शब्दकल्पद्रुमः/न

विकिस्रोतः तः
पृष्ठ २/८१३

, नकारः । तवर्गपञ्चमवर्णः व्यञ्जनविंशवर्णश्च ।

अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥
(यथा, शिक्षायाम् । १७ । “दन्त्या ऌतुलसाः
स्मृताः ॥”) तत्पर्य्यायः । मेषः २ दीर्घी ३
सौरिः ४ । इति बीजाभिधानम् ॥ तत्स्वरूपम् ।
यथा, --
“नकारं शृणु चार्व्वङ्गि ! कोटिविद्युल्लताकृतिम् ।
पञ्चदेवमयं वर्णं स्वयं परमकुण्डली ॥
पञ्चप्राणात्मकं वर्णं हृदि भावय पार्व्वति ! ॥”
इति कामधेनुतन्त्रम् ॥
“वामतः कुण्डली रेखा ऊर्द्ध्वाधःक्रमतः स्थिता ।
चन्द्रसूर्य्याग्निरूपा सा मात्रा वाणी प्रकीर्त्तिता ॥”
तस्य ध्यानं यथा, वर्णोद्धारतन्त्रे ।
“ध्यानमस्य नकारस्य वक्ष्यते शृणु भाविनि ! ।
दलिताञ्जनवर्णाभां ललज्जिह्वां सुलोचनाम् ॥
चतुर्भुजां कोटराक्षीं चारुचन्दनचर्च्चिताम् ।
कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा ॥
एवं ध्यात्वा नकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
अस्य नामानि यथा, --
“नो गर्ज्जिनी क्षमा सौरिर्व्वारुणी विश्वपावनी ।
मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः ॥
ऊर्द्ध्वचामी द्विरण्डश्च वामपादाङ्गुलेर्मुखम् ।
वैनतेयस्तुतिर्व्वर्त्मस्तरणिर्व्वालिरागमः ॥
वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्व्वियत् ।
शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ ॥
गिरिनायकनीलौ च शिवोऽनादिर्म्महामतिः ॥”
इति नानातन्त्रशास्त्रम् ॥
(अनुबन्धविशेषः । यथा, कविकल्पद्रुमे ।
“नः स्वादिः पो मुचादिः ।” इति ॥ काव्यादौ
अस्य प्रथमप्रयोगे फलं यथा, वृत्ररत्नाकर-
टीकायाम् ।
“दो धः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं
पवर्गः ॥”)

, व्य, निषेधः । (यथा, मनुः । ६ । ४७ ।

“अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
नचेमं देहमाश्रित्य वैरं कुर्व्वीत केनचित् ॥”)
उपमा । इति मेदिनी । ने १ ॥ आद्यस्य पर्य्यायः ।
नहि २ अ ३ नो ४ अभावः ५ । इत्यमरः ।
३ । ४ । ११ ॥ अना ६ ना ७ । इति भरतः ॥
नञर्थश्च ॥

नंशुकः, त्रि, (नश्यतीति । नश + “पचिनश्यो-

र्णुकन्कनुमौ च ।” उणां २ । ३० । इति णुकन्
नुमागमश्च ।) नाशकः । इति सिद्धान्तकौमु-
द्यामुणादिवृत्तिः ॥

नंष्टा, [ऋ] त्रि, (नश + तृच् । “मस्जिनशो-

र्झलि ।” ७ । १ । ६० । इति नुम् ।) नाशा-
श्रयः । इति नशधातोस्तृणि नुनागमनिष्पन्नः ॥

नः, पुं, (नमतीति । नम + अन्येष्वपीति डः ।)

सुगतः । बन्धः । द्बिरण्डः । स्तुतः । इति मेदिनी ।
ने, १ ॥ रत्नम् । इत्येकाक्षरकोषः ॥ द्वितीया-
चतुर्थीषष्ठीबहुवचनान्तस्यास्मच्छब्दस्य सान्त-
रूपोऽयञ्च ॥ (यथा, मुग्धबोधे ।
“पुष्णातु वो नोऽपि हरिर्घनं वो
ददातु नो हन्त्वशुभानि वो नः ॥”)

नःक्षुद्रः, त्रि, (नसा नासिकया क्षुद्रः ।) क्षुद्र-

नासिकः । इति हेमचन्द्रः । ३ । ११५ ॥

नकुटं, क्ली, नासिका । इति शब्दमाला ॥

नकुलः, पुं, (नास्ति कुलं यस्य । “नभ्राण्नपा-

दिति ।” ६ । ३ । ७५ । इति नञो न लोपादि ।)
जन्तुविशेषः । नेउल । इति वेजी इति च
भाषा । तत्पर्य्यायः । पिङ्गलः २ सर्पहा ३ बभ्रुः
४ । इति हेमचन्द्रः । ४ । ३६८ ॥ सूचीवदनः ५
सर्पारिः ६ लोहिताननः ७ । (यथा, महा-
भारते । १२ । १५ । २० ।
“सत्त्वैः सत्त्वा हि जीवन्ति दुर्ब्बलैर्ब्बलवत्तराः ।
नकुलो मूषिकानत्ति विडालो नकुलन्तथा ।
विडालमत्ति श्वा राजन् ! श्वानं व्यालमृग-
स्तथा ॥”)
तस्य मांसगुणाः । पिच्छिलत्वम् । वातनाशि-
त्वम् । श्लेष्मपित्तकारित्वञ्च । इति राजनि-
र्घण्टः ॥ पाण्डुराजस्य चतुर्थपुत्त्रः स माद्री-
गर्भे अश्विनीकुमाराभ्यां जातः । इति महा-
भारतम् ॥ पुत्त्रः । इति शब्दमाला ॥ शिवः ।
थथा, विदग्धमुखमण्डने ।
“युधिष्ठिरस्य या कन्या नकुलेन विवाहिता ।
पूजिता सहदेवेन सा कन्या वरदा भवेत् ॥”
कुलरहिते, त्रि ॥

नकुलाढ्या, स्त्री, (नकुलेन नकुलगन्धेन आढ्या

प्रचुरा ।) गन्धनाकुली । इति राजनिर्घण्टः ॥

नकुली, स्त्री, (नकुल + ङीष् ।) कुक्कुटी । मांसी ।

इति मेदिनी । ले, १०० ॥ शङ्खिनी । इति
धरणिः ॥ कुङ्कुमम् । इति हेमचन्द्रः ॥ हकारः ।
इति बीजाभिधानम् ॥ नकुलस्य भार्य्या च ॥

नकुलीशः, पुं, (नकुल्या ईशः ।) भैरवविशेषः ।

यथा, पीठमालायाम् ।
“नकुलीशः कालिपीठे दक्षपादाङ्गुली मम ॥”
हकारः । यथा, --
“हकारो नकुलीशोऽपि हंसः प्राणोऽङ्कुशः
प्रिये ! ।
महेशो नकुली चैव वराहो गगनं रविः ॥
लिङ्गं शून्यो महाशून्यः प्राणश्च परमेश्वरि ! ॥”
इति हकारपर्य्याये बीजाभिधानम् ॥

नकुलेष्टा, स्त्री, (नकुलानामिष्टा प्रिया ।) रास्ना ।

इत्यमरः । २ । ४ । ११५ ॥ भेदनार्ह इति भाषा ।
एतत्पर्य्यायो यथा, --
“नाकुली सुरसा नागसुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नक्व, क नाशने । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) कोपधः । नाशनं नष्टीकर-
णम् । क, नक्वयति पापं गङ्गा । इति दुर्गा-
दासः ॥

नक्तं, [म्] व्य, रजनौ । इत्यमरः । ३ । ४ । ६ ॥

(यथा, माघे । १ । २१ ।
“रथाङ्गपाणेः पटलेन रोचिषा-
मृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरो-
स्तुषारमूर्त्तेरिव नक्तमंशवः ॥”)

नक्तं, क्ली, (नज + क्तः ।) रात्रिः । लक्षणया

नक्तव्रतम् । यथा, --
“उपवासात् परं भैक्षं भैक्षात् परमयाचितम् ।
पृष्ठ २/८१४
अयाचितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत् ॥
देवैस्तु भुक्तं पूर्ब्बाह्णे मध्याह्ने ऋषिभिस्तथा ।
अपराह्णे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः ॥
सर्व्ववेलामतिक्रम्य नक्ते भुक्तमभोजनम् ।
वामाचारो महादेवो नक्तेनैवोद्धरेन्नृणाम् ॥”
इति देवीपुराणम् ॥
व्रतविशेषः । यथा, --
“दशम्याञ्चैकभक्तन्तु शुद्धचित्तो दृढव्रतः ।
नक्तं वापि तथा कृत्वा दशम्यां नियतः सदा ॥
क्रियते चासमर्थेन नक्तमेकादशीदिने ।
नक्ते चापि विधिः प्रोक्तः फलाहारे तथैव च ॥
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ।
नक्तं तच्च विजानीयात् न नक्तं निशि भोजनम् ॥
नक्षत्रदर्शनान्नक्तं गृहस्थेन विधीयते ।
यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् ॥”
इति मात्स्ये एकादशीमाहात्म्यम् ॥ * ॥
अथ नक्तव्रतम् ।
“तथा च स्कन्दपुराणे ।
‘प्रदोषव्यापिनी ग्राह्या सदा नक्तद्रते तिथिः ।
उदयात्तु तदा पूज्या हरेर्नक्तव्रते तिथिः ॥’
नियमश्च सामान्यव्रतधर्म्मत्वेनोक्तः ।
‘ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् ॥’
इत्यादिर्ग्राह्यः ॥
नक्तलक्षणञ्च भविष्यदेवीपुराणयोः ।
‘हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ।
अग्निकार्य्यमधःशय्यां नक्तभोजी सदाचरेत् ॥’
एवं नक्तव्रतस्य गुरुत्वेन प्रागुक्तवायुपुराण-
वचने नक्तमिति हविष्यान्नादिभोजनस्य काल-
परं न तु नक्तव्रतपरं तथात्वे उत्तरोत्तरगुरु-
व्रतोपदेशप्रस्तावे तदनन्तरं केवलं हविष्यान्नोप-
देशानुपपत्तेः । स्मृतिः ।
‘नक्तं निशायां कुर्व्वीत गृहस्थो विधिसंयुतः ।
यतिश्च विधवा चैव कुर्य्यात्तत् सदिवाकरम् ॥
सदिवाकरन्तु तत् प्रोक्तमन्तिमे घटिकाद्वये ।
निशानक्तन्तु विज्ञेयं यामार्द्धे प्रथमे सदा ॥’
मार्कण्डेयः ।
‘एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन दानेन नैवाद्बादशिको भवेत् ॥’
अत्र विष्णुपूजापारणयोरङ्गान्तरापेक्षया प्राधा-
न्यमवगम्यते । आनुकल्पिकेऽपि आवश्यक-
त्वात् ।” इत्येकादशीतत्त्वम् ॥ * ॥ सौरनक्तकालो
यथा, --
“कुशमूलं यवमात्रं स्वच्छायाद्विगुणे क्षणे ।
भक्ष्यं मितौदनं नक्तं शुद्धोपवसनं तथा ॥”
इति विधानसप्तमीप्रकरणे तिथ्यादितत्त्वम् ॥
(महादेवः । यथा, महाभारते । १३ । १७ । ९३ ।
“नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥”
पुं, पृथोः पुत्त्रः । यथा, ब्रह्माण्डे । ३६ ।
“पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः
स्मृतः ॥”)

नक्तकः, पुं, (नक्तमिव कायति मलिनतयेति ।

कै + कः । यद्वा, नज + क्त । ततः स्वार्थे कन् ।)
कर्पटः । इत्यमरटीकायां भरतः ॥ न्याक्डा
इति भाषा ॥

नक्तचारी, [न्] पुं, (नक्ते रात्रौ चरतीति ।

चर + णिनिः ।) विडालः । पेचकः । इति
त्रिकाण्डशेषः ॥ राक्षसः ॥ रात्रिचरमात्रे, त्रि ॥

नक्तञ्चरः, पुं, (नक्तं चरतीति । चर + “चरेष्टः ।”

३ । २ । १६ । इति टः ।) राक्षसः । इति
हलायुधः ॥ गुग्गुलुः । इति जटाधरः ॥ चौरः ।
पेचकः । (रात्रिचरमात्रे, त्रि । यथा, मार्क-
ण्डेयपुराणे । २९ । २० ।
“नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ॥”)

नक्तमालः, पुं, (नक्तं रात्रौ आ सम्यक्प्रकारेण

अलति पर्य्याप्नोतीति । आ + अल + अच् ।)
करञ्जवृक्षः । इत्यमरः । २ । ४ । ४७ ॥ (यथा,
रघुः । ५ । ४२ ।
“स नर्म्मदारोधसि सीकरार्द्रै-
र्मरुद्भिरानर्त्तितनक्तमाले ॥”)

नक्तमुखा, स्त्री, (नक्तं नक्तव्रताङ्गं मुखं आदि-

भागो यस्याः ।) रात्रिः । इति हलायुधः ॥

नक्तव्रतं, क्ली, (नक्ते रात्रौ भोजनरूपं यद्व्रतम् ।)

दिवाभोजनाभावविशिष्टरात्रिभोजनम् । यथा,
“हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ।
अग्निकार्य्यमधःशय्यां नक्तभोजी षडाचरेत् ॥”
इति भविष्यपुराणम् ॥

नक्ता, स्त्री, (अनिष्टकारित्वात् नक्तवत् मलिन-

त्वमस्त्यस्येति । अच् । टाप् ।) कलिकारी ।
इति राजनिर्घण्टः ॥ ईशलाङ्गला इति भाषा ॥
(कलिकारीशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

नक्रं, क्ली, (नक्रवत् आकृतिरस्त्यस्येति । अच् ।)

अग्रदारु । झाणकाठ इति भाषा । नासिका ।
इति मेदिनी । रे, ५२ ॥

नक्रः, पुं, (न क्रामति दूरस्थलमिति । क्रम +

अन्येष्वपीति डः । नभ्राडिति नलोपो न ।)
कुम्भीरः । इत्यमरः । १ । १० । २१ ॥ (यथा,
पञ्चतन्त्रे । ३ । ४३ ।
“नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानात् शुनापि परिभूयते ॥”
मकरः । थया, कादम्बर्य्याम् । “तथा चेन्नाचरेयं
नयेत नक्रकेतनः क्षणेनैकेनाकीर्त्तनीयां दशां
जनं चैनम् ॥” ग्राहः । यथा, रघुः । १६ । ५५ ।
“स तीरभूमौ विहितोपकार्य्या-
मानायिभिस्तामपकृष्टनक्राम् ॥”)

नक्रराजः, पुं, (नक्राणां कुम्भीरादीनां राजा

श्रेष्ठत्वात् । “राजाहःसखिभ्यष्टच् ।” ५ ।
४ । ९१ । इति टच् ।) जलजन्तुविशेषः ।
हाङ्गर इति भाषा । तत्पर्य्यायः । ग्राहः २
जलकिराटः ३ जलाटकः ४ । इति हारा-
वली । ७७ ॥

नक्रा, स्त्री, (नक्रवदाकृतिरस्त्यस्या इति अच् ।

टाप् ।) नासिका । इति शब्दरत्नावली ॥

नक्षत्रं, क्ली, (नक्षति शोभां गच्छति स्थानात्

स्थानान्तरं गच्छति वा । नक्ष गतौ + “अमि-
नक्षियजिवधिपतिभ्योऽत्रन् ।” उणां । ३ । १०५ ।
इति अत्रन् ।) मुक्ता । इति राजनिर्घण्टः । तारा ।
तत्पर्य्यायः । ऋक्षम्२ भम्३ तारा४ तारका५
उडु ६ । इत्यमरः । १ । ३ । २१ । तारकम् ७ ।
इति शाश्वतः ॥ तारः ८ । इति व्याडिः ॥
दाक्षायण्यः । तास्तु अश्विनी १ भरणी २
कृत्तिका ३ रोहिणी ४ मृगशिरः ५ आर्द्रा ६
पुनर्व्वसुः ७ पुष्यः ८ अश्लेषा ९ मघा १० पूर्ब्बफल्-
गुनी ११ उत्तरफल्गुनी १२ हस्ता १३ चित्रा १४
स्वातिः १५ विशाखा १६ अनुराधा १७ ज्येष्ठा १८
मूला १९ पूर्ब्बाषाढा २० उत्तराषाढा २१
श्रवणा २२ धनिष्ठा २३ शतभिषा २४ पूर्ब्ब-
भाद्रपदा २५ उत्तरभाद्रपदा २६ रेवती २७
इत्यमरः ज्योतिषश्च ॥ एता अभिजिता सह
अष्टाविंशतिनक्षत्राणि भवन्ति ॥ * ॥ आसां
क्रमेणाधिदेवता यथा । अश्वि-१ यम-२ दहन-३
कमलज-४ शशि-५ शूलभृत्-६ अदिति-७ जीव-८
फणि-९ पितरः-१० । योन्य-११ र्य्य्यम-१२
दिनकृत्-१३ त्वष्टृ-१४ पवन-१५ शक्राग्नि-१६
मित्राश्च १७ ॥ शक्रो १८ निरृति १९ स्तोयम् २०
विश्वविरिञ्ची २१ हरि-२२ र्व्वसु-२३ र्व्वरुणः-२४ ।
अजपदो २५ ऽहिब्रध्नः २६ पूषा २७ चेतीश्वरा
भानाम् ॥ * ॥ आसां गणा यथा ।
“उग्रः पूर्ब्बमघान्तकाः ११ । २० । २५ । १० ।
२ । ध्रुवगणस्त्रीण्युत्तराणि स्वभू-१२ । २१ । २६ ।
४ । र्व्वातादित्यहरित्रयं चरगणः १५ । ७ । १२ ।
२३ । २४ । पुष्याश्विहस्ता ८ । १ । १३ । लघुः ।
चित्रामित्रमृगान्त्यभम् १४ । १७ । ५ । २७ ।
मृदुगणस्तीक्ष्णोऽहिरुद्रेन्द्रयुक् ९ । ६ । १८ । १९ ।
मिश्रोऽग्निः सविशाखभः । ३ । १६ । शुभफलाः
सर्व्वे स्वकृत्ये गणाः ॥” * ॥
अधोमुखनक्षत्राणि यथा ।
“अश्लेष-९ वह्नि-३ यम-२ पित्र्य-१० विशाख-१६
युक्तम्
पूर्ब्बात्रयम् ११ । २० । २५ शतभिषा २४ च
नवाप्युडूनि ।
एतान्यधोमुखगणानि शिवानि नित्यं
विद्यार्घ्यभूमिखननेषु च भूषितानि ॥” * ॥
स्वनक्षत्रावधिनक्षत्राणां जन्मसम्पदादिकथनं
यथा, --
“जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मभाच्च पुनः पुनः ॥
सर्व्वमङ्गलकार्य्याणि त्रिषु जन्मसु कारयेत् ।
विवादश्राद्धभैषज्ययात्राक्षौराणि वर्ज्जयेत् ॥
यात्रायां पथि बन्धनं कृषि विधौ सर्व्वार्थनाशो
भवेत्
भैषज्ये मरणं तथा सुनियतं दाहो गृहारम्भणे ।
क्षौरे रोगसमागमो बहुविधः श्राद्धेऽर्थनाश-
स्तथा
वादे बुद्धिविनाशनन्त्वरिभयं प्राप्नोत्यसौ
जन्मभे ॥
नक्षत्रोत्पन्नरोगेषु भोगादि यथा, --
पृष्ठ २/८१५
“जन्माधाने निधनभे प्रत्यरौ च विपत्करे ।
यदि व्याधिः समुत्पन्नः क्लेशाय मरणाय वा ॥
कृत्तिकासु यदा व्याधिर्नृणाञ्च प्रतिपद्यते ।
नवरात्रं भवेत् पीडा त्रिरात्रं रोहिणीषु च ॥
मृगशीर्षे पञ्चरात्रमार्द्रायां मुच्यतेऽसुभिः ॥
पुनर्व्वसौ तथा पुष्ये सप्तरात्रं विधीयते ।
नवरात्रं तथाश्लेषे मासमेकं मघासु च ॥
द्बौ मासौ पूर्ब्बफल्गुन्यामुत्तरासु त्रिपञ्चकम् ।
हस्तेषु सप्तमे मोक्षश्चित्रायामर्द्धमासकम् ॥
मासद्बयं तथा स्वात्यां विशाखे दिनविंशतिम् ।
मैत्रे चैव दशाहानि ज्येष्ठायामर्द्धमासकम् ॥
मूले न जायते मोक्षः पूर्ब्बाषाढे त्रिपञ्चकम् ।
उत्तरा दिनविंशत्या श्रवणे द्वौ च मासकौ ॥
धनिष्ठायामर्द्धमासं वारुण्याञ्च दशाहकम् ।
न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ॥
रेवत्यां दिनविंशत्या चाहोरात्रं तथाश्विनी ।
प्राणैर्व्विमुच्यते नित्यं भरण्यां नात्र संशयः ॥
कौशिकेन सदादिष्टा नक्षत्रव्याधिसम्भवाः ।
नक्षत्रे प्रतिकर्त्तव्यं नक्षत्रपथजानता ॥”
नक्षत्रचतुर्भागबोधकानि चत्वारि नामाद्यक्ष-
राणि यथा । अ इ उ ए ३ । ओ व वि वु ४ ।
वे वो क कि ५ । कु घ ङ छ ६ । के को ह हि ७ ।
हु हे हो ड ८ । डि डु डे डो ९ । म मि
मु मे १० । मो ट टि टु ११ । टे टो प पि १२ ।
पु ष ण ठ १३ । पे पो र रि १४ । रु रे रो
त १५ । ति तु ते तो १६ । न नि नु ने १७ ।
नो य यि यु १८ । ये यो भ भि १९ । भु ध फ
ढ २० । भे भो ज जि २१ । जु जे जो ख । ०
अभिजित् । खि खु खे खो २२ । ग गि गु
गे २३ । गो श शि शु २४ । शे शो द दि २५ ।
दु थ झ ञ २६ । दे दो च चि २७ । चु चे
चो ल १ । लि लु ले लो २ । ऋ ऌ युक्त-
श्चाकारयुक्तेन ज्ञेयः । ह्नस्वेन दीर्घो ज्ञेयः ।
तालव्यशकारेण दन्त्यसकारो ज्ञेयः ।” इति
ज्योतिस्तत्त्वम् ॥

नक्षत्रकान्तिविस्तारः, पुं, (नक्षत्राणां कान्ति-

स्तस्या विस्तारो यत्र ।) धवलयावनालः । इति
राजनिर्घण्टः ॥

नक्षत्रचक्रं, क्ली, (नक्षत्राणां चक्रं यत्र ।) मन्त्र-

ग्रहणोक्तषट्चक्रान्तर्गतचक्रविशेषः । तथा च
बृहच्छ्रीक्रमे ।
“उत्तराद्दक्षिणाग्रान्तु रेखां कुर्य्याच्चतुष्टयीम् ।
दश रेखाः पश्चिमाग्राः कर्त्तव्या वीरवन्दिते ! ॥
अकारादिक्षकारान्तान् द्विचन्द्रवह्निवेदकान् ।
भूमीन्दुनेत्रचन्द्रांश्च अश्लेषान्तं खगौ प्रिये ! ॥
द्विभूनेत्रनेत्रयुग्मांश्चेन्दुनेत्राग्निचन्द्रकान् ।
मघादिज्येष्ठपर्य्यन्तं द्बितीयं नवतारकम् ॥
वह्निभूमीन्दुचन्द्रांश्च युग्मेन्दुनेत्रवह्निकान् ।
वेदेन भेदिता वर्णा रेवत्यंशगताः क्रमात् ॥”
निबन्धे ।
“पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी ।
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥
ज्येष्ठा शतभिषामूलाधनिष्ठाश्लेषकृत्तिकाः ।
चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥
अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः ।
अनुराधा मृगशिरः श्रवणा देवतारकाः ॥”
तथा ।
“स्वजातौ परमा प्रीतिर्म्मध्यमा भिन्नजातिषु ।
रक्षोमानुषयोर्न्नाशो वैरं दानवदेवयोः ॥”
गणापवादमाह गवाक्षतन्त्रे ।
“प्रणवस्त्र्यक्षरी माया व्योमव्यापी षडक्षरः ।
प्रासादो बहुरूपी च सप्त साधारणाः स्मृताः ॥”
शारदायाम् ।
“जन्म सम्पत् विपत् क्षेमः प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥”
जन्मत्रिपञ्चसप्तानि वर्ज्जनीयानि नक्षत्राणि ।
तथा च राघवभट्टः ।
“रसाष्टनवभद्राणि युगयुग्मगतान्यपि ।
इतराणि न भद्राणि नक्षत्राणि ॥” स्वनक्षत्रादेव-
नक्षत्रं गणनीयम् । तदज्ञाने स्वनामाद्यक्षर-
सम्बन्धिनक्षत्राद्गणनीयम् । तथा च ।
“प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात् सुधीः ॥”
इति तन्त्रसारः ॥

नक्षत्रनेमिः पुं, (नक्षत्रस्य नक्षत्रचक्रस्य नेमि-

रिव ।) विष्णुः । यथा, (महाभारते । १३ ।
१४९ । ६० ।
“नक्षत्रनेमिर्न्नक्षत्री क्षमः क्षामः समीहनः ॥”
“नक्षत्रैस्तारकैः सार्द्धं चन्द्रसूर्य्यादयो ग्रहाः ।
वाय्वाकाशमयैर्बद्धैर्न्निबद्धा ध्रुवसंज्ञितैः ॥
स ज्योतिषां चक्रं भ्रामयंस्तारामयस्य शिशु-
मारस्य पुच्छदेशे ध्रुवस्तस्य शिशुमारस्य हृदये
ज्योतिश्चक्रस्य नेमिवत् प्रवर्त्तकः स्थितो विष्णु-
रिति नक्षत्रनेमिः शिशुमारवर्णने विष्णुहृदय-
मिति श्रुतेः ॥” इति शाङ्करभाष्यम् ॥) चन्द्रः ।
ध्रुवः । रेवत्यां स्त्री । इति मेदिनी । मे, ६३ ॥

नक्षत्रपः, पुं, उडुपः । चन्द्रः । नक्षत्रं पातीति

व्युत्पत्त्या । (नक्षत्र + पा + कः ॥)

नक्षत्रपुरुषः, पुं, (नक्षत्रैः पुरुष इव ।) व्रत-

विशेषः । यथा, --
“श्रूयतां कथयिष्यामि नक्षत्रपुरुषव्रतम् ।
नक्षत्राङ्गाणि देवस्य यानि यानीह नारद ! ॥
मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्थिता ।
द्वे जानुनी तथाश्विन्यौ संस्थिते रूपधारिणः ॥
आषाढे द्वे तथा चोरू गुह्यस्थं फल्गुनीद्वयम् ।
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥
प्रोष्ठपद्यद्वयं पार्श्वं कुक्षिभ्यां रेवती स्थिता ।
उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥
विशाखा भुजयोर्हस्तः करद्बयमुदाहृतम् ।
पुनर्व्वसुरथाङ्गुल्यो नखाः सर्व्वं तथोच्यते ॥
ग्रीवास्थिता तथा ज्येष्ठा श्रवणः कर्णयोः स्थितः ।
मुखसंस्थस्तथा पुष्यः स्वातिर्द्दन्ताः प्रकीर्त्तिताः ॥
हनू द्वे वारुणश्चोक्तो नासा पैत्र्यमुदाहृतम् ।
प्राजापत्यञ्च नेत्राभ्यां रूपद्याम्नः प्रतिष्ठितम् ॥
शिरो रौद्रस्तथा चैव नक्षत्राङ्गमिदं हरेः ।
विधानं संप्रवक्ष्यामि यथायोगेन नारद ! ॥
संपूजितो हरिः कामान् विदधाति यथेप्सितान् ।
चैत्रे मास्यसिताष्टम्यां यदा मूलगतः शशी ॥
भगवन्तं सह लक्ष्म्या पूजयेच्च विधानतः ।
नक्षत्रसन्निधौ दद्याद्बिप्रेन्द्राय च भोजनम् ॥
जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः ।
दोहदे च हविष्यान्नं पूर्ब्बवद्द्बिजभोजनम् ॥
आषाढाभ्यां तथा द्बाभ्यां द्वावूरू पूजयेद्बुधः ।
सलिलं शिशिरं तत्र दोहदे च प्रकीर्त्तितम् ॥
फल्गुनीद्वितये गुह्यं पूजनीयं विचक्षणः ।
दोहदे च पयो गव्यं देयञ्च द्विजभोजनम् ॥
कृत्तिकासु कटिः पूज्या सोपहारैर्ज्जितेन्द्रियैः ।
देयञ्च दोहदे विष्णोः सुगन्धिकुसुमोदकम् ॥
पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः ।
गुडं सशालिकं दद्याद्दोहदे देवप्रीतिदम् ॥
द्बे कुक्षी रेवतीयोगे दोहदे शुद्धमोदकम् ।
अनुराधासु जठरं कुलत्थांस्तत्र दोहदे ॥
श्रविष्ठायां तथा पृष्ठं शालिभक्तञ्च दोहदे ।
पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥
स्वातियोगे च दशनान् दोहदे तिलशक्तुनी ।
भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥
हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् ।
पुनर्व्वसावङ्गुलीश्च पटोलं तत्र दोहदे ॥
दातव्यं केशवप्रीत्यै ब्राह्मणस्य च भोजनम् ।
हनू शतभिषायां वै पूजयेत्तु प्रयत्नतः ॥
प्रियङ्गुरक्तशाल्यन्नं दोहदञ्च मधुद्विषः ।
मघासु नासिका पूज्या मधु दद्याच्च भोजनम्
मृगोत्तमाङ्गे नयने मृगमांसञ्च दोहदे ।
चित्रायोगे ललाटञ्च दोहदे चारु भोजनम् ॥
भरणीषु शिरः पूज्यं चारु भक्तञ्च दोहदे ।
सम्पूजनीया विद्बद्भिरार्द्रायोगे शिरोरुहाः ॥
विप्रांश्च भोजयेद्भक्त्या दोहदे च गुडार्द्रकम् ।
नक्षत्रयोगेष्वेतेषु संपूज्य जगतः पतिम् ॥
ततस्तु दक्षिणां दद्यात् स्त्रीपुंसोश्चारु वाससम्
छत्रोपानद्युगञ्चैव सप्त धान्यानि काञ्चनम् ॥
घृतपात्रञ्च गां दोग्ध्रीं ब्राह्मणाय निवेदयेत् ।
प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः ॥
नक्षत्रज्ञाय विप्राय पृथग्दद्याच्च दक्षिणाम् ।
नक्षत्रपुरुषाख्यं हि व्रतानां व्रतमुत्तमम् ॥
एवं विधानतो ब्रह्मन् ! नक्षत्राङ्गो जनार्द्दनः ।
पूजितो रूपधारी यैस्तैः प्राप्ता च सुकामिता ॥
एतत्तवोक्तं परमं पवित्रं
धन्यं यशस्यं शुभरूपदायि ।
नक्षत्रपुंसः परमं विधानं
शृणुष्व पुण्यामिह तीर्थयात्राम् ॥”
इति वामनपुराणे ७७ अध्यायः ॥

नक्षत्रमाला, स्त्री, (नक्षत्रसंख्यिका माला ।) सप्त-

विंशतिमौक्तिककृतहारः । इत्यमरः । २ । ६ । १०६ ।
“सप्तविंशतिरूपाढ्यै रूपकै रूपरूपकैः ।
नृत्ये नक्षत्रमाला स्यान्मुक्तावलिरिवोज्वला ॥”
इति सङ्गीतदामोदरः ॥
(नक्षत्राणां माला समूहः ।) नक्षत्रश्रेणी ।
पृष्ठ २/८१६
(यथा, बृहत्संहितायाम् । १०५ । १३ ।
“यावन्नक्षत्रमाला विचरति गगने भूषयन्तीह
भासा
तावन्नक्षत्रभूतो विचरति सह तैर्ब्रह्मणो ऽह्नो-
ऽवशेषम् ॥”)

नक्षत्रेशः, पुं, (नक्षत्राणामीशः ।) चन्द्रः । (यथा,

साहित्यदर्पणे । २ । २० ।
“नक्षत्रेशकृतेक्षणो गिरिगुरोर्गाढां रुचिं
धारयन्
गामाक्रम्य विभूतिभूषिततनू राजत्युमा-
वल्लभः ॥”)
कर्पूरः । इत्यमरः । २ । ६ । १३० ॥

नख, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) प्रणखति । इति दुर्गादासः ॥

नखं, क्ली, पुं, (नह्यते इव शरीरे । नह बन्धे +

“नहेर्हलोपश्च ।” उणां ५ । २३ । इति खः
हलोपश्च ।) अङ्गुलीकण्टकः । नह इति
हिन्दी भाषा । तत्तु उपधातुविशेषः गर्भस्थ-
बालकस्य षष्ठमासे भवति । इति सुखबोधः ॥
तत्पर्य्यायः । पुनर्भवः २ कररुहः ३ नखरः ४
इत्यमरः । २ । ६ । ८३ ॥ कामाङ्कुशः ५ करजः
६ पाणिजः ७ अङ्गुलीसम्भूतः ८ पुनर्नवः ९ ।
इति राजनिर्घण्टः ॥ कराग्रजः १० करकण्टकः
११ स्मराङ्कुशः १२ रतिरथः १३ करचन्द्रः १४
कराङ्कुशः १५ । इति शब्दरत्नावली ॥ * ॥
रतिक्रीडायां नखाघातस्थानानि यथा, --
“नखाघातः प्रदातव्यो यथास्थानानि कर्म्मसु ।
पार्श्वयोः स्तनयोश्चैव ऊरौ चैव नितम्बके ॥
कक्षस्थले च कर्णान्ते कपाले बाहुमूलके ।
ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत् ॥
तथा सर्व्वशरीरेषु नखं दद्यात् शनैः शनैः ॥”
इति कामशास्त्रम् ॥
“न नखैर्विलिखेद्भूमिं गाञ्च सद्वेशयेन्नहि ।
न स्वाङ्गे नखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥”
इति कूर्म्मे उपविभागे १५ अध्यायः ॥

नखं, क्ली, स्त्री, (नखमिव आकृतिरस्त्यस्येति ।

अच् ।) नखीनामगन्धद्रव्यम् । नखी इति
ख्यातः । तत्पर्य्यायः । शुक्तिः २ शङ्खः ३ खुरः
४ कोलदलम् ५ । इत्यमरः । २ । ४ । १३० ॥
करजाख्यः ६ अश्वखुरः ७ नखः ८ व्याघ्रनखः
९ नखी १० ।
“द्विधा शङ्खनखाख्योऽन्यः शुक्त्याख्यो वदरीच्छदः ।”
इति रत्नमालायाम् । १४४ ॥
कररुहः ११ सिम्बी १२ शफः १३ चलः १४
कोशी १५ करजः १६ हनुः १७ नागहनुः १८
पाणिजः १९ वदरीपत्रः २० रूप्यः २१ पण्य-
विलासिनी २२ सन्धिनालः २३ पाणिरुहः २४ ।
इति राजनिर्घण्ठः ॥ व्याघ्रायुधम् २५ चक्रकार-
कम् २६ शङ्खनखः २७ नखरी २८ । इति शब्द-
रत्नावली ॥ अपि च । अथ नखनखीगन्ध-
द्रव्यम् ।
“नखं व्याघ्रनखं व्याघ्रायुधं तञ्चक्रकारकम् ।
नखं स्वल्पं नखी प्रीक्ता हनुर्हट्टविलासिनी ॥
नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् ।
लघूष्णं शुक्रलं वर्ण्यं स्वादुव्रणविषापहम् ॥
अलक्ष्मीमुखदौर्गन्ध्यं हृत्पाकरसयोः कटुः ॥”
इति भावप्रकाशः ॥
स्वल्पनखस्य पर्य्यायः । नखी १ हनुः २ हट्ट-
विलासिनी ३ । तयोर्गुणाः । ग्रहश्लेष्मवातास्र-
ज्वरकुष्ठनाशित्वम् । लघुत्वम् । उष्णत्वम् । शुक्र-
लत्वम् । वर्ण्यत्वम् । स्वादुत्वम् । व्रणविषालक्ष्मी-
मुखदौर्गन्ध्यनाशित्वम् । पाकरसयोः कटुत्वञ्च ।
इति भावप्रकाशः ॥ कण्डुभूतविनाशित्वम् ।
इति राजनिर्घण्टः ॥ रक्षोघ्नत्वम् । इति राज-
वल्लभः ॥ * ॥
“शैलरुहं व्याघ्रनखं हनुहट्टविलासिनी ।
शुषिराञ्जनकेशी च कपोताङ्घ्रिर्नली खुरः ॥
स्वल्पपत्रस्त्वसौ शुक्तिर्नखरी वदरीच्छदा ।
महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः ॥”
इति भरतधृतवाचस्पतिः ॥

नखः, पुं, (नह्यतेऽनेनेति । नह + खः । हस्य

लोपः ।) खण्डम् । इति हेमचन्द्रः । ३ । २५८ ॥
(नखीनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥)

नखकुट्टः, पुं, (नखं कुट्टयति छिनत्तीति । कुट्ट +

अण् ।) नापितः । इति त्रिकाण्डशेषः ॥

नखनिष्पावः, पुं, (नखं निष्पवते फलसादृश्येन

अनुकरोतीति । निर् + पू + अण् । यद्वा, नख-
वत् निष्पावः शिम्बी यस्य ।) निष्पावीभेदः ।
तत्पर्य्यायः । अङ्गुलिफला २ वृत्तनिष्पाविका ३
ग्राम्या ४ नखगुच्छफला ५ ग्रामजनिष्पावी ६
नखफलिनी ७ । अस्या गुणाः । कषायत्वम् ।
मधुरत्वम् । कण्ठशुद्धिकरत्वम् । मेध्यत्वम् । दीप-
नत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥

नखपर्णी, स्त्री, (नख इव पर्णमस्याः । ङीष् ।)

वृश्चिकाक्षुपः । इति राजनिर्घण्टः ॥

नखपुष्पी, स्त्री, (नख इव पुष्पमस्याः । ङीष् ।)

पृक्का । इति राजनिर्घण्टः ॥

नखमुचं, क्ली, (नखं मुञ्चतीति । मुच + “क-

प्रकरणे मूलविभुजादिभ्य उपसंख्यानम् ।” ३ ।
२ । ५ । इत्यस्य वार्त्तिकोक्त्या कः ।) धनुः ।
इति संक्षिप्तसारव्याकरणम् ॥ नखस्य मोचके, त्रि ॥

नखरः, पुं, क्ली, (नखं रातीति । रा + कः ।)

नखः । इत्यमरः । २ । ६ । ८३ ॥ (यथा,
साहित्यदपंणे ।
“किं पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः ॥”
अस्त्रविशेषः । यथा, महाभारते । ७ । २९ । १७ ।
“सकम्पनर्ष्टिनखरा मुषलानि परश्वधाः ॥”
तथा, तत्रैव । ६ । १८ । १७ ।
“पादाताश्चाग्रतोऽगच्छन् धनुश्चर्म्मासिपाणयः ।
अनेकशतसाहस्रा नखरप्रासयोधिनः ॥”)

नखरञ्जनी, स्त्री, (रज्यतेऽनयेति । रञ्ज + ल्युट् ।

ङीप् । नखस्य रञ्जनी ।) नखच्छेदनास्त्र-
विशेषः । नरुण इति भाषा । यथा, --
“अनन्तचरणोपान्तचारिणी मलहारिणी ।
पुनर्भवच्छेदकरी गङ्गेव नखरञ्जनी ॥”
इति द्ब्यर्थोद्भटः ॥

नखरायुधः, पुं, (नखरमेव आयुधं यस्य ।)

सिंहः । व्याघ्रः । कुक्कुटः । इति राजनिर्घण्टः ॥

नखराह्वः, पुं, (नखरं आह्वयते स्पर्द्धते इति ।

आ + ह्वे + कः ।) करवीरवृक्षः । इति राज-
निर्घण्टः ॥

नखरी, स्त्री, (नखरः आकृतिसादृश्येनास्त्यस्या

इति । अच् । गौरादित्वात् ङीष् ।) नखी । इति
शब्दमाला ॥ क्षुद्रनखी । इति काचिद्रत्नमाला ॥

नखवृक्षः, पुं, (नख सर्पणे + अच् । नखो वृक्षः ।

इति नित्यकर्म्मधारयः ।) नीलवृक्षः । इति
राजनिर्घण्टः ॥ (नीलवृक्षशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

नखशङ्खः, पुं, (नख इव शङ्खः ।) क्षुद्रशङ्खः । इति

शब्दरत्नावली ॥

नखाङ्कं, क्ली, (नखमिव अङ्कं यस्य ।) व्याघ्रनखी ।

इति शब्दरत्नावली ॥

नखाङ्गं, क्ली, (नखस्य अङ्गमिव अङ्गं यस्य ।)

नखी । इति काचिद्रत्नमाला ॥

नखायुधः, पुं, (नखमेव आयुधं यस्य ।) व्याघ्रः ।

इति राजनिर्घण्टः ॥ सिंहकुक्कुटौ च ॥

नखालिः, पुं, (नखमिव अलतीति । अल पर्य्याप्तौ +

इन् ।) क्षुद्रशङ्खः । इति शब्दचन्द्रिका ॥ (नखस्य
आलिः ।) नखश्रेणी च ॥

नखालुः, पुं, (नखतीति । नख सर्पणे + आलुच् ।)

नीलवृक्षः । इति राजनिर्घण्टः ॥

नखाशी, [न्] पुं, (नखमश्नातीति । अश

भोजने + णिनिः ।) पेचकः । इति त्रिकाण्ड-
शेषः ॥ नखभक्षकमात्रे, त्रि ॥

नखी, स्त्री, (नख + गौरादित्वात् ङीष् ।) नख-

नामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १३० ॥
(अस्याः पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“करजाख्यश्चाश्वखुरो नखो व्याघ्रनखो नखी ॥”)

नखी, [न्] पुं, (नखमस्त्यस्येति । नख + इनिः ।)

सिंहः । इति राजनिर्घण्टः ॥ विदारणक्षम-
नखयुक्तपशुमात्रम् । यथा, चाणक्ये । २७ ।
“नखिनाञ्च नदीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥”

नगः, पुं, (न गच्छतीति । न + गम् + डः । यद्वा,

दह्यते इति । दह + “दहेर्गो लोपो दश्च नः ।”
उणां । ५ । ६१ । इति गः । धातोरन्तलोपः । दस्य
च नः ।) पर्व्वतः । (यथा, कुमारे । ७ । ७२ ।
“नवे दुकूले च नगोपनीतं
प्रत्यग्रहीत् सर्व्वममन्त्रवर्ज्जम् ॥”)
वृक्षः । इत्यमरः । ३ । ३ । १९ ॥ (यथा, महा-
भारते । १ । ४३ । ६ ।
“तं दग्ध्वा स नगं नागः कश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्बिजश्रेष्ठ ! जीवयैनं वनस्पतिम् ॥”
स्थावरमात्रम् । यथा, विष्णुपुराणे । १ । ५ । ६ ।
“मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ।”
“नगाः स्थावराः ।” इति तट्टीकायां स्वामी ॥)
पृष्ठ २/८१७

नगजः, पुं, (नगे पर्व्वते जायते इति । जन +

डः ।) हस्ती । इत्यमरटीकासारसुन्दरी ॥
पर्व्वतजातवस्तुमात्रे, त्रि ॥

नगजा, स्त्री, (नगे जायते या । जन + डः । टाप् ।)

क्षुद्रपाषाणभेदा । इति राजनिर्घण्टः ॥

नगणा, स्त्री, (नास्ति गणो यस्याः ।) लता-

विशेषः । नयाफट्की इति भाषा । तत्पर्य्यायः ।
पारावतपदी २ पिण्या ३ स्फुटबन्धनी ४ ज्योति-
ष्मती ५ पूतितैला ६ इङ्गुदी ७ । इति रत्नमाला ॥

नगनन्दिनी, स्त्री, (नगस्य हिमालयस्य नन्दिनी ।

दुर्गा । इति शब्दरत्नावली ॥

नगपतिः, पुं, (नगानां पतिः ।) हिमालयपर्व्वतः ।

इति त्रिकाण्डशेषः ॥ (नगानां ओषधीनां
पतिः ।) चन्द्रः ॥

नगभित्, पुं, (नगं भिनत्तीति । भिद् + क्विप् ।)

पाषाणभेदनः । इति राजनिर्घण्टः ॥ इन्द्रश्च ॥

नगभूः, पुं, (नगे भूरुत्पत्तिर्यस्य ।) क्षुद्रपाषाण-

भेदा । इति राजनिर्घण्टः ॥ पर्व्वतजाते, त्रि ॥

नगरं, क्ली, नगा इव प्रासादादयः सन्ति यत्र ।

(“नगपांसुपाण्डुभ्यश्च ।” ५ । २ । १०७ । इत्यस्य
वार्त्तिकोक्त्या रः ।) बहुलोकवासस्थानम् ।
शहर इति भाषा । तत्पर्य्यायः । पूः २ पुरी ३
पुरिः ४ पुरम् ५ नगरी ६ पत्तनम् ७ पट्टनम् ८
पट्टनी ९ पुटभेदनम् १० पटभेदनम् ११ स्थानी-
यम् १२ निगमः १३ इत्यमरभरतौ ॥ कट-
कम् १४ पट्टम् १५ । इति शब्दरत्नावली ॥
केचित्तु नगरपत्तनस्थानीयानां भेदमाहुः । तत्र
पुरादित्रयं पुरे । पत्तनादिद्वयं पत्तने । स्थानी-
यादिद्बयं स्थानीये । इति मन्यन्ते । यत्राष्टशत-
ग्रामीयव्यवहारस्थानं मध्यवर्त्ति तत् नगरम् ।
यत्र राजा तत्परिचारकाश्च तिष्ठन्ति तत् पत्त-
नम् । प्राकारादिना दुर्गं योजनविस्तीर्णं नगरं
स्थानीयम् । केचित्तु पुरनगरयोरपि भेदमाहुः ।
बहुग्रामीयव्यवहारस्थानं पुरम् । तत्र प्रधान-
भूतं नगरम् । इति भरतः ॥ * ॥
अथ नगरनिर्म्माणकालः ।
“स्थिरराशिगते भानौ चन्द्रे च स्थिरभोदये ।
शुद्धे काले दिने चैव नगरं कारयेन्नृपः ॥” * ॥
तस्य लक्षणं भविष्योत्तरे ।
“दीर्घं वा चतुरस्रं वा नगरं कारयेन्नृपः ।
तत्त्र्यस्रं वर्त्तुलं वापि कदाचिदपि कारयेत् ॥
दीर्घं पादैकप्रसरञ्चतुरस्रं समोचितम् ।
त्रिभिः पादैः समं त्र्यस्रं वर्त्तुलं बलयाकृति ॥
दीर्घं स्याद्दीर्घकालाय सुखसम्पत्तिहेतवे ।
चतुरस्रं चतुर्वर्गफलाय पृथिवीभुजः ॥
त्र्यस्रं त्रिशक्तिनाशाय वर्त्तुलं बहुरोगकृत् ।
राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥
राजहस्तैश्च दशभी राजदण्ड उदाहृतः ।
राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥
राजच्छत्रैश्च दशभी राजकाण्ड उदाहृतः ।
राजकाण्डैश्च दशभी राजपूरुष उच्यते ॥
राजधानी तु कथिता दशभी राजपूरुषैः ।
राजधानी दशगुणा राजक्षेत्रमुदाहृतम् ॥
सप्तैव परिमाणानि प्रोक्तानि पुरपत्तने ।
भयत्राभोगसम्पत्तिमर्त्त्यकीर्त्तिसुखार्थिनाम् ।
राजक्षेत्रेण नृपतिः पूरपत्तनमारभेत् ॥
लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एकता ।
समृद्धिवित्तं नाशश्च मङ्गलञ्च बलं क्षयः ।
साम्राज्यं भोगसम्पत्तिरिति षोडश कीर्त्तिताः ॥
यथार्थसंज्ञा नगरा मुनिना तत्त्ववेदिना ॥”
इति युक्तिकल्पतरुः ॥ * ॥
अपि च ।
“नृपावासः पुरी प्रोक्ता विशाम्पुरमपीष्यते ।
एकतो यत्र तु ग्रामो नगरञ्चैकतः स्थितम् ॥
मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयम् ।
विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति हि ॥
स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च ।
पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् ॥
अनेकजातिसम्बन्धं नैकशिल्पसमाकुलम् ।
सर्व्वदैवतसम्बन्धं नगरन्त्वभिधीयते ॥”
इति विष्णुपुराणटीकार्या श्रीधरस्वामिधृतभृगु-
वचनम् ॥ * ॥
अन्यच्च ।
“नगरं सर्व्वतोभद्रं कर्त्तव्यं रोधकं हि वा ।
स्वस्तिकं मध्यगं कार्य्यं कुमारीपुरमेव वा ॥
चतुष्पथचतुर्युक्तं सर्व्वकामसुखावहम् ।
छिन्नकर्णं विनासञ्च दुःस्थितं कृशदुर्ब्बलम् ॥
नगरं न प्रशंसन्ति गर्त्तविद्धं विभेदितम् ।
अग्रतः स्वल्पप्रासादं छिन्नघ्राणं विदुर्बुधाः ॥
द्बिमुखं कर्णहीनन्तु कृशमध्यं कृशं विदुः ।
दुःस्थितं निम्नयाम्यन्तु नैरृतं धनदुर्ब्बलम् ॥
सौम्यं सर्व्वसुखाह्लादपूरितं वारुणं वशम् ।
याम्यमायुःप्रदं पूर्णनगरं प्रीतिवर्द्धनम् ॥
ईशवासवसंपूर्णं सर्व्वारोग्यसुखप्रदम् ।
मध्यञ्चतुष्पथोपेतं न च तं पीडयेत् क्वचित् ॥
ब्रह्मस्थानं हि तं विप्र शिवस्तत्र सदा स्थितः ।
चतुर्व्विंशतिनाड्यस्तु हस्तान्यष्टशतं परम् ॥
अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम् ।
अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् ॥
नगरार्द्धञ्च विष्कम्भं खेटं ग्रामं ततोऽर्द्धतः ।
नगराद्योजनं खेटं खेटाद्ग्रामोऽर्द्धयोजनः ॥
द्विक्रोशं परमा सीमा क्षेत्रसीमा चतुर्धनुः ।
त्रिंशद्धनूंषि विस्तीर्णो देशो मार्गस्तु तैः कृतः ॥
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ।
धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः ॥
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ।
धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ॥
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका ।
जङ्घापथश्चतुष्पादस्त्रिपादस्य गृहान्तरम् ॥
वृतीपादस्त्वर्द्धपादः प्राग्वंशपादकः स्मृतः ॥”
इति देवीपुराणम् ॥

नगरकीर्त्तनं, पुं, (नगरे कीर्त्तनं नगरपरिभ्रमणेन

हरिनामसंघोषणम् ।) नगरादिभ्रमणकरणक-
हरिसङ्कीर्त्तनम् । यथा, --
“नाचारो नाधिकारी च न स्थाननियमस्तथा ।
ग्रामे वा नगरे साधुर्व्वने वा कीर्त्तयेद्धरिम् ॥”
इति हरिनाममाहात्म्यम् ॥

नगरघातः, पुं, (नगरं हन्तीति । हन + अण् ।)

हस्ती । इति संक्षिप्तसारव्याकरणम् ॥

नगरी, स्त्री क्ली, (नगर + ङीष् ।) नगरम् ।

इत्यमरः । २ । १ । १ ॥ (यथा, महा-
भारते । १२ । ५ । ६ ।
“प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ ।
अङ्गेषु नरशार्द्दूल ! स राजासीत् सपत्नजित् ॥”)

नगरीवकः, पुं, (नगर्य्या वक इव ।) काकः । इति

त्रिकाण्डशेषः ॥

नगरोत्था, स्त्री, (नगरादुत्तिष्ठतीति । उत् + स्था

+ कः । टाप् ।) नगरमुस्ता । इति राज-
निर्घण्टः ॥

नगरौषधिः, स्त्री, (नगरजाता ओषधिः फल-

पाकान्तवृक्षः ।) कदली । इति शब्दचन्द्रिका ॥

नगाटनः, पुं, (नगे वृक्षे अटति भ्रमतीति । अट +

ल्युः ।) वानरः । इति त्रिकाण्डशेषः ॥ (पर्व्वत-
चारिणि, त्रि ॥)

नगाधिपः, पुं, (नगानां पर्व्वतानामधिपः ।)

हिमालयपर्व्वतः । इति जटाधरः ॥

नगाश्रयः, पुं, (नगः पर्व्वतः आश्रय उत्पत्ति-

स्थानं यस्य ।) हस्तिकन्दः । इति राजनिर्घण्टः ॥
नगवासिनि, त्रि ॥

नगौकाः, [स्] पुं, (नगो वृक्षः पर्व्वतो वा ओक

आश्रयस्थानं यस्य ।) पक्षी । इत्यमरः । २ ।
५ । ३३ ॥ सरभः । सिंहः । इति मेदिनी । से,
५६ ॥ काकः । इति शब्दचन्द्रिका ॥ नगर-
वासिनि, त्रि ॥

नग्नः, त्रि, (नजते स्मेति । ओ नज ह्नियि + अक-

र्म्मकत्वात् कर्त्तरि क्तः । “ओदितश्च ।” ८ । २ ।
४५ । इति निष्ठातस्य नः ।) विवस्त्रः । नेंटो
इति भाषा ॥ तत्पर्य्यायः । अवासाः २ दिगम्बरः
३ । इत्यमरः । ३ । १ । ३९ ॥ तथा च भृगुः ।
“विकक्षाऽनुत्तरीयश्च नग्नश्चावस्त्र एव वा ।
श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥
विकक्षः परिधानासंवृतकच्छः । तथा च योगि-
याज्ञवल्क्यः ।
“परिधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥”
स्मृतिः ।
“वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् ।
एभिः कक्षैः परीधत्ते यो विप्रः स शुचिःस्मृतः ॥”
बौधायनः ।
“नाभौ धृतञ्च यद्बस्त्रमाच्छादयति जानुनी ।
अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः ॥”
आचारचन्द्रिकायाम् ।
“द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च ।
एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः ॥”
इत्याह्निकतत्त्वम् ॥
“न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।
न च मूत्रं पुरीषं वा न वै संस्पृष्टमैथुनम् ॥
पृष्ठ २/८१८
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।
न गच्छेन्न पठेद्बापि न चैव स्वशिरः स्पृशेत् ॥”
इति कूर्म्मपुराणे उपरिभागे १५ अध्यायः ॥
पारिभाषिकनग्ना यथा, --
“येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् ।
ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम् ॥”
इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥
“ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर्द्विज ! ।
एतामुजझति यो मोहात् स नग्नः पातकी
स्मृतः ॥
यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।
परिव्राडपि मैत्रेय ! स नग्नः पापकृन्नरः ॥”
इति विष्णुपुराणे १८ अध्यायः ॥

नग्नः, पुं, (नज + क्तः । निष्ठातस्य नः ।) वन्दी ।

(यथा, नैषधे । १९ । २१ ।
“रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां
प्रियवचसि यन्नग्नाचार्य्या वदामतमां ततः ॥”)
क्षपणकः । इति विश्वमेदिन्यौ ॥ शेषस्य पर्य्यायः ।
नग्नाटकः २ निर्ग्रन्थकः ३ भदन्तः ४ दिगम्ब-
रकः ५ । इति हारावली । ११५ ॥

नग्नकः पुं, (नग्न एव । स्वार्थे कन् ।) नग्नः । नजते

लज्जते इति नग्नकः ओ नज डी ह्रियि इत्य-
स्मात् क्तः सुल्वाद्योदिदिति नः मनीषादित्वात्
जस्य गः स्वार्थे कः । इति व्याकरणम् ॥

नग्नजित्, पुं, राजविशेषः । स च श्रीकृष्णपत्न्या

नाग्नजित्या जनकः । यथा, श्रीभागवते । १० ।
५८ । २३ ।
“नग्नजिन्नाम कौशल्य आसीद्राजातिघार्म्मिकः ।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ! ॥”

नग्नहु, [ऊ] क्ली, (नग्नं ह्वयति स्पर्द्धते अनेनेति । ह्वे

+ करणे क्विप् ।) नग्नहूः । इति भरतधृतामर-
माला ॥ (बाहुलकात्कुप्रत्यये कृते पुंलिङ्गेऽपि
दृश्यते । यथा, वाजसनेयसंहितायाम् । १९ । १४ ।
“आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ॥”
“सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पली-
गजपिप्पलीवंशावकाबृहच्छत्राचित्रकेन्द्रवारुण्य-
श्वगन्धाधान्यकयवानीजीरकद्वयहरिद्राद्बयवि-
रूढयवव्रीहय एकीकृता नग्नहुः ॥” इति ।
१९ । १ । मन्त्रटीकायां वेददीपः ॥)

नग्नहूः, पुं, (नग्नं ह्वयति स्पर्द्धते येनेति । ह्वे +

क्विप् ।) नानाद्रव्यकृतसुराबीजम् । वाखर इति
ख्यातम् । इति भरतः ॥ तत्पर्य्यायः । क्विण्वम् २
इत्यमरः । २ । १० । ४२ ॥ कण्वम् ३ नग्नहु ४
इति तट्टीका ॥

नग्ना, स्त्री, (नग्न + टाप् ।) विवस्त्रा नारी । तत्-

पर्य्यायः । कोट्टवी २ कोटवी ३ नग्निका ४ नग्न-
योषित् ५ । इति शब्दरत्नावली ॥ (अनुद्भिन्न-
कुचा कन्या । यथा, पञ्चतन्त्रे । ३ । २१७ ।
“ऋतुमत्यान्तु तिष्ठन्त्यां स्वेच्छादानन्तु दीयते ।
तस्मादुद्वाहयेत् नग्नां मनुः स्वायम्भुवोऽब्रवीत् ॥”)

नग्नाटः, पुं, (नग्नः सन् अटतीति । अट् + अच् ।)

दिगम्बरः । इति हलायुधः ॥

नग्नाटकः, पुं, (नग्नाट एव । स्वार्थे कन् ।) दिग-

म्बरयोगी । इति हारावली । ११५ ॥

नग्निका, स्त्री, (नग्नैव । स्वार्थे कन् । टापि अत

इत्वम् ।) विवस्त्रा । तत्पर्य्यायः । कीट्टवी २
कोटवी ३ कोटरी ४ । अप्राप्तरजस्का । तत्-
पर्य्यायः । गौरी २ अनागतार्त्तवा ३ । इत्यमर-
स्तट्टीका च । गौरिका ४ । इति शब्दरत्नावली ॥
(अजातकुचा कन्या । यथा, पञ्चतन्त्रे । ३ ।
२१३ ।
“अव्यञ्जना भवेत् कन्या कुचहीना तु नग्निका ॥”)

नङ्गः, पुं, (नं नतिं गच्छतीति । गम + डः ।

बाहुलकात् मुम् ।) जारः । इति जटधरः ॥
नां इति भाषा ॥

नज, ओ ई ङ ह्रियि । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-सेट् । ईदित्वात् निष्ठाया-
मनिट् ।) ओ ई, नग्नः । ङ, नजते । ह्रियि
लज्जायाम् । इति दुर्गादासः ॥

नञ्, व्य, अभावसंज्ञकम् । समासे स्थितस्यास्य

स्थाने स्वरे परेऽन् व्यञ्जने परे अकारो विकल्पेन
भवति । यथा । अनन्तः नान्तः । अच्युतः
नच्युतः । अस्यार्थाः षट् । सादृश्यम् १ यथा
अब्राह्मणः ॥ अभावः २ यथा अपापम् ॥
अन्यत्वम् ३ यथा अघटः पटः ॥ अल्पत्वम् ४
यथा अनुदरी कन्या ॥ अप्राशस्त्यम् ५ यथा
अकेशी ॥ विरोधः ६ यथा असुरः । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥ यथा, मेदिनी ।
“नञभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे ।
ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः ॥”
नकारश्च ॥

नट, नृत्ये । हिंसे ! इति कविकल्पद्रुमः ॥ (भ्वां-

परं-नृत्ये अकं-हिंसे सकं-सेट् ।) नटति ।
इति दुर्गादासः ॥

नट, क भ्रंशे । त्विषि । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सेट् ।) भ्रंशोऽधःपतनम् ।
स्पन्दनार्थोऽयमिति रामः । क, नाटयति ।
इति दुर्गादासः ॥

नट, म नृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) म, प्रणटयति । इति दुर्गादासः ॥

नटः, पुं, (नमतीति । नम + “जनिदाच्युस्रिति ।”

उणां ४ । १०४ । इति डटः ।) श्योणाक-
वृक्षः । (नटति नृत्यतीति । नट + अच् । यद्वा,
नमतीति । नम + डटः) नर्त्तकः । नेटुया इति
भाषा । (यथा, देवीभागवते । १ । ७ । ४२ ।
“तं क्रीडसे निजविनिर्म्मितमोहजाले
नाट्यो यथा विहरते स्वकृते नटो वै ॥”)
तत्पर्य्यायः । शैलाली २ शैलूषः ३ जाया-
जीवः ४ कृशाश्वी ५ भरतः ६ । इत्यमरः । २ ।
१० । १२ ॥ सर्व्ववेशी ७ भरतपुत्त्रकः ८ धात्री-
पुत्त्रः ९ रङ्गजीबः १० रङ्गावतारकः ११ ।
इति हेमचन्द्रः । २ । २४२ ॥ अशोकवृक्षः ।
इति मेदिनी । टे, २० ॥ किष्कुपर्व्वा । इति
जटाधरः ॥ नल इति भाषा ॥ (मदनफलम् ।
तत्पर्य्यायो यथा, --
“मदनश्छर्द्दनः पिण्डी नटः पिण्डीतकस्तथा ।
करहाटो मरुवकः शल्यको विषपुष्पकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
अशोकः । अस्य पर्य्यायो यथा, --
“अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः ।
कङ्केलिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥”)
वर्णसङ्करजातिविशेषः । यथा, पराशरपद्धतौ ।
“शौचिक्यां शौण्डिकाज्जातो नटो वरुड एव च ।”
व्रात्यायां क्षत्त्रियाज्जातः । (यथा, मनुः । १० । २२ ।
“झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च ।
नटश्च करणश्चैव खसो द्रविड एव च ॥”
हनूमन्मते दीपकरागस्य रागिणी । अस्या
जातिः संपूर्णा । गृहं षड्जस्वरः । ग्रीष्मर्त्तौ
दिवसान्तो गानसमयः । रागमालायामस्याः
स्वरूपं रक्तवर्णा नारी नवयौवना सालङ्कृता
अश्वारूढा पुरुषवत् परिहितवस्रना निष्कोष-
करवालं धृत्वा शत्रूनाक्रममाणा । इति सङ्गीत-
शास्त्रम् ॥ नारदपुराणमते श्रीरागस्य पुत्त्रः ॥

नटनं, क्ली, (नट + भावे ल्युट् ।) नृत्यंम् । इत्य

मरः । १ । ७ । १० ॥ (यथा, पञ्चतन्त्रे । ३ । २३७ ।
“किं गाण्डीवस्फुरगुरुघनास्फालनक्रूरपाणि-
र्नासील्लीलानटनविलसन्मेखली सव्यसाची ॥”)

नटनारायणः, पुं, (नटानां नारायण इव ।)

रागविशेषः । हनूमन्मते मेघरागस्य तृतीय-
पुत्त्रः । भरतमते दीपकरागस्य तृतीयपुत्त्रः ।
सोमेश्वरमते कल्लिनाथमते च षड्रागाणां
शेषरागः । तस्य भार्य्याः षट् । यथा,
त्रोटकी १ त्रिभङ्गी २ पूर्ब्बी ३ गान्धारी ४
वराभा ५ स्रिन्धुमल्लारी ६ । सोमेश्वरमते तस्य
रागिण्यो यथा । कामदा १ कल्याणी २ आभीरी
३ नाटकी ४ सारङ्गी ५ नटहमीरी ६ । रागि-
णीभिः सहास्य हिमर्त्तौ गानसमयः । इति
सङ्गीतशास्त्रम् ॥

नटभूषणं, क्ली, (नटानां भूषणं मण्डनं यस्मात् ।)

हरितालम् । इति रत्नमाला ॥

नटमण्डनं, क्ली, (नटानां मण्डनं यस्मात् ।) हरि-

तालम् । इति हेमचन्द्रः । ४ । १२५ ॥

नटवरः, पुं, (नटेषु वरः श्रेष्ठः ।) नटश्रेष्ठः । यथा,

“वर्हापीडं नटवरवपुः कर्णयोः कर्णिकारम् ॥”
इति श्रीभागवतम् ॥

नटसंज्ञकः, पुं, (नटस्य संज्ञा संज्ञा यस्य । कप् ।)

गोदन्ताख्यहरितालम् । इति त्रिकाण्डशेषः ॥
(स्वार्थे कन्) नटश्च ॥

नटान्तिका, स्त्री, (अन्तयति नाशयतीति । अन्त +

ण्वुल् + टापि अत इत्वम् । नटस्य नटकार्य्यस्य
अन्तिका ।) लज्जा । इति हारावली । १५३ ॥

नटी, स्त्री, (नटति शोभते इति । नट् + अच् ।

ङीष् ।) नलीनामगन्धद्रव्यम् । इत्यमरः । २ । ४ ।
१२९ ॥ (नटति नृत्यतीति । नट् + अच् । ङीष् ।)
वेश्या । इति शब्दरत्नावली ॥ नटपत्नी च ॥
(यथा भागवते । ८ । ८ । १२ ।
पृष्ठ २/८१९
“जगुर्भद्राणि गन्धर्व्वा नट्यश्च ननृतुर्जगुः ॥”
इयं हि पञ्चमकारपूज्यकुलनायिकान्तर्गता ।
यथा, तन्त्रसारे ।
“नटी कापालिनी वेश्या रजकी नापिताङ्गना ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ।
मालाकारस्य कन्या च नव कन्याः प्रकी-
र्त्तिताः ॥”)

नटेश्वरः, पुं, (नटानामीश्वरः । नृत्यप्रियत्वात्

तथात्वम् ।) शिवः । इति हेमचन्द्रः । २ । ११२ ॥

नड, क भ्रंशे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) क, नाडयति । भ्रंशोऽधःपतनम् ।
इति दुर्गादासः ॥

नडः, पुं, (नलतीति । नल + अच् । लस्य डत्वम् ।)

नलतृणम् । इत्यमरः । २ । ४ । १६५ ॥ (यथा,
वेदे । ६ । १३८ । ५ ।
“यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ॥”)
जातिभेदः । इति पुंनपुंसकसंग्रहटीकायां मथु-
अथर्व्वरेशः ॥

नडकीयः, त्रि, (नडाः सन्त्यत्र । नड + “नडा-

दीनां कुक् च ।” ४ । २ । ९१ । इति छः
कुगागमश्च ।) नलसमूहदेशः । इति हेम-
चन्द्रः । ४ । २० ॥

नडप्रायः, त्रि, (नडः प्रायेण यत्र ।) नलबहुल-

देशः । तत्पर्य्यायः । नडकीयः २ नड्वान् ३
नड्वलः ४ । इति हेमचन्द्रः । ४ । २० ॥

नडमीनः, पुं, (नलस्थितो मीनः । लस्य डत्वम् ।)

चिलिचिममत्स्यः । नलमीन इत्यमरदर्शनात्
डलयोरैक्यम् ॥

नडसंहतिः, स्त्री, (नडानां संहतिः समूहः ।)

नडसमूहः । तत्पर्य्यायः । नड्या २ । इत्य-
मरः । २ । ५ । १६८ ॥ नडसञ्चयः ३ । इति
शब्दरत्नावली ॥

नडहः, त्रि, (नडं अपरिस्कृतस्थानं हन्तीति ।

हन + डः ।) कान्तः । ललितः । इति भूरि-
प्रयोगः ॥

नड्या, स्त्री, (नडानां समूहः । “पाशादिभ्यो

यः ।” ४ । २ । ४९ । इति यः ।) नडसमूहः ।
इत्यमरः । २ । ५ । १६८ ॥

नड्वलः, त्रि, (नडाः सन्त्यत्र । नड + “नड-

शादात् ड्वलच् ।” ४ । २ । ८८ । इति ड्वलच् ।)
नलबहुलदेशः । इत्यमरः । २ । १ । ९ ॥ (यथा,
रघुः । १८ । ५ ।
“यो नड्वलानीव गजः परेषां
बलान्यमृद्नान्नलिनाभबक्त्रः ॥”)

नड्वान्, [त्] त्रि, (नडाः सन्त्यत्र । नड + “कुमुद-

नडवेतसेभ्यो ड्मतुप् ।” ४ । २ । ८७ । इति
ड्मतुप् । डित्त्वात् टिलोपः । मस्य वः ।) नल-
बहुलदेशः । इत्यमरः । २ । १ । ९ ॥

नड्वाभूः, स्त्री, कुट्टिमः । इति भूरिप्रयोगः ॥

नतं, क्ली, (नम + क्तः ।) तगरपादी । तगर-

मूलम् । इति मेदिनी । ते, २९ ॥ (पर्य्यायो-
ऽस्य यथा, --
“कालानुशारिवावक्रं तगरं कुटिलं शठम् ।
महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

नतः, पुं, (नमति स्मेति । नम + क्तः ।) जन्म-

नाडिकाविशेषः । तद्यथा, --
“असकृत्कर्म्मणा येन यान्ति दृक्तुल्यतां दिवि ।
नतोन्नतौ ततः साध्यौ भावाः खेटबलानि षट् ॥
दिनार्द्धान्तरिता जन्मनाडिका नतनाडिका ।
पूर्ब्बापरार्द्धे जातस्य प्राक्पराख्या दिने भवेत् ॥
रात्रेर्गतघटीशेषघटीदिनार्द्धसंयुता ।
परपूर्ब्बाभिधा ज्ञेया रजन्यां नतनाडिका ॥”
इति कोंष्ठीप्रदीपः ॥

नतः, त्रि, (नम + क्तः ।) कुटिलः । नम्रः ।

इति मेदिनी । ते, २९ ॥ (यथा, हरिवंशे ।
२०१ । ३९ ।
“पतन्ति युगपत् सर्व्वे पादयोर्मूर्द्धभिर्नताः ॥”)

नतद्रुमः, पुं, (नतो द्रुमः ।) लताशालः । इति

रत्नमाला ॥

नतनासिकः, त्रि, (नता नासिका यस्य ।) अल्प-

नासिकायुक्तः । खाँदा इति भाषा । तत्-
पर्य्यायः । अवटीटः २ अवनाटः ३ अवभ्रटः ४ ।
इत्यमरः । २ । ६ । ४५ ॥

नताङ्गी, स्त्री, (नतमङ्गमस्याः । ङीष् ।) नारी ।

इति राजनिर्घण्टः ॥

नतिः, स्त्री, (नम + भावे क्तिन् ।) नमनम् ।

नम्रता । यथा, --
“नीतिर्भूमिभुजां नतिर्गुणवतां ह्रीरङ्गनानां धृति-
र्दम्प्यत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो
गिराम् ।
लावण्यं वपुषः स्मृतिः सुमनसः शान्तिर्द्बिजस्य
क्षमा
शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थं सतां मण्ड-
नम् ॥”
इति नवरत्नम् ॥
(नतिलक्षणादिकन्तु नमस्कारशब्दे द्रष्टव्यम् ॥)

नद, टु इ संवृधि । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) टु, नन्दथुः । इ, नन्द्यते ।
संवृधि आनन्दयुक्तभावे । ननन्द पारिप्लव-
नेत्रया नृपः । नन्दते च कुलं पुंसाम् । इति
गणकृतानित्यत्वात् । इति दुर्गादासः ॥

नदः, पुं, (नदति प्रवाहवेगेन शब्दायते इति ।

नद + अच ।) पुंवाचकाकृत्रिमखातावच्छिन्न-
जलप्रवाहः । (यथा, मनुः । ६ । ९० ।
“यथा नदीनदाः सर्व्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिनः सर्व्वे गृहस्थे यान्ति संस्थितिम् ॥”)
स च सिन्धुभैरवशोणदामोदरब्रह्मपुत्त्रादिः ।
तत्पर्य्यायः । पुनर्व्वहः २ भिद्यः ३ उद्यः ४
सरस्वान् ५ । इति हेमचन्द्रः । ४ । १५६ ॥
“अष्टषष्टिस्तु तीर्थानि नदाश्च दशकोटयः ॥”
इति पाद्मे भूखण्डे ८५ अध्यायः ॥

नदनुः, पुं, (नदतीति । नद + “अनुङ् नदेश्च ।”

उणां ३ । ५२ । इति अनुङ् ।) मेघः । इत्यु-
णादिकोषः ॥ (यथा ऋग्वेदे । ८ । २१ । १४ ।
“यदा कृणोषि नदनं समूहस्यादित् पितेव
हूयसे ॥”)
सिंहः । इति शब्दमाला ॥ (नद + भावे अनुङ् ।
शब्दः । यथा, ऋग्वेदे । ६ । १८ । २
“स युध्मः सत्वा खजकृत्समद्वा
तुविम्रक्षो नदनुमाँ ऋजीषी ॥”)

नदी, स्त्री, (नदतीति । नद + अच । पचादिगणे

नदट् इति निर्द्देशात् टिड्ढेडि ङीप् ।) अष्ट-
सहस्रधनुरन्यूनव्याप्ततोया । सा च गङ्गायमुना-
सरस्वतीकावेरीगोदावरीप्रभृतिः । तस्या लक्ष-
णमाह छन्दोगपरिशिष्टम् ।
“धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते ।
न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः ॥”
इति तिथितत्त्वम् ॥
तत्पर्य्यायः । सरित् २ तरङ्गिणी ३ शैवलिनी ४
तटिनी ५ ह्रदिनी ६ धुनी ७ स्रोतस्वती ८
द्वीपवती ९ स्रवन्ती १० निम्रगा ११ आपगा १२ ।
इत्यमरः । १ । १० । ३० ॥ ह्रादिनी १३ धुनिः १४
स्रोतस्विनी १५ स्रोतोवहा १६ सागरगामिनी १७
अपगा १८ । इति भरतः ॥ निर्झरिणी १९
सरस्वती २० समुद्रगा २१ कूलङ्कषा २२ कूल-
वती २३ शैवालिनी २४ सिन्धुः २५ समुद्र-
कान्ता २६ सागरगा २७ कृष्णा २८ रोधो-
वती २९ वाहिनी ३० । तज्जलगुणाः । स्वच्छ-
त्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् ।
रुच्यत्वम् । तृष्णापहत्वम् । पथ्यत्वम् । मधु-
रत्वम् । ईषदुष्णत्वञ्च ॥ * ॥
“सर्व्वा गुर्व्वी प्राङ्मुखी वाहिनी स्या-
ल्लघ्वी पश्चाद्वाहिनी निश्चयेन ।
देशे देशे तद्गुणा सा विशेषा-
न्नैषा धत्ते गौरवं लाघवञ्च ॥
प्रायो मृदुवहा गुर्व्वो लघ्व्यः शीघ्रवहाः स्मृताः ।
नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः ॥
हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् ॥
विन्ध्यात् प्राची प्राच्यवाची प्रतीची
या चोदीची स्यान्नदी सा क्रमेण ।
वातारोग्यं श्लेष्मपित्तार्त्तिलोपं
पित्तोद्रेकं पथ्यपाकञ्च धत्ते ॥
पारिपात्रभवा याश्च विन्ध्याख्यप्रभवाश्च याः ।
शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥”
इति राजनिर्घण्टः ॥
(यथा च ।
“तथा प्राच्यां गमाश्चान्याः पश्चिमानुगमास्तथा ।”
“ससैकता सपाषाणा द्बिविधा चाम्बुवाहिनी ।
एवं चतुर्व्विघा नद्यो वातपित्तकफात्मिकाः ॥
सदावहायास्त्वनवद्यमुष्णं
मरुत्कफानां शमनञ्च तस्याः ।
नीरं वसन्ते हितकृद्विशेषात्
नदीभवं नैव हिमागमे च ॥
घनविमलशिलानां स्फालनाज्जातफेनं
बहुलसजलवीचिच्छन्नसंक्षोभदृप्तम् ।
पृष्ठ २/८२०
ननु लघु च सुशीतं नैव चोष्णं घनञ्च
हरति पवनपित्तं श्लेष्मकृद्वारि सम्यक् ॥
इति पाषाणनदीवारिगुणाः ॥ * ॥
सुघनविमलतोयं सैकतायाः प्रवाहं
न च भवति लघुत्वं श्लेष्मकृद्धन्ति पित्तम् ।
भवति मधुरमेवं किञ्चिदुष्णं कषायं
भवति च सुखकृत्तच्छोषमूर्च्छां निहन्ति ॥
इति सबातुकानदीवारिगुणाः ॥ * ॥
हिमवत्प्रभवा नद्यः पुण्या देवर्षिसेविताः ।
घनपाषाणसिकतावाहिन्यो विमलोदकाः ॥
हन्ति वातकफं तोयं श्रमशोषविनाशनम् ।
किञ्चित् करोति वा पित्तं त्रिदोषशमनञ्जलम् ॥
मलयप्रभवा नद्यः शीततोयामृतोपमाः ।
हन्ति वातञ्च पित्तञ्च भ्रमशोषश्रमापहम् ॥
गङ्गा सरस्वती शोनं यमुना सरयूः सची ।
वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥
हिमवत्प्रभवा ह्येता हिमसम्भवशीतलाः ।
समाः सर्व्वगुणैर्नद्यो वातश्लेष्महरा नृणाम् ॥
आसां नवशतैर्युक्ता गङ्गा पूर्ब्बसमुद्रगा ।
तथा चर्म्मन्वती वेत्रवती पारावती तथा ॥
सिप्रा महाप्रदीप्ता च ऋषिकुल्या पयस्विनी ।
शेवन्ती शैवलिन्यश्च सिन्धुयुक्ताः समुद्रगाः ॥
वातपित्तहरं नीरं त्रिदोषघ्नमतःपरम् ।
श्रमम्लानिहरं वृष्यं उत्तराशानुगामिनी ॥
इति नद्य उत्तरानुगाः ॥ * ॥
तापी तापा च गोलोमी गोमती शालिता मही ।
सरस्वतीयुता नद्यो नर्म्मदा पश्चिमानुगाः ॥
आसां जलं घनं शीतं पित्तघ्नं कफकृत्तथा ।
वातदोषहरं हृद्यं कण्डूकुष्ठविनाशनम् ॥
पश्चिमाद्रिसमुद्भूता गौतमी पुण्यभावना ।
अस्याः शीतं जलं वापि कफवातविकारकृत् ॥
पित्तप्रशमनं बल्यं मूत्रदोषविकारकृत् ।
पुण्या पयस्विनी वेता प्रणीता च वरानना ॥
द्रोणा गोवर्द्धनी चान्या गौतम्यानुगता इमाः ।
आसां जलं घनं नातिवातश्लेष्मविकारकृत् ॥
पूर्ब्बसागरगाश्चैव नद्यो नवशतैर्युताः ॥
कावेरी वीरकान्ता च भीमा चैव पयोष्णिका ।
विभावरी विशाला च गौरीदा मदनस्वसा ॥
पार्व्वती चापरा नद्यो दक्षिणाद्रिगमा हिमाः ।
प्रत्येकशो न सेवेत युक्तायाश्च पृथक् पृथक् ॥
सर्व्वासां परिसङ्ख्या च शतानाञ्चैकविंशतिः ।
क्रोशं क्रोशं भवेत् कुल्या योजने योजने नदी ॥
योजनद्दयतो ज्ञेया महानीरा बुधैर्नदी ॥”
इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥
“पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः ।
पथ्याः समासात्ता नद्यो विपरीतास्त्वतोऽन्यथा ।
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ॥
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः ।
कृमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्व्वते ॥
प्रच्यावन्त्या परान्तोत्था दुर्नामानिमतेन्द्रजाः ।
उदरश्लीपदातङ्कान् सह्यविन्ध्योद्भवाः पुनः ॥
कुष्ठपाण्डुशिरोरोगान् दोषघ्नाः पारिपात्रजाः ।
बलपौरुषकारिण्यः -- ॥”
इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये ॥
“तत्र नद्यः पश्चिमाभिमुखाः पथ्या लघूदकत्वात् ।
पूर्ब्बाभिमुखास्तु न प्रशस्यन्ते गुरूदकत्वात् ।
दक्षिणाभिमुखा नातिदोषलाः साधारणत्वात् ।”
“प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः ।
ईषत्कषाया मधुरा लघुपाका बले हिताः ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥
“वसुधा कीटसर्पाखुमलसन्दूषितोदकाः ।
वर्षाजलवहा नद्यः सर्व्वदोषसमीरणाः ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)
भारतवर्षे नद्यो यथा । गङ्गा सिन्धुः सरस्वती
शतद्रुः वितस्ता विपाशा चन्द्रभागा सरयूः
यमुना रावती देविका कुहूः गोमती धूत-
पापा बाहुदा दृषद्वती कौशिकी निस्वीरा
गण्डकी चक्षुष्मती लोहिता । इत्येता हिमवत्-
पादनिर्गताः ॥ वेदस्मृती वेदवती सिन्धुः अपर्णा
चन्दना सदाचरा रोहिपारा चर्म्मण्वती
विदिशा वेत्रवती वयन्ती । इत्येताः पारिपात्रो-
द्भवाः ॥ शोणा ज्योतीरथा नर्म्मदा सुरसा
मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला
करतोया पिशाचिका चित्रोत्पला विशाला
वञ्जुका बालुका वाहिनी भुक्तिमती विरजा
पङ्किनी रिवी । इत्येता ऋक्षप्रसूताः ॥ मणि-
जाला शुभा तापी पयोष्णी शीघ्रोदा वेष्णा
पाशा वैतरणी वेदी पाला कुमुद्बती तोया दुर्गा
अन्त्या गिरा । एता विन्ध्यपादोद्भवाः ॥ गोदा-
वरी भीमरथी कृष्णा वेणा वञ्जुला तुङ्गभद्रा
सुप्रयोगा ब्रह्मकावेरी शतमाला ताम्रपर्णी
पुष्यावती उत्पलावती । इत्येता मलयजाः ॥
त्रियामा ऋषिकुल्या इक्षुरा त्रिविदाला मूलिनी
वंशवरा महेन्द्रतनया ऋषिका लुषती मन्द-
गामिनी पलाशिनी । इत्येताः शुक्तिमत्प्रभवाः ।
एताः प्राधान्येन कुलपर्व्वतनद्यः । शेषाः क्षुद्र-
नद्यः । इति वराहपुराणम् ॥ * ॥
“कैलासपादसम्भूतं पुण्यं शीतजलं शुभम् ।
मन्दोदकं नाम सरः पयस्तु दधिसन्निभम् ॥
तस्मात् प्रभवते दिव्या नदी मन्दाकिनी शुभा ।
दिव्यञ्च चन्दनन्तत्र तस्यास्तीरे महद्वनम् ॥
प्रागुत्तरेण कैलासात् दिव्यं सौगन्धिकं गिरिम् ।
सर्व्वधातुमयं दिव्यं शवलं पर्व्वतं प्रति ॥
चन्द्रप्रभो नाम गिरिः सशुक्रो रत्नसन्निभः ।
तत्समीपे सरो दिव्यमच्छोदन्नाम विश्रुतम् ॥
तस्मात् प्रभवते दिव्या नदी ह्यच्छोदका शुभा ।
तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् ॥
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ।
यक्षः सेनापति क्रूरैर्गुह्यकैः परिवारितः ॥
पुण्या मन्दाकिनी चैव नदी ह्यच्छोदका शुभा ।
महीमण्डलमध्ये तु प्रविष्टे ते महोदधिम् ॥
कैलासाद्दक्षिणप्राच्यां शिवं सर्व्वौषधिं गिरिम्
मनःशिलामयं दिव्यं शवलं पर्व्वतं प्रति ॥
लोहितो हेमशृङ्गस्तु गिरिः सूर्य्यप्रभो महान् ।
तस्य पादे महद्दिव्यं लोहितं सुमहत् सरः ॥
तस्मात् प्रभवते पुण्यो लोहितश्च नदो महान् ।
देवारण्यं विशोकञ्च तस्य तीरे महद्वनम् ॥
तस्मिन् गिरौ निवसति यक्षो मणिधरो बली ।
सौम्यैः सधार्म्मिकैश्चैव गुह्यकैः परिवारितः ॥
कैलासात् पश्चिमोदीच्यां ककुद्मानोषधीगिरिः ।
ककुद्मति च रुद्रस्य उत्पत्तिस्त्रिककुद्मतः ॥
तदञ्जनन्त्रैककुदं शैलं त्रिककुदं प्रति ।
सर्व्वधातुमयस्तत्र सुमहद्बैद्युतो गिरिः ॥
तस्य पादे महद्द्विव्यं मानसं सिद्धसेवितम् ।
यस्मात् प्रभवते पुण्या सरयूर्लोकपावनी ॥
कैलासात् पश्चिमामाशां दिव्यः सर्व्वौषधिर्गिरिः ।
अरुणः पर्व्वतश्रेष्ठो रुक्मधातुविभूषितः ॥
भवस्य दयितः श्रीमान् पर्व्वतो हेमसन्निभः ।
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ॥
तस्य पादात् प्रभवति शैलोदं नाम तत् सरः ।
तस्मात् प्रभवते पुण्या नदी शैलोदका शुभा ॥
सा वङ्क्षुशीतयोर्म्मध्ये प्रविष्टा पश्चिमोदधिम् ।
अभ्युत्तरेण कैलासं शिवं सर्व्वौषधिं गिरिम् ॥
गौरन्तु पर्व्वतश्रेष्ठं हरितालमयं प्रति ।
हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः ॥
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ।
तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता ॥
सोमपादात् प्रसूता सा सप्तधा प्रतिभज्यते ।
भवस्य साङ्गे पतिता संरुद्धा योगमायया ॥
ततो विसर्ज्जयामास सप्त स्रोतांसि गङ्गया ।
त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव च ॥
स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा ।
नलिनी ह्रादिनी चैव पावनी चैव प्राच्यगा ॥
शीता वङ्क्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगा ।
सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् ॥
तस्माद्भागीरथी सापि प्रविष्टा दक्षिणोदधिम् ।
सप्तैताः प्लावयन्ति स्म वर्षन्तद्धिममाह्वयम् ॥
प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः ।
तान् देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्व्वशः ॥
सलिलान् कुस्तुरांश्चीनान् वर्व्वरान् यवनान्
खशान् ।
सूत्कुलांश्च कुलत्थांश्च अङ्गलौक्यावरांश्च यान् ॥
कृत्वा द्बिधा हिमवन्तं प्रविष्टा दक्षिणीदधिम् ।
अथ चीनमरूंश्चैव कालकांश्चैव चूलकान् ॥
तुषारान् वर्व्वरान् कारान् पह्लवान् पारदान्
शकान् ।
एतान् जनपदान् वङ्क्षः प्लावयन्त्युदधिं गता ॥
वरदान् कूटजांश्चैव गान्धारानौरसान् कुहून् ।
शिवसौरानिन्द्रमरून् वसातीन् समतेजसा ॥
सैन्धवारट्टकावेरान् कुपथान् भीमरौरुकान् ।
शुनामुखांश्चोर्द्धमरून् सिन्धुरेतान्निषेवते ॥
गन्धर्व्वान् किन्नरान् यक्षान् रक्षोविद्याधरो-
रगान् ।
कलापग्रामकांश्चैव तथा किंपुरुषान्नरान् ॥
पृष्ठ २/८२१
किरातांश्च पुलिन्दांश्च कुरून् वै भरतानपि ।
पाञ्चालकौशिकान् मत्स्यान्मागधाङ्गांस्तथैव च ॥
ब्रह्मोत्तरांश्च वङ्गांश्च तामलिप्तांस्तथैव च ।
एतान् जनपदानार्य्यान् गङ्गा तारयते शुभा ॥
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम् ।
ततस्तु ह्रादिनी पुण्या प्राचीमभिमुखा ययौ ॥
प्लावयन्त्यपकांश्चैव निषादानपि सर्व्वशः ।
धीवरानृषिकांश्चैव तथा लीनमुखानपि ॥
केकरानेकवर्णांश्च किरातानपि चैव हि ।
कालन्दरान् विवर्णांश्च कुशिकान् स्वर्गभूमिकान् ॥
सा मण्डले समुद्रस्य तिरोभूत्वा तु सर्व्वशः ।
ततस्तु पावनी चैव प्राचीमेव दिशं ययौ ॥
कुपथान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि ।
तथा खरपदान् देशान् वेत्रशङ्कुपथानपि ॥
मध्ये चोज्जानकमरून् कुथप्रावरणानपि ।
इन्द्रद्वीपात् समुद्रं सा प्रविष्टा लवणोदधिम् ॥
ततस्तु पावनी प्रायात् प्राचीमाशां जवेन तु ।
तोमरान् प्लावयन्ती सा हंसमार्गान् समृद्धकान् ॥
पूर्णान् दर्भांश्च सेवन्ती भित्त्वा सा बहुधा
गिरिम् ।
कर्णप्रावरणान् प्राप्य गता साश्वमुखानपि ॥
सिकतापर्व्वतमरून् गत्वा विद्याधरान् ययौ ।
वामिमण्डलकोष्ठन्तु सा प्रविष्टा महत् सरः ॥
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ।
उपगच्छन्ति ता नद्यो यतो वर्षति वासवः ॥
हेमकूटस्य पृष्ठे तु सर्पाणामुत्सवः स्मृतः ।
सरस्वती प्रभवति तस्मात् ज्योतिष्मती तु या ॥
अवगाहेतोभयतः समुद्रौ पूर्ब्बपश्चिमौ ।
सरो विष्णुपदं नाम निषधे पर्व्वतोत्तमे ॥
तस्मात् द्बयं प्रभवति गन्धर्व्वी नकुला च तें ।
मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥
जम्बुश्चैव नदी पुण्या यस्यां जाम्बुनदं स्मृतम् ।
पयोदस्तु ह्रदो नीलः स शुभः पुण्डरीकवान् ॥
पुण्डरीका पयोदा च तस्माद्वै संप्रसूयते ।
सरस्तु सरसश्चैव स्मृतमुत्तरमानसम् ॥
मृग्या च मृगकान्ता च तस्माद्व संप्रसूयते ।
ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः ॥
नाम्ना ते विजया नाम द्वादशोदधिसन्निभाः ।
तेभ्यः शान्ता च माध्वी च द्वे नद्यौ संप्रसू-
यतः ॥”
इति मत्स्यपुराणे १०१ अध्यायः ॥ * ॥
अथ सिप्रादिसप्तनद्युत्पत्तिकारणम् ।
“एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।
अरुन्धती वशिष्ठस्तु मोदमाप तया सह ॥
तत्र यत् पतितं तोयं मानसाचलकन्दरे ।
विवाहावभृथार्थाय शान्त्यर्थं वसुधाकृतम् ॥
ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ॥
हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् ।
तत्तोयं पतितं सिप्रे देवभोग्ये सरोवरे ॥
तेन सिप्रा नदी जाता विष्णुना प्रेरिता क्षितिम् ।
महाकोषीप्रपाते च यद्वारि पतितन्तु तैः ॥
कौषिकी नाम सा जाता विश्वामित्रावतारिता ।
उमाक्षेत्रे यत् षतितं तोयं तेन महानदी ॥
कावेरी नाम सा जाता तदा कावेरसंसृता ।
महाकाले सरःश्रेष्ठे पतितं तज्जलं गिरेः ॥
हिमाद्रेः पार्श्वभागे तु दक्षिणे शम्भुसन्निधौ ।
गोमन्ति नाम तैर्ज्जाता नदी गोमत्युदीरिता ॥
मैनाको नाम यः पुत्त्रः शैलराजस्य च प्रियः ।
यस्तु तस्मिन् समुत्पन्नो मेनकोदरतः पुरा ॥
तत्तत्र पतितं तोयं तस्माज्जाता महानदी ।
देविकाख्या महादेवप्रेरिता सागरं प्रति ॥
तत्तोयं सङ्गतं कुर्य्याद्धंसा वडवसन्निधौ ।
तेनाभूत् सरयूर्न्नाम्ना नदी पुण्यतमा शुभा ॥
यान्यम्भांसि महापार्श्वे खाण्डवारण्यसन्निधौ ।
हिमवत्कन्दरे याम्ये इरावद्ध्रदमन्यतः ।
इरावती नाम नदी तैस्तु जाता सरिद्वरा ॥
एताः सर्व्वाः स्नानपानात् स्मरणैर्ज्जाह्नवी
यथा ।
फलं ददति मर्त्यानां दक्षिणोदधिगाः सदा ॥
धर्म्मार्थकाममोक्षाणां बीजभूताः सनातनाः ।
महानद्यस्तु सप्तैताः सर्व्वदा देवभोगदाः ॥
एवं नद्यः सप्त जाताः सदा पुण्यतमोदकाः ।
अरुन्धत्या वशिष्ठस्य विवाहे देवसन्निधौ ॥”
इति कालिकापुराणे २३ अध्यायः ॥ * ॥
नद्यादीनां रूपद्वयं यथा, --
“नद्यश्च पर्व्वताः सर्व्वे द्विरूपाश्च स्वभावतः ।
तोयं नदीनां रूपन्तु शरीरमपरन्तथा ॥
स्थावरं पर्व्वतानान्तु रूपं कायस्तथापरः ।
शुक्तीनामथ कम्बूनां तथैवान्तर्गता तनूः ॥
बहिरस्थिस्वरूपन्तु सर्व्वदैव प्रवर्त्तते ।
एवं जलं स्थावरश्च नदीपर्व्वतयोस्तथा ॥
अन्तर्व्वसति कायस्तु सततं नोपपद्यते ।
आप्याय्यते स्थावरेण शरीरं पर्व्वतस्य तु ॥
तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा ।
नदीनां कामरूपित्वं पर्व्वतानान्तथैव च ।
जगत्स्थित्य पुरा विष्णुः कल्पयामास यत्नतः ॥
तोयहानौ नदीदुःखं जायते सततं द्विजाः ।
विशीर्णे स्थावरे दुःखं जायते गिरिकायगम् ॥”
इति कालिकापुराणे २२ अध्यायः ॥
तस्या वैदिकपर्य्यायः । अवनयः १ यह्व्य २
खाः ३ सीराः ४ स्रोत्याः ५ एन्यः ६ धुनयः ७
रुजानाः ८ वक्षणाः ९ स्वादोअर्णाः १० रोध-
चक्राः ११ हरितः १२ सरितः १३ अग्रुवः १४
नभन्वः १५ वध्वः १६ हिरण्यवर्णाः १७
रोहितः १८ ससुतः १९ अर्णाः २० सिन्धवः २१
कुल्याः २२ वर्य्यः २३ उर्व्व्यः २४ इरावत्यः २५
पार्वत्यः २६ स्रवन्त्यः २७ ऊर्ज्जस्वत्यः २८
पयस्वत्यः २९ सरस्वत्यः ३० तरस्वत्यः ३१ हर-
स्वत्यः ३२ रोधस्वत्यः ३३ भास्वत्यः ३४ अजिराः ३५
मातरः ३६ नद्यः ३७ । इति सप्तत्रिंशन्नदी-
नामानि । इति वेदनिघण्टौ । १ । १३ ॥
(चतुर्द्दशाक्षरवृत्तिविशेषः । तल्लक्षणं यथा, --
“ननतजगुरुगैः सप्तयतिर्नदी स्यात् ॥”)

नदीकदम्बः, पुं, (नदीनां कदम्बं समूहो यत्र ।)

महाश्रावणिका । इति राजनिर्घण्टः ॥ (नदीनां
कदम्बम् ।) नदीसमूहे, क्ली ॥

नदीकान्तः, पुं, (नदीनां कान्तः पतिः ।) समुद्रः ।

(नदी कान्ता प्रिया यस्य ।) हिज्जलवृक्षः ।
सिन्धुवारकः । इति मेदिनी । ते, २०० ॥

नदीकान्ता, स्त्री, (नदी कान्ता यस्याः ।) जम्बु-

वृक्षः । काकजङ्घौषधिः । इति मेदिनी । ते,
२०१ ॥ (अस्याः पर्य्यायो यथा, --
“काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा ।
पारावतपदी दासी काका चापि प्रकीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
लता । इति हेमचन्द्रः ॥

नदीकूलप्रियः, पुं, (नदीकूलं प्रियं यस्य । नदी-

कूलजातत्वादस्य तथात्वम् ।) जलबेतसः । इति
जटाधरः ॥

नदीजं, क्ली, (नद्या जायते इति । जन + डः ।)

स्रोतोऽञ्जनम् । इति हेमचन्द्रः ॥ (अस्य
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“स्रोतोऽञ्जनं नदीजञ्च कृष्णं स्रोतोजलाञ्जनम् ॥”)

नदीजः, पुं, (नद्या जायते इति । जन + डः ।)

अज्जुनवृक्षः । इति रत्नमाला ॥ (अस्य पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“धन्वी धनञ्जयः पार्थो नदीजः ककुभोऽर्ज्जुनः ॥”)
यावनालशरः । हिज्जलवृक्षः । इति राज-
निर्घण्टः ॥ (विटमाक्षिकः । इति हेमचन्द्रः ।
४ । १२१ ॥ यथा, सुश्रुते उत्तरतन्त्रे । १७ ।
“नदीजशिम्बीकटुकान्यथाञ्जनं
मनःशिला द्वे च निशे यकृद्रसे ॥”
नृपतिविशेषः । यथा, महाभारते । ५ । ४ । १९ ।
“सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ॥”
भीष्मः । गङ्गागर्भजातत्वात् तथात्वम् । यथा,
तत्रैव । ५ । १४८ । ३२ ।
“अयन्तु धर्म्मज्ञतया महात्मा
न राज्यकामो नृवरो नदीजः ॥”)
नदीजाते, त्रि ॥ (यथा, महाभारते । ७ । १०२ । ८ ।
“पार्व्वतीयैर्नदीजैश्च सैन्धवैश्च महाहयैः ॥”)

नदीजा, स्त्री, (नद्या जायते या सा । जन +

डः + टाप् ।) अग्निमन्थवृक्षः । इति राज-
निर्घण्टः ॥

नदीतरस्थानं, क्ली, (नद्यास्तरस्थानमवतरण-

स्थलम् ।) घट्टः । इति भूरिप्रयोगः ॥ (नद्या
इतरस्थानम् ।) नदीभिन्नस्थानम् ॥

नदीनः, पुं, (नदीनां इनः पतिः ।) समुद्रः ।

इति त्रिकाण्डशेषः ॥ वरुणः । यथा । अयं
नदीन इत्याद्युत्तरनैषधः ॥ (अनेनोवंशीयस्य
सहदेवस्य पुत्त्रः । यथा, हरिवंशे । २९ । ४ ।
“सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य सत्कृतिः ॥”
न दीनः इति नञ्समासे दरिद्रभिन्ने, त्रि ॥)

नदीनिष्पावः, पुं, (नदीसम्मुखजातो निष्पावः ।)

धान्यभेदः । तत्पर्य्यायः । कटनिष्पावः २ कर्वुरः ३
पृष्ठ २/८२२
नदीजः ४ । अस्य गुणाः । तिक्तत्वम् । कटु-
त्वम् । अस्रप्रदत्वम् । गुरुत्वम् । वातलत्वम् ।
कफदत्वम् । रूक्षत्वम् । काषायत्वम् । विषदोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

नदीमातृकः, त्रि, (नदी मातेव पोषिका यस्य ।

कप् ।) नद्यम्बुसम्पन्नव्रीहिपालितदेशः । इत्य-
मरः । २ । १ । १२ ॥

नदीवङ्कः, पुं, (नद्या वङ्कः ।) वङ्कुरः । इति शब्द

माला ॥ वाँक इति भाषा ॥

नदीवटः, पुं, (नदीसमीपजातो वटः ।) वटी-

वृक्षः । इति राजनिर्घण्टः ॥

नदीष्णः, त्रि, (नद्यां स्नातीति । स्ना + “सुपि

स्थः ।” ३ । २ । ४ । इति कः । “निनदीभ्यां स्नातेः
कौशले ।” ८ । ३ । ८९ । इति षत्वम् ।) नद्य-
वगाहनदक्षः । नदीस्नानकुशलः । इति भट्टि-
टीकायां पुण्डरीकाक्षः ॥ नदीज्ञः । इति
पुरुषोत्तमः ॥ यथा, --
“ततो नदीष्णान् पथिकान् गिरिज्ञान् ॥”
इति भट्टिः ॥

नदीसर्ज्जः, पुं, (नद्याः सर्ज्ज इव । नदीतीरजात-

त्वादस्य तथात्वम् ।) अर्ज्जुनवृक्षः । इत्यमरः ।
२ । ४ । ४५ ॥ (पर्य्यायोऽस्य यथा, --
“ककुभोऽर्ज्जुननामाख्यो नदीसर्ज्जश्च कीर्त्तितः ।
इन्द्रद्रुर्नीरवृक्षश्च वीरश्च घवलः स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नदेयी, स्त्री, (नद्यां भवा । “नद्यादिभ्यो ढक् ।”

४ । २ । ९७ । इति ढक् । पृषोदरादित्वात् ह्रस्वः ।)
नादेयी । भूमिजम्बुः । इति शब्दचन्द्रिका ॥

नद्धः, त्रि, (नह्यते स्मेति । नह + क्तः ।) बद्धः ।

(यथा, हरिवंशे । २३२ । १७ ।
“दिव्यैश्च कवचैर्नद्धा दिव्यैश्चैवोच्छ्रितैर्ध्वजैः ॥”)
उद्वृत्तः । इति मेदिनी । धे, ९ ॥

नद्ध्री, स्त्री, (नह्यतेऽनया । नह + दाम्नीति ष्ट्रन् ।

ततो ङीप् ।) चर्म्मरज्जुः । इत्यमरः । २ । १० । ३२ ॥
(यथा, प्रद्युम्नविजये चतुर्थाङ्के ।
“अत्रापि धिग्जनुषि पुत्त्रकलत्रमित्र-
नद्ध्यावनद्धहृदयो न च तं स्मरामि ॥”)

नद्याम्रः, पुं, (नद्या आम्र इव ।) समष्ठिला-

वृक्षः । इति राजनिर्घण्टः ॥

नद्युत्सृष्टः, त्रि, (नद्या उत्सृष्टः ।) नदीकर्त्तृक-

त्यक्तवस्तु । तद्रूपभूखण्डस्य चर इति चडा
इति च भाषा ॥ नद्युत्सृष्टा भूमिस्तु यस्याघि-
कारे जाता तस्यैव भवति । यथा, --
“नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा न भवेल्लाभो नराणां राजदैविकः ॥
क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम् ।
तस्मात् सर्व्वेषु कार्य्येषु तत्कृतं न विचालयेत् ॥”
इति विवादचिन्तामणिविवादरत्नाकरवीर-
मित्रोदयप्रभृतिग्रन्थधृतवचनम् ॥

ननन्दा, [ऋ] स्त्री, (न नन्दति तुष्यति सेव

यापि । नञ् + नन्द + “नञि च नन्देः ।” उणां
२ । ९९ । इति ऋन् । केषाञ्चिन्मतेन वृद्ध्य-
भावः ।) भर्तृभगिबी । ननद इति भाषा ॥
तत्पर्य्यायः । ननान्दा २ नन्दिनी ३ नन्दा ४
पतिस्वसा ५ । इति शब्दरत्नावली ॥

ननान्दा, [ऋ] स्त्री, (न नन्दति सवयापि ।

नन्द + “नञि च नन्देः ।” उणां २ । ९९ । इति
ऋन् वृद्धिश्च ।) ननन्दा । इति शब्दरत्नावली ॥
(यथा, ऋग्वेदे । १० । ८५ । ४६ ।
“सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥”)

ननु, व्य, (न नुदति प्रेरयतीति । नुद् + मितद्र्वादि-

त्वात् डुः ।) प्रश्नः । पृच्छा । अवधारणम् ।
(यथा, रघुः । १ । ६० ।
“उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणाञ्च प्रतिहर्त्ता त्वमापदाम् ॥”)
निश्चयः । (यथा, महाभारते । १३ । ६ । १९ ।
“लोको दैवं समालोक्य उदासीनो भवेन्ननु ॥”)
अनुज्ञा । (यथा, शिशुपालवघे । ९ । ६१ ।
“ननु सन्दिशेति सुदृशोदितया
त्रपया न किञ्चन किलाभिदधे ॥”)
अनुमतिः । अनुनयः । सान्त्वनम् । आमन्त्र-
णम् । सम्बोधनम् । (यथा, कुमारे । ४ । ३२ ।
“विधुरां ज्वलनातिसर्ज्जनात्
ननु मां प्रापय पत्युरन्तिकम् ॥”)
एषामुदाहरणानि यथा, --
“प्रश्ने नन्वध्येष्यामहे । अवधारणे ननु गच्छामः ।
अनुज्ञायां सर्व्वैर्ननु ज्ञायताम् । अनुनये ननु
चण्डि ! प्रसीद । आमन्त्रणे ननु चैत्र । विरो-
धोक्तिः । इत्यमरभरतौ ॥ विनिग्रहः । अनु-
प्रश्नः । परकृतिः । अधिकारः । सम्भ्रमः । इति
मेदिनी । ने, ४४ ॥ आक्षेपः । प्रत्युक्तिः । वाक्या-
रम्भः । इति हेमचन्द्रः । ६ । १७८ ॥ उत्-
प्रेक्षालङ्कारव्यञ्जकम् । यथा, --
“मन्ये शङ्के ध्रुवं नूनं किंवा प्रायोऽनुवेद्मि च ।
ननु नाम हि जानामि उत्प्रेक्षाव्यञ्जकानि च ॥”
इति काव्यचन्द्रिका ॥

ननुच, व्य, विरोधोक्तिः । इत्यमरः । ३ । ४ । १४ ॥

ननुचेति समुदितं विरोधवचने ननुशब्दो विरो-
धोक्तौ चकारात् ननुचेति वा । इति भरतः ॥

नन्दः, पुं, (नन्दतीति । नन्द + पचाद्यच् ।)

विष्णुः । यथा । “आनन्दो नन्दनो नन्दः ।” इति
महाभारते । १३ । १४९ । ६९ ॥ नरपतिभेदः ।
स तु महानन्दिसुतः क्षत्त्रियवंशान्तः । (यथा,
भागवते । १२ । १ । ७ -- ११ ।
“महानन्दिसुतो राजन् ! शूद्रागर्भोद्भवो बली ।
महापद्मपतिः कश्चिन्नन्दः क्षत्त्रविनाशकृत् ।
ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्म्मिकाः ॥
स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः ।
शासिष्यति महापद्गो द्वितीय इव भार्गवः ॥
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः ।
य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः ॥
नव नन्दान् द्विजः कश्चित् प्रपन्नाबुद्धरिष्यति ।
तेषामभावे जगतीं मौर्य्या भक्ष्यन्ति वै कलौ ॥”)
आनन्दः । निधिविशेषः । इति पुराणशब्द-
रत्नावल्यौ ॥ गोपभेदः । स च श्रीकृष्णपिता ।
नन्दः पुरा द्रोणनामा वसुरासीत् । यथा, --
“द्रोणो वसूनां प्रवरो धरया सह भार्य्यया ।
करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥
जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात् परमा लोको ययाञ्जो दुर्गतिन्तरेत् ॥
स्वस्तीत्युक्तः स भगवान् व्रजे द्रोणो महायशाः ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥”
इति श्रीभागवते । १० । ८ । ४८-५० ॥
वेणुविशेषः । यथा, --
“महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा ।
चत्वार उत्तमा वंशा मातङ्गमुनिसम्मताः ॥
दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ॥”
इति सङ्गीतदामोदरः ॥
(मृदङ्गविशेषः । यथा, महाभारते । ७ । २२ । ८५ ।
“मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ ॥”
स्कन्दस्यानुचरविशेषः । इति महाभारते । ९ ।
४५ । ६१ ॥ नागविशेषः । इति महाभारते ।
५ । १०३ । १२ ॥ यज्ञेश्वरस्यानुचरविशेषः ।
यथा, भागवते । ४ । ७ । २२ ।
“दक्षो गृहीतार्हणसादनोत्तमं
यज्ञेश्वरं विश्वसृजां परं गुरुम् ।
सुनन्दनन्दाद्यनुगैर्वृतं मुदा
गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥”
धृतराष्ट्रस्य पुत्त्राणामन्यतमः । इति महा-
मारतम् । १ । ६७ । ९६ । मदिरागर्भजातो
वसुदेवस्य पुत्त्रविशेषः । इति भागवतम् । ९ ।
२४ । ४८ ॥ क्रौञ्चद्वीपस्य वर्षपर्व्वतविशेषः ।
इति भागवतम् । ५ । २० । २१ ॥ स्वनाम-
ख्यातो दत्तकमीमांसाग्रन्थप्रणेता । यथा, --
“अभिवन्द्य जगद्बन्द्यपदद्बन्द्वविनायकम् ।
पुत्त्रीकरणमीमांसां कुरुते नन्दपण्डितः ॥”)

नन्दकः, पुं, (नन्दयतीति । नन्द + ण्वुल् ।) विष्णु-

खड्गः । इत्यमरः । १ । १ । ३० ॥ (यथा,
हरिवंशे । १२७ । ४४ ।
“रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन च ।
प्रहरारुह्य गरुडं दृढो भूत्वा जनार्द्दन ! ॥”)
भेकः । इति त्रिकाण्डशेषः ॥ हर्षके कुलपालके
च त्रि । इति मेदिनी । के, १०९ ॥ कृष्णपिता
आनन्दः । आनन्दकारकश्च ॥ (नागविशेषः
इति महाभारतम् । ५ । १०३ । ११ ॥ स्कन्द-
स्यानुचरविशेषः । इति महाभारतम् । ९ ।
४५ । ६६ ॥ धृतराष्ट्रस्य पुत्त्रविशेषः । इति
महाभारतम् । १ । १८७ । ३ ॥)

नन्दकिः, स्त्री, पिप्पली । इति शब्दचन्द्रिका ॥

नन्दकी, [न्] पुं, (नन्द्रकः खड्गोऽस्त्यस्येति ।

नन्दक + इनिः ।) विष्णुः । यथा, --
“शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ॥”
इति महाभारते शान्तिपर्व्व ॥

नन्दगोपिता, स्त्री, (नन्दाय हर्षाय गोपिता

रक्षिता ।) रास्ना । इति शब्दचन्द्रिका ॥
पृष्ठ २/८२३
(नन्दगोपः अस्या जातः । तारकादित्वात्
इतच् ।) नन्दगोपजन्मभूम्यादिः ॥

नन्दथुः, पुं, (नन्दनमिति । नन्द + “ट्वितोऽथुच् ।”

३ । ३ । ८९ । इति अथुच् ।) आनन्दः । इति
शब्दरत्नावली ॥

नन्दनं, क्ली, (नन्दयतीति । नन्द + “नन्दिग्रहि-

पचादिभ्यो ल्यणिन्यचः ।” ३ । १ । १३४ । इति
ल्युः ।) इन्द्रवनम् । इत्यमरः । १ । १ । ४८ ॥
(यथा, कुमारे । २ । ४१ ।
“अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥”
अष्टादशाक्षरवृत्तिविशेषः । अस्य विवरणन्तु
छन्दःशब्दे द्रष्टव्यम् ॥ आनन्दः । यथा, महा-
भारते । २ । २५ । ६ ।
“स्वस्तिवाच्यार्हतो विप्रान् प्रयाहि भरतर्षभ ! ।
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥”)
हर्षके, त्रि । इति मेदिनी । ने, ८० ॥ (यथा,
महाभारते । ३ । १४६ । ५ ।
“पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।
गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ॥”)

नन्दनः, पुं, (नन्दयतीति । नन्द + ल्युः ।) पर्व्वत-

भेदः । यथा, कालिकापुराणे ७५ अध्याये ।
“तीरे तु चन्द्रकुण्डस्य नन्दनो नाम वै गिरिः
तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः ॥
मर्त्त्यभावं समासाद्य सर्व्वदेवेश्वरो हरिः ।
सेवितुं त्रिदशेशानीं सततं वर्त्तते नतः ॥
चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः ।
प्रतिदर्शं तथा चन्द्रं प्रदक्षिणयति त्रिधा ॥
चन्द्रकुण्डजले स्नात्वा समारुह्य च नन्दनम् ।
आराध्य शक्रं लोकेशं महाफलमवाप्नुयात् ॥”
(विषविशेषः । इति हेमचन्द्रः । ४ । २६३ ॥
अत्रार्थे, पुं, क्ली, इति वाचस्पतिः ॥ यथा, सुश्रुते
कल्पस्थाने २ अध्याये ।
“अन्त्रपाचककर्त्तरीयसौरीयककरघाटकरम्भ-
नन्दनवराटकानि सप्त त्वक्सारनिर्य्यासविषाणि ॥”
स्कन्दस्यानुचरविशेषः । यथा, महाभारते ।
९ । ४५ । ३६ ।
“बर्द्धनं नन्दनञ्चैव सर्व्वविद्याविशारदौ ।
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ! ॥”
सिद्धपुरुषविशेषः । यथा, भागवते । ४ । ६ । ३३ ।
“स नन्दनाद्यैर्महासिद्धैः शान्तैः संशान्त-
विग्रहम् ।
उपास्यमानं सख्या च भर्त्त्रा गुह्यकरक्षसाम् ॥”
जिनबलविशेषः । इति हेमचन्द्रः । ३ । ३६२ ॥ वत्-
सरविशेषः । यथा, बृहत्संहितायाम् । ८ । ३८ ।
“नन्दनोऽथ विजयो जयस्तथा
मन्मथोऽथ परतश्च दुर्म्मुखः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ७५ ।
“नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः ॥”)
विष्णुः । यथा, “आनन्दो नन्दनो नन्दः ।” इति
महाभारते । १३ । १४९ । ६९ ॥

नन्दनः, पुं, स्त्री, (नन्दयतीति । नन्द + ल्युः ।) सुतः ।

इति मेदिनी । ने, ८० ॥ (यथा, रघुः । ३ । ४१ ।
“अतीन्द्रियेष्वप्युपपन्नदर्शनो
बभूव भावेषु दिलीपनन्दनः ॥”)
भेकः । इति शब्दरत्नावली ॥

नन्दनजं, क्ली, (नन्दने जायते इति । जन + डः ।)

हरिचन्दनम् । इति राजनिर्घण्टः ॥ (नन्दनात्
आनन्दाज्जायते इति ।) हर्षजाते, त्रि ॥ (पौत्त्रश्च ॥)

नन्दनन्दनः, पुं, (नन्दस्य नन्दनः सुतः आनन्द-

जनको वा ।) श्रीकृष्णः । इति शब्दरत्नावली ॥
तस्य लीलासंवरणान्ते तन्महिषीणां दस्यु-
हस्तगतत्वकारणं यथा, --
व्यास उवाच ।
“कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्व्वकौर-
वान् ।
आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम् ॥
पार्थैतत् सर्व्वभूतस्य हरेर्लीलाविचेष्टितम् ।
त्वया यत् कौरवा ध्वस्ता यदाभीरैर्भवान् जितः ॥
गृहीता दस्युभिर्याश्च भवता शोचिताः स्त्रियः ।
तदप्यहं यथावृत्तं कथयामि तवार्ज्जुन ! ॥
अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् ।
बहूनब्दगणान् पार्थ ! गृणन् ब्रह्म सनातनम् ॥
जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः ।
बभुव तत्र गच्छन्त्यो ददृशुस्तं वरस्त्रियः ॥
रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः ।
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ! ॥
आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।
विनयावनताश्चैनं प्रणेमुः स्तोत्रतत्पराः ॥
यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा ।
सर्व्वास्ताः कौरवश्रेष्ठ ! वरिष्ठन्तं द्विजन्मनाम् ॥
श्रीअष्टावक्र उवाच ।
प्रसन्नोऽहं महाभागा भवतीनां यदीस्यते ।
मत्तस्तद्व्रियतां सर्व्वं प्रदास्याम्यतिदुर्लभम् ॥
श्रीपराशर उवाच ।
रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् ।
प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विज ! ॥
इतरास्त्वब्रुवन् विप्र ! प्रसन्नो भगवान् यदि ।
तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र ! पुरुषोत्तमम् ॥
श्रीव्यास उवाच ।
एवं भविष्यतीत्युक्त्वा प्रोत्ततार जलान्मुनिः ।
तमुत्तीर्णञ्च ददृशुर्विरूपं वक्रमष्टधा ॥
तब्दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ! ॥
श्रीअष्टावक्र उवाच ।
यस्माद्बिरूपरूपं मां मत्वा हासावमानना ।
भवतीभिः कृता तस्मादेष शापं ददामि वः ॥
मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम् ।
मच्छापोपहताः सर्व्वा दस्युहस्तं गमिष्यथ ॥”
“एवन्तस्य मुनेः शापादष्टावक्रस्य केशवम् ।
भर्त्तारं प्राप्य ता याता दस्युहस्तं वराङ्गनाः ॥
तत्त्वया नात्र कर्त्तव्यः शोकोऽल्पोऽपि हि
पाण्डव ! ।
तेनैवाखिलनाथेन सर्व्वन्तदुपसंहृतम्
इति विष्णुपुराणे । ५ । ३८ । ६८ -- ८५ ॥

नन्दनन्दिनी, स्त्री, (नन्दस्य नन्दिनी कन्या ।)

“नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।” इति
मार्कण्डेयपुराणोक्तदेवीवचनात् तथात्वम् ।)
दुर्गा । इति शब्दरत्नावली ॥

नन्दनमाला, स्त्री, (नन्दना आनन्दजनिका

माला ।) कृष्णप्रीतिकृन्मालिकाविशेषः । यथा,
“भूप नन्दनमालान्तु कुरुते कृष्णवेश्मनि ।
देवकन्यावृतैलक्षैः सेव्यते सुरनायकैः ॥”
इति द्वारकामाहात्म्ये हरिभक्तिविलासधृत-
विष्णुधर्म्मोत्तरम् ॥

नन्दना, स्त्री, (नन्दयतीति । नन्दि + ल्युः । टाप् ।)

दुहिता । इति जटाधरः ॥

नन्दन्तः, पुं, (नन्दत्यनेनेति । नन्द + “रुहिनन्दि-

जीविप्राणिभ्यः षिदाशिषि ।” उणां ३ । १२७ ।
इति झच् सच षित् ।) पुत्त्रः । राजा । मित्रम् ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

नन्दपालः, पुं, (नन्दं आनन्दं निधिविशेषं वा

पालयतीति । पालि + अच् ।) वरुणः । इति
शब्दरत्नावली ॥

नन्दपुत्त्री, स्त्री, (नन्दस्य पुत्त्री ।) दुर्गा । इति

त्रिकाण्डशेषः ॥

नन्दयन्तः, त्रि, (नन्दयतीति । नन्दि + “तॄभू-

वहीति ।” उणां ३ । १२८ । इति झच् सच
षित् ।) आनन्दजनकः । इति सिद्धान्तकौमु-
द्यामुणादिवृत्तिः ॥

नन्दा, स्त्री, (नन्दयतीति । नन्दि + अच् + टाप् ।)

गौरी । अलिञ्जरः । नादा इति भाषा । तिथि-
विशेषः । ताश्च उभयपक्षयोः प्रतिपत्षष्ठ्येका-
दश्यः । इति मेदिनी । दे, ६ ॥ (यथा, --
“नन्दा भद्रा जया रिक्तापूर्णा प्रतिपदः क्रमात् ॥”
इति ज्योतिषम् ॥)
ननान्दा । इति शब्दरत्नावली ॥ सम्पत् । इति
हेमचन्द्रः ॥ * ॥ दुर्गाया नन्दानामकारणं
यथा, --
“एवमुक्त्रा भवं ब्रह्मा पुनर्द्देवीं स चाब्रवीत् ।
त्वया देवि ! महत् कार्य्यं कर्त्तव्यञ्चान्यदस्ति नः ॥
भविष्यं महिषाख्यस्य असुरस्य विनाशनम् ।
एवमुक्त्वा ततो ब्रह्मा सर्व्वे देवाश्च पार्थिव ! ॥
यथागतास्ततो जग्मुर्देवीं स्थाप्य हिमे गिरौ ।
संस्थाप्य नन्दिता यस्मात्तस्मान्नन्दा तु सा भवेत् ॥”
इति वराहपुराणम् ॥ * ॥
अपि च ।
“नन्दते सुरलोकेषु नन्दने वसतेऽथवा ।
हिमाचले महापुण्ये नन्दा देवी ततः स्मृता ॥”
तस्या माहात्म्यादि यथा, --
“यथा गङ्गा नदीनान्तु उत्तमत्वे व्यवस्थिता ।
तद्बद्भगवती नन्दा उत्तमत्वेन संस्थिता ॥
मासे भाद्रपदे देवि ! शुक्लपक्षे व्रजेत् सदा ।
तस्येच्छा श्रावणाषाढे अन्यथा न कदाचन ॥
तेषाञ्च चन्द्रनागस्तु पीडां कुर्य्यात् सुलोचने ।
न गच्छन्ति सुराः सिद्धाः किं पुनर्म्मानुषादयः ॥
विषवातहताः केचित् विषवातप्रपीडिताः ।
पृष्ठ २/८२४
विमुह्यन्ते नरा देवि यान्ति देव्याः प्रसादतः ॥”
इति देवीपुराणम् ॥
(कामधेनुविशेषः । यथा, वह्निपुराणे कामधेनु-
प्रदाननामाध्याये ।
“नन्दा सुनन्दा सुरभी सुशीला सुमनास्तथा ।
निर्गता मथ्यमानेऽब्धौ उषःस्नानं शुभप्रदम् ॥”
अस्या दानविधिस्तु कामधेनुशब्दे द्रष्टव्यः ॥
धर्म्मपुत्त्रस्य हर्षस्य पत्नी । आनन्दस्वरूपतया
एवास्यास्तथात्वम् । यथा, महाभारते । १ ।
६६ । ३३ ।
“नन्दा तु भार्य्या हर्षस्य यासु लोकाः प्रति-
ष्ठिताः ॥”
शाकद्बीपान्तर्गतनदीविशेषः । यथा, मात्स्ये ।
१२१ । ३१ ।
“नन्दा च पावनी चैव तृतीया परिकीर्त्तिता ॥”
“एताः सप्तमहाभागाः प्रतिवर्षं शिवोदकम् ।
भावयन्ति जनं सर्व्वं शाकद्वीपनिवासिनम् ॥”
द्बिशालगृहविशेषः । यथा, विश्वकर्म्मप्रकाशे
२ अध्याये ।
नन्दाख्यं तद्द्विशालञ्च धनदं शोभनं स्मृतम् ॥”)

नन्दात्मजः, पुं, (नन्दस्य आत्मजः ।) श्रीकृष्णः ।

इति शब्दरत्नावली ॥ (यथा, पाद्मोत्तरखण्डे
१११ अध्याये ।
“पुराणपुरुषो नन्दात्मजः श्रीवत्सलाञ्छनः ॥”)
दुर्गायाम्, स्त्री ॥

नन्दिः, पुं, क्ली, (नन्दयतीति । नन्दि + “सर्व्व-

धातुभ्य इन् ।” उणां ४ । ११७ । इति इन् ।)
द्यूताङ्गम् । (भावे इन् ।) आनन्दः । (यथा,
महाभारते । २ । १८ । ११ ।
“सोऽवर्द्धत महातेजा मगधाधिपतेः सुतः ।
मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी ॥”
एतदर्थे स्त्रीलिङ्गेऽपि दृश्यते । यथा, तत्रैव ।
५ । १३५ । २० ।
“अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि ॥”)
नन्दिकेश्वरे, पुं । इति मेदिनी । दे, ६ ॥ (यथा,
महाभारते । १३ । १४ । २७५ ।
“पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् ।
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥”)
विष्णुः । यथा, महाभारते । १३ । १४९ । ७९ ।
“स्वक्षः स्वड्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ॥”
(महादेवः । यथा, तत्रैव । १३ । १७ । ७४ ।
“निमित्तस्थो निमित्तञ्च नन्दिर्नन्दिकरो हरिः ॥”)

नन्दिकः, पुं, (नन्द आनन्दः हेतुतयास्त्यस्येति ।

नन्द + ठन् ।) नन्दीवृक्षः । इति शब्दरत्ना-
वली ॥ (नन्दिरेव । स्वार्थे कन् ।) आनन्दः ॥

नन्दिका, स्त्री (नन्द आनन्द अस्त्यस्यामिति ।

ठन् ।) इन्द्रक्रीडास्थानम् । इति शब्दमाला ॥
(नन्दा + स्वार्थ कन् । टापि अत इत्वम् ।)
अलिञ्जरः । इति शब्दरत्नावली ॥ षष्ठीतिथिः ।
यथा, तिथितत्त्वे ।
“कन्यासंस्थे रवौ शक्र शुक्लामारभ्य नन्दिकाम् ॥”
प्रतिपदेकादश्यौ च ॥

नन्दिकेश्वरः, पुं, (नन्दिक ईश्वरश्च ।) शिवद्वार-

पालः । तत्पर्य्यायः । नन्दी २ शालङ्कायनः ३
ताण्डवतालिकः ४ । इति त्रिकाण्डशेषः ॥ नन्दी-
श्वरः ५ तण्डुः ६ । इति हेमचन्द्रः ॥ (यथा,
हरिवंशे । १८२ । ८६ ।
“ततो नन्दिं महादेवः प्राह गम्भीरया गिरा ।
नन्दिकेश्वर ! संयाहि यतो वाणो रणे स्थितः ॥”)
उपपुराणविशेषश्च ॥

नन्दिघोषः, पुं, (नन्दिरानन्दजनको घोषो यस्य ।)

अर्ज्जुनस्य रथघोषः । वन्दिजनघोषः । इति
मेदिनी । षे, ५३ ॥ मङ्गलघोषणा च ॥ (हर्ष-
घोषयुक्ते, त्रि । यथा, महाभारते । १३ ।
१०७ । १०५ -- १०८ ।
“पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ।
सदा द्वादशमासांस्तु पुस्कलं यानमारुहेत् ॥
सिंहव्याघ्रप्रयुक्तैस्तु मेघनिश्वननादितैः ।
स रथैर्नन्दिघोषैश्च पृष्ठतोऽह्यनुगम्यते ॥
देवकन्यासमारूढैः काञ्चनैर्व्विमलैः शुभैः ।
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ।
सुधारसञ्चोपजीवन्नमृतोपममुत्तमम् ॥”)

नन्दितरुः, पुं, (नन्दिरानन्दजनकस्तरुः ।) धव-

वृक्षः । इति भावप्रकाशः ॥

नन्दिनी, स्त्री, (नन्दयतीति । नन्दि + णिर्निः ।

ङीप् ।) रेणुका । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो यथा, भावप्रकाशे ।
“रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा ॥”
जटामांसी । तत्पर्य्यायो यथा, वैद्यकरत्न-
मालायाम् ।
“नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी ।
किरातिनी च जटिला लोमशा तु तपस्विनी ॥”)
उमा । गङ्गा । ननान्दा । वशिष्ठधेनुः । इति
मेदिनी । ने, ८१ ॥ सा च धेनुः सुरभिकन्या ।
यथा, दिलीपं प्रति वशिष्ठवाक्यम् ।
“पुरा शक्रमुपस्थाय तवोर्व्वीं प्रति यास्यतः ।
आसीत् कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥
इमां देवीमृतुस्नातां श्रुत्वा सपदि सत्वरः ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधुनाचरः ॥
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥”
“इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥”
इति रघुः । १ । ७५-८२ ॥
इमामेवाराध्य लब्धवरो दिलीपो रघुनामानं
वंशतिलकं पुत्त्रं लब्धवान् ॥ * ॥
द्योनामा वसुः पत्नीवाक्यात् एनां हृत्वा वशिष्ठ-
शापतः पृथिव्यां भीष्मनाम्ना विख्यात आसीत् ।
एतत्कथा यथा, महाभारते । १ । ९९ । ११-३९ ।
“अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ ! ।
पृथ्वाद्या वसवः सर्व्वे देवा देवर्षिसेवितम् ॥
ते सदारा वनं तच्च सञ्चरन्तः समन्ततः ।
रेमिरे रमणीयेषु पर्व्वतेषु वनेषु च ॥
तत्रैकस्याथ भार्य्या तु वसोर्वासवविक्रम ! ।
सञ्चरन्ती वने तस्मिन् गां ददर्श सुमध्यमा ॥
नन्दिनीं नाम राजेन्द्र ! सर्व्वकामधुगुत्तमाम् ॥
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा ।
द्यवे वै दर्शयामास तां गां गोवृषभेक्षणाम् ॥
स्वापीनाञ्च सुदोग्ध्रीञ्च सुबालधिखुरां शुभाम् ।
उपपन्नां गुणैः सर्व्वैः शीलेनानुत्तमेन च ॥
एवं गुणसमायुक्तां वसवे वसुनन्दिनी ।
दर्शयामास राजेन्द्र पुरा पौरवनन्दन ! ॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ! ।
उवाच राजंस्तां देवीं तस्या रूपगुणान् वदन् ॥
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा ।
ऋषेस्तस्य वरारोहे ! यस्येदं वनमुत्तमम् ॥
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ! ।
दशवर्षसहस्राणि स जीवेत् स्थिरयौवनः ॥
एतत् श्रत्वा तु सा देवी नृपोत्तम ! सुमध्यमा ।
तमुवाचानवद्याङ्गी भर्त्तारं दीप्ततेजसम् ॥
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ।
नाम्ना जितवती नाम रूपयौवनशालिनी ॥
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः ।
दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥
तस्या हेतोर्महाभाग ! सवत्सां गां ममेप्सिताम् ।
आनयस्वामरश्रेष्ठ ! त्वरितं पूण्यवर्द्धन ! ॥
यावदस्याः पयः पीत्वा सा सखी मम मानद ! ।
मानुषेषु भवत्वेका जरारोगविवर्ज्जिता ॥
एतन्मम महाभाग कर्त्तुमर्हस्यनिन्दित ।
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत् कथश्चन ॥
एतत् श्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ।
पृथ्वाद्यैर्भ्रातृभिः सार्द्धं द्यौस्तदा तां जहार गाम् ॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ! ।
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।
न चापश्यत् स गां तत्र सवत्सां काननोत्तमे ॥
ततः स मृगयामास वने तस्मिंस्तपोधनः ।
नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः ।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुबालधिम् ।
तस्मात् सर्व्वे जनिष्यन्ति मानुषेषु न संशयः ॥
एवं शशाप भगवान् वसूंस्तान् भरतर्षभ ! ।
वशं क्रोधस्य संप्राप्त आपवो मुनिसत्तमः ।
शप्त्वा च तान् महाभागस्तपस्येव मनो दधे ॥
एवं स शप्तवान् राजन् ! वसूनष्टौ तपोधनः ।
महाप्रभावो ब्रह्मर्षिर्देवान् क्रोधसमन्वितः ॥
अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः ।
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ! ।
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात् ।
आपवात् पुरुषव्याघ्र ! सर्व्वधर्म्मविशारदात् ॥
उवाच च स धर्म्मात्मा शप्ता यूयं धरादयः ।
अनुसंवत्सरात् सर्व्वे शापमोक्षमवाप्स्यथ ॥
पृष्ठ २/८२५
अयन्तु यत्कृते यूयं मया शप्ताः स वत्स्यति ।
द्यौस्ततो मानुषे लोके दीर्घकालं स्वकर्म्मणा ॥
नानृतं तच्चिकीर्षामि युष्मान् क्रुद्धो यदब्रुवम् ।
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥
भविष्यति च धर्म्मात्मा सर्व्वशास्त्रविशारदः ।
पितुः प्रियहिते युक्तः स्त्रीभोगान् वर्ज्जयिष्यति ॥”)
तस्याः प्रभावो यथा, --
“वशिष्ठस्याश्रमपदं ब्रह्मस्थानमनुत्तमम् ।
अपश्यज्जयतां श्रेष्ठो विश्वामित्रो महामनाः ॥
ततो वशिष्ठो भगवान् कथान्ते मुनिसत्तमः ।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥
आतिथ्यं कर्त्तमिच्छामि बलस्यास्य महाबलः ।
तव चैवाप्रमेयस्य यथार्हं प्रतिगृह्यताम् ॥
वाढमित्येव गाधेयो वशिष्ठं प्रत्युवाच ह ।
एवमुक्तो महातेजा वशिष्ठो जपतां वरः ॥
आजुहाव ततः प्रीतः कल्माषीं धुतकल्मषाम् ।
भोजनेन महार्हेण सत्कारं तद्बिधत्स्व मे ॥
एवमुक्ता वशिष्ठेन शबला शत्रुसूदन ! ।
विदधे विविधान् कामान् यस्य यस्य यथेप्सितान् ॥
सान्तःपुरजनो राजा सब्राह्मणपुरोहितः ।
युक्तः परमहर्षेण वशिष्ठमिदवब्रवीत् ॥
गवां शतसहसेण दीयतां शबला मम ।
एवमुक्तस्तु भगवान् वशिष्ठो मुनिसत्तमः ॥
विश्वामित्रेण धर्म्मात्मा प्रत्युवाच महीपतिम् ।
कारणैर्बहुभी राजन्न दास्ये नन्दिनीं तव ॥
कामधेनुं वशिष्ठोऽसौ न तत्याज यदा मुनिः ।
ततोऽस्य शबलां राजा विश्वामित्रस्तदाहरत् ॥
तस्या हम्बारवाज्जाताः काम्बोजा रविसन्निभाः ।
ऊधसश्चाभिसंजाताः पह्नवाः शस्त्रपाणयः ॥
योनिदेशाच्च यवनाः शकृद्देशाच्छकास्तथा ।
रोमकूपेषु च म्लेच्छास्तथा रामकिरातकाः ॥
तैस्तन्निसूदितं सैन्यं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनन्दन ! ॥”
इति रामायणे आदिकाण्डम् ॥
(एतद्विवरणं महाभारते । १ । १७७ । अध्याये च
विस्तरशो द्रष्टव्यम् ॥ कन्या यथा, हरिवंशे ।
१७६ । ७ ।
“मेध्यां गोकुलसम्भूतां नन्दगोपस्य नन्दिनीम् ॥”
आनन्दजननात् पत्न्यपि । यथा, महाभारते ।
१ । ९९ । १६ ।
“एवं गुणसमायुक्तां वसवे वसुनन्दिनी ।
दर्शयामास राजेन्द्र ! पुरा पौरवनन्दनः ॥”
“वसुनन्दिनी वसुप्रिया ।” इति नीलकण्ठः ॥
स्कन्दानुचरमातृगणविशेषः । यथा, महा-
भारते । ९ । ४६ । ५ ।
“शृणु मातृगणान् राजन् ! कुमारानुचरानि-
मान् ॥”
“वसुदामा सुदामा च विशोका नन्दिनी तथा ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८४ ।
१४५ ।
“नन्दिन्याञ्च समासाद्य कूपं देवनिषेवितम् ।
नरमेधस्य यत् पुण्यं तदाप्नोति नराधिप ! ॥”
व्याडिमुनिमाता । इति हेमचन्द्रः । ३ । ५१६ ॥
त्रयोदशाक्षरवृत्तिविशेषः । अस्य विवरणं छन्दः-
शब्दे द्रष्टव्यम् । दुर्गा । इयन्तु देविकातटे पीठ-
स्थाने विराजते । यथा, देवीभागवते । ७ ।
३३ । ६९ ।
“शिवकुण्डे शुभा नन्दा नन्दिनी देविकातटे ॥”)

नन्दिनीतनयः, पुं, (नन्दिन्यास्तनयः ।) व्याडि-

मुनिः । स च अभिधानकारकः । इति हेम-
चन्द्रः । ३ । ५१६ ॥

नन्दिनीसुतः, पुं, (नन्दिन्याः सुतः ।) व्याडिमुनिः ।

इति जटाधरः ॥

नन्दिवर्द्धनः, पुं, (नन्दिं वर्द्धयतीति । वृध् + णिच् +

ल्युः ।) शिवः । (नन्दिं आनन्दं वर्द्धयतीति ।)
पक्षान्तः । पुत्त्रः । इति मेदिनी । ने, २३८ ॥
(यथा, गोः रामायणे । २ । ९९ । १४ ।
“सुषुवे यममित्रघ्नं कौशल्या नन्दिवर्द्धनम् ॥”)
मित्रम् । इति शब्दरत्नावली ॥ (विमानविशेषः ।
यथा, विश्वकर्म्मप्रकाशे । ६ अध्याये ।
“विमानं छन्दकं तद्बदनेकशिखराततः ।
स चाष्टभूमिकस्तद्बत् सप्ततिर्नन्दिवर्द्धनः ॥”
निमिवंशीयविशेषः । इति भागवतम् । ९ ।
१३ । १४ ॥) आनन्दवर्द्धके, त्रि ॥ (यथा,
हरिवंशे । ६८ । २९ ।
“कृष्ण कृष्ण महाबाहो गोपानां नन्दिवर्द्धन ! ।
दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ॥”)

नन्दिवृक्षः, पुं, (नन्दिरानन्दस्तज्जनको वृक्षः ।

यद्बा, नन्द + इन् । तस्याः वृक्षः ।) नन्दीवृक्षः ।
इति शब्दरत्नावली ॥ (पर्य्यायोऽस्य यथा, वैद्यक-
रत्नमालायाम् ।
“नन्दिवृक्षो मेषशृङ्गी तथा मेषविधानिका ।
चक्षुर्व्वहनचक्षुश्च मेढशृङ्गी ग्रहद्रुमा ॥”)

नन्दी, स्त्री, दुर्गा । यथा, देवीपुराणे ।

“सुराः स्युस्त्रिदशा देवा नन्दिनी दुन्दुभिर्मता ।
तेषाञ्च वादिनी नन्दी ईशात्वात् त्रिदशेश्वरी ॥”

नन्दी, [न्] पुं, (नन्द आनन्दोऽस्यास्तीति ।

इनिः ।) गर्द्दभाण्डवृक्षः । (यथा, --
“करीरं कुलकं नन्दी कुत्तेला शकुलादनी ।
कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम् ॥
तिक्तं पाके कटुग्राही वातलं कफपित्तजित् ॥”
इति वाभटे । १ । ६ अध्याये ॥)
वटवृक्षः । इतिं मेदिनी । ने, ८१ ॥ शिवगण-
विशेषः । स च त्रिविधः । यथा, --
“आद्यः कनकनन्दी च गिरिकाख्यो द्बितीयकः ।
सोमनन्दी तृतीयस्तु विज्ञेया नन्दिनस्त्रयः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
शिवद्वारपालः । स शिवांशः शालङ्कायनमुनि-
पुत्त्रः । यथा, --
“अन्यच्च ते प्रवक्ष्यामि परं गुह्यं वसुन्धरे ! ।
तप्यतस्तस्य तु मुनेरीश्वरेण समं सुतम् ॥
तं प्राप्स्यामि परं भावं ज्ञात्वा देवो महेश्वरः ।
सुन्दरन्त्वपरं रूपं घृत्वा दृष्टिसुखावहम् ॥
शालङ्कायनपुत्त्रत्वं योगमायामुपाश्रितः ।
प्राप्नोति तं न जानाति दक्षिणं पार्श्वमास्थितः ॥
मायायोगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक् ।
रूपवान् गुणवांश्चैव वपुषादित्यसन्निभः ॥
स तं न ज्ञायते जातं ममैवाराधने स्थितः ।
अथ नन्दी प्रहस्याह महादेवाज्ञया मुनिम् ॥
उत्तिष्ठ मुनिशार्द्दूल ! सफलस्ते मनोरथः ।
त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्त्रस्ते शाधि मां
प्रभो ! ॥
त्वया तपः समारब्धमीश्वरेण समं सुतम् ।
प्राप्स्यामीति ततो मह्यं सदृशोऽन्यो न कश्चन ॥
विचार्य्येति तदाहं वै जातोऽस्मि स्वयमेव हि ॥”
इति षराहपुराणम् ॥
स एव कल्पान्तरे शिवांशजशिलादमुनेः पुत्त्रः ।
यथा, --
“जजाप रुद्रमनिशं यत्र नन्दी महागणः ।
प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ॥
दत्त्वा चात्मसमानत्वं मृत्युवञ्चनमेव च ।
अभूदृषिः स धर्म्मात्मा शिलादो नाम धर्म्मवित् ॥
आराधयन् महादेवं पुत्त्रार्थं वृषभध्वजम् ।
तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ॥
शर्व्वः सोमौघविधृतो वरदोऽस्मीत्यभाषत ।
स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ॥
अयोनिजं मृत्युभीतं तया चैवोमया समम् ।
तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ॥
पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो विभुः ।
ततो यियक्षुः स्वां भूमिं शिलादो धर्म्मवित्तमः ॥
चकर्ष लाङ्गलेनोर्व्वीं भित्त्वादृश्यत शोभनः ।
सम्बर्त्तकानलप्रख्यः कुमारः प्रहसन्निव ॥
रूपलावण्यसम्पन्नस्तेजसा भासयन् दिशम् ।
कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ॥
शिलादं तात तातेति प्राह नन्दी पुनः पुनः ।
तं दृष्ट्वा नन्दिनं जातं शिलादः परिषस्वजे ॥
मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥”
इति कूर्म्मे ४० अध्यायः ॥
(द्विसप्ततिसाध्यमौलिककायस्थानामन्यतमः ।
यथा, घटककारिकायाम् ।
“गुइः कीर्त्तिर्यशः कुण्डुर्नन्दी शीलो धनुर्गुणः ॥”)

नन्दीमुखी, स्त्री, (नन्दी मुखे यस्याः । ङीष् ।)

तन्द्रा । इति हेमचन्द्रः । २ । २२७ ॥

नन्दीवृक्षः, पुं, (नन्दि + वा ङीष् । नन्द्याः वृक्षः ।

नन्दीजनको वृक्षोवा ।) कोङ्कणदेशप्रसिद्धसुगन्धि-
वृक्षविशेषः । तत्पर्य्यायः । तूणीकः २ तूणिकः ३
तूणी ४ पीतकः ५ कच्छपः ६ नन्दी ७ कुठे-
रकः ८ कान्तः ९ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । शीतत्वम् । पित्तरक्तदाहशिरोऽर्त्ति-
स्वेदकुष्ठनाशित्वम् । सुगन्धित्वम् । पुष्टिवीर्य्यदातृ-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अश्वत्थाकारः
क्षीरवान् स्वनामप्रसिद्धो वृक्षः । इति भरतः ॥
तुँद् इति ख्यातो वृक्ष इति केचित् ॥ तत्पर्य्यायः ।
तुन्नः २ कुवेरकः ३ कुणिः ४ कच्छः ५ कान्त-
लकः ६ । इत्यमरः । २ । ४ । १२८ ॥ तुणिः ७ ।
इति भरतः ॥ नन्दिवृक्षः ८ कूणिः ९ तुन्दः १०
पृष्ठ २/८२६
नन्दिकः ११ नन्दिवृक्षकः १२ । इति शब्द-
रत्नावली ॥ * ॥ मेषशृङ्गीवृक्षः । इति रत्नमाला ॥
स्थालीवृक्षः । इति भावप्रकाशः ॥

नन्दीशः, पुं, (नन्दी ईशश्च ।) नन्दी । इति हेम-

चन्द्रः । २ । १२४ ॥ भरतोक्ततालप्रभेदः । यथा, --
“सिंहनन्दननन्दीशचन्द्रविम्बद्बितीयकाः ॥”
तस्य लक्षणं यथा, --
“गो लघुर्गौर्लघुः प्लुतस्ताले नन्दीश्वरे मताः ।”
इति सङ्गीतदामोदरः ॥
(नन्दिनो नन्दिगणस्य ईशः । इति विग्रहे
शिवः ॥)

नन्दीश्वरः, पुं, (नन्दिनो गणविशेषस्य ईश्वरः ।)

शिवः । इति शब्दरत्नावली ॥ नन्दीशतालः ।
इति सङ्गीतदामोदरः ॥ (नन्दी ईश्वरश्च ।)
शिवद्वारपालः । तस्य शिवपार्श्वदत्वकारणं
यथा, --
“ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ।
आरिराधयिषुः शर्व्वं तपस्तेपे सुदारुणम् ॥
ततस्तु भगवान् प्रीतस्तस्मै विप्राय शङ्करः ।
उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः ॥
वरान् वृणीष्व विप्रेन्द्र ! यानिच्छसि महामुने ! ।
तांस्ते सर्व्वान् प्रयच्छामि दुर्लभानपि मारिष ॥
इत्युक्तोऽसौ भगवता शर्व्वेण सुनिपुङ्गव ।
प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना ॥
यदि प्रीतोऽसि भगवन् ! अनुक्रोशतया मम ।
अनुग्राह्यो ह्यहं देव त्वयावश्यं सुराधिपं ! ॥
यथा नान्ये भवेद्भक्तिस्त्वयि नित्यं महेश्वर ! ।
तथाहं भक्तिमिच्छामि सर्व्वभूताशये त्वयि ॥
एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः ।
प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा ॥
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्व्वगुणोत्तमः ।
भविष्यसि न सन्देहो देवदानवपूजितः ॥
अनेनैव शरीरेण जरामरणवर्ज्जितः ।
दुष्प्राप्येयमवाप्या ते देवैर्गाणेश्वरी गतिः ॥
पार्श्वदानां वरिष्ठश्च मामकानां द्विजोत्तम ! ।
नन्दीश्वर इति ख्यातो भविष्यसि न संशयः ॥
अद्यप्रभृति देवाग्र्य ! देवकार्य्येषु सर्व्वतः ।
त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर ! ॥
त्वामेवाभ्यर्च्चयिष्यन्ति सर्व्वभूतानि सर्व्वतः ।
मत्तः समभिवाञ्छन्तः प्रसादं पार्श्वदाधिप ! ॥
यस्त्वां द्वेष्टि स मां द्बेष्टि यस्त्वामनु स मामनु ।
नावयोरन्तरं किञ्चिदम्बरानिलयोरिव ॥
द्बारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ! ।
वामेन विभुना वापि महाकालेन सर्व्वदा ॥”
इति वराहपुराणम् ॥

नन्दीसरः, [स्] क्ली, (नन्द + इन् + वा ङीष् ।

नन्द्यै आनन्दार्थं यत् सरः ।) इन्द्रसरोवरः ।
इति शब्दमाला ॥

नन्द्यावर्त्तः, पुं, (नन्दिजनक आवर्त्तो यत्र ।)

ईश्वरसद्मविशेषः । इत्यमरः । २ । २ । १० ॥ तस्य
लक्षणं यथा, --
“दक्षिणांनुगतालिन्दत्रयं यत् पश्चिमामुखम् ।
पूजनीयोत्तरच्छ्रायं नन्द्यावर्त्तं वदन्ति तत् ॥”
इति भरतधृतसाञ्जः ॥
तगरद्रुमः । इति विश्वः ॥ मत्स्यभेदः । तस्य
गुणः । संग्राहित्वम् । कफपित्तविनाशित्वञ्च ।
इति राजवल्लभः ॥

नपुंसकं, क्ली, (न स्त्री न पुमान् । “नभ्राण्नपा-

दिति ।” ६ । ३ । ७५ । इति निपातनात्
स्त्रीपुंसयोः पुंसक-आदेशः ।) क्लीवम् । इत्यमरः ।
२ । ६ । ३९ ॥ हिजिडा इति भाषा ॥ तस्य
कारणं यथा, --
“उभयोर्ब्बीजसामान्ये जायते वै नपुंसकम् ॥”
इति सुखबोधः ॥ * ॥
(नपुंसको भवेदिति भाष्यप्रयोगात् पुंलिङ्गोऽपि
भवति । तथा, च पञ्चतन्त्रे । १ । ३६४ ।
“परदेशभयाद्भिता बहुमाया नपुंसकाः ।
स्वदेशे निधनं यान्ति काकाः कापुरुषा
मृगाः ॥”)
नपुंसकगर्भस्य चिह्नं यथा, --
“नपुंसकं यदा गर्भो भवेद्गर्भोऽर्वुदाकृतिः ।
उन्नते भवतः पार्श्वे पुरस्तदुदरं महत् ॥” * ॥
नपुंसकविशेषानाह ।
“आसेक्यश्च सुगन्धिश्च कुम्भीकश्चेर्षकस्तथा ।
अमी सशुक्रा बोद्धव्या अशुक्रो भ्रूणसंज्ञकः ॥”
तेषां लक्षणान्याह ।
“पित्रोस्तु स्वल्पवीर्य्यत्वादासेक्यः पुरुषो भवेत् ।
स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम् ॥
यः पूतियोनौ जायेत स हि सौगन्धिको भवेत् ।
स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते ।
स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः ॥
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते ।
ईर्षकः स तु विज्ञेयो दृष्टियोनिश्च स स्मृतः ॥
यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते ।
तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः ॥”
इति भावप्रकाशः ॥
(अस्य विवृतिर्यथा, --
“समवीर्य्यरजस्त्वेन नरः स्त्रीप्रकृतिर्भवेत् ।
नपुंसकमिति ख्यातं न स्त्री न पुरुषो वदेत् ॥”
“समदोषबलेनापि प्रकृत्या विकृतेरपि ।
समो भवेदसृक् शुक्रो नपुंसकसमुद्भवः ॥”
इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥)

नप्ता, [ऋ] पुं, (न पतन्ति पितरो येनेति । पत +

“नप्तृनेष्टृत्वष्ट्रिति ।” उणां २ । ९६ । इति
तृच्प्रत्ययेन निपातनात् साधुः ।) पुत्त्रकन्ययोः
पुत्त्रः । नाति इति भाषा । तत्पर्य्यायः । पौत्त्रः
२ सुतस्य सुतः ३ । इति हेमचन्द्रः ॥ (यथा,
महाभारते । १ । ८५ । २० ।
“कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ! ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यति ॥”)

नप्त्री, स्त्री, (नप्तृ + “ऋन्नेभ्यो ङीप् ।” ४ । १ । ५ ।

इति ङीप् ।) पुत्त्रकन्ययोः पुत्त्री । नातिनी इति
भाषा । तत्पर्य्यायः । पौत्त्री २ सुतात्मजा ३ ।
इत्यमरः । २ । ६ । २९ ॥ नप्ता ४ पौत्त्रिका ५ ।
इरि रभसः ॥ सुतस्य सुतायाश्चात्मजायां नप्त्री
पुत्त्रस्य पुत्त्र्याश्चापत्यं पौत्त्री अतएव पौत्त्रोऽपि
नप्ता । इत्यमरटीकायां भरतः ॥

नभः, पुं, (नभति हिनस्ति कीटादीनिति । नभ

हिंसायाम् + पचाद्यच् ।) श्रावणमासः । इति
शब्दरत्नावली ॥ (द्वितीयमनोः स्वारोचिषस्य
पुत्त्रविशेषः । इति हरिवंशे । ७ । १४ ॥ तृतीय-
मन्वन्तरदेवविशेषः । इति च तत्रैव । ७ । १९ ॥
कुशप्रपौत्त्रनलस्य पुत्त्रं । इति च हरिवंशे ।
१५ । २७ ॥)

नभः, [स्] क्ली, (नह्यते मेघैरिति । नह बन्धने +

“नहेर्दिवि भश्च ।” उणां ४ । २१० । इति असुन्
भश्चान्तादेशः ।) आकाशम् । इत्यमरः । १ ।
२ । १ ॥ (यथा, मनुः । ४ । ३७ ।
“नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥”)

नभःक्रान्ती, [न्] पुं, (नभःक्रान्तं गगनाक्रमण-

मस्त्यस्येति । इनिः ।) सिंहः । इति शब्द-
माला ॥

नभःप्राणः, पुं, (नभसः प्राण इव ।) पवनः ।

इति त्रिकाण्डशेषः ॥

नभःसत्, [द्] पुं, (नभसि सीदतीति । सद् +

क्विप् ।) देवः । इति त्रिकाण्डशेषः ॥

नभःसरित्, स्त्री, (नभसः सरित् नदी ।) स्वर्गङ्गा ।

इति त्रिकाण्डशेषः ॥

नभःस्थितः, पुं, (नभसि स्थितः ।) नरकविशेषः ।

इति हेमचन्द्रः । ५ । २ ॥ आकाशस्थिते, त्रि ॥

नभश्चक्षुः, पुं, (नभसश्चक्षुरिव ।) सूर्य्यः । इति

शब्दमाला ॥

नभश्चमसः, पुं, (नभसश्चमस इव ।) चन्द्रः ।

चित्रापूपः । इन्द्रजालम् । इति मेदिनी । से,
३८ ॥

नभश्चरः, पुं, (नभसि चरतीति । चर + टः ।)

पक्षी । विद्याधरः । (गन्धर्व्वादिः । यथा,
रघुः । १८ । ६ ।
“नभश्चरैर्गीतयशाः स लेभे
नभस्तलश्यामतनुं तनूजम् ॥”)
मेघः । वायुः । इति मेदिनी । रे, २७२ ॥
(आकाशचारिणि, त्रि । यथा, कुमारे । ५ ।
२३ ।
“निकामतप्ता विविधेन वह्निना
नभश्चरेणेन्धनसम्भृतेन सा ॥”)

नभसं, क्ली, (नभते व्याप्नोतीति । नभ + “अत्यवि-

चमितमीति ।” उणां । ३ । ११७ । इति
असच् ।) आकाशम् । यथा । नभसं खं मेघ-
वर्त्म विहायसमिति निगमः ॥ (पुं, दशम-
मन्वन्तरीयसप्तर्षीणामन्यतमः । यथा, हरि-
वंशे । ७ । ६७ ।
“अङ्गिरा नभसः सत्यं सप्तैव परमर्षयः ॥”)

नभसङ्गमः, पुं, (नभसं गच्छतीति । गम + गमेः

सुपीति खच् । ततो मुम् ।) पक्षी । इत्यमरः ।
२ । ४ । ३४ ॥
पृष्ठ २/८२७

नभस्तलं, पुं क्ली, (नभसस्तलम् ।) गगनमण्डलम् ।

यथा, नैषधे । २ । ६९ ।
“तनुदीधितिधारया रयाद्-
गतया लोकविलोकनामसौ ।
छदहेमकषन्निवालसत्
कषपाषाणनिभे नभस्तले ॥”

नभस्यः, पुं, (नभसे मेधाय साधुः । नभस् + “तत्र

साधुः ।” ४ । ४ । ९८ । इति यत् ।) भाद्र-
मासः । इत्यमरः । १ । ४ । १७ ॥ (यथा,
हरिवंशे । १५२ । १ ।
“नभो नभस्येऽथ निरीक्ष्य मासि
कामस्तदा तोयदवृन्दकीर्णम् ॥”)

नभस्वान्, [त्] पुं, (आकाशाद्बायुरिति श्रुतेः

नभः उत्पत्तिकारणत्वेनास्त्यस्येति । नभस् +
मतुप् मस्य वः ।) वायुः । इत्यमरः । १ ।
१ । ६६ ॥ (यथा, रघुः । ४ । ८ ।
“स हि सर्व्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥”)

नभाः, [स्] पुं, (नभति हिनस्ति कीटादी-

निति । नभ + “सर्व्वधातुभ्योऽसुन् ।” उणां ४ ।
१८८ । इति असुन् ।) श्रावणमासः । (यथा,
रघुः । १२ । २९ ।
“स जहार तयोर्म्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥”)
मेघः । घ्राणम् । वर्षाः । विसतन्तुः । पतद्ग्रहः ।
इति मेदिनी । से, २६ ॥ पलितशीर्षम् । इति धरणी ॥

नभाकं, क्ली, (नभ्नाति व्याप्नोतीति । नभ +

“पिनाकादयश्च ।” उणां । ४ । १५ । इति
आकः ।) तमः । इत्युणादिकोषः ॥

नभोगजः, पुं, (नभसि आकाशे गज इव ।)

मेघः । इति त्रिकाण्डशेषः ॥

नभोगतिः, स्त्री, (नभसि गतिर्गमनम् ।) आकाश-

गमनम् । यथा, --
“प्रडीनोड्डीनसण्डीनडयनानि नभोगतौ ॥”
इति हेमचन्द्रः । ४ । ३८४ ॥

नभोदुहः, पुं, (नभसः दोग्धि प्रपूरयति नद्या-

दिकमिति । दुह प्रपूरणे + कः ।) मेघः । इति
शब्दमाला ॥

नभोद्वीपः, पुं, (नभसि द्वीप इव ।) मेघः । इति

शब्दमाला ॥

नभोधूमः, पुं, (नभसि धूम इव ।) मेघः । इति

शब्दमाला ॥

नभोनदी, स्त्री, (नभसो नदी ।) स्वर्गङ्गा । इति

भूरिप्रयोगः ॥

नभोमणिः, पुं, (नभसो मणिरिव ।) सूर्य्यः । इति

हेमचन्द्रः । २ । ८ ॥

नभोमण्डलदीपः, पुं, (नभोमण्डले दीप इव ।)

चन्द्रः । यथा, तिथ्यादितत्त्वे ।
“नभोमण्डलदीपाय शिरोरत्नाय धूर्ज्जटे ।
कलाभिर्व्वर्द्धमानाय नमश्चन्द्राय चारवे ॥”

नभोऽम्बुपः, पुं, (नभसः अम्बु जलं पिबतीति । पा +

कः ।) चातकपक्षी । इति हेमचन्द्रः । ४ । ३९५ ॥

नभोरजः, [स्] क्ली, (नभसो रज इव ।)

अन्धकारः । इति शब्दमाला ॥

नभोरेणुः, स्त्री, (नभसि रेणुरिव ।) कुज्-

झटिका । इति त्रिकाण्डशेषः ॥

नभोलयः, पुं, (नभसि लयो यस्य ।) धूमः । इति

शब्दरत्नावली ॥

नभ्यं, त्रि, नभस्येदमित्यर्थे ष्यञ्प्रत्ययः । नभसम्बन्धि ।

(नाभये हितम् । नाभि + “उगवादिभ्यो यत् ।”
५ । १ । २ । इति यत् । “नाभि नभञ्च ।” इति
नभादेशः । रथाङ्गम् । “नभ्योऽक्षः । नभ्य-
मञ्जनम् । रथनाभावेवेदम् ॥” इति सिद्धान्त-
कौमुदी ॥)

नभ्राट्, [ज्] पुं, (न भ्राजते इति । भ्राज दीप्तौ

+ क्विप् ।) मेघः । इति हेमचन्द्रः । २ । ७८ ॥

नमः, [स्] व्य, (नम शब्दनत्योः + भावे

असुन् ।) नतिः । इत्यमरः । ३ । ४ । १८ ॥
(यथा, मार्कण्डेये ।
“नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥”
क्लीवलिङ्गेऽपि दृश्यते । यथा, भागवते । ३ ।
१३ । ४२ ।
“विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधाः ॥”)
त्यागः । रुतम् । इत्युणादिकोषः ॥ (क्ली,
अन्नम् । इति निघण्टुः । २ । ७ ॥ वज्रम् । इति
निघण्टुः । २ । २० ॥ स्तोत्रम् । यथा, ऋग्वेदे ।
७ । १६ । १ ।
“एना वो अग्निं नमसोर्जो नपातमा हुवे ॥”)

नमतः, पुं, (नम्यते इति । नम + “भृमृदृशि-

यजीति ।” उणां । ३ । ११० । इति अतच् ।)
प्रभुः । धूमः । नटः । इत्युणादिकोषः ॥

नमसः, पुं, (नमतीति । नम + “अत्यविचमि-

तमीति ।” उणां । ३ । ११७ । इति असच् ।)
अनुकूलः । इत्युणादिकोषः ॥

नमसितः, त्रि, (नमः कृतमिति । नमस् + “नमो-

वरिवः ।” ३ । १ । १९ । इति क्यच् । क्तः ।
“क्यस्य विभाषा ।” ६ । ४ । ५० । इति वा
यलोपः ।) कृतनमस्कारः । पूजितः । तत्-
पर्य्यायः । नमस्यितः २ अर्हितः ३ अप-
चायितः ४ अर्च्चितः ५ अपचितः ६ । इत्यमरः ।
३ । १ । १०१ ॥

नमस्कारः, पुं, (नमः शब्दस्य कारः करणं यत्र ।)

विषभेदः । इति शब्दचन्द्रिका ॥ (नमः करः
णम् । नमस् + कृ + घञ् ।) नतिः । स च
त्रिविधः । कायिकः वाचिकः मानसिकश्च ।
यथा, --
“कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः ।
नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः ॥”
कायिकादिरपि त्रिविधो यथा, --
“प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ ।
जानुभ्यां धरणीं गत्वा शिरसा स्पृश्य मेदिनीम् ॥
क्रियते यो नमस्कार उत्तमः कायिकस्तु सः ॥
जानुभ्याञ्च क्षितिं स्पृष्ट्वा शिरसा स्पृश्य मेदिनीम् ।
क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः ॥
पुटीकृत्य करौ शीर्षे दीयते यद्यथा तथा ।
अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते ॥
या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ।
क्रियते भक्तियुक्तैर्व्वा वाचिकस्तूत्तभः स्मृतः ॥
पौराणिकैर्व्वेदिकैर्व्वा मन्त्रैर्या क्रियते नतिः ।
मध्यमोऽसौ नमस्कारो भवेद्वाचनिकः सदा ॥
यत्तु मानुषवाक्येन नमनं क्रियते सदा ।
स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्त्रकौ ॥
इष्टमध्यानिष्टगतैर्म्मनोभिस्त्रिविधं पुनः ।
नमनं मानसं प्रोक्तसुत्तमाधममध्यमम् ॥
त्रिविधे चं नमस्कारे कायिकश्चोत्तमः स्मृतः ।
कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः ॥
अयमेव नमस्कारो दण्डादिप्रतिपत्तिभिः ।
प्रणाम इति विज्ञेयः स पूर्ब्बप्रतिपादितः ॥”
इति कालिकापुराणे ७० अध्यायः ॥ * ॥
रात्रौ तन्निषेधो यथा, --
“रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचारिका ।
अतः प्रातःपदं दत्त्वा प्रयोक्तव्ये च ते उभे ॥”
इति महाभारतमिति केचित् ॥
नतिकरणम् । तत्तु करशिरःसंयोगादि । स्वाप-
कर्षबोधकव्यापारविशेषः । इति मुग्धबोध-
टीकायां दुर्गादासः ॥
“सर्व्वे चापि नमस्कुर्य्युः सर्व्वावस्थासु सर्व्वदा ॥”
अभिवादयेदित्यनुवृत्तौ शङ्खः । नाप्रयताया-
प्रयतश्च । इति शुद्धितत्त्वम् ॥
“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥”
इति स्मृत्यर्थसारः ॥ * ॥
“देवं विप्रं गुरुं दृष्ट्वा न नमेद्यस्तु सम्भ्रमात् ।
स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ ॥
ब्राह्मणञ्च गुरुं दृष्ट्वा न नमेद्यो नराधमः ।
यावज्जीवनपर्य्यन्तमशुचिर्य्यवनो भवेत् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
“देवतायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा ।
नमस्कारं न कुर्य्याद्यः प्रायश्चित्ती भवेन्नरः ॥
सभायां यज्ञशालायां देवतायतनेषु च ।
प्रत्येकन्तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥
उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो वदेत् ।
स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम् ॥
दूरस्थं जलमध्यस्थं धावन्तं मदगर्व्वितम् ।
क्रोधवन्तं विजानीयात् नमस्कारञ्च वर्ज्जयेत् ॥
पुष्पहस्तो वारिहस्तस्तैलाभ्यङ्गो जलस्थितः ।
आशीःकर्त्ता नमस्कर्त्ता उभयोर्नरकं भवेत् ॥”
इति कर्म्मलोचनम् ॥ * ॥
“मातुः पितुः कनीयांसं न नमेद्बयसाधिकः ।
नमस्कुर्य्याद्गुरोः पत्नीं भ्रातृजायां विमातरम् ॥”
यमः ।
“अभिवादयतः पूर्ब्बमाशिषं न प्रयच्छति ।
यद्दुष्कृतं भवेत्तस्य तस्माद्भागं प्रपद्यते ॥
स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति राजनि ।
वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव च ॥”
इति मलमासतत्त्वम् ॥ * ॥
पृष्ठ २/८२८
“गुरुपत्नीन्तु युवतीं नाभिवाद्येत पादयोः ।
कुर्व्वीत वन्दनं भूयो भगो वोऽहमिति ब्रुवन् ॥
विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।
गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्म्मतः ।
असावहम्भो नामेति सम्यक् प्रणतिपूर्ब्बकम् ॥
आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्ज्जितः ।
आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ॥
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्ब्बाक्षरः प्लुतः ।
यो न वेत्त्यभिवादस्य द्विजः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥
सव्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥
लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥
ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥” * ॥
अभिवादनीया गुरवो यथा, --
“उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ।
वन्धुज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ॥
माता मातामही गुर्ब्बी पितुर्मातुश्च सोदराः ।
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियाम् ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्बिजाः ॥
अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः ।
गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥”
इति कूर्म्मपुराणे ११ अध्यायः ॥ * ॥
अथ सप्तधा नतिलक्षणानि ।
“त्रिकोणमथ षट्कोणमर्द्धचन्द्रं प्रदक्षिणम् ।
दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम् ॥
ऐशानी वाथ कौवेरी दिक् कामाख्याप्रपूजने ।
प्रशस्ता स्थण्डिलादौ च सर्व्वमूर्त्तेस्तु सर्व्वतः ॥
त्रिकोणादिव्यवस्थाञ्च यदि पूर्ब्बमुखो यजेत् ।
पश्चिमात् शाम्भवीं गत्वा व्यवस्थां निर्द्दिशेत्तदा ॥
यदोत्तरामुखः कुर्य्यात् साधको देवपूजनम् ।
तदा याम्यात्तु वायव्यां गत्वा कुर्य्यात्तु संस्थितिम् ॥
दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् ।
ततोऽपि दक्षिणं गत्वा नमस्कारस्त्रिकोणवत् ।
त्रिकोणो यो नमस्कारस्त्रिपुराप्रीतिदायकः ॥ १ ॥
दक्षिणाद्वायवीं गत्वा वायव्यात् शाम्भवीं ततः ।
ततोऽपि दक्षिणं गत्वा तां त्यक्त्वाग्नौ प्रविश्य च ॥
अग्नितो राक्षसीं गत्वा ततश्चाप्युत्तरां दिशम् ।
उत्तराच्च तथाग्नेयीं भ्रमणं द्बित्रिकोणवत् ।
षट्कोणो यो नमस्कारः प्रीतिदः शिवदुर्गयोः ॥ २ ॥
दक्षिणाद्बायवीं गत्वा तस्माद्ब्यावृत्य दक्षिणम् ।
गत्वा योऽसौ नमस्कारः सोऽर्द्धचन्द्रः प्रकी-
र्त्तितः ॥ ३ ॥
सकृत् प्रदक्षिणं कृत्वा वर्त्तुलाकृतिसाधकः ।
नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः ॥ ४ ॥
त्यक्त्रा स्वमाननस्थानं पश्चाद्गत्या नमस्कृतिः ।
प्रदक्षिणं विना या तु निपत्य भुवि दण्डवत् ।
दण्ड इत्यच्यते देवैः सर्व्वदेवौघमोददः ॥ ५ ॥
पूर्ब्बवद्दण्डवद्भूमौ निपत्य हृदयेन तु ।
चिवुकेन मुखेनाथ नासया त्वलिकेन च ॥
ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् ।
तदष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः ॥ ६ ॥
प्रदक्षिणत्रयं कृत्वा साधको वर्त्तुलाकृतिः ।
ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यः स्यान्नमस्कृतौ ।
स उग्र इति देवीघैरुच्यते विष्णुतुष्टिदः ॥ ७ ॥
नदानां सागरो यादृग्द्विपदां ब्राह्मणो यथा ।
नदीनां जाह्नवी यादृग्देवानामिव चक्रधृक् ।
नमस्कारेषु सर्व्वेषु तथैवोग्रः प्रशस्यते ॥
त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः ।
चतुर्वर्गं लभेद्भक्तो न चिरादेव साधकः ॥
नमस्कारो महायज्ञः प्रीतिदः सर्व्वतः सदा ।
सर्व्वेषामपि देवानामन्येषामपि भैरव ! ॥
योऽसावुग्रो नमस्कारः प्रीतिदः सततं हरेः ।
महामायाप्रीतिकरः स नमस्करणोत्तमः ॥”
इति कालीपुराणम् ॥

नमस्कारी, स्त्री, (नमस्कारस्तदञ्जलिरिव पत्र-

सङ्कोचोऽस्त्यस्या इति । अच् । गौरादित्वात्
ङीष् ।) खदिरिकाशाकः । लाजालु इति
ख्यात इति केचित् ॥ किन्तु रभसेन वराह-
क्रान्ता लज्जालुः समङ्गा जलकारिकेति खदिरि-
कायाम् । सङ्कोचपत्री लज्जालुरिति लज्जा-
लुकायां पठितम् । अञ्जलिरूपपत्रत्वादञ्जले-
र्नमस्कारव्यञ्जकत्वात् नमस्कारशीलेव नमस्कारी ।
इत्यमरटीकायां भरतः ॥ (यथास्याः पर्य्यायो
वैद्यकरत्नमालायाम् ।
“गण्डकालीनमस्कारी समङ्गा खदिरी क्वचित् ॥”)

नमस्यः, त्रि, (नमस्य नामधातुः + कर्म्मणि यत् ।)

नमस्कारयोग्यः । यथा, --
“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥”
इति मलमासतत्त्वम् ॥

नमस्या, स्त्री, (नमस्य + भावे अः । स्त्रियां टाप् ।)

पूजा । इत्यमरः । २ । ७ । ३५ ॥

नमस्यितः, त्रि, (नमःकृतमिति । नमस् + “नमो-

वरिवः इति ।” ३ । १ । १९ । इति क्यच् ।)
पूजितः । इत्यमरः । ३ । १ । १०१ ॥

नमितः, त्रि, नमोऽस्य जात इत्यर्थे इतच्प्रत्यय-

निष्पन्नः । जातनमस्कारः । नामितः । यथा, --
“अपः शालग्रामाप्लवनगरिमोद्गारसरसाः
सुधीः को वा कौपीरपि नमितमूर्द्धा न पिबति ॥”
इति विदग्धमाधवनाटकम् ॥

नमुचिः, पुं, (न मुञ्चतीति । मुच + इन् । स च

कित् ।) कन्दर्पः । दैत्यभेदः । इति मेदिनी ।
चे, १४ ॥ यथा, --
“कश्यपस्य दनुर्नाम भार्य्यासीद्द्विजसत्तम ! ।
तस्यान्तु द्वौ सुतावास्तां सहस्राक्षाद्बलाधिकौ ॥
ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः ।
तृतीयो नमुचिर्नाम महाबलसमन्वितः ॥”
इति वामने ५२ अध्यायः ॥
(इन्द्र एनं निहतवान् । यथा, महाभारते ।
९ । ४३ । ३३ -- ३६ ।
“नमुचिर्वासवाद्भीतः सूर्य्यरश्मिं समाविशत् ।
तेनेन्द्रः सख्यमकरोत् समयञ्चेदमब्रवीत् ॥
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि ।
वधिष्याम्यसुरश्रेष्ठ ! सखे ! सत्येन ते शपे ॥
एवं स समयं कृत्वा दृष्ट्वा नीहारमीश्वरः ।
चिच्छेदास्य शिंरो राजन्नपां फेनेन वासवः ॥
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् ।
भो मित्रहन ! पापेति ब्रुवाणं शक्रमन्तिकात् ॥”)

नमुचिद्विट्, [ष्] पुं, (नमुचिं द्वेष्टीति । द्बिष् +

“सत्सूद्बिषेति ।” ३ । २ । ६१ । इति क्विप् ।)
इन्द्रः । यथा, माघे । १ । ५१ ।
“विगृह्य चक्रे नमुचिद्विषा बली
य इत्थमस्वास्थ्यमहर्द्दिवं दिवः ॥”

नमुचिसूदनः, पुं, (नमुचिं दैत्यविशेषं सूदयतीति ।

सूदि + ल्युः ।) इन्द्रः । इत्यमरः । १ । १ । ४६ ॥

नमेरुः, पुं, (नम्यते इति । नम + बाहुलकात्

एरुः ।) रुद्राक्षः । इति भूरिप्रयोगः ॥ सुर-
पुन्नागः । इति राजनिर्घण्टः ॥ (यथा, रघुः ।
४ । ७४ ।
“विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः ॥”)

नमोगुरुः, पुं, (नमस्करणीयो गुरुः ।) नमस्कारै-

र्गुरुः । ब्राह्मणः । इति काचित् शब्दरत्नावली ॥

नम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) ओष्ठ्यवर्गशेषोपधः । नम्बति । इति
दुर्गादासः ॥

नम्रः, त्रि, (नमतीति । नम + “नमिकम्पीति ।”

३ । २ । १६७ । इति रः ।) नतः । इति हलायुधः ॥
(यथा, पञ्चतन्त्रे । २ । १८९ ।
“यन्नम्रं सरलञ्चापि तच्चापत्सु न सीदति ।
धनुर्मित्रं कलत्रञ्च दुर्लभं शुद्धवंशजम् ॥”)

नम्रकः, पुं, (नम्र इव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् ।) वेतसः ।
इति भावप्रकाशः ॥ (नम्र एव । स्वार्थे कन् ।
नते, त्रि ॥)

नय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-सेट् ।) ङ, नयते । इति दुर्गादासः ॥

नयः, पुं, (नीयतेऽनेनेति । नी + “एरच् ।” ३ । ३ ।

५६ । इत्यच् ।) नीतिः । तत्पर्य्यायः । नायः २
इत्यमरः । ३ । २ । ९ ॥ (यथा, पञ्चतन्त्रे । १ । ३८५ ।
“कथञ्चिन्न विकल्पन्ते विद्बद्भिश्चिन्तिता नयाः ॥”)
द्यूतविशेषः । इति मेदिनी । ये, ३४ ॥ नैगमादिः ।
इति हेमचन्द्रः ॥ न्याय्ये नेतरि च त्रि । इति
शब्दरत्नावली ॥

नयनं, क्ली, (नीयते दृष्टिविषयोऽनेनेति । नी +

करणे ल्युट् ।) चक्षुः । इत्यमरः । २ । ६ । ९३ ॥
(यथा, मार्कण्डेये । १८ । ४० ।
“नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् ॥”)
नी ञ प्रापणे इत्यस्माद्भावे ल्युट्प्रत्ययः ॥
प्रापणम् । (आनयनम् । यथा, हरिवंशे ।
१२७ । ११ ।
“तत्त्वं हितञ्च देवेश ! श्रूयतां वदतो मम ।
नयनं पारिजातस्य द्वारकां मम रोचते ॥”)
पृष्ठ २/८२९

नयनी, स्त्री, (नीयतेऽनयेति । नी + करणे ल्युट् +

ङीप् ।) कनीनी । इति शब्दचन्द्रिका ॥

नयनोत्सवः, पुं, (नयनयोरुत्सवो यस्मात् ।)

प्रदीपः । इति शब्दरत्नावली ॥ चक्षुरुत्सवश्च ॥

नयनोपान्तः, पुं, (नयनयोरुपान्तः प्रान्तभागः ।)

अपाङ्गः । इति राजनिर्घण्टः ॥

नयनौषधं, क्ली, (नयनयोरौषधम् ।) पुष्पकासी-

सम् । इति हेमचन्द्रः । ४ । १२३ ॥

नयपीठी, स्त्री, (नयस्य पीठीव ।) अष्टकाङ्गम् ।

इति त्रिकाण्डशेषः ॥ छक् इति भाषा ॥

नयविशारदः, पुं, (नये नीतौ विशारदो विज्ञः ।)

नीतिशास्त्रज्ञः । यथा, --
“षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः ।
सान्धिविग्रहिकः कार्य्यो राज्ञा नयविशारदः ॥”
इति मात्स्ये ८९ अध्यायः ॥

नरं, क्ली, (नृणाति प्रापयति आनन्दमिति । नॄ

प्रापणे + अच् ।) रामकर्पूरतृणम् । इति
मेदिनी । रे, ५२ ॥

नरः, पुं, (नृणातीति । नॄ + अच् ।) मनुष्यः ।

इत्यमरः । २ । ६ । १ ॥ (यथा, मनुः । १ । ९६ ।
“बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः
स्मृताः ॥”)
पुरुषः । इति राजनिर्घण्टः ॥ (यथा, देवी-
भागवते । ५ । २ । १४ ।
“यदा कदापि दैत्येन्द्र ! नार्य्यास्ते मरणं ध्रुवम् ।
न नरेभ्यो महाभाग ! मृतिस्ते महिषासुर ! ॥”)
विष्णुः । (महादेवः । यथा, महाभारते ।
१३ । १७ । ११५ ।
“गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ॥”)
अर्ज्जुनः । इति मेदिनी । रे, ५२ ॥ (नर-
मुनेरंशजातत्वादस्य तथात्वम् ॥) शङ्कुः । इति
लीलावती ॥ * ॥ अथ नरजन्मकारणम् । “पितुः
शुक्रोत्तरो नरः ॥” अन्यच्च । सुखबोधे ।
“विषमायां तिथौ क्षिप्तं कुर्य्याद्बीजन्तु कन्यकाम् ।
समायां पुरुषं नूनं केचिदाहुर्म्मनीषिणः ॥
चतुरशीतिलक्षान्ते गोजन्मा तत्परं नरः ।
ततस्तु ब्राह्मणश्च स्यादभयं नात्र संशयः ॥”
इति पाद्मोत्तरखण्डे १५ अध्यायः ॥
(स्वनामख्यातो हरेरंशभूतो धर्म्मपुत्त्रःऋषिः ।
यथा, देवीभागवते । ४ । ५ । १५ ।
“हरेरंशौ स्थितौ तत्र नरनारायणावृषी ।
पूर्णं वर्षसहस्रन्तु चक्राते तप उत्तमम् ॥”
अस्य विवरणन्तु तत्रैव विशेषतो द्रष्टव्यम् ॥ * ॥
देवयोनिविशेषः । यथा, विष्णुपुराणे । १ । ५ । ५८ ।
“नरकिन्नररक्षांसि वयःपशुमृगोरगान् ॥”)

नरकः, पुं, (नृणाति क्लेशं प्रापयतीति । नॄ +

“कृञादिभ्यः संज्ञायां वुन् ।” उणां । ५ । ३५ ।
इति वुन् ।) देवरात्रिप्रभेदः । इत्युणादिकोषः ॥
(नरस्य मनुष्यस्य कं शिरो यत्र ।) दैत्यविशेषः ।
स पृथिव्या गर्भे वराहदेवाज्जातः । यथा, --
“रजस्वलाया गोत्राया गर्भे वीर्य्येण पोत्रिणः ।
यतो जातस्ततो भूतो देव्पुत्त्रोऽपि सोऽसुरः ॥”
तस्य नामकारणं यथा, --
“मानुषस्य शिरस्तत्र मृतस्य प्राप्य बालकः ।
स्वशिरस्तत्र विन्यस्य रुदंस्तस्थौ क्षणं तदा ॥
नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः ।
तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात् ॥”
तस्य राज्यं यथा, --
श्रीभगवानुवाच ।
“करतोया सत्यगङ्गा पूर्ब्बभागावधिश्रिता ।
यावल्ललितकान्तास्ति तावद्देशं पुरं तदा ॥
अत्र देवी महामाया योगनिद्रा जगत्प्रसूः ।
कामाख्यारूपमादाय सदा तिष्ठति शोभना ॥
अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः ।
अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः ॥
अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा ।
चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक ! ॥
सर्व्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् ।
अत्र श्रीः सर्व्वतोभद्रा भोग्यमत्र सदा बहु ॥
अत्रैव हि स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज्ज ह ।
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥
अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम् ।
कृतदारः सहामात्यै राजा भूत्वा महाबल ! ॥”
तस्य महिषी माया यथा, --
“ततो विदर्भराजस्य पुत्त्रीं मायाह्वयां हरिः ।
पुत्त्रार्थे वरयामास नरकस्य समां गुणैः ॥
तामुद्बाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् ।
तया समं स्वतनयं राजत्वेनाभ्यषेचयत् ॥”
तस्य पुत्त्रा यथा, --
“ऋतुमत्याञ्च जायायां कालेन नरकः क्रमात् ।
भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् ॥
चतुरो जनयामास पुत्त्रांस्तांश्च क्षितेः सुतः ।
महासत्त्वान् महावीर्य्यान् देवैरन्यैर्दुरासदान् ॥”
इति कालीपुराणे ३९ अध्यायः ॥
पापिनां यातनास्थानम् । तत्सङ्ख्या यथा, --
“पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् ।
सुचिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥
अष्टाविंशति विख्यातास्ततो नरककोटयः ।
नरकाणामधस्तात्तु धूमः कालाग्निसम्भवः ॥
तस्याधस्तादनन्ताख्यो रुद्रः सर्व्वमयो महान् ।
तदधो धर्म्मचक्रन्तु येनेदं धार्य्यते जगत् ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
तत्पर्य्यायः । नारकः २ निरयः ३ दुर्गतिः ४ ।
इत्यमरः । १ । ९ । १ ॥ * ॥ नरकसंख्या यथा, --
“उष्मोर्द्ध्व नरकाः शक्र ! कोट्यः पञ्चाशमानतः ।
चत्वारिंशन्मितं तेषां प्रधानं तन्निबोधत ॥”
उष्मोर्द्धे पाताले कालाग्निरुद्रस्य पुरोर्द्ध्व ।
“अवीचिः कृमिभक्ष्यश्च तथा वैतरणी महान् ।
कूटशाल्मलिरुच्छ्वासयुग्मपर्व्वतरौरवम् ॥
निरुच्छ्वासः पूतिमांसस्तप्तलाक्षास्थितं जलम् ।
क्रकच्छेदस्तथा पङ्कं कण्ठायसमुतापिबम् ॥
पूतिपूर्णस्तथा मेदस्तम्भश्च रुधिरं वसा ।
तामिस्रस्त्वपतुण्डश्च तीक्ष्णासिश्च नपुंसकः ।
लौहतप्तस्त्रियो भीमा अङ्गारराशिकोपरि ।
कुम्भीपाकः क्षुरस्येव्यः सञ्जीवनसुतापनम् ॥
कालसूत्रं महापङ्कं शीतोष्णं क्षुरमेव च ।
अम्बरीषं तथा घोरं महारौरवसंज्ञकः ॥
सूचीमुखेक्षुयन्त्रश्च तैलं तप्तत्रपुस्तथा ।
असिपत्रं तथा शास्त्रं भूमिर्वागपहारिका ॥”
इति देवीपुराणम् ॥
नरकागामिनो यथा, --
यम उवाच ।
“न गच्छन्ति नरा घोरान् बहवोऽधर्म्मनिर्म्मि-
तान् ।
वधांश्च सुबहूंस्तत्र प्राप्नुवन्ति तपोधन ! ॥
विस्तरेण तु तत् सर्व्वं ब्रवीमि मुनिसत्तम ! ।
श्रूयतां तन्महाभाग ! श्रुत्वा चैवोपधारय ॥
नाग्निचिन्नरकं याति न सत्पुत्त्री न भूमिदः ।
शूरश्च शतवर्षी च वेदानाञ्चैव पारगः ॥
पतिव्रता न गच्छन्ति सत्यवाक्याश्च ये नराः ।
अजिताश्चाशठाश्चैव स्वामिभक्ताश्च ये नराः ॥
तिलं गाश्च हिरण्यञ्च पृथिवीञ्चापि शाश्वतीम् ।
ब्राह्मणेभ्यः प्रयच्छन्ति न गच्छन्ति न संशयः ॥
स्वदारनिरता दान्ताः परदारविवर्ज्जकाः ।
सर्व्वभूतात्मभूताश्च सर्व्वभूतानुकम्पकः ॥
न गच्छन्ति तु तं देशं पापिष्ठं तमसावृतम् ।
यातनास्थानसंपूर्णं हाहाप्रतिभयस्वनम् ॥
ज्ञानवन्तो द्विजा ये च ये च विद्यापरं गताः ।
उदासीना न गच्छन्ति स्वाम्यर्थे च हता नराः ॥
न गच्छन्त्यत्र दातारः सर्व्वभूतहिते रताः ।
शुश्रूषका मातृपित्रोर्न गच्छन्ति न संशयः ॥
अहिंसका न गच्छन्ति ब्रह्मचर्य्यव्यवस्थिताः ।
पतिव्रता दानवन्तो द्विजभक्ताश्च ये नराः ॥
यथोक्तं यजमानाश्च सत्रयाजिन एव च ।
चातुर्म्मास्यकरा ये च ये द्विजा आहिताग्नय
गुरुचित्तानुपालाश्च कृतिनो मौनयन्त्रिताः ।
नित्यस्वाध्यायिनो दान्ताः सदा सभ्याश्च ये नराः
मानवान् पूजयन्तो वै आत्मभावेन भाविताः ।
अपर्व्वमैथुना ये च न गच्छन्ति द्बिजोत्तमाः ॥
ब्राह्मणा अमरत्वञ्च प्राप्नुवन्ति न संशयः ॥
निराशाः सर्व्वकामेभ्यो निराशाः सुजितेन्द्रियाः ।
न गच्छन्ति हि तं घोरं यत्र ते पापकर्म्मिणः ॥”
इति वराहपुराणम् ॥ * ॥
नरकगामिनो यथा, --
नारद उवाच ।
“दुष्कर्म्माण्यपि वक्ष्यामि नरकंयैः प्रयान्ति हि ।
सर्व्वेष्वेव तु कार्य्येषु देवपूर्ब्बेषु भूमिप ! ॥
हन्ति पुत्त्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमः
कृतः ।
गुर्व्वर्थं वा भयार्त्तं वा वर्ज्जयित्वा महीपते ! ।
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥
प्रपाणाञ्च सभानाञ्च संक्रमाणाञ्च मारिष ।
आगाराणाञ्च भेत्तारो नरा निरयगामिनः ॥
ये परस्वापहर्त्तारः परस्वानाञ्च नाशकाः ।
सूचकाश्च परेषां हि ते नरा नरकानुगाः ॥
सूचकाः सन्धिभेत्तारः परवृत्त्युपजीविनः ।
पृष्ठ २/८३०
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥
पाषण्डा दूषकाश्चैव समयानाञ्च दूषकाः ।
ये प्रत्यवस्थिताश्चैव ते वै निरयगामिनः ॥
वृत्तिच्छेदं गृहच्छेदं दानच्छेदञ्च पार्थिव ! ।
मित्रच्छदं तथाशायाः कृत्वा नरकगामिनः ॥
विषमव्यवहाराश्च विषमाश्चैव बुद्धिषु ।
लाभेषु विषमाश्चैव नरा निरयगामिनः ॥
कृताशं कृतनिर्व्वेशं कृतभक्तं कृतश्रमम् ।
भेदैर्ये व्यवकर्षन्ति ते वै निरयगामिनः ॥
द्यूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः ।
प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः ॥
वेदविक्रयिणश्चैव वेदानाञ्चैव दूषकाः ।
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥
केशविक्रायका राजन् ! विषविक्रायकाश्च ये ।
क्षीरविक्रायकाश्चैव ते वै निरयगामिनः ॥
चातुराश्रम्यवाह्याश्च श्रुतिवाह्याश्च ये नराः ।
विकर्म्मभिश्च जीवन्ति ते वै निरयगामिनः ॥
ब्राह्मणानां गवाञ्चैव कन्यानाञ्च महामते ! ।
येऽन्तरं यान्ति कार्य्येषु ते वै निरयगामिनः ॥
शास्त्रविक्रायकाश्चैव कर्त्तारश्च महीपते ! ।
शल्यानां धनुषाञ्चैव ते वै निरयगामिनः ॥
शिलाभिः शङ्कुभिर्व्वापि श्वभ्रैर्व्वा मनुजर्षभ ! ।
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥
अगोप्तारश्च राजानो बलिषड्भागतस्कराः ।
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥
शान्तान् दान्तानथ प्रज्ञान् दीर्घकालसहोषि-
तान् ।
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥
बालानामथ वृद्धानां दासानाञ्चैव ये नराः ।
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥
इत्येतत् कथितं राजन् ! धर्म्माधर्म्मविनिर्णयम् ।
विमृष्य पुरुषः कर्म्म धर्म्ममेव समाचरेत् ॥”
इति पाद्मे स्वर्गखण्डे ३४ अध्यायः ॥
नरकविशेषगामिपापिनो यथा, --
“कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् ।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥
भ्रूणहा पुरहर्त्ता च गोघ्नश्च मुनिसत्तम ! ।
यान्ति ते नरके रोधे यश्चोच्छ्वासनिरोधकः ॥
सुरापो ब्रह्महा हर्त्ता सुवर्णस्य च शूकरे ।
प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥
राजन्यवैश्यहा ताले तथैव गुरुतल्पगः ।
तप्तकुम्भे स्वसृगामी हन्ति राजभटांश्च यः ॥
साध्वीविक्रयकृद्बध्यपालः केशरिविक्रयी ।
तप्तलौहे तु पच्यन्ते यश्च भक्तं परित्यजेत् ॥
‘केशरी अश्वः ।’
स्नुषां सुताञ्चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥
वेददूषयिता यश्च वेदविक्रायकश्च यः ।
अगभ्यागामी यश्च स्यात्ते यान्ति लवणं द्बिज ! ॥
चौरो विमोहे पतति मर्य्यादादूषकस्तथा ।
देवद्बिजपितॄन् द्बेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्षे वै कृमीशे च दुरिष्टकृत् ॥
पितृदेवातिथीन् यस्तु पर्य्यश्नाति नराधमः ।
लालाभक्षे स यात्युग्रे शरकर्त्ता च रोधके ॥”
‘पर्य्यश्नाति परित्यज्य आदौ भुङ्क्ते ।’
करोति कर्णिनो यस्तु यस्तु खड्गादिकृन्नरः ॥
प्रयान्ति ते विशसने नरके भृशदारुणे ।
असत्प्रतिग्रहीतारो नरके यान्त्यधोमुखे ॥
अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः ।
वेगी पूयवहञ्चैको याति मिष्टान्नभुङ्नरः ॥
‘वेगी साहसकारी । पुत्त्रादीन् वर्ज्जयित्वा एक
एव मिष्टान्नभुक् ।’
लाक्षामांसरसानाञ्च तिलानां लवणस्य च ।
विक्रेता ब्राह्मणो याति तमेव नरकं द्विज ! ॥
मार्ज्जारकुक्कुटच्छागान् श्ववराहविहङ्गमान् ।
पालयन्नरकं याति तमेव द्विजसत्तम ! ॥
रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा ।
सूची माहिषकश्चैव पर्व्वकारी च यो द्बिजः ॥
‘पत्यौ जीवति जाराज्जातः कुण्डः तदन्नभोजी
माहिषो महिषोपजीवी । यद्बा, --
महिषीत्युच्यते भार्य्या भगेनोपार्ज्जितं धनम् ।
उपजीवति यस्तस्याः स वै माहिषकः स्मृतः ॥
इति स्मृतिः ॥
पर्व्वकारी धनादिलोभेनापर्व्वसु अमावास्या-
दिक्रियाप्रवर्त्तकः ।’
अगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये ॥
ते कृष्ण यान्त्यशौचाश्च कुहकाजाविनश्च ये ।
असिपत्रवनं याति वनच्छेदी वृथैव यः ॥
औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ।
यान्त्येते द्बिज ! तत्रैव यश्चापाकेषु वह्निदः ॥
व्रतेषु लोपको यश्च स्वाश्रमाद्बिच्यतश्च यः ।
सन्दंशयातनामध्ये पततस्तावुभावपि ॥
दिवास्वप्नेषु स्कंन्दन्ति ये नरा ब्रह्मचारिणः ।
पुत्त्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
येषु दुष्फृतकर्म्माणः पच्यन्ते यातनागताः ॥
तथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥
वर्णाश्रमविरुद्धञ्च कर्म्म कुर्व्वन्ति ये नराः ।
कर्म्मणा मनसा वाचा निरयेषु पतन्ति वै ॥
अधःशिरोभिर्दृश्यन्ते नारकैर्द्दिवि देवताः ।
देवाश्चाधोमुखान् सर्व्वानधःपश्यन्ति नारकान् ॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।
धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥
सहस्रभागाः प्रथमा द्वितीयानुक्रमास्तथा ।
सर्व्वे ह्येते महाभाग ! यावन्मुक्तिसमाश्रयाः ॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः ॥”
इति विष्णुपुराणे । २ । ६ । ७ -- ३२ ॥
अपि च ।
“कथयामि विचित्राणां कर्म्मणां विविधा गतीः ।
ताः शृणुष्व महाराज ! याः श्रुत्वा मोक्षमाप्नु-
यात् ॥
परवित्तं परापत्यं कलत्रं पारकञ्च यः ।
हरते बुद्धिमोहेन सोऽन्ते मृत्युवशं गतः ॥
कालपाशेन संबद्धो यमदूतैर्म्महाबलैः ।
तामिस्रे पात्यते तावत् यावद्बर्षसहस्रकम् ॥
तत्र ताडनमुद्धूताः कुर्व्वन्ति यमकिङ्कराः ।
पापभोगेन सम्मत्तस्ततो योनिन्तु शौकरीम् ॥
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति ।
रोगादिचिह्नितं तत्र दुर्यशोज्ञापकं स्वकम् ॥
भूतद्रोहं विधायैवं केवलं सकुटुम्बकम् ।
पुष्णाति षापनिरतः सोऽन्धतामिस्रके पतेत् ॥
ये नरा इह जन्तूनां वधं कुर्व्वन्ति वै मृषा ।
ते रौरवे निपात्यन्ते खाद्यन्ते रुरुभिर्यतः ॥
यः स्वादरार्थं भूतानां वधमाचरति स्फुटम् ।
महारौरवसंज्ञे तु पात्यते स यमाज्ञया ॥
यो वै निजन्तु जनकं ब्राह्मणं द्वेष्टि पापकृत् ।
कालसूत्रे महादुष्टे योजनायतविस्तृते ॥
यावन्ति पशुरोमाणि गवां द्वेषं करोति यः ।
तावद्बषसहस्राणि पच्यते यमकिङ्करैः ॥
यो भूमौ भूपतिर्भूत्वा दण्डायोग्यन्तु दण्डयेत् ।
करोति ब्राह्मणस्यापि देहदण्डं विलोलुपः ।
स शूकरमुखैर्द्दुष्टैः पीड्यते यमकिङ्करैः ॥
पश्चाद्दष्टासु योनीषु जायते पापभुक्तये ।
ब्राह्मणानां गवां ये तु द्रव्यं वित्तं तथाल्पकम् ॥
वृत्तिं वा गृह्णते मोहाल्लम्पन्ति स्वबलान्नराः ।
ते परत्रान्धकूपे च पात्यन्ते च महार्द्दिताः ॥
योऽर्थं स्वयमुपाहृत्य मधुरञ्चात्ति लोलुपः ।
न देवाय न सुहृदे ददाति रसनातुरः ॥
स पतत्येव नरके कृमिभोजनसंज्ञके ।
अनापदि नरो यस्तु हिरण्यादीनपाहरेत् ॥
ब्रह्मस्वं वा महादुष्टः स दंशे नरके पचेत् ।
यः स्वदेहं प्रपुष्णाति नान्यं जानातिं मूढधीः ॥
मनसा कल्पितं द्रव्यं विदुषे यो ददाति न ।
स पुमान्नरकं याति यावदिन्द्राश्चतुर्द्दश ॥
पश्चाद्दष्टासु योनीषु जायते वर्णसङ्करः ।
दानानि वाडवे दत्त्वा पुनः शुद्धो भविष्यति ॥
वाचा दत्तं मनोदत्तमिति साहं वदेद्यदि ।
कम्पन्ते पितरस्तस्य नरकाय समुत्सुकाः ॥
वाचा दत्तं मनोदत्तं दत्तं पाणिकुशोदकम् ।
एतद्दत्तमदत्तं स्यात् जिह्वामुत्पाटयेद्यमः ॥
स यात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे ॥
यो नगम्यां स्त्रियं मोहाद्योषिद्भावाच्च काम-
येत् ।
तं तया किङ्कराः शूर्म्या परिबद्धञ्च कुर्व्वते ॥
ये बलाद्वेदमर्य्यादां लुम्पन्ति स्वबलोद्धताः ।
ते वैतरण्यां पतिता मांसशोणितभक्षकाः ॥
वृषलीं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् ।
पूयोदे निपतत्येव महादुःखसमन्वितः ॥
ये दम्भानाश्रयन्ते वै धूर्त्ता लोकस्य वञ्चने ।
वैशसे नरके मूढाः पतन्ति यमताडिताः ॥
ये सवर्णां स्त्रियं मूढाः पाययन्ति स्वरेतसम् ।
पृष्ठ २/८३१
रेतःकुल्यासु ते पात्या रेतःपानेषु तत्पराः ॥
ये चौरा वह्निना दुष्टा गरदा ग्रामलुण्ठकाः ।
सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः ।
पारकीयन्तु द्रव्यं यो रक्षति प्रसभं बली ॥
स वीचिनरके पापे ह्यवाग्वक्त्रः पतत्यधः ।
तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत् ॥
यो नरो रसनास्वादात् सुरां पिबति मूढधीः ।
तम्पाययति लोहस्य रसं धर्म्मस्य किङ्कराः ॥
यो गुरूनवमन्येत स्वविद्याचारदर्पितः ।
स मृतः पात्यते क्षारसंज्ञकेऽधोमुखः पुमान् ॥
विश्वासघातं कुर्व्वन्ति ये नरा धर्म्मनिष्कुताः ।
शूलप्रोते तु नरके पात्यन्ते बहुयातनाः ॥
यैर्न श्रुता रामकथा न परोपकृतिः कृता ।
तेषां सर्व्वाणि दुःखानि भवन्ति नरकान्तरे ॥
अत्र यस्य सुखं भूयस्तस्य स्वर्ग इतीर्य्यते ।
ये दुःखिनो रोगयुता नरकादागतास्तु ते ॥”
इति पाद्मे पातालखण्डे ४८ अध्यायः ॥
(अथ महारौरवादिनरकाख्यानम् । यथा,
मार्कण्डेये । १२ । ३-३९ ।
पुत्त्र उवाच ।
“रौरवस्ते समाख्यातः प्रथमं नरको मया ।
महारौरवसज्ञन्तु शृणुष्व नरकं पितः ! ॥
योजनानां सहस्राणि सप्त पञ्च समन्ततः ।
तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः ॥
तत्तापतप्ता सर्व्वाशा प्रोद्यदिन्दुसमप्रभा ।
विभात्यति महारौद्रा दर्शनस्पर्शनादिषु ॥
तस्यां बद्धः कराभ्याञ्च पद्भ्याञ्चैव यमानुगैः ।
मुच्यते पापकृम्मध्ये लुठमानः स गच्छति ॥
काकैर्व्वकैर्वृकोलूकैर्वृश्चिकैर्म्मशकैस्तथा ।
भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते ॥
दह्यमानः पितर्मातर्भ्रातस्तातेति चाकुलः ।
वदत्यसकृदुद्बिग्नो न शान्तिमधिगच्छति ॥
एवं तस्मान्नरैर्मोक्षो ह्यतिक्रान्तैरवाप्यते ।
वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥
तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः ।
महारौरववद्दीर्घस्तथा स तमसा वृतः ॥
शीतार्त्तास्तत्र धावन्तो नरास्तमसि दारुणे ।
परस्परं समासाद्य परिरभ्याश्रयन्ति च ॥
दन्तास्तेषाञ्च भज्यन्ते शीतार्त्तिपरिकम्पिताः ।
क्षुत्तृष्णा प्रबला तत्र तथैवान्येऽप्युपद्रवाः ॥
हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः ।
मज्जासृग्गलितन्तस्मादश्नुवन्ति क्षुधान्विताः ॥
लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे ।
एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः ॥
प्राप्यते ब्राह्मणश्रेष्ठ ! यावद्दुष्कृतसंक्षयः ॥
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ।
तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः ! ।
तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः ॥
यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् ।
नचैषां जीवितभ्रंशो जायते द्बिजसत्तम ! ॥
छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति च ।
एवं वर्षसहस्राणि छिद्यन्ते पापकर्म्मिणः ॥
तावद्यावदशेषं वै तत्पापं हि क्षयं गतम् ।
अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम ॥
यत्रस्थैर्न्नारकैर्दुःखमसह्यमनुभूयते ।
तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥
दुःखस्य हेतुभूतानि पापकर्म्मकृतां नृणाम् ।
चक्रेष्वारोपिताः केचिद्भ्राम्यन्ते तत्र मानवाः ॥
यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।
घटीयन्त्रेषु चैवान्यो बद्धस्तोये यथा घटी ॥
भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः ।
अस्रैर्मुखविनिष्क्रान्तैर्नेत्रैरस्रुविलम्बिभिः ॥
दुःखानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः ॥
असिपत्रवनं नाम नरकं शृणु चापरम् ।
योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः ॥
तप्ताः सूर्य्यकरैश्चण्डैर्यत्रातीव सुदारुणैः ।
प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ॥
तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते ।
पत्राणि तत्र खड्गानां फलानि द्विजसत्तम ! ॥
श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः ।
महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः ॥
ततस्तद्बनमालोक्य शिशिरच्छायमग्रतः ।
प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः ॥
हा मातर्हा तात ! इति क्रन्दन्तोऽतीव
दुःखिताः ।
दह्यमानाङ्घ्रियुगला धरणीस्थेन वह्निना ॥
तेषां गतानां तत्रासिपत्रपातीसमीरणः ।
प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि ॥
ततः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये ।
लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले ॥
सारमेयास्ततः शीघ्रं घातयन्ति शरीरतः ।
तेषामङ्गानि रुदतामनेकान्यतिभीषणाः ॥
असिपत्रवनं तात ! मयैतत् कीर्त्तितं तव ।
अतः परं भीमतरं तप्तकुम्भं निबोध मे ॥
समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ।
ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः ।
तेषु दुष्कृतकर्म्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥
क्वाथ्यन्ते विस्फुटद्गात्रगलन्मज्जजलाविलाः ।
स्फुटत्कपालनेत्रास्थिछिद्यमाना विभीषणैः ॥
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।
पुनःसिमसिमायन्त्रे तैलेनैक्यं व्रजन्ति च ॥
द्रवीभूतैः शिरोगात्रस्नायुमांसत्वगस्थिभिः ।
ततो याम्यैर्नरैराशु दर्व्व्या घट्टनघट्टिताः ॥
कृतावर्त्ते महातैले मथ्यन्ते पापकर्म्मिणः ।
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः ! ॥”)

नरककुण्डं, क्ली, (नरकस्य कुण्डम् ।) यातनास्थानम् । तद्यथा, यम उवाच । “नरकाणाञ्च कुण्डानि सन्ति नानाविधानि च । नानापुराणभेदेन

नामभेदानि तानि च ॥ विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् । भयङ्कराणि घोराणि हे वत्से ! कुत्सितानि च ॥ षडशीतिश्च कुण्डानि
संयमन्याञ्च सन्ति च । निबोध तेषां नामानि प्रसिद्ध्वानि श्रुतौ सति ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । २७ । २८ अध्यायौ ॥
तत्र नरककुण्डनामानि पापभेदात् कुण्डविशेषगामिनः
वह्निकुण्डम् १ कटुवाचा बान्धवदग्धकृत् १
तप्तकुण्डम् २ ब्राह्मणातिथिभोजनाप्रदः २
क्षारकुण्डम् ३ निषिद्धदिने वस्त्रे क्षारसंयोजकः ३
विट्कुण्डम् ४ ब्रह्मवृत्त्यपहारकः ४
मूत्रकुण्डम् ५ परतडागं खनित्वोत्सर्ज्जकः ५
श्लेष्मकुण्डम् ६ एकाकी मिष्टभोजी ६
गरकुण्डम् ७ पितृमातृगुरुभार्य्याद्यपोषकः ७
दूषिकाकुण्डम् ८ अतिथिं दृष्ट्वा वक्रचक्षुःकारी ८
वसाकुण्डम् ९ विप्राय दत्त्वा तद्द्रव्यमन्यस्मै दाता ९
शुक्रकुण्डम् १० परस्त्रीगामी परपुंगामिनी च १०
असृक्कुण्डम् ११ गुर्व्वादिताडकस्तद्रक्तपातकारकश्च ११
अश्रुकुण्डम् १२ हरिसङ्गीतरुदद्गायद्गद्गदभक्तोपहासकृत् १२
गात्रमलकुण्डम् १३ शश्वद्शुद्धचित्तः खलताकारी च १३
कर्णविट्कुण्डम् १४ वधिरोपहासकृत् १४
मज्जकुण्डम् १५ लोभात् स्वभोजनार्थं जीवहन्ता १५
मांसकुण्डम् १६ अर्थलोभात् कन्याविक्रायकः १६
नखकुण्डम् १७ श्राद्धोपवासादिषु संयमत्यागी १७
लोमकुण्डम् १८ श्राद्धोपवासादिषु संयमत्यागी १८
केशकुण्डम् १९ सकेशपार्थिवशिवलिङ्गार्च्चकः १९
अस्थिकुण्डम् २० विष्णुपदे पितृपिण्डादाता २०
ताम्रकुण्डम् २१ गुर्व्विणीगामी २१
लौहकुण्डम् २२ ऋतुस्नातावीरयोरन्नभुक् २२
तीक्ष्णकण्टककुण्डम् २३ कटुवाचा स्वामिताडिका २३
विषकुण्डम् २४ विषेण जीवनहन्ता २४
घर्म्मकुण्डम् २५ सघर्म्महस्तेन देवद्रव्यस्पर्शकृत् २५
तप्तसुराकुण्डम् २६ शूद्रानुज्ञातः शूद्रान्नभोजी २६
प्रतप्ततैलकुण्डम् २७ दण्डेन वृषताडकः २७
कुन्तकुण्डम् २८ कुन्तलौहवडिशैर्जीवहन्ता २८
कृमिकुण्डम् २९ मत्स्याभुग्विप्रो वृथामांसभुक् हरिनैवेद्याभुक् च २९
पूयकुण्डम् ३० शूद्रयाजी तत्श्राद्धभुक् तच्छवदाही च ब्राह्मणः ३०
सर्पकुण्डम् ३१ श्रीकृष्णपदचिह्नमस्तकस्य सर्पस्य हन्ता ३१
मशकुण्डम् ३२ विधिं दत्त्वा क्षुद्रजन्तुहन्ता ३२
दंशकुण्डम् ३३ विधिं दत्त्वा जीवहन्ता ३३
गरलकुण्डम् ३४ मक्षिकां हत्वा मधुग्राही ३४
वज्रदंष्ट्रकुण्डम् ३५ अदण्डविप्रयोर्द्दण्डकृत् ३५
वृश्चिककुण्डम् ३६ अर्थलोभात् प्रजादण्डकृत् ३६
शरकुण्डम् ३७ शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः ३७
शूलकुण्डम् ३८ शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः ३८
खड्गकुण्डम् ३९ शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः ३९
गोलकुण्डम् ४० अल्पदोषेण कारायां प्रजाबन्धनकृत् ४०
नक्रकुण्डम् ४१ जलादुत्थितनक्रादि हन्ता ४१
काककुण्डम् ४२ कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा ४२
सञ्चानकुण्डम् ४३ स्वर्णचौरः ४३
वाजकुण्डम् ४४ ताम्रलौहचौरः ४४
वज्रकुण्डम् ४५ देव-देवद्रव्ययोश्चौरः ४५
तप्तपाषाणकुण्डम् ४६ देव-द्विजयो रौप्य-गो-वस्त्राणां चौरः ४६
तीक्ष्णपाषाणकुण्डम् ४७ देव-द्विजयोः पित्तल-कांस्यपात्रचौरः ४७
लालाकुण्डम् ४८ वेश्यान्नभुक् तद्वृत्तिजीवी च ४८
मसीकुण्डम् ४९ म्लेच्छसेवी मसीजीवी च ब्राह्मणः ४९
चूर्णकुण्डम् ५० देव-द्विजयोः शस्यताम्बूलासनचौरः ५०
चक्रकुण्डम् ५१ विप्रद्रव्यं हृत्वा चक्रकारी ५१
वक्रकुण्डम् ५२ विप्र-बान्धवयोर्व्वक्रताकारी ५२
कूर्म्मकुण्डम् ५३ हरिशयने कूर्म्ममांसभुक् ब्राह्मणः ५३
ज्वालाकुण्डम् ५४ देवद्बिजयोर्घृततैलादिहृत् ५४
भस्मकुण्डम् ५५ देवद्बिजयोर्घृततैलादिहृत् ५५
दग्धकुण्डम् ५६ देवद्विजयोर्द्धात्रीगन्धतैलद्रव्याणामपहर्त्ता ५६
तप्तशूर्म्मीकुण्डम् ५७ बलखलत्वादिना परभूमिहरः ५७
असिपत्रकुण्डम् ५८ अर्थलोभात् खड्गेन जीविच्छेदी नरघाती च ५८
क्षुरधारकुण्डम् ५९ ग्रामनगरादिदाहकृत् ५९
सूचीमुखकुण्डम् ६० परकर्णे मुखं दत्त्वा परनिन्दकः परदोषश्लाघी वेदब्राह्मणनिन्दकश्च ६०
गोधामुखकुण्डम् ६१ गृहं भित्त्वा वस्तुगोच्छागमेषचौरः ६१
नक्रमुखकुण्डम् ६२ सामान्यद्रव्यचौरः ६२
गजदंशकुण्डम् ६३ गजतुरगनरचौरः ६३
गोमुखकुण्डम् ६४ जलपिबद्गोवारकः ६४
कुम्भीपाककुण्डम् ६५ गो-स्त्री-भिक्षु-भ्रूण-ब्रह्महा अगम्यागामी दीक्षासन्ध्याहीनस्तीर्थप्रतिग्राही
ग्रामयाजी देवलः शूद्रसूपकारो वृषलीपतिश्च ६५
कालसूत्रकुण्डम् ६६ वेश्यान्नभुक् तत्संसर्गी च ६६
अवटोदकुण्डम् ६७ कुलटादिषड्वेश्यागामी द्विजः ६७
अरुन्तुदकुण्डम् ६८ चन्द्रसूर्य्यग्रहणे निषिद्धकालभोजी ६८
पांशुभोजकुण्डम् ६९ एकस्मै वाक्प्रदत्तकन्याया अन्यस्मै दाता ६९
पाशवेष्टकुण्डम् ७० दत्तापहारी ७०
शूलपोतकुण्डम् ७१ अभक्त्या शिवलिङ्गपूजकः ७१
प्रकम्पनकुण्डम् ७२ विप्रदण्डकृत् तत्कम्पकृद्भयदायी च ७२
उल्कामुखकुण्डम् ७३ सकोपवदना स्वामिनि कटुवादिनी ७३
अकूपकुण्डम् ७४ शूद्रभोग्या ब्राह्मणी ७४
वेधनकुण्डम् ७५ वेश्या । सा च पञ्चषट्पुंगमनाद्भवति ७५
दण्डताडनकुण्डम् ७६ युङ्गी । सा च सप्ताष्टपुंगमनाद्भवति ७६
जालबद्धकुण्डम् ७७ महावेश्या । साचाष्टाधिकपुंगमनाद्भवति ७७
देहचूर्णकुण्डम् ७८ कुलटा । सा च पुंद्वयगमनाद्भवति ७८
दलनकुण्डम् ७९ स्वैरिणी । वृषली । सा चतुःपुंगमनाद्भवति ७९
शोषणकुण्डम् ८० धृष्टा । पुंश्चली । सा च त्रिपुंगमनाद्भवति ८०
कषकुण्डम् ८१ सवर्णपरदारी ८१
सूर्पकुण्डम् ८२ ब्राह्मणीगामी क्षत्त्रियो वैश्यश्च ८२
ज्वालामुखकुण्डम् ८३ करे तुलसीगङ्गाजलदेवशिलाश्च कृत्वा प्रतिज्ञाकृत्तदपालको
मिथ्याशपथी मित्रद्रोही विश्वासघाती मिथ्यासाक्ष्यदश्च ८३
जिह्मकुण्डम् ८४ नित्यक्रियाहीनो देववागनास्तिको मन्दोपहासी च ८४
धूमान्धकुण्डम् ८५ देवविप्रयोर्द्धनहारी ८५
नागवेष्टनकुण्डम् ८६ वैद्यदैवज्ञवृत्तिकारी लाक्षालोहव्यापारी रसादिविक्रयी च ब्राह्मणः ८६
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/न&oldid=320773" इत्यस्माद् प्रतिप्राप्तम्