सामग्री पर जाएँ

शब्दकल्पद्रुमः/ध

विकिस्रोतः तः
पृष्ठ २/७७३

, धकारः । स तवर्गचतुर्थो वर्णो व्यञ्जनोनविंशश्च ।

अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥
(यथा, शिक्षायाम् । १७ ।
“दन्त्या ऌतुलसाः स्मृताः ।” इति ॥) अस्य
स्वरूपं यथा, --
“धकारं परमेशानि ! कुण्डली मोक्षरूपिणी ।
आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा ॥
पञ्चप्राणमयं देवि ! त्रिशक्तिसहितं सदा ।
त्रिबिन्दुसहितं वर्णं धकारं हृदि भावय ॥
पीतविद्युल्लताकारं चतुर्व्वर्गप्रदायकम् ॥”
इति कामधेनुतन्त्रम् ॥
“त्रिकोणरूपरेखायां त्रयो देवा वसन्ति च ।
विश्वेश्वरी विश्वमाता वामतः स्कन्धतः स्थिता ॥”
इति वर्णोद्धारतन्त्रम् ॥
अस्य ध्यानं यथा, --
“षड्भुजां मेघवर्णाञ्च रक्ताम्बरधरां पराम् ।
वरदां शोभनां रम्यां चतुर्व्वर्गप्रदायिनीम् ॥
एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
अस्य नामानि यथा --
“धो धनार्थो रुचिः स्थाणुः सात्वतो योगिनीप्रियः ।
मीनेशः शङ्खिनी तोयं नागेशो विश्वपाबनी ॥
धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः ।
पीतवासा त्रिवर्णा च धाता धर्म्मप्लवङ्गमः ॥
सन्दर्शो मोहनो लज्जा वज्रतुण्डाधरं धरा ।
वामपादाङ्गुलेर्म्मूलं ज्येष्ठा सुरपुरं भवः ॥
स्पर्शात्मा दीर्घजङ्घा च धनेशो धनमञ्चयः ॥”
इति नानातन्त्रशास्त्रम् ॥

धं, क्ली, (दधाति सुखमिति । धा + डः ।) धनम् ।

इति मेदिनी । धे, १ ॥

धः, पुं, (दधाति धरति विश्वमिति । धा + डः ।)

ब्रह्मा । (दधाति निधिमिति ।) कुवेरः । (दधाति
जीवानां शुभाशुभमिति ।) धर्म्मः । इति
मेदिनी । धे, १ ॥

धक्क, क नाशने । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) कोपधः । नाशनं नष्टीकर-
णम् । क, घक्कयति पापं गङ्गा । इति दुर्गादासः ॥

धटः, पुं, (धं धनं अटति गच्छति प्राप्नोति तोल्य-

त्वेनेति । ध + अट् + अच् । शकन्ध्वादित्वात्
साधुः ।) तुला । इत्यमरः । ३ । ५ । १७ ॥
तराजु इति धाडा इति च भाषा । (एत-
न्निरुक्तिर्यथा, --
“धकाराद्धर्म्ममुद्दिष्टं टकारात् कुटिलं नरम् ।
धृतो धारयसे यस्माद्धटस्तेनाभिधीयते ॥”
इति दिव्यतत्त्वधृतवचनम् ॥)
तुलाराशिः । यथा, च्योतिस्तत्त्वे ।
“सिंहो वृपश्च मषश्च कन्या धन्वी धटो घटः ।
अर्कादीनां त्रिकोणानि मूलानि राशयः
क्रमात् ॥”
तुलापराक्षा । इति परीक्षातत्त्वम् ॥
पृष्ठ २/७७४
अस्य विवरणं तुलाशब्दे द्रष्टव्यम् ॥ (धर्म्मः ।
इति विष्णुनारदौ ॥ यथा, --
“अर्च्चयेत्तु धटं पूर्ब्बं ततः शिष्टांश्च पूजयेत् ॥”
इति दिव्यतत्त्वधृतवचनम् ॥)

धटकः, पुं, (धटेन तुलया कायतीति । कै + कः ।)

चतुर्द्दशवल्लपरिमाणम् । द्बिचत्वारिंशद्रक्तिका ।
इति लीलावती ॥ नन्दिवृक्षः । तत्पर्य्यायो यथा,
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः ॥”

धटपरीक्षा, स्त्री, (धटस्य तुलायाः परीक्षा ।)

तुलापरीक्षा । तत्र धटोत्पत्तिविधिर्यथा ।
“पितामहः ।
‘छित्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्ब्बकम् ।
प्रणम्य लोकपालेभ्यस्तुला कार्य्या मनीषिभिः ॥’
यूपवदिति यूपच्छेदनविहितसर्व्वेतिकर्त्तव्यताति-
देशः । सा च ॐ स्वधिते मैनं हिंसीरिति-
च्छेदनमन्त्रविशेषादिरूपा इति व्यवहार-
प्रदीपः ॥
‘मन्त्रः सौम्यो वानस्पत्यच्छेदने जप्य एव च ।
चतुरस्रा तुला कार्य्या दृढा ऋज्वी तयैव च ॥
कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ॥’
कटकानि बलयानि ।
‘चतुर्हस्ता तुला कार्य्या पादौ चोपरि तत्समौ ॥’
अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो
ग्राह्यः । यथा, --
‘चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः ।
यवानामष्टभिः कॢप्तं मानाङ्गुलमितीरितम् ॥’
यवानां तण्डुलीकृतानाम् ।
‘यवानां तण्डुलैरेकमङ्गुलं चाष्टभिर्भवेत् ।
अदीर्घयोजितैर्हस्तश्चतुर्व्विंशतिरङ्गुलैः ॥’
इति कालिकापुराणात् ॥
प्रमाणन्तु पार्श्वेन यवानाम् । ‘षड्यवाः पार्श्व-
सन्मिताः ।’ इति कात्यायनवचनात् ॥ * ॥
अनयोर्व्यवस्थामाह कापिलपञ्चरात्रम् ।
‘अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः ।
कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम ! ॥’
कन्यसं कनिष्ठम् । पादौ स्तम्भौ । उपरि मृत्ति-
कोपरि । तत्समौ चतुर्हस्तावित्यर्थः । वस्तुतस्तु
उपरितत्समौ उपरि तत्समं काष्ठान्तरं ययोः
पादयोस्तौ ॥ * ॥ स्तम्भप्रमाणमाह व्यासः ।
‘हस्तद्वयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्द्वयोः ।
षढस्तन्तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥’
मुण्डकयोः स्तम्भयोः । षढस्तं निखातहस्त-
द्वयेन समं अर्थान्मृत्तिकोपरि हस्तचतुष्टय-
मित्यर्थः ।
‘अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव वा ।’
तयोः स्तम्भयोः । हस्तावन्तरं हस्तद्बयपरि-
मितमध्यमित्यर्थः । अध्यर्द्धं सार्द्धहस्तद्बयम् ।
एतत्तु शालवृक्षोद्भवा कार्य्या पञ्चहस्तायता
तुला । इति विष्णूक्तपञ्चहस्तायततुलाविषयम् ।
व्यवहारदीपिकाप्येवम् ॥ * ॥
अथ धटारोपणविधिः । पितामहः ।
‘हस्तद्वयं निखेयन्तु पादयोरुभयोरपि ।’
अत्र हस्तद्वयं मृत्तिकाभ्यन्तरे । हस्तचतुष्टयं
मृत्तिकोपरि । तथा, --
‘तोरणे च तथा कार्य्ये पार्श्वयोरुभयोरपि ॥
धटादुच्चतरे स्यातां नित्यं दशभिरङ्गुलैः ।
अवलम्बौ च कर्त्तव्यौ तोरणाभ्यामधोमुखौ ॥
मृण्मयौ सूत्रसम्बद्धौ धटमस्तकचुम्बिनौ ।
प्राङ्मुखो निश्चलः कार्य्यः शुचौ देशे धटस्तथा ॥’
नारदः ।
‘शिक्यद्वयं समासाद्य धटकर्कटयोर्दृढम् ।
एकत्र शिक्ये पुरुषमन्यत्र तुलयेच्छिलाम् ॥’
पितामहः ।
‘प्राङ्मुखान् कल्पयेत् दर्भान् शिक्ययोरुभयोरपि ।
पश्चिमे तोलयेत् कर्त्तॄनन्यस्मिन् मृत्तिकां शुभाम् ॥
पिटकं पूरयेत्तस्मिन् इष्टकाग्रावपांशुभिः ॥’
अत्र मृत्तिकेष्टकाग्रावपांशूनां विकल्पः ।
‘परीक्षका नियोक्तव्यास्तुलामानविशारदाः ।
बणिजो हेमकाराश्च कांस्यकारास्तथैव च ।
कार्य्यः परीक्षकैर्नित्यमवलम्बसमो धटः ॥
उदकञ्च प्रदातव्यं धटस्योपरि पण्डितैः ।
यस्मिन्न प्लवते तोयं स विज्ञयः समो धटः ॥
तोलयित्वा नरं पूर्ब्बं पश्चात्तमवतार्य्य तु ।
धटस्तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥
तत आवाहयेद्देवान् विधिनानेन मन्त्रवित् ।
वादित्रतूर्य्यघोषैश्च गन्धमाल्यानुलेपनैः ॥
प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत् ॥’
प्राड्विवाकसमाख्या तु पृच्छतीति प्राट् विवेचय-
तीति विवाकः । इति व्यवहारमातृका ॥ * ॥
तथा च बृहस्पतिः ।
‘विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव च ।
प्रियपूर्ब्बं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥’
वस्तुतस्तु प्राड्विवाकसमाख्यामाह कात्यायनः ।
‘व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति स्थितिः ।
विवेचयति यस्तस्मिन् प्राड्विवाक इति स्मृतः ॥’
अभिशस्तं पृच्छतीति प्राट् तदनुरूपं दिव्यं
विविनक्ति इति विवाकः । प्राट् चासौ विवाक-
श्चेति कर्म्मधारयः ॥ * ॥
अस्य काम्यत्वेन नवग्रहपूजामाह मत्स्यपुराणम् ।
‘नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥’
ततश्च प्राड्विवाकः पूर्ब्बं कार्य्यं पृच्छेत् निवेदि-
तञ्च विवेचयेत् । ततोऽभियुक्तं तोलयित्वा अव-
तार्य्य धर्म्मावाहनादि कुर्य्यात् । पितामहः ।
‘एह्येहि भगवन् धर्म्म दिव्ये ह्यस्मिन् समाविश ।
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ॥
आवाह्य च धटे धर्म्मं पश्चादङ्गानि विन्यसेत् ॥’
अङ्गानि परिवारदेवताः ।
‘इन्द्रं पूर्ब्बे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुवेरं उत्तरे तथा ॥
अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् ॥ * ॥
इन्द्रः पीतो यमः श्यामो वरुणः स्फाटिकप्रभः ।
कुवेरश्च सुवर्णाभो वह्निश्चापि सुवर्णभः ॥
तथैव निरृतिः श्यामो वायुर्धूम्रः प्रशस्यते ।
ईशानस्तु भवेत् शुक्ल अनन्तः शुक्ल एव च ॥
ब्रह्मा चैव भवेद्रक्त एवं ध्यायेत् क्रमादिमान् ॥
इन्द्रस्य दक्षिणे पार्श्वे वसूनावाहयेद्बुधः ।
धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥ * ॥
देवेशेशानयोर्मध्ये आदित्यानां तथायनम् ।
धातार्य्यमा च मित्रश्च वरुणोऽंशुर्भगस्तथा ॥
इन्द्रो विवस्वान् पूषा च पर्ज्जन्यो दशमः स्मृतः ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥
इत्येते द्वादशादित्या मनुना परिकीर्त्तिताः ॥’
अजघन्यो जघन्यजः । इति विष्णोर्विशेषणम् । * ।
‘अग्नेः पश्चिमभागे तु रुद्राणामयनं विदुः ।
वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः ॥
अजैकपादहिब्रध्नः पिनाकी चापराजितः ।
भुवनाधीश्वरश्चैव कपाली च विशांपतिः ॥
स्थाणुर्भवश्च भगवान् रुद्राश्चैकादश स्मृताः ॥’
महायशाः विशांपतिर्भगवांश्चेति विशेषणानि ॥
‘प्रेतेशरक्षसोर्मध्ये मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ॥’
गणसंयुतेति विशेषणम् ॥ * ॥
‘निरृतेरुत्तरे भागे गणेशायतनं विदुः ।
वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते ॥
श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ।
प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्त्तिताः ॥
धटस्योत्तरभागे तु दुर्गामावाहयेद्बुधः ।
एतासां देवतानाञ्च स्वनाम्ना पूजनं विदुः ॥’
विशेषमाह ब्रह्मपुराणम् ।
‘ओङ्कारादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।
स्वनाम सर्व्वसत्त्वानां मन्त्र इत्यभिधीयते ॥
अनेनैव विधानेन गन्धपुष्पे निवेदयेत् ।
एकैकस्य प्रकर्त्तव्यं यथोद्दिष्टं क्रमेण तु ॥’
मन्त्र इत्यभिधानादनेनैवेत्येवकारश्रुतेश्च इदं
द्रव्यं ओममुकाय नमः इति योज्यं न तु धर्म्मा-
यार्ध्यं प्रकल्पयामि नमः इति मिताक्षरोक्तम् ।
प्रमाणाभावादनन्वयाच्च । पितामहः ।
‘भूषावसानं धर्म्माय दत्त्वा चार्घ्यादिकं क्रमात् ।
अर्ध्यादि पश्चादङ्गानां भूषान्तमुपकल्पयेत् ॥
गन्धादिकां नैवेद्यान्तां परिचर्य्यां प्रकल्पयेत् ।’
एतत् सर्व्वं प्राड्विवाकः कुर्य्यात् । यथा, --
‘प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतव्रतोपपन्नश्च शान्तचित्तो विमत्सरः ॥
सत्यसन्धः शुचिर्दक्षः सर्व्वप्राणिहिते रतः ।
उपोषितः शुद्धवासाः कृतदन्तादिधावनः ॥
सर्व्वासां देवतानाञ्च पूजां कुर्य्याद्यथाविधि ॥’
रक्तगन्धपुष्पादीनाह नारदः ।
‘रक्तैर्गन्धैश्च माल्यैश्च धूपदीपाक्षतादिभिः ।
अर्च्चयेत्तु धटं पूर्ब्बं ततः शिष्टांश्च पूजयेत् ॥’
धटं धर्म्मम् । तथा च विष्णुनारदौ ।
‘धर्म्मपर्य्यायवचनं धट इत्यभिधीयते ।’
शिष्ठानिन्द्रादीन् । अविशेषात् सर्व्वत्र रक्ता-
पृष्ठ २/७७५
न्वयः । मिताक्षरायान्तु धर्म्मपूजन एव रक्तत्व-
नियमः । तथा, --
‘चतुर्द्दिक्षु ततो होमः कर्त्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर्होमसाधनैः ॥
सावित्र्या प्रणवेनैव स्वाहान्तेनैव होमयेत् ॥’
सावित्र्या गायत्त्र्या । तेन प्रणवादिकां गायित्त्री-
मुच्चार्य्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य्य
समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादिति
मिताक्षरा । वस्तुतस्तु गायत्त्रीहोमे योगियाज्ञ-
वष्क्यः ।
‘प्रणवव्याहृतिभ्याञ्च स्वाहान्ते होमकर्म्मणि ।
तेन प्रणवादिकां सव्याहृतिकां गायत्त्रीमुच्चार्य्य
स्वाहाकारान्तं पुनः प्रणवमुच्चार्य्य आज्य-
पायससमिधो मिलित्वा अष्टोत्तरशतं जुहुयात्
लाघवात् । अतएव दैवतैक्ये हि दधिपयसो-
स्तन्त्रेणानुष्ठानम् । ऐन्द्रं दध्यमावास्यायामैन्द्रं
पयोऽमावास्यायामिति श्राद्धविवेकः ॥ * ॥
यत्तु पञ्चलाङ्गलमहादाने ।
‘पर्ज्जन्यादित्यरुद्रेभ्यः पायसं निर्व्वपेच्चरुम् ।
एकस्मिन्नेव कुण्डे च गुरुर्यस्मै निवेदयेत् ॥
पलाशसमिधस्तद्वदाज्यं कृष्णतिलांस्तथा ॥’
इति मत्स्यपुराणात् ॥
चतुर्णां होतॄणां मध्ये यस्मै गुरुः पर्ज्जन्यादिभ्यो
होमं कुर्व्विति आज्ञां करोति स एव पर्ज्जन्याय
आदित्याय रुद्रेभ्यस्तत्तन्मन्त्रैः पायसं पलाश-
समिदाज्यकृष्णतिलांश्च प्रत्येकं जुहुयादिति
भूपालप्रभृतिभिरुक्तम् । तद्युक्तं तद्वदिति
तथेत्याभ्यां प्रत्येकद्रव्येण होमविधानात् । अत-
एव रत्नाकरकृद्भिश्चरुं जुहुयादित्युक्त्रा तद्बदिति
पलाशादि जुहुयादित्युक्तम् । अतएव वृषोत्-
सर्गे वाचस्पतिमिश्रप्रभृतिभिरग्न्यादिहोमशेष-
पायसपूषहोमशेषपिष्टकाभ्यां मिलिताभ्यां सकृत्
स्विष्टिकृद्धोमो विहितः । अशक्तौ तु ।
‘होमो ग्रहादिपूजायां शतमष्टाधिकं भवेत् ।
अष्टाविशतिरष्टौ वा शक्त्यपेक्ष्यमथापि वा ॥’
इति देवीपुराणीयादिपददर्शनात् अत्राप्यन्या
सङ्ख्या उन्नेया । एवं मत्स्यपुराणे ।
‘शृणु राजन् महाबाहो तडागादिषु यो विधिः ।
वेद्यास्तु परितो गर्त्तारत्निमात्रास्त्रिमेखलाः ॥
नव सप्ताथवा पञ्च योनिवक्त्रा नृपात्मज ।
इति नवादिकुण्डानुक्त्रा, --
‘स्वल्पेऽप्येकाग्निमत्कार्य्यो वित्तशाठ्यादृते नृभिः ॥’
इति दर्शनादत्रापि अशक्तावेकाग्निविधिरिति
वदन्ति । अत्र प्राड्विवाकगृह्येणैव होमः ।
‘दिव्येषु सर्व्वकार्य्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्य्युः सोपवासो नृपाज्ञया ॥’
इति मिताक्षराधृतपितामहवचनात् । अध्वर्य्यु-
र्यजमानमात्रम् । न चात्र भिन्नशाखिनामृ-
त्विजां रथकारवद्बिद्याप्रयुक्तिकल्पनेति वाच्यम् ।
ब्राह्मणमात्रस्य नानाशाखापाठविधानेन कल्प-
नानुपपत्तेः । तथा च मनुः ।
‘वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्य्यो गृहस्थाश्रममाचरेत् ॥’ इति ।
प्रायश्चित्तहोमस्तु सामगानां महाव्याहृतिभिः ।
‘यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।
चतस्रस्तत्र कर्त्तव्याः स्त्रीपाणिग्रहणे यथा ॥
अपि वाज्ञातमित्येषा प्राजापत्यापि वाहुतिः ।
होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥’
इति छन्दोगपरिशिष्टात् ॥
न तु शाट्यायनहोमो भवदेवभट्टोक्तः । त्रिर्वि-
कल्प इत्यनेन तस्य निरासात् । भट्टनारायणा-
दिभिरप्रमाणीकृतत्वाच्च ॥ * ॥ पितामहः ।
‘तोलयित्वा नरं पूर्ब्बं तस्मात्तमवतार्य्य च ।
प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत् ॥
एह्येहि भगवन् धर्म्म ! दिव्ये ह्यस्मिन् समाविश ।
सहितो लोकपालैस्त्वं वस्वादित्यमरुद्गणैः ॥
तञ्चार्थमभियुक्तस्य लेखयित्वा तु पत्रके ।
मन्त्रेणानेन सहितं कुर्य्यात्तस्य शिरोगतम् ॥
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्म्मोऽपि जानाति नरस्य वृत्तम् ॥
इमं मन्त्रविधिं कृत्स्नं सर्व्वदिव्येषु योजयेत् ।
आवाहनञ्च देवानां तथैव परिकल्पयेत् ॥ * ॥
धटमामन्त्रयेच्चैवं विधिनानेन मन्त्रवित् ।
त्वं धटो ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ॥
धकाराद्धर्म्ममुद्दिष्टं टकारात् कुटिलं नरम् ।
धृतो धारयसे यस्माद्धटस्तेनाभिधीयते ॥
त्वं वेत्सि सर्व्वभूतानां पापानि सुकृतानि च ।
त्वमेव देव ! जानीषे न विदुर्यानि मानवाः ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥’ * ॥
लेखनप्रकारमाह नन्दिपुराणम् ।
‘शुभे नक्षत्रदिवसे शुभे राशिदिनग्रहे ।
लेखयेत् पूज्यदेवेशान् रुद्रब्रह्मजनार्द्दनान् ॥
पूर्ब्बदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः ।
निरोधो हस्तबाह्वोश्च मसीपत्रविधारणे ॥
मत्स्यपुराणञ्च ॥
‘शीर्षोपेतान् सुसम्पन्नान् समश्रेणिगतान् समान् ।
अक्षरान् लेखयेद्यस्तु स नरो लेखकः स्मृतः ॥’
इति दानसागरः ॥
धारयसे इत्यत्र भावयसे इति पाठोऽनुपयुक्तः ।
तथा हि । कुटिलं पापिनं संशयोपपन्नं वा ।
आद्ये पापिनमित्येतावन्मात्राभिधानमनुपपन्नं
ऊर्द्ध्वगत्या शुद्धस्यापि ज्ञापनात् द्बितीये पूर्ब्ब-
सिद्धत्वेन ज्ञापनानुपपत्तिः । तस्मात् कुटिलं
व्यवहाराभिशस्तं धारयसे इत्येवार्थः । अतएव
उपसंहारे संशयादस्मादित्युक्तम् । अतएव
कालिकापुराणेऽपि । मानुषस्तोल्यते त्वयीत्युक्त-
मिति ॥ * ॥ स्मृतिसमुच्चयव्यवहारदीपिकयो-
र्विष्णुः । धटञ्चसमयेन गृह्णीयात् तुलाधारकञ्च ।
‘धर्म्मपर्य्यायवचनं धट इत्यभिधीयते ।
त्वमेव धट जानीषे न विदुर्यानि मानवाः ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥
ब्रह्मघ्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥’
समयेन त्वमेव धट इत्यादिनियमेन । धटं गृह्णी-
यात् योजयेत् । तुलाधारकञ्च ब्रह्मघ्ना ये इत्या-
दिना नियमेनेत्यर्थः । अत्र नानामुनिप्रणीत-
मन्त्राणाम् एकतरपाठ्यानां समानप्रयोजनानां
यवब्रीहिवद्विकल्प इति ग्रन्थगौरवात्ते न
लिखिताः । अभिशस्तप्राड्विवाकपाठ्यानान्तु
दृष्टार्थानां समुच्चयः । पितामहः ।
‘नित्यं देयानि दिव्यानि शुचये चार्द्रवाससे ।’
शुचये जननमरणाशौचरहिताय । क्षतिनं
प्रति याज्ञवल्क्यदीपकलिकायां नारदः ।
‘हस्तक्षतेषु सर्व्वेषु कुर्य्याद्धंसपदानि च ।
तान्येव पुनरालक्षेद्धस्तौ बिन्दुविचित्रितौ ॥’
इत्यग्निविधौ हस्तक्षतिनौ हस्तक्षतमलक्तादिना
चिह्नितं कृत्वा क्षतान्तरं जातं न वा इति
ज्ञातव्यमिति सुतरां क्षतिनो दिव्याधिकारः ।
नारदः ।
‘अहोरात्रीषिते स्नाते आर्द्रवाससि मानवे ।
पूर्ब्बाह्णे सर्व्वदिव्यानां प्रदानमनुकीर्त्तितम् ॥’ * ॥
धटानुमन्त्रणात् प्रागपि पुनस्तोल्नमाह
कालिकापुराणम् ।
‘उपोषितं तथा स्नातं मृत्समं प्रथमं तुलाम् ।
सन्तोल्य कारयेद्रेखामवतार्य्यानुमन्त्रयेत् ॥’
याज्ञवल्क्यः ।
‘तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥
त्वं तुले सत्यधामासि पुरा देवैर्विनिर्म्मता ।
तत् सत्यं वद कल्याणि ! संशयान्मां विमोचय ॥
यद्यस्मिन् पापकृन्मातस्ततो मां त्वमधो नय ।
शुद्धश्चेत् गमयोर्द्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥’
तुलाधारणाभिज्ञैर्ब्बणिगादिभिः पाषाणादि-
प्रतिमानसमीकृतस्तुलाधिरूढः अभिशस्तो
दिव्याधिकारी । येन सन्निवेशेन प्रतिमानसमी-
करणदशायां यत्र पादादयो व्यवस्थिताः शिक्य-
रज्जवश्च तत्र पाण्डुलेखेनाङ्कयित्वा पिटकादव-
तारितः त्वन्तुलेति मन्त्रेण तुलां प्रार्थयेत् । सत्यं
सन्दिग्धार्थस्य स्वरूपं वद दर्शय । पापकृद-
सत्यवादी शुद्धश्च सत्यवादी । मन्त्रश्चायं स्मार्त्तः
पौराणिकत्वात् शूब्रैरपि पाठ्यः । वेदमन्त्रवर्ज्जं
शूद्रस्येति छन्दोगाह्निकधृतस्मृतौ वेदेति विशे-
षणात् श्राद्धविश्वदेवादौ तु विशेषतो नमस्कार-
मन्त्रविधानात् स्मार्त्तमन्त्रोऽपि निषिद्धः । प्रप-
ञ्चस्तु तिथितत्त्वेऽनुसन्धेयः । स्त्रीपरीक्षायामषि
अविकृत एव प्रयोज्यः । दिव्यानीह विशुद्धये
इत्यनेन सन्दिग्वार्थसन्देहनिवृत्तिफलकतयाविशे-
षेण स्त्रीपुंकर्त्तृकदिव्यविधानेन मानुषः शुद्धि-
मिच्छतीत्यनेन च प्रकृतावूहायोगात् । अतएव
पत्नीं सन्नह्याज्यं नो धेहीति मन्त्रे द्विबहुपत्नीक-
यजमानकर्त्तृकप्रयोगेऽपि न द्विबहुवचनोह
इत्युक्तम् ॥ * ॥ पत्रस्थप्रतिज्ञेयार्थस्य शोध्याय
पृष्ठ २/७७६
तस्य स्वस्य बोधाय श्रावणमाह नारदः ।
‘असुमर्थञ्च पत्रस्थमभियुक्तं यथार्हतः ।
संश्राव्य मूर्द्ध्नि तस्यैव न्यस्य देयो यथाक्रमम् ॥’
देयो दिव्यविशेषः प्राड्विवाकेनेति शेषः ॥ * ॥
ततः शिरोऽवस्थितपत्रकं शोध्यं नरं धटे पुन-
रारोपयेत् । पुनरारोपयेत्तस्मिन् शिरोऽव-
स्थितपत्रकमिति स्मरणात् । तुलारोपितञ्च
नरं विनाडीपञ्चककालं शतत्रयगुर्व्वक्षरोच्चा-
रणयोग्यम् ।
‘मा कान्ते पक्षस्यान्ते पर्य्याकाशे देशे स्वाप्सीः ।
कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् ।
क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या-
त्तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥’
इति श्लोकस्य पञ्चधा पाठयोग्यकालं पञ्चपला-
त्मकं यावत् तावत् स्थापयेत् ॥ यथा, स्मृतिः ।
‘ज्योतिर्विद्ब्राह्मणः श्रेष्ठः कुर्य्यात् कालपरीक्ष-
णम् ।
विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥’
तत्कालश्च ज्योतिषे ।
‘दशगुर्व्वक्षराः प्राणःषट् प्राणाः स्याद्विनाडिका ।
तासां षष्ट्या घटी ज्ञेयाहोरात्रं घटिकास्तथा ॥’
तथा षष्ट्या ॥ * ॥ पितामहः ।
‘साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥
शंसन्ति साक्षिणः सर्व्वे शुद्ध्यशुद्धी नृपे तथा ।
तुलितो यदि वर्द्धेत स शुद्बः स्यान्न संशयः ॥
समो वा हीयमानो वा न विशुद्धो भवेन्नरः ।
अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते ॥’
अल्पत्वं व्यभिचारे आलिङ्गनादिना । चौर्य्ये
तद्देशगमनादिना ॥ * ॥ तत्र पुनस्तोलनमाह
बृहस्पतिः ।
‘धटेऽभियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात् ।
तत्समस्तु पुनस्तोल्यो वर्द्धितो विजयी भवेत् ॥’
शोध्यः स्वल्पदोषाङ्गीकारेऽपि प्रधानदोषनिर्ण-
यार्थं तत्रैव पुनस्तोलनीयः । अङ्गवैगुण्यसम्भा-
वनायान्तु प्रयोगान्तरमिति । यदा चानुपलभ्य-
मानदृष्टकारणक एव कक्षादीनां छेदनादि-
स्तदाप्यशुद्धिः ।
‘कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा ।
रज्जुच्छेदेऽक्षभङ्गे च तथैवाशुद्धिमादिशेत् ॥’
इति बृहस्पतिवचनात् ॥
कक्षं शिक्यतलम् । धटकर्कटौ तुलान्तयोः शिक्या-
धारावीषद्बक्रावायसकीलकौ कर्कटशृङ्गनिभौ ।
अक्षः पादः । स्तम्भयोरुपरिनिविष्टस्तुलाधार-
पट्ट इति मिताक्षरा ॥ दार्ढ्यप्रयोजकः कीलकः ।
इति हलायुधः ॥ मध्यकटकमिति पारिजातः ॥
यदा तु दृश्यमानकारणक एवैषां भङ्गस्तदा
पुनरारोपयेत् । शिक्यादिच्छेदभङ्गेषु पुनरा-
रोपयेन्नरमिति स्मृतेः । ततश्च ।
‘ऋत्विक्पुरोहिताचार्य्यान्दक्षिणाभिश्च तोषयेत् ।
एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ।
महतीं कीर्त्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥’ * ॥
तदयं सङ्क्षेपः । प्राड्विवाको लोकपालादिनम-
स्कारपूर्ब्बकं यथोक्तलक्षणां तुलां कुर्य्यात् ।
ततः षढस्तौ सुदृढौ स्तम्भौ कृत्वा हस्तद्वय-
व्यवधानेन दक्षिणोत्तरयोर्द्दिशोर्हस्तद्वयनिखननं
कृत्वा पट्टधारकीलकाग्रस्तम्भयोरुपरि मध्ये पार्श्व-
द्बये च विहितच्छिद्रं मध्यच्छिद्रनिवेशितलोहा-
ङ्कुशपट्टकं निधाय उपरि कीलकस्य तत्पट्टकस्य
मध्यस्थिताङ्कुशेन तुलामध्यवलयस्थलौहाङ्कुशं
संयुञ्ज्यात् । एवञ्च मध्ये स्तम्भयोरन्तरा तिर्य्यक्
तुलादण्डस्तिष्ठति तुलाग्रस्थिताभ्यामायसकील-
काभ्यां शिक्यद्वयरज्जुबन्धनं कुर्य्यात् । तुलायाः
पार्श्वयोः प्राक्प्रत्यक्दिशोस्तोरणस्तम्भौ तुलातो
दशाङ्गुलोच्छ्रायौ कार्य्यौ तोरणयोरुपरि सूत्र-
सम्बद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बितौ
अवलम्बौ कार्य्यौ । यथावलम्बविश्लेषाभ्यां तुला-
यामवनतिरुन्नतिश्च ज्ञेया तथा जलद्वारापि ।”
इति दिव्यतत्त्वम् ॥ * ॥ अस्य प्रयोगस्तुलाशब्दे
द्रष्टव्यः ॥

धटी, स्त्री, (धन + अच् । निपातनात् नस्य टः ।

गौरादित्वात् ङीष् ।) चीरवस्त्रम् । इति मेदिनी ।
टे, १९ ॥ कौपीनम् । इति त्रिकाण्डशेषः ॥

धटीदानं, क्ली, (धट्या चीरवस्त्रस्य दानम् ।)

गर्भाधानानन्तरस्त्रीसम्प्रदानकचीरवस्त्रदानम् ।
यथा, ज्योतिःसारसंग्रहे ।
“मूलश्रवणहस्तेषु पुष्यादित्युत्तरासु च ।
मृगपौष्णे धटी देया सौम्यवारे शुभे तिथौ ॥”

धण, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) धणति मृदङ्गः । इति दुर्गादासः ॥

धत्तूरः, पुं, (धयति पिबतीव प्रकृतिम् । धे + बाहुल-

कात् उरच् । पृषोदरादित्वात् साधुः ।) धुस्तूरः ।
इति हेमचन्द्रः । ४ । २१७ ॥ (यथा, काशी-
खण्डे । २९ । ९४ ।
“धर्म्माधर्म्मगुणच्छेत्त्री धत्तूरकुसुमप्रिया ॥”)

धन, रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) धनति मृदङ्गः । इति दुर्गादासः ॥

धन, लि र धान्ये । इति कविकल्पद्रुमः ॥ (ह्वां-

परं-अकं-सेट् ।) धान्यमिह धान्यक्रिया । र,
वैदिकः । लि, दधन्ति भूमिर्धान्यमुत्पादयति
इत्यर्थः । इति दुर्गादासः ॥

धनं, क्ली, (धनति रौतीति । धन रवे + पचाद्यच् ।)

स्नेहपात्रम् । इति शब्दरत्नावली ॥ गोधनम् ।
इति मेदिमेदीनी । ने, १२ ॥ (यथा, हरिवंशे । ७३ । ३३ ।
“अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ॥”)
जीवनोपायः । (दधन्ति धान्यादिकमुत्पादय-
तीति । धन + अच् । यद्वा, दधाति सुखमिति ।
धा + “कॄपॄवृजिमन्दिनिधाञः क्युः ।” उणां २ । ८१ ।
इत्यत्र “बाहुलकात् केवलादपि क्युः ।” इत्युज्ज्वल-
दत्तोक्तेः क्युः ।) द्रविणम् । (यथा, उद्भटे ।
“धनैर्निष्कुलीनाः कुलीना भवन्ति
धनैरापदं मानवा निस्तरन्ति ।
धनेभ्यः परो नास्ति बन्धुर्हि लोके
धनान्यर्जयध्वं धनान्यर्ज्जयध्वम् ॥”)
तत्पर्य्यायः । द्रव्यम् २ वित्तम् ३ स्वापतेयम् ४
रिक्थम् ५ ऋक्थम् ६ वसु ७ हिरण्यम् ८
द्रविणम् ९ द्युम्नम् १० अर्थः ११ राः १२ विभवः
१३ । इत्यमरः । २ । ९ । ९० ॥ काञ्चनम् १४
लक्ष्मीः १५ भोग्यम् १६ सम्पत् १७ वृद्धिः १८
श्रीः १९ व्यवहार्य्यम् २० । इति राजनिर्घण्टः ॥
रैः २१ भोगः २२ । इति जटाधरः ॥ स्वम् २३ ।
इति शब्दरत्नावली ॥ तस्य वैदिकपर्य्यायाः ।
मघम् १ रेक्णः २ रिक्थम् ३ वेदः ४ वरिवः ५
श्वात्रम् ६ रत्नम् ७ रयिः ८ क्षत्रम् ९ भगः १०
मीलुम् ११ गयः १२ द्युम्नम् १३ इन्द्रियम् १४
वसु १५ रायः १६ राधः १७ भोजनम् १८
तना १९ नृम्णम् २० बन्धुः २१ मेधाः २२ यशः
२३ ब्रह्म २४ द्रविणम् २५ श्रवः २६ वृत्रम् २७
वृतम् २८ । इत्यष्टाविंशतिरेव धननामानि ।
इति वेदनिघण्टौ २ अध्यायः ॥ * ॥
तत्त्रिविधं यथा, --
“धनन्तु त्रिविधं ज्ञेयं शुक्लं शवलमेव च ।
कृष्णञ्च तस्य विज्ञेयो विभागः सप्तधा पृथक् ॥
क्रमायत्तं प्रीतिदायं प्राप्तञ्च सह भार्य्यया ।
अविशेषेण सर्व्वेषां वर्णानां त्रिविधं धनम् ॥
वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम् ।
याजनाध्यापने नित्यं विशुद्धाच्च प्रतिग्रहः ॥
त्रिविधं क्षत्त्रियस्यापि प्राहुर्व्वैशेषिकं धनम् ।
युद्धार्थलब्धं करजं दण्ड्यवध्यापहारतः ॥
वैशेषिकं धनं दृष्टं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षबाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात् ॥
कुषीदकृषिबाणिज्यं प्रकुर्व्वीत स्वयं कृतम् ।
आपत्काले स्वयं कुर्व्वन्नैनसा युज्यते द्बिजः ॥”
इति गारुडे २१६ कुत्रचित् २१० अध्यायः ॥ * ॥
धनभागिनो दायशब्दे द्रष्टव्याः । धनाभागिनो
यथा, --
“कुब्जवामनखञ्जानां क्लीवानां श्वित्रिणामपि ।
उन्मत्तानां तथान्धानां धनभागो न विद्यते ॥
शय्यासनस्थानमात्रञ्छाया चान्नं भुजिक्रिया ।
एतावद्दीयते दैत्य नार्थभागहरा हि ते ॥”
इति वामनपुराणे ७५ अध्यायः ॥ * ॥
अधना यथा, --
“त्रय एवाधना राजन् ! भार्य्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥”
इति मात्स्ये ३१ अध्यायः ॥ * ॥
धनस्य प्राणतुल्यत्वमुक्तं यथा, --
“यदेतद्द्रविणं नाम प्राणा एते बहिश्चराः ।
स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥”
इति कूर्म्मे २९ अध्यायः ॥ * ॥
“अपरावाधमक्लेशं प्रयत्नेनार्जितं धनम् ।
स्वल्पं वा वहुलं वापि देयमित्यभिधीयते ॥”
अपरावाधं परपीडारहितम् । अक्लेशं पात्र-
क्लेशाजनकम् ॥ * ॥ तामसधनं यथा, --
“पार्श्विकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यत्तु तत् कृष्णं समुदाहृतम् ॥”
पार्श्विकः पात्रतया योऽर्जयति । आर्त्त्या पर-
पृष्ठ २/७७७
पीडया । प्रतिरूपेण कृत्रिमरत्नादिना । साह-
सेन समुद्रयानगिर्य्यारोहणादिना । व्याजेन
ब्राह्मणवेशेन शूद्रादिना । कृष्णं तामसम् ॥ * ॥
राजसधनं यथा, --
‘कुसीदकृषिबाणिज्यशुल्कगानानुवृत्तिभिः ।
कृतोपकारादाप्तञ्च राजसं समुदाहृतम् ॥’
अनुवृत्त्या सेवया ॥ * ॥ सात्त्विकधनं यथा, --
‘श्रुतशौर्य्यतपःकन्याशिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुद्धं मुनिभिः समुदाहृतम् ॥’
श्रुतेनाध्ययनेन । शौर्य्येण जयादिना । तपसा जप-
होमदेवार्च्चादिना । कन्यागतं कन्यया सहागतं
श्वशुरादेर्लब्धम् । शिष्यागतं गुरुदक्षिणादिना ।
याज्यागतं आर्त्विज्यलब्धम् । अन्वयागतं दाया-
देभ्यो लब्धम् । शुद्धं सात्त्विकम् ।” इति शुद्धितत्त्वे
देवलनारदौ ॥ * ॥ धनप्रयोगनक्षत्राणि यथा,
अश्विनी । पुनर्व्वसुः । पुष्यः । उत्तरफल्गुनी ।
हस्ता । पूर्ब्बाषाढा । उत्तराषाढा । श्रवणा ।
धनिष्ठा । शतभिषा । उत्तरभाद्रपत् । रोहिणी ।
इति ज्योतिषम् ॥ * ॥ धनप्रयोगनिषेधो यथा,
“आजं यमद्वन्द्बमहित्रयञ्च
शत्रुद्बयं वातयुगं महेशः ।
कार्य्यो न चैतेषु धनप्रयोगो
मृदौ गणे ग्राह्यमृणं न देयम् ॥”
इति समयप्रदीपः ॥
अर्थप्रशंसा यथा, --
“अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्त तस्ततः ।
क्रियाः सर्व्वाः प्रवर्त्तन्ते पर्व्वतेभ्य इवापगाः ॥
अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः ।
विच्छिद्यन्ते क्रियाः सर्व्वा ग्रीष्मे कुसरिती यथा ॥
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः ।
पापमाचरते कर्त्तुं तदा दोषः प्रवर्त्तते ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च
बुद्धिमान् ।
यस्यार्थाः स महाबाहुर्यस्यार्थाः स गुणाधिकः ॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।
राज्यमुत्सृजता धीर ! येन बुद्धिस्त्वया कृता ॥
यस्यार्था धर्म्मकामार्थास्तस्य सर्व्वं प्रदक्षिणम् ।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥
हर्षः कामश्च दर्पश्च धर्म्मः क्रोधः शमो दमः ।
अर्थादेतानि सर्व्वाणि प्रवर्त्तन्ते नराधिपे ॥
येषां नश्यत्ययं लोकश्चरतां धर्म्मचारिणाम् ।
तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥
इति रामायणेयुद्धकाण्डे श्रीरामं प्रति श्रीलक्ष्मण-
वाक्यम् ॥ * ॥
अर्थनिन्दा यथा, --
“अर्थमनर्थं भावय नित्यं
नास्ति ततः सुखलेशः सत्यम् ।
पुत्त्रादपि धनभाजां भीतिः
सर्व्वत्रैषा विहिता नीतिः ॥”
इत्यादि मोहमुद्गरे द्रष्टव्यम् ॥ * ॥
अनुग्रहार्थं भगवता धनहरणम् । यथा, --
“राजन् यमनुगृह्णामि हरिस्ये तद्धनं शनैः ।
ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥”
इति श्रीभागवतम् ॥

धनकेलिः, पुं, (धनैः केलिः क्रीडा यस्य ।)

कुबेरः । इति त्रिकाण्डशेषः ॥

धनच्छूः, स्त्री, (धनं छ्यति नाशयतीति । छो

य लूनौ + बाहुलकात् ऊः ।) करेटुपक्षी ।
इति त्रिकाण्डशेषः ॥

धनञ्जयः, पुं, (धनं जयति सम्पादयतीति । जि +

खच् + मुम् । “धनमिच्छेत् हुताशनात् ।”
इत्युक्तेरस्य तथात्वम् ।) अग्निः । चित्रकवृक्षः ।
इत्यमरः । १ । १ । ५६ ॥ (धनं जयति अरीन्
निर्जित्य अर्ज्जयतीति । जि + खच् + मुम् च ।)
अर्ज्जुनः । (अस्य निरुक्तिर्यथा, महाभारते ।
४ । ४२ । १३ ।
“सर्व्वान् जनपदान् जित्वा वित्तमाश्रित्य केवलम् ।
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ॥”)
नागभेदः । स तु जलाशयाधिपतिः । (यथा,
महाभारते । २ । ९ । ९ ।
“कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ।
मणिमान् कुण्डधारश्च कर्कोटकधनञ्जयौ ॥”)
देहमारुतः । स च शरीरवाह्यपञ्चवाय्वन्तर्गतः
इति मेदिनी । ये, १२० ॥ (“धनञ्जयः पोषण-
करः ।” इति वेदान्तसारः । ३३ ॥
“न जहाति मृतञ्चापि सर्व्वव्यापी धनञ्जयः ॥”
इति सुबोधिनी ॥)
“धनञ्जयस्तथा घोषे महारजतवर्णकः ।
ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु ॥”
इति शारदातिलकटीकायां राघवभट्टः ॥
अर्ज्जुनवृक्षः । इति रत्नमाला ॥ * ॥ (गोत्र-
विशेषः । तद्बंशीये, त्रि । यथा, महाभारते ।
२ । ३३ । ३४ ।
“धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ८३ ।
“अनिर्द्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥”
“यत् दिग्विजये धनं प्रभूतं अजयत्तेन धनञ्जयः ।
‘पाण्डवानां धनञ्जयः ।’ इति भगवद्वचनात् ।”
इति शाङ्करभाष्यम् ॥ षोडशद्वापरस्य व्यासः ।
यथा, देवीभागवते । १ । ३ । ३० ।
“त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ॥”)

धनदः, पुं, (धनं दयते पालयतीति । दे ङ पालने +

“आतोऽतुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
कुबेरः । इत्यमरः । १ । १ । ७२ ॥ (यथा,
देवीभागवते । ५ । ३ । ४० ।
“त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् ।
धनदं पावकञ्चैव चन्द्रसूर्य्यौ विजित्य च ॥”
ब्रह्मा अस्य तपसा सन्तुष्ट एनं धनेशं चकार ।
यथा, अध्यात्मरामायणे । ७ । १ । ३८ ।
“ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् ।
मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥”)
हिज्जलवृक्षः । इति राजनिर्घण्टः ॥ (धनदः
आश्रयित्वेनास्त्यस्येति अच् । हिमवत एक-
देशः । यथा, महाभारते । १३ । १९ । १६ ।
“धनदं समतिक्रम्य हिमवन्तञ्च पर्व्वतम् ॥”
धनं ददातीति । दा + कः ।) दातरि, त्रि ।
इति मेदिनी । दे, ३२ ॥ (यथा, कामन्दकीय-
नीतिसारे । ३ । २३ ।
“उद्वेजयति भूतानिक्रूरवाक् धनदोऽपि सन् ॥”)

धनदाक्षी, स्त्री, (धनदस्य कुबेरस्य अक्षि इव

पिङ्गलं पुष्पं यस्याः । षच् समासे । स्त्रियां
ङीप् ।) लताकरञ्जः । इति राजनिर्घण्टः ॥

धनदानुजः, पुं, (धनदस्य कुबेरस्य अनुजः कनिष्ठः ।)

रावणः । इति शब्दरत्नावली ॥ (यथा, रघुः ।
१२ । ५३ ।
“निग्रहात् स्वसुराप्तानां वधाच्च धनदानुजः ।
रामेण निहितं मेने पदं दशसु मूर्द्धसु ॥”)

धनदायी, [न्] पुं, (धनं ददाति उपासकायेति ।

दा + णिनिः । “धनमिच्छेत् हुताशनात् ।” इति
वचनादेवास्य तथात्वम् ।) अग्निः । इति शब्द-
रत्नावली ॥ धनदातरि, त्रि ॥

धनन्ददा, स्त्री, (धेन धनेन नन्दं आनन्दं ददा-

तीति । दा + कः ।) बुद्धशक्तिभेदः । इति
त्रिकाण्डशेषः ॥

धनपतिः, पुं, (धनानां पतिः ।) कुवेरः । इति

धनञ्जयः ॥ (यथा, महाभारते । २ । १२ । ३ ।
“तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ॥”)
अस्य उत्पत्तिर्यथा, --
महातपा उवाच ।
“शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् ।
यथा वायुः शरीरस्थो धनदः सम्बभूव ह ॥
आद्यं शरीरं यत्तस्मिन् वायुरन्तस्थितोऽभवत् ।
प्रयोजनान्मूर्त्तिमत्त्वमादिशन् क्षेत्रदेवताः ॥
तत्रामूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यते मया ।
तां शृणुष्व महाभाग ! कथ्यमानां मयानघ ! ॥
ब्रह्मणः सृजतः सृष्टिं मुखाद्वायुर्विनिर्ययौ ।
प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् ॥
मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवन् ।
सर्व्वेषाञ्चैव देवानां यद्वित्तं फलमेव च ॥
तत् सर्व्वं पाहि नोक्तं तस्माद्धनपतिर्भवेत् ।
तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः ॥
तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः ।
तस्यास्तु धनदो देवस्तुष्टः सर्व्वं प्रयच्छति ॥
एषा धनपतेर्मूर्त्तिः सर्व्वकिल्विषनाशिनी ।
य एतां शृणुयाद्भक्त्या पुरुषः पठतेऽपि वा ॥
सर्व्वकाममवाप्नोति स्वर्गलोकञ्च गच्छति ॥”
इति वराहपुराणम् ॥

धनपिशाचिका, स्त्री, (धने पिशाचिकेव ।)

धनाशा । तत्पर्य्यायः । तृष्णा २ । इति हारा-
वली । १२५ ॥

धनपिशाची, स्त्री, (धने पिशाचीव ।) तृष्णा ।

धनलोभः । इति त्रिकाण्डशेषः ॥

धनप्रिया, स्त्री, (धनवत् प्रिया ।) काकजम्बूः ।

इति राजनिर्घण्टः ॥
पृष्ठ २/७७८

धनफलं, क्ली, (धनानां फलम् ।) दानभोगादि ।

यथा, अग्निरुवाच ।
“अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।
रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥”
इति वह्निपुराणे दानविधिनामाध्यायः ॥

धनवती, स्त्री, (धनमस्या अस्तीति । धन + मतुप् ।

मस्य वः । स्त्रियां ङीप् ।) धनिष्ठानक्षत्रम् ।
इति जटाधरः ॥

धनवान्, [त्] त्रि, (धनमस्त्यस्येति । धन +

मतुप् । मस्य वः ।) धनविशिष्टः । धनी । इति
हलायुधः ॥ (यथा, रामायणे । २ । ६७ । १८ ।
“नाराजके जनपदे धनवन्तः सुरक्षिताः ।
शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥”)

धनस्यकः, पुं, गोक्षुरः । इति शब्दचन्द्रिका ॥

(लालसया धनमिच्छतीति । धन + क्यच् ।
“सर्व्वप्रातिपदिकानां क्यचि लालसायां सुग-
मुकौ ।” ३ । १ । ५१ । इत्यस्य वार्त्तिकोक्त्या
सुक् । ततो धनस्य इति नामधातुः + ण्वुल् ।
लालसया धनेच्छौ, त्रि ॥)

धनहरी, स्त्री, (धनं हरतीति । हृ + “हरतेर-

नुद्यमनेऽच् ।” ३ । २ । ९ । इति अच् । गौरा-
दित्वात् ङीष् ।) चोरनामगन्धद्रव्यम् । तत्-
पर्य्यायः । राक्षसी २ चण्डा ३ क्षेमः ४ दुष्पत्रः
५ गणहासकः ६ । इत्यमरः । २ । ४ । १२८ ॥
दुष्कुलीनः ७ विरोधः ८ क्रोधमूर्च्छितः ९ ।
इति शब्दरत्नावली ॥ क्षेमकः १० कितवः ११
कोरकः १२ । इति जटाधरः ॥ धनहारके
इनन्तः, त्रि ॥

धनाधिपः, पुं, (धनानामधिपः ।) कुवेरः । इत्य-

मरः । १ । १ । ७२ ॥ (यथा, देवीभागवते ।
५ । ७ । १८ ।
“सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ ।
यमो धनाधिपः पाशी जग्मुः सर्व्वे भयातुराः ॥”)
अस्य ध्यानं यथा, --
“कुबेरञ्च प्रवक्ष्यामि कुण्डलाभ्यामलङ्कृतम् ।
हारकेयूररचितं सिताम्बरधरं शुभम् ॥
गदाधरञ्च कर्त्तव्यं वरदं मुकुटान्वितम् ।
वरयुक्तविमानस्थं मेषस्थं वापि कारयेत् ॥
वर्णेन पीतवर्णेन गुह्यकैः परिवारितम् ।
महोदरं महाकायं ऋद्ध्यष्टकसमन्वितम् ॥
गुह्यकैर्वहुभिर्युक्तं धनव्यग्रकरैस्तथा ॥”
इति मत्स्यपुराणम् ॥

धनाध्यक्षः, पुं, (धनानामध्यक्षः ।) कुवेरः । इति

हलायुधः ॥ (यथा, अध्यात्मरामायणे । ७ ।
२ । ४७ ।
“ततः क्रुद्बो दशग्रीवो जगाम धनदालयम् ।
विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥”)
धनाधिकृतः । तहविलदार इति खाजाञ्चि इति
च भाषा । तस्य लक्षणं यथा, --
“लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् ।
विज्ञाता फलगुसाराणामनाहार्य्यः शुचिः सदा ।
निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥
आयद्बारेषु सर्व्वेषु धनाध्यक्षसमा नराः ।
व्ययद्बारेषु च तथा कर्त्तव्याः पृथिवीक्षिता ॥”
इति मत्स्यपुराणे १८९ अः ॥

धनाशा, स्त्री, (धनानां आशा ।) धनलोभः ।

यथा, विष्णुपुराणे तथा हरिवंशे । ३० । ४६ ।
“जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति
जीर्य्यतः ।
धनाशा जीविताशा च जीर्य्यतोऽपि न
जीर्य्यति ॥”

धनाश्रीः, स्त्री, रागिणीविशेषः । धानसी इति

भाषा । हनूमन्मते श्रीरागस्य तृतीयभार्य्या ।
अस्याजातिः षाडवः । गृहं षड्जस्वरः । गान-
समयः हिमर्त्तौ द्बितीयप्रहरः कस्यचिन्मते
दिवावसानम् । रागमालायामस्या रूपं वियो-
गिनी रमणी रक्तवसना विच्छेदवेदनया दुर्ब्बला
कृशा च एकाकिनी वकुलवृक्षतलोपविष्टा
रुदन्ती । कल्लिनाथमते मेघरागस्य चतुर्थ-
भार्य्या । भरतमते मालकोषपुत्त्रगान्धाररागस्य
पत्नी । इति सङ्गीतशास्त्रम् ॥

धनिकः, पुं, (धनिना कायतीति । कै + कः ।)

धन्याकम् । इति मेदिनी । के, १०६ ॥ अस्मि-
न्नर्थे क्लीवमिति राजनिर्घण्टः ॥ (धनमस्त्य-
स्येति । ठन् ।) धवः । इति हेमचन्द्रः ॥

धनिकः, त्रि, (धनं अस्त्यस्येति । “अत इनिठनौ ।”

५ । २ । ११५ । इति ठन् ।) साधुः । धनी । इति
मेदिनी । के, १०६ ॥ (यथा, कलाविलासे । १ । १८ ।
“धूर्त्तकरकन्दुकानां वारबधूचरणनूपुरमणीनाम् ।
धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥”
उत्तमर्णः । यथा, मनुः । ८ । ४७ ।
“अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥”)

धनिका, स्त्री, (धनिक + टाप् ।) साधुनारी ।

इति मेदिनी । के, १०६ ॥ बधूः । इति हेम-
चन्द्रः ॥ युवती । इति शब्दरत्नावली ॥ प्रियङ्गु-
वृक्षः । इति शब्दचन्द्रिका ॥

धनिष्ठा, स्त्री, (अतिशयेन धनवती । धन + इष्ठन्

+ टाप् ।) अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गत-
त्रयोविंशनक्षत्रम् । तत्पर्य्यायः । श्रविष्ठा २ ।
इत्यमरः । १ । ३ । २२ ॥ वसुदैवता ३ । इति
ज्योतिषम् ॥ भूतिः ४ निधानम् ५ धनवती ६ ।
इति जटाधरः ॥ अस्याः स्वरूपं यथा, --
“मस्तकोपरि समागते धने
मर्द्दलाकृतिनि पञ्चतारके ।
यान्ति कान्तिमति मेषलग्नतः
सारसाक्षिरसघस्रलिप्तिकाः ॥”
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥
तत्र जातस्य फलम् ।
“आचारजातादरचारुशीलो
धनाधिशाली बलवान् दयालुः ।
यस्य प्रसूतौ च भवेद्धनिष्ठा
महत्प्रतिष्ठासहितो नरः स्यात् ॥”
इति कोष्ठीप्रदीपः ॥

धनी, [न्] त्रि, (धनमस्त्यस्येति । धन + इनिः ।)

धनवान् । (यथा, देवीभागवते । १ । १५ । १३ ।
“गत्वा च धनिनां कार्य्या स्तुतिः सर्व्वात्मना
बुधैः ॥”)
तत्पर्य्यायः । इभ्यः २ आढ्यः ३ । इत्यमरः ।
३ । १ । १० ॥ यथा, कूर्म्मपुराणे १२० अः ।
“आढ्यो वा दीक्षितो नाम्ना यवीयानपि यो
भवेत् ।
भो भवत्पूर्ब्बकन्त्वेनमभिभाषेत धर्म्मवित् ॥”
“गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥”
इति श्रीभागवतम् ॥
(उत्तमर्णः । यथा, मनुः । ८ । ६१ ।
“यादृशा धनिभिः कार्य्या व्यवहारेषु साक्षिणः ।
तादृशान् सम्प्रवक्ष्यामि यथावाच्यमृतञ्च तैः ॥”)

धनीका, स्त्री, युवती । इति शब्दरत्नावली ॥

धनीयकं, क्ली, (धनाय हितम् । धन + छः । संज्ञायां

कन् ।) धन्याकम् । इति शब्दरत्नावली ॥

धनुः, पुं, (धनतीति । धन + “भृमृशीतॄचरीति ।”

उणां । १ । ७ । इति उः ।) चापः । (यथा,
हितोपदेशे ।
“धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥”)
राशिविशेषः । पियालवृक्षः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

धनुः, [स्] पुं, (धन + “अर्त्तिपॄवपीति ।” उणां

२ । ११८ । इति उसिः स च नित् ।) पियाल-
वृक्षः । धनुर्धरे, त्रि । इति मेदिनी । से, २६ ॥

धनुः, [स्] क्ली, (धनतीति । धन शब्दे + “अर्त्ति-

पॄवपीति ।” उणां २ । ११८ । इनि उसिः स च
नित् ।) शरनिःक्षेपयन्त्रम् । धनुक इति भाषा ।
तत्पर्य्यायः । चापः २ धन्व ३ शरासनम् ४
कोदण्डम् ५ कार्मुकम् ६ इष्वासः ७ । इत्यमरः ।
२ । ८ । ८३ ॥ स्थावरम् ८ गुणी ९ शरावापः
१० तृणता ११ त्रिणता १२ । इति त्रिकाण्ड-
शेषः । अस्त्रम् १३ धनूः १४ । इति जटाधरः ॥
तारकम् १५ काण्डम् १६ । इति शब्दरत्ना-
वली ॥ तस्य लक्षणं यथा, --
“धनुस्तु द्बिविधं प्रोक्तं शार्ङ्गं वांशं तथैव च ।
कोमलं वर्णवृढता तयोर्गुण उदाहृतः ॥
सुखसम्पत्तिकरणं सममुष्ट्यायतं धनुः ।
विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥”
इति युक्तिकल्पतरुः ॥
धनुर्विद्यारम्भदिनं यथा, --
“शनिभौमबुधान्येषु वारेषु सुतिथौ हरौ ।
प्रबुद्धे चापविद्याया आरम्भः शुभदो मतः ॥”
इति ज्योतिःसारसंग्रहः ॥
विद्यारम्भोक्तनक्षत्राणि तत्र शुभानि ॥
(एतदस्त्रविद्यां ब्रह्मा पृथुनाम्ने महीपतये
प्रथमं दत्तवान् । असौ एव लोकेषु अस्याः
प्रचारमकरोत् । यदुक्तम् वैशम्यायनेन ।
“असिः पूर्ब्बं मया सृष्टो दुष्टनिग्रहकारणात् ।
भवादृशसमीपस्थो लोकान् शिक्षन् चरत्यसौ ॥
धनुराद्यायुधव्यक्तौ त्वमेवादिः स्मृतो मया ।
पृष्ठ २/७७९
तस्मात् शस्त्राणि चास्त्राणि ददानि तव पुत्त्रक ! ॥”
अस्य प्रमाणं यथा, बृहच्छार्ङ्गधरे ।
“चतुर्विंशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम् ।
तद्भवेन्मानवं चापं सर्व्वलक्षणसंयुतम् ॥”
तथा आग्नेयधनुर्व्वेदे ।
“चतुर्हस्तं धनुः श्रेष्ठं त्रिभिः सार्द्धैस्तु मध्यमम् ।
कनिष्ठन्तु त्रिभिः प्रोक्तं नित्यमेव पदातिनः ॥”
धनुस्तु शार्ङ्गवांशभेदेन द्विविधम् । यथा, युक्ति-
कल्पतरौ ।
“धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं तथैव च ॥”
एतयोः प्रकारमाह धनुर्व्वेदे ।
“शार्ङ्गिकं त्रिणतं प्रोक्तं वैणवं सर्व्वनामितम् ॥”
शार्ङ्गधनुषः प्रमाणमाह बृहत्-शार्ङ्गधरे ।
“शार्ङ्गं पुनर्धनुर्दिव्यं तद्विष्णोः परमायुधम् ॥
वितस्तिसप्तमं मानं निर्म्मितं विश्वकर्म्मणा ॥
न स्वर्गे न च पाताले न भूमौ कस्यचित् करे ।
तद्धनुर्वशमायाति त्यक्त्रैकं पुरुषोत्तम् ॥
पौरुषेयन्तु यच्छार्ङ्गं बहुवत्सरशोभितम् ।
वितस्तिभिः सार्द्धषड् भिर्निमित्तं धनुषोऽधमम् ॥
प्रायो योज्यं धनुः शार्ङ्गं गजयोधाश्वसादिनाम् ।
रथिनाञ्च पदातीनां वांशं चापं प्रकीर्त्तितम् ॥”
वांशधनुषः प्रमाणमाह तत्रैव ।
“त्रिपर्व्वं पञ्चपर्व्वं वा सप्तपर्व्वं प्रकीर्त्तितम् ।
नवपर्व्वञ्च कोदण्डं चतुर्द्धा शुभकारणम् ॥
चतुष्पर्व्वञ्च षट्पर्व्वं अष्टपर्व्वं विवर्ज्जयेत् ॥”
“अतिजीर्णमपक्वञ्च ज्ञातिघृष्टं तथैव च ।
दग्धं छिद्रं न कर्त्तव्यं वाह्याभ्यन्तरहस्तकम् ॥
गुणहीनं गुणाक्रान्तं वास्तुदोषसमन्वितम् ।
गलग्रन्थिर्न कर्त्तव्या तलमध्ये तथैव च ॥”
“अपक्वं भङ्गमायाति अतिजीर्णन्तु कर्कशम् ।
ज्ञातिघृष्टन्तु सोद्वेगं कलहो बान्धवैः सह ॥
दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम् ।
बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यरेऽपि च ॥
हीने तु सन्धिते बाणे संग्रामे भङ्गकारकम् ।
आक्रान्ते च पुनः क्वापि न लक्ष्यं प्राप्यते दृढम् ॥”
“गलग्रन्थितलग्रन्थिधनहानिकरं धनुः ।
एभिर्दोषैर्विनिर्मुक्तं सर्व्वकार्य्यकरं स्मृतम् ॥”
उपलक्षेपकधनुषः प्रकारमाह तत्रैव ।
“उपलक्षेपकं चापं वैणवं तद्द्विरज्जुकम् ।
त्रिहस्तोत्सेधसहितं द्ब्यङ्गुलीविस्तृतं तु तत् ॥”
आसनविशेषः । यथा, हठयोगप्रदीपिका-
याम् । १ । २५ ।
“पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
धनुराकर्षणं कुर्य्याद्धनुरासनमुच्यते ॥” * ॥
चतुर्हस्तपरिमाणम् । काठा इति भाषा । यथा,
“चतुर्विंशाङ्गुलो हस्तस्तच्चतुष्कं धनुः स्मृतम् ॥”
इति जलाशयतत्त्वम् ॥
मेषादिद्वादशराश्यन्तर्गतनवमराशिः । तत्-
पर्य्यायः । तौक्षिकः २ । इति दीपिका । अस्य
देवता पूर्ब्बार्द्धमनुष्याकारशेषार्द्धाश्वाकारधनु-
र्धारी पुरुषः । स मूलापूर्ब्बाषाढासमुदायोत्त-
राषाढप्रथमपादेन भवति । स च शीर्षोदयः
पीतः स्वर्णवर्णो वा पर्व्वतचरः महाशब्दकरः
पूर्ब्बदिक्स्वामी दृढाङ्गः रूक्षः क्षत्त्रियवर्णः
उष्मः पित्तप्रकृतिरित्यर्थः अल्पसन्तानः अल्प-
स्त्रीसङ्गः अग्निराशिः ॥ * ॥ एतद्राशिजात-
फलं यथा, “क्रोधी द्रुतवाक् पुण्यमतिः शुचिः
प्राज्ञः सुखी सर्व्वलोकालापी च ॥” इति
जातकचन्द्रिकादयः ॥ * ॥ अपि च ।
“बहुकलाकुशलः प्रबलो महान्
विमलताकलितः सरलोक्तिभाक् ।
शशधरे हि धनुर्धरगे नरो
धनकरो न करोति धनव्ययम् ॥”
तल्लग्नजातफलं यथा, --
“धनुर्लग्ने समुत्पन्नो नीतिमान् धनवान् सुखी ।
कुलमध्ये प्रधानश्च प्राज्ञः सर्व्वस्य पोषकः ॥”
इति कोष्ठीप्रदीपः ॥

धनुःपटः, पुं, (धनुष इव पटो विस्तारो यस्य ।)

पियालवृक्षः । इति शब्दचन्द्रिका ॥ (पर्य्यायोऽस्य
यथा, --
“पियालस्तु खरस्कन्धश्चारो बहुलवल्कलः ।
राजादनस्तापसेष्टः सन्नकद्रुर्धनुःपटः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

धनुःशाखा, स्त्री, (धनुरिव शाखा यस्याः ।)

मूर्व्वा । इति शब्दचन्द्रिका ॥

धनुःश्रेणी, स्त्री, (धनुषः श्रेणीव ।) मूर्व्वा ।

महेन्द्रवारुणी । इति राजनिर्घण्टः ॥ (यथास्याः
पर्य्यायो वैद्यकरत्नमालायाम् ।
“तेजनी पिलुनी देवा तिक्तवल्ली पृथक्त्वचा ।
धनुःश्रेणी मधुरसा मूर्व्वा निर्दहनीति च ॥”)

धनुर्गुणा, स्त्री, (धनुषो गुणो यस्याः ।) मूर्व्वा ।

इति शब्दचन्द्रिका ॥ (मूर्व्वाशब्देऽस्या गुणादयो
ज्ञातव्याः ॥)

धनुर्द्रुमः, पुं, (धनुषो द्रुमः ।) वंशः । इति राज-

निर्घण्टः ॥

धनुर्धरः, पुं, (धरतीति । धृ + अच् । धनुषो

धरः ।) धनुर्धारी । तिरन्दाज इति भाषा ।
तत्पर्य्यायः । धन्वी २ धनुष्मान् ३ धानुष्कः ४
निषङ्गी ५ अस्त्री ६ तूणी ७ धनुर्भृत् ८ । इति
हेमचन्द्रः । ३ । ४३५ ॥ (यथा, महाभारते ।
१ । १३४ । २७ ।
“प्रयतिष्ये तथा कर्त्तुं यथा नान्यो धनुर्धरः ।
तत्समो भविता लोके सत्यमेतत् ब्रवीमि ते ॥”
स्वनामख्यातो धृतराष्ट्रस्य पुत्त्रविशेषः । यथा,
महाभारते । १ । ११७ । ११ ।
“कवची निषङ्गी कुण्डी च कुण्डधारो धनुर्धरः ॥”)

धनुर्धारी, [न्] त्रि, (धनुर्धरतीति । धृ + णिनिः ।)

धनुर्धरः । तस्य लक्षणं यथा, --
“शूरश्च बलयुक्तश्च गजाश्वरथकोविदः ।
धनुर्धारी भवेद्राज्ञः सर्व्वक्लेशसहः शुचिः ॥”
इति मत्स्यपुराणे १८९ अः ॥

धनुर्भृत्, पुं, (धनुर्बिभर्त्तीति । भृ + क्विप् ।) धनु-

र्धरः । इति हेमचन्द्रः । ३ । ४३५ ॥ (यथा,
रघुः । ९ । ११ ।
“अवनिमेकरथेन वरूथिना
जितवतः किल तस्य धनुर्भृतः ॥”)

धनुर्मध्यं, क्ली, (धनुषो मध्यम् ।) चापमध्यभागः ।

तत्पर्य्यायः । लस्तकः २ । इत्यमरः । २ । ८ । ८५ ॥

धनुर्माला, स्त्री, (धनुषो माला श्रेणीव ।) मूर्व्वा ।

इति शब्दचन्द्रिका ॥

धनुर्य्यासः, पुं, (धनुरिव यासः ।) धन्वयासः ।

दुरालभा । इत्यमरटीकायां रायमुकुटः ॥
(पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ।
“यासो यवासो दुस्पर्शो धनुर्य्यासो दुरालभा ॥”)

धनुर्लता, स्त्री, (धनुषो लतेव ।) सोमवल्ली । इति

राजनिर्घण्टः ॥

धनुर्वृक्षः, पुं, (धनुषो वृक्षः ।) धन्वनवृक्षः । (अस्य

पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“धन्वनः पिच्छिलत्वक् च धनुर्वृक्षश्च धर्म्मणः ॥”)
वंशः । भल्लातकः । अश्वत्थः । इति राज-
निर्घण्टः ॥

धनुर्व्वेदः, पुं, (धनूंषि उपलक्षणेन धनुरादीन्य-

स्त्राणि विद्यन्ते ज्ञायन्तेऽनेनेति । विद + करणे
घञ् ।) धनुर्व्विद्याबोधकशास्त्रम् । तत्तु यजु-
र्व्वेदस्योपवेदः । इति चरणव्यूहः ॥ (यथा,
मधुसूदनप्सरस्वतीकृतप्रस्थानभेदे ।
“यजुर्व्वेदस्योपवेदो धनुर्व्वेदः पादचतुष्टयात्मको
विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः ।
द्वितीयः संग्रहपादः । तृतीयः सिद्धिपादः ।
चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे धनुर्लक्षण-
मधिकारिनिरूपणञ्च कृतम् । तत्र धनुःशब्दश्चापे
रूढोऽपि चतुर्विधायुधवाचको वर्त्तते । तच्च चतु-
र्विधम् । मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तञ्च । तत्र
मुक्तं चक्रादि । अमुक्तं खड्गादि । मुक्तामुक्तं
शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि । तत्र-
मुक्तमस्त्रमित्युच्यते । अमुक्तं शस्त्रमित्युच्यते ।
तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादि-
भेदादनेकविधम् । एवं साधिदैवतेषु समग्रेषु चतु-
र्विधायुधेषु येषामधिकारः क्षत्त्रियकुमाराणां
तदनुयायिनाञ्च ते सर्व्वे चतुर्विधाः । पदातिरथ-
गजतुरगारूढाः । एवं दीक्षाभिषेकशाकुनमङ्गल-
करणादिकञ्च सर्व्वमपि प्रथमे पादे निरूपितम् ।
सर्व्वेषामस्त्रशस्त्रविशेषाणां आचार्य्यस्य लक्षण-
पूर्ब्बकं संग्रहणं संग्रहपादे द्बितीये दर्शितम् ।
गुरुसम्प्रदायसिद्धानां शास्त्रविशेषाणां पुनः पुन-
रभ्यासो मन्त्रदेवतासिद्धिकरणादिकं तृतीये पादे ।
एवं देवतार्च्चनाभ्यासादिभिः सिद्धानां अस्त्र-
शस्त्रविशेषाणां प्रयोगश्चतुर्थे पादे निरूपितः ॥”)

धनुष्करः, पुं, (धनुः करोतीति । धनुस् + कृ +

“दिवाविभेति ।” ३ । २ । २१ । इति टः ।)
धनुः करे यस्य इति व्यधिकरणबहुब्रीहिसमासो
वा । धानुष्कः ॥

धनुष्पटः, पुं, (धनुष इव पटो विस्तारो यस्य ।)

पियालवृक्षः । इत्यमरः । २ । ४ । ३५ ॥

धनुष्मान्, [त्] पुं, (धनुर्विद्यते यस्य । धनुस् +

मतुप् ।) धनुर्धरः । इत्यमरः । २ । ८ । ६९ ॥
पृष्ठ २/७८०
(यथा, रघुः । ७ । ५६ ।
“रथी निषङ्गी कवची धनुष्मान्
दृप्तः स राजन्यकमेकवीरः ॥”)

धनूः, स्त्री, (धन धान्ये शब्दे वा + “कृषिचमितनि-

धनीति ।” उणां १ । ८२ । इति ऊः ।) धनुः ।
इति जटाधरः ॥ धान्यसञ्चये धनुषि च पुं ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

धनेयकं, क्ली, धन्याकम् । इत्यमरटीकायां भरतः ॥

धनेश्वरः, पुं, (धनानामीश्वरः ।) कुबेरः । इति

हेमचन्द्रः । २ । १०४ ॥ (यथा, महाभारते ।
१ । २२८ । ३२ ।
“जगृहुः सर्व्वशस्त्राणि स्वानि स्वानि सुरास्तथा ।
कालदण्डं यमो राजन् ! गदाञ्चैव धनेश्वरः ॥”
विष्णुः । यथा, तत्रैव । १३ । १४९ । ६३ ।
“वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥”
मुग्धबोधप्रणेतुर्वोपदेवस्य गुरुः । यदुक्तम् ।
“विद्बद्धनेश्वरच्छात्रो भिषक्केशवनन्दनः ।
वोपदेवश्चकारेदं विप्रो वेदपदास्पदम् ॥”)

धन्यः, पुं, (धनाय हितः । धन + यत् ।) अश्वकर्ण-

वृक्षः । इति राजनिर्घण्टः ॥

धन्यः, त्रि, (धनाय हितः । धन + यत् ।) पुण्य-

वान् । सुकृती । इत्यमरः । ३ । १ । ३ ॥
“स्वनामा पुरुषो धन्यः पितृनामा च मध्यमः ।
अधमो भ्रातृनामा च मातृनामाधमाधमः ॥”
इति गोयीचन्द्रधृतपद्यम् ॥
धन्यत्वकथनं यथा, --
सनत्कुमार उवाच ।
“विस्तीर्णबालुकामध्ये कच्छपः शतयोजनः ।
भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः ॥
निःसारितो राघवेण मीनेन च महात्मना ।
धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः ॥
क्षीरोदसागरो धन्यो जन्तवो यत्र मद्बिधाः ।
भवान् धन्योऽसि क्षीरोद ! तेनोक्तो नाहमेव च ॥
धन्या वसुन्धरा देवी यत्रैव सप्त सागराः ।
धन्यासि वसुधेत्युक्ता नाहमेवेत्युवाच सा ॥
धन्योऽनन्तो ममाधारः कृष्णांशो नागराड्विभुः ।
धन्योऽसीत्युक्तः परमो धन्यो नाहमुवाच सः ॥
धन्यश्च भगवान् ब्रह्मा विधाता जगतामपि ।
धन्योऽसि तत्र धाता च धन्यो नाहमुवाच सः ॥
धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः ।
धन्योऽसीत्युक्तः शम्भुश्च धन्यो नाहमुवाच सः ॥
धन्यो गणेश्वरो देवो देवानां प्रवरः परः ।
देवेषु धन्यो मान्योऽसीत्युक्तो गणपतिर्मया ॥
नाहं धन्यो मुनिश्रेष्ठ ! सस्मितश्चेत्युवाच सः ।
धन्या वेदाश्च चत्वारः कर्म्माणि यद्व्यवस्थया ॥
तस्माद्धन्याश्च ते वेदा गच्छ तत्र मनीषिणः ।
यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः ॥
ऊचुस्ते न वयं धन्या यज्ञसंघश्च साम्प्रतम् ।
वयं व्यवस्थाकर्त्तारो यज्ञौघः फलदः स्वयम् ।
तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने ! ॥
धन्योऽमि यज्ञसं घोऽसीत्युक्तस्तत्र मया विभो ! ।
ऊचुस्ते न वयं धत्या घन्यं कर्म्म शुभं मुने ! ॥
शुभकर्म्मासि धन्यं त्वं नाहं धन्यमुवाच तत् ।
श्रीकृष्णः परमात्मा च धन्यो मान्यश्च निश्चितम् ॥
धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च ।
इत्युक्तो भगवताप्यत्र कथितं सर्व्वकारणम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अः ॥
(धनं लब्धा । धन + “धनगणं लब्धा ।” ४ । ४ ।
८४ । इति यत् । धनलब्धा ॥ पुं, धनस्य निमित्तं
संयोगो उत्पातो वा । “गोद्व्यचोऽसंख्या परि-
माणाश्वादेर्यत् ।” ५ । १ । ३९ । इति यत् ॥)

धन्यव्रतं, क्ली, (धन्यं धनजनकं व्रतम् ।) धन-

जनकव्रतविशेषः । कुवेरः पूर्ब्बं शूद्र आसीत्
एतद्व्रतं कृत्वा धनपतिरभूत् । इति वराह-
पुराणम् ॥

धन्या, स्त्री, (धन्य + टाप् ।) आमलकी । इति

मेदिनी । ये, ३३ ॥ धन्याकम् । इति हेमचन्द्रः ।
३ । ८३ ॥ मनोः कन्या । इयमेव ध्रुवस्य पत्नी ।
यथा, मत्स्यराणे । ४ । ३८ ।
“धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनत् ॥”)

धन्याकं, क्ली, (धन्यते भक्षार्थिभिरिति । धन +

“पिनाकादयश्च ।” उणां ४ । १५ । इत्याकप्रत्ययेन
निपातनात् साधुः ।) धनिया इति ख्यातं शस्यम् ।
तत्पर्य्यायः । छत्रा २ वितुन्नकम् ३ कुस्तुम्बुरु ४ ।
इत्यमरः । २ । ९ । ३८ ॥ धान्यकम् ५ धन्यम् ५
धनिकम् ७ धनीयकम् ८ कुस्तुम्बुरी ९ धान्या-
कम् १० तुम्बुरु ११ धन्या १२ तुम्बुरी १३ धने-
यकम् १४ । इति भरतधृतकोषान्तरम् ॥ धान-
कम् १५ धान्यम् १६ धानेयम् १७ धनिका १८
छत्राधान्यम् १९ सुगन्धि २० शाकयोग्यम् २१
सूक्ष्मपत्रम् २२ जनप्रियम् २३ धान्यबीजम् २४
वीजधान्यम् २५ वेधकम् २६ । इति राज-
निर्घण्टः ॥ कुलटी २७ धेनिका २८ धन्यकम्
२९ धाना ३० धानेयकम् ३१ । इति भावप्रकाशः ॥
अस्य गुणाः । मधुरत्वम् । शीतत्वम् । कषा-
यत्वम् । पित्तज्वरकासतृषाच्छर्दिकफनाशित्वम् ।
दीपनत्वञ्च । इति राजनिर्घण्टः ॥ स्निग्धत्वम् ।
वृष्यत्वम् । मूत्रलत्वम् । लघुत्वम् । तिक्तत्वम् ।
कटुत्वम् । वीर्य्यकारित्वम् । पाचनत्वन् । रोच-
नत्वम् । ग्राहित्वम् । स्वादुपाकित्वम् । त्रिदोष-
दाहश्वासामार्शःकृमिनाशित्वञ्च ॥
“आर्द्रन्तु तद्गुणं स्वादु विशेषात् पित्तनाशनम् ॥”
इति भावप्रकाशः ॥
“शिलायां साधु संपिष्टं धान्यकं वस्त्रगालितम् ।
शर्करोदकसंमिश्रं कर्पूरादिसुसंस्कृतम् ॥
नवीने मृण्मये पात्रे स्थितं पित्तहरं परम् ॥”
राजनिर्घण्टः ॥

धन्व, [न्] क्ली, (धन्व्यते गम्यते दुर्गमादिस्थले-

ऽनेनेति । धन्व गतौ सौत्रो धातुः + कनिन् ।)
धनुः । (धन्व्यते गम्यतेऽत्र इति ।) स्थलम् ।
इति मेदिनी । ने, ७८ ॥ (यथा, --
“चरोऽनूपजलाकाशधन्वाद्यो भक्षसंविधिः ।
जलजानूपजाश्चैव जलानूपचराश्च ये ॥
गुरुभक्ष्याश्च ये सत्त्वाः सर्व्वे ते गुरवः स्मृताः ।
लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः ॥”
इति चरके सूत्रस्थाने २७ अः ॥)

धन्वं, क्ली, (धनतीति । धन शब्दे + “उल्वादयश्च ।”

उणां ४ । ९५ । इति वनप्रत्ययेन निपातनात्
साधुः ।) धनुः । इत्यमरटीकायां भरतः ॥
(यथा, महाभारते । ७ । २०० । ४३ ।
“धनुर्धराय देवाय प्रियधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्य्याय ते नमः ॥”)

धन्वङ्गः, पुं, (धनोर्धनुष इव अङ्गं यस्य ।) धन्वन-

वृक्षः । इति भावप्रकाशः ॥ धामिनी इति
हिन्दी भाषा । तत्पर्य्यायगुणाः ।
“धन्वङ्गस्तु धनुर्वृक्षो गोत्रवृक्षः सुतेजनः ।
धन्वङ्गः कफपित्तास्रकासहृत्तुवरो लघुः ।
वृंहणो बलकृद्रूक्षसन्धिकृद्व्रणरोपणः ॥”
इति भावप्रकाशः ॥
पुस्तकान्तरे धन्वगोऽपि पाठः ॥

धन्वदुर्गं, क्ली, (धन्वना निर्जलस्थलेन वेष्टितं

दुर्गम् ।) चतुर्द्दिशं मरुवेष्टितपञ्चयोजनपरि-
मितमनुदकस्थलम् । निर्जलदेशः । इति महा-
भारते राजधर्म्मः ॥ (यथा, मनुः । ७ । ७० ।
“धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥”)

धन्वनः, पुं, (धन्वति दृढत्वं गच्छतीति । धन्व गतौ

सौत्रधातुः + ल्युः ।) वृक्षविशेषः । इति रत्न-
माला ॥ धामनि इति भाषा । (यथा, रामा-
यणे । २ । ९४ । ९ ।
“वदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥”)
तत्पर्य्यायः । रक्तकुसुमः २ धनुवृक्षः ३ महा-
बलः ४ रुजासहः ५ पिच्छिलकः ६ रूक्षस्वादु-
फलः ७ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
कषायत्वम् । कफनाशित्वम् । दाहशोषकरत्वम् ।
ग्राहित्वम् । कण्ठामयशमनत्वञ्च । इति राज-
निर्घण्टः ॥ (फले, क्ली । यथा, महाभारते ।
३ । १११ । १३ ।
“करूषकाणीङ्गुदधन्वनानि
पिप्पलानां कामकारं कुरुष्व ॥”)

धन्वन्तरिः, पुं, (धनुरुपलक्षणत्वात् शल्यादि-

चिकित्साशास्त्रं तस्य अन्तं ऋच्छतीति ।
ऋ गतौ + “अच इः ।” उणां ४ । १३८ । इति
इः ।) देववैद्यः । स भगवदवतारः । यथा, --
“धन्वन्तरिश्च भगवान् स्वयमेव कीर्त्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीर्य्य लोके ॥
स वै भगवतः साक्षात् विष्णोरंशांशसम्भवः ।
धन्वन्तरिरिति ख्यात आयुर्व्वेददृगिज्यभाक् ॥”
इति श्रीभागवतम् ॥ * ॥
“नारायणांशो भगवान् स्वयं धन्वन्तरिर्महान् ।
पुरा समुद्रमथने समुत्तस्थौ महोदधेः ॥
सर्व्ववेदेषु निष्णातो मन्त्रतन्त्रविशारदः ।
शिष्यो हि वैनतेयस्य शङ्करस्योपशिष्यकः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५१ अध्यायः ॥
पृष्ठ २/७८१
अन्यच्च । “काशस्य काशिराजः तस्य दीर्घ-
तमाः पुत्त्रोऽभूत् । धन्वन्तरिस्तु दीर्घतमसोऽ-
भूत् । न हि संसिद्धकार्य्यकारणः सकल-
सम्भूतिष्वशेषज्ञानवित् । भगवता नारायणेन
चातीतसम्भूतौ तस्मै वरो दत्तः । काशिराज-
गोत्रेऽवतीर्य्य त्वमष्टधा सम्यगायुर्व्वेदं करिष्यसि ।
यज्ञभाक् त्वं भविष्यसीति । तस्य च धन्वन्तरेः
पुत्त्रः केतुमान् केतुमतो भीमरथः । तस्यापि
दिवोदासः ।” इति विष्णुपुराणम् । ४ । ८ । २-५ ॥ * ॥
अस्यार्थः । “संसिद्धकार्य्यकारणः जरादिरहित-
देहेन्द्रियः । संयतदेहेन्द्रिय इति वा । सकल-
सम्भूतिषु सर्व्वेष्वपि जन्मसु । अशेषज्ञानवित् सर्व्व-
शास्त्रवित् । अतीतसम्भूतौ क्षीराब्धौ जन्मनि ।
अष्टधा अष्टाङ्गमायुर्व्वेदम् तदुक्तं लघुवाग्भटे ।
कायबालग्रहोर्द्ध्वाङ्गशल्यदंष्ट्राजराविषम् ।
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संस्थितेति ।”
इति तट्टीकायां स्वामी ॥ * ॥ दिवोदासः ।
इति त्रिकाण्डशेषः ॥ (धन्वन्तरिप्रादुर्भावो यथा,
“एकदा देवराजस्य दृष्टिर्निपतिता भुवि ।
तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः ॥
तान् दृष्ट्वा हृदयन्तस्य दयया परिपीडितम् ।
दयार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह ॥
धन्वन्तरे ! सुरश्रेष्ठ ! भगवन् ! किञ्चिदुच्यते ।
योग्यो भवसि भूतानामुपकारपरो भव ॥
उपकाराय लोकानां केन किन्न कृतं पुरा ।
त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान् ॥
तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपो भव ।
प्रतीकाराय रोगाणामायुर्व्वेदं प्रकाशय ॥
इत्युक्त्वा सुरशार्द्द्लः सर्व्वभूतहितेप्सया ।
समस्तमायुषो वेदं धन्वन्तरिमुपादिशत् ॥
अधीत्य चायुषो वेदमिन्द्राद्धन्वन्तरिः पुरा ।
आगत्य पृथिवीं काश्याञ्जातो बाहुजवेश्मनि ।
नाम्ना तु सोऽभवत् ख्यातो दिवोदास इति क्षितौ ।
बाल एव विरक्तोऽभूच्चचार सुमहत्तपः ॥
यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम् ।
ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते ॥
हिताय देहिनां स्वीया संहिता विहितामुना ।
अयं विद्यार्थिनो लोकान् संहितान्ताम-
पाठयत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
विक्रमादित्यराजस्य नवरत्नान्तर्गतरत्नविशेषः ।
यथा, --
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥”
इति नवरत्नम् ॥
(धनोर्धनुर्वेदस्य अन्तमृच्छतीति । महादेवः ।
यथा, महाभारते । १३ । १७ । १०३ ।
“धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ॥”)

धन्वन्तरिग्रस्ता, स्त्री, (धन्वन्तरिणा ग्रस्ता ।)

कटुकी । इति शब्दचन्द्रिका ॥

धन्वयवासः, पुं, (धन्वदेशोद्भवो यवासः ।) दुरा-

लभा । इत्यमरटीकायां भरतः ॥ (दुरालभा-
शब्देऽस्य विवरणं ज्ञातव्यम् ॥)

धन्वयवासकः, पुं, (धन्वयवास + स्वार्थे कन् ।)

दुरालभा । इति राजनिर्घण्टः ॥

धन्वयासः, पुं, (धन्वदेशोद्भवो यासः यवासः ।)

दुरालभा । इत्यमरः । २ । ४ । ९१ ॥

धन्वा, [न्] पुं, (धन्वति जलाभावं गच्छतीति ।

धन्व + “कनिन् युवृषीति ।” उणां १ । १५६ ।
इति कनिन् ।) मरुदेशः । इत्यमरः । २ । १ । ५ ॥
(यथा, ऋग्वेदे । ६ । ३४ । ४ ।
“जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हव-
नानि यज्ञैः ॥”
अन्तरिक्षम् । लक्षणात् उदकमपि । यथा,
ऋग्वेदे । १ । १६८ । ५ ।
“धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो-
नैतशः ॥”
“धन्वच्युतो न धन्वन्शब्दोऽन्तरिक्षस्य वचनः
तेन तत्स्थमुदकं लक्ष्यते उदकस्राविणो मेघा
इव ।” इति तद्भाष्ये सायनः ॥)

धन्वी, [न्] त्रि, (धनुश्चापोऽस्त्यस्येति । व्रीह्या-

दित्वात् इनिः ।) धनुर्धरः । इत्यमरः । २ ।
८ । ६९ ॥ (यथा, कुमारे । ३ । १० ।
“कुर्य्यां हरस्यापि पिनाकपाणे-
र्धैर्य्यच्युतिं के मम धन्विनोऽन्ये ॥”)
विदग्धः । इति विश्वः ॥

धन्वी, [न्] पुं, (धन्वमस्त्यस्येति । धन्व + इनिः ।)

दुरालभा । अर्ज्जुनवृक्षः । (अस्य पर्य्यायो
यथा, --
“धन्वी धनञ्जयः पार्थो नदीजः ककुभोऽर्ज्जुनः ।”
इति वैद्यकरत्नमालायाम् ॥)
वकुलः । इति राजनिर्घण्टः ॥ पार्थः । इति
विश्वः ॥ (विष्णुः । यथा, महाभारते । १३ ।
१४९ । २२ ।
“ईश्वरो विक्रमो धन्वी मेधावी विक्रमः क्रमः ॥”
महादेवः । यथा, तत्रैव । १३ । १७ । ४२ ।
“कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥”
तामसमनोः पुत्त्रविशेषः । यथा, हरिवंशे ।
७ । २४ ।
“तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।
तामसस्य मनोरेते दश पुत्त्रा महाबलाः ॥”)

धम, ध्माने । ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) धमति । सौत्रधातुरयम् ।
इति दुर्गादासः ॥

धमः, त्रि, (धमतीति । धम + अच् ।) अग्नि-

संयोगकर्त्ता । शब्दकर्त्ता । इति धमधातोः
पचादित्वादन्प्रत्ययेन साध्यः ॥

धमकः, पुं, (धमतीति । ध्मा शब्दाग्निसंयोगयोः +

“घ्मो धम च ।” उणां २ । ३५ । इति क्वुन्
धमादेशश्च ।) कर्म्मकारः । इत्युणादिकोषः ॥

धमनः, पुं, (धम्यतेऽग्निरनेनेति । धम + करणे

ल्युट् ।) नलः । इत्यमरः । २ । ४ । १६२ ॥
(अस्य पर्य्यायो यथा, --
“नलः पोटगलः शून्यमध्यश्च धमनस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
धमतीति । धम + ल्युः ।) भस्त्राध्मापके क्रूरे
च त्रि । इति मेदिनी । ने, ७८ ॥

धमनिः, स्त्री, (धम्यते इति । धम + “अर्त्ति-

शृधृधमीति ।” उणां २ । १०३ । इति अनिः ।)
धमनी । इति शब्दरत्नावली ॥ (यथा, अथर्व्व-
वेदे । ६ । ९० । २ ।
“यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ॥”
प्रह्रादभ्रातुर्ह्रादस्य पत्नी । सा तु वातापे-
रिल्वलस्य च जननी । यथा, भागवते । ६ ।
१८ । १५ ।
“ह्रादस्य धमनिर्भार्य्यासूत वातापिरिल्वलम् ॥”
धमतिर्गतिकर्म्मा । गत्यर्था बुद्ध्यर्थाः । गम्यते
ज्ञायतेऽर्थोऽनया । ज्ञायते वा विद्बद्भिः साध्व-
साधुविभागेन । यद्वा, ‘धमति’ इति वधकर्म्म-
स्वपि पठ्यते धमति हन्त्यनया शापाक्रोशादि-
रूपयेति । वाक् । शब्दः । इति निघण्टुः ।
१ । ११ ॥ यथा, ऋग्वेदे । २ । ११ । ८ ।
“दूरे पारे वाणीं वर्धयन्त
इन्द्रेषितां धमनिं पप्रथन्नि ॥”)

धमनी, स्त्री, (धमनि + वा ङीष् ।) नाडी ।

(यथा, महाभारते । १२ । २१४ । १७ ।
“दश विद्यात् धमन्योऽत्र पञ्चेन्द्रियगुणावहाः ।
याभिः सूक्ष्माः प्रजायन्ते धमन्योऽन्याः सह-
स्रशः ॥”
यथा, --
“ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः ।
येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥
यदृते सर्व्वभूतानां जीवितं नावतिष्ठते ।
यत्सारमादौ गर्भस्य यौऽसौ गर्भरसाद्रसः ॥
संवर्त्तमानं हृदयं समाविशति यत् पुरा ।
यस्य नाशान्न नाशोऽस्ति धारि यद्धृदयाश्रितम् ॥
यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः ।
तत्फला विविधा वाताः फलन्तीति महाफलाः ॥
ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्
सिराः ॥”
इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥
“चतुर्व्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः ।
तत्र केचिदाहुः सिरा धमनी स्रोतसामविभागः
सिराषिकारा एव धमन्यः स्रोतांसि चेति ।
तत्तु न सम्यक् । अन्या एव हि धमन्यः स्रोतांसि
च सिराभ्यः कस्याद्ब्यञ्जनान्यत्वान्मूलसन्नियमात्
कर्म्मवैशेष्यादागमाच्च केवलन्तु परस्परसन्नि-
कर्षात् सदृशागमकर्म्मत्वात् सौक्ष्म्याच्च विभक्त-
कर्म्मणामप्यविभाग इव कर्म्मसु भवति ॥
तासान्तु नाभिप्रभवानां धमनीनामूर्द्ध्वगा दश-
दश चाधोगामिन्यश्चतस्रस्तिर्य्यग्गाः । ऊर्द्ध्वगाः
शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्ध-
सितक्षुधितरुदितादीन्विशेषानभिवहन्त्यः शरीरं
धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा
पृष्ठ २/७८२
जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफ-
शोणितरसान् द्वे द्वे वहतस्ता दश शब्दरूपरस-
गन्धानष्टाभिर्गृह्णीते । द्वाभ्यां भाषते च द्बाभ्यां
घोषं करोति द्बाभ्यां स्वपिति द्वाभ्यां प्रतिबुध्यते
द्वे चाश्रुवाहिन्यौ । द्वे स्तन्यं स्त्रिया वहतः
स्तनसंश्रिते । ते एव शुक्रं नरस्य स्तनाभ्यामभि-
वहतः । तास्त्वेतास्त्रिंशत् सविभागा व्याख्याता
एताभिरूर्द्ध्वं नामेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवा-
बाहवो धार्य्यन्ते याप्यन्ते च ॥”
“अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो
वहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थ-
मेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभि-
वहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्ध्वगतानां
तिर्य्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्रपुरीष-
स्वेदांश्च विरेचयन्त्यामपक्वाशयान्तरे च त्रिधा
जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफ-
शोणितरसान् द्बे द्वे वहतस्ता दश द्बे अन्न-
वाहिन्यावन्त्राश्रिते तोयवहे द्बे मूत्रवस्तिमभि-
प्रपन्ने मूत्रवहे द्वे शुक्रवहे द्बे शुक्रप्रादुर्भावाय
द्वे विसर्गाय ते एव रक्तमभिवहतो नारीणा-
मार्त्तवसंज्ञम् । द्वेवर्च्चो निरसन्यौ स्थूलान्त्रप्रति-
बद्धे । अष्टावन्यास्तिर्य्यग्गानां धमनीनां स्वेदमर्प-
यन्ति । तास्त्वेतास्त्रिंशत् स विभागा व्याख्याता
एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुद-
वस्तिमेढ्रसक्थीनि धार्य्यन्ते याप्यन्ते च ॥”
“तिर्य्यग्गानान्तु चतसृणां धमनीनामेकैका शतधा
सहस्रधा चोत्तरोत्तरं विभन्वन्ते तास्त्वसंख्येया-
स्ताभिरिदं शरीरं गवाक्षितं विबद्धमाततञ्च ।
तासां मुखानि रोमकूपप्रतिबद्धानि यैः स्वेद-
मभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तर्बहिश्च
तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याण्यन्तः
शरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि तैरेव
स्पर्शसुखमसुखं वा गृह्णाति । तास्त्वेताश्चतस्रो
धमन्यः सर्व्वाङ्गगताः सविभागा व्याख्याताः ॥”
इति सुश्रुते शरीरस्थाने नवमेऽध्याये ॥ * ॥)
हट्टविलासिनी । इत्यमरः ॥ हरिद्रा । ग्रीवा ।
इति हेमचन्द्रः । ३ । २९५ ॥ पृश्निपर्णी । इति
राजनिर्घण्टः ॥ नलिका । इति भावप्रकाशः ॥

धम्मिल्लः, पुं, (धमतीति । धम + विच् । मिल-

तीति । मिल + कः । पृषोदरादित्वात् साधुः ।
ततः कर्म्मधारयः ।) संयताः कचाः । इत्य-
मरः । २ । ६ । ९७ ॥ खोपा इति भाषा । कुसुम-
गर्भो मौक्तिकपद्मरागलतिकादिना बहिःसंयतो
बद्धः केशकलापः । इति भरतः ॥ (यथा, गीत-
गोविन्दे । २ । २१ ।
“साकूतस्मितमाकुलाकुलगलद्धम्भिल्लमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजाबालार्द्धहस्तस्तनम् ॥”)

धरः, पुं, (धरति पृथिवीमिति । धृ + अच् ।)

पर्व्वतः । (यथा, माघे । ४ । १८ ।
“उत्कं धरं द्रष्टुमवेक्ष्य शौरिम्
उत्कन्धरंदारुक इत्युवाच ॥”)
कार्पासतूलकः । कूर्म्मराजः । वसुभेदः । इति
मेदिनी । रे, ४८ ॥ (यथा, हरिवंशे । ३ । ३९ ।
“आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । १०३ ।
“धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”
विष्णुः । श्रीकृष्णः । यथा, तत्रैव । ६ । ६३ । ३३ ।
“सर्व्वशोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥”
धारके, त्रि ॥ यथा, काकपक्षधरः ॥)

धरणं, क्ली, (धरतीति । धृ + ल्युः ।) मानभेदः ।

स तु चतुर्विंशतिरक्तिकारूपः । इति लीला-
वती ॥ पलदशमांशः । इति वैद्यकम् ॥ (“अथ
मध्यमनिष्पावा वा एकोनविंशतिर्धरणम् ॥”
इति सुश्रुते चिकित्सितस्थाने ३१ अः ॥
धृ + ल्युट् ।) धारणम् । इति मेदिनी । णे, ५४ ॥
(यथा, कुमारे । १ । १७ ।
“यज्ञाङ्गयोनित्वमवेक्ष्य यस्य
सारं धरित्रीधरणक्षमञ्च ॥”)

धरणः, पुं, (धृ + ल्युः ।) अद्रिपतिः । लोकः ।

स्तनः । धान्यम् । दिवाकरः । इति हेमचन्द्रः ॥
सेतुः । इति त्रिकाण्डशेषः ॥ (वैद्यकमानविशेषः ।
यथा, पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ।
“माषैश्चतुर्भिः शाणः स्याद्धरणः सनिगद्यते ॥”)

धरणिः, स्त्री, (धरति जीवादीनिति । धृ + “अर्त्ति-

सृधृधमीति ।” उणां २ । १०३ । इति इनिः ।)
पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा,
महाभारते । १२ । ३४२ । ४ ।
“ज्योतिधरणिवायुरहिते अन्धे जलैकार्णवेलोके ॥”)

धरणिधरः, पुं, (धरतीति । धृ + अच् । धरण्याः

धरः ।) विष्णुः । इति हलायुधः ॥ (कच्छपः ।
पर्व्वतः । शेषः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

धरणी, स्त्री, (धरणि + वा ङीष् ।) पृथिवी ।

इति मेदिनी । णे, ५४ ॥ (यथा, विष्णुपुराणे ।
१ । ९ । १४१ ।
“यदा तु भार्गवो रामस्तदाभूद्धरणीत्वियम् ॥”)
शाल्मलिवृक्षः । इति शब्दचन्द्रिका ॥ नाडी ।
कन्दविशेषः । तत्पर्य्यायः । धारणीया २ धीर-
पत्री ३ सुकन्दकः ४ कन्दालुः ५ वनकन्दः ६
कन्दाढ्यः ७ दण्डकन्दकः ८ । अस्या गुणः ।
मधुरत्वम् । कफपित्तामयरक्तदोषकुष्ठकण्डूति-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

धरणीकन्दः, पुं, (धरणी एव कन्दः ।) धरणी-

नाममूलविशेषः । इति राजनिर्घण्टः ॥

धरणीकीलकः, पुं, (धरण्याः पृथिव्याः कीलकः

इव ।) पर्व्वतः । इति शब्दरत्नावली ॥

धरणीधरः, पुं, (धरण्या धरः ।) विष्णुः । इति

हेमचन्द्रः । २ । १३१ ॥ (यथा, महाभारते ।
१३ । १४९ । ३८ ।
“अहः सम्बर्त्तको वह्निरनिलो धरणीधरः ॥”)
कच्छपः । इति राजनिर्घण्टः ॥ पर्व्वतः । यथा, “यो
जातो धरणीधरेन्द्रतनयानाथाङ्घ्रिपाथोरुहा-
सक्तः ।” इत्यादिगोपीनाथतर्काचार्य्यः ॥ (पृथिवी-
धारके, त्रि । यथा, हरिवंशे । ५३ । ६८ ।
“देवानचोदयद् ब्रह्मा निग्रहार्थं सुरद्विषाम् ।
नरञ्चैव पुराणर्षिं शेषञ्च धरणीधरम् ॥”)

धरणीपूरः, पुं, (धरणीं पूरयति प्लावयतीति ।

पूर + अण् ।) समुद्रः । इति शब्दरत्नावली ॥

धरणीप्लवः, पुं, (प्लु + भावे अप् । धरण्याः

पृथिव्याः प्लवः प्लावो यस्मात् ।) समुद्रः । इति
त्रिकाण्डशेषः ॥

धरणीश्वरः, पुं, (धरण्या ईश्वरः ।) शिवः । इति

शब्दरत्नावली ॥

धरणीसुता, स्त्री, (धरण्याः सुता ।) सीता ।

इति हेमचन्द्रः । ३ । ३६७ ॥ (एतदुत्पत्तिकथा
यथा, कालिकापुराणे ३७ अध्याये ।
“नारदस्योपदेशेन यज्ञभूमिं ततो नृपः ।
हलेन दारयामास यज्ञवाटावधि स्वयम् ॥
तद्भूमिजातसीतायां शुभां कन्यां समुत्थिताम् ।
लेभे राजा मुदा युक्तः सर्व्वलक्षणसंयुताम् ॥
तस्यान्तु जातमात्रायां पृथिव्यन्तर्हिता स्वयम् ।
जगाद वचनञ्चेदं गौतमं नारदं नृपम् ॥
पृथिव्युवाच ।
एषा सुता मया दत्ता तव राजन् ! मनोहरा ।
एनां गृहाण सुभगां कुलद्बयशुभावहाम् ॥”)

धरा, स्त्री, (धरति जीवसंधानिति । धृ + अच् ।

यद्वा, ध्रियते शेषेण इति । धृ + अप् । टाप् ।)
पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा, देवी-
भागवते । ३ । १३ । ८ ।
“धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”)
गर्भाशयः । मेदः । इति मेदिनी । रे, ४९ ॥
नाडी । इति राजनिर्घण्टः ॥ महादानविशेषः ।
तद्यथा, --
“अथातः संप्रवक्ष्यामि धरादानमनुत्तमम् ।
पापक्षयकरं नॄणाममङ्गल्यविनाशनम् ॥
कारयेत् पृथिवीं हैमीं जम्बुद्वीपानुकारिणीम् ।
मर्य्यादापर्व्वतवतीं मध्ये मेरुसमन्विताम् ॥
लोकपालाष्टकोपेतां नववर्षसमाचिताम् ।
नदीनदशतीपेतां सप्तसागरवेष्टिताम् ॥
महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम् ।
हेम्नः पलसहस्रेण तदर्द्धेनाथ शक्तितः ।
शतत्रयेण वा कुर्य्यात् द्विशतेन शतेन वा ।
कुर्य्यात् पञ्चपलादूर्द्ध्वमशक्तोऽपि विचक्षणः ॥
तुलापुरुषवत् कुर्य्याल्लोकेशावाहनं बुधः ।
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥
वेद्यां कृष्णाजिनं कृत्वा तिलानुपरि विन्यसेत् ।
तथाष्टादशधान्यनि रसाश्च लवणादयः ॥
तथाष्टौ पूर्णकलसान् समन्तात् परिकल्पयेत् ।
वितानकञ्च कौशेयं फलानि विविधानि च ॥
तथांशुकानि रम्याणि श्रीखण्डशकलानि च ।
इत्येवं रचयित्वा तामधिवासनपूर्ब्बकम् ॥
शुक्लमाल्याम्बरधरः शुक्लाभरणभूषितः ।
प्रदक्षिणं ततः कृत्वा गृहीतकुसुमाञ्जलिः ॥
पुण्यं कालमथासाद्य मन्त्रान्ते तानुदीरयेत् ।
नमस्ते सर्व्वदेवानां त्वमेव भवनं यतः ॥
धात्री च सर्व्वभूतानामतः पाहि वसुन्धरे ! ।
पृष्ठ २/७८३
वसून् धारयसे यस्माद्बसुधातीव निर्म्मला ॥
वसुन्धरा ततो जाता तस्मात् पाहि भवार्णवात् ।
चतुर्मुखोऽपि नागच्छेत्तस्माद्यत्र तवाचले ॥
अनन्तायै नमस्तस्मात् पाहि संसारकर्द्दमात् ।
त्वमेव लक्ष्मीर्गोविन्दे शिवे गौरीति संस्थिता ॥
गायत्त्री ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा ।
बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता ॥
विश्वं व्याप्य स्थिता यस्मात्ततो विश्वम्भरा स्थिता ।
धृतिः क्षमा स्थिरा क्षौणी पृथ्वी वसुमती रसा ॥
एताभिर्मर्त्तिभिः पाहि देवि ! संसारकर्द्दमात् ।
एवमुच्चार्य्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् ॥
धरार्द्धं वा चतुर्भागं गुरवे प्रतिपादयेत् ।
शेषञ्चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्ज्जयेत् ॥
अनेन विधिना यस्तु दद्याद्देवीं धरां बुधः ।
पुण्यकाले तु संप्राप्ते स पदं याति वैष्णवम् ॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
नारायणपुरं गत्वा कल्पत्रयमथो वसेत् ॥
पितृपुत्त्रप्रपौत्त्रांश्च तारयेदेकविंशतिम् ॥
इति पठति य इत्थं यः शृणोतीह नित्यं
गतकलुषविमानैर्मुक्तदेहः समन्तात् ।
दिवममरबधूभिर्याति संप्रार्थ्यमानः
पुरममरसहस्रैः सेवितं चन्द्रमौलेः ॥”
इति मत्स्यपुराणे २५८ अः ॥

धराकदम्बः, पुं, (धरायां वर्षाकाले जातः कदम्बः ।)

धाराकदम्बवृक्षः । इति हारावली । १७७ ॥

धरात्मजः, पुं, (धराया आत्मजः ।) मङ्गलग्रहः ।

इति हेमचन्द्रः ॥ (नरकासुरः । इति कालिका-
पुराणे ३७ अध्यायः ॥ स्त्रियां टाप् । सीता ॥)

धराधरः, पुं, (धरायाः धरो धारकः ।) विष्णुः ।

(यथा, महाभारते । १३ । १४९ । ९३ ।
“सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥”
“अङ्गैरशेषैः शेषाद्यैरशेषां धरां धरतीति धरा-
धरः ।” इति शाङ्करभाष्यम् ॥) पर्व्वतः । इति
मेदिनी । रे, २६९ ॥ (यथा, हरिवंशे । २०४ ।
२१ ।
“चराचराश्च वसुधा धातारश्च धराधराः ॥”
धराया उद्धारकर्त्तरि, त्रि । यथा, भागवते ।
४ । १७ । ३५ ।
“स वीरमूर्त्तिः समभूद्धराधरो
यो मां पयस्युग्रशरो जिघांससि ॥”)

धरामरः, पुं, (धरायाः पृथिव्या अमरो देवः ।)

ब्राह्मणः । यथा, --
“यैर्न श्रुतं भागवतं पुराणं
नाराधितो यैः पुरुषः पुराणः ।
मुखे हुतं यैर्न धरामराणां
तेषां वृथा जन्म नराधमानाम् ॥”
इति पौराणिकाः ॥

धरित्री, स्त्री, (धरति जीवजातमिति ध्रियते

शेषेण वा । धृ + “अशित्रादिभ्य इत्रोत्रौ ।”
उणां ४ । १७२ । इति इत्र । गौरादित्वात् ङीष् ।)
पृथिवी । इत्यमरः । २ । १ । २ ॥ (यथा,
रघुः । १४ । ५४ ।
“स्वमूर्त्तिलाभप्रकृतिं धरित्रीं
लतेव सीता सहसा जगाम ॥”)

धरिमा, [न्] पुं, (ध्रियते दर्शनेन्द्रियेणेति । धृ +

“हृभृधृसृस्तृशॄभ्य इमनिच् ।” उणां ४ । १४७ ।
इति इमनिच् ।) रूपम् । इत्युणादिकोषः ॥
तुला । यथा, मनुः । ८ । ३२१ ।
“तथा धरिममेयानां शतादभ्यधिके वधः ॥”

धरुणः, पुं, (धरतीति । धृ + बाहुलकात् उनन् ।

“धृञ् धारणे । हेतुमति च इति णिच् । धारे-
र्णिलुक् क्युन्प्रत्ययः । धारयति जगत् ।” इति
देवराजयज्वा । १ । १२ । २४ ।) ब्रह्मा । स्वर्गः ।
नीरम् । (निघण्टुमते, क्ली । यथा, ऋग्वेदे ।
१० । ५ । ६ ।
“पथां विसर्गे धरुणेषु तस्थौ ॥”)
सम्मतम् । इति मेदिनी । णे, ५५ ॥ (अग्निः ।
यथा, वाजसनेयसंहितायाम् । ८ । ५१ ।
“उपसृजन्धरुणं मात्रे धरुणो मातरं धयन् ॥”
धारके, त्रि । यथा, ऋग्वेदे । १० । १११ । ४ ।
“दाधार यो धरुणं सत्यताता ॥”
“सत्ये द्युलोके धरुणं धारकं बलं दाधार अधार-
यत् ।” इति तद्भाष्ये सायनः ॥)

धर्त्तव्यं, त्रि, धृधातोःकर्म्मणि तव्यप्रत्ययेन साध्यम् ।

धारणीयम् । स्थातव्यम् । पतनीयम् । भावे, क्ली ॥

धर्त्रं, क्ली, (धरति ध्रियते वा । धृ + “गृधृवी-

पचीति ।” उणां ४ । १६६ । इति त्रः ।) गृहम् ।
इत्युणादिकोषः ॥ क्रतुः । धर्म्मः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥ (धारके, त्रि । यथा, वाज-
सनेयसंहितायाम् । १ । १८ ।
“धर्त्रमसिदिवं दृंहब्रह्मवनि वधाय ।”
“हे कपाल ! त्वं धर्त्रं धारकमसि ।” इति वेद-
दीपः ॥)

धर्म्मः, पुं क्ली, (धरति लोकान् ध्रियते पुण्यात्मभि-

रिति वा । धृ + “अर्त्तिस्तुहुस्रिति ।” उणां
१ । १३९ । इति मन् ।) शुभादृष्टम् । (यथा,
हितोदेशे । १ । ५९ ।
“एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्व्वमन्यत्तु गच्छति ॥”)
तत्पर्य्यायः । पुण्यम् २ श्रेयः ३ सुकृतम् ४ वृषः ५ ।
इत्यमरः । १ । ४ । २४ ॥ न्यायः । स्वभावः । आचारः ।
उपमा । क्रतुः । (यथा, महाभारते । १४ । ८८ । २१ ।
“कृत्वा प्रवर्ग्यं धर्म्माख्यं यथावत् द्विजसत्तमाः ।
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्बिजाः ॥”)
अहिंसा । उपनिषत् । इति मेदिनी । से, १६ ।
दानादिके, क्ली । इति हेमचन्द्रः ॥ (यथा,
योगसारे ।
“प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
स्मरणञ्चैव योगेऽस्मिन् पञ्च धर्म्माः प्रकी-
र्त्तिताः ॥”)

धर्म्मः, पुं, (धृ + मन् ।) धनुः । यमः । सोमपः ।

इति मेदिनी । मे, १६ ॥ सत्सङ्गः । अर्हन् । इति
हेमचन्द्रः । ६ । १५ ॥ देवताविशेषः । स ब्रह्मणो
दक्षिणस्तनाज्जातः । (यथा, मत्स्यपुराणे । ३ । १० ।
“अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत् ।
धर्म्मस्तनान्तादभवत् हृदयात् कुसुमायुधः ॥”)
तस्य भार्य्या दक्षस्य त्रयोदशकन्याः । तस्य
चतुर्द्दशापत्यानि यथा । पत्न्यां श्रद्धायां ऋतम्
१ मैत्र्यां प्रसादः २ दयायां अभयम् ३ शान्त्यां
सुखम् ४ तुष्ट्यां मुत् ५ पुष्ट्यां गर्व्वः ६ क्रियायां
योगः ७ उन्नतौ दर्पः ८ बुद्ध्यां अर्थः ९ मेधायां
स्मृतिः १० मूर्त्त्यां नरनारायणौ ११ । १२
तितिक्षायां क्षेमम् १३ ह्रीसंज्ञायां प्रच्छ्रयः १४ ।
इति श्रीभागवतम् ॥ * ॥ अपि च ।
“श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदशी ।
पत्न्यर्थं प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”
विष्णुपुराणमते सिद्धिस्थाने ऋद्धिरन्यत् तुल्यम् ॥
तासामपत्यानि यथा, --
“श्रद्धा कामञ्च श्रीर्दर्पं नियमं धृतिरात्मजम् ।
सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ।
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ॥
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ।
सुखं सिद्धिर्यशः कीर्त्तिरित्येते धर्म्मसूनवः ॥
कामो नन्दी सुतं हर्षं धर्म्मपौत्त्रमसूयत ॥” * ॥
अधर्म्मवंशो यथा, मार्कण्डेयपुराणे ।
“हिंसा भार्य्या त्वधर्म्मस्य तस्यां जज्ञे तथानृतम् ।
कन्या च निकृतिस्ताभ्यां सुतौ द्बौ नरकं भयम् ॥
माया च वेदना चैव मिथुनं द्वयमेतयोः ।
भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥
वेदना स्वसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधिर्जराशोकतृष्णाः क्रोधश्च जज्ञिरे ॥
दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः ।
नैषां भार्य्यास्ति पुत्त्रो वा सर्व्वे ते ह्यूर्द्ध्वरेतसः ॥”
धर्म्मोत्पत्तिर्यथा, वराहपुराणे ।
“अथोत्पत्तिं प्रवक्ष्यामि धर्म्मस्य महतो नृप ! ।
माहात्म्यञ्च तिथिञ्चैव तन्निबोध नराधिप ! ।
सर्व्वं ब्रह्माव्ययः शुद्धपरादपरसंज्ञितः ।
स सिसृक्षुः प्रजास्त्वादौ पालनञ्च व्यचिन्तयत् ॥
तस्य चिन्तयतस्त्वङ्गाद्दक्षिणाच्छ्वेतकुण्डलः ।
प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ।
तं दृष्ट्वोवाच भगवांश्चतुष्पात् स्यात् कृते युगे ।
त्रेतायां त्रिपदश्चासौ द्बिपदो द्बापरेऽभवत् ॥
कलावेकेन पादेन प्रजाः पालयते प्रभुः ।
षड्गेहो ब्राह्मणानां स त्रिधा क्षत्त्रे व्यवस्थितः ॥
द्विधा विश्येकधा शूद्रे स्थितः सर्व्वगतः प्रभुः ।
गुणद्रव्यक्रियाजातिचतुष्पादः प्रकीर्त्तितः ॥
त्रिशृङ्गोऽसौ स्मतो वेदे ससंहितपदक्रमः ।
तथा आद्यन्त ओङ्कारद्बिशिराः सप्तहस्तवान्
उदात्तादित्रिभिर्बद्ध एवं धर्म्मो व्यवस्थितः ॥
ब्रह्मोवाच ।
अद्यप्रभृति ते धर्म्म । तिथिरस्तु त्रयोदशी ॥
यस्तामुपोष्य पुरुषो भवन्तं समुपार्ज्जयेत् ।
कृत्वा पापसमाचारं तस्मान्मुञ्चति मानवः ॥”
तस्य पुत्त्रा यथा, वामनपुराणे ।
पृष्ठ २/७८४
“धर्म्मस्य भार्य्या हिंसाख्या तस्यां पुत्त्रचतुष्टयम् ।
सम्प्राप्तं मुनिशार्द्दूल ! योगशास्त्रविचारकम् ॥
ज्येष्ठः सनत्कुमारोऽभूद्द्बितीयश्च सनातनः ।
तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥
साङ्ख्यवेत्तारमपरं कपिलं वोढुमासुरिम् ।
दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥
ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपि कनीयसाम् ॥”
(चतुर्द्दशद्वापरे वेदव्यसनादयमेव व्यास आसीत् ।
यथा, देवीभागवते । १ । ३ । २९ ।
“त्रयोदशे चान्तरिक्षो धर्म्मश्चापि चतुर्द्दशे ॥”
यथा, च ब्रह्माण्डे । २७ अध्याये ।
“धर्म्मो नारायणो नाम व्यासस्तु भविता यदा ।
तदाप्यहं भविष्यामि भविष्यामि महामुनिः ॥
बालखिल्याश्रमे पुण्यपर्व्वते गन्धमादने ।
तत्रापि मम ते पुत्त्रा भविष्यति तपोधनाः ॥
सुधामा कव्यपश्चैव कनिष्ठा विरजास्तथा ।
मम योगबलोपेता विमना ह्यूर्द्धरेतसः ॥
प्राप्य माहेश्वरं तेजो रुद्रलोकाय संस्थिताः ॥”
क्वचित् युगस्य वैपरीत्यकथनन्तु कल्पभेदादवि-
रुद्धमित्यधिगन्तव्यम् ॥) धर्म्मलक्षणं यथा, --
“पात्रे दानं मतिः कृष्णे मातापित्रोश्च पूजनम् ।
श्रद्धा वलिर्गवां ग्रासः षड्विधं धर्म्मलक्षणम् ॥”
इति पाद्मोत्तरखण्डम् ॥ * ॥
धर्म्माङ्गानि यथा, पाद्मभूमिखण्डे ।
“ब्रह्मचर्य्येण सत्येन तपसा च प्रवर्त्तते ।
दानेन नियमेनापि क्षमाशौचेन वल्लभ ! ॥
अहिंसया सुशान्त्या च अस्तेयेनापि वर्त्तते ।
एतैर्द्दशभिरङ्गैस्तु धर्म्ममेव प्रसूचयेत् ॥”
धर्म्ममूलं यथा, मत्स्यपुराणे ।
“अद्रोहश्चाप्यलोभश्च दमो भूतदयातपः ।
ब्रह्मचर्य्यं ततः सत्यमनुक्रोशः क्षमा धृतिः ।
सनातनस्य धर्म्मस्य मूलमेतद्दुरासदम् ॥”
कलेर्दशसहस्रवर्षान्ते धर्म्मादयो हरेः पदं गमि-
ष्यन्ति । यथा, --
“शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते ययौ त्यक्त्रा हरेः पदम् ॥
सत्त्वञ्च धर्म्मं सत्यञ्च वेदाश्च ग्रामदेवताः ।
व्रतं तपश्चानशनं ययुस्तैः सार्द्धमेव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
धर्म्माधारस्थानानि यथा, --
“यत्र स्थानं तवाधारो वदामि श्रूयतां विभो ! ।
वैष्णवेषु च सर्व्वेषु यतिषु ब्रह्मचारिषु ॥
पतिब्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ।
नृपेषु धर्म्मशीलेषु सत्सु सद्बैश्यजातिषु ॥
द्विजसेविषु शूद्रेषु सत्संसर्गस्थितेषु च ।
एषु त्वं सन्ततं पूर्णो धर्म्मराज ! विराजसे ॥
युगे युगे तवाधारा एते पुण्यतमा जनाः ॥”
अपि च ।
“अश्वत्थवटविल्वेषु तुलसीचन्दनेषु च ।
देवार्हेषु च पुष्पेषु विद्यमानोऽसि शाखिषु ॥
देवालयेषु तीर्थेषु सतां शश्वद्गृहेषु च ।
वेदवेदाङ्गश्रवणजनेषु च सभासु च ॥
श्रीकृष्णगुणनामोक्तश्रुतिगीतस्थलेषु च ।
व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च ॥
दीक्षापरीक्षाशपथगोष्ठगोष्पदभूमिषु ।
गवां गृहेषु गोष्ठेषु विद्यमानो हि पश्यसि ॥
कृशता ते न भविता धर्म्मैतेषु स्थलेषु च ॥
धर्म्मागम्यस्थानानि यथा, --
“एतदन्येषु कृशता यदगम्यञ्च तत् शृणु ।
पुंश्चलीषु तद्गृहेषु गृहेषु नरघातिनाम् ॥
नरघातिषु नीचेषु मूर्खेषु च खलेषु च ।
देवतागुरुविप्रेषु पाल्यानां धनहारिषु ॥
असन्नरेषु धूर्त्तेषु चौरेषु रतिभूमिषु ।
दुरोदरसुरापानकलहानां स्थलेषु च ॥
शालग्रामसाधुतीर्थपुराणरहितेषु च ।
दस्युग्रस्तेषु देवेषु तालच्छायासु गर्व्विषु ॥
असिजीविमसीजीविदेवलग्रामयाजिषु ।
वृषवाहस्वर्णकारजीवहिंसोपजीविषु ॥
भर्तृनिन्दितनारीषु स्त्रीजितेषु च पुंसु च ।
दीक्षासन्धिविष्णुभक्तिविहीनेषु द्विजेषु च ॥
स्वाङ्गकन्याविक्रयिषु स्वयोषिद्विक्रयिष्वथ ।
शालग्रामसुरग्रन्थभूमिविक्रयिषु प्रभो ! ॥
मित्रद्रोहिकृतघ्नेषु सत्यविश्वासघातिषु ।
शरणागतहीनेषु आश्रितघ्नेषु तेषु च ॥
शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ।
कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु ॥
पुण्यकर्म्मविहीनेषु पुण्यकर्म्मविरोधिषु ।
स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४२ अध्यायः ॥
देवादीनां धर्म्मो यथा, --
सुकेशिरुवाच ।
“किंलक्षणो भवेद्धर्म्मः किमाचरणसत्क्रियः ।
यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम् ॥
ऋषय ऊचुः ।
देवानां परमो धर्म्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृतिः ॥
दैत्यानां बाहुशालित्वं मात्सर्य्यं युद्धसत्क्रिया ।
विन्दनं नीतिशास्त्राणां हरशक्तिरुदाहृता ॥
सिद्धानासुदितो धर्म्मो योगयुक्तिरनुत्तमा ।
स्वाध्यायं ब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा ॥
उत्कृष्टोपासनं ज्ञेयं नृत्यवाद्येषु वादिता ।
सरस्वत्यां स्थिरा भक्तिर्गान्धर्व्वो धर्म्म उच्यते ॥
विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः ।
विद्याधराणां धर्म्मोऽथ भवान्यां भक्तिरेव च ॥
गान्धर्व्वविद्यावेदित्वं भक्तिः स्थाणौ तथा स्थिरा ।
कौशल्यं सर्व्वशिल्पेषु धर्म्मः कैम्पुरुषः स्मृतः ॥
ब्रह्मचर्य्यममानित्वं योगाभ्यासरतिर्दृढा ।
सर्व्वत्र कामचारित्वं धर्म्मोऽयं पैतृकः स्मृतः ॥
ब्रह्मचर्य्यं यताशित्वं जप्यज्ञानञ्च राक्षस ! ।
नियमा धर्म्मवेदित्वमार्षं धर्म्मं प्रचक्षते ॥
स्वाध्यायं ब्रह्मचर्य्यञ्च दानं यजनमेव च ।
अकार्पण्यमनायासं दयाहिंसाक्षमादयः ॥
जितेन्द्रियत्वं शौचञ्च माङ्गल्यं भक्तिरुच्यते ।
शङ्करे भास्करे देव्यां धर्म्मोऽयं मानवः स्मृतः ॥
धनाधिपत्यं भोगानि स्वाध्यायं शङ्करार्च्चनम् ।
अहङ्कारमशौचञ्च धर्म्मोऽयं गुह्यकेष्विति ॥
परदाराभिमर्षित्वं परार्थेऽपि च लोलुपा ।
स्वाध्यायस्त्र्यम्बके भक्तिर्धर्म्मोऽयं राक्षसः स्मृतः ॥
अविवेकताथाज्ञानं शौचहानिरसत्यता ।
पिशाचानामयं धर्म्मः सदा चामिषगृध्नुता ॥
योनयस्तु द्वादशैताः सह धर्म्माश्च राक्षस ! ।
ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः ॥”
इति वामनपुराणे ११ अध्यायः ॥
धर्म्माधर्म्मलक्षणम् । यथा, --
“अहिंसालक्षणो धर्म्मो हिंसा चाधर्म्मलक्षणा ॥”
इति महाभारतम् ॥
“वेदप्रणिहितो धर्म्मो ह्यधर्म्मस्तद्विर्य्ययः ॥”
इति श्रीभागवतम् ॥
“विहितक्रियया साध्यो धर्म्मः पुंसां गुणो मतः ।
प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म्म उच्यते ॥”
इति धर्म्मदीपिका ॥
(दुह्यवंशीयनृपविशेषः । यथा, भागवते । ९ । २३ । १४ ।
“द्रुह्योस्तु तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः ।
आरब्दस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः ॥”)

धर्म्मकर्म्म, [न्] क्ली, (धर्म्माय धर्म्मस्य वा कर्म्म

कार्य्यम् ।) धर्म्मकार्य्यम् । शुभादृष्टप्रतिपादक-
क्रिया । यथा, --
“वेदप्रणिहितं धर्म्मकर्म्म तन्मङ्गलं परम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

धर्म्मकायः, पुं, (धर्म्माय कायो देहो यस्य ।)

बुद्धः । इति त्रिकाण्डशेषः ॥

धर्म्मकीलः, पुं, (धर्म्मस्य कील इव ।) शासनम् ।

राजशासनम् । इति पुरवर्गे त्रिकाण्डशेषः ॥

धर्म्मकीलकः, पुं, (धर्म्मकील + संज्ञायां कन् ।)

ब्रह्मशासनम् । इति पुरवर्गे शब्दरत्नावली ॥

धर्म्मकेतुः, पुं, (अहिंसारूपो धर्म्मः केतुरिव यस्य ।)

बुद्धः । इति शब्दरत्नावली ॥

धर्म्मक्षेत्रं, क्ली, (धर्म्मस्य क्षेत्रम् ।) कुरुक्षेत्रम् ।

यथा, --
“ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामह्रदान्तरम् ।
धर्म्मक्षेत्रं कुरुक्षेत्रं द्बादशयोजनावधि ॥”
इति हेमचन्द्रः ॥
अपि च ।
“तरस्तकारन्तुकयोर्यदन्तरं
रामह्नदानाञ्च मचक्रुकस्य च ।
एतत् कुरुक्षेत्रसमन्तपञ्चकं
प्रजापतेरुत्तरवेदिरुच्यते ॥”
इति भारतपाद्मे ॥
धर्म्माधारे, त्रि ॥

धर्म्मघटः, पुं, (धर्म्माय घटः सुगङ्गोदकपरिपूर्ण-

कलसः ।) सौरवैशाखे प्रत्यहदातव्यसुगन्धोदक-
पूरितकलसः । यथा, काशीखण्डे १२ अध्याये ।
“दद्युर्धर्म्मघटांश्चापि सुगन्धोदकपूरितान् ॥”
तद्विधिर्यथा । अथ धर्म्मघटव्रतम् ।
तत्र प्रथमं स्वस्तिवाचनं कृत्वा सूर्य्यः सोम इति
पठित्वा सङ्कल्पं कुर्य्यात । यथा, --
पृष्ठ २/७८५
अद्येत्यादि वैशाखे मासि अमुकपक्षे अमुक-
तिथौ महाविषुवसंक्रान्त्यां अमुकगोत्रा श्री-
अमुकी देवी यमालयगमननिवारणपूर्ब्बकश्री-
विष्णुप्रीतिकामा अद्यारभ्य वर्षचतुष्टयं यावत्
प्रतिवर्षीयमेषस्थरवौ प्रत्यहं गणपत्यादिनाना-
देवतापूजापूर्ब्बक-श्रीविष्णुपूजा-सभोज्यघटदान-
कथाश्रवण-ब्राह्मणभोजनरूपधर्म्मघटव्रतमहं
करिष्ये ॥ * ॥ वारान्तरे अद्येत्यादि महा-
विषुवसंक्रान्त्यां मत्संकल्पितधर्म्मघटव्रतकर्म्मणि
यथाविधिकगणपत्यादिनानादेवतापूजापूर्ब्बकं श्री-
विष्णुपूजासभोज्यघटदानकथाश्रवणमहं करिष्ये ।
इति सङ्कल्प्य तत्सूक्तं पाठयेत् । ततो ब्राह्मणः
प्रतिनिधीभूतः सामान्यार्घ्यासनशुद्धिभूतशुद्ध्या-
दिकं विधाय शालग्रामादौ घटे वा गणेशा-
दीन् नवग्रहान् दिक्पालांश्च संपूज्य वां
हृदयाय नमः इत्याद्यङ्गन्यासकरन्यासौ कृत्वा
ॐ ध्येयः सदा इत्यादिना विष्णुं ध्यात्वा स्वशि-
रसि पुष्पं दत्त्वा मानसोपचारैः संपूज्यार्घ्यं
संस्थाप्य पुनर्ध्यात्वावाह्य षोडशोपचारैः ॐ
भगवते विष्णवे नम इति मन्त्रेण संपूज्य यथा-
शक्ति ॐ विष्णवे नम इति मन्त्रं जप्त्वा जपं
समर्प्य ॐ नमो ब्रह्मण्यदेवायेत्यादिना प्रणम्य
लक्ष्मीं सरस्वतीं आवरणदेवताश्च पूजयेत् ।
ततः एते गन्धपुष्पे ॐ सभोज्यवारिपूर्णघटाय
नमः । इति त्रिरभ्यर्च्य --
“ॐ घटत्वं धर्म्मरूपोऽसि ब्रह्मणा निर्म्मितः पुरा ।
त्वयि लिप्ते सन्तु लिप्ताश्चन्दनैः सर्व्वदेवताः ॥”
इति चन्दनेनानुलिप्य अद्येत्यादि अमुकगोत्रा
श्रीअमुकी देवी श्रीविष्णुप्रीतिकामा धर्म्मघट-
व्रतकर्म्मणि इमं सभोज्यवारिपूर्णघटमर्च्चितं
श्रीविष्णुदैवतं यथासम्भवगोत्रनाम्ने ब्राह्म णायाहं
ददे । इत्युत्सृज्य कृताञ्जलिः पठेत् ।
“ॐ धर्म्म त्वं धटरूपेण ब्रह्मणा निर्म्मितः पुरा ।
त्वयि दत्तेऽक्षया लोका मम सन्तु निरामयाः ॥
यथा त्वं शीतलो नित्यं संपूर्णः शीतवारिणा ।
तथा मां सुरशार्द्दूल ! शीतलं कुरु धर्म्मराट् ॥
एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।
अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥
पानीयं प्राणिनां प्राणाः पानीयं पावनं महत् ।
पानीयस्य प्रदानेन तृप्तिर्भवतु शाश्वती ॥”
इति पठित्वा दक्षिणां दत्त्वाच्छिद्रावधारणं
कृत्वा कथां शृणुयात् ॥ * ॥
अथ कथा । श्रीकृष्ण उवाच ।
“शृणु राजत् ! प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् ।
चन्द्रकेतुरिति ख्यातो राजासीद्धार्म्मिकः सुधीः ॥
सुशीला तस्य भार्य्यासीत् मालावत्यतिविश्रुता ।
सा सर्व्वगुणसंयुक्ता साध्वीयं द्रौपदी यथा ॥
एकस्मिन् समये राजन् ! लोमशस्य च सन्निधौ ।
सैषा पुटाञ्जलिर्भूत्वा लोमशं परिपृच्छति ॥
मालावत्युवाच ।
शृणु त्वं मुनिशार्द्दूल ! सर्व्वधर्म्मपरायण ! ।
यमालयं न गच्छामि तदुपायं ब्रवीहि मे ॥
समाख्याहि व्रतं देव ! सफलं पापनाशनम् ॥
लोमश उवाच ।
शृणु राज्ञि ! महाभागे ! येन तत्र न गच्छति ।
तदुपायं प्रवक्ष्यामि शृणु त्वं हि समाहिता ॥
जन्मजन्मकृतात् पापान्मुच्यते नात्र संशयः ।
विष्णुस्मरणमात्रेण हन्ति पापं पुराकृतम् ॥
येन धर्म्मप्रसादेन तुष्टो देवो जनार्द्दनः ।
पूजयेद्देवदेवेशं सर्व्वकामफलप्रदम् ॥
समारोप्य ततो देवं चन्दनेन विलेपितम् ।
पूजयेत् परया भक्त्या गन्धपुष्पादिभिस्तथा ॥
अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।
षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥
विषुवे शतसाहस्रं व्रतं तत्र समाचरेत् ॥
मालावत्युवाच ।
ममैतत् कथितं सर्व्वं यद्व्रतञ्च त्वया प्रभो ! ।
किं विधानं फलं किं वा कैश्च लोके कृतं पुरा ॥
लोमश उवाच ।
शृणु देवि ! महाभागे ! पूर्ब्बकालस्य या कथा ।
विनिष्क्रान्ते ततश्चैत्रे यदा मेषगतो रविः ॥
दोषादिरहिते काले चतुर्व्वर्षं समाचरेत् ।
तत्र नित्यं घटं दद्यात् मासमेकं सभोज्यकम् ॥
चन्दनेन समालिप्तं दक्षिणादिभिरन्वितम् ।
व्रतमेतत् समाकुर्य्यात् यावत् वर्षचतुष्टयम् ॥
अनेनैव विधानेन या व्रतञ्च समाचरेत् ।
सर्व्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ॥
द्रौपद्याचरितं यत्तत् शृणु त्वं ध्यानतत्परा ।
द्रौपद्या तदिदं पूर्ब्बं न कृतं व्रतमुत्तमम् ॥
मृता गता च सा साध्वी न लभेत दिवं पुनः ।
अथ शीघ्रं समागत्य तामूचुर्यमकिङ्कराः ॥
विषुवे च त्वया साध्वि ! न कृतं तद्व्रतं किल ।
ततो मरणकाले स्यात् स्वर्गद्वारं विरोधितम् ॥
यमदूतैः समासाद्य गले पाशो निवेशितः ॥
द्रौपद्युवाच ।
के यूयमिति तद्ब्रूत कुत्र वा नीयतेऽधुना ।
कथं पाशो गले दत्तः कथयस्व मम ध्रुवम् ॥
यमदूता ऊचुः ।
मा भैषीर्नीयते देवि ! धर्म्मराजस्य सन्निधौ ।
पृथिव्यां यानि तीर्थानि व्रतानि विविधानि च ॥
यज्ञदानविधानञ्च त्वया सर्व्वं प्रतिष्ठितम् ।
किन्त्वत्र न कृतं पूर्ब्बं माधवे मासि सुव्रते ! ॥
व्रतं धर्म्मघटं नाम तेन यासि यमालयम् ॥
द्रौपद्युवाच ।
यमदूता महात्मानो नयन्तु मां यमालयम् ।
तत्प्रसादेन मे शीघ्रं गले पाशो विमुञ्चतु ॥
ततो विधृत्य स्वकरे समानीता यमान्तिकम् ॥
यम उवाच ।
शृणु त्वं द्रौपदी साध्वि ! सर्व्वं त्वया प्रतिष्ठितम् ।
न कृतो देवदेवस्य व्रतं धर्म्मघटस्त्वया ॥
तथापि तुष्टो भद्रेऽहं वरं वृणु यथेप्सितम् ॥
द्रौपद्युवाच ।
वरं ददस्व मे नाथ ! गच्छामि पुनरालयम् ।
कर्त्तव्यं तद्विधानेन व्रतं तव प्रसादतः ॥
यम उवाच ।
व्रतं धर्म्मघटं देवि ! कुरु गत्वा निजालयम् ।
नागन्तव्यं त्वया देवि ! पुनर्म्मम पुरीं शुभे ! ॥
ततो गता च सा चैव तुष्टोऽभूदन्तकस्तदा ।
भूयो भूमिगृहं प्राप्य तदेव च तथा सती ॥
सा तत्र तद्व्रतञ्चक्रे दानं होमं यथाविधि ।
संपूर्णे तु व्रते तत्र प्रतिष्ठामाचरत् सती ॥
ददौ द्वादशविप्रेभ्यो दानानि द्वादशानि च ।
चत्वारि जलपात्राणि वस्त्रेण सहितानि च ॥
दानानि च ततो दत्त्वा तत्सङ्ख्यकघटास्तथा ।
आसनानि च चत्वारि पादुकासहितानि च ॥
दक्षिणान्तु ततो दत्त्वा वस्त्राणि विविधानि च ।
तद्व्रतञ्च सुसम्पन्नं विष्णुहस्तेऽन्यसत्ततः ॥
एवं कृत्वा व्रतं साध्वी द्रौपदी सुसमाहिता ।
अन्तकालं समासाद्य सा गता वैष्णवं पुरम् ॥
इत्युक्ता लोमशेनाथ कन्या मालावती तथा ।
कृत्वा चैव व्रतं साध्वी देवाराधनपूर्ब्बकम् ॥
सा नित्यं गर्गरीं दत्त्वा सभोज्यदक्षिणान्विताम् ।
देवोद्देशेन विप्राय श्रद्धया प्रत्यपादयत् ॥
एवं या कुरुते नारी पुत्त्रपौत्त्रसमन्विता ॥
पुस्तकान्तरे ।
‘एवं करोति या नारी नरो वा व्रतमुत्तमम् ।’
इति वा पाठः ।
आयुरारोग्यमैश्वर्य्यं श्रियञ्च लभते सुखम् ।
अन्ते याति परं स्थानं यत्र देवो निरञ्जनः ॥”
इति भविष्यपुराणोक्ता धर्म्मघटव्रतकथा
समाप्ता ॥
क्वचित् क्वचित् पद्धतौ विष्णुधर्म्मोत्तरयमपुरा-
णोक्ता च लिखिता ॥

धर्म्मचक्रः, पुं, (धर्म्मस्य चक्रं समूहो यत्र ।)

बुद्धः । इति शब्दरत्नावली (धर्म्मस्य चक्रं
समूहः । धर्म्मसमूहे, क्ली । यथा, महा-
भारते । १ । १०९ । १४ ।
“भीष्मेण विहितं राष्ट्रे धर्म्मचक्रमवर्त्तत ॥”
अस्त्रविशेषः । यथा, हरिवंशे । २२६ । ७ ।
“धर्म्मचक्रं महाचक्रमजितं नाम नामतः ॥”)

धर्म्मचक्रभृत्, पुं, (धर्म्मचक्रं धर्म्मसङ्घं बिभर्त्तीति ।

भृ + क्विप् । तुगागमश्च ।) जिनः । इति
धरणिः ॥

धर्म्मचारिणी, स्त्री, (धर्म्मं चरतीति । चर +

णिनि + ङीप् ।) जाया । इति शब्दरत्नावली ॥

धर्म्मचिन्तनं, क्ली, (धर्म्मस्य चिन्तनं भावना ।)

धर्म्मचिन्ता । इति हेमचन्द्रः । ६ । १७ ॥

धर्म्मचिन्ता, स्त्री, (धर्म्मस्य चिन्ता भावना ।)

पुण्यभावना । तत्पर्य्यायः । उपाधिः २ । इत्य-
मरः । १ । ७ । २८ ॥

धर्म्मज्ञः, त्रि, (धर्म्मं जानातीति । ज्ञा + कः ।)

धर्म्मज्ञानविशिष्टः । यथा, --
“धर्म्मज्ञश्च कृतज्ञश्च ह्रीनिषेवी दृढव्रतः ॥”
इति विराटपर्व्व ॥

धर्म्मणः, पुं, (धर्म्मेणेव धार्म्मिकवदित्यर्थः नम-

तीति । नम + अन्येष्वपीति डः ।) वृक्षभेदः ।
पृष्ठ २/७८६
धामिनिया इति भाषा । (यथास्य पर्य्यायः ।
“धन्वनः पिच्छिलत्वक्च धनुर्वृक्षश्च धर्म्मणः ॥”
इति वैद्यकरत्नमालायाम् ॥)
सर्पविशेषः । इति मेदिनी । णे, ५३ ॥ ढेमना ।
इति भाषा ॥

धर्म्मत्वं, क्ली, (धर्म्मस्य भावः । धर्म्म + त्व ।)

वृत्तिमत्त्वम् । आधेयत्वमिति यावत् । यथा,
गगनादेर्वृत्तिमत्त्वलक्षणधर्म्मत्वाभावादिति जग-
दीशः ॥

धर्म्मदानं, क्ली, (धर्म्माय दानम् ।) प्रयोजनमन-

पेक्ष्य केवलधर्म्मबुद्ध्या पात्रेभ्यो दानम् । यथा,
देवलः ।
“पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ।
केवलं धर्म्मबुद्ध्या यत् धर्म्मदानं प्रचक्षते ॥”
इति शुद्धितत्त्वम् ॥

धर्म्मद्रवी, स्त्री, (धर्म्मजनको द्रवो वारिरूपो

यस्याः । गौरादित्वात् ङीष् ।) गङ्गा । इति
त्रिकाण्डशेषः ॥ (यदुक्तं गङ्गास्तोत्रे ।
“विष्णुपादाग्रसम्भूते गङ्गे त्रिपथगामिनि ! ।
धर्म्मद्रवीति विख्याते पापं मे हर जाह्नवि ! ॥”)

धर्म्मधातुः, पुं, (अहिंसारूपो धर्म्म एव धातुः

प्रकृतिर्यस्य ।) बुद्धः । इति त्रिकाण्डशेषः ॥

धर्म्मध्वजी, [न्] त्रि, (धर्म्मो ध्वजश्चिह्नम् ।

स एवास्त्यस्येति । धर्म्मध्वज + इनिः ।) जीवि-
कार्थजटादिधारी न तु परमार्थतो धर्म्मानुष्ठान-
कारी । तत्पर्य्यायः । लिङ्गवृत्तिः २ । इत्यमरः ।
२ । ७ । ५४ ॥ (यथा, मनुः । ४ । १९५ ।
“धर्म्मध्वजी सदालुब्धश्छाद्मिको लोकदम्भकः ।
वैडालव्रतिको ज्ञेयो हिंस्रः सर्व्वाभिसन्धकः ॥”)

धर्म्मपत्तनं, क्ली, (धर्म्मपत्तने जातम् । “तत्र

जातः ।” ४ । ३ । २५ । इत्यण् । संज्ञापूर्ब्बक-
त्वात् न वृद्धिः ।) मरिचम् । इत्यमरः । १ ।
९ । ३६ ॥ (पर्य्यायोऽस्य यथा, --
“रेणुकं मरिचं कृष्णमुषणं धर्म्मपत्तनम् ॥”
इति वैद्यकरत्नमालायाम् ॥
धर्म्मस्य पत्तनम् ।) धर्म्मपुरी । तत्पर्य्यायः ।
श्रावन्ती २ । इति त्रिकाण्डशेषः ॥

धर्म्मपत्रं, क्ली, (धर्म्माय यज्ञादिकार्य्यार्थं पत्रं

यस्य ।) यज्ञोडुम्बरः । इति शब्दचन्द्रिका ॥

धर्म्मपुत्त्रः, पुं, (धर्म्मस्य पुत्त्रः ।) युधिष्ठिरराजः ।

इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ ।
२३५ । १८ ।
“न पापकं धास्यति धर्म्मपुत्त्रो
धनञ्जयश्चाप्यनुवर्त्स्यते तम् ॥”)
नरनारायणावृषी । इति पुराणम् ॥ (यथा,
देवीभागवते । ४ । ७ । १९ ।
“तापसौ धर्म्मपुत्त्रौ द्बौ सुशान्तमनसावुभौ ॥”)
धर्म्मतः कृतपुत्त्रः । धरम्वेटा इति भाषा ॥
यथा, --
“यावद्धुर्जटिधर्म्मपुत्त्रपरशुक्षुणाखिलक्षत्त्रिय-
श्रेणोशोणितपिच्छिला वसुमती कोऽस्यामधा-
स्यत् पदम् ।
त्रैलोक्याभयदानदक्षिणभुजावष्टम्भदिव्योदयो
देवोऽयं दिनकृत्कुलैकतिलको न प्राभविष्यद्
यदि ॥”
इति महानाटके । २ । २५ ॥

धर्म्मबाणिजिकः, पुं, (धर्म्मे बाणिजिक इव । फल-

कामनया धर्म्माचरणादेवास्य तथात्वम् ।)
पुण्यकर्म्मफलकामी । यथा, --
“धर्म्मबाणिजिका मूढाः फलकामा नराधमाः ।
अर्च्चयन्ति जगन्नाथं ते कामानाप्नुवन्त्युत ॥”
इति मलमासतत्त्वधृतविष्णुधर्म्मोत्तरतृतीय-
काण्डीयवचनम् ॥

धर्म्मभाणकः, पुं, (धर्म्मार्थं भणतीति । भण +

ण्वुल् ।) भारतादिपाठकः । इति त्रिकाण्डशेषः ॥

धर्म्ममूलं, क्ली, (धर्म्मस्य मूलम् ।) शुभादृष्टकार-

णम् । पुण्यहेतुः । यथा, --
“इत्थं मूलं फलं शाकमुदपात्रं तपोधनाः ।
दानं विभवतो दत्त्वा नराः स्वर्य्यान्ति धर्म्मिणः ॥
एष धर्म्मो महांस्त्यागो दानं भूतदया तथा ।
ब्रह्मचर्य्यं सदा सत्यं अनुक्रोशो धृतिः क्षमा ॥
सनातनस्य धर्म्मस्य मूलमेतत् समासतः ॥”
इति वह्निपुराणे स्नानविधिनामाध्यायः ॥
(यथा च मनुः । २ । ६ ।
“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्बिदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥”)

धर्म्मयुः, त्रि, (धर्म्मं याति गच्छतीति । या +

मृगय्वादित्वात् कुः ।) धर्म्मविशिष्टः । धार्म्मिकः ।
धर्म्मशब्दादस्त्यर्थे युप्रत्ययेन निष्पन्नः इति
मुग्धबोधः ॥

धर्म्मयुक्, [ज्] त्रि, (धर्म्मं युनक्तीति । युज् + क्विप् ।)

धर्म्मयुक्तः । धार्म्मिकः । (यथाह देवलः ।
“दाता प्रतिगृहीता च श्रद्धादेयञ्च धर्म्मयुक् ।
देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥”)

धर्म्मराजः, पुं, (धर्म्मेण राजते इति । राज +

अच् ।) जिनः । (धर्म्मश्चासौ राजा चेति ।
समासे टच् ।) यमः । इत्यमरः । ३ । ३ । ३१ ॥
(यथा, महाभारते । ३ । २९६ । ५४ ।
“धर्म्मराजः प्रहृष्टात्मा स्रावित्रीमिदमब्रवीत् ॥”)
नरपतिः । युधिष्ठिरः । इति शब्दरत्नावली ॥
(यथा, हरिवंशे । १६ । ८ ।
“अपृच्छत् धर्म्मराजो हि शरतल्पगतं पुरा ॥”
धर्म्मप्रधाने, त्रि । यथा, महाभारते । १ । ५५ । ११ ।
“धृत्या च ते प्रीतमनाः सदाहं
त्वं वा वरुणो धर्म्म राजो यमो वा ॥”)

धर्म्मराजपरीक्षा, स्त्री, (धर्म्मराजस्य परीक्षा ।)

धर्म्माधर्म्म परीक्षणम् । यथा,
अथ धर्म्मराजविधिः । बृहस्पतिः ।
“पत्रद्वये लेखनीयौ धर्म्माधर्म्मौ सितासितौ ।
जीवदानादिकैर्मन्त्रैर्गायत्त्र्याद्यैश्च सामभिः ॥
आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥
समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ।
ततः कुम्भात् पिण्डमेकं गृह्णीयादविलम्बितः ॥
घर्म्मे गृहीते शुद्धः स्यात् संपूज्यश्च परीक्षकैः ॥
जीवदानमन्त्रस्तु शारदायाम् ।
‘पाशाङ्कुशपुटा शक्तिर्व्वायुर्व्विन्दुविभूषितः ।
याद्याः सप्तसकारान्ता व्योमसत्येन्दुसंयुतम् ॥
तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्य पदं वदेत् ।
प्राणा इति वदेत् पश्चादिह प्राणास्ततःपरम् ॥
अमुष्य जीव इह स्थितस्ततोऽमुष्य पदं वदेत् ।
सर्व्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ॥
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ।
तिष्ठन्त्वग्निबधूरन्ते प्राणमन्त्रोऽयमीरितः ॥
प्रत्यमुष्य पदात् पूर्ब्बं पाशाद्यानि प्रयोजयेत् ।
प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः ॥’
पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमं पाशबीजं
आम् । ततः शक्तिबीजं ह्रीँ । ततोऽङ्कुशबीजं
क्रोम् । वायुर्यकारो बिन्दुविभूषितः । तेन यं ।
याद्याः सप्तसकारान्ता उद्धृतयकारमादाय
सप्त । अङ्कुशवाय्वनलावनी वरुणबीजानीत्यन्य-
त्रोक्तेः । अत्र वायोरेकस्य पूर्ब्बं पृथगुपन्यासः
सप्तानां सबिन्दुत्वार्थः । अतएवान्यत्र बीजानी-
त्युक्तम् । व्योमसत्येन्दुसंयुतम् । व्योम हकारः ।
सत्यं ओकारः । इन्दुर्व्विन्दुः । तेन हों । अमुष्य
इति षष्ठ्यन्तदेवतानामोपलक्षणम् ।
‘अदः पदं हि यद्रूपं यत्र मन्त्रे प्रदृश्यते ।
साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत् ॥’
इति नारायणीयात् । अग्निबधूः स्वाहा ॥ * ॥
गायत्त्र्यादिसामाज्ञाने तु सप्रणवव्याहृति
गायत्त्रीमात्रं पठितव्यम् । जपहोमादि यत्-
किञ्चित् कृत्स्नोक्तं सम्भवेन्न चेत् सर्व्वं व्याहृतिभिः
कुर्य्यात् गायत्त्र्या प्रणवेन च ॥ इति मिताक्षरा-
धृतषट्त्रिंशन्मतवचनदर्शनात् अत्रापि तथा
कल्प्यते ॥ * ॥ पितामहः ।
‘अधुना संप्रवक्ष्यामि धर्म्माधर्म्मपरीक्षणम् ।
हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।
राजतं कारयेद्धर्म्ममधर्म्मं सीसकायसम् ।
लिखेद्भूर्ज्जे पटे वापि धर्म्माधर्म्मौ सितासितौ ॥
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्च्चयेत् ।
सितपुष्पस्तु धर्म्मः स्यात् अधर्म्मोऽसितपुष्पकः ॥
एवं विधायोपलिख्य पिण्डयोस्तौ निधापयेत् ।
गोमयेन मृदा वापि पिण्डौ कार्य्यौ समौ ततः ॥
मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ।
उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ॥
आवाहयेत्ततो देवान् लोकपालांश्च पूर्ब्बवत् ।
धर्म्मावाहनपूर्ब्बन्तु प्रतिज्ञापत्रकं लिखेत् ॥
यदि पापवियुक्तोऽहं धर्म्मस्त्रायाच्च मे करम् ।
अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ॥
धर्म्मे गृहीते शुद्धः स्यादधर्म्मे स तु हीयते ।
एवं समासतः प्रोक्तं धर्म्माधर्म्मपरीक्षणम् ॥’
हन्तॄणामिति साहसाभियोगेषु । याचमाना-
नामिति अत्यन्तार्थाभियोगेषु । प्रायश्चित्ता-
र्थिनामिति पातकाभियोगेषु ॥ * ॥
तत्र प्रयोगः । पत्रद्बये शुक्लं धर्म्मं कृष्णमधर्म्मं
पुत्तलकद्वयरूपं निधाय ओम आं हीं क्रों यं
पृष्ठ २/७८७
रं लं वं शं षं सं हों हंसः धर्म्मस्य प्राणा इह
प्राणाः । पुनः आमित्यादि धर्म्मस्य जीव इह
स्थितः । पुनः आमित्यादि धर्म्मस्य सर्व्वेन्द्रि-
याणि । पुनः आमित्यादि धर्म्मस्य वाङ्मनश्चक्षुः-
श्रोत्रघ्राणप्राणाः इहागत्य सुखं चिरं तिष्ठन्तु
स्वाहा । इत्यनेन जीवदानं धर्म्मप्रतिमायां
एवमधर्म्म प्रतिमायां कृत्वा गायत्त्र्यादिसामज्ञाने
तेनैव नो चेत् सप्रवणव्याहृतिगायत्त्रीं पठित्वा
धर्म्मस्यावाहनादि कृत्वा यथाक्रमं शुक्लकृष्ण-
पुष्पाभ्यां धर्म्माधर्म्मौ संपूज्य प्रणवेन पञ्चगव्य-
मुपादायाभ्युक्ष्य शुक्लपुष्पयुक्तं धर्म्मं कृष्णपुष्प-
युक्तमधर्म्मं मृत्पिण्डद्वये कृत्वा नवे कुम्भे स्थाप-
येत् । प्राड्विवाकस्ततो देवब्राह्मणसन्निधौ धर्म्मा-
वाहनादिहवनान्तं कर्म्म कृत्वा दक्षिणां दत्त्वा
समन्त्रकप्रतिज्ञापत्रं लिखित्वा शोध्यसिरसि
दद्यात् । शोध्यस्तु ओम् यदि पापवियुक्तोऽहं
धर्म्मस्त्रायाच्च मे करं इत्युच्चार्य्य कुम्भात्तयोरेकं
गृह्णीयात् । धर्म्मे गृहीते शुद्धः अन्यथा अशुद्धः ।”
इति दिव्यतत्त्वम् ॥

धर्म्मवान् [त्] त्रि, (धर्म्मोऽस्त्यस्येति । धर्म्म +

मतुप् । मस्य वः ।) धर्म्मविशिष्टः । पुण्यवान् ।
इति शब्दरत्नावली ॥ (यथा, रामायणे । २ ।
१०४ । २९ ।
“जनेन धर्म्मज्ञतमेन धर्म्मवा-
नुपोपविष्टो भरतस्तदाग्रजम् ॥”)

धर्म्मवासरः, पुं, (धर्म्मस्य धर्म्माचरणस्य वासरः ।

पौर्णमासी । इति त्रिकाण्डशेषः ॥

धर्म्मवाहनः, पुं, (धर्म्मं वाहयतीति । वह + णिच्

+ ल्युः । यद्वा, धर्म्मोवृषो वाहनं यस्य । धर्म्मस्य
वृषरूपत्वादेव तथात्वम् ।) शिवः । इति
त्रिकाण्डशेषः ॥ धर्म्मस्य याने, क्ली ॥

धर्म्मवैतंसिकः, पुं, (धर्म्मे वैतंसिक इव । आत्मनो

धार्म्मिकत्वविज्ञापनाय पाशिकः कपटाचारी
वेत्यर्थः ।) पांपकर्म्मणा धनमासाद्यात्मनो
धार्म्मिकत्वख्यापनाय दानकर्त्ता । तत्पापफलं
यथा, --
“धर्म्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा ।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ॥
पापेन कर्म्मणा विप्रो धनं लब्ध्वा निरङ्कुशः ।
रागमोहान्वितोऽशान्तः कलुषीं योनिमाप्नु-
यात् ॥”
इति वह्निपुराणे स्नानविधिनामाध्यायः ॥

धर्म्मव्याधः, पुं, (धर्म्मप्रधानो व्याधः । शाकपार्थि-

वादिवत् मध्यपदलोपिसमासः ।) पापपुरुष-
विशेषः । स तु काश्मीरदेशाधिपवसुनामनृप-
देहनिर्गतव्याधरूपिब्रह्महत्यात्मकः । तस्य राज्ञो
वरेण तस्य धर्म्मव्याध इति संज्ञाभूत् । यथा, --
“ततः पुत्त्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह ।
अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ॥
पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः ।
पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ॥
तत्र गत्वा स राजर्षिः काश्मीराधि पतिर्व्वसुः ।
अतितीव्रेण तपसा स्वशरीरमशोषयत् ॥
पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ! ।
नमस्ते सर्व्वलोकेश ! नमस्ते तिग्मचक्रिणे ॥”
इत्यादि ।
“एवन्तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल ।
निर्गत्य देहान्नीलाभो घनचण्डो भयङ्करः ॥
उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ! ॥
राजोवाच ।
कोऽसि किं कार्य्यमिह ते कस्मादागतवानसि ।
एतन्मे कथय व्याध ! एतदिच्छामि वेदितुम् ॥
व्याध उवाच ।
पूर्ब्बं कलियुगे राजन् ! राजा त्वं दक्षिणामुखे ।
अरण्यमागतो हन्तुं श्वापदानि विशेषतः ॥
तत्र त्वयान्यकामेन मृगवेशधरो मुनिः ।
दण्डयुग्मेन दूरे तु पातितो धरणीतले ॥
ततस्त्वया महाराज ! सकृन्नारायणं प्रभुम् ।
संचिन्त्य द्वादशी शुद्धात्वया राजन् ! उपोषिता ॥
गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः ।
अहञ्च तव देहस्थः सर्व्वं जानामि चाक्षयम् ॥
स्वगस्थस्यापिराजेन्द्र ! स्थितोऽहं स्वेन तेजसा ।
इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ! ॥
सम्भूतस्त्वं महाराज ! राज्ञः सुमनसो गृहे ।
इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारगम् ॥
पठितं तत्प्रभावेण विहायाङ्गरुहाण्यहम् ।
एकीभूतः पुनर्ज्जातो व्याधरूपो नृपोत्तम ! ॥
एतत् श्रुत्वा वचो राजा परं विस्मयमागतः ।
वरेण छन्दयामास तं व्याधं राजसत्तमः ॥
राजोवाच ।
स्मारितोऽस्मि महाव्याध ! त्वया जन्मान्तरं गतम् ।
तथा त्वं मत्प्रसादेन धर्म्मव्याधो भविष्यसि ॥”
इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥
(अपरो धार्म्मिको व्याधविशेषः । अस्य विव-
रणन्तु महाभारते । ३ । २०६ अध्यायमारभ्य
विशेषतो द्रष्टव्यम् ॥)

धर्म्मशास्त्रं, क्ली, (धर्म्मस्य धर्म्माय वा शास्त्रम् ।)

मन्वादिप्रणीतशास्त्रम् । तत्पर्य्यायः । स्मृतिः २
धर्म्मसंहिता ३ । इति हेमचन्द्रः ॥ धर्म्मशास्त्र-
प्रयोजका यथा, याज्ञवल्क्ये । १ । ५-६ ।
“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसम्बर्त्ताः कात्यायनवृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”
एते प्रधानानि अन्येऽपि सन्ति ॥ रघुनन्दन-
धृतधर्म्मशास्त्राणि यथा, --
“मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये ।
प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥
दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये ।
तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते ॥
प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुसंज्ञके ।
दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ॥
सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे ।
इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥”
इति रघुनन्दनभट्टाचार्य्यः ॥

धर्म्मशीलः, त्रि, (धर्म्मे धर्म्माचरणे शीलं स्वभावो

यस्य ।) धार्म्मिकः । यथा, विराटपर्व्वणि ।
“धर्म्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ॥”

धर्म्मसंहिता, स्त्री, (धर्म्मस्य संहिता ।) स्मृति-

शास्त्रम् । इत्यमरः । १ । ६ । ६ ॥

धर्म्मसावर्णिः, पुं, (धर्म्म एव सावर्णिः सूर्य्यपुत्त्री

मनुः ।) एकादशो मनुः । अस्मिन्मन्वन्तरे
धर्म्मसेतुरवतारः । वैधृत इन्द्रः । विहड्गमकाम-
गमाद्या देवाः । अरुणादयः सप्तर्षयः । सत्य-
धर्म्मादयो मनुपुत्त्रा भविष्यन्ति । इति श्रीभाग-
वतम् ॥ * ॥
“भविष्यधर्म्मपुत्त्रस्य सावर्णस्यान्तरं शृणु ।
विहङ्गमाः कामगमा निर्म्माणरतयस्तथा ॥
त्रिप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः ।
मासर्त्तुदिवसा ये तु निर्म्माणरतयस्तु ते ॥
विहङ्गमा रात्रयोऽथ मुहूर्त्ताः कामगो गणः ।
इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमाः ॥
हविष्मांश्च धनिष्ठश्च ऋषिरन्यस्तथारुणिः ।
निश्चरश्चानघश्चैव वृष्णिश्चान्यो महामुनिः ॥
सप्तर्षयोऽन्तरे तस्मिन्नग्नितेजाश्च सप्तमः ॥
सर्व्वानुगः सुशर्म्मा च देवानीकः पुरूद्बहः ॥
हेमधन्वा दृढायुश्च विभानुस्तत्सुता नृपाः ॥”
इति मार्कण्डेयपुराणम् ॥

धर्म्मसारः, पुं, (धर्म्मस्य सारः ।) श्रेष्ठपुण्यकर्म्म ।

यथा । ब्रह्मोवाच ।
“धर्म्मसारमहं वक्ष्ये सङ्क्षेपाच्छृणु शङ्कर ! ।
भुक्तिमुक्तिप्रदं सूक्ष्मं सर्व्वपापविनाशनम् ॥
श्रुतं ब्रह्म बलं धैर्य्यं सुखमुत्साहमेव च ।
शीको हरति वै नॄणां तस्माच्छोकं परित्यजेत् ॥
कर्म्मदेवाः कर्म्मलोकाः कर्म्मसम्बन्धिबान्धवाः ।
कर्म्माणि प्रेरयन्तीह पुरुषं सुखदुःखयोः ॥
दानमेव परो धर्म्मो दानात् सर्व्वमवाप्यते ।
दानान्मुक्तिञ्च राज्यञ्च दद्याद्दानं ततो नरः ॥
एकतः क्रतवः सर्व्वे समग्रवरदक्षिणाः ।
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥
तपसा ब्रह्मचर्य्येण यज्ञैस्त्यागेन वा पुनः ।
गतिन्तु लभते जन्तुर्गङ्गां संसेव्य यां लभेत् ॥
अश्रद्धा परमं पापं श्रद्धा पापप्रणाशिनी ।
जहाति पापं श्रद्धावान् जीर्णां त्वचमिवोरगः ॥
न पुराकृतपुण्यानां नराणामिह शङ्कर ! ।
त्रीण्येतानि प्रपद्यन्ते श्रद्धादातव्यमर्थिनः ॥
दूरादतिथयो यस्य गृहमायान्त्यवारिताः ।
स गृहस्थ इति प्रोक्तः शेषास्तु गृहरक्षकाः ॥
न चिन्तयन्ति ये विष्णुं नार्च्चयन्ति च ये नराः ।
धर्म्मस्य नाशका ये च ते वै निरयगामिनः ॥
ये च होमजपस्नानदेवतार्च्चनतत्पराः ।
सत्यक्षान्तिदयायुक्तास्ते नराः स्वर्गगामिनः ॥
न दाता सुखदुःखानां न च हर्त्तास्ति कश्चन ।
स्वकृतान्येव भुज्यन्ते दुःखानि च सुखानि च ॥
धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् ।
पृष्ठ २/७८८
देवार्थं तर्पणं येषां दुर्गाण्यभितरन्ति ते ॥
सन्तुष्टः को न शक्नोति फलमूलैश्च जीवितुम् ।
सर्व्व एव हि साम्येन शङ्कटान्यवगाहते ॥
लोभात् क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्त्तते ।
लोभान्मोहश्च माया च मानो मत्सर एव च ॥
रागद्वे षानृतक्रोधलोभमोहमदोज्झितः ।
यः स शान्तः परं लोकं याति पापविवर्ज्जितः ॥
देवता मुनयो नागा गन्धर्व्वा गुह्यका नराः ।
धार्म्मिकं पूजयन्तीह न धनाढ्यं न कामिनम् ॥
न मन्त्रबलवीर्य्येण प्रज्ञया पौरुषेण वा ।
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदर्भवि ।
आकाशे पक्षिभिर्न्नित्यं तथा सर्व्वत्र वित्तवान् ॥
सर्व्वसत्त्वदयालुत्वं सर्व्वेन्द्रियविनिग्रहः ।
सर्व्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम् ॥
पश्यन्निवाग्रतो मृत्युं यो धर्म्मं नाचरेन्नरः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥
भ्रणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।
भूमिं सर्व्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते ॥
न गोदानात् परं दानं किञ्चिदस्तीति मे मतिः ।
सा गौर्न्यायार्ज्जिता दत्त्वा कृत्स्नं तारयते कुलम् ॥
नान्नदानात् परं दानं किञ्चिदस्ति वृषध्वज ! ।
अन्नेन धार्य्यते सर्व्वं चराचरमिदं जगत् ॥
कन्यादानं वृषोत्सर्गं जपस्तीर्थं श्रुतं तथा ।
हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः ॥
अन्नदानस्य सर्व्वाणि कलां नार्हन्ति षोडशीम् ।
अन्नात् प्राणो बलं तेजश्चान्नाद्वीर्य्यं धृतिः स्मृतिः ॥
कूपवापीतडागादि आरामाणि च कारयेत् ।
त्रिःसप्तकुलमुद्धृत्य विष्णुलोके महीयते ॥
साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते ।
कालेन फलते तीर्थं सद्यः साधुसमागमः ॥
सत्यं दमस्तपः शौचं सन्तोषः क्षान्तिरार्ज्जवम् ।
ज्ञानं शमो दया दानमेष धर्म्मः सनातनः ॥”
इति गारुडे २२५ अध्यायः ॥

धर्म्मसुतः, पुं, (धर्म्मस्य सुतः ।) युधिष्ठिरराजः ।

इति शब्दरत्नावली ॥ (यथा, देवीभाग-
वते । २ । ७ । १९ ।
“एकान्ते विदुरेणोक्तो राजा धर्म्मसुतः शुचिः ॥”
नरनारायणमुनी । यथा, देवीभागवते । ४ ।
७ । १२ ।
“इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम् ।
उवाच वचनं तथ्यं नरो धर्म्मसुतोऽनुजः ॥”)

धर्म्मसूः, पुं, (धर्म्मं सूते इति । सू + क्विप् ।)

धृम्याटपक्षी । इति शब्दरत्नावली ॥ (धर्म्म-
प्रेरके, त्रि । यथा, तैत्तिरीयब्राह्मणे । १ । ७ । ८ । ३ ।
“सोमो राजा वरुणः । देवा धर्म्मसुवश्च ये ॥”)

धर्म्मात्मा, [न्] पुं, (धर्म्मे आत्मा स्वभावो यस्य ।

कुमारपालः । स तु आर्हतविशेषः । इति हेम-
चन्द्रः । ३ । ३७७ ॥) त्रि, धर्म्मशीलः । यथा, --
“महर्षिर्भगवान् व्यामः कृत्वेमां संहितां पुरा ।
श्लोकैश्चतुर्भिर्धर्म्मात्मा पुत्त्रमध्यापयत् शुकम् ॥”
इति महाभारतम् ॥

धर्म्माधर्म्मपरीक्षणं, क्ली, (धर्म्मश्च अधर्म्मश्च तयोः

परीक्षणम् ।) परीक्षाविशेषः । यथा, --
“अधुना संप्रवक्ष्यामि धर्माधर्म्मपरीक्षणम् ।
हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥
राजतं कारयेत् धर्म्ममधर्म्मं सीसकायसम् ।
लिखेत् भूर्जे पटे वापि धर्म्माधर्म्मौ सितासितौ ॥
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्च्चयेत् ।
सितपुष्पस्तु धर्म्मः स्यादधर्म्मोऽसितपुष्पधृक् ॥
एवं विधायोपलिख्य पिण्डयोस्तौ निधापयेत् ।
गोमयेन मृदा वापि पिण्डौ कार्य्यौ समन्ततः ॥
मृद्भाण्डक उपहृते स्थाप्यौ चानुपलक्षितौ ।
उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ॥
आवाहयेत् ततो देवान् लोकपालांश्च पूर्ब्बवत् ॥
धर्म्मावाहनपूर्ब्बन्तु प्रतिज्ञापत्रकं लिखेत् ।
यदि पापविमुक्तोऽहं धर्म्मस्त्वायातु मे करे ॥
अशुद्धश्चेन्मम करे पापमायातु धर्म्मतः ।
अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ॥
धर्म्मे गृहीते शुद्धः स्यादधर्म्मे तु स हीयते ।
एवं समासतः प्रोक्तं धर्म्माधर्म्मपरीक्षणम् ॥”
इति मिताक्षरा ॥

धर्म्माधिकरणं, क्ली, (अधिक्रियते अस्मिन्निति ।

अधि + कृ + अधिकरणे ल्युट् । धर्म्मस्य अधि-
करणम् ।) राज्ञो विचारस्थानम् । यथा, --
“धर्म्मशास्त्रानुसारेण अर्थशास्त्रनिरूपणम् ।
यत्राधिक्रियते स्थाने धर्म्माधिकरणं हि तत् ॥”
इति वीरमित्रोदये कात्यायनवचनम् ॥ * ॥
“पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ।
धर्म्माधिकरणे कार्य्या जनाह्वानकरा नराः ॥”
इति मत्स्यपुराणे १८९ अध्यायः ॥

धर्म्माधिकरणः, पुं, (धर्म्माधिकरणं आश्रयत्वेनास्त्य-

स्येति । अच् ।) धर्म्माध्यक्षः । तस्य लक्षणम् ।
यथा, मत्स्यपुराणे १८९ अध्याये ।
“समः शत्रौ च मित्रे च सर्व्वशास्त्रविशारदः ।
विप्रमुख्यः कुलीनश्च धर्म्माधिकरणो भवेत् ॥”

धर्म्माधिकरणी, [न्] पुं, (धर्म्माधिकरणं विचार्य्य-

स्थानत्वेनास्त्यस्येति । धर्म्माधिकरण + इनिः ।)
धर्म्माधिकरणविशिष्टः । जज् इति इंराजी
भाषा । तत्पर्य्यायः । धर्म्माध्यक्षः २ धार्म्मिकः ३ ।
इति हेमचन्द्रः । ३ । ३८९ ॥ प्राड्विवाकः ४
अक्षदर्शकः ५ । इत्यमरः । २ । ८ । ५ ॥

धर्म्माध्यक्षः, पुं, (धर्म्मे धर्म्माधिकरणे अध्यक्षः ।)

धर्म्माधिकरणी । इति हेमचन्द्रः । ३ । ३८८ ॥
“कुलशीलगुणोपेतः सर्व्वधर्म्मपरायणः ।
प्रवीणः प्रेषणाध्यक्षो धर्म्माध्यक्षो विधीयते ॥”
इति चाणक्ये । १०२ ॥
(विष्णुः यथा, महाभारते । १३ । १४९ । २८ ।
“लोकाध्यक्षः सुराध्यक्षो धर्म्माध्यक्षः कृताकृतः ॥”
“धर्म्माधर्म्मो साक्षादीक्षते अनुरूपं फलं दातुम् ।
तस्माद्धर्म्माध्यक्षः ।” इति शाङ्करभाष्यम् ॥)

धर्म्मारण्यं, क्ली, (धर्म्माय धर्म्मस्य वा यदरण्यम् ।)

पुण्यवनविशेषः । तस्य नामकारणं यथा, --
“स धर्म्मः पीडितः सर्व्वं सोमेनाद्भुतकर्म्मणा ।
तारां जिघृक्षता पत्नीं म्रातुराङ्गिरसस्य च ॥
सोऽप्ययाद्भीषितस्तेन बलिना क्रूरकर्म्मणा ।
अरण्यं गहनं घोरं प्रविवेश तदा प्रभुः ॥
ब्रह्मोवाच ।
यच्चारण्यमिदं धर्म्म ! त्वया व्याप्तं चिरं विभो ! ।
नाम्ना भविष्यति ह्येतद्धर्म्मारण्यमिति प्रभो ! ॥”
इति वराहपुराणम् ॥
(गयास्थतीर्थविशेषः । यथा, वायुपुराणे गया-
माहात्म्ये ।
“प्रथमेऽह्नि विधिः प्रोक्तो द्वितीयदिवसे व्रजेत् ।
धर्म्मारण्यं तत्र धर्म्मो यस्माद्यज्ञमकारयत् ॥”)

धर्म्मासनं, क्ली, (धर्म्माय व्यवहारकार्य्यसाधनाय

यदासनम् ।) विचारासनम् । वेञ्च् इति इंराजी-
भाषा । यथा, --
“धर्म्मासनमधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत् ॥”
इति मनुः । ८ । २३ ॥

धर्म्मिणी, स्त्री, (धर्म्मोऽस्या अस्तीति । इनिः । ङीप् ।)

रेणुका । इति राजनिर्घण्टः ॥

धर्म्मी, [न्] (त्रि, धर्म्मोऽस्यास्तीति । धर्म्म + “अत

इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
धर्म्मवान् । पुण्यशीलः । इति शब्दरत्नावली ॥
(पुं, विष्णुः । यथा, महाभारते । १३ । १४९ । ६४ ।
“धर्म्मगुप् धर्म्मकृद्धर्म्मी सदसत्क्षरमक्षरम् ॥”
“धर्म्माधारतया धर्म्मी ।” इति शाङ्करभाष्यम् ॥)

धर्म्मोपदेशकः, पुं, (धर्म्ममुपदिशतीति । उप +

दिश + ण्वुल् ।) गुरुः । इति हेमचन्द्रः । १ । ७७ ॥

धर्म्म्यः, त्रि, (धर्म्म + “धर्म्मपथ्यर्थन्यायादनपेते ।”

४ । ४ । ९२ । इति यत् ।) धर्म्मादनपेतः ।
धर्म्मयुक्तः । यथा, श्रीभगवद्गीतायाम् ।
“धर्म्म्याद्धि युद्धात् श्रेयोऽन्यत् क्षत्त्रियस्य न
विद्यते ॥”
“न्यूनाधिकविभक्तानां धर्म्म्यः पितृकृतः स्मृतः ॥”
इति दायभागः ॥
(धर्म्मेण प्राप्यः । “नौवयोधर्म्मेति ।” ४ । ४ । ९१ ।
इति यत् धर्म्मलभ्यः । इति सिद्धान्तकौमुदी ॥)

धर्म्म्यविवाहः, पुं, (धर्म्म्यः धर्म्मार्हो विवाहः ।)

विवाहविशेषः । स च पञ्चविधः । ब्राह्म-
दैवार्षगान्धर्व्वप्राजापत्यरूपः । अधर्म्म्यविवाह-
स्त्रिविधः । असुरराक्षसपैशाचरूपः । यथा,
“धर्म्म्येष्वेव विवाहेषु कालपरीक्षणं नाधर्म्म्येषु ॥”
इत्युद्वाहतत्त्वम् ॥ (यस्य वर्णस्य यो विवाहो
धर्म्म्यः स उक्तो यथा, मनौ । ३ । २१ -- २६ ।
“ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥
यो यस्य धर्म्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
तद्वः सर्व्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥
षडानुपूर्ब्ब्या विप्रस्य क्षत्त्रस्य चतुरोऽरवान् ।
विट्शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान् ॥
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्त्रियस्यैकमासुरं वैश्यशूद्रयोः ॥
पञ्चानान्तु त्रयो धर्म्म्या द्वावधर्म्मौ स्मृताविह ।
पृष्ठ २/७८९
पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन ॥
पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्ब्बचोदितौ ।
गान्धर्व्वोराक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ ॥”)

धर्षः, पुं, (धर्षणमिति । धृष् + भावे घञ् ।)

प्रागल्भ्यम् । (यथा, महाभारते । १ । १८९ । ७ ।
“यद्येष दर्पाद् धर्षाद्वाप्यथ ब्राह्मणचापलात् ।
प्रस्थितो धनुरायन्तुं वार्य्यतां साधु मागमत् ॥”)
अमर्षः । शक्तिबन्धनम् । संहतिः । हिंसा ।
इति धृषधातोर्भावेऽल्प्रत्ययेन साध्यः ॥

धर्षकः, पुं, (धृष्णोति प्रगल्भो भवतीति ।

धृष् + ण्वुल् ।) नटः । इति शब्दरत्नावली ॥
(अभिभवकर्त्तरि, त्रि । यथा, हरिवंशे । १५३ । २४ ।
“विधार्य्य सर्व्वे गृह्यन्तां ममैते गृहधर्षकाः ॥”)

धर्षकारिणी, स्त्री, (धर्षं कुलदूषणं करोतीति ।

कृ + णिनि + ङीप् ।) दूषिता कन्या । इति
शब्दरत्नावली ॥

धर्षणं, क्ली, (धृष् + ल्युट् ।) परिभवः । (यथा,

महाभारते । १ । २१४ । १९ ।
“सर्व्वमन्यत् परिहृतं धर्षणन्तु महीपतेः ॥”)
रतिः । इति मेदिनी । णे, ५४ ॥ धर्षशब्दार्थो-
ऽप्यत्र ॥

धर्षणिः, स्त्री, (कर्षतीति । कृष + “कृषेरादेश्च

धः ।” उणां । २ । १०५ । इति अनिः आदेश्च
धः ।) बन्धकी । वृषलः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

धर्षणी, स्त्री, (धर्षणि + कृदिकारादिति वा

ङीष् ।) धर्षिणी । असती । इत्यमरटीकायां
भरतः ॥

धर्षिणी, स्त्री, (धर्षति हिनस्ति कुलमिति ।

धृष + णिनि + ङीप् ।) पुंश्चली । इत्यमरः ।
२ । ६ । १० ॥

धर्षितं, क्ली, (धृष्यतेऽनेनेति । धृष + क्तः ।)

रतिः । मैथुनम् । इति त्रिकाण्डशेषः ॥ (धृष +
कर्म्मणि क्तः ।) कृतधर्षणे, त्रि ॥ (अभिभूतः ।
यथा, महाभारते । ३ । ५५ । १५ ।
“आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥”)

धर्षिता, स्त्री, (धृष्यतेऽसौ । धृष + क्तः । टाप् ।)

असती । इति शब्दरत्नावली ॥

धलण्डः, पुं, (दधातीति । धा + डः । धं धारकं

लण्डति उत्क्षिपतीति । लण्ड उत्क्षेपे + अच् ।
कण्टकान्वितत्वादस्य तथात्वम् ।) दृढकण्टक-
वृक्षः । इति शब्दचन्द्रिका ॥ धलआँक्डा इति
भाषा ॥

धव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इ, धन्व्यते । व्रजो गतिः । इति
दुर्गादासः ॥

धवः, पुं, (धुनोति धवतीति वा । धु धू वा +

अच् ।) पतिः । (यथा, हरिवंशे भविष्य-
पर्व्वणि । १६ । ४५ ।
“मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो
भवान् ।
तस्मान्माधवनामासि धवः स्वामीति शब्दितः ॥”)
नरः । इत्यमरः । ३ । ३ । २०५ ॥ (यथा, --
पञ्चतन्त्रे । २ । १०९ ।
“शौचविशिष्टयाप्यस्ति किञ्चित् कार्य्यं क्वचि-
न्मृदा ।
निर्धनेन धवेनेह न तु किञ्चित् प्रयोजनम् ॥”)
धूर्त्तः । इति मेदिनी । वे, १३ ॥ स्वनामख्यात-
वृक्षः । (यथा, महाभारते । १ । ६९ । १७ ।
“विल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥”)
तत्पर्य्यायः । धुरन्धरः २ शाकटाख्यः ३ । इति
रत्नमाला ॥ दृढतरुः ४ गौरः ५ कषायः ६
मधुरत्वक् ७ शुष्कवृक्षः ८ पाण्डुतरुः ९ धवलः
१० पाण्डुरः ११ । अस्य गुणाः । कषायत्वम् ।
कटुत्वम् । कफानिलनाशित्वम् । पित्तप्रकोपण-
त्वम् । रुच्यत्वम् । दीपनत्वञ्च । अन्यच्च । शीत-
त्वम् । प्रमेहार्शःपाण्डुपित्तकफापहत्वम् । मधु-
रत्वम् । तुवरत्वम् । तिक्तत्वञ्च । तन्नामगुणाः ।
“धवो घटो नन्दितरुः स्थिरो धौरो धुरन्धरः ।
धवः शीतप्रमेहार्शःपाण्डुपित्तकफापहः ॥
मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक् ॥”
इति भावप्रकाशः ॥
तत्फलं ईषन्मधुरम् । इति राजनिर्घण्टः ॥
(धु कम्पने + “ऋदोरप् ।” ३ । ३ । ५७ । इति
भावे अप् । कम्पनम् ॥)

धवलः, पुं, (धावतीति । धाव ञ् जवमृजोः +

“धावतेर्बाहुलकात् ह्रस्वत्वञ्च ।” १ । १०८ ।
इत्युज्ज्वलदत्तोक्त्या कलः ह्रस्वश्च ।) धववृक्षः ।
चीनकर्पूरः । इति राजनिर्घण्टः ॥ राग-
विशेषः । भरतमते हिन्दोलरागस्याष्टमपुत्त्रः ।
इति सङ्गीतशास्त्रम् ॥ वृषश्रेष्ठः । शुक्लः ।
सुन्दरे, त्रि । इत्युणादिकोषः ॥ श्वेतगुणयुक्ते,
त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, आर्य्या-
सप्तसत्याम् । ३०६ ।
“धवलनखलक्ष्म दुर्ब्बलमकलितनेपथ्यमलकपिहिताक्ष्याः ॥”)
श्वेतमरिचे, क्ली । इति राजनिर्घण्टः ॥

धवलपक्षः, पुं, (धवलौ शुक्लौ पक्षौ यस्य ।) हंसः ।

इति राजनिर्घण्टः ॥ (धवलः शुक्लः पक्षः ।)
शुक्लपक्षश्च ॥ (शुक्लपक्षविशिष्टे, त्रि । यथा, माघे ।
“धवलपक्षविहङ्गमकूजितैः ॥”)

धवलपाटली, स्त्री, (धवला पाटली ।) सित-

पाटलिका । इति राजनिर्घण्टः ॥

धवलमृत्तिका, स्त्री, (धवला मृत्तिका ।) खटिनी ।

इति राजनिर्घण्टः ॥

धवलयावनालः, पुं, (धवलो यावनालः ।) याव-

नालविशेषः । तत्पर्य्यायः । पाण्डुरः २ तार-
तण्डुलः ३ नक्षत्रकान्तिविस्तारः ४ वृत्तः ५
मौक्तिकतण्डुलः ६ । अस्य गुणाः । गौल्यत्वम् ।
बल्यत्वम् । वृष्यत्वम् । रुच्यप्रदत्वम् । पथ्यत्वम् ।
त्रिदोषार्शोगुल्मव्रणनाशित्वञ्च । इति राज-
निर्घण्टः ॥

धवला, स्त्री, (धावतीति । धाव + कलः ह्रस्वश्च ।

अनुदात्तत्वाभावात् न ङीष् ।) शुक्ला गौः ।
इत्यमरः । २ । ९ । ६७ ॥

धवली, स्त्री, (धवल + गौरादित्वात् ङीष् ।)

शुक्ला गौः ॥ इत्यमरः । २ । ९ । ६७ ॥

धवलोत्पलं, क्ली, (धवलमुत्पलम् ।) कुमुदम् ।

इति राजनिर्घण्टः ॥

धवाणकः, पुं, (धुनाति कम्पयति वृक्षादीनीति ।

धू + “आणको लूधूशिन्धिधाञ्भ्यः ।” उणां
३ । ८३ । इति आणकः ।) वायुः । इत्युणादि-
कोषः ॥

धवित्रं, क्ली, (धूयतेऽनेनेति । धू + “अर्त्तिलूधू-

सूखनसहचर इत्रः ।” ३ । २ । १८४ । इति
इत्रः ।) मृगचर्म्मरचितव्यजनम् । इत्यमरः ।
२ । ७ । २३ ॥

धा, डु ञ लि धारणे । पुष्टौ । दाने । इति कवि-

कल्पद्रुमः ॥ (ह्वां-उभं-सकं-अनिट् ।) डु, हित्रि-
मम् । ञ लि, दधाति धत्ते । धारणं धरणम् ।
दाने, द्विषता विहितं त्वयाथवेति किराते
विहितं दत्तमित्यर्थः । इति दुर्गादासः ॥

धाः, पुं, (दधातीति । धा + क्विप् ।) ब्रह्मा ।

धारकः । इति मेदिनी । धे, १ ॥ बृहस्पतिः ।
इत्येकाक्षरकोषः ॥

धाकः, पुं, (दधातीति । धा + “कृदाधारार्चि-

कलिभ्यः कः ।” उणां ३ । ४० । इति कः ।)
वृषः । आहारः । इत्युणादिकोषः ॥ अन्नम् ।
स्तम्भः । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(आधारः । इत्युज्ज्वलदत्तः ॥)

धाटी, स्त्री, शत्रुसम्मुखगमनम् । तत्पर्य्यायः ।

प्रपातः २ अभ्यवस्कन्दः ३ अभ्यासादनम् ४ ।
इति हेमचन्द्रः । ३ । ४६४ ॥

धाणकः, पुं, (दधातीति । धा + “आणको लूधू-

शिन्धिधाञ्भ्यः ।” उणां ३ । ८३ । इति
आणकः ।) दीनारभागः । इत्युणादिकोषः ॥

धातकी, स्त्री, (धातुं करोतीति । धा + तत्करो-

तीति णिच् । टिलोपः । ततः क्वुन् । ततः
पिप्पल्यादित्वात् ङीष् ।) पुष्पविशेषः । धाइ-
फुल् इति भाषा । तत्पर्य्यायः । वह्निपुष्पी २
ताम्रपुष्पी ३ धावनी ४ अग्निज्वाला ५ सुभिक्षा
६ पार्व्वती ७ बहुपुष्पिका ८ कुमुदा ९ सीधु-
पुष्पी १० कुञ्जरा ११ मद्यवासिनी १२ गुच्छ-
पुष्पी १३ संधपुष्पी १४ रोध्रपुष्पिणी १५ तीव्र-
ज्वाला १६ वह्निशिखा १७ मद्यपुष्पा १८ ।
इति राजनिर्घण्टः ॥ धातृपुष्पी १९ धातुपुष्पी
२० धातृपुष्पिका २१ धात्री २२ धातुपुष्पिका
२३ । इति शब्दरत्नावली ॥ अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । मदकारित्वम् । विष-
प्रवाहिकातिसारविसर्पव्रणनाशित्वञ्च । इति
राजनिर्घण्टः ॥ शीतत्वम् । रक्तपित्तनाशि-
त्वञ्च । इति राजवल्लभः ॥

धाता, [ऋ] पुं, (दधातीति । धा + तृच् ।)

ब्रह्मा । इत्यमरः । १ । १ । १७ ॥ (यथा,
रघुः । १० । ४३ ।
“धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात् सर्गादवध्यत्वं मर्त्त्येष्वास्थापराङ्मुखः ॥”)
पृष्ठ २/७९०
विष्णुः । इति हलायुधः ॥ (यथा, महाभारते ।
१३ । १४९ । ११५ ।
“आधारनिलयो धाता पुष्पहासः प्रजागरः ॥”
“संहारसमये सर्व्वाः प्रजा धयति पिबतीति वा
धाता । धेट् पाने इति धातुः ।” इति शाङ्कर-
भाष्यम् ॥ महादेवः । यथा, तत्रैव । ३३ । १७ । १०३ ।
“धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”)
भृगुमुनिपुत्त्रः । तस्य भार्य्या मेरुकन्या आयतिः ।
तस्य सुतः मृकण्डुः तस्य च मार्कण्डेयः । इति
श्रीभागवतम् ॥ ऊनपञ्चाशद्वाय्वन्तर्गतवायुवि-
शेषः । यथा, वह्निपुराणे गणभेदनामाध्याये ।
“धाता दुर्गो धितिर्भीमस्त्वभियुक्तस्त्वपात्सहः ।
द्युतिर्घपुरनाप्योथवासः कामो जयो विराट् ॥
इत्येकोनाश्च षञ्चाशन्मरुतः पूर्ब्बसम्भवाः ॥”
(आदित्यविशेषः । यथा, महाभारते । १ ।
६५ । १४-१५ ।
“अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः ।
ये राजन् ! नामतस्तांस्ते कीर्त्तयिष्यामि
भारत ! ॥
धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ॥”
ब्रह्मणः पुत्त्रविशेषः । यथा, महाभारते । १ ।
६६ । ५१ ।
“द्वौ पुत्त्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।
लोके धाता विधाता च यौ स्थितौ मनुना
सह ॥”)
पालके, त्रि । इति मेदिनी । ते, २७ ॥ धारकः ।
इति धरणिः ॥

धातुः, पुं, (धीयते सर्व्वमस्मिन्निति । धा + “सितनि-

गमीति ।” उणां १ । ७० । इति तुन् ।) शरीर-
धारकवस्तूनि । तद्यथा । कफः । वातः । पित्तम् ।
“शरीरदूषणाद्दोषा मलिनीकरणान्मलाः ।
धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥”
इति वैद्यकम् ॥
(“रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
सप्त दूष्याः मलामूत्रशकृत्स्वेदादयोऽपि च ॥”
इति वाभटे सूत्रस्थाने प्रथमेऽध्याये ॥
धातुशब्देनात्र शुक्रार्त्तवे अप्युच्येते तद् यथा ।
“तथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहा-
स्तीति वक्तुं नैव नास्तीत्यथवास्ति सतां भावानां
अभिव्यक्तिरिति कृत्वा केवलं सौक्ष्म्यान्नाभि-
व्यज्यते स एव गन्धो विवृतपत्रकेशरैः कालान्त-
रेणाभिव्यक्तिं गच्छत्येवं बालानामपि वयः
परिणामात् शुक्रप्रादुर्भावो भवति रोमराज्या-
दयोथार्त्तवादयश्च विशेषा नारीणां रजसि
चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्य-
भिवृद्धिर्भवति । स एवान्नरसो वृद्धानां जरा-
पक्वशरीरत्वान्न प्रीणनो भवति । त एते शरीर-
धारणाद्धातव इत्युच्यन्ते ॥” इति सुश्रुते सूत्र-
स्थाने १४ अध्यायः ॥
अथ धातुशब्दस्य निरुक्तिमाह ।
“एते सप्त स्वयं स्थित्वा देहन्दधति यन्नृणाम् ।
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ॥”
अथ धातूनां कर्म्मान्याह ।
“प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे ।
गर्भोत्पादश्च कर्म्माणि धातूनां कथितानि हि ॥”
इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
रसः । रक्तम् । मांसम् । मेदः । अस्थि । मज्जा ।
शुक्रम् । महाभूतानि । तद्यथा । पृथिवी ।
जलम् । तेजः । वायुः । आकाशः । तद्गुणाः
यथा । गन्धः । रसः । रूपम् । स्पर्शः । शब्दः ।
इन्द्रियाणि यथा । चक्षुः । श्रोत्रम् । घ्राणम् ।
जिह्वा । त्वक् ॥ अश्मविकृतिः । सा तु गैरिक-
मनःशिलादि । (यथा, कुमारे । १ । ४ ।
“अकालसन्ध्यामिव धातुमत्ताम् ॥”)
शब्दयोनिः । सा च साधुशब्दप्रकृतिः । भूपच-
पठप्रभृतिः । स्वर्णादिः । इत्यमरभरतौ ॥ * ॥
यथा, शब्दमालायाम् ।
“सुवर्णरूप्यमाणिक्यहरितालमनःशिलाः ।
गैरिकाञ्जनकासीससीसलोहाः सहिङ्गुलाः ॥
गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ॥”
नव धातवो यथा, सुखबोधे ।
“हेमतारारनागाश्च ताम्रवङ्गे च तीक्ष्णकम् ।
कांस्यकं कान्तलौहश्च धातवो नव कीर्त्तिताः ॥”
अष्टधातवो यथा, दानसागरे ।
“हिरण्यं रजतं कांस्यं ताम्रं सीसकमेव च ।
रङ्गमायसरैत्यञ्च धातवोऽष्टौ प्रकीर्त्तिताः ॥”
अपि च वैद्यके ।
“सुवर्णं रजतं ताम्रं लौहं कुप्यञ्च पारदम् ।
वङ्गञ्च सीसकञ्चैव इत्यष्टौ देवसम्भवाः ॥”
सप्तधातवो यथा, भावप्रकाशे ।
“स्वर्णं रूप्यञ्च ताम्रञ्च रङ्गं यशोदमेव च ।
सीसं लौहञ्च सप्तैते धातवो गिरिसम्भवाः ॥”
ताम्राद्युत्पत्तिर्यथा, --
“शृणु तत्त्वेन मे भूमे ! कथ्यमानं मयानघे ! ।
एकाग्रं चित्तमाधाय येन ताम्रं मम प्रियम् ॥
पूर्ब्बं कमलपत्राक्षि ! गुडाकेशो महासुरः ।
ताम्ररूपं समादाय ममैवाराधने रतः ॥
तञ्च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना ।
गुडाकेश ! महाभाग ब्रूहि किं करवाणि ते ॥
चक्रेण वधमिच्छामि त्वया मुक्तेन केशव ! ।
वैशाखस्य तु मासस्य शुक्लपक्षे तु द्बादशीम् ॥
मम तेजोमयं चक्रं वाधयिष्यत्यसंशयम् ।
तदेव चक्रेण विपाटितोऽसौ
प्राप्तोऽपि मां भागवतप्रधानः ॥
ताम्रन्तु तन्मांसमसृक्सुवर्ण-
मस्थीनि रूप्यं बहुधातवश्च ।
रङ्गञ्च सीसं त्रपुधातुसंस्थं
कांस्यञ्च रीतिश्च मलस्तु तेषाम् ॥
एतद्भागवतैः कार्य्यं मम प्रियकरैः सदा ।
एवं ताम्रं समुत्पन्नमिति मे रोचते हि तत् ॥”
इति वराहपुराणम् ॥ * ॥
“हरितालं हरेर्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला ।
पारदं शिववीर्य्यं स्यात् गन्धकं पार्व्वतीरजः ॥”
इति वैद्यकम् ॥ * ॥
सप्तोपधातवो यथा, --
“माक्षिकं तुत्थिकाभ्रे च नीलाञ्जनशिलालकाः ।
रसकश्चेति विज्ञेया एते सप्तोपधातवः ॥” * ॥
शरीरस्थसप्तधातुभवसप्तोपधातवो यथा, --
“स्तन्यं रजश्च नारीणां काले भवति गच्छति ।
शुद्धमांसभवः स्नेहो यः सा संकीर्त्त्यते वसा ॥
स्वेदो दन्तास्तथा केशास्तथैवोजश्च सप्तमम् ।
इति धातुभवा ज्ञेया एते सप्तोपधातवः ॥”
इति सुखबोधः ॥

धातुकासीसं, क्ली, (धातुरूपं कासीसम् ।) कासी-

सम् । इति हेमचन्द्रः । ४ । १२२ ॥ (पर्य्यायो-
ऽस्य यथा, वैद्यकरत्नमालायाम् ।
“कासीसं धातुकासीसं हरितं तच्च लोहितम् ॥”)

धातुघ्नं, क्ली, (धातुं स्वर्णादिकं हन्तीति । हन +

टक् ।) काञ्जिकम् । इति हेमचन्द्रः । ३ । ९० ॥

धातुनाशनं, क्ली, (धातुं स्वर्णादिकं नाशयतीति ।

नश् + णिच् + ल्युः ।) काञ्जिकम् । इति त्रिकाण्ड-
शेषः ॥

धातुपः, पुं, (धातुं अस्थिमज्जामांसोत्पादक-

पदार्थविशेषं पाति रक्षतीति । पा + कः ।)
शरीरस्थप्रथमधातुः । रस इति ख्यातः । इति
शब्दचन्द्रिका ॥

धातुपुष्पिका, स्त्री, (धातुरिव पुष्पं यस्याः । जातौ

ङीष् । स्वार्थे कन् पूर्ब्बह्रस्वः । यद्बा कप् । टापि
अत इत्वम् ।) धातृपुष्पिका । इति शब्दरत्ना-
वली । धाइफुल् इति भाषा ॥

धातुपुष्पी, स्त्री, (धातुरिव पुष्पमस्याः । जाति-

त्वात् ङीष् ।) धातकी । इति भावप्रकाशः ॥

धातुभृत्, पुं, (धातुं गैरिकादिकं बिभर्त्तीति । भृ +

क्विप् । तुगागमश्च ।) पर्व्वतः । इति शब्द-
रत्नावली ॥ धातुपोषके, त्रि ॥

धातुमाक्षिकं, क्ली, (धातुरूपं माक्षिकम् ।) माक्षि-

कम् । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा,
वैद्यकरत्नमालायाम् ।
“माक्षिकंधातुमाक्षिकं ताप्यं ताप्युत्थसंज्ञकम् ॥”)

धातुमारिणी, स्त्री, (धातुं सुवर्णादिकं मारयतीति ।

मृ + णिच् + णिनि + ङीप् ।) सर्ज्जिका । इति
शब्दचन्द्रिका । सोहागा इति भाषा ॥

धातुराजकं, क्ली, (धातुषु राजते इति । राज +

ण्वुल् । यद्बा, धातूनां राजा इति समामान्त टच् ।
ततः स्वार्थे कन् ।) रेतः । इति शब्दचन्द्रिका ॥

धातुवल्लभं, क्ली, (धातुषु वल्लभम् ।) टङ्कणम् ।

इति राजनिर्घण्टः ॥ (टङ्कणशब्देऽस्य गुणा-
दिकं ज्ञेयम् ॥)

धातुवादी, [न्] पुं, (धातुं वदति उपायान्तरेण

कर्त्तुं कथयतीति । वद + णिनिः ।) कारन्धमी ।
इति हारावली । १९५ ॥

धातुवैरी, [न्] पुं, (धातूनां वैरीव दूषकत्वात् ।)

गन्धकः । इति शब्दचन्द्रिका ॥

धातुशेखरं, क्ली, (धातूनामुपधातूनां शेखरमिव

श्रेष्ठत्वात् ।) कासीसम् । इति हेमचन्द्रः । ४ ।
१२२ ॥
पृष्ठ २/७९१

धातूपलः, पुं, (धातुः उपधातुरूप उपलः

पाषाणः ।) कठिनिका । इति हारावली । २१२ ॥

धातृपुत्त्रः, पुं, (धातुर्ब्रह्मणः पुत्त्रः ।) सनत्कुमारः ।

इति शब्दरत्नावली ॥ ब्रह्मणः सुतमात्रञ्च ॥

धातृपुष्पिका, स्त्री, (धातृपुष्पी । स्वार्थे कन् पूर्ब्ब-

ह्रस्वः । यद्बा, कप् । टापि अत इत्वम् ।)
धातकी । इत्यमरः । २ । ४ । १२४ ॥

धातृपुष्पी, स्त्री, (धातृ पुष्टिकर्त्तृ पुष्पमस्याः ।

ङीप् ।) धातकी । इति शब्दरत्नावली ॥

धात्रं, क्ली, (धीयते अन्नाद्यत्रेति । धा + आधारे

ष्ट्रन् ।) भाजनम् । इति संप्तिक्षसारोणादिवृत्तिः ॥

धात्रिका, स्त्री, (धात्री । स्वार्थे कन् टाप् पूर्ब्ब-

ह्रस्वश्च ।) आमलकी । इति राजनिर्घण्टः ॥

धात्री, स्त्री, (धीयते पीयते इति । धेट पाने +

“सर्व्वधातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति
कर्म्मणि ष्ट्रन् । षित्वात् ङीष् । अस्या स्तनदुग्ध-
पानात्तथात्वम् । यद्वा, दधाति धरतीति । धा
+ तृच् + ङीप् ।) माता । (यथा, याज्ञवल्क्य-
सहितायाम् । ३ । ८२ ।
“पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्विमुच्यते ॥”)
उपमाता । (यथा, रघुः । १० । ७८ ।
“कुमाराः कृतसंस्कारास्ते धात्रीस्तनपायिनः ।
आन्दनेनाग्रजेनेव समं ववृधिरे पितुः ॥”
(कुमाररक्षाकर्त्री । धाइ इति भाषा ॥ तस्या
परीक्षा यथा, “अतो धात्रीपरीक्षामुपदेक्ष्यामः ।
अथ ब्रूयात् धात्रीमानयेति समानवर्णां यौव-
नस्थां निभृतामनातुरामव्यङ्गामव्यसनामवि-
रूपामजुगुप्सितां देशजातीयामक्षुद्रां अक्षुद्र-
कर्म्मिणीं कुले जातां वत्सलां जीववत्सां पुंवत्सां
दोग्ध्रीमप्रमत्तामशायिनीमनुच्चारशायिनीमन-
न्तावशायिनीं कुशलोपचारां शुचिमशुचि-
द्वेषिणीं स्तन्यसम्पदुपेतामिति ।”
“धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदा
स्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं
शतवीय्या सहस्रवीर्य्यां मोधामव्यथां शिवा-
मरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तामिति बिभ्र-
त्यौषधीः कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं
पाययेदिति धात्रीकर्म्म ।” इति चरके शारीर-
स्थानेऽष्टमेऽध्याये ॥ * ॥ (दधाति धारयति सर्व्व-
मिति । धा + तृच् + ङीप् ।) क्षितिः । (गायत्त्री-
स्वरूपिणी भगवती । यथा, देवीभागवते । १२ ।
६ । ७८ ।
“धात्रीधनुर्धरा धेनुर्धारिणी धर्म्मचारिणी ॥”
गङ्गा । यथा, काशीखण्डे । २९ । ९२ ।
“धर्म्मोर्म्मिवाहिनी धुर्य्या धात्री धात्रीविभूषणम् ॥”)
आमलकीवृक्षः । इति मेदिनी । रे, ४९ ॥
(अस्याः पर्य्याया यथा, वैद्यकरत्नमालायाम् ।
“धात्री कर्षफला तिष्या वयस्थामलकी शिवा ॥”)
अथ धात्र्याद्युत्पत्तिकारणम् ।
वृन्दामरणान्मुग्धस्य विष्णोर्मोहापनोदाय रुद्र-
वाक्यादाद्यां शक्तिं स्तुवतो देवान् प्रति सा आह ।
“अहमेतत्त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ।
गौरी लक्ष्मीः स्वधा चेति रजःसत्त्वतमोगुणैः ॥
तत्र गत्वा तथा कार्य्यं विधास्यन्ते च ताः सुराः ।
तास्तथा तान् सुरान् दृष्ट्वा प्रणतान् भक्तवत्-
सलाः ॥
बीजानि प्रददुस्तेभ्यो वाक्यानि जगदुस्तदा ।
इमानि देवा बीजानि विष्णुर्यत्रावतिष्ठते ॥
निर्वपध्वं ततः कार्य्यं भवतां सिद्धिमेष्यति ।
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यः स्त्रियोऽभवन् ॥
धात्री च मालती चैव तुलसी च नृपोत्तम ! ।
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ॥
गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः ।
स्त्रीरूपिण्यो वनस्पत्यो दृष्ट्वा विष्णुस्तदा नृप ! ॥
उत्तस्थौ सम्भ्रमाद्वृन्दारूपातिशयविभ्रमात् ॥”
अस्या माहात्म्यं यथा, --
“शृणुष्व धात्रीमाहात्म्यं सर्व्वपापहरं शुभम् ।
यत् पुरा हरिणा प्रोक्तं वशिष्ठं प्रति नारद ! ॥
धात्री वत्स ! नृणां धात्री मातृवत् कुरुते कृपाम् ।
दद्यादायुः पयः पानं स्नानाद्वै धर्म्मसञ्चयम् ॥
अलक्ष्मीनाशनं सद्योऽप्यन्ते निर्व्वाणमेवच ।
विघ्नानि नैव जायन्ते धात्रीस्नानेन वै नृणाम् ॥
तस्मात् त्वं कुरु विप्रेन्द्र ! धात्रीस्नानं हि यत्नतः ।
प्रयास्यसि हरेर्धाम देवत्वं प्राप्य नारद ! ॥
यत्र यत्र मुनिश्रेष्ठ ! धात्रीस्नानं समाचरेत् ।
तीर्थे वापि गृहे वापि तत्र तत्र श्रियः स्थिताः ॥
धात्रीस्नातानि दिवसे यस्यास्थीनि कलेवरे ।
प्रक्षालितानि विप्रेन्द्र ! न स स्याद्गर्भसम्भवः ॥
धात्रीफलेन विप्रेन्द्र ! येषां केशाश्च रञ्जिताः ।
ते नराः केशवं यान्ति नाशयित्वा कलेर्मलम् ॥
धात्रीफलं महापुण्यं स्नाने पुण्यतरं स्मृतम् ।
पुण्यात् पुण्यतरं वत्स ! भक्षणे मुनिपुङ्गव ! ॥
न गङ्गा न गया पुण्या न काशी न च पुष्करम् ।
एकैव च यथा पुण्या धात्री माधववासरे ॥
कार्त्तिके मासि विप्रेन्द्र ! धात्रीस्नानं समाचरेत् ।
यश्च तज्जलमश्नीयात् सोऽश्वमेधमवाप्नुयात् ॥
धात्रीफलं स्मरेद्यस्तु सदैव मुनिसत्तम ! ।
प्राग्जन्मनि कृतात् पापात् मुच्यते नात्र संशयः ।
संस्मरेद्यस्तु धात्रीं तामहन्यहनि मानवः ॥
मुच्यते पातकैः सर्व्वैर्मनोवाक्कायसम्भवैः ॥
धात्रीफलान्यमावास्यामष्टमीनवमीषु च ।
रविवारे च संक्रान्तौ संस्मरेन्मुनिपुङ्गव ! ॥
यस्य गेहे मुनिश्रेष्ठ ! धात्री तिष्ठति सर्व्वदा ।
तस्य गेहं न गच्छन्ति प्रेतकुष्माण्डराक्षसाः ॥
धात्रीस्नाने हरेर्नाम्नि जागरे हरिवासरे ।
जन्मबन्धो विनश्येत हयमेधायुतं फलम् ॥
स्नायादामलकैर्यस्तु कार्त्तिके हरिवत्सल ! ।
परितोषं समायाति तस्य वै माधवः स्वयम् ॥
धात्रीच्छायां समासाद्य कुर्य्यात् श्राद्धस्तु यो
मुने ! ।
मुक्तिं प्रयान्ति पितरः प्रसादात्तस्य वै हरेः ॥
मूर्द्ध्नि पाणौ मुखे कण्ठे देहे च मुनिसत्तम ! ।
धत्ते धात्रीफलं यस्तु स महात्मा स पुण्यभाक् ॥
धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः ।
धात्रीफलकृताहारो नरो नारायणो भवेत् ॥
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने ! ।
प्रियो भवति विष्णोः स मनुष्याणाञ्च का कथा ॥
धात्रीफलानि यो नित्यं वहते करसंपुटे ।
तस्य नारायणो देवो वरमेकं प्रयच्छति ॥
धात्रीफलं न मोक्तव्यं कदाचित् करसंपुटात् ।
य इच्छेद्विपुलान् भोगानन्ते यो मुक्तिमिच्छति ॥
धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्न हि ।
स वैष्णवो न विज्ञेयो विष्णुभक्तिपरोऽपि च ॥
न त्याज्या तुलसीमाला धात्रीमाला विशेषतः ।
तथा रुद्राक्षमालापि धर्म्मकामार्थमिच्छता ॥
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।
तावन्मनसि हृत्स्थोऽपि सदा लुठति केशवः ॥
यावद्दिनानि वहते धात्रीमालां करे नरः ।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥
सर्व्वदेवमयी धात्री वासुदेवमनःप्रिया ।
आरोपणीया सेव्या च सेचनीया सदा बुधैः ॥
एतत्ते सर्व्वमाख्यातं धात्र्या माहात्म्यमुत्तमम् ।
श्रोतव्यञ्च सदा सद्भिश्चतुर्वर्गफलप्रदम् ॥”
इति पाद्मोत्तरखण्डे १२७ अध्यायः ॥
अपि च ।
“तुलसीवृक्षमाश्रित्य या यास्तिष्ठन्ति देवताः ।
आमलक्या अपि प्राज्ञ ! तास्ता एव वसन्ति च ॥
अशुभं वा शुभं वापि यत् कर्म्मामलकीतले ।
क्रियते मानवैर्विप्र ! भवेत्तत् सर्व्वमक्षयम् ॥
पवित्रैर्नूतनैः पत्रैर्धात्र्या यः पूजयेद्धरिम् ।
स मुक्तः पापजालेन सायुज्यं लभते हरेः ॥
धात्री च तुलसी देवी न तिष्ठेद्यत्र जैमिने ! ।
स्थानं तदपवित्रं स्यान्न च पुण्यक्रिया फलेत् ॥
धात्र्या हीनं तुलस्या च निलयं यस्य भूसुर ! ।
अलक्ष्मीः पातकं सर्व्वं कलिश्च तेन तोषितः ॥
धात्रीकाष्ठस्य मालाञ्च यो वहेन्मतिमान्नरः ।
तत् सर्व्वमक्षयं प्रोक्तं शुभं वाशुभमेव वा ॥
यस्तु धात्रीफलं भुङ्क्ते मानवोऽखिलतत्त्व-
वित् ।
तद्देहाभ्यन्तरस्थायि सर्व्वं पापं विनश्यति ॥
धात्रीफलमयीं मालां वहते द्विजसत्तमः ।
ब्रवीमि शृणु माहात्म्यं सर्व्वपापहरं शुभम् ॥
श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतः ।
गङ्गामरणजं पुण्यं स प्राप्नोति न संशयः ॥
नित्यं गृह्णाति यो धात्रीतुलसीमूलकर्द्दमम् ।
दिने दिने लभेत् पुण्यं सोऽश्वमेधशतोद्भवम् ॥
धात्रीतरुञ्च यो हन्ति सर्व्वदेवगणाश्रयम् ।
स ददाति हरेरङ्गे धातं नास्त्यत्र संशयः ॥
सर्व्वदेवमयी धात्री विशेषात् केशवप्रिया ।
सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते ॥”
इति क्रियायोगसारे २३ अध्यायः ॥
यथा स्कान्दे ।
“न धात्री सफला यत्र न विष्णोस्तुलसीदलम् ।
तं म्लेच्छदेशं जानीयात् यत्र नायान्ति वैष्णवाः ॥”)
इत्येकादशीतत्त्वम् ॥
पृष्ठ २/७९२
अय धात्रीसेचनफलम् ।
“पिता पितामहाश्चान्ये अपुत्त्रा ये च गोत्रिणः ।
वृक्षयोनिं गता ये च ये च कीटत्वमागताः ॥
रौरवे नरके ये च महारौरवसंज्ञके ।
वियोनिञ्च गता ये च ये च ब्रह्माण्डमध्यगाः ॥
पिशाचत्वं गता ये च ये च प्रेतत्वमागताः ॥
ते पिबन्तु मया दत्तं धात्रीमूले सदा पयः ॥
ते सर्व्वे तृप्तिमायान्तु धात्रीमूलनिषेचनात् ॥
इति धात्रीं चाभिषिच्य वारानष्टोत्तरं शतम् ।
ताञ्च प्रदक्षिणीकृत्य कुर्य्याज्जागरणं व्रती ॥
जागरणन्तु प्रक्रान्तव्रतविषयम् ।” इति श्रीहरि-
भक्तिविलासे १३ विलासः ॥

धात्रीपत्रं, क्ली, (धात्रीपत्रमिव पत्रमस्य ।) तालीश-

पत्रम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“तालीशं मुत्तम्पत्राढ्यं धात्रीपत्रञ्च तत् स्मृतम् ॥”
धात्र्याः पत्रम् ।) आमलकीदलञ्च ॥

धात्रीपुत्त्रः, पुं, (धात्र्या उपमातुः पुत्त्रः ।) नटः ।

इति हेमचन्द्रः । २ । २४२ । उपमातृसुतश्च ॥

धात्रीफलं, क्ली, (धात्र्या आमलक्याः फलम् ।)

आमलकी । इति जटाधरः ॥ (विवरणमाम-
लकीशब्देऽस्य ज्ञातव्यम् ॥)

धात्रेयिका, स्त्री, (धात्रेयी + स्वार्थे कन् टाप् ।

पूर्ब्बह्रस्वश्च ।) धात्री । धाइ इति भाषा ।
यथा, तिथितत्त्वे चतुर्थीप्रकरणे ।
“पठेद्धात्रेयिकावाक्यं प्राङ्ग्युखो वाप्युदङ्मुखः ॥”

धात्रेयी, स्त्री, धात्रीशब्दात् ष्णेये (ढक्) ईप् (ङीप्)-

प्रत्ययेन निष्पन्ना ॥ धात्रेयिका । (यथा, देवी-
भागवते । २ । ६ । ३२ ।
“करे धृत्वाथ धात्रेयी तामुवाच सुलज्जिताम् ।
कां चिन्तां करभोरु ! त्वमाधत्सेऽद्य स्थितास्म्य-
हम् ॥”)

धानकं, क्ली, (धन्याकं पृषोदरादित्वात् साधुः ।)

धन्याकम् । इति राजनिर्घण्टः ॥ (अस्य विषयो
यथा वाभटे चिकित्सास्थाने नवमेऽध्याये ।
“श्लेष्मातिसारवातोक्तं विशेषादामपाचनम् ।
कर्त्तव्यमनुबन्धस्य पिबेत् पक्त्वाग्निदीपनम् ॥
विल्वककटिकामुस्तप्राणदा विश्वभेषजम् ।
वचाविडङ्गभूतीकधानकामरदारु वा ॥”)

धाना, स्त्री, (धीयते इति । धा + “धापवस्य-

ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः टाप्
च ।) भृष्टयवः । धान्यकम् । (पर्य्याया यथा,
“धान्यकं धानकं धान्यं धाना धानेयकन्तथा ।
कुनटी धेनुकाच्छत्रा कुस्तुम्बुरु वितुन्नकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अनिभवः । अङ्कुरः । भिन्नः । चूर्णसक्तवः ।
इति मेदिनीहेमचन्द्रौ ॥

धानाः, स्त्री, (धीयन्ते इति । या + “धापवस्य-

ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः
टाप् च ।) भृष्टयवः । बहुवचनान्तोऽयं
शब्दः । इत्यमरः । २ । ९ । ४७ ॥ (यथा,
ऋग्वेदे । ३ । ३५ । ३ ।
“ग्रसेतामश्वा वि मुचेह शोणा दिवे दिवेस दृशी-
रद्धि धानाः ॥”
“त्वन्तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे
दिवे प्रतिदिवसमद्वि भक्षय ।” इति तद्भाष्ये
मुयिनः ।)
“यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति
स्त्रियाम् ।
धानाः स्युर्दुर्ज्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥
तथा मेदःकफच्छर्द्दिनाशन्यः संप्रकीर्त्तिताः ॥”
इति राजनिर्घण्टः ॥
(“धानासंज्ञास्तु मे भक्ष्याः प्रायस्ते लेखनात्मकाः ।
शुष्कत्वात्तर्षणा चैव विष्टम्बित्वाच्च दुर्ज्जराः ॥
विरूढधानाः शष्कुल्यो मधुक्रोडाः सपिण्डकाः ।
सूपाः पूपुलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥”
“धाना पर्पटपूपाद्यास्तान् बुद्ध्वा निर्द्दिशेत्तथा ॥”
इति चरके सूत्रस्थाने २७ अध्यायः ॥)

धानाकाः, स्त्री, (धाना + स्वार्थे कन् टाप् ।)

धानाः । नित्यबहुवचनान्तोऽयं शब्दः । इति
शब्दरत्नावली ॥

धानाचूर्णं, क्ली, (धानानां चूर्णम् ।) भृष्टयव-

चूर्णम् । सक्तवः । इति हेमचन्द्रः । ३ । ६५ ॥

धानी, स्त्री, (धीयते धार्य्यतेऽत्र । धा + आधारे

ल्युट् । टित्वात्ङीप् ।) आधारः । यथा, मत्स्य-
धानी राजधानी । इत्यादि भरतः ॥ पीलु-
वृक्षः । इति राजनिर्घण्टः ॥

धानुष्कः, त्रि, (धनुः प्रहरणमस्येति । धनुः +

तदस्य इत्यधिकृत्य “प्रहरणम् ।” ४ । ४ । ५७ ।
इति ठक् । यद्बा, धनुषा जीवतीति । “वेत-
नादिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।
“इसुसुक्तान्तात् कः ।” ७ । ३ । ५१ । इति ठस्य
कः ।) धनुर्द्धरः । इत्यमरः । २ । ८ । ६९ ॥
(यथा, महाभारते । ६ । २० । १७ ।
“अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्म्मिणः ।
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ! ॥”)

धानुष्का, स्त्री, (धनुरिव अवयवोऽस्या इति ठक्

टाप् च ।) अपामार्गवृक्षः । इति शब्दचन्द्रिका ।
(अपामार्गशब्देऽस्या विवरणं व्याख्यातम् ॥)

धानुष्यः, पुं, (धनुषि साधुरिति । धनुष् + ष्यञ् ।)

वंशः । इति राजनिर्घण्टः ॥

धानेयं, क्ली, (धाना एव । स्वार्थे ढक् ।) धन्या-

कम् । इति राजनिर्घण्टः ॥

धानेयकं, क्ली, (धानेय + स्वार्थे कन् ।) धन्याकम् ।

इति जटाधरः ॥

धान्धा, स्त्री, पृथ्वीका । इति शब्दचन्द्रिका ॥

एलाइच इति भाषा ॥

धान्यं, क्ली, चतुस्तिलपरिमाणम् । इति शुभङ्करः ।

धन्याकम् । धनीया इति यस्य भाषा । तत्-
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“धन्याकं धान्यकं धान्यं कुस्तुम्बुरुधनीयकम् ।
धन्या कुस्तुम्बुरी चान्या वेषलोग्रा वितुन्नकम् ॥”)
परिपेलम् । (धाने पोषणे साधु इति । धान
+ “तत्र साधुः ।” ४ । ४ । १८ । इति यत् ।
यद्बा, दधातीति । धा + “दधातेर्यन् नुट् च ।”
उणां । ५ । ४८ । इति यन् नुट् च ।) सतुष-
तण्डुलादि । धान इति भाषा ॥ तत्पर्य्यायः ।
भोग्यम् २ भोगार्हम् ३ अन्नम् ४ अद्यम् ५
जीवसाधनम् ६ स्तम्बकरिः ७ ब्रीहिः ८ ।
(यथा, ऋग्वेदे । ६ । १३ । ४ ।
“विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते
वसव्यैः ॥”)
तत्र शूकधान्यगुणः । त्रिदोषशमनत्वम् । तेजो-
वलातिशयवीर्य्यवृद्धिदातृत्वञ्च ॥ * ॥ शमीधान्य-
गुणाः । गुरुत्वम् । हिमत्वम् । विबन्धदातृ-
त्वञ्च ॥ * ॥ तृणधान्यगुणः । वातात्मकत्वम् । शिशि-
रत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ धान्यं त्रिवि-
धम् । हेमन्तोद्भवः शालिः १ ग्रीष्मजः षष्टिकः २
प्रावृट् कालभव आशुः ३ । एतेषां गुणास्तत्तत्
शब्दे द्रष्टव्याः ॥ * ॥ वापितधान्यगुणः । गुरुत्वम् ॥
अवापितधान्यगुणः । वापितधान्यगुणात् किञ्चि-
द्धीनः ॥ * ॥ रोप्यातिरोप्यधान्यगुणाः । लघु-
त्वम् । शीध्रपाकित्वम् । गुणोत्तरत्वम् । अदा-
हित्वम् । दोषहरत्वम् । बल्यत्वम् । मूत्रविव-
र्द्धनत्वञ्च ॥ * ॥ नवं धान्यं अभिष्यन्दि । संवत्-
सरोत्थितं धान्यं लघु । संवत्सरद्वयादूर्द्धं
धान्यं वातप्रकोपणं रूक्षं लघुतरं पुंस्त्वघाति ।
शूकधान्यं शमीधान्यञ्च वत्सरादूर्द्ध्वं प्रश-
स्तम् । शमीधान्यं वर्षादतीतं वातकृत्
रूक्षम् । अभिनवं तत्प्रायेण गुरु । नवा यव-
गोधूममाषतिला हिताः । पुराणा विरसा
रूक्षा न तथार्थकराः ॥ अनार्त्तवं व्याधिहतं
अपर्य्यागतं अभूमिजं नवञ्च धान्यं न गुणवत् ॥
अकालजातं धान्यं विरसं सर्व्वधातुप्रदूषणञ्च ।
इति राजवल्लभः ॥ * ॥ व्रतादौ अन्नत्यागे
वर्जनीयधान्यानि यथा, --
“एकादश्यां विशेषेण ह्यन्नमात्रं परित्यजेत् ।
फलं मूलं जलादीनि किञ्चिद्भक्ष्यं प्रकल्पयेत् ॥
अन्नन्तु धान्यसम्भूतं गिरिजे यदि जायते ।
धान्यानि विविधानीह जगत्यां शृणु यत्नतः ॥
श्याममाषमसूराश्च धान्यकोद्रवसर्षपाः ।
मुष्टको राजमाषाश्च तुमुरो जुमरस्तथा ॥
यवगोधूममुद्गाश्च तिलकङ्गुकुलत्थकाः ।
गवेधुकाश्च नीवारा आतकश्च कलायकाः ॥
माण्डुको वज्रकोरङ्कः कीचको वडकस्तथा ।
तिलकाश्चणकाद्याश्च धान्यानि कथितानि वै ॥
एडकान्यसमुद्भूतमन्नं भवति शोभने ! ।
अन्नत्यागे व्रते भक्ष्यमेतदेव विवर्ज्जयेत् ॥”
इति पाद्मोत्तरखण्डम् ॥ * ॥
अथ धान्यच्छेदनदिनम् । तत्र तिथयः रिक्ता-
तिरिक्ताः । वाराः रविशुक्रसोमबुधबृहस्पती-
नाम् । नक्षत्राणि कृत्तिका भरणी अश्लेषा
पूर्ब्बभाद्रपत् धनिष्ठा पूर्ब्बाषाढा ज्येष्ठा चित्रा
उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत्
एतानि । तत्र चन्द्रः शोभनः । लग्नानि वृष-
सिंहवृश्चिककुम्भमिथुनतुलाकन्याधनुःपूर्ब्बार्द्ध-
पृष्ठ २/७९३
स्वकीयजन्मलग्नमकरसंज्ञकानि ॥ * ॥ अथ धान्य-
स्थापनदिनम् । तत्र नक्षत्राणि । भरण्यश्लेषार्द्रा-
कृत्तिकाविशाखापूर्ब्बफल्गुनीपूर्ब्बाषाढापूर्ब्ब-
भाद्रपज्ज्येष्ठामघाभिन्नानि । तत्र वाराः शुभ-
ग्रहाणाम् । लग्नानि मकरवृषसिंहवृश्चिककुम्भ-
मिथुनकन्याधनुर्मीनसंज्ञकानि ॥ * ॥ अथ धान्या-
दिवृद्धिदानदिनम् । तत्र नक्षत्राणि श्रवणा
धनिष्ठा शतभिषा विशाखा उत्तरफल्गुनी
उत्तराषाढा उत्तरभाद्रपत् रोहिणी रेवती
पुनर्व्वसुः पुष्यः अश्विनी ज्येष्ठा एतानि । वाराः
बुधभिन्नाः । इति ज्योतिषम् ॥

धान्यकं, क्ली, (धान्यमिव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् ।) धान्या-
कम् । इति राजनिर्घण्टः ॥ (यथा, सुशुते
चिकित्सितस्थाने ५ अध्याये । “लङ्घनानन्तरं
चान्नकाले धान्यकजीरकादिदीपनसिद्धान्य-
न्नानि ॥” अस्य गुणा यथा, --
“धान्यकञ्चाजगन्धा च सुमुखाश्चेति रोचनाः ।
सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति तु ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
धान्यमेव स्वार्थे कन् । धान्यम् । पुं, क्षत्त्रियनृपति-
विशेषः । यथा, राजतरङ्गिण्याम् । ८ । १०८५ ।
“राजन्याविच्छिटकुलोद्भूतावुदयधान्यकौ ॥”)

धान्यकोष्ठकं, क्ली, (धान्याय धान्यरक्षणाय यत्

कोष्ठकं गृहम् ।) धान्यरक्षार्थगृहम् । इति
हलायुधः ॥ गोला इति भाषा ॥

धान्यचमसः, पुं, (चम्यते भक्ष्यते इति । चम +

असन् । धान्यं स्विन्नधान्यमेव चमसः ।) चिपि-
टकः । इति त्रिकाण्डशेषः ॥

धान्यधेनुः, स्त्री, (धान्यनिर्म्मिता धेनुः ।) दानार्थ-

धान्यनिर्म्मितधेनुः । यथा, --
“विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः ।
तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम् ॥
यां दत्त्वा सर्व्वपापेभ्यः शशाङ्क इव राहुतः ॥
दशधेनुप्रदानेन यत् फलं राजसत्तम ! ।
तत् सर्व्वमेवमाप्नोति व्रीहिधेनुप्रदो नरः ॥
कृष्णाजिनं ततः कृत्वा प्राग्वद्वत् संन्यसेद्बुधः ।
गोमयेनानुलिप्तायां शोभनां वस्त्रसंयुताम् ॥
पूजयेद्वेदिमध्ये तु वेदनिर्घोषमङ्गलैः ॥
उत्तमा धान्यधेनुः स्याद्द्रोणश्चापि चतुष्टयैः ।
मध्यमा च तदर्द्धेन वित्तशाठ्यं न कारयेत् ॥
चतुर्थांशेन धेन्वा वै वत्सन्तु परिकल्पयेत् ।
कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता ॥
गोरुधः पूर्ब्बवद्घ्राणमगुरुञ्चन्दनन्तथा ।
मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम् ॥
प्रशस्तपत्रश्रवणा कांस्यदोहनकान्विता ।
इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता ॥
नानाफलसमोपेता रत्नगर्भसमन्विता ।
पादुकोपानहौ छत्रे भाजनं तर्पणं तथा ॥
इत्येवं रचयित्वा तां कृत्वा दीपार्च्चनादिकम् ।
पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही ।
त्रिः प्रदक्षिणमावृत्य मन्त्रेणानेन कीर्त्तयेत् ॥
तव विप्र ! महाभाग ! वेदवेदाङ्गपारग ! ।
यामेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम ! ।
प्रीयतां मम देवेशो भगवान्मधुसूदनः ॥
त्वमेका लक्ष्मीर्गोविन्दे स्वाहा या च विभावसौ ।
शक्रे शचीति विख्याता मेधा मुनिषु सत्तम ! ॥
तस्मात् सर्व्वमयी देवी धान्यरूपेण संस्थिता ।
एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥
दत्त्वा प्रदक्षिणं कृत्वा तं समाप्य द्विजोत्तमम् ।
यावच्च पृथिवी सर्व्वा वसुरत्नानि भूपते ! ।
तावत् पुण्यं समाधिक्यं व्रीहिधेनोश्च तत् फलम् ॥
तस्मान्नरेन्द्र ! दातव्या भुक्तिमुक्तिफलप्रदा ।
इह लोके च सौभाग्यमायुरारोग्यवर्द्धनम् ॥
विमानेनार्कवर्णेन किङ्किणीरत्नमालिना ।
स्तूयमानोऽप्सरोभिश्च प्रयाति शिवमन्दिरम् ॥
यावच्च स्मरते जन्म तावत् स्वर्गे महीयते ।
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥
एवं हरेण चोद्गीर्णं श्रुत्वा वाक्यं नरोत्तम ।
सर्व्वपापविशुद्धात्मा रुद्रलोके महीयते ॥”
इति वराहपुराणम् ॥

धान्यबीजं, क्ली, (धान्यस्य बीजमिव बीजं यस्य ।)

धन्याकम् । इति राजनिर्घण्टः ॥

धान्यमायः, पुं, (धान्यं मातीति । मा + “ह्वा-

वामश्च ।” ३ । २ । २ । इति अण् ।) धान्य-
विक्रयी । इति संक्षिप्तसारव्याकरणम् ॥

धान्यराजः, पुं, (धान्यानां राजा । टच् समासे ।

यद्वा, धान्येषु राजते इति । राज दीप्तौ +
अच् ।) यवः । इति राजनिर्घण्टः ॥ (गुणादयो-
ऽस्य यवशब्दे ज्ञातव्याः ॥)

धान्यवर्द्धनं, क्ली, (धान्यस्य वद्धनं वृद्धिर्यस्मात् ।)

वार्द्धुष्यम् । इति त्रिकाण्डशेषः ॥ धानेर वाडी
इति भाषा ॥

धान्यवीरः, पुं, (धान्येषु वीर इव बलाधायक-

त्वात् ।) माषः । इति राजनिर्घण्टः ॥

धान्यशीर्षकं, क्ली, (धान्यस्य शीर्षकं अग्रभागः ।)

धान्यमञ्जरी । इति जटाधरः ॥ धानेर शीष
इति भाषा ॥

धान्याकं, क्ली, (धान्यमकति सादृश्यत्वेन प्राप्नो-

तीति । अक गतौ + अण् ।) धन्याकम् ।
इति हेमचन्द्रः । ३ । ८३ ॥

धान्याचलः, पुं, (धान्यनिर्म्मितोऽचलः पर्व्वतः ।)

दानार्थधान्यनिर्म्मितपर्व्वतः । तस्य विधानं
यथा, --
“प्रथमो धान्यशैलः स्याद्द्वितीयो लवणाचलः ।
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्व्वतः ॥
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्व्वतः ।
सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ॥
राजतो नवमस्तद्बद्दशमः शर्कराचलः ।
वक्ष्ये विधानमेतेषां यथावदनुपूर्ब्बशः ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ॥
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः ।
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः ॥
धान्यशैलादयो येऽपि देयाः शास्त्रं विजानता ।
तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गने ॥
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ।
प्रागुदक्प्लवनं तद्बत् प्राङ्मुखञ्च विधानतः ॥
गोमयेनानुलिप्तायां भूमावास्तीर्य्य वै कुशान् ।
तन्मध्ये पर्व्वतं कुर्य्याद्विष्कम्भपर्व्वतान्वितम् ॥
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ॥
मेरुर्महाव्रीहिमयस्तु मध्ये
सुवर्णवृक्षत्रयसंयुतः स्यात् ।
पूर्ब्बेण मुक्ताफलवज्रयुक्तो
याम्ये च गोमेदकपुष्परागैः ॥
पश्चाच्च गारुत्मतनीलरत्नैः
सौम्येन वैदूर्य्यसरोजरागैः ।
श्रीखण्डखण्डैरभितः प्रवाल-
लतान्वितः शुक्तिशिलातलः स्यात् ॥
ब्रह्माथ विष्णुर्भगवान् पुरारि-
र्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।
मूर्द्धव्यवस्थागतमत्सरेण
कार्य्यास्त्वनेके च पुनर्द्विजौघाः ॥
चत्वारि शृङ्गाणि च राजतानि
नितम्बभागेष्वपि राजतः स्यात् ।
तथेक्षुवंशावृतकन्दरस्तु
घृतोदकप्रस्रवणश्च दिक्षु ॥
शुक्लाम्बराण्यम्बुधरावली स्यात्
पूर्ब्बेण नीलानि च दक्षिणेन ।
वासांसि पश्चादथ कर्वुराणि
रक्तानि चैवोत्तरतो घनाली ॥
रौप्यान्महेन्द्रप्रमुखानथाष्टौ
संस्थाप्य लोकाधिपतीन् क्रमेण ।
नानाफलाली च समन्ततः स्या
न्मनोरमं माल्यविलेपनञ्च ॥
वितानकञ्चोपरि पञ्चवर्ण-
मम्लानपुष्पाभरणं सितञ्च ।
इत्थं निवेश्यामरशैलमग्र्यं
मेरोस्तु विष्कम्भगिरीन् क्रमेण ॥
तुरीयभागेन चतुर्द्दिशञ्च
संस्थापयेत् पुष्पविलेपनाढ्यान् ॥
पूर्ब्बेण मन्दरमनेकफलावलीभि-
र्युक्तं यवैः कनकभद्रकदम्बचिह्नैः ।
कामेन काञ्चनमयेन विराजमान-
माकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ॥
क्षीरारुणोदसरसाथ वनेन चैव
रौप्येण शक्तिघटितेन विराजमानम् ।
याम्येन गन्धमदनश्च निवेशनीयो
गोधूमसञ्चयमयः कलधौतजो वा ॥
हैमेन यक्षपतिनाहृतमासनेन
वस्त्रैश्च राजतवनेन च संयुतः स्यात् ॥
पश्चात्तिलाचलमनेकसुगन्धिपुष्पं
सौवर्णपिप्पलहिरण्मयहंसयुक्तम् ।
आकारयेद्रजतपुष्पवनेन तद्व-
द्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ॥
पृष्ठ २/७९४
संस्थाप्य तं विपुलशैलमथोत्तरेण
शैलं सुपार्श्वमपि माषमयं सुवस्त्रम्
पुष्पैश्च हेमवटपादपशेखरन्त-
माकारयेत् कनकधेनुविराजमानम् ॥
माक्षीकभद्रसरसा च वनेन तद्व-
द्रौप्येण भास्वरवता च युतं विधाय ।
होमश्चतुर्भिरथ वेदपुराणविद्भि-
र्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ॥
पूर्ब्बेण हस्तमितमत्र विधाय कुण्डं
कार्य्यस्तिलैर्यवघृतेन समित्कुशैश्च ।
रात्रौ च जागरमनुद्धतगीततूर्य्यै-
रावाहनञ्च कथयामि शिलोच्चयानाम् ॥
त्वं सर्व्वदेवगणघामनिधे ! विरुद्ध-
मस्मद्गृहेष्वमरपर्व्वत नाशयाशु ।
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः
संपूजितः परमभक्तिमता मया हि ॥
त्वमेव भगवानीशो ब्रह्मा विष्णुर्द्दिवाकरः ।
मूर्त्तामूर्त्तजगद्बीज ! त्वं नः पाहि सनातनः ॥
यस्मात्त्वं लोकपालानां विश्वमूर्त्तेश्च मन्दिरम् ।
रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छ मे ॥
यस्मादशून्य ममरैर्नारीभिश्च शिवस्तव ।
तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥
एवमभ्यर्च्य तं मेरुं मन्दरञ्चाभिपूजयेत् ।
यस्माच्चैत्ररथेन त्वं भद्राश्वेन विशेषतः ॥
शोभसे मन्दर ! क्षिप्रमतस्तुष्टिकरो भव ॥
यस्माच्चूडामणिर्जम्बुद्वीपे त्वं गन्धमादन ! ।
गन्धर्व्ववनशोभादानतः कीर्त्तिर्दृढास्तु मे ॥
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन वा ।
हिरण्मयाश्वत्थशिरस्तस्मात् पुष्टिर्ध्रुवास्तु मे ॥
उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ।
सुपार्श्व ! राजसे नित्यमतः श्रीरक्षयास्तु मे ॥
एवमामन्त्र्य तान् सर्व्वान् प्रभाते विमले पुनः ।
स्नात्वाथ गुरवे दद्यान्मध्यमं पर्व्वतोत्तमम् ॥
विष्कम्भपर्व्वतान् दद्यादृत्विग्भ्यः क्रमशो मुने ! ॥
गाश्च दद्याच्चतुर्विंशदथवा दश नारद ! ।
शक्तितः सप्त वाष्टौ वा पञ्च दद्यादशक्तिमान् ॥
एकापि गुरवे देया कपिलाथ पयस्विनी ।
पर्व्वतानामशेषाणामेष एव विधिः स्मृतः ॥
त एव पूजने मन्त्रास्त एवोपस्करा मताः ।
ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्व्वदा ॥
स्वमन्त्रेणैव सर्व्वेषु होमः शैलेषु पठ्यते ॥
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ।
विधानं सर्व्वशैलानां क्रमशः शृणु नारद ! ॥
दानकाले च ये मन्त्राः पर्व्वतेषु च यत्फलम् ।
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्त्तिताः ॥
अन्नाद्भवन्ति भूतानि जगदन्नन वर्त्तते ।
अन्नमेव ततो लक्ष्मीरन्नमेव जनार्द्दनः ॥
धान्यपर्व्वतरूपेण पाहि तस्मान्नगोत्तम ! ।
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ॥
मन्वन्तरशतं साग्रं देवलोके महीयते ।
अमरोगणगन्धर्व्वैराकीर्णेन विराजता ॥
विमानेन दिवः पृष्ठमायाति सुरसेवितः ।
ततः कर्म्मक्षये राज्यमाप्नोतीह न संशयः ॥”
इति मत्स्यपुराणम् ॥

धान्याम्लं, क्ली, (धान्यात् धान्यविकारात् जातं

अम्लम् ।) काञ्जिकम् । इत्यमरः । २ । ९ । ३९ ॥
“धान्याम्लं शालिचूर्णानां कोद्रवादिकृतं भवेत् ।
धान्याम्लं धान्ययोनित्वात् प्रीणनं लघु दीपनम् ॥
अरुचौ वातरोगेषु सर्व्वेष्वास्थापने हितम् ॥”
इति भावप्रकाशः ॥
(“धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्श-
शीतलम् ।
भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ।
शस्तमास्थापने हृद्यं लघुवातकफापहम् ॥”
इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये ॥)

धान्यारिः, पुं, (धान्यस्य अरिः ।) मूषिकः । इति

राजनिर्घण्टः ॥ त्रि, धान्यस्य शत्रुश्च ॥

धान्योत्तमः, पुं, (धान्येषु उत्तमः ।) शालिधान्यम् ।

इति राजनिर्घण्टः ॥

धाम, [न्] क्ली, (दधाति गृहस्थादिकं धीयते

द्रव्यजातमस्मिन्निति वा । धा + “सर्व्वभातुभ्यो
मनिन् ।” उणां ४ । १४४ । इति मनिन् ।)
गृहम् । (यथा, मेघदूते । ३५ ।
“भर्त्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ॥”)
देहः । त्विट् । प्रभावः । इत्यमरः । ३ । ३ ।
१२३ ॥ (यथा, किराते । २ । ४७ ।
“सहते न जनोऽप्यधःक्रियां
किमु लोकाधिकधाम राजकम् ॥”)
रश्मिः । (यथा, माघे । १ । २ ।
“पतत्यधो धाम विसारि सर्व्वतः
किमेतदित्याकुलमीक्षितं जनैः ॥”)
स्थानम् । (यथा, पञ्चदश्याम् । ७ । २१४ ।
“त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदा-
शिवः ॥”)
जन्म । इति मेदिनी । ने, ८० ॥ (विष्णुः ।
यथा, महाभारते । १३ । १४९ । ३६ ।
“गुरुर्गुरुतरो धाम सत्यः सत्यपराक्रमः ॥”
“धाम ज्योतिः नारायणः परं ज्योतिरिति मन्त्र-
वर्णात् । सर्व्वलोकानामास्पदत्वात् वा धाम । परं
ब्रह्म परं धाम इति श्रुतेः ॥” इति तद्भाष्यम् ॥

धामकः, पुं, माषकपरिमाणम् । इति वैद्यकपरि-

भाषा ॥

धामनिधिः, पुं, (धामानि किरणानि निधीयन्ते

ऽत्र । नि + धा + किः ।) सूर्य्यः । इति जटाधरः ॥

धामनी, स्त्री, (धमन्येव । धमनी + स्वार्थे अण् ।

ततो ङीष् ।) धमनी । इति शब्दचन्द्रिका ॥

धामार्गवः पुं, (धाम्नो मार्गं पन्थानं वातीति । वा

गतौ + कः ।) अपामार्गः । इत्यमरः । २ । ४ । ८८ ॥
(रक्तापामार्गोऽयम् । अस्य पर्य्यायो यथा, --
“रक्तोऽन्यो वसिरो वृत्तफलो धामार्गवोऽपि च ।
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
घोषकः । इति मेदिनी । वे, ५९ ॥ (अस्य
पर्य्यायो यथा, --
“महाकोषातकी प्रोक्ता हस्तिघोषा महाफला ।
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पीतघोषा । इति रत्नमाला ॥

धायः, त्रि, (दधाति धारयतीति । धा + “श्याद्ब्य-

धेति ।” ३ । १ । १४१ । इति णः ।) धारण-
कर्त्ता । इति मुग्धबोधव्याकरणम् ॥ (यथा,
भट्टिः । ६ । ७९ ।
“ददै र्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् ॥”)

धायाः, [स्] त्रि, (दधातीति । धा + “वहि-

हाधाञ्भ्यश्छन्दसि ।” उणां ४ । २२० । इत्य-
सुन् बाहुलकात् युक् ।) धारणकर्त्ता । पोषण-
कर्त्ता । यथा, वाजसनेयसंहितायाम् । १३ । १८ ।
“भूरसि भूमिरस्यदितिरसि विश्वस्य धायाः ॥”

धाय्यः, पुं, (धीयते आश्रियते मङ्गलार्थमिति ।

धा + कर्म्मणि ण्यत् ततो युक् ।) पुरोहितः
इति मुग्धबोधव्याकरणम् ॥

धाय्या, स्त्री, (धीयतेऽनया समित् । धा + करणे

ण्यत् ।) अग्निसमिन्धनार्थं ऋक् । अग्निप्रज्वा-
लनमन्त्रः । इत्यमरः । २ । ७ । २२ ॥

धारं, क्ली, (धाराया इदम् । धारा + “तस्येदम् ।”

४ । ३ । १२० । इत्यण् ।) वर्षोद्भवं जलम् ।
तद्द्विविधम् । गाङ्गम् १ सामुद्रञ्च २ । यथा, --
“यदा स्यादाश्विने मासि सूर्य्यः स्वातीविशाखयोः ।
तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥
अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः ।
अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम् ॥”
तयोर्गुणाः । यथा, --
“गाङ्गं जलं स्वादु सुशीतलञ्च
रुचिप्रदं पित्तकफापहञ्च ।
निर्दोषमिष्टं लघु तच्च नित्यं
गुणाधिकं व्योम्नि गृहीतमाहुः ॥
सामुद्रसलिलं शीतं कफवातकरं गुरु ।
चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥
पतितं भुवि तत्तोयं गाङ्गं सामुद्रमेव वा ।
स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम् ॥
इति राजनिर्घण्टः ॥

धारः, पुं, (धार्य्यते इति । धृ + णिच् + घञ् ।)

ग्रावान्तरम् । ऋणम् । इति मेदिनी । रे, ५१ ॥
जलधरासारवर्षणम् । इति हेमचन्द्रः ॥ प्रान्तः ।
गम्भीरः । इति शब्दरत्नावली ॥

धारकः, पुं, (धरति जलादिकमिति । धृ + ण्वुल् ।)

कलसः । तस्योत्पत्त्यादि यथा, --
ब्रह्मोवाच ।
“उत्पत्तिं लक्षणं मानं कथयामि महामुने ! ।
धारकाः कलसाश्चैव येन लोके प्रकीर्त्तिताः ॥
अमृते मथ्यमाने तु सर्व्वदेवैः सदानवैः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥
उत्पन्नममृतं तत्र महावीर्य्यपराक्रमम् ।
तस्यायं धारणार्थाय कलसः परिकीर्त्त्रितः ॥
पृष्ठ २/७९५
कलां कलां गृहीत्वा वै देवानां विश्वकर्म्मणा ।
निर्म्मितोऽयं सुरैर्यस्मात् कलसस्तेन उच्यते ॥
कलसस्य मुखे ब्रह्मा ग्रीवायान्तु महेश्वरः ।
मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः ॥
शेषास्तु देवताः सर्व्वा वेष्टयन्ति चतुर्द्दिशम् ।
कुक्षौ तु सागराः सप्त सप्त द्बीपास्तु संश्रिताः ॥
नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः ।
हिमवान् हेमकूटश्च निषधो मेरुरेव च ॥
रोहितो माल्यवन्तश्च सूर्य्यकान्तिश्च पर्व्वताः ।
गङ्गा सरस्वती सिन्धुः सुभगा यमुना नदी ॥
ऐरावती शतह्रदा तथा वैतरणी नदी ।
गोदावरी नर्म्मदा च मही नाम महानदी ॥
कुरुक्षेत्रं प्रयागश्च एकहंसं पृथूदकम् ।
अमरेश्वरः पुण्डरीकं गङ्गासागर एव च ॥
पृथिव्यां यानि तीर्थानि कलसे निवसन्ति ते ।
ग्रहाः शान्तिश्च पुष्टिश्च प्रीतिर्गायत्त्रिरेव च ॥
ऋग्वेदोऽथ यजुर्व्वेदः सामवेदस्तथैव च ।
अथर्व्ववेदसहिताः सर्व्वे कलससंस्थिताः ॥
नवैव कलसाः पुण्याः शम्भुमूर्त्तिसमुद्भवाः ।
गोभ्योपगोभ्यो मरुतः स्वस्वदश्च तथा परः ॥
मनोहरः खलुर्भद्रः पञ्चमः परिकीर्त्तितः ।
विरजस्तनुदूषश्च षष्ठसप्तमकावुभौ ॥
अष्टमस्त्विन्द्रियोपेतो नवमो विजयः स्मृतः ।
नवैव कलसाः ख्याता अधिदेवं निबोधत ॥
शृणु वत्स ! यथा तेषां दिशां न्यासो व्यवस्थितः ।
नवमो यः समाख्यातो विजयो नाम नामतः ॥
शिवस्तत्र स्थितः साक्षात् सर्व्वपापहरः शुभः ।
क्षितीन्द्रो ज्येष्ठकलसो द्बितीयो जलसम्भवः ॥
तृतीयः पवनश्चैव चतुर्थस्तु हुताशनः ।
पञ्चमो यजमानस्तु षष्ठस्त्वाकाशसम्भवः ॥
सोमस्तु सप्तमः प्रोक्त आदित्यश्च तथाष्टमः ।
एते चोत्पादिता देव्या शिवेनाधिष्ठिताः पुरा ॥
इन्द्रस्य मूर्त्तयश्चाष्टौ सूर्य्यान्ता नवमः शिवः ।
क्षितीन्द्रः पूर्ब्बतो न्यास्यः पश्चिमे जलसम्भवः ॥
वायव्ये वायवो न्यास्य आग्नेये अग्निसम्भवः ।
नैरृते यजमानस्तु ऐशान्याकाशसम्भवः ॥
सौम्यमुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् ।
न्यस्यैवं कलसानान्तु पूर्ब्बरूपं विचिन्तयेत् ॥
कलसानां मुखे ब्रह्मा ग्रीवायां विष्णुरेव हि ।
मध्ये मातृगणाः सर्व्वे सेन्द्रा देवाश्च पन्नगाः ॥
कुक्षौ तु सागरास्तेषां सप्तद्बीपा च मेदिनी ।
श्रिया चैव तथोमा च गन्धर्व्वा ऋषयस्तथा ॥
पञ्चभूतास्तथा धारास्तेषामवकृताः स्थिताः ।
पूर्णाः पूतेन तोयेन सिद्धास्त्वेकान्ततो मुने ! ॥
सरित्सरःसखातेन तडागेन जलेन वा ।
वापीकूपोढदिव्येन सामुद्रेण सुखावहाः ॥
सर्व्वमङ्गलमाङ्गल्याः सर्व्वकिल्विषनाशकाः ।
अभिषेके सदा ग्राह्याः कलसा ईदृशाः शुभाः ॥
यात्राविवाहकाले वा प्रतिष्ठायज्ञकर्म्मणि ।
योजनीया विशेषेण सर्व्वकामप्रसाधकाः ॥
ग्रहान् धारयते यस्मान्मातरा विविधास्तथा ।
दुरितांश्च महाधोरांस्तेन ते धारकाः स्मृताः ॥
एकैकान्तु कलां मूर्त्तौ क्षित्यादीनां यथाक्रमम् ।
संहृत्य संस्थिता यस्मात्तेन ते कलसाः स्मृताः ॥
हैमराजतताम्रा वा मृण्मया लक्षणान्विताः ।
पञ्चमाङ्गुलवैपुल्यमुत्सेधः षोडशाङ्गुलः ॥
कलसानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् ॥”
इति देवीपुराणम् ॥
धारणकर्त्तरि, त्रि ॥ (यथा, पञ्चतन्त्रे । २ । १७५ ।
“अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥”)

धारणं, क्ली, (धृ + णिच् + भावे ल्युट् ।) विधा-

रणम् । इति मेदिनी । णे, ५६ ॥ धरण इति
भाषा ॥ (यथा, सुश्रुते । १ । ४६ ।
“तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ॥”
पुं, कश्यपपुत्त्रो नागविशेषः । यथा, महा-
भारते । ५ । १०३ । १६ ।
“विरजा धारणश्चैव सुबाहुर्मुखरो जयः ॥”
धारयतीति । धृ + णिच् + ल्युः । धारके, त्रि ।
यथा, महाभारते । १२ । ३३५ । ५४ ।
“जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः ।
धारणाः सर्व्वलोकानां सर्व्वधर्म्मप्रवर्त्तकाः ॥”)

धारणा, स्त्री, (धार्य्यते या सा । धृ + णिच् +

युच् । टाप् ।) बुद्धिः । इति राजनिर्घण्टः ॥
(यथा, याज्ञवल्क्ये । ३ । ७३ ।
“इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः ।
धारणा प्रेरणं दुःखमिच्छाहङ्कार एव च ॥”)
न्याय्यपथस्थितिः । तत्पर्य्यायः । संस्था २
मर्य्यादा ३ स्थितिः ४ । इत्यमरः । २ । ८ । २६ ॥
(यथा, मनुः । ४ । ३८ ।
“न लङ्घ्ययेत् वत्सतन्त्रीं न प्रधावेच्च वर्षति ।
न चोदके निरीक्षेत स्वं रूपमिति धारणा ॥”)
योगाङ्गविशेषः । इति मेदिनी । णे, ५६ ॥
“स तु अद्बितीयवस्तुन्यन्तरेन्द्रियधारणम् ।” इति
वेदान्तसारः ॥ ध्येये चित्तस्य स्थिरबन्धनम् ।
इति हेमचन्द्रः ॥
“तस्मात् समस्तशक्तीनामाधारे तत्र चेतसः ।
कुर्व्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥”
इति विष्णुपुराणे । ६ । ७ । ७४ ॥
ब्रह्मणि मनोधारणम् । यथा, --
“ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः ।
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥”
इति गारुडे ४९ अध्यायः ॥
अष्टादशप्राणायामादिरूपधारणा यथा, --
“प्राणायामा दशाष्टौ च धारणा साभिधीयते ।
द्वे धारणे स्मृतो योगो मुनिभिस्तत्त्वदर्शिभिः ॥
प्राङ्नाभ्यां हृदये चात्र तृतीया च तथोरसि ।
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमुर्द्धसु ।
किञ्चित्तस्मात् परस्मिंश्च धारणाः परमाः
स्मृताः ।
दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥”
इति गारुडे २३० अध्यायः ॥
अपि च ।
“प्राणायामैर्द्वादशभिर्यावत्कालो हृतो भवेत् ।
यस्तावत्कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् ।
तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादशधारणाः ॥
द्बादशध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः ।
तुष्टे तु स यतो मुक्तः समाधिः सोऽभिधीयते ॥
ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम् ।
प्राप्यावधि कृतं कालं यावत् सा धारणा स्मृता ॥”
इति च गारुडे २४० अध्यायः ॥

धारणी, स्त्री, (धार्य्यते शरीरमनया । धृ + णिच् +

ल्युट् । स्त्रियां ङीप् ।) नाडिका । बुद्धोक्त-
मन्त्रभेदः । इति मेदिनी । णे, ५५ ॥ श्रेणी ।
इति हेमचन्द्रः ॥

धारणीया, स्त्री, (धार्य्यतेऽसाविति । धृ + णिच् +

अनीयर् ।) धरणीकन्दः । इति राजनिर्घण्टः ॥
धार्य्ये, त्रि ॥

धारयित्री, स्त्री, (धारयति सर्व्वमिति । धृ +

णिच् + तृच् । स्त्रियां ङीप् ।) पृथिवी । इति
शब्दरत्नावली ॥ (धारके, त्रि । यथा, महा-
भारते । ५ । ९५ । ८ ।
“त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम ! ॥”)

धारा, स्त्री, (धार्य्यन्ते अश्वा यया । धृ + णिच् +

अङ् । स्त्रियां टाप् ।) अश्वानां पञ्चधागतिः ।
तद्यथा । आस्कन्दितम् १ धौरितकम् २ रेचि-
तम् ३ वल्गितम् ४ प्लुतम् ५ । इत्यमरः । २ । ८ ।
४९ ॥ (यथा, माघे । ५ । ६० ।
“अव्याकुलं प्रकृतमुत्तरधेयकर्म्म
धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयाम्बभूव ॥”
“अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गति-
भेदाः ।
‘अश्वानान्तु गतिर्धारा विभिन्ना सा च पञ्चधा ।
आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् ॥’
इति वैजयन्ती ॥
‘गतयोऽमूः पञ्च धाराः ।’ इत्यमरश्च ॥ अश्व-
शास्त्रे तु संज्ञान्तरेणोक्ताः ।
‘गतिः पुला चतुष्का च तद्वन्मध्यजघा परा ।
पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्त्तिताः ॥
एकैका त्रिविधा धारा हयशिक्षाविधौ मता ।
लध्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत्
क्रमात् ॥’
तथा च पश्चदशावभेदा भवन्ति । ताः पञ्च
धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु
सञ्चारस्थानेषु गमयाम्बभूव ॥” इति तट्टी-
कायां मल्लिनाथः ॥) सैन्याग्रिमस्कन्धः । घटादि-
च्छिद्रम् । सन्ततिः । (यथा, महाभारते ।
६ । ११८ । २४ ।
“उत्पपात ततो धारा वारिणो विमला
शुभा ॥”)
द्रवस्य प्रपातः । (यथा, महाभारते । १ । २२४ । ५९ ।
“त्वया द्बादश वर्षाणि वसोर्द्धाराहुतं हविः ।
उपयुक्तं महाभाग ! तेन त्वां ग्लानिराविशत् ॥”)
खड्गादेर्न्निशितमुखम् । इति मेदिनी । रे, ५० ॥
पृष्ठ २/७९६
(यथा, शाकुन्तले १ अङ्के ।
“ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति ॥”)
उत्कर्षः । रथचक्रम् । इति हेमचन्द्रः । ३ । ४१९ ॥
(यथा, रधुः । १३ । १५ ।
“आभाति वेला लवणाम्बुराशे-
र्धारानिबद्धेव कलङ्करेखा ॥”)
यशः । अतिवृष्टिः । (यथा, पञ्चतन्त्रे । २ । ६२ ।
“पर्ज्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकतारेणवो यद्बत् संख्यया परिवर्ज्जिताः ।
गुणाः संख्यापरित्यक्तास्तद्वदस्य महात्मनः ॥”)
समूहः । इति शब्दरत्नावली ॥ घनासारवर्ष-
णम् । सदृशः । इति विश्वः ॥ (प्रवाहः । यथा,
याज्ञवल्क्ये । १ । २८० ।
“सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥”)
दक्षिणदेशस्थपुरीविशेषः । इति विक्रमचरि-
तम् ॥ * ॥ (तीर्थविशेषः । यथा, महा-
भारते । ३ । ८४ । २३ ।
“प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ! ।
धारां नाम महाप्राज्ञ ! सर्व्वपापप्रमोचनीम् ।
तत्र स्नात्वा नरव्याघ्र ! न शोचति नराधिप ! ॥”)
अथ ज्वरादिशान्त्यर्थं श्रीनरसिंहादिमूर्द्ध्नि जल-
धारापातनविधिः । यथा, नृसिंहपुराणे ।
“तथा महाज्वरग्रस्ते धारां देवस्य मूर्द्धनि ।
सन्ततां नारसिंहस्य कुर्य्याद्बा कारयेत् द्बिजैः ॥
होमञ्च भोजनञ्चैव तस्य दोषः प्रशाम्यति ॥”

धाराकदम्बः, पुं, (धारा कालोपलक्षितः कदम्बः ।

वर्षाकाले जायमानत्वादस्य तथात्वम् ।) कदम्ब-
वृक्षप्रभेदः । केलिकदम् इति भाषा ॥ तत्-
पर्य्यायः । प्रावृष्यः २ पुलकी ३ भृङ्गवल्लभः ४
मेधाभः ५ प्रियकः ६ नीपः ७ प्रावृषेण्यः ८
कलम्बकः ९ । इति राजनिर्घण्टः ॥ धाराकद-
म्बकः १० । इति त्रिकाण्डशेषः ॥

धाराङ्कुरः, पुं, (धाराया वृष्टेः अङ्कुर इव ।)

शीकरः । घनोपलः । नाशीरः । इति मेदिनी ।
रे, २६९ ॥

धाराङ्गः, पुं, (धारा उत्कर्ष एव अङ्गं यस्य ।

श्रेष्ठत्वादस्य तथात्वम् ।) तीर्थम् । (धारा-
न्वितमङ्गमस्य ।) खड्गः । इति हेमचन्द्रः ॥

धाराटः, पुं, (धारायै वृष्ट्यर्थं अटतीति । अट +

अच् ।) चातकः । (धारामटति वर्षणीयत्वेन
प्राप्नोतीति ।) मेघः । (धारां गतिं अटतीति ।)
तुरङ्गः । मत्तहस्ती । इति शब्दरत्नावली ॥

धाराधरः, पुं, (धरतीति । धृ + अच् । धाराया

धरः ।) मेधः । (यथा, उत्तरचातकाष्टके । ४ ।
“रे धाराधर ! धीरनीरनिकरैरेषा रसा नीरसा
शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया ।
एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्
आश्चर्य्यं परिपीडितोऽभिरमते यच्चातक-
स्तृष्णया ॥”
खडगः । इति मेदिनी । रे, २६९ ॥

धाराफलः, पुं, (धारा फले यस्य ।) मदनवृक्षः ।

इति राजनिर्घण्टः ॥ (मदनशब्देऽस्य गुण-
पर्य्याया ज्ञातव्याः ॥)

धारावनिः, पुं, (धाराया वृष्टेः अवनिः पृथ्वीव ।

अभिधानात् पुंस्त्वम् ।) वायुः । इति त्रिकाण्डशेषः ॥

धाराविषः, पुं, (धारा एव विषमिव यस्य प्राण-

नाशकत्वात् ।) खड्गः । इति त्रिकाण्डशेषः ॥

धारासम्पातः, पुं, (धाराणां सम् सम्यक् पातो यत्र ।)

महावृष्टिः । तत्पर्य्यायः । धारा १ सम्पातः २
आसारः ३ । यथा, --
“धारा सम्पात आसारस्त्रितयञ्चापि कुत्रचित् ॥”
इति शब्दरत्नावली ॥
(यथा, प्रबोधचन्द्रोदये ५ अङ्के ।
“ततो देवि ! परस्परं करितुरगरथपदातीनां
निरन्तर-शर कर-धारासम्पातोपदर्शितदुर्द्दि-
नानां तेषामस्माकं च योधानां तुमुलः सम्प्र-
हारः प्रावर्त्तत ॥”)

धारास्नुही, स्त्री, (धारान्विता स्नुही ।) त्रिधार-

स्नुही । इति राजनिर्घण्टः ॥ तेकाँटासिज
इति भाषा ॥

धारिणी, स्त्री (धरतीति । धृ + णिनिः + ङीप् ।)

धरणी । इति शब्दरत्नावली ॥ शाल्मलिवृक्षः ।
इति शब्दचन्द्रिका ॥ चतुर्द्दशदेवयोषिद्गणः ।
यथा, --
“शची वनस्पती गार्गी धूम्रोर्णा रुचिराकृतिः ।
सिनीवाली कुहू राका तथा चानुमतिः शुभा ॥
आयतिर्न्नियतिः प्रज्ञा सेला वेला च नामतः ।
एताश्चतुर्द्दश प्रोक्ता धारिण्यो देवयोषितः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(धारणकर्त्त्री । यथा, विष्णुपुराणे । १ । १३ । ८८ ।
“प्राणप्रदानात् स पृथुर्यस्मात् भूमेरभूत् पिता ।
ततस्तु पृथिवीसं ज्ञामवापाखिलधारिणी ॥”
आधारस्वरूपा । यथा, तत्रैव । १ । १३ । ९१ ।
“सैषा धात्री विधात्री च धारिणी पोषणी तथा ।
सर्व्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा ॥”
“धात्री माता विधात्री कर्त्त्री धारिणी आधारः
पोषणी पोषणकर्त्त्री ।” इति तट्टीकायां श्रीधर-
स्वामी ॥)

धारी, [न्] पुं, (धरतीति । धृ + णिनिः ।) पीलु-

वृक्षः । इति जटाधरः ॥ त्रि, धारविशिष्टः ॥
(धारकः । यथा, महाभारते । ५ । ३१ । ११ ।
“तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् ॥”
ग्रन्थतात्पर्य्यज्ञः । यथा, मनुः । १२ । १०३ ।
“अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

धारुः, त्रि, (धयति पिबतीति । धे ट पाने +

“दाधेट्सिशदसदो रुः ।” ३ । २ । १५९ । इति
रुः ।) पानकर्त्ता । इति जटाधरः ॥ (यथा,
अथर्व्ववेदे । ४ । १८ । २ ।
“वत्सो धारुरिव मातरं तं प्रत्पगुपपद्यताम् ॥”)

धारोष्णं, क्ली, (धारायां दोहनप्रपाते उष्णम् ।)

दोहनेनोष्णधारया पतितदुग्धम् । तस्य गुणाः ।
“धारोष्णन्त्वमृतं पयो भ्रमहरं निद्राकरं कान्तिदं
वृष्यं बृंहणमग्निवर्द्धनमतिस्वादु त्रिदोषापहम् ॥”
इति राजनिर्घण्टः ॥
(“धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम् ।
दीपनञ्च त्रिदोषघ्नं तद्धाराशिशिरं त्यजेत् ॥
धारोष्णं शस्यते गव्यं धाराशीतन्तु माहिषम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

धार्त्तराष्ट्रः, पुं, कृष्णवर्णचञ्चुचरणयुक्तहंसः । गेडि

हाँस इति भाषा ॥ इत्यमरः । २ । ५ । २४ ॥
(यथा, वेणीसंहारे १ अङ्के सूत्रधारस्य शर-
द्वर्णनायाम् ।
“सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धता-
रम्भाः ।
निपतन्ति धार्त्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥”)
सर्पविशेषः । धृतराष्ट्रपुत्त्रः । इति मेदिनी ।
रे, २७० ॥ (यथा, वेणीसंहारे १ अङ्के ।
“लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिवहेषु च नः प्रहृत्य ।
आकृष्टपाण्डवबधूपरिधानकेशाः
स्वस्था भवन्ति मयि जीवति धार्त्तराष्ट्राः ॥”)

धार्त्तराष्ट्रपदी, स्त्री, (धार्त्तराष्ट्रस्य पाद इव पादो

मूलं यस्याः । ङीष् पद्भावः ।) हंसपदी । इति
राजनिर्घण्टः ॥ (विवृतिविशेषो हंसपदीशब्दे
ज्ञातव्यः ॥)

धार्म्मिकः, त्रि, (धर्म्मं चरतीति । धर्म्म + “धर्म्मं

चरति ।” ४ । ४ । ४१ । इति ठक् । यद्वा,
धर्म्ममधीते वेद वा । “क्रतूक्थादिसूत्रान्तात्
ठक् ।” ४ । २ । ६० । इति ठक् ।) धर्म्मशीलः ।
तत्पर्य्यायः । देवयुः २ । इति जटाधरः ॥
(यथा, महाभारते । १ । १२२ । ४१ ।
“धार्म्मिकश्च कुरूणां स भविष्यति न संशयः ॥”)

धार्य्यं, त्रि, (ध्रियते इति । धृ + ण्यत् ।) धारणी-

यम् । यथा, --
“धातानुराधवसुपुष्यविशाखहस्ता-
चित्रोत्तराश्विपवनादितिरेवतीषु ।
जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ
धार्य्यं नवं वसनमीश्वरविप्रतुष्टौ ॥”
इति समयप्रदीपः ॥
(ध्रियते परिधीयते इति । वस्त्रे, क्ली । यथा,
भागवते । ९ । १८ । १४ ।
“वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः ।
अस्मद्धार्य्यं धृतवती शूद्रो वेदमिवासती ॥”)

धाव, उ ञ जवे । मृजि । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-अकं-शुद्धीकरणे सकं-सेट् । उदि-
त्वात् क्तावेट् ।) उ, धावित्वा धौत्वा । ञ,
धावति धावते । जवः शीघ्रगतिः । पाशपाणिः
पुनस्तत्र यमदूतोऽपि धावतीति हलायुधः ।
मृट् शुद्धिभावः शुद्धीकरणञ्च । धावति ताम्र-
मम्लेन शुध्यतीत्यर्थः ।
‘दधावद्भिस्ततश्चक्षुः सुग्रीवस्य विभीषणः ।’
अस्य जवे निष्ठाया अप्रयोगः । धौतं वासः ।
इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ध&oldid=43980" इत्यस्माद् प्रतिप्राप्तम्