ४ । १३ ॥

निर्गतः, त्रि, निःशेषेण गतः । बहिःप्राप्तः । यथा,

मार्कण्डेये । ८२ । १० ।
“निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥”

निर्गन्धं, त्रि, (निर्नास्ति गन्धो यत्र ।) गन्ध-

शून्यम् । यथा, चाणक्ये । ७ ।
“रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥”

निर्गन्धनं, क्ली, (निर् + गन्ध अर्द्दने + भावे ल्युट् ।)

निर्ग्रन्थनम् । मारणम् । इत्यमरटीकायां स्वामी ।

निर्गन्धपुष्पी, स्त्री, (निर्गन्धं गन्धशून्यं पुष्पं यस्याः ।

ङीष् ।) शाल्मलिवृक्षः । इति शब्दचन्द्रिका ॥
(शाल्मलिशब्देऽस्या विवृतिर्ज्ञातव्या ॥)

निर्गुणः, पुं, (निर्गता गुणा यस्मात् ।) सत्त्वरज-

स्तमोगुणातीतः । परमेश्वरः । यथा, --
“साकारञ्च निराकारं सगुणं निर्गुणं प्रभुम् ।
सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे १३ अध्यायः ॥
“गुणभृन्निर्गुणो महान् ।” इति महाभारते । १३ ।
१४९ । १०३ ॥ विद्यादिशून्ये, त्रि, । यथा, --
“सगुणो निर्गुणो वापि सहायो बलवत्तरः ।
तुषेणापि परिभ्रष्टस्तण्डुलो नाङ्कुरायते ॥”
इत्युद्भटः ॥
(ज्यारहिते । यथा, निर्गुणं धनुः ॥)

निर्गुण्ठी, स्त्री, (निर्गता गुण्ठात् गुण्डनात् ।

गौरादित्वात् ङीष् ।) निर्गुण्डी । इत्यमर-
टीकायां मधुः । २ । ४ । ६८ ॥

निर्गुण्डी, स्त्री, (निर्गतं गुण्डं वेष्टनं यस्याः । ङीष् ।)

नीलशेफालिका । तत्पर्य्यायः । शेफालिका २
शेफाली ३ नीलिका ४ मलिका ५ सुवहा ६
रजनीहासा ७ निशिपुष्पिका ८ । इति शब्द-
रत्नावली ॥ वृक्षविशेषः । निसिन्दा इति भाषा ॥
तत्पर्य्यायः । सिन्दुकः २ सिन्दुवारः ३ इन्द्र-
सुरिषः ४ इन्द्राणिका ५ । इत्यमरः । २ । ४ ।
६८ ॥ सिन्धुकः ६ सिन्धुवारः ७ इन्द्रसुरसः ८
निर्गुण्ठी ९ । इति भरतः ॥ इन्द्राणी १० । इति
साञ्जः ॥ पौलोमी ११ शक्राणी १२ कास-
नाशिनी १३ । इति रत्नकोषः ॥ विसुन्धकः १४
सिन्धकम् १५ सुरसः १६ सिन्धुवारितः १७
सुरसा १८ सिन्धुवारकः १९ । इति च शब्द-
रत्नावली ॥ करहाटः । इति विश्वः । ड, ३६ ॥

निर्गूढः, पुं, (निर्निश्चयेन गुह्यते संव्रियते आत्मा

अत्रेति । निर् + गुह + अधिकरणे क्तः ।) वृक्ष-
कोटरम् । इति शब्दरत्नावली ॥ (संवृते त्रि ॥)

निर्ग्रन्थः, पुं, (ग्रन्थेभ्यः श्रुत्यादिनियमभ्या

निर्गतः ।) नग्नकः । निस्वः । बालिशः । इति
मेदिनी । थे, २० ॥ मुनिः । इति हेमचन्द्रः ॥
१ । ७६ ॥ द्यूतकारः । इति जटाधरः ॥ त्रि,
ग्रन्थेभ्यो निर्गतः । निवृत्तहृदयग्रन्थिः । यथा,
भागवते । १ । ७ । १० ।
“आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ॥”
(“निर्ग्रन्थाः ग्रन्थेभ्यो निर्गताः । तदुक्तंगीतासु ।
‘यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥’
इति । “यद्वा, ग्रन्थिरेव ग्रन्थः निवृत्तः क्रोधा-
हङ्काररूपो ग्रन्थिर्येषां ते निवृत्तहृदयग्रन्थय
इत्यर्थः ।” इति तट्टीकायां स्वामी ॥)

निर्ग्रन्थकः, पुं, (निर्ग्रन्थ एव । स्वार्थे कन् ।)

क्षपणः । निष्फलः । अपरिच्छदः । इति मेदिनी ॥
के, १९५ ॥

निर्ग्रन्थनं, क्ली, (निर् + ग्रथि कौटिल्ये + भावे

ल्युट् ।) मारणम् । इत्यमरः । २ । ८ । ११३ ॥

निर्ग्रन्थिकः, पुं, (निर्गतो ग्रन्थिर्हृदयग्रन्थिर्यस्य ।

कप् ।) क्षपणः । निपुणे हीने च त्रि । इति
शब्दरत्नावली ॥

निर्घटं, क्ली, बहुमानुषसङ्कीर्णहट्टम् । इति हारा-

वली । ७० ॥ करशून्यहट्टम् । इति शब्दरत्ना-
वली ॥ धटशून्यञ्च ॥ (निर्गतो घटो यस्मादिति
विग्रहे । घटशून्यदेशादौ, त्रि ॥)

निर्घण्टः, पुं, (निर् + घण्ट दीप्तौ + घञ् ।) निर्घ-

ण्टनम् । निघण्टुः । गणसंग्रहः । ग्रन्थानां सूचीति
ख्यातः । यथा, --
“धन्वन्तरीयमदनादिहलायुधादीन्
विश्वप्रकाश्यमरकोषमशेषराजान् ।
आलोक्य लोकविदितांश्च विचिन्त्य शब्दान्
द्रव्याभिधानगणसंग्रह एष सृष्टः ॥
निर्द्दशलक्षणपरीक्षणनिर्णयेन
नानाविधौषधविचारपरायणो यः ।
सोऽधीत्य यत् सकलमेनमवैति सर्व्वं
तस्मादयं जगति भाति निघण्टुराजः ॥”
इति राजनिर्घण्टः ॥

निर्घातः, पुं, (निर् + हन + घञ् ।) वाय्वभिहत-

वायुप्रपतनजन्यशब्दविशेषः । यथा, --
“वायुनाभिहते वायौ गगनाच्च पतत्यधः ।
प्रचण्डघोरनिर्घोषो निर्घात इति कथ्यते ॥”
इति शब्दमाला ॥
अपि च ।
“यदान्तरीक्षे बलवान् मारुतो मरुताहतः ।
पतत्यधः स निर्घातो जायते वायुसम्भवः ॥”
इति ज्योतिषम् ॥
(एतस्य लक्षणादिकं यथा, बृहत्संहितायां
३९ अध्याये ।
“पवनः पवनाभिहतो गगनादवनौ यदा समा-
पतति ।
भवति तदा निर्घातः स च पापो दीप्तविहग-
रुतः ॥
अर्कोदयेऽधिकरणिकनृपधनियोधाङ्गना-
बणिग्वेश्याः ।
आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौरांश्च ॥
आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीड-
यति ।
वैश्वजलदांस्तृतीये चौरान् प्रहरे चतुर्थे च ॥
पृष्ठ २/८९२
अस्तं याते नीचान् प्रथमे यामे निहन्ति
शस्यानि ।
रात्रौ द्वितीययामे पिशाचमङ्घान्निपीडयति ॥
तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे
च ।
भैरवजर्जरशब्दे याति यतस्तां दिशं हन्ति ॥”)

निर्घोषः, पुं, (निर् + घुष शब्दे + घञ् ।) शब्द-

मात्रम् । इत्यमरः । १ । ६ । २३ ॥ (यथा,
रघुः । १ । ३६ ।
“स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ ॥”
निर्नास्ति घोषो यत्रेति । शब्दशून्ये, त्रि । यथा,
महाभारते । १४ । १९ । ३६ ।
“संनियम्येन्द्रियग्रामं निर्घोषे निर्ज्जने वगे ।
कायमभ्यन्तरं कृत्स्नमेवाग्रः परिचिन्तयेत् ॥”)

निर्ज्जनः, त्रि, (निर्गतो जनो यस्मात् ।) जन-

शून्यस्थानादिः । विजनः । इति विविक्तादिशब्द-
टीकायां सारसुन्दरी ॥ (यथा, देवीभाग-
वते । २ । ६ । ५९ ।
“एकस्मिन् समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्ज्जने ।
आश्रमे चातिकामार्त्तो जग्राहागतवैशसः ॥”)

निर्ज्जरः, पुं, (जराया निष्क्रान्तः । निरादयः

झान्ताद्यर्थे पञ्चम्या इति सभासः ।) देवः ।
इत्यमरः । १ । १ । ७ ॥ (यथा, देवीभाग-
वते । ५ । ८ । १८ ।
“विशन्त निर्ज्जराः सर्व्वे कुशलं कथयन्तु वः ॥”)
जरारहिते, त्रि । इति मेदिनी । रे, १७३ ॥
सुधायाम्, क्ली । इति शब्दरत्नावली ॥

निर्ज्जरसर्षपः, पुं, (निर्ज्जरप्रियः सर्षपः । शाक-

यार्थिववत् समासः ।) देवसषपवृक्षः । इति
राजनिर्घण्टः ॥

निर्ज्जरा, स्त्री, (निर्ज्जर + टाप् ।) गुडूची । ताल-

पर्णी । इति मेदिनी । रे, १७३ ॥

निर्ज्जलः, त्रि, (निर्गतं जलं यस्मात् ।) जलशून्य-

देशादिः । इति मरुशब्दटीकायां भरतः । २ ।
१ । ५ ॥ यदक्तम् ।
सम्पाप्ता दशमध्वजाद्यगतिना संमूर्च्छिता
निर्ज्जले
तुर्य्यद्बादशवद्द्वितीयमतिमन्नेकादशाभस्तनी ।
सा षष्ठी नृपपञ्चमस्य नवमभ्रूः सप्तमीवर्ज्जिता
प्राप्नोत्यष्टमवेदनां प्रथम हे तस्यास्तृतीयो भव ॥”
इति वल्लालसेनः ॥

निर्ज्जलैकादशी, स्त्री, (निर्ज्जला एकादशी ।)

ज्यैष्ठमासीयशुक्लैकादशी । यथा, पाद्मे ।
श्रीभीमसेन उवाच ।
“पितामह ! ह्यशक्तोऽहमुपवासे करोमि किम् ।
अतो बहुफलं ब्रूहि व्रतमेकमपि प्रभो ! ॥
श्रीव्यास उवाच ।
वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी हि या ।
ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्ज्जिता ॥
स्नाने चाचमने चैव वर्ज्जयित्वोदकं बुधः ।
उपयुञ्जीत नैवान्यद्व्रतभङ्गोऽन्यथा भवेत् ॥
उद्याददयं यावद्वर्ज्जयित्वा जलं बुधः ।
अप्रयत्नादवाप्नोति द्वादशद्वादशीफलम् ॥
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् ।
जलं सुवर्णं दत्त्वा तु द्विजातिभ्यो यथाविधि ॥
भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी ।
एवं कृते तु यत् पुण्यं भीमसेन ! शृणुष्व तत् ॥
संवत्सरस्य या मध्ये एकादश्यो भवन्ति हि ।
तासां फलमवाप्नोति पुत्त्र ! मे नात्र संशयः ॥
इति मां केशवः प्राह शङ्खचक्रगदाधरः ॥”
किञ्च ।
“धनधान्यवहा पुण्या पुत्त्रभाग्यसुखप्रदा ।
उपोषिता नरव्याघ्र ! इति सत्यं ब्रवीमि ते ॥
यमदूता महाकायाः करालाः कामरूपिणः ।
दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम् ॥
पीताम्बरधराः शङ्खचक्रहस्ता मनोजवाः ।
अन्तकाले नयन्त्येनं वैष्णवा वैष्णवीं पुरीम् ॥”
किञ्च ।
“तोयस्य नियमं यस्तु कुरुते वैष्णवोत्तमः ।
पलकोटिसुवर्णस्य यामे यामे स पुण्यभाक् ॥
स्नाग दानं जपं होमं यदस्यां कुरुते नरः ।
तत् सर्व्वञ्चाक्षयं प्राप्तमेतत् कृष्णस्य भाषितम् ॥
किंवापरेण धर्म्मेण निर्ज्जलैकादशीं नृप ! ।
उपोष्य सम्यग्विधिना वैष्णवं पदमाप्नुयात् ॥”
किञ्च ।
“यैः कृता भीमसेनैषा निर्ज्जलैकादशी शुभा ।
स्वकुलं तारितं सर्व्वं कुलातीतं तथा शतम् ॥
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरे ॥”
किञ्च ।
“आत्मद्रोहः कृतस्तस्तु यैरेषा नह्युपोषिता ।
पापात्मानो दुराचारा दुष्टास्ते नात्र संशयः ॥”
किञ्च ।
“यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्त्तयेत् ।
उभौ तौ स्वर्गमाप्तौ हि नात्र कार्य्या विचा-
रणा ॥”
अथ निर्ज्जलवतविधिः । यथा, --
“यथाप्राग्लिखितं कृत्वा सङ्कल्पनियमं व्रते ।
जलमादाय गृह्णीयान्मन्त्रेणानेन वैष्णवः ॥
एकादश्यां निराहारो वर्ज्जयिष्यामि वै जलम् ।
केशवप्रीणनार्थाय प्रत्यन्तदमनेन च ॥” इति ॥
“वर्ज्जयेच्चाम्ब्वहोरात्रं विना चाचमनार्थकम् ।
विना च प्राशनं पादोदकस्यात्यन्तपावनम् ॥
एकादश्यां निशायान्तु नित्यपूजां विधाय हि ।
हैमीं त्रैविक्रमीं मूर्त्तिं स्नापयेत् पयआदिभिः ॥
वस्त्रादिकं समर्प्याथाभ्यर्च्च्य गन्धादिभिश्च ताम् ।
प्रणम्य जागरं कुर्य्यात् तदग्रे नर्त्तनादिना ॥
प्रातःस्नानादि निर्व्वत्य तं त्रिविक्रममर्च्चयेत् ।
शक्त्याम्बुकुम्भान् विप्रेभ्यो दद्यात् गन्धाद्यल-
ङ्कृतान् ॥”
तत्र मन्त्रः ।
“देवदेव हृषीकेश संसारार्णवतारक ! ।
जलकुम्भप्रदानेन यास्यामि परमाङ्गतिमिति ॥
दद्याच्च कनकं छत्रं वस्त्रयुग्ममुपानहौ ।
जलपात्राणि दिव्यानि विभवे सति वैष्णवः ॥
शक्त्या विप्रान् भोजयित्वा पीत्वा भ्रातृकरा-
ज्जलम् ।
स्वयं वानीय मौनी सन् भुञ्जीत सह बन्धुभिः ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

निर्ज्जितः, त्रि, (निर् + जि जये + क्तः ।) प्राप्त-

पराजयः । तत्पर्य्यायः । पराजितः २ परा-
भूतः ३ विजितः ४ जितः ५ । इति शब्दरत्ना-
वली ॥ वशीकृतः । यथा, --
“ध्यायतश्चरणाम्भोजं भावनिर्ज्जितचेतसा ।”
इति श्रीभागवते । १ । ६ । अध्यायटीकायां स्यामी ॥

निर्ज्जितेन्द्रयग्रामः, त्रि, (निर्ज्जितः पराजित

इन्द्रियग्राम इन्द्रियसमूहो येन ।) यतिः । इत्य-
मरः । २ । ७ । ४४ ॥

निर्ज्जीवः, त्रि, (निर्गतो जीवो जीवात्मा यस्मात् ।)

जीवात्मरहितः । प्राणिप्रून्यः । यथा, --
“चिता चिन्ता द्बयोर्म्मध्ये चिन्ता एव गरीयसी ।
चिता दहति निर्ज्जीवं चिन्दा दहति जीवितम् ॥”
इति प्राञ्चः ॥

निर्झरः, पुं, (निर्झृणाति जीर्णीभवति उच्च-

स्थानपतनादिति । निर् + झॄ + अच् ।) पर्व्वता-
वतीर्णजलप्रवाहः । इति भरतः ॥ रुत्वा
अन्यथा वा गिरौ जलप्रवाहः । इति मधुः ॥
पर्व्वताद्वेगेन पतज्जलं झोरा इति ख्यातम् ।
इति कोक्कटः ॥ तत्पर्य्यायः । झरः २ । इत्य-
मरः । २ । ३ । ५ ॥ निर्झरी ३ । इति शब्दरत्ना-
वली ॥ (यथा, महाभारते । ३ । ६४ । ८ ।
“सरितो निर्झरांश्चैव ददर्शाद्भुतदर्शनान् ॥”)
तज्जलगुणाः । लघुत्वम् । पय्यत्वम् । दीपन-
त्वम् । कफनाशित्वञ्च । इति राजवध्मभः ॥ * ॥
(यथा च ।
“शैलसानुसवद्वारि प्रवाहे निर्झरो झरः ।
स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम् ॥
नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु ।
मधुरं कटुपाकञ्च वातं स्यादतिपित्तलम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
सूर्य्यघोटकः । तुपानलः । इति मेदिनी । रे, १७ ॥

निर्झरी, स्त्री, (निर्झृणाति उच्चस्थानपातात्

जीर्णीभवतीति । निर् + झॄ + अन्त् । गौरादि-
त्वात् ङीष् ।) निर्झरः । इति शब्दरत्नावली ॥
(निर्झर उत्पत्तिकारणत्वेनास्त्यस्या इति । अच् ।
ङीष् ।) नदी । यथा, --
“जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरीविराजमानर्द्धनि ।
धगद्धुगद्धगज् ज्वत्रल्ललाटपट्टपावके
कशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥”
इति रावणकृतशिवस्तोत्रम् ॥

निर्झरी, [न्] पुं (निर्झरोऽस्त्यस्येति । निर्झर

+ इनिः ।) पर्व्वतः । इति त्रिकाण्डशेषः ॥

निर्झरिणी, स्त्री, (निर्झर उत्पत्तिकारणत्वेना-

स्त्यस्या इति । इनिः । ङीप् ।) नदी । इति
त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे ।
१७ । ७ ।
पृष्ठ २/८९३
“सोऽपि तां वीक्ष्य लावण्यरसनिर्झरिणीं नृपः ।
यद्र प्राप परिष्वङ्गं तृषाक्रान्तो मुमूर्च्छ तत् ॥”)

निर्णयः, पुं, (निर्णयनमिति । निर् + नी + “एरच् ।”

३ । ३ । ५६ । इति भावे अच् ।) अवधार-
णम् । तत्पर्य्यायः । निश्चयः २ । इत्यमरः ।
१ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति
शब्दरत्नावली ॥ (यथा, मनुः । १२ । २ ।
“स तानुवाच धर्म्मात्मा महर्षीन् मानवो भृगुः ।
अस्य सर्व्वस्य शृणुत कर्म्मयोगस्य निर्णयम् ॥”)
विचारः । तत्पर्य्यायः । तर्कः २ गुञ्जा ३ चर्च्चा ४ ।
इति यिकाण्डशेषः ॥ विरोधपरिहारः । इति
मिताक्षरा ॥ चतुष्पादव्यवहारान्तर्गतशेषपादः ।
फय्सला इति आरवीयभाषा ॥ डिक्री इति
इङ्गरेजीयभाषा ॥ तद्बिवरणं यथा । “अथ
निर्णयः । तत्र नारदः ।
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी
भवेत् ।
अन्धथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥
स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् ।
क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥
सभ्यैरवधृतः पश्चात् राज्ञा शास्यः स शास्त्रतः ॥’
यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप-
लक्षणम् । साक्षिलिखितभुक्तिशपथानां मध्ये-
ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति-
पादकं स एव जयी अन्यथा पराजित इति
प्रत्येतव्यम् । स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत-
स्वपराजयः । स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या-
दिना पराजितत्वेनावधृतः । क्रियावसन्नः
साक्षादिना प्राप्तपराजयः । परमनन्तरम् ।
सभ्यावधारणं सभासदां मिलितानामयं परा-
जितः इति निर्णयं अर्हेत । स शास्त्रविधिना
शास्यः ॥ * ॥ निर्णयस्य फलमाह बृहस्पतिः ।
‘प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् ।
जयपत्रस्य चादानात् जयी लोके निगद्यते ॥’
जयपत्रस्य लेखनप्रकारमाह स एव ।
‘यद्वृत्तं व्यवहारेषु पूर्ब्बपक्षोत्तरादिकम् ।
क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥
पूर्ब्बोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।
प्रदद्याज्जयिने पत्रं जयप्रत्रं तदुप्यते ॥’
कात्यायनः ।
‘अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा ।
निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥
एतद्यथाक्षरं लेख्यं यथापूर्ब्बं निवेशयेत् ।
सभासदश्च ये तत्र घर्म्मशास्त्रविदस्तथा ॥’
तवश्च भारोत्तरे क्रिया च पत्रसाक्षादिकं
निर्णयो जयपराजयावधारणं निर्णयकालाव-
स्थितमध्यस्थाश्च इत्यादिकं सर्व्वं लेखनीयं निरू-
पणस्य सन्यक्त्वप्रदर्शनार्थम् । तथाहि भाषो-
त्रलेस्वनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान-
निषेधार्थम् । बहि न गृहीतमिति मिथ्योत्तरेण
पराजितस्य पुनः परिशोधितं मयेति प्रत्यव-
स्थानं सम्भवति । प्रमाणलेखनन्तु पुनः प्रमाणा-
न्तरोपन्यासनिरासार्थम् । तदाह कात्यायनः ।
‘क्रियां बलवतीं त्यक्त्वा दुर्ब्बलां योऽवलम्बते ।
स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात् क्रियाम् ॥
निर्णीते व्यवहारे तु प्रमाणमफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्ब्बमावेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णीतव्यवहाराणां प्रमाणमफलन्तथा ॥’
निर्णयोत्तरकृन्यमाह मनुः ।
‘अर्थे त्वमन्यमानन्तु कारणेन विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः ॥’
अमन्यमानं अपलपन्तम् । कारणेन साक्ष्यादि-
प्रमाणेन । याज्ञवल्क्यः ।
‘ज्ञात्वापराधं देशञ्च कालं बलमयापि वा ।
वयः कर्म्म च वित्तञ्च दण्डं दण्ड्येषु दापयेत् ॥’ * ॥
मनुः ।
‘तीरितं चानुशिष्टञ्च यत्र क्वचन सम्भवेत् ।
कृतं तद्धर्म्मतो विद्यात् न तद्भूयो निवर्त्तयेत् ॥’
अनुशिष्टं साक्ष्यादिनिर्णीतम् । अतएव तीरितं
प्राड्विवाकादिभिः समापितम् । तद्बिवादपदं
पुननं निवर्त्तयेदित्यर्थः ॥ यत्र तु तीरितानुशिष्ट-
योरप्यधर्म्मकृतत्वम्मत्वा पराजयी पुनर्द्विगुण-
दण्डमङ्गीकृत्य प्रत्यवतिष्ठते तत्र पुनर्न्यायदर्शन-
माह नारदः ।
‘तीरितं चानुशिष्टञ्च यो मन्येत विधर्म्मतः ।
द्विगुणं दण्डमादाय तत् कार्य्यं पुनरुद्धरेत् ॥’
असद्बिचारे तु विचारान्तरमाह स एव ।
‘असाक्षिकन्तु यद्दृष्टं विमार्गेण च तीरितम् ।
असम्मतमतैर्द्दृष्टं पुनर्द्दर्शनमर्हति ॥’
असाक्षिकमित्यप्रमाणोपलक्षणम् ॥ * ॥
याज्ञवल्क्यः ।
‘दुर्द्दृष्टांस्तु पुनर्द्दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् ॥
साक्षिसभ्यावसव्नागां दूषणे दर्शनं पुनः ।
स्वचर्य्यावसितानान्तु नास्ति पौनर्भवो विधिः ॥’
साक्षिवचनेन सभ्यावधारितेन च प्राप्तावसादानां
दोवदर्शने पुनर्न्यायदर्शनम् । स्वव्यापारेण विरुद्ध-
भाषादिना प्राप्तावसादानान्तु नास्ति पुनर्न्यायः ॥
बृहस्पतिरपि ।
‘पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥’
मनुः ।
‘बलाद्दत्तं बलाद्भुक्तं बलाद्वा लिखितञ्च यत् ।
सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥’
याज्ञवल्क्यः ।
‘बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्त्तयेत् ।
स्त्रीनक्तमन्तरागारबहिर्ग्रामकृतांस्तथा ॥
मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः ।
असम्बन्धकृतश्चैव व्यवहारो न सिध्यति ॥’
उपाधिश्छलमिति शूलपाणिः । उपाधिर्भयादि-
रिति विज्ञानेश्वरः । तन्मते भीतादियोजितः
इत्युक्तवचनेनन पौनरुक्तम् । बहिर्ग्रामः बहि-
र्द्देशः । मत्तो मद्यादिना । उन्मत्तो वाता-
दिना । व्यसनी द्यूताद्यासक्तः । असम्बन्धो वादि-
तन्नियुक्तव्यतिरिक्त उदासीनः । आदिपदाद-
स्वतन्धदासपुत्त्रादेर्ग्रहणम् । तथा च नारदः ।
‘स्वतन्त्रोऽपि हि यत्कार्य्यं कुर्य्याच्चाप्रकृतिं गतः ।
तदप्यकृतमेवाहुरस्वातन्त्र्यस्य हेतुतः ॥
कामक्रोधाभिभूता ये भयव्यसनपीडिताः ।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥
तथा दासकृतं कार्य्यमकृतं परिचक्षते ।
अन्यत्र स्वामिसन्देशान्न दासः प्रभुरातनः ॥
पुत्त्रेण च कृतं कार्य्यं यत् स्यादच्छन्दतः पितुः ।
तदप्यकृतमेवाहुर्दासपुत्त्रौ च तौ समौ ॥’
एतच्च कुटुम्बभरणातिरिक्तविषयम् ।
‘कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् ॥
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥’
इति मनुवचनात् ।
कुटुम्बमवश्यं भरणीयम् । अध्यधीनः परतन्त्रः
पुत्त्रदासादिः । व्यवहारमृणादिकम् । ज्यायान्
स्वतन्त्रः । न विचालयेत् अनुमन्येतेत्यर्थः । तथा
च नारदः ।
‘स्वातन्त्र्यन्तु स्मृतं ज्येष्ठे ज्यैष्ठं गुणवयःकृतम् ।
अस्वतन्त्राः प्रजाः सर्व्वाः स्वतन्त्रः पृथिवीपतिः ॥
अस्वतन्त्रः स्मृतः शिष्य आचार्य्यस्य स्वतन्त्रता ।
अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रा दासाः परि-
ग्रहाः ॥
स्वतन्त्रस्तत्र तु गृही यस्य तत् स्यात् क्रमागतम् ।
गर्भस्थैः सदृशो ज्ञेयः अष्टमाद्बत्सराच्छिशुः ॥
बाल आषोडशाद्बर्षात् पौगण्डोऽपि निगद्यते ।
परतो व्यवहारज्ञः स्वतन्त्र पितरावृते ॥
त्रीवतोर्न स्वतन्त्रः स्याज्जरयापि समन्वितः ।
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥
अभावे बीजिनो माता तदभावे च पूर्ब्बजः ॥’
परिग्रहाः अनुजीविप्रभृतयः । तथा च वृह-
स्पतिः ।
‘पितृव्यभ्रातृपुत्त्रस्त्रीदासशिष्यानुजीविभिः ।
यद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति ॥’
कात्यायनः ।
‘कुटुम्बार्थमशक्तौ तु गृहीतं व्याधितेऽथवा ।
उपप्लवनिमित्तञ्च विद्यादापत्कृतन्तु तत् ॥
कन्यावैवाहिकञ्चैव प्रेतकार्य्ये च यत् कृतम् ।
एतत् सर्व्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥’
प्रभोरिति कर्त्तरि षष्ठी तेन प्रभुणा दातव्य-
मिति रत्नाकरः ॥ बृहस्पतिः ।
‘यः स्वामिना नियुक्तोऽपि धनाय व्ययपालने ।
कुषीदकृषिबाणिज्ये निसृष्टार्थस्तु सम्मतः ॥
प्रमाणं तत्कृतं सर्व्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा स्वामी तन्न दिसंवदेत् ॥’
सम्मतस्तस्य स्वामिन इत्यर्थः ।” इति व्यवहार-
तत्त्वम् ॥ अधिकरणविशेषः । यथा, --
“विषयी विषयश्चैव पूर्ब्बपक्षस्तथोत्तरम् ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽद्यकरणं स्मृतम् ॥”
इति स्मृतिमीमांसा ॥
न्यायमते तदभावाप्रकारकत्वे सति तत्प्रकारक-
पृष्ठ २/८९४
ज्ञानम् । यथा । वह्निमान् पर्व्वत इत्यादि-
बोधः । इति भाषापरिच्छेदः ॥ तद्धर्म्मावच्छिन्न-
प्रकारत्वान्यप्रकारत्वानिरूपितपक्षतावच्छेदका-
वच्छिन्नविशेष्यताशालिज्ञानम् । इति जग-
दीशः ॥

निर्णयनं, क्ली, (निर् + नी + भावे ल्युट् ।) निर्णयः ।

इति शब्दरत्नावली ॥

निर्णयपादः, पुं, (निर्णयात्मकः पादो भागविशेषः ।)

चतुष्पादव्यवहारान्तर्गतव्यवहारविशेषः । तस्य
रूपम् । मिलितानां सभासदां पराजितोऽय-
मित्यवधारणम् । इति व्यवहारतत्त्वम् ॥

निर्णायनं, क्ली, (निर् + नी + णिच् + ल्युट् ।)

मातङ्गापाङ्गदेशः । तत्पर्य्यायः । निर्याणम् २ ।
इति शब्दरत्नावली ॥

निर्णिक्तं, त्रि, (निर्णिज्यते शुध्यते स्मेति । निर् +

णिज् + क्तः ।) अपनीतमलम् । शोधितम् ।
इत्यमरः । ३ । १ । ५६ ॥ (यथा, चिन्तामणि-
धृतस्मृतिवचनम् ।
“जलदेवगृहञ्चैव श्मशानं गोद्विजालयम् ।
निर्णिक्तपादः प्रविशेन्नानिर्णिक्तः कदाचन ॥”)

निर्णीतं, त्रि, (निर् + नी + क्तः ।) कृतनिर्णयः ।

निश्चयीकृतः । यथा, --
“निर्णीते व्यवहारे तु प्रमाणमफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्ब्बमावेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णीतव्यवहाराणां प्रमाणमफलं तथा ॥”
इति व्यवहारतत्त्वम् ॥
तद्वैदिकपर्य्यायः । “निण्यम् १ सस्वः २ सनुतः
३ हिरुक् ४ प्रतीच्यम् ५ अपीच्यम् ६ । इति
षनिनर्णीतान्तर्हितनामधेयानि ।” इति वेद-
निघण्टौ । ३ । २५ ॥

निर्णेजकः, पुं, (निर्णेनेक्ति निर्म्मलीकरोति वस्त्र-

मिति । निर् + णिज शौचे + ण्वुल् ।) रजकः ।
इत्यमरः । २ । १० । १० ॥ (यथा, मनुः ।
४ । २१९ ।
“कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।
गणान्नं गणिकान्नञ्च लोकेभ्यः परिकृन्तति ॥”)

निर्द्दटः, त्रि, परापवादरक्तः । दयाशून्यः । तीव्रः ।

मत्तः । निष्प्रयोजनः । इति शब्दरत्नावली ॥

निर्द्दयः, त्रि, (निर्गता दया यस्मात् ।) दयाशून्यः ।

इति जटाधरः ॥ (यथा, रघुः । ११ । ८४ ।
“न प्रहर्त्तुमलमस्मि निर्द्दयं
विप्र इत्यभिभवत्यपि त्वयि ॥”
निर्गता दया यस्म यमुद्दिश्य दया तिरोहिता
इत्यर्थः । अदयाहः । यथा, मनुः । ९ । २३९ ।
“ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतल क्षणाः ।
निर्द्दया बिन्नेमस्कारास्तन्मनोरनुशासनम् ॥”)

निर्द्दरं, क्ली, (निर् + दॄ + अप् ।) निर्भरम् ।

(निगतो दरश्छिद्रं यस्मात् ।) सारम् । त्रि, कठि-
मम् । (यथा, रामायणे । २ । ८५ । १९ ।
“ध्याननिर्द्दरशैलेन विनिःश्वसितधातुना ॥”)
अपत्रपे च त्रि । इति मेदिनी । रे, १७५ ॥
(निर्दीर्य्यति विदीर्य्यति पतनस्थलमिति । निर् +
दॄ विदारे + अच् । निर्झरः । इति कश्चित् ॥
निर्नास्ति दरो भयो यस्येति निर्भये, त्रि ॥)

निर्द्दहनः, पुं, (नितरां दहतीति । निर् + दह +

ल्युः ।) भल्लातकः । इति राजनिर्षण्टः ॥
(भल्लातकशब्देऽस्य गुणादिकं ज्ञातव्यम् ॥
निर्नास्ति दहनो वह्निर्यत्र ।) अग्निशून्यश्च ॥

निर्द्दहनी, स्त्री, (निर्गतं दहनं यस्याः । स्त्रियां

ङीप् ।) मूर्व्वालता । इति रत्नमाला ॥ (यथा,
“मुस्तं वचा तिक्तकरोहिणीञ्च
तथाभयां निर्द्दहनीञ्च तुल्याम् ।
पिबेच्च गोमूत्रयुतां कफोत्थे
शूले तथामस्य च पाचनार्थम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे शूलाधिकारे ॥)

निर्द्दिग्धः, त्रि, (निर् + दिह + क्तः ।) बली ।

मांसलः । इति हेमचन्द्रः । ३ । ११३ ॥

निर्द्दिष्टः, त्रि, (निर् + दिश + क्तः ।) निश्चितः ।

यथा, --
“निर्द्दिष्टविषयं किञ्चिदुपात्तविषयन्तथा ।
अपेक्षितक्रियञ्चैव त्रिधापादानमिष्यते ॥”
इति रामतर्कवागीशः ॥
(आदिष्टः । यथा, रघुः । १ । ९५ ।
“निर्द्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः ॥”

निर्द्देशः, पुं, (निर् + दिश + भावे घञ् ।) आज्ञा ।

इत्यमरः । २ । ८ । १५ ॥ (यथा, भागवते ।
६ । १ । ३८ ॥
“यूयं वै धर्म्मराजस्य यदि निर्द्देशकारिणः ।
ब्रूत धर्म्मस्य नस्तत्त्वं यच्च धर्म्मस्य लक्षणम् ॥”)
कथनम् । (यथा, गीतायाम् । १७ । २३ ।
“ॐ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः ॥”)
उपान्तः । इति मेदिनी । शे, २३ ॥

निर्द्देष्टा, [ऋ] त्रि, (निर्द्दिशतीति । निर् + दिश +

तृच् ।) निर्द्देशकर्त्ता । यथा, “तथाहि अर्थी
नाम साध्यस्य अर्थस्य निर्द्देष्टा तत्प्रतिपक्ष-
स्तदभाववादी प्रत्यर्थी ।” इति मिताक्षरायां
व्यवहाराध्याये साक्षीप्रकरणम् ॥

निर्द्दोषः, त्रि, (निर्गतो दोषो यस्मात् ।) दोष-

रहितः । यथा, --
“निर्द्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
स मूल्याद्द्विगुणं दाप्यो विनयं तावदेव तु ॥”
इति मिताक्षरा ॥

निर्धनः, पुं, (निर्गतं धनं यस्मात् ।) जरद्गवः ।

इति शब्दचन्द्रिका ॥ धनशून्ये, त्रि । यथा, --
“ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं घनम् ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥”
इति चाणक्ये । ८२ ॥

निर्धर्म्मः, त्रि, (निर्गतो धर्म्मो यस्मात् ।) धर्म्म-

रहितः । यथा, --
“महापराधे निर्धर्म्मे कृतघ्ने क्लीवकुत्सिते ।
नास्तिकव्रात्यदासेषु कोशपानं विवर्ज्जयेत् ॥”
इति मिताक्षरा ॥

निर्धारः, पुं, (निध्रियतेऽनेनेति । निर् + धृ +

घञ् ।) निश्चयः । “जातिगुणक्रियाणां उत्कर्षे-
णापकर्षेण वा सजातीयात् पृथक्करणम् ।
यथा । मनुष्याणां ब्राह्मणः श्रेष्ठः । गवां कृष्णा
बहुक्षीरा । अध्वगानां धावन्तः शीध्रतमाः ।”
इति दुर्गादासः ॥ धाररहितश्च ॥

निर्धारणं, क्ली, (निर्धार्य्यते इति । निर् + धृ +

णिच् + भावे ल्युट् ।) निश्चयः । निर्धारः । यथा,
निर्द्धारणे षष्ट्याः समासो न स्यादिति दुर्गा-
दासः ॥

निर्धारितं, त्रि, (निर्धार्य्यते स्थिरीक्रियते इति ।

निर् + धृ + णिच् + कर्म्मणि क्तः ।) कृत-
निश्चयः । यथा । “किन्त्वनिर्धारितैकत्वानेकत्व-
विशेषस्य ।” इति विजयरक्षितः ॥

निर्धार्य्यं, त्रि, (निर्ध्रियते इति । निर् + धृ +

“ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।
धारि + ण्यत् वा ।) निर्धारणीयम् । निर्धारि-
तव्यम् । निर्भयकर्म्मकर्त्ता । इति विशेष्यनिघ्ने
निर्वार्य्यशब्दटीकायां रमानाथः ॥

निर्धूतं, त्रि, (निर् + धू + क्तः ।) स्वण्डितम् ।

(यथा, मार्कण्डेये । ८५ । ७४ ।
“केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥”)
परित्यक्तम् । यथा, ज्योतिषतत्त्वे ।
“नित्यं निर्धूतबुद्धिं प्रबलरिपुभयं वित्तनाशञ्च
जीवः ॥”
(निरस्तम् । यथा, अध्यात्मरामायणे । १ । ३ ।
“पठन्ति ये नित्यमनन्यचेतसः
शृण्वन्ति चाध्यात्मकसंज्ञितं शुभम् ।
रामायणं सर्व्वपुराणसम्मतं
निर्धूतपापा हरिमेव यान्ति ते ॥”)
भर्त्सितम् । यथा, रमायणे । ४ । ८ । ३२ ।
“पुराहं वालिना राम ! राज्यात् स्वाद-
वरोपितः ।
परुषाणि च संश्राव्य निर्धतोऽस्मि बलीयसा ॥”)

निर्धौतं, त्रि, (निर् + धाव + कर्म्मणि क्तः ।

“च्छ्वोः शूडनुनासिके च ।” ६ । ४ । १९ । इति
वकारस्योठादेशः । “एत्येधत्यूठ्सु ।” ६ । १ । ८९ ।
इति वृद्धिः ।) प्रक्षालितम् । यथा, --
“तस्याः पाटलपाणिजाङ्कितमुरोनिद्राकषाये
दृशौ
निर्धौतोऽधरशोणिमा विलुलितस्रस्तसृजो
मूर्द्धजाः ॥”
इति श्रीजयदेवः ॥

निर्बन्धः, पुं, (निर् + बन्ध + भावे घञ् ।) अभि-

निवेशः । निबन्धोऽपि पाठः । इति हेमचन्द्रः ।
६ । १३६ ॥ (यथा, भागवते । ३ । १४ । २९ ।
“स विदित्वाथ भार्य्यायास्तं निर्वन्धं विकर्म्मणि ।
नत्वा दिष्टाय रहसि तयाथोपविवेश ह ॥”)
अभिलषितप्राप्तौ भूयो यत्नः । (यथा, च
कुमारसम्भवे । ५ । ६६ ।
“अवस्तुनिर्बन्धपरे कथं नु ते
करोऽयमामुक्तविवाहकौतुकः ॥”)
पृष्ठ २/८९५
यथा शिशुग्रहः । शिशूनां स्वेच्छाविशेषः ।
आखटि इति ख्यातः । इति केचित् । इति
ग्रहशब्दटीकायां भरतः ॥

निर्ब्बर्हणं, क्ली, (निर् + बर्ह + भावे ल्युट् ।)

निवर्हणम् । मारणम् । इत्यमरटीकायां नील-
कण्ठः ॥

निर्भटः, त्रि, (निर् + भट् + अच् ।) दृढः । इति

त्रिकाण्डशेषः ॥

निर्भयः, त्रि, (निर्गतं भयं यस्य यस्माद्बा ।) भय-

रहितः । तत्पर्य्यायः । अजानेयः २ । इति
त्रिकाण्डशेषः ॥ (यथा, हरिवंशे । ८३ । ११ ।
“रजकः स तु तौ प्राह युवां कस्य वनेचरौ ।
राज्ञो वासांसि यौ मौढ्याद्याचेते निर्भया-
वुभौ ॥”
पुं, रौच्यमनुपुत्त्रे । यथा, हरिवंशे । ७ । ८३ ।
“सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”)

निर्भरं, क्ली, (निःशेषेण भरो भरणं यत्र ।)

अतिशयः । (यथा, गीतगोविन्दे । १ । ४९ ।
“रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा-
मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु तद्बदनं सुधामयमिति व्याहृत्य गीतस्तुति-
व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः
पातु वः ॥”)
तद्वति, त्रि । इत्यमरः । ३ । ४ । २ ॥ (यथा,
भागवते । ९ । १८ । २० ।
“तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ॥”)

निर्भर्त्सनं, क्ली, (नितरां भर्त्सनम् । निर् + भर्त्स

+ ल्युट् ।) खलीकारः । अलक्तकम् । इति
मेदिनी । ने, १८९ ॥ भर्त्सनञ्च ॥ (यथा,
महाभारते । ३ । ३०४ । ५ ।
“निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा ।
ब्राह्मणस्य पृथाराजन् ! न चकाराप्रियन्तदा ॥”)

निर्भर्त्सितं, त्रि, (निर् + भर्त्स + क्त ।) कृत-

निर्भर्त्सनः । तत्पर्य्यायः । निन्दितः २ धिक्कृतः ३
अपध्वस्तः ४ । इति जटाधरः ॥ (यथा,
कुमारसम्भवे । ३ । ५३ ।
“अशोकनिर्भर्त्सितपद्मरागम् ॥”)

निर्भाग्यः, त्रि, (निकृष्टं भाग्यं यस्य ।) भाग्य-

रहितः । यथा, “मूढाल्पापटुनिर्भाग्या मन्दाः
स्युः ।” इत्यमरः । ३ । ३ । १४ ॥

निर्म्मदः, पुं, (निर्गतो मदो दानवारि गर्व्वो वा

यस्मात् ।) कालवशान्निर्गलितमदहस्ती । तत्-
पर्य्यायः । उद्वान्तः २ । इत्यमरः । २ । ८ । ३६ ॥
मदशून्ये, त्रि ॥ (यथा, महाभारते । ३ ।
९९ । ६६ ।
“ततः संवत्सरेऽतीते हृतौजसमवस्थितम् ।
निर्म्मदं दुःखितं दृष्ट्वा पितरो राममब्रुवन् ॥”)

निर्म्मध्या, स्त्री, (निर्गतं मध्यं यस्याः । शून्यमध्य-

त्वादेवास्यास्तथात्वम् ।) नलिका । इति भाव-
प्रकाशः ॥ (नलिकाशब्देऽस्या विवृतिविशेषो
ज्ञातव्यः ॥)

निर्म्मन्थ्यदारु, क्ली, (निर्म्मन्थ्यं यज्ञार्थं घर्षणीयं

दारु ।) अरणिः । यज्ञे अग्न्युत्थापनार्थं घर्षणीय-
काष्ठम् । इत्यमरः । २ । ७ । १९ ॥

निर्म्मलं, क्ली, (निर्गतं मलमस्मात् ।) निर्म्माल्यम् ।

अभ्रकम् । त्रि, मलहीने । इति मेदिनी । ले,
१०२ ॥ (यथा, महाभारते । ३ । ६५ । ४ ।
“निर्म्मलस्वादुसलिलं मनोहारि सुशीतलम् ॥”
निष्पापे । यथा, मनुः । ८ । ३१८ ।
“राजनिर्द्धूतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्म्मलाः स्वर्गमायान्ति सन्तःसुकृतिनो यथा ॥”
यथा, देवीभागवते । १ । १८ । ३७ ।
“मनस्तु सुखदुःखानां महतां कारणं द्विज ! ।
जाते तु निर्म्मले ह्यस्मिन् सर्व्वं भवति निर्म्मलम् ॥”)

निर्म्मलोपलः, पुं, (निर्म्मलः विशुद्धः उपलः ।)

स्फटिकः । इति राजनिर्घण्टः ॥

निर्म्माणं, क्ली, (निर्मीयते इति । निर् + मा

ल्युट् ।) निर्म्मितिः । (यथा, भागवते । २ ।
५ । ३२ ।
“यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।
यदायतननिर्म्माणे न शेकुर्ब्रह्मवित्तम ! ॥”)
सारः । समञ्जसम् । इति मेदिनी । णे, ५८ ॥

निर्म्माल्यं, क्ली, (निर् + मल + ण्यत् ।) देवो-

च्छिष्टद्रव्यम् । देवस्वत्वनिवृत्तिविशिष्टं देवदत्तं
वस्तु । यथा, --
“अर्व्वाक् विसर्ज्जनाद्द्रव्यं नैवेद्यं सर्व्वमुच्यते ।
विसर्ज्जिते जगन्नाथे निर्म्माल्पं भवति क्षणात् ॥”
इति गरुडपुराणम् ॥ * ॥
तस्य स्थापनं क्षेपणञ्च यथा । “ऐशान्यां मण्डलं
कृत्वा निर्म्माल्यशेषं दद्यादिति । वैष्णवे तु ॐ
विश्वक्सेनाय नमः । शक्तौ तु ॐशेषिकायै
नमः । शिवे ॐचण्डेश्वराय नमः । सूर्य्ये ॐ
तेजश्चण्डाय नमः । गणेशे ॐउच्छिष्टगणेशाय
नमः । कालिकादौ ॐउच्छिष्टचाण्डालिन्यै
नमः । तथा च विद्यानन्दनिबन्धे ।
‘सूर्य्ये गणपतावुग्रे शाक्ते शैवेऽथ वैष्णवे ।
तेजश्चण्डमथोच्छिष्टसोजमुच्छिष्टपूर्ब्बिकाम् ॥
चाण्डालीं शेषिकां चण्डं विश्वक्सेनं क्रमाद्-
यजेत् ॥’
सोजो गणेशः ।
‘हृदये च बहिर्देवीं समर्प्य विधिवत्ततः ।
निर्म्माल्यञ्च शुचौ देशे नैवेद्यं भक्षयेत् सुधीः ॥’
तन्त्रान्तरे ।
निर्म्माल्यं शिरसा धार्य्यं सर्व्वाङ्गे चानुलेपनम् ।
नैवेद्यञ्चोपभुञ्जीत दत्त्वा तद्भक्तशालिने ॥”
इति तन्त्रसारः ॥ * ॥
“उदके तरुमूले वा निर्म्माल्यं तत्र संत्यजेत् ॥”
इति कालिकापुराणे ५५ अध्यायः ॥
निर्म्माल्यकालो यथा, --
“मणिमुक्तासुवर्णानां देवदत्तानि यानि च ।
न निर्म्माल्यं द्बादशाब्दं ताम्रपात्रं तथैव च ॥
पटी शाटी च षण्मासं नैवेद्यं दत्तमात्रतः ।
मोदकं कृशरञ्चैव यामार्द्धेन महेश्वरि ! ॥
पट्टवस्त्रं त्रिमासञ्च यज्ञसूत्रन्त्वहः स्मृतम्
यावदन्नं भवेदुष्णं परमान्नन्तथैव च ॥”
इत्येकादशीतत्त्वे योगिनीतन्त्रम् ॥
शिवनिर्म्माल्ये विशेषो यथा, स्कान्दे ।
“निर्म्माल्यं यो हि मे भक्त्या शिरसा धारयिष्यति ।
अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ।
नरके पच्यते घोरे तिर्य्यग्योनौ च जायते ॥
ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत् ।
तस्य पापं महच्छ्रीघ्रं नाशयिष्ये महाव्रते ! ॥
शुचिः स्नानादिनेति शेषः । एवञ्च स्पृष्ट्वा
रुद्रस्य निर्म्माल्यं सवासा आप्लुतः शुचिरिति
कालिकापुराणं अशुचिविषयम् ॥ अनुपनीत-
विषयमिति श्रीदत्तः । बह्वृचगृह्यपरिशिष्टम् ।
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥”
इति तिथितत्त्वम् ॥
तस्य उत्तारणकालो यथा, --
अथ निर्म्माल्योत्तारणम् । अत्रिस्मृतौ ।
“प्रातःकाले सदा कुर्य्यान्निर्म्माल्योत्तारणं बुधः ।
तृषिताः पशवो बद्धाः कन्यका च रजस्वला ॥
देवता च सनिर्म्माल्या हन्ति पुण्यं पुराकृतम् ॥
नारसिंहे श्रीयमोक्तौ ।
देवमाल्यापनयनं देवागारे समूहनम् ।
स्नापनं सर्व्वदेवानां गोप्रदानसमं स्मृतम् ॥
नारदपञ्चरात्रे ।
यः प्रातरुत्थाय विधाय नित्यं
निर्म्माल्यमीशस्य निराकरोति ।
न तस्य दुःखं न दरिद्रता च
नाकालमृत्युर्न च रोगमात्रम् ॥
अरुणोदयवेलायां निर्म्माल्यं शल्यतां व्रजेत् ।
प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥
अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् ।
अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥
घटिकायामतिक्रान्तौ क्षुद्रं पातकमावहेत् ।
मुहूर्त्ते समतिक्रान्ते पूर्णं पातकमुच्यते ॥
अतिपातकमेव स्यात् घटिकानां चतुष्टये ।
मुहूर्त्तत्रितये पूर्णे महापातकमुच्यते ॥
ततः परं ब्रह्मवधो महापातकपञ्चकम् ।
प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥
निर्म्माल्यस्य विलम्बे तु प्रायश्चित्तमथोच्यते ।
अतिक्रान्ते मुहूर्त्तार्द्धे सहस्रं जपमाचरेत् ॥
पूर्णे मुहूर्त्ते सञ्जाते सहस्रं सार्द्धमुच्यते ॥
सहस्रद्वितयं कुर्य्यात् घटिकानां चतुष्टये ।
मुहूर्त्तत्रितयेऽतीते अयुतं जपमाचरेत् ॥
प्रहरे पूर्णतां याते पुरश्चरणमुच्यते ।
प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥”
इति श्रीहरिभक्तिविलासे ३ विलासः ॥

निर्म्माल्या, स्त्री, (निर्म्मल्यते इति । निर् + मल् +

ण्यत् । ततष्टाप् ।) पृक्का । इति शब्दरत्नावली ॥

निर्म्मितं, त्रि, (निर् + मा + क्तः ।) कृतनिर्म्मा-

णम् । गठितम् । रचितम् । यथा, सिद्धान्त-
मुक्तावल्याम् ।
पृष्ठ २/८९६
“निजनिर्म्मितकारिकावलीमतिसंक्षिप्तचिर-
न्तनोक्तिभिः ।
विशदीकरवाणि कौतुकात् ननु राजीवदया-
वशंवदः ॥”

निर्म्मितिः, स्त्री, (निर् + मा + क्तिन् ।) निर्म्मा-

णम् । गठनम् । रचनम् । यथा, --
“नियतिकृतनियमरहितां ह्वादैकमयीमनन्य-
परतन्त्राम् ।
नवरसरुचिरां निर्म्मितिमादधती भारती कवे-
र्ज्जयति ॥”
इति काव्यप्रकाशः ॥

निर्मुक्तः, पुं, (निर् + मुच् + क्तः ।) मुक्तकञ्चुकः ।

अचिरात् त्यक्तत्वक् सर्पः । इत्यमरः । १ । ८ । ६ ॥
त्यक्तसंयोगे, त्रि । इति मेदिनी । ते, ११७ ॥
(यथा, देवीभागवते । ३ । ८ । २० ।
“रागद्वेषान्न निर्म्मुक्तः कामक्रोधसमावृतः ।
पुनरेव गृहं प्राप्तो यथा पूर्ब्बं तथा स्थितः ॥”)

निर्मुटं, क्ली, (निर्मुटति आक्षिपतीति । निर् +

मुट आत्तेपे + कः ।) करशून्यहट्टः । तत्-
पर्य्यायः । पण्याजिरम् २ कचङ्गनम् ३ । इति
शब्दरत्नावलीत्रिकाण्डशेषौ ॥

निर्मुटः, पुं, (निर् + मुट + “इगुपधेति ।” ३ ।

१ । १३५ । इति कः ।) वनस्पतिः । अपुष्प-
वृक्षः । इति त्रिकाण्डशेषः ॥ सूर्य्यः । खर्परः ।
इति हारावली । २५५ ॥

निर्म्मोकः, पुं, (नितरां मुच्यते इति । निर् +

मुच् + घञ् ।) सर्पत्वक् । तत्पर्य्यायः । अहि-
कोषः २ निर्ल्व यनी ३ कञ्चुकः ४ । इति हेम-
चन्द्रः । ४ । ३८१ ॥ (यथा, आर्य्यासप्त-
शत्याम् । ३२८ ।
“निजगात्रनिर्व्विशेषस्थापितमपि सारमखिल-
मादाय ।
निर्म्मोकञ्च भुजङ्गी मुञ्चति पुरुषञ्च वारवधूः ॥”
त्वक्मात्रम् । यथा, महाभारते । १३ । १४१ ।
१०१ ।
“मृगनिर्म्मोकवसनाश्चीरवल्कलवाससः ।
निर्द्वन्द्वाः सत्पथं प्राप्ता वालिखिल्यास्तपोधनाः ॥”
भावे घञ् ।) मोचनम् । आकाशः । सन्नाहः ।
इति मेदिनी । के, १११ ॥ (सावर्णिमनोः
पुत्त्रविशेषः । यथा, भागवते । ८ । १३ । ११ ।
“अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।
निर्म्मोकविरजस्काद्याः सावर्णितनया नृप ! ॥”)

निर्म्मोक्षः, पुं, (नितरां मोक्षः ।) त्यागः । इति

नानार्थसर्गशब्दार्थे अमरः ॥ (यथा, रघुः ।
१० । २ ।
“न चोपलेभे पूर्ब्बेषामृणनिर्म्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोऽप-
हम् ॥”)

निर्यन्त्रणं, त्रि, (निर् + यन्त्र + ल्युट् ।) अबाधम् ।

निरर्गलम् । उच्छद्खलम् । इति जटाधरः ॥
(यन्त्रणाशूयम् । यथा, सुश्रुते । १ । ४४ ।
“ततः स्वादेदुष्णतोयसेवी निर्यन्त्रणास्त्विमे ॥”)

निर्याणं, क्ली, (निर्याति निर्गच्छति मदोऽनेनेति ।)

निर् + या + करणे ल्युट् ।) गजापाङ्गदेशः ।
(यथा, माघे । ५ । ४१ ।
“प्रत्यन्यदन्तिनिशिताङ्कुशदूरभिन्न-
निर्य्याणनिर्यदसृजं चलितं निषादी ॥”)
मोक्षः । अध्वनिर्गमः । इति मेदिनी । णे, ५७ ॥
(यथा, महाभारते । १३ । ५५ । ६ ।
“निर्य्याणञ्च रथेनाशु सहसा यत् कृतं त्वया ॥”
पशुपादबन्धनरज्जुः । इति वैजयन्ती ॥ यथा,
माघे । १२ । ४१ ।
“निर्याणहस्तस्य पुरो दुधुक्षतः ॥”)

निर्यातनं, क्ली, (निर् + यत + णिच् + ल्युट् ।)

वैरशुद्धिः । शत्रुप्रतीकारः । (यथा, हरि-
वंशे । १७७ । ४७ ।
“तत्रानिरुद्धहरणं कृतं मघवता स्वयम् ।
न ह्यन्यस्य भवेच्छक्तिर्व्वैरनिर्यातनं प्रति ॥”)
दानम् । त्यागः । न्यासार्पणम् । न्यस्तद्रव्यस्य
समर्पणम् । इत्यमरः । ३ । ३ । ११९ ॥ ऋणादि-
शुद्धिः । इति भरतः ॥ मारणम् । इति हेम-
चन्द्रः । ३ । ४६८ ॥

निर्यामः, पुं, (निर्यम्यतेऽनेनेति । निर् + यम +

घञ् ।) पोतवाहः । इति हेमचन्द्रः । ३ । ५४० ॥

निर्यासः, पुं, (निर् + यस + घञ् ।) कषायः ।

क्वाथः । इति शब्दमाला ॥ वृक्षादिक्षीरम् ।
आटा इति भाषा ॥ तत्पर्य्यायः । वेष्टकः २ ।
इति रत्नमाला ॥ (यथा, मनुः । ५ । ६ ।
“लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।
शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत् ॥”
अर्द्धर्चादित्वात् क्लीवेऽपि दृश्यते ॥ * ॥
क्वचित् स्वरसोऽपि वाच्यः । यथा, वैद्यकचिकि-
त्सासंग्रहे दलीकन्दघृते ।
“कदलीकन्दनिर्यासे तत्प्रसूनतुलां पचेत् ।
चतुर्भागावशेषेऽस्मिन् घृतप्रस्थं विपाचयेत् ॥”)

निर्युक्तिकं, त्रि, (निर्गता युक्तिर्यस्मात् । कप् ।)

युक्तिरहितम् । यथा । “नहि क्रियारहितं वाक्य-
मस्तीति प्राचां प्रवादो निर्युक्तिकत्वादश्रद्धेयः ।”
इति शब्दशक्तिप्रकाशिका ॥

निर्यूषः, पुं, (नितरां यूषः ।) निर्यासः । इति

शब्दमाला ॥

निर्यूहः, पुं, शेखरम् । आपीडम् । द्बारम् ।

निर्यासः । क्वाथरसः । (यथास्य पर्य्यायो वैद्यक-
रत्नमालायाम् ॥ “क्वाथः कषायो निर्य्यूहः ॥”)
नागदन्तः । अवलम्बनार्थं गेहादिभित्तिनिर्गतं
काष्ठद्बयम् । इत्यमरमेदिनीकरौ ॥

निर्लक्षणः, त्रि, (निर्गतं लक्षणं यस्मात् ।) लक्षण-

हीनः । तत्पर्य्यायः । पाण्डुरपृष्ठः २ । इति
हेमचन्द्रः । ३ । १०१ ॥ (यथा, गोः रामा-
यणे । २ । ११८ । ५ ।
“निर्लक्षणो लक्षणवान् दुःशीलः शील-
वानपि ॥”)

निर्लिप्तः, पुं, (निर् + लिप + क्तः ।) श्रीकृष्णः ।

यथा, ब्रह्मवैवत्ते श्रीकृष्णजन्मखण्डे ७ अध्याये ।
“निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ॥”
लेपरहिते, त्रि ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ४६ ।
“निर्गुणा च निराकारा निर्लिप्तात्मस्वरू-
पिणी ॥”)

निर्लेपः, त्रि, (निर्गतो लेपो यस्मात् ।) लेप-

शून्यः । आसङ्गरहितः । यथा, --
“निर्लेपः कुचमण्डलो मृगदृशां हारावली
निर्गुणा
नेत्राम्भोरुहमञ्जनेन रहितं नीरागमोष्ठाधरम् ॥”
इत्यानन्दचन्पूग्रन्थे विंशतिस्तवकः ॥
पापशून्यः । यथा, “लोकवेदविरुद्धैरपि निर्लेपः
स्वतन्त्रश्चेति महापाशुपताः ।” इति कुसुमा-
ञ्जलिः ॥

निर्ल्वयनी, स्त्री, (नितरां लीयते संलीनो भवति

अहिरस्यामिति । निर् + ली + ल्युट् । पृषो-
दरादित्वात् वागमः ।) कह्वुकः । सर्पत्वक् ।
इति हेमचन्न्द्रः । ४ । ३८१ ॥

निर्वचनं, क्ली, (निर् + वच + भावे ल्युट् ।)

निरुक्तिः । निश्चयकथनम् । यथा, श्रीभागवते ।
९ । २० । ३७ ।
“नामनिर्व्वचनं तस्य श्लोकमेकं सुरा जगुः ॥”
(प्रशंसा । यथा, महाभारते । १ । १०९ । २३ ।
“प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् ।
ततो निर्व्वचनं लोके सर्व्वराष्ट्रेष्ववर्त्तत ॥”
निर्गतं वचनं यत्र । तूष्णीम् । यथा, कुमारे ।
७ । १९ ।
“पत्युः शिरश्चन्द्रकलामनेन
स्पृशेति सख्या परिहासपूर्ब्बम् ।
सा रञ्जयित्वा चरणौ कृताशी-
र्माल्येन तां निर्वचनं जघान ॥”
वाक्यातीते, त्रि, । यथा, महाभारते । ३ । १९९ । ३६ ।
“येषां तडागानि महोदकानि
वाप्यश्च कूप्याश्च प्रतिश्रयाश्च ।
अन्नस्य दानं मधुरा च वाणी
यमस्य ते निर्व्वचना भवन्ति ॥”)

निर्व्वपणं, क्ली, (निर् + वप + भावे ल्युट् ।)

दानम् । इत्यमरः । २ । ७ । ३० ॥ (यथा,
मनुः । ३ । २४८ ।
“अनयैवावृता कार्य्यं पिण्डनिर्व्वपणं सुतैः ॥”
पिण्डदानम् । यथा, तत्रैव । ३ । २६० ।
“एवं निर्व्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
गां विप्रमजमग्निं वा प्राशयेसु वा क्षिपेत् ॥”
यथा च गोः रामायणे । ६ । १०८ । ४२ ।
“एषा मन्दाकिनी पुण्या नदी सुविमलोदका ।
पितुर्निर्व्वपणं यत्र मया मूलफलैः कृतम् ॥”
पिण्डः । यथा, महाभारते । १३ । ८४ । १४ ।
“तत् समाप्य यथोद्दिष्टं पूर्ब्बकर्म्म समाहितः ।
दातुं निर्व्वपणं सम्यक् यथावदहमारभम् ॥”
अन्नादिसंविभागः । इति श्रीधरस्वामी ॥ यथा,
भागवते । ५ । १२ । १२ ।
“रहूगणैतत् तपसा न याति
न चेज्यया निर्व्वपणाद् गृहाद् वा ॥”)
पृष्ठ २/८९७

निर्व्वर्णनं, क्ली, (निर् + वर्ण + “सत्यापपाशेति ।”

३ । १ । २५ । इति णिच् + भावे ल्युट् ।)
दर्शनम् । इत्यमरः । ३ । २ । ३१ ॥

निर्व्वहणं, क्ली स्त्री, (निर् + वह + भावे ल्युट् ।)

निष्ठा । इत्यमरः । १ । ७ । १५ ॥ तत्तु प्रक्रान्ता-
भिनयनिर्व्वाहः । किंवा नाटके पञ्च सन्धयो
भवन्ति । यथा, --
“मुख प्रतिमुखञ्चैव गर्भो विमर्ष एव च ।
तथा निर्व्वहणञ्चेति नाटके पञ्च सन्धयः ॥”
तत्र पञ्चमस्य सन्धेः संज्ञाद्वयमिदम् । इति
भरतः ॥ मुकुटस्त्वाह द्बे पञ्चमसन्धिसमाप्तौ ।
प्रस्तुतकथासमाप्ताविति यावत् । यथैतदनुवृत्तौ
शब्दार्णवः । निर्व्वहणन्तु निष्ठा स्त्री संहारश्च
समापने । प्रक्रान्तकथानिर्व्वाहः । इति मधु-
माधवादयः ॥

निर्व्वाणं, क्ली, (निर् + वा गमने + क्तः । तस्य

नः ।) अस्तगमनम् । निर्वृतिः । गजमज्जनम् ।
(यथा, रघुः । १ । ७१ ।
“असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः ॥”)
सङ्गमः । अपवर्गः । इति मेदिनी । णे, ५८ ॥
(यथा, भागवते । ३ । २८ । ३५ ।
“मुक्ताश्रयं यर्हि निर्व्विषयं विरक्तं
निर्व्वाणमृच्छति मनः सहसा यथार्च्चिः ॥”)
विश्रान्तिः । इति हेमचन्द्रः ॥ (समाप्तिः ।
यथा भागवते । १ । ६ । २९ ।
“आरब्धकर्म्मनिर्व्वाणो न्यपतत् पाञ्चभौतिकः ॥”)
निश्चलम् । शून्यम् । विद्योपदेशनम् । इति
शब्दरत्नावली ॥ नाभिदेशे जप्यप्रणवपुटित-
मातृकापुटितमूलमन्त्रम् । यथा, --
“कुल्लुकां मूर्द्ध्नि संजप्य हृदि सेतुं विचिन्तयेत् ।
महासेतुं विशुद्धे तु षोडशारे समुद्धरेत् ॥
प्तणिपुरे तु निर्व्वाणं महाकुण्ड लिनीमधः ।
स्वाधिष्ठाने कामबीजं राकिणी मूर्द्ध्नि संस्थितम् ।
विचिन्त्य विधिवद्देवि ! मूलाधारान्तिकाच्छिवे ! ॥
विशुद्धान्तं स्मरेद्देवि ! विशतन्तुतनीयसीम् ।
देवीस्थानं द्विजिह्वान्तं मन्त्रमूलावृतं मुहुः ॥”
निर्व्वाणं यथा, --
“अथ वक्ष्यामि निर्व्वाणं शृणु सावहितानधे ! ।
प्रणवं पूर्ब्बमुच्चार्य्य मातृकाद्यं समुच्चरेत् ॥
मातृकार्णां समस्ताञ्च पुनः प्रणवमुच्चरेत् ।
एवं पुटितमूलन्तु प्रजपेन्मणिपूरके ॥
एवं निर्व्वाणमीशानि ! यो न जानाति पामरः ।
कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते ॥”
इत्यागमतत्त्वविलासः ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । ७५ ।
“त्रिसामा सामगः साम निर्व्वाणं भेषजं
भिषक् ॥”)

निर्व्वाणः, त्रि, (निर् + वा + क्तः । “निर्व्वाणो-

ऽवाते ।” ८ । २ । ५० । इति निष्ठातस्य नः ।)
मुक्तः । यथा । निर्व्वाणो मुनिः । नष्टः । यथा ।
निर्व्वाणो वह्रिः । (यथा, कुमारे । ३ । ५२ ।
“निर्व्वाणभूयिष्ठमथास्य वीर्य्यं
सन्धुक्षयन्तीव वपुर्गुणेन ॥”)
निमग्नः । यथा । निर्व्वाणो हस्ती । इति
विशेष्यनिध्ने अमरः । ३ । १ । ९६ ॥ वाण-
शून्यश्च ॥

निर्व्वातः, त्रि, (निर्गतो वातो वायुर्यस्मात् ।)

वायुरहितः । इत्यमरः । ३ । १ । ९६ । (यथा,
महाभारते । २ । ३६ । २८ ।
“असूर्य्यमिव सूर्य्येण निर्व्वातमिव वायुना ।
भासितं ह्लादितञ्चैव कृष्णेनेदं सदो हि नः ॥”
निर्व्वाति स्मेति । निर् + वा + गत्यर्थेति क्तः ।
“निर्व्वाणोऽवाते ।” ८ । २ । ५० । इति निष्ठा-
तस्य न नः ।) गते वायौ, पुं ॥

निर्व्वादः, पुं, (निर्व्वदनमिति । निर् + वद् + भावे

घञ् ।) परीवादः । जनवादः । इत्यमरः ।
३ । ३ । ८९ ॥ (यथा, रघुः । १४ । ३४ ।
“किमात्मनिर्व्वादकथामुपेक्षे
जायामदोषामुत सन्त्यजामि ॥”)
अवज्ञा । (निर्निश्चितं वादः कथनम् ।) निश्चित-
वादः । वादाभावः । इति भरतः ॥

निर्व्वापः, पुं, (निर्व्वपणमिति । निर् + वप +

घञ् ।) निवापः । प्रेतभिन्नमृतपित्रुद्देश्यक-
दानम् । इत्यमरटीकायां तर्कवागीशः ॥ (यथा,
देवीभागवते । २ । ७ । १६ ।
“पुत्त्रेभ्योऽहं ददाम्यद्य निर्व्वापं विधिपूर्ब्बकम् ॥”
भिक्षार्थदानम् । यथा, पञ्चतन्त्रे । ५ । २० ।
“एतस्मिन्नवसरे ब्राह्मणोऽपि कुतश्चित् गृहीत-
निर्व्वापः परिभ्रम्य यावदागतः पश्यति तावत्
पुत्त्रशोकाभिभूता ब्राह्मणी विलपति ॥” भक्ष-
णम् । इति रामानुजः ॥ यथा, रामायणे ।
२ । ९१ । ८० ।
नीलवैदूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।
निर्व्वापार्थं पशूनां ते ददृशुस्तत्र सर्व्वशः ॥”)

निर्व्वापणं, क्ली, (निर् + वप + णिच् + ल्युट् ।)

वधः । इत्यमरः । २ । ८ । ११४ ॥ दानम् ।
इति हलायुधः । २ । ३२३ ॥ (निर्व्वाणता-
सम्पादनम् । निवान इति भाषा ॥ यथा, तिथि-
तत्त्वे ।
“दीपनिर्व्वापणात् पुंसः कुष्माण्डच्छेदनात्
स्त्रियः ॥”
स्वार्थे णिच् । वपनम् । यथा, पञ्चतन्त्रे । १ ।
४०५ । “मया तावन्नीतिबीजनिर्व्वापणं कृतम् ।
परतस्तद्दैवपर्य्यायायत्तम् ॥”)

निर्व्वार्य्यः, त्रि, (निश्चयेन व्रियते इति । निर् +

वृ + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति
ण्यत् ।) सत्वसम्पदा सम्पतन् कार्य्यकर्त्ता । इत्य-
मरः । ३ । १ । १३ ॥ “भयविक्रमव्यसनाभ्युदयादौ
निर्व्विकारं मनः सत्वं तत्सम्पदा सम्पतन् उद्यमं
कुर्व्वन् यो निःशङ्को भूत्वा कर्म्म कुरुते स
निर्व्वार्य्य उच्यते ।” इति भरतः ॥ अवारणीयश्च ॥

निर्व्वासनं, क्ली, (निर् + वस + णिच् + ल्युट् ।) वधः ।

इत्यमरः । २ । ८ । ११३ ॥ नगरादेर्ब्बहिष्कर-
णम् । इति मेदिनी । ने, १८९ ॥ (यथा, महा-
भारते । ५ । ९० । ५८ ।
“निर्व्वासनञ्च नगरात् प्रव्रज्या च परन्तप ! ।
नानाविधानां दुःखानामभिज्ञास्मि जनार्द्दन ! ॥”)

निर्व्वाहः, पुं, (निर् + वह + घञ् ।) निष्पत्तिः ।

समाप्तिः । यथा । “स्वतिथ्या कर्म्मानिर्व्वाहे
सहायभावेनान्यतिथ्यनुप्रवेशादुपवासाद्याचर-
णञ्च ।” इति तिथितत्त्वम् ॥ अपि च ।
“यावता स्यात् स्वनिर्व्वाहः स्वीकुर्य्यात्तावद-
र्थवित् ।
आधिक्ये न्यूनतायाञ्च च्यवते परमार्थतः ॥”
इति भक्तिरसामृतसिन्धौ नारदीयपुराणम् ॥

निर्व्वाहणं, क्ली, (निर् + वह + स्वार्थे णिच् +

ल्युट् ।) निर्व्वहणम् । नाट्योक्तौ प्रस्तुतकथा-
समाप्तिः । इत्यमरटीकायां भरतः ॥

निर्व्विकल्पकं, क्ली, (निर्गतो विकल्पो नानाविध-

कल्पना यस्मात् । कप् ।) प्रकारताविशेष्यता-
नापन्नसम्बन्धानवगाह्यतीन्द्रियज्ञानम् । यथा, --
“तत्प्रमाणाप्रमाणापि ज्ञानं यन्निर्व्विकल्पकम् ।
प्रकारतादिशून्यं हि सम्बन्धानवगाहि यत् ॥”
“ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते ॥”
इति च भाषापरिच्छेदः ॥

निर्व्विकल्पसमाधिः, पुं, (निर्व्विकल्पः समाधिः ।)

ज्ञातृज्ञानादिभेदलये अद्बितीयवस्तुनि तदा-
काराकारिताया बुद्धिवृत्तेरतितराभेकीभावेना-
वस्थानम् । इति वेदान्तसारः ॥

निर्व्विकारः, त्रि, (निर्गतो विकारो विकृतिर्यस्मात् ।)

विकारशून्यः । यथा, --
“रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् ।
आनन्दं निर्म्मलं शान्तं निर्व्विकारं निरञ्जनम् ॥”
इत्यध्यात्मरामायणम् ॥

निर्व्विण्णः, त्रि, (निर् + विद + क्तः । निर्व्विण्ण-

स्योपसंख्यानात् परस्य णत्वम् पूर्ब्बस्य ष्टुत्वम् ।)
निर्वित्तिविशिष्टः । निर्वेदयुक्तः । यथा, --
“यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥”
इति भक्तिरसामृतसिन्धुः ॥

निर्व्विन्ध्या, स्त्री, (निर्गता विन्ध्यादिति नित्यतत्-

पुरुषः ।) विन्ध्यपर्व्वतनिःसृतनदीविशेषः । इति
श्रीभागवते । ५ । १९ अः ॥ (यथा, मेघदूते । ३० ।
“निर्व्विन्ध्यायाः पथि भव रसाभ्यन्तरं सन्निपत्य ॥”)

निर्व्विषा, स्त्री, (निर्गतं विषं यस्याः ।) तृण-

विशेषः । निर्विषी इति भाषा । तत्पर्य्यायः ।
अपविषा २ निर्विषी ३ विषहा ४ विषापहा
५ विषहन्त्री ६ विषाभावा ७ अविषा ८ विष-
वैरिणी ९ । अस्या गुणाः । कटुत्वम् । शीत-
त्वम् । कफवातास्रदोषनाशित्वम् । अनेकविष-
हन्तृत्वम् । व्रणनिर्मूलकारित्वञ्च । इति राज-
निर्घण्टः ॥

निर्व्विष्टः, त्रि, (निर् + विश + क्तः ।) कृतनिर्व्वेशः ।

प्राप्तः । यथा, श्रीभागवते ।
“यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ॥”
पृष्ठ २/८९८
स्थितः । यथा, भागवते । १ । २ । ३३ ।
“स्वनिर्म्मितेषु निर्व्विष्टो भुड्क्ते भूतेषु तद्-
गुणान् ॥”
विवाहितः । कृताग्निहोत्रः । यथा । “ज्येष्ठेऽ-
निर्व्विष्टे कनीयान् निर्व्विशन् परिवेत्ता भवति ।”
इत्युद्वाहतत्त्वम् ॥

निर्व्वीजा, स्त्री, (निर्गतं वीजं यस्याः ।) काकली-

द्राक्षा । इति राजनिर्घण्टः ॥

निर्व्वीरं, त्रि, (निर्गतो वीरो यस्मात् ।) वीर-

शून्यम् । यथा, --
“नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं
स्थानतः
केनापीदमहो महद्धनुरतो निर्व्वीरमुर्व्वी-
तलम् ॥”
इति महानाटकम् ॥

निर्व्वीरा, स्त्री, (निर्गतो वीरवत् पतिः पुत्त्रो वा

यस्याः ।) अवीरा । पतिपुत्त्रविहीना । इति
हेमचन्द्रः । ३ । १९४ ॥

निर्वृतिः, स्त्री, (निर् + वृ + क्तिन् ।) सुस्थितिः ।

अस्तङ्गमनम् । सुखम् । इति मेदिनी । ते,
१२० ॥ (यथा, देवीभागवते । १ । १९ । ३९ ।
“जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः ।
स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः ॥”)
मोक्षः । मृत्युः । इति हेमचन्द्रः । १ । ७५ ॥
(शान्तिः । यथा, सुश्रुते । १ । ४१ ।
“भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः ।
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥”
विदर्भवंशीयवृष्णेः पुत्त्रे, पुं । यथा, भागवते ।
९ । २४ । ३ ।
“क्रथस्य कुन्तिः पुत्त्रोऽभूत् वृष्णिस्तस्याथ
निर्वृतिः ॥”)

निर्वृत्तः, त्रि, (निर् + वृत् + क्तः ।) निष्पन्नः । इत्य-

मरः । ३ । १ । १०० ॥ (यथा, रघुः । १७ । १८ ।
“सा तस्य कर्म्मनिर्वृत्तैर्दूरं पश्चात् कृता फलैः ॥”)

निर्वृत्तिः, स्त्री, (निर् + वृत् + क्तिन् ।) निष्पादः ।

तथा च ।
“यथा दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिरामयस्यासौ संप्राप्तिर्ज्जातिरागतिः ॥”
इति माधवकरः ॥
(निर्गता वृत्तिर्यस्मादिति ।) वृत्तिरहिते, त्रि ॥

निर्व्वेदः, पुं, (निर् + विद् + घञ् ।) स्वावमान-

नम् । इति हेमचन्द्रः ॥ (यथा, देवीभागवते ।
३ । १० । ३७ ।
“देवैर्युद्धं कृतं चोग्रं प्रह्लादस्तु पराजितः ।
निर्व्वेदं परमं प्राप्तो ज्ञात्वा धर्म्मं सनातनम् ॥”)
स तु त्रयस्त्रिंशद्ब्यभिचारिभावानामादिमः ।
शान्तरसस्य स्थायिभावश्च । यथा, --
“निर्व्वेदःस्थायिभावोऽस्ति शान्तोऽपि नवमो
रसः ॥”
इति काव्यप्रकाशः ॥
तस्य लक्षणं यथा, --
“तत्त्वज्ञानापदीर्य्यादेर्न्निर्व्वेदः स्वावमाननम् ॥”
तदुदाहरणम् । यथा, --
“मृत्पिण्डबालुकारन्ध्रपिधानरचनार्थिना ।
दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्णीकृतो मया ॥”
इति साहित्यदर्पणम् ॥
परवैराग्यम् । यथा, --
“ततः कदाचिन्निर्व्वेदान्निराकाराश्रितेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्त्तेन भृशं मया ॥”
इति मोक्षधर्म्मः ॥
वैराग्यम् । यथा, श्रीभगवद्गीतायाम् ।
“तदा गन्तासि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥”
(निर्गतो वेदो यस्मादिति ।) वेदरहिते, त्रि ॥

निर्व्वेशः, पुं, (निर् + विश् + भावे घञ् ।)

भृतिः । भोगः । इत्यमरः । ३ । ३ । २१४ ॥
“भृतिर्व्वेतनं भोगः सुखं पालनमभ्यवहारो वा ।”
इति भरतः ॥ (यथा, भागवते । ६ । २ । ७ ।
“अयं हि कृतनिर्व्वेशो जन्मकोट्यंहसामपि ।
यद्ब्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥”)
मूर्च्छनम् । इति मेदिनी । शे, २२ ॥ विवाहः ।
निर्पूर्ब्बविशधातुर्व्विवाहार्थः । इति स्मृतिः ॥

निर्व्वेष्टनं, क्ली, (नितरां वेष्टनमत्र ।) नाडि-

चीरम् । इति हारावली । २१४ ॥ (निर्गतं
वेष्टनं यस्मात् ।) वेष्टनरहिते, त्रि ॥

निर्व्यथनं, क्ली, (निर् + व्यथ + भावे ल्युट् ।)

छिद्रम् । इत्यमरः । १ । ८ । २ ॥ व्यथाभावः ।
निश्चयेन व्यथनञ्च ॥

निर्व्यूढं, त्रि, (निर् + वि + वह + क्तः ।) त्यक्तम् ।

इति त्रिकाण्डशेषः ॥ समाप्तम् । यथा, --
“अवदानन्तु यत् कर्म्म निर्व्यूढमतिशोभनम् ॥”
इति जटाधरः ॥
(स्थिरम् । यथा, “स्त्रीणां पतिपुत्त्रादिधने न
निर्व्यूढं स्वत्वं पुंसान्तु तन्निर्व्यूढं अप्रतिबन्धकतया
यथेष्टविनियोगार्हत्वात् ॥” तथा, च राज-
तरङ्गिण्याम् । ३ । ४७२ ।
“स एव भूपतिर्भूत्वा भुवं वर्षशतत्रयम् ।
निर्व्वाणश्लाघ्यनिर्व्यूढपातालेश्वरमासदत् ॥”)

निर्हरणं, क्ली, (निश्चयेन हरणम् । निर् + हृ +

ल्युट् ।) शवदाहः । यथा, शुद्धितत्त्वे ।
“तस्य निर्हरणादीनि सम्परेतस्य भार्गव ! ।
युधिष्ठिरः कारयित्वा मुहूर्त्तं दुःखितोऽभवत् ॥”
(दहनम् । यथा, भागवते । ७ । ७ । २८ ।
“बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥”)
निःशेषेण हरणञ्च ॥

निर्हारः, पुं, (निर् + हृ + घञ् ।) शल्यादेरुत्-

पाटनम् । इति भरतः ॥ तत्पर्य्यायः । अभ्यव-
कर्षणम् २ । इत्यमरः । ३ । २ । १७ ॥ मल-
मूत्रादित्यागः । यथा, आह्निकतत्त्वे ।
“आहारनिर्हारविहारयोगाः
सुसंवृता धर्म्मविदा तु कार्य्या ॥”
दाहः । इति स्मृतिः ॥ (दाहार्थं नयनम् । इति
स्वामी ॥ यथा, भागवते । ७ । २ । ३५ ।
“एवं विलपतीनां वै परिगृह्य गृतं पतिम् ।
अनिच्छतीनां निर्हारमर्कोऽस्त संन्यवर्त्तत ॥”)
यथेष्टविनियोगः । यथा, --
“न निर्हारं स्त्रियः कुर्य्युः कुटुम्बा बहुमध्यगात् ।
स्वकादपि च वृत्ताद्धि स्वस्य भर्त्तुरनाज्ञया ॥”
इति मनुः ॥

निर्हारी, [न्] त्रि, (निःशेषेण हरति दूरं गच्छ-

तीति । निर् + हृ + णिनि ।) दूरगामिगन्धः ।
इत्यमरः । १ । ५ । ११ ॥ (यथा, महाभारते ।
१२ । १८४ । २८ ।
“इष्टश्चानिष्टगन्धश्चं मधुरः कटुरेव च ।
निर्हारी संहतः स्निग्धो रूक्षो विषद एव वा ॥”)

निर्ह्रादः, पुं, (निर् + ह्राद अव्यक्तशब्दे + घञ् ।)

ध्वनिः । इत्यमरः । १ । ३ । २३ ॥ (यथा,
रघुवंशे । १ । ४१ ।
“श्रेणीबन्धाद्वितन्वद्भिः अस्तम्भां तोरणश्रजम् ।
सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥”)

निलयः, पुं, (निलीयते अस्मिन्निति । नि + ली +

“एरच् ।” ३ । ३ । ६६ । इति अधिकरणे अच् ।)
गृहम् । इत्यमरः । २ । २ । ५ ॥ (यथा, रघु-
वंशे । २ । १५ ।
“सञ्चारपूतानि दिगन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुम् ॥”
आश्रयस्थानम् । यथा, भागवते । ८ । १ । ११ ।
“तं भूतनिलयं देवं सुपर्णमुपधावत ॥”)

निलिम्पः, पुं, (निलिम्पतीति । नि + लिप् + “नौ

लिम्पेर्वाच्यः ।” ३ । १ । १३८ । इत्यस्य वार्त्तिकोक्त्या
शः । मुचादित्वान्नुम् ।) देवः । इति त्रिकाण्ड-
शेषः ॥

निलिम्पनिर्झरी, स्त्री, (निलिम्पानां देवानां निर्झरी

नदी ।) गङ्गा । यथा, --
“जटाकटाहसम्भ्रमद्भ्रमन्निलिम्पनिर्झरी ॥”
इत्यादिरावणकृतशिवस्तोत्रम् ॥

निलिम्पा, स्त्री, (नि + लिप + श । मुचादित्वा-

न्नुम् । स्त्रियां टाप् ।) स्त्रीगवी । इति त्रिकाण्डशेषः ॥

निलिम्पिका, स्त्री, (निलिम्पा एव । स्वार्थे कन्

टापि अत इत्वम् ।) सौरभेयी । इति हेम-
चन्द्रः । ४ । ३३२ ॥

निलीनं, त्रि, (निःशेषेण लीनं संलग्नम् । नि +

ली + क्तः ।) निःशेषेण लीनम् । संलग्नम् ।
(यथा, भट्टिः । २ । ५ ।
“वनानि तोयानि च नेत्रकल्पैः
पुष्पैः सरोजैश्च निलीनभृङ्गैः ।
परस्परं विस्मयवन्ति लक्ष्मी-
मालोकयाञ्चक्रुरिवादरेण ॥”

निवपनं, क्ली, (नि + वप + भावे ल्युट् ।) पित्रु-

द्देश्यकदानम् । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १३ । ९२ । २ ।
“ऋषयो धर्म्मनित्यास्तु कृत्वा निवपनान्युत ।
तर्पणञ्चाप्यकुर्व्वन्त तीर्थाम्भोभिर्यतव्रताः ॥”)

निवरा, स्त्री, (नितरां व्रियत इति । नि + वृ +

“ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति कर्म्म-
ण्यप् । ततष्टाप् ।) कुमारी । अविवाहिता ।
इति मिताक्षरा ॥
पृष्ठ २/८९९

निवसतिः, स्त्री, (निवसत्यत्रेति । नि + वस् +

“वहिवस्यर्त्तिभ्यश्चित् ।” उणां ४ । ६० । इति
अतिच् ।) गृहम् । इति शब्दरत्नावली ॥

निवसथः, पुं, (निवसत्यत्रेति । नि + वस् आधारे

अयच् ।) ग्रामः । इति हेमचन्द्रः । ४ । २३ ॥

निवसनं, क्ली, (न्युष्यतेऽत्र । नि + वस् + आधारे

ल्युट् ।) गृहम् । इति शब्दरत्नावली ॥ वस्त्रम् ।
इति हलायुधः ॥ (यथा, गोः रामायणे । २ । ३७ ।
“द्बितीयं च परीदधौ चीरमादाय मैथिली ।
चीरस्याकुशला देवी सम्यग्निवसने शुभा ॥”)

निवहः, पुं, (नितरामुह्यते इति । नि + वह +

पुंसीति घः ।) समूहः । इत्यमरः । २ । ५ । ३९ ॥
(यथा, पञ्चतन्त्रे । ५ । ८ ।
“मुकुलं कुशलं सुजनं
विहाय कुलकुशलशीलविकलेऽपि ।
आढ्ये कल्पतराविव
नित्यं रज्यन्ति जननिवहाः ॥”
नितरां वहतीति । नि + वह + पचाद्यच् ।)
सप्तवाय्वन्तर्गतवायुविशेषः । यथा, --
“निवहो यत्र वातेशः केषाञ्चिन्न सुखप्रदः ।
न प्रचण्डो न च मृदुः प्रमादी च प्रभञ्जनः ॥”
इति ज्योतिषम् ॥

निवातः, त्रि, (नितरां वाति गच्छत्यत्र । नि + वा

+ अधिकरणे क्तः ।) आश्रयः । निवासः ।
(निवृत्तो वातो यस्मिन् ।) अवातः । वातशून्यः ।
(यथा, रघुवंशे । ३ । १७ ।
“निवातपद्मस्तिमितेन चक्षुषा
नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दुदर्शनात्
गुरुः प्रहर्षः प्रबभूव नात्मनि ॥”)
शस्त्राभेद्यं वर्म्म । शस्त्रेण न भिद्यते यत् वर्म्म
कवचम् । इत्यमरभरतौ । ३ । ३ । ८४ ॥

निवातकवचः, पुं, दैत्यविशेषः । स तु हिरण्य-

कसिपोः पौत्त्रः संह्रादपुत्त्रः । इत्यग्निपुराणम् ॥
(निवातं शस्त्राभेद्यं कवचं येषामिति । दानव-
विशेषे, पुंलिङ्गो बहुवचनान्तः । ते तु इन्द्रादि-
ष्टेनार्ज्जुनेन निहताः । यथा, महाभारते । ३ ।
१६८ । ७० -- ७२ ।
“ततो मामब्रवीद्राजन् ! प्रहस्य बलवृत्रहा ।
नाविषह्यन्तवास्तीति त्रिषु लोकेषु किञ्चन ॥
निवातकवचा नाम दानवा देवशत्रवः ।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसत्युत ॥
तिस्रः कोट्यः समाख्याता स्तुल्यरूपबलप्रभाः ।
तांस्तत्रजहि कौन्तेय ! गुर्व्वर्थस्ते भविष्यति ॥”
एतद्बिवरणविस्तृतिस्तु तत्रैव विशेषतो द्रष्टव्या ॥)

निवापः, पुं, (नितरामुप्यते इति । नि + वप + घञ् ।)

मृतोद्देश्यकदानम् । तत्पर्य्यायः । पितृदानम् २ ।
इत्यमरः । २ । ७ । ३१ ॥ पितृतर्पणम् ३ । इति हेम-
चन्द्रः । ३ । ४० ॥ निवपनम् ४ पितृदानकम् ५ ।
इति शब्दरत्नावली ॥ (यथा, रघुवंशे । ८ । ८६ ।
“अपशोकमनाः कुटुम्बिनीं
अनुगृह्णीष्व निवापदत्तिभिः ॥”)
दानमात्रम् । यथा । “येभ्यो निवापाञ्जलयः
पितॄणाम् ।” इति भरतः ॥ (न्युप्यते वीज-
मस्मिनिति । क्षेत्रम् । इति नीलकण्ठः ॥ यथा,
महाभारते । ३ । ३०९ । ६ ।
“अवनिं प्रमदा गाश्च निवापं बहुवार्षिकम् ।
तत्ते विप्र ! प्रदास्यामि न तु वर्म्म सकुण्डलम् ॥”)

निवारः, पुं, निवारणम् । इति निपूर्ब्बवृधातो-

र्भावे घञ्प्रत्ययनिष्पन्नः ॥

निवारणं, क्ली, (नि + वृ + णिच् + करणे ल्युट् ।)

निश्चयेन वारणम् । निराकरणम् । यथा, --
“यद्वाक्यतो धर्म्म इतीतरस्थितो
न मन्यते तस्य निवारणं जनः ॥”
इति श्रीभागवते प्रथमस्कन्धः ॥

निवारितः, त्रि, (नि + वृ + णिच् + क्तः ।) कृत-

निवारणः । यथा, --
“निवारितास्तेन महीतलेऽखिले
निरीतिभावं गमितेऽतिवृष्टयः ॥”
इति नैषधे । १ । ११ ॥

निवास, त् क स्तृत्याम् । इति कविकल्पद्रुमः ॥

(अदन्त चुरां-परं-सकं-सेट् ।) अनिनिवासत् ।
स्तृतिराच्छादनम् । निवासयति यश्चित्रं चीनां-
शुकमिति हलायुधः । इति दुर्गादासः ॥

निवासः, पुं, (निवसति अस्मिन् । नि + वस् +

अधिकरणे घञ् ।) गृहम् । इति हेमचन्द्रः ।
४ । ५७ ॥ (यथा, विष्णुपुराणे । १ । १३ । ८४ ।
“तत्र तत्र प्रजानां हि निवासं समरोचयत् ॥”
आश्रयस्थानम् । यथा, भागवते । १ । ११ । २७ ।
“श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥”
वस्त्रम् । यथा, हरिवंशे । १८१ । ४८ ।
“नमश्चर्म्मनिवासाय नमस्ते पीतवाससे ॥”
भावे घञ् । वासः । यथा, महाभारते ।
१ । १८६ । ६ ।
“कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥”)

निवासी, [न्] त्रि, (निवसतीति । नि + वस् +

णिनि ।) निवासविशिष्टः । निवासकर्त्ता । यथा, --
“ते तु कासरमश्नन्ति देवरः पतिरुत्कले ।
धन्याः कालीनदीतीरे कान्यकुब्जनिवासिनः ॥”
इति काव्योदयः ॥

निविडं, त्रि, (नितरां विडतीति । नि + विड

आक्रोशे + क ।) निरवकाशम् । तत्पर्य्यायः ।
निरन्तरम् २ निविरीषम् ३ घनम् ४ । सान्द्रम् ५
नीरन्ध्रम् ६ बहुलम् ७ दृढम् ८ गाढम् ९
अविरलम् १० । इति हेमचन्द्रः । ६ । ८२ ॥
(यथा, आर्य्यासप्तशत्याम् । ३२० ।
“निविडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पित-
व्यजनाम् ॥”
यथा, च रघुवंशे । ९ । ५८ ।
“तस्यापरेष्वपि मृगेषु शरान् मुमुक्षोः
कर्णान्तमेत्य बिभिदे निविडोऽपि मुष्टिः ॥”
नासिकाया नतम् । नि + “नेर्विडच्विरी-
सचौ ।” ५ । २ । ३२ । इति विडच् । अव-
टीटम् । “तद्योगात् नासिका निविडा ।” इति
सिद्धान्तकौमुदी ॥)

निविरीसं, त्रि, (नि नता नासिका यस्य । “नेर्वि-

डच्विरीसचौ ।” ५ । २ । ३२ । इति विरी-
सच् । अवटीटः । इति व्याकरणम् ॥) निवि-
डम् । इति जटाधरः ॥ (यथा, माघे । ७ । २० ।
“उरुनिविरीसनितम्बभारखेदि ॥”)

निविष्टं, त्रि, (नि + विश + क्तः ।) निवेशयुक्तम् ।

(यथा, कुमारसम्भवे । ५ । ३१ ।
“भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्व्विशेषेष्वतिगौरवाः क्रियाः ॥”)
आविष्टम् । प्रविष्टम् । यथा, --
“उडुगणपरिवारो नायकोऽप्योषधीना-
ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विकलमूर्त्तिर्मण्डलं प्राप्य भानोः
परसदननिविष्टः को लघुत्वं न याति ॥”
इत्युद्भटः ॥
(आबद्धम् । यथा, देवीभागवते । १ । १५ । ४५ ।
“बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः ।
संसारवासनाजाले निविष्टा वृद्धगामिनी ॥”
स्थितम् । यथा, रामायणे । १ । ५ । ५ ।
“कोशलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥”)

निवीतं, त्रि, (निवीयते स्मेति । नि + व्ये आच्छा-

दने + क्तः । सम्प्रसारणम् ।) आच्छादनवस्त्रम् ।
उडनी इति भाषा ॥ तत्पर्य्यायः । प्रावृतम् २ ।
कण्ठलम्बितयज्ञसूत्रे, क्ली । इत्यमरः । १ । ७ ।
५० ॥ यथा, --
“उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जनम् ॥”
इति कुर्म्मपुराणम् ॥

निवीती, [न्] पुं, (निवीतमस्यास्तीति ।)

निवीतयुक्तः । कण्ठलम्बितयज्ञसूत्रविशिष्टः ।
यथा, --
“कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ।
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्त्रानृषींस्तथा ॥”
इत्याह्निकतत्त्वम् ॥

निवृतं, त्रि, (निव्रियते आच्छाद्यते स्मेति । नि +

वृ + क्तः ।) निवीतम् । उडनी इति भाषा ॥
इत्यमरटीकायां स्वामी ॥ परिवेष्टितम् । इति
हेमचन्द्रः ॥

निवृत्तः, त्रि, (नि + वृत् + क्तः ।) निवृत्ति-

विशिष्टः । विरतः । यथा, श्रीभागवते । १० । १ । ४ ।
“निवृत्ततर्षैरुपगीयमाना-
द्भवौषधाच्छ्रोत्रमनोऽभिरामात् ।
क उत्तमश्लोकगुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥”

निवृत्तात्मा, [न्] पुं, (शरीरबन्धनात् निवृत्त

आत्मा स्वरूपं यस्येति ।) विष्णुः । (यथा,
महाभारते । १३ । १४९ । ३८ ।
“आवर्त्तनो निवृत्तात्मा संवृतः संप्रतर्द्दनः ॥”)

निवृत्तिः, स्त्री, (नि + वृत् + क्तिन् ।) निर्वृत्तिः ।

अप्रवृत्तिः । तत्पर्य्यायः । उपरमः २ विरतिः ३
पृष्ठ २/९००
अपरतिः ४ उपरतिः ५ आरतिः ६ । इति हेम-
चन्द्रः ॥ (यथा, गरुडपुराणे १९६ अध्याये ।
“वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ।
पापरोगस्य सन्तापनिवृत्तिं कुरुते शिवः ॥”)
प्रवृत्तिप्रागभावः । यथा, “प्रवृत्त्युपाधिना
विनाशं प्राप्स्यन् प्रागभाव एव स्वनिवृत्तिनिरा-
करणात् साध्यमानो निवृत्तिरुच्यते ।” इत्येका-
दशीतत्त्वे कलञ्जाधिकरणविचारः ॥

निवेदनं, क्ली, (निविद्यते विज्ञाप्यतेऽनेनेति । नि +

विद् + ल्युट् ।) आवेदनम् । विज्ञापनम् ।
समर्पणम् । यथा, --
“श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्च्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ॥”
इति श्रीभागवतम् । ७ । ५ । २३ ॥

निवेदितं, त्रि, (नि + विद् + कर्म्मणि क्तः ।)

कृतनिवेदनम् । यथा, नन्दिकेश्वरपुराणे ।
“मया निवेदितं भक्त्या गृहाण परमेश्वरि ! ॥”

निवेशः, पुं, (नि + विश् + घञ् ।) विन्यासः ।

(निविशत्यस्मिन्निति । अधिकरणे घञ् ।)
शिविरम् । (यथा, महाभारते । ५ । ८ । २ ।
“तस्य सेनानिवेशोऽभूदध्यर्द्धमिव योजनम् ॥”)
उद्वाहः । इति मेदिनी । शे, २१ ॥ (यथा,
महाभारते । १ । १४ । १ ।
“ततो निवेशाय तदा स विप्रः संशितव्रतः ।
महीञ्चचार दारार्थी न च दारानविन्दत ॥”)
निवेशनम् । इति शब्दरत्नावली ॥ (यथा,
देवीभागवते । ३ । १९ । ४४ ।
“निवेशार्थं गृहं दत्तमन्नपानादिकं तथा ।
सेवकं समनुज्ञाप्य परिचर्य्यार्थमेव च ॥”)

निवेशनं, क्ली, (निविशत्यस्मिन्निति । नि + विश्

+ अधिकरणे ल्युट् ।) गृहम् । इति जटा
धरः ॥ (यथा, देवीभागवते । ३ । २४ । ४९ ।
“स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः ।
सम्मान्य सर्व्वलोकांश्च ययौ राजा निवेशनम् ॥”)
नगरम् । इति हेमचन्द्रः ॥ (यथा, रामायणे ।
७ । ७५ । १८ ।
“यो हि वंशं समुत्पाद्य पार्थिवस्य निवेशने ।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥”)
प्रवेशः । निवेशनमस्य व्याहृतिभिर्हुत्वेति
स्मृतिः ॥ (नि + विश + णिच् + भावे ल्युट् ।
स्थापनम् । यथा, रामायणे । ७ । ७५ । १७ ।
“निवेशय महाबाहो भरतं यद्यपेक्षसे ।
शूरस्तं कृतविद्यश्च समर्थश्च निवेशने ॥”
प्रवेशके, त्रि ॥ यथा, हरिवंशे भविष्य-
पर्व्वणि । १८ । १३ ।
“आकाशेऽवस्थितः शब्दः सर्व्वश्रोत्रनिवेशनः ।
नमस्ते भगवन् ! विष्णो तुभ्यं शब्दात्मने नमः ॥”)

निवेशनीयः, त्रि, (नि + विश + अनीयर् ।) निवेश-

नार्हः । यथा । तत्पुरुषीयसाधारण्यादिशरीरे
निवेशनीय इति नायं दोषः । इति सव्यभि-
चारे गदाधरः ॥

निवेश्यः, त्रि, (नि + विश + ण्यत् ।) निवेशनीयः ।

यथा, वाधटीकायां गदाधरः । प्रतिबन्धक-
तायां निवेश्यत्वादिति शङ्क्यते ॥ (यथा, हरि-
वंशे । ११५ । २८ ।
“तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ! ॥”
शोधनीयः । यथा, महाभारते । ३ । ३६ । १६ ।
“अवश्यं राजपिण्डस्तैर्निवेश्य इति मे मतिः ॥”
“निवेश्यः आनृण्यार्थं शोधनीयः ।” इति तट्टी-
कायां नीलकण्ठः ॥ विवाहार्हः । यथा, महा-
भारते । १ । १९२ । ९ ।
“भवान्निवेश्यः प्रथमं ततोऽयं
भीमो महाबाहुरचिन्त्यकर्म्मा ॥”
“निवेश्यः विवाह्यः ।” इति तत्र नीलकण्ठः ॥)

निशठः, पुं, बलदेवपुत्त्रः । यथा, “बलदेवोऽपि

रेवत्यां निशठोल्मुकौ पुत्त्रावजनयत् ।” इति
विष्णुपुराणे । ४ अंशे १५ अध्यायः ॥

निशमनं, क्ली, (नि + शम + णिच् + ल्युट् ।)

दर्शनम् । श्रवणम् । इति मेदिनी । ने, १९० ॥

निशा, स्त्री, (नितरां श्यति तनूकरोति व्यापारा-

निति । नि + शो + कः । टाप् ।) रात्रिः ।
तत्पर्य्यायः । रात्री २ रक्षोजननी ३ शत्वरी ४
चक्रभेदिनी ५ घोरा ६ श्यामा ७ याम्या ८
दोषा ९ तुङ्गी १० भौती ११ शताक्षी १२
वास्तवा १३ उषा १४ वासतेयी १५ तमा १६
निट् १७ । इति त्रिकाण्डशेषः ॥ अवशिष्टो
रात्रिशब्दे द्रष्टव्यः ॥ (यथा, ऋतुसंहारे ।
१ । ९ ।
“सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य निर्य्यन्त्रणमुत्सुकश्चिरं
निशाक्षये याति ह्रियैव पाण्डुताम् ॥”)
हरिद्रा । दारुहरिद्रा । इति मेदिनी । शे, ९ ॥
(अस्याः पर्य्यायो यथा, --
“हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा ।
मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
मेषवृषमिथुनकर्कटधनुर्मकरलग्नानि । यथा, --
“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।
निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥”
इति ज्योतिस्तत्त्वम् ॥

निशाकरः, पुं, (निशां करोतीति । निशा +

कृ + “दिवाविभानिशेति ।” ३ । २ । २१ । इति
टः ।) चन्द्रः । इत्यमरटीका ॥ (यथा, पञ्च-
तन्त्रे । २ । २० ।
“रविनिशाकरयोर्ग्रहपीडनं
गजभुजङ्गविहङ्गमबन्धनम् ।
मतिमताञ्च निरीक्ष्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥”)
कुक्कुटः । इति शब्दरत्नावली ॥ (निशाकरश्चन्द्रः
शिरोदेशेऽस्त्यस्येति । अच् । महादेवः । यथा,
महाभारते । १३ । १७ । ७७ ।
“इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥”)

निशागणः, पुं, (निशानां रात्रीनां गणः ।)

रात्रिसमूहः । तत्पर्य्यायः । गणरात्रम् २ ।
इति हेमचन्द्रः ॥

निशाचरः, पुं, (निशायां रात्रौ चरतीति ।

निशा + चर + “चरेष्टः ।” ३ । २ । १६ । इति
टः ।) राक्षसः । (यथा, रघुः । १० । ४५ ।
“अचिरात् यज्वभिर्भागं कल्पितं विधिवत् पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥”)
शृगालः । पेचकः । सर्पः । इति मेदिनी । रे,
२७२ ॥ चक्रवाकः । इति शब्दरत्नावली ॥
भूतः । इति धरणिः ॥ चोरकः । इति राज-
निर्घण्टः ॥ (अयन्तु ग्रन्थिपर्णस्य भेदः । भटे
उर इति नेपालदेशे भवति ।
“निशाचरो धनहरः कितवो गणहासकः ।
रोचको मधुरस्तिक्तः कटुपाके कटुर्लघुः ॥
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफा-
निलान् ।
रक्षाश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
महादेवः । यथा, महाभारते । १३ । १७ । ६७ ।
“वसुवेगो महावेगो मनोवेगो निशाचरः ॥”)
रात्रिचरमात्रे, त्रि ॥

निशाचरी, स्त्री, (निशायां चरतीति । चर +

टः । स्त्रियां ङीप् ।) कुलटा । इति मेदिनी ।
रे, २७३ ॥ केशिनीनामगन्धद्रव्यम् । इति जटा-
धरः ॥ राक्षसी । यथा, --
“अनिर्वृतिनिशाचरी मम गृहान्तराले स्थिता
निहन्ति निगमागमस्मृतिपुराणशास्त्रोदिताम् ।
क्रियां तदनुगा सखी हृदय एव चिन्ताविश-
त्तयोर्द्दमनकारणं त्वमसि केवलं भूपते ॥”
इत्युद्भटः ॥
(यथा च रघुः । ११ । २० ।
“राममन्मथशरेण ताडिता
दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्द्रनोक्षिता
जीतितेशवसतिं जगाम सा ॥”
“अत्र ताडकायाः अभिसारिकया समाधि-
रभिधीयते रामेति । निशासु चरतीति
निशाचरी राक्षसी अभिसारिका च ।” इति
तत्र मल्लिनाथः ॥)

निशाचर्म्म, [न्] क्ली, (निशायाञ्चर्म्मव आवर-

कत्वात् ।) अन्धकारः । इति त्रिकाण्डशेषः ॥

निशाजलं, क्ली, (निशोद्भवं जलम् । मध्यपद-

लोपिसमासः ।) हिमम् । इति त्रिकाण्डशेषः ॥

निशाटः, पुं, (निशायां रात्रौ अटतीति । अट +

अच् ।) पेचकः । इति हेमचन्द्रः । ४ । ३९० ॥
निशाचरे, त्रि ॥

निशाटकः, पुं, (निशायां अटति निशावत् कृष्णत्वं

अटतीति वा । अट् + ण्वुल् ।) गुग्गुलुः । इति
राजनिर्घण्टः ॥ (रात्रिचरे, त्रि ॥)

निशाटनः, पुं, (निशायां अटतीति । अट गतौ +

ल्युः ।) पेचकः । इति हलायुधः ॥ निशाचरे, त्रि ॥
पृष्ठ २/९०१

निशातः, त्रि, (नि + शो निशाने + क्तः । “शाच्छो-

रन्यतरस्याम् ।” ७ । ४ । ४१ । इति पक्षे
इत्वाभावः ।) शाणितः । इति हेमचन्द्रः ॥

निशादः, पुं, (निशायां अत्तिभक्षयतीति । अद् +

अच् ।) निषादः । इत्यमरटीकायां रमानाथः ॥
त्रि, निशाभुक् ॥

निशादिः, स्त्री, (निशाया आदिर्यत्र ।) सन्ध्या ।

इति राजनिर्घण्टः ॥

निशान्तं, क्ली, (निशम्यते विश्रम्यतेऽस्मिन्निति ।

नि + शम + अधिकरणे क्तः ।) गृहम् । इत्य-
मरः । २ । २ । ५ ॥ (यथा, रघुः । १६ । ४० ।
“तस्याः स राजोपपदं निशान्तं
कामीव कान्ताहृदयं प्रविश्य ॥”
निशाया अन्तो यत्र ।) उषा । (यथा, मनुः । ४ । ९९ ।
“न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः
स्वपेत् ॥”)
शान्ते, त्रि । इति मेदिनी । ते, ११९ ॥

निशान्धा, स्त्री, (निशायां अन्धयति उपसंहरति

आत्मानमिति । अन्ध उपसंहारे + अच् +
टाप् ।) जतुकालता । इति राजनिर्घण्टः ॥
(निशायां अन्धः ।) रात्र्यन्धे, त्रि ॥

निशापतिः, पुं, (निशायाः पतिः ।) चन्द्रः ।

(यथा, सूर्य्यसिद्धान्ते । २ । ४७ ।
“स्वमन्दभुक्तिसंशुद्धा मध्यमुक्तिर्निशापतेः ।
दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥”)
कर्पूरः । इत्यमरः ॥ (निशायामेव पतिरिति
विग्रहे क्वचित् व्यञ्जनाशक्त्या उपपतिरपि ।
यथा, आर्य्यासप्तशत्याम् । ३५२ ।
“प्राङ्गणकोणेऽपि निशापतिः स तापं सुधा-
मयो हरति ।
यदि मां रजनिज्वर इव सखि ! स न निरु-
णद्धि गेहपतिः ॥”)

निशापुष्पं, क्ली, (निशायां रात्रौ पुष्प्यति विक-

सतीति । पुष्प विकासे + अच् ।) उत्पलम् ।
इति राजनिर्घण्टः ॥

निशाबलः, पुं, (निशायां रात्रौ बलं यस्य ।)

मेषवृषमिथुनकर्कटधनुर्मकरराशयः । इति
ज्योतिषम् ॥

निशाभङ्गा, स्त्री, (निशा हरिद्रा तद्बत् भङ्गो

यस्याः ।) दुग्धपुच्छी । इति शब्दचन्द्रिका ॥
दुग्धपेया इति भाषा ॥

निशामणिः, पुं, (निशाया मणिरिव ।) चन्द्रः ।

इति त्रिकाण्डशेषः ॥

निशामनं, क्ली, (नि + शम + णिच् + ल्युट् ।)

दर्शनम् । आलोचनम् । इति मेदिनी । ने,
१९० ॥ श्रवणम् । इति हेमचन्द्रः । ३ । २४० ॥

निशामृगः, पुं, (निशाचरो मृगः पशुः ।)

शृगालः । इति शब्दरत्नावली ॥

निशारणं, क्ली, (नि + शृ गि हिंसे + णिच् +

ल्युट् ।) मारणम् । इत्यमरः । २ । ८ । ११२ ॥
(निशाया रणम् ।) रात्रियुद्धम् ॥ (निशाया
रणः शब्दः ।) रात्रिशब्दे, पुं ॥

निशारत्नं, क्ली, (निशाय निशायां वा रत्नमिव ।)

चन्द्रः । इति हेमचन्द्रः । २ । १९ ॥

निशारुकः, पुं, रूपकभेदः । यथा, --

“दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः ।
निशारुकः प्रतितालः कथिताः सप्त रूपकाः ॥”
तस्य लक्षणं यथा, --
“लघुद्बन्द्वं गुरुद्बन्द्वं तन्न्यासतालकः स्मृतः ।
चतुर्विंशतिवर्णैस्तु रसे हास्ये निशारुकः ॥”
तालविशेषः । यथा, --
“प्रविश्य नर्त्तको रङ्गं विकीर्य्य कुसुमादिकम् ।
निशारुकेण तालेन कोमलं नृत्यमाचरेत् ॥”
इति सङ्गीतदामोदरः ॥

निशावनः, पुं, (निशावत् अन्धकारजनकं वनं

यत्र ।) शणः । इति राजनिर्घण्टः ॥

निशावृन्दं, क्ली, (निशानां वृन्दं समूहः ।)

रात्रिगणः । बहुनिशाः । इति शब्दरत्नावली ॥

निशावेदी, [न्] पुं, (निशां निशापरिमाणं वेत्ति

वेदयति वा । विद् वा वेदि + णिनिः ।) कुक्कुटः ।
इति हेमचन्द्रः । ४ । ३९० ॥

निशाहसः, पुं, (निशायां रात्रौ हसो हासो

विकासो यस्य ।) कुमुदम् । इति त्रिकाण्डशेषः ।

निशाह्वा, स्त्री, (निशाया आह्वा आख्या आह्वा

यस्याः ।) हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥

निशितं, क्ली, (नि + शो + क्तः । “शाच्छोरन्य-

तरस्याम् ।” ७ । ४ । ४१ । इति इत्वम् ।)
लौहम् । इति राजनिर्घण्टः ॥

निशितः, त्रि, (नि + शो + क्तः ।) शाणितः ।

इत्यमरः । ३ । १ । ९१ ॥ (यथा, महाभारते ।
१ । १३४ । ९५ ।
“तद्बाक्यसमकालन्तु वीभसुनिशितैः शरैः ।
अवार्य्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ॥”)

निशिपुष्पा, स्त्री, (निशि पुष्प्यति विकाशते इति ।

पुष्प + अच् । टाप् ।) शेफालिका । इति
त्रिकाण्डशेषः ॥

निशिपुष्पिका, स्त्री, (निशिपुष्पा + स्वार्थे कन् ।)

शेफालिका । इति शब्दरत्नावली ॥

निशिपुष्पी, स्त्री, शेफालिका । निशि रात्रौ विक-

शितं पुष्पमस्या इति व्युत्पत्त्या मध्यपदलोपः
सप्तम्या अलुक् च ततो जातेरत इति ईप् ॥

निशीथः (नितरां शेतेऽत्रेति । नि + शी +

“निशीथगोपीथावगथाः ।” उणां । २ । ९ ।
इति थक्प्रत्ययेन निपातनात् साधुः ।) अर्द्ध-
रात्रः । इत्यमरः । १ । ४ । ६ ॥ (यथा,
रघुः । ३ । १५ ।
“निशीथदीपाः सहसा हतत्विषा
बभूवुरालेख्यसमर्पिता इव ॥”)
रात्रिमात्रम् । इति मेदिनी । थे, २० ॥ (यथा,
ऋतुसंहारे । १ । ३ ।
“सुतन्त्रीगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥”)

निशीथिनी, स्त्री, (निशीथोऽस्त्यस्या इति ।

इनिः । ङीप् ।) रात्रिः । इत्यमरः । १ । ४ । ४ ॥

निशीथिनीनाथः, पुं, (निशीथिन्या नाथः ।)

चन्द्रः । इति हलायुधः ॥

निशीथ्या, स्त्री, रात्रिः । इति भूरिप्रयोगः ॥

निशुम्भः, पुं, (नि + शुन्भ हिंसायाम् + भावे

घञ् ।) वधः । इति हेमचन्द्रः । ३ । ३६३ ॥
दानवविशेषः । यथा, --
“कश्यपस्य दनुर्नाम भार्य्यासीद्द्विजसत्तम ! ।
तस्यास्त द्बौ सुतावास्तां सहस्राक्षाद्बलाधिकौ ॥
ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरासुरः ।
तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥”
इति वामनपुराणे ५२ अध्यायः ॥
(अयं हि भगवत्या निहतः । इति मार्कण्डेय-
पुराणम् ॥ अपरोऽसुरविशेषः । यदुक्तं मार्क-
ण्डेये । ९१ । ३६ -- ३७ ।
“वैवस्वतेऽन्तरे प्राप्तेऽष्टाविंशति मे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥
नन्द्गोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥”)

निशुम्भनं, क्ली, (नि + शुम्भ हिंसायाम् + भावे

ल्युट् ।) मारणम् । इति हलायुधः ॥

निशुम्भमर्द्दिनी, स्त्री, (निशुम्भं मर्द्दयतीति । मृद्

+ णिनिः । ङीप् ।) दुर्गा । इति हेमचन्द्रः ॥

निशुम्भशुम्भमथनी, स्त्री, (निशुम्भं शुम्भञ्च मथ्ना-

तीति । मन्थ विलोडने + ल्युः । नलोपः । ततो
ङीष् ।) दुर्गा । यथा, देवीपुराणे ।
“निशुम्भशुम्भमथनी देवी वेदेषु गीयते ॥”

निशुम्भी, [न्] पुं, (निशुम्भो मोहनाशोऽस्त्य-

स्येति । इनिः ।) बुद्धविशेषः । तत्पर्य्यायः ।
हेरम्बः २ हेरुकः ३ चक्रसम्बरः ४ देवः ५ वज्र-
कपाली ६ शशिशेखरः ७ वज्रटीकः ८ । इति
त्रिकाण्डशेषः ॥

निशैतः, पुं, (निशायामपि एतं ईषद्गमनं यस्य ।)

वकः । इति त्रिकाण्डशेषः ॥

निश्चयः, पुं, (निश्चीयतेऽनेनेति । निर् + चि +

“ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति
अप् ।) निःसंशयज्ञानम् । तत्पर्य्यायः । निर्णयः
२ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३
निचयः ४ । इति शब्दरत्नावली ॥ (यथा, देवी-
भागवते । १ । १९ । ३५ ।
“देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता ।
तथा धनं गृहं राज्यं न ममेति च निश्चयः ॥”)
“तदभावा प्रकारा धीस्तत्प्रकारा तु निर्णयः ॥”
इति भाषापरिच्छेदः ॥
(अर्थालङ्कारविशेषः । तल्लक्षणादिकं यथा,
साहित्यदर्पणे । १० । ५६ ।
“अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः ॥”
उदाहरणं यथा, --
“वदनमिदं न सरोजं नयने नेन्दीवरे एते ।
इह सविधे मुग्धदृशो मधुकर ! न मुधा परि-
भ्राम्य ॥”)

निश्चला, स्त्री, (निश्चलतीति । निर् + चल +

अच् । टाप् ।) शालपर्णी । इति राजनिर्घण्टः ॥
पृष्ठ २/९०२
पृथिवी ॥ (नदीविशेषः । यथा, मात्स्ये ।
११३ । २२ ।
“कौशिकी तु तृतीया च निश्चला गण्डकी तथा ।
इक्षुर्लौहितमित्येता हिमवत्पार्श्वनिः सृताः ॥”)
अचले, त्रि । यथा, --
“निवसतु तव गेहे निश्चला सिन्धुपुत्त्री ॥”
इत्याद्युद्भटः ॥

निश्चलाङ्गः, पुं, (निश्चलवत् अङ्गं यस्य ।) वकः ।

इति राजनिर्घण्टः ॥ पर्व्वतादिः । स्पन्द-
रहिते, त्रि ॥

निश्चायकः, त्रि, (निश्चिनोतीति । निर् + चि +

ण्वुल् ।) निञ्चयकर्त्ता । निर्णायकः । यथा,
अनुपाधित्वनिश्चायकदर्शनत्वे न हेतुत्वमिति
व्याप्तिग्रहमाथुरी ॥

निश्चारकः, पुं, (निश्चरतीति । निर् + चर +

ण्वुल् ।) पुरीषक्षयः । वायुः । स्वच्छन्दम् ।
इति मेदिनी । के, १९५ ॥

निश्चिन्तः, त्रि, (निर्गता चिन्ता यस्मात् ।)

चिन्तारहितः । यथाह कश्चित् ।
“मूर्खत्वं सुलभं भजस्व कुमते ! मूर्खस्य चाष्टौ
गुणा
निश्चिन्तो बहुभोजकोऽतिमुखरो रात्रिन्दिवा
स्वप्नभाक् ।
कार्य्याकार्य्यविचारणादिरहितो मानापमाने समे
दत्त्वा सर्व्वजनस्य मूर्द्ध्नि चरणौ मूर्खश्चिरं
जीवतु ॥”

निश्चीयमानः, त्रि, (निर् + चि + कर्म्मणि शानच् ।)

निश्चयविषयः । यथा । ननु तथापि एवकारस्य
निश्चीयमानस्यैव सार्थकत्वाभावात् कुतः प्रकृति-
त्वामिति शब्दशक्तिप्रकाशिकाटीकायां राम-
भद्रः ॥

निश्चुक्कणं, क्ली, (निःशेषेण चुक्कणम् ।) दन्त-

शाणम् । इति त्रिकाण्डशेषः ॥ मिसी इति भाषा ॥

निश्चेष्टः, त्रि, (निर्गता चेष्टा यस्मात् ।) चेष्टा-

रहितः । निश्चेष्टितः । यथा, --
“गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः ।
अव्यक्तरावो न्यपतत् सहवालो व्यसुर्व्रजे ॥”
इति श्रीभागवते दशमः ॥

निश्वासः, पुं, (नि + श्वस + भावे घञ् ।) बहि-

र्मुखश्वासः । तत्पर्य्यायः । पानः २ एतनः ३ ।
इति हेमचन्द्रः ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । ८९ ।
“संहर्त्तुं सर्व्वव्रह्माण्डं शक्ता निःश्वासमात्रतः ॥”)

निश्वाससंहिता स्त्री, (निश्वासाख्या संहिता ।)

शिवप्रणीतशास्त्रविशेषः । यथा, --
“एवमभ्यर्थितस्तैस्तु पुराहं द्बिजसत्तमाः ।
वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ॥
निश्वासाख्यां ततस्तस्यां लीना वाभ्रव्यशाण्डिलाः ।
निश्वामहंहितायां हि लक्षमात्रप्रमाणतः ॥
सैव पाशुपती दीक्षा योगः पाशुपतस्य हि ।
एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते ॥
तत् क्षुद्रकर्म्म विज्ञेयं रौद्रं शौचविवर्ज्जितम् ॥”
इति वराहपुराणम् ॥

निषङ्गः, पुं, (नितरां सजन्ति शरा यत्र । नि +

सन्ज + अधिकरणे घञ् ।) तूणीरः । इत्य-
मरः । २ । ८ । ८८ ॥ (यथा, रघुः । २ । ३० ।
“ततो मृगेन्द्रस्य मृगेन्द्रगामी
वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गा-
दुद्धर्त्तुमैच्छत् प्रसभोद्धृतारिः ॥”)
सङ्गः । इति मेदिनी । गे, ४० ॥

निषङ्गथिः, पुं, (नि + सन्ज + “नौ षन्जेर्घथिन् ।”

उणां । ४ । ८७ । इति भावे घथिन् । घित्त्वात्
कुत्वम् । ततः षत्वम् ।) समालिङ्गः । आलि-
ङ्गनम् । इत्युणादिकोषः । १ । १६१ ॥ धन्वी ।
रथः । स्कन्धः । तृणम् । सारथिः । इति
संक्षिप्तसारोणादिवृत्तिः ॥ (आलिङ्गके, त्रि ।
इत्युज्ज्वलदत्तः ॥)

निषङ्गी, [न्] पुं क्ली, (निषङ्गोऽस्त्यस्येति ।

निषङ्ग + इनिः ।) धनुर्धरः । इत्यमरः । २ ।
८ । ६९ ॥ (यथा, रघुः । ७ । ५६ ।
“रथी निषङ्गी कवची धनुष्मान्
दृप्तः स राजन्यकमेकवीरः ॥”
स्वनामख्यातो धृतराष्ट्रपुत्त्रः । इति महा-
भारतम् । १ । ११७ । ११ ॥)

निषण्णः, त्रि, (निषीदति स्मेति । नि + सद् +

गत्यर्थेति क्तः । “रदाभ्यां निष्ठातो नः पूर्ब्बस्य
च दः ।” ८ । २ । ४२ । इति निष्ठातस्य धातो-
र्दकारस्य च नः ।) उपविष्टः । यथा, --
“पादावमुञ्चयन्ती श्रीर्देवक्याश्चरणान्तिके ।
निषण्णा पङ्कजे पूज्या नमो देव्यै श्रिया इति ॥”
इति तिथ्यादितत्त्वम् ॥

निषण्णकं, क्ली, (निषण्ण + संज्ञायां कन् ।) सुनि-

षण्णकम् । इति शब्दरत्नावली ॥

निषदः, पुं, (निषीदन्ति षड्जादयः स्वरा यत्र ।

नि + सद् + बाहुलकात् अप् ।) निषादस्वरः ।
इत्यमरटीकायां स्वामी ॥ (स्वनामख्यातनृप-
विशेषः । यथा, महाभारते । २ । ९ । १५ ।
“भङ्गासुरिः सुनीथश्च निषदोऽथ वहीनरः ॥”)

निषद्या, स्त्री, (निषीदत्यस्यामिति । नि + सद +

“संज्ञायां समजनिषदेति ।” ३ । ३ । ९९ ।
इति अधिकरणे क्यप् ।) पण्यविक्रयशाला ।
इत्यमरः । २ । २ । २ ॥ हट्टः । इत्यन्ये । इति
भरतः ॥ क्षुद्रखट्वा । इति त्रिकाण्डशेषः ॥

निषद्वरः, पुं, (निषीदन्ति विषण्णा भवन्ति जना

अत्रेति । नि + सद विषादे गतौ + “नौ सदेः ।”
उणां । २ । १२४ । इति ष्वरच् । “सदि-
रप्रतेः ।” ८ । ३ । ६६ । इति षत्वम् ।) कर्द्दमः ।
इत्यमरः । १ । १० । ९ ॥

निषद्वरी, स्त्री, (नि + सद विषादे + अधिकरणे

ष्वरच् । षित्त्वात् ङीप् ।) रात्रिः । इति
मेदिनी । रे, २७३ ॥

निषधः, पुं, पर्व्वतविशेषः । इत्यमरः । २ । ३ । ३ ॥

स तु इलावृतस्य दक्षिणे हरिवर्षस्य सीमा-
पर्व्वतः । प्रागायतः । अयुतयोजनोत्सेधः ।
द्विसहसयोजनविस्तीर्णः । इति श्रीभागवते ५
स्कन्धे १६ अध्यायः ॥ कठिनम् । देशविशेषः ।
(यथा, महाभारते । ३ । ५३ । ३ ।
“ब्रह्मण्यो वेदवित् शूरो निषधेषु महीपतिः ॥”)
तद्देशीयराजः । इति मेदिनी । धे, ३३ ॥
निषादस्वरः । इति हेमचन्द्रः । ६ । ३७ ॥
(रामप्रपौत्त्रे सूर्य्यवंशीयनृपभेदे । यथा, हरि-
वंशे । १५ । २६ ।
“रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥”)

निषादः, पुं, (निषद्यते ग्रामशेषसीमायाम् ।

यद्वा, निषीदति पापमत्र । नि + सद् + कर्म्मणि
अधिकरणे वा घञ् ।) चण्डालः । इत्यमरः ।
२ । १० । २० ॥ वेणशरीरोद्भवजातिविशेषः ।
यथा, अग्निपुराणे ।
“मथ्यमाने ततो राज्ञस्तस्मिन्नूरौ प्रजज्ञिवान् ।
ह्रस्वोऽतिपरुषः कृष्णस्तद्भयात् प्राञ्जलिः स्थितः ॥
ते मन्त्रैर्व्विह्वलं दृष्ट्वा निषीदेत्यब्रुवंस्तदा ।
निषादवंशकर्त्ता स बभूव मुनिसत्तमाः ! ॥
धीवरानसृजन् वापि वेणकल्मषसम्भवान् ।
ये चान्ये विन्ध्यनिलयाः शवरा नाहलादयः ॥
अधर्म्मरुचयो ये च वित्तैनान् वेणसम्भवान् ॥”
पारिभाषिकचण्डालो यथा, मार्कण्डेयपुराणे ।
“आशाकर्त्तुस्त्वदाता च दातुश्च प्रतिषेधकः ।
शरणागतं यस्त्यजति स चण्डालोऽधमो नरः ॥”
धीवरविशेषः । इति मेदिनी । दे, ३४ ॥
(निषीदन्ति षड्जादयः स्वरा यत्र । नि + सद् +
घञ् ।) सप्तस्वरान्तर्गतशेषस्वरः । स तु नारदमते
हस्तिस्वरतुल्यस्वरः । अस्योच्चारणस्थानं लला-
टम् । व्याकरणमते दन्तः । अयं वैश्यवर्णः ।
सर्व्वस्वराणां मध्ये उच्चः । अस्य जातिः सम्पूर्णा ।
अस्य कूटतानाः ५०४० । प्रत्येकतानम् ५६
समुदायेन २८२२४० भवन्ति । अस्य स्वरूपः
गणेशतुल्यः । कृष्णश्वेतवर्णः । स्थानं पुष्कर-
द्वीपः । देवता सूर्य्यः । वारः शनिः । समयः
निशान्ते ८ दण्ड -- ३४ पलानि । अस्य श्रुतिः
उग्रा शोभिनी च । मूर्च्छना मन्दरस्थाने
सखा । मध्यस्थाने अहङ्कृता । तारस्थाने लोचना
च । निषादवर्ज्जिता रागिणी आसावरी मल्लारी
च । नादपुराणमते । निःसन्तानोऽयम्
बीणायां धैवतावधिषड्जस्थानपर्य्यन्तं प्रथम-
सप्तकतृतीयांशस्य शेषसमुदायबीणातन्त्रीनिषा-
दस्थानं भवति । इति सङ्गीतशास्त्रम् ॥ * ॥
“षड्जादयः षडेतेऽत्र स्वराः सर्व्वे मनोहराः
निषीदन्ति यतो लोके निषादस्तेन कथ्यते ॥
चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मताः ।
ऋषभे धैवते तिस्रो द्वे गान्धारनिषादके ॥”
इति सङ्गीतदामोदरः ॥
(अस्य असुरवंशे उत्पत्तिः । वैश्यो जातिः ।
विचित्रो वर्णः । पुष्करद्बीपे जन्म । ऋषि-
स्तुम्बुरुः । सूर्य्यो देवता । जगती छन्दः । करुणे
उपयोगित्वम् ॥ इति सङ्गीतदर्पणम् ॥)
पृष्ठ २/९०३

निषादी, [न्] पुं, (निषीदत्यवश्यमिति । नि +

सद् + आवश्यके णिनिः ।) हस्त्यारोहः । इत्य-
मरः । २ । ८ । ५१ ॥ माहुत् इति ख्यातः ॥
(यथा, माघे । ५ । ४१ ।
“प्रत्यन्यदन्तिनिशिताङ्कुशदूरभिन्न-
निर्य्याणनिर्य्यदसृजं चलितं निषादी ॥”
उपविष्टे, त्रि । यथा, रघुः । १ । ५२ ।
“आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्व्वर्त्तितरोमन्थमुटजाङ्गनभूमिषु ॥”)

निषिद्धं, त्रि, (निषिध्यते स्मेति । नि + सिध +

क्तः ।) निषेधविषयम् । यथा, --
“तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम् ॥”
इति तिथितत्त्वम् ॥
निषिद्धकर्म्माणि यथा, --
मान्धातोवाच ।
“ब्रूहि कर्म्मान् सुखोपायान् मद्बिधानां सुखा-
वहान् ।
निषिद्धमपि यद्येषां तदेव प्रथमं वद ॥
नारद उवाच ।
ज्याकर्षणं शत्रुनिवर्हणञ्च
कृषिर्ब्बणिज्या पशुपालनञ्च ।
शुश्रूषणञ्चापि तथार्थहेतो-
रकार्य्यमेतत् परमं ब्राह्मणस्य ॥
राजप्रैष्यं कृषिधनं जीवनञ्च बणिज्यया ।
कौटिल्पं कौलटीयञ्च कुषीदञ्च विवर्ज्जयेत् ॥
शूद्रो राजन् ! स भवति धर्म्मापेतो दुराचरः ।
वृषलीं रमते यस्तु पिशुनो नर्त्तनस्तथा ॥
ग्रामप्रेष्यो विकर्म्मा च यो द्विजश्चरिताच्च्युतः ।
वेदानपि जपन् शूद्रैः समः स परिकीर्त्तितः ।
कृत्येष वर्ज्जनीयोऽसौ वैदिके तान्त्रिकेऽपि च ॥
निर्म्मर्य्यादे चाशुचौ क्रूरवृत्ते
हिंसात्मके त्यक्तधर्म्मे श्ववृत्ते ।
हव्यञ्च कव्यञ्च न देयमेव
दानञ्च दत्तं विफलं नरेन्द्र ! ॥
राजन्यानां करादानं विना वैवाहिकञ्च यः ।
प्रतिग्रहः स निन्द्योऽत्र परत्र चासुखप्रदः ॥
युद्धे पलायनञ्चैव तथा कातरतार्थिषु ।
अपालनं प्रजानाञ्च दाने धर्म्मे विरक्तता ॥
अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः ।
अमात्यानामसम्मानं तेषां कर्म्मानवेक्षणम् ॥
भृत्यानाञ्च परीहासो निषिद्धः क्षत्त्रजन्म-
नाम् ॥
वैश्यानां धनलोभेन मिथ्यामूल्यप्रकाशनम् ।
अपालनं पशूनाञ्च अनिज्या विभवे सति ॥
शूद्राणाञ्च महाराज ! वृथैव धनसञ्चयः ।
शुश्रूषोः कृतकार्य्यस्य कृतसन्तानकर्म्मणः ॥
अभ्यनुज्ञातराज्यस्य शूद्रस्य जगतीपते ! ।
अल्पान्तरगतस्यापि दशधर्म्मगतस्य च ॥
आश्रमा विहिताः सर्व्वे वर्ज्जयित्वा निरा-
शिषम् ॥”
इति पाद्मे स्वर्गखण्डे २७ अध्यायः ॥
अपि च ।
“यस्तु भागवतान् दृष्ट्वा भूत्वा भागवतः शुचिः ।
अभ्युत्थानं न कुर्व्वीत अहं तेनापि हिंसितः ॥
यश्च कन्यां पिता दत्त्वा न प्रयच्छति तां पुनः ।
अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः ॥
भार्य्यां प्रियसखीं ये तु साध्वीं हिंसन्ति निर्घृणाः ।
न ते नृतां प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ॥
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपापकाः ।
एतान् शिष्यान् विवर्ज्जेत उक्ता ये चान्य-
पातकाः ॥
शालपत्रे न भोक्तव्यं न च्छेत्तव्यं कदाचन ।
अश्वत्थो वटवृक्षश्च न च्छेत्तव्यौ कदाचन ॥
न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन ।
कर्म्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥
यदीच्छेत् परमां सिद्धिं मोक्षधर्म्मं सनातनम् ।
भक्ष्याभक्ष्यञ्च ते शिष्य वेदितव्यं तदन्तरे ॥
करीरस्य वधः शस्तः फलान्यौडुम्बरस्य च ।
सद्योभक्षी भवेत्तेन अभक्ष्याः पूतिवासिकाः ॥
न भक्षणीयं वाराहं मांसं मत्स्यस्य सर्व्वशः ।
अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितर्हि न संशयः ॥
परिवादं न कुर्व्वीत न हिंसा वा कदाचन ।
पैशुन्यञ्च न कर्त्तव्यं स्तैन्यं वापि कदाचन ॥
अतिथिञ्चागतं दृष्ट्वा दूराध्वानागमं क्वचित् ।
संविमागस्तु कर्त्तव्यो येन केनापि पुत्त्रक ! ॥
गुरुपत्नी राजपत्नी ब्राह्मणी वा कदाचन ।
मनसापि न गन्तव्या एवं विष्णुः प्रभाषते ॥
कनकादीनि रत्नानि यौवनस्था च कामिनी ।
तत्र चित्तं न कर्त्तव्यमेवं विष्णुः प्रभाषते ॥
दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनन्तथा ।
तत्र मन्युर्न कर्त्तव्य एवं धर्म्मः सनातनः ॥”
इति वराहपुराणम् ॥
(निवारितम् । यथा, देवीभागवते । २ । ६ । ६० ।
“मा मा मा मेति बहुधानिषिद्धोऽपि तथाभृशम् ।
आलिलिङ्ग प्रियां दैवात् पपात धरणीतले ॥”)

निषेकः, पुं, (निषिच्यते प्रक्षिप्यत इति । नि +

सिच् + घञ् ।) गर्भाधानम् । इति निषेकादि-
कृत्शब्दटीकायां भरतः ॥ * ॥
“निषेकाल्लभते पत्नी गुरुर्भर्त्ता शुभाशुभम् ।
मन्त्रशिल्पमपत्यञ्च सर्व्वमेतन्न यत्नतः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३३ अध्यायः ॥
(यथा, मनुः । २ । १६ ।
“निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य-
चित् ॥”
क्ली, रेतः । यथा, मनुः । ४ । १५१ ।
“दूरादावसथान्मूत्रं दूरात् पादावसेचनम् ।
उच्छिष्टान्नं निषेकञ्च दूरादेव समाचरेत् ॥”
“निषिच्यत इति निषेकं रेतश्चोत्सृजेत् ।”
इति तट्टीकायां कुल्लूकभट्टः ॥ (क्षरणम् ।
यथा, रघुः । ८ । ३८ ।
“ननु तैलनिषेकविन्दुना
सह दीपार्च्चिरुपैति मेदिनीम् ॥”)

निषेकादिकृत्, पुं, (निषेकादिं गर्भाधानादिकं

करोतीति । निषेकादि + कृ + क्विप् ।) गर्भा-
धानादिकर्त्ता । आदिना सीमन्तोन्नयनादेर्म्मन्त्र-
विद्यादानादेश्च ग्रहणं तत्कर्त्ता पित्रादिर्गरुः
स्यात् । इत्यमरभरतौ ॥

निषेधः, पुं, (नि + सिध् + घञ् ।) प्रतिषेधः ।

निवृत्तिः । विधिविपरीतः । यथा, --
“तिथीनां पूज्यता नाम कर्म्मानुष्ठानतो मता ।
निषेधस्तु निवृत्तात्मा कालमात्रमपेक्षते ॥”
इति तिथितत्त्वम् ॥

निषेवणं, क्ली, (नि + सेव + भावे ल्युट ।) सेवा ।

यथा, भागवते । १ । २ । १६ ।
“शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥”

निषेव्यः, त्रि, (नि + सेव + भावे ण्यत् ।) सेव-

नीयः । यथा, भागवते । १ । १२ । २२ ।
“मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ॥”

निष्क, क ङ माने । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) मूर्द्धन्यषमध्यः । क ङ,
निष्कयते स्वर्णं बणिक् । इति दुर्गादासः ॥

निष्कः, पुं क्ली, (निश्चयेन कायति शोभते इति ।

निस् + कै + आतश्चेति कः ।) चत्वारः सुवर्णाः ।
चारि मोहर इति भाषा ॥ यथा, मनुः ।
८ । १३७ ।
“धरणानि दश ज्ञेयः शतमानस्तु राजतः ।
चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥”
साष्टशतसुवर्णः । हेम । उरोभूषणम् । (यथा,
रामायणे । १ । ६ । ११ ।
“नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ॥”)
पलम् । दीनारः । इत्यमरः । ३ । ३ । १४ ॥ अस्य
टीका यथा । “शास्त्रीयषोडशमाषकपरिमितं
स्वर्णं सुवर्णं तेषां सुवर्णानां अष्टाधिकशतम् ।
हेम स्वर्णमात्रम् । उरोभूषणं वक्षोऽलङ्कारः ।
पलं शास्त्रीयमानविशेषः । उरोभूषणं पलञ्च
हेम्न एवेति केचित् । दीनारः सम्यग्व्यवहारार्थं
मानवस्तु एषु निष्कः । केचित्तु दीनार इति
पल इत्यस्य विशेषणम् । दीनारे पले लौकिक-
पले न तु शास्त्रीये इत्याहुः ॥ स्मार्त्तास्तु
द्वात्रिंशद्रक्तिकापरिमितं काञ्चनं दीनारः ।
तथाहि ।
‘दीनारो रोपकैरष्टाविंशत्या परिकीर्त्तितः ।
सुवर्णंसप्ततितमो भागो रोपक उच्यते ॥’
इति विष्णुगुप्तः ॥
सुवर्णोऽशीतिरक्तिकापरिमितं काञ्चनं तस्य
सप्ततितमो भागः सप्तमांशाधिकहेमरक्तिकायां
रोपकः तदष्टाविंशत्या द्बात्रिंशद्रक्तिकापरिमितं
हेम दीनार इति पर्य्यवस्यतीत्याहुः ।” इति
भरतः ॥ * ॥ स्वर्णकर्षः । स्वर्णपलम् । इति
हेमचन्द्रः ॥ कण्ठभूषा । इति जटाधरः ॥
माषकचतुष्टयम् । इति वैद्यकपरिभाषा ॥ (यथा,
“स्याच्चतुर्म्माषकैः शाणः स निष्कष्टङ्क एव च ॥”
इति पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)
पृष्ठ २/९०४
षोडशद्रम्यः । षोल काहन इति भाषा ॥ (यथा,
लीलावत्याम् । २ ।
“वराटकानां दशकद्बयं यत्
सा काकिनीं ताश्च पणश्चतस्रः ।
ते षोडशद्रम्य इहावगम्यो
द्रम्यैस्तथा षोडशभिश्च निष्कः ॥”)

निष्कण्ठः, पुं, (निर्गतः कण्ठः स्कन्धो यस्य ।)

वरुणवृक्षः । इति शब्दचन्द्रिका ॥

निष्कर्षः, पुं, (निर् वा निस् + कृष् + भावे घञ् ।)

निश्चयः । यथा, अत्रायं निष्कर्ष इत्याद्यापरा-
ह्रिकश्राद्धादिव्यवस्थायां मूर्खहा ॥ (करार्थं
प्रजापीडनम् । इति नीलकण्ठः ॥ यथा, महा-
भारते । २ । १३ । १३ ।
“अनुकषञ्च निष्कर्षं व्याधिपावकमूर्च्छनम् ।
सर्व्वमेव न तत्रासीद्धर्म्मनित्ये युधिष्ठिरे ॥”)

निष्कलं, त्रि, (निर्गता कला यस्मात् ।) कला-

शून्यम् । (यथा, महाभारते । ३ । २०८ । ९ ।
“संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्कलाः सप्त प्रहीणाः स्वस्वकर्म्मभिः ॥”)
नष्टवीर्य्यम् । इति मेदिनी । ले, १०३ ॥ ब्रह्म ।
यथा, --
“चिन्मयस्याद्बितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्य्यार्थं ब्रह्मणो रूपकल्पना ॥”
इत्येकादशीतत्त्वे जामदग्न्यवचनम् ॥ आधारे,
पुं । इति शब्दचन्द्रिका ॥

निष्कला, स्त्री, (निर्गता कला यस्याः ।) विगता-

र्त्तवा । इति शब्दरत्नावली ॥ बृद्धा । इति
राजनिर्घण्टः ॥

निष्कली, स्त्री, (निष्कल + ङीष् ।) ऋतुहीना ।

निवृत्तरजस्का । इति शब्दरत्नावली ॥

निष्कालकः, पुं, (निष्कालयतीति । निर् + कालि

+ ण्वुल् ।) मुण्डितलोमा घृताभ्यक्तः प्रायश्चि-
त्तार्हः । यथा । मुण्डितलोमकेशेन घृताभ्यक्तेन
च कर्त्तव्यम् । निष्कालको घृताभ्यक्तस्तप्तां
शूर्म्मीं परिष्वज्य मरणात् पूतो भवतीति
विज्ञायते । इति वशिष्ठस्मरणात् । इति मिता-
क्षरा ॥

निष्काशः, पुं, (नितरां काशते शोभते प्रासादा-

दाविति । निर् + काश + अच् ।) प्रासादाद्युप-
स्थानम् । इति महाभारते राजधर्म्मः ॥ साजा
इति वाराण्डा इति च भाषा ॥

निष्काशितः, त्रि, (विर् वा निस् + काश + णिच्

क्तः ।) निष्कासितः । इत्यमरटीकायां भरतः ॥

निष्कासितः, त्रि, (निस् + कस + णिच् + क्तः ।)

बहिष्कृतः । दूरीकृतः । तत्पर्य्यायः । अवकृष्टः
२ । इत्यमरः । ३ । १ । ३९ ॥ निःसारितः ३ ।
इति जटाधरः ॥ निर्गमितः । आहितः ।
अधिकृतः । इति मेदिनी । ते, २०२ ॥

निष्कुटः, पुं, (कुटात् गृहात् निष्क्रान्तः ।) गृह-

समीपोपवनम् । इत्यमरः । २ । ३ । १ ॥ (क्वचित्
क्लीवेऽपि दृश्यते । यथा, महाभारते । १२ ।
६९ । ५५ ।
“परिखाश्चैव कौरव्य ! प्रतोलीर्निष्कुटानि च ।
नजात्वन्यः प्रपश्येत गुह्यमेतद्युधिष्ठिर ! ॥”)
क्षेत्रम् । (यथा, महाभारते । २ । ५० । ९ ।
“इन्द्रकृष्टैर्वर्त्तयन्ति धान्यैर्ये च नदीमुस्वैः ।
समुद्रनिष्कुटे जाताः पारेसिन्धु च मानवाः ॥”)
कपाटः । इति मेदिनी । टे, ४८ ॥ पत्न्याटः ।
इति हारावली ॥ जानानामहल इति पारस्य-
भाषा ॥

निष्कुटिः, स्त्री, (कुट कौटिल्ये + “इगुपधात्

कित् ।” उणां ४ । ११९ । इति इन् । निर्गता
कुटिः कौटिल्यं यस्याः ।) एला । इत्यमरः ।
२ । ४ । १२५ ॥ (पर्य्यायोऽस्या यथा, --
“एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ।
भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

निष्कुटी, स्त्री, (निष्कुटि + कृदिकारादिति वा

ङीष् ।) निष्कुटिः । इत्यमरटीकायां भरतः ।
२ । ४ । १२५ ॥

निष्कुम्भः, पुं, (निस् + कुम्भ + अच् ।) दन्ती-

वृक्षः । इत्यमरटीकायां रायमुकुटः ॥ (निर्गतः
कुम्भो यस्मात् ।) कुम्भशून्ये, त्रि ॥

निष्कुशितः, त्रि, (निस् + कुश + क्तः ।) निष्का-

सितः । यथा, --
“काकैर्निष्कुशितं श्वभिः कवलितं वीचीभि-
रान्दोलितम् ॥”
इत्यादि वाल्मीकिकृतगङ्गास्तोत्रम् ॥

निष्कुहः पुं, (नितरां कुहयते इति । कुह विस्मा-

पने + पचाद्यच् ।) वृक्षकोटरम् । इत्यमरः ।
२ । ४ । १३ ॥

निष्कृतिः, स्त्री, (निर् + कृ + क्तिन् ।) निर्मुक्तिः ।

निस्तारः । यथा, --
“ब्रह्मघ्ने चैव मित्रघ्ने सुरापे गुरुतल्पगे ।
सर्व्वत्र विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(अग्निविशेषे, पुं । यथा, महाभारते । ३ ।
२१८ । १४
“आक्रोशतान्तु भूतानां यः करोतीह निष्कृ-
तिम् ।
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥”)

निष्क्रमः, पुं, (निष्क्रम्यतेऽनेनेति । निस् + क्रम +

घञ् । “नोदात्तोपदेशस्येति ।” ७ । ३ । ३४ ।
इति न वृद्धिः ।) धीशक्तिः । इत्यमरः । ३ ।
२ । २५ ॥ निर्गमः । (यथा, कथासरित्सागरे ।
२५ । ४३ ।
“कञ्चित् कालं प्रतीक्षे च प्राणायामस्य निष्क्र-
मम् ।
तृतीयेऽहि गतेऽप्याद्य यान्त्यैतस्य हि
नासवः ॥”)
दुष्कुलः । इति मेदिनी । मे, ४५ ॥ निष्क्रमण-
संस्कारः ।
“अहन्येकादशे नाम चतुर्थे भासि निष्क्रमः ॥”
इति याज्ञवल्क्यः । १ । १२ ॥
(क्रमरहिते, त्रि । यथा, पद्मपुराणे पाताल-
खण्डे ।
“निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्र-
हम् ॥”)

निष्क्रमणं, क्ली, (निस् + क्रम + भावे ल्युट् ।)

दशसंस्कारान्तर्गतसंस्कारविशेषः । तदनुष्ठानं
यथा, जाते कुमारे जन्मवासराद्यस्तृतीयः
शुक्लपक्षस्तस्य तृतीयायां तिथौ प्रातः कुमारं
स्नापयित्वा सायं सन्ध्यायामतीतायां चन्द्राभि-
मुखः कृताञ्जलिः पिता तिष्ठेत् । अथ माता
शुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणस्यां
दिशि भर्त्तुर्वामपार्श्वे पश्चिमाभिमुखीभूय उत्तर-
शिरसं कुमारं पित्रे समर्पयति । ततो माता
भर्त्तुः पृष्ठदेशेन उत्तरस्यां दिशि गत्वा चन्द्रा-
भिमुखीभूय भर्त्तुर्दक्षिणपार्श्वे तिष्ठति । अथ
पिता जपति प्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रो
देवता कुमारस्य चन्द्रदर्शने विनियोगः । ॐ
यत्ते सुषीमे हृदयं हितमन्तः प्रजापतौ वेदाहं
मन्ये तद्ब्रह्ममाहं पौत्त्रमघं निगाम् । ततः
प्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रो देवता कुमा-
रस्य चन्द्रदर्शने विनियोगः । ॐ यत् पृथिव्या
अनामृतं दिवि चन्द्रमसि श्रितं वेदमृतस्याहं
नाममाहं पोत्त्रमघं ऋषम् । ततः प्रजापति-
रृषिरनुष्टुप्छन्द इन्द्राग्नी देवते कुमारस्य
चन्द्रदर्शने विनियोगः । ॐ इन्द्राग्नी शर्म्म
यच्छतं प्रजायै मे प्रजापती यथायं न प्रमीयेत
पुत्त्रो अनित्र्या अधि । इति मन्त्रत्रयं जप्त्वा
कुमारं चन्द्रं दर्शयति । पिता चन्द्राय अर्घ्यं
ददाति च । ततः पिता तथाभूतमेव कुमार-
मुत्तरशिरसं मात्रे दत्त्वा वामदेव्यगानान्तं कर्म्म
कृत्वाच्छिद्रमवधार्य्य गृहं प्रविशेदिति । अत
ऊर्द्धमपरशुक्लपक्षत्रयेऽपि तृतीयायां तिथौ
सायंसन्ध्यामतिक्रम्य चन्द्राभिमुखः पिता जला-
ञ्जलिं गृहीत्वा प्रजापतिरृषिरनुष्टुप्छन्दश्चन्द्रो
देवता कुमारस्य चन्द्रदर्शने विनियोगः । ॐ
यददश्चन्द्रमसि कृष्णं पृथिव्या हृदयं श्रितं तदहं
विद्बांस्तत् पश्यन्माहं पौत्त्रमघं रुदमिति
पठित्वा जलाञ्जलिं त्यजेत् । वारद्वयं तूष्णीम् ।
ततो वामदेव्यं गीत्वाच्छिद्रमवधार्य्य गृहं प्रविशे-
दिति । एतच्च निष्क्रमणकर्म्माङ्गभूतमुदीच्यं कर्म्म
पत्नी पुत्त्रोपादानविरहात् प्रवासिनापि कर्त्तव्य-
मेव । इति निष्क्रमणम् ॥ इति भवदेवभट्टः ॥ * ॥
तत्र विहितदिनं यथा । रिक्तातिरिक्तास्तिथयः ।
शनिमङ्गलवासरेतरे वाराः । आर्द्राश्लेष्मा-
कृत्तिकाभरणीमघाविशाखापूर्ब्बफल्गुनीपूर्ब्बा-
षाढापूर्ब्बभाद्रपत्शतभिषाभिन्नानि नक्षत्राणि ।
कन्यातुलाकुम्भसिंहसंज्ञकानि लग्नानि । बाल-
कस्य चतुर्थे मासि तृतीये वा चन्द्रादिशोभने
कर्त्तव्यम् । इति ज्योतिषम् ॥