शब्दकल्पद्रुमः/नरकजित्

विकिस्रोतः तः
पृष्ठ २/८३३

नरकजित्, पुं, (नरकं तन्नाम्ना विख्यातमसुरं जय-

तीति । जि + क्विप् । तुक् च ।) विष्णुः । इति
त्रिकाण्डशेषः ॥

नरकदेवता, स्त्री, (नरकस्य अधिष्ठात्री देवता ।)

निरयदेवी । तत्पर्य्यायः । अलक्ष्मीः २ निरृतिः
३ कालपर्णी ४ । इति शब्दरत्नावली ॥

नरकमुक्तः, त्रि, (नरकात् मुक्तः ।) नरकागतः ।

यथा, --
“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते ।
पतितात् प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः ॥
नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकी ।
उपाध्यायं व्यलीकन्तु कृत्वा श्वा भवति द्विजः ॥
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।
गर्द्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत् ॥
शत्रोरितरमाक्रुश्य शारिका संप्रजायते ।
पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते ॥
भर्त्तुः पिण्डमुपाश्रन्तो हित्वान्यानि च सेवयेत् ।
सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।
असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥
विश्वासहर्त्ता च नरो मीनयोनौ प्रजायते ।
यवधान्यानि हृत्वा तु जायते मूषिको मृतः ॥
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ।
भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः ॥
गुर्व्वादिभार्य्यागमनाच्छूकरो जायते नरः ।
यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥
देवतापितृविप्राणामदत्वा योऽन्नमश्नुते ।
प्रमुक्तो नरकाद्वापि वायसः स प्रजायते ॥
ज्येष्ठभ्रात्रवमानाच्चः क्रौञ्चयोनौ प्रजायते ।
शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।
कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।
कृमिः स्त्रीवधकर्त्ता च बालहन्तावजायते ॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।
हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः ॥
घृतं हृत्वा च नकुलः काको मद्गुरमामिषम् ।
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः ॥
अपो हृत्वा तु पापात्मा वायसः संप्रजायते ।
हृते कांस्ये च हारीतः कपोतो वा प्रजायते ॥
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।
कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा ॥
मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते ।
जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ॥
छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशो
भवेत् ।
षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः ॥
पुष्पापहृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः ।
शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः ॥
गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् ।
तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत् ॥
पृष्ठ २/८३३
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ।
विद्यापहारी मूकश्च गत्वा च नरकान् बहून् ॥
असमिद्धेऽग्नौ हुते च मन्दाग्निः संप्रजायते ।
परनिन्दाकृतघ्नत्वं परमर्म्मावघातनम् ।
नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् ।
परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥
निकृत्य वञ्चनं नणां कार्पण्यञ्च नृणां बुधः ।
उपलक्षणादि जानीयात् मुक्तानां नरकादनु ॥”
प्रसङ्गात् स्वर्गागतलक्षणमप्याह ।
“दया भूतेषु संवादः परलोकं प्रतिक्रिया ।
सत्यं भूतहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम् ॥
गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः ।
सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ॥
अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम् ॥”
इति गारुडे कर्म्मविपाकः २२९ अध्यायः ॥

नरकस्था, स्त्री, (नरके तिष्ठतीति । स्था + “सुपि

स्थः ।” ३ । २ । ४ । इति कः ।) वैतरणी नदी । इति
हेमचन्द्रः । ४ । १५२ ॥ निरयस्थिते, त्रि । यथा,
“नरकस्थोऽपि देहं वै न पुनस्त्यक्तुमिच्छति ॥”
इति श्रीभागवतम् ॥

नरकान्तकः, पुं, (नरकस्य तन्नाम्ना ख्यातस्या-

सुरस्य अन्तकः ।) विष्णुः । इति पुराणम् ॥
(यथा, मुकुन्दमालायाम् । ७ ।
“दिवि वा भुवि वा समास्तु वासो
नरके वा नरकान्तक ! प्रकामम् ।
अवधीरितशारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि ॥”)

नरकामयः, पुं, (नरकः आमय इव यस्य ।)

प्रेतः । इति शब्दरत्नावली ॥ (नरकरूप
आमयः ।) निरयरोगश्च ॥

नरकीलकः, पुं, (नरेषु कीलक इव निन्द्यत्वात् ।)

गुरुघ्नः । तत्पर्य्यायः । गुरुहा २ । इति हेम-
चन्द्रः । ३ । ५२२ ॥

नरगणः, पुं, (नरस्य गणो यस्मात् ।) नवनक्षत्र-

विशेषः । तज्जातजनः । यथा, --
“हस्तास्वातिमृगाश्विनीहरिगुरुः पौष्णानु-
राधादिति-
श्चार्द्रा रोहिणि चोत्तराणि भरणी पूर्ब्बाणि
भानि त्रयम् ।
ज्येष्ठाश्लेषविशाखमूलवरुणावस्वग्निचित्रामघाः
कथ्यन्ते मुनिभिर्यथाक्नमवशाद्देवा नरा
राक्षसाः ॥”
इति दीपिका ॥
अस्य फलम् । यथा, कोष्ठीप्रदीपे ।
“मानुष्ये मृदुकर्म्मसङ्गतमनाः शीलान्वितो
धीयुतः ॥”
(नराणां गणः ।) नरसमूहः ॥

नरङ्गः, पुं, (नृणाति प्रापयतीति । नॄ + “पतादे-

रङ्गच् ।” इति उणादिकोषटीकाधृतसूत्रात्
अङ्गच् ।) वरण्डकः । नाराङ्गा इति भाषा ॥
(नुः पुरुषस्य अङ्गम् ।) मेहने, क्ली । इत्यु-
णादिकोषः ॥

नरदेवः, पुं, (नरो देव इव ।) राजा । इति हला-

युधः ॥ (यथा, हरिवंशे । ३२ । १२ ।
“रेतोधाः पुत्त्र उन्नयति नरदेव ! यमक्षयात् ॥”)

नरनारायणौ, पुं, (नरश्च नारायणश्च तौ ।)

ऋषिविशेषौ । तावेव श्रीकृष्णार्ज्जुनौ सम्भूतौ ।
इति महाभारतम् ॥ (यथा, देवीभागवते ।
४ । ५ । १३ ।
“नरनारायणौ चैव चेरतुस्तप उत्तमम् ।
प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”)
तयोरुत्पत्तिर्यथा, --
“अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्द्दनः ।
तत् सर्व्वं ज्ञापयामास वराहवपुषो हितम् ॥
ततो देहपरित्यागं कर्त्तुं समभवद्यदा ।
तदा दंष्ट्राग्रघातेन नरसिंहं महाबलम् ॥
सरभो भगवान् भर्गो द्बिधा मध्ये चकार ह ।
नरसिंहे द्बिधाभूते नरभागेन तस्य तु ॥
नर एव समुत्पन्नो दिव्यरूपी महानृषिः ।
तस्य पञ्चास्यभागेन नारायण इति श्रुतः ॥
अभवत् स महातेजा मुनिरूपो जनार्द्दनः ।
नरो नारायणश्चोभौ सृष्टिहेतू महामती ॥
ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदे तपःसु च ॥”
इति कालिकापुराणे २९ अध्यायः ॥
कल्पभेदे तौ धर्म्मपुत्त्रौ । यथा, --
“धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां
नारायणो नर इति स्वत्पःप्रभावः ।
दृष्ट्वात्मनो भगवतो नियमावलोपं
देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥”
इति श्रीभागवते । २ । ७ । ६ ॥
(अनयोर्विशेषविवरणन्तु देवीभागवते ४ स्कन्धस्य
५ अध्यायमारभ्य द्रष्टव्यम् ॥)

नरपतिः, पुं, (नरान् पातीति । पा + डतिः ।

नराणां पतिर्वा ।) राजा । इति शब्दरत्ना-
वली ॥ (यथा, रघुः । २ । ७५ ।
“नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥”)

नरप्रियः, पुं, (नराणां प्रियः ।) नीलवृक्षः । इति

राजनिर्घण्टः ॥ नरस्य प्रियवस्तुनि, त्रि ॥

नरभूः, स्त्री, (नराणां मनुष्याणां भूर्भूमिः ।)

भारतवर्षः । इति त्रिकाण्डशेषः ॥ नरोत्पत्तिश्च ॥

नरभूमिः, स्त्री, (नराणां मनुष्याणां भूमिः ।)

भारतवर्षः । इति शब्दरत्नावली ॥

नरमानिनी, स्त्री, (नरं पुरुषमिव मन्यते इति ।

मन + णिनिः + ङीप् ।) श्मश्रुयुक्तनारी । इति
त्रिकाण्डशेषः ॥

नरमानिका, स्त्री, (नरं मन्यते या । मन +

ण्वुल् । टापि अत् इत्वम् ।) नरमानिनी ।
इति शब्दरत्नावली ॥

नरमाला, स्त्री, (नराणां तन्मुण्डानां माला ।)

मनुष्यमुण्डमाला । यथा, मार्कण्डेये । ८७ । ६ ।
“विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥”

नरमालिनी, स्त्री, (नरस्येव माला केशसमूहो

मुखेऽस्त्यस्या इति । इनिः + ङीप् । यद्बा,
नरमानिनी प्रयोगानुरोधात् निपातनेन नस्य
लत्वम् ।) श्मश्रुयुक्तनारी । इति हेमचन्द्रः ।
३ । १९५ ॥ (नरस्य तन्मुण्डस्य मालास्त्यस्या
इति ।) नरमालायुक्ता ॥

नरमेधः, पुं, (मिध हिंसायाम् + भावे घञ् ।

नराणां पुरुषाणां मेधो हिंसनं यत्र ।) नर-
वधात्मकयज्ञविशेषः ॥ (यज्ञोऽयं वाजसनेय-
संहितायाम् ३० -- ३१ अध्याययोर्दर्शितः । तत्र
अधिकार्य्यादिकं ३० अध्याये वेददीपे उक्तम् ।
यथा, --
“ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेध-
संज्ञ्को यज्ञो भवति । सर्व्वभूतान्यतिक्रम्य
स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र
त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्च
सुत्या इति चत्वारिंशद्दिनैः सिध्यति । अत्र
यूपैकादशिनी भवति एकादशाग्निषोमीयाः
पशवो भवन्ति तेषाञ्च प्रतियूपं मध्यमे वा यूपे
यथेच्छं नियोजनम् । आज्येन सकृद्गृहीतेन
देव सवितरिति प्रत्यृचं तिस्र आहुतीराहव-
नीये जुहोति ॥”) स तु कलौ वर्ज्जनीयः ।
यथा, --
“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।
द्बिजानामसवर्णासु कन्यासूपयमस्तथा ॥
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।
मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥
दत्तायाश्चैव कन्यायाः पुनर्दानं वरस्य च ।
दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥
महाप्रस्थानगमनं गोमेधश्च तथा मखः ।
इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ॥”
इत्युद्बाहतत्त्वे बृहन्नारदीयम् ॥

नरवाहनः, पुं, (नरो वाहनं यस्य । “क्षुभ्नादिषु

च ।” ८ । ४ । ३९ । इति न णत्वम् ।) कुवेरः ।
इत्यमरः । १ । २ । ७२ ॥ (यथा, रघुः । ९ । ११ ।
“विजयदुन्दुभितां ययुरर्णवा
घनरवा नरवाहनसम्पदः ॥”
नृपतिविशेषः । यथा, राजतरङ्गिण्याम् । ५ ।
२१३ ।
“सोऽनुगैः सह निर्द्रोहं जघान द्रोहशङ्कया ।
शूरं दार्व्वाभिसारेशं शर्व्वर्य्यां नरवाहनम् ॥”)
पुरुषयानविशेष्टे, त्रि ॥ (यथा, महाभारते ।
३ । ८९ । ५ ।
“जज्ञे धनपतिर्यत्र कुवेरो नरवाहनः ॥”)

नरविष्वणः, पुं, (नरं विष्वणति भक्षयतीति । वि +

स्वन + अच् ।) राक्षसः । इति त्रिकाण्डशेषः ॥

नरसारः, पुं, (नरवत् शुद्धः सारो यत्र ।) बणिग्-

द्रव्यविशेषः । नौसादर इति निशादल इति च
भाषा । तस्य पर्य्यायः । यथा, रत्नमालायाम् ।
“द्विदलो गोपकः पिण्डो वोलो गन्धरसो रसः ॥”
तस्य शुद्धिर्यथा, --
“नरसारो भवेच्छुद्धश्चूर्णतोये विपाचितः ।
दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये ॥”
इति सारचन्द्रिका
पृष्ठ २/८३४
स तु द्रव्यान्तरयोगेन महाद्रावको भवति यथा,
“नरसारयवक्षारस्फटिकारित एव काचवकयन्त्रैः ।
बहुशः पात्यं सत्त्वं तद्धि महाद्रावकं नाम ॥”
इति रत्नावली ॥
यथाच वैद्यकभैषज्यधन्वन्तरिग्रन्थे यकृत्प्लीहा-
धिकारे ।
“वृषश्चित्रमपामार्गं चिञ्चा कुष्माण्डनाडिका ।
स्नुही तालस्य पुष्पाणि वर्षाभूर्वेतसन्तथा ॥
एतेषां क्षारमाहृत्य लिम्पाकस्वरसेन च ।
क्षालयित्वा क्षारतोयं वस्त्रपूतञ्च कारयेत् ॥
चण्डातपेन संशोष्य ग्राह्यन्तद्द्रवणोचितम् ।
एतस्य द्विपलं ग्राह्यं यवक्षारपलद्बयम् ॥
स्फटिकारिपलञ्चैव नरसारपलन्तथा ।
पलार्द्धं सैन्धवं ग्राह्यं टङ्गनं तोलकद्वयम् ॥
कासीसं तोलकञ्चैव मुद्राशङ्खञ्च तोलकम् ।
दारुमोचं कर्षकञ्च तोलं समुद्रफेनकम् ॥
सर्व्वमेकत्र सञ्चूर्ण्य वकयन्त्रेण साधयेत् ।
महाद्रावकमेतद्धि योज्यञ्च रसजारणे ॥
हन्ति गुल्मादिकान् रोगान् यकृत्प्लीहोदराणि
च ॥”)

नरसिंहः, पुं, (नर इव सिंह इव च आकृति-

र्यस्य ।) विष्णुः । इति शब्दरत्नावली ॥ स तु
हिरण्यकशिपुवधार्थं भगवद्दशावतारान्तर्गत-
श्चतुर्थः पूर्णावतारः । इति वराहपुराणम् ॥
(नरेषु सिंहः । नरः सिंह इव इत्युपमित-
समासो वा ।) नरश्रेष्ठः । यदुक्तम् ।
“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।
सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥”
इति विशेष्यनिघ्ने अमरः ॥
(यथा, महाभारते । १० । १० । १६ ।
“क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः ।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥”)

नरहरिः, पुं, (नरः इव हरिः सिंह इव च

आकृतिर्यस्य ।) नृसिंहावतारः । यथा, --
“केशव धृतनरहरिरूप जय जगदीश हरे ॥”
इति गीतगोविन्दे । १ । ८ ॥

नराधिपः, पुं, (नराणामधिपः ।) नराधिपतिः ।

राजा । यथा, “नराणाञ्च नराधिपः ।” इति
श्रीभगवद्गीता ॥ (वृक्षविशेषः । यथा, सुश्रुते
चिकित्सितस्थाने ३७ अध्याये ।
“काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ॥”)

नरान्तकः, पुं, (नराणां अन्तको नाशकः ।)

राक्षसविशेषः । स तु रावणपुत्त्रः । इति रामा-
यणम् ॥ (यथा, भागवते । ९ । १० । १८ ।
“रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ-
धूम्राक्षदुर्म्मुखसुरान्तनरान्तकादीन् ॥”)

नरायणः, पुं, (नराणां जीवानां अयनं आश्रय-

स्थानम् ।) श्रीनारायणः । इति शब्दरत्नावली ॥

नरी, स्त्री, (नरस्य पत्नी । ङीष् ।) नारी । इति

जटाधरः ॥

नरेन्द्रः, पुं, (नर इन्द्र इष नराणामिन्द्रो वा ।)

राजा । (यथा, मनुः । ९ । २५३ ।
“रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् ।
नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”)
विषवैद्यः । इति मेदिनी । रे, १७१ ॥ (यथा,
माघे । २ । ८८ ।
“सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥”
वृक्षविशेषः । यथा, सुश्रुते चिकित्सितस्थाने ।
९ अध्याये ।
“पूतीकार्कस्नुग्नरेन्द्रद्रुमाणां
मूत्रैः पिष्टाः पल्लवाः सौमनाश्च ॥”
एकविंशत्यक्षरवृत्तिविशेषः । इति चिन्तामणिः ॥
यथा, --
“चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः
पाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः ।
चारुसुवर्णकुण्डलयुगलकृतरोचिरलङ्कृतवर्णः
पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ॥”)

नर्कुटकं, क्ली, नासिका । इति हेमचन्द्रः ॥

नर्त्तकः, पुं, (नृत्यतीति । नृत् + “शिल्पिनि ष्वुन् ।”

३ । १ । १४५ । इति ष्वुन् ।) नटः । पोट-
गलः । चारणः । केलकः । नटपर्य्यायः । सर्व्व-
वेशी २ लयालम्बः ३ तालरेचनकः । इति
शब्दरत्नावली ॥ द्विपः । इति हेमचन्द्रः ॥
नृत्यकर्त्तुर्लक्षणं यथा, --
“यादृशं नृत्यपात्रं स्याद्गीतं योज्यञ्च तादृशम् ।
नृत्यस्य धारणात् पात्रं नर्त्तकः परिकीर्त्तितः ॥”
अपि च ।
“असम्बद्धप्रलापी च सदा भ्रूकुटितत्परः ।
हासप्रहासचतुरो वाचालो नृत्यकोविदः ॥”
इति सङ्गीतदामोदरः ॥
(नर्त्तयतीति । नृत् + णिच् + ण्वुल् । नृत्यकारके,
त्रि । यथा, साहित्यदर्पणे ३ परिच्छेदे ।
“तर्को विचारः सन्देहात् भ्रूशिरोऽङ्गुलि-
नर्त्तकः ॥”)

नर्त्तकी, स्त्री, (नृत्यतीति । नृत् + ष्वुन् । षित्त्वात्

ङीष् ।) नृत्यकारिणी । वाइ इति भाषा ॥ तत्-
पर्य्यायः । लासिका २ । इत्यमरः । १ । ७ । ८ ॥
लयपुत्त्री ३ नटी ४ लस्या ५ । इति शब्द-
रत्नावली ॥ (यथा, रघुः । १९ । १४ ।
“नर्त्तकीरभिनयातिलङ्घिनीः
पार्श्ववर्त्तिषु गुरुष्वलज्जयत् ॥”)
करेणुः । इति मेदिनी । के, १०८ ॥ नलिका-
नामसुगन्धिद्रव्यम् । इति राजनिर्घण्टः ॥

नर्त्तनं, क्ली, (नृत् + भावे ल्युट् ।) नृत्यम् । इत्य-

मरः । १ । ७ । १० ॥ (यथा, मनुः । २ । १७८ ।
“कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम् ॥”
नृत्यतीति । नृत् + ल्युः । नर्त्तके, त्रि । यथा,
महाभारते । ४ । ३५ । २२ ।
“गायनो नर्त्तनो वापि वादनो वा पुनर्भव ।
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ॥”)

नर्द्द, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) नर्द्दति । इति दुर्गादासः ॥

नर्द्द, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ॥)

नर्द्दटकं, क्ली, छन्दोविशेषः । तस्य लक्षणं यथा, --

“यदि भवतो नजौ भजजला गुरुर्न्नर्द्दटकम् ॥”
इति छन्दोमञ्जरी ॥

नर्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां परं-सकं-

सेट् ।) रेफोपधः । नर्ब्बति । इति दुर्गादासः ॥

नर्म्म, [न्] क्ली, (नॄ नये + “सर्व्वधातुभ्यो

मनिन् ।” उणां ४ । १४६ । इति मनिन् ।)
परीहासः । इत्यमरः । १ । ७ । ३२ ॥ (यथा,
महाभारते । १ । ८२ । १७ ।
“न नर्म्मयुक्तं वचनं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्व्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥”)

नर्म्मकीलः, पुं, (नर्म्मणः परीहासस्य कील इव ।)

पतिः । इति त्रिकाण्डशेषः ॥

नर्म्मटः, पुं, (नर्म्मणेव अटति गच्छतीति । अट +

अच् । शकन्ध्वादित्वात् साधुः ।) खर्परः ।
सूर्य्यः । इति हारावली ॥ २५४ ॥

नर्म्मठः, पुं, (नर्म्मणि कुशलः । नर्म्म + अठन् ।)

चूचुकम् । षिड्गः । परीहासरतः । इति शब्द-
रत्नावली ॥

नर्म्मदः, पुं, (नर्म्म ददातीति । दा + कः ।) केलि-

सचिवः । इति मेदिनी । दे, ३३ ॥

नर्म्मदा, स्त्री, (नर्म्म ददातीति । दा + कः । स्त्रियां

टाप् ।) पृक्का । इति हेमचन्द्रः । ४ । १४९ ॥
नदीविशेषः । सा विन्ध्यपर्व्वतान्निःसृता पश्चिमे
तमसानद्यां प्रविष्टा । तस्याः पर्य्यायः । रेवा २
मेकलकन्या ३ सोमसुता ४ । अस्या जलगुणाः ।
लघुत्वम् । शीतलत्वम् । सुपथ्यत्वम् । दाह-
पित्तशमनत्वम् । वातदातृत्वञ्च । इति राज-
निर्घण्टः ॥ * ॥ तस्या जलं दशभिर्म्मासैर्जीर्य्यति ।
यथा, --
“त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।
नार्म्मदं दशभिर्म्मासैर्गाङ्गं वर्षेण जीर्य्यति ॥”
इति प्रायश्चित्ततत्त्वम् ॥
तस्या उत्पत्तिमाहात्म्ये यथा, --
“नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ।
तारयेत् सर्व्वभूतानि स्थावराणि चराणि च ॥
सर्व्वपापहरा नित्यं सर्व्वदेवनमस्कृता ।
संस्तुता देवगन्धर्व्वैरप्सरोभिस्तथैव च ॥” * ॥
तस्याः स्तवो यथा, --
“नमः पुण्यजले ! आद्ये ! नमः सागरगामिनि ! ।
नमस्ते पापशमनि ! नमो देवि ! वरानने ! ॥
नमोऽस्तु ते ऋषिगणसंघसेविते !
नमोऽस्तु ते शङ्करदेहनिःसृते ! ।
नमोऽस्तु ते धर्म्मभृतां वरप्रदे !
नमोऽस्तु ते सर्व्वपवित्रपावने ! ॥
यस्त्विदं पठते स्तोत्रं नित्यं शुद्धमना नरः ।
ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् ॥
वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् ।
अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः ॥
नर्म्मदां सेवते नित्यं स्वयन्देवो महेश्वरः ।
पृष्ठ २/८३५
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥
नर्म्मदाया जलं पीत्वा अर्च्चयित्वा वृषध्वजम् ।
दुर्गतिञ्च न पश्यन्ति तस्य तीर्थप्रभावतः ॥
एतत्तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
सर्व्वपापविशुद्धात्मा व्रजते रुद्रमन्दिरम् ॥
जलप्रवेशं यः कुर्य्यात् तस्मिंस्तीर्थे नराधिप ! ।
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति ॥
यावच्चन्द्रश्च सूर्य्यश्च हिमवांश्च महोदधिः ।
गङ्गाद्याः सरितो यावत्तावत् स्वर्गे महीयते ॥
अनशनन्तु यः कुर्य्यात्तस्मिंस्तीर्थे नराधिप ! ।
गर्भवासे तु राजेन्द्र ! न पुनर्जायते नरः ॥”
इति मात्स्ये १६५ । १६९ अध्यायौ ॥
सा च पुरुकुत्सभार्य्या । तस्याः स्मरणे
विषनाशो भवति । यथा, “सकलपन्नगपतयश्च
नर्म्मदायै वरं ददुः । यस्तेऽनुस्मरणसमवेतं नाम-
ग्रहणं करिष्यति न तस्य सर्पविषं भविष्यतीति ।
अत्र च ।
“नर्म्मदायै नमः प्रातनर्म्मदायै नमो निशि ।
नमोऽस्तु नर्म्मदे तुभ्यं त्राहि मां विषसर्पतः ॥”
इति विष्णुपुराणे । ४ । ३ । ९ -- १० ॥

नल, ज बन्धे । इति नलशब्दस्य व्युत्पत्तौ भरतः ॥

(भ्वां-परं-सकं-सेट् ॥)

नलं, क्ली, (नलतीति । नल + अच् ।) पद्मम् ।

इति राजनिर्घण्टः ॥

नलः, पुं, (नल बन्धे + पचाद्यच् ।) तृणविशेषः ।

तत्पर्य्यायः । धमनः २ पोटगलः ३ । इत्यमरः ।
२ । ४ । १६२ ॥ नालः ४ नडः ५ कुक्षिरन्ध्रः ६
कीचकः ७ दीर्घवंशः ८ शून्यमध्यः ९ विभीषणः
१० छिद्रान्तः ११ मृदुपत्रः १२ वंशपत्रः १३
मृदुच्छदः १४ नालवंशः १५ । अस्य गुणाः ।
शीतत्वम् । कषायत्वम् । मधुरत्वम् । रुचिकारि-
त्वम् । रक्तपित्तप्रशमनत्वम् । दीपनत्वम् । वीर्य्य-
वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः ।
“नलः पोटगलः शून्यमध्यश्च धमनस्तथा ।
नलस्तु मधुरस्तिक्तः कषायः कफरक्तजित् ॥
उष्णो हृद्बस्तियोन्यर्त्तिदाहपित्तविसर्पहृत् ॥”
इति भावप्रकाशः ॥
सूर्य्यवंशीयनिषधराजपुत्त्रः । यथा, --
“अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ।
नलस्तु नैषधस्तस्मान्नभस्तस्मादजायत ॥”
वीरसेनराजपुत्त्रः । यथा, मात्स्ये १२ अध्याये ।
“नलौ द्बावेव विख्यातौ वंशे कश्यपसम्भवे ।
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः ॥”
(तथा, हरिवंशे । १५ । ३४ ।
“नलौ द्ववेव विख्यातौ पुराणे भरतर्षभ ! ।
वीरसेनात्मजश्चैव यश्चैक्ष्वाकुकुलोद्बहः ॥”
एतौ द्वावेव सूर्य्यवंशीयौ ॥) चन्द्रवंशीयनिषध-
राजपुत्त्रः । (अयन्तु दमयन्तीपतिः ।) यथा,
दमयन्तीं प्रति नलवाक्यम् ।
“सुधांशुवंशस्य करीरमेव मां
निशम्य किन्नासि फलेग्रहि ग्रहा ॥”
इति नैषधः ॥
(यथा, महाभारते । ३ । ५३ । १ ।
“आसीद्राजा नलो नाम वीरसेनसुतो बली ।
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥”
अयं वीरसेनस्तु सूर्य्यवंशीयवीरसेनाद्भिन्न एवे-
त्यवगन्तव्यम् ॥ * ॥
आसीत् पुरा निषधाधिपतिश्चन्द्रबंशीयो नलो
नाम राजा । गच्छति काले स हि हंसमुखात्
विदर्भेश्वरभीमराजकन्यां दमयन्तीं त्रिभुवनैक-
सुन्दरीमाकर्ण्य हंसमुखादेवावगतनलसौन्दर्य्यां
तन्मनस्कां दमयन्तीं स्वयंवरविधिना इन्द्रादि-
देवसन्निधावेव उपयेमे । अस्य इन्द्रसेननामा पुत्त्र
आसीत् । दमयन्तीपरिणयकामुकः कलिस्तु
दमयन्तीमलभमान एनं प्रति रुष्टः सञ्जातः ।
अथ कलिप्रविष्टशरीरोऽयं भ्रात्रा पुष्करेण सह
द्यूतक्रीडनात् सर्व्वस्वमहारयत् । ततः स राज्य-
च्युतो दमयन्त्या सह वनं गतवान् । कलिस्तु
अस्य दमयन्तीसहवाससुखमसहिष्णुः दमयन्त्या
सह एनं वियोजयितुमियेष । अथ कदाचित्
कल्यावेशितचित्तोऽयं नलः सुप्तां दमयन्तीं
निष्ठुरवत् परित्यज्य पलायाञ्चक्रे । दमयन्ती तु
प्रबुध्य बहु विलप्य च पथिकसार्थवाहेन सह
मातृश्वसृगृहं गतवती । नानाविधक्लेशात्
शीर्णदेहा सा मातृश्वस्रापि अविज्ञाता तद्भवने
तस्थौ । अथ दमयन्तीपिता भीमनृपतिर्दम-
यन्त्या अन्वेषणाय दूतान् नियोजयामास ।
दूतास्तु चिह्नविशेषैर्दमयन्तीं परिज्ञाय भीमाय
न्यवेदयन् । भीमस्तु तां स्वगृहमानयत् । नलस्तु
दमयन्तीं परित्यज्य गच्छन् दावानलमध्यगतं
कर्कोटकनागं विपद उज्जहार । कर्कोटकस्तु
नलस्य प्रत्युपकर्त्तुमिच्छन् शरीरस्थमस्य कलिं
दष्ट्वा कलिमेव भृशं सन्तापयामास । नलस्तु
केवलं रूपान्तरत्वमाप्तवान् । ततोऽसौ ऋतु-
पर्णस्य राज्ञः सारथ्ये नियुक्त आसीत् । अथ
गच्छति काले दमयन्ती पितृगेहस्था नला-
न्वेषणाय ब्राह्मणान् संप्रेष्य कथञ्चित् ऋतुपर्ण-
सारथिं नलत्वेनावगम्य पुनः स्वयंवरमिषेण
ससारथिं ऋतुपर्णं पितृवेश्मनि आनयामास ।
दमयन्ती तु पाकादिकौशलेनान्यजनावेद्येन
ऋतुपर्णसारथिं नलं विज्ञाय स्वसमीपमानया-
मास । अथ कलिपरित्यक्तेन नलेन स्वसौन्दर्य्ये
गृहीते भैम्या सह मेलनं सञ्जातम् । भीम-
नृपतिस्तु एतत् सर्व्वमाकर्ण्यातिशयसन्तोषम-
वाप्तवान् प्रेषयामास च तं बहुसमारोहेण
निषधदेशान् प्रति । ततोऽयं स्वदेशमागम्य
भ्रातरं पुष्करं पुनर्द्यूताय आहूय पराजित्य च
तं पुनर्लब्धराज्यो दमयन्त्या सह सुखमुवास ।
एतद्विवरणविस्तृतिस्तु महाभारते वनपर्व्वणि
५३ -- ७९ अध्यायेषु विशेषतो द्रष्टव्या ॥ * ॥)
वानरविशेषः । स तु ऋतध्वजमुनिशापात्
वानररूपविश्वकर्म्मण औरसेन घृताच्यप्सरसो-
गर्भे गोदावरीतीरे जातः । इति वामने ६२
अध्यायः ॥ (अयन्तु रामवाक्येन समुद्रमध्ये
सेतुं बबन्ध । यथा, अध्यात्मरामायणे । ६ । ३ ।
८४ -- ८६ ।
“ततोऽब्रवीत् रघुश्रेष्ठं सागरो विनयान्वितः ।
नलः सेतुं करोत्यस्मिन् जले मे विश्वकर्म्मणः ॥
सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो
हरिः ।
कीर्त्तिं जानन्तु ते लोकाः सर्व्वलोकमलापहाम् ॥
इत्युक्त्रा राघवं नत्वा ययौ सिन्धुरदृश्यताम् ।
ततो रामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः ।
नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥”)
पितृदेवः । इति मेदिनी । ले, २७ ॥ दैत्य-
विशेषः । यथा, --
“दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।
सैंहिकाया इति ख्यातास्त्रयोदश महाबलाः ॥
वंश्यः शल्यश्च बलवान् नलश्चैव तथा बलः ।
वातापिर्न्नमुचिश्चैव इल्वलः स्वसृमस्तथा ॥
अञ्जको नरकश्चैव कालनाभस्तथैव च ।
सवमानस्तथा चैव सुरकल्पश्च वीर्य्यवान् ॥”
इति ब्रह्मपुराणे २ अध्यायः ॥

नलकं, क्ली, (नल इव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ६९ । इति कन् ।) शाखास्थि ।
इति हेमचन्द्रः । ३ । २९१ ॥ (यथा, सुश्रुते
निदानस्थाने १५ अध्याये ।
“तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु ॥”)

नलकिनी, स्त्री, (नलकानि सन्त्यस्याः । नलक +

इनिः । ङीप् ।) जङ्घा । इति हेमचन्द्रः । ३ ।
२७८ ॥

नलकीलः, पुं, (नलवत् कीलो यत्र ।) जानुः ।

इति हेमचन्द्रः । ३ । २७८ ॥

नलकूवरः, पुं, कुवेरपुत्त्रः । इत्यमरः । १ । १ ।

७३ ॥ (यथा, राजेन्द्रकर्णपूरे । ६९ ।
“विलोकनकथापि मे न नलकूवरे न स्मरे
किमन्यदमृतद्युतेरपि न दर्शनं प्रार्थये ।
अयं नयनगोचरं व्रजति चेद्दृशामुत्सवः
समग्ररमणीमनो मधुपमाधवः क्ष्माधवः ॥”)
स भ्रात्रा मणिग्रीवेण सह वारुणीं पीत्वा
कैलासोपवने गङ्गायां स्त्रीजनैः क्रीडितवान् ।
असंवृतवस्त्रौ तौ दृष्ट्वा नारदः शशाप । तच्छा-
पेन तौ यमलार्ज्जुनौ भूत्वा श्रीवृन्दावने आसतुः ।
ततो दामोदरेण शापनिर्म्मुक्तौ तं नुत्वा स्वगृहं
जग्मतुः । इति श्रीभागवतीयदशमस्कन्धः ॥

नलदं, क्ली, (नलं द्यति अवखण्डयतीति । दो +

कः ।) पुष्परसः । उशीरम् । (यथा, किराते ।
५ । २५ ।
“इह सिन्धवश्च वरणावरणाः
करिणां मुदे सनलदानलदाः ॥”)
जटामांसी । इति मेदिनी । दे, ३३ ॥ (अस्य
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी ।
किरातिनी च जटिला लोमशा तु तपस्विनी ॥”
नलं ददातीति । दा + आतोऽनुपेति कः ।) नल-
दातरि, त्रि, ॥
पृष्ठ २/८३६

नलदम्बुः, पुं, निम्बवृक्षः । इति भूरिप्रयोगः ॥

नलदा, स्त्री, (नलद + टाप् ।) जटामांसी । इति

हेमचन्द्रः ॥

नलपट्टिका, स्त्री, (नलनिर्म्मिता पट्टिका ।)

तलाची । इति हारावली । १७७ ॥ दरमा
इति भाषा ॥

नलमीनः, पुं, (नलाश्रयो मीनः ।) चिलिचिम-

मत्स्यः । इत्यमरः । १ । १० । १८ ॥ (“नल-
मीनः कफात्मकः ।” इति हारीते प्रथमे स्थाने
११ अध्याये ॥)

नलिका, स्त्री, (नल इव आकारोऽस्त्यस्या इति ।

नल + ठन् ।) नाडी । नली इति ख्यातः ।
सा च उत्तरापथे प्रसिद्धा सुगन्धा प्रवाला-
कृतिः प्रवालीति क्वचित् प्रसिद्धा । पँठारी
इति क्वचित् प्रसिद्धा । तत्पर्य्यायः । विद्रुम-
लतिका २ कपोतषाणा ३ नलिनी ४ निर्म्मथ्या
५ शुषिरा ६ आध्मानी ७ स्तुत्या ८ रक्तदला ९
नर्त्तकी १० नटी ११ । अस्या गुणाः । तिक्त-
त्वम् । कटुत्वम् । तीक्ष्णत्वम् । मधुरत्वम् ।
कृमिवातोदरार्त्त्यर्शःशूलनाशित्वम् । मलशोध-
नत्वञ्च । इति राजनिर्घण्टः ॥ तन्नामगुणाः ।
“नलिका विद्रुमलता कपोतचरणा नटी ।
धमन्यञ्जनकेशी च निर्म्मध्या शुषिरा नली ॥
नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् ।
कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डुज्वरापहा ॥”
इति भावप्रकाशः ॥
(अस्त्रविशेषः । यथा, आर्य्यासप्तशत्याम् । ४३७ ।
“मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो
रागाः ।
हन्त हरन्ति मनो मम नलिकाविशिखाः स्मर-
स्येव ॥”
इयं हि आकृतिक्रियादिना आधुनिकनला-
स्त्रस्य ‘वन्दुक’ इति ख्यातस्य सादृश्यं गच्छति ।
यथा, वैशम्पायनोक्तधनुर्व्वेदे ।
“नलिका ऋजुदेहा स्यात्तन्वङ्गी मध्यरन्ध्रिका ।
मर्म्मच्छेदकरी नीला -- ॥”
“ग्रहणं ध्मापनञ्चैव स्यूतञ्चेति गतित्रयम् ।
तामाश्रितं विदित्वा तु जेतासन्नान् रिपून्
युधि ॥”
अस्या विशेषविवरणन्तु नालिकशब्दे द्रष्टव्यम् ॥
कल्पितजलनिर्गमपथः । यथा, यन्त्रविधि-
शतके १ अध्याये ।
“वेदाङ्गुलं मस्तकोर्द्धं कार्य्यं तोयस्य धारणे ।
समर्थां तत्र नलिकां कुर्य्यात्तोयविमोचनीम् ॥”)

नलितः, पुं, (नल्यते इति । नल ज बन्धे + क्तः ।)

शाकविशेषः । नालिता इति भाषा ॥ अस्य
गुणाः । मधुरत्वम् । पित्तनाशित्वम् । शुक्र-
वद्धकत्वञ्च । इति द्रव्यगुणः ॥

नलिनं क्ली, (नल्यते इति । नल बन्धे + “बहुल-

मन्यत्रापि ।” उणां । २ । ४९ । इति इनच् ।)
पद्मम् । इत्यमरः । १ । १० । ३९ ॥ (यथा,
भागवते । २ । ६ । २२ ।
“यदास्य नाभ्याम्नलिनादहमासं महात्मनः ।
नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥”)
नीलिका । जलम् । इति हेमचन्द्रः । ४ । २२६ ॥

नलिनः, पुं, (नल + इनच् ।) सारसपक्षी । इत्य-

मरः । १ । १० । ४० ॥ कृष्णपाकफलः । इति
शब्दचन्द्रिका ॥ पानीआमला इति भाषा ॥

नलिनी, स्त्री, (नलानि पद्मानि सन्त्यत्र । नल +

“पुस्करादिभ्यो देशे ।” ५ । २ । १३५ । इति इनिः ।
ङीप् ।) पद्मयुक्तदेशः । (नलानां पद्मानां
समूहः । “खलादिभ्यः इनिर्वक्तव्यः ।” ४ । २ । ५१ ।
इत्यस्य वार्त्तिकोक्त्या इनिः ।) पद्मसमूहः । पद्म-
लता । इति भरतः ॥ (अस्याः पर्य्यायो यथा, --
“नलिनी स्यात् पङ्कजिनी विशिनी च सरोजिनी ।
पद्मिनीति च पर्य्यायः पद्मषण्डे तदाकरे ॥”
इति वैद्यकरत्नमालायाम् ॥)
पद्ममात्र । इति रायमुकुटादयः ॥ तत्-
पर्य्यायः । विसिनी २ पद्मिनी ३ । इत्यमरः ।
१ । १० । ३९ ॥ (यथा, भ्रमराष्टके । ८ ।
“रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पद्मजालम् ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥”)
व्योमनिम्नगा । (इयन्तु गङ्गायाः पूर्ब्बदिग्गत-
शास्वानामन्यतमा । यथा, मात्स्ये । १२० । ४० ।
“त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव च ।
स्रोतांसि त्रिपथगायास्तु प्रत्यपद्यन्त सप्तधा ॥
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा ॥”)
कमलाकरः । इति मेदिनी । ने, ८२ ॥ नलिका ।
इति राजनिर्घण्टः ॥ नारिकेलसुरा । इति
त्रिकाण्डशेषः ॥ (वामनासिका । यथा, भाग-
वते । ४ । २५ । ४८ ।
“नलिनी नालिनी च प्राग्द्वारावेकत्र निर्म्मिते ॥”
“नलनालशब्दौ छिद्रवचनौ तद्बती नलिनी
नालिनी च वामदक्षिणनासिके ॥” इति तट्टी-
कायां स्वामी ॥)

नलिनीरुहं, क्ली, (नलिन्यां रोहतीति । रुह +

कः ।) मृणालम् । इति राजनिर्घण्टः ॥
ब्रह्मणि, पुं, ॥

नलिनेशयः, पुं, (नलिमे शेते इति । शी + अच् ।)

विष्णुः । इति त्रिकाण्डशेषः ॥

नली, स्त्री, (नल + अच् । गौरादित्त्वात् ङीष् ।)

मनःशिला । इति विश्वः ॥ नलिका । इति भाव-
प्रकाशः ॥ तत्पर्य्यायः । शुषिरा २ विद्रुमलता ३
कपोताङ्घ्रिः ४ नटी ५ । इत्यमरः । २ । ४ ।
१२९ ॥ (एतद्गुणा मनःशिलानलिकाशब्दयोः
ज्ञातव्याः ॥)

नलोत्तमः, पुं, (नलेषु उत्तमः ।) देवनलः । इति

राजनिर्घण्टः ॥

नल्वः, पुं, (नल्यते इति । नल + उल्वादयश्चेति

वः ।) किष्कुचतुःशतम् । चतुःशतहस्तपरिमित-
देशः । इत्यमरभरतौ ॥ (यथा, हरिवंशे ।
२२४ । १ ।
“तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा ।
आसीन आसने चित्रे नल्वमात्रे प्रमाणतः ॥”)

नल्ववर्त्मगा, स्त्री, (नल्वपरिमितं वर्त्म गच्छतीति ।

गम् + डः ।) काकाङ्गी । इति शब्दचन्द्रिका ॥
नल्वपरिमितपथगामिनि, त्रि ॥

नव, [न्] त्रि, (नूयते स्तूयते प्रधानसंख्या-

वाचकत्वेन । नु स्तवने + बाहुलकात् कणिन्
गुणश्च । इत्युज्ज्वलदत्तः । १ । १५६ ।) संख्या-
विशेषः । ९ नय इति भाषा । बहुवचनान्तो-
ऽयम् । इति व्याकरणम् ॥ (यथा, रघ्रुः । ३ । ६९ ।
“इति क्षितीशो नवतिं नवाधिकां
महाक्रतूनां महनीयशासनः ॥”)
नववाचका यथा । अङ्गद्वारम् १ भूखण्डम् २
कृत्तरावणमस्तकः ३ सुधाकुण्डम् ४ व्याघ्री-
स्तनः ५ सेषधिः ६ अङ्कम् ७ रसः ८ ग्रहः ९ ।
इति कविकल्पलता ॥ (तद्वति, त्रि । यथा,
मनुः । ३ । २६९ ।
“षण्मासान् छागमांसेन पार्षतेन च सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥”)

नवः, पुं, (नु शि स्तवने + “ऋदोरप् ।” ३ । ३ । ५७ ।

इति भावे अप् ।) स्तवः । इति मेदिनी । वे,
१५ ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥

नवः, त्रि, (नूयते स्तूयते इति । नु स्तुतौ + “ऋदो-

रप् ।” ३ । ३ । ५७ । इति अप् ।) नूतनः ।
इत्यमरः । ३ । १ । ७७ ॥ (यथा, हितोपदेशे । १ । २३४ ।
“न स्त्रीणामप्रियः कश्चित् प्रियो वापि न विद्यते ।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥”)
अभिनवान्यौषधानि प्रशस्तानि । यथा, --
“द्रव्याण्यभिनवान्येन प्रशस्तानि क्रियाविधौ ।
ऋते घृतगुडक्षौद्रधान्यकृष्णाविडङ्गतः ॥”
इति नारायणदासकृतवैद्यपरिभाषा ॥
तद्वैदिकपर्य्यायः । “नवम् १ नूतम् २ नूतनम् ३
नव्यम् ४ इदा ५ इदानीम् ६ । षट् नवनामानि ।”
इति वेदनिघण्टौ ३ व्यध्यायः ॥

नवकारिका, स्त्री, (नवं करोतीति । कृ + ण्वुल् ।

टापि अत इत्वम् ।) नवोढा । इति शब्द-
माला ॥ नूतनः संक्षिप्तो विवरणश्लोकः । नवीन-
कर्त्री च ॥

नवकालिका, स्त्री, (नवं कलति प्राप्नोतीति ।

कल + ण्वुल् । टाप् । अत इत्वम् ।) नवीनः ।
इति हारावली । १७६ ॥

नवग्रहाः, पुं, (नव ग्रहाः ।) सूर्य्यादयो नव ।

यथा, तिथितत्त्वे ।
“नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥”
(यथा च, --
“सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति नवग्रहाः ॥”)
तेषां संस्थानम् । यथा, --
“भूमेर्योजनलक्षे तु सौरं मैत्रेय ! मण्डलम् ।
लक्षे दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥
पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
पृष्ठ २/८३७
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते ॥
द्विलक्षे चोत्तरे ब्रह्मन् ! बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥
अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
लक्षद्बये तु भौमस्य स्थितो देवपुरोहितः ॥
सौरिबृहस्पतेश्चोर्द्ध्वं द्बिलक्षे समवस्थितः ॥”
इति विष्णुपुराणे । २ । ७ अध्यायः ॥
तेषां रथादि यथा, --
“योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैवास्य द्बिगुणो मुनिसत्तम ! ॥
सार्द्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ।
योजनानान्तु तस्याक्षश्चक्रं यत्र प्रतिष्ठितम् ॥
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो व्यवस्थितः ।
पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य महामते ॥
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ।
हस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै ।
द्बितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥
हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु ।
गायत्त्री च बृहत्युष्णिग्जगती त्रिष्टुबेव च ॥
अनुष्टुप् पंक्तिरित्युक्ताश्छन्दांसि हरयो रवेः ।
स रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा ।
गन्धर्व्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥
स्तुवन्ति मुनयः सूर्य्यं गन्धर्व्वैर्गीयते पुरः ।
नृत्यन्त्यप्सरसो यान्ति सूर्य्यस्यानु निशाचराः ॥
वहन्ति पन्नगा यक्षैः क्रियते भीषु संग्रहः ।
वालखिल्यास्तथैवैनं परिवार्य्य समासते ॥
सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ! ।
हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः ॥
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥ * ॥
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ।
पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥ * ॥
सवरूथः सानुकर्षो युक्तो भूसम्भवैर्हयैः ।
सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ॥ * ॥
अष्टास्रः काञ्चनः श्रीमान् भौमस्यापि रथो
महान् ।
पद्मरागारुणैरश्वैः संयुक्तो वह्रिसम्भवैः ॥ * ॥
अष्टाभिः पाण्डरैर्युक्ते वाजिभिः काञ्चने
रथे ।
तस्मिंस्तिष्ठति वर्षं वै राशौ राशौ बृहस्पतिः ॥
आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् ।
समारुह्य शनैर्याति मन्दगामी शनैश्चरः ॥ * ॥
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ।
सकृद्युक्तास्तु मैत्रेय ! वहन्त्यविरतं सदा ॥ * ॥
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः ।
पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ * ॥
एते मया ग्रहाणां वै तवाख्याता रथा नव ।
सर्व्वे ध्रुवे महाभाग ! प्रबद्धा वायुरश्मिभिः ॥”
इति विष्णुपुराणे २ अंशे ८ । १० । १२ अध्यायाः ॥
ग्रहाणामशुभप्रतीकारः । राजमार्त्तण्डे ।
“दोषो न स्याद्ग्रहाणामशिशिरकिरणे ताम्र-
मिन्दौ च शङ्खं
पृथ्वीपुत्त्रे प्रवालं शशधरतनये शातकुम्भं
भुजेन ।
देवाचार्य्ये च मुक्तां मणिमसुरगुरौ सीसकं
सूर्य्यसूनौ
राहौ लौहं त्वनिष्टे कमलजतनये राजपट्टं
विभर्त्तुः ॥”
शातकम्भं सुवर्णम् । राजपट्टं कर्पूराणीति
ख्यातम् । अपि च । बुद्धिप्रकाशे ।
“त्रिशूलीं क्षीरिकामूलं गोजिह्वां वृद्धदारकम् ।
ब्रह्मयष्टिं सिंहपुच्छीं वाट्यालं चन्दनं सितम् ।
अश्वगन्धां क्रमात् सूर्य्याद्दद्याद्दोषोपशान्तये ॥”
इति ज्योतिषतत्त्वम् ॥
स्वजन्मराश्यवधिनवग्रहशुद्धिर्यथा, --
“केतूपप्लवभौममन्दगतयः षष्टास्त्रिसंस्थाः शुभा-
श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः
सप्तमः ।
जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजः
शुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्तेशुभाः ॥”
इति दीपिका ॥
रविः ३ । ६ । १० । ११ । राशयः । सोमः ३ । ६ । ७ । १० ।
११ शुक्लपक्षे २ । ५ । ९ । जन्मर्क्षवर्ज्जितजन्मचन्द्रः
शुभः । मङ्गलः ३ । ६ । १० । ११ । बुधः २ । ४ । ६ । ८ ।
१० । ११ । १२ । बृहस्पतिः २ । ५ । ७ । ९ । ११ । शुक्रः
१ । २ । ३ । ४ । ५ । ८ । ९ । ११ । १२ । शनिः ३ । ६ । १० । ११ ।
राहुः ३ । ६ । १० । ११ । केतुः ३ । ६ । १० । ११ राशयः ॥
ग्रहाणां राशिभोगनिर्णयः । यथा, --
“रविर्म्मासं निशानाथः सपाददिवसद्वयम् ।
पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादशवासरान् ॥
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।
शनिः सार्द्धद्वयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥”
रविः १ मासः । सोमः २ । ० दिनम् । कुजः ४५
दिनम् । बुधः १८ दिनम् । बृहस्पतिः १ वत्-
सरः । शुक्रः २८ दिनम् । शनिः २ ॥ ० वत्सरः ।
राहुः १ ॥ ० वत्सरः । केतुः १ ॥ ० वत्सरः । इति
ज्योतिषम् ॥ * ॥ अथ चन्द्रादिषड्ग्रहाणा-
मस्तोदयज्ञनम् । यथा, --
“अथोदयास्तमययोः परिज्ञानं प्रकीर्त्त्यते ।
दिवाकरकराक्रान्तमूर्त्तीनामल्पतेजसाम् ॥
सूर्य्यादप्यधिकाः पश्चादस्तं जीवकुजार्कजाः ।
ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा ॥
अल्पा विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः ।
व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः ॥” * ॥
एषां कालांशा यथा, --
“एकादशामरेज्यस्य तिथिसंख्यार्कजस्य च ।
अस्तांशा भूमिपुत्त्रस्य दशसप्ताधिकास्ततः ॥
पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया ।
प्रागस्त उदयः पश्चादस्तत्वाद्दशभिर्भृगोः ॥
एवं बुधो द्बादशभिश्चतुर्द्दशभिरंशकैः ।
वक्रशीघ्रगती चार्कात् करोत्यस्तमयोदयौ ॥
एष्याधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः ।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्त्तयः ॥”
इति सूर्य्यसिद्धान्तः ॥
तेषामस्तोदयदिनसंख्याज्ञानम् । यथा, --
“भुजाक्षिचन्द्रा-१२२ स्त्रिदशाश्च ३३ दन्ता ३२
वेदाचला ४७ रामकृते ४३ क्रमेण ।
भौमादिकस्यास्तदिनानि वक्रे
बुधस्य भूपा १६ दश भार्गवस्य ॥”
एषां एकस्मादस्तमयादुदयाद्बा अभ्युदयास्त-
ज्ञानम् । यथा, --
“तथास्तवक्रात् कुजतोऽस्तवक्रे
जात्य-२२ ब्धि-४ विश्वै-१३ र्द्दिगि-१० नैश्च १२
मासैः ।
महास्तवक्रास्तविधी सितस्य
क्रमेण वक्रस्तु नवेन्दुमासैः १९ ॥”
गुरोरुदयस्य प्राक् पश्चात् शुक्रस्य तु उदयवक्र-
महास्तोनां प्राक् पश्चात् बाल्यवृद्धदिनज्ञानम् ।
यथा, --
“वृद्धः पुरस्तादुदयस्य पश्चात्
बालश्च पक्षं १५ वचसां पतिः स्यात् ।
एवं सितः पञ्चदिनानि वृद्ध्वो
बालो भवेत्त्रीणि दिनानि वक्रे ॥
वृद्धस्तु पक्षं १५ भृगुजो महास्ते
बालः पुनस्तत्र दशाहमेव ॥”
इति सिद्धान्तमञ्जरी ॥
अथ नवग्रहस्तोत्रम् ।
“जवाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
ध्वान्तारिं सर्व्वपापघ्नं प्रणतोऽस्मि दिवाकरम्
दिव्यशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं भक्त्या शम्भोर्म्मुकुटभूषणम् ॥
धरणीगर्भसम्भूतं विद्युत्पुञ्जसमप्रभम् ।
कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम्
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सर्व्वगुणोपेतं नमामि शशिनः सुतम् ॥
देवतानामृषीणाञ्च गुरुं कनकसन्निभम् ।
वन्द्यभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्व्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् ।
छायाया गर्भसम्भूतं वन्दे भक्त्या शनैश्चरम् ॥
अर्द्धकायं महाघोरं चन्द्रादित्यविमर्द्दकम् ।
सिंहिकायाः सुतं रौद्रं तं राहुं प्रणमाम्यहम् ॥
पलालधूमसङ्काशं ताराग्रहविमर्द्दकम् ।
रौद्रं रुद्रात्मजं क्रूरं तं केतुं प्रणमाम्यहम् ॥
व्यासेनोक्तमिदं स्तोत्रं यः पठेत् प्रयतः शुचिः ।
दिवा वा यदि वा रात्रौ शान्तिस्तस्य न संशयः ॥
ऐश्वर्य्यमतुलञ्चापि आरोग्यं पुष्टिवर्द्धनम् ।
नरनारीप्रियत्वञ्च नित्यं तस्योपजायते ॥
तक्षकोऽग्निर्यमो वायुर्ये चान्ये ग्रहपीडकाः ।
ते सर्व्वे प्रशमं यान्ति व्यासो ब्रूयान्न संशयः ॥”
इति श्रीव्यासभाषितं नवग्रहस्तोत्रं समाप्तम् ॥
(ग्रहाणामन्यद्विववरणन्तु ग्रहशब्दे द्रष्टव्यम् ॥ * ॥
नवं नूतनं ग्रहो ग्रहणं यस्येति विग्रहे नव-
बद्धे, त्रि । यथा, रामायणे । २ । ५८ । ३ ।
“वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् ॥”)
पृष्ठ २/८३८

नवच्छात्रः, पुं, (नवो नूतनश्छात्रः ।) प्रथममध्य-

यने प्रवृत्तः । नवीनविद्यार्थी । तत्पर्य्यायः ।
क्रियाकारः २ । इति त्रिकाण्डशेषः ॥

नवतः, पुं, (नूयते स्तूयते इति । नु + बाहुलकात्

अतच् ।) कुथः । करिकम्बलः । इति हेम-
चन्द्रः । ३ । ३४४ ॥

नवतिः, स्त्री, (नव दशतः परिमाणमस्य । “पङ्क्ति-

विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा-
तनात् साधुः ।) संख्याविशेषः । इति शब्द-
रत्नावली ॥ ९० नव्वै इति भाषा ॥ (यथा,
रघुः । ३ । ६९ ।
“इति क्षितीशो नवतिं नवाधिकां
महाक्रतूनां महनीयशासनः ।
समारुरुक्षुर्दिवमायुषः क्षये
ततान सोपानपरम्परामिव ॥”
नवतिसंख्यान्विते च । यथा, मनुः । ३ । १७७ ।
“वीक्ष्यान्धो नवतेः काणः षष्ठेः श्वित्री शतस्य तु ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”)

नवतिका, स्त्री, (नवं नूतनं तेकते करोतीति ।

तिक + कः । टाप् ।) तूलिका । इति हारा-
वली । १३७ ॥ (नवतिरेव । स्वार्थे कः । तत-
ष्टाप् । नवतिसंख्या ॥)

नवतिशः, [स्] व्य, बहुनवति । नवति नवतीति

वीप्सायां चशस्प्रत्ययः ॥

नवती, स्त्री, (नवतिः + कृदिकारादिति वा ङीष् ।)

नवतिः । इति शब्दरत्नावली ॥

नवदण्डं, क्ली, (नवो दण्डो नव दण्डा वा यत्र ।)

राज्ञां छत्रविशेषः । यथा, युक्तिकल्पतरुः ।
“मनोहरं त्रिकनकदण्डञ्च नवदण्डकम् ।
छत्रञ्चत्रिविधं ज्ञेयं त्रिविधानां महीभुजाम् ॥”
अस्य विवरणं छत्रशब्दे द्रष्टव्यम् ॥

नवदलं, क्ली, (नवं दलमिति कर्म्मधारयः ।) पद्मस्य

केशरसमीपस्थदलम् । पद्मादीनां जटिकाकार-
नवपत्रम् । तत्पर्य्यायः । संवर्त्तिका २ । इत्य-
मरः । १ । १० । ४३ ॥ संवर्त्तिः ३ संवर्त्ती ४ ।
इति भरतः ॥ सामान्यनूतनपत्रम् । इति हड्ड-
चन्द्रः ॥ दलमात्रम् । इति मधुः ॥

नवदीधितिः, पुं, (नव दीधितयः किरणानि यस्य ।)

मङ्गलग्रहः । इति जटाधरः ॥

नवदुर्गा, स्त्री, (नवसंख्यान्विता दुर्गा ।) नव-

पत्रिका । (यदुक्तम् ।
“कदली दाडिमी धान्यं हरिद्रा मानकं कचु ।
विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिका ॥”)
यथा, बृहन्नन्दिकेश्वरपुराणे ।
“पत्रिके नवदुर्गे त्वं महादेवमनोरमे ।
पूजां समस्तां संगृह्य रक्ष मां त्रिदशेश्वरि ! ॥”
कुमारिका १ त्रिमूर्त्तिः २ कल्याणी ३ रोहिणी
४ काली ५ चण्डिका ६ शाम्भवी ७ दुर्गा ८
भद्रा ९ इति नवनामिका कन्या । यथा, --
“मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् ।
नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् ॥”
इति निर्णयसिन्धुः ॥

नवदोला, स्त्री, (नवा नूतना दोला ।) नूतन-

प्रेङ्खा । अस्या विवरणं चतुर्द्दोलशब्दे द्रष्टव्यम् ॥
तदारोहणदिनं यथा, --
“उग्रेन्दुमूलाहिशिवाग्निवर्जं
शस्तेन्दुतारातिथिलग्नयोगे ।
विष्टिक्षमापुत्त्रयमाहवर्जं
दोलादिकारोहणमाद्यमिष्टम् ॥”
इति समयप्रदीपः ॥

नवधा, व्य, (नव + प्रकारे धाच् ।) नवप्रकारः ।

यथा, --
“आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् ।
निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम् ॥”

नवनाडीचक्रं, क्ली, (नवनक्षत्रयुक्तं नाडीचक्रम् ।)

राज्ञो नवनक्षत्रयुक्तवक्ररेखात्रयात्मकचक्रम् ।
यथा, ज्योतिषतत्त्वे ।
“जन्माद्यं कर्म्म ततोऽपि दशमं सांघातिकं
षोडशभम् ।
समुदयमष्ठादशभं विनाशसंज्ञं त्रयोविंशम् ॥
नाड्यः स्युः पञ्चविंशं मानसमेवं नरः षडृक्षः
स्यात् ।
नवनक्षत्रो नृपतिः स्वजातिदेशाभिषेकर्क्षैः ॥”

नवनी, स्त्री, (नवं नीयते इति । नी + डः ।

गौरादित्वात् ङीष् ।) नवनीतम् । यथा, --
“अहो हैयङ्गवीनानां नवनीनां परं मुदा ।
लड्डुकानां शर्कराणां स्वस्तिकानाञ्च यत्नतः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४५ अध्यायः ॥

नवनीतं, क्ली, (नवं नीयतेऽनेनेति । नी + क्तः ।)

गव्यविशेषः । माखन् इति ननी इति च भाषा ।
तत्पर्य्यायः । नवोद्धृतम् २ । इत्यमरः । २ । ९ ।
५२ ॥ सरजम् ३ मन्थजम् ४ हैयङ्गवीनम् ५ ।
इति रत्नमाला ॥ दधिजम् ६ सारम् ७ हैयङ्ग-
वीनकम् ८ । अस्य सामान्यगुणाः । शीतत्वम् ।
वर्णबलावहत्वम् । सुमधुरत्वम् । वृष्यत्वम् ।
संग्राहकत्वम् । कफरुचिकारकत्वम् । वातसर्व्वा-
ङ्गशूलकाशश्रमनाशित्वम् । सुखकरत्वम् । कान्ति
पुष्टिप्रदत्वम् । चक्षुष्यत्वम् । सर्व्वदोषापहर-
त्वञ्च ॥ * ॥ नवोद्भवगव्यमाहिषनवनीतगुणाः ।
बालवृद्धानां प्रशस्तत्वम् । बलकारित्वम् । वात-
बर्द्धनत्वञ्च ॥ * ॥ माहिषनवनीतगुणाः । कषा-
यत्वम् । मधुरत्वम् । शीतत्वम् । वृष्यत्वम् ।
बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्दद-
त्वञ्च ॥ * ॥ छागनवनीतगुणाः । क्षयकाश-
नेत्रामयकफनाशित्वम् । बल्यत्वम् । दीपन-
त्वञ्च ॥ * ॥ आविकनवनीतगुणाः । हिमत्वम् ।
लघुत्वम् । योनिशूले कफे वाते गुदशूले हित-
त्वञ्च ॥ * ॥ ऐडकनवनीतगुणाः । क्लिष्टगन्ध-
त्वम् । शीतलत्वम् । मेधानाशित्वम् । गुरुत्वम् ।
पुष्टिस्थौल्यकारित्वम् । मन्दाग्निदीपनत्वञ्च ॥ * ॥
हस्तिनीनवनीतगुणाः । कषायत्वम् । शीतलत्वम् ।
लघुत्वम् । तिक्तत्वम् । विष्टम्भित्वम् । जन्तुपित्त-
कफकृमिनाशित्वञ्च ॥ * ॥ अश्वीनवनीतगुणाः ।
कषायत्वम् । कफवातनाशित्वम् । चक्षुष्यत्वम् ।
कटुत्वम् । उष्णत्वम् । ईषद्वातापहारकत्वञ्च ॥
गर्द्दभीनवनीतगुणाः । कषायत्वम् । कफवात-
नाशित्वम् । बल्यत्वम् । दीपनत्वम् । पाके लघु-
त्वम् । मूत्रदोषनाशित्वञ्च ॥ * ॥ औष्ट्रनवनीत-
गुणाः । पाके शीतलत्वम् । व्रणक्रिमिकफास्र-
वातनाशित्वफ्व ॥ * ॥ नारीनवनीतगुणाः ।
रुच्यत्वम् । पाके लघुत्वम् । चक्षुष्यत्वम् । दीप-
नत्वम् । सर्व्वरोगविषनाशित्वश्च ॥ * ॥
अथ साधारणनवनीतगुणाः ।
“शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यञ्च वातापहं
कासघ्नं क्रिमिनाशनं कफहरं संग्राहि शूला-
पहम् ।
बल्यं पुष्टिकरं तृषार्त्तिशमनं सन्तापविच्छेदनं
चक्षुव्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥
एकाहाध्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् ।
अरुच्यं सर्व्वरोगाढ्यं दधिजं तद्धितं स्मृतम् ॥”
इति राजनिर्घण्टः ॥
अपि च । गव्यनतनीतगुणाः ।
“नवनीनं हितं गव्यं वृष्यं वर्णमलाग्निकृत् ।
संग्राहि वातपित्तासृक् क्षयार्शोऽर्द्दितकासहृत् ॥
तद्धितं बालके वृद्धे विशेषादमृतं शिशोः ॥” * ॥
माहिषनवनीतगुणाः ।
“नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु ।
दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥”
अथ पयसो नवनीतस्य गुणाः ।
“दुग्धोत्थं नवनीतन्तु चक्षुष्यं रक्तपित्तनुत् ।
वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम् ॥”
अथ सद्यःसमुद्धृतनवनीतगुणाः ।
“नवनीतञ्च सद्यस्कं स्वादु ग्राहि हिमं लघु ।
मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात् ॥”
अथ चिरन्तननवनीतगुणाः ।
“सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्टकारकम् ।
श्लेष्मलं गुरुमेदस्यं नवनीतं चिरन्तनम् ॥”
इति भावप्रकाशः ॥
“नवनीतं नवं वृष्यं ग्राहि वर्णबलाग्निकृत् ।
चक्षुष्यं बृंहणं स्निग्धं ग्रहण्यर्शोविकारनुत् ॥
क्षीरोत्थितं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥”
इति राजवल्लभः ॥

नवनीतकं, क्ली, (नवनीतात् कायति प्रकाशते

इति । कै + कः ।) घृतम् । इति राजनिर्घण्टः ॥
(नवनीत + स्वार्थे कन् । नवबीतम् । यथा,
हारीते चिकितृसितस्थाने १० अध्याये ।
“सर्पिः प्रयुक्तं नवनीतकञ्च ॥”
पर्य्यायोऽस्य यथा, --
“मृक्षणं सरजं हैयङ्गवीनं नवनीतकम् ॥”
इति भावप्रकाशस्य पूर्ब्बस्वण्डे द्वितीये भागे ॥)

नवनीतधेनुः, स्त्री, (नवनीतेन कृता धेनुः ।

मध्यपदलोपिकर्म्मधारयः ।) दानार्थकृतनव-
नीतमयधेनुविशेषः । यथा, --
“नबनीतमयीं धेनुं शृणु राजन् ! प्रयत्नतः ।
यां श्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः ॥
गोमयेनानुलिप्तायां भूमौ गोचर्म्ममात्रतः ।
पृष्ठ २/८३९
कृष्णचर्म्ममृगस्यैव तस्योपरि च धारयेत् ॥
कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत् ।
वत्सं चतुर्थभागस्य तस्या उत्तरतो न्यसेत् ॥
कृत्वा विधानेन च राजसिंह-
सुवर्णशृङ्गी सुमुखी च कार्य्या ।
नेत्रे च तस्या मणिमौक्तिकैस्तु
कृत्वा तथान्यच्च गुडेन जिह्वाम् ॥
ओष्ठौ च पुष्पैश्च फलैश्च दन्ताः
प्रकल्प्य सास्नाञ्च सितैश्च सूत्रैः ॥
नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् ।
ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम् ॥
स्वर्णशृङ्गीं रौप्यखुराम् पञ्चरत्नसमन्विताम् ।
चतुर्भिस्तिलपात्रैस्तु संयुतां सर्व्वतो दिशः ॥
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलङ्कृतम् ।
दिक्षु दीपांश्च प्रज्वाल्य ब्राह्मणाय निवेदयेत् ॥
वेदवेदाङ्गविदुषे आहिताग्निर्ज्जितात्मवान् ।
मन्त्रास्त एव जप्तव्याः सर्व्वधेनुषु ये स्मृताः ॥
पुरा देवासुरैः सर्व्वैः सागरस्य तु मन्थने ।
उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् ॥
आप्यायनञ्च भूतानां नवनीत ! नमोऽस्तु ते ।
एवमुच्चार्य्य तां दद्यात् ब्राह्मणाय कुटुम्बिने ॥
घेनुञ्च दत्त्वा सुमुदां सोपधानां
नयेद्गृहं विप्रवर्य्यस्य भूयः ।
हविष्यमेव सरसञ्चोपभुक्त्वा
तिष्ठेद्दिनं धेनुदस्त्रीणि विप्रः ॥
यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम ।
सर्व्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत् ॥
पितृभिः पूर्ब्बजैः सार्द्धं भविष्यद्भिश्च मानवः ।
विष्णुलोकं व्रजत्याशु यावदाहूतसंप्लवम् ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्बापि मानवः ।
सर्व्वपापविशुद्धात्मा विष्णुलोके महीयते ॥”
इति वराहपुराणम् ॥

नवपाठकः, पुं, (नवो नूतनः पाठकोऽध्यापकः ।)

नूतनाध्यापकः । इति सिद्धान्तकौमुदी ॥

नवफलिका, स्त्री, (नवं फलं यस्याः । कापि अत

इत्वम् ।) नव्यम् । नवजातरजोऽङ्गना । इति
मेदिनी । के, २३० ॥

नवमः, त्रि, (नवन् + “तस्य पूरणे डट् ।” ५ ।

२ । ४८ । इति डट् । ततो “नान्ताद-
संख्यादेर्म्मट् ।” ५ । २ । ४९ । इति डटो
मट् ।) नवानां पूरणः । इति व्याकरणम् ॥
नयै इत्यादि भाषा ॥

नवमल्लिका, स्त्री, (नवा नूतना स्तुत्या वा

मल्लिका ।) नवमालिका । इति शब्दरत्ना-
वली ॥ (यथा, प्रबोधचन्द्रोदये । १ । १२ ।
“रम्यं हर्म्म्यतलं नवाः सुनयना गुञ्जद्द्विरेफा
लताः ।
प्रोन्मीलन्नवमल्लिकाः सुरभयो वाताः सचन्द्रा
निशाः ॥”)

नवमालिका, स्त्री, (नवा नूतना मालिका मल्लिका-

पुष्पम् ।) नवमल्लिकापुष्पम् । वासन्ती नेवारी
इति लोके । नेयालि इति नेओयार इति च
भाषा । तत्पर्य्यायः । अतिमोदा २ ग्रैष्मी ३
ग्रीष्मोद्भवा ४ सप्तला ५ सुकुमारी ६ सुरभिः ७
शुचिमल्लिका ८ सुगन्धा ९ शिखरिणी १०
नवाली ११ । इति राजनिर्घण्टः ॥ भद्रवर्म्मा १२
देवलता १३ । इति शब्दचन्द्रिका ॥ गन्ध-
निलया १४ मालिका १५ नवमल्लिका १३ ।
इति शब्दरत्नावली ॥ तस्या गुणाः । अति-
शैत्यत्वम् । सुरभित्वम् । सर्व्वरोगहरत्वञ्च । इति
राजनिर्घण्टः ॥ तन्नामगुणाः ।
“नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका ।
वासन्ती शीतला लघ्वी तिक्ता दोषत्रयाश्रजित् ॥”
इति भावप्रकाशः ॥

नवमी, स्त्री, (नवम + टित्त्वात् ङीप् ।) तिथि-

विशेषः । सा चन्द्रस्य नवमकलाक्रियारूपा ।
शुक्लपक्षे ९ कृष्णपक्षे २४ पञ्जिकाकारसङ्केतेन
एतदङ्कबोधिता ॥ अथ नवमीव्यवस्था । “सा
चाष्टमीयुता ग्राह्या युग्मात् । भविष्ये ।
‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् ।
तत् फलं लभते वीर नवम्यां कार्त्तिकस्य च ॥’
तथा भविष्ये ।
‘माघे मासि तु या शुक्ला नवमी लोकपूजिता ।
महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥
स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् ।
सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः ॥’
तथा कालिकापुराणम् ।
‘नवम्यां नववर्षाणि राजन् ! पिष्टाशनो भवेत् ।
तस्य तुष्टा भवेद्गौरी सर्व्वकामप्रदा शुभा ॥’
अद्येत्यादि नवम्यान्तिथावारभ्य नव वर्षाणि
यावत् प्रतिशुक्लनम्यां पिष्टेतरभोजननिवृत्ति-
व्रतमिति सङ्कल्पे विशेषः । सर्व्वकामप्रदगौरी-
तोषः फलम् ।” इति तिथितत्त्वम् ॥ श्रीराम-
नवमीव्यवस्था तच्छब्दे द्रष्टव्या ॥ * ॥ इयं दुर्गा-
तिथिः । तत्र तस्याः पूजा कर्त्तव्या । यथा, --
ब्रह्मोवाच ।
“इयं देवी वरारोहा यातु शैलं हिमाचलम् ।
तत्र यूयं सुराः सर्व्वे गत्वा नन्दत माचिरम् ॥
नवम्याञ्च सदा पूज्या इयं देवी समाधिना ।
वरदा सर्व्वलोकानां भविष्यति न संशयः ॥
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः ।
नारी वा तस्य सम्पन्नं भविष्यति मनोगतम् ॥”
इति वराहपुराणम् ॥
कार्त्तिकशुक्लनवम्यां जगद्धात्रीपूजाप्रमाणानि
यथा, --
“प्रपूजयेज्जगद्धात्रीं कार्त्तिके शुक्लपक्षके ।
दिनोदये च मध्याह्ने सायाह्ने नवमेऽहनि ॥”
इति मायातन्त्रे १७ पटलः ॥
“कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च ।
उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान् ॥
पुत्त्रारोग्यधनं लेभे लोकसाक्षित्वमेव च ।
तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि ।
प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् ॥”
इति कात्यायनीतन्त्रे ७८ पटलः ॥
“कार्त्तिके शुक्लपक्षे तु त्रेतायाः प्रथमेऽहनि ।
त्रिसन्ध्यं पूजयेद्देवीं दुर्गां सम्पत्प्रवृद्धये ॥”
इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥
अथ नवमीजातफलम् । यथा, कोष्ठीप्रदीपे ।
“विरोधकर्त्ता सुजनैरगम्यः
परापकारार्थमतिः कुशीलः ।
आचारहीनः कृपणः कठोरः
प्रसूतिकाले नवमी यदि स्यात् ॥”

नवयौवना, स्त्री, (नवं यौवनं यस्याः ।) युवती ।

तत्पर्य्यायः । दिक्करी २ । इति हारावली ।
१५४ ॥ तालुनी ३ कुहेली ४ । इति शब्दमाला ॥

नवरङ्गं, क्ली, (नव रङ्गा यस्मात् ।) कायस्थ-

मुख्यकुलीनानां पञ्चदानचतुर्ग्रहणात्मककुल-
विशेषः । तद्यथा, --
“समाने प्रथमं दानं द्बितीयञ्च कनिष्ठके ।
षड्भ्रातरि तृतीयञ्च मध्यश्रेष्टे चतुर्थकम् ॥
तेओजे पञ्चमं दानं कुर्य्यादेतद्विधानतः ।
ग्रहणं जन्मनि समे कनिष्ठे च द्बितीयकम् ॥
तृतीयं जन्ममध्यांशे तेओजेऽपि चतुर्थकम् ।
नवरङ्गमिति प्रोक्तं मुख्यानां हि महागुणम् ॥”
इति कुलाचार्य्यकारिका ॥

नवरत्नं, क्ली, (नवानां रत्नानां समाहारः ।)

नवप्रकारमणयः । तद्यथा, --
“मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रुमौ ।
पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ॥”
इति तन्त्रसारः ॥
(यथा च, --
“वज्रञ्च मौक्तिकञ्चैव माणिक्यं नीलमेव च ।
तथा मरकतं ज्ञेयं महारत्नानि पञ्चधा ॥
गोमेदः पद्मरागञ्च वैदूर्य्यञ्च प्रवालकम् ।
चत्वारि उपरत्नानि नवरत्नमिदं स्मृतम् ॥”
“रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव च ।
इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ॥
रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म-
रागः । इन्द्रनीलः नीला ।” इति भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ॥) नवग्रहदोषशान्त्यै
धार्य्याणि नव रत्नानि यथा, --
“वैदूर्य्यं धारयेत् सूर्य्ये नीलञ्च मृगलाञ्छने ।
आवनेयेऽपि माणिक्यं पद्मरागं शशाङ्कजे ॥
गुरौ मुक्तां भृगौ वज्रं शनौ नीलं विदुर्बुधाः ।
राहौ गोमेदकं धार्य्यं केतौ मरकतन्तथा ॥”
इति दीपिका ॥
विक्रमादित्यराजसभास्थनवसंख्यकपण्डिताः ।
यथा, --
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टधटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥”
इति नवरत्नम् ॥
नव श्लोकाः । यथा, --
“मित्रमर्थी तथा नीतिर्धर्म्मकार्पण्यमूर्खकाः ।
पृष्ठ २/८४०
स्त्रीणां विद्वान् तथोत्खातान् नवरत्नमिदं
क्रमात् ॥
मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं
कार्य्येण द्विजमादरेण युवतीं प्रेम्णा समै-
र्बान्धवान् ।
अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं
विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्याद्-
वशम् ॥ १ ॥
अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो
लाञ्छनं
लुब्धोऽकीर्त्तिमसङ्गरः परिभवं दुष्टोऽन्य दोषे
रतिम् ।
निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः
संशयं
दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं
मुहुः ॥ २ ॥
नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गनानां धृति-
र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो
गिराम् ।
लावण्यं वपुषः स्मृतिः सुमनसां शान्तिर्द्विजस्य
क्षमा
शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां
मण्डनम् ॥ ३ ॥
धर्म्मः प्रागेव चिन्त्यः सचिवमतिगतिर्भावनीया
सदैव
ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्ष-
णीयम् ।
प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ योजनीयौ
च काले
आत्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोऽपि
नापेक्षणीयः ॥ ४ ॥
कार्पण्येन यशः क्रुधा गुणचयो दम्भेन सत्यं क्षुधा
मर्य्यादा व्यसनैर्धनानि विपदा स्थैर्य्यं प्रमादै-
र्द्विजः ।
पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं
दारिद्र्येण जनादरो ममतया चात्मप्रकाशो
हतः ॥ ५ ॥
मूर्खो शान्तस्तपस्वी क्षितिपतिरलसो मत्सरो
धर्म्मशीलो
दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्र-
विद्धर्म्महीनः ।
आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परा-
न्नोपभोगी
वृद्धो रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्ब-
प्रकारम् ॥ ६ ॥
स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः
सतां
सत्यं स्वल्पधनस्य सञ्चितिरसद्वृत्तस्य वाग्-
डम्बरः ।
साचारस्य मनोदमः परिणतेर्विद्या कुलस्यैकता
सेवाया धनमुन्नतेर्गुणचयः शान्तेर्विवेको
बलम् ॥ ७ ॥
विद्बान् संसदि पाक्षिकः परवशो मानी दरिद्रो
गृही
वित्ताढ्यः कृपणः सुखी परवशो वृद्धो न
तीर्थाश्रितः ।
राजा दुःसचिवः प्रियः कुलभवो मूर्खः पुमां-
स्त्रीजितः
वेदान्ती हतसत्क्रियः किमपरं हास्यास्पदं
भूतले ॥ ८ ॥
उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन्
शिशून् वर्द्धयन्
प्रोत्तुङ्गान् नमयन् नतान् समुदयन् विश्लेषयन्
संहतान् ।
तीव्रान् कण्टकिनो बहिर्नियमयन् ग्लानान्
मुद्दुः सेचयन्
मालाकार इव प्रयोगनिपुणो राजा चिरं
नन्दतु ॥ ९ ॥)

नवरात्रं, क्ली, (नवानां रात्रीणां समाहारः ।

तत् साधनत्वेनास्त्यस्येति अच् ।) आश्विनशुक्ल-
प्रतिपदादिनवमीपर्य्यन्तनवदिनकर्त्तव्यदुर्गाव्रत-
विशेषः । तस्यारम्भः । देवीपुराणे डामरतन्त्रे
च देवीवचः ।
“अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम ।
मुहूर्त्तमात्रा कर्त्तव्या द्वितीयादिगुणान्विता ॥”
मार्कण्डेयदेवीपुराणयोः ।
“पूर्ब्बविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी ।
नवरात्रव्रतं तस्यां न कार्य्यं शुभमिच्छता ॥”
अत्रोपवासादिकमुक्तं हेमाद्रौ भविष्ये ।
“एवञ्च विन्ध्यवासिन्यां नवरात्रोपवासतः ।
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
स्नातैः समुदितैर्हृष्टैर्ब्राह्मणैः क्षत्त्रियैर्नृपैः ॥
वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः ॥”
मदनरत्ने देवीपुराणेऽपि ।
“कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् ।
अपाशी ह्यथवैकाशी नक्ताशी वाथ वाय्वदः ॥
भूमौ शयीत चामन्त्र्य कुमारीर्भोजयेन्मुदा ।
वस्त्रालङ्कारदानैश्च सन्तोष्याः प्रतिवासरम् ॥
बलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत् ।
त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः ॥”
स्कान्दे ।
“मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः ।
संपूज्य नवदुर्गाञ्च नक्तं कुर्य्यात् समाहितः ॥
नवरात्राभिधं कर्म्म नक्तव्रतमिदं स्मृतम् ।
तिथिवृद्ध्वौ तिथिह्रासे नवरात्रमपार्थकम् ॥
अष्टरात्रे न दोषोऽयं नवरात्रतिथिक्षयः ॥” * ॥
तत्र पूजाविधिः । सा च जयन्तीत्यादिमन्त्रेण
नवाक्षरेण वा कार्य्या । यथा । सङ्कल्पं विधाय
घटं संस्थाप्य तत्र देवीमावाह्य षोडशोपचारैः
पूजयित्वा माषभक्तवलिं कुष्माण्डादिबलिं वा
निवेदयेत् ॥ * ॥ ततः कुमारीपूजा । यदुक्तं
हेमाद्रौ स्कान्दे ।
“एकैकां पूजयेत् कन्यामेकवृद्ध्या तथैव च ।
द्विगुणं त्रिगुणं वापि प्रत्येकं नवकन्तु वा ॥”
तथा, --
“नवभिर्लभते भूमिमैश्वर्य्यं द्विगुणेन तु ।
एकवृद्ध्या लभेत् क्षेममेकैकेन श्रियं लभेत् ॥”
अथ कुमारीनिर्णयः ।
“एकवर्षा तु या कन्या पूजार्थे तां विवर्ज्जयेत् ।
गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥”
तेन द्विवर्षमारभ्य दशवर्षपर्य्यन्तम् । कुमारिका १
त्रिमूर्त्तिः २ कल्याणी ३ रोहिणी ४ काली ५
चण्डिका ६ शाम्भवी ७ दुर्गा ८ सुभद्रा ९ इति
नवनामभिस्ताः पूजनीयाः । आसामावाहन-
मन्त्रः । यथा, --
“मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् ।
नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् ॥
एवमभ्यर्च्चनं कुर्य्यात् कुमारीणां प्रयत्नतः ।
कञ्चुकैश्चैव वस्त्रैश्च गन्धपुष्पाक्षतादिभिः ॥
नानाविधैर्भक्ष्यभोज्यैर्भोजयेत् पायसादिभिः ॥”
तासां त्याज्यत्वमाह ।
“ग्रन्थिस्फुटितशीर्णाङ्गीं रक्तपूयव्रणाङ्किताम् ।
जात्यन्धां केकरां काणीं कुरूपां तनुरोमशाम् ।
सन्त्यजेद्रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ॥”
तासां जातिविशेषे फलविशेषो यथा, --
“ब्राह्मणीं सर्व्वकार्य्ये च जयार्थे नृपवंशजाम् ।
लाभार्थे वैश्यवंशोत्थां सुतार्थे शूद्रवंशजाम् ॥
दारुणे चान्त्यजातानां पूजयेद्विधिना नरः ॥”
अत्र वेदचण्डीपाठ उक्तः । रुद्रयामले ।
“एवं चतुर्व्वेदविदो विप्रान् सर्व्वान् प्रसादयेत् ।
तेषाञ्च वरणं कार्य्यं वेदपारायणाय वै ॥”
तथा, --
“एकोत्तराभिवृद्ध्या तु नवमीं यावदेव हि ।
चण्डीपाठं जपेच्चैव जापयेद्वा विधानतः ॥” * ॥
अत्राश्ववतोऽश्वपूजनमुक्तम् । मदनरत्ने देवी-
पुराणे ।
“अश्वयुक्शुक्लप्रतिपत्स्वातियोगे शुभे दिने ।
पूर्ब्बमुच्चैःश्रवा नाम प्रथमं श्रियमाहरत् ॥
तस्मात् साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सह ।
पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥
शान्तिः स्वस्त्ययनं कार्य्यं तथा तेषां दिने दिने ।
धान्यं भल्लातकं कुष्ठं वचा सिद्धार्थकास्तथा ॥
पञ्चवर्णेन सूत्रेण ग्रन्थिन्तेषान्तु बन्धयेत् ।
वायव्यैर्वारुणैः सौरैः शाक्रैमैन्त्रैः सवैष्णवैः ॥
वैश्वदेवैस्तथाग्नेयैर्होमः कार्य्यो दिने दिने ॥”
तत्र गजपूजापि । कल्पतरौ ।
“ज्येष्ठायोगे पुरा तत्र गजाश्चाष्टौ महाबलाः ।
पृथिवीमवहन् पूर्ब्बं सशैलवनकाननाम् ॥
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः ।
सुप्रतीकोऽञ्जनो नीलस्तस्मात्तांस्तत्र पूजयेत् ॥”
अथ प्रतिपदादिषु विशेषो दुर्गाभक्तितरङ्गिण्यां
भविष्ये ।
“केशसंस्कारद्रव्याणि प्रदद्यात् प्रतिपद्दिने ।
पक्वतैलं द्वितीयायां केशसंयमहेतवे ॥
दर्पणञ्च तृतीयायां सिन्दूरालक्तकन्तथा ।
पृष्ठ २/८४१
मधुपर्कं चतुर्थ्यान्तु तिलकं नेत्रमण्डनम् ॥
पञ्चम्यामङ्गरागञ्च शक्त्यालङ्करणानि च ।
षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् ॥
सप्तम्यां प्रातरानीय गृहमध्ये प्रवेशयेत् ।
उपोषणमथाष्टम्यामात्म्यशक्त्या तु पूजनम् ॥
नवम्यामुग्रचण्डायाः पूजां कुर्य्याद्बलिन्तथा ।
संपूज्योपोषणं कुर्य्यात् दशम्यां शावरोत्सवैः ॥
अनेन विधिना यस्तु देवीं प्रीणयते नरः ।
स्कन्दवत् पालयेद्देवी तं पुत्त्रधनकीर्त्तिभिः ॥”
आश्विनशुक्लपक्षे मूलनक्षत्रे सरस्वतीस्थापनम् ।
यथोक्तं निर्णयामृते देवीपुराणे ।
“मूलेषु स्थापनं देव्याः पूर्ब्बाषाढासु पूजनम् ।
उत्तरासु बलिं दद्यात् श्रवणेन विसर्ज्जयेत् ॥”
रुद्रयामलेऽपि ।
“मूलऋक्षे सुराधीश पूजनीयां सरस्वतीम् ।
पूजयेत् प्रत्यहं देव यावद्वैष्णवमृक्षकम् ॥
नाध्यापयेन्न च लिखेन्नाधीयीत कदाचन ।
पुस्तके स्थापिते देवि ! विद्याकामो द्बिजोत्तमः ॥”
स्त्रीणाञ्च नवरात्रे ताम्बूलचर्व्वणादिकं न
निषिद्धम् । तदुक्तं व्रतहेमाद्रौ गारुडे ।
“गन्धालङ्कारताम्बूलपुष्पमालानुलेपनम् ।
उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥”
एतत् सभर्तृकोपवासविषयम् ॥ * ॥ हेमाद्रौ ।
आश्विनमाघचैत्रश्रावणमासचतुष्टये कृष्णा-
ष्टम्यादिपञ्चदशरात्रव्रतमभिधाय । अथवा नव-
रात्रञ्च सप्तपञ्चत्रिकं दिवा । इत्यक्तम् । देवी-
पुराणे ।
“नवरात्रव्रतेऽशक्तस्त्रिरात्रञ्चैकरात्रकम् ।
व्रतञ्चरति यो भक्तस्तस्मै दास्यामि वाञ्छितम् ॥” *
(यथाच देवीभागवते । ३ । २६ -- २७ ।
“शृणु राजन् ! प्रवक्ष्यामि नवरात्रव्रतं शुभम् ।
शरत्काले विशेषेण कर्त्तव्यं विधिपूर्ब्बकम् ॥
वसन्ते च प्रकर्त्तव्यं तथैव प्रेमपूर्ब्बकम् ।
द्बावृतू यमदंष्ट्राख्यौ नूनं सर्व्वजनेषु वै ॥
शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह ।
तस्माद्यत्नादिदं कार्य्यं सर्व्वत्र शुभमिच्छता ॥
द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् ।
वसन्तशरदावेव जननाशकरावुभौ ॥
तस्मात्तत्र प्रकर्त्तव्यं चण्डिकापूजनं बुधैः ।
चैत्राश्विने शुभे मासे भक्तिपूर्ब्बं नराधिप ! ॥
अमावस्याञ्च सम्प्राप्य सम्भारं कल्पयेच्छुभम् ।
हविष्यञ्चाशनं कार्य्यमेकभुक्तन्तु तद्दिने ॥
मण्डपस्तु प्रकर्त्तव्यः समे देशे शुभे स्थले ।
हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥
गौरमृद्गोमयाभ्याञ्च लेपनं कारयेत्ततः ।
तन्मध्ये वेदिका शुभ्रा कर्त्तव्या च समा स्थिरा ॥
चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् ।
तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥
रात्रौ द्बिजानथामन्त्र्य देवीतत्त्वविशारदान् ।
आचारनिरतान् दान्तान् वेदवेदाङ्गपारगान् ॥
प्रतिपद्दिवसे कार्य्यं प्रातःस्नानं विधानतः ।
नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथ वा ॥
प्रातर्न्नित्यं पुरः कृत्वा द्विजानां वरणं ततः ।
अर्ध्यपाद्यादिकं सर्व्वं कर्त्तव्यं मधुपूर्ब्बकम् ॥
वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः ।
वित्तशाठ्यं न कर्त्तव्यं विभवे सति कर्हिचित् ॥
विप्रैः सन्तोषितैः कार्य्यं सम्पूर्णं सर्व्वथा भवेत् ।
नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥
वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा ।
स्वस्तिवाचनकं कार्य्यं वेदमन्त्रविधानतः ॥
वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् ।
तत्र स्थाप्याम्बिका देवी चतुर्हस्तायुधान्विता ॥
रत्नभूषणसंयुक्ता मुक्ताहारविराजिता ।
दिव्याम्बरधरा सौम्या सर्व्वलक्षणसंयुता ॥
शङ्खचक्रगदापद्मधरा सिंहे स्थिता शिवा ।
अष्टादशभुजा वापि प्रतिष्ठाप्या सनातनी ॥
अर्च्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।
स्थापयेत् पीठपूजार्थं कलसं तत्र पार्श्वतः ॥
पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् ।
सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम् ॥
पार्श्वे पूजार्थसम्भारान् परिकल्प्य समन्ततः ।
गीतवादित्रनिर्घोषान् कारयेन्मङ्गलाय वै ॥
तिथौ हस्तान्वितायाञ्च नन्दायां पूजनं वरम् ।
प्रथमे दिवसे राजन् ! विधिवत् कामदं नृणाम् ॥
नियमं प्रथमं कृत्वा पश्चात् पूजां समाचरेत् ।
उपवासेन नक्तेन चैकभक्तेन वा पुनः ॥
करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् ।
साहाय्यं कुरु मे देवि ! जगदम्ब ! ममाखिलम् ॥
यथाशक्ति प्रकर्त्तव्यो नियमो व्रतहेतवे ।
पश्चात् पूजा प्रकर्त्तव्या विधिवन्मन्त्रपूर्ब्बकम् ॥
चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः ।
मन्दारकरजाशोकचम्पकैः करवीरकैः ॥
मालतीब्रह्मकापुष्पैस्तथाबिल्वदलैः शुभैः ।
पूजयेज्जगतां धात्रीं धूपैर्दीपैर्व्विधानतः ॥
फलैर्नानाविधैरर्घ्यं प्रदातव्यञ्च तत्र वै ।
नारिकेलैर्मातुलिङ्गैर्दाडिमीकदलीफलैः ॥
नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः ।
अन्नदानं प्रकर्त्तव्यं भक्तिपूर्ब्बं नराधिप ! ॥
नैवेद्यानि विचित्राणि सर्व्वान्नसंयुतानि च ।
ओदनं पायसञ्चैव पूपांश्च वटकांस्तथा ॥
मांसाशनं ये कुर्व्वन्ति तैः कार्य्यं पशुहिंसनम् ।
महिषाजवराहाणां बलिदानं विशिष्यते ॥
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् ।
न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ! ॥
अहिंसा याज्ञिकी प्रोक्ता सर्व्वशास्त्रविनिर्णये ।
देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥
होमार्थञ्चैव कर्त्तव्यं कुण्डञ्चैव त्रिकोणकम् ।
स्थण्डिलं वा प्रकर्त्तव्यं त्रिकोणं मानतः शुभम् ॥
त्रिकालं पूजनं नित्यं नानाद्रव्यैर्म्मनोहरैः ।
गीतवादित्रनृत्यैश्च कर्त्तव्यश्च महोत्सवः ॥
नित्यं भूमौ च शयनं कुमारीणाञ्च पूजनम् ।
वस्त्रालङ्करणैर्द्दिव्यैर्भोजनैश्च सुधामयैः ॥
एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः ।
द्बिगुणं त्रिगुणं वापि प्रत्येकं नवकञ्च वा ॥
विभवस्यानुसारेण कर्त्तव्यं पूजनं किल ।
वित्तशाव्यं न कर्त्तव्यं राजञ्छक्तिमखे सदा ॥
एकवर्षा न कर्त्तव्या कन्या पूजाविधौ नृप ! ।
परमज्ञा तु भोगानां गन्धादीनाञ्च बालिका ॥
कुमारिका तु सा प्रोक्ता द्बिवर्षा या भवेदिह ।
त्रिमूर्त्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥
रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता ।
चण्डिका सप्तवर्षा स्यादष्ठवर्षा च शाम्भवी ॥
नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी ।
अत ऊर्द्ध्वं न कर्त्तव्या सर्व्वकार्य्यविगर्हिता ॥
एभिश्च नामभिः पूजा कर्त्तव्या विधिसंयुता ।
तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥
कुमारी पूजिता कुर्य्याद्दुःखदारिद्र्यनाशनम् ।
शत्रुक्षयं धनायुष्यबलवृद्धिं करोति वै ।
त्रिमूर्त्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् ।
धनधान्यागमश्चैव पुत्त्रपौत्त्रादिवृद्धयः ॥
विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः ।
सुखार्थी पूजयेन्नूनं कल्याणीं सर्व्वकामदाम् ॥
रोहिणीं रोगनाशाय पूजयेद्बिधिवन्नरः ।
कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्ब्बकम् ॥
ऐश्वर्य्यधनकामश्च चण्डिकां परिपूजयेत् ।
पूजयेच्छाम्भवीं नित्यं नृप ! संमोहनाय च ॥
दुःखदारिद्र्यनाशाय संग्रामे विजयाय च ।
क्रूरशत्रुविनाशार्थं तथोग्रकर्म्मसाधने ॥
दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ।
वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत् सदा ॥
श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः ।
श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥
कुमारस्य च तत्त्वानि या सृजत्यपि लीलया ।
कादीनपि च देवांस्तां कुमार्रां पूजयाम्यहम् ॥
सत्त्वादिभिस्त्रिमूर्त्तिर्या तैर्हि नानास्वरूपिणी ।
त्रिकालव्यापिनी शक्तिस्त्रिमूर्त्तिं पूजयाम्यहम् ॥
कल्याणकारिणी नित्यं भक्तानां पूजितानिशम् ।
पूजयामि च तां भक्त्या कल्याणीं सर्व्वकामदाम् ॥
रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै ।
या देवी सर्व्वभूतानां रोहिणीं पूजयाम्यहम् ॥
काली कालयते सर्व्वं ब्रह्माण्डं सचराचरम् ।
कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥
चण्डिकां चण्डरूपाञ्च चण्डमुण्डविनाशिनीम् ।
तां चण्डपापहरिणीं चण्डिकां पूजयाम्यहम् ॥
अकारणात् समुत्पत्तिर्यन्मयैः परिकीर्त्तिता ।
यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥
दुर्गा त्रायति भक्तं या सदा दुर्गार्त्तिनाशिनी ।
दुर्ज्ञेया सर्व्वदेवानां तां दुर्गां पूजयाम्यहम् ॥
सुभद्राणि च भक्तानां कुरुते पूजिता सदा ।
अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥
एभिर्म्मन्त्रैः पूजनीयाः कन्यकाः सर्व्वदा बुधैः ।
वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥”
“हीनाङ्गीं वर्ज्जयेत् कन्यां कुष्ठयुक्तां व्रणाङ्किताम् ।
गन्धस्फुरितहीनाङ्गीं विलासकुलसम्भवाम् ॥
जात्यन्धां केकरां काणीं कुरूपां बहुरोमशाम् ।
सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम् ॥
पृष्ठ २/८४२
दासीगर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् ।
वर्ज्जनीयाः सदा चैताः सर्व्वपूजादिकर्म्मसु ॥
अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्ज्जिताम् ।
एकवंशसमुद्भूतां कन्यां सम्यक् प्रपूजयेत् ॥
ब्राह्मणी सर्व्वकार्य्येषु जयार्थे नृपवंशजा ।
लाभार्भे वैश्यवंशोत्था क्षेमे च शूद्रवंशजा ॥
ब्राह्मणैर्ब्रह्मजाः पूज्याः राजन्यैर्ब्रह्मक्षत्त्रजाः ।
वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥
कांरुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् ।
नवरात्रविधानेन भक्तिपूर्ब्बं सदैव हि ॥
अशक्तो नियतं पूजां कर्त्तुं चेन्नवरात्रके ।
अष्टम्याञ्च विशेषेण कर्त्तव्यं पूजनं सदा ॥
पुराष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥
अतोऽष्टम्यां विशेषेण कर्त्तव्यं पूजनं सदा ।
नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥
पायसैरामिषैर्होमैर्ब्राह्मणानाञ्च भोजनैः ।
फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥
उपवासे ह्यशक्तानां नवरात्रव्रते पुनः ।
उपोषणत्रयं प्रोक्तं यथोक्तं फलदं नृप ! ॥
सप्तम्याञ्च तथाष्टम्यां नवम्यां भक्तिभावतः ।
त्रिरात्रकरणात् सर्व्वं फलं भवति पूजनात् ॥
सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणाञ्चैव भोजनैः ।
व्रतानि यानि चान्यानि दानानि विविधानि च ॥
नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ।
धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् ॥
आयुरारोग्यदञ्चैव स्वर्गदं मोक्षदं तथा ।
विद्यार्थी वा धनार्थी वा पुत्त्रार्थी वा भवेन्नरः ।
तेनेदं विधिवत् कार्य्यं व्रतं सौभाग्यदं शिवम् ॥
विद्यार्थी सर्व्वविद्यां वै प्राप्नोति व्रतसाधनात् ।
राज्यभ्रष्टो नृपो राज्यं समवाप्नोति सर्व्वथा ॥
पूर्ब्बजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् ।
ते व्याधिनो दरिद्राश्च भवन्ति पुत्त्रवर्ज्जिताः ॥
बन्ध्या च या भवेन्नारी विधवा धनवर्ज्जिता ।
अनुमा तत्र कर्त्तव्या नेयं कृतवती व्रतम् ॥
नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले ।
स कथं विभवं प्राप्य मोदतेऽत्र तथा दिवि ॥
रक्तचन्दनसंमिश्रैः कोमलैर्विल्वपत्रकैः ।
भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥” * ॥)
अथ नवरात्रपारणानिर्णयः । सा च दशम्यां
कार्य्या ॥ * ॥ दशम्यां विशेषस्तु भार्गवार्च्चन-
दीपिकायां भविष्ये ।
“शमीयुक्तं जगन्नाथं भक्तानामभयङ्करम् ।
अर्च्चयित्वा शमीवृक्षमर्च्चयेच्च ततः पुनः ॥”
शमीमन्त्रः । स्कान्दे हेमाद्रौ गोपथब्राह्मणे ।
“अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ।
दुःस्वप्ननाशिनीं धन्यां प्रपद्येऽहं शमीं शुभाम् ॥”
तथा भविष्ये ।
“शमी शमयते पापं शमी शत्रुविनाशिनी ।
अर्ज्जुनस्य धनुर्द्धारी रामस्य प्रियवादिनी ॥
करिप्यमाणा या यात्रा यथाकालं सुखं मया ।
तत्र निर्व्विव्नकत्रीं त्वं भव श्रीरामपूजिते ॥”
अथ बलनीराजनम् । कल्परत्ने । तत्र मन्त्रः ।
“चतुरङ्गं बलं मह्यं निरनिष्टं व्रजत्विह ।
सर्व्वत्र विजयो मेऽस्तु त्वत्प्रसादात् सुरेश्वरि ! ॥”
गौडनिबन्धे ज्योतिषे ।
“कृत्वा नीराजनं राजा बलवृद्ध्यै यथाक्रमम् ।
शोभनं खञ्जनं पश्येत् जलगोष्ठस्य सन्निधौ ॥”
इति निर्णयसिन्धुः ॥

नवरात्रिकं, क्ली, (नवरात्रेण निर्वृत्तम् । नव-

रात्र + “तेन निर्वृत्तम् ।” ५ । १ । ७९ । इति
ठक् ।) नवरात्रम् । यथा, भविष्योत्तरे ।
“आश्विने शुक्लपक्षे तु कर्त्तव्यं नवरात्रिकम् ।
प्रतिपदादिक्रमेणैव यावच्च नवमी भवेत् ॥”

नववधूः, स्त्री, (नवा नूतना वधूः ।) नवोढा ।

नवीना भार्य्या । यथा, --
“असम्भवद्घनरसा शतालिगणसेविता ।
करं न सहते राजन् ! भूमिर्न्नववधूरिव ॥”
इति द्व्यर्थकाव्यम् ॥ * ॥
नववध्वागमनदिनं यथा । तत्र अष्टमदशम-
द्बादशषष्ठचतुर्थवर्षाणि निषिद्धानि । (यदुक्तं
ज्योतिषे ।
“श्वश्रुं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके ।
संप्राप्तें द्वादशे वर्षे पतिं हन्ति द्विरागमे ॥
विवाहमासि प्रथमं वध्वा नागमनं यदि ।
तदा सर्व्वमिदं चिन्त्यं युग्माब्दादि विचक्षणैः ॥”)
मासा मार्गफाल्गुनवैशाखा विहिताः । पक्षः
शुक्लः । विहितनक्षत्राणि पुष्यस्वातीहस्ताधनि-
ष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपदारेवतीमृग-
शिरोरोहिणीपुनर्व्वसुपूर्ब्बाषाढाः । वाराः बृह-
स्पतिबुधशुक्रसोमानाम् । तिथयो यात्राप्रकर-
णोक्ताः । त्र्यहस्पर्शवारवेलादिक्शूलादीन् परि-
त्यज्य ताराचन्द्रशुद्धौ कालशुचौ च कार्य्यम् ॥
इति ज्योतिषम् ॥ अपि च ।
“स्वातीमूलपुनर्व्वसूत्तरकराश्चित्रानुराथाश्विनी
रोहिण्यः श्रवणा द्बिरागमविधौ पुष्या धनिष्ठा
तथा ।
भर्त्तुर्गोचरशोभने दिनपतौ काले पुनः शोभने
कुम्भाजालिरवौ शुभे शुभतिथौ वारादियात्रो-
दिते ॥
वैशाखे मार्गशीर्षे हि फाल्गुने हि शुभे रवौ ।
नववध्वागमं कुर्य्यादन्यमासे विवर्ज्जयेत् ॥”
इति मथुरेशचक्रवर्त्तिकृतसारसंग्रहः ॥
(अन्यद्द्विरागमनशब्दे द्रष्टव्यम् ॥)

नववध्वागमनं, क्ली, (नववध्वा आगमनम् ।)

नवोढायाः प्रथमपतिगृहगमनम् । तद्दिनं यथा,
“स्त्रीशुद्ध्याजघटालिसंयुतरघौ काले विशुद्धे भृगुं
सन्त्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते ।
त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ पतिः
कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ॥
एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे ।
पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ॥”
इति दीपिका ॥
अन्यत् नववधूशब्दे द्रष्टव्यम् ॥

नववरिका, स्त्री, (नवो वरोऽस्त्यस्या इति । नव-

वर + ठन् ।) नवोढा । इति हारावली । १५४ ॥

नववल्लभं, क्ली, (नवानां नवीनानां वल्लभम् ।)

दाहागुरु । इति राजनिर्घण्टः ॥ (नवो वल्लभो
यस्य ।) नवीनप्रिये, त्रि ॥

नववस्त्रं, क्ली, (नवं वस्त्रम् ।) नवीनवसनम् ।

नूतन कापड इति भाषा ॥ तत्पर्य्यायः । अना-
हतम् २ आहतम् ३ अहतम् ४ तन्त्रकम् ५
निष्प्रवाणि ६ । इति शब्दरत्नावली ॥ नवा-
म्बरम् ७ इत्यमरः । २ । ६ । ११२ ॥
अथ नववस्त्रपरिधानदिनम् ।
तत्र वाराः बुधबृहस्पतिशुक्राणाम् । नक्षत्राणि
रोहिणीमृगशिरोमघानुराधाधनिष्ठापुष्यवि-
शाखाहस्ताचित्रोत्तरफल्गुन्युत्तराषाढोत्तरभा-
द्रपदाश्विनीस्वातीपुनर्व्वसुरेवत्यः ॥
“घनिष्ठा रोहिणी हस्ताविशाखा चोत्तरासु च ।
ज्येष्ठा पुनर्व्वसुस्वाती चित्राश्विनी च रेवती ॥”
इति सारसंग्रहः ॥
अपि च ।
“धातानुराधवसुपुष्यविशाखहस्ता-
चित्रोत्तराश्विपवनादितिरेवतीषु ।
जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ
धार्य्यं नवं वसनमीश्वरविप्रतुष्टौ ॥
शीर्णं रवौ सततमम्बुभिरार्द्रमिन्दौ
भौमे शुचं बुधदिने च भवेद्धनाय ।
ज्ञानाय मन्त्रिणि भृगौ प्रियसङ्गमाय
मन्दे मराय च नवाम्बरधारणं स्यात् ॥”
इति समयप्रदीपः ॥

नवशायकः, पुं, (नवविधः शायक इव ।) नवधा

गोपादिजातिविशेषः । नवशाक इति भाषा ॥
यथा, पराशरसंहितायाम् ।
“गोपमाली तथा तैली तन्त्री मोदकवारजी ।
कुलालः कर्म्मकारश्च नापितो नवशायकाः ॥”

नवसूतिका, स्त्री, (नवा सूतिः प्रसवो यस्याः ।

कप् ।) धेनुः । इत्यमरः । २ । ९ । ७१ ॥ नूतन-
प्रसवायाञ्च ॥

नवांशः, पुं, (नवमोऽंशः ।) मेषादिद्बादशलग्नानां

नवभागः । यथा, दीपिकायाम् ।
“चराणां सत्रिकोणानां तच्चराद्या नवांशकाः ॥”
“मेषकेशरिधनुषां मेषाद्यास्तु नवांशकाः ।
वृषकन्यामृगाणाञ्च मकरादिनवांशकाः ॥
तुलामिथुनकुम्भानां तूलाद्याः समुदाहृताः ।
कर्किवृश्चिकमीनानां कर्कटाद्या नवांशकाः ॥
स्वनवांशस्तु राशीनां वर्गोत्तम इति स्मृतः ॥”
इति ज्योतिस्तत्त्वम् ॥
(नवभागमात्रम् ॥)

नवाङ्गा, स्त्री, (नवमिव अङ्गं यस्याः । टाप् ।)

कर्क्कटशृङ्गी । इति राजनिर्घण्टः ॥ (नवविधेन
द्रंव्येण अङ्गं यस्येति विग्रहे ।) पाचनविशेषे,
क्ली । यथा, वैद्यके ।
“विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः ।
कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम् ॥”
पृष्ठ २/८४३

नवान्नं, क्ली, (नवं नूतनं अन्नम् ।) नूतनान्नम् ।

तन्निमित्तश्राद्धम् । यथा, --
वराह उवाच ।
“अकृत्वा यो नवान्नानि मम कर्म्मपरायणः ।
भुञ्जन्ति ये नवान्नानि परैः शक्तानि केन ह ॥
नाहं लोभेन चेच्छामि पुनर्भोगेन सुन्दरि ! ।
अवश्यमेव कर्त्तव्यं मम कर्म्मपरायणैः ॥
ततो भागवतो भूत्वा नवान्नं यो न कारयेत् ।
पितरस्तस्य नाश्नन्ति वर्षाणि दश पञ्च च ॥
अदत्त्वा यस्तु भुञ्जीत नवान्नानि कथञ्चन ।
न तस्य धर्म्मो विद्येत एवमेतन्न संशयः ॥
अन्यच्च ते प्रवक्ष्यामि येन तत्र प्रमुच्यते ।
प्रायश्चित्तं महाभागे ! मम भक्तसुखावहम् ॥
उपवासं त्रिरात्रन्तु तत एकेन वा पुनः ।
आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति ॥
एवं तत्र विधिं कृत्वा उदिते च दिवाकरे ।
पञ्चगव्यं ततः पीत्वा शीध्रं सुच्येत किल्विषात् ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।
सर्व्वसङ्गान् षरित्यज्य मम लोकाय गच्छति ॥”
इति नवान्नभोक्षणापराधप्रायश्चित्तम् ॥ इति
वराहपुराणम् ॥ * ॥ तस्य निषिद्धदिनं यथा, --
“सूर्य्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मा-
न्विते
नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ
कार्त्तिके ।
भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे
श्राद्धं भोजनकं नवान्नविहितं पुत्त्रार्थनाश-
प्रदम् ॥”
सूर्य्ये चैव विशाखगे मार्गशीर्षस्य विंशति-
दण्डाधिकप्रथमदिनत्रयावस्थिते सूर्य्ये । स्मर-
तिथौ त्रयोदश्याम् । पापे पञ्चमतारात्रये ।
उग्रः पूर्ब्बात्रयमघाभरण्यः । अहिरश्लेषा ।
शिव आर्द्रा ।
“ज्येष्ठाशेषार्द्धगे सूर्य्ये मृगनेत्रनिशात्मके ।
नवान्नैर्भोजनं श्राद्धं जन्मचन्द्रे तिथौ न च ॥
अश्लेषाकृत्तिकाज्येष्ठामूलाजपदकेषु च ।
भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम् ॥”
तस्य विधिर्यथा, --
“प्राश्नीयाद्दधिसंयुक्तं नवं विप्राभिमन्त्रितम् ॥”
दीपिकायाम् ।
“भेषूग्राहिशिवान्येषु विभौमशनिवासरे ।
अन्नप्राशनवत् कुर्य्यान्नवान्नफलभक्षणम् ॥”
अधिकन्तु ।
“हस्ता स्वातिपुनर्व्वसू मृगशिरःपुष्यानुराधा
तथा
मूलायां श्रवणे च रेवतिधने चित्रामले वारुणे ।
ब्राह्मे शक्रविशाखयोश्च तुरगे सौम्येन्दुजीवाहके
चन्द्रे शोभनतारके च शुभदं श्राद्धं नवान्नैः
कृतम् ॥”
भोजराजः ।
“ब्रह्मा विष्णुबृहस्पती शशधरो मार्त्तण्डपौष्णा-
दिती
मैत्रे चैव विशाखवायुधनभे मूलाश्विवह्नौ
तथा ।
शक्रे वारुण ऋक्षके शुभदिने श्राद्धं नवं शस्यते
नन्दाभार्गवभूमिजेषु न भवेच्छ्राद्धं नवान्नो-
द्भवम् ॥”
इति ज्योतिस्तत्त्वम् ॥
आश्विंनाधिकारे ।
“शुक्लपक्षे नवं धान्यं ज्ञात्वा पक्वं सुशोभनम् ।
गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरः ॥”
इत्यादिना ब्रह्मपुराणेन श्राद्धविधानात् ॥
अपि च ।
“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥”
इति मलमासतत्त्वम् ॥

नवाम्बरं, क्ली, (नवं नूतनमम्बरं वस्त्रम् ।) नूतन-

वस्त्रम् । इत्यमरः । २ । ६ । ११२ ॥ (यथा,
समयप्रदीपे ।
“शीर्णं रवौ सततमम्बुभिरार्द्रमिन्दौ
भौमे शुचं बुधदिने च भवेद्धनाय ।
ज्ञानाय मन्त्रिणि भृगौ प्रियसङ्गमाय
मन्दे मराय च नवाम्बरधारणं स्यात् ॥”)

नवार्च्चिः, [स्] पुं, (नव अर्च्चींषि यस्य ।)

मङ्गलग्रहः । इति त्रिकाण्डशेषः ॥ (क्ली,
नवं नूतनं अर्च्चिः ।) नवशिखा ॥ (नव अर्च्चींषि
इति विग्रहेण तु नवसंख्यककिरणार्थे बहु-
वचनम् ॥)

नवाहः, पुं, (नवं अहः । समासे टच् ।) नव-

दिनम् । प्रतिपत्तिथिः । इति विश्वः ॥

नविका, स्त्री, (नवोऽस्त्यस्या इति । नव + ठन् +

टाप् । नविं नवं कायति इति वा ।) नवशब्द-
युक्ता । इति स्त्रीत्यप्रकरणे दुर्गादासः ॥

नवीनं, त्रि, (नवमेव । नव + “नवस्य न्वादेशो-

त्नप्तनप्खाश्च प्रत्यया वक्तव्याः ।” ५ । ४ । २५ ।
इत्यस्य वार्त्तिकोक्त्या खः न्वादेशश्च ।) नूतनम् ।
इत्यमरः । ३ । १ । ७७ ॥ (यथाह गदाधरः ।
“गदाधरविनिर्म्मिता विविधदुर्गतर्काटबी
नवीनपदवीमुदं वितनुतां सतां धीमताम् ॥”)

नवोढा, स्त्री, (नवा नूतना ऊढा) नवविवाहिता ।

तत्पर्य्यायः । वधूः २ जनी ३ । इति जटाधरः ॥
नववरिका ४ दिक्करी ५ नवयौवना ६ । इति
हारावली । १५४ ॥ मुग्धानायिकाभेदः । तस्या
लक्षणं यथा । “लज्जाभयपराधीनरतिर्नवोढा ॥”
तस्या उदाहरणं यथा, रसमञ्जर्य्याम् ।
“बलान्नीता पार्श्वं मुखमनुमुखं नैव कुरुते
धुनानामूर्द्धानं क्षिपति वदनं चुम्बनविधौ ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना
नवोढा वोढारं रमयति च सन्तापयति च ॥”

नवोदकं, क्ली, (नवमुदकम् ।) नूतनजलम् । यथा,

मिताक्षरायां स्मृतिः ।
“काले नवोदकं शुद्धं न पातव्यञ्च तत् त्र्यहम् ।
अकाले तु दशाहानि पीत्वा नाद्यादहर्निशम् ॥”
इति शुद्धितत्त्वम् ॥
तन्निमित्तकं श्राद्धं कर्त्तव्यम् । यथा, शातातपः ।
“नवोदके नवान्ने च गृहप्रच्छादने तथा ।
पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥
तस्माद्दद्यात् सदा युक्तो विद्बत्सु ब्राह्मणेषु च ॥
नवोदके वर्षोपक्रमे । आर्द्रागते रवाविति यावत् ।
‘आर्द्रादितो विशाखान्तं रविचारेण वर्षति ।’
इति नव्यवर्द्धमानधृतात् ॥
‘प्राविट्काले समायाते रौद्रऋक्षगते रवौ ।
नाडीवेधसमायोगे जलयोगं वदाम्यहम् ॥’
इति रुद्रयामलाच्च ॥
रौद्रमार्द्रा ॥ * ॥ नवोदकश्राद्धस्य सावकाश-
त्वात् त्रयोदश्यादिकनिषेधमाह दीपिकायाम् ।
‘त्रयोदशीं जन्मदिनञ्च नन्दां
जन्मर्क्षतारां सितवासरञ्च ।
त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्र-
ध्रुवेषु च श्राद्धविधानमिष्टम् ॥’
सितवासरं शुक्रवारम् । ऋक्षं राशिः । हर्य्या-
दयः श्रवणपुष्यमृगशिरोहस्तारेवत्यनुराधोत्तरा-
त्रितयरोहिण्यः । कृष्णपक्षे चेन्नवोदकश्राद्ध-
कालस्तदोभयोः श्राद्धयोस्तन्त्रात् सिद्धिः ।” इति
तिथ्यादितत्त्वम् ॥

नवोद्धृतं, क्ली, (नवमुद्धृतम् ।) नवनीतम् । इत्य-

मरः । २ । ९ । ५२ ॥ नूतनोत्थिते, त्रि ॥

नव्यं, त्रि, (नूयते स्तूयते इति । नु स्तुतौ + “अचो

यत् ।” ३ । १ । ९७ । इति यत् । यद्वा, नव-
मेव । “शाखादिभ्यो यत् ।” ५ । ३ । १०३ ।
इति स्वार्थे यत् ।) नूतनम् । इत्यमरः । ३ । १ । ७७ ॥
(यथा, ऋग्वेदे । ३ । ५५ । १६ ।
“नव्या नव्या युवतयो भवन्तीर्महद्देवानामसुर-
त्वमेकम् ॥”
स्तुत्यम् । यथा, ऋग्वेदे । ५ । १३ । ३ ।
“कया नो अग्न ऋतयन्नृतेन
भुवो नवेदा उचथस्य नव्यः ॥”)
क्ली, स्तुतिः । नु ल स्तुतौ भावे अल् नवशब्दात्
स्वार्थे ये निष्पन्नः ॥

नव्यः, पुं, (नूयते इति । नु + यत् ।) रक्तपुनर्नवा ।

इति राजनिर्घण्टः ॥

नशाकः, पुं, (नश्यतीति । नश नाशे + “आकः

खजादेः स तु कित् ।” १ । २२३ । इति उणादि-
कोषटीकाधृतसूत्रात् आकः ।) काकभेदः ।
इत्युणादिकोषः ॥

नशिता, [ऋ] त्रि, नाशाश्रयः । इति नशधातोः

कर्त्तरि तृच्प्रत्ययनिष्पन्नः ॥

नश्यत्प्रसूतिका, स्त्री, (नश्यन्ती प्रसूतिः सन्तति-

र्यस्याः । कप् । ततष्टाप् ।) मृतवत्सा । तत्-
पर्य्यायः । नन्दुः २ मृतपुत्त्रिका ३ । इति हेम-
चन्द्रः । ३ । १९५ ॥

नश्वरः, त्रि, (नश्यतीति । नश + “इण्नशजि-

सर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ । इति क्वरप् ।)
नाशप्रतियोगी । ध्वंसयोग्यः । इति नशधातोः
कर्त्तरि वरप्रत्ययनिष्पन्नः ॥ (यथा, भागवते ।
५ । १८ । ४ ।
पृष्ठ २/८४४
“वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥”)

नष्टः, त्रि, (नश + क्तः ।) अदर्शनविशिष्टः । तत्-

पर्य्यायः । तिरोहितः २ । इत्यमरः । २ । ८ ।
११२ ॥ (यथा, पञ्चतन्त्रे । १ । ३७८ ।
“नष्टं मृतमतिक्रान्तं नानु शोचन्ति पण्डिताः ।
पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥”
अधमः । यथा, चाणक्ये । ८० ।
“असन्तुष्टा द्विजा नष्टाः सन्तुष्टा इव पार्थिवाः ।
सलज्जा गणिका नष्टा निर्ल्लज्जास्तु कुलस्त्रियः ॥”
प्रचलितः । यथा, हरिवंशे । १७४ । १२३ ।
“तृतीये तु मुहूर्त्ते सा नष्टा बाणपुरात् तदा ।
सखीप्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ॥”
पलायितः । यथा, रत्नावल्याम् ।
“नष्टं वर्षवरैर्म्मनुष्यगणनाभावादपास्य त्रपाम् ॥”
निष्फलः । यथा, मनुः । ३ । १८० ।
“नष्टं देवलके दत्तं अप्रतिष्ठन्तु बार्द्धुषौ ॥”)
नाशाश्रयः । यथा । “योगो नष्टः परन्तपः ॥”
इति श्रीभगवद्गीता ॥ नाशे, क्ली ॥

नष्टचन्द्रः, पुं, (नष्टो दुष्टश्चन्द्रः ।) सौरभाद्रस्यो-

भयपक्षे चतुर्थ्यामुदितश्चन्द्रः । यथा, --
“नष्टश्चन्द्रो न दृश्यश्च भाद्रे मासि सितासिते ।
चतुर्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः ॥
चन्द्रस्तारापहरणं कलङ्कमतिदुष्करम् ।
तस्मै ददाति हे नन्द ! कामतो यदि पश्यति ॥
अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् ।
तदा शुद्धो भवेत् सद्यो निष्कलङ्की महीतले ॥
‘सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक ! मारोदीस्तव ह्येष स्यमन्तकः ॥’
इति मन्त्रेण पूतश्च जलं साधुः पिबेद्ध्रुवम् ॥
पुरा तारा गुरोः पत्नी नवयौवनसंयुता ।
रत्नभूषणभूषाढ्या रत्नसूक्ष्माम्बरा सती ॥
सुश्रोणी सुस्मिता रम्या सुन्दरी सुमनाहरा ।
अतीवकवरीरम्या मालतीमाल्यभूषिता ॥
सिन्दूरविन्दुना साकं चारुचन्दनविन्दुभिः ।
कस्तूरीविन्दुनाधश्च भालमध्यस्थलोज्ज्वला ॥
रत्नेन्द्रसारनिर्म्माणक्वणन्मञ्जीररञ्जिता ।
सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला ॥
सुचारुचारुमुक्ताभदन्तपङ्क्तिमनोहरा ।
रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला ॥
कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी ।
सुकोमला चन्द्रमुखी कामाधारा च कामुकी ॥
स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा ।
ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी ॥
दृष्ट्वा तस्याश्च सर्व्वाङ्गमनङ्गवाणपीडितः ।
भाद्रे चतुर्थ्याञ्चन्द्रश्च जहार चेतनं व्रज ! ॥
ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली ।
रथमारोहयामास करे धृत्वा च तारकाम् ॥
कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः ।
शृङ्गारं कर्त्तुमुद्यन्त तमुवाच गुरुप्रिया ॥
तारकोवाच ।
त्यज मां त्यज मां चन्द्र ! सुरेषु कुलपांसक ! ।
गुरुपत्नीं ब्राह्मणीञ्च पतिव्रतपरायणाम् ॥
गुरुपत्नीसङ्गमने ब्रह्महत्याशतं लभेत् ।
पुत्त्रस्त्वं तव माताहं धैर्य्यं कुरु सुरेश्वर ! ॥
धिक् तां श्रुत्वा सुरगुरुर्भस्मीभूतं करिष्यति ।
गुरुपत्नी विप्रपत्नी यदि सा च पतिव्रता ॥
ब्रह्महत्यासहस्रञ्च तस्याः सङ्गमने लभेत् ।
पुत्त्राधिकश्च शिष्यश्च प्रियोमत्स्वामिनो भवान् ॥
स्वधर्म्मं रक्ष पापिष्ठ ! मामेव मातरं त्यज ।
दास्यामि स्त्रीवधं तुभ्यं यदि मां संग्रहीष्यसि ॥
विलङ्घ्य तारावचनं ताञ्च सम्भोक्तुमुद्यतम् ।
शशाप तारा कोपेन निष्कामा सा पतिव्रता ॥
राहुग्रस्तो घनग्रस्तः पापयुक्तो भवान् भव ।
कलङ्की यक्ष्मणा ग्रस्तो भविष्यसि न संशयः ॥
चन्द्रमेवं तदा तूर्णं कामदेवं शशाप सा ।
तेजस्विना केनचित्त्वं भस्मीभूतो भविष्यसि ॥
चन्द्रस्तारां गृहीत्वा च कृत्वा च रमणं व्रज ! ।
क्रोडे निधाय प्रययौ रुदन्तीं तां शुचिस्मिताम् ॥
निर्जने निर्जने रम्ये शैले शैले मनोहरे ।
तत्र दृष्ट्वासुरगुरुं बलिगेहात् समागतम् ॥
प्रणम्यं सर्व्वमुक्त्वा च चन्द्रस्तं शरणं ययौ ।
शुक्रस्तं बोधयामास वचनं नीतियुक्तितः ॥
शुक्र उवाच ।
शृणु वत्स ! प्रवक्ष्यामि गुरवे देहि तारकाम् ।
गुरुपत्नीं मातृपरां त्यज मद्बचनाद्विधो ! ॥
कुरु पापक्षयोपायं निवृत्तिस्तु महाफला ।
सतीनां गुरुपत्नीनां ग्रहणेन बलेन च ॥
ब्रह्महत्यासहस्राणां पातकं लभते जनः ।
कुम्भीपाके पच्यते च यावद्बै ब्रह्मणः शतम् ॥
बृहस्पतिश्च तेजस्वी त्वां भस्मीकर्त्तुमीश्वरः ।
न चकार कृपालुश्चेत् प्रियशिष्येण हेतुना ॥
उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे सकामतः ।
तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती ॥”
“एतस्मिन्नन्तरे ब्रह्मा बोधयित्वा कविं विभुः ।
समानीय निशानाथं तारकासहितं व्रज ! ।
शम्भोश्च चरणाम्भोजे चकार च समर्पणम् ॥
शम्भुस्तं प्रीतियुक्तश्च वासयामास वक्षसि ॥
दत्त्वा तस्मै पादरेणुं निष्पापञ्च चकार सः ।
दत्त्वा तन्मस्तके हस्तं कृपालुरभयं ददौ ॥
क्षीरोदे स्थापयित्वा च प्रायश्चित्तेन शङ्करः ।
चकार चन्द्रं निष्पापं ब्रह्मणा सहितः शुचिम् ॥
योगेन चन्द्रं योगीन्द्रो द्बिखण्डञ्च चकार सः ।
ररक्षार्द्धं ललाटे च सोऽप्यर्द्धं ब्रह्मणः पुरः ॥
अतएव महादेवो बभूव चन्द्रशेखरः ।
मृगाङ्को लज्जितस्तत्र कलङ्की देवसंसदि ॥
लज्जया च स्वयोगेन देहत्यागञ्चकार सः ।
तच्छरीरञ्च क्षीरोदे ब्रह्मणा च समर्पितम् ॥
रुरोदात्रिश्च कृपया शुचा क्षीरोदधेस्तटे ।
अत्रेश्चक्षुर्जलं तस्य पपात च जले व्रज ! ॥
भस्माद्बभूव चन्द्रश्च निष्पापो देवसंसदि ।
ब्रह्मा च भगवान् शम्भुरभिषेकञ्चकार तम् ॥
उवाच च महादेवो निर्भयं देवसंसदि ॥
महादेव उवाच ।
स्वस्थानं गच्छ पुत्त्र ! त्वं कुरु स्वविषयं मुदा ।
पश्चात् श्वशुरशापेन यक्ष्मग्रस्तो भविष्यसि ॥
व्यर्थं पतिव्रताशापं कर्त्तुमीशश्च को भुवि ।
ममाशिषा यक्ष्मणश्च प्रतिकारो मविष्यति ॥
यस्माद्भाद्रचतुर्थ्यान्तु गुरुपत्नी क्षता कृता ।
तस्मात्तस्मिन्दिने वत्स ! पापदृश्यो युगे युगे ॥
मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म्म शुभाशुभम् ॥
देहत्यागेन हे वत्स ! कर्म्मभोगो न नश्यति ।
प्रायश्चित्तान्न सन्देहो ह्यस्तमेव भविष्यति ॥
तारापहरणं वत्स ! कलङ्कश्चन्द्रमण्डले ।
मृगाकृतं विलग्नञ्च मविष्यति युगे युगे ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८०-८१ अः ॥

नष्टचेष्टता, स्त्री, (नष्टा चेष्टा यस्य । तस्य भावः ।

तल् ।) प्रलयः । इत्यमरः । १ । ७ । ३३ ॥
शोकादिना परिस्पन्दनाशो नष्टचेष्टता तत्र
प्रलयः प्रलीयतेऽनेन प्रलयः ली ङ ष ओ श्लिषि
अल् । प्रलयः सात्त्विको भावः मूर्च्छेत्यर्थः ।
इति सर्व्वस्वम् ॥ हर्षशोकादिभिरशेषचेष्टा-
नाशः प्रलय इत्यर्थः । इति भरतः ॥ ईहा-
शून्यता च ॥

नष्टाग्निः, पुं, (नष्टः प्रमादात् निर्व्वाणमाप्तः

अग्निर्यस्य ।) यस्याग्निहोत्रिणः प्रमादादिना
कारणान्तरेण वा अग्निर्नष्टो निर्व्वाणः स्यात्
सः । तत्पर्य्यायः । वीरहा २ । इत्यमरः । २ ।
७ । ५३ ॥

नष्टाप्तिसूत्रं, क्ली, (नष्टस्य चौरेणापहृतस्य वस्तुन

आप्तिः तस्याः सूत्रमिव ।) किञ्चित्प्राप्तचौर-
नीतद्रव्यम् । तत्पर्य्यायः । लोप्त्रम् २ । इति
हारावली । १५८ ॥

नष्टेन्दुकला, स्त्री, (नष्टा इन्दुकला यस्याम् ।)

कुहूः । इत्यमरः । १ । ४ । ९ ॥

नसा, स्त्री, (नस् + वा टाप् । यद्वा, नसते कुटि-

लतां प्रकाशयतीति । नस कौटिल्ये + अच् ।
टाप् ।) नासिका । इति त्रिकाण्डशेषः ॥

नस्तः, पुं, (नसते कुटिलतां प्रकाशयत्यनेनेति ।

नस् + क्तः । बाहुलकात् इडभावः ।) नासिका ।
इति शब्दमाला ॥ (यथा, महाभारते । ५ ।
१३१ । १० ।
“नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्याञ्च समन्ततः ।
प्रादुरासन् महारौद्राः सधूमाः पावकार्च्चिषः ॥”)
नस्ये, क्ली । इति रत्नमाला ॥ पञ्चविधनस्त-
कर्म्माणि यथा, --
“प्रतिमर्षोऽवपीडश्च नस्यं प्रधमनन्तथा ।
शिरोविरेचनञ्चैव नस्त कर्म्म तु पञ्चधा ॥
ईषदुच्छ्वसनात् स्नेहो यावान् वक्तं प्रपद्यते ।
नस्ते निषिक्तस्तं विद्यात् प्रतिमर्षं प्रमाणतः ॥
प्रतिमर्षश्च नस्यार्थं करोति च न दोषभाक् ।
शोधनः स्तम्भनस्तु स्यादवपीडो द्बिधा मतः ॥
अवपीड्य दीयते यस्मादवपीडस्ततः स्मृतः ।
पृष्ठ २/८४५
स्नेहार्थं शून्यशिरसां ग्रीवास्कन्धोरसां तथा ॥
बलार्थं दीयते स्नेहो नस्तशब्दोऽत्र वर्त्तते ।
नस्यस्य स्नैहिकस्यात्र देयास्त्वष्टौ तु विन्दवः ॥
प्रत्येकशो नस्तकयोर्नृणामिति विनिश्चयः ॥”
इति वैद्यकपरिभाषा ॥
“शुक्तिश्च पाणिशुक्तिश्च मात्रास्तिसः प्रकी-
र्त्तिताः ।
द्वात्रिंशद्बिन्दवश्चात्र शुक्तिरित्यभिधीयते ॥
द्विशुक्ती पाणिशुक्तिश्च देयास्तु कुशलैर्नरैः ।
तैलं कफे च वाते च केवले पवने वसाम् ॥
दद्यान्नस्यं सदा पित्ते सर्पिर्म्मज्जां समारुते ।
ध्मापनं रेचनं चूर्णं युञ्ज्यात्तं मुखवायुना ॥
षडङ्गुलद्बिमुखया नाड्या भेषजगर्भया ।
स हि भूरितरं दोषं चूर्णत्वादपकर्षति ॥
शिरोविरेचनद्रव्यैः स्नेहैर्वातैः प्रसाधितैः ।
शिरोविरेचनं दद्यात् रोगेष्वेतेषु बुद्धिमान् ॥
गौरवे शिरसः शूले जाड्ये स्यन्दे गलामये ।
शोथगण्डक्रिमिग्रन्थिकुष्ठापस्मारपीनसे ॥
तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् ।
भुक्तभक्तशिरः स्नातस्नातुकामसुतासृजाम् ॥
नवपीनसरोगार्त्तसूतिकाश्वासकासिनाम् ।
शुद्धानां दत्तवस्तीनां तथा नार्त्तवदुर्द्दिने ॥
अन्यत्रात्ययिके व्याधौ नैषां नस्यं प्रयोजयेत् ।
न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे ।
न चोनद्बादशे धूमः कवडो नोनपञ्चमे ॥
न शुद्धिर्न्यूननवमे न चातिक्रान्तसप्ततौ ।
आजन्ममरणं शस्तं प्रतिमर्षन्तु वस्तिवत् ॥”
इति सारकौमुदी ॥

नस्ता, स्त्री, (नस्त + टाप् ।) नासाकृतं छिद्रम् ।

इति नस्तितशब्दटीकायां भरतः ॥
“नस्ताभेदनदाहाभ्यां कर्णदाहादिभेदनैः ।
अतिदाहातिवाहाभ्यां वधे चान्द्रायणञ्चरेत् ॥”
इति स्मृतिः ॥

नस्तितः, पुं, (नस्ता नासाच्छिद्रं जाता अस्य ।

तारकादित्वादितच् ।) नासानिहितरज्जुवली-
वर्द्दादि । नाक्फोँ डा वलद इति भाषा । तत्-
पर्य्यायः । नस्योतः २ । इत्यमरः । २ । ९ । ६३ ॥

नस्तोतः, पुं, (वे ञ तन्तुसन्ताने + भावे क्तः । नस्ते

नासिकायां ऊतं वयनं यस्य ।) नस्तितः । इत्य-
मरटीकायां रमानाथः ॥

नस्यं, क्ली, (नासिकायै हितम् । नासिका + यत् ।

नसादेशश्च ।) नासिकादेयचूर्णादि । तत्-
पर्य्यायः । नस्तम् २ लावणम् ३ । इति रत्न-
माला ॥ यथा, वैद्यकपरिभाषायाम् ।
“वमनं रेचनं नस्यं निरूहश्चानुवासनम् ।
ज्ञेयं पञ्चविधं कर्म्म मात्रा तस्य प्रवक्ष्यते ॥”
नासाद्वारा देयौषधविशेषः । यथा, --
“प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।
पुनर्नवां गोक्षुरकं सैन्धवं त्र्युषणं वचा ॥
सरलं सुरदारुश्च बृहती कण्टकारिका ।
नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ॥”
इति गारुडे १९८ अध्यायः ॥
अपि च ।
“सिद्धार्थकवचाहिङ्गुकरञ्जं देवदारु च ।
मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।
नस्यमालेपनञ्चैव स्नानमुद्बर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम् ॥”
इति गारुडे १९९ अध्यायः ॥
(यथां च ।
“नस्यन्तत् कथ्यते धीरैर्नासाग्राह्यं तदौषधम् ।
नावनं नस्यकर्म्मेति तस्य नामद्वयं मतम् ॥
नस्यभेदो द्बिधा प्रोक्तो रेचनं स्नेहनन्तथा ।
रेचनं कर्षणं प्रोक्तं स्नेहनं बृंहणं मतम् ॥
कफपित्तानिलध्वंसे पूर्ब्बमध्यापराह्णके ।
दिनस्य गृह्यते नस्यं रात्रौ वाप्युत्कटे गदे ॥
नस्यं त्यजेद्भोजनान्ते दुर्द्दिने चापि तर्पणे ।
तथा नवप्रतिश्यायी गर्भिणी गरदूषितः ॥
अजीर्णी दत्तवस्तिश्च पीतस्नेहोदकासवः ।
क्रुद्धः शोकाभिभूतश्च तृषार्त्तो वृद्धबालकौ ॥
वेगावरोधी तापी च स्नातुकामश्च वर्ज्जयेत् ।
अष्टवर्षस्य बालस्य नस्यकर्म्म समाचरेत् ॥
अशीतिवर्षादूर्द्धञ्च नावनं नैव दीयते ।
अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः ॥
तीक्ष्णभेजससिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा ।
नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च विन्दवः ॥
प्रत्येकं रेचने योज्या मुख्यमध्यान्तमात्रया ।
नस्यकर्म्मणि दातव्यं शाणैकं तीक्ष्णमौषधम् ॥
हिङ्गुः स्याद्यवमात्रस्तु माषैकं सैन्धवं मतम् ।
क्षीरञ्चैवाष्टशाणं स्यात् पानीयञ्च त्रिकार्षिकम् ॥
कार्षिकं मधुरं द्रव्यं नस्यकर्म्मणि योजयेत् ॥
अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ ।
शिरो विरेचनस्थाने तौ तु देयौ यथायथम् ॥
कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः ।
सोऽवपीतः समुद्दिष्टस्तीक्ष्णद्रव्यसमुद्भवः ॥
षडङ्गुला द्विवक्त्राया नाडीचूर्णन्तया धमेत् ।
तीक्ष्णङ्कोलमितं वक्त्रवातैः प्रधमनं हितम् ॥
ऊर्द्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये ।
अरोचके प्रतिश्याये शिरःशूले च पीनसे ॥
शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम् ।
भीरुस्त्रीकृशबालानां नस्यं स्नेहेन शस्यते ॥
गलरोगे सन्निपाते निद्रायां विषमज्वरे ।
मनोविकारे क्रमिषु युज्यते चावपीडनम् ॥
अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते ।
चर्णं प्रधमनन्धीरैस्तद्धि तीक्ष्णतरं यतः ॥
नस्यं स्याद्गुडशुण्ठीभ्याम्पिप्पल्या सैन्धवेन च ।
जलपिष्टेन तेनाक्षिकर्णनासाशिरोगदाः ॥
हनुमन्यागलोद्भूता नश्यन्ति भुजपृष्ठजाः ।
मधूकसारकृष्णाभ्यां वचा मरिचसैन्धवैः ॥
नस्यङ्कोष्णजले पिष्टं दद्यात् संज्ञा प्रबोधनम् ॥
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके ॥”
इति मध्यखण्डे विंशेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“नस्यकर्म्म यथाकालं यो यथोक्तं निषेवते ।
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते ॥
न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः ।
न च केशाः प्रलुट्यन्ते वर्द्धन्ते च विशेषतः ।
मन्यास्तम्भःशिरःशूलमर्द्दितं हनुसंग्रहः ॥
पीनसार्द्धावभेदौ च शिरःकम्पश्च शाम्यति ।
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम् ॥
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् ।
सर्व्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥
न चास्य रोगाः सहसा प्रभवन्त्यूर्द्ध्वजत्रुजाः ।
जीर्य्यतश्चोत्तमाङ्गे च जरा न लभते बलम् ॥”
इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥
“औषधमौषधसिद्धो वा स्नेहो वा नासि-
काभ्यां दीयत इति नस्यं तद्द्विविधं शिरोविरे-
चनं स्नेहनञ्च । तद्द्विविधमपि पञ्चधा । तद्-
यथा । नस्यं शिरोविरेचनं प्रतिमर्शोऽवपीडः
प्रधमनञ्च । तेषु नस्यं प्रधानं शिरोविरेचनञ्च
नस्यविकल्पः प्रतिमर्शः शिरोविरेचनविक-
ल्पोऽवपीडः प्रधमनञ्च । ततो नस्यशब्दः
पञ्चधा निपातितः । तत्र यः स्नेहनार्थं शून्य-
शिरसां ग्रीवास्कन्धोरसां बलजननार्थं दृष्टि-
प्रसादजननार्थं वा स्नेहो विधीयते तस्मिन्
वैशेषिको नस्यशब्दः । तत्तु नस्यं देयं वाता-
भिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुण-
कर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगस्य
शोषापबाहुकाकालजवलीपलितप्रादुर्भावदारु-
णप्रवाधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु च
वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ॥”
“तत्रैतद्द्विविधमभुक्तवतोऽन्नकाले पूर्ब्बाह्णे
श्लेष्मरोगिणां मध्याह्ने पित्तरोगिणामपराह्णे
वातरोगिणाम् ॥”
इति सुश्रुते चिकित्सितस्थाने ४० अध्याये ॥)
नासाया हिते तत्सम्बन्धिनि च, त्रि । प्रग्रहे,
पुं । इति संक्षिप्तसारव्याकरणम् ॥

नस्या, स्त्री, (नासिकायै हिता । नासिका +

“शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत्
ततो नसादेशः ।) नासिका । यथा, --
“घ्राणं गन्धवहा नासानसा नस्या च नासिका ॥”
इति भरतघृतसाहसाङ्कः ॥
(नासाकृतछिद्रम् । इति कश्चित् ।)

नस्योतः, पुं, (नस्यया नासारज्ज्वा ऊतः ।)

नस्तितः । इत्यमरः । २ । ९ । ६३ ॥ (यथा,
महाभारते । ३ । ३० । २६ ।
“मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ॥”)

नहि, व्य, निषेधः । (यथा, --

“इयं सन्ध्या दूरादुपगतो हन्त मलयात्
तदेकां त्वद्गेहे विनयवति ! नेष्यामि रजनीम् ।
समीरेणोक्त्वैवं नवकुसुमिता चूतलतिका
धूनाना मूर्द्धानं नहि नहि नहीत्येव कुरुते ॥”
इत्युद्भटः ॥)
पृष्ठ २/८४६
अभावः । तत्पर्य्यायः । अ २ नो ३ न ४ ।
इत्यमरः ॥ अन ५ अना ६ ना ७ । इति
भरतः ॥ (यथा, महाभारते । ४ । २४ । १३ ।
“नहि विद्मो गतिं तेषां वासं हि नरसत्तम ! ॥)

नहुषः, पुं, (नह्यते इति । नह + “पॄनहिकलिभ्य

उषच् ।” उणां । ४ । ७५ । इति कर्त्तरि
कर्म्मणि वा उषच् ।) नागभेदः । (यथा,
महाभारते । १ । ३५ । ९ ।
“आप्तः करोटकश्चैव शङ्खो बालिशिखस्तथा ।
निष्ठानको हेमगुहो नहुषः पिङ्गलस्तथा ॥”)
चन्द्रवंशीयराजभेदः । इति मेदिनी । षे, ३८ ॥
स च पुरूरवसो ज्येष्ठपुत्त्रस्यायुषः सुतः । इति
पुराणम् ॥ (अयं हि अगस्त्यशापात् अजा-
गरत्वमाप्तो वनमध्ये बहुकालं स्थितवान् ततः
कदाचित् भीमं प्रगृह्य युधिष्ठिरात् मुक्तिमाप ।
एतद्विषरणं यथा, महाभारते । ३ । १८१ ।
३३ -- ४५ ।
“अहं हि दिवि दिव्येन विमानेन चरन् पुरा ।
अभिमानेन मत्तः सन् किञ्चिन्नान्यदचिन्तयम् ॥
ब्रह्मर्षिदेवगन्धर्व्वयक्षराक्षसपन्नगाः ।
करान्मम प्रयच्छन्ति सर्व्वे त्रैलोक्यवासिनः ॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीश्वर ! ।
तस्य तेजो हराम्याशु तद्धि दृष्टैर्बलं मम ॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिविकां मम ।
स मामपनयो राजन् ! भ्रंशयामास वै श्रियः ॥
तत्र ह्यगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः ।
अगस्त्येन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥
ततस्तस्माद्विमानाग्रात् प्रच्युतश्च्युतभूषणः ।
प्रपतन् बुबुधेत्मानं व्यालीभूतमधोमुखम् ॥
अयाचन्तमहं विप्रं शापस्यान्तो भवेदिति ।
प्रमादात् संप्रमूढस्य भगवन् ! क्षन्तुमर्हसि ॥
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः ।
युधिष्ठिरो धर्म्मराजः शापात्त्वां मोक्षयिष्यति ॥
अभिमानस्य घोरस्य पापस्य च नराधिप ! ।
फले क्षीणे महाराज ! फलं पुण्यमवाप्स्यसि ॥
ततो मे विस्मयो जातस्तद्दृष्ट्वा तषसो बलम् ।
ब्रह्म च ब्राह्मणत्वञ्च येन त्वाहमचूचुदम् ॥
सत्यं दमस्तपो दानमहिंसा धर्म्मनित्यता ।
साधकानि सदा पुंसां न जातिर्न कुलं नृप ! ॥
अरिष्ट एष ते भ्राता भीमसेनो महाबलः ।
स्वस्ति तेऽस्तु महाराज ! गमिष्यामि दिवं पुनः ॥
वैशम्पायन उवाच ।
इत्युक्त्वाजगरं देहं मुक्त्वा स नहुषो नृपः ।
दिव्य वपुः समास्थाय गतस्त्रिदिवमेव हि ॥” * ॥
(नह्यति सर्व्वाणि भूतानि माययेति । विष्णुः ।
यथा, महाभारते । १३ । १४९ । ४७ ।
“इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो
वृषः ॥”)

नहुषाख्यं, क्ली, (नहुष आख्या यस्य ।) तगर-

पुष्पम् । इति राजनिर्घण्टः ॥

नहुषात्मजः, पुं, (नहुषस्य आत्मजः ।) ययाति-

राजा । इति पुराणम् ॥ (वाच्यलिङ्गेऽपि
दृश्यते । तथाहि महाभारते । १ । ७८ । १४ ।
“अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥”)

ना, व्य, (नह बन्धे + बाहुलकात् डा ।) नहि ।

अभावः । इत्यमरटीकायां भरतः ॥

ना, [ऋ] पुं, (नयति नीयते वा । नी प्रापणे +

“नयतेर्डिच्च ।” उणां २ । १०१ । इति ऋ प्रत्ययः ।
स च डित् ।) पुरुषः । इत्यमरः । २ । ६ । १ ॥
(यथा, माघः । २ । ४२ ।
“विधाय वैरं सामर्षे नरोऽरौ य उदासते ।
प्रक्षिप्योदर्च्चिषं कक्षे शेरते तेऽभिमारुतम् ॥”)

नाकः, पुं, (न कं सुखमिति अकं दुःखम् । तन्नास्त्य-

त्रेति ।) स्वर्गः । इत्यमरः । १ । १ । ६ ॥ (यथा,
भट्टिः । १ । ४ ।
“सन्तर्पणो नाकसदां वरेण्यः ॥”
नभः । इति निघण्टुः । १ । ४ ॥ यथा, महा-
भारते । १ । १७२ । ६ ।
“य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ॥”
क्ली, अस्त्रजातिविशेषः । यथा, महाभारते ।
५ । ९६ । ४० ।
“काकुदीकं शुकं नाकमक्षिसन्तज्जनं तथा ।
सन्तानं नर्त्तकं घोरमास्यमादकमष्टमम् ॥
एतैर्विद्धाः सर्व्व एव मरण यान्ति मानवाः ॥”
क्षत्त्रियजातिविशेषः । यथा, वायुपुराणे ।
“नव नाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ॥”)

नाकनाथः, पुं, (नाकस्य स्वर्गस्य नाथः ।) इन्द्रः ।

इति त्रिकाण्डशेषः ॥

नाकनायकः, पुं, (नाकस्य नायकः ।) इन्द्रः ।

यथा, नैषधे ५ सर्गः ।
“स व्यतीत्य वियदन्तरगाधं
नाकनायकनिकेतनमाप ॥”

नाकनायकपुरोहितः, पुं, (नाकनायकस्य इन्द्रस्य

पुरोहितः ।) बृहस्पतिः । यथा, --
“स्वीयधर्म्मतनयद्युनस्थितो
नाकनायकपुरोहितः शुभः ॥”
इति ज्योतिषतत्त्वम् ॥

नाकी, [न्] पुं, (नाकः स्वर्गो वासस्थानत्वेना-

स्त्यस्येति । नाक + इनिः ।) देवता । इति
हेमचन्द्रः ॥ (यथा, राजेन्द्रकर्णपूरे । ९ ।
“देवाकर्णय नाकिनां पुरि नृणां लोके पुरे
भोगिनाम् ॥”)

नाकुः, पुं, (नम्यतेऽनेनेति । नम + “फलिपाटि-

नमिमनिजनां गुक्पटिनाकिधतश्च ।” उणां
१ । १९ । इति उः धातोर्नाकिः । इकार उच्चा-
रणार्थः ।) वल्मीकः । इत्यमरः । २ । १ । १४ ॥
मुनिविशेषः । पर्व्वतः । इति मेदिनी के, २७ ॥

नाकुलः, पुं, (नकुलस्य गोत्रापत्यम् । नकुल +

“ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ४ । १ । ११४ ।
इत्यण् ।) नकुलपुत्त्रः । इति सिद्धान्तकौमुदी ॥
(यथा, महाभारते । ६ । ४७ । ५१ ।
“शवराः कुण्डलाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥”
तन्त्रविशेषे, क्ली । यथा, कूर्म्मपुराणे ।
“एवं सम्बोधितो रुद्रो माधवेन मुरारिणा ।
चकार मोहशास्त्राणि केशवोऽपि शिवेरितः
कापालं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम् ।
पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥”
नकुलस्येदम् । तस्येदमित्यण् ।) नकुलसम्बन्धिनि,
त्रि ॥ (न आकुलः इति विग्रहे । अनाकुलश्च ॥)

नाकुली, स्त्री, (नकुलेन दृष्टा पीता वा । नकल +

अण् + ङीप् ।) कुक्कुटीकन्दः । रास्ना । चविका ।
इति मेदिनी । ले, १०१ ॥ यवतिक्ता । श्वेतकण्ट-
कारी । कन्दविशेषः । नाइ इति ख्याता ॥
तत्पर्य्यायः । सर्पगन्धा २ सुगन्धा ३ रक्त-
पत्रिका ४ ईश्वरी ५ नागगन्धा ६ अहिभुक् ७
सरसा ८ सर्पादनी ९ व्यालगन्धा १० । अस्या
गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् ।
त्रिदोषानेकविषनाशित्वञ्च । इति राजनिर्घण्टः ॥

नाक्षत्रं, क्ली (नक्षत्रस्येदमिति । नक्षत्र + “तस्ये-

दम् ।” ४ । ३ । १२० । इति अण् ।) नक्षत्र-
सम्बन्धि । (यथा, सूर्य्यसिद्धान्ते । १४ । १५ ।
“भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते ।
नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्व्वान्तयोगतः ॥”)
मासविशेषे, पुं । स च द्विविधः । सप्तविंशति-
नक्षत्रात्मक एकः । यथा, विष्णुधर्म्मोत्तरे ।
“नक्षत्रसत्राण्ययनानि चेन्दो-
र्मानेन कुर्य्याद्भगणात्मकेन ।”
सप्तविंशतिनक्षत्रात्मकेन ।
“सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इह चोच्यते ।”
सप्तविंशतिनक्षत्रावच्छिन्नो नाक्षत्रः । अस्य
प्रयोजनं नक्षत्रसत्रादौ । जन्मनक्षत्रे शनिभौम-
वारयोगे मनोदुःखदाने च । यथा, दीपि-
कायाम् ।
“जन्मन्यर्क्षे यदि स्यातां वारौ भौमशनैश्चरौ ।
स मासः कल्मसो नाम मनोदुःखप्रदायकः ॥”
द्वितीयः षष्टिदण्डात्मकनक्षत्रभोगकालरूपदिन-
त्रिंशदात्मकः । यथा, सूर्य्यसिद्धान्ते । १ । १२ ।
“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रचक्षते ।
तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा ॥”
द्वितीयस्य प्रयोजनं आयुर्गणनायाम् । यथा,
“आयुर्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम् ॥”
इति मलमासतत्त्वम् ॥

नाक्षत्रिकः, पुं, (नक्षत्रादागतः । नक्षत्र + ठञ् ।)

नाक्षत्रमासः । यथा, शब्दरत्नावल्याम् ।
“नक्षत्रगणनेनैव नाक्षत्रिक उदाहृतः ॥”

नाक्षत्रिकी, स्त्री, (नाक्षत्रिक + ङीष् ।) नक्षत्र-

दशा । यथा । “कलौ नाक्षत्रिकी दशा ।” इति
ज्योतिषम् । अस्या विवरणं दशाशब्दे द्रष्टव्यम् ॥
नक्षत्रसम्बन्धिनि, त्रि ॥

नागं, क्ली, (नगे पर्व्वते भवम् । नग + अण् ।)

रङ्गम् । सीसकम् । (अस्य पर्य्यायो यथा, --
“नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)
करणविशेषः । इति मेदिनी । गे, ९ ॥ नाग-
करणजातफलम् । तथा, --
पृष्ठ २/८४७
“नागोद्भवो नागधनाभिलाषी
वक्रोक्तिजालो नितरां कुशीलः ।
क्रोधाग्निसन्तापितबन्धुवर्गो
भर्गोपमः स्यात् किल रङ्गभूमौ ॥”
इति कोष्ठीप्रदीपः ॥
रङ्गसीसकार्थे क्वचित् पुंलिङ्गोऽपि दृश्यते । पाक-
हीनयोस्तयोर्दोषो यथा, --
“पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डुकरौ वातकफमृत्युकरौ पुनः ॥”
तयोर्मारणं यथा, --
“अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् ।
मृत्पात्रे विद्रुते नागे लौहदर्व्या च चालयेत् ॥
यामैकेन भवेद्भस्म तत्तुल्याञ्च मनःशिलाम् ।
काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥
स्वाङ्गशीतं पुनः पृष्ट्वा शिलया काञ्जिके न च ॥
पुनः पुटेच्छरावाभ्यामेवं षड्भिः पुटैर्मृतिः ॥”
नागः सिन्दूरवर्णाभो म्रियते सर्व्वकार्य्यकृत् ।
सतिक्तमधुरो नागो मृतो भवति भस्मसात् ॥
आयुःकीर्त्तिं वीर्य्यवृद्धिं करोति सेवनात् सदा ।
रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः ॥”
इति सुखबोधः ॥

नागः, पुं, (नगे भवः । नग + अण् । यद्बा, दह-

त्यस्मात् विषाग्निनेति । दह + “दहेर्गो लोपो-
दश्च नः ।” उणां ५ । ६१ । गः । अन्तलोपः ।
दस्य नः । बाहुलकात् नकारस्य ना ।) पन्नगः ।
(यथा, विष्णुपुराणे । १ । ९ । ९६ ।
“जगृहुश्च विषं नागाः क्षीरोदाच्च समुत्थितम् ॥”)
हस्ती । (यथा, रघुः । ४ । ८३ ।
“भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥”)
क्रूरचारी । मेघः । नागकेशरः । पुन्नागः ।
नागदन्तकः । मुस्तकः । देहानिलप्रभेदः ।
“उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः ॥”
इति शारदातिलकटीका ॥
उत्तरपदस्थिते श्रेष्ठः । इति मेदिनी । गे, १० ॥
(सीसकम् । अस्योत्पत्तिर्नामानि गुणाश्च ।
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ।
वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ॥”
“नागस्तु नागशततुल्यबलं ददाति
व्याधिं विनाशयति जीवनमातनोति ।
वह्निं प्रदीपयति कामबलं करोति
मृत्युञ्च नाशयति सन्ततसेवितः सः ॥
पाकेन हीनौ किलवङ्गनागौ
कुष्ठानि गुल्मांश्च तथातिकष्टान् ।
कण्डूं प्रमेहानिलसादशोथः
भगन्दरादीन् कुरुतः प्रयुक्तौ ॥”)
ताम्बूली । देशभेदः । इति नानार्थटीकायां
भरतः ॥ पर्व्वतविशेषः । (यथा, विष्णुपुराणे ।
२ । २ । २८ ।
“शङ्खकूटोऽथ ऋषभो हंषो नागस्तथापरः ।
कालाञ्जराद्याश्च तथा उत्तरे केसराचलाः ॥”)
नगे गिरौ चन्दनादितरौ वा भवः । न गच्छ-
तीति अगः न अगः नागः इति वा । तक्षक-
कर्कोटप्रभृतिर्देवयोनिर्मनुष्याकारः फणालाङ्गुल-
युक्तः । इति भरतः ॥ तत्पर्य्यायः । काद्रवेयः ।
२ । इत्यमरः । १ । ८ । ४ ॥ नागोत्पत्तिर्यथा, --
“सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् ।
प्रथमं मनसा ध्यातस्तस्य पुत्त्रस्तु कश्यपः ॥
तस्य दाक्षायणी भार्य्या कद्रुर्नाम शुचिस्मिता ।
मारीचो जनयामास तस्यां पुत्त्रान्महाबलान् ॥
अनन्तं वासुकिञ्चैव कम्बलञ्च महाबलम् ।
कर्कोटकञ्च राजेन्द्र ! पद्मं चान्यं सरीसृपम् ॥
महापद्मं तथा शङ्खं कुलिकञ्चापराजितम् ।
एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ।
एतेषान्तु प्रसूत्या तु इदमापूरितं जगत् ॥
कुटिला हीनकर्म्माणस्तीक्ष्णास्योत्थविषोल्वणाः ।
दृष्ट्या संदृश्य मनुजान् भस्म कुर्य्यः क्षणाद्ध्रुवम् ॥
शब्दगामी यथा स्पर्शो मनुष्याणां नराधिप ! ।
अहन्यहनि जायेत क्षयः परमदारुणः ॥
आत्मनस्तु क्षयं दृष्ट्वा प्रजाः सर्व्वाः समन्ततः ।
जग्मुः शरण्यं शरणं परन्तु परमेश्वरम् ॥
इमं सेवार्थमुद्दिश्य प्रजाः सर्व्वा महीपते ! ।
ऊचुः कमलजं देवं पुराणं ब्रह्मसंज्ञितम् ॥
देवा ऊचुः ।
देव देवेश लोकानां प्रसूतिः परमेश्वर ।
त्राहि नस्तीक्ष्णदंष्ट्रेभ्यो भुजङ्गानौ महात्मनाम् ॥
अहन्यहनि ये देव ! पश्येयुरुरगा दृशा ।
मनुष्यं मृगयूथं वा तत् सर्व्वं भस्मसाद्भवेत् ॥
त्वया सृष्टिः कृता देव नीयते सा भुजङ्गमैः ।
एतजज्ञात्वा तु दुर्वृत्तं तत् कुरुष्व महामते ॥
ब्रह्मोवाच ।
अहं रक्षां विधास्यामि भवतीनां न संशयः ।
व्रजध्वं स्वानि धिष्ट्यानि प्रजापालाः ससाध्वसाः ॥
एवमुक्ताः प्रजास्तेन ब्रह्मणाव्यक्तमूर्त्तिना ।
आगतासु प्रजास्वाद्यस्तानाहूय भुजङ्गमान् ॥
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तथा ।
ब्रह्मोवाच ।
यतो मत्प्रभवान्नित्यं क्षयं नयत मानुषान् ॥
भवान्तरे तथान्यस्मिन्मातुः शापात् सुदारुणात् ।
भवितातिक्षयो घारो नूनं स्वायम्भुवान्तरे ॥
एवमुक्तास्तु वेपन्तो ब्रह्मणा भुजगोत्तमाः ।
निपत्य पादयोस्तस्य इदमूचुर्व्वचस्तदा ॥
नागा ऊचुः ।
भगवन् ! कुटिला जातिरस्माकं भवता कृता ।
विषोल्वणत्वं क्रूरत्वं दृक्शस्त्रत्वञ्च नस्तथा ॥
सम्पादितं त्वया देव इदानीं शमयाच्युत ! ॥
ब्रह्मोवाच ।
यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः ।
ततः किं मनुजान्नित्यं भक्षयध्वं गतव्यथाः ॥
नागा ऊचुः ।
मर्य्यादां कुरु देवेश ! स्थानञ्चैव पृथक् पृथक् ।
नागानां वचनं श्रुत्वा देवो वचनमब्रवीत् ॥
अहं करोमि वो नागाः समयं मनुजैः सह ।
तदेकमनसः सर्व्वे शृणुध्वं मम शासनम् ॥
पातालं वितलञ्चैव सुतलाख्यं तृतीयकम् ।
दत्तं वै वस्तुकामानां गृहं तत्र गमिष्यथ ॥
तत्र भोगान् बहुविधान् भुञ्जध्वं मम शासनात् ।
तिष्ठध्वं सप्तमं यावद्रात्र्यन्तन्ते पुनः पुनः ॥
ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ ।
दायादाः सर्व्वदेवानां सपर्णस्य च धीमतः ॥
तदा प्रसूतिर्व्वः सर्व्वा भोक्ष्यते चित्रभानुना ।
भवतां नैव दोषोऽयं भविष्मति न संशयः ॥
ये वै क्रूरा भोगिनो दुर्विनीता-
स्तेषामन्तो भविता नान्यथैतत् ।
कालं प्राप्तं भक्षयध्वं दशध्वं
तथा परान् चापकृतो मनुष्यान् ॥
मन्त्रौषधैर्गारुडमण्डलैश्च
बद्धैर्दृष्टा मानवा ये चरन्ति ।
तेषां भीतैर्व्वर्त्तितव्यं नचान्य-
च्चिन्त्यं कार्य्यं चान्यथा वो विनाशः ॥
इतीरिते ब्रह्मणा ते भुङ्गजा
जग्मुः स्थानं क्ष्मातलाख्यं हि सर्व्वे ।
तस्थुर्भोगान् भुञ्जमानाः समग्रान्
रसातले लीलया संस्थितास्ते ॥
एवं शापं ते तु लब्ध्वा प्रसादञ्च चतुर्मुखात् ।
तस्थुः पातालनिलये मुदितेनान्तरात्मना ॥
एतत् सर्व्वञ्च पञ्चम्यां तेषां जातं महात्मनाम् ।
अतस्त्वियं तिथिर्धन्या सर्व्वपापहरा शुभा ॥
एतस्यां संयतो यस्तु अम्लन्तु परिवर्ज्जयेत् ।
क्षीरेण स्नापयेन्नागांस्तस्य यास्यन्ति मित्रताम् ॥”
इति वराहपुराणम् ॥
एषां शिवभूषणप्रमाणं यथा, --
“वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् ।
भूषयाञ्चक्रुरुद्गम्य शिरोबाह्वादिषु द्रुतम् ॥”
इति कालिकापुराणे शिवविवाहे १८ अः ।
कम्बलाश्वतरनागयोः सरस्वत्या गानवरप्राप्ति-
विवरणं यथा, --
“एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।
प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥
सरस्वत्युवाच ।
वरन्ते कम्बलभ्रातः ! प्रयच्छाम्युरगाधिप ! ।
तदुच्यतां प्रदास्यामि यत्ते मनसि वर्त्तते ॥
अश्वतर उवाच ।
सहायं देहि देवि ! त्वं पूर्ब्बं कम्बलमेव मे ।
समस्तस्वरसम्बद्बमुभयोः संप्रयच्छ च ॥
सरस्वत्युवाच ।
सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! ।
गीतकानि च सप्तैव तावत्यश्चापि मूर्च्छनाः ॥
तानाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् ।
एतत् सर्व्वं भवान् गाता कम्बलश्चैव ते सखा ॥
ज्ञास्यते मत्प्रसादेन भुजङ्गेन्द्र परन्तथा ।
चतुर्व्विधं पदं तालं त्रिप्रकारं लयत्रयम् ॥
यतित्रयं तथा तोद्यं मया दत्तं चतुर्व्विधम् ॥
एतद्भवान् मत्प्रसादात् पन्नगेन्द्रापरञ्च यत् ।
अस्यान्तर्गतमापन्नं स्वरव्यञ्जनयोश्च यत् ॥
तदशेषं मया दत्तं भवतः कम्बलस्य च ।
पृष्ठ २/८४८
यथा नान्यस्य भूर्लोके पाताले वापि पन्नग ! ॥
प्रणेतारौ भवन्तौ च सर्व्वस्यास्य भविष्यतः ।
पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥
इत्युक्ता सा तदा देवी सर्व्वजिह्वा सरस्वती ।
जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥”
इति मार्कण्डेयपुराणम् ॥
कालियवंशनागहनने दोषो यथा, --
“तद्वंशजातान् सर्पांश्च हन्ति यो मानवाधमः ।
ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् ॥
मत्पादपद्मचिह्ने यः करोति दण्डताडनम् ।
द्बिगुणं ब्रह्महत्याया भविता तस्य किल्विषम् ॥
लक्ष्मीर्यास्यति तद्गेहात् शापं दत्त्वा सुदारुणम् ।
वंशायुर्यशसां हानिर्भविता तस्य निश्चितम् ॥
ध्रवं वर्षशतं कालसूत्रं यास्यति मद्भिया ॥”
इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे १९ अः ॥
वास्तुनागशुद्धिर्यथा, --
“वास्तुप्रमाणेन तु गात्रकेण
वामेन शेते खलु नित्यकालम् ।
त्रिभिस्तु मासैः परिवृत्य पार्श्वं
तं वास्तुनागं प्रवदन्ति सिद्धाः ॥
भाद्रादिके वासवदिक्शिराः स्या-
न्मार्गादिकेषु त्रिषु याम्यमूर्द्धा ।
प्रत्यक्शिराः स्यात् खलु फाल्गुनादौ
ज्यैष्टादिकौवेरशिराः स नागः ॥
मूर्द्ध्निं घाते भवेन्मृत्युः पृष्ठे स्यात् पुत्त्रभार्य्ययोः ।
जघनेऽर्थक्षयं विद्यात् सर्व्वसम्पत्तथोदरे ॥
एकं नागोडुसंशुद्धौ द्वे चेद्दक्षिणपश्चिमे ।
त्रिशालं पूर्ब्बतो हीनं कुर्य्याद्बा सौम्यवर्ज्जितम् ॥
केचिद्दक्षिणभागे तु वदन्त्येकं गृहं बुधाः ।
न कोणेषु गृहं कुर्य्यान्नाप्यन्त्ये नापि मध्यतः ॥
कोणे च धनहानिः स्यादन्ते रिपुभयं भवेत् ।
मध्ये च सर्व्वनाशः स्यात्तस्मादेतद्विवर्ज्जयेत् ॥”
इति ज्योतिस्तत्त्वम् ॥

नागकन्दः, पुं, (नाग इव कन्दं मूलं यस्य । बृह-

न्मूलत्वादेव तथात्वम् ।) हस्तिकन्दः । इति
राजनिर्घण्टः ॥

नागकर्णः, पुं, (नागकर्ण इव आकृतिः पर्णेऽस्त्य-

स्येति । अच् ।) रक्तैरण्डः । इति राज-
निर्घण्टः ॥

नागकिञ्जल्कं, क्ली, (नागस्येव किञ्जल्को यस्य ।)

नागकेशरपुष्पम् । इति राजनिर्घण्टः ॥

नागकुमारिका, स्त्री, (नागस्य कुमारीव । कन्

टाप् पूर्ब्बह्रस्वश्च ।) गुडची । मञ्जिष्ठा । इति
राजनिर्घण्टः ॥

नागकेशरः, पुं, (नागस्येव केशरोऽस्य ।) नाग-

केसरवृक्षः । इति भरतः ॥ (यथा, हारीते
चिकित्सितस्याने १० अध्याये ।
“नलशैलेयकं पृक्का पद्मकं नागकेशरम् ॥”)

नागकेसरः, पुं, (नागस्येव केसरो यस्य ।) पुष्पवृक्ष-

विशेषः । नागेश्वर इति भाषा ॥ तत्पर्य्यायः ।
चाम्पेयः २ केसरः ३ काञ्चनाह्वयः ४ । इत्यमरः ।
२ । ४ । ६५ ॥ केशरः ५ नागकेशसरः ६ । इति
भरतः ॥ किञ्जल्कः ७ नागकिञ्जल्कः ८ नागीयः ९
काञ्चनम् १० सुवर्णम् ११ हेमकिञ्जल्कः १२
रुक्मम् १३ हेम १४ पिञ्जरः १५ फणिकेसरः १६
पन्नगकेसरः १७ । तत्पुष्पगुणाः । अल्पोष्ण-
त्वम् । लघुत्वम् । तिक्तत्वम् । कफवस्तिवातामय-
कण्ठशीर्षरोगनाशित्वञ्च । इति राजनिर्घण्टः ॥
तन्नामगुणाः ।
“नागपुष्पः स्मृतो नागः केसरो नागकेसरः ।
चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥
नागपुष्पं कषायोष्णं रूक्षं लघ्वामपाचनम् ।
खुरकण्डुतृषास्वेदच्छर्द्दिहृल्लासनाशनम् ॥
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥”
त्रिजातकं नागकेशरसंयुक्तं चतुर्ज्जातकं भवति
यथा, --
“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धिस्त्रिजातकम् ।
नागकेशरसंयुक्तं चतुर्ज्जातकमुच्यते ॥
तद्द्बयं रोचकं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् ।
लघु पित्ताग्निकृद्वर्ण्यं कफवातविषापहम् ॥”
इति भावप्रकाशः ॥

नागगन्धा, स्त्री, (नागस्य गन्ध इव गन्धो यस्याः ।)

नाकुलीकन्दः । इति राजनिर्घण्टः ॥ (नाकुली-
शब्देऽस्या विशेषो ज्ञातव्यः ॥)

नागगर्भं, क्ली, (नागः सीसकं गर्भ उत्पत्ति-

कारणं यस्य ।) सिन्दूरम् । इति राजनिर्घण्टः ॥

नागच्छत्रा, स्त्री, (नागस्य फणेव छत्रं छादनं

पत्रे यस्याः ।) नागदन्ती । इति राजनिर्घण्टः ॥

नागजं, क्ली, (नागात् सीसकात् जायते इति ।

जन + डः ।) सिन्दूरम् । इति राजनिर्घण्टः ॥
रङ्गम् । इति हेमचन्द्रः । ४ । १०८ ॥ नाग-
जाते, त्रि ॥

नागजिह्वा, स्त्री, (नागस्य सर्पस्य जिह्वेव ।)

शारिवा । अनन्तमूलम् । इति रत्नमाला ॥

नागजिह्विका, स्त्री, (नागस्य जिह्वेव रक्तता

यस्याः । कप् । टापि अत इत्वम् ।) मनः-
शिला । इत्यमरः । २ । ९ । १०८ ॥ (यथास्याः
पर्य्यायः ।
“मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।
नैपाली कनटी गोला शिला दिव्यौषधिः
स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नागजीवनं, क्ली, (नागः सीसकं जीवनं यस्य ।)

वङ्गम् । इति हेमचन्द्रः । ४ । १०८ ॥

नागदन्तः, पुं, (नागस्य गजस्य दन्तः ।) हस्ति-

दन्तः । (यथा, महाभारते । १२ । ९८ । १९ ।
“द्वीपिचर्म्मावनद्धश्च नागदन्तकृतत्सरुः ॥”
नागदन्तः साधनत्वेनास्त्यस्येति अच् ।) गृहान्त-
र्गतदारु । इति मेदिनी । ते, २०१ ॥ दाँतिया
इति दाण्डा इति च भाषा ॥

नागदन्तकः, पुं, (नागदन्त + स्वार्थे कन् ।) नाग-

दन्तः । (नागदन्तेन कायतीति । कै + कः ।)
भित्तिदारुद्बयम् । तत्पर्य्यायः । निर्यूहः २ ।
इति जटाधरः ॥

नागदन्तिका, स्त्री, (नागस्य सर्पस्य दन्त इव

पीडादायकं पत्रं यस्याः । कापि अत इत्वम् ।)
वृश्चिकाली । इति रत्नमाला ॥ विछिटी इति
भाषा ॥

नागदन्ती, स्त्री, (नागस्य गजस्य दन्त इव

फलाद्याकारे यस्याः । ङीष् ।) कुम्भा । श्रीह-
स्तिनी । इति मेदिनी । ते, २०१ ॥ हाति
शुण्डा इति भाषा ॥ शेषस्य पर्य्यायः । विशल्या २
पर्व्वपुष्पी ३ विषौषधी ४ शुक्लपुष्पा ५ इभ-
दन्ताह्वा ६ काण्डेरी ७ कामदूतिका ८ । इति
रत्नमाला ॥ श्वेतपुष्पा ९ मधुपुष्पा १० विशो-
धिनी ११ नागस्फोता १२ विशालाक्षी १३
नागच्छत्रा १४ विचक्षणा १५ सर्पपुष्पी १६
शुक्लपुष्पी १७ स्वादुका १८ शतदन्तिका १९
सितपुष्पी २० सर्पदन्ती २१ नागिनी २२ ।
अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । रूक्ष-
त्वम् । वातकफगुल्मशूलोदरव्याधिकण्ठदोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

नागदमनी, स्त्री, (नागो दम्यतेऽनयेति । दम +

ल्युट् + ङीप् ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः ।
जम्बूः २ जाम्बवती ३ वृक्का ४ रक्तपुष्पा ५
जाम्बवी ६ मलघ्नी ७ दुर्द्धर्षा ८ दुःसहा ९ ।
अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कटु-
त्वम् । त्रिदोषोदराध्मानदोषनाशित्वम् । कोष्ठ-
शोधनकारित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
तन्नामगुणाः ।
“विज्ञेया नागदमनी बला मोटा विषापहा ।
नागपुष्पी नागपत्रा महायोगेश्वरीति च ॥
बला मोटा कटुस्तिक्ता लघुः पित्तकफापहा ।
मूत्रकृच्छ्रव्रणान्रक्षो नाशयेज्जालगर्द्दभम् ॥
सर्व्वग्रहप्रशमनी निःशेषविषनाशिनी ।
जयं सर्व्वत्र कुरुते धनदा सुमतिप्रदा ॥”
इति भावप्रकाशः ॥

नागदलोपमं, क्ली, (नागदलस्य ताम्बूल्या उपमा

यत्र ।) परूषफलम् । इति रत्नमाला ॥ (परूष-
शब्देऽस्य गुणादयो ज्ञातव्याः ॥)

नागद्रुः, पुं, (नागप्रियो द्रुर्वृक्षः ।) समन्तदुग्धा ।

इति शब्दचन्द्रिका ॥ सिज इति भाषा ॥

नागनिर्य्यहः, पुं, (नाग इव निर्य्यूहो नागदन्तः ।)

नागदन्तकः । इति जटाधरः ॥

नागपञ्चमी, स्त्री, (नागप्रिया पञ्चमी । शाक-

पार्थिवादिवत् समासः ।) आषाढी कृष्णा
पञ्चमी । तत्र मनसापूजा कर्त्तव्या । यथा, --
“देवीपुराणे ।
‘सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने ।
पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम् ॥
पद्मनाभे गते शय्यां देवैः सर्व्वैरनन्तरम् ।
पञ्चम्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥’
मनसादेवीं विषहरीम् । स्नुही सिजवृक्षः ।
देवैरिति सहार्थे तृतीया ।
‘देवीं सम्पूज्य नत्वा च न सर्पभयमाप्नुयात् ।
पञ्चम्यां पूजयेन्नागाननन्ताद्यान् महोरगान् ॥
पृष्ठ २/८४९
क्षीरं सर्पिस्तु नैवेद्यं देयं सर्पविषापहम् ॥’
मनसाध्यानम् । यथा, पद्मपुराणे ।
‘देवीमम्बामहीनां शशधरवदनां चारुकान्तिं
वदान्यां
हंसारूढामुदारामरुणितवसनां सर्व्वदां सर्व्व-
दैव ।
स्मेरास्यां मण्डिताङ्गीं कनकमणिगणैर्नागरत्नै-
रनेकै-
र्वन्देऽहं साष्टनागामुरुकुचयुगलां भोगिनीं
कामरूपाम् ॥’
पुराणान्तरे ।
‘अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।
कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥
शेषः पद्मो महापद्मः कुलिकः शङ्खपालकः ।
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ॥
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥’
गारुडेऽपि ।
‘अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ।
तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥
कालीयं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् ।
यजेत्तानसितान्नागान् दष्टमुक्तो दिवं व्रजेत् ॥’
अत्र च ।
‘योऽसौ चानन्तरूपेण ब्रह्माण्डं सचराचरम् ।
पुष्पवधारयेन्मूर्ध्नि तस्मै नित्यं नमो नमः ॥’
इत्यनेन प्रणवपूर्ब्बेण मत्स्यपुराणोक्तेनानन्तं पूज-
येत् ॥ रत्नाकरे ।
‘पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे ।
स्वयञ्चापि तदश्नीयात् ब्राह्मणांश्चैव भोजयेत् ॥’
पिचुमर्द्दस्य निम्बस्य ॥” इति तिथ्यादितत्त्वम् ॥

नागपत्रा, स्त्री, (नागदमनं पत्रं यस्याः । टाप् ।)

नागदमनी । इति भावप्रकाशः ॥

नागपत्री, स्त्री, (नागवत् पत्रं यस्याः । ङीष् ।)

लक्षणा । इति राजनिर्घण्टः ॥

नागपदः, पुं, (नागवत् पदं स्थानं यस्य ।) षोडश-

रतिबन्धान्तर्गतद्वितीयबन्धः । तस्य लक्षणं
यथा, --
“पादौ स्कन्धे तथा हस्त । क्षपाल्लङ्गं भगे लघु ।
कामयेत् कामुको नारीं बन्धो नागपदो मतः ॥”
इति रतिमञ्जरी ॥

नागपाशः, पुं, (नागपाश इव आकृतिरस्त्य-

स्येति । अच् ।) स्त्रीणां करणम् । (नागः पाश
इव ।) वरुणायुघः । इति मेदिनी । शे, ३५ ॥
“सार्द्धद्बयावर्त्तनात्तु नागपाश इति स्मृतः ।
ब्रह्मग्रन्थिमथो दद्यान्नागपाशमथापि वा ॥”
इत्यागमः ॥
“वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥”
इति देवीपुराणीयदुर्गाध्यानम् ॥

नागपाशकः, पुं, (नागपाश इव प्रतिकृतिः । “इवे

प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् । यद्बा,
नागपाश इव कायतीति । कै + कः ।) रति-
बन्धविशेषः । तस्य लक्षणं यथा, --
“स्वजङ्घाद्वयमध्यस्थां हस्ताभ्यां धारयेत् कुचौ ।
रमेन्निःशङ्कितः कामी बन्धोऽयं नागपाशकः ॥”
इति रतिमञ्जरी ॥

नागपुरं, क्ली, (नागनामकं पुरम् । शाकपार्थि-

वादिवत् समासः ।) देशविशेषः । तद्विवरणं
यथा, --
“जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततोऽगमत् ।
देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् ॥
मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् ।
तामायान्तीन्तु रोधाय स्वलीलो नाम दानवः ॥
पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्बिजाः ।
ततो भगीरथो राजाराधयामास कौशिकम् ॥
स तुष्टः प्रददौ नागं वाहनं तं भगीरथः ।
समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ॥
तेन नागेन तं दैत्यं संविदार्य्य स सङ्गतः ।
शतधा तं समाधाय मूर्द्धन्यैरावतो गजः ॥
महीतलं समापेदे स यावन्नागसाह्वयम् ॥
तस्मात् व्याघटनाद्बिप्रा अभून्नागपुरं वरम् ॥”
इति वह्निपुराणे गङ्गावतरणनामाध्यायः ॥

नागपुष्पः, पुं, (नागस्य हस्तिनो मदगन्धयुक्तं

पुष्पं यस्य ।) पुन्नागवृक्षः । नागकेशरः ।
(यथा, महाभारते । १ । २०८ । ४० ।
“पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ॥”)
चम्पकः । इति मेदिनी । पे, २५ ॥ (पुन्नाग-
पुष्पे तु क्ली । तत्र गुणा यथा, --
“नागपुष्पं कषायोष्णं रुक्षं लघ्वामपाचनम् ।
ज्वरकण्डूतृषास्वेदच्छर्द्दिहृल्लासनाशनम् ॥
दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नागपुष्पफला, स्त्री, (नागस्य नागकेशरस्येव पुष्प-

फले यस्याः ।) कुष्माण्डी । इति राजनिर्घण्टः ॥

नागपुष्पिका, स्त्री, (नागस्य पुष्पमिव पुष्पं

यस्याः । कप् । टापि अत इत्वम् ।) स्वर्ण-
यूथी । इति राजनिर्घण्टः ॥

नागपुष्पी, स्त्री, (नागस्य नागकेशरस्य पुष्पमिव

पुष्पं यस्याः । ङीष् ।) नागदमनी । इति भाव-
प्रकाशः ॥ (पर्य्यायोऽस्या यथा, भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ।
“नागपुष्पी श्वेतपुष्पा नागिनी रामदूतिका ॥”
अस्या गुणा । यथा, --
“नागिनी रोचनी तिक्ता तीक्ष्णोष्णा कफपित्त-
नुत् ॥”)

नागफलः, पुं, (नागस्य पुन्नागस्येव फलं यस्य ।)

पटोलः । इति राजनिर्घण्टः ॥

नागबन्धुः, पुं, (नागानां हस्तिनां बन्धुरिव प्रिय-

त्वात् ।) अश्वत्थवृक्षः । इति शब्दचन्द्रिका ॥
नागानां बान्धवश्च ॥

नागबलः, पुं, (नागानामिव बलं यस्य ।) भीम-

सेनः । इति त्रिकाण्डशेषः ॥ (अस्य नाग-
बलाप्तिकथा । यथा, महाभारते । १ । १२८ ।
६५ -- ७० ।
“एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत ।
यदि नागेन्द्र ! तुष्टोऽसि किमस्य धनसञ्चयैः ॥
रसं पिबेत् कुमारोऽयं त्वयि प्रीते महाबलः ।
बलं नागसहस्रस्य यस्मिन् कुण्डे प्रतिष्ठितम् ॥
यावत् पिबति बालोऽयं तावदस्मै प्रदीयताम् ।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः ।
प्राङ्मुखश्चोपविष्टः स रसं पिबति पाण्डवः ॥
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः ।
एवमष्टौ स कुण्डानि ह्यपिबत् पाण्डुनन्दनः ॥
ततस्तु शयने दिव्ये नागदत्ते महाभुजः ।
अशेत भीमसेनस्तु यथासुखमरिन्दमः ॥”
तथा च तत्रैव । १ । १२९ । १९ -- २१ ।
“ततोऽष्ठमे तु दिवसे प्रत्यबुध्यत पाण्डवः ।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः ।
सान्त्वयामासुरव्यग्रा वचनञ्चेदमब्रुवन् ॥
यत्ते पीतो महाबाहो ! रसोऽयं वीर्य्यसंभृतः ।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यति ॥”)
हस्तितुल्यबलवति, त्रि ॥

नागबला, (नागस्येव बलं यस्याः ।) बलाप्रभेदः ।

गोरक् चाउलिया इति गुलशकरी इति ककही
इति च भाषा ॥ (यथा, गारुडे १७९ अध्याये ।
“जग्ध्वा नागबला चूर्णं श्वासकासादिनुद्भवेत् ॥”)
तत्पर्य्यायः । गाङ्गेरुकी २ झसा ३ ह्रस्वगवे-
धुका ४ । इत्यमरः । २ । ४ । ११७ ॥ गाङ्गे-
रुही ५ गोरक्षतण्डुला ६ । इति भरतः ॥ भद्रो-
दनी ७ खरगन्धा ८ चतुःपला ९ महोदया १०
महापत्रा ११ महाशाखा १२ महाफला १३
विश्वदेवा १४ अनिष्टा १५ देवदण्डा १६ महा-
गन्धा १७ घण्टा १८ । अस्या गुणाः । मधु-
राम्लत्वम् । कषायत्वम् । उष्णत्वम् । गुरुत्वम् ।
कण्डू तिकुष्ठवातव्रणपित्तनाशित्वञ्च । इति राज-
निर्घण्टः ॥ स्निग्धत्वम् । आयुष्यत्वम् । वृष्य-
त्वम् । ग्राहित्वम् । कृच्छ्रक्षीणक्षयरोगेषु हित-
त्वञ्च । इति राजवल्लभः ॥

नागभृत्, पुं, (नागः क्रूरचारी सन् विभर्त्ति

आत्मानमिति । भृ + क्विप् ।) डुण्डुसर्पः । इति
त्रिकाण्डशेषः ॥

नागमल्लः, पुं, (नागेषु हस्तिषु मल्लः ।) ऐरावतः ।

इति शब्दरत्नावली ॥

नागमाता, [ऋ] स्त्री, (नागानां हस्थिनां

मातेव भूषकत्वात् ।) मनःशिला । इति हेम-
चन्द्रः । ४ । १२६ ॥ (नागानां सर्पाणां माता ।)
मनसादेवी । इति शब्दरत्नावली ॥ (यथा,
ब्रह्मवैवर्त्ते । २ । १ । ६७ ।
“नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥”
सुरसा । इयं हि सागरोल्लङ्घनसमये हनुमतः
परीक्षार्थं देवैरादिष्टा तस्य विघ्नमाचरितुं गता
तेन वञ्चिता च । यथा, रामायणे । ६ । १ । १३९ ।
“ततो देवाः सगन्धर्व्वाः सिद्बाश्च परमर्षयः ।
अब्रुवन् सूर्य्यसङ्काशां सुरसां नागमातरम् ॥”
यथा, च अध्यात्मरामायणे । ६ । १ । ८ -- २४ ।
पृष्ठ २/८५०
“दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः ।
परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् ॥
गच्छत्येष महासत्त्वो वानरो वायुविक्रमः ।
लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् ॥
एवं विचार्य्य नागानां मातरं सुरसाभिधाम् ।
अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः ॥
गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर ।
ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता ॥
इत्युक्ता सा ययौ शीघ्रं हनुमद्विघ्नकारणात् ।
आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् ॥
एहि मे वदनं शीघ्रं प्रविशस्व महामते ! ।
देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः ॥
तामाह हनुमान् मातरहं रामस्य शासनात् ।
गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः ॥
रामाय कुशलं तस्याः कथयित्वा त्वदाननम् ।
निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते ॥
इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् ।
प्रविश्य गच्छ मे वक्त्रं नोचेत् त्वां भक्षयाम्यहम् ॥
इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय ।
प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः ॥
इत्युक्ता योजनायामदेहो भूत्वा पुरः स्थितः ।
दृष्ट्वा हनुमतो रूपं सुरसा पञ्चयोजनम् ।
मुखं चकार हनुमान् द्बिगुणं रूपमादधत् ॥
ततश्चकार सुरसा योजनानाञ्च विंशतिम् ।
वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥
ततश्चकार सुरसा पञ्चाशद्योजनायतम् ।
वक्त्वं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥
प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः ।
प्रविष्टो निर्गतोऽहं ते वदनं देवि ! ते नमः ॥
एवं वदन्तं दृष्ट्वा सा हनुमन्तमथाब्रवीत् ।
गच्छ साधय रामस्य कार्य्यं बुद्धिमतां वर ! ॥
देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे ! ।
दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भो ॥”
कद्रुः । इति महाभारतम् ॥)

नागमारः, पुं, (नागं मारयतीति । नृ + णिच् +

अण् ।) केशराजः । इति त्रिकाण्डशेषः ॥
हस्तिमारके सर्पमारके च त्रि ॥

नागयष्टिः, स्त्री, (नागाधिष्ठिता यष्टिः ।) पुष्क-

रिण्यादिस्थितकाष्ठविशेषः । रैकाठ इति
भाषा ॥ तत्पर्य्यायः । नागाञ्चला २ । इति
जटाधरः ॥ (यथा, हयशीर्षे ।
“वैणवं वारुणञ्चैव पुन्नागं नागकेशरम् ।
वकुलं चम्पकञ्चैव विल्वञ्चैवाथ खादिरम् ॥
एतेषामेव दारूणां नागयष्टिः प्रकीर्त्तिता ।
सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथेप्सि-
तम् ॥”)

नागरं, क्ली, (नगरे भवम् । नगर + अण् ।)

शुण्ठी । इत्यमरः । २ । ९ । ३८ ॥ (अस्य गुणा
यथा, --
“नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् ।
रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
यथा च गारुडे । १८६ अध्याये ।
“मुण्डीतकवचायुक्तं मरीचं नागरं तथा ।
चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥”)
मुस्ता । इति मेदिनी । रे, १७२ ॥ रतबन्धः ।
इति विश्वः ॥ (क्वचित् पुं ।) नागरदेशीयाक्षरञ्च ॥

नागरः, पुं, (नागरो विदग्धस्तद्बद्भावोऽस्त्यस्येति ।

अच् ।) देवरः । इति त्रिकाण्डशेषः ॥ नाग-
रङ्गः । इति शब्दरत्नावली ॥ त्रि, (नगरे भवः ।
“तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) विदग्धः ।
(यथा, आर्य्यासप्तशत्याम् । ३२३ ।
“नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता
सुतनुः ।
कस्तूरी न मृगोदरवासवशाद्बिस्रतामेति ॥”)
नगरोद्भवः । इति मेदिनी । रे, १७२ ॥ (यथा,
देवीभागवते । २ । ६ । ६६ ।
“नागरा धृतराष्ट्रस्य सर्व्वे तत्र समाययुः ॥”
नगरहितश्च । यथा, महाभारते । २ । ५ । १२२ ।
“धनुर्व्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम् ॥”)

नागरकः, पुं, (नागर एव । स्वार्थे कन् । यद्वा,

नागरेण कायतीति । कै + कः ।) रतिबन्ध-
विशेषः । यथा, --
“ऊरुमूंलोपरि स्थित्वा योषिदूरुद्बयं यदि ।
ग्रीवां धृत्वा कराभ्याञ्च बन्धो नागरको मतः ॥”
इति रतिमञ्जरी ॥

नागरक्तं, क्ली, (नागकृतं रक्तम् ।) सिन्दूरम् ।

इति हेमचन्द्रः । ४ । १२७ ॥ नागस्य शोणितञ्च ॥

नागरघनः, पुं, (नागर एव घनो मुस्ता ।)

नागरमुस्ता । इति राजनिर्घण्टः ॥ (नागर-
मुस्ताशब्देऽस्य विवृतिर्ज्ञातव्या ॥)

नागरङ्गः, पुं, (नागस्य नागसम्भूतस्य सिन्दूरस्येव

रङ्गो यस्य ।) वृक्षविशेषः । नारङ्गीलेवुर गाछ
इति भाषा ॥ इत्यमरः । २ । ४ । ३८ ॥ तत्-
पर्य्यायः । नारङ्गः २ नार्य्यङ्गः ३ नागरः ४
ऐरावतः ५ नागरुकः ६ चक्राधिवासी ७ ।
इति शब्दरत्नावली ॥ तत्फलगुणाः । सुरभि-
त्वम् । विपाके गुरुत्वम् । दुर्ज्जरत्वम् । अत्यम्ल-
त्वम् । ईषन्मधुरत्वम् । वृष्यत्वम् । वातविना-
शित्वञ्च । तत्केशरगुणः । रुच्यत्वम् । वातहर-
त्वञ्च । इति राजवल्लभः ॥

नागरमुस्ता, स्त्री, (नागर इव मुस्ता ।) मुस्ता-

प्रभेदः । नागरमुता इति भाषा ॥ तत्पर्य्यायः ।
नागरोत्था २ नागरादिघनसंज्ञका ३ चक्राङ्का ४
नादेयी ५ चूडाला ६ पिण्डमुस्ता ७ शिशिरा ८
वृषध्माङ्क्षी ९ कच्छरुहा १० चारुकेसरा ११
उच्चटा १२ पूर्णकोष्ठसंज्ञा १३ कलापिनी १४ ।
अस्या गुणाः । तिक्तत्वम् । कटुत्वम् । कषा-
यत्वम् । शीतलत्वम् । कफपित्तज्वरातिसारा-
रुचितृष्णादाहभ्रमनाशित्वञ्च । इति राज-
निर्घण्टः ॥

नागराजः, पुं, (नागानां राजा । “राजाहःसखि-

भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) शेषः ।
अनन्तः । यथा, कविकल्पद्रुमे ।
“पाताले नागराजं भुजगयुवतयो यस्य गायन्ति
कीर्त्तिम् ॥”

नागराह्वं, क्ली, (नागरमिति आह्वा आख्या

यस्य ।) शुण्ठी । इति राजनिर्घण्टः ॥ (विवृति-
रस्या शुण्ठीशब्दे ज्ञातव्या ॥)

नागरी, स्त्री, (नगरे भवा । नगर + अण् + ङीप् ।)

स्त्रुही । इति शब्दचन्द्रिका ॥ विदग्धा नारी ।
यथा, उद्धदूतः ।
“हन्ताभीरीः स्मरतु स कथं संवृतो नागरीभिः ॥”
नागरपत्नी । नगरभवे, त्रि ॥

नागरुकः, पुं, (नागं रवते सादृश्येन प्राप्नोतीति ।

रु गतौ + बाहुलकात् कप्रत्ययेन साधुः ।) नाग-
रङ्गः । इति शब्दरत्नावली ॥

नागरेणुः, पुं, (नागस्य सीसकस्य रेणुः ।) सिन्दू-

रम् । इति राजनिर्घण्टः ॥

नागरेयकः, त्रि, (नगरे भवः नगरस्यायं वा ।

“कत्त्र्यादिभ्यो ढकञ् ।” ४ । २ । ९५ । इति
ढकञ् ।) नगरसम्बन्धी । नगरस्यायमिति
ष्णेयप्रत्ययान्तात् स्वार्थे कः ॥

नागलता, स्त्री, (नागः सर्पस्तद्बत् लता ।) लिङ्गम् ।

इति त्रिकाण्डशेषः ॥

नागलोकः, पुं, (नागानां लोकः ।) पातालम् ।

इत्यमरः । १ । ८ । १ ॥ (यथा, हरिवंशे । ८२ । ८४ ।
“रसातले स ददृशे नागलोकमिमं यथा ॥”)

नागवल्लरी, स्त्री, (नाग इव दीर्घा वल्लरी ।) नाग-

वल्ली । इति भावप्रकाशः ॥

नागवल्लिका, स्त्री, (नागवल्लि + स्वार्थे कन् ।)

नागवल्ली । इति रत्नमाला ॥

नागवल्ली, स्त्री, (नाग इव दीर्धा वल्ली लता ।)

ताम्बूली । इत्यमरः । २ । ४ । १२० ॥ अस्याः
पर्य्यायास्ताम्बूलवल्लीशब्दे गुणाश्च ताम्बूलशब्दे
द्रष्टव्याः । सा च श्रीवाटाम्लवाटादिनानाग्रामस्थ-
स्थानभेदादेव भिन्ना ।
“एकाप्येषा देशमृत्स्नावशषा-
न्नानाकारं याति काये गुणे च ॥
श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा ।
रसाढ्या च रसा रुच्या विपाके शिशिरा स्मृता ॥
स्यादम्लवाटी कटुकाम्लतिक्ता
तीक्ष्णा तथोष्णा मुखपाककर्त्री ।
विदाहपित्तासविकोपनी च
विष्टम्भदा वातनिवर्हणी च ॥
सप्तमी मधुरा तीक्ष्णा कटुरुष्णा च पाचनी ।
गुल्मोदराघ्मानहरा रुचिकृद्दीपनी परा ॥”
अन्यच्च ।
“गुहागरे सप्तशिरा प्रसिद्धा
तत्पर्णचूर्णातिरसातिरुच्या ।
सुगन्धितीक्ष्णा मधुरातिहृद्या
सन्दीपनी पुंस्त्वकरा च बल्या ॥
विरेचनी वक्त्रसुगन्धिकारिणी ।
नाम्ना याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा
दाहनुत्
पित्तोद्रेकहरासुदीपनकरी बल्यामुखामोदिनी ।
स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया सदा वल्लभा
गुल्माध्मानविबन्धजिच्च कथिता सा मालवे तु
स्थिता ॥
अन्ध्रि पुष्कलिका नाम कषायोष्णा कटुस्तथा ।
मलापकर्षा कण्ठस्य पित्तहृद्बातनाशिनी ॥
द्वैषणीया कटुस्तीक्ष्णा हृद्या दीर्घदला च सा ।
कफवातहरा रुच्या कटुदीपनपाचनी ॥”
इति राजनिर्घण्टः ॥