सामग्री पर जाएँ

शब्दकल्पद्रुमः/जेता

विकिस्रोतः तः
पृष्ठ २/५४३

जेता, [ऋ] त्रि, (जयतीति । जि + तृच् ।)

जयशीलः । तत्पर्य्यायः । जिष्णुः २ जित्वरः ३
जैत्रः ४ । इत्यमरः । २ । ८ । ७७ ॥ (यथा,
रघुः । १२ । ८९ ।
“जेतारं लोकपालानां स्वमुखैरर्च्चितेश्वरम् ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । २९ ।
“अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥”)

जेन्ताकः, पुं, स्वेदविशेषः । यथा, “अथ

जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत पूर्ब्बस्या-
न्दिशि उत्तरस्यां वा गुणवति प्रशस्तभूमिभागे
देशे कृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा
नदीपरीवापपुष्करिण्यादीनां जलाशयानामन्य-
तमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे सम-
सुविभक्तभागे देशे सप्ताष्टौ वा अरत्नीः प्रक्रम्य
उदकात् प्राङ्मुखमुदङ्मुखं वा अभिमुखतीर्थं
कूटागारं कारयेत् । उत्सेधविस्तारतः परम-
रत्नीः षोडशासमन्तात् संवृतं मृत्कर्म्मसम्पन्न-
मनेकवातायनम् । अस्य च कूटागारस्यान्तः सम-
न्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां
कारयेत् आकवाटान्मध्ये चास्य च कूटागारस्य
चतुष्किष्कुमात्रं द्बिपुरुषप्रमाणं मृण्मयं कन्दु-
संस्थानं बहुसूक्ष्मच्छिद्रं अङ्गारकोष्ठकस्तम्भं
सपिधानं कारयेत् । तञ्च खादिराणामाश्व-
कर्णिकानां वा मेध्येन काष्ठेनापूरयित्वा प्रदी-
पयेत् । स यदा जानीयात् साधु दग्धानि
काष्ठानि गतधूमानि अथ तप्तं केवलमग्निना
तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति ।
तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नं
प्रवेशयेत् प्रवेशयंश्चैनमनुशिष्यात् सौम्य ! प्रविश
कल्याणायारोग्याय चेति प्रविश्य चैनां पिण्डिका-
मधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः ।
न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डि-
कैषा मोक्तव्या आप्राणोच्छ्वासात् भ्रस्यमानो
ह्यतः पिण्डिकावकाशात् द्वारमधिगच्छन् स्वेद-
र्मूच्छापरीततया सद्यः प्राणान् जह्याः तस्मात्
पिण्डिकां न कथञ्चन मुञ्चेथाः । स यदा
जानीयाद्विगताभिष्यन्दमात्मानं सम्यक् प्रसृत-
स्वेदपिच्छं सर्व्वस्रोतोविमुक्तं लघुभूतमपगत-
विबन्धस्तम्भसुप्तिगौरववेदनमिति ततस्तां पिण्डि
कामनुवसन् द्वारं प्रपद्येत निष्क्रम्य च न सहसा
चक्षुषोः परिपालनार्थं शीतमुदकं स्पृशेत् । अप-
गतक्लमसन्तापस्तु मुहूर्त्तात् सुखोष्णेन वारिणा
यथान्यायं परिषिक्तोऽश्नीयात् ।” इति चरकः ॥

जेमनं, क्ली, (जिमु भक्षणे + भावे ल्युट् ।) भोजनम् ।

इत्यमरः । २ । ९ । ५६ ॥

जेयः, त्रि, (जीयते इति । जि जये + “अचो

यत् ।” ३ । १ । ९७ । इति कर्म्मणि यत् ।)
जेतव्यमात्रकम् । इत्यमरः । २ । ८ । ७४ ॥
(यथा, मार्कण्डेये । २७ । १२ ।
“तस्मात् कामादयः पूर्ब्बं जेयाः पुत्त्र ! महीभुजा ।
तज्जये हि जयोऽवश्यं राजा नश्यति तैर्ज्जितः ॥”)

जेष, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अजिजेषत् । ङ, जेषते
जिजेषे । इति दुर्गादासः ॥

जेह, ङ ऋ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ङ, जेहते जिजेहे । ऋ,
अजिजेहत् । इति दुर्गादासः ॥

जै, क्षये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

अनिट् ।) जायति । इति दुर्गादासः ॥

जैत्रं, क्ली, (रोगजयात् जेतृ । तदेव । “प्रज्ञादि-

भ्यश्च ।” ५ । ४ । ३८ । इत्यण् ।) औषधम् ।
इति राजनिर्घण्टः ॥

जैत्रः, त्रि, (जेतैव । जेतृ + प्रज्ञादित्वादण् ।) जेता ।

इत्यमरः । २ । ८ । ७४ ॥ (यथा, माये । ३ । ६१ ।
“शरीरिणा जैत्रशरेण यत्र
निःशङ्कमूषे मकरध्वजेन ॥”)
पारदे, पुं । इति राजनिर्घण्टः ॥

जैत्ररथः, पुं, (जैत्रो जयशीलो रथो यस्य ।)

जयशीलः । इति हलायुधः ॥

जैत्री, स्त्री, (जयति रोगादिनाशकतया सर्व्वोत्-

कर्षेण वर्त्तते इति । जि + तृच् । ततः स्वार्थे
अण् ततः स्त्रियां ङीप् ।) जयन्तीवृक्षः । इति
शब्दरत्नावली ॥

जैनः, पुं, (जिन एव । यद्बा, जिन उपास्य-

देवतास्येति । जिन् + अण् ।) जिनोपासकः ।
बौद्धः । इति हलायुधः ॥ (धर्म्मक्षेत्रे-
ऽस्मिन् भारतवर्षे प्रचलितेषु विविधेषु
धर्म्मेषु जिनधर्म्म एव श्रेष्ठतम इति जैनाः प्रव-
दन्ति । एषामुपास्यदेवता जिनः । ते तु श्वेता-
म्बरदिगम्बरभेदेन द्बिविधाः । श्वेताम्बरास्तु
प्रायश आश्रमिणः । अधुना नानाशाखासु
विभक्ताः समभवन् । दिगम्बरास्तु प्रायशो
निर्ग्रन्थाः । एतेषां यन्मतं तत् सर्व्वदर्शनसंग्र-
हात् प्रदर्श्यते । यथा, --
“ननु न कश्चित् पुरुषविशेषः सर्व्वज्ञपदवेद-
नीयः प्रमाणपद्धतिमध्यास्ते सद्भावग्राहकस्य
प्रमाणपञ्चकस्य तत्रानुपलम्भात् तथाचोक्तं
तौतातितैः ।
सर्व्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ।
दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत् ॥
न चागमविधिः कश्चिन्नित्यसर्व्वज्ञबोधकः ।
न च तत्रार्थवादानां तात्पर्य्यमपि कल्प्यते ॥
न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते ।
न चानुवदितुं शक्यः पूर्ब्बमन्यैरबोधितः ॥
अनादेरागमस्यार्थो न च सर्व्वज्ञ आदिमान् ।
कृत्रिमेन त्वसत्येन स कथं प्रतिपाद्यते ॥
अथ तद्वचनेनैव सर्व्वज्ञोऽनयैः प्रतीयते ।
प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥
सर्व्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ।
कथं तदुभयं सिध्येत् सिद्धमूलान्तरादृते ॥
असर्व्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ।
सर्व्वज्ञमवगच्छन्तस्तद्वाक्योक्तं न जानते ॥
सर्व्वज्ञसदृशं किञ्चिद्यदि पश्येम सम्प्रति ।
उपमानेन सर्व्वज्ञं जानीयाम ततो वयम् ॥
उपदेशोऽपि बुद्धस्य धर्म्माधर्म्मादिगोचरः ।
अन्यथा नोपपद्येत सार्व्वज्ञ्यं यदि नाभवत् ॥
इत्यादि ॥
अत्र प्रतिविधीयते यदभ्यधायि सद्भांवग्राह-
कस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तद-
युक्तं तत्सद्भावादेकस्यानुमानादेः सद्भावात् ।
तथाहि कश्चिदात्मा सकलपदार्थसाक्षात्कारी
तद्गहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्यय-
त्वात् यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रति-
बन्धप्रत्ययं तत्तत्साक्षात्कारि यथा अपगत-
तिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षा-
त्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रति-
बन्धप्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थ-
साक्षात्कारीति । न तावदशेषार्थग्रहणस्वभा-
वत्वमात्मनोऽसिद्धं चोदनाबलान्निखिलार्थज्ञा-
नात् नोत्पत्त्यन्यथानुपपत्त्या सर्व्वमनैकान्तात्मकं
सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च । चोदना हि
भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्ट-
मित्येवं जातीयकमर्थमवगमयतीत्येवंजातीयकै-
रध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणा-
निबन्धनं सकलार्थविषयज्ञानं प्रतिपद्यमानैः
सकलार्थग्रहणस्वभावकत्वमात्मनोऽभ्युपगतम् ।
न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः
सम्यग्-दर्शनादित्रयलक्षणस्यावरणप्रक्षयहेतु-
भूतस्य सामग्रीविशेषस्य प्रतीतत्वात् अनया
मुद्रयापि क्षुद्रोपद्रवा विद्राव्याः ।
नन्वावरणप्रक्षयवशादशेषविषयं विज्ञानं विशदं
मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तं तस्य सर्व्वज्ञ-
स्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्न
अनादिमुक्तत्वस्यैवासिद्धेर्न सर्व्वज्ञोऽनादिमुक्तः
मुक्तत्वादितरमुक्तवत् बद्धापेक्षया च मुक्तव्यप-
देशः तद्रहिते चास्याप्यभावः स्यादाकाशवत् ।
नन्वनादेः क्षित्यादिकार्य्यपरम्परायाः कर्तृत्वेन
तत्सिद्धिः तथाहि क्षित्यादिकं सकर्त्तृकं कार्य्य-
त्वाद्घटवदिति तदप्यसमीचीनं कार्य्यत्वस्यैवा-
सिद्धेः । न च सावयवत्वेन तत्साधनमित्यभि-
धातव्यं यस्मादिदं विकल्पजालमवतरति साव-
यवत्वं किमवयवसंयोगित्वं अवयवसमवायित्वं
अवयवजन्यत्वं समवेतद्रव्यत्वं सावयवबुद्धिविष-
यत्वं वा । न प्रथमः आकाशादावनैकान्त्यात् ।
न द्वितीयः सामान्यादौ व्यभिचारात् । न
तृतीयः साध्याविशिष्टत्वात् । न चतुर्थः विकल्प-
युगलागलग्रहगलत्वात् समवायसम्बन्धमात्र-
वद्द्रव्यत्वं समवेतद्रव्यत्वमन्यत्र समवेतद्रव्यत्वं
वा विवक्षितं हेतूक्रियते । आद्ये गगनादौ
व्यभिचारः तस्यापि गुणादिसमवायवत्त्वद्रव्य-
त्वयोः सम्भवात् । द्बितीये साध्याविशिष्टता
अन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेयु सम-
वायस्य साधनीयत्वात् । अभ्युपगम्यैतदभाणि
वस्तुतस्तु समवाय एव न समस्ति प्रमाणाभा-
वात् । नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्य
सावयवबुद्धिविषयत्वेऽपि कार्य्यत्वाभावात् । न
च निरवयवत्वेऽप्यस्य सावयवार्थसम्बन्धेन साव-
यवबुद्धिविषयत्वमौपचारिकमित्येष्टव्यं निरवय-
वत्वे व्यापित्वविरोधात् परमाणुवत् । किञ्च
किमेकः कर्त्ता साध्यते किं वा स्वतन्त्रः प्रथमे
प्रासादादौ व्यभिचारः स्थपत्यादीनां बहूनां
पृष्ठ २/५४४
पुरुषाणां तत्र कर्त्तृत्वोपलम्भादनेनैव सकलजग-
ज्जननोत्पत्तावितरवैयर्थ्यञ्च । तदुक्तं वीत-
रागस्तुतौ ।
कर्त्तास्ति नित्यो जगतः स चैकः
स सर्व्वगः सन् स्ववशः स सत्यः ।
इमाः कुहेयाः कुविडम्बनाः स्यु-
स्तेषां न येषामनुशासकस्त्वम् ॥ इति ॥
अन्यत्रापि ।
कर्त्ता न तावदिह कोऽपि यथेच्छया वा
दृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः ।
कार्य्यं किमत्र भवतापि च तक्षकाद्यै-
राहत्य च त्रिभुवनं पुरुषः करोतीति ॥
तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षये
सार्व्वज्ञ्यं युक्तम् । न चास्योपदेष्ट्रन्तराभावात्
सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयं
पूर्ब्बसर्व्वज्ञप्रणीतागमप्रभवत्वादमुष्याशेषार्थज्ञा-
नस्य । नचान्योन्याश्रयतादिदोषः आगमसर्व्वज्ञ-
परम्पराया बीजाङ्कुरवदनादित्वाङ्गीकारादि-
त्यलम् ।
रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादि-
त्रितयमर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररू-
पितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग
इति । विवृतञ्च योगदेवेन येन रूपेण जीवा-
द्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते
तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपर-
पर्य्यायं श्रद्धानं सभ्यग्दर्शनं तथा च तत्त्वार्थ-
सूत्रं तत्त्वार्थं श्रद्धानं सम्यग्दर्शनमिति ।
अन्यदपि ।
रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते ।
जायते तन्निसर्गेण गुरोरधिगमेन वेति ॥
परोपदेशनिरपेक्षमात्मस्वरुपं निसर्गः व्याख्या-
नादिरूपपरोपदेशजनितं ज्ञानमधिगमः । येन
स्वभावेन जीवादयः पदार्थाः व्यवस्थिताः तेन
स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्-
ज्ञानम् । यथोक्तम् ।
यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा ।
योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥
इति ॥
तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्य्याय-
केवलभेदेन । तदुक्तम् मतिश्रुतावधिमनः पर्य्याय-
केवलानि ज्ञानमिति । अस्यार्थः ज्ञानावरण-
क्षयोपशमे सति इन्द्रियमनसीपुरस्कृत्य व्यापृतः
सन् ययार्थं मनुते सा मतिः । ज्ञानावरण-
क्षयोपशमे सतिं मतिजनितं स्पष्ठं ज्ञानं श्रुतम् ।
असम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्त-
मवच्छिन्नविषयं ज्ञानमवधिः । ईर्ष्यान्तराय-
ज्ञानावारणक्षयोपशमे सति परमनोगत-
स्यार्थस्य स्फुटं परिच्छेदकं ज्ञानं मनःपर्य्यायः ।
तपःक्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्-
जानमन्यज्ञानसंस्पृष्टं केवलम् । तत्राद्यं परोक्षं
प्रत्यक्षमन्यत् । तदुक्तम्
षिजानं स्वपराभामि प्रमाणं वाधवर्ज्वितम ।
प्रत्यक्षञ्च परोक्षञ्च द्बिधा मेयविनिश्चयादिति ॥
अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवागमेऽव-
गन्तव्यः । संसरणकर्म्मोच्छित्तावुद्यतस्य श्रद्ध-
धानस्य ज्ञानवतः पापगमनकारणक्रियानिवृत्तिः
सम्यक्चारित्रम् । तदेतत् सप्रपञ्चमुक्तमर्हता ।
सर्व्वथावद्ययोगानां त्यागश्चारित्रमुच्यते ।
कीर्त्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥
अहिंसासूनृतास्तेयब्रह्मचर्य्यापरिग्रहाः ॥
न यत्प्रमादयोगेन जीवितव्यपरोपणम् ।
चराणां स्थावराणाञ्च तदहिंसाव्रतं मतम् ॥
प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते ।
तत्तथ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत् ॥
अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।
वाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥
दिव्यौदरिककामाणां कृतानुमतकारितैः ।
मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥
सर्व्वाभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः ।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ॥
भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात् ।
महाव्रतानि लोकस्य साधयन्त्यव्ययं पदमिति ॥
भावनापञ्चकप्रपञ्चनञ्च प्ररूपितम् ।
हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् ।
आलोच्यभाषणेनापि भावयेत् सूनृतं व्रतम् ॥
इत्यादिना ॥
एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलि-
तानि मोक्षकारणं न प्रत्येकं यथा रसायन-
ज्ञानं श्रद्धानावरणानि सम्भूय रसायनफलं
साधयन्ति न प्रत्येकम् ।
अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे
स्तः तत्र बोधात्मको जीवः अबोधात्मकस्त्व-
जीवः । तदुक्तं पद्मनन्दिना ।
चिदचिद्द्वे परे तत्त्वे विवेकस्तद्बिवेचनम् ।
उपादेयमुपादेयं हेयं हेयञ्च कुर्व्वतः ॥
हेयं हि कर्त्तृरागादि तत्कार्य्यमविवेकिनः ।
उपादेयं परं ज्योतिरुपयोगैकलक्षणमिति ॥
सहजचिद्रूपपरिणतिं स्वीकुर्व्वाणे ज्ञानदर्शने
उपयोगः स परस्परप्रदेशात्तु प्रदेशबन्धात्
कर्म्मणैकीभूतस्य आत्मनोऽन्यत्वप्रतिपत्तिकारणं
लक्षणं भवति । सकलजीवसाधारणं चैतन्यमुप-
शमक्षयक्षयोपशमवशादौपशमिकक्षयात्मक-
क्षयौपशमिकभावेन कर्म्मोदयवशात् कलुषा-
न्याकारेण च परिणतजीवपर्य्यायजीवविवक्षायां
स्वरूपं भवति । यदवोचद्वाचकाचार्य्यः औप-
शमिकक्षायिकौ भावौ मिश्रश्च जीवस्य सत्त्व-
मौदयिकपारिणामिकौ चेति । अनुदयप्राप्ति-
रूपे कर्म्मण उपशमे सति जीवस्योत्पद्यमान-
भावः औपशमिकः यथा पङ्के कलुषतां
कुर्व्वति कतकादिद्रव्यसम्बन्धादधः पतिते जलस्य
स्वच्छता । कर्म्मणः क्षयोपशमे सति जायमानो
भावः क्षायिकः यथा मोक्षः । उभयात्मा
भावो मिश्रः यथा जलस्यार्द्धस्वच्छता । कर्म्मो-
दये सति भवन् भाव औदयिकः । कर्म्मोपश-
माद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारि-
णामिकः । तदेतत् सत्त्वं यथासम्भवं भव्यस्या-
भव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः ।
तदुक्तं स्वरूपसम्बोधने ।
ज्ञानाद् भिन्नो न चाभिन्नो भिन्नाभिन्नः कथञ्चन ।
ज्ञानं पूर्ब्बापरीभूतं सोऽयमात्मेति कीर्त्तितः ॥
इति ॥
ननु भेदाभेदयोः परस्परपरिहारेणावस्थाना-
दन्यतरस्यैव वास्तवत्वादुभयात्मकत्वमयुक्तमिति
चेत्तदयुक्तं वाधे प्रमाणाभावात् अनुपलम्भो हि
बाधकं प्रमाणं न सोऽस्ति समस्तेषु वस्तुष्वनेक-
रसात्मकत्वस्य स्याद्बादिनो मते सुप्रसिद्धत्वा-
दित्यलम् ।
अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते
जीवाकाश-धर्म्माधर्म्म-पुद्गलास्तिकायभेदात् ।
एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया स्थिति-
व्यपदेशः अनेकप्रदेशत्वेन शरीरवत् कायव्यप-
देशः । तत्र जोवा द्विविधाः संसारिणो मुक्ताश्च
भवाद् भवान्तरप्राप्तिमन्तः संसारिणः । ते च
द्बिविधाः समनस्का अमनस्काश्च तत्र संज्ञिनः
समनस्काः शिक्षाक्रियालापग्रहणरूपा संज्ञा
तद्विधुरास्त्वमनस्काः । ते चामनस्का द्विविधाः
त्रसस्थावरभेदात् तत्र द्बीन्द्रियादयः शङ्खगण्डो-
लकप्रभृतयश्चतुर्व्विधास्त्रसाः पृथिव्यप्तेजोवायुवन-
स्पतयः स्थावराः । तत्र मार्गगतधूलिः पृथिवी
इष्टकादिः पृथिवीकायः पृथिवी कायत्वेन येन
गृहीता स पृथिवीकायकः पृथिवीं कायत्वेन
यो ग्रहीष्यति स पृथिवीजीवः । एवमवरादि-
ष्वपि भेदचतुष्टयं योज्यम् । तत्र पृथिव्यादि
कायत्वेन गृहीतवन्तो ग्रहीष्वन्तश्च स्थावरा
गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः तेषां
जीवत्वात् । ते च स्थावराः स्पर्शनैकेन्द्रियाश्च
भवान्तरप्राप्तिविधुरा मुक्ताः धर्म्माधर्म्माकाशा-
स्तिकायास्ते एकत्वशालिनो निष्क्रियाश्च द्रव्यस्य
देशान्तरप्राप्तिहेतुः । तत्र धर्म्माधर्म्मौ प्रसिद्धौ
आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवे द
नीये सर्व्वत्रावस्थितिगतिस्थित्युपग्रहो धर्म्माधर्म्म-
योरुपकारः अतएव धर्म्मास्तिकायः प्रवृत्त्यनु-
मेयः अधर्म्मास्तिकायः स्थित्यनुमेयः । अन्यवस्तुप्र-
देशमध्येऽन्यस्य वस्तुनः प्रवेशोऽवगाहः तदा-
काशकृत्यम् । स्पर्शरसवर्णवन्तः पुद्गलाः ते च
द्बिविधाः अणवः स्कन्धाश्च । भोक्तुमशक्या अणवः
द्व्यणुकादयः स्कन्धाः । तत्र द्व्यणुकादिस्कन्ध-
भेदादण्वादिरुत्पद्यते अण्वादिसंघातात् द्ब्यणु-
कादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः
अतएव पूरयन्ति गलन्तीति पुद्गलाः । काल-
स्यानेक-प्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपि
द्रव्यत्वमस्ति तल्लक्षणयोगात् तदुक्तं गुणपर्य्याय-
वद्द्रव्यमिति । द्रव्याश्रया निर्गुणा गुणाः यथा
जीवस्य ज्ञानत्वादिसामान्यरूपाः पुद्गलस्य
रूपत्वादिसामान्यस्वभावाः धर्म्माधर्म्माकाश-
कायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादि-
पृष्ठ २/५४५
सामान्यानि गुणाः । तस्य द्रव्यस्योक्तरूपेण
भवनमुत्पादः तद्भावः परिणामः पर्य्याय इति
पर्य्यायाः यथा जीवस्य घटादिज्ञानसुखक्लेशा-
दयः पुद्गलस्य मृत्पिण्डघटादयः धर्म्मादीनां
गत्यादिविशेषाः अतएव षट् द्रव्याणीति
प्रसिद्धिः ।
केचन सप्त तत्त्वानीति वर्णयन्ति तदाह जीवा-
जीवास्रव-बन्ध-संवर-निर्जर-मोक्षास्तत्त्वानीति ।
तत्र जीवाजीवौ निरूपितौ आस्रवो निरूप्यते ।
औदारिकादिकायादिवलनद्बारेणात्मनश्चलनं
योगपदवेदनीयमास्रवः यथा सलिलावगाहि-
द्वारं नद्यास्रवणं कारणत्वादास्रव इति निग-
द्यते तथा योगप्रणाडिकयाकर्म्मास्रवतीति स
योग आस्रवः । यथा आर्द्रं वस्त्रं समन्ताद्बाता-
नीतं रेणुजातमुपादत्ते तथा कषायजलार्द्र
आत्मा योगानीतं कर्म्म सर्व्वप्रदेशैर्गृह्णाति यथा
वा निष्टप्तायःपिण्डे जले क्षिप्ते अम्भः समन्ताद्
गृह्णाति तथा कषायोष्णो जीवो योगानीतं
कर्म्म समन्तादादत्ते । कषति हिनस्त्यात्मानं
कुगतिप्रापणादिति कषायः क्रोधो मानो माया
लोभश्च स द्विविधः शुभाशुभभेदात् । तत्रा-
हिंसादिः शुभः काययोगः सत्यमितहितभाष-
णादिः शुभो वाग्योगः । तदेतदास्रवभेदप्रभेद-
जातं कायवाङ्मनःकर्म्मयोगः स आस्रवः शुभः
पुण्यस्य अशुभः पापस्येत्यादिना सूत्रसन्दर्भेण
ससंरम्भमभाणि । अपरे त्वेवं मेनिरे आस्रवयति
पुरुर्षविषयेष्विन्द्रियप्रवृत्तिरास्रव इन्द्रियद्बारा हि
पौरुषं ज्योतिर्व्विषयान् स्पृशद्रूपादिज्ञानरूपेण
परिणमत इति ।
मिथ्यादर्शनाविरतिप्रमादकषायवशाद्योग-
वशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तान्त-
प्रदेशानां पुद्गलानां कर्म्मबन्धयोग्यानामादान-
मुपश्लेषणं यत् करोति स बन्धः । तदुक्तं सकषा-
यत्वाज्जीवः कर्म्मभावयोग्यान् पुद्गलानादत्ते स
बन्ध इति । तत्र कषायग्रहणं सर्व्वबन्धहेतूपलक्ष-
णार्थम् । बन्धहेतून् पपाठ वाचकाचार्य्यः ।
मिथ्यादर्शनाविरतिप्रमादकषाया बन्धहेतव
इति । मिथ्यादर्शनं द्विविधं मिथ्याकर्म्मोदयात्
परोपदेशानपेक्षं तत्त्वाश्रद्धानं नैसर्गिकमेकम्
अपरं परोपदेशजम् । पृथिव्यादिषट्कापादा-
नकं षडिन्द्रियासंयमनञ्च अविरतिः । पञ्च-
समितिगुप्तिष्वनुत्साहः प्रमादः । कषायः
क्रोधादिः । तत्र कषायान्ताः स्थित्यनुभावबन्ध-
हेतवः प्रकृतिप्रदेशबन्धहेतुर्योग इति विभागः ।
बन्धश्चतुर्व्विध इत्युक्तं प्रकृतिस्थित्यनुभावप्रदे-
शास्तु तद्बिधय इति यथा निम्बगुडादेस्तिक्तत्व-
मधुरत्वादिस्वभावः एवमावरनीयस्य ज्ञान-
दर्शनावरणत्वमादित्यप्रभोच्छेदकाम्भोधरवत् प्र-
दीपप्रभातिरोधायककुम्भवच्च सदसद्वेदनीयस्य
सुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्दर्शन-
मोहनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्ज्जनसङ्ग-
वच्चारित्रे मोहनीयस्यासंयमहेतुत्वं मद्यमद-
वदायुषो देहबन्धकर्तृत्वं जलवत् नाम्नी
विचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्चनीच-
कारित्वं कुम्भकारवद्दानादीनां विघ्ननिदानत्व-
मन्तरायस्य स्वभावः कोशाध्यक्षवत् । सोऽयं
प्रकृतिबन्धोऽष्टविधः द्रव्यकर्म्मावान्तरभेदमूल-
प्रकृतिवेदनीयः । तथावोचदुमास्वातिवाचका-
चार्य्यः आद्यो ज्ञानदर्शनावरणवेदनीयमोह-
नीयायुर्नामगोत्रान्तराया इति तद्भेदञ्च सम-
गृह्णात् पञ्चनवाष्टाविंशतिचतुर्द्विचत्वारिंशद्-
द्बिपञ्चदशभेदा यथाक्रममिति । एतच्च सर्व्वं
विद्यानन्दादिभिर्व्विवृतमिति विस्तरभयान्न प्रस्तू-
यते । यथा अजागोमहिष्यादिक्षीराणामेता-
वन्तमनेहसं माधुर्य्यस्वभावादप्रच्युतिस्थितिः
तथा ज्ञानावरणादीनां मूलप्रकृतीनामादित-
स्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम-
कोटिकोट्यः परास्थितिरित्याद्युक्तं कालदुर्द्धान-
वत् स्वीयस्वभावादप्रच्युतिस्थितिः । यथा अजा-
गोमोहिष्यादिक्षीराणां तीव्रमन्दादिभावेन स्व-
कार्य्यकारणे सामर्थ्यविशेषोऽनुभावः तथा कर्म्म-
पुद्गलानां स्वकार्य्यकरणे सामर्थ्यविशेषोऽनुभावः ।
कर्म्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदे-
शानामात्मप्रदेशानुप्रवेशः प्रदेशबन्धः । आस्रव-
निरोधः संवरः । येनात्मनि प्रविशत् कर्म्म प्रति-
षिध्यते स गुप्तिसमित्यादिः संवरः । संसार-
कारणाद्योगादात्मनो गोपनं गुप्तिः । सा त्रिविधा
कायवाङ्मनोनिग्रहभेदात् । प्राणिपीडापरि-
हारेण सम्यगयनं समितिः सा ईर्ष्याभाषादि-
भेदात् पञ्चधा । प्रपञ्चितञ्च हेमचन्द्राचार्य्यैः ।
लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः ।
जन्तुरक्षार्थमालोक्य गतिरीर्ष्या मता सताम् ॥
आपद्य रागतः सर्व्वजनीनं मितभाषणम् ।
प्रिया वाचंयमानां सा भाषा समितिरुच्यते ॥
द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् ।
मुनिर्य्यदन्नमादत्ते सेषणासमितिर्म्मता ॥
आसनादीनि संवीक्ष्य प्रतिलङ्घ्य च यत्नतः ।
गृह्णीयान्निक्षिपेद्ध्यायेत् सादानसमितिः स्मृता ॥
कफमूत्रमलप्रायैर्निर्ज्जन्तु जगतीतले ।
यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् ॥
अत एवास्रवः स्रोतसो द्बारं संवृणोतीति संवर
इति निराहुः । तदुक्तमभियुक्तैः ।
आस्रवो भवहेतुः स्यात् संवरो मोहकारणम् ।
इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥
अर्ज्जितस्य कर्म्मणस्तपःप्रभृतिभिर्निर्ज्जरणं निर्ज्ज-
राख्यं तत्त्वं चिरकालप्रवृत्तकषायकलापं पुण्यं
सुखदुःखे च देहेन जरयति नाशयति केशो-
ल्लुञ्चनादिकं तप उच्यते । सा निर्ज्जरा द्विविधा
यथाकालौपक्रमिकभेदात् तत्र प्रथमा यस्मिन्
काले यत् कर्म्म फलप्रदत्त्वेनाभिमतं तस्मिन्नेव
काले फलदानाद्भवन्ती निर्ज्जरा कामादिपाक-
जेति च जेगीयते । यत् कर्म्म तपोबलात्
स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत् कर्म्म
निर्ज्जरा । यदाह ॥
संसारबीजभूतानां कर्म्मणां जरणादिह ।
निर्ज्जरा संस्मृता द्वेधा सकामा कामनिर्ज्जरा ॥
स्मृता सकामा यमिनामकामा त्वन्यदेहिना-
मिति ॥
मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभि-
नवकर्म्माभावात् निर्ज्जराहेतुसन्निधानेनार्ज्जि-
तस्य कर्म्मणो निरसनादात्यन्तिककर्म्ममोक्षणं
मोक्षः बन्धहेतुभवहेतुनिर्ज्जराभ्यां कृत्स्नकर्म्म-
विप्रमोक्षनं मोक्ष इति तदनन्तरमूर्द्ध्वं गच्छत्या-
लोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितं
कुलालचक्रमुपरतेऽपि तस्मिन् तद्बलादेवा-
संस्कारक्षयं भ्रमति तथा भवस्थेनात्मना अप-
वर्गप्राप्तये बहुशो यत् कृतं प्रणिधानं मुक्तस्य
तदभावेऽपि पूर्ब्बसंस्कारादालोकान्तं गमनमुप-
पद्यते यथा वा मृत्तिकालेपकृतमलावुद्रव्यं जले-
ऽधःपतति पुनरपेतमृत्तिकाबन्धमूर्द्ध्वं गच्छति
तथा कर्म्मरहित आत्मा असङ्गत्वादूर्द्ध्वं गच्छति
बन्धच्छेदादेरण्डबीजवच्चोर्द्ध्वगतिस्वभावाच्चाग्नि-
शिखावत् । अन्योन्यं प्रदेशानुप्रवेशे सत्यविभा-
गेनावस्तानं बन्धः परस्परप्राप्तिमात्रं सङ्गः ।
तदुक्तं पूर्ब्बप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गति-
परिणामाच्चाविरुद्धं कुलालचक्रवद्व्यपगतलेपा-
लावुवदेरण्डबीजवदग्निशिखावच्चेति । अतएव
पठन्ति ।
गत्वा गत्वा निवर्त्तन्ते चन्द्रसूर्य्यादयो ग्रहाः ।
अद्यापि न निवर्त्तन्ते त्वालोकाकाशमागता-
इति ।
अन्ये तु गतसमस्तक्लेशतद्बासनस्यानावरण-
ज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं
मुक्तिरित्वास्थिषत । एवमुक्तानि सुखदुःखसाध-
नाभ्यां पुण्यपापाभ्यां सहितानि नव पदार्थान्
केचनाङ्गीचक्रुः । तदुक्तं सिद्धान्ते जीवाजीवौ
पुण्यपापयुतावास्रवः संवरो निर्ज्जरणं बन्धो
मोक्षश्च नव तत्त्वानीति । संग्रहे प्रवृत्ता वय-
मुपरताः स्म ।
अत्र सर्व्वत्र सप्तभङ्गिनयाख्यं न्यायमवतार-
यन्ति जैनाः स्यादस्ति स्यान्नास्ति स्यादस्ति च
नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः
स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चाव-
क्तव्य इति तत्सर्व्वमनन्तबीर्य्यः प्रत्वपीपदत् ।
तद्विधानविवक्षायां स्यादस्तीति गतिभवेत् ।
स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते ॥
क्रमेणोभयवाञ्छायां प्रयोगः समुदायभाक् ।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ॥
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥
समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यत इति ।
स्याच्छब्दः खल्वयं निपातः तिङन्तप्रतिरूपको-
ऽनेकान्तद्योतकः । यथोक्तम् ।
वाक्येष्वनेकान्तद्योतिगम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपक इति ॥
यदि पुनरेकान्तद्योतकः स्याच्छब्दोऽयं स्यात्तदा
पृष्ठ २/५४६
स्यादस्तीति वाक्ये स्यात्पदमनर्थकं स्यात् अने-
कान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति
स्यात्पदात् कथञ्चिदिति अयमर्थो लभ्यत इति
नानर्थकम् । तदाह ।
स्याद्वादः सर्व्वथैकान्तत्यागात् किं वृततद्बिधेः ।
सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृदिति ॥
यदि वस्त्वस्त्येकान्ततः सर्व्वथा सर्व्वदा सर्व्वत्र
सर्व्वात्मनास्तीति न उपादित्साजिहासाभ्यां
क्वचित् कदा केनचित् प्रवर्त्तेत निवर्त्तेत वा प्राप्त-
प्रापणीयत्वहेयहानानुपपत्तेश्च । अनेकान्त-
पक्षे तु कथञ्चित् क्वचित् केनचित् सत्त्वेन
हानोपादाने प्रेक्षवतामुपपद्येते । किश्च वस्तुनः
सत्त्वं स्वभावः असत्त्वं वेत्यादि प्रष्टव्यं न ताव-
दस्तित्वं वस्तुनः स्वभाव इति समस्ति घटो-
ऽस्तीत्यनयोः पर्य्यायतया युगपत्प्रयोगायोगात्
नास्तीति प्रयोगविरोधाच्च एवमन्यत्रापि
योज्यम् । यथोक्तम् ।
घटोऽस्तीति न वक्तव्यं सन्नेव हि यतो घटः ।
नास्तीत्यपि न वक्तव्यं विरोधात् सदसत्त्वयोः ॥
इत्यादि ॥
तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्व्वचनीय-
वादभेदेन प्रतिवादिनश्चतुर्व्विधाः पुनरप्य-
निर्व्वचनीयमतेनामिश्रितानि सदसदादिमता-
नीति त्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादि-
पर्य्यनुयोगे कथञ्चिदस्तीत्यादिप्रतिवचनसम्भवेन
ते वादिनः सर्व्वे निर्व्विन्नाः सन्तः तूष्णीमासत
इति सम्पूर्णार्थविनिश्चायिनः स्याद्बादमङ्गी-
कुर्व्वतस्तत्र तत्र विजय इति सर्व्वमुपपन्नम् ।
यदवोचदाचार्य्यः स्याद्वादमञ्जर्य्याम् ।
अनेकान्तात्मकं वस्तु गोचरः सर्व्वसंविदाम् ।
एकदेशविशिष्टोऽर्थो न यस्य विषयो मतः ॥
न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि ।
सम्पूर्णार्थविनिश्चायि स्याद्बस्तु श्रुतमुच्यत इति ॥
अन्योन्यपक्षप्रतिपक्षभावाद्-
यथापरे मत्सरिणः प्रवादाः ।
नयानशेषानविशेषमिच्छ-
न्नपक्षपाती समयस्तथार्हत इति ॥
जिनदत्तसूरिणा जैनं मतमित्थमुक्तम् ।
बलभोगोपभोगानामुभयोर्द्दानलाभयोः ।
अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम् ॥
हिंसा रत्यरती रागद्वेषौ रतिरतिस्मरः ।
शोको मिथ्यात्वमेतेऽष्टादश दोषा नयस्य सः ॥
जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः ।
ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्त्तिनि ॥
स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमापि च ।
नित्यानित्यात्मकं सर्व्वं नव तत्त्वानि सप्त वा ॥
जीवाजीवौ पुण्यपापे चास्रवः संवरोऽपि च ।
बन्धो निर्ज्जरणं मुक्तिरेषां व्याख्याधुनोच्यते ॥
चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः ।
सत्कर्म्मपुद्गलाः पुण्यं पापं तस्य विपर्य्ययः ॥
आस्रवः कर्म्मणां बन्धो निर्ज्जरस्तद्बियोजनम् ।
अष्टकर्म्मक्षयान्मोक्षोऽथान्तर्भावश्च कैश्चन ॥
पुण्यस्य संस्रवे पापस्यास्रवे क्रियते पुनः ।
लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः ।
क्षीणाष्टकर्म्मणो मुक्तिर्निर्व्यावृत्तिर्ज्जिनोदिता ॥
सरजोहरणा भैक्षभुजो लुञ्चितमूर्द्धजाः ।
श्वेताम्बराः क्षमाशीलाः निःसङ्गा जैनसाधवः ॥
लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिग-
म्बराः ।
ऊर्द्ध्वशिनो गृहे दातुर्द्बितीयाः स्युज्जिनर्षयः ॥
भुङ्क्ते न केवलं न स्त्रीं भोक्षमेति दिगम्बरः ।
प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सहेति ॥”
इति सर्व्वदर्शनसंग्रहे आर्हतदर्शनम् ॥)

जैपालः, पुं, (जयपालः पृषादरादित्वात् साधुः ।)

जयपालवृक्षः । इति द्विरूपकोषः ॥

जैमिनिः, पुं, मुनिविशेषः । स वेदव्यासशिष्यः

उत्तरमीमांसाकर्त्ता भारतकृत् वज्रवारकश्च ।
यथा, पुराणवचनम् ।
“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥”

जैवातृकः, पुं, (जीवयति ओषधिप्रभृतीनीति ।

जीव + णिच् + “आतृकन् वृद्धिश्च ।” उणां ।
१ । ८१ । इति आतृकन् ईकारस्य वृद्धिश्च ।)
चन्द्रः । कर्पूरः । इत्यमरः । १ । ३ । १४ । २ ।
६ । १३० ॥ पुत्त्रः । इति संक्षिप्तसारे उणादि-
वृत्तिः ॥ भेषजम् । इति हेमचन्द्रः ॥

जैवातृकः, त्रि, (जीवतीति । जीव + आतृकन्

वृद्धिश्च ।) दीर्घायुः । (यथा, दशकुमार-
चरिते । “जैवातृक ! ननु श्रूयते पतिरस्याः
मिथिलायां प्रहारवर्म्मासीत् ॥”) कृशः । इति
मेदिनी । के, १९० ॥

जैह्म्यं, क्ली, (जिह्मस्य कुटिलस्य भावः । जिह्म +

भावे ष्यञ् ।) जिह्मता । कुटिलता । यथा,
मनुः । ११ । ६७ ।
“जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥”

जोङ्गकं, क्ली, (जुङ्गति त्यजति सद्गन्धमिति ।

जुगि त्यामे + ण्वुल् । निपातनात् गुणः ।)
अगुरु । इत्यमरः । २ । ६ । १२६ ॥

जोङ्गटः, पुं, (जुङ्गति अरोचकत्वं परित्यजत्यनेनेति ।

जुङ्ग + बाहुलकात् अटन् गुणश्च ।) गर्भि-
ण्यभिलाषः । इति हारावली । २१९ ॥ साध्
इति भाषा ॥

जोटिङ्गः, पुं, (जूटेन इङ्गति प्रकाशते इति । अच् ।

पृषोदरादित्वात् साधुः ।) महादेवः । महा-
व्रती । इति त्रिकाण्डशेषः ॥

जोन्ताला, स्त्री, देवधान्यम् । इति हेमचन्द्रः ।

४ । २४४ ॥ (जोन्नाला इति क्वचित् पाठः ॥)

जोषं, क्ली, (जुष हर्षे + भावे घञ् ।) सुखम् ।

इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १ । १२० । १ ।
“का राधद्धोत्राश्विना वां को वां जोष उभयोः ॥”
“जोषे प्रीतिजनके व्यवहारे ।” इति दयानन्द-
भाष्यम् ॥)

जोषम्, व्य, (जुष् + बाहुलकात् अम् ।) तूष्णीम् ।

(यथा, महाभारते । २ । ६८ । १६ ।
“मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत ! ॥”)
सुखम् । इत्यमरः । ३ । ३ । २५० ॥

जोषा, स्त्री, (जुष्यते सेव्यते उपभुज्यते इति ।

जुष् + घञ् । स्त्रियां टाप् ।) योषा । इति
शब्दरत्नावली ॥

जोषिका, स्त्री, (जुषते सेवते इति । जुष + ण्वुल् ।

टापि अत इत्वम् ।) जालिका । इति शब्द-
रत्नावली ॥

जोषित्, स्त्री, (युष्यते उपभुज्यते । युष् + “हृसृ-

रुहियुषिभ्य इतिः ।” उणां । १ । ९९ । इति-
प्रत्ययः । पृषोदरादित्वात् यस्य जः ।) योषित् ।
इति शब्दरत्नावली ॥

जोषिता, स्त्री, (जोषित् + हलन्तत्वाद् वा टाप् ।)

योषित् । इति शब्दरत्नावली ॥

ज्ञः, पुं, (जानातीति । ज्ञा + “इगुपधज्ञा-

प्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।)
ब्रह्मा । बुधः । पण्डितः । (यथा, चरके सूत्र-
स्थाने ३० अध्याये ।
“पशुः पशूनां दौर्ब्बल्यात् कश्चित् मध्येवृकायते ।
ससत्वं वृकमासाद्य प्रकृतिं भजते पशुः ॥
तद्बदज्ञो ज्ञमध्यस्थः कश्चित् मौखर्य्यसाधनः ।
स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ॥”)
महीसुतः । इति धरणी ॥

ज्ञप, क म ज्ञप्तौ । इति कविकल्पद्रुमः । (चुरां-

परं-सकं-सेट् ।) क म, ज्ञपयति । ज्ञप्ति-
र्म्मारणालोकनिशाणतोषणस्तुतयः । ज्ञाक्म इत्य-
नेनैवेष्टसिद्धौ ज्ञपपाटश्चुरादिरुभयपदीतिमते
फलवत्कर्त्तरि परस्मैपदार्थः । इति धातुप्र-
दीपः । वस्तुतस्तु ज्ञप्तिपदमस्मादेव निष्पादितम् ।
तेन अनिर्द्दिष्टार्थतया ज्ञप्तिरिह ज्ञानम् । अत-
एव प्रच्छौ श ज्ञीप्से इत्यत्र अस्यैव सनन्तस्य
निष्पादितेन ज्ञीप्सशब्देन ज्ञातुमिच्छा प्रति-
पाद्यते । एवं ज्ञानपर्य्याये प्रतिपज्ज्ञप्तिचेत-
नेत्यमरः । इति दुर्गादासः ॥

ज्ञपितः, त्रि, (ज्ञप्यते स्मेति । ज्ञप + णिच् +

क्तः ।) ज्ञापितः । इत्यमरः । ३ । १ । ९८ ॥

ज्ञप्तः, त्रि, (ज्ञप्यते स्मेति । ज्ञप + णिच् + क्तः ।

“वा दान्तशान्तेति ।” ७ । २ । २७ । इति
साधुः ।) ज्ञापितः । इत्यमरः । ३ । १ । ९८ ॥

ज्ञप्तिः, स्त्री, (ज्ञप्यते ज्ञायते ऽनयेति । ज्ञप +

भावे क्तिन् । इडभावः ।) बुद्धिः । इत्यमरः ।
१ । ५ । १ ॥ (यथा, कथासरित्सागरे ।
२५ । ५७ ।
“ततो दीर्घतपोवाक्यात् सम्भाव्य द्बीपगाञ्च ताम् ।
तज्ज्ञप्तये दाशपतेरुत्स्थलद्वीपवासिनः ॥”)

ज्ञा, क प्रेरणे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) प्रेरणमिह नियोजनम् । क, ज्ञाप-
यति भृत्यं स्वामी नियुक्तं करोतीत्यर्थः । इति
दुर्गादासः ॥

ज्ञा, क म मारणे । आलोके । निशाणे । तोषणे ।

स्तुतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-सकं-
सेट् ।) कम, ज्ञपयति अज्ञपि अज्ञापि ज्ञपं ज्ञप
पृष्ठ २/५४७
ज्ञापं ज्ञापम् । आलोको दर्शनप्रेरणम् । निशाणं
तिक्ष्णीकरणम् । तोषणं तुष्टीकरणम् । ज्ञप-
यति शत्रुं शूरो मारयतीत्यर्थः । ज्ञपयति रूपं
कामिनी षिड्गान् दर्शयतीत्यर्थः । ज्ञपयति
खड्गं कर्म्मकारः शाणयतीत्यर्थः । ज्ञपयति
गुरुं शिष्यस्तोषयतीत्यर्थः । स्तुतिः कैश्चिन्न
मन्यते । आलोको ज्ञानप्रेरणमित्यनुन्यास-
रक्षितौ । अतएव क्रमदीश्वरोऽपि जानाते-
र्घटादित्वं विभाषया मन्यते । तेन ज्ञपयितुं
बोधयितुमिष्यमाणो ज्ञीप्समान इति पाणिनीय-
वृत्तौ ज्ञानप्रेरणापि ह्नस्वे सनि ज्ञीप्समान इति
प्रसिद्धम् । एवं विज्ञप्तिरेषा मम जीवबन्धौ
इत्यादिषु च विज्ञापनमेवार्थः । इति दुर्गादासः ॥

ज्ञा, ग बोधे । इति कविकल्पद्रुमः ॥ (क्र्यां-परं-

सकं-अनिट् ।) ग, जानाति । “सन्दर्भशुद्धिं
गिरां जानीते जयदेव एवेत्यत्र अनुपसर्गात्
फलवत्कर्त्तर्य्यात्मनेपदम् । ततोऽनुजज्ञे गमनं
सुतस्य इत्यत्रानुशब्दस्योपसर्ग प्रतिरूपकत्वेना-
नुपसर्गत्वात् ॥” इति दुर्गादासः ॥

ज्ञातं, त्रि, (ज्ञायते विद्यते स्मेति । ज्ञा + कर्म्मणि

क्तः ।) कृतज्ञानम् । जाना इति भाषा । तत्-
पर्य्यायः । विदितम् २ बुद्धम् ३ बुधितम् ४
प्रमितम् ५ मतम् ६ प्रतीतम् ७ अवगतम् ८
मनितम् ९ अवसितम् १० । इति जटाधरः ॥
(यथा, पञ्चतन्त्रे । १ । १२३ ।
“पूर्ब्बमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ॥”)

ज्ञातव्यं, त्रि, (ज्ञायते यदिति । ज्ञा + तव्य ।)

ज्ञानीयम् । ज्ञेयम् । वेद्यम् । अवगन्तव्यम् ।
बोध्यम् । (यथा, महाभारते । ४ । २८ । ५ ।
“स्वराष्ट्रे परराष्ट्रेच ज्ञातव्यं बलमात्मनः ॥”)
मन्तव्यम् । इति व्याकरणम् ॥

ज्ञातसिद्धान्तः, पुं, (ज्ञातो विदितः सिद्धान्तः

शास्त्रतत्त्वार्थो येन ।) शास्त्रतत्त्वज्ञः । तत्-
पर्य्यायः । तान्त्रिकः २ । इत्यमरः । २ । ८ । १५ ॥

ज्ञाता, [ऋ] त्रि, (ज्ञा + तृच् ।) ज्ञानशीलः । तत्-

पर्य्यायः । विदुरः २ बिन्दुः ३ । इत्यमरः ।
३ । १ । ३० ॥ विदितः ४ ज्ञानसमन्वितः ५ ।
इति शब्दरत्नावली ॥

ज्ञातिः, पुं, जानाति छिद्रं कुलस्थितिञ्च ज्ञातिः

नाम्नीति तिक् । इत्यमरटीकायां भरतः ॥ सपि-
ण्डादिः । तत्पर्य्यायः । सगोत्रः २ बान्धवः ३
बन्धुः ४ स्वः ५ स्वजनः ६ । इत्यमरः । २ । ६ । ३४ ॥
अंशकः ७ गन्धः ८ दायादः ९ । इति त्रिकाण्ड-
शेषः ॥ सकुल्यः १० समानोदकः ११ । इति
जटाधरः ॥ स चतुर्व्विधः । सप्तमपुरुषपर्य्यन्तं
सपिण्डः । ततस्त्रिपुरुषपर्य्यन्तं सकुल्यः । तत-
श्चतुर्थपुरुषपर्य्यन्तं समानोदकः । जन्मनामस्मृति-
पर्य्यन्तमपि समानोदकः । ततः परंगोत्रजः । इति
शुद्धितत्त्वम् ॥ एषां विशेषस्तत्तच्छब्दे द्रष्टव्यः ॥ * ॥
ज्ञातिद्रोहे दोषो यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ।
“यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
ज्ञातिद्रोहस्य पापस्य कलां नार्हन्ति षोडशीम् ॥”
(ज्ञायते विद्यतेऽस्मादिति । ज्ञा + अपादाने
क्तिन् ।) पिता । इति मेदिनी । ते, २० ॥

ज्ञातेयं, क्ली, (ज्ञातेर्भावः कर्म्म वा । ज्ञाति +

“कपिज्ञात्योर्ढक् ।” ५ । १ । १२७ । इति
ढक् ।) ज्ञातित्वम् । इत्यमरः । २ । ६ । ३५ ॥

ज्ञानं, क्ली, (ज्ञा + भावे ल्युट् ।) विशेषेण

सामान्येन चावबोधः ॥
“मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।”
इत्यमरः । १ । ५ । ६ ॥
अस्यार्थः । “मोक्षे शिल्पे शास्त्रे च या धीः
सा ज्ञानं विज्ञानञ्चोच्यते एषा विशेषप्रवृत्तिः ।
अन्यत्र घटपटादौ या धीः सापि ज्ञानं विज्ञान-
ञ्चोच्यते एषा सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानं
विज्ञानञ्च यथाज्ञानान्मुक्तिरिति सा याचिता
च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्र
यथा ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे
इति घटत्वप्रकारकज्ञानमिति ये केचित् प्राणिनो
लोके सर्व्वे विज्ञानिनो मताः इति । ब्रह्मणो
नित्यविज्ञानानन्दरूपत्वादिति एवं चित्रज्ञानं
व्याकरणज्ञानं घटपदविज्ञानमित्यादिकं प्रयु-
ज्यत एव । मोक्षनिमित्तं शिल्पशास्त्रयोर्धी-
र्ज्ञानमुच्यते तन्निमित्ततोऽन्यनिमित्तं या तयोर्धीः
सा विज्ञानमिति केचित् । मोक्षविषया मोक्ष-
फला धीर्ज्ञानं अन्यधीर्विज्ञानं क्वान्यत्र इत्याह
शिल्पशास्त्रयोरिति केचित् । अवबोध इत्य-
ध्याहृत्य मोक्षविषये अवबोधो धीः अन्यत्र
घटपटादिविज्ञानं शिल्पशास्त्रविषये विज्ञान-
मिति केचित् ।” इति भरतः ॥ * ॥ योगशास्त्र-
मते तु ।
“एकत्वं बुद्धिमनसोरिन्द्रियाणाञ्च सव्वशः ।
आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥”
इति मोक्षधर्म्मः ॥
“एकत्वं बुद्धिमात्रेणावस्थानं बुद्धिवृत्तिनिरोध
इति यावत् ।” इति तट्टीका ॥ * ॥
“अमानित्वमदम्मित्वमहिंसाक्षान्तिरार्जवम् ।
आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥
असक्तिरनभिष्वङ्गः पुत्त्रदारगृहादिषु ।
नित्यञ्च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥”
सात्त्विकराजसतामसभेदेन तत्त्रिविधम् ।
सात्विकं यथा, --
“सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥”
राजसं यथा, --
“पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्वि-
धान् ।
वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥”
तामसं यथा, --
“यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् ।
अतत्वार्थवदल्पञ्च तत्तामसमुदाहृतम् ॥” ३ ॥
इति श्रीभगवद्गीतायाम् । १८ । २० -- २२ ॥
“सर्व्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु विभक्तेषु
परस्परं व्यावृत्तेषु अविभक्तमनुस्यूतं एकमव्ययं
निर्विकारं भावं परमात्मतत्त्वं येन ज्ञानेनेक्षते
आलोचयति तज्ज्ञानं सात्विकं विद्धि ॥ १ ॥
सर्व्वेषु भूतेषु नानाभावान् वस्तुत एवानेकान्
क्षेत्रज्ञान् पृथग्विधान् सुखिदुःखित्वादिरूपेण
विलक्षणान् येन ज्ञानेन वेत्ति तज्ज्ञानं राजसं
विद्धि ॥ २ ॥
एकस्मिन् कार्य्ये देहे प्रतिमादौ वा कृत्-
स्नवत् परिपूर्णवत् सक्तं एतावानेव आत्मा
ईश्वरो वा इत्यभिनिवेशयुक्तं अहैतुकं निरुप-
पत्तिकं अतत्त्वार्थवत् परमार्थालम्बनशून्यं अत-
एवाल्पं तुच्छं अल्पविषयत्वात् अल्पफलत्वाच्च
यदेवम्भूतं ज्ञानं तत् तामसमुदाहृतम् ॥” ३ ॥
इति तट्टीकायां श्रीधरस्वामी ॥
न्यायमते तु ।
“अप्रमा च प्रमा चैव ज्ञानं द्विविधमुच्यते ।
तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥
तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः ।
आद्यो देह आत्मबुद्धिः शङ्खादौ पीतिमा मतिः ॥
भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते ।
किं स्विन्नरो वा स्थाणुर्व्वेत्यादि बुद्धिस्तु संशयः ।
तदभावाप्रकारा धीस्तत्प्रकारा तु निर्णयः ॥
स संशयो भवेद्या धीरेकत्राभावभावयोः ।
साधारणादिधर्म्मस्य ज्ञानं संशयकारणम् ॥
दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।
पित्तदूरत्वादिरूपो दोषो नानाविधो मतः ॥”
“गुणः स्याद्भ्रमभिन्नन्तु ज्ञानमत्रोच्यते प्रमा ।
अथवा तत्प्रकारं यज्ज्ञानं तद्बत् विशेष्यकम् ॥
ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते ।
तत् प्रमा न प्रमा नापि भ्रमः स्यान्निर्व्विकल्पकम् ॥
प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत् ॥”
इति भाषापरिच्छेदः ॥
(यथा, वायुपुराणे उत्तरभागे । ११ । ३६ ।
“वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्त्तते ।
योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥”
विष्णुः । यथा महाभारते । १३ । १४९ । ६१ ।
“सर्व्वदर्शी विमुक्तात्मा सर्व्वज्ञो ज्ञानमुत्तमम् ॥”
“ज्ञानं प्रकृष्टमजन्यमनवच्छिन्नं सर्व्वस्य साधक-
मिति ज्ञानमुत्तमं ‘सत्यं ज्ञानमनन्तं ब्रह्म’
इति श्रुतेः ॥” इति तद्भाष्यम् ॥)

ज्ञानदर्पणः पुं, (ज्ञानं दर्पण इव यस्य ।) पूर्ब्ब-

जिनः । इति त्रिकाण्डशेषः ।

ज्ञानयोगः, पुं, (युज्यते ब्रह्मणानेनेति । युज +

करणे घञ् । ज्ञानमेव योगः ।) ब्रह्मज्ञान-
प्राप्त्युपायः । यथा, --
“सर्व्वभूतेषु गोविन्दो बहुरूपो व्यवस्थितः ।
इति मत्वा महाप्राज्ञः प्रतिकूलं न कारयेत् ॥
पृष्ठ २/५४८
शब्दादयो ये विषया विषयी चाथ पूरुषः ।
जानीयात्तदशेषं वै स्वरूपं परमात्मनः ॥
परमात्मा च भगवान् विष्वक्सेनो जनार्द्दनः ।
तद्भक्तिमान् भगवतो नाल्पपुण्यैर्हि जायते ॥
भगवच्छासनालम्बी भगवच्छासनप्रियः ।
भगवद्भक्तिमास्थाय वत्स ! भागवतो भव ॥
भगवान् भूतभव्येशो भूतादिप्रभवोऽव्ययः ।
भावेन तं भजस्वेशं भवभङ्गकरं हरिम् ॥
भजस्व भावेन विभु भगवन्तं भवेश्वरम् ।
ततो भागवतो भूत्वा भवबन्धात् प्रमोक्ष्यसि ॥
तत्र चित्तं समाधातुं न शक्नोति भवान् यदि ।
तदभ्यासपरस्तस्मिन् कुरु योगं दिवानिशम् ॥
तत्र यद्यसमर्थस्त्वं ज्ञानयोगे महामते ! ।
क्रियायोगे दिवारात्रौ तत्परः सततं भव ॥”
इत्याद्ये वह्निपुराणे वैष्णवक्रियायोगे यमानु-
शासनो नामाध्यायः । विस्तारस्तु श्रीभगवद्-
गीतायां ७ अध्याये द्रष्टव्यः ॥

ज्ञानलक्षणा स्त्री, (ज्ञानं लक्षणं स्वरूपं यस्याः ।)

त्रिविधालौकिकसन्निकर्षान्तर्गतसन्निकर्षः ।
तस्य लक्षणं यथा, --
“विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ॥”
इति भाषापरिच्छेदे । ६५ ॥
अस्यार्थः । “तद्बिषयज्ञापकतद्बिषयज्ञानम् । यथा
पूर्ब्बे घटादिज्ञाने सति पश्चात् घटादिज्ञानम् ॥”

ज्ञानवापी, स्त्री, (ज्ञानस्य ज्ञानरूपोदकस्य

वापी दीर्घिकेव ।) वाराणस्यन्तर्गततीर्थ-
विशेषः । तदुत्पत्त्यादिर्यथा, --
अगस्त्य उवाच ।
“स्कन्द ! ज्ञानोदतीर्थस्य माहात्म्यं वद साम्प-
तम् ।
ज्ञानवापीं प्रशंसन्ति यतः स्वर्गौकसोऽप्यलम् ॥
स्कन्द उवाच ।
घटोद्भव ! महाप्राज्ञ ! शृणु पापापनोदिनीम् ।
ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना ॥
अनादिसिद्धे संसारे पुरा दैवयुगे मुने ! ।
प्राप्तः कुतश्चिदीशानश्चरन् स्वैरमितस्ततः ॥
न वर्षन्ति यदाभ्राणि न प्रावर्त्तन्त निम्नगाः ।
जलाभिलाषो न यदा स्नानपानादिकर्म्मणि ॥
क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ।
पृथिव्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित् ॥
निर्व्वाणकमलाक्षेत्रं श्रीमदानन्दकाननम् ॥”
“सुखसन्तानजनकं मोक्षसाधनसिद्धिदम् ।
प्रविश्य क्षेत्रमेतत् स ईशानो जटिलस्तदा ।
लसत्त्रिशूलविमलरश्मिजालसमाकुलः ॥
आलुलोके महालिङ्गं वैकुण्ठपरमेष्ठिनोः ।
महाहमहमिकायां प्रादुरास यदादितः ॥
ज्योतिर्म्मयीभिर्म्मालाभिः परितः परिवेष्टितम् ॥”
“अस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छेत्यभवत्तदा ।
स्नापयामि महालिङ्गं कलसैः शीतलैर्जलैः ।
चखान च त्रिशूलेन दक्षिणाशोपकण्ठतः ॥
कण्डं प्रचण्डषेगेन रुद्रो रुद्रवपुर्धरः ।
पृथिव्यां वरुणाम्भांसि निष्क्रान्तानि तदा मुने ! ॥
भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता ।
तैर्जलैः स्नापयाञ्चक्रे त्वस्पृष्टैरन्यदेहिभिः ॥”
“विश्वभर्त्तुरुमास्पर्शसुखातिसुखकारिभिः ।
महावभृथसुस्नानमहाशुद्धिविधायिभिः ॥
सहस्रधारैः कलसैः स ईशानो घटोद्भव ! ।
सहस्रकृत्वः स्नपयामास संहृष्टमानसः ॥
ततः प्रसन्नो भगवान् विश्वात्मा विश्वलोचनः ।
तमुवाच तदेशानं रुद्रं रुद्रवपुर्द्धरम् ॥
तव प्रसन्नोऽस्मीशान ! कर्म्मणानेन सुव्रत ! ।
गुरुणानन्यपूर्ब्बेण ममातिप्रीतिकारिणा ॥
ततस्त्वं जटिलेशान ! वरं ब्रूहि तपोधन ! ।
अदेयं न तवास्त्यद्य महोद्यमपरायण ! ॥
ईशान उवाच ।
यदि प्रसन्नो देवेश ! वरयोग्योऽस्माहं यदि ।
तदेतदतुलं तीर्थं तव नाम्नास्तु शङ्कर ! ॥
विश्वेश्वर उवाच ।
त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वःस्थितान्यपि ।
तेभ्योऽखिलेभ्यस्तीर्तेभ्यः शिवतीर्थमिदं परम् ॥
शिवं ज्ञानमिति ब्रूयुः शिवशब्दार्थचिन्तकाः ।
तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात् ॥
अतो ज्ञानोदनामैतत्तीर्थं त्रैलोक्यविश्रुतम् ।
अस्य दर्शनमात्रेण सव्वपापैः प्रमुच्यते ॥
ज्ञानोदतीर्थसंस्पर्शादश्वभेधफलं लभेत् ।
स्पर्शनाचमनाभ्याञ्च राजसूयाश्वमेधयोः ॥
फल्गुतीर्थे नरः स्नात्वा संतर्प्य तु पितामहान् ।
यत् फलं समवाप्नोति तदत्र श्राद्धकर्म्मणा ॥”
“ज्ञानरूपोऽहमेवात्र द्रवमूर्त्तिं विधाय च ।
जाड्यविध्वंसनं कुर्य्यां कुर्य्यां ज्ञानोपदेशनम् ॥
इति दत्त्वा वरान् शम्भुस्तत्रैवान्तरधीयत ।
कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत् ॥
ईशानो जटिलो रुद्रस्तत् प्राश्य परमोदकम् ।
अवाप्तवान् परं ज्ञानं येन निर्व्वृतिमाप्तवान् ॥”
इति स्कान्दे काशीखण्डे ३३ अध्यायः ॥

ज्ञानी, [न्] पुं, (ज्ञानमस्त्यस्येति । ज्ञान +

“अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
दैवज्ञः । (सामान्यबोधयुक्तमात्रे, त्रि । यथा,
मार्कण्डेये । ८१ । ३६ ।
“ज्ञानिनो मनुजाः सत्यं किन्तु ते नहि केवलम् ।
यतो हि ज्ञानिनः सर्व्वे पशुपक्षिमृगादयः ॥”)
ज्ञानयुक्ते च, त्रि । इति मेदिनी । ते, ६९ ॥
तस्य लक्षणं यथा, --
“प्रजहाति यदा कामान् सर्व्वान् पाथ ! मनो-
गतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥
यः सर्व्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
यदा संहरते चायं कर्म्मोऽङ्गानीव सर्व्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥”
ज्ञानिनापि कर्म्म कर्त्तव्यम् । यथा, --
“सक्ताः कर्म्मण्यविद्बांसो यथा कुर्व्वन्ति भारत ! ।
कुर्य्याद्धिद्वांस्तथा सक्तश्चिकीर्षुः कर्म्म संग्रहम् ॥
न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।
योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन् ॥
प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः ।
अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥
तत्त्ववित्तु महाबाहो ! गुणकर्म्मविभागयोः ।
गुणा गुणेषु वर्त्तन्त इति मत्वा न सज्जते ॥”
ज्ञानिप्रशंसा यथा, --
“चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! ।
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्व्वमिति स महात्मा सुदुर्लभः ॥”
इति श्रीभगवद्गीता ॥

ज्ञानेन्द्रियं, क्ली, (ज्ञायतेऽनेनेति । ज्ञा + करणे ल्युट् ।

ज्ञानप्रकाशकं ज्ञानसाधनं वा इन्द्रियमिति ।)
बुद्धीन्द्रियम् । तत् षड्विधम् । मनः १ नेत्रम् २
श्रोत्रम् ३ घ्राणम् ४ जिह्वा ५ त्वक् ६ । इति
श्रीभागवतम् ॥

ज्ञापनं, क्ली, (ज्ञा + णिच् + भावे ल्युट् ।) बोधनम् ।

इति व्याकरणम् । जानान इति भाषा ॥ (यथा,
राजतरङ्गिण्याम् । ४ । १८२ ।
“क्षितिभृद्दाक्षिणात्यानां तिर्य्यक्त्वज्ञापनाय सः ।
पुच्छं महीतलस्पर्शि चक्रे कौपीनवाससि ॥”)

ज्ञाप्तिः, स्त्री, (ज्ञा + णिच् + भावे क्तिन् ।) ज्ञापनम् ।

इति मुग्धबोधम् ॥

ज्ञेयं, त्रि, (ज्ञायते इति । ज्ञा + कर्म्मणि यत् ।)

ज्ञानयोग्यम् । ज्ञातव्यम् । यथा, --
“ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥
सर्व्वतः पाणिपादं तत् सर्व्वतोऽक्षिशिरोमुखम् ।
सर्व्वतः श्रुतिमल्लोके सर्व्वमावृत्य तिष्ठति ॥
सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् ।
असक्तं सर्व्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
वहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्त्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य धिष्ठितम् ॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥”
इति श्रीभगवद्गीतायां १३ अध्यायः ॥

ज्या, गि जरायाम् । इति कविकल्पद्रुमः ॥ (क्र्यां-

परं-अकं-अनिट् ।) जरा गतबहुवयोभावः ।
गि, जिनाति वृद्धः । जीनः । इति दुर्गादासः ॥

ज्या, स्त्री, (ज्या + अन्येभ्योऽपीति डस्ततष्टाप् ।)

धनुर्गुणः । तत्पर्य्यायः । मौर्व्वी २ शिञ्जिनी ३
गुणः ४ इत्यमरः । २ । ८ । ८५ ॥ शिञ्ज्या ५ जीवा ६
पृष्ठ २/५४९
पतञ्चिका ७ । इति शब्दरत्नावली ॥ गव्या ८
वाणासनः ९ द्रुणा १० । इति हेमचन्द्रः ॥ (यथा,
महाभारते । १ । २२६ । २० ।
“जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥”)
माता । वसुधा । इति मेदिनी । ये, २ ॥

ज्यानिः, स्त्री, (ज्या + “वीज्याज्वरिभ्यो निः ।”

उणां ४ । ४८ । इति निः ।) जीर्णता । हानिः ।
तटिनी । इति शब्दरत्नावली ॥

ज्यायान्, [स्] त्रि, (अयमनयोरतिशयेन वृद्धः

प्रशस्यो वा इति । वृद्ध वा प्रशस्य + ईयसुन्
ज्यादेशश्च ततो “ज्यादादीयसः ।” ६ । ४ । १६० ।
इत्यात्वम् ।) वृद्धतमः । तत्पर्य्यायः । वर्षी-
यान् २ दशमी ३ प्रशस्यः ४ । इत्यमरः । २ ।
६ । ४३ ॥ अतिवृद्धः ५ दशमीस्थः ६ । इति
जटाधरः ॥ (यथा, मनुः । ३ । १३७ ।
“ज्यायांसमनयोर्विद्यात् यस्य स्याच्छ्रोत्रियः पिता ॥”)

ज्यु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-अनिट् ।) ङ, ज्यवते । इति दुर्गादासः ॥

ज्युत, इर् दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) इर्, अज्युतत् अज्योतीत् जुज्योत ।
इति दुर्गादासः ॥

ज्युत, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) अन्तःस्थादियुक्तः । ऋ,
अजुज्योतत् । ङ, ज्योतते चन्द्रः । इति दुर्गादासः ॥

ज्येष्ठः, त्रि, (अयमेषामतिशयेन वृद्धः प्रशस्यो

वा इति । वृद्ध वा प्रसस्य + इष्ठन् ततो
ज्यादेशः ।) अतिवृद्धः । श्रेष्ठः । (यथा, महा-
भारते । १३ । १४३ । ७ ।
“ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्बिजः ॥”
ज्येष्ठानक्षत्रयुक्ता पौर्णमासीत्यण् इति ज्येष्ठी
सा अस्मिन् मासीति पुनरण् संज्ञापूर्ब्बस्य
विधरनित्यत्वान्न वृद्धिः ।) ज्यैष्ठमासि, पुं ।
इति मेदिनी । ठे, ५ ॥ अग्रजः । (यथा, रघुः ।
१२ । १९ ।
“दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराड्मुखः ॥”)
अधिकवयाः । इति भरतः ॥

ज्येष्ठतातः, पुं, (तातस्य पितुर्ज्येष्ठः । राजदन्तादि-

त्वात् पूब्बनिपाते साधुः ।) पितुरग्रजः ।
इति शब्दरत्नावली ॥ ज्येठा इति भाषा ॥

ज्येष्ठवर्णः, पुं, (वर्णानां ज्येष्ठः श्रेष्ठः निर्द्धारणे तु

वर्णेषु ज्येष्ठः । पूर्ब्बनिपातः ।) ब्राह्मणः । इति
शब्दरत्नावली ॥

ज्येष्ठवला, स्त्री, (ज्येष्ठाख्या वला ।) सहदेवी ।

इति राजनिर्घण्टः ॥

ज्येष्ठश्वश्रूः, स्त्री, (ज्येष्ठा पूज्या श्वश्रूरिव संज्ञात्वात्

पुंवद्भावः ।) पत्न्या ज्येष्ठभगिनी । वडशाली
इति भाषा । तत्पर्य्यायः । कुली २ । इति
हेमचन्द्रः ॥

ज्येष्ठसाम, [न्] क्ली, (ज्येष्ठं साम इति नित्यकर्म्म-

धारयः ।) सामभेदः । तदध्ययनाङ्गव्रतम् । इति
मिताक्षरा ॥ (यथा, महाभारते । १२ । ३४८ । ४६ ।
“ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥”)

ज्येष्ठा, स्त्री, अश्विन्यादिसप्तविशतिनक्षत्रान्तर्गता-

ष्टादशनक्षत्रम् । सा तु शूकरदन्ताकृति-
तारकत्रितयात्मिका । इति कालिदासः ॥
वलयाकृतिः । अस्या देवता इन्द्रः मिश्रगुणः ।
इति दीपिका ॥ अत्र जातस्य फलम् ।
“सत्कीर्त्तिपुत्त्रैर्विविधैः समेतो
वित्तान्वितोऽत्यन्तलसत्प्रतापः ।
श्रेष्टप्रतिष्ठो विकलस्वभावो
ज्येष्ठा भवेद्यस्य च जन्मकाले ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
(यथा, मार्कण्डेयपुराणे । ३४ । १३ ।
“कुर्व्वन्तश्चानुराधासु लभन्ते चक्रवर्त्तिताम् ।
आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥”)
गृहगोधिका । इति मेदिनी । ठे, ५ ॥ मध्यमा-
ङ्गुलिः । इति हेमचन्द्रः ॥ गङ्गा । इति राज-
निर्घण्टः ॥ धीरादिनायिकाभेदः । तस्या लक्षणं
यथा । परिणीतत्वे सति भर्त्तुरधिकस्नेहा ।
इति रसमञ्जरी ॥ * ॥ अलक्ष्मीः । यथा भग-
वतीं प्रति महादेववाक्यम् ।
“मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम् ।
तस्मिन् प्रमथ्यमाने तु मया देवैश्च भाविनि ! ॥
ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससावृता ।
उत्पन्ना साब्रवीद्देवान् किं कर्त्तव्यं मयेति वै ॥
तामब्रुवंस्तदा देवीं सर्व्वे देवगणा भृशम् ।
येषां गृहान्तरे नित्यं कलहं संप्रवर्त्तते ॥
तत्ते स्थानं प्रयच्छामो वासस्तत्र शुभानने ! ।
यस्य गेहे कपालास्थिभस्मकेशादिचिह्नितम् ॥
परुषं भाषते नित्यं वदन्त्यनृतवादिनः ।
सन्ध्याकाले च ये पापाः स्वपन्ति मलचेतसः ॥
तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी ।
कपालकेशभस्मास्थितुषाङ्गाराणि यत्र तु ॥
तत्र ते सततं स्थानं भविष्यति न संशयः ।
अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्म्मतिः ॥
तं भजस्व सदा देवि ! कलुषेणावृता भृशम् ।
तृणाङ्गारकपालाश्मवालुकायसचर्म्मभिः ॥
दन्तधावनकर्त्तारो भविष्यन्ति नराधमाः ।
रमस्व कलिना देवि ! तेषां वेश्मसु नित्यशः ॥
तिलपिष्ठञ्च नक्तञ्च कालिङ्गशिग्रुगृञ्जनम् ।
छत्राकं विड्वराहञ्च विल्वकोषातकीफलम् ॥
अलावुश्रीफलं ये वै खादयन्ति नराधमाः ।
तेषां गृहे तव स्थानं देवि ! दारिद्र्यदे ! सदा ॥
इत्यादिश्य सुराः सर्व्वे ते ज्येष्ठां कलिवल्लभाम् ।
पुनश्च मन्थनं चक्रुः क्षीराब्धिं सुसमाहिताः ॥”
इति पाद्मे उत्तरखण्डम् ॥

ज्येष्ठामूलीयः, पुं, (ज्येष्ठां मूलां वा नक्षत्रमर्हति

पौर्णमास्यामिति छः ।) ज्यैष्ठमासः । इति
त्रिकाण्डशेषः ॥ (यथा, शब्दार्थचिन्तामणिः ।
“ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्ब्बजम् ॥”)

ज्येष्ठाम्बु, क्ली, (ज्येष्ठं विविधरोगविनाशकत्त्रात् श्रेष्ठं

अम्बु तण्डुलधौतं जलमिति । नित्यकर्म्मधारयः ।)
तण्डुलाम्बु । इति वैद्यकपरिभाषा ॥ चेलुनि
जल इति भाषा ॥

ज्येष्ठाश्रमी, [न्] पुं, (आश्रमोऽस्त्यस्य इति ।

आश्रम + इनिः । ज्येष्ठः श्रेष्ठ आश्रमी ।)
“ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ताः सर्व्वेगार्हस्थमूलकाः ॥”
“यथा वायुं समाश्रित्य वर्त्तन्ते सर्व्वजन्तवः ।
तथा गार्हस्थमाश्रित्य वर्त्तन्ते सर्व्व आश्रमाः ॥”
इति वचनाच्च गृहस्थाश्रमस्य सर्व्वाश्रमेषूत्कृष्ट-
त्वात् तथात्वम् ।) गृहस्थः । इति हेमचन्द्रः ॥

ज्येष्ठी, स्त्री, गृहगोधा । जेठी इति टिक्टिकी

इति च भाषा । तत्पर्य्यायः । मुषली २ मुसली ३
कुड्यमत्स्या ४ गृहगोधिका ५ मूली ६ टुक्-
टुकी ७ शकुनज्ञा ८ गृहापिका ९ । इति
शब्दरत्नावली ॥ तस्याः पतनफलं यथा, --
“निपतति यदि पल्ली दक्षिणाङ्गे नराणां
स्वजनधनवियोगो लाभदा वामभागे ।
उरसि शिरसि पृष्ठे कण्ठदेशे च राज्यं
करचरणहृदिस्था सर्व्वसौख्यं ददाति ॥”
इति ज्योतिषम् ॥
दिग्विशेषे तस्य शब्दफलम् ।
“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं
याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये ।
वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरे
ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने ॥
ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः ॥”
इति तिथ्यादितत्त्वम् ॥

ज्यैष्ठः, पुं, (ज्येष्ठानक्षत्रयुक्ता पौर्णमासीत्यण् ङीप्

च । सा अस्मिन् मासे इति पुनरण् ।) मास-
विशेषः । ज्येष्ठानक्षत्रयुक्ता पौर्णमासी ज्यैष्ठी
सा यत्र मासे भवति सः । वृषस्थरविप्रारब्ध-
शुक्लप्रतिपदादिदर्शान्तश्चान्द्रः । वृषराशिस्थ-
रविकः सौरः । इति स्मृतिः ॥ तत्पर्य्यायः ।
शुक्रः २ । इत्यमरः । १ । ४ । १६ ॥ ज्येष्ठः ३ । इति
शब्दरत्नावली ॥ तत्र जातस्य फलं यथा, --
“विदेशवृत्तिः पुरुषः सुतीव्रः
क्षमान्वितः स्यात् खलु दीर्घसूत्रः ।
विचित्रबुद्धिर्व्विदुषां वरिष्ठो
ज्यैष्ठाभिधाने जननं हि यस्य ॥”
इति कोष्ठीप्रदीपः ॥

ज्यैष्ठसामा, [न्] पुं, (ज्येष्ठसाम अधीते यः सः ।

इत्यण् ।) ज्येष्ठसामा । ज्यैष्ठसामवेदाध्येता ।
इति मिताक्षरा ॥

ज्यैष्ठी, स्त्री, (ज्येष्ठानक्षत्रान्विता पौर्णमासीत्यण्

ङीप् च ।) ज्यैष्ठपूर्णिमा । इति शब्दरत्नावली ॥
(यथा, तिथितत्त्वधृतभविष्यपुराणवचनम् ।
“कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी
सिता ।
मन्वन्तरादयस्त्वता दत्तस्याक्षयकारिकाः ॥”)
ज्येष्ठी च ॥

ज्यो, ङ नियमे । व्रतादेशे । उपनीतौ । इति कवि-

कल्पद्रुमः ॥ (भ्वां-आत्मं-अकं नियमार्थे-व्रता
देशादौ तु सकं-अनिट् ।) व्रतस्यादेशो व्रता
देशः । ङ, ज्यवते याज्ञिको नियमी स्यादित्यर्थः ।
पृष्ठ २/५५०
ज्यवते पण्डितो जनं व्रतमुपदिशतीत्यर्थः ।
ज्यवते पुत्त्रं विप्रः उपनयतीत्यर्थः । इति दुर्गा-
दासः ॥

ज्योतिः, [स्] क्ली, (ज्युतृ दीप्तौ + इसिः । यद्बा,

द्युत दीप्तौ + “द्युतेरिसिन्नादेश्च जः ।” उणां ।
२ । १११ । इति इसिन् दस्य च जः ।) दृष्टिः ।
नक्षत्रम् । (यथा, “ज्योतींष्यग्निञ्चामेध्यमशस्तञ्च
नाभिवीक्षेत ॥” इति चरके सूत्रस्थानेऽष्टमे-
ऽध्याये ॥) प्रकाशः । इति मेदिनी । से, २३ ॥

ज्योतिः, [स्] पुं, (ज्योतते इति । ज्युतृ + कर्त्तरि

इसिः । द्युत + इसिन् वा ।) अग्निः । (यथा, --
“तस्यान्तरेण नाभेस्तु ज्योतिः स्थानं ध्रुवं स्मृतम् ।
तदा धमति वातस्तु देहस्तेनास्य वर्द्धते ॥”
इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)
सूर्य्यः । इति मेदिनी । से, २२ ॥ मेथिका । इति
राजनिर्घण्टः ॥ (विष्णः । यथा, महाभारते
१३ । १४९ । ७९ ।
“स्वक्षः स्वङ्गः शतानन्दी नन्दिर्ज्योतिगणेश्वरः ॥”)

ज्योतिरिङ्गः, पुं, (ज्योतिषा इङ्गतीति । इगि

गतौ + अच् । ज्योतिरिव इङ्गतीति वा ।)
खद्योतः । इति शब्दरत्नावली ॥

ज्योतिरिङ्गणः, पुं, (ज्योतिरिव इङ्गतीति । इगि

गतौ + ल्युः ।) कीटविशेषः । ज्योनाकपोका
इति भाषा । तत्पर्य्यायः । खद्योतः २ ध्वान्तो-
न्मेषः ३ तमोमणिः ४ दृष्टिबन्धुः ५ तमो-
ज्योतिः ६ ज्योतिरिङ्गः ७ निमेषकः ८ । इति
शब्दरत्नावली ॥ ज्योतिर्व्वीजम् ९ निमेषरुक्
१० । इति त्रिकाण्डशेषः ॥

ज्योतिर्व्वीजं, क्ली, (ज्योतिर्वीजमिवास्य ज्योतिषो

वीजमिव वा ।) ज्योतिरिङ्गणः । इति त्रिकाण्ड-
शेषः ॥

ज्योतिर्हस्ता, स्त्री, (ज्योतिर्ज्योतीरूपं हस्तं शरीर-

मस्याः ।) दुर्गा । अस्या नामनिरुक्तिर्यथा, --
“हस्तं शरीरमित्याहुर्हस्तञ्च गगनं तथा ।
ज्योतिषि ग्रहनक्षत्रार्ज्ज्योतिर्हस्ता ततः स्मृता ॥”
इति देवीपुराणे देवीनिरुक्तनाम ४५ अध्यायः ॥

ज्योतिश्चक्रं, क्ली, (ज्योतिर्म्मयं चक्रम् । ज्योतिर्भिः

स्वस्वावस्थानेन विरचितं चक्रं वा ।) चन्द्र-
सूर्य्यादिग्रहनक्षत्रमण्डलम् । राशिचक्रम् । यथा,
“ज्योतिश्चक्रं भुवो मानमूर्द्धा प्रोवाच केशवः ।
चातुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्व्वदः ॥”
इति गरुडपुराणम् ॥
अपि च तिथ्यादितत्त्वे ।
“सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् ।
तदर्कांशो भवेद्राशिर्नवर्क्षचरणाङ्कितः ॥”

ज्योतिषं, क्ली, (ज्योतिः सूर्य्यादीनां ग्रहाणां गत्या-

दिकं प्रतिपाद्यतया अस्त्यस्येति अच् ।) वेदाङ्ग-
शास्त्रविशेषः । तत् ग्रहणादिगणनशास्त्रम् ।
इत्यमरटीकायां भरतः ॥
“पञ्चम्कन्धमिदं शास्त्रं होरागणितसंहिता ।
केरलिः शकुनञ्चैव -- ॥”
इति प्रश्नरत्नटीका ॥ * ॥
अस्य सम्बन्धादि यथा, --
“अस्य शास्त्रस्य सम्बन्धो वेदाङ्गमिति चोदितः ।
अभिधेयञ्च जगतां शुभाशुभनिरूपणम् ॥
इज्याध्ययनसंक्रान्तिग्रहषोडशकर्म्मणाम् ।
प्रयोजनञ्च विज्ञेयं तत्तत्कालविनिर्णयः ॥”
इति नारदीयम् ॥ * ॥
अस्याध्ययनं द्बिजैः कर्त्तव्यम् । यथा, --
“सिद्धान्तसंहिताहोरारूपस्कन्धत्रयात्मकम् ।
वेदस्य निर्म्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् ॥
विनैतदखिलं श्रौतं स्मार्त्तं कर्म्म न सिध्यति ।
तस्माज्जगद्धितायेदं ब्रह्मणा निर्म्मितं पुरा ॥
अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः ॥”
इति नारदः ॥ * ॥
शूद्रस्य पाठनिषेधो यथा, --
“स्नेहाल्लोभाच्च मोहाच्च यो विप्रोऽज्ञानतो-
ऽपि वा ।
शूद्राणामुपदेशन्तु दद्यात् स नरकं व्रजेत् ॥”
इति गर्गः ॥ * ॥
अस्य ज्ञानमावश्यकं यथा, --
“वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूर्ब्ब्या विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेद यज्ञान् ॥
यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्बद्वेदाङ्गशास्त्राणां गणितं मूर्द्ध्नि संस्थितम् ॥”
इति वेदाङ्गज्योतिषम् ॥ * ॥
अस्याध्ययनफलं यथा, --
“एवंविधस्य श्रुतिनेत्रशास्त्र-
स्वरूपभर्त्तुः खलु दर्शनं वै ।
निहन्त्यशेषं कलुषं जनानां
षडब्दजं धर्म्मसुखास्पदं स्यात् ॥”
इति माण्डव्यः ॥ * ॥
अस्य ज्ञाने फलं यथा, --
“ज्योतिश्चक्रे तु लोकस्य सर्व्वस्योक्तं शुभाशुभम् ।
ज्योतिर्ज्ञानन्तु यो वेद स याति परमां गतिम् ॥”
इति गर्गः ॥

ज्योतिषिकः, पुं, (ज्योतिर्ज्योतिःशास्त्रं अधीते इति ।

क्रतूक्थादित्वात् ठक् संज्ञापूर्ब्बस्य विधेरनित्य-
त्वात् न वृद्धिः ।) ज्यौतिषिकः । इत्यमरटीका ॥
(यथा, मार्कण्डेये ।
“धर्म्मारण्या ज्योतिषिका गौरग्रीवा
गुडाश्मकाः ॥”)

ज्योतिषी, स्त्री, (ज्योतिरस्त्यस्या इति अच् ङीप्

च ।) तारा । इति हेमचन्द्रः । ज्योतिष-
शास्त्रज्ञे, त्रि ॥

ज्योतिष्कः, पुं, (ज्योतिरिव कायतीति । कै + कः ।)

चित्रकवृक्षः । मेथिकाबीजम् । इति राज-
निर्घण्टः ॥ (अस्य व्यवहारो यथा, “ज्योतिष्क-
फलतैलं वा क्षीरेण स्वर्ज्जिका हिङ्गु मिश्रं
पिबेत् ॥” इति चिकित्सितस्थाने चतुर्द्दशेऽध्याये
सुश्रुतेनोक्तम् ॥) गणिकारिकावृक्षः । इति
रत्नमाला ॥

ज्योतिष्काः, पुं, (ज्योतिर्भिः कायतीति । कै + कः ।)

चन्द्रार्कग्रहनक्षत्रतारकाः । इति हेमचन्द्रः ॥
बहुवचनान्तोऽयं शब्दः ॥

ज्योतिष्का, स्त्री, (ज्योतिरिव कायतीति । कै + कः

टाप् च ।) ज्योतिष्मतीलता । इत्यमरटीकायां
स्वामी ॥

ज्योतिष्टोमः, पुं, (ज्योतींषि त्रिवृदादयः स्तोमा

यस्य । “ज्योतिरायुषः स्तोमः ।” ८ । ३ । ८३ । इति
षत्वम् ।) षोडशऋत्विक्साध्ययज्ञविशेषः । तत्र
द्वादशशतगोदक्षिणा । इति मलमासतत्त्वम् ॥
(यथा, महाभारते । ३ । २२१ । ३० ।
“बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥”)

ज्योतिष्मती, स्त्री, (ज्योतिरस्त्यस्या इति । मतुप्

उदित्वात् ङीप् च ।) लताविशेषः । माल-
कङ्गनी इति लताफट्करी इति नयाफट्की
इति च भाषा ॥ तत्पर्य्यायः । पारावताङ्घ्रिः २
कटभी ३ पिण्या ४ । इत्यमरः । २ । ४ । १५० ॥
पारावतपदी ५ नगणा ६ स्फुटबन्धनी ७ पूति-
तैला ८ इङ्गुदी ९ । इति रत्नमाला ॥ स्वर्ण-
लता १० अनलप्रभा ११ ज्योतिर्लता १२ सुपि-
ङ्गला १३ दीप्ता १४ मेध्या १५ मतिदा १६
दुर्ज्जरा १७ सरस्वती १८ अमृता १९ । अस्याः
सूक्ष्माया गुणाः । अतितिक्तत्वम् । किञ्चित्कटु-
त्वम् । वातकफापहत्वञ्च । अस्याः स्थूलाया
गुणाः । दाहप्रदत्वम् । दीपनत्वम् । मेधाप्रज्ञा-
वृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्ण-
त्वम् । व्रणविस्फोटनाशित्वञ्च । इति राज-
वल्लभः ॥ रात्रिः । इति राजनिर्घण्टः ॥ (नदी-
विशेषः । यथा, मात्स्ये । १२० । ६५ ।
“सरस्वती प्रभवति तस्माज्योतिष्मती तु या ।
अवगाढे ह्युभयतः समुद्रौ पूर्ब्बपश्चिमौ ॥”
ज्योतिर्व्विशिष्टे, त्रि । यथा, रघुः । ६ । २२ ।
“नक्षत्रताराग्रहसङ्कुलापि
ज्योतिष्मती चन्द्रमसैव रात्रिः ॥”)

ज्योतीरथः, पुं, (ज्योतिरेव रथोऽस्य सर्व्वस्य

ज्योतिश्चक्रस्य रथ इव वा ज्योतिःपदार्थानां
सूर्य्यादीनामाधारत्वात् तथात्वमिति बोध्यम् ।)
ध्रुवः । इति त्रिकाण्डशेषः ॥

ज्योत्स्ना, स्त्री, (ज्योतिरस्त्यस्यामिति । “ज्योत्स्ना-

तमिस्रेति ।” ५ । २ । ११४ । इति निपातनात्
नप्रत्यय उपधालोपश्च ।) चन्द्रज्योतिः । चाँदनी
इति हिन्दी भाषा ॥ तत्पर्य्यायः । चन्द्रिका २
कौमुदी ३ । इत्यमरः । १ । ३ । १६ ॥ चान्द्री ४
कामवल्लभा ५ चान्द्रातपः ६ चन्द्रकान्ता ७
शीता ८ अमृततरङ्गिणी ९ । (यथा, महा-
भारते । १ । १ । ८६ ।
“पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ॥”)
ज्योत्स्नायुक्तरात्रिः । इति मेदिनी । ने, ८ ॥
पटोलिका । इत्यमरटीकायां स्वामी ॥ अस्या
गुणाः । त्रिदोषशमनत्वम् । इति राजनिर्घण्टः ॥
कषायत्वम् । मधुरत्वम् । दाहरक्तपित्तनाशि-
त्वञ्च । इति राजवल्लभः ॥ श्वेतघोषा । इति
पृष्ठ २/५५१
रत्नमाला ॥ दुर्गा । यथा, --
“प्रभाप्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्क-
मालिनी ।”
इति देवीपुराणे ४५ अध्यायः ॥
अपि च ।
“रौद्रायै नमो नित्यायै गौर्य्यै धात्र्य नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥”
इति मार्कण्डेये देवीमाहात्म्ये ५ अध्यायः ॥
(प्रभातकालः । यथा, विष्णुपुराणे । १ । ५ । ३६ ।
“ज्योत्स्ना समभवत् सापि प्राक्सन्ध्या याऽभि-
धीयते ॥”)

ज्योत्स्नाप्रियः, पुं, (ज्योत्स्ना प्रियाऽस्य ।) चकोरः ।

इति हेमचन्द्रः ॥

ज्योत्स्नावृक्षः, पुं, (ज्योत्स्नाया दीपधारण वृक्ष

इव ।) दीपाधारः । इति त्रिकाण्डशेषः ॥

ज्योत्स्नी, स्त्री, (ज्योत्स्ना अस्त्यस्या इत्यण् ङीप्

च । संज्ञापूर्ब्बकस्य विधेरनित्यत्वान्न वृद्धिः ।)
चन्द्रिकायुक्ता रात्रिः । ज्योत्स्नारात्रिरिति
ख्याता । पटोलिका । इत्यमरः । २ । ४ । ११८ ॥
झिङ्गा इति भाषा ॥ रेणुकानाम गन्धद्रव्यम् ।
इति शब्दचन्द्रिका ॥

ज्यौतिषिकः, पुं, (ज्योतिषं ज्योतिषशास्त्रमधीते

वेद वा इति ठक् वृद्धिश्च ।) दैवज्ञः । इत्य-
मरः । २ । ८ । १४ ॥

ज्यौत्स्नः, त्रि, (ज्योत्स्नया अन्वितः । इत्यण् ।)

दीप्तः । ज्योत्स्नायुक्तः ॥

ज्यौत्स्निका, स्त्री, (ज्योत्स्ना अस्त्यस्या इति

ठक् पूर्ब्बवृद्धिष्टाप् च ।) ज्योत्स्नान्विता निशा ।
इति शब्दरत्नावली ॥

ज्यौत्स्नी, स्त्री, (ज्योत्स्ना पूर्णचन्द्रचन्द्रिका

अस्त्यस्याः इत्यण् पूर्ब्बवृद्धिः ङीप् च ।) पूर्णिमा-
युक्तरात्रिः । इति हेमचन्द्रः ॥ ज्योत्स्नी । इत्य-
मरटीकायां रायमुकुटः ॥

ज्रि, अभिभवे । इति कविकल्पद्रुमः ॥ (भ्वां परं-

सकं-अनिट् ।) रेफोपधः । ज्रयति शत्रं बली ।
इति दुर्गादासः ॥

ज्री, गि कि ज्याने । गतबहुवयोभाव इति यावत् ।

इति कविकल्पद्रुमः ॥ (क्र्यां-चुरां पक्षे भ्वां-परं-
अकं-अनिट् ।) गि, ज्रीणाति ज्रीणः ज्रीणिः ।
कि, ज्राययति ज्रयति । गिकाभ्यामेव पाक्षिक-
चुरादित्वे सिद्धे कि पाठो भ्वादित्वार्थः । इति
दुर्गादासः ॥

ज्वर, म रोगे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) ज्वरति जनो धातुवैषम्यात् । म,
ज्वरयति । इति दुर्गादासः ॥

ज्वरः, पुं, (ज्वरति जीर्णो भवत्यनेन । ज्वर +

करणे घञ् भावे घञ् वा । संज्ञापूर्ब्बक-
त्वात् वृद्ध्यभावः ।) ज्वरणम् । स्वनामख्यात-
रोगः । तत्पर्य्यायः । जूर्त्तिः २ । इत्यमरः । ३ ।
२ । ३९ ॥ ज्वरिः ३ आतङ्कः ४ रोगपृष्ठः ५
महागदः ६ । इति राजनिर्घण्टः ॥ तापकः ७
सन्तापः ८ । इति शब्दरत्नावली ॥ * ॥
तस्योत्पत्तिर्यथा, --
“कालाग्निरुद्रः कोपेन चिक्षेप ज्वरमुल्वणम् ।
बभूवुर्य्यादवाः सर्व्वे ज्वराक्रान्ता हरिं विना ॥
तं दृष्ट्वा भगवान् कृष्णः ससर्ज्ज वैष्णवं ज्वरम् ।
तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्द्धनि ॥” * ॥
माहेशज्वराकारो यथा, --
“जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ।
शिवभक्तश्च योगी च स एव विकृताकृतिः ॥
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥” * ॥
तस्य भेदाः ।
“वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च ।
ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥
जातिभेदे ज्वरभेदो यथा, हरिवंशे ।
श्रीकृष्ण उवाच ।
“शृणुष्व ज्वर ! सन्देशं यथा लोके चरिष्यसि ।
सर्व्वजातिषु विन्यस्तस्तथा स्थावरजङ्गमे ॥
त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसि ।
चतुष्पादान् भजैकेन द्वितीयेन च स्थावरान् ॥
तृतीयो यश्च ते भागो मानुषेषूपपत्स्यते ।
त्रिधाभूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥
चतुर्थो यस्तृतीयस्य भविष्यति च ते ध्रुवम् ।
एकान्ततश्चतुर्भागः खोरकश्च चतुर्थकः ॥
मानुषेष्वथ खेदाय वस त्वं प्रविभज्य वै ।
जातिष्वथावशेषाषु निवस त्वं शृणुष्व मे ॥”
अस्यार्थः । “मानुषेषु यस्तृतीयो भागः तस्य
चतुर्भागं कृत्वा एकांशेन पक्षिषु वस द्बितीयेन
एकान्ता देवास्तेषु तृतीयांशः खोरकः चतु-
र्थांशेन मानुषेषु वस ॥”
“वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः ।
पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च ॥”
आतुर्य्यं निःसारताः ॥
“पद्मिनीषु हिमो भूत्वा पृथिव्यामपि चोषरः ।
अपां तु नीलिकां विद्यात् शिखोद्भेदश्च वर्हिणाम् ॥
गैरिकः पर्व्वतेष्वेव मत्प्रसादाद्भविष्यसि ।
गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ॥
एवं विविधरूपेण भविष्यसि महीतले ।
दर्शनात् स्पर्शनाच्चैव प्राणिनां वधमेष्यसि ॥
ऋते देवमनुष्यांश्च नान्यस्तां विषहिष्यति ॥”
तस्य गारुडोक्तनिदानादिर्यथा, --
धन्वन्तरिरुवाच ।
“वक्ष्ये ज्वरनिदानं हि सर्व्वज्वरविबुद्धये ।
ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः ॥
क्रोधो दक्षाध्वरध्वंसी रुद्रोर्द्ध्वनयनोद्भवः ।
तत्सन्तापो मोहमयः सन्तापात्मापचारजः ॥
विविधैर्नामभिः क्रूरो नानायोनिषु वर्त्तते ।
पाकलो गजेष्वभितापो वाजिष्वलर्क्कः कुक्कुरेषु ।
इन्द्रमदो जलदेऽप्सु नीलिका ज्योतिरोषधिषु
भूम्यामूषरो नाम ॥ * ॥
“हृल्लासश्छर्द्दनं कासः स्तम्भः शैत्यं त्वगादिषु ।
अङ्गेषु शीतपिडकामात्रोदर्द्दः कफोद्भवे ॥
काले यथास्वं सर्व्वेषां प्रवृत्तिर्व्वृद्धिरेव वा ।
निदानोक्तानुपशयो विपरीतोपशायिता ॥ * ॥
अरुचिश्चाविपाकश्च स्तम्भमालस्यमेव च ।
हृद्दाहश्च विपाकश्च तन्द्रा आलस्यमेव च ॥
वस्तिर्विसर्गविलया दोषाणामप्रवर्त्तनम् ।
लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम् ॥
यच्च सुष्टु गुरुत्वञ्च गात्राणां बहुमूत्रता ।
न विजीर्णा न चाग्लानिर्ज्जरस्यामस्य लक्षणम् ॥
क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्द्दवम् ।
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ॥ * ॥
यथास्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि वा ।
शिरोऽर्त्तिमूर्च्छावमिदेहदाह-
कण्ठास्यशोषारुचिपर्व्वभेदाः ।
उन्निद्रता संभ्रमरोमहर्षा
जृम्भातिवाक्त्वं पवनात् सपित्तात् ॥ * ॥
तापहान्यरूचिपर्व्वशिरोरुक्-
पीनसश्वसनकासविबन्धाः ।
शीतजाड्यतिमिरभ्रमितन्द्राः
श्लेष्मवातजनितज्वरलिङ्गम् ॥ * ॥
शीतस्तम्भस्वेददाहव्यवस्था-
त्यष्णाकासश्लेष्मपित्तप्रवृत्तिः ।
मोहस्तन्द्रालिप्ततिक्तास्यता च
ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥ * ॥
सर्व्वजो लक्षणैः सर्व्वैर्द्दाहोऽत्र च मुहुर्म्मुहुः ।
तद्वच्छीतं महानिद्रा दिवा जागरणं निशि ॥
सदा वा नैव वा निद्रा महास्वेदोऽति नैव वा ।
गीतनर्त्तनहास्यादिप्रकृतेहाप्रवर्त्तनम् ॥
साश्रुणी कलुषे रक्ते भग्ने लुलितपक्ष्मणी ।
अक्षिणी पिण्डिकापार्श्वमूर्द्धपर्व्वास्थिरुग्भ्रमः ॥
सस्वनौ सरुजौ कर्णौ महास्वेदोऽति नैव वा ।
परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्निभा ॥
रक्तपित्तकफे जिह्वा लोचने शिरसोऽतितृट् ।
कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ॥
हृद्ब्यथा मलसंसर्गः प्रवृत्तिर्वाल्पशोऽति वा ।
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता ॥
दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम् ।
सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम् ॥
वायुना कफरुद्धेन पित्तमन्तःसुपीडितम् ।
व्यवायित्वाच्च सौख्याच्च वहिर्म्मार्गं प्रपद्यते ॥
तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे ।
दोषे विवृद्धे नष्टेऽग्नौ सर्व्वसंपूर्णलक्षणः ॥
असाध्यः सोऽन्यथाकृच्छ्रो भवेद्वैकल्यदोऽपि वा ।
अन्यश्च सन्निपातोत्थो यत्र पित्तं पृथक् स्थितम् ॥
त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा ।
तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः ॥
शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते ।
शीते शान्तेऽष्टके मूर्च्छा मदस्तृष्णा च जायते ॥
दाहादौ पुनरन्ते स्युस्तन्द्रास्वेदवमिक्रमाः ॥ * ॥
आगन्तुरभिघाताभिषङ्गशापाभिचारतः ॥
चतुर्द्धा तु कृतच्छेददाहाद्यैरभिघातजः ॥ * ॥
श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् ॥
सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम् ।
पृष्ठ २/५५२
ग्रहावेशौषधिविषक्रोधभीशोककामजः ॥
अभिषङ्गाद्ग्रहेणास्मिन्न कस्मात्त्रासरोदने ।
ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः ॥ * ॥
विषाम्मूर्च्छातिसारास्यश्यावता दाहतृड्भ्रमः ।
क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे ॥
कामाद्भ्रमोऽरुचिर्द्दाहो ह्नीनिद्राधीधृतिक्षयः ॥
ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः ॥
कोपः कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ ।
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥ * ॥
तत्राभिचारिकैर्म्मन्त्रैर्हूयमानस्य तप्यते ।
पूर्ब्बञ्चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः ॥
सदाहमूर्च्छैर्ग्रस्तस्य प्रत्यहं वर्द्धते ज्वरः ।
इति ज्वरोऽष्टधा दृष्टः समासाद्बिविधस्तु सः ॥
शारीरो मानसः सौम्यस्तीक्ष्णोऽन्तर्व्वहिराश्रयः ।
प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः ॥
पूर्ब्बं शरीरे शारीरे तापो मनसि मानसे ।
पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥
दाहः पित्तयुते मिश्रं मिश्रेऽन्तःसंश्रये पुनः ।
ज्वरोऽधिकं विकाराः स्युरन्तःक्षोभो मलग्रहः ॥
वहिरेव वहिर्व्वेगे तापोऽपि च सुसाधितः ।
वर्षाशरद्बसन्तेषु वाताद्यैः प्राकृतः क्रमात् ॥
वैकृतोऽन्यः सुदुःसाध्यः प्रायश्च प्राकृतोऽनिलात् ।
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् ॥
कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः ।
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥
कफो वसन्त तमपि वातपित्तं भवेदनु ।
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥
सर्व्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ।
ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्ब्बहुमूत्रता ॥
न प्रवृत्तिर्न विजीर्णा न क्षुत् सामज्वराकृतिः ।
ज्वरवेगोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः ॥
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥
जीर्णतामविपर्य्यासात् सप्तरात्रञ्च लङ्घनात् ।
ज्वरः पञ्चविधः प्रोक्तो मलकालबलावलात् ॥
प्रायशः सन्निपातेन भूयसाप्युपदृश्यते ।
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।
धातुमूत्रशकृद्बाहिस्रोतसा व्यापिनो मलाः ॥
तापयन्तस्तनूं सर्व्वां तुल्यदृष्ट्यादिवर्द्धिताः ।
बलिनो गुरवस्तद्बद्बिशेषेण रसान्विताः ॥
सततं निष्प्रतिद्वन्द्वा ज्वरं कुर्य्युः सुदुःसहम् ।
मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत्ततः ॥
सर्व्वाकाररसादीनां शुद्ध्याशुद्ध्यापिवा क्रमात् ।
वातपित्तकफैः सप्तदशद्बादशवासरान् ॥
प्रायोऽनुयाति मर्य्यादां मोक्षाय च वधाय च ।
इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥
द्विगुणा सप्तमी या च नवम्येकादशी तथा ।
एषा त्रिदोषमर्य्यादा सोक्षाय च वधाय च ॥
शुद्ध्यशुद्ध्यै ज्वरः कालं दीर्घमप्यत्र वर्त्तते ।
कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ॥
अल्पोऽपि दोषो दुष्ट्यादेर्लब्घान्यतमतो बलम् ।
स प्रत्यनीको विषमं यस्मावृद्द्धिक्षयान्वितः ॥
सोऽरिपक्षो ज्वरं कुर्य्याद्बिषमक्षयवृद्धिभाक् ।
दोषः प्रवर्त्तते तेषां स्वे काले ज्वरयन् बली ॥
निवर्त्तते पुनश्चैव प्रत्यनीकबलाबलः ।
क्षीणदोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥
लीनत्वात् कार्ष्यवैवर्ण्यजाड्यादीनादधाति सः ।
आसन्नबिवृतास्यत्वात् स्रोतसां रसवाहिनाम् ॥
आशु सर्व्वस्य वपुषो व्याप्तिद्दोषेण जायते ।
सन्ततः सततस्तेन विपरीतो विपर्य्ययात् ॥
विषमो विषमारम्भः क्षपाकालेन सङ्गवान् ।
दोषो रक्ताशयः प्रायः करोति सन्ततं ज्वरम् ॥
अहोरात्रस्य सन्धिः स्यात् सकृदन्येद्युराश्रितः ।
तस्मिन्मांसवहा नाडी मेदोनाडी तृतीयके ॥
ग्राही पित्तानिलाम्मूर्द्ध्नस्त्रिकस्य कफपित्ततः ।
स पृष्ठास्यानिलकफात् स चैकाहान्तरः स्मृतः ॥
चतुर्थको मलैर्म्मेदो मज्जास्थ्यन्यतरस्थिते ।
मज्जामूत्ररैत्यपरः प्रभावमनुदर्शयेत् ॥
द्बिविधं कफेन जङ्घाभ्यां स पूर्ब्बं शिरसोऽनिलात् ।
अस्थिमज्जारूपगते चातुर्थकविपर्य्ययः ॥
त्रिधा त्र्यहं ज्वरयति दिनमेकञ्च मुञ्चति ।
बलाबलेन दोषाणामनुचेष्ठादिजन्मनाम् ॥
पक्वानामविपर्य्यासात् सप्तरात्रन्तु लङ्घयेत् ।
ज्वरः स्यात् मनसस्तद्वत् कर्म्मणश्च तदा तदा ॥
गम्भीरधातुचारित्वात् सन्निपातेन सम्भवात् ।
तुल्यो ब्रूयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥
सूक्ष्मात् सूक्ष्मतरास्येषु दूराद्दूरतरेषु च ।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥
याति देहञ्च नाशेषं सन्तापादीन् करोत्यतः ।
क्रमो यत्नेन विच्छिन्नः सन्तापो लक्ष्यते ज्वरः ॥
विषमो विषमारम्भः क्षपाकालानुसारवान् ।
यथोत्तरं मन्दमतिर्मन्दशक्तिर्यथायथम् ॥
कालेनाप्नोति सदृशान् स रसादींस्तथा तथा ।
दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥ * ॥
भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते ।
अङ्कराय यथा बीजं दोषबीजं भवेत्तथा ॥
वेगं कृत्वा विषं यद्वदाशये नीयते बलम् ।
कुप्यत्याप्तबलं भूयः काले दोषविषं तथा ॥
एवं ज्वराः प्रवर्त्तन्ते विषमाः सततादयः । * ।
उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम् ॥
अरोचको वमिः श्वासः सर्व्वस्मिन्रसगे ज्वरे ।
रक्तनिष्ठीवनं तृष्णा अक्ष्णोस्तु पिडकोद्गमः ॥
दाहरागभ्रममदप्रलापो रक्तसंश्रिते ।
तृड्ग्लानिस्पष्टवर्च्चस्कमन्तर्द्दाहो भ्रमस्तमः ॥
दौर्ब्बल्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते ।
स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं चासहिष्णुता ॥
प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेदनम् ।
दोषप्रवृत्तिरूर्द्ध्वाधःश्वासाङ्गक्षेपकूजनम् ॥
अन्तर्द्दाहो वहिःशैत्यं श्वासो हिक्वा च मज्जगे ।
तमसो दर्शनं मर्म्मच्छेदनं स्तब्धमेढ्रता ॥
शुक्रप्रवृत्तिर्म्मृत्युश्च जायते शुक्रसंश्रये ।
उत्तरोत्तरदुःसाध्याः पञ्चान्ये तु विपर्यये ॥
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेति च ।
मन्दज्वरः प्रलापस्तु सशीतः स्यात् प्रलेपकः ॥
नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण गच्छति ।
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥ * ॥
हरिद्रामेदवर्णाभस्तद्बल्लेपः प्रमेहति ।
स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥
कफवातौ समौ यत्र हीनपित्तस्य देहिनः ।
तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो
ज्वरः ॥
दिवाकरापीतबले व्यायामाच्च विशोषिते ।
शरीरे नियतस्थाता ज्वरः स्यात् पौर्व्वरात्रिकः ।
आमाशये यदा दुष्टे श्लेष्मपित्ते ह्यधःस्थिते ।
तदार्द्धं शीतलं देहे त्वर्द्धं चोष्णं प्रजायते ॥ * ॥
काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः ।
उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥ * ॥
रसरक्ताश्रयः साध्यो मांसमेदो गतश्च यः ।
अस्थिमज्जागतः कृच्छ्रस्तैस्तै साङ्गैर्हतप्रभः ॥ * ॥
विसंज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्ष्यते ।
सदोषशब्दञ्च शकृद्द्रवं मुञ्चति वेगवत् ॥ * ॥
देहो लघुर्व्यपगतक्लममोहतापः
पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षवः प्रकृतिगामि मनोऽन्नलिप्सा
कण्डूश्च मूर्द्ध्नि विगतज्वरलक्षणानि ॥
इत्यादि महापुराणे गारुडे ज्वरनिदानं
समाप्तम् । १५२ अध्यायः ॥
अथ ज्वरस्य चिकित्सा ।
यन्वन्तरिरुवाच ।
“ज्वरोऽष्टधा पृथक् द्बन्द्वसंङ्घातागन्तुजः स्मृतः ।
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये ॥ १ ॥
नागरं देवकाष्ठञ्च धन्याकं वृहतीद्बयम् ।
दद्यात् पाचनकं पूर्ब्बंज्जरिताय ज्वरापहम् ॥ २ ॥
आरग्वधाभयामुस्ततिक्तग्रन्थिकनिर्म्मितः ।
कषायः पाचनं सामे सशूले च ज्वरे हितः ॥ ३ ॥
मधूकसारसिन्धूत्थवचोषणकणाः समाः ।
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्य्यात् संज्ञाप्रबोधनम् ॥ ४
त्रिवृद्बिशालात्रिफलाकटुकारग्वधैः कृतः ।
सक्षारो भेदनं क्वाथः पेयः सर्व्वज्वरापहः ॥ ५ ॥
महौषध्यमृतामुस्तचन्दनोशीरधान्यकैः ।
क्वाथस्तृतीयकं हन्ति शर्क्करामधुयोजितः ॥ ६ ॥
अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः ।
बद्ध्वा वारे रवेर्नूनं ज्वरं हन्ति तृतीयकम् ॥ ७ ॥
गङ्गाया उत्तरे कूले ह्यपुत्त्रस्तापसो मृतः ।
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥ ८ ॥
गुडूच्याः क्वाथकल्काभ्यां त्रिफलाया वृषस्य च ।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहाः ज्वर-
च्छिदः ॥ ९ ॥
धात्री शिवा कणा वह्निक्वाथः सर्व्वज्वरान्तकः १०
ज्वरातिसारहरणमौषधं प्रवदाम्यथ ।
पृश्निपर्णीबलाविल्वनागरोत्पलधान्यकैः ॥
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकाः स्मृताः ।
जयन्त्याममतीसारज्वरं रसमहौषधाः ॥ ११ ॥
नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ।
सर्व्वज्वरहरः क्वाथः सार्व्वातीसारनाशनः ॥ १२ ॥
मुस्तपर्पटकोदीच्यशृङ्गवेवशृतं पयः ।
पृष्ठ २/५५३
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥
बलाश्वदंष्ट्राविल्वानि पाठा नागरधान्यकम् ।
एतदाहारसंयोगे हितं सर्व्वातिसारिणाम् ॥ १३
विल्वचूतास्थिनिर्य्यूहः खण्डं मध्वतिसारणुत् । १४ ।
अतीसारे हितस्तद्बत् कुटजत्वक्फलावृतः ॥ १५ ॥
वत्सकातिविषाविल्वबालाकन्दकषायकः ।
सविश्व आमशूलाढ्ये ह्यतीसारे सशोणिते ॥” १६
इति गारुडे १७४ अध्यायः ॥
अपि च ।
“हस्तबद्धं पलाशस्य अपामार्गस्य वा हर ! ।
मूलं सर्व्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥ १७ ॥
पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।
सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ॥ १८ ॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् । १९ ।
एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ॥” २०
इति तत्रैव १९३ अध्यायः ॥
“वचा त्रिकटुकञ्चैव करञ्जं देवदारु च ।
मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥
प्रियङ्गुनिम्बत्रिकटुगोमूत्रेणावघर्षितम् ।
नस्यमालेपनञ्चैव स्नानमुद्बर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्च भयं हन्ति राजद्बारे च शासनम् ॥ २१
अभयामलकद्राक्षाः पाठा चैव विभीतकम् ।
शर्क्करा च समञ्चैव जग्धं ज्वरहरं भवेत् ॥” २२
इति च गारुडे १९९ अध्यायः ॥ * ॥
वैद्यकमते शिवज्वरस्योत्पत्तिर्यथा, --
“दक्षापमानसंक्रुद्धरुद्रनिश्वाससम्भवः ।
ज्वरोऽष्टधा पृथग्द्बन्द्वसंघातागन्तुजः स्मृतः ॥
तस्य विप्रकृष्टकारणकथनपूर्व्विका सम्प्राप्तिर्यथा,
“मिथ्याहारविहारस्य दोषा ह्यामाशयाश्रयाः ।
बहिर्न्निरस्य कोष्ठाग्निं ज्वरदाः स्यूरसानुगाः ॥”
तस्य सामान्यलक्षणं यथा, --
“स्वेदावरोधः सन्तापः सर्व्वाङ्गग्रहणन्तथा ।
युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ॥” * ॥
तस्य पूर्ब्बरूपं यथा, --
“श्रमोऽरतिर्व्विवर्णत्वं वैरस्यं नयनप्लवः ।
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ॥
जृम्भाङ्गमर्द्दों गुरुता रोमहर्षोऽरुचिस्तमः ।
अप्रहर्षश्च शीतञ्च भवत्युपत्स्यति ज्वरे ॥” * ॥
सन्ततादिज्वराणां प्रति नियतदूष्या धातवोयथा,
“सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ।
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ॥
कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ।
सप्ताहं वा दशाहं वा द्बादशाहमथापि वा ॥
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ।
अहोरात्रे सततको द्वौ कालावनुवर्त्तते ॥
अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्त्तते ।
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ।
कफपित्तात्त्रिकग्राही पृष्ठाद्बातकफात्मकः ॥
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ।
चातुर्थको दर्शयति प्रभावं द्बिविधं ज्वरः ॥
जङ्घाभ्यां श्लैष्मिकः पूर्ब्बं शिरस्तोऽनिलसम्भवः ।
विषमज्वर एवान्यश्चातुर्थकविपर्य्ययः ॥
मध्ये अहनी ज्वरयत्यादावन्ते च मुञ्चति ॥” * ॥
वातबलासकज्वरो यथा, --
“नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति ।
स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी ॥”
विषमज्वरविशेषाः ।
“विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते ।
तेनार्द्धं शीतलं देहे चार्द्धञ्चोष्णं प्रजायते ॥” * ॥
शीतपूर्ब्बो ज्वरो यथा, --
“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे ।
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ॥”
दाहपूर्ब्बो ज्वरो यथा, --
“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।
तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ॥
द्बावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।
दाहपूर्ब्बस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ॥”
उक्तवातादिज्वराणां धातुविशेषदूष्यतया
अधिकलक्षणानि यथा, --
“गुरुता हृदयोत्क्लेशः सदनं छर्द्द्यरोचकौ ।
रसस्थ तु ज्वरे लिङ्गं दैन्यञ्चास्योपजायते ॥ १ ॥
रक्तनिष्ठीवनं दाहो मोहश्छर्द्दनविभ्रमौ ।
प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ॥ २
पिण्डिकोद्वेष्टनं तृष्णासृष्टमूत्रपुरीषतः ।
उष्मान्तर्द्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ॥ ३
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्द्दिरेव च ।
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ॥ ४
भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्द्दिरेव च ।
विक्षेपणञ्च गात्राणामेतदस्थिगते ज्वरे ॥ ५ ॥
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा ।
अन्तर्द्दाहो महाश्वासो मर्म्मच्छेदश्च मज्जगे ॥ ६ ॥
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ।
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥” ७
अथ वैद्यकमते सामान्यतो ज्वरस्य चिकित्सा-
माह ।
“अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नुयात् ।
साधारणीं क्रियान्तत्र विदधीत चिकित्सकः ॥
सामान्यतो ज्वरी पूर्ब्बं निर्व्वाते निलये वसेत् ।
निर्व्वातमायुषो वृद्धिमारोग्यं कुरुते यतः ॥
व्यजनस्यानिलस्तृष्णास्वेदमूर्च्छाश्रमापहः ॥
तालवृन्तभवो वातस्त्रिदोषशमनो मतः ॥
वंशव्यजनजः सोष्णो रक्तपित्तप्रकोपणः ।
चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा ॥
एते दोषजिता वाताः स्निग्धा हृद्याः सुपूजिताः ।
नवज्वरी भवेद्यत्नाद्गुरूष्णवसनावृतः ।
यथर्त्तुपक्कं पानीयं पिबेत् किञ्चिन्निवारयन् ॥
विनापि भेषजैर्व्याधिः पथ्यादेव निवर्त्तते ।
न तु पथ्यविहीनस्य भेषजानां शतैरपि ॥” * ।
ततो ज्वरे वर्ज्जनीयान्याह सुश्रुतः ।
“परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च ।
दिवास्वप्नं व्यवायञ्च व्यायामं शिशिरं जलम् ॥
क्रोधप्रवातभोज्यानि वर्ज्जयेत्तरुणज्वरी ॥”
परिषेकः स्नानादिः । प्रदेहो अनुलेपना-
भ्यङ्गादिः । स्नेहान् पाने निषिद्धान् ॥ * ॥
निषिद्धानिषेधाद्दोषमाह ।
“शोषं छर्द्दिं मदं मूर्च्छां भ्रमं तृष्णामरोचकम् ।
प्राप्नोत्युपद्रवानेतान् परिषेकादिसेवनात् ॥”
आदिशब्देन प्रदेहादयो गृह्यन्ते ॥ * ॥
हारीतेन प्रव्येकं दूषणमुक्तम् ।
“व्यायामाज्ज्वरसंवृद्धिर्व्यवायात् स्तम्भमूर्च्छनम् ।
मृतिश्च स्नेहपानात्तु मूर्च्छा छर्द्दिमदोऽरुचिः ॥
गुर्व्वन्नभोजनात् स्वप्नाद्बिष्टम्भो दोषकोपनम् ।
अग्निसादः खरत्वञ्च श्रोतसां चाप्रवर्त्तनम् ॥”
मृतिरिति व्यवायादित्यत्र सम्बध्यते । स्वप्नात्
दिवास्वापात् ॥ * ॥ अन्यच्च वर्ज्जयेत् ।
“सज्वरो ज्वरमुक्तो वा विदाहीनि गुरूणि च ।
असात्म्यान्यन्नपानानि विरुद्धाध्यशनानि च ॥
व्यायाममतिचेष्टाञ्चाभ्यङ्गं स्नानञ्च वर्ज्जयेत् ।
तेन ज्वरः शमं याति न शान्तश्च पुनर्भवेत् ॥
ज्वरी लङ्घनं कुर्य्यादिति चरकः वाग्भटश्च ।”
“आमाशयस्थो हत्वाग्निं सामो मार्गं पिधापयन् ।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥”
अस्यायमर्थः । “यतो हेतोः आमाशयस्थो दोषो
वातपित्तश्लेष्मरूपः स्वहेतुदुष्टः अग्निं हत्वा
आच्छाद्य सामः अपक्वाहारसहितोमार्गं रस-
मार्गं पिधापयन् । अत्रार्षत्वादर्हतावपि कर्त्त-
रीन् । तेन पिदधदित्यर्थः । ज्वरं करोति तस्मा-
द्धेतोर्ज्वरी लङ्घनमाचरेदित्यर्थः ॥ * ॥
“त्रिविधं त्रिविधे दोषे तत् समीक्ष्य प्रयोजयेत् ।
दोषेऽल्पे लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् ।
प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान् ॥”
चक्रश्च ।
“तरुणन्तु ज्वरं पूर्ब्बं लङ्घनेन क्षयं नयेत् ।
आमदोषमलिङ्गाद्वा लङ्घयीत यथाविधि ॥”
अन्यच्च ।
“ज्वरादौ लङ्घनं कुर्य्यात् ज्वरमध्ये तु पाचनम् ।
ज्वरान्ते रेचनं कुर्य्यात् कोष्ठशुद्ध्यै यथाबलम् ॥
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च ।
लङ्घितश्चाप्यदोषश्च यवागूपानमाचरेत् ।
शालिषष्टिकमुद्गानां यूषं वा शस्तमाहरेत् ।
पञ्चकोलेन संसिद्धा यवागूर्म्मध्यलङ्घने ॥
अतिलङ्घितञ्च तं दृष्ट्वा तस्य सन्तर्पणं हितम् ।
द्राक्षादाढिमखर्ज्जूरपियालैः सपरूषकैः ॥
तर्पणार्हे तु कर्त्तव्यं तर्पणं ज्वरशान्तये ॥”
अत्र लङ्घनशब्देनानशनमुच्यते । यत आह
सुश्रुतः ।
“आनद्धस्तिमितैर्दोषैर्य्यावन्तं कालमातुरः ।
तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत् ॥”
आनद्धस्तिमितैर्द्दोषैर्निश्चलैर्दोषैः सम्बद्धः ।
संसर्गं औषधान्नादिप्रसङ्गम् ॥ * ॥
यत्तु चरक आह ।
“चतुःप्रकारा संशुद्धिः पिपासा मारुतातपौ ।
पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥”
चतुःप्रकारा संशुद्धिः वमनविरेचननिरूहवस्ति-
पृष्ठ २/५५४
शिरोविरेचनानि । न त्वनुवासनं तस्य बृंहण-
त्वात् । अत्र लङ्घनं कर्षणमित्यर्थः । तथा च
सुश्रुतः ।
“शरीरलाघवकरं यद्द्रव्यं कर्म्म वा पुनः ।
तल्लङ्घनमिति ज्ञेयं बृंहणन्तु पृथग्विधम् ॥
लङ्घनात् कर्षणादन्यत् शरीरपोषकमित्यर्थः ॥ * ॥
ननु आनद्धस्तिमितैर्द्दोषैरित्यादिपूर्ब्बोक्तसुश्रुत-
वचनात् सामान्यतो ज्वरिणा यथाशनरूपं
लङ्घनं क्रियते तथा चतुःप्रकारा संशुद्धिः
इत्यादिचरकवचनाद्बमनादिरूपं लङ्घनं सर्व्वै-
र्ज्वरिभिः कथं न क्रियते । तत्रोच्यते । वम-
नादिकमवस्थाविशेषेषु क्रियते न तु सर्व्वज्वरेषु ।
तथा च सुश्रुतः ।
“सोत्क्लेशे बलिने देयं वमनं श्लैष्मिके ज्वरे ।
पित्तप्राये विरेकस्तु कार्य्यः प्रशिथिलाशये ॥”
प्रशिथिलाशये अत्र प्रोपसर्गः वैपरीत्ये तेन
गूढाशये इत्यर्थः ॥ * ॥
“सरुजेऽनिलजे कार्य्यं सोदावर्त्ते निरूहणम् ।
कफाभिपन्ने शिरसि कार्य्यमूर्द्ध्वविरेचनम् ॥”
अपि च । सर्व्वज्वरिभिः पिपासानिग्रहश्च न
कार्य्यः ॥ यत आह हारीतः ।
“तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी ।
तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम् ॥”
अतोऽवस्थाविशेष एव पिपासासहनम् ॥ * ॥
ज्वरिभिर्म्मारुतसेवनं न कार्य्यम् । सुश्रुतेन प्रवात-
सेवनस्य सर्व्वथा निषिद्धत्वात् अतो मारुतसेवनं
अवस्थाविशेष एव युक्तम् । आतपसेवनञ्चा-
वस्थाविशेष एव संगृहीतम् ॥ * ॥
“लङ्घनाम्बुयवागूभिर्य्यदा दोषो न पच्यते ।
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ॥
ज्वरघ्नैः पाचनैर्हृद्यैः कषायैः समुपाचरेत् ।”
इत्यत्र लङ्घनपाचनयोः स्फुट एव भेदः । व्याया-
मोऽपि न कार्य्यस्तस्यातिनिषिद्धत्वात् । अवस्था
विशेषे पुनःपार्श्वपरिवर्त्तनादिरूपः सोऽपि
कर्त्तव्यः । तस्माच्चतुःप्रकारा संशुद्धिरित्यादि-
श्लोके लङ्घनपदं कर्षणपर्य्यायमिति निर्णीतम् ॥
अनशनरूपस्य लङ्घनस्य फलमाह ।
“लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले ।
विज्वरत्वं लघुत्वञ्च क्षुच्चैवास्योपजायते ॥
लङ्घनेन अनशनेन दोषे प्रवृद्धे क्षयं नीते ।
यत आह ।
“आहारं पचति शिखी दोषानाहारवर्ज्जितः ।”
पचतीति । सन्धुक्षितेऽनले आच्छादकदोषे
संक्षीणे अग्नौ प्रदीप्ते । यथोक्तसंप्राप्तिसामग्री-
विघटनात् । विज्वरत्वं शरीरस्य गौरवाभावेन
लघुत्वम् । क्षुत् बुभुक्षा च जायते इत्यर्थः ॥ * ॥
अन्यच्चाह सुश्रुतः ।
“अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ।
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥
अनवस्थितदोषाग्नेः अनवस्थितः स्वस्थानादि-
तस्ततो गतो दोषोऽग्निश्च यस्य तस्य ज्वरिणः ।
काङ्घा अन्नाभिलाषः । रुचिः लङ्घनेनामपाका-
न्मुखशोषादिनाशे मुखस्य यत् प्रकृतत्वं सैव
रुचिः शोभा । रुचिः स्त्री दीप्तौ शोभायामभि-
लाषयोरिति मेदिनीकारः ॥ * ॥ संप्रति कृतस्य
लङ्घनस्य लक्षणमाह ।
“वातमूत्रपुरीषाणां विसर्गाद्गात्रलाघवे ।
हृदयोद्गारकण्ठास्य शुद्धौ तन्द्राक्लमे गते ॥
स्वेदे जाते रुचौ वापि क्षुत्पिपासासहोदये ।
कृतं लङ्घनमादेश्यं निर्व्व्यथे चान्तरात्मनि ॥”
हृदयस्य शुद्धिरनवरोधः । उद्गारशुद्धिःसधूमा-
म्लोद्गाराभावः । कण्ठस्य शुद्धिः कफाद्यलिप्तत्वम् ।
आस्यशुद्धिः मुखस्य प्रकृतरसत्वम् । तन्द्राक्लमे
तन्द्रया क्लमः तस्मिन् । तन्द्रा निद्रावत् ।
क्लमोऽत्र ग्लानिः । क्षुत्पिपासासहोदये क्षुत्-
पिपासाभ्यां सह युगपदुदये । अन्तरात्मनि
मनसि । एतानि लक्षणाति मिलितान्येव सम्यक्
कृतं लङ्घनं बोधयन्ति । न तु प्रत्येकम् ॥ * ॥
हीनस्य लङ्घनस्य लक्षणमाह ।
“कफोत्क्लेशः सहृल्लासः ष्ठीवनञ्च मुहुर्म्मुहुः ।
कण्ठास्यहृदयाशुद्धिस्तन्द्रा स्याद्धीनलङ्घने ॥
कफोत्क्लेशः कफस्य वमनायोपस्थितिः ॥”
हृल्लासः हृदयात् कट्वम्लनिर्गमः ॥ * ॥
अतिशयितस्य लङ्घनस्य लक्षणमाह ।
“पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च ।
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥
मनसः संभ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि ।
देहाग्निबलहानिश्च लङ्घनेऽति कृते भवेत् ॥
दौर्ब्बल्यं श्रोत्रनेत्रयोः कर्णनेत्रयोः स्वविषय-
ग्रहणासामर्थ्यम् । मनसः संभ्रमः भ्रान्तिः ।
ऊर्द्ध्ववात उद्गारबाहुल्यम् । हृदि तमः अन्ध-
कारप्रविष्टस्येव ज्ञानम् ॥ * ॥ बलं रक्षन्
लङ्घनं कारयेदित्याह ।
“बलाविरोधिना चैनं लङ्घनेनोपपादयेत् ।
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥
अयमर्थः । एनं ज्वरिणं बलविरोधिना अनति-
बलक्षयकारिणा लङ्घनेन उपपादयेत् उप-
चरेत् । कुत इति चेत्तत्राह । यदर्थ इति । यस्मै
आरोग्याय अयं क्रियाक्रमः चिकित्सोपक्रमः ।
तत् आरोग्यं बलाधिष्ठानं बलाश्रयमित्यर्थः ॥ * ॥
केषाञ्चिदनशनस्य निषेधमाह सुश्रुतः ।
तद्धि मारुततृष्णाक्षुन्मुखशोषभ्रमान्वितैः ।
न कार्य्यं गुर्व्विणीबालवृद्धदुर्ब्बलभीरुभिः ॥
न क्षयाध्वश्रमक्रोधकामशोकचिरज्वरे ।
तत् अनशनं उल्वणमारुतयुक्तेन ज्जरिणा न
कार्य्यम् । मारुतोऽत्र निरामो बोद्धव्यः । सामे तु
मारुते लङ्घनं कार्य्यमेव । यत आह तन्त्रान्तरे ।
“अवश्यमेव कुर्व्वीत ज्वरी सामे समीरणे ।
लङ्घनं ह्यामपाकार्थं न तदूर्द्ध्वं यथा कफे ॥
तदूर्द्ध्वं आमपक्वादूर्द्ध्वम् । अतएवोक्तम् ।
कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ।
आमक्षयादूर्द्ध्वमपि वायुर्न सहते क्षणम् ॥” * ॥
आमस्य लक्षणमाह ।
“आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात् ।
आमसंज्ञां स लभते बहुव्याधिसमाश्रयः ॥”
तन्त्रान्तरे ।
“आममन्नरसं केचित् केचित्तु मलसञ्चयम् ।
प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते ॥”
अन्यच्च ।
“अपि पक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम् ।
सदनं सर्व्वगात्राणामाम इत्यभिशब्दितः ॥
तेनामेन समायुक्ता दोषा दूष्याश्च तादृशाः ।
तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः ॥”
अत्र सामस्य वातस्य लक्षणमाह ।
“वायुः सामो विबन्धाग्निसादतन्द्रान्त्रकूजनैः ।
वेदना शोथनिस्तोदैः क्रमशोऽङ्गानिं पीडयेत् ॥
विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम् ॥
स्नेहाद्यैर्वृद्धिमायाति मेघसूर्य्योदये निशि ॥”
विचरेद्युगपद्बायुरामश्चैककालं विचरेत् ।
कुपितः सामो वायुः भृशमतिशयेन गृह्णात्य-
ङ्गानीत्यर्थः ॥ * ॥ तस्यैव निरामस्य लक्षण-
माह ।
“निरामो विशदो रूक्षो निर्व्विबन्धोऽल्पवेदनः ।
विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ॥ * ॥
अत्र प्रसङ्गात् सामस्य पित्तस्य लक्षणमाह ।
पित्तं सामं भवेदम्लं दुर्गन्धं हरितं गुरु ।
अम्लीकाकण्ठहृद्दाहकरं श्यावं तथा स्थिरम् ॥
अम्लीका अम्बिलचुकी इति लोके ॥ * ॥
तस्य निरामस्य लक्षणमाह ।
“निरामं पीतमाताम्रमत्युष्णं कटुकं सरम् ।
दुर्गन्धि रुचिकृद्बह्निबलवर्द्धनमीरितम् ॥
अथ सामस्य कफस्य लक्षणमाह ।
“आविलस्तन्तुलस्त्यानः कण्ठदेशेऽवतिष्ठते ।
सामो वलाशो दुर्गन्धस्तृट्क्षुधोरभिघातकृत् ॥
स्त्यानः संहतः ॥
तस्य निरामस्य लक्षणमाह ।
“श्लेष्मा निरामो निर्गन्धः फेनवांश्छेदवानपि ।
भवेत् स पिण्डितः पाण्डुरास्यवैरस्यनाशकृत् ॥”
अथ सामस्य व्याधेर्लक्षणमाह ।
“आलस्यतन्द्राहृदयाविशुद्धि-
र्दोषाप्रवृत्त्याविलमूत्रताभिः ।
गुरूदरत्वारुचिसुप्तताभि-
रामान्वितं व्याधिमुदाहरन्ति ॥
आमं जयेल्लङ्घनकोलपेया
लघ्वन्नसूपौदनतिक्तयूषैः ।
विरूक्षणस्वेदनपाचनैश्च
संशोधनैरूर्द्ध्वमधस्तथैव ॥
तद्धि मारुततृष्णाक्षुदित्यादिश्लोके तृष्णापि निरा-
मैव विवक्षिता तेन निरामतृष्णान्वितेन लङ्घनं
नकार्य्यम् । सामायान्तु तृष्णायां लङ्घनं कार्य्यमेव ।
तथा मुखशोषभ्रमावपि निरामावेव विवक्षितौ ।
सामयोस्तु तयोर्ल्लङ्घनं कार्य्यमेव । गुर्व्विणीबाल-
वृद्धादिभिरपि निरामैरेव लङ्घनं न कार्य्यम् ।
सामैः पुनस्तैरपि लङ्घनं कार्य्यमेव । क्षयो घातु-
क्षयोराजयक्ष्मा । वातजे ज्वरे लङ्घनं न कार्य्यम् ॥
ज्वरी लङ्घनेऽपि जलं पिबेदित्याह सुश्रुतः ।
पृष्ठ २/५५५
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।
अतः सर्व्वास्ववस्थासु न क्वचिद्बारि वारयेत् ॥
हारीतश्च ।
तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी ।
तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम् ॥
अवश्यं पेयमपि जलं ज्वरी किञ्चिद्बारयन्
पिबेद्यत आह सुश्रुत एव ।
जीवनं जीविनां जीवो जगत् सर्व्वन्तु तन्मयम् ।
अतोऽत्यन्ततया सुज्ञो न क्वचिद्बारि वारयेत् ॥
जीवनं जलम् ॥ किञ्चित्तु वारयेदेव । तथा च ।
ज्वरे नेत्रामये कोठे मन्देऽग्नावुदरे तथा ।
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥
व्रणे च अम्धुमेहे च पानीयं मन्दमाचरेत् ॥
प्रसेके मुखप्रसेके । मन्दमाचरेत् अल्पं पिबेत् ।
यत आह ।
“अतियोगेन सलिलं तृष्यतेऽपि प्रयोजितम् ।
प्रयाति श्लेष्मपित्तत्वं ज्वरितस्य विशेषतः ॥ * ॥
तच्च जलं ज्वरी शीतलं न पिबेदित्याह सुश्रुतः ।
नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे ।
सद्यःशुद्धौ तथाघ्माने व्याधौ वातकफोद्भवे ॥
अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ ।
हिक्कायां स्नेहपाने च शीतं वारि विवर्ज्जयेत् ॥”
अन्यच्च स एव ।
“सेव्यमानेन शीतेन ज्वरस्तोयेन वर्द्धते ।”
अत्र शीतं जलमक्वथितं निषिद्धम् । तथा सति
क्वथितं ग्राह्यं आयातम् ॥ तत्र क्वथितस्य विधि-
र्गणाश्च ।
“क्वाथ्यमानन्तु निर्व्वेगं निष्फेनं निर्म्मलञ्च यत् ।
तत्तोयं क्वथितं ज्ञेयं दोषघ्नं पाचनं लघु ॥
निर्व्वेगं शनैः ॥ क्वथितस्य विषयानाह सुश्रुतः ।
“वातश्लेष्मज्वरार्त्ताय हितमुष्णाम्बु तृष्यते ।
दीपनं स्यात् कफच्छेदि वातपित्तानुलोमनम् ॥
तद्धि मार्द्दवकृद्दोषस्रोतसां शीतमन्यथा ॥”
वाग्भटश्च ।
“तृष्णायां प्राप्तमुष्णाम्बु पिबेद्बातकफज्वरे ।
तत् कफं विलयं नीत्वा तृष्णामाशु निवर्त्तयेत् ॥
उदीर्य्य चाग्निं स्रोतांसि समुत्कृत्य विशो-
धयेत् ।
वातपित्तकफस्वेदशकृन्मूत्राणि सारयेत् ॥” * ॥
अथोष्णोदकस्य लक्षणं गुणाश्च ।
“क्वाथ्यमानन्तु निर्व्वेगं निष्फेनं निर्म्मलं तथा ।
अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते ॥
ज्वरकासकफश्वासवातपित्ताममेदसाम् ।
नाशनं वस्तिसंशोधि पथ्यमुष्णोदकं सदा ॥ * ॥”
अथर्त्तुभेदे जलस्य पाकभेदः ।
त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते ।
हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः ॥” * ॥
अन्ये तु ।
“निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् ।
शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् ॥
अष्टमांशावशेषन्तु वारि वर्षासु शस्यते ।
इति केचिद्बुधाः प्राहुर्ज्जेज्जटागमदर्शनात् ॥”
केचित्तु ।
“वसुष्वङ्गेषु बाणेषु वेदेषु त्रिषु पक्षयोः ।
एकभागावशेषं स्यादम्बु वर्षादिषु क्रमात् ॥”
अत्र दोषाणां यथोल्वणता हीनता वा तथा
व्यवस्था कल्पनीया ॥
“तत् पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत् ।
त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु ॥” * ॥
त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा ।
तस्य लक्षणं गुणाश्च ।
“पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते ।
आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम् ॥
सद्यो ज्वरहरं ग्राहि दीपनं पाचनं लघु ।
आनाहपाण्डुशूलार्शोगुल्मशोथोदरापहम् ॥”
अथर्त्तुभेदे जलस्य ग्रहणाय देशभेदः ।
“हेमन्ते शिशिरे चाम्बु सारसं वा तडागजम् ।
वसन्तग्रीष्मयोः कौप्यं वाप्यं वा नैर्झरं हितम् ॥
नादेयं वारि नादेयं वसन्तग्रीष्मयोर्ब्बुधैः ।
विषवत् पत्रपुष्पादिदुष्टं निर्झरयोगतः ॥
औद्भिदं चान्तरीक्षं वा कौपं प्रावृषि च स्मृतम् ।
शस्तं शरदि नादेयं नीरमंशूदकं परम् ॥
दिवा रविकरैर्ज्जुष्टं शीतं शीतकरैर्न्निशि ॥
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ।
अनभिष्यन्दि निर्द्दोषमान्तरीक्षजलोपमम् ॥
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम् ॥”
अन्यच्च ।
“शरद्यगस्तेरुदयादस्विलं सलिलं हितम् ।
वृद्धसुश्रुतश्च ।
“कार्त्तिके मार्गशीर्षे च पयोमात्रं प्रशस्यते ॥”
यथर्त्तुपक्वमपि जलं विषयविशेषे शीतलं पिबे-
दित्याह सुश्रुतः ।
“दाहातिसारपित्तासृङ्मूर्च्छामद्यविषार्त्तिषु ।
मूत्रकृच्छ्रे पाण्डुरोगे तृष्णाच्छर्द्दिभ्रमेषु च ॥
मद्यपानात् समुद्भूते रोगे पित्तोत्थिते तथा ।
सन्निपातसमुत्थे च शृतं शीतं प्रशस्यते ॥”
क्वथितस्य जलस्य शीतलकरणविशेषे गुण-
विशेषमाह सुश्रुतः ।
“शृताम्बु तत्त्रिदोषघ्नं यदन्तर्व्वास्पशीतलम् ।
अरूक्षमनभिष्यन्दि कृमितृड्ज्वरहृल्लघु ॥
घारापातेन विष्टम्भि दुर्ज्जरं पवनाहतम् ॥
अन्तर्व्वास्पशीतलं पिहितमेव शीतलम् ।
अत्रापरेऽपि विशेषाः ।
“दिवा शृतं पयो रात्रौ गुरुतामधिगच्छति ।
रात्रौ शृतं दिवा पीतं गुरुत्वमधिगच्छति ॥
तत्तु पर्य्युषितं वह्निगुणभ्रष्टं त्रिदोषकृत् ।
गुर्व्वम्लपाकं विष्टम्भि सर्व्वरोगेषु निन्दितम् ॥
शृतं शीतं पुनस्तप्तं तोयं विषसमं भवेत् ।
निर्य्युहोऽपि तथा शीतः पुनस्तप्तो विषोपमः ॥”
रात्रौ तूष्णोदकस्य लक्षणमन्यदाह ।
“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा ।
अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत् ॥”
तस्य गुणाः ।
“श्लेष्मानिलामदोषघ्नं दीपनं वस्तिशोधनम् ।
श्वासकासज्वरहरं पीतमुष्णोदकं निशि ॥”
अन्यच्च ।
“भिनत्ति श्लेष्मसङ्घातं मारुतं चापकर्षति ।
अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि ॥”
रात्रावुष्णोदकञ्च तप्तमेव पिबेदित्याह ।
“उष्णं तदग्निजननं लघ्वच्छं वस्तिशोधनम् ।
पार्श्वरुक्पीनसाध्मानहिक्कानिलकफापहम् ॥
शस्तं तृट्श्वासशूलेषु सद्यःशुद्धौ नवज्वरे ॥”
विषयविशेषे त्वाममेव जलं शीतलं पिबेदित्याह
सुश्रुतः ।
“मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये ।
भ्रमश्रमपरीतेषु तमके वमथौ तथा ॥
धूमोद्गारेऽविदग्धेऽन्ने शोषे च मुखकण्ठयोः ।
ऊर्द्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥”
शीतमम्भः आममेव न तु क्वथितम् । क्वथितन्तु
शीतं दाहादिषु यदुक्तं तत् सज्वरेषु । विज्वरेषु
तु दाहादिष्वामं शीतं प्रशस्यते इति भेदः ॥ * ॥
आमादिजलानां जठराग्निना पाककालावधि-
माह ।
“आमं जलं पाकमुपैति यामं
पक्वं पुनः शीतलमर्द्धयामम् ।
पक्वं कदुष्णञ्च ततोऽर्द्धकालं
कालास्त्रयः पीतजलस्य पाके ॥
पित्तमद्यविषोत्थेषु तिक्तकैः शृतशीतलम् ॥”
जलं हितमिति शेषः ॥ * ॥ तिक्तानि बहुलानि
तेभ्यो निर्धार्य्य योगमाह सुश्रुतः ।
“मुस्तपर्पटकोदीच्यच्छत्राख्योशीरचन्दनैः ।
शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये ॥”
छत्रात्र धान्यकम् । यत आह निघण्टौ धन्व-
न्तरिः । कुस्तुम्बुरुः स्वर्णिकारा छत्रा धान्यं
वितुन्नकमित्यादि । तद्गुणाश्च ।
“धान्यकं दीपनं रुच्यं पाचनं स्वादुपाकि च ।
दोषत्रयतृषादाहश्वासकासज्वरप्रणुदित्यादि ॥”
चक्रदत्तवङ्गसेनवृन्दादयः छत्रास्थाने नागरं
पठन्ति । तद्यथा, --
“मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैरिति ।
नागरं कटुकमपि नात्र पित्तजनकं मधुरपाकि-
त्वादिति तेषामभिप्रायः । नागरं नागरमुस्तकं
इति केचित् । क्वचिदेकदेशेन समुदायोऽव-
गम्यते । यथा भीमो भीमसेन इति । तीसटे तु
नागरस्थाने पद्मकम् ॥ * ॥ एतस्य प्रक्रिया ।
चन्दनैरित्यत्र सहार्थे तृतीया । तेन मुस्ता-
दिभिः षड्भिरामैरेव क्षुण्णैः सहितं जलं शृतं
जलमेव केवलं यथर्त्तुपक्वं पश्चात्तच्छीतलीकृतं
दद्यात् । तथा च वङ्गसेनः ।
यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते
कर्षमात्रं ततो द्रव्यं ग्राहयेत् प्रास्थिकेऽम्भसि ॥
अस्यायमर्थः । यत् हेतोः । अप्सु जलेषु ।
शृतशीतासु शृतासु केवलास्वेव यथर्त्तुपक्वासु ।
शीतासु शीतलीकृतासु षडङ्गादि द्रव्यं प्रयु-
ज्यते । आममेव संक्षुद्य जले स्थाप्यते । ततः
प्रक्षेप्यत्वात् कर्षमात्रं द्रव्यं समुदितं षडङ्गादि
पृष्ठ २/५५६
प्रास्थिकेऽम्भसि प्रस्थमात्रे क्वथितशीतले जले
क्षेप्तुं ग्राहयेत् । अतएव षडङ्गमभिधाय षडङ्ग-
पानीयमिति वङ्गसेनादिभिरुक्तम् । अस्मिन्
पक्षे चन्दनं श्वेतं ग्राह्यं न तु रक्तम् । तत्-
कषायलेपयोरेव प्रयोक्तुमुक्तम् । यत आह ।
कषायलेपयोः प्रायो युज्यते रक्तचन्दनमिति ।
षडङ्गपानीयमिदम् ॥ * ॥ षडङ्गादेः पाने तु
विधातव्ये प्रक्रिया भिन्ना तामाह वङ्गसेनः ।
कर्षमात्रमिह द्रव्यं ग्राहयेत् प्रास्थिकेऽम्भसि ।
अर्द्धशृतं प्रयोक्तव्यं पाने पेयादिसम्बिधौ ॥
आदिशब्देन यूषयवागूविलेपिभक्तानिगृह्यन्ते ॥ *
पानप्रक्रियां शार्ङ्गधरोऽप्येतामेवाह ।
क्षुण्णं द्रव्यं पलं साध्यं चतुःषष्टिपले जले ।
अर्द्धशिष्टन्तु तद्देयं पाने पेयादिसम्बिधौ ॥
पानप्रयोगञ्च षडङ्गमुक्तवान् । अस्मिन् पक्षे
चन्दनं रक्तं ग्राह्यम् । कषायलेपयोः प्रायो
युज्यते रक्तचन्दनमिति वचनात् ॥ * ॥
अथ रक्तचन्दनस्य गुणाः ।
तत्तु रक्तं हिमं स्वादु श्छर्द्दितृष्णास्रपित्तजित् ।
तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम् ॥
षडङ्गादि प्रयुज्यते इत्यादि शब्देन वक्ष्यमाणा
योगा उच्यन्ते । ते यथा, --
श्रीपर्णीचन्दनोशीरपरूषकमधुकजम् ।
पानं पित्तज्वरं हन्याच्छारिवाद्यं सशर्करम् ॥
अत्र श्रीपर्णीपरूषकयोः फले ग्राह्ये । मधूकस्य
तु पुष्पम् । अन्यच्च ।
हन्यात् सयष्टीमधुकं तथैवोत्पलपूर्ब्बकम् ।
पानं शृतं हिमं किंवा सोत्पलं शर्करायुतम् ॥
हन्यात् पित्तज्वरमिति शेषः । उत्पलमत्र-
कमलमित्यादि ।
दिवास्वापं न कुर्व्वीत यतोऽसौ स्यात्कफावहः ।
ग्रीष्मवर्जेषु कालेषु दिवास्वापो निषिद्ध्यते ॥
उचितो हि दिवास्वापो नित्यं तेषां शरीरिणाम्
वातादयः प्रकुप्यन्ति येषामस्वपतां दिवा ॥ * ॥
येषां दिवास्वप्न उचितस्तानाह ।
व्यायामप्रमदाध्ववाहनरतान् क्लान्तानती-
सारिणः
शूलश्वासवतस्तृषापरिगतान् हिक्वामरुत्पीडि-
तान् ।
क्षीणान् क्षीणकफान् शिशून् मदहतान् वृद्धा-
न्रसाजीर्णिनो
रात्रौ जागरितान् नरान् निरशनान् कामं
दिवा स्वापयेत् ॥ * ॥
अथ वातिकादिज्वराणां पाकावधिमाह ।
वातिकः सप्तरात्रे तु दशरात्रेण पैत्तिकः ।
श्लैष्मिको द्बादशाहेन ज्वरः पाकमुपैति हि ॥ *
रसस्यामत्वेऽवधिमतिक्रम्यापि ज्वरस्तिष्ठति ।
यत आह सुश्रुतः ।
बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ।
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते ॥
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ।
कषायैः पाचनैर्हृद्यैर्ज्वरव्नैः समुपाचरेत् ॥ * ॥
ज्वरस्य तारुण्यमध्यावस्थता जीर्णतावधिः ।
आसप्तरात्रात्तरुणं ज्वरमाहुर्म्मनीषिणः ।
द्बादशाहमभिव्याप्य मध्यं जीर्णं ततः परम् ॥
आसप्तरात्रादिति । अत्राङ् मर्य्यादायाम् ।
रात्रिशब्दो दिवसस्योपलक्षकः । तेन सप्तम-
दिवसादर्व्वाक् ज्वरस्तरुण इत्यर्थः । तथा चोक्तं
तन्त्रान्तरे ।
ज्वरे व्यतीते षडहे जीर्ण इत्युच्यते बुधैरिति ।
दशरात्रात् परं जीर्णमाहुरन्ये मनीषिणः ।
अतएव जातूकर्णः । जीर्णस्त्रयोदशदिवस इति ॥
अथ ज्वरे भेषजप्रयोगसमयः ।
वातिके सप्तरात्रे तु दशरात्रेण पैत्तिके ।
श्लैष्मिके द्बादशाहेन ज्वरे युञ्जीत भेषजम् ॥
सप्तरात्रे इत्यत्र रात्रिशब्दो दिवसस्योपलक्षकः ।
अतएवोक्तम् ।
पाययेदातुरं साममौषधं सप्तमे दिने ।
शमनेनाथ वा दृष्ट्वा निरामं तमुपाचरेदिति ॥
शार्ङ्गधरेणाप्युक्तम् ।
गुडूचीपिप्पलीमूलनागरैः पाचनं शृतम् ।
वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनीति ॥
हारीतेनाप्युक्तम् ।
एतां क्रियां प्रयुञ्जीत षड्रात्रं सप्तमेऽहनि ।
पिबेत् कषायसंयोगात् पेयां ज्वरविनाशिनीम् ॥
एतां क्रियां लङ्घनादिरूपाम् । कषायसंयोगात्
कषायेण साधितां पेयामित्यर्थः ॥ खरनादेना-
प्युक्तम् ।
इति षड्रात्रिकः प्रोक्तो नवज्वरहरो विधिः ।
ततः परं पाचनीयं शमनीयं ज्वरे हितम् ॥
ततः परं सप्तमेऽहनीत्यर्थः ॥ वाग्भटश्च ।
सप्ताहादौषधं केचिदाहुरन्ये दशाहतः ।
लघन्ने भोजिते केचिद्देयमामोल्वणे न तु ॥
सप्ताहात् सप्ताहमारभ्येत्यर्थः । अत्र ल्यष्-
लोपे कर्म्मणि पञ्चमी । अतएव सुश्रुतः ।
दशरात्रात् परं सर्व्वैर्दातव्यमिति निश्चितम् ।
अतएव दशरात्रेण द्बादशाहेनेति लङ्घनवता
व्यतीतेनेत्यर्थः ॥ अत्र चरकस्त्वेवमाह ।
ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम् ।
पाचनं शमनीयं वा कषायं पाययेत्तु तम् ॥
अस्यायमर्थः । ज्वरितं षडहे लङ्घनेन व्यतीते
सप्तमेऽहनि भोजितलघ्वन्नं अष्टमे दिने कषायं
पाययेदित्यर्थः ॥ तथा च सुश्रुतः ।
सप्तरात्रात् परं केचिन्मन्यन्ते देयमौषधम् ॥
सप्तरात्रात् परं अष्टमेऽहनीत्यर्थः । केचि-
च्चरकादयः । चक्रदत्तोऽपि ।
सप्तरात्रेण पच्यन्ते सप्तधातुगता मलाः ।
निरामस्तु ततः प्रोक्तो ज्वरः प्रायोऽष्टमे दिने ॥
एवं सति कषायदाने सप्तमाष्टमयोर्दिवसयो-
र्व्विकल्पः ॥ * ॥ तत्रापि वयोबलाग्निदोषदेश-
कालोचितं कुर्य्यात् भेषजमन्नञ्च दोषपाकं दृष्ट्वा
दद्यादित्याह सुश्रुतः ।
“पैत्तिके वा ज्वरे देयमल्पकालममुत्थिते ।
अचिरज्वरितस्यापि भैषज्यं दोषपाकतः ॥” इति ।
अस्यायमर्थः । अल्पकालसमुत्थिते पैत्तिके ज्वरे
दोषपाकं दृष्ट्वा भैषज्यं देयम् । न तु तत्र दश-
रात्रापेक्षा । तथा अचिरज्वरितस्यापि पैत्तिके-
तरनवज्वरयुक्तस्यापि दोषपाकं दृष्ट्वा भैषज्यं
देयमित्यर्थः ॥ * ॥ दोषपाकलक्षणमाह सुश्रुतः ।
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।
पक्वं दोषं विजानीयाज्जरे देयं तंदौषधमिति ॥
ज्वरे मृदौ स्वल्पीभूते । मलेषु वातपित्तकफ-
मूत्रपुरीषेषु । प्रचलेषु स्वमार्गसञ्चारिषु । पक्वं
निरामम् । दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्ष-
णम् । दोषाणां दुष्टवातपित्तकफानां प्रकृतिः
ज्वरस्य तदुपद्रवाणां चोत्पादनम् । तस्या
वैकृत्यं वैपरीत्यं तस्मात् दोषपाकज्ञानं एकेषां
मते ।
क्षुत्क्षामता लघुत्वञ्च गात्राणां ज्वरमार्द्दवम् ।
दोषप्रकृतिरुत्साहो निरामज्वरलक्षणम् ॥
दोषप्रकृतिः दोषाणां स्वमार्गसञ्चारः । माधब-
निदाने उत्साहस्थाने अष्टाह इति पाठः ॥ * ॥
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् ।
अत्रानुक्ते प्रभातं स्यात् कषायेषु विशेषतः ॥
मुख्यभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे ।
तोयपेयादिसंस्कारैर्निर्दोषं तत्र भैषजम् ॥
मुख्यभैषजं क्वाथः तस्य सम्बन्धः पानम् ।
यत आह ।
न कषायं प्रशंसन्ति नराणां तरुणे ज्वरे ।
कषायेणाकुलीभूता दोषा जेतुं सुदुस्तराः ॥
आकुलीभूताः प्रवृद्धाः स्वमार्गं परित्यज्य
यतस्ततो गताः । अत्र कषायशब्देन क्वाथो
गृह्यते ॥ * ॥ उक्ताश्च क्वाथस्य पर्य्यायाः ।
शृतं क्वाथः कषायश्च निर्य्यूहः स निगद्यते ।
तोयपेयादिसंस्कारैर्न्निर्द्दोषं तत्र भेषजमिति ॥
तत्र तरुणे ज्वरे भेषजं मुख्यभेषजं क्वाथरूपम् ।
तोयपेयादिसंस्कारैर्न्निर्दोषम् । यत आह ।
न तु कल्पनमुद्दिश्य कषायः प्रतिषिद्ध्यत इति ।
कल्पनं तोयपेयायवाग्वादिकम् ॥ * ॥ ननु ।
स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ ।
ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥
इति वचनात् स्वरसादयोऽपि कथं न निषिध्यन्ते ।
तन्न ।
यः कषायः कषायः स्यात् स वर्ज्यस्तरुणे ज्वरे ।
इति ।
यः कषायः कषायः स्यात् चतुर्थभागावशेष-
करणेन अष्टमभागावशेषकरणेन वा कषाय-
वर्णः कषायरसञ्च स्यात् । स कः क्वाथः । स
तरुणज्वरे निषिद्धः ॥ * ॥ क्वाथवाचकस्य कषा-
यस्य लक्षणमाह ।
पादशिष्टः कषायः स्याद्यः षोडशगुणाम्भसा ।
क्वथितोऽतः षडङ्गादि न निषिद्धो नवज्वरे ॥
अस्यायमर्थः । यः क्वात्थ्यद्रव्यात् षोडशगुणेना-
म्भसा क्वथितः पक्वः अथ च पादशिष्टः चतुर्थ-
भागावशेषः स कषायः स्यात् । अतः षड-
ङ्गादिस्तरुणज्वरे न निषिद्धः । अपाकादर्द्ध-
पृष्ठ २/५५७
पाकाच्चोक्तलक्षणाभावेन कषायत्वाभावात् ॥ * ॥
तरुणज्वरे कषायस्य दोषमाह ।
“दोषा वृद्धाः कषायेण स्तम्भितास्तरुणे ज्वरे ।
स्तम्भ्यन्ते न विपच्यन्ते कुर्व्वन्ति विषमज्वरम् ॥
कषायेण स्तम्भिताः प्रवृत्तये निवारिताः ।
यत आह कषायरसगुणान् ।
कषायः स्तम्भनः शीतो रूक्षः पित्तकफापहः ।
इत्यादि ।
स्तम्भ्यन्ते आध्मानं कुर्व्वन्ति । न विपच्यन्ते
सुखेन न विपच्यन्ते दुःखं दत्त्वा विलम्बेन विप-
च्यन्ते इति यावत् ॥ अन्यच्च ।
“न च्यवन्ते न पच्यन्ते कषायैः स्तम्भिता मलाः ।
तिर्य्यग्विमार्गगा वाते घोरं कुर्य्युर्नवज्वरम् ॥ * ॥
अनुपस्थितदोषाणां वमनं तरुणे ज्वरे ।
हृद्रोगं श्वासमानाहमोहञ्च कुरुते भृशम् ॥”
अस्यायमर्थः । कफादिदोषोपस्थितौ स्वयमेव
चेद्भवति वमनं न तद्दोषाय । अनुपस्थित-
दोषाणान्तु तरुणे ज्वरे वमनं यत्नकृतं हृद्रो-
गादीन् करोतीत्यर्थः । एतेन वचनेन तरुणे
ज्वरे यत्नाद् वमनं निषिद्धम् ॥ * ॥
अवस्थाविशेषे तदपि कर्त्तव्यमित्याह ।
“सद्यो भुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते ।
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥”
वमनं वेति विकल्पो लङ्घनापेक्षया वमनार्हस्ये-
त्यनेन गर्भिण्यतिकृशातिवृद्ध्यादिनिरासः । वाग्-
भटोऽत्र वृद्धवाग्भटः ॥
“वमितं लङ्घयेत् प्राज्ञो लङ्घितं न तु वामयेत् ।
वमनं क्लेशबाहुल्याद्धन्याल्लङ्घनकर्षितम् ।
न कार्य्यं गुर्व्विणीबालवृद्धदुर्ब्बलभीरुभिः ॥”
अनशनमिति शेषः । अनेन वचनेन गुर्व्विण्या-
दीनामनशननिषेधात् ज्वरे सामे पाचनं निरामे
शमनं पथ्यान्नमण्डादिकञ्च दद्यात् ॥ * ॥
पाचनशमनयोर्ल्लक्षणमाह ।
“यत् पचत्याममाहारं पचेदामरसञ्च यत् ।
यदपक्वान् पचेद्दोषांस्तद्धि पाचनमुच्यते ॥
न शोधयति यद्दोषान् समान्नोदीरयत्यपि ।
समीकरोति संवृद्धांस्तत् संशमनमुच्यते ॥”
न शोधयति नोर्द्ध्वाधोमार्गाभ्यां पातयति ।
नोदीरयति न वर्द्धयति ॥ * ॥ तयोः संप्रदानं
कालञ्चाह ।
“पाययेदातुरं सामं पाचनं सप्तमे दिने ।
शमनेनाथवा दृष्ट्वा निरामं तमुपाचरेत् ॥
तस्मादादौ प्रदेयन्तु पाचनं दिवसत्रयम् ।
शमनीयं प्रदेयन्तु पञ्चरात्रं ततः परम् ॥
शोधनं दीपनञ्चैव एकरात्रं प्रदापयेत् ॥”
इत्यत्रिसंहितातः ॥ अन्यच्च ।
“कृशञ्चैवाल्पदोषञ्च शमनीयैरुपाचरेत् ॥”
ननु ।
“लालाप्रसेको हृल्लासो हृदयाशुद्ध्यरोचकौ ।
तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता ॥
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः ।
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् ॥
भेषजं ह्यामदोषस्य भूयो जनयति ज्वरम् ॥”
भूयो बाहुल्येन । अन्यच्च ।
“पाययेद्दोषहरणं मोहादामज्वरे तु यः ।
स सुप्तं कृष्णसर्पन्तु कराग्रेण परामृशेत् ॥”
इति वचनादामज्वरे भेषजनिषेधात् कथं सामे
ज्वरे पाचनं देयम् । उच्यते निरुपद्रवे सामे
ज्वरे पाचनं देयम् । सोपद्रवे तु सामे भेषजं
निषिद्धम् । तथा च वाग्भटः ।
“सप्ताहात् परतोऽदुष्टे सामे स्यात् पाचनं ज्वरे ।
निरामे शमनं स्तब्धे सामे नौषधमाचरेत् ॥”
अदुष्टे निरुपद्रवे । स्तब्धे सोपद्रवे ॥ * ॥ अथ
सामान्यज्वरे पाचनं कषायमाह सुश्रुतः ।
“नागरं देवकाष्ठञ्च ध्यामकं बृहतीद्बयम् ।
दद्यात् पाचनकं पूर्ब्बं ज्वरितेम्यो ज्वरापहम् ॥
ध्यामकं रौहिषम् । तदलाभादुशीरं दद्यात् ।
बृहतीद्बयं बृहत्फला सूक्ष्मफला बृहती । क्षुद्रा
बृहती चेति । कण्टकारीद्बयं वा दद्यात् ॥
कण्टकारीद्बयं शुण्ठी ध्यामकं सुरदारु चेति
शार्ङ्गधरेण उक्तत्वात् । नागरादिक्वाथः सर्व्व-
ज्वरेषु ॥ * ॥ अथ सामान्यतः संशमनीयान्याह
सुश्रुतः ।
“अथ संशमनीयानि कषायाणि निबोध मे ।
सर्व्वज्वरेषु देयानि यानि वैद्येन जानता ॥
वृश्चीरविल्ववर्षाभूपयः सोदकमेव च ।
पचेत् क्षीरावशेषं तत् पेयं सर्व्वज्वरापहम् ॥
वृश्चीरः श्वेतपुनर्नवा । वर्षाभू रक्तपुनर्नवा ।
तथाच मदनपालः ।
“पुनर्नवः श्वेतमूलो वृश्चीरो दीर्घपत्रकः ।
पुनर्नवा परा रक्ता वर्षाभू रक्तपुष्पकः ॥”
पाकप्रकारमाह ।
“क्षीरमष्टगुणं द्रव्यात् क्षीरान्नीरं चतुर्गुणम् ।
क्षीरावशेषं पातव्यं क्षीरपाके ह्ययं विधिः ॥”
द्रव्यात् पलपरिमितात् ॥ अन्यच्च ।
“उदकाद्द्विगुणं क्षीरं शिंशपासारमेव च ।
तत् क्षीरशेषं क्वथितं पेयं सर्व्वज्वरापहम् ॥
गुडूचीधान्यकारिष्टं पद्मकं रक्तचन्दनम् ।
एषां क्वाथः सुप्रसिद्धः सर्व्वज्वरहरः स्मृतः ॥
दीपनो दाहहृल्लासतृष्णाच्छर्द्द्यरुचीर्हरेत् ॥”
गुडूच्यादिक्वाथः ॥ * ॥ संशोधनं तरुणज्वरिणो
निषिद्धं तदाह सुश्रुतः ।
“छर्द्दिं मूर्च्छां मन्दमोहं भ्रमतृड्विषमज्वरान् ।
संशोधनस्य पानेन प्राप्नोति तरुणज्वरी ॥”
संशोधनस्य लक्षणमाह ।
“स्थानाद्बहिर्नयेदूर्द्ध्वमधो वा दोषसञ्चयम् ।
संशोधनं तदेव स्याद्देवदालीफलं यथा ॥”
निषिद्धमपि संशोधनमवस्थाविशेषे देयं यत
आह ।
“रोगे शोधनसाध्ये तु यं विद्याद्दोषदुर्ब्बलम् ।
तं समीक्ष्य भिषक् कुर्य्याद्दोषप्रच्यावनं मृदु ॥”
शोधनसाध्यान् रोगानाह ।
“सद्योज्वरे विषेऽजीर्णे मन्दाग्नावरुचौ तथा ।
स्तन्यरोगे च हृद्रोगे कासे श्वासे च वामयेत् ॥
जीर्णज्वरगरच्छर्द्दिगुल्मप्लीहोदरेषु च ।
शूले शोथे मूत्रघाते कृमिरोगे विरेचयेत् ॥”
दोषदुर्ब्बलं दोषैरुपचितैर्द्दुर्ब्बलं न तु उप-
वासादिकृशम् । अतएव समीक्ष्येति । अन्यच्च ॥
“चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् ।
अव्यापत् दुर्ब्बलस्यापि शोधनं हि तदा भवेत् ॥”
कुतो बलं नापेक्षणीयमित्याशङ्कायामाह ।
तदा तस्यामवस्थायां शोधनं दुर्ब्बलस्यापि दोष-
दुर्ब्बलस्यापि अव्यापत् भवेत् । छर्द्द्यादिव्याधि-
कृत् न भवतीत्यर्थः ॥ * ॥ बलवतः पुरुषस्य
पक्वस्य दोषस्य स्वस्थानस्थितस्य शोधनाविधाने
दोषमाह सुश्रुतः ।
“पक्वोऽप्यनिर्हृतो दोषो देहे तिष्ठन्महात्ययम् ।
विषमं वा ज्वरं कुर्य्याद्बलव्यापादमेव च ॥”
पक्वः लङ्घनतिक्ताम्बुपानपेयादिभिः । अनि-
र्हृतः अधोमार्गेणानुत्सृष्टः । महात्ययं विषम-
ज्वरं चातुर्थकम् । तस्यैव महात्ययत्वादिति
गदाधरः ॥ गम्भीरमिति कार्त्तिकः ॥ महा-
त्ययं महाकष्टं वा । बलव्यापादं बलक्षयम् ॥ * ॥
संशीधनमाह ।
“आरग्वधग्रन्थिकमुस्ततिक्ता-
हरीतकीभिः क्वथितः कषायः ।
सामे सशूले कफवातपित्त-
ज्वरे हितो रेचनपाचनश्च ॥”
आरग्वध धनवहेरा ॥ अन्यच्च ।
“पथ्यारग्वधतिक्तात्रिवृदामलकैः शृतं तोयम् ।
पाचनसारकमुक्तं मुनिभिर्ज्जीर्णज्वरे सामे ॥”
इति आरोग्यपञ्चकद्बयम् ॥ * ॥
“अनन्तां बालकं मुस्तं नागरं कटुरोहिणीम् ।
पिष्ट्वा मुखाम्बुना कल्कं पाययेदक्षसम्मितम् ॥
कल्कः स्वल्पेन कालेन हन्यात् सर्व्वज्वरानयम् ।
विदध्यात् कोष्ठसंशुद्धिं दीपयेच्च हुताशनम् ॥”
अनन्ता सारिवा । इति सारिवादिकल्कः ॥ * ॥
संशोधनं संशमनञ्च येषां निषिद्धं तानाह ।
“पीताम्बुर्ल्लङ्घनक्षीणो जीर्णी भुक्तः पिपासितः ।
न पिबेदौषधं यत्तु संशोधनमथेतरत् ॥”
पीताम्बुः पीततिक्ताम्बुः । भुक्तः भुक्तवानित्यर्थः ।
अत्राध्यवसितादित्वात् कर्त्तरि क्तप्रत्ययः । इतरत्
संशमनम् ॥ * ॥
“त्रिफला रजनीयुग्मं कण्टकारीयुतं शटी ।
त्रिकटु ग्रन्थिकं मूर्व्वा गुडूची धन्वयासकः ॥
कटुका पर्पटो मुस्तं त्रायमाणा च बालुकम् ।
निम्बं पुष्करमूलञ्च मधुयष्टी च वत्सकः ॥
यवानीन्द्रयवो भार्गी शिग्रुबीजं सुराष्ट्रजा ॥
वचा त्वक् पद्मकोशीरचन्दनातिविषा बला ॥
शालीपर्णी पृश्निपर्णी विडङ्गं तगरं तथा ।
चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् ॥
जीवकर्षभकौ चैव लवङ्गं वंशलोचनम् ।
पुण्डरीकञ्च काकोली पत्रकं जातिपत्रकम् ॥
तालीशपत्रमेतानि समभागानि चूर्णयेत् ।
अर्द्धांशं सर्व्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः ॥
एतत् सुदर्शनं नाम चूर्णं दोषत्रयापहम् ।
पृष्ठ २/५५८
ज्वरांश्च निखिलान् हन्यान्नात्र कार्य्या विचारणा ॥
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान् विषमांस्तथा ।
सन्निपातीद्भवांश्चापि मानसानपि नाशयेत् ॥
शीतादीनपि दाहादीन् मोहं तन्द्रां भ्रमं तृषाम् ।
कासं श्वासञ्च पाण्डुञ्च हृद्रोगं कामलामपि ॥
त्रिकपृष्ठकटीजानुपार्श्वशूलञ्च नाशयेत् ।
शीताम्बुना पिबेदेतत् सर्व्वज्वरनिवृत्तये ॥
सुदर्शनं यथा चक्रं दानवानां विनाशनम् ।
तद्वज्ज्वराणां सर्व्वेषां चूर्णमेतत् प्रणाशनम् ॥”
पुष्करमूलाभावे कुष्ठमपि दद्यात् । भार्ग्यभावे
कण्टकारीमूलम् । सौराष्ट्राभावे स्फुटिकां
दद्यात् । तगरालाभे कुष्ठं देयम् । जीवकर्षभ-
कयोरलाभे विदारीकन्दस्य भागद्बयं दद्यात् ।
पुण्डरीकं श्वेतकमलम् । काकोल्यभावे अश्व-
गन्धामूलं दद्यात् । तालीशपत्रकाभावे स्वर्ण-
ताली प्रदीयते । इति । अथवा कण्टकारीजटा
देया । इति सुदर्शनचूर्णम् । * ।
“शटी निशाद्वयं शुण्ठी दारु पुष्करमूलकम् ।
एला गुडूची कटुका पर्पटश्च सवासकः ॥
भार्गी किराततिक्तञ्च दशमूलं तथैव च ।
क्वाथमेषां पिबेत् कृष्णसिन्धुचूर्णयुतं नरः ॥
ज्वरान् सर्व्वान् द्रुतं हन्ति नात्र कार्य्या
विचारणा ॥”
अनुभूतमत्युत्तममेतत् ॥ *
“हरीतकीत्रिवृद्वृद्धदारकाणां पृथग्भवेत् ।
पलद्वयं कणा शुण्ठी मुडूची गोक्षुरो वरी ॥
सहदेवी विडङ्गञ्च प्रत्येकं पलसम्मितम् ।
मधुना वटिकां कृत्वा स्वादेत् ज्वरमपोहति ॥
कासं श्वासं मलस्तम्भं वह्निमान्द्यं नियच्छति ॥
लाक्षा दशाक्षा अरुणा षडक्षा
सचन्दनं लोहितचन्दनञ्च ।
त्वक्पत्रकं वारि मुरा समुस्ता
प्रत्येकमेतानि पलोन्मितानि ॥
किराततिक्तस्तिवृतासतिक्ता-
मृताकणापर्पटकण्टकार्य्यः ।
विडङ्गविश्वामलकानि वासा-
रसानिशावारुणसिन्धुवाराः ॥
एतानि देयानि पृथक् पलार्द्ध-
मानानि सर्व्वाणि च भेषजानि ।
कल्कानमीषां विदधीत गव्य-
दुग्धेन वै सार्द्धतुलामितेन ॥
तैलं तिलानान्तु तुलानुमानं
तेनैव कल्केन शनैः पचेत्तु ।
हन्यात् ज्वरान् तैलमिदं समस्तान्
कुर्य्याद्बलं वीर्य्यमतीवपुष्टिम् ॥
विमर्द्दनादाशु परिभ्रमं श्रमं
शमं नयेत् संजनयेत् द्युतिं तनोः ।
तथा व्यथामस्थिसमुद्भवामपि
प्रहत्य निद्रां समुपार्ज्जयेत् सुखम् ॥”
अरुणा मञ्जिष्ठा । वारि वाला । रसा रास्ना ।
इति लाक्षादितैलम् ॥ * ॥
“लाक्षारससमं तैलं तैलान्मस्तु चतुर्गुणम् ।
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः ॥
समूर्व्वारोहिणीरास्नाशताह्वामधुकैः समैः ।
सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिना ॥
सर्व्वज्वरक्षयोन्मादश्वासापस्मारवातनुत् ।
यक्षराक्षसभूतघ्नं गर्भिणीनाञ्च शस्यते ॥”
मस्तु दधिजलम् । कौन्ती रेणुका । चन्दन-
मत्र श्वेतमेव न तु रक्तम् । रोहिणी कटुकी ।
इति च लाक्षादितैलम् ॥ * ॥
“लाक्षा हरिद्रा मञ्जिष्ठा फेनिलं मधुकं बला ।
लामज्जकं चन्दनञ्च चम्पकं नीलमुत्पलम् ॥
प्रत्येकमेषां षण्मुष्टीः पक्त्वा तोये चतुर्गुणे ।
चतुर्भागावशेषे तु गर्भे चैतत् समापयेत् ॥
रेणुका पद्मकञ्चैव वाजिगन्धा तथैव च ।
वेतसं चोरकं कुष्ठं देवदारु नखं त्वचम् ॥
शतपुष्पा पुण्डरीकं मांसी मधुकमेव च ।
एभिरक्षमितैः कल्कैः कषायेणैव पेषितैः ॥
मस्तुशुक्तारनालानामाढकाढकमावपेत् ।
क्षीराढकसमायुक्तं तैलप्रस्थं विपाचयेत् ॥
अभ्यङ्गात्तैलमेतद्धि शीघ्रं दाहमपोहति ।
व्यपोहति तथा वातं पित्तं श्लेष्मभवं ज्वरम् ॥
सप्रलापं सतृष्णञ्च तालुशोषभ्रमान्वितम् ।
ग्रहोपसृष्टा ये बाला रक्षःसंदूषिताश्च ये ॥
तेषां कष्टं प्रशमयेत्तैलं लाक्षादिकं महत् ॥”
फेनिलं वदरम् । लामज्जकमुशीरवत् पीतच्छवि-
तृणविशेषः ।
लामज्जंकं यदा न स्यादुशीरं दीयते तदा ।
चम्पकमित्यस्य स्थाने कुत्रापि गैरिकं इति पाठः ।
नीलोत्पलस्यालाभे तु कुमुदं देयमिष्यते ।
समापयेत् प्रक्षिपेदित्यर्थः । चोरकं ग्रन्थि-
पर्णस्य भेदः भण्टिउर इति नैपालदेशे भवति ।
तदलाभे ग्रन्थिपर्णं देयम् । पुण्डरीकं श्वेतकम-
लम् । मस्तु दधिजलम् । शुक्तं सन्धानभेदः ।
आरनालमपि सन्धानभेदः । इति महालाक्षादि-
तैलम् ॥ * ॥ अथ नवज्वरे रसाः ।
“सूतो गन्धष्टङ्कणः शोषणश्च
सर्व्वैस्तुल्या शर्करा मत्स्यपित्तैः ।
भूयो भूयो मर्द्दयेत्तं त्रिरात्रं
वल्लो देयः शृङ्गवेरद्रवेण ॥
तापे शीतं वीजनैस्तक्रभक्तं
वृन्ताकाद्यं पथ्यमेतत् प्रदिष्टम् ।
अद्रौ चोग्रं हन्ति सद्यो ज्वरन्तु
पित्ताधिक्ये मूर्द्ध्नि तोयञ्च दद्यात् ॥”
अस्य प्रक्रिया । पाराशुद्ध भाग १ गन्धकशुद्ध
भाग १ सोहागाभृष्ट भाग १ मरिच भाग १
शर्करा भाग ४ रोहुमत्स्यकपित्त भाग ३ ।
अमुं प्रतिदिनं सर्व्वं दिनत्रयं मर्दयेत् । रस-
मिमं रक्तित्रयमितमार्द्रकरसेन दद्यात् । ओदनं
तकं वृन्ताकफलं भोक्तुं दद्यात् । व्यजनाद्यैः
शीतलमुपचारं कुर्य्यात् । उदकमञ्जरीरसो नव-
ज्वरेषु ॥ * ॥ रसरत्नप्रदीपे ।
“अद्यात् समं सूतसमुद्रफेन
हिङ्गूलगन्धं परिमृद्य यामम् ।
नवज्वरे वल्लयुगं त्रिघस्र-
मार्द्राम्भसायं ज्वरधूमकेतुः ॥”
प्रक्रिया । पाराशुद्धगन्धकशुद्धहिङ्गुलशुद्धसमुद्र-
फेनसभागं सर्व्वं याममेकमार्द्रकरसेन संमर्द्द्य
रक्तिकाषट्कमितमार्द्रकरसेन दिनत्रयं नवज्वरी
भक्षयेत् । दिनत्रयान्नवज्वरो नश्येत् । इति
ज्वरधूमकेतुः ॥ * ॥ रसेन्द्रचिन्तामणौ ।
“शुद्धः सूतो विषो गन्धः प्रत्येकं शाणसंमितः ।
धूर्त्तबीजं त्रिशाणं स्यात् सर्व्वेभ्यो द्बिगुणा
भवेत् ॥
हेमाह्वा कारयेदेषां चूर्णं सूक्ष्मं प्रयत्नतः ।
जम्बीरजीरकैर्द्देयश्चूर्णं गुञ्जाद्बयोन्मितम् ॥
आर्द्रकस्य रसेनापि ज्वरं हन्ति त्रिदोषजम् ।
ऐकाहिकं द्ब्याहिकञ्च त्र्याहिकञ्च चतुर्थकम् ॥
विषमञ्च ज्वरं हन्यान्नवं जीर्णञ्च सर्व्वथा ।
महाज्वराङ्कुशो नाम्ना रसोऽयं सर्व्वसंमतः ॥”
प्रक्रिया । शुद्धपारा शुद्धगन्धक शुद्धविष प्रत्येकं
टङ्क १ धत्तूरबीज टङ्क ३ चोकटङ्क १२ सर्व्वेषां
चूर्णमतिसूक्ष्मं कर्त्तव्यम् । इति महाज्वरा-
ङ्कुशः ॥ * ॥ सर्व्वज्वरेषु शार्ङ्गधरे ।
“एको भागो रसात् शुद्धाच्छैलेयः पिप्पली शिवा ।
आकारकरभो गन्धः कटुतैलेन शोधितः ॥
फलानि चेन्द्रवारुण्याश्चतुर्भागमिता अमी ।
एकत्र मर्द्दयेच्चूर्णमिन्द्रवारुणिकारसैः ॥
माषोन्मितां वर्टां कृत्वा दद्यात् सद्योज्वरे बुधः ।
छिन्नारसानुपानेन ज्वरघ्नी वटिका मता ॥”
शैलेयः छड इति लोके । शिवात्र हरीतकी ।
आकारकरभः अकरकरहा इति लोके । चतु-
र्भागमिता अमी शैलेयादयः षट् समुदिता
भागचतुष्टयमिताः । इति ज्वरघ्नीवटिका ॥ * ॥
शार्ङ्गधरे ।
“रसं गन्धञ्च दरदं जैपालं क्रमवर्द्धितम् ।
दन्तीरसेन संपिष्य वटी गुञ्जामिता कृता ॥
प्रभाते सितया सार्द्धमसिता शीतवारिणा ।
एकेन दिवसेनैषा नवज्वरहरी भवेत् ॥”
इति च ज्वरघ्नीवटिका ॥ * ॥ रसरत्नप्रदीपे ।
“रसो गन्धो विषं शुण्ठी पिप्पली मरिचानि च ।
पथ्या विभीतकं धात्री दन्तीबीजञ्च शोधितम् ॥
चूर्णमेषां समांशानां द्रोणपुष्पीरसैः पुटेत् ।
वटीं माषनिभां कुर्य्यात् भक्षयेन्नूतने ज्वरे ॥”
इति नवज्वरीहरीवटी । इति नवज्वरे रसाः ॥ * ॥
अथ सामान्यज्वरे रसाः ।
“शुद्धं सूतं विषं गन्धं धूर्त्तबीजं त्रिभिः समम् ।
चतुर्णां द्बिगुणं व्योषं चूर्णं गुञ्जाद्बयोन्मितम् ॥
आर्द्रकस्य रसैः किंवा जम्बीरस्य रसैर्युतम् ।
महाज्वराङ्कुशो नाम्ना सर्व्वज्वरविनाशनः ॥
ऐकाहिकं द्ब्याहिकञ्च त्र्याहिकञ्च चतुर्थकम् ।
विषमं वा त्रिदोषंवा ज्वरं हन्ति न संशयः ॥”
प्रक्रिया । शुद्धपाराटङ्क १ शुद्धविषटङ्क १ शुद्ध-
गन्धकटङ्क १ धत्तूरबीजटङ्क ३ शोटिटङ्क ४
पीपरीटङ्क ४ मरिचटङ्क ४ सर्व्वेषां चूर्णमति-
सूक्ष्मं कर्त्तव्यम् । इति महाज्वराङ्कुशः ॥ * ॥
पृष्ठ २/५५९
सर्व्वज्वरेषु सर्व्वरसग्रन्थेषु ।
“सूतं गन्धं विषञ्चैव टङ्कणञ्च मनःशिला ।
एतानि टङ्कमात्राणि मरिचं त्वष्टटङ्ककम् ॥
कटुत्रयं टङ्कषट्कं खल्ले क्षिप्त्वा विचूर्णयेत् ।
रसः श्वासकुठारोऽयं श्वाससर्व्वज्वरापहः ॥”
इति श्वासकुठारो रसः ॥ * ॥
श्वासे सर्व्वज्वरे रसरत्नाकरे ।
“दारुमूषां शिखिग्रीवां रसकञ्च पृथक् पृथक् ।
टङ्कत्रयानुमानेन गृहीत्वा कनकद्रवैः ॥
मर्द्दयेत्त्रिदिनं कार्य्या वटी चणकमात्रया ।
मरिचैरेकविंशत्या सप्तभिस्तुलसीदलैः ॥
खादेद्बटीद्बयं पथ्यं दुग्धभक्तं सशर्करम् ।
तरुणं विषमं जीर्णं हन्यात् सर्व्वज्वरं ध्रुवम् ॥”
दारुमूषा दारुमूषी । शिखिग्रीवा तुतिया ।
रसकं खपरिया । प्रत्येकं टङ्क ३ धत्तूरपत्र-
स्वरसेन मर्द्दयेत् । इति ज्वराङ्कुशः ॥ * ॥
सर्व्वज्वरेषु ।
“नागरं कर्षमात्रं स्यात् कर्षमात्रञ्च टङ्कणम् ।
मरिचं सार्द्धकर्षं स्यात् तावद्दग्धवराटकम् ॥
विषं कर्षचतुर्थांशं सर्व्वमेकत्र चूर्णयेत् ।
रसो हुताशनो नाम्ना खाद्यो गुञ्जामितो ज्वरे ॥”
इति हुताशनो रसो ज्वरे ॥ * ॥
“शुद्धजैपालटङ्कन्तु कट्वीटङ्कद्बयोन्मितम् ।
गैरिकं टङ्कमेकञ्च कन्यानीरेण मर्द्दयेत् ॥
कलायसदृशी कार्य्या वटिका ताञ्च भक्षयेत् ।
शीतलेन जलेनैषा वटी जीर्णज्वरापहा ॥”
इति ज्वरघ्नीवटी ॥
“द्बिभागतालेन हतञ्च ताम्रं
रसञ्च गन्धञ्च समीनमायुः ।
विषं समञ्च द्बिगुणञ्च ताम्रं
त्रिसप्तरात्रेण दिवाकरांशैः ॥
विमर्द्द्यरिष्टस्वरसेन चूर्णं
गुञ्जैकदत्तं सितया समेतम् ।
ज्वराङ्गुशोऽयं रविसुन्दराख्यो
ज्वरान्निहन्त्यष्टविधान् समस्तान् ॥”
अस्य प्रक्रिया । पाराटङ्क १ गन्धकटङ्क १ विष-
टङ्क १ द्बिगुणतालकहतताम्रटङ्क २ रोहुमत्स्यक-
पित्त १ सव एकत्र खले जवचूर्ण होइ मिले
तव नीविके पातकी स्वरसकभावना २१ घामे
मह देवै मात्रा रत्ती एक अनुपान श्वेत-
शंर्करा रती २ खाइ । इति सर्व्वज्वरे रवि-
सुन्दरो रसः ॥ * ॥
“शुद्धं सूतं तथा गन्धं खल्ले तावद्बिमर्द्दयेत् ।
सूतं न दृश्यते यावत् किन्तु कज्जलवद्भवेत् ॥
एषा कज्जलिका ख्याता वृं हणी वीर्य्यवर्द्धिनी ।
नानानुपानयोगेन सर्व्वव्याधिविनाशिनी ॥” * ॥
कज्जलिकाविधानं तद्गुणश्च रसरत्नप्रदीपे ।
“जयापत्ररसेनाथ वर्द्धमानरसेन च ।
भृङ्गराजरसेनापि काकमाच्या रसेन च ॥
रसं संशोध्य यत्नेन तत्समं शोययेद्बलिम् ।
भृङ्गराजरसैः पिष्ट्वा शोषयेदर्करश्मिभिः ॥
सप्तधा वा त्रिधा वापि पश्चाच्चूर्णन्तु कारयेत् ।
चूर्णयित्वा समं तेन रसेन सह मर्द्दयेत् ॥
नष्टसूतं यदा चूर्णं भवेत् कज्जलसन्निभम् ।
निर्धूमे वरदाङ्गारे द्रवीकुर्य्यात् प्रयत्नतः ॥
तत्र तं महिषीविष्ठास्थापिते कदलीतले ।
निःक्षिप्य तदुपर्य्यन्यत् पत्रं दत्त्वा प्रपीडयेत् ॥
शीतलान्तात् ततः पत्रात् समुद्धृत्य विचूर्णयेत् ।
एवं सिद्धा भवेद्ब्याधिघातिनी रसपर्पटी ॥
ज्वरादिव्याधिभिर्व्याप्तं विश्वं दृष्ट्वा पुरा हरः ।
चकार कृपया युक्तः सुधावद्रसपर्पटीम् ॥
रक्तिकासंमितां तावद्भृष्टजीरकसंयुताम् ।
गुञ्जार्द्धभृष्टहिङ्ग्वाढ्यां भक्षयेद्रसपर्पटीम् ॥
रोगानुरूपभैषज्यैरपि तां भक्षयेद्बुधः ।
पिबेत्तदनुपानीयं शीतलं चुलुकत्रयम् ॥
प्रत्यहं वर्द्ध्वयेत्तस्या एकैकां रक्तिकां भिषक् ।
नाधिकां दशगुञ्जातो भक्षयेत्तां कदाचन ॥
एकादशदिनारम्भात् तां तथैवापकर्षयेत् ।
एवमेताः समश्नीयान्नरो विंशतिवासरान् ॥
शिवं गुरुं तथा विप्रान् पूजयित्वा प्रणम्य च ।
श्रद्धया भक्षयेदेतां क्षीरमांसरसाशनः ॥
ज्वरञ्च ग्रहणीञ्चापि तथातीसारमेव च ।
कामलां पाण्डुरोगञ्च शूलप्लीहजलोदरम् ॥
एवमादीन् गदान् हत्वा हृष्टः पुष्टश्च वीर्य्यवान् ।
जीवेद्बर्षशतं साग्रं वलीपलितवर्ज्जितः ॥”
इति रसपर्पटी ॥ * ॥
अथ ज्वरिणे अन्नदानसमयः । तत्र चरकः ।
“क्षुत् सम्भवति पक्वेषु रसदोषमलेषु च ।
काले वा यदि वाकाले सोऽन्नकाल उदाहृतः ॥”
अन्यच्च ।
“आमे पाकं गते नॄणां यदा भोजनलालसा ।
भवेत् काले ह्यकाले वा सोऽन्नकाल उदाहृतः ॥”
तत्र कालमाह । ज्वरस्य पाकावस्थान्नदानकालः
ज्वरस्य पाककालश्च ।
“वातिकः सप्तरात्रेण दशरात्रेण पैत्तिकः ।
श्लैष्मिको द्बादशाहेन ज्वरः पाकमुपैति हि ॥”
ज्वरस्य पाक उपशमः ॥ ज्वरपाकेनैव रसपाके
दोषपाकोऽपि कथितः । यतो दोषपाकं विना
ज्वरपाको न भवति रसपाकं विना दोषपाकश्च
न भवति ॥ * ॥ ननु यथा पैत्तिको ज्वरो दशाहो-
रात्रेण पाकं याति । एकादशे दिनेऽन्नं दीयते ।
तथा श्लैष्मिको ज्वरो द्बादशाहोरात्रेण पाकं
याति त्रयोदशदिवसेऽन्नं दीयते । तथा वातिको
ज्वर सप्ताहोरात्रेण पाकं याति । अष्टमे
दिवसेऽन्नं कथं न दीयते । कथं सप्तम एव
दिवसेऽन्नं दीयते । इति । उच्यते ।
“कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ।
आमक्षयादूर्द्धमपि वायुर्न सहते क्षणम् ॥”
इति वचनादामरसपाके जाते आहारलाभं
विना वायुः क्षणमात्रमपि सोढुं न शक्नोति ।
स आशुकारित्वाम् क्षणादाक्षेपकादीन् विका-
रान् संजनयति ॥ अतो वातिके ज्वरे पाक-
दिनानामन्तिमे सप्तम एव दिनेऽन्नं दीयते ।
तथा च धन्वन्तरिः ।
“ज्वराभिभूतः षडहे व्यतीते
विपक्वदोषः कृतलङ्घनादिः ।
यो भेषजं खादति वैद्यवश्यो
निःसंशयं हन्त्यचिरात् स रोगान् ॥”
ज्वराभिभूतः वातज्वराभिभूतः । विपक्वदोषः
पक्ववातः । कृतलङ्घनादिः आदिशब्दात् कृत-
पक्वजलपाननिर्व्वातगृहवासगुरूष्णवसनधार-
णादिः । भेषजमित्यन्नस्याप्युपलक्षणम् । अतएव
चरकः ।
“ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम् ।
पाचनं शमनीयंवा कषायं पाययेत्तु तमिति ॥”
ज्वरितं वातज्वरिणम् ॥ षडहेऽतीते इत्युपलक्ष-
णम् ॥ पित्तज्वरिणं दशाहेऽतीते ॥ श्लेष्मज्वरिणं
द्बादशाहेऽतीते ॥ लघ्वन्नं भोजितं ज्वरिणं पाचनं
शमनीयंवा कषायं पाययेत् । पुनः स एव ।
“सर्व्वज्वरेषु ज्वरितं दिनान्ते भोजयेल्लघु ॥”
दिनान्तेऽन्तशब्दोऽत्र मध्यवाची तेन त्रिधा
विभक्तस्य दिवसस्य मध्यभागे पित्तप्राधान्यसमये ॥
उक्तञ्च वाग्भटेन ।
“वयोऽहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमा-
दिति ।”
ते वातपित्तश्लेष्माणः ॥ पित्तकालेऽपि मध्याह्ना-
दर्व्वाक् । यत आह ।
“याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् ।
याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ॥” इति ॥
एतत् सुस्थपरमिति चेत्तन्न । यत आह ।
“श्लेष्मक्षये प्रवृद्धोष्मा बलवाननलस्तदा ।
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्ध्वनम् ॥”
तदा पित्तप्राधान्यसमये । अन्यथा उक्तसम-
यादन्यदा । वेगापाये जठराग्निवेगनाशे । तत्
भोजनं ज्वरवेगाभिवर्द्धनं भवतीत्यर्थः ॥ * ॥
अत्र विषमज्वरिणेऽन्नं दातुं कालविशेषमाह
चरकः ।
“सर्व्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत् ।
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्द्धनम् ॥”
सर्व्वज्वरेषु सर्व्वविषमज्वरेषु । वेगापाये ज्वर-
वेगापाये भोजयेत् । अन्यथा ज्वरवेगापायं
विना । तत् भोजनं ज्वरवेगाभिवर्द्धनं भवती-
त्यर्थः ॥ * ॥ अथान्नग्रहणाय स्थानमाह ।
“आहारनिर्हारविहारयोगाः
सदैव सद्भिर्विजने विधेयाः ॥” इति ॥ * ॥
अत्यबलस्य ज्वरितस्य भोजनार्थोपवेशनप्रकार-
माह सुश्रुतः ।
“ज्वरे प्रमेहो भवति स्वल्पैरपि विचेष्टितैः ।
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ॥”
निषण्णं यथास्थानस्थितमेव न तु स्थानान्तरं
नीतम् ॥ * ॥ अन्नग्रहणसमये प्रथमं ज्वरितेन
कवलः कर्त्तव्य इत्याह ।
“यथा दोषोचितैर्द्रव्यैः कर्त्तव्यः कवलग्रहः ।
अरोचकास्यवैरस्यमलपूतिप्रसेकहृत् ॥
भृष्टजीरकचूर्णेन सिन्धुजन्मयुतेन च ।
जिह्वां दन्तान् मुखस्यान्तर्घृष्ट्वा कवलमाचरेत् ॥
पृष्ठ २/५६०
मुखे मलं विगन्धत्वं विरसत्वञ्च नश्यति ।
मनः प्रसन्नं भवति भोजनेऽतिरुचिर्भवेत् ॥
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ।
अन्नकाले ह्यभुञ्जानः क्षीयते भ्रियतेऽपि च ॥”
अयमर्थः । यद्यपि अस्य ज्वरितस्य हिते भक्ष्ये
अरुचिर्भवेत् तथापि ज्वरितो हितमेवाश्नीया-
दिति नियमः । यत आह सुश्रुतः ।
“गुर्व्वभिष्यन्द्यकालञ्च ज्वरी नाद्यात् कथञ्चन ।
न तु तस्याहितं भुक्तमायुषे चासुखाय च ॥
आनद्धस्तिमितैर्द्दोषैर्यावन्तं कालमातुरः ।
तावत्कालं स लघ्वन्नमश्नीयात् सविरिक्तवत् ॥”
आनद्धस्तिमितैर्द्दोषैः अपक्वैर्दोषैर्व्याप्त इत्यर्थः ॥
ननु हिते वस्तुनि कथमरुचिः स्यादत आह ।
सातत्यात् स्वाद्बभावाच्च पथ्यं द्बेष्यत्वमागतमिति ।
सातत्यात् एकस्यैव भक्षस्य सर्व्वदोपयोगात् ।
स्वाद्वभावाच्च भक्ष्यान्तरादपि विस्वादुतः । पथ्य-
मप्रियं स्यात् तथापि तदेव पथ्यम् । कल्पना-
विधिइभिस्तैस्तैः प्रियत्वं गमयेत् पुनरिति ॥
अथ च ज्वरितोऽन्नकालेऽश्नीयादेवेति द्बितीयो
नियमः । कुत इति चेत् हि यतो हेतो अभुञ्जानः
क्षीयतेऽपक्वधातुर्भवति ततो भ्रियतेऽपि च ॥ * ॥
ज्वरिताय हितान्यन्नादीन्याह ।
“रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह ।
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः ॥”
तत्र रक्तशालिगुणाः ।
“रक्तशालिर्व्वरस्तेषां बल्यो वर्ण्यस्त्रिदोषजित् ।
चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृड्ज्वरापहः ॥
विषव्रणश्वासकासदाहनुद्बह्निपुष्टिदः ।
तस्मादल्पान्तरगुणाः शालयो महदादयः ॥”
रक्तशालिर्यो मगधदेशे दाउदखानी इति प्रसिद्धः ॥
“मुद्गान् मसूरांश्चणकान् कुलत्थान् समकुष्ट-
कान् ।
यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत् ॥”
तत्र मुद्गादिगुणास्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥
“पटोलपत्रं वार्त्ताकुं कुलकं कारवेल्लकम् ।
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् ॥
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ॥”
तत्र पटोलादिगुणास्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥
“लावान् कपिञ्जलानेणान् हरिणान् पृषतान्
शशान् ।
कुरङ्गान् कालपुच्छांश्च तथैव मृगमातृकान् ॥
मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत् ।
सारसक्रौञ्चशिखिनस्तथा तित्तिरकुक्कुटान् ॥
गुरूष्णत्वान्न शंसन्ति केचिदेवं व्यवस्थिताः ॥”
तित्तिरिरत्र कृष्णतित्तिरिः । गौरतित्तिरेः
कपिञ्चलपदेन पूर्ब्बं गृहीतत्वात् ॥
“ज्वरितानां प्रकोपन्तु यदा याति समीरणः ।
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः ॥
कपिञ्जल इति ख्यातो लोकेषु गौरतित्तिरिः ॥”
इति ॥ * ॥
“निम्बूकं दाडिमं धात्रीफलमम्लं प्रकाङ्क्षते ।
प्रदद्यादम्लसात्म्याय काञ्जिकं वा पुरातनम् ॥”
अथौषधसिद्धायाः पेयायाः गुणाश्च ।
“अन्नकाले हिता पेया यथास्वं पाचनैः कृता ।
दीपनी पाचनी लघ्वी ज्वरार्त्तानां ज्वरापहा ॥”
यथास्वं पाचनैः कृता यथादोषं पाचनैः कृता ।
यथा, --
“पञ्चमूल्याः कषायन्तु पाचनं वातिके ज्वरे ।
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् ॥
पिप्पल्यादिकषायन्तु पाचनं कफजे ज्वरे ।
लघुना पञ्चमूलेन पिप्पल्या सह धान्यया ॥
महत्या पञ्चमूल्याथ व्याघ्री दुस्पर्शगोक्षुरैः ।
सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम् ॥
वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे ॥”
अस्यायमर्थः । वातपित्ते लघुना पञ्चमूलेन
सिद्धान्यन्नानि भिषक् प्रयुञ्जीत ।
“शालिपर्णी पृश्निपणीं कण्टकारीद्बयं तथा ।
गोक्षुरः पञ्चमः प्रोक्तः पञ्चमूलमिदं लघु ॥
श्लेष्मपित्ते वातपित्ते पिप्पल्या सह धान्यया ॥”
कफवाते महत्या पञ्चमूल्या ।
“श्रीफलः सर्व्वतोभद्रा पाटला गणिकारिका ।
श्योनाकः पञ्चमः प्रोक्तः पञ्चमूलमिदं महत् ॥
त्रिदोषजे ज्वरे देया व्याघ्री दुस्पर्शगोक्षुरैः ।
व्याघ्री कण्टकारिका । दुस्पर्शो यवासः ।
पेयांवा रक्तशालीनां वस्तिपार्श्वशिरोरुजि ।
श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् ॥
विबद्धवर्च्चाः सयवां पिप्पल्यामलकैः शृताम् ।
सर्पिष्मन्तीं पिबेत् पेयां ज्वरी दोषानुलोमनीम् ॥
कासीश्वासी च हिक्की च पञ्चमूलीशृतांपिवेत् ॥”
यवोऽत्रान्नम् । अत्र पञ्चमूली बृहती लघ्वी च
हिता । तया शृतां पेयां पिबेदित्यर्थः ।
“पेया भेषजसंयोगाल्लघुत्वाच्चाग्निदीपिका ।
वातमूत्रपुरीषाणां दोषाणां चानुलोमिका ॥
स्वेदनाय च सोष्णत्वाद्द्रवत्वात् तृट्शमाय च ।
आहारभावात् प्राणाय सरत्वाल्लाघवाय च ॥
ज्वरघ्नीहेतुसात्म्यत्वात्तस्मात्तां पूर्ब्बमाचरेत् ॥”
हेतुसात्म्यत्वात् हेतवो वातपित्तकफास्तेषां
सात्म्यत्वात् ॥
“यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः ।
एकैकं मुष्टिमादाय पचेदष्टगुणे जले ॥
पञ्चमुष्टिक इत्येष वातपित्तकफापहः ।
शूले प्रशस्यते गुल्मे कासे श्वासे क्षये ज्वरे ॥”
पञ्चमुष्टिकयूषः ॥ * ॥
“रुद्धमूत्रपुरीषस्य गुदे वर्त्तिं निधापयेत् ।
पिप्पलीपिप्पलीमूलं यवानीचव्यसाधितम् ॥
पाययेत यवागूं वा मारुताद्यनुलोमनीम् ॥”
पेवाया यवाग्वाश्च क्वचिदपवादमाह ।
“मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफोत्थिते ।
ऊर्द्ध्वगे रक्तपित्ते च यवागूर्न्न हिता ज्वरे ॥
दाहच्छर्द्द्यर्द्दितं क्षामं निरन्नं तृष्णयान्वितम् ।
शर्क्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥”
लाजशक्तुरूपं तर्पणम् । तथा च ग्रन्थान्तरे ।
“दाहच्छर्द्द्यर्द्दितं क्षामं निरन्नं तृष्णयान्वितम् ।
घर्म्मार्त्तं मद्यपञ्चापि तोयालोडितशक्तुकम् ॥
शर्क्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ।
ज्वरापहैः फलरसैर्युक्तमन्नं हितं क्वचित् ॥” * ॥
सन्तर्पणस्वरूपञ्चाह धन्वन्तरिः ।
“द्राक्षादाडिमखर्ज्जूरमृदिताम्बुसशर्क्करम् ।
लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् ॥
लाजाचूर्णम् । द्राक्षादिजलशर्क्करामध्वाज्यसहितं
तर्पणमुक्तमित्यर्थः ॥ लाजशक्तुगुणाश्च गुणग्रन्थे ।
“लाजानां शक्तवः क्षौद्रसितायुक्ता विशेषतः ।
छर्द्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः ॥”
चरकश्च ।
“तत्र तर्पणमेवादौ प्रदेयं लाजशक्तुतः ।
ज्वरापहैः फलरसैर्युक्तं मधुसशर्क्करम् ॥”
ज्वरघ्नानि फलान्याह चरक एव ।
“द्राक्षादाडिमखर्ज्जूरपियालैः सपरूषकैः ।
तर्पणार्हस्य दातव्यं तर्पणं ज्वरनाशनम् ॥”
पियालमत्र पक्वफलं न तन्मज्जातिगुरुत्वात् ।
तर्पणार्हस्य दाहच्छर्द्दितृषार्त्तस्य लङ्घितस्य
क्षीणस्येत्यर्थः ।
श्रमोपवासानिलजे हितो नित्यं रसौदनः ॥
रसोऽत्र मांसरसः । तेन सिक्त ओदनो रसौ-
दनः । अन्नेन व्यञ्जनमित्यनेन समासः ॥
“मुद्गयूषौदनश्चैव हितः कफसमुत्थिते ।
स एव सितया युक्तः शीतपित्तज्वरे हितः ॥”
स एव मुद्गयूषौदन एव ॥
“कृशोऽल्पदोषो यः क्षीणकफो जोर्णज्वरान्वितः ।
विबन्धासृष्टदोषश्च रूक्षः पित्तानिलज्वरी ॥
पिपासार्त्तः सदाहश्च पयसा स सुखी भवेत् ॥”
अन्यच्च ।
“अजादुग्धं गुडोपेतं पातव्यं ज्वरशान्तये ।
तदेव तु पयः पीतं तरुणे हन्ति मानवम् ॥”
तरुणे ज्वरे । अन्यच्च ।
“जीर्णे ज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ।
तदेव तरुणे पीतं विषवद्धन्ति मानवम् ॥” * ॥
अथ ज्वरिणो नियममाह ।
“न द्बिरद्यान्न पूर्ब्बाह्ने नाभिष्यन्दि कदाचन ।
न तीक्ष्णं न गुरुप्रायो भुञ्जीत तरुणज्वरी ॥
न जातु तर्पयेत् प्राज्ञः सहसा ज्वरकर्षितम् ।
तेन संशमितोऽप्यस्य पुनरेव भवेज्ज्वरः ॥” * ॥
अथ ज्वरविमुक्तेः पूर्ब्बरूपमाह ।
“दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसंज्ञिताः ।
कूजनं चाति वैगन्ध्यमाकृतिज्वरमोक्षणे ॥”
विड्भित् मलप्रवृत्तिः । अत्र सम्पदादित्वात्
भावे क्विप् । कूजनं कुन्थनम् । अतिवैगन्ध्यं
गात्रस्य । ज्वरमुक्तौ भविष्यत्यामेतल्लक्षणं भवति ॥
ननु दोषक्षयं विना न व्याधिनिवृत्तिः । क्षीणश्च
दोषः कथमेवंविधं रूपं करिष्यति । उच्यते ।
कश्चित् क्षीणोऽपि दोषः विनाशकाले स्वशक्तिं
दर्शयति । यथा निर्व्वाणावस्थायां दीपो विशे-
षात् प्रज्वलति । वाग्भटोऽप्याह ।
“धातून् प्रक्षोभयन्दोषो मोक्षकाले विलीयते ।
ततो नरः श्वसन् कूजन् वमन् खिद्यन्न चेष्टते ॥”
न चेष्टते अचेष्टश्च स्यात् ।
पृष्ठ २/५६१
“त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे ।
लक्षणं मोक्षकाले स्यादन्यस्मिन् स्वेददर्शनम् ॥”
एतद्दाहादिकं लक्षणं मोक्षकाले एतेष्वेव
ज्वरेषु स्यात् । केषु त्रिदोषजे । अन्तर्व्वेगे ।
धातुगे ज्वरे । अन्यस्मिन् स्वेदमात्रं दर्शनं
भवति ॥ * ॥
अथ ज्वरमुक्तस्य लक्षणमाह ।
“देहो लघुर्व्यपगतक्लममोहतापः
पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षवः प्रकृतियोगिमनोऽन्नलिप्सा
कण्डूश्च मूर्द्ध्नि विगतज्वरलक्षणानि ॥”
सुश्रुतोऽप्याह ।
“स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च ।
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्यलक्षणम् ॥” * ॥
अथ ज्वरमुक्तस्य नियमाः ।
“व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणानि च ।
ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥”
अन्यच्च ।
“व्यायामञ्च व्यवायञ्च प्रवातं शिशिरं जलम् ।
ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥
अपि ज्वरविमुक्तस्य स्नानं कुर्य्यात् पुनर्ज्वरम् ।
तस्माज्वरविमुक्तोऽपि स्नानं विषमिव त्यजेत् ॥
बलवर्णाग्निवपुषां यावन्न प्रकृतिर्भवेत् ।
तावज्जरेण मुक्तोऽपि वर्ज्जनीयानि वर्ज्जयेत् ॥”
अथ वातज्वराधिकारः । तत्र वातज्वरस्य
विप्रकृष्टसन्निकृष्टकारणकथनपूर्ब्बिकां संप्राप्ति-
माह ।
“वातलाहारचेष्टाभ्यां वायुरामाशयाश्रयः ।
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत् स्याद्रसानुगः ॥”
अथ तस्य पूर्ब्बरूपमाह । जृम्भात्यर्थं समी-
रणादिति । समीरणात् ज्वरे उत्पत्स्यति अत्यर्थं
जृम्भा स्यात् । जृम्भा च श्रमादिपूर्ब्बिका भवति ॥
अथ वातज्वरस्य लक्षणमाह ।
“वेपथुर्व्विषमो वेगः कण्ठौष्ठमुखशोषणम् ।
निद्रानाशः क्षवस्तम्भो गात्राणां रौक्षमेव च ॥
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता ।
शूलाध्माने जृम्भणञ्च भवत्यनिलजे ज्वरे ॥”
एतानि लक्षणानि प्रायो भावित्वेन सुश्रुतेन
निर्द्दिष्टानि । चकारादन्यान्यपि चरकनिदा-
नोक्तानि बोद्धव्यानि । तान्येव श्लोकेन प्रदर्श्यन्ते ।
“भवन्ति विविधा वातवेदना स्यादसुप्तता ।
पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता ॥
ऊरुसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः ।
शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ ॥
अरुणं नेत्रमूत्रादि तृट् प्रलापोष्णकामिता ॥”
विषमो वेगः शरीरोष्णतादिरूपो ज्वरवेगो
विषमो भवतीत्यर्थः । क्षवस्तम्भः छिक्काया
अभावः । तथा च वाग्भटः ।
“हषीं रोमाङ्गदन्तेषु वेपथुः क्षवथोग्रहः ॥” इति ।
चरकोऽपि । क्षवथूद्गारनिग्रह इति । शिरो-
हृद्गात्ररुक् गात्रपदे प्रयुक्ते शिरोहृच्छब्द-
प्रयोगस्तत्र विशेषेण वेदनाबोधनार्थः ॥ * ॥
अथ वातज्वरचिकित्सा ।
“आमाशयस्थो हत्वाग्निं सामो मार्गान्
पिधापयन् ।
विदधाति ज्वर दोषस्तस्माल्लङ्घनमाचरेत् ॥”
इति वचनात् सामान्यतो ज्वरिमात्रस्य याव-
दारोग्यदर्शनं लङ्घनाभिधाने वातज्वरिणो
लङ्घनविधाने विशेषमाह चरकः ।
“ज्वरितं षडहेऽतीते लघ्वन्नं प्रतिभोजितम् ।
पाचनं शमनीयंवा कषायं पाययेद्भिषक् ॥”
सुश्रुतोऽप्याह ।
“वातिके सप्तरात्रेण दशरात्रेण पैत्तिके ।
श्लैष्मिके द्बादशाहेन ज्वरे युञ्जीत भेषजमिति ॥”
ननु अन्नं वै प्राणिनां प्राणा इति श्रुतिः तदन्नं
विना प्राणिभिः कथं स्थातव्यमित्याह ।
“दोषाणामेव सा शक्तिर्ल्लङ्घने या सहिष्णुता ।
न हि दोषक्षये कश्चित् सोढुं शक्नोति लङ्घनम् ॥
कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ।
आमक्षयादूर्द्धमपि वायुर्न्न सहते क्षणम् ॥” * ॥
भेषजमाह ।
“श्रीफलः सर्व्वतोभद्रा कामदूती च शोणकः ।
तर्कारी गोक्षुरः क्षुद्रा बृहती कलसी स्थिरा ॥
रास्ना कणा कणामूलं कुष्ठं शुण्ठी किरातकः ।
मुस्तामृता बला बालं द्राक्षा यासः शताह्विका ॥
एषां क्वाथो निहन्त्येव प्रभञ्जनकृतं ज्वरम् ।
सोपद्रवञ्च योगोऽयं सर्व्वयोगवरः स्मृतः ॥”
श्रीफलो विल्वः । सर्व्वतोभद्रा गम्भारी । काम-
दूती पाटला । शोणकः शोनापाढा इति
लोके । तर्क्कारी गणिकारिका । कलसी पृश्नि-
पर्णी । स्थिरा शालिपर्णी । बालं सुगन्धबाला ।
यासो यवासः । इति दशमूलादिक्वाथः ॥ * ॥
सुश्रुतस्तु ।
“पञ्चमूली कषायन्तु पाचनं वातिके ज्वरे ।” इति ।
अत्र पञ्चमूली बृहत्पञ्चमूली । अतएव त्रिशती ।
“श्रीपर्णी तर्क्कारी श्रीफलटुण्टुकपाटलामूलैः ।
पाचनमुदितं मारुतजनितज्वरहारिवारिणि
कथितैः ॥”
इति बृहत्पञ्चमूली क्वाथः ॥ * ॥
“किराताब्दामृतोदीच्यबृहतीद्बयगोक्षुरैः ।
त्रिपर्णीकलसीविश्वैः क्वाथो वातज्वरापहः ॥”
उदीच्यं बालकम् । त्रिपर्णी शालिपर्णी ।
कलसी पृश्निपर्णी । इति किरातादिक्वाथः ॥ * ॥
“गुडूचीपिप्पलीमूलनागरैः पाचनं शृतम् ।
वातज्वरे तथा पेयं कालिङ्गं सप्तमेऽहनि ॥”
कालिङ्गं शृतं ऐन्द्रयवं शृतम् ॥ * ॥
त्रिशती ।
“विश्वामृताग्रन्थिकसिद्धतोयं
मरुज्ज्वरस्याप्तिवतः कुतोऽयम् ।
क्वाथोऽथ कुस्तुम्बुरुदेवदारु-
क्षुद्रौषधैः पाचनमत्र चारु ॥”
औषधं शुण्ठी । क्वाथः पाचनमिति । वेदाः
प्रमाणमितिवत् ।
“पञ्चमूलीबलारास्नाकुलत्थः सह पुष्करैः ।
क्वाथो हन्याच्छिरःकम्पं पर्व्वभेदं मरुज्जरम् ॥”
पञ्चमूली विल्वादिः । इति बृहत्पञ्चमूल्यादिक्वाथः ॥
“कणारसोनामृतवल्लिविश्वा-
निदिग्धिकासिन्धुकभूमिनिम्बैः ।
समुस्तकैराचरितः कषायो
हिताशिनां हन्ति गदानिमांस्तु ॥
ज्वरं मरुद्दुष्टिसमुद्भवं तथा
बलासजञ्चानलमन्दताञ्च ।
कण्ठावरोधं हृदयावरोधं
स्वेदञ्च रोमाञ्चहिमत्वमोहान् ॥”
इति कणादिक्वाथः ॥ * ॥
“शुद्धं शङ्करशुक्रमक्षतुलितं मारारिनारीरज-
स्तावत्तावदुमापतिस्फुटगलालङ्कारवस्तु स्मृतम् ॥
तावत्येव मनःशिला च विमला तावत्तथा टङ्कणं
शुण्ठी द्ब्यक्षमिता कणा च मरिचं दिक्पाल-
संख्याक्षकम् ॥
विषादि वस्तूनि शिलोपरिष्टा-
द्बिचूर्णयेद्बाससि शोधयेच्च ।
ततस्तु खल्ले रसगन्धकौ च
चूर्णञ्च तद्यामयुगं विमर्द्द्य ॥
कल्पतरुनामधेयो यथार्थनामा रसः श्रेष्ठः ।
समीरणश्लेष्मगदान् हरते मात्रास्य गुञ्जैका ॥
आर्द्रकेण सममेष भक्षितो
हन्ति वातकफसम्भवं ज्वरम् ।
श्वासकासमुखसेकशीतता-
वह्निमान्द्यविरुचींश्च नाशयेत् ॥
नस्येनाश्वेव हरति शिरोऽर्त्तिं कफवातजाम् ।
मोहं महान्तमपि च प्रलापं क्षवथुग्रहम् ॥”
कल्पतरुरसः ॥ सामान्यज्वरचिकित्सोक्तो महा-
ज्वराङ्कुशः प्रदेयोऽत्र ॥ * ॥
“विषमहौषधमागधिकोषणा
द्युमणिरक्तकमार्द्रकमर्द्दितम् ।
क्रमविवर्द्धितमुद्दलितज्वर-
स्त्रिपुरभैरव एव रसो वरः ॥”
द्युमणिः मारितं ताम्रं तस्य भागाः पञ्च ।
रक्तकं हिङ्गुलं तस्य भागाः षट् । मात्रास्य
रक्तिकार्द्धम् । त्रिपुरभैरवो रसो ज्वरे ॥ * ॥
“वातश्लेष्मज्वरे स्वेदं जङ्घापार्श्वास्थिशूलिनि ।
पीनसश्वासवाधिर्य्ये कारयेत्तद्बिधानवित् ॥
स्रोतसां मार्द्दवं कृत्वा नीत्वा पावकमाशयम् ।
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ॥
“खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः ।
शमयति वातकफामयमस्तकशूलाङ्गभङ्गा-
दीन् ॥”
बालुकास्वदः कम्पे शिरोहृदयगात्रव्यथायां
जृम्भायाम् । पादसुप्ततायां पिण्डिकोद्वेष्टने ऊरु-
सादे हनुस्तम्भे लोमहर्षे च ॥ * ॥
“मातुलुङ्गफलकेशरो धृतः
सिन्धुजन्ममरिचान्वितो मुखे ।
हन्ति वातकफरोगमास्यग
शोषमाशु जडतामरोचकम् ॥”
इति कवलः कण्ठौष्ठमुखशोषे ॥ * ॥
पृष्ठ २/५६२
अन्यच्च ।
“शर्क्करादाडिमाभ्याञ्च द्राक्षादाडिमयोस्तथा ।
कल्कं विधारयेदास्ये शोषवैरस्यनाशनम् ॥
द्राक्षामलकयोः कल्कं सघृतं वदने क्षिपेत् ।
तेन घृष्ट्वा मुखस्यान्तः संशोषस्तेन शाम्यति ॥
सुरसं जायते वक्त्रं रुचिर्भवति भोजने ॥” * ॥
निद्रानाशस्य निदानमाह ।
“लावणं लङ्घनं चिन्ता व्यायामः शोकभीक्रुधः ।
एभिरेव भवेन्निद्रानाशः श्लेष्मातिसंक्षयात् ॥”
अस्य चिकित्सामाह ।
“भृष्टन्तु विजयाचूर्णं मधुना निशि भक्षयेत् ।
निद्रानाशेऽतिसारे च ग्रहण्यां पावकक्षये ॥
गुडं पिप्पलीमूलस्य चूर्णेनालोडितं लिहन् ।
चिरादपि च संनष्टां निद्रामाप्नोति मानवः ॥
वायसजङ्घामूलं मूलं वा शिरसि काकमाच्याश्च ।
विधृतं निद्राजनकं स्नुङ्मूलं वा शृतं सगुडम् ॥”
पीतमिति शेषः ॥
“मूलन्तु काकमाच्या बद्धं सूत्रेण मस्तके नियतम् ।
विदधाति नष्टनिद्रो निद्रामाश्वेव सिद्धमिदम् ॥
शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि ।
अभ्यङ्गोद्बर्त्तनस्नानमूर्द्ध्वकर्णाक्षितर्पणम् ॥”
रसं मांसरसम् ॥
“कान्ताबाहुलताश्लेषानिवृत्तिकृतकृत्यता ।
मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः ॥
रसे शाके च सूपे च सर्पिर्यूषपयःसु च ।
निद्रां सञ्जनयत्याशु पलाण्डुरुपयोजितः ॥”
रसे मांसरसे ॥
“ऐक्षवं पोतकी माषाः सुरा मांसरसः पयः ।
गोधूमतिलमत्स्याश्च निद्रां कुर्व्वन्ति देहिनाम् ॥”
निद्रानाशे ॥ * ॥
“दारु हैमवती कुष्ठशताह्वाहिङ्गुसैन्धवैः ।
लिम्पेत् कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरम् ॥”
हैमवती श्वेतवचा । दारुषट्कलेपः शूलाध्मा-
नयोः ॥ * ॥
“कटुतैलं कणाहिङ्गुवचालशुनसाधितम् ।
उष्णं विनिहितं हन्ति कर्णयोर्निस्वनं व्यथाम् ॥”
तैलं कर्णस्वने ॥ * ॥
“कणासुगन्धिवचया यवान्या च समन्विता ।
ताम्बूलसहिता हन्ति शुष्ककासं मुखे धृता ॥”
शुष्ककासे ॥ * ॥ अथान्नमाह ।
“श्रमोपवासानिलजे हितो नित्यं रसौदनः ।
मुद्गामलकयूषस्तु बद्धविट्काय दीयते ॥”
रसो विहितमांसरसः ॥
“पेयांवा रक्तशालीनां वस्तिपार्श्वशिरोरुजि ।
श्वदंष्ट्राकण्टकारीभ्यां सिद्धां ज्वरहरीं पिबेत् ॥
कासी श्वासी च हिक्वी च पञ्चमूलीशृतां
पिबेत् ॥”
पेयमिति शेषः । इति वातज्वराधिकारः ॥ * ॥
अथ पित्तज्वराधिकारः । तत्र पित्तज्वरस्य विप्र-
कृष्टसन्निकृष्टकारणकथनपूर्ब्बिकां संप्राप्तिमाह ।
“पित्तलाहारचेष्टाभ्यां पित्तमामाशयाश्रयम् ।
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत्स्याद्रसानुगम् ॥”
पित्तस्य पङ्गुत्वात्तेन कोष्ठाग्नेरुष्मा बहिर्नेतुं न
शक्यते । यत आह ।
“पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः ।
वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत् ॥”
इति ॥
ततोऽत्र पित्तं वायुसहायं बोद्धव्यम् । यत आह ।
“द्रव्यमेकरसं नास्ति न रोगोऽप्येकदोषजः ।
एकस्तु कुपितो दोष इतरानपि कोपयेत् ॥” इति ।
अथ तस्य पूर्ब्बरूपमाह । पित्तान्नयनयोर्द्दाह
इति । पित्तात् ज्वरे उत्पत्स्यति नेत्रदाहः स्यात् ।
स च श्रमादिपूर्ब्बको भवति ॥ * ॥
अथ पित्तज्वरस्य लक्षणमाह ।
“वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः ।
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ॥
प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा ।
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥”
अतिसारः पित्तस्य सरत्वात् सद्रवा प्रवृत्तिर्न
त्वतीसार एव तस्य ज्वरोपद्रवत्वात् । वमिः
यदा पित्तं कफस्थानं याति तदा बोद्धव्या ।
प्रलापोऽनर्थकं वचः । मूर्च्छारुपादेरज्ञानम् ।
मदः पूगकोद्रवधत्तूरभक्षणादिव मत्तता । भ्रमः
चक्रारूढस्येव ज्ञानम् । चकारात् रक्तकोष्ठा-
दयो बोद्धव्याः ॥ * ॥ अथ पित्तज्वरस्य चिकित्सा ।
“आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-
पयन् ।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥”
इति वचनात् सामान्यतो ज्वरिमात्रस्य याव-
दारोग्यदर्शनं लङ्घनाभिधाने पित्तज्वरिणो
लङ्घनविधाने विशेषमाह सुश्रुतः । पैत्तिके दश
रात्रेण ज्वरे युञ्जीत भेषजमिति । दशरात्रेण
लङ्घनवता व्यतीतेनेत्यर्थः ॥ * ॥
किन्तद्भेषजं तदाह ।
“तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सदोहकम् ।
पक्वं सशर्क्करं पीतं पाचनं पैत्तिके ज्वरे ॥”
इति तिक्तादिक्वाथः ॥ * ॥
“पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः ।
प्रियङ्गुश्च कृतः क्वाथ एषां शर्क्करया युतः ॥
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ॥”
इति पर्पटादिक्वाथः ॥ * ॥
“द्राक्षा हरीतकी मुस्ता कटुका कृतमालकः ।
पर्पटश्च कृतः क्वाथ एषां पित्तज्वरापहः ॥
मुखशोषप्रलापान्तर्द्दाहमूर्च्छाभ्रमप्रणुत् ।
पिपासारक्तपित्तानां शमनो भेदनो मतः ॥”
इति द्राक्षादिक्वाथः ॥ * ॥
“पटोलयवधान्याकमधूकं मधुसंयुतम् ।
हन्ति पित्तज्वरं दाहं तृष्णां चातिप्रमाथिनीम् ॥”
इति पटोलादिक्वाथः ॥ * ॥
“गुडूच्यामलकीयुक्तः केवलो वापि पर्पटः ।
पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ॥”
इति गुडूच्यादिक्वाथः ॥ * ॥
“एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।
किं पुनर्यदि युज्येत चन्दनोशीरबालकैः ॥” * ॥
“ह्नीवेरं चन्दनोशीरघनपर्पटसाघितम् ।
दद्यात् सुशीतलं वारितृट्छर्द्दिज्वरदाहनुत् ॥”
इति ह्नोवेरादिक्वाथः ॥ * ॥
“भूनिम्बातिविषालोध्रमुस्तकेन्द्रयवामृताः ।
बालकं धान्यकं विल्वं कषायो माक्षिकान्वितः ॥
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ॥”
इति भूनिम्बादिक्वाथः ॥ * ॥
“द्राक्षाचन्दनपद्मानि मुस्ता तिक्तामृतापि च ।
धात्री बालमुशीरञ्च लोध्रेन्द्रयवपर्पटाः ॥
परूषकं प्रियङ्गुश्च यवासो वासकस्तथा ।
मधूकं कुलकं चापि किरातो धान्यकं तथा ॥
एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम् ।
तृषां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ॥
मूर्च्छां छर्द्दिं तथा शूलं मुखशोषमरोचकम् ।
कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ॥”
इति महाद्राक्षादिक्वाथः ॥ * ॥
“ससितो निशि पर्य्युषितः प्रातर्धान्याकतण्डुल-
क्वाथः ।
पीतः शमयत्यचिरादन्तर्द्दाहं ज्वरं पैत्तम् ॥”
इति धान्याकक्वाथः ॥ * ॥
“अमृताया हिमः प्रातः ससितः पैत्तिकज्वरम् ।
वासायाश्च तथा कासरक्तपित्तज्वरान् जयेत् ॥”
“गुडूची भूमिनिम्बश्च बालं वीरणमूलकम् ।
लघु मुस्तं त्रिवृद्धात्री द्राक्षा वासा च पर्पटः ॥
एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम् ।
सोपद्रवमपि प्रातर्निपीतो मधुना सह ॥”
इति गुडूच्यादिक्वाथः ॥ * ॥
“पलाशस्य वदर्य्या वा निम्बस्य मृदुपल्लवैः ।
अम्लपिष्टैः प्रलेपोऽयं हन्याद्दाहयुतं ज्वरम् ॥ * ॥
उत्तानसुप्तस्य गभीरताम्र-
कांस्यादिपात्रे निहिते च नाभौ ।
शीताम्बुधारा बहुला पतन्ति
निहन्ति दाहं त्वरितं ज्वरञ्च ॥ * ॥
पथ्यां तैलघृतक्षौद्रैर्लिहन्दाहज्वरापहः ।
कासासृक्पित्तवीसर्पश्वासान् हन्ति वमीरपि ॥
तैलघृतक्षौद्रैरित्यत्र न समुच्चयस्तेन केवलेन
क्षौद्रेणापि लिह्यात् ॥ * ॥
“काञ्जिकार्द्रपटेनावगुण्ठनं दाहनाशनम् ।
अथ गोतक्रसंस्विन्नशीतलीकृतवाससा ॥ * ॥
द्राक्षामलककल्केन कवलोऽत्र हितो मतः ।
पक्वदाडिमबीजैर्व्वा धानाकल्केन च क्वचित् ॥”
धानात्र धान्याकम् । इति कवलः ॥ * ॥
अथान्नमाह ।
“दाहवम्यर्द्दितं क्षामं निरन्नं तृषयान्वितम् ।
शर्क्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥”
लाजतर्पणं लाजाशक्तुरूपं तर्पणम् । सन्त-
र्पणस्वरूपमुक्तं सामान्यज्वरचिकित्सायाम् ॥ * ॥
“मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे ।
हर्म्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले ॥
मलयोदकसंसिक्ते स्वप्यात् पित्तज्वरी नरः ॥
हारावली चन्दनशीतलानां
सुगन्धपुष्पाम्बरभूषितानाम् ।
पृष्ठ २/५६३
नितम्बिनीनां सुपयोधराणा-
मालिङ्गनान्याशु हरन्ति दाहम् ॥
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः ।
नार्य्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥”
इति पित्तज्वराधिकारः ॥ * ॥ * ॥
अथ श्लेष्मज्वराधिकारः । तत्र श्लेष्मज्वरस्य
विप्रकृष्टसन्निकृष्टकारणकथनपूर्ब्बिकां संप्राप्ति-
माह ।
“श्लेष्मलाहारचेष्टाभ्यां कफ आमाशयाश्रयः ।
बहिर्निरस्य कोष्ठाग्निं ज्वरकृत् स्याद्रसानुगः ॥”
कफस्य कोष्ठाग्नितेजसो बहिर्नयनेन पङ्गुत्वा-
दाशङ्कायां जातायां पित्तस्येव सिद्धान्तो
बोद्धव्यः ॥ * ॥ अथ तस्य पूर्ब्बरूपमाह ।
कफान्नान्नाभिनन्दनमिति । कफात् ज्वरे उत्-
पत्स्यति अन्नानभिलाषः स्यात् । स च श्रमादि-
पूर्ब्बको भवति ॥ * ॥ अथ श्लेष्मज्वरस्य लक्षण-
माह ।
“स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता ।
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ॥
गौरवं शीतमुत्क्लेदो रोमहर्षातिनिद्रता ।
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोऽति-
शुक्लता ॥
स्तैमित्यं अङ्गानामार्द्रपटावगुण्ठित्वमिव ।
स्तिमितो वेगः ज्वरस्य मन्दवेगः । आलस्यं
समर्थस्यापि कर्म्मण्यनुत्साहः । स्तम्भः अङ्गा-
नम्रता । तृप्तिः अन्नाभिलाषे सत्यपि भोजना-
सामर्थ्यम् । गौरवं गात्राणाम् । शीतं शीतं
लगति । उत्क्लेदः वमनोपस्थितिरिव । अति-
निद्रता निद्राधिक्यम् । प्रतिश्यायो नासारोग-
विशेषः । अरुचिः भोजनानिच्छा । चकारात्
पिडका शीता मुखप्रसेकश्छर्द्दिस्तन्द्रा हृदयोप-
लेप उष्णाभिलाषो वह्निमान्द्यमिति । यत
उक्तम् ।
“प्रसेकः पिडकाः शीताश्छर्द्दिस्तन्द्रोष्णकामिता ।
कफेन लिप्तहृदयं भवेदग्नेश्च मन्दता ॥”
अथ श्लेष्मज्वरचिकित्सा ।
“आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-
पयन् ।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥”
इति वचनात् सामान्यतो ज्वरिमात्रस्य याव-
दारोग्यदर्शनं लङ्घनाभिधाने श्लेष्मज्वरिणो लङ्घन
विधाने विशेषमाह सुश्रुतः । श्लैष्मिके द्बाद-
शाहेन ज्वरे युञ्जीत भेषजमिति । द्बादशाहेन
लङ्घनवता व्यतीतेनेत्यर्थः ॥ * ॥ किन्तद्भेषजं
तदाह ।
“पिप्पल्यादिकषायन्तु कफजे परिपाचनमिति ।”
पिप्पल्यादिगणमाह ।
“पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली ।
नागरं चित्रकं चव्यं रेणुकैलाजमोदिका ॥
सर्षपो हिङ्गु भार्गी च पाठेन्द्रयवजीरकाः ।
महानिम्बश्च मूर्व्वा च विषा तिक्ता विडङ्गकम् ॥
पिप्पल्यादिगणो ह्येष कफमारुतनाशनः ।
गुल्मशूलज्वरहरो दीपनश्चामपाचनः ॥”
इति पिप्पल्यादिक्वाथः ॥
“क्षौद्रोपकुल्यासंयोगः श्वासकासज्वरापहः ।
प्लीहानं हन्ति हिक्काञ्च बालानामपि शस्यते ॥
पिप्पलीं त्रिफलाञ्चापि समभागां ज्वरी लिहन् ।
मधुना सर्पिषा वापि कासी श्वासी सुखी
भवेत् ॥ * ॥
कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ।
श्वासकासज्वरहरो लेहोऽयं कफनाशनः ॥”
इति चातुर्भद्रिकावलेहः ॥ * ॥
“कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा ।
कटुत्रयञ्च सर्व्वाणि समभागानि चूर्णयेत् ॥
आर्द्रकस्य रसैर्लिह्यान्मधुना वा कफज्वरी ।
कासश्वासारुचिच्छर्द्दिश्लेष्मानिलनिवृत्तये ॥”
इत्यष्टाङ्गोऽवलेहः ॥ * ॥
“सिन्धुवारदलक्वाथं कणाढ्यं कफजे ज्वरे ।
जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत् ॥
यवानी पिप्पली वासा तथा खाखसवल्कलम् ।
एषां क्वाथं पिबेत् कासे श्वासे च कफजे ज्वरे ॥
वासाक्षुद्रामृताक्वाथः क्षौद्रेण ज्वरकासहृत् ॥”
इति वासादिक्वाथः ॥ * ॥
“मरिचं पिप्पलीमूलं नागरं कारवी कणा ।
चित्रकं कट्फलं कुष्ठं ससुगन्धिवचा शिवा ॥
कण्टकारी जटा शृङ्गी यवानी पिचुमर्द्दकः ।
एषां क्वाथो हरत्येव ज्वरं सोपद्रवं कफात् ॥”
इति मरिचादिक्वाथः ॥
वातज्वराधिकारोक्तकल्पतरुरसोऽपि । श्लेष्म-
ज्वरे दातव्यस्तस्य कफव्याधिहरत्वात् ॥ * ॥
“सिन्धुत्रिकटुराजीभिरार्द्रकेण कफे हितः ॥”
कवल इति शेषः ॥ * ॥ अथान्नमाह ।
“मुद्गयूषौदनो दोषो ज्वरे कफसमुत्थिते ॥”
इति श्लेष्मज्वराधिकारः ॥ * ॥
अथ वातपित्तज्वराधिकारः । तत्र द्बन्द्वज-
ज्वरस्य विप्रकृष्टसन्निकृष्टकारणकथनपूर्ब्बिकां
संप्राप्तिमाह । तत्र वातपित्तज्वरस्य ।
“वातपित्तकरैर्व्वातपित्ते आमाशयाश्रये ।
बहिर्न्निरस्य कोष्ठाग्निं रसगे ज्वरकारिणी ॥”
स्यातामिति शेषः ॥ * ॥
अथ तस्य पूर्ब्बरूपमाह ।
“प्राग्रूपे वातपित्तस्य भवतो वातपैत्तिके ॥”
ज्वर इति शेषः ॥ * ॥
अथ वातपित्तज्वरस्य लक्षणमाह ।
“तृष्णा मूर्च्छा भ्रमो दाहो निद्रानाशः शिरो-
रुजा ।
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ॥
पर्व्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः ॥”
पर्व्वभेदः पर्व्वाणि भिद्यन्त इवेति सन्धिषु व्यथा ॥
अथ वातपित्तज्वरस्य चिकित्सा ।
“वातपित्तज्वरे देयमौषधं पञ्चमेऽहनि ।
किराततिक्ताममृतां द्राक्षामामलकीं शटीम् ।
निष्काथ्य सगुडं क्वाथं वातपित्तज्वरे पिबेत् ॥”
इति किरातादिक्वाथः ॥ * ॥
“गुडूची पर्पटो मुस्तं किरातो विश्वभेषजम् ।
वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम् ॥”
इति पञ्चभद्रक्वाथः ॥ * ॥
“त्रिफलाशाल्मलीरास्नाराजवृक्षाटरूषकैः ।
शृतमम्बु हरत्याशु वातपित्तभवं ज्वरम् ॥”
इति त्रिफलादिक्वाथः ॥ * ॥
“मधुकं सारिवा द्राक्षा मधूकं चन्दनोत्पलम् ।
काश्मीरफलकं लोध्रं त्रिफला पद्मकेशरम् ॥
परूषकं मृणालञ्च क्षिपेत् संचूर्ण्य वारिणि ।
निशोषितं सिताक्षौद्रलाजयुक्तञ्च तत् पिबेत् ।
वातपित्तज्वरं दाहं तृष्णामूर्च्छ्रारुचिभ्रमान् ॥
शमयेद्रक्तपित्तञ्च जीमूतमिव मारुतः ॥”
अत्र मधुकादिमृणालान्तं समुदितं पलपरि-
मितं संचूर्ण्य क्षिपेत् वारिणि षट्पलपरिमिते ।
मधुकादिर्हिमो दाहे ॥ * ॥
अथान्नमाह ।
“मुद्गामलकयूषस्तु वातपित्तज्वरे हितः ।
महादाहे प्रदातव्यो यूषश्चणकसम्भवः ॥”
दाडिमामलकमुद्गसम्भवो यूष उक्त इति वात-
पैत्तिके ।
“कफपित्तहरा मुद्गाः कारवेल्लादयस्तथा ।
प्रायेण न च ते देया वातपित्तोत्तरे ज्वरे ॥
दत्तास्तु ज्वरविष्टम्भशूलोदावर्त्तकारिणः ॥”
इति वातपित्तज्वराधिकारः ॥ * ॥
अथ वातश्लेष्मज्वराधिकारः । तत्र तस्य विप्र-
कृष्टसन्निकृष्टकारणकथनपूर्ब्बिकां सम्प्राप्तिमाह ।
“वातश्लेष्मकरैर्व्वातकफावामाशयाश्रयौ ।
बहिर्न्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ॥”
पूर्ब्बरूपमाह ।
“प्राग्रूपे वातकफयोः स्यातां वातकफज्वरे ॥”
तस्य लक्षणमाह ।
“स्तैमित्यं पर्व्वणां भेदो निद्रागौरवमेव च ।
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्त्तनम् ॥
सन्तापे मध्यवेगश्च वातश्लेष्मज्वराकृतिः ॥”
स्वेदाप्रवर्त्तनं स्वेदस्य आसमन्ताद्भावेन प्रवृत्तिः ॥
तथाह हारीतः ।
“शिरोग्रहः स्वेदभवश्च कासो
ज्वरस्य लिङ्गं कफवातजस्येति ॥”
स्वेदभवः स्वेदोत्पत्तिः ॥ * ॥
ननु स्वेदः पित्तस्य धर्म्मः अतएव पित्तज्वरे
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायत इत्यु-
क्तम् । तस्मात् कथं वातश्लेष्मज्वरे स्वेदस्याति-
प्रवृत्तिः । उच्यते । विकृतिविषमसमवायारब्ध-
त्वान्न दोष इति कार्त्तिकः । प्रकृतिसमसमवा-
यस्य विकृतिविषमसमवायस्य चायमर्थः ।
प्रकृत्या हेतुभूतया समः कारणानुरूपः सम-
वायः कार्य्यकारणभावः सम्बन्धः प्रकृतिसम-
समवायः कारणानुरूपं कार्य्यमिति यावत् ।
यथा प्रकृतैर्यथास्थितैः शुक्लैस्त्रन्तुभिः समवाय-
कारणैरारब्धः पटः शुक्ल एव भवति । तथा
प्रकृतेन केवलेन वातेन पित्तेन कफेन वा
जनितो ज्वरो वाताद्युचितैर्धर्म्मैर्वमथुवेगाधिक्य-
पृष्ठ २/५६४
स्तैमित्यादिभिर्युक्तो भवति । विकृतिविषमसम-
वायस्तु विकृत्या हेतुभूतया विषमः कारणाननु-
रूपः समवायः कार्य्यस्य कारणेऽसम्बन्धः । यथा
संयोगाद्बिकृताभ्यां हरिद्राचूर्णाभ्यां हेतुभूताभ्यां
विषमः कारणानुरूपो लोहितो वर्णो जायते ।
तथा योगेन विकृताभ्यां वातश्लेष्मभ्यां हेतु-
भूताभ्यां विषमा कारणाननुरूपा स्वेदस्याति-
प्रवृत्तिरिति सिद्धान्तः ॥ * ॥
अथ वातश्लेष्मज्वरस्य चिकित्सा ।
“वातश्लेष्मज्वरे देयमौषधं नवमेऽहनि ।
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः ।
दीपनीयः स्मृतो वर्गो वातश्लेष्मज्वरापहः ॥
कोलमात्रोपयोगित्वात् पञ्चकोलमिदं स्मृतम् ।
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् ॥
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥”
इति पञ्चकोलम् ॥ * ॥
“किरातविश्वामृतवल्लिसिंहिका-
कणाकणामूलरसोनसिन्धुकैः ।
कृतः कषायो विनिहन्ति सत्वरं
ज्वरं समीरात् सकफात् समुत्थितम् ॥”
इति किरातादिक्वाथः ॥ * ॥
“पिप्पल्यादिगणं क्वाथं पिबेद्बातकफज्जरी ।
नातःपरं किञ्चिदस्मिन् ज्वरे भेषजमुत्तमम् ॥”
इति पिप्पल्यादिक्वाथः ॥ * ॥
“पिप्पलीपिप्पलीमूलचव्यचित्रकनागरः ।
वचा सातिविषा जातीपाठावत्सकरेणुकम् ॥
किराततिक्तको मूर्व्वा सर्षपा मरिचानि च ।
कट्फलं पुष्करं भार्गी विडङ्गं कर्कटाह्वयम् ॥
अर्कमूलं बृहत्सिंही श्रेयसी सदुरालभा ।
दीप्यकश्चाजमोदा च शुकनासा सहिङ्गुका ॥
एतानि समभागानि गण एषोऽष्टविंशतिः ।
एषां क्वाथो निपीतः स्याद्बातश्लेष्मज्वरापहः ॥
हन्ति वातं तथा शीतं प्रस्वेदमपि वेपथुम् ।
प्रलापञ्चातितन्द्राञ्च रोमहर्षरुची तथा ॥
महावातेऽपतन्त्रे च शून्यत्वे सर्व्वगात्रजे ।
पिप्पल्यादिर्म्महाक्वाथो ज्वरे सर्व्वत्र पूजितः ॥”
इति बृहत्पिप्पल्यादिक्वाथः ॥ * ॥
“दशमूलीरसः पीतः कणाढ्यः कफवातजे ।
ज्वरे विपाके निद्रायां पार्श्वरुक्श्वासकासके ॥
इति दशमूलीक्वाथः ॥ * ॥
तत्र श्रेयसी रास्ना वातश्लेष्मज्वरहरत्वात् ॥
“पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम् ।
वातश्लेष्मज्वरं हन्ति सेवितं प्लीहनाशनम् ॥”
इति पिप्पलीक्वाथः ॥ * ॥
“सूतकं टङ्कणं भृष्टं गन्धं शुद्धं समं समम् ।
द्बिगुणं सूतकाद्देयं जैपालं तुषवर्ज्जितम् ॥
सैन्धवं मरिचं चिञ्चा त्वक् क्षारः शर्करापि च ।
प्रत्येकं सूततुल्यं स्याज्जम्बीरैर्म्मर्द्दयेद्दिनम् ॥
सूर्य्यशेस्वरनामायं रसो गुञ्जाद्बयोन्मितः ।
भक्षितस्तप्ततोयेन वातश्ले ष्मज्वरापहः ॥”
सूर्य्यशेखरो रसो वातश्लेष्मज्वरे शीतज्वरे च ॥
रमप्रदीपे ।
“स्वेदोद्गमे भृष्टकुलत्थचूर्ण-
निपातनं शस्तमिति ब्रुवन्ति ।
जीर्णं शकृद्गोर्लवणस्य भाजनं
संचूर्णितं स्वेदहरं सुधूलनात् ॥”
मरिचं पिप्पली शुण्ठी पथ्या लोध्रश्च पौष्करम् ।
भूनिम्बः कटुका कुष्ठं कर्च्चूरो लिङ्गिका शटी ॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
एतदुद्धूलनं श्रेष्ठं स्रोतोवत् स्वेदनिर्गमे ॥”
लिङ्गिका पञ्च गुरिया इति लोके । अत्र शटी
गन्धपलाशी । इति मरिचाद्युद्धूलनम् ॥ * ॥
“भूनिम्बकारवीतिक्तावचाकट्फलजं रजः ।
एषामुद्धूलनं श्रेष्ठं सन्ततं स्वेदसंस्रवे ॥”
इति भूनिम्बाद्युद्धूलनम् ॥ * ॥
पूर्ब्बोक्तो बालुकास्वेदोऽप्यत्र समुचितः ॥ यत
उक्तम् ।
“पीनसश्वासवाधीर्य्ये जङ्घापार्श्वास्थिशूलिनि ।
वातश्ले ष्मज्वरे स्वेदं कारयेत् तद्बिधानवित् ॥ * ॥
मातुलुङ्गफलकेशरो धृतः
सिन्धुजन्ममरिचान्वितो मुखे ।
हन्ति वातकफरोगमास्यगं
शोषमाशु जडतामरोचकम् ॥
इति कवलः ॥”
अथान्नमाह ।
“महत्या पञ्चमूल्यान्नं सम्यक् सिद्धं चिकित्सकः ।
सप्तमे दिवसे दद्यात् ज्वरे वातबलासजे ॥”
इति वातश्लेष्मज्वराधिकारः ॥ * ॥
अथ पैत्तिकश्लेष्मज्वराधिकारः । तत्र तस्य
विप्रकृष्टसन्निकृष्टकारणकथनपूर्ब्बिकां सम्पाप्ति-
माह ।
“पित्तश्ले ष्मकरैः पित्तकफवामाशयाश्रयौ ।
बहिर्न्निरस्य कोष्ठाग्निं रसगौ ज्वरकारिणौ ॥”
पूर्ब्बरूपमाह ।
“प्राग्रूपे पित्तकफयोः स्यातां पित्तकफे ज्वरे ॥”
अथ तस्य लक्षणमाह ।
“लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा ।
मुहुर्द्दाहो मुहुः शीतं पित्तश्ले ष्मज्वराकृतिः ॥”
आस्यस्य तिक्तत्वं पित्तेन । लिप्तत्वं कफेन ।
तन्द्रा अर्द्धोन्मीलितनेत्रत्वम् । मोहो मूर्च्छा ॥ * ॥
अथ पित्तश्ले ष्मज्वरस्य चिकित्सा ।
“पित्तश्ले ष्मज्वरे देयमौषधं दशमेऽहनि ।
गुडूचीनिम्बधान्याकचन्दनं कटुरोहिणी ॥
गुडूच्यादिरयं क्वाथः पाचनो दीपनः स्मृतः ।
तृष्णादाहारुचिच्छर्द्दिपित्तश्लेष्मज्वरापहः ॥”
इति गुडूच्यादिक्वाथः ॥ * ॥
“अमृताकटुकारिष्टपटोलं घनचन्दनम् ।
नागरेन्द्रयवश्चैतदमृताष्टकमीरितम् ॥
क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहम् ।
हृल्लासारोचकच्छर्द्दितृष्णादाहनिवारणम् ॥”
इति अमृताष्टकम् ॥ * ॥
“कण्टकार्य्यमृता भार्गी विश्वेन्द्रयववासकम् ।
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणीम् ॥
विपाच्य पाययेत् क्वाथं पित्तश्ले ष्मज्वरापहम् ।
दाहतृष्णारुचिच्छर्द्दिकासशूलनिवारणम् ॥”
इति कण्टकार्य्यादिक्वाथः ॥ * ॥
“नागरोशीरविल्वाब्दधान्यमोचरसाम्बुभिः ।
कृतः क्वाथो भवेद्ग्राही पित्तश्ले ष्मज्वरापहः ॥”
इति नागरादिक्वाथः ॥ * ॥
“सशर्क्करामक्षमात्रां कटुकाञ्च्येष्णवारिणा ।
पीत्वा ज्वरं जयेज्जन्तुः पित्तश्ले ष्मसमुद्भवम् ॥”
अत्र कटुकाया द्बादशमाषाः । शर्क्कराया-
श्चत्वारो माषाः । एवं कर्ष इति चक्रदत्तः ॥
वैद्यव्यवहारे तु कटुकाशर्क्करयोः समभागयो-
रेव कर्षः । इति कटुकीकल्कः ॥ * ॥
“सपत्रपुष्पवासायाः रसः क्षौद्रसितायुतः ।
पित्तश्ले ष्मज्वरं हन्ति सास्रपित्तं सकामलम् ॥”
अत्र वासाया रसो अर्द्धपलपरिमितो देयः ।
मधुसितयोः प्रत्येकं टङ्कः प्रक्षेप्तव्यः ॥ * ॥
अथान्नमाह ।
“कषायः परिपीतस्तु शृङ्गवेरपटोलयोः ।
पित्तश्ले ष्मज्वरवमीदाहकण्डूहरो भवेत् ॥” * ॥
अन्यच्च ।
“पटोलघान्ययोर्यूषः पित्तश्ले ष्मज्वरापहः ॥”
इति पित्तश्ले ष्माधिकारः ॥ * ॥
अथ सन्निपातज्वराधिकारः । तस्य निदा-
नादिचिकित्सा सन्निपातज्वरशब्दे द्रष्टव्या ॥ * ॥
अथागन्तुकज्वराधिकारमाह । तत्रागन्तुक-
ज्वरस्य निदानान्याह ।
“अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः ।
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ॥”
अभिघातः शस्त्रमुष्टिलगुडादिभिरभिहननम् ।
अभिषङ्गः कामशोकभयक्रोधभूतादीनामावेशः ।
अभिचारः कृत्याद्युत्पादनम् । अभिशापः
ब्राह्मणगुरुवृद्धसिद्धादिकृतः शापः । तं आगन्तु-
ज्वरं यथास्वं यथादोषलक्षणं दोषैर्व्विभावयेत्
विजानीयात् ॥ * ॥ अपराण्यपि निदाना-
न्याह ।
“ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः ।
रागद्वेषभयाद्ये च ते स्युरागन्तवो गदाः ॥”
भयाद्येत्याद्यशब्देन भूतविषवाय्वग्निक्षतभङ्गादयः
संगृह्यन्ते । तेन रागादयोभङ्गाद्यन्ता हेतवो-
ऽप्यागन्तुसंज्ञाः स्युः । कार्य्यकारणयोरभेदोप-
चारात् । एतेन आगन्तुजः स्मृत इत्यत्राप्या-
गन्तुशब्दो हेतुवाची आगन्तुर्ज्जायते दौषैरि-
त्यत्र व्याधिवाची अभिघाताभिषङ्गाभ्यामित्यादि
श्लोके दौषैर्यथास्वं तं विभावयेदितिवचनेनैव
प्रतीयते । अभिधातादीनां विप्रकृष्टकारणत्वं
मिथ्याहारविहाराणामिव दोषाणां सन्निकृष्ट-
कारणत्वम् । तथा सति दक्षापमानसंक्रुद्धरुद्रे-
त्यादि श्लोके आगन्तुज्वरस्याष्टमत्वविघातो
दोषजेष्वेव प्रवेशात् । उच्यते । आगन्तुज्वरस्य
दोषा आरम्भका न किन्तु पश्चादनुबन्धिनः ॥ * ॥
तथा चागन्तुज्वरस्य सम्प्राप्तिमाह चरकः ।
आगन्तुर्हि व्यथापूर्ब्बो जायते पश्चान्निजैर्दोषै-
रनुबध्यत इति ॥ * ॥
पृष्ठ २/५६५
तत्र कस्यागन्तोः को निजो दोष इत्यपेक्षाया-
माह ।
“कामशोकभयाद्बायुः क्रोधात् पित्तं त्रयो मलाः ।
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥”
कामशोकभयात् कामशोकभयजादागन्तोर्वायुः
कुप्यति । क्रोधात् क्रोधजादागन्तोः पित्तं
कुप्यति । भूताभिषङ्गात् भूतावेशजादागन्तोः
त्रयो मला दोषाः कुप्यन्ति इत्यर्थः । भूत-
सामान्यलक्षणाः भूतस्य भूतलक्षणस्य सामान्यं
समानता येषां तानि भूतसामान्यानि भूतसा-
मान्यानि लक्षणानि येषां ते भूतसामान्य-
लक्षणाः मलाः ॥ * ॥
अथागन्तुज्वराणां हेतुभेदैर्लक्षणभेदानाह ।
“श्याव्यास्यता विषकृते तथातीसार एव च ।
भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया ॥”
विषकृते स्थावरजङ्गमविषभक्षणकृते ज्वरे ।
श्यावः शुक्लानुविद्धः कृष्णो वर्णः शाकवर्णो वा ।
अतीसारः स्थावरविषेणैव तस्याधोगामित्वात् ।
तोदः सूचीव्यधनेनेव व्यथा ॥ * ॥
“ओषधीगन्धजे मूर्च्छा शिरोरुग्वमथुस्तथा ।
कामजे चित्तविभ्रंशस्तन्द्रालस्यमभोजनम् ॥
हृदये वेदना चास्य गात्रञ्च परिशुष्यति ॥”
कामजे समीहितकान्ताद्यप्राप्तिनिमित्तके ज्वरे ।
चकारात् वाग्भटोक्तान्यपि लक्षणानि बोद्ध-
व्यानि । तानि यथा, --
“कामाद्म्रमोऽरुचिर्द्दाहो ह्रीनिद्राधीधृतिक्षयः ।
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः ॥”
भयात् भयजे ज्वरे प्रलापः । शोकाच्च चकारेण
प्रलाप एवानुकृष्यते । कोपाच्च कोपादपि
वेपथुर्भवति ॥ * ॥ ननु वेपथुर्व्वातस्य धर्म्मः तत्
कथं क्रोधजे ज्वरे वेपथुः । यत उक्तम् । क्रोधात्
पित्तमिति । उच्यते ।
“एकः प्रकुपितो दोष इतरानपि कोपयेत् ॥”
इति वचनात् पित्तकोपितषातजन्य एवात्र
वेपथुः ॥ * ॥ किञ्च क्रोधाद्बायुरपि भवति ।
यत उक्तं विदेहेन । क्रोधशोकौ स्मृतौ वात-
पित्तरक्तप्रकोपनाविति । यत उक्तम् ।
“भूताभिषङ्गादुद्वेगो हास्यं रोदनकोपने ।
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥”
भूताभिषङ्गोत्थो विषमज्वरो भवति । कदा-
चिदपि वेगवान् कदाचिच्छान्तवेग इत्यर्थः ॥
‘अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ।”
तृष्णा चेति चकारेण हारीतानुवादि वाग्-
भटोक्तञ्च बोद्धव्यम् । तद्यथा, --
“अत्राभिचारिकैर्म्मन्त्रैर्हूयमानस्य तप्यते ।
पूर्ब्बं मनस्ततो देहस्ततो विष्फोटविभ्रमैः ।
सदाहमूच्छर्ग्रस्तस्य प्रत्यहं वर्द्धते ज्वर इति ॥”
अथ तेषां चिकित्सा ।
“आगन्तुजे ज्वरे नैव नरः कुर्व्वन्ति लङ्घनम् ॥”
तथा च वाग्भटः ।
“शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम् ॥”
नेष्यते इति शेषः । अन्यच्च ।
“लङ्घनं न हित कामशोकचिन्ताप्रहारजे ।
भयभूतश्रमक्रोधलङ्घनैश्च कृते ज्वरे ॥
किन्तु दीप्ताग्नये तत्र दद्यान्मांसरसौदनम् ।
अभिघातज्वरे युञ्ज्यात् क्रियामुष्णविवर्ज्जिताम् ॥
कषायं मधुरं स्निग्धं यथादोषमथापि वा ।
अभिघातज्वरो नश्येत् पानाभ्यङ्गेन सर्पिषः ॥
रक्तावसेकैर्म्मेध्यैश्च तथा मांसरसौदनैः ॥”
मेध्यैर्म्मेधाय हितैः ॥ * ॥
“व्यधबन्धश्रमात्यध्वभङ्गभ्रंशसमुद्भवान् ।
ज्वरानुपाचरेत् पूर्ब्बं क्षीरमांसरसौदनैः ॥”
व्यधस्ताडनं कर्णादिवेधो वा । भङ्गश्छेदभेदादिकः ।
भ्रंशो वृक्षादितः पतनम् ॥ * ॥
“अध्वश्रान्तेषु चाभ्यङ्गं दिवानिद्राञ्च कारयेत् ।
ओषधीगन्धविषजौ विषपित्तप्रवाधनैः ।
जयेत् कषायैर्म्मतिमान् सर्व्वगन्धकृतैर्भिषक् ॥”
सर्व्वगन्धमाह ।
“चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् ।
लवङ्गसहितञ्चैव सर्व्वगन्धं विनिर्द्दिशेत् ॥ * ॥
क्रोधजे पित्तजे काम्ये नार्य्याः सद्बाक्यमेव च ।
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च ॥
हर्षणैश्च शमं यान्ति कामशोकभयज्वराः ।
कामैरथ मनोघ्नैश्च पित्तघ्नैश्चाप्युपक्रमैः ॥
सद्बाक्यैश्च शमं याति ज्वरः क्रोधसमुत्थितः ॥”
कामैः कामावेशैः । मनोघ्नैः धिक्कारादिभि-
र्भयजनकवचनैर्व्वा ॥ * ॥
“कामात क्रोधज्वरो नश्येत् क्रोधात् कामज्वर-
स्तथा ।
षातिताभ्यामुभाभ्याञ्च कामक्रोधज्वरक्षयः ॥”
घातिताभ्यामुभाभ्यां मनसि निगृहीताभ्यां काम-
क्रोधाभ्याम् ॥ * ॥
“भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः ।
जयेद्भूताभिषङ्गोत्थं मनःसान्त्वैश्च मानसम् ॥”
ताडनैरित्यस्य स्थाने केचित् पूजनैरिति पठन्ति ॥
“सहदेवाया मूलं विधिना कण्ठे निबद्धमपहरति ।
एकद्बित्रिचतुर्भिर्द्दिवसैर्भूतज्वरं पुंसाम् ॥
अभिचाराभिशापोत्थौज्वरौ होमादिभिर्जयेत् ।
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहदुष्टिजौ ॥”
इत्यागन्तुज्वराधिकारः ॥ * ॥
अथ विषमज्वराधिकारमाह । तत्र विषम-
ज्वरस्य निदानादिचिकित्सापर्य्यन्तं विषमज्वर-
शब्दे द्रष्टव्यम् ॥ * ॥
अथ जीर्णज्जराधिकारः । तस्य निदानादिकं
जीणज्जरशब्दे द्रष्टव्यम् ॥ * ॥
अथ दुर्ज्जलजनितस्य ज्वरस्य चिकित्सामाह ।
“हरीतकी निम्बपत्रं नागरं सैन्धवोऽनलः ।
एषां चूर्णं सदा खादेत् दुर्ज्जलज्वरशान्तये ॥”
इति हरीतक्यादि चूणम् ॥ * ॥
“अरुचिमनलमान्द्यं पीनसश्वासकासा-
नुदरमुदकदोषानाशु हन्यादशेषान् ।
जनयति तनुकान्तिं चित्तनेत्रप्रसादं
पलपरिमितशुण्ठीक्षोदसिद्धः कषायः ॥”
इति शुण्ठीक्वाथः ॥ * ॥
“विषं भागद्बयं दग्धकपर्द्दः पञ्चभागकः ।
मरिचं नवभागञ्च चूर्णं वस्त्रेण शोधयेत् ॥
आर्द्रकस्य रसेनास्य कुर्य्यान्मुद्गनिभां वटीम् ।
वारिणा वटिकायुग्मं प्रातः सायञ्च भक्षयेत् ॥
अयं रसो ज्वरे योज्यः सामे दुर्ज्जलजेऽपि च ।
अजीर्णाध्मानविष्टम्भशूलेषु श्वासकासयोः ॥”
इति दुर्ज्जलजेता रसः ॥ * ॥
“पटोलमुस्तामृतवल्लिवासकं
सनागरं धान्यकिराततिक्तकम् ।
कषायमेषां मधुना पिबन्नरो
निवारयेत् दुर्ज्जलदोषमुल्वणम् ॥”
इति पटोलादिक्वाथः ॥ * ॥
“किराततिक्तत्रिवृदम्बुपिप्पली-
विडङ्गविश्वाकटुरोहिणीरजः ।
निहन्ति लीढं मधुनातिसत्वरं
सुदुस्तरं दुर्ज्जलदोषजं ज्वरम् ॥”
इति किराततिक्तादिचूर्णम् ॥ * ॥
“भोजनादौ नरैर्भुक्तं शुण्ठीराज्यभयोत्थितम् ।
कल्कं तु सहते नित्यं नानादेशोद्भवं जलम् ॥
महार्द्रकयवक्षारौ पीत्वा चोष्णेन वारिणा ।
नानादेशसमुद्भूतंवारिदोषमपोहति ॥” * ॥
अथ साध्यस्य ज्वरस्य लक्षणमाह ।
“बलवत्स्वपि दोषेषु ज्वरः साध्योऽनुपद्रवः ॥”
ज्वरस्योपद्रवानाह ।
“श्वासमूर्च्छारुचिच्छर्द्दितृष्णातीसारविड्ग्रहाः ।
हिक्काकासाङ्गमेदाश्च ज्वरस्योपद्रवा दश ॥” * ॥
प्रसङ्गादुपद्रवाणां चिकित्सायां विशेषमाह ।
“संजातोपद्रवो व्याधिस्त्याज्यो न स्याच्चिकित्-
सकैः ।
व्याधौ शान्त प्रणश्यन्ति सद्यः सर्व्वेऽप्युपद्रवाः ॥
अतो व्याधिं जयेद्यत्नात् पूर्ब्बं पश्चादुपद्रवम् ।
भिषग्यः कुशलः सोऽत्र जयेत् पूर्ब्बमुपद्रवम् ॥
तेष्वपि प्रचुरेषु प्राङ्नाशयेदाशुकारिणम् ।
मूलव्याधिं जयेत् पूर्ब्बं जेयो यो वा भवेद्बली ॥
अविरोधेन वा कुर्य्यादुभयोरपि च क्रियाम् ॥”
तत्र ज्वरे श्वासस्य चिकित्सा ।
“सिंही व्याघ्री ताभ्रमूली पटोली
शृङ्खी पद्मा पुष्करं रोहिणी च ।
शाकं शट्या शैलमल्ल्याश्च बीजं
श्वासं हन्यात् सन्निपाते दशाङ्गः ॥”
सिंही वडीकटैया । व्याघ्री कटैया । ताम्रमूली
दुरालभा । पद्मा भार्गी । रोहिणी कटुकी ।
शैलमल्ली कोरैया । इति दशाङ्गो योगः ॥ * ॥
“भार्गीनिम्बघनाभयामृतलताभूनिम्बवासाविषा-
त्रायन्तीकटुकावचात्रिकटुकश्योनाकशत्रुद्रुमैः ।
रास्नायासपटोलपाटलिशटीदार्व्वीविशाला-
त्रिवृद्-
ब्राह्मीपुष्करसिंहिकाद्बयनिशाधात्र्यक्षदेव-
दुमैः ॥
क्वाथोऽयं खलु सन्निपातनिवहान् द्बात्रिंशतां
पानतो ।
दुर्द्धर्षान्निजतेजसा विजयते सर्पान् गरुत्मानिव
पृष्ठ २/५६६
किञ्च श्वासवलासकासगुदरुघृद्रोगहिक्कामरु-
न्मन्यास्तम्भगलामयार्द्दितमला विष्टम्भव्रध्ना-
नपि ॥”
विषा अतीस । शक्रद्रुमः ककुभः । देवद्रुमः देव-
दारु ॥ इति द्बात्रिंशदङ्गक्वाथः ॥ * ॥
“मधुना कृष्णाकट्फलकर्क्कटशृङ्गीभवं चूर्णम् ।
श्वासामये महोग्रे लीढ्वा लोकः सुखी भवति ॥
वन्योपलाग्नितापितदात्रस्याग्रेण पञ्जरे दाहः ।
अपहरति श्वासामयमसंशयं भाषितं मुनिभिः ॥”
अथ ज्वरे मूर्च्छायाश्चिकित्सा ।
“आर्द्रकस्य रसैर्नस्यं मूर्च्छायामाचरेन्नरः ।
अञ्जनञ्च प्रयुञ्जीत मधुसिन्धुशिलोषणैः ॥
शीताम्भसाक्षिसेकः सुरभिर्धूपः सुगन्धिपुष्पञ्च ।
मृदुतालवृन्तवातः कोमलकदलीदलस्पर्शः ॥”
अथ ज्वरे अरुचेश्चिकित्सा ।
“अरुचौ तु शृङ्गवेरजरसकैः साम्लैः ससिन्धुजैः
कवलः ।
सिन्धूत्थमातुलुङ्गीफलकेशरधारणं वक्त्रे ॥”
अन्यच्च ।
“अरुचौ मातुलुङ्गस्य केशरं साज्यसैन्धवम् ।
धात्रीद्राक्षासितानां वा कल्कमास्ये तु
धारयेत् ॥”
अथ ज्वरे छर्द्देश्चिकित्सा ।
“क्वाथो गुडू च्याः समधुः सुशीतः
पीतः प्रशान्तिं वमनस्य कुर्य्यात् ।
विण्मक्षिकाणां मधुनावलीढा
सचन्दना शर्करयान्विता च ॥”
अथ ज्वरे तृष्णायाश्चिकित्सा ।
“दन्तशठवीजपूरकदाडिमवदरैः सचुक्रकैर्व्वदने ।
लेपो जयति पिपासामथ रजतगुटीमुखान्तःस्था ॥
शीतं पयः क्षौद्रयुतं निपीत-
माकण्ठमाश्वेव तदुद्बमेच्च ।
तर्षप्रकर्षप्रशमाय वक्त्रे
दध्याद्गदक्षौद्रवटाग्रलाजान् ॥” * ॥
अथ ज्वरे अतीसारस्य चिकित्सा ।
“लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः ।
समुदीर्णदोषनिचयं शमयति तत् पाचयत्यपि च ॥
वत्सादनीवत्सकवारिवाह-
विश्वम्भरानिम्बविषाः सविश्वाः ।
ज्वरातिसारं त्वरितं जयन्ति
विश्वामृतावत्सकवारिवाहः ॥”
विश्वम्भरानिम्बो भूनिम्बः ।
“पाठामृतापर्पटमुस्तविश्वा-
किराततिक्तेन्द्रयवान् विपाच्य ।
पिबन् हरत्येव दृढेन सर्व्व-
ज्वरातिसारानपि दुर्न्निवारान् ॥” * ॥
अथ ज्वरे विड्ग्रहस्य चिकित्सा ।
“विड्ग्रहे वातजित् कर्म्म कुर्य्यादन्नानुलोमनम् ।
मलं प्रवर्त्तयेदाशु तीक्ष्णाभिः फलवर्त्तिभिः ॥
पथ्यारग्वधतिक्तात्रिवृदामलकैः शृतं तोयम् ।
जीर्णज्वरे विबन्धे दद्यादाश्वेव विडग्रहः
शाम्येत् ॥”
अथ ज्वरे हिक्कायाश्चिकित्सा ।
“नीरेण सिन्धूत्थरजोऽतिसूक्ष्मं
नस्येन नूनं विनिहन्ति हिक्काम् ।
शुण्ठी हठाद्वा सितया समेता
धूपोऽथवा हिङ्गुसमुद्भवश्च ॥” * ॥
अथ ज्वरे कासस्य चिकित्सा ।
“कासे कणाकणामूलं कलिद्रुमफलं रजः ।
सविश्वभेषजं लिह्यात् मधुना वा वृषाद्रसम् ॥”
रजः पर्पटकम् ।
“पुष्करमूलकटुत्रिकशृङ्गीकट्फलयासककार-
विकाभिः ।
मधुलुलिताभिरयं खलु लेहः कासरिपुः कफ-
रोगहरश्च ॥” * ॥
अथ ज्वरे दाहस्य चिकित्सा ।
“दाहाधिकारलिखितं दाहे कुर्य्याच्चिकित्सितम् ।
परं ज्वराविरुद्धं यन्मुख्यो नाश्यो ज्वरो यतः ॥”
अथ सुखसाध्यस्य ज्वरस्य लक्षणम् ।
“सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनाञ्च मार्द्दवम् ।
वहिर्व्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥”
तृष्णादीत्यादिशब्देनान्तर्द्दाहसन्ध्यस्थि-व्यथा-
श्वासा गृर्ह्यन्ते । तेषामार्द्दवमल्पता । बहि-
र्व्वेगस्य ज्वरस्य ।
“वर्षाशरद्बसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
प्राकृतः सुखसाध्यस्तु शरत्सुरभिसम्भवः ॥”
सुरभिर्व्वसन्तः ॥ * ॥
अथ कष्टसाध्यस्य ज्वरस्य लक्षणमाह ।
“वैकृतोऽन्यः स दुःसाध्यः प्राकृतेष्वनिलोद्भवः ॥”
अन्यः प्राकृतादन्यः वैकृतः । * । वर्षादिषु
ज्वरं जनयतां वातादीनां चिकित्साविशेषार्थं
प्राधान्यमप्राधान्यञ्चाह ।
“वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितं ज्वरम् ।
कुर्य्यात् पित्तञ्च शरदि तस्य चानुबलः कफः ॥”
तस्य पित्तज्वरस्य चिकित्सामाह ।
“तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥”
तत्प्रकृत्या तस्य पित्तस्य प्रकृत्या स्वभावेन ।
यत उक्तम् ।
“कफपित्ते द्रवे धातू सहेते लङ्घनं बहु ॥” इति ।
विसर्गाच्च शरदो विसर्गकालत्वाच्च । यत उक्तम् ।
वर्षाशरद्धेमन्ता विसर्गाः कालास्तत्रोपचितबला-
प्राणिनो भवन्ति सोमस्य बलवत्त्वादिति । तत्र
शरदि पित्तज्वरे अनशनाद्भयं न । कफो वसन्ते
तमपि वातपित्तं भवेदनु । वसन्ते कफज्वरेऽपि
कफप्रकृत्या लङ्घनाद्भयं न भवति । किन्तु
वसन्तस्यादानकालत्वात् निःशङ्कं न कर्त्तव्यम् ।
यत उक्तम् । शिशिरवसन्त-ग्रीष्मास्त्वादानकालाः
स्तत्रापचितबलाः प्राणिनो भवन्ति सूर्य्यस्य
बलवत्त्वादिति । एतेनेदं उक्तम् । वर्षासु वायुः
प्रधानं पित्तश्लेष्माणावप्रधाने । शरदि पित्तं
प्रधानं कफोऽप्रधानम् । वसन्ते श्लेष्मा प्रधानं
वातपित्ते अप्रधाने । तत्र प्रधानस्य प्राधा-
न्येन चिकित्सा कर्त्तव्या । सा चाप्रधाना
निषिद्धा विषेया । एवं वैकृतेष्वपि प्रधा-
नस्य प्राधान्येन चिकित्सा कर्त्तव्या । तथा
चोक्तम् ।
“संसर्गे यो गरीयान् स्यादुपक्रम्य स वै भवेत् ।
शेषदोषाविरोधेन सन्निपाते तथैव च ॥”
संसर्गे दोषद्बयस्य संसर्गे । गरीयान् प्रधानः ।
“अन्तर्द्दाहोऽधिका तृष्णा प्रलापः श्वसनं भ्रमः ।
सन्ध्यस्थिशूलमस्वेदो दोषवर्च्चोविनिग्रहः ॥
अन्तर्व्वेगस्य लिङ्घानि कष्टसाध्यत्वमेव च ॥”
वर्च्चोविनिग्रहः पुरीषाप्रवृत्तिः ॥ * ॥
अथासाध्यस्य ज्वरस्य लक्षणमाह ।
“ज्वरः क्षीणस्य शूलस्य गम्भीरो दैर्घ्यरात्रिकः ।
असाध्यो बलवान् यश्च केशसीमन्तकृत् ज्वरः ॥”
दैर्घ्यरात्रिकः बहुरात्रानुबन्धी । केशसीमन्तकृत्
प्रभावात् केशेषु सीमन्तं यः करोति ॥ * ॥
गम्भीरस्य लक्षणमाह ।
“गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्द्दाहेन तृष्णया ।
आनद्धत्वेन चात्यर्थं कासश्वासोद्गमेन च ॥”
आनद्धत्वेन विबद्धमलत्वेन ॥ * ॥ सामान्य-
ज्वरेऽपि कर्णमूलशोथस्यासाध्यत्वादिकमाह ।
“ज्वरस्य पूर्ब्बं ज्वरमध्यतो वा
ज्वरान्ततो वा श्रुतिमूलशोथः ।
क्रमादसाध्यः खलु कृच्छ्रसाध्यः
सुखेन साध्यो मुनिभिः प्रदिष्टः ॥” * ॥
अथारिष्टमाह । तत्रारिष्टस्य लक्षणम् ।
“रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते ।
तल्लक्षणमरिष्टं स्याद्रिष्टमप्यभिधीयते ॥
हेतुभिर्बहुभिर्जातो बहुभिर्बहुलक्षणः ।
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः ॥”
शीघ्रमिन्द्रियनाशनः उत्पन्नमात्र एव चिकित्-
स्यमानोऽपीन्द्रियाणां चक्षुरादीनां शक्तिं यो
नाशयति ॥ * ॥ अन्यच्चारिष्टमाह ।
“विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ।
शीतार्द्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ॥”
विसंज्ञः विगतज्ञानः । ताम्यते नष्टहर्षः । शेते
निपतितोऽपि वा अत्रापिशब्द एवार्थः निप-
तित एव तिष्ठति न चोत्थातुं समर्थः तथा सन्
शेत एव । शीतार्दितः बहिः । अन्तरुष्णः
अन्तर्द्दाहवान् ॥ * ॥ अन्यच्च ।
“यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् ।
वक्त्रेण चैवाच्छ्वसिति ज्वरस्तं हन्ति मानवम् ॥”
हृष्टरोमा रोमाञ्चवान् । हृदि सङ्घातशूलवान्
सान्निपातिकशूलवान् । वक्त्रेण चैवोच्छ्वसिति
न तु नासिकया ॥ * ॥ अन्यच्च ।
“हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ।
सन्ततोच्छासिनं क्षीणं नरं क्षपयति ज्वरः ॥”
क्षपयति समापयतीत्यर्थः ॥ * ॥ अन्यच्च ।
“हतप्रभेन्द्रियं क्षाममरोचकनिपीडितम् ।
गम्भीरतीक्ष्णवेगार्त्तं ज्वरितं परिवर्ज्जयेत् ॥”
हता प्रभा दीप्तिर्येषाम् । अथवा हता प्रभा
प्रतिभा विषयग्रहणशक्तिर्येषां तथाविधानीन्द्रि-
याणि यस्य तं हतप्रभेन्द्रियम् । क्षामं क्षीणम् ।
गम्भीरतीक्ष्णवेगात्तं गम्भीरः उक्तलक्षणः
पृष्ठ २/५६७
तीक्ष्णवेगः अतिदुःसहवेगः ताभ्यां आर्त्तं
दुःखितम् ॥ * ॥ अन्यच्च ।
“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ।
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ॥”
व्याख्यातोऽयं श्लोकः ॥ * ॥
विषमज्वरस्यारिष्टमाह ।
“आरम्भाद्बिषमो यस्य यस्य वा दैर्घ्यरात्रिकः ।
क्षीणस्य चातिरूक्षस्य गम्भीरोहन्ति यस्य तम् ॥”
यस्य आरम्भाद्बिषमः प्रथमोत्पत्तेरेव विषमः
न तु ज्वरोत्सृष्टस्य । यस्य दैर्घ्यरात्रिको वा यस्य
क्षीणस्यातिरूक्षस्य च गम्भीरोभवति तंविषमो
दैर्घ्यरात्रिको गम्भीरश्च हन्तीत्यर्थः ॥ इति
ज्वराधिकारः ॥ * ॥ अथ ज्वरातिसाराधिकारः ।
“ज्वरातिसारयोरुक्तं निदानं यत् पृथक् पृथक् ।
तस्माज्ज्वरातिसारस्य निदानं नोदितं पुनः ॥”
अथ ज्वरातिसारस्य चिकित्सामाह ।
“ज्वरातिसारयोरुक्तं भेषजं यत् पृथक् पृथक् ।
न तन्मिलितयोः कार्य्यमन्योन्यं वर्द्धयेत् पुनः ॥”
अयमभिप्रायः । ज्वरहरमनुलोमनं भवति ।
अतीसारहरं स्तम्भनं भवति । अतः परस्पर-
विरुद्धत्वात् पृथक् उक्तं भेषजं मिलितयोर्न्न
कार्य्यम् । यत आह ।
“अनुलोमनं ज्वरघ्नं ग्राहकमतिसारहृद्भवति ।
पृथगुत्तमौषधं तज्ज्वरातिसारे विरुद्धमन्योन्यम् ॥
अतस्तौ प्रतिकुर्व्वीत विशेषोक्तचिकित्सितैः ॥
लङ्घनमेकं मुक्त्र्य न चान्यदस्तीह भेषजं बलिनः ।
समुदीर्णदोषनिचयं तत् पाचयेत्तथा शमयेत् ॥
लङ्घनमुभयोरुक्तं मिलिते कार्य्यं विशेषतस्तदनु ।
उत्पलषष्ठकसिद्धं लाजमण्डादिकं सकलम् ॥”
उत्पलषष्ठकं यथा, --
“पृश्निपर्णीबलाविल्वधनिकानागरोत्पलैः ।
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः ॥”
अत्र लाजमण्डाद्यपेक्षया वाशब्दः । अतिसारे
पुरीषातिप्रवृत्त्या साम्लत्वञ्च दाडिमरसादिना
कर्त्तव्यम् । इत्यत्पलषष्ठकम् ॥ * ॥
“कणा करिकणा लाजक्वाथो मधुसितायुतः ।
पीतो ज्वरातिसारस्य तृष्णावम्योश्च नाशनः ॥”
इति कणादिक्वाथः ॥ * ॥
“नागरातिविषामुस्तामृताभूनिम्बवत्सकैः ।
क्वाथः सर्व्वज्वरहरः सर्व्वातीसारनाशनः ॥”
इति नागरादिक्वाथः ॥ * ॥
“गुडूच्यतिविषाधान्यशुण्ठीविल्वाब्दबालकैः ।
पाठा भूनिम्बकुटजं चन्दनोशीरपर्पटैः ।
पिबेत् कषायं सक्षौद्रं ज्वरातीसारशान्तये ॥
ह्यल्लासारुचितृड्दाहवमीनां विनिवृत्तये ॥”
इति बृहद्गुडूच्यादिक्वाथः ॥ * ॥
“उत्पलं दाडिमत्वक् च पद्मकेशरमेव च ।
पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम् ॥”
इत्युत्पलादिचूर्णम् ॥ * ॥
विल्वबालकभूनिम्बगुडूचीधान्यनागरैः ।
कुटजाब्दयुतः क्वाथो ज्वरातीसारशूलनुत् ॥
इति विल्वादिक्वाथः ॥ * ॥
“नागरातिविषाविश्वागुडूचीविल्वमुस्तकैः ।
कषायः पाचनः शोथज्वरातीसारवारणः ॥”
इति नागरादिक्वाथः ॥ * ॥
“दशमूलीकषायेण विश्वामक्षसमां पिबेत् ।
ज्वरे चैवातिसारे च सशोथे ग्रहणीगदे ॥”
इति दशमूलीक्वाथः ॥ * ॥
इति ज्वरातिसाराधिकारः । इति भावप्रकाशः ॥

ज्वरघ्नः, पुं, (ज्वरं हन्तीति । हन् + टक् ।) गुडूची ।

वास्तूकम् । इति राजनिर्घण्टः ॥ ज्वरनाशके,
त्रि । (यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ।
“ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ॥”)

ज्वरहन्त्री, स्त्री, (ज्वरं हन्ति या । हन् + तृच्

ङीप् च ।) मञ्जिष्ठा । इति राजनिर्घण्टः ॥
ज्वरघ्नी च ॥

ज्वराग्निः, पुं, (ज्वर एवाग्निः । दाहकत्वादस्य

तथात्वम् ।) ज्वररूपाग्निः । तत्पर्य्यायः ।
आधिमन्यवः २ । इति हारावली ॥

ज्वराङ्गी, स्त्री, (ज्वरमङ्गति विनाश्यतया प्राप्नो-

तीति । अङ्ग गतौ + अच् । गौरादित्वात् ङीष् ।)
भद्रदन्तिका । इति राजनिर्घण्टः ॥

ज्वरान्तकः, पुं, (ज्वरस्य अन्तको विनाशकः ।)

नेपालनिम्बः । आरग्वधः । इति राजनिर्घण्टः ॥
ज्वरघ्नौषधविशेषः । यथा, --
“भास्करो गन्धकः शर्व्वो देवी विहङ्गतीक्ष्णकम् ।
शोणितं गगनञ्चैव पुष्पकञ्च महेश्वरम् ॥
भूनिम्बादिगणैर्भाव्यं मधुना गुटिका दृढा ।
चातुर्थकं तृतीयञ्च ज्वरं सन्ततकं तथा ॥
आमज्वरं भूतकृतं सर्व्वज्वरमपोहति ॥
अत्र भास्करः ताम्रम् । शर्व्वो रसः । देवी
सौराष्ट्रमृत्तिका । विहङ्गं स्वर्णमाक्षिकम् ।
गगनं अभ्रकम् । पुष्पकं रसाञ्जनम् । महेश्वरं
सुवर्णम् । अन्यत् सुगमम् । ताम्रादीनां सम-
भागचूर्णं भूनिम्बादिक्वाथेन भावयेत् । भूनिम्बा-
द्यष्टादशद्रव्याणि सर्व्वद्रव्यतुल्यानि अष्टभागा-
वशिष्टं क्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्य
मधुना विमर्द्द्य अनुरूपं लिहेत् । ज्वरान्तको
रसः ।” इति भैषज्यरत्नावली ॥ ज्वरनाश-
कश्च ॥

ज्वरापहा, स्त्री, (ज्वरं अपहन्ति नाशयतीति ।

अप + हन + डः ।) विल्वपत्री । इति शब्द
चन्द्रिका ॥ वेलशुँठा इति भाषा ॥ ज्वर-
नाशके, त्रि ॥

ज्वरारिः, पुं, (ज्वरस्य अरिः शत्रुर्नाशकत्वात् ।)

ज्वरघ्नौषधविशेषः । यथा, --
“दरदवलिरसानां शुल्वनागाभ्रकाणां
सुभगविटशिलानां सर्व्वमेकत्र योज्यम् ।
विपिननृपदलोत्थे भावितं शोषयेत्तं
दिवसदशसमाप्तौ रक्तिकैकाञ्च कुर्य्यात् ॥
एकैकां भक्षयेदस्य चार्द्रकस्य रसैर्युतम् ।
दत्तमात्रं ज्वरं हन्ति ज्वरारिः स निगद्यते ॥
सर्व्वशूलविनाशी च कफपित्तविनाशनः ॥
वलिः । गन्धकः । सर्व्वं शोनालिपत्ररसेन दश-
दिनं भावयित्वा गुञ्जाप्रमाणमार्द्रकरसेन देयम् ।
ज्वरारी रसः ।” इति भैषज्यरत्नावली ॥

ज्वराशनिः, पुं, (ज्वरे अशनिर्वज्रमिवामोघत्वात् ।)

ज्वरनाशकौषधविशेषः । यथा, --
“रसं गन्धं सैन्धवञ्च विषं ताम्रसमं भवेत् ।
सर्व्वचूर्णसमं लौहं तत्समं चूर्णमभ्रकम् ॥
लौहे च लौहदण्डे च निर्गुण्ड्याः स्वरसेन च ।
मर्द्दयेद्यत्नतः पश्चान्मरिचं सूततुल्यकम् ॥
पर्णेन सह पातव्यो रसो रक्तिकसम्मितः ।
सर्व्वज्वरहरश्रेष्ठो ज्वराशनिरुदाहृतः ॥
कासं श्वासं महाघोरं विषमाख्यं ज्वरं वमिम् ।
धातुस्थं प्रबलं दाहं ज्वरदोषं चिरोद्भवम् ॥
यकृद्गुल्मोदरप्लीहश्वयथुञ्च विनाशयेत् ॥
ज्वराशनी रसः ।” इति भैषज्यरत्नावली ॥

ज्वरितः, त्रि, (ज्वरः सञ्जातोऽस्य । ज्वर +

“तदस्य सञ्जातं तारकादिभ्य इतच् ।” ५ । २ ।
३६ । इति इतच् ।) ज्वरी । इति राज-
निर्घण्टः ॥ (यथा, सुश्रुते उत्तरतन्त्रे ३९
अध्याये ।
“मुद्गान् मसूरांश्चणकान् कुलत्मान् समकुष्ठकान् ।
आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् ॥”
यथाच, --
“ज्वरितो हितमश्नीयात् यद्यप्यस्यारुचिर्भवेत् ।
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

ज्वरी, [न्] त्रि, (ज्वरोऽस्त्यस्येति । ज्वर + इनिः ।)

ज्वरयुक्तः । (यथा, सुश्रुते उत्तरतन्त्रे ३९
अध्याये ।
“गुर्व्व्यभिष्यन्द्यकाले वा ज्वरीनाद्यात् कथञ्चन ॥”)

ज्वल, ज म चले । त्विषि । इति कविकल्पद्रुमः ॥

(भ्वां-परं-अकं-सेट् ।) वकारयुक्तः । ज,
ज्वालः ज्वलः । म, प्रज्वलयति । मित्त्वेऽपि ञौ
ज्वलह्वलह्मल इत्यादिना केवलस्य ह्नस्वविक-
ल्पनात् सोपसर्गस्यैव नित्यं ह्नस्वः । ज्वालयति
ज्वलयति प्रज्वलयति । त्विट् दीप्तिः । ज्वलति
वह्निः । इति दुर्गादासः ॥ (यथाह कश्चित् ।
“जागर्त्ति लोको ज्वलति प्रदीपः
सखीगणः पश्यति कौतुकेन ।
मुहूर्त्तमात्रं कुरु नाथ ! धैर्य्यं
बुभुक्षितः किं द्विकरेण भुङ्क्ते ॥”)

ज्वलः, पुं, ज्वालः । दीप्तिः । (ज्वलतीति । ज्वल

दीप्तौ + अच ।) दीप्तिविशिष्टे, त्रि । इति
मुग्धबोधम् ॥

ज्वलका, स्त्री, (ज्वलतीति । ज्वल + बाहुलकात्

वुन् ।) अग्निशिखा । इति हेमचन्द्रः ॥

ज्वलत्, त्रि, (ज्वल + शतृ ।) दीप्तिमत् । तत्-

पर्य्यायः । जमत् १ कल्मलीकिनम् २ जञ्जना-
भवन् ३ मल्मलाभवन् ४ अर्च्चिः ५ शोचिः ६
तपः ७ तेजः ८ हरः ९ हृणिः १० शृङ्गाणि ११ ।
इत्येकादश ज्वलति नामधेयानि ॥ * ॥ म्राजते १
भ्रासते २ भास्यति ३ दीदयति ४ शोचति ५
मन्दते ६ भन्दते ७ रोचते ८ ज्योतते ९
पृष्ठ २/५६८
द्योतते १० द्युमत् ११ । इत्येकादश ज्वलति-
कर्म्माणः । इति वेदनिघण्टौ १ अध्यायः ॥

ज्वलनः, पुं, (ज्वलतीति । ज्वल + “जुचङ्क्रम्य-

दन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।” ३ । २ ।
१५० । इति युच् ।) अग्निः । (यथा, कला-
विलासे । १ । ४ ।
“यत्र त्रिनयननयनज्वलनज्वालावलीशलभ-
वृत्तिः ।
जीवति मानसजन्मा शशिवदनावदनकान्ति-
पीयूषैः ॥”)
चित्रकवृक्षः । इत्यमरः । १ । १ । ५६ ॥ (ज्वल +
भावे ल्युट् ।) दहने, क्ली ॥

ज्वलनाश्मा, [न्] पुं, (ज्वलनः सूर्य्यवद्दीप्ति-

विशिष्टः अश्मा प्रस्तरमणिः । नित्यकर्म्मधारयः ।)
सूर्य्यकान्तमणिः । इति राजनिर्घण्टः ॥

ज्वलितः, त्रि, (ज्वल + क्तः ।) दधः । उज्ज्वलः ।

इति मेदिनी । ते, ११० ॥ (प्रदीप्तः । यथा,
महाभारते । ६ । १८ । ६ ।
“काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥”)

ज्वलिनी, स्त्री, (ज्वलो दीप्तिरस्त्यस्याः । ज्वल +

इनिः + ङीप् ।) मूर्व्वालता । इति राज-
निर्घण्टः ॥

ज्वालः, पुं स्त्री, (ज्वलतीति । ज्वल + “ज्वलितिक-

सन्तेभ्यो णः ।” ३ । १ । १४० । इति णः । पक्षे
स्त्रियां टाप् ।) अग्निशिखा । इत्यमरः । १ । १ । ६० ॥
(यथा, महाभारते । ३ । २१८ । ३ ।
“दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्य्यवान् ॥”)
दीप्तिविशिष्टे, त्रि । इति मुग्धबोधम् ॥

ज्वाला, स्त्री, दग्धान्नम् । इति शब्दचन्द्रिका ॥

(ज्वलतीति । ज्वल + णः + टाप् ।) अग्निशिखा ।
इत्यमरः । १ । १ । ६० ॥ (यथा, विष्णुपुराणे ।
१ । १२ । २४ ।
“अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्म्मुखैः ॥”)
दाहश्च ॥ (स्वनामख्याता ऋक्षस्य पत्नी । यथा,
महाभारते । १ । ९५ । २५ ।
“ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम ।
तस्यां पुत्त्रं मतिनारं नामोत्पादयामास ॥”)

ज्वालागर्द्दभकः, पुं, (जालगर्द्दभ + स्वार्थे कन् ।

ततः पृषोदरादित्वात् साधुः ।) रोगविशेषः ।
तत्पर्य्यायः । ज्वलारासभकामयः २ ज्वाला-
खरगदः ३ गर्द्दभगदः ४ । इति राजनिर्घण्टः ॥
अस्य लक्षणं जालगर्द्दभशब्दे द्रष्टव्यम् ॥

ज्वालाजिह्वः, पुं, (ज्वाला शिखा एव जिह्वा

यस्य ।) अग्निः । इति हेमचन्द्रः । ४ । १६५ ॥
(स्कन्दस्यानुचरविशेषः । यथा, महाभारते
९ । ४५ । ५८ ।
“ज्वालाजिह्वः करालश्च शितकेशो जटी हरिः ॥”
दानवविशेषः । स तु वलिराजस्य सेनानी-
विशेषः । यथा, हरिवंशे । २३२ । ६ ।
“करालो ज्वालजिह्वश्च शताङ्गः शतलोचनः ॥”)

ज्वालामुखी, स्त्री, (ज्वालैव मुखं प्रधानं यस्याम् ।

तत्राजमप्रज्वलितज्वालाभिरेव पूजादिकं गृह्णाति
देवीत्यतोऽस्यास्तथात्वम् ।) पीठस्थानविशेषः ।
तत्र भगवत्या जिह्वा पतिता । तत्र अम्बिका
देवी । उन्मत्तनामकभैरवश्च । इति पीठमाला ॥
यथाच ।
“जालामुख्यां महाजिह्वा देव उन्मत्तभैरवः ।
अम्बिका सिद्धिदा नाम्नी स्तनं जालन्धरे मम ॥”
इति तन्त्रचूडामणौ पीठनिर्णयः ॥
विद्याविशेषः । यथा, --
“ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः
शुभे ! ।
नित्यारुणा मदनान्तरा मदमोहापकृष्यसिः ॥
कमला श्रीभारती च आकर्षणी महेन्द्र्यपि ।
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डेति च पूजयेत् ।
विजया चाजिता चैव मोहनी चापराजिता ॥
स्तम्भनी जपनी पूज्या कालिका पद्मवाह्यतः ।
ज्वालामुखीक्रमं पूज्य विषादिहरणं भवेत् ॥”
इति गारुडे ज्वालामुखीविद्या २०४ अध्यायः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/जेता&oldid=43962" इत्यस्माद् प्रतिप्राप्तम्