शब्दकल्पद्रुमः/तावीषी

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/६१५

तावीषी, स्त्री, (ताविषी + पृषोदरादित्वात् दीर्घः ।)

चन्द्रकन्या । इति मेदिनी । ते, ३८ ॥ (इन्द्र-
कन्या । इति कुत्रचित् ॥)

तावुरिः, पुं, वृषराशिः । इति दीपिका ॥

तिक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अतितेकत् । ङ, तेकते ।
इति दुर्गादासः ॥

तिक, न आस्कन्दे । वधे । इति कविकल्पद्रुमः ॥

(स्वां-परं-सकं-सेट् ।) न, तिक्नोति । इति
दुर्गादासः ॥

तिक्तं, क्ली, (तेजयतीति । तिज + बाहुलकात्

क्तः ।) पर्पटिकौषधिः । इति हेमचन्द्रः ॥

तिक्तः, पुं, (तेजयतीति । तिज + सामान्यापेक्ष-

ज्ञापकात् चुरादीनां णिजभावे गत्यार्थाकर्म्म-
केति क्तः ।) रसविशेषः । तित इति भाषा ॥
(यथा, सुश्रुते । १ । ४२ ।
“यो गले चोषमुत्पादयति मुखवैशद्यं जन-
यति भक्तरुचिञ्चापादयति हर्षञ्च स तिक्तः ॥”)
स वाय्वाकाशगुणबाहुल्यात् भवति । इति शिव-
दासः ॥ तस्य गुणाः । जन्तुकुष्ठज्वरार्त्तिकास-
दाहनाशित्वम् । रोचनत्वम् । इति राज-
निर्घण्टः ॥ शीतत्वम् । तृषामूर्च्छापित्तकफ-
विषोत्क्लेशरक्तगदनाशित्वम् । स्वयमरोचिष्णु-
त्वम् । कण्ठस्तन्यास्यशोधनत्वम् । वातलत्वम् ।
अग्निकारित्वम् । नासाशोषणत्वम् । रूक्षत्वम् ।
लघुत्वञ्च । अतियुक्तस्य तस्य गुणाः । शिरःशूल-
मन्यास्तम्भश्रमार्त्तिकम्पमूर्च्छातृषाकारित्वम् ।
बलशुक्रक्षयप्रदत्वञ्च । इति भावप्रकाशः ॥ * ॥
(“तिक्ताख्यो वत वातलोऽपि हि नृणां कुष्ठादि
दोषापहः
सोऽन्तः सर्व्वरुजापहो भ्रमहरो रुच्योऽपि
संक्लेदहृत् ।
जिह्वास्फोटकनाशनोऽथ भवति क्षीणक्षतानां
हितो
वक्त्रोत्क्लान्तिहरः प्रकृष्टगुणधृत् निम्बादिकानां
रसः ॥”
इति हारीते प्रममे स्थाने सप्तमेऽध्याये ॥)
सुगन्धः । इति मेदिनी । ते, २१ ॥ (सुरभिः ।
यथा, माघे । ५ । ३३ ।
“नादातुमन्यकरिमुक्तमदाम्बुतिक्तं
धूताङ्कुशेन न विहातुमपीच्छताम्भः ॥”
तिक्तस्तिक्तरसोऽस्यास्तीति । अर्श आदित्वात्
अच् ।) कुटजवृक्षः । इति शब्दचन्द्रिका ॥
वरुणवृक्षः । इति शब्दमाला ॥ तिक्तरसयुक्ते,
त्रि । इत्यमरः । १ । ५ । ९ ॥

तिक्तकः, पुं, (तिक्तेन तिक्तरसेन कायतीति । कै +

कः ।) पटोलः । इत्यमरः । २ । ४ । १५५ ॥
चिरतिक्तः । इति शब्दरत्नावली ॥ चिरता इति
भाषा ॥ (यथा, वाभटे चिकित्सितस्थाने । ३ ।
“पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् ।
युञ्ज्यात् विरेकाय युतां घनश्लेष्मणि तिक्तकैः ॥”)
कृष्णखदिरः । इति शब्दमाला । इङ्गुदीवृक्षः ।
इति भावप्रकाशः ॥ (तिक्तप्रधाने, त्रि । यथा,
सुश्रुते । ४ । २४ ।
“निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ॥”)
द्रव्याणां गणः । यथा चक्रपाणिसंग्रहे ज्वरा-
धिकारे ।
“तृष्यते सलिलञ्चोष्णं दद्याद्वातकफज्वरे ।
मद्योत्थे पैत्तिके वापि शीतलं तिक्तकैः शृतम् ॥”
“मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये ॥”
“तिक्तकैः शृतमिति यदुक्तं तदाह मुस्तेत्यादि ।”
इति तट्टीका ॥)

तिक्तकन्दिका, स्त्री, (तिक्तरसप्रधानः कन्दो मूलं

सोऽस्त्यस्या इति । तिक्तकन्द + ठन् ।) गन्ध-
पत्रा । इति राजनिर्घण्टः ॥

तिक्तका, स्त्री, (तिक्तेन रसेन कायतीति । कै +

कः ।) कटुतुम्बी । इति शब्दरत्नावली ॥ (कटु-
तुम्बीशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

तिक्तगन्धिका, स्त्री, (तिक्तो गन्धो यस्याः । कप्

ततष्टाप् अत इत्वञ्च ।) वराहक्रान्ता । इति
शब्दमाला ॥

तिक्तगुञ्जा, स्त्री, (गुञ्जेव तिक्ता । राजदन्तादि-

त्वात् प्राङ्निपातः ।) करञ्जः । तत्पर्य्यायः । क्षुद्र-
रसा २ रसघा ३ विद्धपर्कटी ४ । इति हारा-
वली । १०१ ॥

तिक्ततण्डुला, स्त्री, (तिक्तस्तण्डुलोऽन्तःशस्यं

यस्याः ।) पिप्पली । इति राजनिर्घण्टः ॥
(अस्याः पर्य्याया यथा, --
“पिप्पली चपला शौण्डी वैदेही मागधी कणा ।
कृष्णोपकुल्या मगधी कोला स्यात्तिक्ततण्डुला ॥”
इति वैद्यकरत्नमालायाम् ॥)

तिक्ततुण्डी, स्त्री, (तिक्ततुम्बी । पृषोदरादित्वात्

साधुः ।) कटुतुम्बीलता । इति राजनिर्घण्टः ॥

तिक्ततुम्बी, स्त्री, (तिक्ता तुम्बी ।) कटुतुम्बी । इति

रत्नमाला ॥

तिक्तदुग्धा, स्त्री, (तिक्तं दुग्धं क्षीरं यस्याः ।)

क्षीरिणी । अजशृङ्गी । इति राजनिर्घण्टः ॥

तिक्तधातुः, पुं, (तिक्तस्तिक्तरसप्रधानो धातुः ।)

पित्तम् । इति राजनिर्घण्टः ॥

तिक्तपत्रः, पुं, (तिक्तानि पत्राणि यस्य ।) कर्को-

टकः । इति हेमचन्द्रः । ४ । २५६ ॥ काक-
रोल इति भाषा ॥

तिक्तपर्व्वा, [न्] पुं, (तिक्तं पर्व्व ग्रन्थिर्यस्य ।)

दूर्व्वा । इति जटाधरः ॥ स्त्री, हिलमोची ।
गुडूची । यष्टिमधु । इति मेदिनी । ने, २३७ ॥

तिक्तपुष्पा, स्त्री, (तिक्तानि पुष्पानि यस्याः ।)

पाठा । इति राजनिर्घण्टः ॥ (पाठाशब्देऽस्या
विवरणं ज्ञातव्यम् ॥)

तिक्तफलः, पुं, (तिक्तानि फलानि यस्य ।)

कतकवृक्षः । इति राजनिर्घण्टः ॥

तिक्तफला, स्त्री, (तिक्तानि फलानि यस्याः ।)

यवतिक्तालता । वार्त्ताकी । षड्भुजा । इति
राजनिर्घण्टः ॥

तिक्तभद्रकः, पुं, (तिक्तस्तिक्तरसप्रधानो भद्रो

हितकारी चेति कर्म्मधारयः । ततः स्वार्थे कन् ।)
पटोलः । इति शब्दचन्द्रिका ॥

तिक्तमरिचः, पुं, (तिक्तो मरिच इव ।) कतक-

वृक्षः । इति राजनिर्घण्टः ॥

तिक्तरोहिणिका, स्त्री, (तिक्तरोहिणी + स्वार्थे कन्

टाप् पूर्ब्बह्रस्वश्च ।) कटुका । इति रत्नमाला ॥

तिक्तरोहिणी, स्त्री, (तिक्ता सती रोहतीति ।

रुह + णिणिः + ङीप् ।) कटुका । इति राज-
निर्घण्टः ॥ (कटुरोहिणीशब्देऽस्या विवृति-
र्ज्ञातव्या ॥)

तिक्तवल्ली, स्त्री, (तिक्ता वल्ली ।) मूर्व्वालता ।

इति रत्नमाला ॥

तिक्तवीजा, स्त्री, (तिक्तं वीजमस्याः ।) कटु-

तुम्बी । इति राजनिर्घण्टः ॥

तिक्तशाकः, पुं, (तिक्तः शाको यस्य ।) खदिर-

वृक्षः । वरुणवृक्षः । (अस्य पर्य्याया यथा, --
“वरुणस्तिक्तशाकश्च सेतुवृक्षोऽम्भसां पतिः ॥”
इति वैद्यकरत्नमालायाम् ॥)
पत्रसुन्दरवृक्षः । इति मेदिनी । के, १९१ ॥

तिक्तसारं, क्ली, (तिक्तः सारो निर्य्यासो यस्य ।)

दीर्घरोहिषकतृणम् । इति राजनिर्घण्टः ॥

तिक्तसारः, पुं, (तिक्तः सारो निर्य्यासोऽस्य ।)

खदिरवृक्षः । इति रत्नमाला ॥ (खदिरशब्देऽस्य
गुणादयो ज्ञेयाः ॥)

तिक्ता, स्त्री, (तिक्तस्तिक्तरसोऽस्त्यस्याः । अच्

ततष्टाप् ।) कटुरोहिणी । इति मेदिनी ।
ते, २२ ॥ (यथास्याः पर्य्यायाः ।
“कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा ।
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पाठा । इति रत्नमाला । यवतिक्ता लता । षड्-
भुजा । इति राजनिर्घण्टः ॥ छिक्कनी । इति
भावप्रकाशः ॥

तिक्ताख्या, स्त्री, (तिक्तः आख्या अभिधानं यस्याः ।)

कटुतुम्बी । इति राजनिर्घण्टः ॥

तिक्ताङ्गा, स्त्री, (तिक्तं अङ्गं यस्याः ।) पाताल-

गरुडीलता । इति राजनिर्घण्टः ॥

तिक्तिका, स्त्री, (तिक्ता + स्वार्थे कन् । टापि अत-

इत्वम् ।) कटुतुम्बी । इति शब्दरत्नावली ॥

तिग, न हिंसायाम् । आस्कन्दे । इति कविकल्प-

द्रुमः ॥ (स्वां-परं-सकं-सेट् ।) न, तिग्नोति ।
आस्कन्दः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

तिग्मं, क्ली, (तेजयति उत्तेजयतीति । तिज +

“युजिरुजितिजां कुश्च ।” उणां । १ । १४५ ।
इति मक् कवर्गश्चान्तादेशः ।) तीक्ष्णम् । खरम् ।
तद्वति, त्रि । इत्यमरः । १ । ४ । ३५ ॥ (यथा,
महाभारते । १ । २० । ११ ।
“तिग्मवीर्य्यविषा ह्येते दन्दशूका महाबलाः ॥”
वज्रम् । इति निघण्टुः । २ । २० ॥ पुं, क्षत्त्रिय-
विशेषः । यथा, विष्णुपुराणे । ४ । २१ । ३ ।
पृष्ठ २/६१६
“ततो मृदुस्तस्मात् तिग्मस्तिग्मात् बृहद्रथः ॥”
मत्स्यपुराणमते तु अयं उर्व्वस्य सुतः । यथा,
तत्रैव । ५० । ८४ ।
“उर्व्वो भाव्यो सुतस्तस्य तिग्मात्मा तस्य चात्मजः ।
तिग्मात् बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥”
अयं तिमिरित्याख्ययापि प्रसिद्धः । इति राजा-
वली ॥ अस्य राज्यपालनकालादिकं तिमिशब्दे
द्रष्टव्यम् ॥)

तिग्मांशुः, पुं, (तिग्मास्तीक्ष्णा अंशवः किरणानि

यस्य ।) सूर्य्यः । इति हलायुधः ॥ (यथा,
महाभारते । १ । २ । १३९ ।
“धौम्योपदेशात् तिग्मांशुप्रसादादन्नसम्भवः ॥”
अग्निः । यथा, महाभारते । १ । २३३ । १८ ।
“इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ॥”
तीक्ष्णकिरणे, त्रि ॥)

तिघ, न घातने । इति कविकल्पद्रुमः ॥ (स्वां-परं-

सकं-सेट् ।) न, तिघ्नोति । तिघ घाते इति
जौमराः पठन्ति । तेन तदर्थकल्पनमेवोचितम् ।
ततश्च घातनमिति हन्त्यर्थस्य पाक्षिकचुरादि-
त्वेन हन्तेः स्वार्थे ञौ रूपम् । हननमित्यर्थः ।
किञ्च । हिंसनपाठेनैवेष्टसिद्धे घातनपाठो हिंसा-
प्रेरणार्थः स्यान्न वेति काकदन्तान्वेषणवद्बिफलं
त्रयाणामेव कातन्त्राद्यसम्मतत्वात् । इति दुर्गा-
दासः ॥

तिज, क शिते । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, तेजयति । शितं तीक्ष्णी-
करणम् । इति दुर्गादासः ॥

तिज, ङ क्षान्तौ । निशाने । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-सेट् ।) क्षान्तिः सहनम् ।
ङ, तितिक्षते दुःखं दीनः । तेजते । तत्र तिबा-
दयो न प्रयुज्यन्ते । इति रमानाथः । इति दुर्गा-
दासः ॥

तिजिलः, पुं, (तेजयति तीक्ष्णीकरोति । यद्वा,

तिज्यते सह्यते सर्व्वैरिति । तिज + “गुपा-
दिभ्यः कित् ।” उणां । १ । ५७ । इति इलच्
स च कित् ।) चन्द्रः । इत्युणादिकोषः ॥ राक्षसः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

तिण्टी, स्त्री, त्रिवृत् । इति शब्दचन्द्रिका ॥ (त्रिवृत्-

शब्दे गुणादिरस्या ज्ञातव्यः ॥)

तितउः, पुं, (तन्यन्ते भृष्टयवा अत्रेति । तन

विस्तारे + “तनोतेर्डौः सन्वच्च ।” उणां । ५ ।
५२ । इति डौः सन्वच्च तेन अभ्यासस्येत्त्वादि-
कार्य्यम् ।) चालनी । इत्यमरः । २ । ९ । २६ ॥
हेमचन्द्रश्च । ४ । ८४ ॥ (यथा, ऋग्वेदे । १० ।
७१ । २
“सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा-
वाचमक्रत ॥”
यथाच, --
“शूर्पवद्दोषमुत्सृज्य गुणं गृह्णन्ति साधवः ।
दोषग्राही गुणत्यागी असाधुस्तितौर्यथा ॥”
इत्युद्भटः ॥
“क्षुद्रच्छिद्रसमोपेतं चालनं तितौ स्मृतम् ॥”
इत्युक्तेरस्य क्लीवत्वमपि ॥ छत्त्रम् । इति उज्ज्वल-
दत्तः । ५ । ५२ ॥)

तितिक्षा, स्त्री, (तिज + स्वार्थे सन् + “अ प्रत्य-

यात् ।” ३ । ३ । १०२ । इति अ ततष्टाप् ।)
क्षान्तिः । इत्यमरः । १ । ७ । २४ ॥ (परा-
पराधसहनम् । यथा, भागवते । १ । १६ । २६ ।
“शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥”)
शीतोष्णादिद्बन्द्बसहिष्णुता । इति वेदान्तसारः ॥
(यथा, भागवते । ४ । २२ । २४ ।
“यमैरकामैर्नियमैश्चाप्यनिन्दया
निरीहया द्वन्द्वतितिक्षया च ॥”)

तितिक्षितः, त्रि, (तितिक्षा सञ्जातास्य । “तदस्य

सञ्जातं तारकादिभ्य इतच् ।” ५ । २ । ३६ ।
इति इतच् ।) क्षान्तः । इति जटाधरः ॥

तितिक्षुः, त्रि, (तितिक्षते इति । तिज क्षमायाम् +

“गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ । इति
सन् । ततः तितिक्ष + “सनाशंसभिक्ष उः ।”
३ । २ । १६८ । इत्युः ।) क्षमाशीलः । क्षान्तः ।
इत्यमरः । ३ । १ । ३१ ॥ (यथा, महाभारते ।
१ । ८७ । ६ ।
“अक्रोधनः क्रोधनेभ्यो विशिष्ट-
स्तंथा तितिक्षुरतितिक्षोर्विशिष्टः ॥”
पुरुवंशीयस्य महामनसः पुत्त्रविशेषः । यथा,
हरिवंशे । ३१ । २१ ।
“महामनास्तु पुत्त्रौ द्वौ जनयामास भारत ! ।
उशीनरञ्च धर्म्मज्ञं तितिक्षुञ्च महाबलम् ॥”)

तितिभः, पुं, (तितीति शब्देन भणतीति । भण +

डः ।) इन्द्रगोपकीटः । इति हेमचन्द्रः । ४ । २७५ ॥

तितिलं, क्ली, (तिलति स्निह्यतीति । तिल +

बाहुलकात् कः द्बित्वञ्च ।) नन्दकम् । नादा इति
भाषा । तैतिलकरणम् । तिलपिच्चटम् । इत्य-
जयः ॥

तित्तिरः, पुं, (तित्ति इति शब्दं राति ददातीति ।

रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति
कः ।) तित्तिरिपक्षी । इति शब्दरत्नावली ॥
(यथा, महाभारते । ५ । ९ । ३८ ।
“निकृत्तेषु ततस्तेषु निष्क्रामन्ति शिरःस्वथ ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सङ्घशः ॥”
अस्य गुणाः । यथा, --
“तथैव तित्तिरो वृष्यो मेधाग्निबलवर्द्धनः ।
सर्व्वदोषहरो बल्यो लावकैः समतागुणैः ॥
कृष्णगौरावभेदाश्च श्रेष्ठो गौरश्च तित्तिरः ।
तृतीयस्तित्तिरोऽन्योऽपि सामान्यगुणलक्षणैः ।
सवातलोऽतिबलकृद्घनः किञ्चिद्रसायनः ॥”
इति हारीते प्रथमे स्थाने ११ अध्याये ॥
जनपदविशेषः । तद्देशजाते बहुवचनान्तः ।
यथा, महाभारते । ६ । ४७ । ५० ।
“वाह्लीकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥)

तित्तिरिः, पुं, (तरतीति । तॄ + “तरतेः सन्वत्तुक्

चाभ्यासस्य ।” उणां । ४ । १४२ । इत्यत्र उज्ज्वल-
दत्तधृतसूत्रात् इः सन्वत्कार्य्यमभ्यासस्य ।
तुगागमश्च ।) पक्षिविशेषः । तितिरि इति
भाषा । तत्पर्य्यायः । तित्तिरः २ । इति शब्द-
रत्नावली ॥ तितिरिः ३ तैतिरः ४ याजुषोदरः ५ ।
अस्य मांसस्य गुणाः । रुच्यत्वम् । लघुत्वम् ।
वीर्य्यबलप्रदत्वम् । कषायत्वम् । मधुरत्वम् ।
शीतत्वम् । त्रिदोषशमनत्वञ्च । इति राज-
निर्घण्टः ॥
“तित्तिरिः कृष्णवर्णः स्यात् स तु गौरः कपिञ्जलः ।
तित्तिरिर्व्वर्णदो ग्राही हिक्कादोषत्रयापहः ।
श्वासकासज्वरहरस्तस्माद्गौरोऽधिको गुणः ॥”
इति भावप्रकाशः ॥
मुनिविशेषः । इति विश्वः ॥ (यथा, महा-
भारते । २ । ४ । १२ ।
“तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः ॥”)
तैत्तिरीशाखा । इत्युणादिकोषः ॥ (नागविशेषः ।
यथा, महाभारते । १ । ३५ । १५ ।
“कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥”
तथा च स्कान्दे सह्याद्रिखण्डे । ४ । ५ ।
“तित्तिरिर्हरिभद्रश्च जम्बुरुद्रो बलाहकः ॥”)

तिथः, पुं, (तेजयतीति । तिज + “तिथपृष्ठ-

गूथयूथप्रोथाः ।” उणां । २ । १२ । इति
थक्प्रत्ययेन निपातनात् साधुः ।) अग्निः ।
कामः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
कालः । इति त्रिकाण्डशेषः ॥ प्रावृट्कालः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

तिथिः, स्त्री पुं, (तनोति विस्तारयति चन्द्रकला-

मिति । तन्यते चन्द्रकलयेति वा । तन + बाहु-
लकात् इथिन् नादिलोपश्च । तदुक्तं “तन्यन्ते
कलया यस्मात् तस्मात् तास्तिथयः स्मृताः ।”
इति । यद्बा, अततीति । अत सातत्यगमने +
“ऋतन्यञ्जीति ।” उणां । ४ । २ । इथिन् प्रत्य-
येन अतिथिरिति सिद्धे बाहुलकात् अलोपः ।
इति वर्णविवेकः ।) चन्द्रकलाक्रियारूपा । चन्द्र-
कलाक्रियोपलक्षितः काल इति वा । तस्याः
स्वरूपं यथा, --
“अमादिपौर्णमास्यन्ता या एव शशिनः कलाः ।
तिथयस्ताः समाख्याताः षोडशैव वरानने ! ॥
तत्र प्रथमकलाक्रियारूपां प्रतिपत् एवं द्बिती-
यादिकलाक्रियारूपा द्वितीयादिः । सा च वृद्धि-
रूपा चेत् शुक्ला ह्रासरूपा चेत् कृष्णा ॥ यथा,
“तत्र पक्षावुभौ मासे शुक्लकृष्णक्रमेण हि ।
चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥
पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः ।
दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥
गोभिलोक्तामावास्याघटकोपर्य्यधोभावापन्नसम-
सूत्रपातन्यायेन राश्येकावच्छेदेन सहावस्थान-
युक्तार्कमण्डलाच्चन्द्रमण्डलस्य राशिद्वादशांश-
द्वादशांशभोगात्मकनिर्गमरूपवियोगेन शुक्लायाः
प्रतिपदादितत्तत्तिथेरुत्पत्तिः । एवं गोभि-
लोक्तपौर्णमासीघटकसप्तमराश्यवस्थानरूपपरम-
नियोगानन्तरमर्कमण्डलप्रवेशाय चन्द्रमण्डलस्य
राशिद्वादशांशद्वादशांशभोगात्मकप्रवेशरूप-
सन्निकर्षेण कृष्णायास्तत्तत्तिथेश्चोत्पत्तिरिति ।
पृष्ठ २/६१७
यथा, --
अर्काद्बिनिःसृतः प्राचीं यद्यात्यहरहः शशी ।
भागैर्द्बादशभिस्तत् स्यात्तिथिश्चान्द्रमसं दिनम् ॥
त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ।
आदित्याद्विप्रकृष्टस्तु भागं द्बादशकं यदा ॥
चन्द्रमाः स्यात्तदा राम तिथिरित्यभिधीयते ॥ * ॥
सा देवकृत्ये पूर्ब्बाह्णयुता ग्राह्या । एकादश्युपवासा-
तिरिक्तस्थले सर्व्वत्र त्रिसन्ध्यव्यापिनी ग्राह्या ॥ * ॥
अथ प्रतिपत् ।
सा च कृष्णा द्वितीयायुता ग्राह्या शुक्ला अमा-
वस्यायुता ग्राह्या कृष्णाप्युपवासे द्बितीयायुता न
ग्राह्या । अत्र तैलाभ्यङ्गं कुष्माण्डभक्षणं क्षौरञ्च
न कार्य्यम् ॥ * ॥
अथ द्बितीया ।
सा च कृष्णा पूर्ब्बयुता शुक्ला परयुता ग्राह्या ।
भ्रातृद्बितीया तु अष्टधाविभक्तदिनपञ्चमांशयुता
याह्या उभयदिने तल्लाभे परयुता ग्राह्या । तत्र
बृहतीभक्षणं न कार्य्यम् ॥ * ॥
अथ तृतीया ।
सा च रम्भाव्रतेतरदेवकार्य्येषु चतुर्थीयुता ग्राह्या
रम्भाव्रते तु द्बितीयायुता । तत्र मांसभक्षणं
पटोलभक्षणञ्च न कार्य्यम् ॥ * ॥
अथ चतुर्थी ।
सा च पञ्चमीयुता ग्राह्या । विनायकव्रते
तृतीयायुता ग्राह्या । मङ्गलवारे शुक्ला चतुर्थी
अक्षया । अत्र मूलकभक्षणं क्षोरं प्रदोषे
अध्ययनञ्च न कार्य्यम् । भाद्रमासे चतुर्थ्यां
चन्द्रो न द्रष्टव्यः । प्रमादाद्दृष्ट्वा, --
सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक ! मा रोदीस्तव ह्येष स्य मन्तकः ॥
अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात्
स्यमन्तकोपाख्यानञ्च श्रोतव्यम् ॥ * ॥
अथ पञ्चमी ।
सा च चतुर्थीयुता ग्राह्या अत्र विल्वं न भोक्त-
व्यम् ॥ * ॥
अथ षष्ठी ।
सा सप्तमीयुता ग्राह्या । स्कन्दषष्ठी तु पञ्चमी-
युता ग्राह्या अस्यां शिरोऽभ्यङ्गो निम्बभक्षणञ्च
न कर्त्तव्यम् ॥ * ॥
अथ सप्तमी ।
सा षष्ठीयुता ग्राह्या तत्र तालं न भक्षयेत् ।
शुक्लपक्षस्य सप्तम्यां यदि रविवारो भवेत् सा
विजया सप्तमी । माघमासस्य शुक्लसप्तम्यां दिवा-
करा रथमापुः तस्मात् सा रथसप्तमी ॥ सा
मन्वादिश्च । तस्यां अध्ययनं न कर्त्तव्यम् ॥ * ॥
अथाष्टमी ।
सा शुक्ला नवमीयुता ग्राह्या कृष्णा सप्तमीयुता ।
तत्राध्ययनं नारिकेलभक्षणञ्च न कर्त्तव्यम् ॥
शनिवारे अथवा मङ्गलवारे कृष्णाष्टमी पुण्य-
तरा । बृहस्पतिवारे शुक्लाष्टमी अक्षया ।
दूर्व्वाष्टमी पूर्ब्बविद्धा ग्राह्या । जन्माष्टमीव्यवस्था
तच्छब्दे द्रष्टव्या ॥ * ॥
अथ नवमी ।
सा चाष्टमीयुता ग्राह्या । तत्रालावुभक्षणं न
कर्त्तव्यम् । माघस्य शुक्ला नवमी महानन्दा ।
रामनवमीव्यवस्था तच्छब्दे द्रष्टव्या ॥ * ॥
अथ दशमी ।
सा च शुक्ला एकादश्या कृष्णा तु नवम्या युता
ग्राह्या । अत्र कलम्बीभक्षणं न कर्त्तव्यम् ॥ * ॥
एकादशीव्यवस्था श्रीविष्णोः शयनव्यवस्था च
तत्तच्छब्दे द्रष्टव्या ॥ * ॥ अथ द्वादशी ।
सा च एकादशीयुता ग्राह्या । अत्र पूतिका-
भक्षणं न कर्त्तव्यम् । फाल्गुनस्य शुक्ला द्बादशी
पुष्यनक्षत्रयुक्ता चेत् गोविन्दद्वादशी ॥ * ॥
अथ त्रयोदशी ।
सा च शुक्ला द्वादशीयुता कृष्णा परयुता ग्राह्या ।
अत्र वार्त्ताकीभक्षणं न कर्त्तव्यम् ॥ * ॥
अथ चतुर्द्दशी ।
सा शुक्ला पूर्णिमायुता कृष्णा त्रयीदशीयुता
ग्राह्या । तत्र माषो न भोक्तव्यः । ज्यैष्ठकृष्ण-
चतुर्द्दश्यां प्रदोषे सावित्रीव्रतं कर्त्तव्यम् । तत्र
यदा त्रयोदशी दिवाभागे दण्डद्बयमात्रसत्त्वे-
ऽपि चतुर्द्दशी भवेत् तद्दिने व्रतं कर्त्तव्यम् ।
पूर्ब्बाहे तद्विधत्वेऽपि पराहे त्रिसन्ध्यव्यापित्वे
पराह एव । यदा तु पूर्ब्बापरयोर्न तथाविधा
तदापि पराह एव । भाद्रे मासि कृष्णा चतु-
र्द्दशी अघोरा । माघे कृष्णा चतुर्द्दशी रटन्ती ।
शिवरात्रिव्यवस्था तच्छब्दे द्रष्ठव्या ॥ * ॥
अथ पौर्णमासी ।
तत्र मांसं न भोक्तव्यम् । सा च चतुर्द्दशीयुता
ग्राह्या । सा तु मासर्क्षयुता चेत् तदा महती ।
कार्त्तिकमासे कृत्तिकानक्षत्रयुता पौर्णमासी
महाकार्त्तिकी एवमन्यत्रापि । महाज्यैष्ठी-
व्यवस्था तच्छब्दे द्रष्टव्या । कोजागरव्यवस्था
तच्छब्दे द्रष्टव्या ॥ * ॥ अथामावस्या ।
अत्र मांसं न भोक्तव्यम् । सा प्रतिपद्युता
ग्राह्या । मङ्गलवारे यदि अमावस्या भवेत्
तदा अरुणोदयमारभ्य मौनी भूत्वा यो गङ्गायां
स्नायात् स सहस्रगोदानजन्यफलमाप्नुयात् ।
अमावस्याश्राद्धव्यवस्था श्राद्धशब्दे द्रष्टव्या ।
पौषमाघयोरमावास्या यदि दिवारविवार-
व्यतीपात-श्रवणनक्षत्रयुक्ता भवति तदा अर्द्धो-
दययोगः स्यात् । अयं कोटिसूर्य्यग्रहतुल्यः अत्र
तावज्जलं गङ्गोदकतुल्यं यत्किञ्चिद्दानं सेतु-
सन्निभञ्च भवति । इति तिथ्यादितत्त्वम् ॥ तिथि-
कृत्यं मासशब्दे द्रष्टव्यम् ॥

तिथिक्षयः, पुं, (तिथीनां तिथ्युपलक्षितचन्द्र-

कलानां क्षयो यत्र ।) अमावस्या । इति शब्दार्थ-
कल्पतरुः ॥ दिनक्षयः । त्र्यहस्पर्शः । यथा, --
“एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा ।
तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम् ॥”
अपिच ।
“शतमिन्दूक्षये पुण्यं सहस्रन्तु दिनक्षये ॥”
इति तिथ्यादितत्त्वम् ॥

तिथिप्रणीः, पुं, (तिथिं प्रणयति ह्रासवृद्धिरूप-

कलाक्रिययेति । प्र + नी + क्विप् णत्वञ्च ।)
चन्द्रः । इति हेमचन्द्रः । ३ । १८ ॥

तिथी, स्त्री, (तिथिः । कृदिकारादिति वा ङीष् ।)

तिथिः । इति भरतः ॥ (यथा, महाभारते ।
१३ । ८७ । १८ ।
“कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्द्दशीम् ।
श्राद्धकर्म्मणि तिथ्यस्तु प्रशस्ता न तथेतराः ॥”)

तिनाशकः, पुं, (तिनिश एव । स्वार्थे कन् । पृषो-

दरादित्वात् आत्वम् ।) तिनिशवृक्षः । इति
शब्दरत्नावली ॥

तिनिशः, पुं, (अतिशयेन नेशतीति । निश

समाधौ + “इगुपधेति ।” ३ । १ । ११५ । इति
कः । यद्वा, अतिक्रान्तो निशाः अत्यादय इति
समासः । पृषोदरादित्वात् साधुः ।) वृक्ष-
विशेषः । मथुरादौ तिनाश इति ख्यातः ।
कुत्रचित् सादन इति ख्यातश्च । तत्पर्य्यायः ।
स्यन्दनः २ नेमी ३ रथद्रुः ४ अतिमुक्तकः ५
वञ्जुलः ६ चित्रकृत् ७ । इत्यमरः । २ । ४ । २६ ॥
चक्री ८ शताङ्गः ९ शकटः १० रथः ११
रथिकः १२ भस्मगर्भः १३ मेषी १४ जलधरः १५ ।
(यथा, सुश्रुते चिकित्सितस्थाने । १९ ।
“शल्लकीवदरीविल्वपलाशतिनिशत्वचः ॥”)
अस्य गुणाः । कषायत्वम् । उष्णत्वम् । कफ-
रक्तातीसारवातामयनाशित्वम् । ग्राहकत्वम् ।
दाहजनकत्वञ्च । इति राजनिर्घण्टः ॥

तिन्तिडः, पुं, (तिम्यते क्लिद्यते मुखाद्यनेनेति ।

तिम + ईकन्प्रत्ययेन तिन्तिडीकः । ततः पृषो-
दरादित्वात् साधुः ।) चिञ्चा । वृक्षाम्लः ।
इति विश्वः ॥ दैत्यभेदः । इति हेमचन्द्रः ॥

तिन्तिडिका, स्त्री, (तिन्तिडी + स्वार्थे कन् । टाप्

पूर्ब्बह्रस्वश्च ।) तिन्तिडी । इति शब्दरत्ना-
वली ॥

तिन्तिडी, स्त्री, (तिम्यते क्लिद्यते मुखाभ्यन्तर-

मनेनेति । तिम + ईकन्प्रत्ययेन तिन्तिडीका ।
ततः पृषोदरादित्वात् साधुः ।) वृक्षविशेषः ।
तेँतुल् इति भाषा ॥ तत्पर्य्यायः । चिञ्चा २
अम्लिका ३ । इत्यमरः । २ । ४ । ४३ ॥ तिन्ति-
डिकः ४ तिन्तिडीकम् ५ तिन्तिडीका ६
अम्लीका ७ आम्लिका ८ आम्लीका ९ । इति
तट्टीका ॥ तिन्तिली १० तिन्तिडिका ११
आब्दिका १२ चुक्रुः १३ चुक्रा १४ चुक्रिका १५
अम्ला १६ अत्यम्ला १७ भुक्ता १८ भुक्तिका १९
चारित्रा २० गुरुपत्रा २१ पिच्छिला २२ यम-
दूतिका २३ । इति शब्दरत्नावली ॥ शाक-
चुक्रिका २४ सुचुक्रिका २५ सुतिन्तिडा २६ ।
अस्या आमफलस्य गुणाः । अत्यम्लत्वम् । कफ-
पित्तकारित्वञ्च । इति राजनिर्घण्टः ॥ वात-
नाशित्वम् ॥ अस्याः पक्वफलस्य गुणाः । दीप-
नत्वम् । रुचिकारित्वम् । भेदित्वम् । उष्ण-
त्वम् । कफवातनाशित्वञ्च । इति राजवल्लभः ॥
विष्टम्भनाशित्वम् । मधुराम्लत्वम् । पित्तदाहास्र-
पृष्ठ २/६१८
कफदोषप्रकोपणत्वञ्च । पक्वचिञ्चाफलरसगुणाः ।
मधुराम्लत्वम् । रुचिप्रदत्वम् । शोफपाककर-
त्वम् । लेपे व्रणदोषनाशित्वञ्च ॥ अस्याः पत्रस्य
गुणाः । शोफरक्तदोषव्यथानाशित्वम् । अस्याः
शुष्कत्व क्क्षारस्य गुणः । शूलमन्दाग्निनाशि-
त्वम् । इति राजनिर्घण्टः ॥
“अम्लिकायाः फलं पक्वं मर्द्दितं वारिणा दृढम् ।
शर्करामरिचोन्मिश्रं लवङ्गेन्दूसुवासितम् ॥
अम्लिकाफलसम्भूतं पानकं वातनाशनम् ।
पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधकम् ॥”
इति भावप्रकाशः ॥
वृक्षाम्लम् । इति विश्वः ॥

तिन्तिडीकं, क्ली, (तिम्यते क्लिद्यते मुखं येन ।

तिम + “फर्फरीकादयश्च ।” उणां ४ । २० ।
इति ईकन्प्रत्ययेन निपातनात् साधुः ।)
वृक्षाम्लम् । इत्यमरः । २ । ९ । ३५ ॥ (यथा,
तन्त्रसारे पुरश्चरणप्रकरणे ।
“रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् ।
फलान्येतानि भोज्यानि एभ्योऽन्यानि
विवर्ज्जयेत् ॥”
यथास्य पर्य्यायाः ।
“वृक्षाम्लन्तिन्तिडीकञ्च चुक्रं स्यादम्लवृक्षकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
आमपक्वावस्थयोरस्य गुणा यथा, --
“वातापहं तिन्तिडीकमामं पित्तबलासकृत् ।
ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

तिन्तिडीकः, पुं, (तिम + ईकन् । निपातनात्

साधुः ।) तिन्तिडी । इत्यमरटीकायां भरतः ॥

तिन्तिडीद्यूतम्, क्ली, (तिन्तिडीभिस्तिन्तिडी-

जात-वीजैर्यद्द्यूतम् ।) चुञ्चुरी । इति शब्द-
रत्नावली ॥ काँइवीचिर खेला इति भाषा ॥

तिन्तिलिका, स्त्री, (तिन्तिडिका । डस्य लत्वम् ।)

तिन्तिडी । इत्यमरटीका ॥

तिन्तिली, स्त्री, (तिन्तिडी । डस्य लत्वम् ।)

तिन्तिडी । इति शब्दरत्नावली ॥

तिन्तिलीका, स्त्री, (तिन्तिडीका । डस्य लत्वम् ।)

तिन्तिडी । इत्यमरटीका ॥

तिन्दिशः, पुं, टिण्डिशवृक्षः । इति राजनिर्घण्टः ॥

तिन्दुः, पुं, (तिम्यति आर्द्रीभवतीति । तिम आर्द्री-

भावे + “मृगय्वादयश्च ।” इति कुप्रत्ययेन साधुः ।)
तिन्दुकवृक्षः । इति शब्दरत्नावली ॥

तिन्दुकं, क्ली, (तिन्दुरिव कायतीति । कै + कः ।)

कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा,
शार्ङ्गधरे पूर्ब्बखण्डे १ अध्याये ।
“कोलद्बयञ्च कर्षः स्यात् स प्रोक्ता पाणि-
मालिका ।
अक्षः पिचुः पाणितलं किञ्चिपाणिश्च तिन्दु-
कम् ॥”
यथास्य पर्य्यायाः ।
“विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव च ।
विडालपदकन्तच्च पिचुम्पाणितलन्तथा ॥
तिन्दुकञ्च विजानीयात् कवडग्रहमेव च ॥”
इति कल्पस्थाने द्बादशेऽध्याये चरकेणोक्तम् ॥)

तिन्दुकः, पुं, स्त्री, (तिन्दु + स्वार्थे संज्ञायां वा

कन् ।) वृक्षविशेषः । गाव् इति ख्यातः ।
इत्यमरटीकासारसुन्दरी ॥ केन्दूकवृक्षः । इति
भरतः ॥ इति राजनिर्घण्टश्च । तेँदु इति भाषा ॥
तत्पर्य्यायः । स्फुर्जकः २ कालस्कन्धः ३ शिति-
सारकः ४ । इत्यमरः । २ । ४ । ३८ ॥ स्फूर्जकः
५ केन्दुः ६ तिन्दुः ७ तिन्दुलः ८ तिन्दुकिः ९
तिन्दुकी १० । इति शब्दरत्नावली ॥ नील-
सारः ११ अतिमुक्तकः १२ स्वर्य्यकः १३
रामणः १४ स्फूर्जनः १५ स्पन्दनाह्वयः १६
कालसारः १७ । (यथा, महाभारते । ३ । ६४ । ३ ।
“शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः ।
अर्ज्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः ॥”)
अस्य आमफलस्य गुणाः । कषायत्वम् । ग्राहि-
त्वम् । वातकारित्वम् । शीतलत्वम् । लघुत्वञ्च ।
पक्वफलस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् ।
दुर्जरत्वम् । श्लेष्मदत्वम् । गुरुत्वम् । व्रणवात-
नाशित्वम् । पित्तप्रमेहास्रकारित्वम् । विषद-
त्वञ्च । इति राजनिर्घण्टः ॥ पित्तप्रमेहास्र-
श्लेष्मन्नाशित्वम् । इति भावप्रकाशः ॥ तत्सारं
चिररोगजित् ॥ विश्वतिन्दुकमप्येवं विशेषात्
ग्राहि शीतलम् ॥ इति राजनिर्घण्टः ॥

तिन्दुकिः, स्त्री, (तिन्दुकी । निपातनात् ह्रस्वः ।)

तिन्दुकः । इति शब्दरत्नावली ॥

तिन्दुकिनी, स्त्री, (तिन्दुकस्तदाकारः फलेऽस्त्यस्याः ।

तिन्दुक + इनि + ङीप् ।) आवर्त्तकी । इति
राजनिर्घण्टः ॥

तिन्दुकी, स्त्री, (तिन्दुक + गौरादित्वात् ङीष् ।)

तिन्दुकः । इति शब्दरत्नावली ॥ (यथा,
सुश्रुते चिकित्सितस्थाने २ अध्याये ।
“पियालवीजं तिन्दुक्यास्तरुणानि फलानि च ।
यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् ।
सद्यो व्रणेषु देयानि तानि वैद्येन जानता ॥”
अस्य पर्य्याया यथा, वैद्यकरत्नमालायाम् ।
“कालस्कन्दस्तिन्दुकश्च स्फूर्ज्जकस्तिन्दुकीति च ॥”)

तिन्दुलः, पुं, तिन्दुकवृक्षः । इति शब्दरत्नावली ॥

तिप, ऊ ऋ ङ च्युति । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-वेट् ।) ऊ, तेपिष्यते तेप्स्यते ।
ऋ, अतितेपत् । ङ, तेपते तितिपे । च्युत् क्षर-
णम् । इति दुर्गादासः ॥

तिम, क्लेदने । आर्द्रीभाव इति यावत् । इति

कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ॥)

तिम, य क्लेदने । इति कविकल्पद्रुमः ॥ (दिवां-

परं-अकं-सेट् ।) य, तिम्यति । तितेम । क्लेदन-
मार्द्रीभावः । इति दुर्गादासः ॥

तिमिः, पुं, (तिम्यतीति । तिम क्लेदने + इन् ।

यद्वा, ताम्यति आकाङ्क्षतीति । तमु काङ्क्षा-
याम् + “क्रमितमिशतिस्तम्भामत इच्च ।” उणां
४ । १२१ । इति इन् अकारस्य इकारा-
देशश्च ।) मत्स्यविशेषः । इत्यमरः । १ । १० ।
१९ ॥ तिमिर्महाकायो मत्स्यः कश्चित् सामुद्रः ।
तथा च । अस्ति मत्स्यस्तिमिर्नाम शतयोजन-
विस्तरः । इति भरतः ॥ (यथा च रघौ ।
१३ । १० ।
“ससत्त्वमादाय नदीमुखाम्भः
संमीलयन्तो विवृताननत्वात् ।
अमी शिरोभिस्तिमयः सरन्ध्रै-
रूर्द्ध्वं वितन्वन्ति जलप्रवाहान् ॥”)
समुद्रः । इति त्रिकाण्डशेषः ॥ (राजविशेषः । स
तु दूर्व्वस्य पुत्त्रः । यथा, भागवते । ९ । २२ । ४२ ।
“नृपञ्जयस्ततो दूर्व्वस्तिमिस्त स्माज्जनिष्यति ॥”
अयं हि नवमासाधिकसप्तचत्वारिंशत्वर्षं यावत्
राज्यं पालयामास । यथा, राजावल्याम् ।
१ परिच्छेदे ।
“तिमिं पुत्त्रं ततो राज्ये न्यस्य स्वर्गं स्वयं गतः ।
मुनिवेदमितान् वर्षान्नवमासाघिकान् तिमिः ॥
पालयित्वाखिलं राज्यं भुक्त्वा भोगमनुत्तमम् ।
पुत्त्रं बृहद्रथं राज्ये सोऽभिषिच्य वनं ययौ ॥”)

तिमिकोषः, पुं, (तिमेः कोष इव ।) समुद्रः ।

इति त्रिकाण्डशेषः ॥

तिमिङ्गिलः, पुं, (तिमिं गिरतीति । गॄ + कः ।

रस्य लः । गिलेऽगिलस्येति मुम् ।) मत्स्य-
विशेषः । इत्यमरः । १ । १० । २० ॥ (यथा,
महाभारते । १ । २२ । ३ ।
“तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा ॥”
द्वीपविशेषः । तद्द्वीपजाते, त्रि । यथा, महा-
भारते । २ । ३२ । ६६ ।
“तिमिङ्गिलञ्च स नृपं वशे कृत्वा महामतिः ॥”)

तिमिङ्गिलगिलः, पुं, (तिमिङ्गिलमपि गिरतीति ।

गॄ + कः । मुम् च ।) महामत्स्यविशेषः ।
इति हेमचन्द्रः । ४ । ४१४ ॥

तिमितः, त्रि, (तिम + कर्त्तरि क्तः ।) निश्चलः ।

इति धरणिः ॥ (यथा, पञ्चदशी । २ । ३५ ।
“अतस्तिमितगम्भीरं न तेजो न तमस्ततम् ॥”)
क्लिन्नः । इत्यमरः । ३ । १ । १०५ ॥

तिमिरं, क्ली, (तिम्यतीति । तिम + “इषिमदि-

मुदीति ।” उणां । १ । ५२ । इति किरच् ।)
अन्धकारः । इत्यमरः । १ । १० । ३ ॥ (यथा,
रामायणे । २ । २८ । १८ ।
“अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः ।
भयानि च महान्त्यत्र अतो दुःखतरं वनम् ॥”)
नेत्ररोगविशेषः । तस्य लक्षणमाह माधवकरः ।
“तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ।
रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् ॥”
(अस्य लक्षणानि यथा, --
“दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ।
द्विधैकं दृष्टिमध्यस्थे बहुघा बहुधास्थिते ॥
दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्य्ययम् ।
नान्तिकस्थमधःसंस्थे दूरगं नोपरिस्थितम् ॥
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः ।
प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते ॥
तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ।
पृष्ठ २/६१९
यथा वर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् ॥
तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ।
लिङ्गनाशं मलः कुर्व्वन् छादयेद्दृष्टिमण्डलम् ॥
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति ।
चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः ॥
जालानि केशान् मशकान् रश्मींश्चोपेक्षिते
ऽत्र च ।
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम् ॥
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ।
वृद्धः काचो दृशं कुर्य्याद्रजोधूमावृतामिव ॥
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ।
सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः ॥
दृङ्मण्डलं विशत्यन्तर्गम्भीरादृगसौ स्मृता ।
पित्तजे तिमिरे विद्युत् खद्योतद्योतदीपितम् ॥
शिखितित्तिरिपिच्छाभं प्रायो नीलञ्च पश्यति ।
काचे दृक्काचनीलाभा तादृगेव च पश्यति ॥
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनुंषि च ।
भृङ्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः ॥
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ।
भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना ॥
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ।
शङ्खेन्दूकुन्दकुसुमैः कुमुदैरिव चाचितम् ॥
काचे तु निष्प्रभेन्द्वर्क प्रदीपाद्यैरिवाचितम् ।
सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते ॥
मूर्त्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः ।
बिन्दूर्जलस्येव चलः पद्मिनीपुटसंस्थितः ॥
उष्णे सङ्कोचमायाति छायायां परिसर्पति ।
शङ्खकुन्देन्दूकुमुदस्फटिकोपमशुक्लिमा ॥
रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति ।
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति ॥
लिङ्गनाशेऽपि तादृक्दृङ्निष्प्रभा हतदर्शना ।
संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान् ॥
तिमिरादीनकस्माच्च तैः स्याद्ब्यक्ताकुलेक्षणम् ।
तिमिंरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते ॥”
इति वाभटेनोत्तरस्थाने द्बादशेऽध्याये उक्तम् ॥
अस्य चिकित्सा यथा, --
“तिमिर काचतां याति काचोऽप्यान्ध्य-
मुपेक्षया ।
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्द्रुतम् ॥
तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषितैः ।
तत्क्वाथे द्विगुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥
प्रपौण्डरीककाकोली पिप्पली लोध्रसैन्धवैः ।
शताह्वा मघुकद्राक्षा सितादारुफलत्रयैः ॥
कार्षिकैर्निशि तत् पीतं तिमिरापहरं परम् ॥”
“पटोलनिम्बकटुका दार्व्वीसेव्यवरावृषम् ।
सधन्वयासत्रायन्ती पर्पटं पालिकं पृथक् ॥
प्रस्थमामलकानाञ्च क्वाथयेन्नल्वणेऽम्भसि ।
तदाढकेऽर्द्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ॥
मुस्तभूनिम्बषष्ट्याह्वकुटजोदीच्यचन्दनैः ।
सपिप्पलीकैस्तत्सर्पिर्घ्राणकर्णास्यरोगजित् ॥
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत् ।
विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहनुत् ॥”
“त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ।
शुल्वतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्रयम् ॥
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ।
तिमिरान्तकरं लोके द्वितीय इव भास्करः ॥
गोमूत्रे छगलरसेऽम्लकाञ्जिके च
स्त्रीस्तन्ये हविषि विषे च माक्षिके च ।
यत्तुत्थं ज्वलितमनेकशो निषिक्तं
तत्कुर्य्यात् गरुडसमं नरस्य चक्षुः ॥”
“रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम् ।
ईषत् कर्पूरसंयुक्तमञ्जनं नयनामृतम् ॥”
“सामान्यं साधनमिदं प्रतिदोषमतः शृणु ।
वातजे तिमिरे तत्र दशमूलाम्भसा घृतम् ॥
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ॥”
“पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेच्छिराम् ॥
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम् ।
विध्येच्छिरां पीतवतो दद्याच्चानुविरेचनम् ॥”
“रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत् ।”
“दद्यादुशीरनिर्य्यूहचूर्णितं कणसैन्धवम् ॥
तत् शृतं सघृतं भूयः पचेत् क्षौद्रं घने पिबेत् ।
शीते चास्मिन् हितमिदं सर्व्वजे तिमिरेऽञ्जनम् ॥”
“चक्षूरक्षायां सर्व्वकालं मनुष्यै-
र्यत्नः कर्त्तव्यो जीविते यावदिच्छा ।
व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानां
पुंसामन्धानां विद्यमानेऽपि वित्ते ॥”
इति चोत्तरस्थाने त्रयोदशेऽध्याये वाभटे-
नोक्तम् ॥
“सौवीरमञ्जनन्तुत्थन्ताप्यो धातुर्म्मनःशिला ।
चक्षुष्यं मधुकं लोहा मणयः पौष्यमञ्जनम् ॥
सैन्धवं शौकरीदंष्ट्रा कतकञ्चाञ्जनं शुभम् ।
तिमिरादिषु चूर्णं वा वर्त्तिर्व्वेयमनुत्तमा ॥”
“वदने कृष्णसर्पस्य निहितं मासमञ्जनम् ।
ततस्तस्मात् समुद्धृत्य सशुष्कं चूर्णयेद्बुधः ॥
सुमनःक्षारकैः शुष्कैरर्द्धांशैः सैन्धवेन च ।
एतन्नित्याञ्जनं कार्य्यं तिमिरघ्नमनुत्तमम् ॥”
इति चरके चिकित्सास्थाने २६ अध्याये ॥)

तिमिरः, पुं, (तिम्यति क्लिद्यति चक्षुरनेन । तिम +

“इषिमदिमुदीति ।” उणां । १ । ५२ । इति किरच् ।)
चक्षूरोगविशेषः । तस्य निदानादि यथा ।
चतुर्थपटलगतदोषमाह ।
“तिमिराख्यः स यो दोषश्चतुर्थपटलं गतः ।
रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाश इति क्वचित् ॥
अस्मिन्नपि तमोभूते नातिरूढे महागदे ।
चन्द्रादित्यौ स नक्षत्रावन्तरीक्षे च विद्यतः ॥
निर्म्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ।
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः ॥
यो दोषः दोषोऽत्र रोगः चतुर्थपटलं वाह्य-
पटलं गतः स तिमिराख्यः । तिमिरदर्शनेन
तिमिरमस्यास्तीति तिमिरः अर्श आदित्वात् ।
तस्य लक्षणमाह रुणद्धीत्यादि । स तिमि-
राख्यः । सर्व्वतः सर्व्वत्र । लिङ्गनाश इति
क्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः । तस्य निरु-
क्तिश्च । लिङ्ग्यते चिह्न्यते अनेनेति लिङ्गं दृष्टि-
तेजः तस्य नाशोऽस्मिन् इति लिङ्गनाशः ।
अस्मिन्नपि तिमिरेऽपि तमोभूते तमस्तुल्ये ।
अत्र तु भूतशब्दस्तुल्यार्थः । भूतं प्राण्यतीते
समे त्रिष्वित्यमरवचनात् । नातिरूढे अप्रौढे ।
चन्द्रादित्यौ नक्षत्राणि च पश्यति । अन्तरीक्षे
अन्तरीक्षस्य प्रकाशमयत्वेन तमोऽभिभावात् ।
तेजांसि अग्न्यादेः । भ्राजिष्णूनि रत्नसुवर्णा-
दीनि । अस्मिन् प्रौढे नीरजे च चन्द्रादित्यादीन्न
पश्यतीत्यन्वयः । नीलिकाकाचसंज्ञितः नीलिका-
काचेति नामान्तराभ्यां युक्तः ॥ * ॥
दृष्टिरोगाणां सङ्ख्यानामानि चाह ।
दृष्ट्याश्रया षट् च षडेव रोगाः
षड्लिङ्गनाशा हि भवन्ति तत्र ।
वातेन पित्तेन कफेन सर्व्वै-
रुक्तात् परिम्लाय्य विधिश्च षष्ठः ॥
दृष्ट्याश्रया षट् च षडेव रोगाः षट् षट् द्बादशे-
त्यर्थः । तत्र लिङ्गनाशाः षट् तान् विवृ-
णोति वातेनेत्यादि ॥ * ॥
तथा नरः पित्तविदग्धदृष्टिः
कफेन चान्यस्त्वथ धूमदर्शी ।
यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञो
गम्भीरसंज्ञा च तथैव दृष्टिः ॥
पित्तविदग्धदृष्ट्यादयः षट् । एवं दृष्ट्यादयश्च
षट् । एवं दृष्ट्याश्रया द्वादशरोगाः ॥ * ॥
तत्र द्वावन्यौ चाह ।
तत्रैवान्यौ गदौ बद्धौ सनिमित्तानिमित्तकौ ॥
तेषु वातजस्य लिङ्गनाशस्य लक्षणमाह ।
वातेन खलु रूपाणि भ्रमन्तीव च पश्यति ।
आविलान्यरुणाभानि व्याविद्धानीव मानवः ॥
आविलानि कलुषाणि । अरुणानि अव्यक्त-
लौहित्ययुक्तानि । आविद्धानीव कुटिलानीव ॥ *
पैत्तिकमाह ।
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ।
नृत्यतश्चैव शिखिनः सर्व्वं नीलञ्च पश्यति ॥
आदित्यादीनां गुणान् रूपाणि ॥ * ॥
श्लैष्मिकमाह ।
कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ।
सलिलप्लावितानीव जालकानीव मानवः ॥ * ॥
सन्निपातजमाह ।
सन्निपातेन चित्राणि विपरीतानि पश्यति ।
बहुधापि द्विघा वापि सर्व्वाण्येव समन्ततः ॥
हीनाधिका सान्यथा वा ज्योतींष्यपि च
पश्यति ॥
चित्राणि नानावर्णानि । विपरीतानि वैपरीत्यं
विवृणोति बहुधेत्यादि ॥ * ॥
रक्तजमाह ।
पश्येद्रक्तेन रक्तानि तमांसि विविधानि च ।
हरितान्यथ कृष्णानि पीताश्वपि च मानवः ॥ * ॥
परिम्लायिनमाह ।
रक्तेन मूर्च्छितं पित्तं परिम्लायिनमाचरेत् ।
तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम् ॥
पृष्ठ २/६२०
विकीर्य्यमाणान् खद्योतैर्वृक्षांस्तेजांसि चैव हि ॥
विकीर्य्यमाणान् व्याप्यमानान् अग्न्यादिभिरिव ॥
वातादिजनितैर्नेत्रवर्णैरपि स षड्विधः ।
लिङ्गनाशो निगदितो वर्णो वातादितो यथा ॥
रागारुणो मारुततः प्रदिष्टो
म्लायी च नीलश्च तथैव पित्तात् ।
कफात् सितः शोणिततः सरक्तः
समस्तदोषप्रभवो विचित्रः ॥ * ॥
वातादिना हेतुभूतेन जनिते नेत्रविषये मण्डले
रूपविशेषमाह ।
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ।
पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम् ॥
श्वेतं पीतं वा कथमेतत् व्याधिप्रभावात् ॥
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डरम् ।
चलत्पद्मपलाशस्थशुक्लो बिन्दुरिवाम्भसः ।
मृद्यमाने तु नयने मण्डलं तद्बिसर्पति ॥
बहलं स्थूलम् ।
मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे ।
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ॥
चित्रं वातादिवर्णम् ।
रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम् ।
परिम्लायिनि रोगे स्यात् म्लानं नीलमथापि वा ॥
दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम् ॥
रक्तजं पित्तानुगामिरक्तजम् । स्थूलकाचारुण-
प्रभं स्थूलकाचस्येवारुणा प्रभा यस्य तत् । एतेन
स्थौल्यमरुणत्वञ्च बोध्यते । दोषक्षयादित्यादि ।
तत्र परिम्लायिनि कालान्तरेण दोषक्षयात्
कदाचित् स्वयमेव दर्शनं स्यात् ॥ * ॥ अनुक्त-
व्यथादाहगौरवादिदोषलिङ्ग-संग्रहणार्थमाह ।
यथास्वं दोषलिङ्गानि सर्व्वेष्वेव भवन्ति हि ॥ * ॥
पत्तविदग्धदृष्टेर्लक्षणमाह ।
पित्तेन दुष्टेन गतेन दृष्टिं
पीता भवेद्यस्य नरस्य दृष्टिः ।
पीतानि रूपाणि च तेन पश्येत्
सर्व्वो नरः पित्तविदग्धदृष्टिः ॥
पित्तेन गतेन दृष्टिं दृष्टावपि प्रथमद्बितीये
पटले गतेनेति बोद्धव्यम् । तेन व्याधिना ॥ * ॥
तस्मिन्नेव पित्ते दृष्टौ तृतीयं पटलं गते रूप-
विशेषमाह ।
प्राप्ते तृतीयं पटलं तु दोषे
दिवा न पश्येन्निशि वीक्षते सः ।
रात्रौ स शीतानुगृहीतदृष्टिः
पित्ताल्पभावात् सकलानि पश्येत् ॥
दोषेऽत्र पित्ते ॥ * ॥ अथ श्लेष्मविदग्धदृष्टि-
लक्षणमाह ।
तथा नरः श्लेष्मविदग्धदृष्टि-
स्तान्येव शुक्लानि हि मन्यते तु ।
अत्रापि श्लेष्मणो दृष्टौ प्रथमद्वितीयपटलगतस्यै-
तल्लिङ्गं बोद्धव्यम् ॥ * ॥ स एव श्लेष्मा दृष्टौ
पटलत्रयं गतो नक्तान्ध्यं करोतीत्याह ।
त्रिपु स्थितो यः पटलेषु दोषो
नक्तान्ध्यमापादयति प्रसह्य ।
दिवा स सूर्य्यानुगृहीतदृष्टिः
पश्येत्तु रूपाणि कफाल्पभावात् ॥
दोषोऽत्र कफस्तस्योपक्रान्तत्वात् । नक्तान्ध्यस्य
श्लेष्मविदग्धदृष्टावन्तर्भूतत्वाच्च पृथग्गणना ॥ * ॥
धूमदर्शिनमाह ।
शोकज्वरायाः सशिरोऽभितापै-
रव्याहता यस्य नरस्य दृष्टिः ।
धूम्रांस्तु यः पश्यति सर्व्वभावात्
स धूमदर्शीति नरः प्रदिष्टः ॥
शिरोऽभितापः शिरसि घर्म्मादिना सन्तापः ।
एतस्य पित्तदोषो बोद्धव्यः ॥ * ॥
ह्नस्वजात्यमाह ।
यो वासरे पश्यति कष्टतोऽथ
रूपं महच्चापि निरीक्षतेऽल्पम् ।
रात्रौ पुनर्यः प्रकृतानि पश्येत्
स ह्नस्वजात्यो मुनिभिः प्रदिष्टः ॥ * ॥
नकुलान्ध्यमाह ।
विद्योतते यस्य नरस्य दृष्टि-
र्दोषाभिपन्ना नकुलस्य यद्वत् ।
चित्राणि रूपाणि दिवा स पश्येत्
स वै विकारो नकुलान्ध्यसंज्ञः ॥ * ॥
गम्भीरकमाह ।
दृष्टिर्व्विरूपा श्वसनोपसृष्टा
सङ्कुच्य याभ्यन्तरतः प्रयाति ।
रुजावगाढा च तमक्षिरोगं
गम्भीरकेति प्रवदन्ति तज्ज्ञाः ॥
विरूपा विकृता । श्वसनोपसृष्टा वातोपहता ।
रुजावगाढा गम्भीरवेदनान्विता ॥ * ॥
वाह्यौ पुनर्द्वावपि संप्रदिष्टौ
निमित्ततश्चाप्यनिमित्ततश्च ।
निमित्ततस्तस्य शिरोऽभितापात्
ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः ॥
वाह्यौ सुश्रुतोक्तद्बादशसंख्येभ्योऽधिकौ तत्र
निमित्तत आह शिरोऽभितापात् शिरोऽभि-
ताप्यते येन विषकुसुमगन्धवहपवनस्पर्शेन स
शिरोऽभितापस्तस्मात् । अभिष्यन्दनिदर्शनैः
रक्ताभिष्यन्दलिङ्गैरिति गदाधरः ॥ सन्निपाता-
भिष्यन्दलिङ्गैरिति कार्त्तिकः ॥ * ॥
अनिमित्तत आह ।
सुरर्षिगन्धर्व्वमहोरगाणां
सन्दर्शनेनापि च भास्करस्य ।
हन्येत दृष्टिर्म्मनुजस्य तस्य
स लिङ्गनाशस्त्वनिमित्तसंज्ञः ॥
अनुपलभ्यमानानां सुरादीनां दर्शननिमित्त-
मप्यनिमित्तं मन्यते ॥ * ॥
अनिमित्ततो लिङ्गनाशस्य लक्षणमाह ।
तत्राक्षिविस्पष्टमिवावभाति
षैदूर्य्यवर्णा विमला च दृष्टिः ।
विस्पष्टं ज्योतिर्युक्तम् । वैदूर्य्यवर्णा श्यामा
विमला निर्म्मला । इति दृष्टिरोगाः ॥ * ॥
अथ तिमिरचिकित्सा ।
“भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ * ॥
शङ्खनाभिर्विभीतस्य पथ्यामज्जा मनःशिला ।
पिप्यली मरिचं कुष्ठं वचा चेति समांशकम् ॥
छागीक्षीरेण संपिष्य वटीं कुर्य्याद्यवोन्मिताम् ।
हरेणुमात्रां संघृष्य जलेनाञ्जनमाचरेत् ॥
तिमिरं मांसवृद्धिञ्च काचं पटलमर्व्वुदम् ।
रात्र्यन्धं वार्षिकं पुष्पं वटी चन्द्रोदया हरेत् ॥”
इति चन्द्रोदया वटी ॥ * ॥
कणा सलवणोषणा सहरसाञ्जना साञ्जना
सरित्पतिकफः सिता सितपुनर्न्नवा सम्भवा ।
रजन्यरुणचन्दनं मधु च तुत्थपथ्याशिला
अरिष्टदलसावरस्फुटिकशङ्खनाभीन्दवः ॥
इमानि तु विचूर्णयेन्निविडवाससा शोधये-
त्तथायसि विमर्द्दयेत् समधुताम्रखण्डेन तत् ।
इदं मुनिभिरीरितं नयनशोणनामाञ्जनं
करोति तिमिरक्षयं पटलपुष्पनाशं बलात् ॥
लवणं सैन्धवम् । अञ्जनं सुरमा इति लोके ।
सरित्पतिकफः समुद्रफेनः । शिला मनःशिला ।
सावरो लोध्रः । स्फुटिकः फट्करी । इन्दूः
कर्पूरः । नयनशोणं तिमिरे नूतनकुसुमे नूतन-
पटले च ॥ * ॥
हरीतकी वचा कुष्ठं पिप्पली मरिचानि च ।
विभीतकस्य मज्जा च शङ्खनाभिर्म्मनःशिला ॥
सर्व्वमेतत् समं कृत्वा गव्यक्षीरेण पेषयेत् ।
नाशयेत्तिमिरं कण्डुं पटलाण्यर्व्वुदानि च ॥
अपि त्रैवार्षिकं शुक्रं मासेनैकेन नाशयेत् ।
अधिकानि च मांसानि रात्रावन्धत्वमेव च ॥
चन्द्रोदया वटी पुष्पे तिमिरे च ॥ * ॥
रजनी निम्बपत्राणि पिप्पली मरिचानि च ।
विडङ्गं भद्रमुस्तञ्च सप्तमी त्वभया स्मृता ॥
अजामूत्रेण संपिष्य छायायां शोषयेद्बटीम् ।
वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टिकाम् ॥
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम् ।
एषा चन्द्रप्रभावर्त्तिः स्वयं रुद्रेण निर्म्मिता ॥
इति चन्द्रप्रभावर्त्तिः ॥ * ॥
कणा छागयकृन्मध्ये पक्वा तद्रसपेषिता ।
अचिराद्धन्ति नक्तान्ध्यं तद्बत् सक्षौद्रमूषणम् ॥
त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च ।
वृषस्य च रसं प्रस्थं शतावर्य्याश्च तत्समम् ॥
गुडूच्या आमलक्याश्च रसं छागीपयस्तथा ।
प्रस्थं प्रस्थं समाहृत्य सर्व्वैरेभिर्घृतं पचेत् ॥
कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्-
पलम् ।
मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका ॥
तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत् ।
ऊर्द्ध्वं पानमधःपानं मध्ये पानं प्रशस्यते ॥
यावन्तो नेत्रजा रोगास्तान् पानादपकर्षति ।
सुरक्ते रक्तदुष्टे च रक्ते वा विश्रुते तथा ॥
नक्तान्ध्ये तिमिरे काचे नीलिका पटलार्व्वुदे ।
अभिष्यन्देऽधिमन्थे च यक्ष्मकोपे सुदारुणे ॥
नेत्ररोगेषु सर्व्वेषु दोषत्रयकृतेष्वपि ।
परं हितमिदं प्रोक्तं त्रिफलाद्यं महाघृतम् ॥
पृष्ठ २/६२१
भृङ्गरजः भृङ्गराजः भङ्गगरा इति लोके ।
क्षीरकाकोल्या अलाभे अश्वगन्धामूलं ग्राह्यम् ॥
मधुपर्ण्यत्र जलजं यष्टीमधु चक्षुष्यत्वात् । तद-
लाभे सामान्यं यष्टीमधु ग्राह्यं तूल्यगुणत्वात् ॥
त्रिफलाद्यं घृतम् ॥ * ॥
शतमेकं हरीतक्या द्विगुणञ्च विभीतकम् ।
चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् ॥
चतुर्गुणोदकं दत्त्वा शनैर्म्मृद्वग्निना पचेत् ।
भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् ॥
शर्करा मधुकं द्राक्षा मधुयष्टिर्न्निदिग्धिका ।
काकोली क्षीरकाकोली त्रिफला नागकेशरम् ॥
पिप्पली चन्दनं मुस्तं त्रायमाणामथोत्पलम् ।
घृतप्रस्थसमं क्षीरं कल्कैरेतैः शनैः पचेत् ॥
हन्यात् सतिमिरं काचं नक्तान्ध्यं शुक्रमेव च ।
तथा स्रावञ्च कण्डूञ्च श्वयथुञ्च कषायताम् ॥
कलुषत्वञ्च नेत्रस्य विधर्म्मपटलान्वितम् ।
बहुनात्र किमुक्तेन सर्व्वान् नेत्रामयान् हरेत् ॥
यस्य चोपहता दृष्टिः सूर्य्याग्निभ्यां प्रपश्यतः ।
तस्यैतद्भेषजं प्रोक्तं मुनिभिः परमं हितम् ॥
मार्ज्जितं दर्पणं यद्वत् परां निर्म्मलतां व्रजेत् ।
तद्वदेतेन पीतेन नेत्रं निर्म्मलतामियात् ॥
वारिद्रोणद्वयं चात्र वृषमार्कवयोस्तुले ।
काकोलीयुगलालाभे अश्वगन्धामूलं ग्राह्यम् ॥
द्वितीयं त्रिफलाद्यं घृतम् ॥ * ॥
वासाविश्वामृतादार्व्वीरक्तचन्दनचित्रकैः ।
भूनिम्बनिम्बकटुकापटोलत्रिफलाम्बुदैः ॥
निशाकलिङ्गकुटजैः क्वाथः सर्व्वाक्षिरोगहा ।
वैस्वर्य्यं पीनसं श्वासं कासं नाशयति ध्रुवम् ॥
वासादिक्वाथः ।
इति नेत्ररोगाधिकारः ।” इति भावप्रकाशः ॥ * ॥
किञ्च । गारुडे १९८ अध्याये ।
“कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ।
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ॥
एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा ॥”

तिमिररिपुः, पुं, (तिमिरस्य अन्धकारस्य रिपुः ।)

सूर्य्यः । इति हलायुधः ॥

तिमिषः, पुं, ग्राम्यकर्क्कटी । इति त्रिकाण्डशेषः ॥

नाटाम्रः । इति हारावली । १२६ ॥

तिमीः, पुं, (तिमिः पृषोदरादित्वात् साधुः ।)

तिमिमत्स्यः । इति द्विरूपकोषः ॥ (तिमि +
वा ङीष् । तिमिजातिस्त्री । इति केचित् ॥)

तिरः, [स्] व्य, (तरति दृष्टिपथमिति । तॄ + “सर्व्व-

धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ।
क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते इति
गुणविषये इर् ।) अन्तर्द्धानम् । (यथा, भाग-
वते । २ । ६ । ४१ ।
“यदा तदेवासत्तर्क्कैस्तिरोधीयेत विप्लुतम् ॥”)
तिर्य्यगर्थः । इत्यमरः । ३ । ४ । २२५ ॥ तिर-
स्कारः । इति तट्टीकायां स्वामी ॥

तिरश्ची, स्त्री, (तिर्य्यक्जातिः स्त्रियां ङीप् ।)

पशुपक्ष्यादीनां स्त्री । इति मुग्धबोधम् । मादी
इति भाषा ॥

तिरस्करिणी, स्त्री, (तिरोऽन्तर्धानं करोतीति ।

तिरस् + कृ + “नन्दिग्रहीति ।” ३ । १ । १३४ ।
इति णिनिः । संज्ञापूर्ब्बकविधेरनित्यत्वात् वृद्ध्य-
भावः । ततो ङीप् ।) व्यवधायकपटः । इत्य-
मरः । २ । ६ । १२० ॥ कानात् इति भाषा ॥
(यथा, कुमारे । १ । १४ ।
“यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किम्पुरुषाङ्गनानाम् ।
दरीगृहद्बारविलम्बिविम्बा-
स्तिरस्करिण्यो जलदा भवन्ति ॥”)

तिरस्कारः, पुं, (तिरस् + कृ + घञ् ।) अना-

दरः । इति हलायुधः ॥ (यथा, पञ्चदशी ।
७ । ८ ।
“भ्रमांशस्य तिरस्कारात् अधिष्ठानप्रधानता ।
यदा तदा चिदात्माहमसङ्गोऽस्मीति बुध्यते ॥”)

तिरस्कारिणी, स्त्री, (तिरोऽन्तर्धानं करोतीति ।

तिरस् + कृ + णिनिः ङीप् ।) तिरस्करिणी ।
इत्यमरटीकायां नीलकण्ठः ॥

तिरस्कृतः, त्रि, (तिरस् + कृ + क्तः ।) अना-

दृतः । कृततिरस्कारः । यथा, --
“अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ ।
अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥”
इति भावप्रकाशः ॥
(तन्त्रसारोक्तमन्त्रविशेषे, पुं । यथा, --
“यस्य मध्ये हकारोऽस्ति कवचं भूर्द्धनि द्विधा ।
अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदीर्य्यते ॥”)

तिरस्क्रिया, स्त्री, (तिरस्करणमिति । “कृञः श

च ।” ३ । ३ । १०० । इति भावे शः ।) अना-
दरः । तिरस्कारः । इत्यमरः । १ । ७ । २२ ॥
(यथा, माघे । १ । ३९ ।
“हरे ! हिरण्याक्षपुरःसरासुर-
द्बिपद्बिषः प्रत्युत सा तिरस्क्रिया ॥”)

तिरिटिः, पुं, इक्षुग्रन्थिः । इति शब्दमाला ॥

तिरिमः, पुं, शालिभेदः । इति राजनिर्घण्टः ॥

तिरियः, पुं, शालिविशेषः । अस्य गुणाः । मधु-

रत्वम् । स्निग्धत्वम् । शीतलत्वम् । दाहपित्त-
सर्व्वामयनाशित्वम् । त्रिदोषशमनत्वम् । रुच्य-
त्वम् । पथ्यत्वञ्च । इति राजनिर्घण्टः ॥

तिरीटं, क्ली, (तीर्य्यते शिरोविपदोऽनेनेति । तॄ +

“कॄतॄकृपिभ्यः कीटन् ।” उणां । ४ । १८४ । इति
कीटन् ।) किरीटम् । इत्युणादिकोषः ॥

तिरीटः, पुं, (तॄ + कीटन् ।) लोध्रः । इत्यमरः ।

२ । ४ । ३३ ॥ (यथा, भावप्रकाशे अर्शरोगा-
धिकारे ।
“समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ॥”)

तिरोधानं, क्ली, (तिरस् + धा + भावे ल्युट् ।)

अन्तर्धानम् । इत्यमरः । १ । ३ । १३ ॥ (यथा,
भागवते । ३ । २१ । ४४ ।
“सिद्धान् विद्याधरांश्चैव तिरोधानेन
सोऽसृजत् ॥”)

तिरोहितः, त्रि, (तिरस् + धा + क्तः ।) अन्त-

र्हितः । (यथा, मार्कण्डेये । ३९ । २४ ।
“अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ॥”)
आच्छादितः । इत्यमरः । २ । ८ । ११२ ॥

तिर्य्यक्, [च्] व्य, वक्रम् । तत्पर्य्यायः । साचि २

तिरः ३ । इत्यमरः । ३ । १ । ३४ । (यथा,
रामायणे । २ । २३ । ४ ।
“तिर्य्यगूर्द्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥”)
तिरोऽर्थः । निरुद्धार्थः । इति शब्दरत्नावली ॥

तिर्य्यक्स्रोताः, [स्] पुं, (तिर्य्यक् वक्रं स्रोत

आहारसञ्चारो यस्य । भुक्तान्नस्य तिर्य्यक्तया
उदरे सञ्चारादस्य तथात्वम् ।) पशुपक्ष्यादिः ।
(यथा, विष्णुपुराणे । १ । ५ । ८ ।
“तस्याभिध्यायतः सर्गं तिर्य्यक्स्रोताभ्यवर्त्तत ।
यस्मात् तिर्य्यक्प्रवृत्तः स तिर्य्यक्स्रोतास्ततः
स्मृतः ॥”)
स ब्रह्मणोऽष्टमः सर्गः । स तु अष्टाविंशद्विधः ।
यथा, --
“तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ॥”
तेषां लक्षणं यथा, --
“अविदो भूरितमसो घ्राणजा हृद्यवेदिनः ॥”
इति श्रीभागवते । ३ । १० । २१ ॥
“तिरञ्चां तिर्य्यक्स्रोतसाम् । अविदः श्वस्तनादि-
ज्ञानशून्याः । भूरितमसः आहारादिमात्र-
निष्ठाः । घ्राणजा घ्राणेनैव इष्टमर्थं जानन्ति ।
हृदि अवेदिनः दीर्घानुसन्धानशून्याः ।” इति
तट्टीकायां श्रीधरस्वामी ॥ अष्टाविंशतिभेदा
यथा, --
“गौरजो महिषः कृष्णः शूकरो गवयो रुरुः ।
द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ! ॥
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।
एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून् ॥
श्वा शृगालो वृको व्याघ्रो मार्ज्जारः शश-
शल्यकौ ।
सिंहः कपिर्गजः कूर्म्मो गोधा च मकरादयः ॥
कङ्कगृध्रवकश्येनभासभल्लूकवर्हिणः ।
हंससारसचक्राह्वकाकोलूकादयः खगाः ॥”
इति श्रीभागवते । ३ । १० । २२-२३ ॥
“गवादय उष्ट्रान्ता द्बिशफा द्बिखुरा नव ।
खरादयश्चमर्य्यन्ता एकशफाः षट् । श्वादयो
गोधान्ताः पञ्चनखा द्बादश । एते भूचराः
सप्तविंशतिः । मकरादयो जलचराः कङ्कादयः
खगाः अभूचरत्वेनैकीकृत्य गृहीता एवमष्टा-
विंशतिभेदान् वदन्ति । अन्येषामपि तिर्य्यक्-
प्राणिनां यथायथमेतेष्वन्तर्भावः ।” इति तट्टी-
कायां श्रीधरस्वामी ॥

तिर्य्यग्यानः, पुं, (तिर्य्यक् वक्रं यानं गमनं यस्य ।)

कुलीरः । इति त्रिकाण्डशेषः ॥

तिर्य्यङ्, [ञ्च्] पुं, (तिर्य्यगञ्चतीति । अन्च +

क्विप् । “तिरसस्तिर्य्यलोपे ।” ६ । ३ । ९४ । इति
तिरिः ।) विहङ्गादिः । इति मेदिनी ॥ (यथा,
महाभारते । १३ । १११ । १२५ ।
“पापानि तु नरः कृत्वा तिर्य्यग् जायेत
भारत ! ॥”
पृष्ठ २/६२२
यथाच मनुः । ५ । ४० ।
“ओषध्यः पशवो वृक्षास्तिर्य्यञ्चः पक्षिणस्तथा ॥”
“तिर्य्यञ्चः कूर्म्मादयः ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥) पशुः । इति हेमचन्द्रः । ३ । १०८ ॥
(यथा, पञ्चतन्त्रे । ३ । ११९ ।
“तिर्य्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः ।
पञ्चगव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन च ॥”)
वक्रगामी । इति शब्दरत्नावली ॥

तिर्य्यञ्ची, स्त्री, (तिर्य्यञ्च + स्त्रियां ङीप् ।)

तिरश्ची । स्त्रीपशुपक्ष्यादिः । इति मुग्धबोधम् ॥

तिल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ह्रस्वी । तेलति । इति दुर्गादासः ॥

तिल, क श स्निहि । इति कविकल्पद्रुमः ॥ (चुरां-

तुदां च-परं-अकं-सेट् ।) स्निहि स्निग्धीभावे ।
क, तेलयति । श, तिलति तैलेनाङ्गम् । इति
दुर्गादासः ॥

तिलः, पुं, (तिलति स्निह्यति तैलेन पूर्णो भवतीति ।

तिल + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।)
स्वनामख्यातशस्यम् । तत्पर्य्यायः । होम-
धान्यम् २ पवित्रः ३ पितृतर्पणः ४ पापघ्नः ५
पूतधान्यम् ६ । इति राजनिर्घण्टः ॥ स्नेह-
फलः ७ स्नेहफलपूरफलः ८ । अस्य गुणाः ।
रसे कटुत्वम् । तिक्तत्वम् । मधुरत्वम् । तुवर-
त्वम् । गुरुत्वम् । विपाके कटुत्वम् । स्वादुत्वम् ।
स्निग्धत्वम् । उष्णत्वम् । कफपित्तकारित्वम् ।
बल्यत्वम् । केशहितत्वम् । हिमस्पर्शत्वम् ।
त्वच्यत्वम् । स्तन्यत्वम् । व्रणे हितत्वम् । दन्त्य-
त्वम् । अल्पमूत्रकारित्वम् । ग्राहित्वम् । वात-
घ्नत्वम् । अग्निमतिप्रदत्वञ्च । इति भावप्रकाशः ॥
वर्णकारित्वम् ॥ * ॥
“कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणाःकिलान्ये
तिलाः ॥”
इति राजनिर्घण्टः ॥
अपि च । भावप्रकाशः ।
“कृष्णश्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः ।
अन्ये हीनतराः प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः ॥”
तत्तैलगुणाः । अलङ्करत्वम् । केश्यत्वम् । मधु-
रत्वम् । तिक्तत्वम् । कषायत्वम् । उष्णत्वम् ।
तीक्ष्णत्वम् । बलकारित्वम् । कफवातजन्तु-
खर्जुव्रणकण्डूतिनाशित्वम् । कान्तिदत्वम् ।
वस्त्यभ्यङ्गपाननस्यकर्णाक्षिपूरणेषु हितत्वञ्च ।
इति राजनिर्घण्टः (तिलप्रतिग्रहनिषेधो
यथा, ब्रह्मपुराणे ।
“ब्राह्मणः प्रतिगृह्णीयात् वृत्त्यर्थं साधुतस्तथा ।
अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत् ॥”
तिलदाने फलमाह विष्णुः ।
“तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥”
तथा महाभारते ।
“कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा ।
तिलपात्रं प्रयच्छन् वै सर्व्वपापैः प्रमुच्यते ॥”
शुद्धितत्त्वे ।
“प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप ! ।
यावन्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते ॥”
सप्तमीं नवमीं पर्व्वकालञ्च त्यक्त्वा तिलतैलेना-
ङ्गानि विमृक्ष्य स्नानं कर्त्तव्यम् । यथा, मार्क-
ण्डेये ।
“सर्व्वकालं तिलैः स्नानं पुण्यं व्यासोऽब्रवीन्मनुः ।
श्रीकामः सर्व्वदा स्नानं कुर्व्वीतामलकैर्नरः ।
सप्तमीं नवमीञ्चैव पर्व्वकालञ्च वर्ज्जयेत् ॥”
तिथितत्त्वे जन्मतिथिकृत्ये ।
“तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः ।
तिलभुक् तिलवापी च षट्तिली नावसीदति ॥”
रात्रौ तिलान्वितवस्तुमात्रं न भक्षयेत् । यथा,
काशीखण्डे ।
“सर्व्वञ्च तिलसम्बद्धं नाद्यादस्तमिते रवौ ॥”
तिलैस्तर्पणनिषेधस्तत्प्रतिप्रसवादिकञ्च तर्पण-
शब्दे द्रष्टव्यम् ॥) तिलकालकः । यथा, --
“देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती ।
तेनाहं नृप जानामि भानुमत्यास्तिलं यथा ॥”
इति कालिदासः ॥
(स्वल्पप्रमाणम् । तिलतुल्यत्वादस्य तथात्वम् ।
यथा, राजतरङ्गिण्याम् । ४ । ३२८ ।
“तिलं तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्व्वतः ।
नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥”)

तिलकं, क्ली, (तिलति स्निह्यतीति । तिल +

“क्वुन् शिल्पिसंज्ञयोः ।” इति क्वुन् ।) क्लोम ।
कृष्णवर्णसौवर्च्चलम् । इत्यमरः । २ । ६ । ६५ ॥
सौवर्च्चलम् । इति मेदिनी । के, १०० ॥

तिलकः, पुं, (तिल इव कायतीति । कै + कः ।)

पुष्पवृक्षविशेषः । तत्पर्य्यायः । विशेषकः २
मुखमण्डनकः ३ पुण्ड्रकः ४ पुण्ड्रः ५ स्थिर-
पुष्पी ६ छिन्नरुहः ७ दग्धरुहः ८ मृतजीवः ९
तरुणीकटाक्षकामः १० वासन्तसुन्दरः ११
दुग्धरुहः १२ भालविभूषणसंज्ञः १३ पुन्नागः १४
रेठकः १५ । इति राजनिर्घण्टः ॥ क्षुरकः
१६ श्रीमान् १७ पुरुषः १८ छत्रपुष्पकः १९ ।
इति भावप्रकाशः ॥ (यथा, रघुः । ९ । ४१ ।
“न खलु शोभयति स्म वनस्थलीं
न तिलकस्तिलकः प्रमदामिव ॥”)
अस्य गुणाः । पाके कटुत्वम् । वातपित्तकफ-
नाशित्वम् । बलपुष्टिमेदःकारित्वम् । हृद्यत्वम् ।
लघुत्वञ्च । तत्त्वग्गुणाः । कषायत्वम् । उष्ण-
त्वम् । पुंस्त्वदन्तदोषकृमिशोफव्रणरक्तदोषनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ (तिल + स्वार्थे
कन् ।) शरीरस्थतिलः । तत्पर्य्यायः । तिल-
कालकः २ । इत्यमरः । २ । ६ । ४९ ॥ कालकः ३
पिप्लुः ४ जडुलः ५ । इति हेमचन्द्रः ॥ * ॥ मरु-
वकः । इति रत्नमाला ॥ अश्वभेदः । रोग-
भेदः । इति मेदिनी । के, १०० ॥ शेषस्य
निदानलक्षणे यथा, --
“कृष्णानि तिलमात्राणि नीरुजानि समानि च ।
वातपित्तकफोच्छेकात् तान् विद्यात्तिलकाल-
कान् ॥”
इति माधवकरः ॥
प्रधाने त्रि । इति नानार्थध्वनिमञ्जरी ॥ ध्रुवक-
भेदः । यथा, --
“पञ्चविंशतिवर्णाङ्घ्रितिलको ध्रुवको भवेत् ।
इष्टश्चच्चत्पुटे ताले रसे वीरेऽद्भुतेऽपि वा ॥”
इति सङ्गीतदामोदरः ॥

तिलकः, पुं क्ली, (तिलवत् तिलपुष्पवत् कायतीति ।

कै + कः ।) चन्दनादिना ललाटादिद्वादशांङ्ग-
कर्त्तव्यचिह्नविशेषः । तत्पर्य्यायः । तमालपत्रम् २
चित्रकम् ३ विशेषकम् ४ । इत्यमरः । २ । ६ ।
१२३ ॥ (यथा, माघे । ३ । ६३ ।
“विशेषको वा विशिशेष यस्याः
श्रियं त्रिलोकीतिलकः स एव ॥”)
अथ द्वादशतिलकविधिः । पद्मपुराणे उत्तर-
खण्डे ।
“ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके ॥
विष्णुञ्च दक्षिणे कुक्षौ वाहौ च मधुसूदनम् ।
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥
श्रीधरं वामबाहौ तु हृषीकेशन्तु कन्धरे ।
पृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत् ॥
तत्प्रक्षालनतोयंन्तु वासुदेवेति मूर्द्धनि ॥”
किञ्च ।
“ऊर्द्ध्वपुण्ड्रं ललाटे तु सर्व्वेषां प्रथमं स्मृतम् ।
ललाटादिक्रमेणैव धारणन्तु विधीयते ॥ इति ।
एवं न्यासं समाचर्य्य सम्प्रदायानुसारतः ।
न्यसेत् किरीटमन्त्रञ्च मूर्द्ध्व्नि सर्व्वार्थसिद्धये ॥”
अथ किरीटमन्त्रः । ओम् श्रीकिरीटकेयूर-
हारमकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बर-
धरश्रीवत्साङ्कितवक्षःस्थलश्रीभूमि-सहितस्वात्म-
ज्योतिर्दीप्तिकराय सहस्रादित्यतेजसे नमो
नमः ।” इति श्रीहरिभक्तिविलासे ४ विलासः ॥
तस्य धारणप्रकारो यथा, --
“द्वादशाङ्गे ललाटादौ तिलकं हरिमन्दिरम् ।
स्नानान्ते वैष्णवः कुर्य्यात् प्रत्येकं कृष्णनामभिः ॥
वामे वक्षसि नेत्रान्ते गण्डेऽंशे शङ्खचिह्नितम् ।
तथैव दक्षिणे कुर्य्याद्धरेश्चक्राङ्कितं मुने ! ॥ * ॥
ललाटे केशवं विद्यात् कण्ठे श्रीपुरुषोत्तमम् ।
वामबाहौ वासुदेवं सव्ये दामोदरन्तथा ॥
नाभौ नारायणञ्चैव माधवं हृदये तथा ।
गोविन्दं दक्षिणे पार्श्वे वामे चैव त्रिविक्रमम् ॥
विष्णुं सव्ये कर्णमूले दक्षिणे मधुसूदनम् ।
शिरोमध्ये हृषीकेशं पद्मनाभञ्च पृष्ठतः ॥
हरेर्द्वादशनामानि पठित्वा तिलकानि तु ।
यः कुर्य्याद्वैष्णवो नित्यं स प्रेमभक्तिमाप्नुयात् ॥ * ॥
ये कण्ठलग्नतुलसीभवकाष्ठमाला
ये द्बादशाङ्गहरिनामकृतोर्द्ध्वपुण्ड्राः ।
ये कृष्णभक्तिसुदृढा धृतशङ्खचक्रा-
स्ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥ * ॥
तिलकन्तूर्द्ध्वपुण्ड्राख्यं मध्यच्छिद्रं हि नारद ! ।
यदि कुर्य्याल्ललाटे तद्बिज्ञेयं हरिमन्दिरम् ॥
आनासामूलमाश्रित्य शिरोमध्यगतं मुने ।
हरिपादाकृतं नासामूलमारभ्य यत्नतः ॥
पृष्ठ २/६२३
हरिमन्दिरवत् सर्व्वं तद्राधावल्लभीयकम् ।
श्रीराधावल्लभीयं यत्तिलकं सुमनोहरम् ॥
यौगलं तत्तु विज्ञेयं यदि मध्यसुरङ्गितम् ॥ * ॥
यदूर्द्ध्वपुण्ड्रं तिलकं शोभनं तन्मनोहरम् ।
तन्मध्यपीतरेखञ्च श्रीमद्रामानुजं विदुः ॥ * ॥
श्रीरामोपासना यस्य तिलकं तूर्द्ध्वपुण्ड्रकम् ।
भ्रवोर्म्मध्ये सबिन्दु स्याद्यदि विप्र ! मनोहरम् ॥
हरेः सर्व्वावताराणां मत्स्यादीनां विशेषतः ।
उपासकानां तिलकं केवलं हरिमन्दिरम् ॥ * ॥
ऊर्द्ध्वपुण्ड्रं द्बिजः कुर्य्यात् क्षत्त्रियाणां तथैव च ।
वैश्यानान्तु तथा विप्र ! शूद्रादेर्मण्डलाकृतम् ॥
अच्छिद्रमूर्द्ध्वपुण्ड्रन्तु ये कुर्व्वन्ति जनाधमाः ।
तेषां ललाटे सततं शुनः पादो न संशयः ॥
दृष्ट्वा भाले द्विजातीनामच्छिद्रमूर्द्ध्वपुण्ड्रकम् ।
कार्ष्णः कृष्णस्मृतिं कृत्वा वस्त्रेणाच्छादयेन्मुखम् ॥
ललाटदक्षिणे ब्रह्मा वसेद्बामे महेश्वरः ।
मध्ये विष्णुर्व्वसेन्नित्यं तस्मान्मध्यं न लेपयेत् ॥ * ॥
वर्त्तुलं तिर्य्यगच्छिद्रं ह्रस्वं दीर्घं ततं न तु ।
षष्ठलक्ष्मणसंयुक्तं तिलकं यन्निरर्थकम् ॥
खनित्रयष्टिकुकुनत्रिशूलमुकुराकृतम् ।
त्रिपुण्ड्रमर्द्धचन्द्रञ्च तिलकं यन्निरर्थकम् ॥
प्रमाणन्तूर्द्धपुण्ड्रस्य दीर्घं स्यात् कलिवर्द्धनम् ।
आनासामूलमारभ्य ब्रह्मरन्ध्रगतं यदि ॥
शूद्रस्यैकाङ्गुलं प्रोक्तमायतं द्व्यङ्गुलं विशि ।
क्षत्त्रिये त्र्यङ्गुलं तद्वद्ब्राह्मणे चतुरङ्गुलम् ॥
नासिकायास्त्रिभागैको भागो मानेन यो भवेत् ।
भ्रुवोर्म्मध्यादधःस्थानं मूलमाहुर्म्मनीषिणः ॥ * ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
कुर्य्याद्यदूर्द्धपुण्ड्रं तद्वैष्णवा हरिमन्दिरम् ॥
वैष्णवा विप्र ! भूपाश्चेत् वैश्यशूद्रान्त्यजाश्रमाः ।
यदूर्द्धपुण्ड्रं विभृयुस्तदेव हरिमन्दिरम् ॥
नरो वाप्यथवा नारी यदि कृष्णपथं लभेत् ।
यन्नतस्तुलसीमाला सन्धार्य्या हरिमन्दिरम् ॥
मध्यच्छिद्रं न कुर्य्याद्यस्तिलकं यदि वैष्णवः ।
श्वपदं तच्चितातुल्यं भवेन्नारद ! नान्यथा ॥ * ॥
दण्डाकारद्बिरेखं यत्तिलकं मूलकोणकम् ।
मध्यच्छिद्रन्तु तत् प्राहुरूर्द्ध्वपुण्ड्रं मनोहरम् ॥
अधोसुखाब्जकलिकाकारं तिलकमुत्तमम् ।
मध्यच्छिद्रं युग्मरेखमूर्द्ध्वपुण्ड्रं प्रकीर्त्तितम् ॥ * ॥
तीर्थमृद्यज्ञकाष्ठञ्च विल्वो मलयसम्भवम् ।
अश्वत्थतुलसीमूलमृत्तिका गोष्पदस्य च ॥
जाह्रवीमृन्महानिम्बतुलसीकाष्ठमेव च ।
कस्तूरी कुङ्कुमं फल्गु सिन्दूरं रक्तचन्दनम् ॥
गोरोचना गन्धकाष्ठं जलं चागुरु गोमयम् ।
धात्रीमूलस्य मृद्गन्धो हरिद्रा गोगृहस्य च ॥
स्नानान्ते सर्व्ववर्णानामाश्रमाणान्तथैव च ।
एतानि तिलकान्याहुः सन्ध्यादिसर्व्वकर्म्मसु ॥” * ॥
अपि च ।
“गङ्गामृत्तुलसीमूलमृत्तिका मलयोद्भवम् ।
साधोश्चरणसंलग्नं रजो मृद्गोष्पदस्य च ॥
याश्वत्थमूलमृद्गोपीचन्दनं तीर्थमृत्तिका ।
कुङ्कुमं तुलसीकाष्ठं वैष्णवाहृतमृत्तिका ॥
गोरोचना च कस्तूरी हरिद्रागुरुचन्दनम् ।
वल्मीकमृत्तिका गन्धः पद्मकं हरिचन्दनग् ॥
गन्धकाष्ठं महानिम्बो यमुनातीरमृत्तिका ।
गुरुपादरजोवारिणी साध्वङ्घ्रिरजोजले ॥
कृत्वा प्रतिदिनं स्नानमेतैर्गन्धमृदादिभिः ।
चारु यत्तिलकं ग्राह्यं तन्नाम्ना वैष्णवैर्ध्रुवम् ॥ * ॥
काम्यं नैमित्तिकं नित्यं यत्किञ्चित् कर्म्म नारद ! ।
वर्णाश्रमाणां तन्नास्ति स्नानान्ते तिलकं विना ॥
कर्म्म वर्णाश्रमाणां स्यात दैवं पैत्रं न तत्फलम् ।
स्नानं सन्ध्यां पञ्चयज्ञान् पैत्रं होमादि कर्म्म यः ।
विना तिलकदर्भाभ्यां कुर्य्यात्तन्निष्फलं भवेत् ॥”
इति पाद्मोत्तरखण्डम् ॥ * ॥
“वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः ।
ऊर्द्ध्वपुण्ड्रं महाभागः स याति परमाङ्गतिम् ॥”
इति पाद्मे पातालखण्डम् ॥ * ॥
“शिवागमे दीक्षितैस्तु धार्य्यं तिर्य्यक् त्रिपुण्ड्रकम् ।
विष्ण्वागमे दीक्षितस्तु ऊर्द्ध्वपुण्ड्रं विधारयेत् ॥”
इति नागोजीभट्टधृतसूतसंहिता ॥

तिलकटः, पुं, तिलस्य रजः । (तिल + “अलावू-

तिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् ।” ५ । २ ।
२९ । इत्यस्य वार्त्तिकोक्त्या कटच् ।) तिलचूर्णम् ।
इति शब्दार्थकल्पतरुः व्याकरणञ्च ॥

तिलका, स्त्री, (तिलस्तिलवीजकोष इव काय-

तीति । कै + कः ।) हारभेदः । इति जटा-
धरः ॥ (षडक्षरपादके छन्दोभेदे । शब्दार्थ-
चिन्तामणिधृततल्लक्षणादिकं यथा, --
“सगणद्वितयं भवतीह यदा ।
रसवर्णपदा तिलकेति तदा ॥”
उदाहरणम् ।
“वनमालिकथा सकलालि ! वृथा ।
पुनरेति कथं मम दृष्टिपथम् ॥”)

तिलकालकः, पुं, (तिल इव कालकः कृष्णवर्णः ।)

शरीरस्थतिलः । इत्यमरः । २ । ६ । ४९ ॥
तल्लक्षणानि यथा, --
“कृष्णानि तिलमात्राणि नीरुजानि समानि च ।
वातपित्तकफोद्रेकात्तान् विद्यात्तिलकालकान् ॥”
समानि अनुद्गतानि । अयं तिल इति लोके
प्रसिद्धः । तच्चिकित्सा यथा, --
“चर्म्मकीलं जतुमणिं मशकान् तिलकालकान् ।
उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः ॥”
इति भावप्रकाशः ॥
तिलयुक्तः । इत्यमरटीका ॥

तिलकाश्रयः, पुं, (तिलकस्य आश्रयः ।) ललाटम् ।

इति शब्दार्थकल्पतरुः ॥

तिलकिट्टं, क्ली, (तिलस्य किट्टं मलम् ।) तिल-

मलम् । (खैल इति भाषा ॥) तत्पर्य्यायः ।
पिण्याकः २ तिलखलिः ३ । अस्य गुणाः । ग्लप-
नत्वम् । रूक्षत्वम् । बिष्टम्भित्वम् । दृष्टिदूषण-
त्वञ्च । इति भावप्रकाशः ॥

तिलकी, [न्] त्रि, (तिलकमस्त्यस्येति । तिलक +

इनिः ।) तिलकयुक्तः । यथा । शिखी तिलकी
कर्म्म कुर्य्यात् । इति स्मृतिः ॥

तिलचित्रपत्रकः, पुं, (तिलचित्राणि तिलवच्चित्र

युक्तानि पत्राणि यस्य । कप् ।) तैलकन्दः ।
इति राजनिर्घण्टः ॥

तिलचूर्णं, क्ली, (तिलस्य चूर्णम् ।) चूर्णीकृत-

तिलः । तत्पर्य्यायः । तिलकल्कम् २ पललम् ३
पिष्टकम् ४ । अस्य गुणाः । मधुरत्वम् । रुच्य-
त्वम् । पित्तास्रबलपुष्टिदत्वञ्च । इति राज-
निर्घण्टः ॥ (यथा, पञ्चतन्त्रे । २ । ८३ ।
“ततस्तिलान् लुण्ठयित्वा तिलचूर्णेन ब्राह्मणं
भोजयिष्यामि ॥”)

तिलतण्डुलकं, क्ली, (तिलस्य तण्डुल इव संश्लेषेण

कायतीति । कै + कः । तिलतण्डुलवत् दृढ-
संश्लेषणादस्य तथात्वम् ।) आलिङ्गनम् । इति
शब्दमाला ॥ तिलमिश्रिततण्डुलम् ॥ (तिलस्य
शस्यञ्च ॥)

तिलतैलं, क्ली, (तिलस्य स्नेहः । तिल + “स्नेहे

तैलच् ।” ५ । २ । २९ । इत्यस्य वार्त्तिकोक्त्या
तैलच् ।) तिलस्नेहः । तिलेषु तैलम् । इति
व्याकरणम् ॥ (यथा, सुश्रुते । १ । ४५ ।
सर्व्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं प्रशस्यते ॥”)
अस्य गुणाः तिलशब्दे द्रष्टव्याः ॥ (अपरे
गुणाश्च । यथा, हारीते १ स्थाने नवमेऽध्याये ।
“तच्च ज्ञेयं समासेन यथायोगं यथाविधि ।
कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च ॥
पित्तकृद्वातशमनं श्लेष्मरोगादिवर्द्धनम् ।
अल्पं रुचिकरं मेध्यं कण्डूकुष्ठविकारनुत् ॥
वृष्यं श्रमापहं ज्ञेयं तिलतैलं विदुर्ब्बुधाः ।
छिन्ने भिन्ने च्युते घृष्टे क्षते भग्नेऽग्निदाहके ॥
वाताभिष्यन्दिस्फुटने चाभ्यङ्गे तिलतैलकम् ।
विषे व्यालशौनसर्प्ये सेकाभ्यङ्गावगाहने ॥
पाने वस्तौ च नस्ये च तथाकर्णप्रपूरणे ।
तिलतैलं विधेयं स्यात् सर्व्वरोगनिवारणम् ॥”
“तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षत-
पिच्छितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारि-
ताभिहतदुर्भग्नमृगब्यालविदष्टप्रभृतिषु च परि-
षेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते ।
तद्बस्तिषु च पाने च नस्ये कर्णाक्षिपूरणे ।
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

तिलधेनुः, स्त्री, (तिलैर्विहिता धेनुः । शाक-

पार्थिवादिवत् समासः ।) तिलनिर्म्मिता धेनुः ।
यथा, --
“विधानं तिलधेनोस्त्वं ब्रूहि शीघ्रं द्विजोत्तम ! ।
मुनिः प्राह विधानं यत् तच्छृणुष्ब नराधिप ! ॥
षोडशाढमयी धेनुश्चतुभिर्व्वत्सको भवेत् ।
इक्षुदण्डमयाः पादा दन्ताः पुष्पमयाः शुभाः ॥
नासा गन्धमयी तस्या जिह्वा गुडमयी तथा ।
स्थितां कृष्णाजिने धेनुं वासोभिर्व्वासितां शुभाम् ॥
सूत्रेण वासितां कृत्वा पञ्चरत्नसमन्विताम् ।
सर्व्वौषधिसमायुक्तां मन्त्रपूतान्तु दापयेत् ॥
अन्नं मे जायतां सद्यः पानं सप्तरसास्तथा ।
कामं सन्धापयास्माकं तिलधेनुमुपार्ज्जिताम् ॥
पृष्ठ २/६२४
गृह्णामि त्वां देवि ! भक्त्या कुटुम्बार्थे विशेषतः ।
कुटुम्बकामं कुरुतां तिलधेनो ! नमोऽस्तु ते ॥
एवंविधां नरो दत्त्वा तिलधेनुं नृपोत्तम ! ।
सर्व्वकामसमाप्तिन्तु कुरुते नात्र संशयः ॥”
इति पाद्मे सृष्टिखण्डम् ॥

तिलपर्णं, क्ली, (तिलस्येव पर्णमस्य ।) चन्दनम् ।

इति राजनिर्घण्टः ॥ (रक्तचन्दनम् । यथा,
भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् ।
तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ॥”
तिलस्य पर्णम् ।) तिलवृक्षपत्रञ्च ॥

तिलपर्णः, पुं, (तिलस्य पर्णानीव पर्णान्यस्य ।)

श्रीवेष्टः । इति राजनिर्घण्टः ॥

तिलपर्णिका, स्त्री, (तिलपर्णी + स्वार्थे कन् टाप्

च ।) रक्तचन्दनम् । इति हेमचन्द्रः ॥ (यथा, --
“वेत्राग्रं बृहती वासा कुन्तली तिलपर्णिका ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

तिलपर्णी, स्त्री, (तिलस्येव पर्णान्यस्याः । पाक-

कर्णेति ङीष् । तिलपर्णी नदी आकरोऽस्त्यस्या
इति अच् ङीष् च । इत्यमरटीका ।) रक्त-
चन्दनम् । इत्यमरः । २ । ६ । १३२ ॥ (यथा,
सुश्रुते । १ । ४६ ।
“चित्रकस्तिलपर्णी च कफशोफहरो लघुः ॥”
नदीविशेषः । इत्यमरटीका । २ । ६ । १३२ ॥)

तिलपिच्चटं, क्ली, (तिलस्य पिष्टकम् । पृषोदरादि-

त्वात् साधुः ।) तिलपिष्टकम् । इति केचित् ॥
तिलकुटा इति भाषा ॥

तिलपिञ्जः, पुं, (निष्फलस्तिलः । तिल + “तिला-

न्निष्फलात् पिञ्जपेजौ ।” ४ । २ । ३६ । इत्यस्य
वार्त्तिकोक्त्या पिञ्जः ।) निष्फलतिलवृक्षः । इत्य-
मरः । २ । ९ । १९ ॥

तिलपेजः, पुं, (निष्फलस्तिलः । “तिलान्निष्फलात्

पिञ्जपेजौ ।” ४ । २ । २६ । अस्य वार्त्तिकोक्त्या
पेजः ।) निष्फलतिलः । इत्यमरः । २ । ९ । १९ ॥

तिलमयूरः, पुं, (तिलाकृतिवत् चित्रितो मयूरः ।

शाकपार्थिववत् समासः ।) मयूरविशेषः । तत्-
पर्य्यायः । गुरुण्टकः २ । इति त्रिकाण्डशेषः ॥

तिलरसः, पुं, (तिलस्य रसः ।) तिलतैलम् । इति

शब्दार्थकल्पतरुः ॥

तिलस्नेहः, पुं, (तिलस्य स्नेहः ।) तिलतैलम् ।

इति शब्दार्थकल्पतरुः ॥

तिलाङ्कितदलः, पुं, (तिलवदङ्कितानि दलानि

यस्य ।) तैलकन्दः । इति राजनिर्घण्टः ॥

तिलापत्या, स्त्री, (तिलवत्कृष्णं क्षुद्रञ्चापत्यं वीज-

मस्याः ।) कृष्णजीरकः । इति शब्दचन्द्रिका ॥

तिलित्सः, पुं, गोनससर्पः । इत्यमरः । १ । ८ । ५ ॥

तिलोत्तमा, स्त्री, (तिलैः तिलप्रमाणैः सर्व्वरत्ना-

नामंशैरुत्तमा ।) स्वर्व्वेश्या । इति शब्द-
चन्द्रिका ॥ तस्या नामकारणं यथा, महा-
भारते । १ । २१२ । १७ ।
“तिलं तिलं समानीय रत्नानां यद्विनिर्म्मिता ।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः ॥”

तिलौदनं, क्ली, (तिलमिश्रितं ओदनम् ।) कृशरः ।

इति हारावली । १६९ ॥ (यथा, रामा-
यणे । २ । ६९ । १० ।
“ततस्तिलौदनं भुक्त्वा पुनः पुनरधःशिराः ॥”
तिलोदनमिति पाठोऽपि दृश्यते ॥)

तिल्यं, क्ली, (तिलानां भवनं क्षेत्रं वा । तिल +

“विभाषा तिलमाषोमाभङ्गाणुभ्यः ।” ५ । २ ।
४ । इति यत् ।) तिलक्षेत्रम् । तत्पर्य्यायः ।
तैलीनम् २ । इत्यमरः । २ । ९ । ७ ॥ (तिलाय
हितम् । “खलयवमासतिलवृषब्रह्मणश्च ।” ५ ।
१ । ७ । इति यत् । तिलहिते, त्रि ॥)

तिल्ल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) लद्वयान्तः । ह्रस्वी । तिल्लति ।
इति दुर्गादासः ॥

तिल्वः, पुं, (तिलतीति । तिल + “उल्वादयश्च ।”

उणां । ४ । ९५ । इति वनप्रत्ययेन निपातनात्
साधुः ।) लोध्रः । इत्यमरः । २ । ४ । ३३ ॥
श्वेतलोध्रः । इति तट्टीकायां सुभूतिः ॥ रक्त-
लोध्रः । इति स्वामी ॥

तिल्वकः, पुं, (तिल्व + स्वार्थे कन् ।) लोध्रः ।

इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, --
“तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः ॥”
अस्य विशिष्टव्यवहारो यथा, --
“तस्य मूलत्वचं शुष्कामन्तर्व्वल्कलवज्जिताम् ।
चूर्णयेत्तु त्रिधा कृत्वा द्बौ भागौ श्च्योतयेत्ततः ॥
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ।
भागं तं दशमूलस्य पुनः क्वाथेन भावयेत् ॥
शुष्कं चूर्णं पुनः कृत्वा तत ऊर्द्ध्वं प्रयोजयेत् ।
दधितक्रसुरामण्डमूत्रैर्व्वदरसीधुना ॥
रसेनामलकानां वा ततः पाणितलं पिबेत् ॥”
“तिल्वकस्य कषायेण दशकृत्वः सुभाविताम् ।
मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत् ।
चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य्य एव च ॥”
“तिल्वकस्य कषायेण कल्केन च सशर्करः ।
सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥”
इति चरके कल्पस्थाने नवमेऽध्याये ॥)

तिष्ठद्गुः, पुं, (तिष्ठन्ति गावो यस्मिन् काले दोहाय ।

“गावो हि रात्रिप्रथमनाडिकायामतीतायां
विश्रान्ताः सत्यः उत्थाप्य दुह्यन्ते ।” इति जय-
मङ्गलः । “तिष्ठद्गुप्रभृतीनि च ।” २ । १ ।
१७ । इति निपातनात् साधुः ।) सन्ध्याकालः ।
यथा, भट्टिः । ४ । १४ ।
“आतिष्ठद्गु जपन् सन्ध्यां प्रक्रान्तामायतीगवम् ॥”

तिष्यः, पुं, (तुष्यन्त्यस्मिन्निति । तुष + क्यप् । निपा-

तनात् साधुः ।) पुष्यनक्षत्रम् । इत्यमरः ।
१ । ३ । २२ ॥ (यथा, महाभारते । ३ । १९० । ८७ ।
“यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यबृहस्पती ।
एकराशौ समेष्यन्ति प्रवर्त्स्यति तदा कृतम् ॥”
तिष्यः पुष्यनक्षत्रं पौर्णमास्यामस्त्यस्येति ।
अच् ।) पौषमासः । इति शब्दरत्नावली ॥
कलियुगम् । इति मेदिनी । ये, २८ ॥ (अत्र क्लीवे-
ऽपि दृश्यते । यथा, महाभारते । ६ । १० । ४ ।
“चत्वारि भारते वर्षे युगानि भरतर्षभ ! ।
कृतं त्रेता द्बापरञ्च तिष्यञ्च कुरुवर्द्धन ! ॥”)

तिष्यकः, पुं, (तिष्य एव । स्वार्थे कन् ।) पौष-

मासः । इति शब्दरत्नावली ॥

तिष्यपुष्पा, स्त्री, (तिष्ये पौषे पुष्पमस्याः ।)

आमलकी । इति शब्दचन्द्रिका ॥

तिष्यफला, स्त्री, (तिष्ये पौषमासे फलमस्याः ।)

आमलकी । इत्यमरः । २ । ४ । ५७ ॥ (विव-
रणमस्या आमलकीशब्दे ज्ञातव्यम् ॥)

तिष्या, स्त्री, (तिष्यः पौषमासः उत्पत्तिकाल-

त्वेनास्त्यस्या इति । अच् टाप् च ।) आम-
लकी ॥ इति शब्दरत्नावली ॥ (अस्याः पर्य्याया
यथा, वैद्यकरत्नमालायाम् ।
“धात्रीकर्षफला तिष्या वयस्थामलकी शिवा ॥”)

तिहा, [न्] पुं, व्याधिः । ब्रीहिः । घनुः ।

सद्भावः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

तीक्ष्णं, क्ली, (तेजयति तेज्यतेऽनेन वा । तिज

निशाने + “तिजेर्दीर्घश्च ।” उणां । ३ । १८ ।
इति क्स्नः दीर्घश्च ।) खरम् । विषम् । लौहम् ।
(यथास्य पर्य्यायाः वैद्यकरत्नमालायाम् ।
“कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमन्यथा ॥”)
युद्धम् । इत्यमरः । ३ । ३ । ५३ ॥ मरणम् ।
शस्त्रम् । शीघ्रम् । इति तट्टीकासारसुन्दरी ॥
सामुद्रलवणम् । मुष्ककः । इति मेदिनी । णे,
१५ ॥ चव्यकम् । इति राजनिर्घण्टः ॥ मरकम् ।
इति हेमचन्द्रः ॥ * ॥ तीक्ष्णवस्तूनि यथा ।
प्रतिभा १ हीरकम् २ कटाक्षः ३ दुर्व्वाक्यम् ४
नखः ५ लवणम् ६ रविकरः ७ । इति कवि-
कल्पलता ॥

तीक्ष्णः, पुं, (तिज + क्स्नः दीर्घश्च ।) यवक्षारः ।

इति मेदिनी । णे, १५ ॥ (पर्य्याया यथा, --
“यावशूको यवक्षारो यवशूको यवाग्रजः ।
क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥”
इति वैद्यकरत्नमालायाम् ॥)
श्वेतकुशः । कुन्दुरुकः । इति राजनिर्घण्टः ॥
तीक्ष्णगणो यथा । अश्लेषा आर्द्रा ज्येष्ठा मूला ।
इति ज्योतिषम् ॥

तीक्ष्णः, त्रि, (तिज + क्स्नः दीर्घश्च ।) तिम्मः ।

(उग्रः । यथा, मनुः । ७ । १४० ।
“तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य मही-
पतिः ॥”
असह्यः । यथा, वाजसनेयसंहितायाम् । १६ ।
३६ । “नमस्तीक्ष्णेषवे चायुधिने ।”
“तीक्ष्णा असह्या इषवो बाणा यस्य स तीक्ष्णेषु-
स्तस्मै नमः ।” इति महीधरः ॥) आत्मत्यागी ।
इति मेदिनी । णे, १५ ॥ निरालस्यः । सुबुद्धिः
इति धरणी ॥ योगी । इत्यजयपालः ॥

तीक्ष्णकः, पुं, (तीक्ष्ण + संज्ञायां कन् ।) मुष्ककः ।

गौरसर्षपः । इति राजनिर्घण्टः ॥

तीक्ष्णकण्टकः, पुं, (तीक्ष्णानि कण्टकानि यस्य ।)

धुस्तूरः । इति जटाधरः ॥ वर्वूरः । इङ्गुदी ।
करीरः । इति राजनिर्घण्टः ॥
पृष्ठ २/६२५

तीक्ष्णकण्टका, स्त्री, (तीक्ष्णं कण्टकं यस्याः ।)

कन्थारीवृक्षः । इति राजनिर्घण्टः ॥

तीक्ष्णकन्दः, पुं, (तीक्ष्णः कन्दोऽधोगेण्डुकोऽस्य ।)

पलाण्डुः । इति राजनिर्घण्टः ॥

तीक्ष्णकर्म्मा, [न्] त्रि, (तीक्ष्णं कर्म्मास्य ।)

तीव्रकर्म्मा । तत्पर्य्यायः । आयःशूलिकः २ ।
इति त्रिकाण्डशेषः ॥

तीक्ष्णकल्कः, पुं, (तीक्ष्णः कल्को यस्य ।) तुम्बूरु-

वृक्षः । इति राजनिर्घण्टः ॥

तीक्ष्णकान्ता, स्त्री, (तीक्ष्णा उग्रा कान्ता कम-

नीया च ।) मङ्गलचण्डिकाया रूपभेदः ।
यथा, --
“पीठे दिक्करवासिन्या द्बिरूपा रमते शिवा ।
तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्त्तिता ॥
पुरा ललितकान्ताख्या या श्रीमङ्गलचण्डिका ।
तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप ! ॥
कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा ।
तेन रूपेण तां देवीं सततं परिपूजयेत् ॥
अङ्गाङ्गिमन्त्रौ रूपञ्च तस्याः प्राक् प्रतिपादि-
तम् ।
त्रिकोणं मण्डलं चास्याः कर्त्तव्यं मन्त्रपूर्ब्बकम् ॥
आदौ रेखे ततः पश्चात् सुरेखेति पदं ततः ।
तथा पदं चाधिगत्य तिष्ठन्त्विति पदं ततः ॥
मण्डलन्यासमन्त्रोऽयं तीक्ष्णायाः परिकीर्त्तितः ।
नव त्रिपुरदेवादियमवेतालदुर्द्धराः ॥
गणाश्रमेऽत्यन्तकान्ता द्वारपालाः प्रकीर्त्तिताः ।
एतांस्तु पूजयेत् सम्यक् मण्डलस्याष्टदिक्षु वै ॥
आदौ सम्बोधनं कृत्वा वज्रपुष्पं ततः परम् ।
वह्रिजाया ततः पश्चात् मन्त्रमेषां प्रकीर्त्तितम् ॥
पात्रोपकरणादीनां स्थानन्यासस्य सर्व्वतः ।
सर्व्वमुत्तरतन्त्रोक्तं ग्राह्यं रूपद्वयेऽपि च ॥
चामुण्डा च कराला च शुभगा भीषणा भगा ।
विकटेति च योगिन्यः प्रोक्तास्तस्यास्तु भूपते ! ॥
हे भगवत्येकजटे विद्महे पदमन्ततः ।
विकटदंष्ट्रे धीमहीति तन्नस्तारे प्रचोदयात् ॥
एषा तु तीक्ष्णा गायत्त्री पीठदेव्याः प्रकीर्त्तिता ।
निर्म्माल्यधारिणी चास्या देवी विकटचण्डिका ॥
माला तु मृण्मयी प्रोक्ता रुद्राक्षसम्भवापि वा ।
विशेष एष देव्यास्तु पूजने परिकीर्त्तितः ॥
उपचारादिकं कृत्यं बलिदानं जपादिकम् ।
सर्व्वन्तु पूर्ब्बवद्ग्राह्यं कामाख्यापूजने यथा ॥
पानेषु मदिरा शस्ता नरो बलिषु पार्थिव ! ।
मोदको नारिकेलञ्च मांसं व्यञ्जनमैक्षवम् ॥
नैवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्त्तिताः ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

तीक्ष्णगन्धः, पुं, (तीक्ष्णः प्रचण्डो गन्धो यस्य ।)

शोभाञ्जनः । इति राजनिर्घण्टः ॥ रक्ततुलसी ।
इति रत्नमाला ॥ कुन्दूरुनामगन्धद्रव्यम् । इति
जटाधरः ॥

तीक्ष्णगन्धकः, पुं, (तीक्ष्णो गन्धोऽस्य । “शेषात्

विभाषा ।” ५ । ४ । १५४ । इति कप् ।) शोभा-
ञ्जनवृक्षः । इत्यमरः । २ । ४ । ३१ ॥

तीक्ष्णगन्धा, स्त्री, (तीक्ष्ण उग्रो गन्धो यस्याः ।)

श्वेतवचा । कन्थारी । राजिका । इति राज-
निर्घण्टः ॥ (पर्य्याया यथा, --
“राजीतु राजिका तीक्ष्णगन्धा कुञ्जनिकासुरी ।
क्षवः क्षुताभिजनकः कृमिकृत्कृष्णसर्षपः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वचा । इति मेदिनी । धे, ४६ ॥ जीवन्ती । इति
शब्दचन्द्रिका ॥ (यथा, सुश्रुते उत्तरतन्त्रे २४
अध्याये ।
“उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं
श्रेष्ठं नित्यं चावपीडे करञ्जम् ॥”)
सूक्ष्मैला । इति रत्नमाला ॥

तीक्ष्णतण्डुला, स्त्री, (तीक्ष्णास्तण्डुला यस्याः ।)

पिप्पली इति रत्नमाला ॥ (अस्याः पर्य्याया यथा,
“पिप्पली मागधी कृष्णा वैदेही चपला कणा ।
उपकुल्योषणा शौण्डी कोला स्यात्तीक्ष्ण-
तण्डुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तीक्ष्णतैलं, क्ली, (तीक्ष्णमुग्रं तैलं स्नेहो यस्य ।)

सर्ज्जरसः । स्नुहीक्षीरम् । सुरा । इति शब्द-
रत्नावली ॥

तीक्ष्णदंष्ट्रः, पुं, (तीक्ष्णा द्रंष्ट्रा यस्य ।) व्याघ्रः ।

इति राजनिर्घण्टः ॥

तीक्ष्णपत्रः, पुं, (तीक्ष्णानि पत्राणि यस्य ।) तुम्बुरु-

वृक्षः । इति राजनिर्घण्टः ॥

तीक्ष्णपुष्पं, क्ली, (तीक्ष्णानि पुष्पानि यस्य ।) लव-

ङ्गम् । इति राजनिर्घण्टः ॥ (लवङ्गशब्देऽस्य
गुणादयो ज्ञातव्याः ॥)

तीक्ष्णपुष्पा, स्त्री, (तीक्ष्णं पुष्पं यस्याः ।) केतकी ।

इति राजनिर्घण्टः ॥

तीक्ष्णफलः, पुं, (तीक्ष्णं फलं यस्य ।) तुम्बुरुवृक्षः ।

इति राजनिर्घण्टः ॥

तीक्ष्णमूलः, पुं, (तीक्ष्णं मूलमस्य ।) शिग्रुः । कुल-

ञ्जनः । इति राजनिर्घण्टः ॥ (शिग्रुशब्दे विवृति-
रस्य ज्ञातव्या ॥)

तीक्ष्णरसः, पुं, (तीक्ष्णो रसोऽस्य ।) यवक्षारः ।

इति रत्नमाला ॥

तीक्ष्णशूकः, पुं, (तीक्ष्णः शूकोऽग्रभागो यस्य ।)

यवः । इति हेमचन्द्रः । ४ । २३६ ॥

तीक्ष्णसारा, स्त्री, (तीक्ष्णः कठिनः सारो यस्याः ।)

शिंशपा । इति राजनिर्घण्टः ॥

तीक्ष्णा, स्त्री, (तीक्ष्ण + टाप् ।) वचा । सर्पकङ्का-

लिकावृक्षः । इति रत्नमाला ॥ कपिकच्छूः ।
महाज्योतिष्मती । अत्यम्लपर्णी । इति जटा-
धरः ॥

तीक्ष्णायसं, क्ली, (अय एव आयसम् । तीक्ष्णञ्च

तत् आयसञ्चेति ।) लोहविशेषः । तीखा इति
इश्पात इति च भाषा ॥ तत्पर्य्यायः । लोहम् २
शस्त्रायसम् ३ शस्त्रम् ४ पिण्डा ५ पिण्डायसम् ६
शठम् ७ आयसम् ८ निशितम् ९ तीव्रम् १०
खड्गम् ११ मुण्डितम् १२ अयः १३ चित्रा-
यसम् १४ चीनजम् १५ । अस्य गुणाः । रूक्ष-
त्वम् । उष्णत्वम् । तिक्तत्वम् । वातपित्तकफ-
प्रमेहपाण्डुशूलनाशित्वम् । तीक्ष्णत्वम् । मुण्ड-
लोहाधिकत्वञ्च । इति राजनिर्घण्टः ॥ (व्यव-
हारोऽस्य यथा, रसेन्द्रसारसंग्रहे शूलाधिकारे
त्रिफलालौहे, ॥
“तीक्ष्णायश्चूर्णसंयुक्तं त्रिफला चूर्णमुत्तमम् ।
क्षीरेण पाययेद्धीमान् सद्यः शूलनिवारणम् ॥”)

तीम, य क्लेदने । इति कविकल्पद्रुमः ॥ (दिवां-

परं-अकं-सेट् ।) य, तीम्यति तितीम । क्लेदन-
मार्द्रीभावः । इति दुर्गादासः ॥

तीर, त् क कर्म्मणां समाप्तौ । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-सकं-सेट् ।) कर्म्मणामिति
स्पष्टार्थः । अतितीरत् व्रतं लोकः समापित-
वानित्यर्थः । इति दुर्गादासः ॥

तीरं, क्ली, (तीरयति समापयति नद्यादिकमिति ।

तीर + अच् ।) नदीकूलम् । इत्यमरः । १ । १० । ७ ॥
गङ्गातीरं यथा, --
“सार्द्धहस्तशतं यावत् गर्भतस्तीरमुच्यते ।
भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते जलम् ।
तावद्गर्भं विजानीयात् तदन्यत्तीरमुच्यते ॥”
इति प्रायश्चित्ततत्त्वम् ॥
शायकः । इति त्रिकाण्डशेषः ॥

तीरः, पुं, (तीरयतीति । तीर + पचाद्यच् ।)

त्रपु । इति मेदिनी । रे, ४५ ॥

तीरभुक्तिः, पुं, (तीरे भुक्तिरस्य ।) देशविशेषः ।

तीरहोत् इति भाषा ॥ तत्पर्य्यायः । निच्छविः २
विदेहः ३ । इति त्रिकाण्डशेषः ॥

तीरितं, क्ली, (तीर कर्म्मणां समाप्तौ + भावे क्तः ।)

कर्म्मणां समाप्तिः । इति व्याकरणम् ॥

तीर्णः, त्रि, (तॄ प्लवनतरणयोः + कर्त्तरि क्तः ।

उत्तीर्णः । (यथा, वह्निपुराणे कन्यादाननामा-
ध्याये ।
“तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि ॥”)
अभिभूतः । प्लुतः । (तॄ + कर्म्मणि क्तः । कृतो-
त्तरणः । यथा, महाभारते । १ । १ । १९२ ।
“सत्यां तीर्णां शत्रुमध्ये च तेन
तदा नाशंसे विजयाय सञ्जय ! ॥”)

तीर्णपदी, तालमूली । इति शब्दचन्द्रिका ॥

तीर्थं, क्ली, (तरति पापादिकं यस्मात् । तॄ +

“पातॄतुदिवचीति ।” उणां । २ । ७ । इति
थक् ।) पुण्यस्थानादि । तीर्थतोयस्य स्नाने
पुण्यत्वं यथा, --
“नदीदेवनिखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च ॥
निपानादुद्धृतं पुण्यं ततः प्रस्रवणादिकम् ।
ततोऽपि सारसं पुण्यं ततो नादेयमुच्यते ॥
तीर्थतोयं ततः पुण्यं गङ्गातोयं ततोऽधिकम् ॥”
इत्याद्ये वह्निपुराणे स्नानविधिर्नाम ४ अध्यायः ॥
जलसमीपस्थारत्निमात्रस्थानम् । यथा, आदित्य-
पुराणे ।
“अरत्निमात्रं जलं त्यक्त्वा कुर्य्याच्छौचमनुद्धृते ।
पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत् ॥
पृष्ठ २/६२६
तस्मिन् देशे शौचं कर्त्तव्यं यस्मादरत्निमात्रव्यव-
हितं जलं तत् स्थलमेव तीर्थं जलसमीपत्वात् ।”
इत्याह्निकाचारतत्त्वम् ॥ * ॥
विप्रचरणयोस्तीर्थवासस्थानत्वं ब्राह्मणशब्दे
द्रष्टव्यम् ॥ * ॥ विप्रदक्षिणकर्णस्य तीर्थवास-
स्थानत्वं यथा । पराशरः ।
“प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
विप्रस्य दक्षिणे कर्णे वसन्ति मनुरब्रवीत् ॥”
इत्याह्निकाचारतत्त्वम् ॥
हस्तस्थिततीर्थानि यथा, --
“अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ।
मध्येऽङ्गुष्ठाङ्गुल्योः पैत्रं मूले ह्यङ्गुष्ठस्य ब्राह्मम् ॥”
इत्यमरः । २ । ७ । ५१ ॥
(यथा च, मार्कण्डेये । ३४ । १०३ -- १०९ ।
“कुर्य्यात् कर्म्माणि तीर्थेन स्वेन स्वेन यथाविधि ।
देवादीनां तथा कुर्य्याद् ब्राह्मेणाचमनक्रियाम् ॥
अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य तु ।
एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥
तर्ज्जन्यङ्गुष्ठयोरन्तः पैत्रं तीर्थमुदाहृतम् ।
पितॄणां तेन तोयादि दद्यान्नान्दीमुखादृते ॥
अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।
तीर्थं कनिष्ठिका मूले कायं तेन प्रजापतेः ॥
एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह ।
सदा कार्य्याणि कुर्व्वीत नान्यतीर्थन कर्हिचित् ॥
ब्राह्मेणाचमनं शस्तं पित्र्यं पैत्रेण सर्व्वदा ।
देवतीर्थेन देवानां प्राजापत्यं निजेन च ॥
नान्दीमुखानां कुर्व्वीत प्राज्ञः पिण्डोदकक्रियाम् ।
प्राजापत्येन तीर्थेन यच्च किञ्चित् प्रजापतेः ॥”)
तीर्थं त्रिविधम् । यथा । जङ्गमम् १ मानसम् २
स्थावरम् ३ । तथा च ।
“ब्राह्मणा जङ्गमं तीर्थ निर्म्मलं सार्व्वकामिकम् ।
येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनो जनाः ॥
अगस्तिरुवाच ।
शृणु तीर्थानि गदतो मानसानि ममानघे ! ।
येषु सम्यक् नरः स्नात्वा प्रयाति परमां गतिम् ॥
सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रयनिग्रहः ।
सर्व्वभूतदया तीर्थं सर्व्वत्रार्ज्जवमेव च ॥
दानं तीर्थं दमस्तीर्थं सन्तोषस्तीर्थमुच्यते ।
ब्रह्मचर्य्यं परं तीर्थं तीर्थञ्च प्रियवादिता ॥
ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थमुदाहृतम् ।
तीर्थानामपि तत्तीर्थं विशुद्धिर्म्मनसः परा ।
एतत्ते कथितं देवि ! मानसं तीर्थलक्षणम् ॥
भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु ।
यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः ।
तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः ॥
प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसा ।
परिग्रहान्मुनीनाञ्च तीर्थानां पुण्यता स्मृता ॥
तस्माद्भौमेषु तीर्थेषु मानसेषु च नित्यशः ।
उभयेष्वपि यः स्नाति स याति परमां गतिम् ॥”
तीर्थागमने दोषो यथा, --
“अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्वा काञ्चनं गाञ्च दरिद्रो नाम जायते ॥”
तीथगमने फलं यथा, --
“अग्निष्टोमादिभिर्यज्ञैरिष्टा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ * ॥
तीर्थान्यनुस्मरन् धीरः श्रद्दधानः समाहितः ।
कृतपापो विशुध्येत किं पुनः शुद्धकर्म्मकृत् ॥
तिर्य्यग्योनिं न वै गच्छेत् कुदेशे न च जायते ।
न दुःखी स्यात् स्वर्गभाक् च मोक्षोपायञ्च विन्दति ॥
तीर्थफलभागिनो यथा, --
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्त्तिश्च स तीर्थफलमश्नुते ॥
प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित् ।
अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते ॥
अदाम्भिको निरारम्भो लघ्वाहारो जितेन्द्रियः ।
विमुक्तः सर्व्वसङ्गैर्यः स तीर्थफलमश्नुते ॥
अकोपनोऽमलमतिः सत्यवादी दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।
हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः ॥”
इति काशीखण्डम् ॥ * ॥
तीर्थयात्राविधानं यथा, --
“यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्
सुसंयतः स च पूर्ब्बं गृहे स्वे ।
कृतोपवासः शुचिरप्रमत्तः
संपूजयेद्भक्तिनम्रो गणेशम् ॥
देवान् पितॄन् ब्राह्मणांश्चैव साधून्
धीमान् प्रीणयन् वित्तशक्त्या प्रयत्नात् ।
प्रत्यागतश्चापि पुनस्तथैव
देवान् पितॄन् ब्राह्मणान् पूजयेच्च ॥
एवं कुर्व्वतस्तस्य तीर्थे यदुक्तं
फलं तत् स्यान्नात्र सन्देह एव ॥”
इति ब्रह्मपुराणम् ॥ * ॥
“प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।
कचानां वपनं कुर्य्यात् वृथा न विकचो भवेत् ॥”
इति भविष्यपुराणम् ॥ * ॥
“तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमेऽपि च ।
वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम् ॥”
इति कूर्म्मपुराणम् ॥ * ॥
“ऐश्वर्य्यलाभमाहात्म्यात् गच्छेद्यानेन यो नरः ।
निष्फलं तस्य तत्तीर्थं तस्माद्यानं विवर्ज्जयेत् ॥”
इति मत्स्यपुराणम् ॥ * ॥
“संवत्सरं द्बिमासोनं पुनस्तीर्थं व्रजेद्यदि ।
मुण्डनञ्चोपवासञ्च तदा यत्नेन कारयेत् ॥”
इति गङ्गावाक्यावली ॥ * ॥
तीर्थप्राप्त्यानन्तरविधानं यथा, --
“न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थी भोज्य एवहि ।
सक्तुभिः पिण्डदानञ्च चरुणा पायसेन च ॥
कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन च ।
श्राद्धं तत्र तु कर्त्तव्यमर्घ्यावाहनवर्ज्जितम् ॥
अकालेऽप्यथवा काले तीर्थश्राद्धन्तु तर्पणम् ।
अविलम्बेन कर्त्तव्यं नैव विघ्नं समाचरेत् ॥
यदह्नि तीर्थप्राप्तिः स्यात्ततोऽह्नः पूर्ब्बवासरे ।
उपवासश्च कर्त्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत् ॥
तीर्थोपवासः कर्त्तव्यः शिरसो मुण्डनं तथा ।
शिरोगतानि पापानि यान्ति मुण्डनतो यतः ॥
तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् ।
स्नानजं फलमाप्नोति तीर्थयात्राश्रितं न तु ॥”
इति काशीखण्डम् ॥
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।
वर्ज्जयित्वा गयां गङ्गां विशालां विरजान्तथा ॥”
इति स्कान्दम् ॥ * ॥
“षोडशांशं स लभतें यः परार्थेन गच्छति ।
अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥”
इति पैठीनसिः ॥
“स्नापयेत् स्निग्धमित्रादीन् ज्ञातींस्तीर्थे नरोत्तमः ।
अन्यथापहरन्त्येते बलात्तीर्थभवं फलम् ॥”
इति स्कान्दम् ॥
“मातरं पितरं जायां म्रातरं सुहृदं गुरुम् ।
यमुद्दिश्य निमज्जेत अष्टभागं लभेत सः ॥”
इति प्रायश्चित्ततत्त्वे मार्कण्डेयपुराणम् ॥ * ॥
कलौ तीर्थानां पृथिव्यां स्थितिकालो यथा,
“सरस्वती पुण्यक्षेत्रमाजगाम च भारतम् ।
गङ्गा शापेन कलया स्वयं तस्थौ हरेः पदे ॥
पश्चाद्भगीरथानीता महीं भागीरथी शुभा ।
समाजगाम कलया वाणी शापेन नारद ! ॥
पद्मा जगाम कलया सा च पद्मावती नदी ।
भारतं भारती शापात् स्वयं तस्थौ हरेः पदे
कलेः पञ्चसहस्रञ्च वर्षं स्थित्वा च भारते ।
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ॥
यानि सर्व्वाणि तीर्थानि काशीं वृन्दावनं विना ।
यास्यन्ति ताभिः सार्द्धञ्च वैकुण्ठमाज्ञया हरेः ॥”
तीर्थप्रतिग्रहे दोषो यथा, --
“तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे ।
वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे ॥
पुस्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।
हरिद्वारे च केदारे सोमे वदरपाचने ॥
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।
गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये ॥
एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
यानादिना गमने दोषो यथा, --
“पुण्यार्द्धं हरते याने तदर्द्धं छत्रपादुके ।
तदर्द्धं तैलमांसाभ्यां सर्व्वं हरति मैथुने ॥”
इति कर्म्मलोचनम् ॥ * ॥
युगभेदे तीर्थविशेषस्य श्रेष्ठत्वं पाद्मे ।
“कृते तु पुष्करं तीर्थं त्रेतायां नैमिषन्तथा ।
द्बापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत् ॥”
तीर्थसंख्या यथा, --
“तिस्रः कोठ्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।
दिवि भुव्यन्तरीक्षे च तानि ते सन्ति जाह्नवि ! ॥”
अथ भूमण्डलस्य प्रादक्षिण्येन तीर्थानि यथा ।
पुष्करम् १ तत्तु ब्रह्मणः स्थानं तीर्थराजेति नाम्ना
ख्यातं तत्र त्रिसन्ध्यं दशकोटितीर्थान्यायान्ति ।
तस्य फलं अश्वमंधतुल्यंब्रह्मलोकगमनञ्च ॥ जम्बू-
पृष्ठ २/६२७
मार्गः २ तस्य फलं अश्वमेधतुल्यं विष्णुप्राप्तिश्च ॥
तण्डुलिकाश्रमः ३ तस्य फलं दुर्गतिविनाशः
ब्रह्मलोकप्राप्तिश्च ॥ अगस्त्यसरः ४ तत्र त्रिरात्रो-
पवासेन वाजपेयतुल्यं फलं शाकाहारेण कौमार-
लोकप्राप्तिश्च ॥ घर्म्मारण्यम् ५ तत्तु कण्वाश्रमः
तस्य फलं प्रवेशमात्रेण पापक्षयः देवपितृपूजनेन
अश्वमेधतुल्यं फलं विबुधलोकप्राप्तिश्च ॥ ययाति-
पतनम् ६ तत्र गमनेन अश्वमेधयज्ञतुल्यं फलम् ॥
कोटितीर्थम् ७ तत्र महाकालस्तिष्ठति स्नानेन
अश्वमेधतुल्यं फलम् ॥ भद्रवटः ८ तत्र उमापति-
स्तिष्ठति तं दृष्ट्वा गोसहस्रदानफलं दर्शकस्य
गाणपत्यञ्च भवति ॥ नर्म्मदा नदी ९ तत्र पितृदेव-
तर्पणात् अग्निष्टोमतुल्यं फलम् । दक्षिणसिन्धुः
१० तत्र ब्रह्मचर्य्येण अग्निष्टोमतुल्यं फलं त्रिदिव-
प्राप्तिश्च । चर्म्मण्वती नदी ११ तत्रेन्द्रियसंयमनेन
ज्योतिष्टोमफलम् । हिमवत्सुतार्व्वुदः १२ तत्र
वशिष्ठाश्रमः तस्मिन्नेकरात्रवासेन गोसहस्रदान-
फलम् । पिङ्गतीर्थम् १३ तत्रेन्द्रियसंयमनेनसवत्स-
शतकपिलादानफलम् । प्रभासः १४ तत्र हुता-
शनस्तिष्ठति तत्र स्नानेन अग्निष्टोमातिरात्रयोः
फलम् । सरस्वतीसागरसङ्गमः १५ तत्र स्नानेन
गोसहस्रदानफलं त्रिरात्रोपवासेन पितृदेवतर्प-
णेन च अश्वमेघफलम् । वरदानम् १६ यत्र विष्णवे
दुर्व्वाससा वरो दत्तः तत्र स्नानेन गोसहस्र-
दानफलम् । द्बारवत्यां पिण्डारकतीर्थम् १७
तत्र पद्मचिह्नयुक्ता मुद्राः शूलचिह्नितानि पद्मानि
अद्यापि दृश्यन्ते महादेवस्तिष्ठति स्नानेन बहु-
सुवर्णयज्ञफलम् । समुद्रसिन्धुसङ्गमः १८ तत्र
स्नानेन पितृदेवतर्पणेन च वरुणलोकप्राप्तिः ।
द्रिमीतीर्थम् १९ तत्र महादेवस्तिष्ठति तत्र
स्नानेनाश्वमेघफलं महादेवदर्शनार्च्चनाभ्यां सर्व्व-
पापनाशः । वसुधारा २० तस्या दर्शनेन अश्व-
मेधफलं स्नानतर्पणाभ्यां विष्णुलोकप्राप्तिः । सिन्धू-
त्तमम् २१ तत्र स्नानेन बहुसुवर्णयज्ञफलम् ।
यदुतुङ्गम् २२ तत्र गमनेन ब्रह्मलोकप्राप्तिः ।
कुमारिकाशक्रतीर्थम् २३ तत्र स्नानेन विमलत्वं
भवति । पञ्चनदः २४ तत्र पञ्चयज्ञफलम् । भीमा-
स्थानम् २५ तत्र स्नात्वा नरो देवीपुत्त्रो भवति
गोसहस्रदानफलञ्च लभते । गिरिकुञ्जम् २६ तत्र
ब्रह्मा तिष्ठति तस्य नत्या गोसहस्रदानफलम् ।
विमलतीर्थम् २७ अद्यापि तत्र सौवर्णराजत-
मत्स्या दृश्यन्ते तत्र स्नानपानाभ्यां वाजपेय-
फलम् । वितस्ता नदी २८ तत्र तर्पणेन वाज-
पेयफलं स्वर्गप्राप्तिश्च । काश्मीरे वितस्ताख्यं
तक्षकनागसदनम् २९ तत्र स्नानेन वाजपेयफलं
विष्णुलोकप्राप्तिश्च । शमपरा ३० तत्र सायं-
सन्ध्यायां स्नानेन सप्तार्च्चिषे चरुनिवेदनेन च
अश्वमेधसहस्राधिकफलम् । रुद्रास्पदम् ३१ तत्र
महादेवदर्शनात् अश्वमेधफलम् । मणिमान्
पर्व्वतः ३२ तत्र त्रिरात्रोपवासेन ज्योतिष्टोम-
फलम् । देविका नदी ३३ तत्र महादेवस्थानम्
तत्र स्नानमहादेवदर्शनाभ्यां महादेवाय चरु-
निवेदनेन च सर्व्वकामप्राप्तिर्देवलोकप्राप्तिश्च ।
देविकायां रुद्रतीर्थं तत्र स्नानात् सिद्धिप्राप्तिः ।
एवं देविकायां यजनयाजनब्रह्मबालुकपुष्पन्यास-
संज्ञकानि तीर्थानि तेषु स्नानात् मरणभय-
विनाशः । दीर्घसत्रम् ३४ तत्र गमनादेव दीर्घसत्र-
फलप्राप्तिः राजसूयाश्वमेधफलप्राप्तिश्च । विन-
शनम् ३५ मेरुपृष्ठे अन्तर्हिता सरस्वती यत्र याति
सा चमसतीर्थे एवं शिरोद्भेदे नागोद्भेदे च दृश्यते
चमसे स्नानात् वाजपेयफलं नागोद्भेदे स्नानात्
नागलोकप्राप्तिः । शशपानतीर्थम् ३६ तत्र स्नानात्
शिववद्दीप्तिः गोसहस्रदानफलप्राप्तिश्च । कुमार-
कोटी ३७ तत्र स्नानेन पितृदेवपूजनेन च गवा-
मययागफलप्राप्तिः । रुद्रकोटी ३८ यत्र कोटि-
रृषयो मिलिता अहमग्रे रुद्रं द्रक्ष्यामीति
प्रस्थितानां तेषां सन्तोषार्थं एको रुद्रः कोटि-
मूर्त्तयोऽभवत् । तत्र स्नानात् अश्वमेधफलप्राप्तिः
कुलोद्धरणञ्च । सरस्वतीसङ्गमः ३९ तत्र जना-
र्द्दनस्तिष्ठति तत्र स्नानात् बहुसुवणयागफल-
प्राप्तिः । सयावसानम् ४० तत्र गमनात् गोसहस्र-
दानफलप्राप्तिः । कुरुक्षेत्रम् ४१ तत्र गमनात्
सर्व्वपापक्षयः ततो मचक्रुकद्वारपालस्य नम-
स्कारेण गोसहस्रदानफलप्राप्तिः । विष्णुस्थानं
४२ तत्र स्नानात् विष्णुदर्शनात् अश्वमेधफलं
विष्णुलोकप्राप्तिश्च । परिपल्लवम् ४३ तत्र अग्नि-
ष्टोमातिरात्रयागफलप्राप्तिः । पृथिवीतीर्थम् ४४
तत्र गोसहस्रदानफलम् । शालूकिनीतीर्थम् ४५
तत्र दशाश्वमेधिके स्नानात् गोसहस्रदानफलम् ।
सर्पिर्द्दर्व्वी ४६ सा नागतीर्थं तत्र गमनेन अग्नि-
ष्टोमफलं नागलोकप्राप्तिश्च । अवर्णकद्बारपालः
४७ तत्रैकरात्रवासात् गोसहस्रदानफलप्राप्तिः ।
पञ्चनदम् ४८ तत्र कोटितीर्थे स्नानात् अश्वमेध-
फलम् । अश्वितीर्थम् ४९ तत्र रूपप्राप्तिः । वराह-
तीर्थम् ५० यत्र वराहरूपी विष्णुः स्थितः तत्र
स्नानात् अग्निष्टोमफलप्राप्तिः । जयन्त्यम् ५१ तत्र
सोमतीर्थे स्नानात् राजसूयफलप्राप्तिः । एक-
हंसतीर्थम् ५२ तत्र गोसहस्रदानफलप्राप्तिः ।
कृतशौचम् ५३ तत्र गमनात् पुण्डरीकयज्ञफल-
प्राप्तिः । मुञ्जावटतीर्थम् ५४ तत्तु महादेवस्थानं
तत्रैकरजनीवासात् गाणपत्यप्राप्तिः तत्रैव विशा-
लाक्षीयक्षीदर्शनात् सर्व्वकामप्राप्तिः । जाम-
दग्न्याहृतपुष्करतीर्थम् ५५ तत्र स्नानपूजनाभ्यां
हयमेधफलम् । रामह्नदः ५६ यत्र रामेण क्षात्त्र-
मुत्साद्य तेषां रक्तेन पञ्च ह्रदाः कृताः तेषु
स्नानतर्पणाभ्यां पितृगणाद् वरप्राप्तिः बहुसुवर्ण-
यज्ञफलप्राप्तिश्च । वंशमूलकम् ५७ तत्र स्नानात्
स्वकुलोद्धरणम् । कायशोधनम् ५८ तत्र स्नानात्
देहशुद्धिः । लोकोद्धारः ५९ तत्र स्नानात्
स्वकीयलोकोद्धारः । श्रीतीर्थम् ६० तत्र गमनात्
उत्तमश्रीप्राप्तिः । कपिलातीर्थम् ६१ तत्र स्नान-
देवपितृपूजनाभ्यां कपिलासहस्रदानफलम् ।
सूर्य्यतीर्थम् ६२ तत्र स्नानोपवासपितृपूजनैरग्नि-
ष्टोमफलं देवलोकप्राप्तिश्च । गवां भवनम् ६३
तत्राभिषेकेण गोसहस्रदानफलम् । शङ्खिनी-
तीर्थम् ६४ तत्र स्नानात् उत्तमवीर्य्यप्राप्तिः ।
ब्रह्मावर्त्तः ६५ तत्र स्नानात् ब्रह्मलोकप्राप्तिः ।
सुतीर्थकम् ६६ तत्र पितृदेवानां सान्निध्यं तत्र
स्नानपितृदेवपूजनैरश्वमेधफलं पितृलोकप्राप्तिश्च ।
अम्बुमती ६७ तत्र काशीश्वरतीर्थे स्नानात् सर्व्व-
रोगनाशः ब्रह्मलोकप्राप्तिश्च तत्रैव मातृतीर्थं
तत्र स्नानात् सन्तानवृद्धिः श्रीप्राप्तिश्च ॥ शीत-
वनम् ६८ तत्र केशाभ्युक्षणेन प्वित्रता ॥ श्वान-
लोमापहः ६९ तत्र स्नानात् परमगतिप्राप्तिः ।
दशाश्वमेधिकम् ७० तत्र स्नानात् निश्चलगति-
प्राप्तिः ॥ मानुषतीर्थम् ७१ तत्र व्याधपीडिताः
कृष्णमृगा विगाह्य मानुषत्वं प्राप्ताः तत्र स्नानात्
सर्व्वपापमुक्तिः स्वर्गवसतिश्च ॥ आपगानदी ७२
तत्र देवपित्रुद्देशेनैकब्राह्मणभोजनेन कोटि-
ब्राह्मणभोजनसिद्धिः ॥ प्लक्षोडुम्बरः ७३ तत्र ब्रह्मा
तिष्ठति तत्र सप्तर्षिकुण्डे स्नानात् सर्व्वपापनाशो
ब्रह्मलोकप्राप्तिश्च । कपिलस्य केदारम् ७४ तत्र
तपसा सर्व्वपापनाशः अन्तर्धानप्राप्तिश्च । सर-
कम् ७५ तत्र वृषध्वजप्रणामेन सर्व्वकामशिव-
लोकयोः प्राप्तिः । इलास्पदम् ७६ तत्र स्नान-
देवपितृपूजनाभ्यां दुर्गतिविनाशः वाजपेयफल-
प्राप्तिश्च । किन्दानम् ७७ तत्र स्नानादप्रमेय-
दानफलम् । किंजप्यम् ७८ तत्र स्नानात् अप्र-
मेयजपफलम् ॥ अनाजन्मतीर्थम् ७९ तत्
नारदस्थानं तत्र प्राणत्यागात् अनुत्तमलोक-
प्राप्तिः ॥ वैतरणी नदी ८० तत्र स्नानशूल-
पाणिपूजनाभ्यां सर्व्वपापमुक्तिः परमपद-
प्राप्तिश्च । फलकींतीर्थम् ८१ फलकीवने देवा-
स्तपश्चरन्ति ॥ मिश्रकम् ८२ तत्र नारदेन सर्व्व-
तीर्थानि मिश्रितानि तत्र स्नानात् सर्व्वतीर्थ-
स्नानफलम् ॥ मधुवटी ८३ सा देवीस्थानं तत्र
स्नानदेवपितृपूजनाभ्यां गोसहस्रदानफलप्राप्तिः
कौशिकीदृषद्वतीसङ्गमः ८४ तत्र स्नानात् सर्व्व-
पापमुक्तिः । किन्दत्तकूपः ८५ तत्र तिलप्रस्थ-
दानात् ऋणत्रयमुक्तिः परमसिद्धिप्राप्तिश्च ।
वेदीतीर्थम् ८६ तत्र स्नानात् गोसहस्रदानफल-
प्राप्तिः ॥ अहः सुदिनं तीर्थद्बयम् ८७ तयोः
स्नानात् सूर्य्यलोकप्राप्तिः । नृगधूमः ८८ तत्र
विष्णु पदे स्नानात् वामनपूजनाच्च सर्व्वपाप-
मुक्तिः रविलोकप्राप्तिश्च ॥ सरस्वत्यास्तीर्थं
श्रीकुञ्जम् ८९ तत्र स्नानात् स्वर्गवसतिः ॥
नैमिषकुञ्जम् ९० तस्मिन् स्नानात् हयमेधफल-
प्राप्तिः । कन्यातीर्थम् ९१ तत्र स्नानात् ज्योति-
ष्टोमफलप्राप्तिः । ब्रह्मस्थानम् ९२ तत्र स्नानात्
शूद्रस्यापि ब्राह्मणत्वं ब्राह्मणस्य परमगतिः ॥
सोमतीर्थम् ९३ तत्र स्नानात् सोमयागफल-
प्राप्तिः ॥ सप्तसारस्वततीर्थम् ९४ तत्र स्नान-
जपाभ्यां ब्रह्मलोकप्राप्तिः ॥ औशनसकम् ९५
तत्र त्रिसन्ध्यं कार्त्तिकेयस्य सन्निधानम् । कपाल-
मोचनम् ९६ तत्र स्नानात् सर्व्वपापनाशः ॥
अग्नितीर्थम् ९७ तत्र स्नानात् वह्निलोकप्राप्तिः
पृष्ठ २/६२८
कुलोद्धरणञ्च । विश्वामित्रतीर्थम् ९८ तत्र
स्नानात् ब्रह्मण्यप्राप्तिः । ब्रह्मयोनिः ९९ तत्र
स्नानात् ब्रह्मलोके वासः । पृथूदकम् १०० तत्
कार्त्तिकेयस्थानं तत्राभिषेकात् अश्वमेधफल-
प्राप्तिः पापिनामपि स्वर्गप्राप्तिः । मधुस्रवम्
१०१ तत्र स्नानात् गोसहस्रदानफलप्राप्तिः ॥
सरस्वत्यरुणासङ्गमः १०२ तत्र त्रिरात्रोपवास-
स्नानाभ्यां ब्रह्महत्यापापनाशः । अवकीणम्
१०३ तत् दर्भिमुनिनिर्म्मितं दर्भिणा चत्वारः
समुद्रा आनीताः तत्र स्नानात् दुर्गतिविनाशः ।
शतसहस्रकम् १०४ साहस्रकम् १०५ उभयत्र
स्नानात् गोसहस्रदानफलं दानोपवासौ सहस्र-
गुणौ भवेत् ॥ रेणुकातीर्थम् १०६ तत्राभिषेक-
पितृदेवपूजनाभ्यां सर्व्वपापनाशः अग्निष्टोमफल-
प्राप्तिश्च । विमोचनम् १०७ तत्र स्नानात् सर्व्व-
प्रतिग्रहकृतपापनाशः । पञ्चवटतीर्थम् १०८
तत्र गमनात् महापुण्यप्राप्तिः स्वर्गगमनञ्च ॥
तैजसम् १०९ यत्र ब्रह्मादिभिः सैनापत्ये कार्त्ति-
केयोऽभिषिक्तः । कुरुतीर्थम् ११० तत्र स्नानात्
रुद्रलोकप्राप्तिः । स्वर्गद्वारम् १११ तत्र गम-
नात् स्वर्गलोकाग्निष्टोमफलप्राप्तिः । अनरकम्
११२ तत्र स्नानात् दुर्गतिनाशः । अस्थिपुरम्
११३ तत्र पितृदेवतर्पणात् अग्निष्टोमफलप्राप्तिः ।
गङ्गाह्रदकूपः ११४ तत्र स्नानात् ब्रह्मलोक-
प्राप्तिः । स्थाणुवटतीर्थम् ११५ तत्र स्नानैक-
रात्रवासाभ्यां रुद्रलोकप्राप्तिः । वदरीपाचनम्
११६ तत्तु वशिष्ठाश्रमः तत्र त्रिरात्रोपवास-
वदरभक्षणाभ्यां अश्वमेधफलम् हरलोक-
प्राप्तिश्च । इन्द्रमार्गम् ११७ तत्राहोरात्रोप-
वासात् इन्द्रलोकप्राप्तिः । आदित्याश्रमः ११८
तत्र स्नानात् सूर्य्यलोकप्राप्तिः । सोमतीर्थम्
११९ तत्र स्नानात् सोमलोकप्राप्तिः । कन्या-
श्रमः १२० तत्र त्रिरात्रवासोपवासाभ्यां कन्या-
शतप्राप्तिः ब्रह्मलोकगमनञ्च । दधीचतीर्थम्
१२१ तत्र स्नानात् वाजपेयफलप्राप्तिः । सन्नि-
हितातीर्थम् १२२ तत्र अमावस्यायां सर्व्वाणि
तीर्थान्यायान्ति एवं सूर्य्यग्रहणे स्नानात् शता-
श्वमेधफलप्राप्तिः स्नानदानाभ्यां स्वर्गलोक-
प्राप्तिश्च । तत्रामावस्यायां सूर्य्यग्रहणे स्नान-
श्राद्धाभ्यां अश्वमेधसहस्रफलप्राप्तिः । स्नान-
मात्रात् सर्व्वपापनाशः ब्रह्मलोकप्राप्तिश्च ॥
गङ्गाह्नदः १२३ तत्र स्नानात् राजसूयाश्वमेघ-
फलप्राप्तिः । कुरुक्षेत्रम् १२४ तत् तरन्तुकार-
न्तुकयोः एवं रामह्रदमचक्रुकयोरन्तरं एतत्
स्यमन्तपञ्चकं पितामहस्योत्तरबेदिः ॥ धर्म्म-
तीर्थम् १२५ तत्र स्नानादासप्तमकुलोद्धरणम् ॥
कारापचनम् १२६ तत्र स्नानात् अग्निष्टोम-
फलं विष्णुलोकप्राप्तिश्च । सौगणिकवनम् १२७
यत्र ब्रह्मादयो देवाः प्रत्यहमायान्ति तद्वन-
प्रवेशमात्रेण सर्व्वपापनाशः ॥ प्लक्षसरस्वती
१२८ तत्र स्नानपितृदेवपूजनाभ्यां अश्वमेधफल-
प्राप्तिः । ईशानाध्युषितम् १२९ तत्र शाक-
म्भरी देवी तत्र त्रिरात्रोपवासशाकाहाराभ्यां
द्बादशवर्षशाकाहांरफलप्राप्तिः । सवर्णाख्यम्
१३० तत्र शिवस्तिष्ठति तस्य पूजनात् अश्व-
मेधफलगाणपत्ययोः प्राप्तिः । धूमावती १३१
तत्र त्रिरात्रोपवासात् मनस्कामप्राप्तिः । धूमा-
वती दक्षिणार्द्धे रथावर्त्तः १३२ तत्रारोहणेन
महादेवप्रसादात् परमगतिप्राप्तिः । धारा १३३
तत्र स्नानात् शोकनाशः । गङ्गाद्वारम् १३४
तत्र कोटितीर्थे स्नानात् पुण्डरीकयागफल-
प्राप्तिः कुलोद्धरणं एकरात्रवासेन गोसहस्रदान-
फलप्राप्तिश्च । सप्तगङ्गम् १३५ त्रिगङ्गम् १३६
सप्तावर्त्तः १३७ एतेषु पितृदेवतर्पणात् पुण्य-
लोकप्राप्तिः । गङ्गायमुनासङ्गमः १३८ तत्र
स्नानात् दशाश्वमेधफलप्राप्तिः कुलोद्धरणञ्च ।
कनखलः १३९ तत्र स्नानत्रिरात्रोपवासाभ्यां
वाजिमेधफलब्रह्मलोकयोः प्राप्तिः ॥ कपिला-
वटः १४० तत्रैकरात्रवासेन गोसहस्रदानफल-
प्राप्तिः । कपिलनागराजः १४१ तत्राभिषेकात्
कपिलासहस्रदानफलप्राप्तिः । ललितिका १४२
सा शान्तनुतीर्थं तत्र स्नानात् दुर्गतिविनाशः ॥
सुगन्धा १४३ तत्र गमनात् सर्व्वपापविशुद्धिः
ब्रह्मलोकप्राप्तिश्च । रुद्रावर्त्तः १४४ तत्र स्नानात्
ब्रह्मलोकप्राप्तिः ॥ गङ्खासरस्वतीसङ्गमः १४५
तत्र स्नानात् अश्वमेधफलप्राप्तिः स्वर्गगमनञ्च ॥
भद्रकर्णह्रदः १४६ तत्र स्नानशङ्करपूजनाभ्यां
दुर्गतिनाशः विष्णुलोकप्राप्तिश्च । कुब्जाम्रकम्
१४७ तत्र गमनात् स्वर्गप्राप्तिः । अरुन्धती-
वटः १४८ तत्रैकरात्रवासात् गोसहस्रदान-
फलप्राप्तिः कुलोद्धरणञ्च । सामुद्रकम् १४९ तत्र
त्रिरात्रोपवासेन गोसहस्रदानफलं कुलोद्धर-
णञ्च ॥ ब्रह्मावर्त्तः १५० तत्र गमनात् अग्नि-
ष्टोमफलं ब्रह्मलोकप्राप्तिश्च । यमुनाप्रभवः १५१
तत्र स्नानात् अश्वमेधफलस्वर्गलोकयोः प्राप्तिः ॥
दर्व्वीसंक्रमणम् १५२ तत्र गमनात् वाजिमेध-
फलप्राप्तिः ब्रह्मलोकगमनञ्च । सिन्धुप्रभवः १५३
तत्र पञ्चरात्रवासात् बहुसुवर्णयज्ञफलप्राप्तिः ॥
अर्थवेदी १५४ तत्र गमनात् अश्वमेधफल-
स्वर्गयोः प्राप्तिः ॥ वाशिष्ठी नदी तत्रैव ऋषि-
कुल्या १५५ वाशिष्ठी गमनात् सर्व्ववर्णानां
द्बिजत्वप्राप्तिः ऋषिकुल्यायां स्नानैकमासवास-
शाकाहारैः ऋषिलोकप्राप्तिः ॥ भृङ्गतुङ्गम्
१५६ तत्र गमनात् वाजिमेधफलप्राप्तिः ॥ वीर-
प्रमोक्षः १५७ तत्र गमनात् सर्व्वपापप्रणाशः ॥
सन्ध्या सा विद्यातीर्थम् १५८ तत्र स्नानात् यत्र
तत्रैव विद्याप्राप्तिः ॥ महाश्रमः १५९ तत्रैक-
कालनिराहारात् शुभलोकप्राप्तिः ॥ महालयः
१६० तत्र षष्ठकालोपवासेनैकमासवासात्
आत्मना सहैकविंशतिपुरुषोद्धारः तत्रैव महे-
श्वरदर्शनात् सर्व्वपापमरणभययोर्विनाशः बहु-
सुवर्णयागफलप्राप्तिश्च ॥ वेतसीका १६१ तत्र
गमनात् अश्वमेधफलं औशनसगतिप्राप्तिश्च ॥
सुन्दरिका १६२ तत्र गमनात् रूपप्राप्तिः ॥
ब्राह्मणिका १६३ तत्र गमनात् ब्रह्मलोकप्राप्तिः ।
नैमिषम् १६४ तत्र ब्रह्मा तिष्ठति तत्र प्रवेशात्
सर्व्वपापनाशः स्नानात् गवामययागफलप्राप्तिः
सप्तकुलोद्धारः उपवासेन प्राणत्यागात् स्वर्ग-
प्राप्तिश्च ॥ गङ्गोद्भेदः १६५ तत्र त्रिरात्रोप-
वासात् वाजिमेधफलप्राप्तिः विष्णुलोकवासश्च ॥
सरस्वती १६६ तत्र पितृदेवतर्पणात् सारस्वत-
लोकवासः ॥ बाहुदा नदी १६७ तत्रैकरात्रि-
वासात् ब्रह्मलोकप्राप्तिः । गोप्रचारतीर्थम् १६८
तत्तु सरयूतीरं तत्र स्नानात् सर्व्वपापनाशः
देवलोकप्राप्तिश्च ॥ गोमत्यां रामतीर्थम् १६९
तत्र स्नानात् अश्वमेधफलप्राप्तिः निजकुलपाव-
नञ्च । साहस्रवम् १७० तत्र गमनात् राज-
सूयाश्वमेधफलप्राप्तिः । राजगृहम् १७१ तत्र
स्नानात् कुवेरवदाह्लादप्राप्तिः । मणिनागः
१७२ तत्र गमनात् गोसहस्रदानफलप्राप्तिः
एवं तत् समीपे नित्यकर्म्मकरणात् सर्पविषभय-
नाशः एकरात्रवासात् सर्व्वपापनाशश्च । गोतम-
वनम् १७३ तत्र अहल्याह्रदे स्नानात् परम-
गतिप्राप्तिः । श्रीदेवी १७४ तत्र गमनात्
श्रीप्राप्तिः । उदपानम् १७५ तत्राभिषेकात्
वाजिमेधफलप्राप्तिः । जनकराजकूपः १७६
तत्राभिषेकात् विष्णुलोकप्राप्तिः ॥ विनशनम्
१७७ तत्र गमनात् वाजपेयफलप्राप्तिः ।
विशल्या १७८ सा सर्व्वतीर्थजलोद्भवा तत्र
गमनात् वाजपेयफलप्राप्तिः रविलोकगमनञ्च ॥
तपोवनम् १७९ तत्राधिवासात् गुह्यकलोक-
वासः । कम्पना नदी १८० सा सिद्धनिषेविता
तत्र गमनात् पुण्डरीकयागफलप्राप्तिः । विशल्या
नदी १८१ तत्र गमनात् अग्निष्टोमफलं देव-
लोके चिरवासश्च । माहेश्वरी १८२ तत्र गम-
नात् अश्वमेधफलप्राप्तिः स्वकुलोद्धरणञ्च ।
दिवौकःपुष्करिणी १८३ तत्र गमनात् दुर्गति-
विनाशः वाजिमेधफलप्राप्तिश्च । रामपदम् १८४
तत्र गमनात् अश्वमेधफलम् । माहेश्वरपदम्
१८५ तत्र स्नानात् अश्वमेधफलं तत्र तीर्थ-
कोटी तत्र स्नानात् पुण्डरीकयागफलप्राप्तिः ।
नारायणस्थानम् १८६ यत्र शालग्रामनामा
हरिस्तिष्ठति तत्र गमनात् अश्वमेधफलं विष्णु-
लोकगमनञ्च । तत्रैव उदपानं यत्र चत्वारः
समुद्राः सन्निहिताः तत्र स्नानात् दुर्गतिनाशः
तत्र महादेवस्तिष्ठति तत्र गमनात् अश्वमेध-
फलप्राप्तिः इन्द्रलोकवासश्च ॥ जातिस्मरः १८७
तत्र स्नानात् जातिस्मरत्वप्राप्तिः । वटेश्वरपुरम्
१८८ तत्र केशवस्य दर्शनपूजनाभ्यामुपवासेन
च वाच्छितकामप्राप्तिः । वामनतीर्थम् १८९
तत्र गमनात् दुर्गतिविनाशः विष्णुलोक-
प्राप्तिश्च । तत्र कौशिकी तिष्ठति तस्याः सेव-
नात् राजसूययज्ञफलप्राप्तिः । चम्पकारण्यम्
१९० तत्रैकरात्रवासात् गोसहस्रदानफल-
प्राप्तिः । गोष्ठीनम् १९१ तत्रैकरात्रोपवासात्
अग्निष्टोमफलप्राप्तिः । तत्र देव्या सह विश्वे-
पृष्ठ २/६२९
श्वरस्तिष्ठति तस्य दर्शनात् मित्रावरुणलोक-
वासः ॥ कन्यासंवेद्यम् १९२ तत्राहारजयात्
मनुलोकप्राप्तिः तत्रान्नदानमक्षयं भवति ॥
निश्चीरा नदी १९३ तत्र गमनात् अश्वमेध-
फलप्राप्तिः स्वकुलोद्धरणञ्च । निश्चीरासङ्गमे
अन्नदानेन ब्रह्मलोकगमनम् । तत्र वशिष्ठा-
श्रमः तत्राभिषेकात् वाजपेयफलप्राप्तिः ॥ देव-
कूटम् १९४ तत्र गमनात् वाजिमेधफलप्राप्तिः
कुलोद्धरणञ्च ॥ कौशिकमुनिह्रदः १९५ तत्र
मासवासात् अश्वमेधफलप्राप्तिः ॥ सर्व्वतीर्थवर-
ह्रदः १९६ तत्र वासात् बहुसुवर्णयागफल-
प्राप्तिः दुर्गतिविनाशश्च ॥ वीराश्रमः १९७ तत्र
कुमारस्तिष्ठति तत्र गमनात् अश्वमेधफलप्राप्तिः ।
अग्निधारा १९८ तत्र गमनात् अश्वमेधफल-
प्राप्तिः कुलोद्धरणञ्च ॥ पितामहसरः १९९ तत्र
शैलराजप्रतिष्ठितौ शिवविष्णू तिष्ठतः तत्रा-
भिषेकात् अग्निष्टोमफलप्राप्तिः । तत्रैव कुमार-
धारा तत्र स्नानात् कृतार्थता त्रिकालोपवासेन
ब्रह्महत्यानाशः ॥ गौरीशिखरम् २०० तत्रा-
रोहणात् शुद्धता तत्र कुण्डे स्नानपितृदेवार्च्च-
नाभ्यां अश्वमेधफलप्राप्तिः स्वर्गगमनञ्च । ताम्रा-
रुणा २०१ तत्र गमनात् वाजिमेधफलप्राप्तिः
शक्रलोकगमनञ्च ॥ नन्दिनी २०२ तत्र त्रिदश-
सेवितः कूपः तत्र गमनात् नरमेधफलप्राप्तिः ॥
कौशिक्यारुणसङ्गमः २०३ तत्र त्रिरात्रोप-
वासात् सर्व्वपापमुक्तिः ॥ उर्व्वशीतीर्थम् २०४
सोमाश्रमः २०५ कुम्भकर्णाश्रमः २०६ तेषु
स्नानात् अश्वमेधफलप्राप्तिः स्वर्गगमनञ्च ॥
कोकामुखम् २०७ तत्र स्नानात् जातिस्मर-
त्वम् ॥ नन्दा २०८ तत्र गमनात् कृतार्थता
सर्व्वपापनाशः स्वर्गगमनञ्च । ऋषभद्बीपः २०९
तत्र क्रौञ्चनिसूदनसेवनात् सरस्वत्यां स्नानाच्च
विमाने विराजः ॥ औद्दालकतीर्थम् २१०
तत्राभिषेकात् सर्व्वपापनाशः । ब्रह्मतीर्थम् २११
तत्र गमनात् वाजपेयफलप्राप्तिः । चम्पा २१२
तत्र गमनात् गोसहस्रदानफलप्राप्तिः । नरे-
तिका २१३ तत्र गमनात् वाजपेयफलं विमान-
प्राप्तिश्च । संविद्यतीर्थम् २१४ तत्र स्नानात्
विद्याप्राप्तिः । लौहित्यम् २१५ तत्र गमनात्
बहुसुवर्णयागफलप्राप्तिः । करतोया २१६ तत्र
त्रिरात्रोपवासात् वृषभैकादशदानफलप्राप्तिः ॥
कोशलायां कालतीर्थम् २१७ तत्र गमनात्
गोसहस्रदानफलप्राप्तिः स्वर्गगमनञ्च । गङ्गा-
सागरसङ्गमः २१८ तत्र गमनात् शताश्वमेध-
फलप्राप्तिः । गङ्गायाः परद्वीपः २१९ तत्र
स्नानत्रिरात्रोपवासाभ्यां सर्व्वकामप्राप्तिः । वैत-
रणी २२० तत्र गमनात् सर्व्वपापनाशः ॥
विरजम् २२१ तत्र गमनात् चन्द्रवद्दीप्तिः ॥
प्रभवः २२२ तत्र गमनात् सर्व्वपापनाशः
गोसहस्रदानफलस्वकुलपावनञ्च । शोणज्योती-
रथीसङ्गमः २२३ तत्र पितृदेवतर्पणात् अग्नि-
ष्टोमफलप्राप्तिः ॥ शोण्प्रभवः २२४ नर्म्मदा-
प्रभवः २२५ वंशगुल्मः २२६ तत्र स्नानात्
वाजिमेधफलप्राप्तिः । ऋषभः २२७ तत्र गम-
नात् गोसहस्रदानफलप्राप्तिः । पुष्पवती २२८
तत्र स्नानत्रिरात्रोपवासाभ्यां गोसहस्रदानफल-
प्राप्तिः कुलोद्धरणञ्च ॥ वदरिकम् २२९ तत्र
स्नानात् दीर्घायुष्ट्वप्राप्तिः स्वर्गगमनञ्च । महेन्द्र-
पर्व्वतः २३० तत्र रामतीर्थे स्नानात् वाजि-
मेधफलप्राप्तिः । मतङ्गकेदारम् २३१ तत्र
स्नानात् स्वर्गलोकप्राप्तिः । श्रीपर्व्वतः २३२ तत्र
नदीतीरे स्नानात् अश्वमेधफलं परमसिद्धि-
प्राप्तिश्च तत्र महादेवो देव्या सह तिष्ठति तत्र
देवह्रदे स्नानात् अश्वमेधफलप्राप्तिः शिवलोक-
गमनञ्च । पाण्ड्यदेशे ऋषभपर्व्वतः २३३ तत्र
गमनात् वाजपेयफलप्राप्तिः स्वर्गगमनञ्च ॥
कावेरी २३४ तत्र गमनात् गोसहस्रदानफलम् ।
समुद्रतीरे कन्यातीर्थम् २३५ तत्र स्नानात्
सर्व्वपापनाशः । समुद्रमध्ये गोकर्णतीर्थम् २३६
तत्र शिवस्तिष्ठति तस्य पूजनात् त्रिरात्रोप-
वासाच्च दशाश्वमेधतुल्यफलङ्गाणपत्यप्राप्तिः ।
द्वादशरात्रोपवासात् कृतार्थता च । तत्र
गायत्त्रीस्थानं तत्र त्रिरात्रोपवासात् गोसहस्र-
दानफलप्राप्तिः ब्राह्मणस्य गायत्त्रीपाठात् सदा
सम्पन्नता अब्राह्मणस्य पाठात् तस्या विनाशः ॥
सम्बर्त्तवापी २३७ तत्र गमनात् रूपसौभाग्य-
प्राप्तिः । वेण्वा २३८ तत्र पितृदेवतर्पणात्
मयूरहंसयुक्तविमानप्राप्तिः ॥ गोदावरी २३९
तत्र गमनेन गवामययज्ञफलप्राप्तिः वायुलोक-
गमनञ्च । वेण्वासङ्गमः २४० तत्र स्नानात्
सर्व्वपापनाशः । वरदासङ्गमः २४१ तत्र स्नानात्
वाजिमेधफलप्राप्तिः । ब्रह्मस्थूणा २४२ तत्र
त्रिरात्रोपवासात् गोसहस्रदानफलप्राप्तिः स्वर्ग-
गमनञ्च । कुशप्लवनम् २४३ तत्र स्नानत्रिरा-
त्रोपवासाभ्यां चन्द्रलोकप्राप्तिः । देवह्रदः २४४
कृष्णवेण्वासमुद्भववनम् २४५ ज्योतिर्मात्रह्रदः
२४६ कन्याश्रमः २४७ तेषु गमनात् अग्नि-
ष्टोमफलप्राप्तिः । देवह्रदे स्नानात् गोसहस्र-
दानफलप्राप्तिः । ज्योतिर्मात्रह्रदे स्नानात् जाति-
स्मरत्वम् ॥ पयोष्णी नदी २४८ तत्र स्नानतर्प-
णाभ्यां गोसहस्रदानफलप्राप्तिः । दण्डकारण्यम्
२४९ तत्र महाराजे जलस्पर्शात् गोसहस्रदान-
फलप्राप्तिः । शरभङ्गाश्रमः २५० कुशाश्रमः २५१
तत्र गमनात् दुर्गतिनाशः कुलपवित्रता च ॥
सूर्पारकम् २५२ तत्तु रामतीर्थम् तत्र स्नानात्
बहुसुवर्णयज्ञफलप्राप्तिः । सप्तगोदावरम् २५३
तत्र स्नानात् महापुण्यप्राप्तिः देवलोकगमनञ्च ।
देवपथम् २५४ तत्र गमनेन देवसत्रफलप्राप्तिः ॥
तुङ्गकारण्यम् २५५ तत्र प्रवेशात् सद्यः पाप-
नाशः मासवासात् स्वकुलस्य पवित्रता ब्रह्म-
लोकगमनञ्च । मेधाविकम् २५६ तत्र पितृ-
देवतर्पणात् अग्निष्टोमफलस्मृतिमेघानां प्राप्तिः ॥
कालञ्जरपर्व्वतः २५७ तत्र देवह्रदे स्नानात्
सूर्य्यलोकप्राप्तिः । त्रिकूटपर्व्वतः २५८ तत्र
मन्दाकिन्यां स्नानपितृदेवतर्पणाभ्यां अश्वमेध-
फलप्राप्तिः परमगतिलाभश्च ॥ भर्त्तृस्थानम् २५९
तत्र कार्त्तिकेयस्तिष्ठति तत्र गमनात् सर्व्वकाम-
प्राप्तिः । कोटितीर्थे स्नानात् गोसहस्रदानफल-
प्राप्तिः । ज्येष्ठस्थानम् २६० तत्र महादेव-
स्तिष्ठति तद्दर्शनात् चन्द्रवद्दीप्तिः । तत्र कूपे
चत्वारः समुद्रास्तिष्ठन्ति तत्र स्नानप्रदक्षिणाभ्यां
परमगतिप्राप्तिः । शृङ्गवेरपुरम् २६१ यत्र
रामो गङ्गामुत्तीर्णः तत्र स्नानात् सर्व्वपाप-
नाशः विष्णुलोकप्राप्तिश्च । मुञ्जावटः २६२ तत्र
महादेवस्तिष्ठति तस्य पूजनप्रदक्षिणाभ्यां गाण-
पत्यप्राप्तिः । तत्तीर्थे जाह्नवीस्नानात् सर्व्वपाप
नाशः ॥ प्रयागः २६३ तत्र त्रीण्यग्निकुण्डानि
तत्र यमुनया गङ्गा सङ्गता यत्र ब्रह्मादयो देवा
सिद्धाः पितरः सनत्कुमारमुखा ऋषयो नाग-
सुपर्णसिद्धक्रतुगन्धर्व्वाप्सरसस्तिष्ठन्ति एवं वेदा
यज्ञाश्च मूर्त्तिमन्तः ब्रह्माणमुपासते । स सर्व्व-
तीर्थेभ्योऽधिकः । तस्य नामसङ्कीर्त्तनश्रवण-
मृत्तिकालभनैः सर्व्वपापनाशः तत्र स्नानात्
त्रिलोके एवं वेदविद्यासु यत् पुण्यं तत्प्राप्तिः
राजसूयाश्वमेधफलप्राप्तिश्च तत्र वपनं महत् ॥
भोगवती नाम वासुकितीर्थम् २६४ तत्राभि-
षेकात् अश्वमेधफलप्राप्तिः ॥ * ॥
“अयोध्या मथुरा माया काशी काञ्ची
अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥
तासु वासं प्रकुर्व्वन्ति ये मृता वा नराः परम् ।
लभन्ते न पुनर्जन्म मातृगर्भेषु कुत्रचित् ॥”
इति पाद्मे भूमिखण्डम् ॥
शास्त्रम् । अध्वरः । क्षेत्रम् । उपायः । (यथा,
महाभारते । ५ । १२५ । २६ ।
“वासुदेवेन तीर्थेन तात ! गच्छस्व संशमम् ॥”
“तीर्थेन उपायेन ।” इति तट्टीकायां नील-
कण्ठः ॥ अवसरः । यथा, भागवते । ३ । १९ । ४ ।
“स तदा लब्धतीर्थोऽपि न ववाधे निरायुधम् ।
मानयन् स मृधे धर्म्मं विष्वक्सेनं प्रकोपयन् ॥”)
नारीरजः । अवतारः । ऋषिजुष्टाम्बु । (यथा,
रामायणे । १ । २ । ४ ।
“अकर्द्दममिदं तीर्थं भरद्बाज ! निशामय ।
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥”)
पात्रम् । (यथा, मनुः । ३ । १३० ।
“दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थन्तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥”)
उपाध्यायः । (यथा, महाभारते । ४ । ४० । १८ ।
“शिक्षितो ह्यसि सारथ्ये तीर्थतः पुरुषर्षभ ! ॥”
“तीर्थतो गुरुतः ।” इति नीलकण्ठः ॥)
मन्त्री । इति मेदिनी । थे, ८ ॥ (मन्त्रि-
प्रभृत्यष्टादशराष्ट्रसम्पत् । यथा, महाभारते ।
२ । ५ । ३८ ।
“कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सितीर्थानि चारकैः ॥”
“तीर्थानि मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य
पृष्ठ २/६३०
राजाकृतकृत्यो भवति । तानि चोक्तानि नीति-
शास्त्रे यथा, --
‘मन्त्री पुरोहितश्चैव युवराजश्च भूपतिः ।
पञ्चमो द्बारपालश्च षष्ठोऽन्तर्वंशिकस्तथा ॥
कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा ।
कृत्याकृत्येषु चार्थानां नवमो विनियोजकः ॥
प्रदेष्टा नगराध्यक्षः कार्य्यनिर्म्माणकृत्तथा ।
धर्म्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः ॥
षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः ।
अटवीपालकान्तानि तीर्थान्यष्टादशैव तु ॥
चारान् विचारयेत्तीर्थे स्वात्मनश्च परस्य च ।
पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥
मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहितम् ॥’
इत्येषां तीर्थशब्दवाच्यत्वम् ॥ हलायुधः ।
योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि ।
पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात् दर्शनेष्वपि ॥”
इति तट्टीकायां नीलकण्ठः ॥)
योनिः । दर्शनम् । घट्टः । इति हेमचन्द्रः ॥
विप्रः । आगमः । निदानम् । अग्निः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥ (पुण्यकालः ।
इति स्वामी ॥ यथा, भागवते । १ । १२ । १४ ।
“हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।
प्रादात् स्वन्नञ्च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥”
पुं, सन्न्यासिनामुपाधिविशेषः । यथा, प्राण-
तोषिण्यां अवधूतप्रकरणे ।
“त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे ।
स्नायात्तत्त्वार्थभावेन तीर्थनामा स उच्यते ॥”)

तीर्थकरः, पुं, (करोतीति करः । तीर्थस्य शास्त्रस्य

पुण्यक्षेत्रस्य वा करः ।) जिनः । इति हेम-
चन्द्रः । १ । २४ ॥ (विष्णुः । यथा, महा-
भारत । १३ । १४९ । ८७ ।
“मनोयवस्तीर्थकरो वसुरेता वसुप्रदः ॥”
“चतुर्द्दशविद्यानां बाह्यविद्यामयानाञ्च प्रणेता
प्रवक्ता चेति तीर्थकरः ।” इति तद्भाष्यम् ॥)

तीर्थकृत्, पुं, (तीर्थं करोतीति । कृ + क्विप्

तुगागमश्च ।) जिनः । इति धरणिः ॥

तीर्थङ्करः, पुं, (तीर्थं करोतीति । कृ + ख मुम् च ।)

जिनः । इति हेमचन्द्रः । १ । २४ ॥

तीर्थयात्रा, स्त्री, (तीर्थे यात्रा गमनम ।) तीर्थ-

गमनम् । तद्विधिनिषेधौ यथा, --
ऋषय ऊचुः ।
“कर्त्तव्या तीर्थयात्रास्मिन् लोके केन कथं द्विजैः ।
श्रोतं न एतदिच्छामो वद वह्निमतान् मुने ! ॥
सूत उवाच ।
एतत् श्रुत्वा ततः सूतः पुराणो मुनिसत्तमः ।
प्रोवाच तान् मुनिश्रेष्ठान् स्वधर्म्मं शृणुतानघाः ॥
यज्ञाधिकारे च गते द्बिजेन्द्राः
सर्व्वस्वनाशे क्षितिपोऽथ वैश्यः ।
शुश्रूषणायां बलवीर्य्यहीनः
शूद्रस्तु तीर्थानि भजेत् सुदान्तः ॥
मुमुक्षुभिस्तीर्थगतिर्मुनीन्द्रैः
कार्य्या तथा तत्फलकाङ्क्षिभिश्च ।
तां ब्रह्मचारी विधिवत् करोति
स्वयं यतो गुरुणा सन्नियुक्तः ॥
नित्यं गृहस्थाश्रमसंस्थितस्य
मनीषिभिस्तीर्थगतिर्निषिद्धा
मातुः पितुर्भक्तिमना गृहस्थः
सुतो न कुर्य्यात् खलु तीर्थयात्राम् ॥
गङ्गाजलेनानुदिनं मनुष्यो
मृद्गोमयेनापि सदा मुनीन्द्राः ।
स्नातीह सम्यक् यदि भावशुद्धः
फलं तदाप्नोति न चान्यदेतत् ॥
सर्व्वाणि तीर्थानि हि यानि तानि
स्वर्गेऽन्तरीक्षेऽपि पुनः पृथिव्याम् ।
तुल्यानि सम्यक् मुनयोऽग्निहोत्रे
सत्यं गृहस्थाश्रमसंश्रितस्य ॥
यस्यह यज्ञेष्वधिकारितास्ति
गृहेऽन्वहं दानवतो मुनीन्द्राः ।
संजुह्वतः कल्कविवर्ज्जितस्य
तीर्थे गतिः पूर्ब्बतरैर्निषिद्धा ॥”
इति वह्निपुराणे १ अध्यायः ॥

तीथराजी, स्त्री, (तीर्थानां राजी श्रेणिरिव ।

यद्वा, तीर्थेषु राजते शोभते इति । राज + इन् ।
ततो वां ङीष् ।) काशी । इति त्रिकाण्डशेषः ॥

तीर्थवाकः, पुं, (तीर्थस्येव वाको वचनमस्य ।

उत्तमाङ्गस्थित्यां प्रशंसनीयत्वादस्य तथात्वम् ।)
केशः । इति हेमचन्द्रः । ३ । २३१ ॥

तीर्थसेवी, [न्] पुं स्त्री, (तीर्थं घट्टादिजल-

प्रान्तस्थानं सेवते इति । सेव + णिनिः ।) वक-
पक्षी । इति राजनिर्घण्टः ॥ तीर्थवासिनि, त्रि ॥

तीव, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) तीवति । इति दुर्गादासः ॥

तीवरः, पुं, (तीर्य्यते इति । तॄ प्लवनतरणयोः +

“छित्वरच्छत्वरेति ।” उणां ३ । १ । इति
ष्वरच्प्रत्ययेन निपातनात् साधुः ।) समुद्रः ।
(तीरयति कर्म्मसमाप्तिं करोतीति । तीर +
ष्वरच् । गुणाभावो रेफलोपश्च । इत्युज्ज्वल-
दत्तः ।) व्याधः । इति मेदिनी । रे, १६३ ॥
वर्णसङ्करजातिविशेषः । तेओर इति भाषा ।
स तु राजपुत्त्रस्त्रियां क्षत्त्रियाज्जातः । इति
ब्रह्मवैवर्त्तम् ॥ चूर्णकभार्य्यायां पुण्ड्रकाज्जातः ।
इति पराशरपद्धतिः ॥

तीवरी, स्त्री, (तीवर + षित्त्वात् ङीप् ।) व्याध-

पत्नी । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

तीव्रं, क्ली, (तीव स्थौल्ये + बाहुलकात् रक् ।

तिज निशाने + बाहुलकात् रन् । दीर्घत्वम् ।
जकारस्य वकारः । इत्युज्ज्वलदत्तः । २ । २८ ॥)
अतिशयः । इत्यमरः । १ । २ । ७० ॥ तीरम् ।
तीक्ष्णम् त्रपु । इत्युणादिकोषः ॥ लोहम् । इति
राजनिर्घण्टः ॥

तीव्रः, त्रि, (तिज + बाहुलकात् रन् ।) दीर्घत्वादि-

कञ्च । अत्युष्णः । नितान्तः । (यथा, रघुः । ९ । ६५ ।
“तान् हत्वा गजकुलबद्धतीव्रवैरान्
काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ॥”)
कटुः । इत्युणादिकोषः ॥ (दुःसहः । यथा,
आर्य्यासप्तशत्याम् । ६९१ ।
“हन्त विरहः समन्ताज्जलयति दुर्व्वारतीव्र-
संवेगः ॥”
ताक्ष्णम् । यथा, तत्रैव । १५२ ।
“कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण ! किं तीव्रैः ।
विध्यसि मां निश्वासैः स्मरः शरैः शब्दवेधीव ॥”)
शिवे, पुं । इति शब्दरत्नावली ॥

तीव्रकण्ठः, पुं, (तीव्रः कण्ठो यस्मात् । अस्य

भक्षणेन हि कण्ठदेशे पीडोत्पत्तेस्तथात्वम् ।)
शूरणः । इति राजनिर्घण्टः ॥

तीव्रगन्धा, स्त्री, (तीव्रः कटुर्गन्धो यस्याः ।)

यवानी । इति राजनिर्घण्टः ॥

तीव्रज्वाला, स्त्री, (तीव्रं यथा स्यात् तथा ज्वाल-

यति उत्तेजयति सेविनमिति । ज्वल + णिच् +
अच् टाप् च ।) धातकी । इति राजनिर्घण्टः ॥

तीव्रवेदना, स्त्री, (तीव्रा अत्यन्ता वेदना ।)

यातना । अतिशयवेदना । इत्यमरः । १ । १० । ३ ॥

तीव्रा, स्त्री, (तीव्र + टाप् ।) कटुरोहिणी ।

गण्डदूर्व्वा । राजिका । इति मेदिनी । रे, ४५ ॥
नदीविशेषः । इति शब्दरत्नावली ॥ महा-
ज्योतिष्मती । तरदीवृक्षः । तुलसी । इति
राजनिर्घण्टः ॥

तु, ल वृत्तौ । हिंसायाम् । पूर्त्तौ । इति कविकल्प-

द्रुमः ॥ (अदां-परं-अकं-सकं च-सेट् ।) ल,
तौति तवीति । इति दुर्गादासः ॥

तु, व्य, पादपूरणम् । (यथा, मनुः । ११ । २०७ ।

“अवगूर्य्य त्वब्दशतं सहस्रमभिहत्य च ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥”)
भेदः । अवधारणम् । इत्यमरः ॥ संमुच्चयः ।
(यथा, मनुः । ११ । २०२ ।
“उष्ट्रयानं समारुह्य खरयानन्तु कामतः ।
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन
शुध्यति ॥”)
पक्षान्तरम् । नियोगः । प्रशंसा । विनिग्रहः ।
इति शब्दरत्नावली ॥

तुक्, [ज्] पुं, (तुञ्ज्यते जीव्यतेऽनेनेति । तुज

प्राणे + क्विप् ।) अपत्यम् । इति हेमचन्द्रः ॥

तुकाक्षीरी, स्त्री, (तुगाक्षीरी + पृषोदरादित्वात्

गस्य कः ।) तुगाक्षीरी । इति हेमचन्द्रः । ४ । २२० ॥

तुगा, स्त्री, (तुज + बाहुलकात् घः किच्च ।) वंश-

लोचना । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्या
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“स्याद्वंशरोचना वंशी तुगाक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥”)

तुगाक्षीरी, स्त्री, (तुगा सा एव क्षीरी ।) वंश-

लोचना । इति राजनिर्घण्टः ॥ वंशलोचना-
भेदः । अस्या गुणाः । क्षयश्वासकासनाशि-
त्वम् । मधुरत्वम् । हिमत्वञ्च । इति राजवल्लभः ॥
(यथा, भावप्रकाशे मध्यखण्डे २ भागे काश-
रोगाधिकारे ।
“द्विगुणा च तुगाक्षीरी सिता सर्व्वचतुर्गुणा ॥”)
पृष्ठ २/६३१

तुङ्गः, पुं, (तुजि हिंसायाम् + घञ् ।) पुन्नागवृक्षः ।

(यथा, वैद्यकरत्नमालायाम् ।
“कुम्भीकः पुरुषस्तुङ्गः पुन्नागो रक्तकेशरः ॥”)
पर्व्वतः । बुधग्रहः । इति हेमचन्द्रः । ६ । ६४ ॥
नारिकेलः । गण्डकः । इति राजनिर्घण्टः ॥
योगभेदः । इति शब्दरत्नावली ॥ स तु ग्रहाणां
उच्चराशिः । यथा, --
“सूर्य्याद्युच्चान् क्रियवृषमृगस्त्रीकुलीरान्त्ययूके
दिग्वह्नीन्द्रद्बयतिथिशरान् सप्तविंशांश्च विंशान् ।
अंशानेतान् वदति जवनश्चान्त्यतुङ्गान् सुतुङ्गां-
स्तानेवांशान् मदनभवनेष्वाह नीचान् सुनी-
चान् ॥”
इति दीपिका ॥
“आदित्यमेषे वृषभे शशाङ्के
कन्यागते ज्ञे च गुरौ कुलीरे
मीने च शुक्रे मकरे महीजे
शनौ तुलायामिति तुङ्गगेहाः ॥”
इति समयामृतम् ॥ * ॥
अथ तुङ्गस्थग्रहफलम् ।
“तुङ्गेऽर्कः शुभसंयुतः शुभकरैर्मित्रैश्च दृष्टो यदा
दैवात् पश्यति सोऽपि वा शुभकरानेकं द्विकं वा
त्रिकम् ।
वित्तेशः प्रथितो विमर्द्दितरिपुः क्षौणीशमान्यो
यदा
क्ष्मापालार्च्चितपादपद्मयुगलो राजा त्रिकोणे
यदा ॥
तुङ्गे चन्द्रमसि प्रसन्नवपुषि ब्रध्नादनष्टद्युतौ
प्रख्यातोऽरिविमर्द्दकोऽगदतनू राजेश्वरो रूप-
वान् ।
क्ष्मापालार्च्चितपादपद्मयुगलो वा धर्म्मशीलो
महान्
सौ म्यैरेव युतोऽथवा प्रियतमैर्दृष्टे त्रिकोणेऽपि
च ॥
यदि भवति मृगस्थो भूमिपुत्त्रस्तदा वै
न दिनकरमयूखाद्भ्रष्टरश्मिर्नरेन्द्रः ।
अगदतनुरभीतः शत्रुदर्पापहारी
प्रणतरिपुनरेन्द्रः स्यात्त्रिकोणेऽपि जातः ।
कन्यास्थः शशलाञ्छनस्य तनयस्तिथ्यंशकैः
संयुतो
दृष्टो वा यदि संयुतः शुभकरैर्ज्जातस्तदा
भूपतिः ।
यात्रायां तुरगोष्ट्रमत्तकरिणां यातैर्मही कम्पते
सक्ष्माभृद्धरणीरुहा विगलिता यान्ति त्रिकोणे-
ऽपि च ॥
तुङ्गे गुरौ मित्रखगेन दृष्टो
राजा भवेदिन्द्रसमानमूर्त्तिः ।
गजाश्वनौकानरपूर्णलक्ष्मीः
पृथ्वीपतिः स्वस्य त्रिकोणगेऽपि ॥
तुङ्गे भृगो शुभसुहृत्प्रयुते च दृष्टे
दैवात् पुनः स यदि पश्यति मित्रसंघान् ।
भूपाधिपो भवति कीर्त्तिकरप्रधानो
दीर्घायुरुग्रसुखभुग्भृगुजे त्रिकोणे ॥
तुङ्गे शनौ मित्रखगेन दृष्टे
प्रचण्डदण्डो नृपतिप्रधानः ।
न दृश्यते दिग्गमने च धुर्व्वी
त्रिकोणगे चापि नरेन्द्रमूर्त्तिः ॥
भवति धरणिपालो नीचबुद्धिः प्रतापी
हयगजधनपूर्णो जातिवर्गे विरक्तः ।
कुटिलमतिरनीतो भूरिभाण्डारयुक्त-
स्तमसि मिथुनसंस्थे जायते मानवेन्द्रः ॥
मृगपतिवृषकन्याकर्कटस्थे च राहौ
भवति विपुललक्ष्णी राजराजाधिपो वा ।
हयगजनरनौकामण्डितः सार्व्वभौमो
नृपतिरमरपूज्यो राहुतुङ्गी चिरायुः ॥
अरिनिधनव्ययतुङ्गे कीर्त्तितमेतत् फलं व्यर्थम् ।
केन्द्रत्रिकोणे लाभे वा तुङ्गफलं यथोद्दिष्टम् ॥”
इति कोष्ठीप्रदीपः ॥

तुङ्गः, त्रि, (तुजि हिंसायाम् + घञ् ।) उग्रः ।

प्रधानम् । उन्नतः । इति शब्दरत्नावली ॥ (यथा,
रधुः । ६ । ३ ।
“शिलाविभङ्गैर्मृगराजशाव-
स्तुङ्गं नगोत्सङ्गमिवारुरोह ॥”
प्रचुरः । यथा, तत्रैव । ४ । ७० ।
“तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ॥”)
किञ्जल्के क्ली । इति राजनिर्घण्टः ॥

तुङ्गकः, पुं, (तुङ्ग + स्वार्थे संज्ञायां वा कन् ।) पुन्नाग-

वृक्षः । इति शब्दरत्नावली ॥ (अरण्यरूप-
तीर्थविशेषे, क्ली । यथा, महाभारते । ३ । ८५ ।
४६-५४ ।
“तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः ।
वेदानध्यापयत् तत्र मुनीन् सारस्वतः पुरा ॥
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः ।
ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम् ॥
ॐकारेण यथान्यायं सम्यगुच्चारितेन ह ।
येन यत् पूर्ब्बमभ्यस्तं तत् सर्व्वं समुपस्थितम् ॥
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः ।
हरिर्नारायणस्तत्र महादेवस्तथैव च ॥
पितामहश्च भगवान् देवैः सह महाद्युतिः ।
भृगुं नियोजयामास यजनार्थं महाद्युतिम् ॥
ततः स चक्रे भगवानृषीणां विधिवत्तदा ।
सर्व्वेषां पुनराधानं विधिदृष्टेन कर्म्मणा ॥
आज्यभागेन तत्राग्निं तर्पयित्वा यथाविधि ।
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम् ॥
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ! ।
पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा ॥
तत्र मासं वसेद्धीरो नियतो नियताशनः ।
ब्रह्मलोकं व्रजेद्राजन् ! कुलञ्चैव समुद्धरेत् ॥”)

तुङ्गभद्रः, पुं, (तुङ्ग उच्चोऽपि भद्रः ।) मदोत्-

कटहस्ती । इति मेदिनी । रे, २६३ ॥

तुङ्गभद्रा, स्त्री, (तुङ्गा प्रधाना भद्रा निर्म्मला च ।)

नदीविशेषः । सा दक्षिणे प्रसिद्धा । (यथा,
मत्स्यपुराणे । ११३ । २९ ।
“तुङ्गभद्रा सुप्रयोगा वाह्य कावरी चैव तु ।
दक्षिणापथनद्यस्ताः सह्यपादाद्बिनिःसृता ॥”)
तस्या जलस्य गुणाः । स्निग्धत्वम् । निर्म्मल-
त्वम् । स्वादुत्वम् । गुरुत्वम् । कण्डुपित्तास्रदातृ-
त्वम् । प्रायःसात्म्यत्वम् । मेधाकरत्वञ्च । इति
राजनिर्घण्टः ॥

तुङ्गशेखरः, पुं, (तुङ्गान्युच्चानि शेखराणि शृङ्गाणि

यस्य ।) पर्व्वतः । इति शब्दमाला ॥

तुङ्गा, स्त्री, (तुङ्ग + टाप् ।) वंशलोचना । शमी ।

इति राजनिर्घुण्टः ॥ (अस्याः पर्य्याया यथा, --
“शमी शक्तुफला तुङ्गा केशहन्त्री शिवा फला ।
मङ्गल्या च तथा लक्ष्मीः शमीरः साल्पिका
स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तुङ्गिनी, स्त्री, (तुङ्गो वृक्षविशेषस्तद्वदाकृति-

रस्त्यस्याः । तुङ्ग + इनिः । ङीप् ।) महाशता-
वरी । इति राजनिर्घण्टः ॥

तुङ्गी, स्त्री, (तुङ्ग + गौरादित्वात् ङीष् ।) हरिद्रा ।

वर्व्वरी । इति मेदिनी । गे, ८ ॥ (अस्याः
पर्य्याया यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“वर्व्वरी तुवरी तुङ्गी खरपुष्पाजगन्धिका ।
पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ ॥”
रात्रिः । इति त्रिकाण्डशेषः ॥)

तुङ्गी, [न्] पुं, (तुङ्गः उच्चस्थानं आश्रयत्वेन

अस्त्यस्य । इनिः ।) तुङ्गस्थानस्थितः । उच्चस्थ-
ग्रहः । इति ज्योतिषम् ॥

तुङ्गीपतिः, पुं, (तुङ्ग्या निशायाः पतिः ।) चन्द्रः ।

इति त्रिकाण्डशेषः ॥

तुङ्गीशः, पुं, (तुङ्गी सर्व्वप्रधान ईशः प्रभुश्च ।)

शिवः । कृष्णः । सूर्य्यः । इति शब्दरत्नावली ॥

तुच्छं, क्ली, (तौति असारत्वं गच्छतीति । तु +

“छोऽदिकचिभ्यां शुतुभ्यान्तु कित् पीपूङोः स्वश्चा ।”
२ । ३३ । उणादिकोषटीकाधृतसूत्रात् छः स
च कित् ।) पुलाकजम् । इत्युणादिकोषः ॥
भुषि इति भाषा ॥

तुच्छः, त्रि, (तुद् + क्विप् । तेन तं वा छ्यतीति ।

छो + कः ।) शून्यः । इत्यमरः । ३ । १ । ५६ ॥
हीनः । इत्युणादिकोषः ॥ (यथा, भागवते ।
७ । ७ । ४५ ।
“किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ॥”)
अल्पः । इति हेमचन्द्रः । ६ । ६२ ॥

तुच्छद्रुः, पुं, (तुच्छो हीनो द्रुर्वृक्षः ।) एरण्ड-

वृक्षः । इति शब्दचन्द्रिका ॥

तुच्छधान्यकं, क्ली, (तुच्छं धान्यम् । अल्पार्थे

कन् ।) पुलाकः । इति रत्नमाला ॥ आग्डा
इति भाषा ।

तुच्छा, स्त्री, (तुच्छ + टाप् ।) तुत्था । नीली-

वृक्षः । इति भावप्रकाशः ॥ (सूक्ष्मैला । मुज-
राट्देशीया एलाची । अस्याः पर्य्याया यथा,
“सूक्ष्मोपकुञ्चिका तुच्छा कोरङ्गी द्राविडी
गुटिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)