शब्दकल्पद्रुमः/झ

विकिस्रोतः तः
पृष्ठ २/५६८

, झकारः । स व्यञ्जननवमवर्णः चवर्गचतुर्थ-

वर्णश्च । अस्योच्चारणस्थानं तालु । इति व्याक-
रणम् ॥ (यदुक्तं शिक्षायाम् । १७ ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
अस्योत्पत्तिर्यथा, --
“विसर्गस्तालुगः सोष्मा श चवर्गञ्च यन्तथा ॥”
इति प्रपञ्चसारः ॥
(वङ्गीयवर्णमालायाम्) अस्य लेखनप्रकारोयथा,
“त्रिकोणकुण्डलीरूपा वामदक्षिणयोगतः ।
क्रमशस्तासु तिष्ठन्ति चन्द्रसूर्य्याग्नयः प्रिये ! ॥
तत्र क्रोडगता मात्रा शक्तिब्रह्मस्वरूपिणी ।
ऊर्द्ध्वमात्रा तथेन्द्राणी मध्ये नारायणी स्मृता ॥”
अस्य ध्यानं यथा, वर्णोद्धारतन्त्रे ।
“ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! ।
सन्तप्तहेमवर्णाभां रक्ताम्बरविभूषिताम् ॥
रक्तचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम् ।
चतुर्द्दशभुजां देवीं रत्नहारोज्ज्वलां पराम् ॥
ध्यात्वा ब्रह्मस्वरूपां तां तन्मन्त्रं दशधा जपेत् ॥”
अस्य स्वरूपं यथा, --
“झकारं परमेशानि ! कुण्डली मोक्षरूपिणी ।
रक्तविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ।
त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं तथा ॥”
इति कामधेनुतन्त्रम् ॥
तस्य ३५ पञ्चत्रिंशत् नामानि यथा, --
“झो झङ्कारी गुहो झञ्झावायुः सत्यः षडुन्नतः ।
अजेशो द्राविणी नादः पाशी जिह्वा जलं
स्थितिः ॥
विराजेन्द्रो धनुर्हस्तः कर्क्कशो नादजः कुजः ।
दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः ॥
दुर्म्मुखो नष्ट आत्मवान् विकटा कुचमण्डलः ॥
कलहंसप्रिया वामा अङ्गुलीमध्यपर्व्वकः ।
दक्षहासाट्टहासश्च पाथात्मा व्यञ्जनः स्वरः ॥”
इति नानातन्त्रशास्त्रम् ॥

झः, पुं, (झटति सङ्घीभवतीति । झट सङ्घाते +

बाहुलकात् डः ।) झञ्झावातः । अम्बुवर्षणम् ।
इति शब्दरत्नावली ॥ झण्टीशः । सुरगुरुः ।
दैत्यराजः । ध्वनिः । तारवायुः । इति मेदिनी ।
झे, १ ॥ नष्टे, त्रि । इति शब्दरत्नावली ॥

झगझगायमानः, त्रि, (झगझग इवाचरतीति ।

झगझग + “कर्त्तुः क्यङ् सलोपश्च ।” ३ । १ । ११ ।
इति क्यङ् ततः शानच् ।) चाकचिक्ययुक्तः ।
झक्झकिया इति भाषा । यथा, --
“मयूरवरगामिनीं सुरदशुद्धवर्णोत्कटां
रणक्वणितघण्टिकां निशितशक्तिहस्तोद्यताम् ।
प्रभानिकररश्मिभिर्झगझगायमानांशुकां
नयामि गुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम् ॥”
इति देवीपुराणे रुरुवधे मातृस्तवनामाध्यायः ॥

झङ्कारः, पुं, (कृ + भावे घञ् कारः । झमित्यव्यक्त-

शब्दस्य कारः करणं यत्र ।) भ्रमरादिशब्दः ।
यथाह वल्लालसेनः ।
“प्रारब्धो मधुपैरकारणमहो झङ्कारकोला-
हलः ॥”
(तथा च पञ्चतन्त्रे । ५ । ४२ ।
“शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ ।
घन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा ॥”)

झञ्झा, स्त्री, (झमित्यव्यक्तशब्देन झटति वेगेन

वहतीति । झट् + बाहुलकात् डः । ततष्टाप् ।)
ध्वनिविशेषः । जलकणवर्षणम् । इति शब्द-
रत्नावली ॥

झञ्झानिलः, पुं, (झञ्झाध्वनियुक्तोऽनिलः ।)

प्रावृषिजवायुः । झञ्झावातः । इति त्रिकाण्ड-
शेषः ॥

झञ्झावातः, पुं, (झञ्झाध्वनियुक्तो वातः ।)

प्रावृषिजवायुः । इति हलायुधः ॥ (यथा,
ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्याये ।
“झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनम् ॥”)

झट, संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) झटति केशः । परस्मरं लग्नः
स्यादित्यर्थः । इति दुर्गादासः ॥

झटिः, पुं, (झटति परस्परं संलग्नो भवतीति ।

झट संहतौ + “सर्व्वधातुभ्य इन् ।” उणां ४ ।
११७ । इति इन् ।) क्षुद्रवृक्षः । इत्युणादिकोषः ॥

झटिति, व्य, द्रुतम् । शीघ्रम् । तत्पर्य्यायः । स्राक् २

अञ्जसा ३ अह्नाय ४ सपदि ५ द्राक् ६ मंक्षु ७ ।
इत्यमरः । ३ । ४ । २ ॥ (यथा, पञ्चदशी ।
७ । १२५ ।
“तत्त्वविस्मृतिमात्रान्नानर्थः किन्तु विपर्य्यायात् ।
विपर्य्येतुं न कालोऽस्ति झटिति स्मरतः
क्वचित् ॥”)

झत्ति, व्य, (झटिति इति शब्दस्य प्राकृतभाषायां

झत्ति इति सिद्धम् ।) झटिति । इति प्राकृत-
भाषायां काव्यप्रकाशः ॥
पृष्ठ २/५६९

झनत्कारः, पुं, (कृ + भावे घञ् कारः । झनदित्य-

व्यक्तशब्दस्य कारः करणं यत्र ।) अनुकरण-
शब्दः । कङ्कणादिध्वनिः । यथा, कालिदासः ।
“उद्वेल्लद्भुजवल्लिकङ्कणझनत्कारः क्षणं वार्य्य-
ताम् ॥”

झम, उ भक्षे । इति कविकल्पद्रुमः । (भ्वां-परं-

मकं-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, झमित्वा
झान्त्वा । इति दुर्गादासः ॥

झम्पः, पुं, (लम्फः पृषोदरादित्वात् साधुः ।)

सम्पातपतनम् । लम्फः । इति जटाधरः ॥
(यथा, महावीरचरिते ।
“पुच्छास्फोटदलत्-समुद्रविवरैः पातालझम्पाश्च ताः ॥”)

झम्पारुः, पुं, (झम्पं लम्फं आराति आददातीति ।

आ + रा + बाहुलकात् डुः ।) वानरः । इति
शब्दरत्नावली ॥

झम्पाशी, [न्] पुं, (झम्पेन सम्पातेन अश्नातीति ।

अश + णिनिः । मत्स्यादिधारणकाले झम्प-
दानपूर्ब्बकपतनादस्य तथात्वम् ।) मत्स्यरङ्ग-
पक्षी । इति जटाधरः ॥

झम्पी, [न्] पुं, (झम्पो लम्फोऽस्त्यस्येति । झम्प

+ “अत इनिठनौ ।” ५ । २ । ११५ । इति
इनिः ।) वानरः । इति शब्दरत्नावली ॥

झरः, पुं, (झीर्य्यति जीर्णीभवति पतनादिस्थान-

मनेनेति । झॄ + “ऋदोरप् ।” ३ । ३ । ५७ ।
इत्यप् ।) निर्झरः । पर्व्वतावतीर्णजलप्रवाहः ।
इत्यमरः । २ । ३ । ५ ॥ (समूहः । यथा,
नैषधे । २ । ३२ ।
“कलसे निजहेतुदण्डजः
किमु चक्रभ्रमिकारिता गुणः ।
स तदुच्चकुचौ भवन् प्रभा-
झरचक्रभ्रमिमातनोति यत् ॥”
“स कलसः प्रभारूपेण कान्तिसमूहेन चक्रभ्रमिं
कुलालचक्रभ्रमणमातनोति जनयति । यद्बा
प्रभाझरे कान्तिप्रवाहे चक्रभ्रमिं चक्रवाक-
भ्रान्तिमातनोति ।” इति तट्टीका ॥)

झरा, स्त्री, (झर + टाप् ।) झरः । इत्यमर-

टीकायां भरतः ॥

झरी, स्त्री, (झर + ङीष् ।) झरः । इत्यमर-

टीकायां भरतः ॥

झर्च्च, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) रेफोपधः । श, झर्च्चती
झर्च्चन्ती । गुणस्थानरहितानां तुदादिपाठफलन्तु
शत्रन्तानामादीपीरिति नुणो विभाषा वेदेषू-
च्चारणभेदश्च । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

झर्च्छ, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) श, झर्च्छती झर्च्छन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

झर्झ, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) श, झर्झती झर्झन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

झर्झरः, पुं, (झर्झ इत्यव्यक्तशब्दं रातीति । रा +

कः । यद्बा, झर्झति शब्दायते इति । झर्झ +
बहुलवचनात् अरः ।) वाद्यविशेषः । इत्यमरः ।
१ । ७ । ८ ॥ चर्म्मपुटाच्छादितकाष्ठस्थानम् ।
इति तट्टीकासारसुन्दरी ॥ करड इति ख्यातः ।
“डिण्डिमो डेङ्गरीप्रोक्तो झर्झरः पटहः स्मृतः ॥”
इति भरतधृतवैकुण्ठः ॥
तत्पर्य्यायः । झल्लकी २ झल्ली ३ झलरी ४
झर्झरी ५ । इति शब्दरत्नावली ॥ (यथा,
हठयोगप्रदीपिकायाम् । ४ । ८५ ।
“आदौ जलधिजीमूतभेरीझर्झरसम्भवाः ॥”
झर्भ्यते निन्द्यते इति । झर्झ भर्त्से + अरः ।)
कलियुगम् । (झर्झरोझर्झरशब्द इवास्त्यस्येति ।
अच् ।) नदभेदः । इति मेदिनी । रे, १५८ ।
(हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे ।
३ । ७९ ।
“हिरण्याक्षसुताः पञ्च विद्बांसः सुमहाबलाः ।
झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)

झर्झरकः, पुं, (झर्झर + स्वार्थे कन् ।) कलियुगम् ।

इति त्रिकाण्डशेषः ॥

झर्झरा, स्त्री, (झर्झ्यते निन्द्यते इति । झर्झ

भर्त्से + बाहुलकात् अरः । ततष्टाप् ।) वेश्या ।
इति त्रिकाण्डशेषः ॥ (जलशब्दविशेषः । यथा,
काशीखण्डे । २९ । ६८ ।
“झिण्टीशवन्द्या झाङ्कारकारिणी झर्झरावती ॥”)

झर्झरी, स्त्री, (झर्झर + गौरादित्वात् ङीष् ।)

झर्झरवाद्यम् । इति शब्दरत्नावली ॥ (यथा,
हरिवंशे । २३७ । २ ।
“गोमुखाडम्बराणाञ्च भेरीणां मुरजः सह ।
झर्झरीडिण्डिमानाञ्च व्यश्रूयन्त महास्वनाः ॥”)

झर्झरीकः, पुं, (झर्झतीति । झर्झ + “फर्फ-

रीकादयश्च ।” उणां । ४ । २० । इति ईकन्
प्रत्ययेन निपातनात् साधुः ।) शरीरम् ।
इत्युणादिकोषः ॥ देशः । चित्रम् । इति संक्षिप्त-
सारे उणादिवृत्तिः ॥

झलज्झला, स्त्री, (झलज्झल इत्यव्यक्तशब्दो-

ऽस्त्यस्यति । अच् ।) हस्तिकर्णास्फालनम् ।
इति त्रिकाण्डशेषः ॥

झलरी, स्त्री, (झल्लरी । पृषोदरादित्वात् ललोपः ।)

हुडुक्कः । झर्झरवाद्यम् । बालचक्रम् । केश-
चक्रम् । इति मेदिनी । रे, १५९ ॥

झला, स्त्री, कन्या । आतपस्योर्म्मिः । इति

भेदिनी । ने, २० ॥

झल्लः, पुं, वर्णसङ्करजातिविशेषः । इति जटाधरः ॥

स क्षत्त्रियात् व्रात्यात् सवर्णायां जातः । (यथा,
मनुः । १० । २२
“झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेवच ॥”)
प्रहासकः । इति महाभारतम् ॥ भाँड इति
भाषा ॥ (क्ली, झर्झरवाद्यम् ॥)

झल्लकं, क्ली, (झल्ल + स्वार्थे कन् ।) कांस्यनिर्म्मित-

करतालकम् । यथा, तिथ्यादितत्त्वे ।
“शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् ।
दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत् ॥”

झल्लकण्ठः, पुं, (झल्लो झल्लकशब्द इव कण्ठः

कण्ठस्वरो यस्य ।) पारावतः । इति हारा-
वली । ८७ ॥

झल्लरी, स्त्री, (झल्लं झल्लकशब्दं रातीति ।

रा + कः । स्त्रियां ङीष् ।) हुडुक्कः । झर्झर-
वाद्यम् । (यथा, काशीखण्डे । २९ । ६८ ।
“झल्लरीवाद्यकुशला झलज्झालजलावृता ॥”)
बालचक्रम् । बालडीति ख्यातम् । इति मेदिनी ।
रे, १५९ ॥ शुद्धम् । क्लेदः । इत्यजयपालः ॥

झल्लिका, स्त्री, (झल्लीव कायतीति । कै + कः ।

पृषोदरादित्वात् साधुः ।) उद्बर्त्तनपटः । व्योतः ।
इति मेदिनी । के, ९६ ॥ उद्बर्त्तनमलम् । इति
शब्दरत्नावली ॥

झल्ली, स्त्री, (झल्ल + ङीष् ।) झर्झरवाद्यम् ।

इति शब्दरत्नावली ॥

झल्लोलः, पुं, (झर्झ क्विप् तादृशः सन् लोलः ।

ततः पृषोदरादित्वात् साधुः ।) तर्कुलासकः
इति हारावली । २१३ ॥ टेकुयार वाँटुल
इति भाषा ॥

झष, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) आद्यस्वरी । झषति । षष्ठस्वरी चाय-
मिति केचित् । झूषति । इति दुर्गादासः ॥

झष, ञ ग्रहे । पिधाने । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-सकं-सेट् ।) ञ, झषति झषते
वस्त्रं जनो गृह्णाति परिदधाति वेत्यर्थः । सप्तम-
स्वरादिरयमिति पूर्णचन्द्रत्रिलोचनरामाः ।
अर्षति अर्षते । इति दुर्गादासः ॥

झषं, क्ली, (झस ग्रहे + अच् ।) खिलम् । इत्यजय-

पालः ॥

झषः, पुं, (झष्यते वध्यते भक्षणाय झष्यते गृह्यते

इति वा । झष + “खनो घ च ।” ३ । ३ । १२५ ।
इति घ ।) मत्स्यः । इत्यमरः । १ । १० । १ ॥
(यथा, भगवद्गीतायाम् । १० । ३१ ।
“झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥”
मकरः । यथा, रामायणे । २ । ११४ । ४ ।
“लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥”)
तापः । वनम् । इति मेदिनी । षे, १२ ॥
मीनराशिः । यथा, --
“सार्द्धसप्तझषे मेषे वसुसार्द्धो घटे वृषे ॥”
इति समयप्रदीपः ॥

झषकेतनः, पुं, (झषो मकरो मीनो वा केतनं केतु-

रस्य ।) कन्दर्पः । इति हलायुधः ॥

झषा, स्त्री, (झष् + अच् ततष्टाप् ।) नागबला ।

इत्यमरः । २ । ४ । ११७ ॥

झषाङ्कः, पुं, (झषः अङ्को यस्य ।) अनिरुद्धः ।

इति हेमचन्द्रः ॥ (कन्दर्पः । यथा, श्रीकण्ठ-
चरिते । ११ । २ ।
“यत्कला किल झषाङ्कपुलिन्द-
स्पन्दमानवडिशव्रतमाधात् ॥”)

झषाशनः, पुं, (झषान् मत्स्यान् अश्नातीति ।

अश् ग भोजने + कर्त्तरि ल्युः ।) शिशुमारः ।
इति त्रिकाण्डशेषः ॥
पृष्ठ २/५७०

झषोदरी, स्त्रो, (झषो मत्स्य एव उदरं उत्-

पत्तिस्थानमस्याः । झषस्य उदरं उत्पत्तिस्थान-
तयास्त्यस्याः इति अर्शआदिभ्योऽजित्येके ।)
व्यासमाता । इति त्रिकाण्डशेषः ॥

झाङ्कृतं, क्ली, (झाम् इत्यव्यक्तशब्दस्य कृतं करणं

यत्र ।) चरणालङ्कारविशेषः । इति धरणिः ॥

झाटः, पुं, (झट + घञ् ।) निकुञ्जः । कान्तारः ।

व्रणादीनां मार्ज्जनम् । इति मेदिनी । टे, १६ ॥

झाटलः, पुं, (झाटं लातीति । ला + कः ।) घण्टा-

पाटलिः । इत्यमरः । २ । ४ । ३९ ॥

झाटा, स्त्री, (झट् + णिच् + अच् ततष्टाप् च ।)

भूम्यामलकी । इत्यमरः ॥ यूथीवृक्षः । इति
शब्दचन्द्रिका ॥

झाटिका, स्त्री, (झाटा + स्वार्थे कन् । टापि अत

इत्वञ्च ।) भूम्यामलकी । इति शब्दचन्द्रिका ॥

झामकं, क्ली, (झम् + ण्वुल् ।) दग्धेष्टका । इति

हारावली । २१४ ॥ झामा इति भाषा ॥

झामरः, पुं, (झामं रातीति । रा + कः ।)

तर्कुशाणः । इतिशब्दरत्नावली ॥ टेकुयार शाण
इति भाषा ॥

झार्झरः, पुं स्त्री, (झर्झरवादनं शिल्पमस्य ।

“मड्डुकझर्झरादन्यतरस्याम् ।” ४ । ४ । ५६ ।
इति अण् ।) झार्झरिकः । झर्झरवाद्यकर्त्ता ।
इति व्याकरणम् ॥

झालिः, स्त्री, व्यञ्जनविशेषः । झारि इति ख्याता ।

यथा, भावप्रकाशस्य पूर्ब्बखण्डे २ भागे ।
“आम्रमामफलं पिष्टं राजिकालवणान्वितम् ।
भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते ॥
झालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी ।
मन्दं मन्दं निपीता सा रोचनी वह्निबोधिनी ॥”
(जारिः जालिः इति पाठोऽपि कुत्रचित् दृश्यते ॥)

झावुः, पुं, (झा इति कृत्वा वाति वायुरत्र । वा +

डुः ।) वृक्षविशेषः । इति शब्दरत्नावली ॥
झाउ इति भाषा ॥

झावुकः, पुं, (झावुरेव । स्वार्थे कन् ।) वृक्षविशेषः ।

झाउ इति भाषा । तत्पर्य्यायः । पिचुलः २
झावुः ३ झावूः ४ । इति शब्दरत्नावली ॥

झिङ्गाकं, क्ली, (लिगि + आकन् । पृषोदरात्

साधुः ।) फलविशेषः । झिङ्गा इति भाषा ।
अस्य गुणाः । तिक्तत्वम् । मधुरत्वम् । आम-
वातमन्दाग्निकारित्वञ्च । इति राजवल्लभः ॥

झिङ्गिनी, स्त्री, (लिगि + णिनिः । पृषोदरात् साधुः ।

ङीप् च ।) जिङ्गिनीवृक्षः । इति भावप्रकाशः ॥
उल्का । इति शब्दरत्नावली ॥

झिङ्गी, स्त्री, (लिगि + अच् ङीष् । पृषोदरात्

साधुः ।) जिङ्गिनीवृक्षः । इति भावप्रकाशः ॥

झिञ्झिमः, पुं, (झिम् इत्यव्यक्तशब्दं कृत्वा झमति

अत्ति वृक्षादीन् दहतीत्यर्थः । (झम भक्षे +
अच् । पृषोदरादित्वात् साधुः ।) दापाग्निः ।
इति हारावली ॥ २६८ ॥

झिञ्झिरिष्टा, स्त्री, क्षुपविशेषः । झिञ्झिरीटा ।

इति भाषा । तत्पर्य्यायः । फला २ पीतपुष्पा ३
झिञ्झिरा ४ रोमाश्रयफला ५ वृत्ता ६ । अस्या
गुणाः । कटुत्वम् । शीतत्वम् । कषायत्वम् ।
रक्तातिसारनाशित्वम् । वृष्यत्वम् । सन्तर्पणत्वम् ।
बल्यत्वम् । महिषीक्षीरवर्द्धनत्वञ्च । इति राज-
निर्घण्टः ॥

झिञ्झी, स्त्री, (झिञ्जा इत्यव्यक्तशब्दोऽस्त्यस्याः ।

अच् ततो ङीष् च ।) झिल्ली । यथा, --
“झिञ्झीवाव्यक्तमधुरा कूजन्ती मधुराकृतिः ॥”
इत्यागमः ॥

झिण्टी, स्त्री, (झिमिति कृत्वा रटतीति । रट् +

अच् । ङीष् च पृषोदरात् साधुः ।) पुष्पवृक्ष-
विशेषः । झाँटी इति भाषा । तत्पर्य्यायः ।
सैरीयकः २ इत्यमरः । २ । ४ । ७५ ॥ कण्ट-
कुरण्टः ३ सैरेयकः ४ झिण्टिका ५ । इति
राजनिर्घण्टः ॥ नीलझिण्ट्याः पर्य्यायः ।
वाणा १ दासी २ अर्त्तगलः ३ । इत्यमरः ।
२ । ४ । ७४ ॥ वाणः ४ आर्त्तगलः ५ इति
तट्टीका ॥ सहचरः ६ नीलकुरण्टकः ७ ।
इति रत्नमाला ॥ अरुणझिण्ट्याः पर्य्यायः ।
कुरवकः १ । इत्यमरः ॥ पीतझिण्ट्याः पर्य्यायः ।
कुरुण्टकः १ सहचरी २ । इत्यमरः ॥ सह-
चरः ३ सहाचरः ४ । इति तट्टीका ॥ वीरः
५ पीतपुष्पः ६ दासी ७ कुरण्टकः ८ । इति
रत्नमाला ॥ अस्या गुणाः । कटुत्वम् । तिक्त-
त्वम् । दन्तामयशूलवातकफशोफकासत्वग्दोष-
नाशित्वञ्च । कुन्दरतृणम् । इति राजनिर्घण्टः ॥

झिरिका, स्त्री, (झिरीति अव्यक्तशब्देन कायति

शब्दायते इति । कै + कः टाप् च ।) झिल्ली ।
इति शब्दरत्नावली ॥

झिरी, स्त्री, (झिर् इत्यव्यक्तशब्दो अस्त्यस्याः ।

अच् ङीष् ।) झिल्ली । इति शब्दरत्नावली ॥

झिल्लिः, स्त्री, (झिर् इत्यव्यक्तशब्देन लिश-

तीति । लिश् + डिः । रस्य लः ।) वाद्य-
विशेषः । यथा, गूढार्थदीपिकायाम् ।
“घण्टाशङ्खस्तथा भेरीमृदङ्गौ झिल्लिरेव च ।
पञ्चानां शस्यते वाद्यं देवताराधनेषु च ॥”

झिल्लिका, स्त्री, (झिर् इत्यव्यक्तशब्दं लिशतीति ।

लिश + डिः रस्य लत्वे साधुः । ततः स्वार्थे
कन् ।) झिल्ली । (यथा, रामायणे । २ । ९६ । ११ ।
“झिल्लिकाविरुतैर्दीर्घै रुदतीव समन्ततः ॥”)
आतपस्य रुचिः । विलेपनमलम् । इति हेमचन्द्रः ॥
झिल्लिकारावः । उद्बर्त्तनवस्त्ररुचिः । इति शब्द-
रत्नावली ॥ (उद्बर्त्तनवस्त्रम् । झिण्टी । इति
मेदिनी । के, ९६ ॥)

झिल्ली, स्त्री, (झिल्लि + कृदिकारादिति वा

ङीष् ।) कीटविशेषः । झिँझिपोका इति भाषा ।
तत्पर्य्यायः । झिल्लीका २ झिल्लिका ३ झिरिका ४
झीरुका ५ झिरी ६ चीलिका ७ चील्लिका ८
चिल्ली ९ भृङ्गारी १० चील्लका ११ । इति
शब्दरत्नावली ॥ चीरी १२ । इत्यमरः । २ । ५ ।
२८ ॥ चीरुका १३ । इति तट्टीका ॥ (यथा,
भागवते, । ६ । १३ । ५ ।
“अदृश्यझिल्लीस्वनकर्णशूल-
उलूकवाग्भिर्व्यथितान्तरात्मा ॥”)
आतपरुचिः । वर्त्ती । उद्बर्त्तनांशुकम् । इति
मेदिनी ॥ स्थालीलग्नदग्धान्नम् । इत्यजयपालः ॥

झिल्लीकण्ठः, पुं, (झिल्लीवत् कण्ठः कण्ठशब्दो

ऽस्य ।) गृहकपोतः । इति त्रिकाण्डशेषः ॥

झिल्लीका, स्त्री, (झिल्ली + संज्ञायां कन् तत

ष्टाप् ।) झिल्लिका । इति हेमचन्द्रः ॥

झीरुका, स्त्री, (झिर इति कृत्वाव्यक्तं रौतीति ।

रु + शब्दे बाहुलकात् कक् टाप् च ।) झिल्ली ।
इत्यमरः । २ । ५ । २८ ॥

झु, ङ गत्याम् । (भ्वां-आत्मं-सकं-अनिट् ।) जुङ-

स्थाने झुङ इत्यपि केचित् । ङ, झवते । इति
दुर्गादासः ॥

झुण्टः, पुं, (झट् संघाते + घञि पृषोदात् साधुः ।)

स्तम्बः । अप्रकाण्डवृक्षः । इति शब्दचन्द्रिका ॥

झुमरिः, स्त्री, रागिणीविशेषः । यथा, --

“प्रायः शृङ्गारबहुला माध्वीकमधुरा मृदुः ।
एकैव झुमरिर्लोके वर्णादिनियमोज्झिता ॥
अतो लक्षणमेतस्या नोदाहारि विशेषकम् ।
इदं हि शालगं सूत्रं प्रसिद्धं नृपरञ्जनम् ॥”
इति सङ्गीतदामोदरः ॥

झूणिः, पुं, क्रमुकमेदः । स्त्री, दुष्टदैवश्रुतिः । इति

मेदिनी । णे, १४ ॥

झॄ, ष य ज्याने । गतबहुवयोभाव इति यावत् ।

(दिवां-परं-अकं-अनिट् ।) इति कविकल्पद्रुमः ॥
ष, झरा । य, झीर्य्यति । इति दुर्गादासः ॥

झोडः, पुं, गुवाकवृक्षः । इति भूरिप्रयोगः ॥

झ्यु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-अनिट् ॥)

, ञकारः । स व्यञ्जनदशमवर्णः चवर्गपञ्चम-

वर्णश्च । (असौ तु अर्द्धमात्राकालेनोच्चार्य्यः ।)
अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥ * ॥
अस्योत्पत्तिर्यथा, --
“विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ॥”
इति प्रपञ्चसारः ॥ * ॥
(पाणिनिमते तु अस्योत्पत्तिस्थानं नासिका-
न्विततालु । अस्योच्चारणे जिह्वामध्येन तालु-
मध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः । संवारनाद-
घोषा अल्पप्राणश्च वाह्यप्रयत्नाः । मातृकान्यासे-
ऽस्य वामहस्ताङ्गुल्यग्रे न्यासक्रिया स्यात् ।
वङ्गीयवर्णमालायां) अस्य लेखनप्रकारो यथा,
“कुण्डलीरूपमास्थाय दक्षतो वामतस्ततः ।
ऋजुश्चाधोगता मात्रा वामतः कुञ्चिता पुनः ॥
तिष्ठन्ति तासु नित्यासु सूर्य्येन्द्रवरुणाः सदा ।
कुण्डलीद्बयरूपा तु या मात्रा मध्यतः स्थिता ॥
महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥ * ॥
चतुर्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम् ।
नानालङ्कारसंयुक्तां जटामुकुटराजिताम् ॥
पृष्ठ २/५७१
ईषद्धास्यमुखीं नित्यां वरदां भक्तवत्सलाम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि ! ।
रक्तविद्युल्लताकारं या स्वयं परकुण्डली ॥
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ।
त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ॥”
तस्य २२ द्वाविंशतिर्नामानि यथा, --
“ञकारो बोधनी विश्वा कुण्डली मखदो वियत् ।
कौमारी नागविज्ञानी सव्याङ्गुलनखो वकः ॥
शर्व्वेशश्चूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः ।
धर्मैकपादः सुमुखो विरजा चन्दनेश्वरी ॥
गायनः पुष्पधन्वा च रागात्मा च वराक्षिणी ॥”
इति नानातन्त्रशास्त्रम् ॥

ञः, पुं, गायनः । घर्घध्वनिः । इत्येकाक्षर-

कोषः ॥ बलीवर्द्दः । शुक्रः । वाममतिः । इति
मेदिनी । ञे, १ ॥ (गणपाठे घातोरुभय-
पदत्वविज्ञापकोऽनुबन्धविशेषः । इति वोपदेवः ॥)

ञिः, पुं, प्रत्ययविशेषः । स प्रेरणार्थे भवति ।

तस्य इकारस्तिष्ठति । धातोरनुबन्धविशेषः ।
स वर्त्तमानक्तप्रत्ययबोधकः । इति वोपदेव-
स्वामी ॥

ञ्यन्तः, पुं, (ञिः प्रत्ययविशेषोऽन्ते यस्य ।) ञि-

प्रत्ययान्तः । यथा, “ञिञ्यन्तपिबथे” इत्यादि
आत्मनेपदप्रकरणीयसूत्रम् ॥ स च प्रत्ययः
घातोः शब्दाच्च भवति । यथा, ञिः प्रेरणे
इति लेः कृत्याख्याने ञिरिति च मुग्धबोध-
व्याकरणम् ॥ मुभ्यबोधव्याकरणस्य परिच्छेद-
विशेषः । यथा, इति ञ्यन्तपादः ॥

, टकारः । सं व्यञ्जनैकादशवर्णः । टवर्गप्रथम-

वर्णश्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याक-
रणम् ॥ (अस्योच्चारणे मूर्द्धस्थानेन जिह्वामध्यस्य
स्पर्शः आभ्यन्तरप्रयत्नः । मातृकान्यासेऽस्य
दक्षिणस्फिचि न्यास्यत्वम् । वङ्गीयवर्णमाला-
याम्) तस्य लेखनप्रकारो यथा, --
“ऊर्द्धाधःक्रमतो रेखा कुण्डलीरूपतस्त्वधः ।
तिष्ठन्ति तासु नित्यासु कुवेरयमवायवः ॥
मात्रा कोणगता चोर्द्ध्वा तत ऊर्द्ध्वगता तु सा ।
या नित्या परमा शक्तिश्चतुर्व्वर्गप्रदायिनी ॥
ध्यानमस्य प्रवक्ष्यामि शृणुष्व वरवर्णिनि ! ।
मालतीपुष्पवर्णाभां पूर्णचन्द्रनिभेक्षणाम् ॥
दशबाहुसमायुक्तां सर्व्वालङ्कारसंयुताम् ।
परमोक्षप्रदां नित्यां सदा स्मेरमुखीं पराम् ॥
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशघा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, --
“टकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली ।
कोटिविद्युल्लताकारं पञ्चदेवमयं सदा ॥
पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥”
इति कामधेनुतन्त्रम् ॥
तस्य २७ सप्तविंशतिनामानि यथा, --
“टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः ।
मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥
दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः ।
बृहस्पतिर्धनुश्चित्रा प्रमोदा विमला कटिः ॥
राजा गिरिर्म्महाधनुर्घ्राणात्मा सुमुखो मरुत् ॥”
इति नानातन्त्रशास्त्रम् ॥

टं, क्ली, (टल् + डः ।) करङ्कः । इति विश्वः ॥

टः, पुं, (टल् + डः ।) वामनः । पादः । निस्वनः ।

इति मेदिनी । टे, १ ॥

टक, इ क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, टङ्कयति । इति दुर्गा-
दासः ॥

टक्कदेशीयः, पुं, (टक्कदेशे भव इति छः ।)

वास्तूकशाकः । इति त्रिकाण्डशेषः ॥

टगरः, पुं, (टः टङ्कणः क्षारविशेषः गर इव ।

तीव्रगुणत्वात्तथात्वम् ।) टङ्कणक्षारः । हेला-
विभ्रमगोचरः । केकराक्षे, त्रि । इति मेदिनी ।
रे, १६० ॥

टङ्कः, पुं, (टकि + घञ् ।) कोपः । कोषः । असिः ।

ग्रावदारणः । इति मेदिनी । के, २४ ॥ (यथा,
अनर्घराघवे । १ । २२ ।
“यः क्षत्त्रदेहं परितक्ष्य टङ्कै-
स्तपोमयैर्ब्राह्मणमुच्चकार ॥”)
परिमाणविशेषः । स तु चतुर्म्माषकरूपश्चतु-
र्व्विंशतिरक्तिकारूपो वा । जङ्घा । इति हेम-
चन्द्रः । ३ । ५८३ ॥ दर्पः । इति हलायुधः ॥

टङ्कः, पुं क्ली, (टकि + घञ् अच् वा ।) नील-

कपित्थः । (यथा, सुश्रुते सूत्रस्थाने ४६ ।
“शीतं कषायं मधुरं टङ्कं मारुतकृद्गुरु ॥”)
खनित्रम् । टङ्कणः । इति मेदिनी । के, २४ ॥
दर्पः । इति शब्दरत्नावली ॥

टङ्ककः, पुं, (टङ्कति बध्नाति मनः स्नेहेनेति ।

टकि + ण्वुल् । यद्बा, टङ्क्यते रुध्यतेऽनेन मन
इति । घञ् । ततः संज्ञायां कन् ।) रजतमुद्रा ।
इति रूप्याध्यक्षशब्दे अमरटीकासारसुन्दरी
भरतश्च ॥ टाका इति भाषा ॥

टङ्ककपतिः, पुं, (टङ्ककस्य पतिः रक्षकः ।) रूप्या-

ध्यक्षः । टङ्ककशालानियुक्तः । इत्यमरटीका-
सारसुन्दरी ॥ टाकशालेर अध्यक्ष इति भाषा ॥

टङ्ककशाला, स्त्री, (टङ्ककस्य शाला ।) रजत-

मुद्रागृहम् । इत्यमरटीकासारसुन्दरी ॥ टाक-
शाल इति भाषा ॥

टङ्कटीकः, पुं, शिवः । इति त्रिकाण्डशेषः ॥

टङ्कणः, पुं, (टकि बन्धे + ल्युः । पृषोदरात् णत्वे

साधुः ।) क्षारविशेषः । सोहागा इति भाषा ।
(यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“विरुक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः ।
अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते ॥”)
तत्पर्य्यायः । पाचनकः २ मालतीतीरजः ३
लोहश्लेषणः ४ रसशोधनः ५ । इति हेम-
चन्द्रः । ४ । १० ॥ टङ्कणक्षारः ६ रङ्गक्षारः ७
रसाधिकः ८ लोहद्रावी ९ रसघ्नः १० सुभगः
११ रङ्गदः १२ वर्त्तुलम् १३ कनकम् १४
क्षारम् १५ मलिनम् १६ धातुवल्लभम् १७ ।
इति राजनिर्घण्टः ॥ मालतीतीरसम्भवः १८
द्रावी १९ द्रावकः २० लोहशुद्धिकारकः २१ ।
इति भावप्रकाशः ॥ स्वर्णपाचकः २२ । इति
रत्नमाला ॥ अस्य गुणाः । कटुत्वम् । उष्ण-
त्वम् । कफस्थावरादिविषकासश्वासनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ अग्निवातपित्तकारित्वम् ।
रूक्षत्वम् । इति भावप्रकाशः ॥ (देश-
विशेषः । यथा, बृहत्संहितायाम् । १४ । १२ ।
“कङ्कटटङ्कणवनवासि शिविककणिकारकोङ्कणा-
भीराः ॥”)

टङ्का, स्त्री, (टकि + अच् टाप् ।) जङ्घा । इति

मेदिनी । के, २५ ॥

टङ्कानकः, पुं, (टङ्कं दर्पं कोप वा आनयति उद्दी-

पयतीति । अन् + णिच् + ण्वुल् ।) ब्रह्मदारु-
वृक्षः । इति शब्दचन्द्रिका ॥

टङ्कारः, पुं, (टल् वैक्लवे + बाहुलकात् डः । टं

वैक्लवं चित्तस्य विकृतिं करोतीति । कृ +
कर्म्मण्यण् ।) विस्मयः । प्रसिद्धः । शिञ्जित-
ध्वनिः । इति मेदिनी । रे, १६० ॥ (यथा,
काशीखण्डे । २९ । ६९ ।
“टीकिताशेषपाताला टङ्किकैलोऽद्रिपाटले ।
टङ्कारनृत्यत्कल्लोला टीकनीया महातटा ॥”
कृ + घञ् । कारः टं इति अव्यक्तशब्दस्य-
कारः करणं यत्र । ध्वनिमात्रे । यथा, भाग-
वते । ३ । १७ । ९ ।
“अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्वणम् ।
शृगालोलूकटङ्कारैः प्रणेदुरशिवाः शिवाः ॥”)

टङ्कारी, स्त्री, (टङ्कं ऋच्छतीति । ऋ + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् । ततो गौरादि-
त्वात् ङीष् ।) क्षुपविशेषः । टेकारी इति
भाषा । अस्य गुणाः । वातश्लेष्मशोफोदर-
व्यथानाशित्वम् । तिक्तत्वम् । दीपनत्वम् । लघु-
त्वञ्च । इति राजनिर्घण्टः ॥

टङ्गः, पुं क्ली, (टकि + अच् ।) खनित्रम् । खड्ग-

भेदः । जङ्घा । इति मेदिनी । गे, ७ ॥

टङ्गः, पुं, (टङ्क + पृषोदरात् साधुः ।) टङ्कणः ।

इति शब्दचन्द्रिका ॥ सोहागा इति भाषा ।
चतुर्म्माषकपरिमाणम् । इति वैद्यकपरिभाषा ॥

टङ्गणः, पुं क्ली, (टङ्कण + पृषोदरात् साधुः ।)

टङ्कणः । सोहागा इति भाषा । अस्य गुणाः ।
श्लेघ्मवायुनाशित्वम् । क्षाररसत्वम् । तीक्ष्णत्वम् ।
उष्णत्वम् । अग्निवर्द्धकत्वम् । विरूक्षणत्वम् ।
भेदकत्वम् । बलवर्द्धनत्वञ्च । इति राजवल्लभः ॥

टङ्गिणी, स्त्री, (टकि बन्धे + णिनिः । ततः पृषो-

दरात् णत्वे ङीषि च साधुः ।) वृक्षविशेषः ।
इति शब्दचन्द्रिका ॥ आकनादि इति भाषा ॥
पृष्ठ २/५७२

टट्टनी, स्त्री, (टट्ट इत्यव्यक्तशब्दं नयतीति ।

नी + क्विप् ।) ज्येष्ठी । इति त्रिकाण्डशेषः ॥

टट्टरी, स्त्री, (टट्टमित्यव्यक्तशब्दं रातीति । रा

+ कस्ततो ङीष् ।) मृषावादः । लम्पावाद्यम् ।
पटहवाद्यम् । इति मेदिनी । रे, १५९ ॥

टट्टुरः, पुं, (टट्टु इत्यव्यक्तशब्दं रातीति । रा +

कः ।) भेरीशब्दः । इति हेमचन्द्रः ॥

टल, ज विक्लवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) ज, टालः टलः । विक्लवो विह्व-
लीभावः । इति दुर्गादासः ॥

टलनं, क्ली, (टल + भावे ल्युट् ।) विक्लवः । टला

इति भाषा ॥

टा, स्त्री, (टलति प्रलये भूकम्पादौ वा । टल + ड

ष्टाप् च ।) पृथिवी । इत्येकाक्षरकोषः ॥

टाङ्करः, पुं, (टङ्कस्येदं टाङ्कम् । टङ्क + अण् ।

टाङ्कं रातीति । रा + कः ।) नागवीटः । इति
त्रिकाण्डशेषः ॥

टारः, पुं, (टां पृथ्वीं ऋच्छतीति । ऋ + अण् ।)

लङ्गः । तुरङ्गः । इति हेमचन्द्रः ॥

टिक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सवं-सेट् ।) ऋ, अटिटेकत् । ङ, टेकते ।
इति दुर्गादासः ॥

टिटिभकः, पुं, (टिटीत्यव्यक्तशब्दं भणति । भण

+ डः । ततः स्वार्थे कन् ।) टिट्टिभपक्षी ।
इत्यमरटीका ॥

टिट्टिभः, पुं, (टिट्टीत्यव्यक्तशब्दं भणतीति । भण

+ डः ।) पक्षिविशेषः । टीठि इति भाषा ।
तत्पर्य्यायः । टीठिभकः २ । इति शब्दरत्ना-
वली ॥ टिट्टिभकः ३ । इत्यमरः । २ । ५ । ३५ ॥
टिट्टिभकः ४ । इति तट्टीका ॥ (यथा, मनुः ।
५ । ११ ।
“अनिर्द्दिष्टांश्चैकशफांष्टिट्टिभञ्च विवर्ज्जयेत् ॥”)
त्रयोदशमन्वन्तरीयेन्द्रशत्रुदानवविशेषः । यथा,
“इन्द्रो दिवस्पतिः शत्रुष्टिट्टिभो नाम दानवः ।
मायूरेण च रूपेण घातयिष्यति माधवः ॥”
इति गारुडे ८७ अध्यायः ॥
(वरुणसभारक्षकदानवानामन्यतमः । असौ
हि मर्त्त्यघर्म्मविवर्ज्जितः । यथा, महाभारते ।
२ । ९ । १५ ।
“टिट्टिभो विटभूतश्च संह्नादश्चेन्द्रतापनः ॥”
इत्युपक्रम्याह ।
“सर्व्वे लब्धवराः शूराः सर्व्वे विगतमृत्यवः ॥”)

टिट्टिभकः, पुं, (टिट्टिभ + स्वार्थे कन् ।) टिट्टिभ-

पक्षी । इत्यमरः । २ । ५ । ३५ ॥

टिण्टिणिका, स्त्री, अम्बुशिरीषिका । इति भावप्रकाशः ॥

टिण्डिशः, पुं, वृक्षविशेषः । डिण्डिशा । इति

डेँडशी इति च भाषा । तत्पर्य्यायः । रोम-
शफलः २ तिन्दिशः ३ मुनिनिर्म्मितः ४ । इति
राजनिर्घण्टः ॥ डिण्डिशः ५ । अस्य गुणाः ।
रुचिकारित्वम् । भेदकत्वम् । पित्तश्लेष्माश्मरी-
नाशित्वम् । सुशीतत्वम् । वातलत्वम् । रूक्ष-
त्वम् । मूत्रलत्वञ्च । इति भावप्रकाशः ॥

टिप, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, टेपयति । नुदि प्रेरणे । इति
दुर्गादासः ।

टिप्पनी, स्त्री, (टेपयति व्याख्यायतेऽनया । टिप +

करणे ल्युट् ङीप् च । पृषोदरादित्वात् पस्य द्बित्वे
साधुः ।) टीका । यथा, --
“श्रीमतङ्गाननं नत्वा लीलावत्याः सुटिप्पनी ।
भवेशेन सुबोधार्थं क्रियते यद्गुरोः श्रुतम् ॥”)

टीक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः । (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अटिटीकत् । ङ, टीकते ।
इति दुर्गादासः ॥

टीका, स्त्री, (टीक्यते गम्यते प्रविश्यते ज्ञायते

वानया । टीक + घञर्थे कः । टाप् च ।) विव-
रणग्रन्थः । इति लिङ्गादिसंग्रहे अमरः ॥

टुण्टुकः, पुं, श्योणाकवृक्षः । इत्यमरः । २ । ४ । ५६ ॥

कृष्णखदिरवृक्षः । इति शब्दचन्द्रिका ॥ (टुण्टु
इत्यव्यक्तशब्देन कायति शब्दायते इति । कै +
कः ।) पक्षिविशेषः । इति शब्दरत्नावली ॥
टुण्टुनि इति भाषा । श्योनाकप्रभेदः । इति
राजनिर्घण्टः ॥

टुण्टुकः, त्रि, नीचः । इति मेदिनी ॥ क्रूरः । इति

विश्वः ॥

टुण्टुका, स्त्री, टङ्गिणीवृक्षः । इति शब्दचन्द्रिका ॥

टुनाका, स्त्री, तालमूलीवृक्षः । इति शब्द-

चन्द्रिका ॥

टेरकः, त्रि, वक्रचक्षुः । टेरा इति भाषा । तत्-

पर्य्यायः । बलिरः २ केकरः ३ केदरः ४ । इति
शब्दरत्नावली ॥

ट्वल, ज विक्लवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) वकारयुक्तः । ज, ट्वालः ट्वलः ।
विक्लवो विह्वलीभावः । इति दुर्गादासः ॥

, ठकारः । स व्यञ्जनद्बादशवर्णः टवर्गद्बितीय-

वर्णश्च । (अर्द्धमात्राकालेनोच्चार्य्योऽयं वर्णः ।)
अस्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥
(अस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्पर्शः
आभ्यन्तरप्रयत्नः । विवारश्वासघोषा महा-
प्राणश्च वाह्यप्रयत्नाः । वङ्ग्यवर्णमालायाम्)
तस्य लेखनप्रकारो यथा, --
“वार्त्ताकुवर्त्तुलाकारो रेखाधिष्ठितदेवताः ।
तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्य्याग्नयः प्रिये ! ॥
मात्राहीनस्तूर्द्ध्वशिखष्ठकारः परमेश्वरि ! ॥
ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! ।
पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम् ॥
सुन्दरीं षोडशभुजां धर्म्मकामार्थमोक्षदाम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति तन्त्रोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“ठकारं चञ्चलापाङ्गि ! कुण्डली मोक्षरूपिणी ।
पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ।
त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ॥”
तस्य ३१ एकत्रिंशन्नामानि यथा, --
“ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गली
क्षया ।
वनजो नन्दनो जिह्वा सुनञ्जो घूर्णकः सुधा ॥
वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः ।
दक्षजानूरुभावश्च देवभक्षो बृहद्ध्वनिः ॥
एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः ।
वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीः शशी ॥”
इति नानातन्त्रशास्त्रम् ॥

ठः, पुं, शिवः । महाध्वनिः । चन्द्रमण्डलः ।

इत्येकाक्षरकोषः ॥ मण्डलः । शून्यम् । लोक-
गोचरः । इति मेदिनी । ठे, १ ॥

ठक्कुरः, पुं, देवता । ठाकुर इति ख्यातः । यथा,

“श्रीदामनामगोपालः श्रीमान् सुन्दरटक्कुरः ॥”
इत्यनन्तसंहिता ॥

ठठं व्य, अनुकरणशब्दः । ठन् ठन् इति

भाषा । यथा, महानाटके । ९६ ।

टठठं व्य, अनुकरणशब्दः । ठन् ठन् इति

भाषा । यथा, महानाटके । ९६ ।
“रामाभिषेके मदविह्वलायाः
कक्षाच्च्युतो हेमघटस्तरुण्याः ।
सोपानमारुह्य चकार शब्दं
ठठं ठठं ठं ठठठं ठठं छः ॥”

ठेरः, त्रि, वृद्धः । यथा, जा ठेरं व्व हसन्ती ।

इति काव्यप्रकाशे देशीभाषा ॥

, डकारः । स व्यञ्जनत्रयोदशवर्णः टवर्गतृतीय-

वर्णश्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याक-
रणम् ॥ (यथा, शिक्षायाम् । १७ ।
“स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”)
वङ्गीयवर्णमालायामस्य लेखनप्रकारो यथा,
“ऊर्द्ध्वाधःक्रमतो रेखा मध्ये त्वाकुञ्चिता तथा ।
लक्ष्मीर्व्वाणी भवानी च क्रमशस्तत्र संस्थिता ॥
ब्रह्मरूपा तथा मात्रा महाशक्तिः प्रकीर्त्तिताः ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता मम ।
जवासिन्दूरसङ्काशां वराभयकरां पराम् ॥
त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“डकारं चञ्चलापाङ्गि ! सदा त्रिगुणसंयुतम्
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
चतुर्ज्ञानमयं वर्णं आत्मादितत्त्वसंयुतम् ॥
पीतविद्युल्लताकारं डकारं प्रणमाम्यहम् ।”
तस्य २४ चतुर्विंशतिनामानि यथा, --
“डः स्मृतिर्द्दारुको नन्दिरूपिणी योगिनी
प्रियः ।
कौमारी शङ्करस्त्रासस्त्रिवक्रो नदको ध्वनिः ॥
पृष्ठ २/५७३
दुरूहो जटिली भीमा द्बिजिह्वः पृथिवी सती ।
कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च
लोचनम् ॥”
इति नानातन्त्रशास्त्रम् ॥
(पद्यादौ अस्य प्रथमोपन्यासे फलं शोभा ।
यदुक्तं वृत्तरत्नाकरटीकायाम् ।
“डः शोभां ढो विशोभां भ्रणणमथ च णस्तस्तु
खं थस्तु युद्धम् ॥”)

डः, पुं, (डयते उड्डीयते भक्तानां हृदयाकाशे

यः । डी + बाहुलकात् डः ।) शिवः ।
(डीयते आकाशमार्गे नभोगुणत्वादिति । डी
+ डः ।) शब्दः । त्रासः । इत्येकाक्षरकोषः ॥
वाडवाग्निः । इति मेदिनी । डे, १ ॥

डङ्गरी, स्त्री, (डं अरोचकादिजनितत्रासं

गिरति नाशयतीति । गॄ + अच् । निपातनात्
मुमागमः । ततो ङीष् ।) फलविशेषः । तत्-
पर्य्यायः । डाङ्गरी २ दीर्घेर्व्वारुः ३ दण्डरी ४
डङ्गारी ५ नामशुण्डी ६ गजदन्तफला ७ ।
अस्या गुणाः । शीतलत्वम् । रुचिकारित्वम् ।
दाहपित्तास्रदोषार्शोजाड्यमूत्ररोधनाशित्वम् ।
तर्पणत्वम् । गौल्यत्वञ्च । इति राजनिर्घण्टः ॥

डङ्गारी, स्त्री, (डङ्गरी पृषोदरादित्वादात्वम् ।)

डङ्गरीफलम् । इति राजनिर्घण्टः ॥

डप, इ क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं उभं च-सकं-सेट् ।) मूर्द्धन्य-
वर्गतृतीयादिः । इ क ङ, डम्पयते । ञ, डम्प-
यति डम्पयते । अयमात्मनेपदीत्यन्ये । संहती
राशीकरणम् । इति दुर्गादासः ॥

डप, क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-उभं च-सकं सेट् ।) मूर्द्धन्यवर्ग-
तृतीयादिः । क ङ, डापयते । ञ, डापयति
डापयते । पुनःपाठान्नेदनुबन्धः । अयं आत्मने-
पदीत्यन्ये । संहती राशीकरणम् । इति दुर्गा-
दासः ॥

डब, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क,
डम्बयति । नोदः प्रेरणम् । इति दुर्गादासः ॥

डभ, इ क ञ सङ्घे । इति कविकल्पद्रुमः ॥ (चुरां-

उभं-अकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क,
डम्भयति डम्भयते । अयमात्मनेपदीति केचित् ।
सङ्घो राशीकरणम् । इति दुर्गादासः ॥

डमः, पुं, (डं नीचयोनित्वात् भीतिं मातीति । मा

+ कः ।) वर्णसङ्करजातिविशेषः । डोम इति
भाषा । स चाण्डाल्यां लेटात् जातः । इति
ब्रह्मवैवर्त्तपुराणम् ॥

डमरं, क्ली, (मृ + भावे अप् । मरं पलायनं

धातूनामनेकार्थत्वात् । डेन त्रासेन मरम् ।)
भीत्या पलायनम् । तत्पर्य्यायः । शृगालिका २
विद्रवः ३ डिम्बः ४ । इति हारावली । ९९ ॥

डमरः, पुं, (डेन भयेन मरो मृतिविर यत्र ।)

परचक्रादिभयम् । अस्त्रकलहः । इत्यमर-
टीकायां स्वामी ॥ तत्पर्य्यायः । डिम्बम् २
विप्लवः ३ । इत्यमरः । ३ । २ । १४ ॥ डिम्बः ४
विम्बः ५ डामरः ६ । इति भरतः ॥ (यथाह
गर्गः ।
“तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः
प्रोक्तः ।
स्निग्धस्तादृक् प्राच्यां शास्त्राख्यो डमर-
मरकाय ॥”)

डमरुः, पुं, (डमित्यव्यक्तशब्दं ऋच्छतीति । ऋ

+ “मृगय्वादयश्च ।” उणां १ । ३८ । इति कु-
प्रत्ययेन निपातनात् साधुः ।) वाद्यभेदः ।
इत्यमरः । १ । ७ । ८ ॥ कपालियोगिवाद्यम् ।
इति भरतः ॥ क्षीणमध्यो गुटिकाद्बयालम्बितः ।
इति सारसुन्दरी ॥ (यथा, योगसारे २ परि-
च्छेदे ।
“वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः ॥”)
चमत्कारः । इति त्रिकाण्डशेषः ॥

डयनं, क्ली, (डीयते आकाशमार्गे गम्यतेऽनेनेति ।

डी + करणे ल्युट् ।) कर्णीरथः । (डी ङ नभो-
गतौ + भावे ल्युट् ।) नभोगतिः । इति हेम-
चन्द्रः । ४ । ३८४ ॥

डल्लकं, क्ली, वंशादिनिर्म्मितपात्रम् । डाला इति

भाषा । यथा, --
“त्रिशतञ्च षष्ट्यधिकं डल्लकं वस्त्रसंयुतम् ।
सभोज्यं सोपवीतञ्च सोपहारं मनोहरम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

डवित्थः, पुं, काष्ठमयमृगः । यथा, --

“डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः ॥”
इति सुपद्मव्याकरणे विभक्तिपादः ॥
(द्रववाचिसंज्ञाशब्दविशेषः । यथा साहित्य-
दर्पणे । “द्रव्यशब्दा एकव्यक्तिवाचिनो हरि-
हरडित्थडवित्थादयः ॥”)

डहुः, पुं, (दहति तापयति सर्व्वशरीरमिति ।

दह + मृगय्वादित्वात् कुप्रत्ययेन निपातनात्
साधुः ।) वृक्षविशेषः । डेहुया इति मादार
इति च भाषा । तत्पर्य्यायः । लकुचः २
लिकुचः ३ । इत्यमरः । २ । ४ । ६० ॥ अस्य
गुणाः । गुरुत्वम् । विष्टम्भित्वम् । त्रिदोष-
शुक्रटुष्टिकारित्वञ्च । इति राजवल्लभः ॥

डहूः, पुं, (डहुः । पृषोदरादित्वात् दीर्घः ।)

डहुः । इति शब्दरत्नावली ॥

डा, स्त्री, (डीयते नभोमार्गे गच्छतीति । डी

+ अन्येष्वपीति डः स्त्रियां टाप् ।) डाकिनी ।
इति मेदिनी । डे, १ ॥

डाकिनी, स्त्री, (डाय भयदानाय अकति कुटिलं

व्रजतीति । अक वक्रगतौ + इनिः । ततो ङीप् ।)
कालीगणविशेषः । यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ।
“सार्द्धञ्च डाकिनीनाञ्च विकटानां त्रिकोटिभिः ॥”
(डाकानां समूहः । “खलादिभ्य इनिर्व्वक्तव्यः ।”
४ । २ । ५१ । इत्यस्य वार्त्तिकोक्त्या इनिः ।
डाकानां समूहः । इति सिद्धान्तकौमुदी ॥)

डाङ्गरी, स्त्री, (डङ्गरी पृषोदरादित्वादात्वम् ।)

डङ्गरीफलम् । इति राजनिर्घण्टः ॥

डामरः, पुं, शिवोक्तशास्त्रविशेषः । (यथा,

काशीखण्डे । २९ । ७० ।
“डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥”
“डामरो डामरकल्पो नवाक्षरदेवीमन्त्रस्य
प्रतिपादको ग्रन्थो महाराष्ट्रे सुप्रसिद्धस्तत्रोक्तं
प्रतिपादितं मन्त्रमयं महच्छरीरं यस्याः ॥”
इति तट्टीका ॥) स तु षड्विधः । तेषां
नामानि श्लोकसंख्याश्च यथा । योगडामरः
२३,५३३ । शिवडामरः ११,००७ । दुर्गाडामरः
११,५०३ । सारस्वतडामरः ९,९०५ । ब्रह्म-
डामरः ७,१०५ । गन्धर्व्वडामरः ६०,०६० ।
इति वाराहीतन्त्रम् ॥ डमरः । इत्यमर-
टीकायां भरतः ॥ चमत्कारः । यथा । भूतानां
डामरश्चमत्कारोऽत्रेति भूतडामरशब्दनिर्व्व-
चने निबन्धकारः ॥ (गर्व्वः । आटोपः । यथा,
गीतगोविन्दे । १२ । २२ ।
“मम रुचिरे चिकुरे कुरु मानद ! मानसज-
ध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डि-
शिखण्डकडामरे ॥”
कोटचक्रविशेषः । यथा, समयामृते ।
“अथातः संप्रवक्ष्यामि कोटचक्रमिहाष्टधा ॥”
इत्युपक्रम्य, --
“पञ्चमी गिरिकोटश्च षष्ठः कोटश्च डामरः ॥”
इत्युक्तवान् ॥
अस्य विशेषविवृतिः चक्रशब्दे द्रष्टव्या ॥ * ॥
क्षेत्रपालविशेषः । यथा, प्रयोगसारे ।
“भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्त्तिताः ॥”
इत्युपक्रम्य, --
“टङ्कपाणिस्तथा चान्यष्ठानबन्धुश्च डामरः ॥”)

डालिमः, पुं, (दाडिम्बः पृषोदरादित्वात् साधुः ।)

दालिमः । इत्यमरटीकायां भरतः ॥

डाहलः, पुं, त्रिपुरदेशः । इति भूरिप्रयोगः ॥

डाहुकः, पुं, दात्यूहपक्षी । इति जटाधरः ॥

डिङ्गरः, पुं, डङ्गरः । क्षेपः । खलः । धूर्त्तः ।

सेवकः । इति शब्दरत्नावली ॥

डिण्डिमः, पुं, (डिण्डीति शब्दं मातीति । मा +

कः ।) वाद्यप्रभेदः । इत्यमरः । १ । ७ । ८ ॥
डेङ्गरीति ख्यातः । इति भरतः ॥ माहेश्वर-
दण्डीति ख्यातः । इति सारसुन्दरी ॥ (यथा,
महाभारते । ७ । १९३ । ४४ ।
“भेरीश्चाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः ॥”
डिण्डिम इव आकृतिरस्त्यस्येति । अर्श
आदित्वादच् ।) कृष्णपाकफलः । इति शब्द-
चन्द्रिका ॥ पानी आमला इति भाषा ॥

डिण्डिरः, पुं, (हिण्डिरः पृषोदरादित्वात् हस्य

डः ।) समुद्रफेनः । इति हेमचन्द्रः । ४ । १४३ ॥

डिण्डिरमोदकं, क्ली, (मोदयतीति । मुद् + ण्वुल् ।

डिण्डिर इव मोदकम् ।) गृञ्जनम् । इति राज-
निर्घण्टः ॥

डिण्डिशः, पुं, टिण्डिशः । ढेँडश् इति भाषा ॥

(यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमभागे ।
पृष्ठ २/५७४
“डिण्डिशो रोमशफलो मुनिनिर्म्मित इत्यपि ।
डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः ।
सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः ॥”)

डित्थः, पुं, काष्ठमयहस्ती । यथा, सुपद्मव्याकरणे

विभक्तिपादे ।
“डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः ॥”
विशेषलक्षणयुक्तपुरुषः । यथा, --
“श्यामरूपो युवा विद्बान् सुन्दरः प्रियदर्शनः ।
सर्व्वशास्त्रार्थवेत्ता च डित्थ इत्यभिधीयते ॥”
इति कलापटीकाव्याख्यासारः ॥
(द्रव्यवाचिसंज्ञाशब्दभेदः । यथा, साहित्य-
दर्पणे । “द्रव्यशब्दा एकव्यक्तिवाचिनो हरि-
हरडित्थडवित्थादयः ॥”)

डिप, इ क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-उभं च-सकं-सेट् ।) मूर्द्धन्यवर्ग-
तृतीयादिः । इ क ङ, डिम्पयते । ञ, डिम्प-
यति डिम्पयते । अयमात्मनेपदीत्यन्ये । संहती
राशीकरणम् । इति दुर्गादासः ॥

डिप, क ङ ञ संहतौ । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-उभं-च सकं-सेट् ।) मूर्द्धन्यवर्ग-
तृतीयादिः । क ङ, डेपयते । ञ, डेपयति डेप-
यते । पुनःपाठान्नेदनुबन्धः । अयमात्मनेपदी-
त्यन्ये । संहती राशीकरणम् । इति दुर्गादासः ॥

डिप, शि क य इर् नुदि । इति कविकल्पद्रुमः ॥

(तुदां-चुरां-दिवां च-सकं-सेट् ।) शि, डिपति
अडिपीत् । क, डेपयति । य, डिप्यति । इर्
अडिपत् अडेपीत् । तुदाद्यन्तर्गणस्यैव कुटादि-
त्वमिति दिवादिपक्षे गुणः । दिवादिपक्षे पुषा-
दित्वान्नित्यं ङ इत्यन्ये । नुदि प्रेरणे । इति
दुर्गादासः ॥

डिब, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) मूर्द्धन्यवर्गतृतीयादिः । इ क,
डिम्बयति । नोदः प्रेरणम् । इति दुर्गादासः ॥

डिभ, इ क ञ सङ्घे । इति कविकल्पद्रुमः ॥

(चुरां-उभं-सकं-सेट् ।) इ क ञ, डिम्भयति
डिम्भयते । अयमात्मनेपदीति केचित् । सङ्घो
राशीकरणम् । इति दुर्गादासः ॥

डिम, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) डिण्डिमः । सौत्रधातुरयम् । इति
दुर्गादासः ॥

डिमः, पुं, नाटकस्य रूपकविशेषः । इति हेम-

चन्द्रः । २ । १९८ ॥ (तल्लक्षणादिकं यदुक्तं
साहित्यदर्पणे । ६ । २४६ ।
“मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
उपरागैश्च भूयिष्ठो डिमः ख्यातोऽतिवृत्तकः ॥
अङ्गो रौद्ररसस्तत्र सर्व्वेऽङ्गानि रसाः पुनः ।
चत्वारोऽङ्का मता नेह विष्कम्भकप्रवेशकौ ॥
नायका देवगन्धर्व्वयक्षरक्षोमहोरगाः ।
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
वृत्तयः कौशिकीहीना निर्व्विमर्षाश्च सन्धयः ।
दीप्ताः स्युः षड्रसाः शान्तहास्यशृङ्गार-
वर्ज्जिताः ॥”)

डिम्बं, क्ली, (डिम्ब + घञ् ।) भयम् । कललम् ।

फुप्फुसः । इति हारावली । २४४ ॥ डमरः ।
इत्यमरः । ३ । २ । १४ ॥

डिम्बः, पुं, (डिवि नोदे + भावे घञ् ।) भय-

ध्वनिः । अण्डम् । फुप्फुसः । प्लीहा ।
विप्लवः । इति मेदिनी । बे, ५ ॥ डिम्भः । इति
द्विरूपकोषः ॥

डिम्बाहवः, पुं, (डिम्बः नृपतिहीनत्वात् विप्लव-

मूल आहवः ।) नृपतिरहितयुद्धम् । इति
जटाधरः ॥ (यथा, मनुः । ५ । ९५ ।
“डिम्बाहवहतानाञ्च विद्युता पार्थिवेन च ॥”
“डिम्बाहवो नृपरहितयुद्धं तत्र हतानाम् ।”
इति तट्टीकायां कुल्लूकभट्टः ॥)

डिम्बिका, स्त्री, (डिम्बयति नायकसमीपे नोदय-

त्यात्मानमिति । डिम्ब + ण्वुल् । टाप् अत
इत्वञ्च ।) कामुकी । जलविम्बः । शोणक-
वृक्षः । इति शब्दरत्नावली ।

डिम्भः, त्रि, (डिम्भयति संहतो भवतीति । डिम्भ-

+ पचाद्यच् ।) शिशुः । इत्यमरः । २ । ५ । ३८ ॥
(यथा, रसिकरञ्जने । १ ।
“शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं ।
मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम् ॥”)
मूर्खः । इति मेदिनी । भे, ४ ॥ अस्य रूपा-
न्तरं डिम्बः । इति द्बिरूपकोषः ॥

डिम्भकः, त्रि, (डिम्भ एव । डिम्भ + स्वार्थे कन् ।)

बालकः । इति शब्दरत्नावली ॥ (स्वनामख्यातः
शाल्वदेशाधिपतेर्ब्रह्मदत्तस्य पुत्त्रः । यथा, हरि-
वंशे भविष्यपर्व्वणि । ३२ । १८ ।
“हंसो ज्येष्ठो नृपसुतो डिम्भकोनन्तरोऽभवत् ॥”
अस्य विशेषविवरणं तत्रैव विस्तरशो द्रष्टव्यम् ॥)

डिम्भचक्रं, क्ली, (डिम्भ इव चक्रम् ।) नराणां

शुभाशुभनिर्णायकचक्रविशेषः । यथा, --
“डिम्भचक्रे न्यसेद्भानि भानुभादित्रिमस्तके ।
मुखे त्रीणि द्बयं स्कन्धे चैकैकं बाहुहस्तयोः ॥
हृदि पञ्च नाभिगुह्ये चैकैकं षट् च जानुनोः ।
चरणाभ्यां तथैकैकं जन्मर्क्षपतनात् फलम् ॥
शीर्षस्थे छत्रलाभः स्यात् वक्त्रे मिष्टान्नभोजनम् ।
स्कन्धे धनी च बाहुभ्यां स्थानभ्रष्टो भवेन्नरः ॥
पाणिभ्यां तस्करो लक्ष्मीर्हृद्यल्पायुश्च नाभितः ।
गुह्ये कामो भ्रमो जान्वोरल्पजीवी च पादयोः ॥”
इति स्वरोदयः ॥

डिम्भा, स्त्री, (डिम्भ + टाप् ।) अतिशिशुः ।

इत्यमरः । २ । ६ । ४१ ॥

डी, ओ ङ य गतौ । नभोगतौ । इति कवि-

कल्पद्रुमः ॥ (दिवां-आत्मं-सकं अकं च-सेट् ।)
ओ, डीनः । ङ य, डीयते । इति दुर्गादासः ॥

डी, ङ नभोगतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ङ, डयते पक्षी । अस्यापि
निष्ठायां डीनः । इति कातन्त्राद्याः । धातु-
पारायणिकास्तु इम्निषेधे ओदनुबन्धडीङो
ग्रहणादस्मादिमि वक्तव्याद्गुणे डयित इत्याहुः ।
गोयीचन्द्रोऽपि । डयितः डयितवान् इत्युदा-
जहार । स्वमते तु डीत इत्येव । इति दुर्गा-
दासः ॥

डीनं, क्ली, (डी नभोगतौ + भावे क्तः ।) पक्षि-

गतिः । इति जटाधरः ॥ तद्भेदा यथा, --
“क्षणात् संपत्य निष्क्रम्य पक्षसम्पातमुच्यते ।
ऊर्द्ध्वाधोगतिसम्बन्धः समुदीर्णं प्रचक्षते ॥
संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् ।
षड्विंशतिरमी भेदाः पातानामिह दर्शिताः ॥
महाडीनं विहायैषां पातानां त्रिविधा गतिः ।
गतं तत्र यथोद्दिष्टं आगतं पुनरागमः ॥
प्रत्यावृत्तिः प्रतिगतिरिति षट् सप्तभिः स्मृताः ।
तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविंशतिः ॥”
तद्यथा । उड्डीनं ऊर्द्ध्वगमनम् १ अवडीनं अधः-
पतनम् २ प्रडीनं पतनवेगवत्ता ३ डीनं पतन-
मात्रम् ४ निडीनं नीचैःपतनम् ५ संडीनं
सम्यक्पतनम् ६ तिर्य्यग्डीनं तिर्य्यक्पतनम् ७
विडीनं विचित्रं पतनम् ८ परिडीनं सर्व्वतः
पतनम् ९ पराडीनं परावृत्य गमनम् १०
सुडीनं सुकुमारपातः ११ अभिडीनं आभि-
मुख्येन पुनः पुनः पतनम् १२ महाडीनं क्षुद्र-
पतनेन प्रत्यावृत्तिः १३ निडीनं भक्ष्यमाश्रयं वा
पश्यतः पतनम् १४ अतिडीनं दीर्घपतनम् १५
अवडीनं अधःपतनम् १६ प्रडीनं अधःपतने
वेगवत्ता १७ अवसंडीनं अधःपतने शोभन-
वत्ता १८ डीनडीनकं पतनं निर्व्विशेषणं कुत्-
सितञ्च १९ संडीनोड्डीनं शोभनमूर्द्ध्वगमनम् २०
संडीनडीनं शोभनगगनमात्रम् २१ पुनर्डीनं
तदेव सामान्यगमनम् २२ डीनावडीनकं तदे-
वाधः कुत्सितञ्च २३ सम्पातं बहुभिः सह
गमनम् २४ समुदीर्णं परस्परस्पर्द्धया गम-
नम् २५ ततोऽन्यत् व्यतिरिक्तकं तस्मात् स्पर्द्धा-
कृतादेत्यस्नेहकृतं पतनम् २६ । एतेषु षड्-
विंशतिसंख्येषु पतनं एकं डीननामकं निर्व्वि-
शेषणं पतनमात्रं सविशेषणानि पतनानि पञ्च-
विंशतिसंख्यानि तत्र तानि सविशेषानि वक्ष्य-
माणचतुर्भिर्विशेषणैर्विशिष्टानि इति शतं निर्व्वि-
शेषञ्चैकमिति एकोत्तरं शतम् । तानि चत्वारि
विशेषणानि यथा । गतं गमनमात्रम् । आमतं
आगमनम् । प्रतिगतं गत्वैव पुनरागमनं आग-
त्यैव पुनर्गमनञ्च । इति महाभारते । ८ । ४१ अः ॥ * ॥
आगमशास्त्रविशेषः । यथा, मुण्डमालातन्त्रे ।
“डामरं डमरं डीनं श्रुतं कालीविलासकम् ।
सप्तकोटिमहाग्रन्था मम वक्त्राद्बिनिर्गताः ॥”

डीनडीनकं, क्ली, (डी + भावे क्तः । ततः स्वार्थे

कन् । डीनेन सह डीनकं निर्व्विशेषणं कुत्सितं
वा पतनम् ।) पक्षिणां गतिक्रियाविशेषः ।
इति जटाधरः । अस्य विवरणं डीनशब्दे
द्रष्टव्यम् ॥

डीनावडीनं, क्ली, (डीनेन सह अवडीनम् ।)

पक्षिगतिविशेषः । तत्तु एकस्यां गतौ गत्यन्तर-
मिश्रणम् । अधःकुत्सितगमनञ्च । इति महा-
भारते कर्णपर्व्वटीका ॥
पृष्ठ २/५७५

डुण्डुः, पुं, (डुमिति कृत्वा डयते गच्छतीति । डी +

डुः ।) डुण्डुभसर्पः । इति त्रिकाण्डशेषः ॥

डुण्डुभः, पुं, (डुण्डुः सन् भातीति । डुण्डु इत्यनु-

करणशब्देन भाति वा । भा + कः ।) सर्प-
विशेषः । ढोँडा इति भाषा । तत्पर्य्यायः ।
राजिलः २ इत्यमरः । १ । ८ । ५ ॥ दुण्डुभः ३ ।
इति भरतः ॥ नागभृत् ४ डुण्डुः ५ । इति
त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । २ । ११ । २८ ।
“एकदा स वने घोरं डुण्डुभं जरसान्वितम् ।
अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययुः ॥”)

डुण्डुलः, पुं, (डुण्डुरिति शब्दं लातीति । ला +

कः ।) क्षुद्रपेचकः । तत्पर्य्यायः । क्षुद्रोलूकः २
शाकुनेयः ३ पिङ्गलः ४ वृक्षाश्रयी ५ बृह-
द्रावी ६ विशालाक्षः ७ भयङ्करः ८ । इति
राजनिर्घण्टः ॥

डुलिः, स्त्री, (दुलि + पृषोदरादित्वात् साधुः ।)

दुलिः । कमठी । इत्यमरटीकायां रायमुकुटः ॥

डुलिका, स्त्री, (डुलिरिव कायतीति । कै + कः ।

ततष्टाप् ।) खञ्जनाकारपक्षिविशेषः । इति
जटाधरः ॥

डुली, स्त्री, (डुलिः + ङीष् वा ।) चिल्लीशाकः ।

इति राजनिर्घण्टः ॥

डोडी, स्त्री, क्षुपविशेषः । तत्पर्य्यायः । जीवन्ती

२ शाकश्रेष्ठा ३ सुखालुका ४ बहुवल्ली ५
दीर्घपत्रा ६ सूक्ष्मपत्रा ७ जीवनी ८ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
दीपनत्वम् । कफवातकण्ठामयरक्तपित्तार्त्ति-
दाहनाशित्वम् । रुच्यत्वञ्च । इति राजनिर्घण्टः ॥

डोमः, पुं, स्वनामख्यातास्पृश्यजातिः । यथा, --

“चाण्डालश्चैव डोमश्च ज्ञानकश्च तथा इति ।
दण्डीरश्चैव भण्डीरो भूषुण्डश्च वृथाश्रमी ॥
वृथासुण्डी लिङ्गधारी समा एते यशस्विनि ! ।
स्पृष्ट्वा प्रमादतः स्नात्वा गायत्त्र्यष्टशतं जपेत् ॥”
इति मत्स्यसूक्ततन्त्रे ३९ पटलः ॥

डोरं, क्ली, हस्तादिबन्धनसूत्रम् । यथा, --

“कोऽनन्त इत्युदीर्य्याथ धृत्वा तत्करपल्लवम् ।
हस्तादाकृष्य तड्डोरं क्षिप्तवान् पावकोपरि ॥”
इति भविष्यपुराणे अनन्तव्रतकथा ॥

डोरकं, क्ली, (डोर + स्वार्थे कन् ।) डोरम् । यथा,

“चतुर्द्दशग्रन्थियुक्तं कुङ्कुमाक्तं सुडोरकम् ।
स्त्रियश्च पुरुषश्चैव बध्नीयात् वामदक्षिणे ॥”
इति भविष्यपुराणे अनन्तव्रतकथा ॥

डोरडी, स्त्री, (डोरमिव डयते इति । ङी + क्विप् ।)

वृहती । इति राजनिर्घण्टः ॥

, ढकारः । स व्यञ्जनचतुर्द्दशवर्णः । टवर्गचतुर्थ-

वर्णश्च । (अर्द्धमात्राकालेनोच्चारणीयः ।) अस्यो-
च्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥ (पाणि-
नीयादिषु अस्योच्चारणे जिह्वामध्यभागेन मूर्द्ध्नः
स्पर्शः आभ्यन्तरप्रयत्नः । संवारणादघोषा महा-
प्राणश्च बाह्यप्रयत्नाः । मातृकान्यासेऽस्य दक्ष-
पादाङ्गुलीमूले न्यासक्रिया । वङ्गीयवर्णमाला-
याम् ।) तस्य लेखनप्रकारो यथा, --
“ऊर्द्ध्वाधःक्रमतो रेखा वामदक्षिणतो गता ।
ततः सा कुण्डलीरूपा विष्ण्वीशब्रह्मरूपिणी ॥
महाशक्तिमयी मात्रा ध्यानमस्य प्रचक्ष्यते ।
रक्तोत्पलनिभां रम्यां रक्तपङ्कजलोचनाम् ॥
अष्टादशभुजां भीमां महामोक्षप्रदायिनीम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“ढकारं परमाराध्यं या स्वयं कुण्डली परा ।
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ॥
सदा त्रिगुणसंयुक्तं आत्मादितत्त्वसंयुतम् ।
रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम् ॥”
तस्य २६ षड्विंशतिनामानि यथा, --
“ढो ढक्का निर्णयः पूर्ब्बो यज्ञेशादनदेश्वरः ।
अर्द्धनारीश्वरस्तोयमीश्वरी त्रिशिखी नवः ॥
दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डा विनायकः ।
प्रहासा त्रिवेरा ऋद्धिर्निर्गुणो निधनो ध्वनिः ॥
विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः ।
एलापुरं त्वगात्मा च विशाखा श्रीमनोरतिः ॥”
इति नानातन्त्रशास्त्रम् ॥

ढः, पुं, (ढौकते उच्चैःशब्देन आवृणोति श्रवणे-

न्द्रियमिति । ढौक गत्यावरणयोः + डः ।) ढक्का ।
(यथा, तन्त्रे ।
“ढो ढक्का निर्णयः पूर्ब्बो यज्ञेशादनदेश्वरः ॥”)
श्वा । श्वलाङ्गूलम् । इति मेदिनी । ढे, १ ॥
निर्गुणः । ध्वनिः । इत्येकाक्षरकोषः ॥

ढक्कः, पुं, देशविशेषः । इति भूरिप्रयोगः ॥ ढाका

इति भाषा ॥

ढक्का, स्त्री, (ढक् इति गभीरशब्देन कायतीति ।

कै + कः टाप् च ।) वाद्यविशेषः । ढाक इति
भाषा । तत्पर्य्यायः । यशःपटहः २ । इत्य-
मरः । १ । ७ । ६ ॥ विजयमर्द्दलः ३ । इति
शब्दरत्नावली ॥ (यथा, अर्य्यासप्तशत्याम् । २४७ ।
“ढक्कामाहत्य मदं वितन्वते करिण इव चिरं
पुरुषाः ॥”)

ढक्कारी, स्त्री, (ढक्कं जयढक्कावत् गभीरसिंहनादं

ऋच्छति समराङ्गणे इति । ऋ + अण् ङीप्
च ।) तारिणी । यथा, --
“ढक्कारवा च ढक्कारी ढक्कारवरवा ढका ॥”
इति कुलसद्भावे तारासहस्रनामस्तोत्रम् ॥

ढण्टी, स्त्री, वाक्यविशेषः । यथा, रुद्रयामले

अन्नपूर्णासहस्रनाम कथने ।
“ढण्टीवाक्यस्वरूपा च ढकाराक्षररूपिणी ॥”

ढालं, क्ली, (ढौकते आवृणोति शरीरं अनेन ।

ढौक + अच् । पृषोदरात् आत्वे लत्वे च साधुः ।)
फलकम् । ढालिपक्षजयकरीति अन्नदाकल्पीय-
सहस्रनामविवरणात् ॥

ढाली [न्] त्रि, (ढालमस्त्यस्येति । इनिः ।) ढाल-

विशिष्टः । चर्म्मी । यथा, --
“ढालिपक्षजयकरी ढकारवर्णरूपिणी ॥”
इति रुद्रयामले अन्नपूर्णासहस्रनामस्तोत्रम् ॥

ढामरा, स्त्री, हंसी । इति धनञ्जयः ॥

ढुण्ढ, अन्वेषणे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) ढाद्यन्तो दन्त्यनोपधः । ढ-
योगान्मूर्द्धन्यः । तेन यगादौ तल्लोपे ढुढ्यत
इत्यादि । ढुण्ढति धनं लोकः । इति दुर्गादासः ॥

ढुण्ढिः, पुं, (ढुढ्यतेऽसौ भक्तैरिति । ढुण्ढ अन्वे-

षणे + इन् ।) गणेशः । तन्नामकरणं यथा, --
गणेशं प्रति शिववाक्यम् ।
“अन्वेषणे ढुढिरयं प्रथितोऽस्ति धातुः
सर्व्वार्थढुण्ढिततया भव ढुण्ढिनामा ।
काशीप्रवेशमपि को लभतेऽत्र देही
तोषं विना तव विनायक ! ढुण्ढिराज ! ॥”
तन्माहात्म्यं यथा, --
“ढुण्ढे ! प्रणम्य पुरतस्तव पादपद्मं
यो मां नमस्यति पुमानिह काशिवासी ।
तत्कर्णमूलमधिगम्य पुरादिशामि
तत्किञ्चिदत्र न पुनर्भवतास्ति येन ॥”
“यः प्रत्यहं नमति ढुण्ढिविनायक ! त्वां
काश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः ।
नो तस्य जातु जगतीतलवर्त्ति वस्तु
दुष्प्रापमत्र परत्र च किञ्च नापि ॥”
“प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतो मनाक् ।
आढुण्ढ्य सर्व्वभक्तेभ्यः सर्व्वार्थान् संप्रयच्छसि ॥”
तस्य यात्राविधानं यथा, --
“माघशुक्लचतुर्थ्यान्तु नक्तं व्रतपरायणाः ।
ये त्वां ढुण्ढेऽर्च्चयिष्यन्ति तेऽर्च्च्याः स्युरसुरद्बि-
षाम् ॥
विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ।
शुक्लां शुक्लतिलैर्ब्बद्धान् प्राश्नीयाल्लड्डुकान् व्रती ॥
कार्य्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ।
तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे ! सर्व्वोपसर्गहृत् ॥
तां यात्रां नात्र यः कुर्य्यान्निवेद्य तिललड्डु-
कान् ।
उपसर्गसहस्रैस्तु स हन्तव्यो ! ममाज्ञया ॥
होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ।
तस्यां चतुर्थ्यां मन्त्रज्ञस्तस्य मन्त्रः प्रसेत्स्यति ॥”
इति काशीखण्डे । ५० अध्याये ॥

ढोलः, पुं, (ढः ढक्का तदाकारं लातीति । ला + कः

पृषोदरात् ओत्वे साधुः । दुल उत्क्षेपे अच् ।
पृषोदरात् साधु र्वा ।) स्वनामख्यातवाद्यम् ।
यथा, --
“ढक्काढोलप्रिया नित्या ढोलवाद्यप्रमोदिनी ।
ढोलरूपा ढोलधरा ढोलशब्दस्वरूपिणी ॥”
इति रुद्रयामले अन्नपूर्णासहस्रनामस्तोत्रम् ॥

ढौक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) चतुर्द्दशस्वरी । ऋ, अडु-
ढौकत् । ङ, ढौकते । इति दुर्गादासः ॥
(आवृतौ । वदनं ढौकते । इति कालिदासः ॥)
पृष्ठ २/५७६

, णकारः । स व्यञ्जनपञ्चदशवर्णः । टवर्ग-

पञ्चमवर्णश्च ॥ (अर्द्धमात्राकालेनोच्चारणीयः ।)
अल्योच्चारणस्थानं मूर्द्धा । इति व्याकरणम् ॥
(शिक्षाग्रन्थादिमते तु अस्योच्चारणे जिह्वा-
मध्येन मूर्द्ध्नः स्पर्शः नासिकायत्नप्रभेदश्च आभ्य-
न्तरप्रयत्नः । संवारणादघोषाः अल्पप्राणश्च
वाह्यप्रयत्नाः । मातृकान्यासेऽस्य दक्षपादा-
ङ्गुल्यग्रे न्यासक्रिया ॥ वङ्गीयवर्णमालायाम् ।)
तस्य लेखनप्रकारो यथा, --
“कुण्डलीत्वगता रेखा मध्यतस्तत ऊर्द्ध्वतः ।
वामादधोगता सैव पुनरूर्द्ध्वं गता प्रिये ! ॥
ब्रह्मेशविष्णुरूपा सा चतुर्व्वर्गफलप्रदा ॥
ध्यानमस्य णकारस्य प्रवक्ष्यामि च तत् शृणु ।
द्धिभुजां वरदां रम्यां भक्ताभीष्टप्रदायिनीम् ॥
राजीवलोचनां नित्यां धर्म्मकामार्थमोक्षदाम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, --
“णकारं परमेशानि ! या स्वयं परकुण्डली ।
पीतविद्युल्लताकारं पञ्चदेवमयं सदा ॥
पञ्चप्राणमयं देवि ! सदा त्रिगुणसंयुतम् ।
आत्मादितत्त्वसंयक्तं महामोहप्रदायकम् ॥”
इति कामधेनुतन्त्रम् ॥
तस्य २४ चतुर्विंशतिनामानि यथा, --
“णो निर्गुणं रतिर्ज्ञानं जम्भनः पक्षिवाहनः ।
जया शम्भो नरकजित् निष्कला योगिनीप्रियः ॥
द्बिमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मता ।
त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलेर्म्मुखः ॥
माधवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥”
इति नानातन्त्रशास्त्रम् ॥

णः, पुं, (णखति गच्छति जानात्यनेन इति । णख

गतौ + डः । पृषोदरादित्वात् णत्वम् ।) ज्ञानम् ।
निश्चयः । इत्येकाक्षरकोषः । बिन्दुदेवः । स
बुद्धदेवताविशेषः । भूषणम् । गुणवर्ज्जितः ।
पानीयनिलयः । इति मेदिनी । णे, १ ॥

णक्ष, व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) नक्षति । व्रजो गतिः । इति दुर्गादासः ॥

णख, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) प्रणखति । इति दुर्गादासः ॥

णट, नृत्यहिंसयोः । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सकं च-सेट् ।) प्रणटति । णोपदेश-
विधौ वर्ज्जनेऽपि अस्य परस्य चेह पाठः
केषाञ्चिदनुरोधात् । अत्र नृत्यं साभिनयनर्त्तनम् ।
इति दुर्गादासः ॥

णट, म नृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) म, प्रणटयति । नृताविति नृत्यते-
रौणादिककिप्रत्यये रूपम् । अत्र मिकारानु-
बन्धेनैवेष्टसिद्धे पूर्ब्बे नृत्यग्रहणमर्थभेदार्थम् ।
तेन पूर्ब्बे नृत्यं साभिनयनर्त्तनम् इह तु नृति-
रभिनयरहितनर्त्तनमिति । यथा पूर्ब्बस्य ।
स्फटिककटकभूतिर्नाटयत्येव शैलः । इति माघः ।
अस्य तु । नाट्येन केन नटयिष्यति दीर्घ-
मायुरिति मुरारिः । इति दुर्गादासः ॥

णद, म्लिष्टोक्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) म्लिष्टोक्तिरव्यक्तशब्दः । नदति
घण्टा । इति दुर्गादासः ॥

णद, क भाषि । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, नादयति । इति दुर्गा-
दासः ॥

णभ, ऌ ङ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऌ, अनभत् । ङ, नभते ।
इति दुर्गादासः ॥

णभ, य ग हिंसे । इति कविकल्पद्रुमः ॥ (दिवां-

क्र्यां-च-परं-सकं-सेट् ।) य, नभ्यति । ग
नभ्नाति । इति दुर्गादासः ॥

णम, औ शब्दे । नतौ । इति कविकल्पद्रुमः । (भ्वां-

परं-अकं-नतौ सकं अकं च अनिट् ।) औ,
नन्ता । शब्दार्थो न भाषायाम् । नतिरिह
नमस्कारो नम्रीभावश्च । नमति गुरुं लोकः ।
नमन्ति फलिनो वृक्षाः । अमन्तेऽप्यस्य ज्वल-
ह्वलह्मलेत्यादिना केवलस्य ह्नस्वविकल्पनात्
सोपसर्गस्यैव नित्यं ह्नस्वः । नमयति नामयति
प्रणमयति । श्वपुच्छमवनामितं बधिरकर्णजापः
कुतः । इत्यादौ अवनमनं अवनामः घञ् ततो
अवनामं करोतीति ञौ रूपम् । इति दुर्गा-
दासः ॥

णय, ङ गतौ । रक्षे । इति कविकल्पद्रुमः ॥ (दिवां-

आत्मं-सकं-सेट् ।) ङ, नयते । इति दुर्गा-
दासः ॥

णर्द, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) णोपदेशविधावस्य वर्ज्जनेऽपि इह पाठः
केषाञ्चिदनुरोधात् । प्रणर्दति । इति दुर्गादासः ॥

णल, ज बन्धे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं

सेट् ।) ज, नालः नलः । नलति केशं लोकः
बध्नाति इत्यर्थः । गन्धे इति केचित् । गन्धो-
ऽदर्शनमिति गोविन्दभट्टः । इति दुर्गादासः ॥

णश, ऌ य ऊ नाशे । इति कविकल्पद्रुमः ॥ (दिवां-

परं-अक वेट्-ॡरङ् वान् ।) नाशो दर्शना-
भावः । इति प्राञ्चः । लुक्कायनमिति सर्व्वस्वः ।
ऌ, अनेशत् अनशत् । य, नश्यति शत्रुस्तिरो-
भवति इत्यर्थः । ऊ, नशिष्यति नङ्क्ष्यति । इति
दुर्गादासः ॥

णस, ङ ह्वृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सकं च-सेट् ।) ह्वृतिरिह कुटिली-
भावस्तत्करणञ्च । ङ, नसते खलः कुटिलः
स्यादित्यर्थः । नसते लतांवायुः कुटिलांकरोती-
त्यर्थः । इति दुर्गादासः ॥

णह, य ञ औ बन्धे । इति कविकल्पद्रुमः ॥

(दिवां-उभं-सकं-अनिट् ।) य ञ, नह्यति
नह्यते । औ, अनद्ध । इति दुर्गादासः ॥

णाथ, ऋ ङ आशिषि । दवैश्येऽर्थे । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-अकं च-सेट् ।)
णोपदेशविधौ वर्ज्जनेऽप्याद्यस्य पाठः कस्य
चिदनुरोधात् । ऋ, अननाथत् । ङ, प्रणाथते ।
दव उपतापः । आशीरिष्टार्थस्याशंसनम् ।
ङित्त्वेऽपि शपथाशीर्गत्यनुकारे इति नियमादा-
भ्यामाशिषोऽन्यत्र परस्मैपदम् । नाथति शत्रुं
बली उपतापयति इत्यर्थः । नाथते श्रियं लोकः
आशंसत इत्यर्थः । नाथति धनी ईश्वरःस्यादि-
त्यर्थः । नाथति भूपं भूमिं विप्रः प्रार्थयती-
त्यर्थः । मार्गणैरथ तव प्रयोजनं नाथसे
किमु न भूभृतः पतिमिति भारवौ । याचन-
मप्याशंसाविशेषः । आशिषि नित्यमात्मने-
पदमन्यत्र विभाषेति केचित् । इति दुर्गादासः ॥

णाध, ऋ ङ नाथे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) णोपदेशविधावस्य वर्ज्जने-
ऽपि इह पाठः कस्यचिदनुरोधात् । ऋ, अन-
नाधत् । ङ, नाधते नाथो दवाशीरैश्वर्य्यार्थ-
नानि । इति दुर्गादासः ॥

णास, ऋ ङ ध्वाने । शब्द इति यावत् । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) ऋ,
अननासत् । ङ, नासते । इति दुर्गादासः ॥

णिक्ष, चुम्बने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) निक्षति । इति दुर्गादासः ॥

णिज, इ ल ङ शुद्धौ । इति कविकल्पद्रुमः ॥ (अदां

आत्मं-सकं सेट्-इदित् ।) शुद्धिरिह शुद्धीकरणम्
इ, कर्म्मणि निञ्ज्यते । ल ङ, प्रणिङ्क्ते । दक्षिणी
यानां विप्राणां समूहः इति हलायुधः । इति
दुर्गादासः ॥

णिज, लि इर् ञ औ पोषे । शुद्धौ । इति कवि-

कल्पद्रुमः ॥ (ह्वां-उभं-सकं-अनिट् ।) लि ञ-
नेनेक्ति नेनिक्ते । इर्, अनिजत् अनैक्षीत् । औ,
नेक्ता । इति दुर्गादासः ॥

णिद, इ कुत्सने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट्-इदित् ।) निंसनिन्दनिक्षां णोपदेश-
फलं चिन्त्यम् । णत्वविकल्पने स्वरूपग्रहणात् ।
केचित्तु कृतिविकल्पमिच्छन्ति त्यादौ तूपसर्गा-
दसमासे उपसर्गात् समासे त्यादौ नित्यमित्यर्थः ।
यथा, प्रणिन्दकः प्रनिन्दकः । प्रणिन्दति । भट्टौ
तु त्यादावपि विकल्पो दृश्यते । इ, कर्म्मणि
निन्द्यते । निन्दति दुष्टं लोकः । इति दुर्गा-
दासः ॥

णिद, ऋ ञ सन्निधौ । कुत्सने । इति कविकल्प-

द्रुमः ॥ (भ्वां-उभं-अकं-कुत्सने-सकं-सेट्-
ऋदित् ।) सन्निधिः सन्निकर्षः । ऋ, अनिनेदत् ।
ञ, नेदति नेदते दयालुं दीनः । निनिदुः । इति
दुर्गादासः ॥

णिल, श गहने । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) ह्नस्वी । गहनं दुर्ब्बोधः । श,
निलति शास्त्रं कुधीः दुःखेन जानातीत्यर्थः ।
इति दुर्गादासः ॥

णिव, इ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । इदित् ।) ह्नस्वी । इ, निन्व्यते । इति
दुर्गादासः ॥
पृष्ठ २/५७७

णिश, शीले । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) शीले समाधौ । नेशति योगी । निनि-
शतुः । इति दुर्गादासः ॥

णिष, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्वात् क्त्रावेट् ।) उ, नेषित्वा
निष्ट्वा । इति दुर्गादासः ॥

णिस, इ ङ ल चुम्बने । इति कविकल्पद्रुमः ॥

(अदां-आत्मं-सकं-सेट् ।) ल ङ, निंस्ते । इ,
निंस्यते । इति दुर्गादासः ॥

णी, ञ प्रापणे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

द्विकं-अनिट् ।) णोपदेशपाठो नादित्वेन
प्राग्वन्न इति णत्वार्थः । प्रणयति । एवं सर्व्वत्र ।
प्रापणमिह ञ्यन्तस्य रूपम् । तथा च । नृणाति
लम्भयति च वेहत्यपि नयत्यमू । इति क्रिया-
निर्घण्टः ॥ ञ, नयति नयते गांवनं गोपः प्रापय-
तीत्यर्थः । इति दुर्गादासः ॥

णील, वर्णे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सकं च-सेट् ।) वर्ण इह कृष्णवर्णीभावस्तत्-
करणञ्च । नीलति पत्रं तमालस्य । नीलति
सूत्रं तन्त्रवायः । इति दुर्गादासः ॥

णीव, स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) नीवति लोकः स्यूलः स्यादित्यर्थः ।
इति दुर्गादासः ॥

णु, ल स्तुतौ । इति कविकल्पद्रुमः ॥ (अदां-परं-

सकं-सेट् ।) ल, नौति । इति दुर्गादासः ॥

णुद, ञ श औ प्रेरणे । इति कविकल्पद्रुमः ॥

(तुदां-उभं-सकं-अनिट् ।) ञ श, नुदति नुदते
शरं योधः । औ, नोत्ता । इति दुर्गादासः ॥

णू, शि स्तवने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ह्नस्वान्तोऽयमिति वररुचिः । शि,
नुवति । अनुवीत् । इति दुर्गादासः ॥

णेद, ऋ ञ सन्निधौ । कुत्सने । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-अकं-सकं च-सेट् ।) सन्निधिः सन्नि-
कर्षः । ऋ, अनिनेदत् । ञ, नेदति नेदते
दयालुं दीनः । निनेदुः । इति दुर्गादासः ॥

णेष, ऋ ङ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अनिनेषत् । ङ, नेषते
निनेषे । व्रजो गतिः । इति दुर्गादासः ॥ * ॥
एते धातवः स्वभावतो दन्त्यनादयो णोपदेशेन
मूर्द्धन्यणाद्याः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/झ&oldid=43963" इत्यस्माद् प्रतिप्राप्तम्