सामग्री पर जाएँ

शब्दकल्पद्रुमः/जनिता

विकिस्रोतः तः
पृष्ठ २/५०८

जनिता [ऋ] पुं, (जनयतीति । जन + णिच् +

तृच् । “जनिता मन्त्रे ।” ६ । ४ । ५३ । इति
निपातनात् णिलोपः ।) पिता । इति शब्द-
रत्नावली ॥ (यथा, ऋग्वेदे । १ । १२९ । ११ ।
“अधा हि त्वा जनिता जीजनद्बसो
रक्षोहणं त्वा जीजनद्बसो ॥”
क्वचित् लौकिकेऽपि दृश्यते । यथा, पञ्चतन्ते । १ । ९ ।
“अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
जनितारमपि त्यक्त्रा निःस्वं गच्छति दूरतः ॥”)

जनित्री, स्त्री, (जनितृ + स्त्रियां ङीप् ।) माता ।

इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ३ । ४८ । २ ।
“तं ते माता परि योषा जनित्री
महः पितुर्दम आसिञ्चदग्रे ॥”
यथाच शङ्करकृतविष्णुस्तोत्रे ९ ।
“या सूते सत्त्वजालं सकलमपि सदा सन्निधा-
नेन पुंसो
धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूत-
जातम् ।
धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्व-
शक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां
प्रणौमि ॥”)

जनित्वः, पुं, (जायतेऽस्मादिति । जन + “जनि-

दाच्युस्रिति ।” उणां ४ । १०४ । इति इत्वन् ।)
पिता । इत्युणादिकोषः ॥

जनित्वा, स्त्री, (जायतेऽस्थाः । जन + इत्वन् ।

अजादित्वात् टाप् ।) माता । इत्युणादिकोषः ॥

जनिनीलिका, स्त्री, (जन्या उत्पत्त्या नीलिका ।)

महानीली । इति राजनिर्घण्टः ॥ (महानीली-
शब्देऽस्या विवरणं ज्ञातव्यम् ॥)

जनिमा, [न्] पुं, (जन्यते इति । जन + “जनि-

मृङ्भ्यामिमनिन् ।” उणां ४ । १४८ । इति
इमनिन् ।) जन्म । इत्युणादिकोषः ॥

जनी, स्त्री, (जायते सन्ततिर्यस्यामिति । जन +

“जनिघसिभ्यामिण् ।” उणां ४ । १२९ । इतीण्
जनिवध्योश्चेति वृद्धिनिषेधः । ततः कृदिकारा-
दिति ङीष् ।) सीमन्तिनी । बधूः (जन + भावे
इण् ।) उत्पत्तिः । (जायते आरोग्यमनया ।
करणे इण् ।) ओषधीभित् । इति मेदिनी ।
ने, ६ ॥ शेषस्य पर्य्यायः । जतूका २ रजनी ३
जतुकृत् ४ चक्रवर्त्तिनी ५ संस्पर्शा ६ । इत्य-
मरः । २ । ४ । १५३ ॥ जतुका ७ जनिः ८
जननी ९ । इति भरतः ॥ राजनिर्घण्टोक्तगुण-
पर्य्यायौ जतुकाशब्दे द्रष्ठव्यौ ॥

जनुः [स्] क्ली, (जन्यते इति । जन + “जने-

रुसिः ।” उणां । २ । ११६ । इति उसिः ॥)
जन्म । इत्यमरः । १ । ४ । ३० ॥ (यथा,
ऋग्वेदे । ४ । १७ । २० ।
“त्वं राजा जनुषां धेह्यस्मे अधिश्रवो
माहिनं यज्जरित्रे ॥”)

जनुः, स्त्री, (जन्यते इति । जनीम्याङ जनौ +

बाहुलकात् उः ।) जन्म । इत्युणादिकोषः ॥

जनूः, स्त्री, (जनु + स्त्रियां ऊङ् ।) जन्म । इति

शब्दरत्नावली ॥

जनेष्टः, पुं, (जनानामिष्टः प्रियः ।) मुद्गरवृक्षः ।

इति राजनिर्घण्टः ॥

जनेष्टा, स्त्री, (जनानामिष्टा प्रिया ।) जतुका ।

वृद्धिनामौषधिः । जातीपुष्पम् । हरिद्रा । इति
राजनिर्घण्टः ॥

जनोदाहरणं, क्ली, (जनैरुदाह्नियते कथ्यते इति ।

उत् + आ + हृ + कर्म्मणि ल्युट् ।) यशः । इति
धनञ्जयः ॥

जनौः, पुं, (जनानवति रक्षतीति । अव + क्विप् ।

“च्छ्वोः शूडनुनासिके च ।” ६ । ४ । १९ ।
इति ऊट् ततो वृद्धिः ।) जनरक्षकः । इति
मुग्धबोधम् ॥

जन्तुः, पुं, (जायते उद्भवतीति । जन + “कमि-

मनिजनीति ।” उणां । १ । ७२ । इति तुः ।)
प्राणी । इत्यमरः । १ । ४ । ३० ॥ (यथा,
मनौ । ४ । २४० ।
“एकः प्रजायते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥”
मनुष्ये बहुवचनान्तः । इति निघण्टुः ॥ यथा,
ऋग्वेदे । १ । ९४ । ५ ।
“विशां गोपा अस्य चरन्ति जन्तवो
द्बिपच्च यदुत चतुष्पदक्तुभिः ॥”
सोमकस्य राज्ञः पुत्त्रविशेषः । अस्य विवरण-
मुक्तं यथा, महाभारते । ३ । १२७ -- १२८
अध्याययोः ।
“युधिष्ठिरासीन्नृपतिः सोमको नाम धार्म्मिकः ।
तस्य भार्य्याशतं राजन् ! सदृशीनामभूत्तदा ॥
स वै यत्नेन महता तासु पुत्त्रं महीपतिः ।
कञ्चिन्नासादयामास कालेन महता ह्यपि ॥
कदाचित्तस्य वृद्धस्य घटमानस्य यत्नतः ।
जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायत ॥
तं जातं मातरः सर्व्वाः परिवार्य्य समासते ।
सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते ! ॥
ततः पिपीलिका जन्तुं कदाचिददशत् स्फिचि ।
स दष्टो व्यनदन्नादं तेन दुःखेन बालकः ॥
ततस्ता मातरः सर्व्वाः प्राक्रोशन् भृशदुःखिताः ।
प्रावार्य्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥
तमार्त्तनादं सहसा शुश्राव स महीपतिः ।
अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥
ततः प्रस्थापयामास किमेतदिति पार्थिवः ।
तस्मै क्षत्ता यथावृत्तमाचचत्ते सुतं प्रति ॥
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।
प्रविश्यान्तःपुरं पुत्त्रमाश्वासयदरिन्दमः ॥
सान्त्वयित्वा तु तं पुत्त्र निष्क्रम्यान्तःपुरान्नृपः ।
ऋत्विजा सहितो राजन् ! सहामात्य उपा-
विशत् ॥
सोमक उवाच ।
धिगस्त्विहैकपुत्त्रत्वमपुत्त्रत्वं वरं भवेत् ।
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्त्रता ॥
इदं भार्य्याशतं ब्रह्मन् ! परीक्ष्य सदृशं प्रभो ! ।
पुत्त्रार्थिना मया चोढं न तासां विद्यते प्रजा ॥
एकः कथञ्चिदुत्पन्नः पुत्त्रो जन्तुरयं मम ।
यतमानासु सर्व्वासु किन्नु दुःखमतः परम् ॥
वयश्च समतीतं मे सभार्य्यस्य द्बिजोत्तम ! ।
आसां प्राणाः समायत्ता मम चात्रैकपुत्त्रके ॥
स्यात्तु कर्म्म तथा युक्तं येन पुत्त्रशतं भवेत् ।
महता लघुना वापि कर्म्मणा दुंष्करेण वा ॥
ऋत्विगुवाच ।
अस्ति चैतादृशं कर्म्म येन पुत्त्रशतं भवेत् ।
यदि शक्नोषि तत् कर्त्तुमथ वक्ष्यामि सोमक ! ॥
सोमक उवाच ।
कार्य्यं वा यदि वाकार्य्यं येन पुत्त्रशतं भवेत् ।
कृतमेवेति तद्विद्धि भगवन् ! प्रब्रवीतु मे ॥
ऋत्विगुवाच ।
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।
ततः पुत्त्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥
वपायां हूयमानायां धूममाघ्राय मातरः ।
ततस्ताः सुमहावीर्य्यान् जनयिष्यन्ति ते सुतान् ।
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः ।
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥
ततः स याजयामास सोमकं तेन जन्तुना ।
मातरस्तु वलात् पुत्त्रमपाकार्षुः कृपान्विताः ॥
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः ।
रुदत्यः करुणञ्चापि गृहीत्वा दक्षिणे करे ॥
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति ।
कुररीणामिवार्त्तानां समाकृष्य तु तं सुतम् ॥
विशस्य चैनं विधिना वपामस्य जुहाव सः ।
वपायां हूयमानायां गन्धमाघ्राय मातरः ॥
आर्त्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ! ॥
सर्व्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः ॥
ततो दशसु मासेषु सोमकस्य विशाम्पतेः ।
जज्ञे पुत्त्रशतं पूर्णं तासु सर्व्वासु भारत ! ॥
जन्तुर्ज्येष्ठः समभवत् जनित्र्यामेव पार्थिव ! ।
स तासामिष्ट एवासीत् न तथा ते निजाः सुताः ॥
तच्च लक्षणमस्यासीत् सौवर्णं पार्श्व उत्तरे ।
तस्मित् पुत्त्रशते चाग्र्यः स बभूव गुणैरपि ॥”)

जन्तुकम्बुः, पुं, (जन्तुश्चेत्ननाविशिष्टः कम्बुरिव ।)

कृमिशङ्खः । इति राजनिर्घण्टः ॥

जन्तुका, स्त्री, (जन्तुभिः कायति प्रकाशते इति ।

कै + कः । अजादित्वात् टाप् ।) नाडीहिङ्गु ।
लाक्षा । इति राजनिर्घण्टः ॥ (यथा, --
“जन्तुका जलजन्मा च तथा शावरकन्दकम् ।”
इत्युत्तरस्थानेऽष्टादशेऽध्याये वाभटेनोक्तम् ॥)

जन्तुघ्नं, क्ली, (जन्तून् कृमीन् हन्तीति । हन +

“अमनुष्यकर्त्तृके च ।” ३ । २ । ५३ । इति
टक् ।) विडङ्गम् । इति शब्दरत्नावली ॥
(यथा, भावप्रकाशस्य मध्यखण्डे चतुर्थभागे
योनिकन्दचिकित्सायाम् ।
“पौरिकाम्रास्थि जन्तुघ्नं रजन्यञ्जनकट्फलाः ॥”)
हिङ्गु । इति रत्नमाला ॥

जन्तुघ्नः, पुं, (जन्तून् क्रिमीन् हन्तीति । हन +

टक् ।) बीजपूरः । इति राजनिर्घण्टः ॥
पृष्ठ २/५०९

जन्तुघ्नी, स्त्री, (जन्तुघ्न + टित्त्वात् ङीप् ।) विड-

ङ्गम् । इति राजनिर्घण्टः ॥

जन्तुनाशनं, क्ली, (जन्तून् क्रिमीन् नाशयतीति ।

नश + णिच् + ल्युः । यद्बा, जन्तूनां नाशनं
विनाशो यस्मादिति ।) हिङ्गु । इति राज-
निर्घण्टः ॥

जन्तुपादपः, पुं, (जन्तुप्रधानः पादपः ।) कोषाम्र-

वृक्षः । इति राजनिर्घण्टः ॥

जन्तुफलः, पुं, (जन्तवः कीटाः फले यस्य ।)

उडुम्बरः । इत्यमरः । २ । ४ । २२ ॥ (पर्य्यायो-
ऽस्य यथा, --
“उडुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

जन्तुमारी, स्त्री, (जन्तून् क्रिमीन् मारयतीति । जन्तु

+ मृ + णिच् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
ततो ङीप् ।) निम्बूकः । इति राजनिर्घण्टः ॥

जन्तुला, स्त्री, (जन्तून् कीटान् लाति आददा-

तीति । ला + कः ।) काशतृणम् । इति त्रिकाण्ड-
शेषः ॥

जन्तुहन्त्री, स्त्री, (हन्तीति । हन् + तृच् स्त्रियां

ङीप् । ततो जन्तूनां हन्त्री नाशिका ।) विड-
ङ्गम् । इति राजनिर्घण्टः ॥

जन्म, [न्] क्ली, (जायते इति । जन + “सर्व्वधातुभ्यो

मनिन् ।” उणां । ४ । १४४ । इति मनिन् ।)
उत्पत्तिः । आद्यक्षणसम्बन्धः । इति तिथि-
तत्त्वेऽमावस्याप्रकरणे व्याख्यातम् ॥ तथा च ।
“अध्वस्तक्षणयोगस्य क्षणयोगो जनिर्म्मता ।”
इति सामान्यलक्षणाग्रन्थे शिरोमणिधृतोदय-
नाचार्य्यकारिका ॥ तत्पर्य्यायः । जनुः २ जन-
नम् ३ जनिः ४ उद्भवः ५ । इत्यमरः । १ । ४ । ३० ॥
जन्मम् ६ जनी ७ । इति भरतः ॥ प्रभवः ८
भावः ९ भवः १० सम्भवः ११ जनूः १२ प्रज-
ननम् १३ । इति शब्दरत्नावली ॥ जातिः १४ ।
इति जटाधरः ॥ तच्च शुभाशुभकर्म्मणा भवति ।
यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ।
“शुभानामशुभानाञ्च कर्म्मणा जन्म जायते ।
पुण्यक्षेत्रे च सर्व्वत्र नान्यत्र भुञ्जते जनाः ॥” * ॥
तस्य क्रमो यथा, --
“ऋतौ विकाशे भवति योनिः कमलवत् सदा ।
गर्भाशयस्ततः शुक्रं धत्ते रक्तसमन्वितः ॥
अन्यत्र काले मुकुला योनिर्भवति योषिताम् ।
स्पृष्टं शुक्रमतो योनौ नैति गर्भाशयं शनैः ॥
ऋतावपि च योनिश्चेद्बातपित्तकफावृता ।
भवेत्तदा विशेषत्वं नैव तस्यां प्रजायते ॥
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् ।
तदा तद्बायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥
निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथ ।
मुक्तमात्रोऽपि नरकात् स्वर्गाद्बापि प्रपद्यते ॥
विसर्गकाले शुक्रस्य जीवः करणसंवृतः ।
धृत्या प्रविशते योनिं कर्म्मभिः स्वैर्नियोजितः ॥
तच्छुक्ररक्तमेकस्थमेकाहात् कलनं भवेत् ।
पञ्चरात्रेण कलनं बुद्बुदाकारतां व्रजेत् ॥
बुद्बुदः सप्तरात्रेण मांसपेषी भवेत्ततः ।
द्बिसप्ताहाद्भवेत् पेषी रक्तमांसाचिता दृढा ॥
वीजस्यैवाङ्कुराः पेष्याः पञ्चविंशतिरात्रतः ।
भवन्ति मासमात्रेण पञ्चधा जायते पुनः ॥
ग्रीवा शिरश्च कण्ठश्च पृष्ठवंशस्तथोदरम् ।
पाणिपादं तथा पार्श्वं कटिमात्रं तथैव च ॥
मासद्बयेन सर्व्वाणि क्रमशः सम्भवन्ति हि ।
त्रिभिर्म्मासैः प्रजायन्ते सर्व्वाङ्गाङ्कुरसन्धयः ॥
मासैश्चतुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम् ।
स्थैर्य्यं चतुर्थे चाङ्गानां पञ्चमे शोणितोद्भवः ॥
मुखं नासा च कर्णौ च जायन्ते मासि पञ्चमे ।
षष्ठे बलस्य वर्णस्य नखलोम्नाञ्च सम्भवः ॥
दन्तपंक्तिस्तथा गुह्यं जायन्ते च नखाः पुनः ।
कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरेण च ॥
पायुर्मेढ्रमुपस्थञ्च नाभिश्चैवोपजायते ।
सन्धयो ये च गात्रेषु जायन्ते मासि सप्तमे ॥
मनस्तु चेतनायुक्तो नाडीस्नायुसिरास्ततः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥
अङ्गप्रत्यङ्गसम्यूर्णः शिरःकेशसमन्वितः ।
विभक्तावयवः स्पष्टः पुनर्म्मासाष्टमेन च ॥
नवमे दशमे मासि प्रबलैः सूतिमारुतैः ।
निःसार्य्यते बाण इव जन्तुश्छिद्रेण सज्वरः ॥
मनसश्चञ्चलत्वेन यदा गर्भस्थितिर्भवेत् ।
तदा विकृतिरूपेण पापात्मा हि प्रजायते ॥
पुटद्वयं समासाद्य यदा वहति मारुतः ।
तदा प्रसूते पापिष्ठान् षण्डान् कर्म्मवहिष्कृतान् ॥
मातृरक्तोत्तरा नारी पितुः शुक्रोत्तरो नरः ।
उभयोर्बीजसामान्ये जायते वै नपुंसकम् ॥”
अन्यच्च ।
“विषमायां तिथौ क्षिप्तं कुर्य्याद्बीजन्तु कन्यकाम् ।
समायां पुरुषं नूनं केचिदाहुर्मनीषिणः ॥
वामाङ्गेन भवेन्नारी दक्षिणेन पुमान् भवेत् ।
रक्ताधिक्ये मातृरूपं रेतोऽधिक्ये तु पैतृकम् ॥
शुक्रशोणितसङ्घाते वायुना च द्बिधा कृते ।
यमौ स्यातां त्रिधा चेति चतुर्द्धा बहुधापि वा ॥
ततो हीनाधिकव्यङ्गकुब्जवामनकादयः ।
जायन्ते सर्पकुण्डाण्डा विकृतान्याश्च योनयः ॥”
तथा च सारकलिकायाम् ।
“गर्भात् कोटिगुणं दुःखं योनियन्त्रनिपीडने ।
संमूर्च्छा तस्य जठराज्जायमानस्य देहिनः ॥
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥
अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशान्निष्क्रान्तिमायाति जठरान्मातुरातुरः ॥
ततस्तं वैष्णवी माया समास्कन्दति मोहिनी ।
तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुयात् ॥
सृष्टमात्रस्य घोरश्च ज्वरः समुपजायते ।
तेन ज्वरेण महता महामोहः प्रजायते ॥
कण्टकैरिव छिन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥
तृड्बुभुक्षापरीताङ्गः क्वचित्तिष्ठति वा रटन् ।
विण्मूत्रभक्षणाद्यञ्च गतज्ञानः समाचरेत् ॥
कण्डूयनेऽपि चाशक्तः परिवर्त्तेऽप्यनीश्वरः ।
स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥
अशुचिः संस्तरे सूक्ष्मकीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥
केन बन्धनबद्धोऽहं कारणं किमकारणम् ।
किं कार्य्यं किमकार्य्यं वाकिं वाच्यं किञ्च नोच्यते ॥
कोऽधर्म्मः कश्च वै धर्म्मः कस्मिन् वा वर्त्तते कथम् ।
किं कर्त्तव्यमकर्त्तव्यं किं वा किं गुणदोषवत् ॥
संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ।
रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥
रक्तो मूढश्च लोकोऽयमकार्य्ये सम्प्रवर्त्तते ।
देही देहं परित्यज्य नेन्द्रस्थानमपीच्छति ॥
तस्मात् कीटोऽपि जन्तूनां सुमूढो जायते भृशम् ।
न चात्मानं विजानाति न परं न च दैवतम् ॥
न शृणोति परं श्रेयः सति चक्षुषि नेक्षते ।
बुद्धौ सत्यां न जानाति बुध्यमानो बुधैरपि ॥
संसारे क्लिश्यते तेन रागलोभवशानुगः ॥”
इति सुखबोधः ॥

जन्मं, क्ली, (जायते इति । जन + बाहुलकात्

मन् ।) उत्पत्तिः । “अनन्तरं नाम्नीति मप्रत्यये
जन्म मदन्तञ्च । जन्ममदन्तमपीत्युणादाविति
मुकुटः । जन्मे पञ्चनवस्थिते कलहरिपुभयमिति
ज्योतिषे ।” इत्यमरटीकायां भरतः ॥

जन्मकीलः, पुं, (जन्मनः कील इव । विष्णुसेव-

नेन हि जन्माभावात् तथात्वम् ।) विष्णुः ।
इति त्रिकाण्डशेषः ॥

जन्मदः, पुं, (जन्म ददातीति । जन्म + दा + “आतो

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
पिता । इति शब्दरत्नावली ॥

जन्मवर्त्म, [न्] क्ली, (जन्मन उत्पत्तेर्वर्त्म पन्थाः ।)

योनिः । इति त्रिकाण्डशेषः ॥

जन्मान्तरं, क्ली, (जन्मनः अन्तरम् ।) परलोकः ।

इति भरतः ॥ तत्पर्य्यायः । भावान्तरम् २
प्रेत्य ३ अमुत्र ४ । इत्यमरः ॥ (यथा, महा-
भारते । ३ पर्व्वणि ।
“नूनं जन्मान्तरकृतं पापमाचरितं महत् ॥”
अन्यत् जन्म । मयूरव्यंसकादिवत् समासः ।
पुनर्जन्म । यथा, पञ्चतन्त्रे । २ । १८५ ।
“वरं प्राणपरित्यागो न वियोगो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्बिधाः ॥”)

जन्माष्टमी, स्त्री, (जन्मनः श्रीकृष्णोत्पत्तेरष्टमी

तिथिः ।) भाद्रकृष्णाष्टमी । सा च श्रीकृष्णस्य
जन्मतिथिः । सा तु मुख्यचान्द्रेण श्रावणस्य
कृष्णाष्टमी गौणचान्द्रेण भाद्रस्य । तत्र
श्रीकृष्णस्य जन्मकालो यथा, ब्रह्मपुराणे ।
“अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे ।
अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः ॥”
विष्णुपुराणे महामायां प्रति भगवद्बाक्यम् ।
“प्रावृट्काले च नभसि कृष्णाष्टम्यां महानिशि ।
उत्पत्स्यामि नवम्यान्तु प्रसूतिं त्वमवाप्म्यसि ॥
श्रावणे वा नभस्ये वा रोहिणीसहिताष्टमी ।
यदा कृष्णे नरैर्लब्धा सा जयन्ती प्रकीर्त्रिता ॥”
पृष्ठ २/५१०
अग्निपुराणे ।
“रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी ।
सप्तम्यामर्द्धरात्राधःकलयापि यदा भवेत् ॥
तत्र जातो जगन्नाथः कौस्तुभी हरिरीश्वरः ।
तमेवोपवसेत् कालं तत्र कुर्य्याच्च जागरम् ॥
अविद्धायाञ्च सर्क्षायां जातो देवकीनन्दनः ॥”
इति सप्तम्यवेधे जन्मश्रवणकल्पभेदादविरुद्धम् ॥
नवम्यादियोगस्य प्रशंसा यथा । ब्रह्मवैवर्त्ते ।
“उदये चाष्टमी किञ्चिन्नवमी सकला यदि ।
भवेत्तु बुधसंयुक्ता प्राजापत्यर्क्षसंयुता ।
अपि वर्षशतेनापि लभ्यते वा न वा विभो ! ॥”
पद्मपुराणे ।
“प्रेतयोनिगतानान्तु प्रेतत्वं नाशितन्तु तैः ।
यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥
किं पुनर्बुधवारेण सोमेनापि विशेषतः ।
किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥”
उपवासादिफलं यथा, भविष्यपुराणे ।
“एकेनैवोपवासेन कृतेन कुरुनन्दन ! ।
सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ॥”
ब्रह्मवैवर्त्ते ।
“मन्वादिदिवसे प्राप्ते यत् फलं स्नानपूजनैः ।
फलं भाद्रपदेऽष्टम्यां भवेत् कोटिगुणं द्बिज ! ॥
तस्यान्तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ।
गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ॥”
उपवासाकरणे दोषो यथा, भविष्योत्तरे ।
“श्रावणेऽबहुले पक्षे कृष्णजन्माष्टमीव्रतम् ।
न करोति नरो यस्तु स भवेत् क्रूरराक्षसः ॥
वर्षे वर्षे च या नारी कृष्णजन्माष्टमीव्रतम् ।
न करोति महाक्रूरा व्याली भवति कानने ॥”
स्कान्दे ।
“न करोति यदा विष्णोर्ज्जयन्तीसंज्ञकं व्रतम् ।
यमस्य वशमापन्नः सहते नारकीं व्यथाम् ॥”
भविष्ये ।
“तुष्ट्यर्थं देवकीसूनोर्ज्जयन्तीसंज्ञकं व्रतम् ।
कर्त्तव्यं चिन्त्यमानेन भक्त्या भक्तजनैः सह ॥
अकुर्व्वन् नरकं याति यावदिन्द्राश्चतुर्द्दश ॥”
तत्रोपवासक्रमः, भविष्यपुराणे ।
“पार्थ ! तद्दिवसे प्राप्ते दन्तधावनपूर्ब्बकम् ।
उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः ॥
वासुदेवं समुद्दिश्य सर्व्वपापप्रशान्तये ।
उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥
अद्य कृष्णाष्टर्मां देवीं नभश्चन्द्रसरोहिणीम् ।
अर्च्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि ॥
एनसो मोक्षकामोऽस्मि यद्गोविन्द ! त्रियोनिजम् ।
तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे ॥
आजन्ममरणं यावद्यन्मया दुष्कृतं कृतम् ।
तत् प्रणाशय गोविन्द ! प्रसीद पुरुषोत्तम ! ॥”
गृहमुपक्रम्य ।
“तन्मध्ये प्रतिमा स्थाप्या काञ्चनादिविनिर्म्मिता ।
प्रतप्तकाञ्चनाभा सा देवकी सुतपस्विनी ॥
माञ्चापि बालकं सुप्तं प्रसूता नीरदच्छविम् ।
वसुदेवोऽपि तत्रैव खड्गचर्म्मधरं स्थितम् ॥
यशोदा चापि तत्रैव प्रसूतवरकन्यका ।
बलभद्रस्तथा नन्दो दक्षो गर्गश्चतुर्मुखः ॥
एवं संपूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः ।
स्थण्डिले स्थापयेद्देवीं सचन्द्रां रोहिणीन्तथा ॥
देवकीं वसुदेवञ्च यशोदां नन्दमेव च ।
चण्डिकां बलदेवञ्च पूज्य पापैः प्रमुच्यते ॥
अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा ।
ततो वर्द्धापनं षष्ठीं नामादेः करणं मम ॥
कर्त्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने ।
यथा मम तथा कार्य्यो भगवत्या महोत्सवः ॥
ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।
सुवर्णं काञ्चनं गाश्च वासांसि कुसुमानि च ॥
यद्यदिष्टतमं लोके कृष्णो मे प्रीयतामिति ।
यं देवं देवकी देवी वसुदेवादजीजनत् ॥
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।
सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ॥
शान्तिरस्तु शिवञ्चास्तु इत्युक्त्रा तान् विसर्ज्जयेत् ॥
एवं यः कुरुते देव्या देवक्या सुमहोत्सवम् ।
वर्षे वर्षे भगवतो मद्भक्त्या धर्म्मनन्दन ! ।
नरो वा यदि वा नारी यथोक्तफलमाप्नुयात् ॥
पुत्त्रसन्तानमारोग्यधनधान्यर्द्धिमद्गृहम् ।
सम्पर्केणापि यः कुर्य्यात् कश्चिज्जन्माष्टमीव्रतम् ॥
विष्णुलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥”
पूजा च मध्यरात्रे गारुडे ।
“कृष्णाष्टम्यान्तु रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः ॥”
व्रतपारणयोः कालनियमः । एकदिने जयन्ती-
लाभे तत्रैवोपवासः । उभयदिने चेत्तदा पर-
दिने । जयन्त्यलाभे तु रोहिणीयुक्ताष्टम्याम् ।
उभयदिने रोहिणीयुताष्टमीलाभे परदिने तद-
लाभे तु निशीथसम्बन्धिन्यामष्टम्यां उभयदिने
निशीथसम्बन्धे तदसम्बन्धे वा परदिने इति ।
उपवासपरदिने तिथिनक्षत्रयोरवसाने पार-
णम् । यदा महानिशायाः पूर्ब्बमेकतरस्याव-
सानमन्यतरस्य महानिशायां तदनन्तरं वा
तदैकतरावसाने पारणं यदा महानिशाया-
मुभयस्थितिस्तदा उत्सवान्ते पारणम् ।” इति
तिथ्यादितत्त्वम् ॥ * ॥
हरिभक्तिविलासमते तूपवासकालो यथा, --
“जन्माष्टमी पूर्ब्बविद्धा न कर्त्तव्या कदाचन ।
पलवेधे तु विप्रेन्द्र ! सप्तम्यां चाष्टमीं त्यजेत् ॥
सुराया बिन्द्वना स्पृष्टं गङ्गाम्भःकलसं यथा ।
विना ऋक्षेण कर्त्तव्या नवमीसंयुताष्टमी ॥
सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी ।
तस्मात् सर्व्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः ॥
वेधे पुण्यक्षयं याति तमः सूर्य्योदये यथा ।
यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् ।
अवैष्णवपरं तच्च कृतं वा देवमायया ॥”
पारणकालो यथा, --
“यद्वा तिथ्यर्क्षयोरेव द्बयोरन्ते तु पारणम् ।
समर्थानामशक्तानां द्बयोरेकवियोगतः ॥
केचिच्च भगवज्जन्ममहोत्सवदिने शुभे ।
भक्त्योत्सवान्ते कुर्व्वन्ति वैष्णवा व्रतपारणम् ॥”
तद्ब्रतकथा यथा, --
“एकदा श्रीकुलाचार्य्यं वशिष्ठमृषिसत्तमम् ।
राजा दिलीपः पप्रच्छ विनयावनतः सुधीः ॥
दिलीप उवाच ।
भाद्रे मास्यसिते पक्षे यस्यां जातो जनार्द्दनः ।
तत्कथां श्रोतुमिच्छामि कथयस्व महामुने ! ॥
कथं वा भगवान् जातः शङ्खचक्रगदाधरः ।
देवकीजठेरे विष्णुः किं कर्त्तुं केन हेतुना ॥
वशिष्ठ उवाच ।
शृणु राजन् ! प्रवक्ष्यामि यस्माज्जातो जनार्द्दनः ।
पृथिव्यां त्रिदिवं त्यक्त्रा भवते कथयाम्यहम् ॥
पुरा वसुन्धरा ह्यासीत् कंसाराघनतत्परा ।
स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता ॥
क्रन्दन्ती लज्जिता सापि ययौ घूर्णितलोचना ।
यत्र तिष्ठति देवेश उमाकान्तो वृषध्वजः ॥
कंसेन ताडिता नाथ ! इति तस्मै निवेदितम् ।
वास्पधारां प्रवर्षन्तीं विवर्णामपमानिताम् ॥
क्रन्दन्तीं तां समालोक्य कोपेन स्फुरिताधरः ।
उमया सहितः सर्व्वैर्द्देववृन्दैरनुद्रुतः ॥
आजगाम महादेवो विधातुर्भवनं रुषा ।
गत्वा चोवाच ब्रह्माणं कंसध्वंसनिमित्तकम् ॥
उपायः सृज्यतां ब्रह्मन् ! भवता विष्णुना सह ।
ऐश्वरं तद्बचः श्रुत्वा गन्तुं प्राक्रामदात्मभूः ॥
क्षीरोदे यत्र वैकुण्ठः सुप्तः स भुजगोपरि ।
हंसपृष्ठे समारुह्य हरेरन्तिकमाययौ ॥
तत्र गत्वा हरिं ध्यात्वा देववृन्दैर्हरादिभिः ।
तुष्टाव भगवान् वाग्भिरर्थ्याभिर्व्वाग्विदाम्बरः ॥
नमः कमलनेत्राय हरये परमात्मने ।
जगतः पालयित्रे च लक्ष्मीकान्त ! नमोऽस्तु ते ॥
नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे ।
नमः समस्तदेवानामधिपाय महात्मने ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
इति तेभ्यः स्तुतीः श्रुत्वा प्रत्युवाच जनार्द्दनः ।
देवा नम्रमुखाः सर्व्वे भवतामागमः कथम् ॥
ब्रह्मोवाच ।
शृणु देव ! जगन्नाथ ! यस्मादस्माकमागमः ।
कथयामि सुरश्रेष्ठ ! तदहं लोकतारण ! ॥
शूलिदत्तवरोन्मत्तः कंसराजो दुरासदः ।
वसुधा ताडिता तेन पदाघातेन मुष्टिना ॥
वरं दत्त्वा पुराप्युग्रो मायया स प्रवञ्चितः ।
भागिनेयं विना राजन् ! शास्ता न भविता तव ॥
तस्माद्गच्छ स्वयं देव ! हन्तुं कंसं दुरासदम् ।
देवकीजठरे जन्म लभ गत्वा च गोकुलम् ॥
ब्रह्मणा प्रेषितो विष्णुः प्रत्युवाच पशोः पतिम् ।
पार्व्वतीं देहि देवेश ! अब्दं स्थित्वागमिष्यति ॥
उमया रमया सार्द्धं शङ्खचक्रगदाधरः ।
उद्दिश्य मथुरां चक्रे प्रयाणं कंसनाशनम् ॥
देवकीजठरे जन्म लेभे विष्णुर्गदाधरः ।
यशोदाकुक्षिमध्ये तु सर्व्वाणी मृगलोचना ॥
नव मांसांश्च विश्राम्य कुक्षौ नवदिनाधिकान् ।
भाद्रे मास्यसिते पक्षे अष्टमीसंज्ञया तिथौ ॥
पृष्ठ २/५११
रोहिणीतारकायुक्ता रजनी धनघोरिता ।
घूमयोनौ तडिद्युक्ते वारि वर्षति सर्व्वदा ॥
तस्यां जातो जगन्नाथः कंसारिर्व्वसुदेवजः ।
वैराटे नन्दपत्नी च यशोदाजीजनत् सुताम् ॥
पुत्त्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ।
रम्यं चतुर्भुजं शान्तं शङ्खचक्रगदाधरम् ॥
तदा क्रन्दितुमारेभे दृष्ट्वा चानकदुन्दुभिः ।
तत्रैव वाण्यभूद्दैवी देवकीमात्रगोचरा ॥
पुत्त्रं दत्त्वा यशोदायै कन्यां तस्याः समानय ।
कंसासुरभयात्तं हि उवाच देवकी तदा ॥
वैराटं गच्छ विप्रेन्द्र ! सुतं प्रत्यर्पितुं प्रभो ! ।
पुत्त्रं दत्त्वा यशोदायै सुतां तस्याः समानय ॥
तां दृष्ट्वा कंसराजोऽपि सभायां न हनिष्यति ।
तस्या वचः समाकर्ण्य वसुदेवोऽतिदुःखितः ॥
अङ्के कुमारमादाय वैराटाभिमुखं ययौ ।
यमुना जलसंपूर्णा तत्पथे मध्यवर्त्तिनी ॥
अतिश्रोता महावीर्य्या सुतीक्ष्णोर्म्मिभयाकुला ।
तां दृष्ट्वा तत्तटे स्थित्वा यमुनामवलोकयन् ॥
वसुदेवोऽतिदुःखार्त्तो विलोलचेतनोऽभवत् ।
किं करोमि क्व गच्छामि विधिनात्रापि वञ्चितः ॥
कथमद्य गमिष्यामि वैराटे नन्दमन्दिरम् ।
हरिणा तत्र सानन्दं मायया वञ्चितः पिता ॥
क्षणमात्रं तटे स्थित्वा यमुनामप्यलोकयत् ।
तेन दृष्टा पुनः सापि क्षीणा जानुवहाभवत् ॥
ततः सोऽपि पुरो दृष्ट्वा धावन्तं खलु जम्बुकम् ।
क्रोडे कृत्वा सुतं स्वैरं गन्तुं पारं प्रचक्रमे ॥
तं दृष्ट्वा हृष्टचित्तन्तु भगवान् यमुनाजले ।
मायां कृत्वा जगन्नाथो ह्यङ्कात् स पतितः पितुः ॥
तं सुतं पतितं दृष्ट्वा सूर्य्यजाजीवने द्बिजः ।
तदा क्रन्दितुमारेभे भाले घात्वा करं दृढम् ॥
विधिना वैरिणा ह्यत्र दुःखितोऽहं प्रवञ्चितः ।
त्राहि मां जगतां नाथ ! पुत्त्रं देहि सुरोत्तम ! ॥
जनकं क्रन्दितं दृष्ट्वा कंसारिः कृपया विभुः ।
जलक्रीडां समाचर्य्य पितुरङ्केऽवसत् पुनः ॥
पथा तेन द्बिजश्रेष्ठो गतवान्नन्दमन्दिरम् ।
सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ॥
सुतामङ्के तथा सोऽपि गृहीत्वानकद्रुन्दुभिः ।
निजागारं पुनः प्राप्य प्रत्यर्प्य तादृशीं सुताम् ॥
प्रतियुज्य पदे लोहमासीत् पूर्ब्बवदावृतः ।
देवकी च प्रसूतेति वार्त्ता प्राप्ता सुरारिणा ॥
आनेतुं प्रहितो दूतःसुतं दुहितरञ्च वा ।
आगत्य कंसदूतोऽसौ सुतां नेतुं प्रचक्रमे ॥
बलादङ्कात् समाकृष्य देवकीवसुदेवयोः ।
कंसदूतो गृहीत्वा तां कंसायादर्शयत् पुनः ॥
दृष्ट्वा तां कंसराजोऽपि सभयोऽभूद्दुरासदः ।
शुद्धकाञ्चनवर्णाभां पूर्णेन्द्वसदृशाननाम् ॥
दृष्ट्वा कंसो विहस्यन्तीं विद्युत्स्फुरितलोचनाम् ।
आदिदेशासुरश्रेष्ठो वध नीत्वा शिलोपरि ॥
आज्ञां लब्ध्वासुरास्ते तु निष्पेष्टुं तां प्रवर्त्तिताः ।
विद्र्युद्रूपधरा गौरी जगाम शङ्करान्तिकम् ॥
अन्तरीक्षे क्षणं स्थित्वा कंसं प्रोवाच शङ्करी ।
त्वां हन्तुं गोकुले जातः पूर्ब्बशत्रुर्न संशयः ॥
तत्रातिष्ठज्जगन्नाथः कंसारिः सुरकृत्यकृत् ।
क्रीडित्वा बालभावेन कंसध्वंसे मनो दधौ ॥
प्राप्तिमात्रेण तं कंसं जघान जगदीश्वरः ।
एतत्ते कथितं राजन् ! कृष्णजन्माष्टमीव्रतम् ॥
य इदं कुरुते राजन् ! या च नारी हरेर्व्रतम् ।
प्राप्नोत्यैश्वर्य्यमतुलमिह लोके यथेप्सितम् ॥
अन्तकाले हरेः स्थानं दुर्ल्लभञ्च गमिष्यति ।
एकेनैवोपवासेन कृतेन कुरुनन्दन ! ॥
सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ।
वत्सरद्वादशे चैव यत् पुण्यं समुपार्ज्जितम् ॥
विफलं तद्भवेत् सर्व्वं पुरा व्यासेन भाषितम् ।
न द्रष्टव्यं सुखं तेषां नराणां न च योषिताम् ॥
जयन्ती न कृता यैस्तु जागरादिसमन्विता ।
श्वानश्चैते तु विज्ञेया जयन्तीविमुखा नराः ॥
योषितश्च न सन्देहः सत्योक्तं तव सुव्रते ! ॥”
इति भविष्यपुराणे वशिष्ठदिलीपसंवादे
श्रीकृष्णजन्माष्टमीव्रतकथा समाप्ता ॥

जन्मी [न्] पुं, (जन्म अस्त्यस्येति । जन्मन् +

“ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।)
प्राणी । इत्यमरः । १ । ४ । ३० ॥ (यथा,
भारविः । ११ । ३० ।
“जन्मिनोऽस्य स्थितिं विद्बान् लक्ष्मीमिव
चलाचलाम् ।
भवान्मास्म वधीत् न्याय्यं न्यायाधारा हि
साधवः ॥”)

जन्मेजयः, पुं, (जनान् शत्रून् एजयति कम्पय-

तीति । एज + णिच् + “एजेः खश् ।” ३ । २ । २८ ।
इति खश् ततो मुमागमात् जनमेजय इति सिद्धे
शकन्ध्वादित्वादलोपे साधुः ।) जनमेजयराजः ।
इति श्रीभागवतम् ॥ (एतन्निरुक्तिर्यथा देवी-
भागवतस्य । २ । ११ । ४६ श्लोकटीकायाम् ।
“जन्मनैवातिशुद्धेन शत्रूनेजितवान् यतः ।
एजृङ् कम्पने धातोर्हि जन्मेजय इति श्रुतः ॥”)

जन्यं, क्ली, (जन्यते इति । जनि + “तकिशसि-

चतियतिजनिभ्यो यद्बाच्यः ।” इति वार्त्ति-
कोक्त्या यत् ।) हट्टः । परीवादः । संग्रामः ।
इति मेदिनी । ये, २५ ॥ (यथा, रघौ । ४ । ७७ ।
“तत्र जन्यं रघोर्घोरं पार्व्वतीयैर्गणैरभूत् ॥”)

जन्यः, पुं, (जायते जनयति वा । जन + “भव्य-

गेयेति ।” ३ । ४ । ६८ । इति कर्त्तरि यत् ।)
जनकः । इति मेदिनी । ये, २६ ॥ (महादेवः ।
यथा, महाभारते । १३ । १७ । ५६ ।
“उग्रतेजा महातेजा जन्यो विजयकालवित् ॥”
देहः । यथा, भागवते । १ । ९ । ३१ ।
“निवृत्तसर्व्वेन्द्रियवृत्तिविभ्रम-
स्तुष्टाव जन्यं विसृजन् जनार्द्दनम् ॥”
जनस्य जल्पः । जन + “मतजनहलादिति ।”
४ । ४ । ९७ । इति यत् । जनजल्पः । इति
सिद्धान्तकौमुदी ॥)

जन्यः, त्रि, (जन्यते इति । जन् + णिच् + कर्म्मणि

यत् ।) उत्पाद्यः । यथा, --
“जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ।
यथा श्रीकृष्णपादाङ्कं कालीयवंशमस्तके ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
(“जन्यानां जनकः कालो जगतामाश्रयो मतः ॥”
इति च भाषापरिच्छेदे ४५ ॥)
जनयिता । (जनीं बधूं वहति प्रापयति वा ।
संज्ञायामिति साधुः ।) नवोढाज्ञातिः । नवोढा-
भृत्यः । वरस्य स्निग्धः । स तु जामातृवत्सलः ।
इति मेदिनी । ये, २६ ॥ (जनाय हितः । यत् ।)
जनहितः । इति व्याकरणम् ॥

जन्या, स्त्री, (जायतेऽस्याम् । जन् + ण्यत् यत् वा ।

मातृतुल्यत्वादेवास्यास्तथात्वम् ।) मातृवयस्या ।
इति मेदिनी । ये, २६ ॥ (यथा, रघौ । ६ । ३० ।
“अथाङ्गराजादवतार्य्य चक्षु-
र्याहीति जन्यामवदत् कुमारी ॥”)
प्रीतिः । इति हेमचन्द्रः ॥

जन्युः, पुं, (जायते इति । जन + “यजिमनि

शुन्धिदसिजनिभ्यो युच् ।” उणां ३ । २० । इति
युच् ।) प्राणी । अग्निः । धाता । इति मेदिनी ।
ये, २६ ॥ (उत्पत्तिः । जन्म । यथा, हरिवंशे ।
१२३ । ४९ ।
“अमृताया द्बितीयोऽयं जन्युर्हि मम सर्व्वथा ॥”)

जप, हृदुच्चारे वाचि । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् ।) जिह्वोष्ठादिव्यापार-
रहितं शब्दार्थयोश्चिन्तनं हृदुच्चारः । जपति
मन्त्रं साधकः । इति दुर्गादासः ॥

जपः, पुं, (जप्यते इति । जप + “व्यधजपो-

रनुपसर्गे ।” ३ । ३ । ६१ । इति भावे अप् ।)
विधानेन मन्त्रोच्चारणम् । तद्बिधिर्यथा, --
“नोच्चैर्ज्जपञ्च संकुर्य्यात् रहः कुर्य्यादतन्द्रितः ।
समाहितमनास्तूष्णीं मनसा वापि चिन्तयेत् ॥
विधियज्ञात् जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ।
विना दर्भैस्तु यत् स्नानं यच्च दानं विनोदकम् ।
असंख्येयन्तु यद्जप्यं सर्व्वं तदफलं स्मृतम् ॥
मुक्ताफलैर्विद्रुमेण रुद्राक्षैः स्फटिकेन वा ।
गणना सर्व्वथा कार्य्या सम्यगङ्गुलिपर्व्वभिः ॥
हिरण्यरत्नमणिभिर्जप्यं शतगुणं भवेत् ।
सहस्रगुणमिन्द्राक्षैः पद्माक्षैरयुतं भवेत् ॥
नियुतं वापि रुद्राक्षैर्भद्राक्षैस्तु न संशयः ।
पुत्त्रजीवकजप्यस्य परिसंख्या न विद्यते ॥
दशभिर्जन्मजनितं शतेन च पुरा कृतम् ।
त्रियुगं तु सहस्रेण गायत्त्र्या हन्ति दुष्कृतम् ॥
दर्भहस्तस्तथासीनो दर्भेषूदकपाणिना ।
प्राङ्मुखो वर्त्तयेत् मालां सहस्रं शतमेव वा ॥”
इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि-
नामाध्यायः ॥ तस्यानुष्ठानं यथा, --
“मनः संहृत्य विषयान्मन्त्रार्थगतमानसः ।
न द्रुतं न विलम्बञ्च जपेन्मौक्तिकपङ्क्तिवत् ॥
जपः स्यादक्षरावृत्तिर्मानसोपांशुवाचिकैः ।
धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ॥
उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ।
जिह्वोष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ॥
पृष्ठ २/५१२
किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः ।
मन्त्रमुच्चारयेद्बाचा वाचिकः स जपः स्मृतः ॥
उच्चैर्जपाद्विशिष्टः स्यादुपांशुर्दशभिर्गुणैः ।
जिह्वाजपः शतगुणः साहस्रो मानसः स्मृतः ।
जिह्वाजपः स विज्ञेयः केवलं जिह्वया बुधैः ॥”
तत्र वर्ज्यं यथा, --
“विन्मूत्रोत्सर्गशङ्कादियुक्तः कर्म्म करोति च ।
जपार्च्चनादिकं सर्व्वमपवित्रं भवेत् प्रिये ! ॥
मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः ।
यो जपेत्तं दहत्याशु देवता गुप्तिसंस्थिता ॥
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।
नीचाङ्गस्पर्शनं कोपं जपकाले विवर्ज्जयेत् ॥”
अथ करमालाजपनियमो यथा, --
“तर्ज्जना मध्यमानामा कनिष्ठा चेति ताःक्रमात् ।
तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका ॥
पर्व्वद्बयं मध्यमाया मेरुत्वेनोपकल्पयेत् ।
अनामामध्यमारभ्य कनिष्ठादित एव च ॥
तर्ज्जनीमूलपर्य्यन्तं दशपर्व्वसु संजपेत् ।
अनामामूलमारभ्य कनिष्ठादित एव च ।
तर्जनीमध्यपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥”
एतद्बचनन्तु अष्टोत्तरशतादिविषयम् ।
शक्तिविषये पुनः ।
“अनामिकात्रयं पर्व्व कनिष्ठादित्रिपर्व्विका ।
मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्व्वणि ॥
तर्ज्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत् ।
अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च ॥
मध्यादिमूलपर्यन्तमष्टपर्व्वसु संजपेत् ॥”
श्रीविद्याविषये पुनः ।
“अनामामध्यमायाश्च मूलाग्रञ्च द्वयं द्वयम् ।
कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व्व सुरेश्वरि ! ॥
अनामामध्यमायाश्च मेरुः स्यात् द्बितयं शुभम् ।
प्रदक्षिणक्रमाद्देवि ! जपेत्त्रिपुरसुन्दरीम् ॥
कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च ।
तर्ज्जनीमूलपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥”
इदमपि अष्टोत्तरशतादिविषयम् ॥ * ॥
“अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले ।
अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः ॥
अङ्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घने ।
पर्व्वसन्धिषु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् ॥
गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं यतः ।
गृह्णन्ति राक्षसास्तेन गणयेत् सर्व्वथा बुधः ॥
हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः ।
आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् ॥”
जपसंख्यायां निषिद्धद्रव्यं यथा, --
“नाक्षतैर्हस्तपर्व्वैर्व्वा न धान्यैर्न च पुष्पकैः ।
न चन्दनैर्मृत्तिकया जपसंख्याञ्च कारयेत् ॥” * ॥
तत्र विहितद्रव्यं यथा, --
“लाक्षाकुषीदसिन्दूरं गोमयञ्च करीषकम् ।
एभिर्निर्म्माय वटिकां जपसंख्यान्तु कारयेत् ॥”
अथ वर्णमालाजपनियमो यथा, --
“सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेद्बुधः ।
अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य च ॥
वर्णमाला समाख्याता अनुलोमविलोमतः ।
पञ्चाशल्लिपिभिर्म्माला विहिता सर्व्वकर्म्मसु ॥
अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥
क्षार्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ! ।
अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः ॥” * ॥
तस्य फलं यथा, --
“जपनिष्ठो द्विजश्रेष्ठोऽखिलयज्ञफलं लभेत् ।
सर्व्वेषामेव यज्ञानां जायतेऽसौ महाफलः ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिञ्च
शाश्वतीम् ॥
यक्षरक्षःपिशाचाश्च ग्रहाः सर्पाश्च भीषणाः ।
जापिनं नोपसर्पन्ति भयभीताः समन्ततः ॥
यावन्तः कर्म्मयज्ञाः स्युः प्रदिष्टानि तपांसि च ।
सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥
माहात्म्यं वाचिकस्यैतत् जपयज्ञस्य कीर्त्तितम् ।
तस्माच्छतगुणोपांशुः साहस्रो मानसः स्मृतः ॥”
इति तन्त्रसारः ॥

जपनं, क्ली, (जप हृदुच्चारे + भावे ल्युट् ।) जपः ।

इत्यमरटीका ॥ (यथा, महाभारते । १२ ।
१९६ । ७ ।
“संन्यास एव वेदान्ते वर्त्तन्ते जपनं प्रति ॥”)

जपपरायणः, त्रि, (जप एव परमयनं आश्रयो

यस्य ।) जपासक्तः । जपनशीलः । यथा, --
“शिवरात्रिव्रतं देव ! पूजाजपपरायणः ।
करोमि विधिवद्दत्तं गृहाणार्घ्यं महेश्वर ! ॥”
इति तिथ्यादितत्त्वम् ॥

जपा, स्त्री, (जपन्ति तान्त्रिका अनयेति । जप +

अप् ततष्टाप् ।) जवापुष्पवृक्षः । इति हेम-
चन्द्रः । ४ । २१३ ॥ तस्य पर्य्यायगुणाः ।
“ओड्रपुष्पं जपा चाथ त्रिसन्ध्या सारुणा सिता ।
जपा संग्राहिणी केश्या त्रिसन्ध्या कफवातजित् ॥”
इति भावप्रकाशः ॥
(विशेषश्चास्या जवाशब्दे ज्ञातव्यः ॥)

जभ, जभने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) जभनं मैथुनम् । जभति युवा ।
इति दुर्गादासः ॥

जभ, इ जभने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) जभनं मैथुनम् । इ, जम्भ्यते ।
इति दुर्गादासः ॥

जभ, इ क नशि । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) नशीति अन्तर्भूतञ्यर्थत्वा-
न्नष्टीकरणे । इ क, जम्भयति पापं गङ्गा । इति
दुर्गादासः ॥

जभ, इ ङ जृम्भे । गात्रशैथिल्य इति यावत् ।

इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।)
इ, जम्भ्यते । ङ, जम्भते । प्रत्यूषकाले भुज-
गाङ्गनानां मुखेषु कामः प्रतिजृम्भतीव । इति
गणकृतानित्यत्वात् । इति दुर्गादासः ॥

जभ, ङ जृम्भे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) जृम्भो गात्रशैथिल्यमिति
गोविन्दभट्टः । ङ, जम्भते लोकः । नुण् जभो-
ऽचीत्यस्यैव नुण् आत्मनेपदप्रकरणे सूत्रविधान-
सामर्थ्यात् । इति दुर्गादासः ॥

जम, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जमित्वा
जान्त्वा । इति दुर्गादासः ॥

जम्, व्य, पत्नी । इति जम्पतीशब्दटीकायां भरत-

धृतनामप्रपञ्चः ॥

जमजौ, त्रि, (यमौ एकत्र सहचरौ सन्तौ जायेते

इति । जन + ड । पृषोदरादित्वात् यस्य जः ।)
यमजौ । इति द्बिरूपकोषः ॥

जमदग्निः, पुं, (जमन् हुतभक्षणशीलः प्रज्वलित

इत्यर्थः । तथाविधोऽग्निरिव । यद्वा, यमदग्निः ।
पृषोदरादित्वात् यस्य जः ।) यमदग्निमुनिः । इति
द्बिरूपकोषः ॥ स तु भृगुवंशोद्भव ऋचीकमुनिपुत्त्रः
परशुरामपिता च । इति श्रीभागवतम् ॥ (अस्य
जन्मविवरणादिकं महाभारते वनपर्व्वणि । ११५-
११६ अध्याययोर्द्रष्टव्यम् ॥ असौ च सावर्णिके मन्व-
न्तरे ऋषिविशेषः । यथा, मार्कण्डेये । ७९ । ९-१० ।
“अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥
तथैव पुत्त्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे ॥”)

जमनं, क्ली, (जम भक्षे + भावे ल्युट् ।) जेमनम् ।

भोजनम् । इत्यमरटीकायां भरतः ॥

जम्पती, पुं, (जाया च पतिश्च । राजदन्तादि-

गणे पाठात् जायाशब्दस्य जम्भावो निपात्यते ।)
जायापती । इत्यमरः । २ । ६ । ३८ ॥ द्बिवच-
नान्तोऽयं शब्दः ॥

जम्बालः, पुं, (जमु अदने + बाहुलकाद्वालन् ।

यद्वा, जम्ब + भावे घञ् । जम्बं आलातीति ।
ला + कः ।) पङ्कः । इत्यमरः । १ । १० । ९ ॥
(यथा, श्रीकण्ठचरिते । २ । १० ।
“अवद्यजम्बालगवेषणाय
कृतोद्यमानां खलसैरिभाणाम् ।
कवीन्द्रवाङ्निर्जरनिर्झरिण्यां
संजायते व्यर्थमनोरथत्वम् ॥”)
शैवालः । इति मेदिनी । ले, ९१ ॥ केतक-
वृक्षः । इति शब्दरत्नावली ॥

जम्बालिनी, स्त्री, (जम्बालः शैवालोऽस्त्यस्या इति ।

जम्बाल + इनिः ।) नदी । इति हेमचन्द्रः । ४ । १४६ ॥

जम्बिरः, पुं, (जम्बीर + निपातनात् ह्रस्वः ।)

जम्बीरः । इति शब्दरत्नावली ॥

जम्बीरः, पुं, (जम्यते भक्ष्यते इति । जमु भक्षे

+ “गम्भीरादयश्च ।” इति निपातनात् ईरन्
प्रत्ययेन साधुः ।) फलवृक्षविशेषः । जामीर
इति लेवु इति च भाषा । तत्पर्य्यायः । दन्त-
शठः २ जम्भः ३ जंम्भीरः ४ जम्भलः ५ ।
इत्यमरः । २ । ४ । २४ ॥ जम्भी ६ रोच-
नकः ७ शोधी ८ जाड्यारिः ९ दन्तहर्षणः १०
गम्भीरः ११ जम्बिरः १२ दन्तकर्षणः १३ ।
इति शब्दरत्नावली ॥ रेवतः १४ वक्त्रशोधी १५
दन्तहर्षकः १६ । इति जटाधरः ॥ तस्य गुणाः ।
पृष्ठ २/५१३
“जम्बीरमुष्णं गुर्व्वम्लं वातश्लेष्मविबन्धनुत् ।
शूलं कासकफक्लेशच्छर्द्दितृष्णामदोषजित् ॥
आस्यवैरस्यहृत्पीडावह्निमान्द्यकृमीन् हरेत् ।
स्वल्पजम्बीरिका तद्वत् तृष्णाच्छर्द्दिनिवारिणी ॥”
इति भावप्रकाशः ॥
तस्य फलस्य गुणाः । अम्लमधुररसत्वम् । वात-
नाशित्वम् । पथ्यत्वम् । पाचनत्वम् । रोचन-
त्वम् । पित्तबलाग्निवृद्धिकारित्वञ्च । इति राज-
निर्घण्टः ॥ अत्यम्लत्वम् । गुरुत्वम् । सुगन्धि-
लम् । दुर्ज्जरत्वम् । वह्निकफवातविबन्धनाशि-
त्वञ्च । इति राजवल्लभः ॥ पक्वस्य तस्य गुणाः ।
मधुरत्वम् । कफार्त्तिपित्तास्रदोषनाशित्वम् ।
वर्णवीर्य्यरुचिपुष्टितृप्तिकारित्वञ्च । मरुवकः ।
अर्जकः । सितार्जकः । इति राजनिर्घण्टः ॥
(क्षुद्रपत्त्रतुलसी । यथा, वैद्यकरत्नमालायाम् ।
“खरपर्णस्तु जम्बीरः प्रस्थपुष्पः फणिज्झकः ॥”)

जम्बुः, स्त्री, (अम्यते इति । जमु भक्षणे + “अन्दू-

दृन्फूजम्ब्रिति ।” उणां । १ । ९५ । इति कू प्रत्य-
येन निपातनात् साधुः । बाहुलकात् ह्नस्वः ।)
जम्बूः । इत्यमरटीकायां भरतः ॥ (यथा, --
“जम्बुर्ग्राही मधुरकफहा रोचनो वातहारी ।”
इति हारीते प्रथमस्थाने दशमेऽध्याये ॥)

जम्बु, क्ली, स्त्री, जम्बूफलम् । तत्पर्य्यायः । जम्बूः २

जाम्बवम् ३ । इत्यमरः । २ । ४ । १९ ॥

जम्बुकः, पुं, (जमतीति । जमु भक्षणे + “मृगय्वा

दयश्च ।” उणां १ । ३८ । इति कुप्रत्ययेन निपा-
तनात् साधुः । ततः स्वार्थे कन् ।) शृगालः ।
(यथा, महाभारते । १ । १४१ । ४६ ।
“एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः ।
खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् ॥”)
वरुणः । (जम्बु इव कायतीति । कै + कः ।)
वृक्षविशेषः । गोलापजाम इति भाषा ॥ नीचे
त्रि । इति शब्दरत्नावली ॥ श्योणाकप्रभेदः ।
इति राजनिर्घण्टः ॥ (सुवर्णकेतकी । यथा, --
“केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः ।
सुवर्णकेतर्का त्वन्या लघुपुष्पा सुगन्धिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे मागे ॥)

जम्बुद्वीपः, पुं, (जम्बुवृक्षयुक्तो द्वीपः ।) पृथिव्याः

सप्तद्बीपान्तर्गतद्बीपविशेषः । अयं द्बीपः पद्म-
कोषमध्यवर्त्तिकोष इव लक्षयोजनविस्तीर्णः
पद्मपत्र इव समवर्तुलः लक्षयोजनविस्ततलवण-
ससुद्रेण वेष्टितः । यस्मिन् प्रत्येकनवसहस्र-
योजनायामानि नव वर्षाणि तेषां वर्षाणामष्टौ
सीमपर्व्वताः सन्ति । * । एषां वर्षाणां मध्य
इलावृतवर्षं मध्यवर्त्ति यस्य मध्यदेशे सुमेरु-
पर्व्वतः लक्षयोजनोत्सेधः । इलावृतवर्षस्यो-
त्तरे नीलपर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत-
योजनोत्सेधः पूर्ब्बपश्चिभयोः क्षारसमुद्रावधि
दीर्घः । * । तदुत्तरे रम्यकवर्षं तदुत्तरे श्वेत-
पव्वतः द्बिसहस्रयोजनविस्तीर्णः अयुतयोज-
नोत्सेधः पूर्ब्बपश्चिमयोः क्षारसमुद्रावधि दीर्घः
दैर्घ्ये नीलपर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः । * ।
तदुत्तरे हिरण्मयवर्षं तदुत्तरे शृङ्गवान् पर्व्वत
तस्य विस्तारादयः श्वेतपर्व्वतवत् दैर्घ्ये श्वेत-
पर्व्वतात् किञ्चिदधिकदशांशेन न्यूनः । * ।
तदुत्तरे कुरुवर्षं तदुत्तरे लवणसमुद्रः । इला-
वृतवर्षस्य दक्षिणे निषधपर्व्वतः द्बिसहस्रयोजन-
विस्तीर्णः अयुतयोजनोत्सेधः पूर्ब्बपश्चिमयोः
क्षारससुद्रावधि दीर्घः । * । तद्दक्षिणे हरिवर्षं
तद्दक्षिणे हेमकूटपर्व्वतः अस्य विस्तारादयो
निषधवत् दैर्घ्ये निषधात् किञ्चिदधिकदशांशेन
न्यूनः । तद्दक्षिणे हिमालयपर्व्वतः अस्य विस्ता-
रादयः पूर्ब्बवत् दैर्घ्ये हेमकूटपर्व्वतात् किञ्चि-
दधिकदशांशेन न्यूनः । * । तद्दक्षिणे भारत-
वर्षं तद्दक्षिणे क्षारसमुद्रः । इलावृतस्य पश्चिमे
माल्यवान् पर्व्वतः द्विसहस्रयोजनविस्तीर्णः अयुत-
योजनोत्सेधः उत्तरदक्षिणयोर्नीलनिषधपर्व्वता-
वधि दीघः । * । तत्पश्चिमे केतुमालवर्षं तत्-
पश्चिमे लवणसमुद्रः । इलावृतस्य पूर्ब्बे गन्ध-
मादनपर्व्वतः अस्य विस्तारादयो माल्यवद्बत् ।
तत्पूर्ब्बे भद्राश्ववर्षं तत्पूर्ब्बे लवणसमुद्रः । * ।
मेरोः पूर्ब्बादिचतुर्द्दिक्षु मन्दरमेरुमन्दरसुपार्श्व-
कुमुदनामानः पर्व्वतास्तिष्ठन्ति । तेषु चूतजम्बू-
कदम्बन्यग्रोधाश्चत्वारो वृक्षाः सन्ति । ते सर्व्वे
दैर्घ्ये एकादशशतयोजनपरिमिताः विस्तारे
शतयोजनपरिमिताः । तेषां शाखाविस्तारः
एकादशशतयोजनपर्य्यन्तम् । तेषु पर्व्वतेषु ह्नदा-
श्चत्वारः पयोमध्विक्षुरसमृष्टजलाः । एवं नन्दन-
चैत्ररथवैभ्राजकसर्व्वतोभद्रसंज्ञकावि चत्वारि
देवोद्यानानि च सन्ति । * । मन्दरोपरिस्थितै-
कादशशतयोजनोच्चचूतमस्तकात् पर्व्वतशृङ्गवत्
स्थूलानि फलान्यनृतकल्पानि पतन्ति । तेषां
विशीर्य्यमाणानामतिमधुरसुगन्धिबहुलारुण-
रसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरा-
न्निपतन्ती पूर्ब्बेणेलावृतमुपप्लावथति । * । एवं
जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रा-
याणामिभकायनिभानां रसेन जम्बूर्नाम नदी
मेरुमन्दरशिखरादवनितले निपतन्ती दक्षिणे-
नेलावृतं वहति । तस्या उभयोस्तीरयोर्मृत्तिका
जम्बूरसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन
सदामरलोकाभरणं जाम्बूनदं नाम स्वर्णं
भवति । * । सुपार्श्वपर्व्वतस्थो यो कदम्बवृक्षस्तस्य
पञ्चकोटरेभ्यो विनिःसृताः पञ्चव्यामस्थूलाः
पञ्च मधुधाराः सुपार्श्वशिखरात् पतन्त्यः पश्चि-
मेनेलावृतमनुमोदयन्ति । * । कुमुदपर्व्वतोपरि-
स्थितो यो वटवृक्षस्तस्य स्कन्धेभ्यो निर्गताः
पयोदधिधृतमधुगुडान्नाद्यम्बरशय्यासनाभरणा-
दियुक्ताः कामदुघा नदाः कुमुदाग्रात् प्रप-
तन्त उत्तरेणेलावृतमुपभोजयन्ति । * । तान्
नदान् सेवमानानां प्रजानां वलीपलितक्लमस्वेद-
दौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादय-
स्तापविशेषा न कदाचित् भवन्ति यावज्जीवं
निरतिशयसुखमेव । कुरङ्गकुररकुसुम्भवैकङ्क-
त्रिकूटशिखरशिशिरपतङ्गरुचकनिषेधशिति-
वासकपिलशङ्खवैदूर्य्यजारुधिहंसऋषभनागकाल-
ञ्जरनीरदादयः पर्व्वता मेरोर्मूलदेशे परित उप-
कऌप्ताः । मेरोः पूर्ब्बदिशि उत्तरस्यामष्टादश-
योजनदीर्घौ जठरदेवकूटपर्व्वतौ तिष्ठतः । तौ
द्विसहस्रयोजनविस्तारौ एवं द्बिसहस्रयोज-
नोच्चौ । मेरोः पश्चिमायान्दिशि पवनपारि-
पात्रौ पर्व्वतौ उत्तरस्यां अष्टादशयोजनदीर्घौ
द्बिसहस्रयोजनविस्तारौ द्बिसहस्रयोजनोच्चौ ।
एवं दक्षिणस्यान्दिणि कैलासकरवीरपर्व्वतौ
पूर्ब्बस्यामष्टादशयोजनदीर्घौ द्विसहस्रयोजन-
विस्तारौ द्विसहस्रयोजनोच्चौ । एवमुत्तरस्यां
त्रिशृङ्गमकरपर्व्वतौ पूर्ब्बस्यामष्टादशयोजनदीर्घौ
द्बिसहस्रयाजनविस्तारौ द्विसहस्रयोजनोच्चौ ।
एवं वर्षे वर्षे नदाः नद्यश्च बहवः सन्ति ॥ * ॥
तत्रापि भारतमेव वर्षं कर्म्मक्षेत्रं अन्यान्यष्टानि
वर्षाणि सर्गिणां पुण्यशेषोपभोगस्थानानि भूस्वर्ग-
नामाख्यातानि । एषु वर्षेषु पुरुषाणां आयु-
रयुतवर्षाणि ते देवकल्पा अयुतहस्तिबल-
विशिष्टाः वज्रवद्दृढशरीराः सर्व्वदा मोदयुक्ताः
सन्ति । येषु देवपतयः सगणाः सस्त्रीकाः नाना-
स्थानेषु स्वैरं विहरन्ति । नवसु वर्षेषु भगवा-
न्नारायणस्तत्तत्पुरुषाणामनुग्रहाय स्वमूर्त्ति-
भेदेनाद्यापि सन्निहितो भवति ॥ * ॥ इला-
वृते तु वर्षे भगवान् शिव एक एव पुरुषः भवानी
प्रधानार्ब्बुदसहस्रैः स्त्रीगणैः परिवृतः नारा-
यणस्य सङ्कर्षणसंज्ञां मूर्त्तिं ध्यानेन सन्निधाप्य
स्तुवन्नास्ते ॥ * ॥ भद्राश्वे वर्षे तद्बर्षपतिर्भद्र-
श्रवा नाम धर्म्मसुतः तत्कुलपतयः पुरुषा भग-
वतो हयशीर्षाभिधानां मूर्त्तिं परमसमाधिना
सन्निधाप्य स्तुवन्ति ॥ * ॥ हरिवर्षे भगवान्नर-
हरिरूपेणास्ते तत्र प्रह्रादो दैत्यदानवकुलतीर्थ-
स्वरूपः तद्वर्षपुरुषैः सहानन्यभक्तियोगेनो-
पास्ते ॥ * ॥ केतुमाले भगवान् कामदेवस्वरू-
पेण लक्ष्म्याः प्रियचिकीर्षया आस्ते तद्भगवतो
मायामयं रूपं परमसमाधियोगेन रमा देवी
संवत्सरस्य रात्रिषु प्रजापतेर्दु हितृभिरुपेता
अहःसु तद्भर्त्तृभिरुपेता उपास्ते ॥ * ॥ हिर-
ण्मये वर्षे भगवान् कूर्म्मतनुं बिभ्राणो निवसति
तद्भगवन्मूर्त्तिं पितृगणाधिपतिरर्यमा तद्बर्षपुरुषैः
सह उपास्ते ॥ * ॥ उत्तरकुरुवर्षे भगवान्
वराहरूपी आस्ते तं भूमिस्तद्वर्षपुरुषैः सहा-
स्खलितभक्तियोगेनोपास्ते ॥ * ॥ किम्पुरुषे वर्षे
भगवान् दाशरथी रामरूपेणास्ते तं तच्चरण-
सन्निकर्षाभिरतः परमभागवतो हनुमान् अवि-
रतभक्तिस्तद्वर्षपुरुषैरुपास्ते ॥ * ॥ भारते वर्षे
भगवान्नरनारायणाख्य आत्मज्ञानिनामनुग्रहा-
यानुकम्पया अव्यक्तगतिस्तपश्चरति । तन्मूर्त्तिं
नारदः वर्णाश्रमयुक्ताभिर्भारतवर्षीयप्रजाभिः
सह भगवदनुभावोपवर्णनं पञ्चरात्रं सावर्णै-
रुपदेक्ष्यमाणः परमभक्तिभावेन सेवते । * ।
भारतेऽप्यस्मिन् वषे सरिच्छैला बहवः सन्ति ।
यथा, मलयः भङ्गलप्रस्थः मैनाकः त्रिकूटः
पृष्ठ २/५१४
ऋषभः कूटकः कोल्लः सह्यः देवगिरिः ऋष्य-
मूकः श्रीशैलः महेन्द्रः वारिधारः विन्ध्यः शुक्ति-
मान् ऋक्षगिरिः पारिपात्रः द्रोणः चित्रकूटः
गोवर्द्धनः रैवतकः ककुभः नीलः कोकः गोमुखः
इन्द्रकीलः कामगिरिरिति चान्ये च शतसह-
स्रशः शैलाः । * । तेषां नितम्बप्रभवा नद्यो
ह्यसंख्याताः । यथा, चन्द्रवंशा ताम्रपर्णी अव-
टोदा कृतमाला वैहायसी कावेरी वेण्वा पय-
स्वती शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्वा भीमरथी
गोदावरी निर्व्विन्ध्या पयोष्णी तापी रेषा सुरसा
नर्म्मदा चर्म्मण्वती महानदी वेदस्मृतिः ऋषि-
कुल्या त्रिसामा गण्डकी वाग्मती कौशिकी
मन्दाकिनी यमुना सरस्वती दृशद्बती गोमती
सरयूः ओधवता सुषोमा शतद्रुः चन्द्रभागा
मरुद्वृधा वितस्ता असिक्नी विश्वा इति महा-
नद्यः । अन्धः शोणश्च नदौ । * । अस्मिन्
वर्षे लब्धजन्मभिः पुरुषैः शुक्ललाहितकृष्णवर्णेन
स्वारन्धेन कर्म्मणा दिव्यमानुषनारकगतयो
भवन्ति ॥ * ॥ जम्बुद्बीपस्य अष्टौ उपद्वीपाः
सन्ति सगरात्मजैरश्वान्नेषणे इमां महीं परितो
निखनद्भिरुपकल्पिताः । तद्यथा, स्वर्णप्रस्थः
चन्द्रशक्तः आवर्त्तनः रमणकः मन्दहरिणः
पाञ्चजन्यः सिंहलः लङ्का इति । इति श्रीभाग-
वते । ५ । १६ अध्याये । तथा च मार्कण्डेये ५४
अध्याये मात्स्ये ११२ अध्याये च द्रष्टव्यम् ॥ * ॥
ल्योतिःशास्त्रमते लवणसमुद्रस्योत्तरे जम्बुद्वीपः ।
स तु भूम्यर्द्धभागः । तस्य दक्षिणे द्बितीयार्द्ध-
भागे द्वीपषट्कस्य सप्तसमुद्रस्य च निवेशः ।
इति सिद्धान्तशिरोमणिः ॥

जम्बुलः, पुं, (जम्बुं जम्बु फलं लातीति । ला + कः ।)

जम्बूवृक्षः । केतकवृक्षः । इति विश्वः ॥ (यथा,
मुश्रुते । १ । १६ ।
“अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा ॥”)

जम्बुवनजं, क्ली, (जम्बुवनमिव जायते इति ।

जन् + डः ।) श्वेतजवापुष्पम् । यथा, --
“पारिभद्रं पाटला च वकुलं गिरिशालिनी ।
तिलकं जम्बुवनजं पीतकं तगरन्त्वपि ॥
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चने ॥”
इति वामनपुराणम् ॥

जम्बूः, स्त्री, (जम्यते भक्ष्यते इति । जमु अदने

+ “अन्दूदृन्फूजम्ब्विति ।” उणां १ । ९५ ।
इति कूः ।) नागदमनी । इति राजनिर्घण्टः ॥
वृक्षविशेषः । जाम इति भाषा । तत्पर्य्यायः ।
सुरभिपत्रा २ नीलफला ३ श्यामला ४ महा-
स्कन्धा ५ राजार्हा ६ राजफला ७ शुकप्रिया ८
मोदमोदिनी ९ । तत्फलगुणाः । कपायत्वम् ।
मधुरत्वम् । श्रमपित्तदाहकण्ठार्त्तिशोषकृमि-
दोषश्वासातिसारकफकासविनाशित्वम् । विष्ट-
म्भित्वम् । रोचनत्वम् । पाचनत्वञ्च । इति
राजनिर्घण्टः ॥ गुरुत्वम् । स्वादुत्वम् । शीत-
लत्वम् । अग्निसंदूषणत्वम् । रूक्षत्वम् । वात-
कारित्रम् । इति राजवल्लभं ॥ सा बृहत्-
क्षुद्रमेदेन द्विविधा । तत्र बृहत्याः पर्य्यायः ।
महाजम्बूः १ महापत्रा २ राजजम्बूः ३ बृहत्-
फला ४ । इति रत्नमाला ॥ फलेन्द्रः ५ नन्दः ६
महाफला ७ सुरभिपत्रा ८ । एतत्फलगुणाः ।
विष्टम्भित्वम् । गुरुत्वम् । रोचनत्वम् । इति
भावप्रकाशः ॥ क्षुद्रायाः पर्य्यायः । सूक्ष्म-
कृष्णफला १ दीर्घपत्रा २ मध्यमा ३ । वन-
जम्बूपर्य्यायः । भूमिजम्बूः १ काकजम्बूः २
नादेयी ३ शीतपल्लवा ४ । इति रत्नमाला ॥
सूक्ष्मपत्रा ५ जलजम्बुका ६ । तत्फलगुणाः ।
ग्राहित्वम् । रूक्षत्वम् । कफपित्तास्रदाह-
नाशित्वञ्च । इति भावप्रकाशः ॥ तत्फलस्य
पर्य्यायः । जम्बु २ जाम्बवम् ३ । इत्यमरः ।
। २ । ४ । १९ ॥ (स्वनामख्याता नदी । यथा,
मात्स्ये । १२० । ६७ ।
“मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ।
जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम् ॥”)

जम्बूकः, पुं, स्त्री, (जम्बुकः पृषोदरादित्वात्

दीर्घः ।) शृगालः । इति शब्दरत्नावली ॥
जम्बुकशब्दार्थोऽप्यत्र ॥

जम्बूका, स्त्री, (जम्बूरिव कायतीति । कै + कः ।

अजादित्वात् टाप् ।) काकलीद्राक्षा । इति
राजनिर्घण्टः ॥

जम्बूलः, पुं, (जम्बूं जम्बूफलं लातीति । ला + कः ।)

जम्बूवृक्षः । केतकवृक्षः । इति मेदिनी । ले, ९४ ॥
(यथा, हरिवंशे । ९६ । १६ ।
“जम्बू जम्बूलवृक्षाढ्यं कन्दकन्दलभूषितम् ॥”
वरपक्षीयस्त्रीणां परिहासवचनम् । इति
नीलकण्ठः ॥)

जम्बूलमालिका, स्त्री, (जम्बू लस्य वरपक्षीयरमणी-

परिहासवचनस्य मालिका परम्परा ।) कन्या-
वरयोर्मुखचन्द्रिका । इत्युद्वाहतत्त्वम् ॥ (यथा,
हरिवंशे । १८३ । २२ ।
“आशीर्भिर्व्वर्द्धयित्वा च देवर्षिः कृष्णमब्रवीत् ।
अनिरुद्धस्य वीर्य्याख्यो विवाहः क्रियतां विभो ! ।
जम्बू लमालिकां द्रष्टुं श्रद्धा हि मम जायते ॥”)
“जम्बूलं वरपक्षीयस्त्रीणां परिहासवचनं तेषां
मालिका श्रेणी ।” इति तट्टीकायां नीलकण्ठः ॥

जम्भः, पुं, (जम्भते जृम्भते इति । जभि गात्र-

विनामे + पचाद्यच् । “रधिजभोरचि ।” ७ । १
६१ । इति नुम् ।) दैत्यभेदः । (इन्द्र एनं निहत-
वान् ॥ अपरो दैत्यविशेषः । विष्णुरेनं जघान ।
यथा, महाभारते । ३ । १०२ । २४ -- २५ ।
“असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥
एवमादीनि कर्म्माणि येर्षां संख्या न विद्यते ।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ! ॥”
प्रह्लादपुत्त्राणामेकतमः । यथा, हरिवंशे । २१८ । ३५ ।
“प्रह्लादस्य त्रयः पुत्त्रा विक्रान्ताश्च महाबलाः ।
विरोचनश्च जम्भश्च कुजम्भश्चेति विश्रुताः ॥”
राक्षसविशेषः । स तु रावणस्यानुचरः । यथा,
महाभारते । ३ । २८४ । रामरावणयुद्धे । २ ।
“पर्व्वणः पूतनो जम्भः खरः क्रोधवशो हरिः ॥”
जम्भ्यते भक्ष्यतेऽनेनेति । जम्भ + करणे घञ् ।)
दन्तः । यथा, ऋग्वेदे । ८ । ९१ । २ ।
“इमं जम्भसुतं पिब ।” “जम्भसुतं दन्तैरभि-
षुतम् ।” इति तद्भाष्यम् ॥ * ॥ जम्भ्यते भक्ष्यते
ऽसौ इति कर्म्मणि घञ् ।) जम्बीरः । (यथा, --
“स्याज्जम्बीरोदन्तशटो जम्भजम्भीरजम्भलाः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥
जम्भ + भावे घञ् ।) भक्षणम् । इति मेदिनी ।
भे, ४ ॥ (यथा, महाभारते । ५ । ६४ । २० ।
“इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥”)
अंशः । हनुः । तूणः । इति हेमचन्द्रः ॥

जम्भकः, पुं, (जम्भ एव । स्वार्थे कन् ।) जम्बीरः ।

इति शब्दचन्द्रिका ॥ (स्वनामख्यातो नृपविशेषः ।
यथा, महाभारते । २ । ३१ । ७ ।
“ततश्चर्म्मण्वतीकूले जम्भकस्यात्मजं नृपम् ।
ददर्श वासुदेवेन शेषितं पूर्ब्बवैरिणा ॥” * ॥)
जम्भतीति जभैजभने + ण्वुल् । कामुके,
त्रि ॥)

जम्भका, स्त्री, (जम्भा एव । स्वार्थे कन् ।) जृम्भा ।

इति राजनिर्घण्टः ॥

जम्भगः, पुं, (जम्भाय भक्षणाय गच्छति भ्रम-

तीति । गम + डः । अतिशयभक्षणशीलत्वात्
तथात्वम् ।) राक्षसविशेषः । यथा, --
“देवा यक्षास्तथा नागा गन्धर्व्वाप्सरसोऽसुराः ।
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भगाः खगाः ॥
विद्याधरा जलाधारास्तथैवाकाशगामिनः ।
निराहाराश्च ये जीवाः पापेऽधर्म्मे रताश्च ये ॥
तेषामाप्यायनायैतद्दीयते सलिलं मया ॥”
इत्याह्निकाचारतत्त्वधृतपद्मपुराणवचनम् ॥

जम्भद्विट्, [ष्] पुं, (जम्भं तदाख्यया प्रसिद्ध-

मसुरं द्बेष्टीति । द्बिष् + क्विप् । जम्भस्य द्बिट्
इति वा ।) इन्द्रः । इति हेमचन्द्रः ॥ (विष्णुः ।
इति महाभारतम् ॥)

जम्भभेदी, [न्] पुं, (जम्भं भेत्तुं शीलमस्य ।

भिद् + “सुप्यजातौ णिनिस्ताच्छील्ये ।” ३ । २ । ७८ ।
इति णिनिः ।) इन्द्रः । इत्यमरः । १ । १ । ४६ ॥

जम्भरः, पुं, (जम्भं भक्षणरुचिं राति ददातीति ।

जम्भ + रा + कः ।) जम्बीरः । इति शब्द-
चन्द्रिका ॥

जम्भलः, पुं, (जम्भर । रस्य लत्वम् ।) जम्बीरः ।

(यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“स्याज्जम्बीरो दन्तशठो जम्भजम्भीरजम्भलाः ॥)”
बुद्धदेवविशेषः । इति मेदिनी । ले, ९३ ॥

जम्भला, स्त्री, (जम्भं भक्षणं लाति आददा-

तीति । ला + कः ।) राक्षसीविशेषः । यथा, --
“समुद्रस्योत्तरे तीरे जम्भला नाम राक्षसी ।
तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत् ॥”
इति ज्योतिषतत्त्वे राजमार्त्तण्डः ॥

जम्भा, स्त्री, (जम्भ्यते इति । जभि जृम्भायाम् +

भावे अः ततः स्त्रियां टाप् ।) जृम्भा । इति
राजनिर्घण्टः ॥
पृष्ठ २/५१५

जम्भारिः, पुं, (जम्भस्यासुरस्य अरिः शत्रुः ।)

इन्द्रः । यथा, “जम्भारिदम्भोलयः ।” इत्युत्तर-
नैषधम् ॥ वहिः । वज्पम् । इति विश्वः ॥
(विष्णुः । इति महाभारतम् ॥)

जम्भी, [न्] पुं, (जम्भयति क्षुधामान्द्यादिकं

नाशयतीति । जभि क नाशे + णिनिः ।)
जम्बीरः । इति शब्दचन्द्रिका ॥

जम्भीरः, पुं, (जम्भ्यते अग्निवृद्ध्यर्थं भक्ष्यते इति ।

जभ + “गम्भीरादयश्च ।” इति ईरन् । ततो
“रधिजभोरचि ।” ७ । १ । ६१ । इति नुम् ।)
जम्बीरः । इत्यमरः । २ । ४ । ७९ ॥ मरु-
वकः । इति तट्टीकायां भरतः ॥

जयः, पुं, (जि जये + “एरच् ।” ३ । ३ । ५६ ।

इत्यच् ।) शत्रुपराङ्मुखीकरणम् । जित् इति
भाषा । तत्पर्य्यायः । विजयः २ जयनम् ३ ।
इत्यमरः । २ । ८ । १० ॥ (यथा, मनुः । ७ । ४४ ।
“इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥”)
अग्निमन्थः । (जयतीति । जि + पचाद्यच् ।)
जयन्तः । युधिष्ठिरः । इति मेदिनी । ये, २५ ॥
(एतन्नाम तु विराटगृहे छद्मप्रवाससमये जातम् ।
यथा, महाभारते । ४ । ५ । ३४ ।
“जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥”)
विजयनन्दनराजः । स तु इक्ष्वाकुवंशोद्भवः ।
इति हेमचन्द्रः । ३ । ३५८ ॥ श्रीनारायण-
पार्षदः । यथा, --
“एतौ द्वौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥”
इति श्रीभागवते । ३ । १६ । २ ॥
(सर्व्वाणि भूतानि जयतीति । जीयते संसार-
मनेन वा । विष्णुः । यथा, महाभारते । १३ ।
१४९ । ६७ ।
“नयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥”
नागविशेषः । यथा, महाभारते । ५ । १०३ । १६ ।
“विरजा धारणश्चैव सुवाहुर्मुखरो जयः ॥”
दानवविशेषः । यथा, हरिवंशे । २३४ । ८३ ।
“जयो निकुम्भः कुपथश्च दानवो
ररक्षुरेते दश दानवाधिपम् ॥”
दशममन्वन्तरीय-ऋषिविशेषः । यथा, भाग-
वते । ८ । १३ । २१ -- २२ ।
“दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः ॥”
“हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा
द्विजाः ॥”
ध्रुववंशीयस्य वत्सरनृपस्य पुत्त्रविशेषः । यथा,
तत्रैव ४ । १३ । १२ ।
“सुवीथीर्वत्सरस्येष्ठा भार्य्यासूत षडात्मजान् ।
पुष्पार्णं तिग्मकेतुञ्च इषमूर्जं वसुं जयम् ॥”
विश्वामित्रपुत्त्रविणेषः । (यथा, तत्रैव । ९ ।
१६ । ३६ ।
“एष वः कुशिका वीरो देवरातस्तमन्वित ।
अन्ये चाष्टकहारीतजयक्रतुमदादयः ॥”
ऊर्व्वशीगर्भजातः पुरूरवसः पुत्त्रविशेषः । यथा,
तत्रैव । ९ । १५ । १ ।
“ऐलस्य चोर्व्वशीगर्भात् षडासन्नात्मजा नृप ! ।
आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥”
राजर्षिविशेषः । यथा, महाभारते । २ । ८ । १४ ।
“तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ।
यमं वैवस्वतं तात ! प्रहृष्टाः पर्य्युपासते ॥”
इत्युपक्रम्याह ।
“अङ्गो विष्टश्च वेणश्च दुष्मन्तः सृञ्जयो जयः ॥”
धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, तत्रैव । १ ।
६३ । ११७ ।
“जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ! ॥”
सृञ्जयस्य राज्ञः पुत्त्रः । यथा, हरिवंशे ।
२९ । २ ।
“सृञ्जयस्य जयः पुत्त्रो विजयस्तस्य चात्मजः ॥”
सञ्जयस्य राज्ञः पुत्त्रः । यथा, भागवते । ९ ।
१७ । १६ ।
“कुशात् प्रतिः क्षात्त्रवृद्धात् सञ्जयस्तत् सुतोजयः ॥”
दौष्मन्तेर्मन्योः पुत्त्रविशेषः । यथा, तत्रैव । ९ ।
२१ । १ ।
“वितथस्य सुतात् मन्योर्वृहत्क्षत्त्रो जयस्ततः ॥”
युयुधानपुत्त्रः । यथा, तत्रैव । ९ । २४ । १४ ।
“युयुधानः सात्यकिर्व्वै जयस्तस्य कुणिस्ततः ॥”
भारतादिशास्त्रविशेषः । यथा, भविष्यपुराणे ।
“अष्टादशपुराणानि रामस्य चरितं तथा ।
विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ! ॥
कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् ।
सौराश्च धर्म्मा राजेन्द्र ! मानवोक्ता महीपते ! ॥
जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥”
दक्षिणद्बारगृहम् । इति शब्दार्थचिन्तामणिः ॥
वत्सरविशेषः । तत्फलं यथा, --
“क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः ।
पीडितास्ते वरारोहे ! जये सर्व्वे न संशयः ॥”)

जयकोलाहलः, पुं, (जयस्य कोलाहलो यत्र ।)

पाशकभेदः । इति शब्दरत्नावली ॥ (जयस्य
कोलाहलः ।) जयध्वनिश्च ॥

जयढक्का, स्त्री, (जयघोषिका ढक्का । विजय-

काले एव वादनादस्य तथात्वम् ।) वाद्य-
विशेषः । इति लाकप्रसिद्धा । जयढाक इति
भाषा ॥

जयदत्तः, पुं, (जयेन विजयेन दत्त इव । जय-

शीलत्वादेवास्य तथात्वम् ।) इन्द्रपुत्त्रः । इति
हेमचन्द्रः । २ । ८९ ॥

जयनं, क्ली, (जीयतेऽनेनेति । जि + करणे ल्युट् ।)

तुरङ्गादिसन्नाहः । (यथा माघे । १७ । २३ ।
“सकल्पनं द्विरदगणं वरूथिन-
स्तुरङ्गिणो जयनयुजश्च वाजिनः ।
त्वरायुजः स्वयमपि कुर्व्वतो नृपाः
पुनः पुनस्तदधिकृतानतत्वरन् ॥” * ॥
भावे ल्युट् ।) जयः । इति मेदिनी । ने, ६७ ॥

जयनी, स्त्री, (जयन + स्त्रियां ङीप् ।) इन्द्र-

कन्या । इति शब्दरत्नावली ॥

जयन्तः, पुं, (जयतीति । जि + “तॄभूवहि-

वसीति ।” उणां ३ । १२८ । इति झच् ।)
इन्द्रपुत्त्रः । तत्पर्य्यायः । पाकशासनिः २ ।
इत्यमरः । १ । १ । ४९ ॥ ऐन्द्रिः ३ । इति
मेदिनी । ते, ११० । (यथा, रघौ । ३ । २३ ।
“उमावृषाङ्कौ शरजन्मना यथा
यथा जयन्तेन शचीपुरन्दरौ ।
तथा नृपः सा च सुतेन मागधी
ननन्दतुस्तत्सदृशेन तत्समौ ॥”
विष्णुः । यधा, महाभारवे । १३ । १४९ । ९८ ।
“अर्को वाजसनः शृङ्गी जयन्तः सर्व्वविज्जयी ॥”
“अतिशयेनारीन् जयते जयहेतुरिति वा
जयन्तः ।” इति तद्भाष्यम् ॥) शिवः । (यथा,
मात्स्ये । ५ । ३० ।
“सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
एते रुद्राः समाख्याता एकादशगणेश्वराः ॥”)
चन्द्रः । इति त्रिकाण्डशेषः ॥ भीमः । इति
मेदिनी । ते, ११० ॥ (एतन्नाम तु छद्मना
विराटगृहवासकाले जातम् । यथा, महा-
भारते । ४ । ५ । ३४ ।
“जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥”
मरुत्वतीगर्भजातो धर्म्मपुत्त्रविशेषः । अयं हि
उपेन्द्र इत्याख्यया प्रसिद्धः । यथा, भागवते ।
६ । ६ । ८ ।
“मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥”
राज्ञो दशरथस्य मन्त्रिविशेषः । यथा, रामा-
यणे । १ । ७ । २ -- ३ ।
“अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥
धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्द्धनः ।
अकोपो धर्म्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥”
पर्व्वतविशेषः । यथा, हरिवंशे । १७० । १४ ।
“ततश्च पर्व्वताः सप्त केशवं समुपस्थिताः ।
जयन्तो वैजयन्तश्च नीलो रजतपर्व्वतः ।
महामेरुः सकैलाश इन्द्रकृदश्च नामतः ॥”
ज्योतिषोक्तयात्रिकयोगविशेषः । यथा, --
“यत्र स्वोच्चगतश्चन्द्रो लग्नादेकादशे स्थितः ।
जयन्तो नाम योगोऽयं शत्रुपक्षविनाशकृत् ॥”)
षोडशध्रुवकान्तर्गतध्रुवविशेषः । तस्य लक्षणं
यथा, --
“आदिताले जयन्तः स्यात् शृङ्गाररससंयुतः ।
रुद्रसंख्याक्षरपद आयुर्वृद्धिकरः परः ॥”
इति सङ्गीतदामोदरः ॥

जयन्तिका, स्त्री, (जयन्तीव कायतीति । कै +

कः । ततो ह्नस्वो निपातनात् ।) हरिद्रा ।
इति राजनिर्घण्टः ॥ (दुर्गायाः सखीविशेषः ।
यथा, र्काशीखण्डे । ४७ । ४६ ।
“यथा जया च विजया यथा चैव जयन्तिका ॥”)

जयन्ती, स्त्री, (जयतीति । जि + “तॄभूवहीति ।”

उणां ३ । १२८ । इति झच् । ततो गौरा-
पृष्ठ २/५१६
दित्वात् ङीष् ।) गौरी । (यथा, कलिकापुराणे ।
“जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमो-
ऽस्तु ते ॥”)
इन्द्रपुत्त्री । पताका । इति मेदिनी । ते, १०९ ।
वृत्तविशेषः । तत्पर्य्यायः । जया २ तर्कारी ३
नादेयी ४ वैजयन्तिका ५ । इत्यमरः । २ । ४ । ६५ ॥
बला ६ मोटा ७ हरिता ८ विजया ९ सूक्ष्म-
मूला १० विक्रान्ता ११ अपराजिता १२ ।
(यथा, तिथितत्त्वे ।
“कदली दाडिमी धान्यं हरिद्रा मानकं कचु ।
विल्वोऽशोको जयन्ती च विज्ञेया नवपत्त्रिकाः ॥”)
अस्याः गुणाः । मदगन्धयुक्तत्वम् । तिक्तत्वम् ।
कटुत्वम् । उष्णत्वम् । कृमिभूतनाशित्वम् ।
कण्ठविशोधनत्वञ्च । तत्र कृष्णा रसायनी ।
इति राजनिर्घण्टः ॥ एतच्छाकस्य गुणाः ।
गरदोषनाशित्वम् । चक्षुर्हितत्वम् । मधुरत्वम् ।
हिमत्वञ्च । इति राजवल्लभः ॥
(“श्वेतजयन्ती भूलं पिष्टं पीतञ्च गव्यपयसैव ।
श्वित्रं निहन्ति नियतं रविवारे वैद्यनाथाज्ञा ॥”
इति वैद्यकचक्रपाणिसंग्रहे कुष्ठाधिकारे ॥)
योगविशेषः । यथा, तिथ्यादितत्त्वे स्कान्दम् ।
“जयं पुण्यञ्च कुरुते जयन्तीमिति तां विदुः ।
रोहिणीसहिता कृष्णा मासे च श्रावणेऽष्टमी ॥
अर्द्धरात्रादधश्चोर्द्ध्वं कलयापि यदा भवेत् ।
जयन्ती नाम सा प्रोक्ता सर्व्वपापप्रणाशिनी ॥”
(द्बादशीविशेषः । यथा, ब्रह्मवैवर्त्ते ।
“उन्मिलनी वञ्जुली च त्रिस्पृशा पक्षवर्द्धिनी ।
जया च विजया चैव जयन्ती पापनाशिनी ।
द्वादश्यष्टौ महापुण्याः सर्व्वपापहरा द्बिज ! ॥”
वटिकौषधविशेषः । तद्यथा, --
“विषं पाठाश्वमन्धा च वचातालीशपत्रकम् ।
मरिचं पिप्पलीनिम्बमजामूत्रेण तुल्यकम् ।
वटिका पूर्ब्बवत्कार्य्या जयन्तीयोगवाहिका ॥”
इति जयन्ती वटी ।
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)

जयपत्रं, क्ली, (जयसूचकं पत्रम् ।) अश्वमेधीय-

यज्ञधोटककपाले बद्धा लिपिः । तद्यथा, --
“त्रैलोक्यविजयी रामो रावणान्तकरः प्रभुः ।
स दीक्षितो वाजिमेधे तस्यायं प्रोक्षितः पशुः ॥
पालितो लक्ष्मणेनैव सुलक्षणविलक्षितः ।
संपूज्य च पारेत्याज्यः सर्व्वैरिति च संस्कृताम् ॥”
इति वाशिष्ठरामायणम् ॥ * ॥
विवादविषयकजयबोधकलिपिः । डिक्रि इति
इङ्गराजी भाषा । यथा, व्यवहारतत्त्वे ।
“यद्वृत्तं व्यवहारात्तु पूर्व्वपक्षोत्तरादिकम् ।
क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥
पूर्ब्बोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।
प्रदद्याच्चयिने लेख्यं नयपत्रं तदुच्यते ॥”

जयपालः, पुं, (जयं पालयतीति । पालि +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) विधिः ।
विष्णुः । भूपालः । इति शब्दरत्नावली ॥ वृक्ष-
विशेषः । जमाल्गोटा इति भाषा । तत्-
पर्य्यायः । सारकः २ रेचकः ३ तिन्तिडीफलम् ४
दन्तीबीजम् ५ मलद्रावि ६ र्बाजरेचनम् ७ कुम्भी-
बीजम् ८ कुम्भिनीबीजम् ९ घण्टावीजम् १०
घण्टिनीबीजम् ११ निकुम्भाख्यबीजम् १२
शोधनीबीजम् १३ चक्रदन्तीबीजम् १४ । अस्य
गुणाः । कटुत्वम् । उष्णत्वम् । विरेचनत्वम् ।
दीपन वम् । कृमिकफामजठरामयनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

जयपुत्त्रकः, पुं, (जयेन विजयेन पुत्त्र इव काय-

तीति । कै + कः । पुत्त्रतुल्यप्रीतिप्रदत्वात् तथा-
त्वम् ।) पाशकभेदः । इति शब्दरत्नावली ॥

जयमङ्गलः, पुं, (जय एव मङ्गलं यस्य । जयेन

मङ्गलं यस्मादिति वा ।) राजवाह्यहस्ती ।
इति शब्दरत्नावली ॥ धुवकविशेषः । यथा, --
“चतुर्व्विंशतिवर्णाङ्घ्रिः कथितो जयमङ्गलः ।
शृङ्गारवीरयोरेव ताले चाचपुटे च सः ॥”
इति सङ्गीतदामोदरः ॥ *
ज्वरघ्न औषधविशेषः । यथा, --
“हिङ्गूलसम्भवं सूतं गन्धकं टङ्कणं तथा ।
ताम्रं वङ्गं माक्षिकञ्च सैन्धवं मरिचं तथा ॥
समं सर्व्वं समाहृत्य द्बिगुणं स्वर्णभस्मकम् ।
तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत् समम् ॥
ततसमं पारदसमम् ।
एतत् सर्व्वं विचूर्ण्याथ भावयेत् कनकद्रवैः ।
शेफालीदलजैश्चापि दशमूलरसेन च ॥
किराततिक्तकक्वाथैस्त्रिवारं भावयेत् सुधीः ।
भावयित्वा तु तत् कार्य्या गुञ्जाद्वयमिता वटी ॥
व्यनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् ।
जीर्णज्वरं महाघोरं चिरकालसमुद्भवम् ॥
ज्वरमष्टवियं हन्ति साध्यासाध्यमथापि वा ।
पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान् ॥
मेदोगतं मांसगतमस्थिमज्जगतं तथा ।
अन्तर्गतं महाघोरं वहिस्थञ्च विशेषतः ॥
नानादेशोद्भवञ्चैव ज्वरं शुक्रगतं तथा ।
निखिलं ज्वरनामानं हन्ति श्रीशिवशासनात् ॥
जयमङ्गलनामायं रसः श्रीशिवनिर्म्मितः ।
बलपुष्टिकरश्चैव सर्व्वरोगनिवर्हणः ॥”
इति श्रीजयमङ्गलो रसः ।
इति भैषज्यरत्नावली ॥

जयवाहिनी, स्त्री, (जयस्य जयन्तस्य वाहिनी

यद्वा स्वयवरसभायां संयामे वा जयं वह-
तीति । वह + णिनिः । ततो ङीप् ।)
शची । इन्द्राणी । इति हेमचन्द्रः । २ । ८९ ॥

जया, स्त्री, (जीयतेऽनया । जि + “एरच् ।”

इति करणे अच् ततष्टाप् ।) दुर्गा । (यथा,
महाभारते । ६ । २२ । २२ ।
“कात्यायनि महाभागे करालि विजये जये ! ॥”)
अस्या व्युत्पत्तिर्यथा, --
“जयः कल्याणवचनो ह्याकारो दातृवाचकः ।
जयं ददाति सा नित्यं सा जया परिकीर्त्तिता ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
जयन्तीवृक्षः । यथा, वैद्यकरत्नमालायाम् ।
“वैजयन्ती च तर्कारी जयन्ती विजया जया ॥”
तिथिबिशेषः । सा तु तृतीयाष्टमीत्रयोदश्यः ।
(यथा, ज्योतिषे ।
“नन्दा भद्रा जपा रिक्ता पूर्णा प्रतिपदः क्रमात् ॥”
द्वादशीविशेषः । यथा, ब्रह्मवैवर्त्ते ।
“जया च विजया चैव जयन्ती पापनाशिनी ।
द्वादश्योऽष्टौ महापुण्याः सर्व्वपापहराद्बिज ! ॥”)
हरीतकी । दुगासखी । इति मेदिनी । ये, २४ ॥
(यथा, काशीखण्डे । ४७ । ४६ ।
“यथा जया च विजया यथा चैव जयन्तिका ॥”
देवी भगवती तु वराहशैले पीठस्थाने जया-मूर्त्त्या
विराजते । यथा, देवीभागवते । ७ । ३० । ५२ ।
“वराहशैले तु जया कमला कमलालये ॥”)
विजया । (यथा, रसप्रदीपे अजीर्णचिकित्
सायाम् ।
“क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं शुभम् ।
सर्व्वैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा ॥”)
शान्तावृक्षः । नीलदूर्व्वा । अग्निमन्थवृक्षः ।
इति राजनिर्घण्टः ॥ (यथा, भावप्रकाशस्य
पूर्ब्बखण्डे प्रथमे भागे ।
“अग्निमन्थो जयः स स्याच्छ्रीपर्णी पणिकारिका ।
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥”)
पताकाविशेषः । इति युक्तिकल्पतरुः ॥
(ज्वरघ्नौषधविशेषः । यथा, --
“विषं त्रिकटु कं मुस्तं हरिद्रा निम्बपत्रकम् ।
विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी कार्य्या स्याज्जया योगवाहिका ॥
जयन्ती वा जया वाथ क्षीरैः पित्तज्वरापहा ।
मुद्रामलकयूषेण पथ्यं देयं घृतं विना ॥
जयन्ता वा जया जथ विषमज्वरनुद्घृतैः ।
सर्व्वज्वरं मधुव्योषैर्गवां मूत्रेण शीतकम् ॥
चन्दनस्य कषायेण रक्तपित्तज्वरापहा ।
जयन्ती वा जया वाथ माक्षिकेण च कासजित् ॥
जयन्ती वा जया वाथ गोमूत्रण युतां पिबेत् ।
हन्त्याशु काकर्ण कुष्ठं सुलेपेन च तद्द्रुतम् ॥
द्बिनिष्कं केतकीमूलं पिष्ट्वा तोयेन पाचयेत् ।
जयन्ती वा जया वाथ मेहं हन्ति सुराह्वयम् ॥
जयन्ती वा जया वाथ मधुना सर्व्वमेहनुत् ।
जयन्ती वा जया वाथ गुडैः कोष्णजलैः पिबेत् ॥
त्रिदोषोत्थं हरेद्गुल्मं रसो वा नन्दभैर्वः ।
जयन्ती वा जया वाथ शुण्ठ्या सर्व्वभगन्दरम् ।
जयन्ती वा जया वाथ तक्रेण ग्रहणीप्रणुत् ।
जयन्ती वा जया वाथ शृङ्गीद्रावैर्निशान्ध्यनुत् ॥
जयन्ती वा जया वाथ घृष्ट्वा स्तन्येन चाञ्जनम् ।
श्रावणं सर्व्वदोषोत्थं मांसवृद्धिञ्च नाशयेत् ॥”
इति जयाजयन्ती वटी ॥
इति वैद्यकरसन्द्रसारसंग्रहे ज्वराधिकारे ॥ * ॥)

जयावहा, स्त्री, (जयमावहतीति । आ + वह +

अच् ।) भद्रदन्तीवृक्षः । इति राजनिर्घण्टः ॥

जयाश्रया, स्त्री, (जयमाश्रयतीति । आ + श्रि +

अच् ।) जरडीतृणम् । इति राजनिर्घण्टः ॥
पृष्ठ २/५१७

जयाह्वा, स्त्री, (जयस्य आह्वा आख्या आह्वा

यस्याः ।) भद्रदन्तीवृक्षः । इति राज-
निर्घण्टः ॥

जयी, [न्] त्रि, (जेतुं शीलमस्य । जि + “जि-

दृक्षिविश्रीति ।” ३ । २ । १५७ । इति इनिः ।)
जययुक्तः । पिजयी । यथा, --
“जगति जयिनो यस्य विशिखाः ।”
इति महिम्नः स्तोत्रम् ॥
(यथा, च रघौ । ४ । ३४ ।
“पौरस्त्यानेवमाक्रामंस्तांस्तान् जनपदान् जयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥”)

जय्यः, त्रि, जेतुं शक्यः । (“शकि लिङ् च ।”

३ । ३ । १७२ । इति शक्तौ यत् । गुणः ।
“क्षय्यजय्यौ शक्यार्थे ।” ६ । १ । ८१ । इति ।
यान्तादेशः ।) जयकरणयोग्यः । इत्यमरः ।
२ । ८ । ७४ ॥ (यथा, शतपथब्राह्मणे । १४ ।
४ । ३ । २४ ।
“सोऽयं मनुष्यलोकः पुत्त्रेणैव जय्यो नान्येन
कर्म्मणा ॥”)

जरठः, त्रि, (जीर्य्यत्यनेनेति । जॄ वयोहानौ +

उणां १ । १०२ । सूत्रे बाहुलकात् जॄशमोर-
प्यटः इत्युज्ज्वलदत्तोक्तेरठः ।) कर्कशः । पाण्डुः ।
कठिनः । इति मेदिनी । ठे, १३ ॥ (यथा,
माघे । ४ । २९ ।
“अयफतिजाठाः प्रकामगुर्व्वी-
रलघुविलम्बिपयोधरोपरुद्धाः ॥”)
जीर्णः । इति हेमचन्द्रः ॥ (वृद्धः । यथा,
भागवते । ६ । १ । २५ ।
“स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥”
परिणतः । यथा, माघे । ११ । १४ ।
“हिमरुचिररुणिम्ना राजते रज्यमानै-
र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥”)
जरायां पुं । इति विश्वः ॥

जरडी, स्त्री, (जॄ + बाहुलकात् अड । ततो

गौरादित्वात् ङीष् ।) तृणविशेषः । तत्-
पर्य्यायः । गर्म्मोटिका २ सुनाला ३ जया-
श्रया ४ । अस्या गुणाः । मधुरत्वम् । शीत-
त्वम् । सारकत्वम् । दाहरक्तदोपनाशित्वम् ।
रुच्यत्वम् । पशूनां दुग्धदातृत्वञ्च । इति राज-
निर्घण्टः ॥

जरणं, क्ली, (जरयतीति । जॄष् + णिच् + ल्युः ।)

हिङ्गु । कुष्ठौषधी । जीर्णे, त्रि । इति शब्द-
रत्नावली ॥ (श्वेतजीरकः । पर्य्याया यथा, --
“अजाजी जरणं दीप्यं मागधी जीरकं सितम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

जरणः, पुं, (जरयतीति । जॄष् + णिच् + ल्यः ।)

जीरकः । (यथा, --
“जीरको जरणो जाजी कणा स्याद्दीर्घजीरकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कृष्णजीरकः । सौवर्च्चललवणम् । इति शब्द-
रत्नावली ॥ कासमर्द्दः । इति राजनिर्घण्टः ॥

जरणा, स्त्री, (जरख + टाप् ।) कृष्णजीरकः ।

इति राजनिर्घण्टः ॥ (यथा, ऋग्वेदे । १० । ३७ । ६ ।
“भद्रं जीवन्तो जरणामशीमहि ॥”)

जरणद्रुमः, पुं, (जरणो जीर्णः दुमः ।) अश्व-

कर्णवृक्षः । इति राजनिर्घण्टः ॥

जरण्डः, त्रि, (जीर्य्यतीति । जॄ + अण्डन् ।)

जीर्णः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

जरत्, त्रि, (जॄ + अतृन्) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥

पुरातनम् । इति हेमचन्द्रः ॥

जरत्कारुः, पुं, मुनिविशेषः । तत्पर्य्यायः । याया-

वरः २ । इति त्रिकाण्डशेषः ॥ (एतान्नरुक्ति-
र्यथा, महाभारते । १ । ४० । ३ -- ४ ।
“जरेति क्षयमाहुर्व्वै दारुणं कारुसंज्ञितम् ।
शरीरं कारु तस्यासीत्तत् स धीमाञ्छनैः शनैः ॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते ।
जरत्कारुरिति ब्रह्मन् ! वासुकेर्भगिनी तथा ॥”
एतद्बिवरणं यथा, देवी भागवते । २ । १२ । ७-९ ।
“जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् ।
तेन दृष्ट्वा वने गर्त्ते लम्बमानाः स्वपूर्ब्बजाः ॥
ततस्तमाहः कुरु पुत्त्रदारान्
यथा च नः स्यात् परमा हि तृप्तिः ।
स्वर्गे व्रजामः खलु दुःखमुक्ता
वयं सदाचारयुते सुते वै ॥
स तानुवापाथ लभे सनामा-
मयाचितां चातिवशानुगाञ्च ।
यदा गृहारम्भमहं करोमि
व्रवीमि तथ्यं मम पूर्ब्बजा वै ॥
इत्युक्त्वा तान् जरत्कारुर्गतस्तीर्थान् प्रति द्बिजः ॥”
अथ मात्राभिशप्तो वासुकिः ब्रह्मोपदेशात्
स्वभगिनीं जरत्कारुमेनमर्पयामास । तद्यथा,
तत्रैव । २ । १२ । ३५ -- ४५ ।
“वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् ।
वनं गत्वा सुतां तस्मै ददौ विनयपूर्ब्बकम् ॥
सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् ।
अप्रियं मे यदा कुर्य्यातदा तां सन्त्यजाम्यहम् ॥
वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् ।
दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥
कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने ।
तया सह सुखं प्राप रममाणः परन्तप ! ॥
एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः ।
भगिनी वासुकेस्वत्र संस्थिता वरवर्णिनी ॥
न सम्बोधयितव्योऽहं त्वया कान्ते ! कथञ्चन ।
इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥
रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते ।
किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥
धर्म्मलोपभयाद्भीता जरत्कारुरचिन्तयत् ।
नोचेत् प्रबोधयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥
धर्म्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् ।
धर्म्महानिर्नराणां हि नरकाय भवेत् पुनः ॥
इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् ।
सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठ सुव्रत ! ॥
उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् ।
त्वन्तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥
वेपमानाब्रवीद्बाक्यमित्युक्त्वा मुनिना तदा ।
भ्रात्रा दत्त्वा यदर्थं तत् कथं स्यादमितप्रभ ! ॥
मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ॥”
अस्य पुत्त्रः आस्तीकनामा मुनिप्रवरः । योऽसौ
जनमेजयं गत्वा सर्पसत्रात् निवारयामास ।
जरत्कारुमुनेर्विशेषविवरणन्तु महाभारते
आदिपर्व्वणि ४४ -- ४८ अध्यायेषु द्रष्टव्यम् ॥)

जरत्कारुः, स्त्री, मनसादेवी । इति त्रिकाण्डशेषः ॥

(यथा, देवीभागवते । २ । १२ । ४७ ।
“मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ॥”)

जरत्कारुप्रिया, स्त्री, (जरत्कारोः स्वनाम

ख्यातस्य मुनेः प्रिया ।) मनसादेवी । इति
शब्दरत्नावली ॥

जरती, स्त्री, (जरत् + “उगितश्च ।” ४ । १ । ६ ।

इति ङीप् ।) वृद्धा । इति राजनिर्घण्टः ॥

जरद्गवः, पुं, (जरंश्चासौ गौश्चेति । “गोरतद्धित-

लुकि ।” ५ । ४ । ५२ । इति टच् ।) जीर्णं-
वृषः । तत्पर्य्याया । वृद्धोक्षः २ । इत्यमरः ।
२ । ९ । ६१ ॥ (यथा, पञ्चतन्त्रे । ४ । ८४ ।
“अकृन्य पौरुषं या श्रीः किं तयापि सुभोग्यया ।
जरद्गवः समश्नाति दैवादुपगतं तृणम् ॥”
जरन् क्षीयमाणो गौर्वृषरूपो धर्म्मः । धर्म्मरूप-
जीर्णवृषः । यथा, महाभारते । १३ । ९३ । ६८ ।
“नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः ।
अलसः क्षुत्परो मर्खस्तेन पीवाञ्छुना सह ॥”)
गृध्रपक्षिविशेषः । यथा, --
“अज्ञातकलशीलस्य वासो देयो न कस्यचित् ।
मार्ज्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥”
इति हितोपदेशे मित्रलाभपरिच्छेदः ॥

जरन्, पुं, (जरतीति । जॄ + शतृ ।) वृद्धः ।

इति राजनिर्घण्टः ॥
(“वान्तमात्रे जरत् पित्तं शूलमाशु व्यपोहति ॥”
इति माधवकृतरुखिनिश्चये शूलाधिकारे ॥)

जरन्तः, पुं, (जीर्य्यतीति । ज + “जॄविशिभ्यां

झच् ।” उणां । ३ । १२६ । इति झच् ।) महिषः ।
वृद्धः । इति त्रिकाण्डशेषः ॥

जरसानः, पुं, (जीर्य्यति जराग्रस्तो भवतीति ।

जॄ वयोहानौ + “छन्दस्यसानच् शुजॄभ्याम् ।”
उणां । २ । ८६ । इति असानच् ।) मनुष्यः ।
इति सिद्वान्तकौमुद्यामुणादिवृत्तिः ॥

जरा, स्त्री, (जीर्य्यत्यनया । जॄ + “षिद्भिदादि-

भ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् । “ऋदृशो-
ऽङि गुणः ।” ७ । ४ । १६ । इति गुणः ।)
वयःकृतश्लथमांसाद्यवस्थाभेदः । वार्द्धक्यम् ।
“जीर्य्यत्यनया जरा जॄ ष वयोहानौ षित्वात् डः
दृश्रोर्णुरिति गुणः ।” इत्यमरटीकायां भरतः ॥
तत्पर्य्यायः । विस्रसा २ । इत्यमरः । २ । ६ । ४१ ॥
सा तु कालकन्या । यथा, --
“कालकन्या जरा साक्षात् लोकस्तां नाभिनन्दति ।
स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥”
इति श्रीभागवतम् ।
पृष्ठ २/५१८
एषां भेदप्रभेदेन चतुःषष्टिरुजः स्मृताः ।
मृत्युकन्यासुताश्चैव जरा तस्याश्च कन्यका ।
जरा च भ्रातृभिः सार्द्धं शश्वद्भ्रमति भूतलम् ॥
एते चोपायवेत्तारं न गच्छन्ति च संयतम् ।
पजयन्ते च तं दृष्ट्वा वैनतेयमिवोरगाः ॥
चक्षुर्जलञ्च व्यायामः पादाधस्तैलसेवनम् ।
कर्णयोर्मूर्द्ध्नि तैलञ्च जराव्याधिविनाशकम् ॥
वसन्ते भ्रमणं वह्निसेवां स्वप्लां करोति यः ।
वालाञ्च सेवते काले जरा तं नोपगच्छति ॥
खातशीतोदकस्नायी सेवते चन्दनद्रवम् ।
नोपयाति जरा तञ्च निदाघेऽनिलसेविनम् ॥
प्रावृष्युष्णोदकस्नायी घनतोयं न सेवते ।
समये च समाहारी जरा तं नोपगच्छति ॥
शरद्रौद्रं न गृह्णाति भ्रमणन्तत्र वर्ज्जयेत् ।
खातस्नायी समाहारी जरा तं नोपतिष्ठते ॥
खातस्नायी च हेमन्ते काले वह्निं निषेवते ।
भुइक्ते नवान्नमुष्णञ्च जरा तं नोपगच्छति ॥
शिशिरेऽंशुकवह्रिञ्च नवोष्णान्नञ्च सेवते ।
य एवोष्णोदकस्नायी जरा तं नोपगच्छति ॥
सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् ।
वृतञ्च सेवते यो हि जरा तं नोपगच्छति ॥
भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम् ।
नित्य भुङ्क्ते च ताम्बूलं जरा तं नोपगच्छति ॥
दधि हैयङ्गवीनञ्च नवनीतं तथा गुडम् ।
नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति ॥
शुष्कमांसं स्त्रियं वृद्धां बालार्कन्तरुणं दधि ।
संसेवन्तं जरा याति प्रहृष्टा भ्रातृभिः सह ॥
रात्रौ ये दधि सेवन्ते पुंश्चलीञ्च रजस्वलाम् ।
तानुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि ! ॥
रजस्वला च कुलटा चावीरा जारदूतिका ।
शूद्रयाजकपत्नी या ऋतुहीना च या सति ! ॥
यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः ।
तेन पापेन सार्द्धं सा जरा तमुपगच्छति ॥
पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् ।
पापं द्याधिजरावीजं विघ्नवीजञ्च निश्चितम् ॥
पापेन जायते व्याधिः पापेन जायते जरा ।
पापेन जायते दैन्यं दुःखं शोको भयङ्करः ॥
तस्मात् पापं महावैरं दोषवीजममङ्गलम् ।
भारते सन्ततं सन्तो नाचरन्ति भयातुराः ॥
स्वधर्म्माचारयुक्तञ्च दीक्षितं हरिसेवकम् ।
गुरुदेवातिथीनाञ्च भक्तं सक्तं तपःसु च ॥
व्रतोपवासयुक्तञ्च सदा तीर्थनिसेवकम् ।
रोगा द्रवन्ति तं दृष्ट्वा वैनतेपमिवोरगाः ॥
एतान् जरा न सेवेत व्याधिसंघश्च दुर्ज्जयः ।
सर्व्वं बोध्यमसमये काले सर्व्वं ग्रसिष्यति ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे । १ । १६ । ३३ -- ५५ ॥
जराया औषधं यथा, गारुडे १९६ अध्याये ।
“पलाशचूर्णं समधु गव्याज्यामलकान्वितम् ।
सविडङ्गं पीटमात्रं नरं कुर्य्यान्महामतिम् ॥
मासैकेन महादेव ! जरामरणवर्ज्जितः ।
पलाशबीजं सधृतं तिलमध्वन्वितं समम् ।
सप्ताहं भक्षितं रुद्र ! जरां नयति संक्षयम् ॥”
अपिच ।
“श्लक्ष्णीकृतं भृङ्गराजस्य चूर्णं
तिलार्द्धकं चामलकार्द्धकञ्च ।
सशर्करं भक्षयते गुडैर्व्वा
न तस्य रोगो न जरा न मृत्युः ॥”
अन्धः पश्येद्गमनरहितो मत्तमातङ्गगामी
मूको वाम्मी श्रवणरहितो दूरशब्दानुसारी ।
नीरुङ्मर्त्त्यो भवति पलिती नीलजीमूतकेशो
जीर्णा दन्ताः पुनरपि नवाः क्षीरगौरा भवन्ति ॥”
इति भैषज्यरत्नावल्यां भृङ्गराजादिचूर्णम् ॥
(“क्लैव्यं जरासम्भवं हि प्रवक्ष्याम्यथ तत् शृणु ॥
जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते ।
अघ प्रवयसां शुक्रं प्रायशः क्षीयते नृणाम् ॥
रसादीनां संक्षयाच्च तथैवावृष्यसेवनात् ।
वलवीर्य्येन्द्रियाणाञ्च क्रमेणैव परिक्षयात् ॥
परिक्षयादायुषश्चाप्यनाहारात् श्रमात् क्लमात् ।
जरासम्भवजं क्लैव्यं इत्येतैर्हेतुभिर्नणाम् ॥
जायते तेन सोऽत्यर्थं क्षीणधातुः सुदुर्ब्बलः ।
विवर्णो विह्वलो दीनः क्षिप्रं व्याधिमथाश्नुते ॥
एतज्जरा सम्भवं हि ॥”
“जरासम्भवजे क्लैव्ये क्षयजे चैव कारयेत् ।
स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम् ॥
क्षीरसर्पिर्बृष्ययोगा वस्तयश्चैव यापनाः ।
रसायनप्रयोगाश्च तयोर्भैषजमुच्यते ॥”
इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥ * ॥
“या च भार्य्या विरूपाक्षी कश्मला कलहप्रिया ।
वचनोत्तरवक्त्री च सा जरा न जरा जरा ॥”
इति चाणक्यम् ॥ * ॥)
क्षीरिकावृक्षः । इति शब्दचन्द्रिका ॥ राक्षसी-
विशेषः । यथा, श्रीभागवते ।
“अन्यस्यामपि भार्य्यायां शकले द्वे बृहद्रथात् ।
ते मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ॥”

जरातुरः, त्रि, (जरया आतुरः ।) जीर्णः ।

जरारोगग्रस्तः । इति शब्दमाला ॥ (यथा,
नैषधे । १ । १३५ ।
“मदेकपुत्त्रा जननी जरातुरा
नवप्रसूतिर्व्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्द्दय-
न्नहो विधे ! त्वां करुणा रुणद्धि न ॥”)

जरापुष्टः, पुं, (जरया राक्षस्या पुष्टः ।) जरा-

सन्धः । इति शब्दरत्नावली ॥

जराभीरुः, पुं, (जरातो भीरुः ।) कामदेवः ।

इति हेमचन्द्रः । २ । १४१ ॥ जरामयशीले, त्रि ॥

जरायणिः, पुं, (जराया राक्षस्या अपत्यम् । जरा

+ वाहुलकात् फिः । तत्प्राप्तजीवत्वात् तथा-
त्वम् ।) जरासन्धः । इति शब्दरत्नावली ॥

जरायुः, पुं, (जरामेतीति । जरा + इण् + “किंञ्ज-

रयोः श्रिणः ।” उणां १ । ४ । इति ञुण् ।)
येन वेष्टितो गर्भः कुक्षौ तिष्ठति सः । गर्भ-
वेष्टनचर्म्म । आँओल इति भाषा । तत्पर्य्यायः ।
गर्भाशयः २ उल्वम् ३ कललः ४ । इत्यमरः ।
२ । ६ । ३७ ॥
“या तु चर्म्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ॥”
इति महाभागवते भगवतीगीता ॥
अग्निजारवृक्षः । इति राजनिर्घण्टः ॥

जरायुजः, त्रि, (जरायौ जायते इति । जन +

डः ।) गर्भाशयजातः । स तु नृगवादिः ।
इत्यमरः । ३ । १ । ५० ॥
“या तु चर्म्माकृतिः सूक्ष्मा जरायुः सा निगद्यते ।
श्रुक्रशोणितयोर्योगस्तस्मिन् संजायते यतः ।
तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥”
इति महाभागवते भगवतीगीता ॥

जरासन्धः, पुं, (जरया तदाख्यया प्रसिद्धया

राक्षस्या कृता सन्धा देहसंयोजनमस्य ।)
चन्द्रवंशीयराजविशेषः । स तु बृहद्रथराज-
पुत्त्रः । कंसश्वशुरः द्बन्द्बयुद्धे भीमस्तं हतवान् ।
अस्य नामकरणं यथा, --
“अन्यस्यामपि भार्य्यायां शकले द्वे बृहद्रथात् ।
ते मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ॥
जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥”
इति श्रीभागवतम् ॥
तत्पर्य्यायः । बार्हद्रथिः २ । इति त्रिकाण्डशेषः ॥
(अस्य जन्मविवरणं महाभारते सभापर्व्वणि १७
अध्याये तथा मृत्युविवरणं तत्रैव २४ अध्याये
द्रष्टव्यम् ॥ अयं हि विप्रचित्तिनामकस्यासुर-
स्यावतारः । यथा, महाभारते । १ । ६७ । ४ ।
“विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।
जरासन्ध इति ख्यातः स आसीत् मनुजर्षभः ॥”
धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते ।
१ । ११७ । ८ ।
“दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् ॥”)

जरासन्धजित्, पुं, (जयतीति । जि + क्विप् । ततो

जरासन्धस्य जित् जेता ।) भीमः । इति
त्रिकाण्डशेषः ॥

जरी, [न्] त्रि, (जरास्त्यस्येति । जरा + इनिः ।)

वृद्धः । इति हेमचन्द्रः । ३ । ४ ॥

जरूथं, क्ली, (जीर्य्यतीति । जॄ + “जॄवृञ्भ्या-

मूथन् ।” उणां । २ । ६ । इति ऊथन् ।)
मांसम् । इति त्रिकाण्डशेषः ॥

जर्च्च, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) श, जर्च्चती जर्च्चन्ती ।
गुणस्थानरहितानां तुदादिपाठफलस्तु शत्र-
न्तानां आदीपोरिति नुणो विभाषा वेदेषूच्चारण-
भेदश्च । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

जर्च्छ, श उक्तौ । भर्त्से । इति कविकल्पदुमः ॥

(तुदां-परं-सकं-सेट् ।) श, जर्च्छती जर्च्छन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

जर्ज्ज, श वाच । भर्त्से । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) श, जर्ज्जती जर्ज्जन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

जर्ज्जरः, पुं, (जर्जति स्वगुणेनापरान् निन्दतीति ।

जर्ज्ज + वाहुलकात् अरः ।) शैलजः । (जर्जति
शत्रून् तर्ज्जयतीति ।) शक्रध्वजः । (जर्ज्ज्यते
निन्द्यते इति । कर्म्मणि बहुलवचनादरः ।)
पृष्ठ २/५१९
जरातुरे, त्रि । इति मेदिनी । रे, १५७ ॥
(जीर्णे । यथा, महाभारते । ३ । ११ । ६५ ।
“अथ जर्ज्जरसर्व्वाङ्गं व्याविद्धनयनाम्बरम् ।
भूतले भ्रामयामाम वाक्यञ्चेदमुवाच ह ॥”
विदीर्णे । यथा, माघे । ४ । २३ ।
“कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यो
मूर्द्ध्रि ग्राव्णां जर्ज्जरा निर्झरौघाः ॥”)

जर्ज्जरीकः, त्रि, (जर्जति जीणो भवतीति । जर्ज्ज

+ “फर्फरीकादयश्च ।” उणां ४ । २० । इति
ईकन्प्रत्ययेन साधुः ।) बहुच्छिद्रद्रव्यम् । जरा-
तुरः । इति मेदिनी । के, १८९ ॥

जर्झ, श भर्त्से । उक्तौ । इति कविकल्पद्रुमः ।

(तुदां-परं-सकं-सेट् ।) श, जर्झती जर्झन्ती ।
भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

जर्णः, पुं, (जीर्य्यति क्षीणो भवतीति । जॄ + “कॄवॄ-

जॄषिद्रुपनीति ।” उणां ३ । १० । इति नन् ।)
चन्द्रः । वृक्षः । इति मेदिनी । णे, १३ ॥ जीर्णे,
त्रि । इति हेमचन्द्रः ॥

जर्त्तः, पुं, (जायतेऽस्मादिति । जन + बाहुलकात्

तप्रत्ययेन साधुः ।) योनिः । हस्ती । इति
संक्षिप्तसारे उणादिवृत्तिः ॥ (अत्र जर्तुरित्येव
पाठो भवितुं युक्तः ॥)

जर्त्तिलः, पुं, वनोद्भवतिलः । इति राजनिर्घण्टः

हेमचन्द्रश्च ॥ (यथा, विष्णुपुराणे । १ । ६ । २५ ।
“श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास्तद्वन् मर्कटका मुने ! ॥”)

जत्तुः, पुं, (जायते यस्मादिति । जन + “जनेस्तु

रः ।” उणां ५ । ४६ । इति तुः रेफश्चान्ता-
देशः ।) योनिः । हस्ती । इत्युणादिकोषः ॥

जर्त्स, झर्झे । रक्षे । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् ।) रेफयुक्तः दन्त्यवर्गाद्यो-
पधः । जर्त्सति । झर्झा भर्त्सनमुक्तिश्च । इति
दुर्गादासः ॥

जहिलः, पुं, अरण्यतिलः । इति राजनिर्घण्टः ॥

जल, क पिधाने । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) पिधानमाच्छादनम् । क,
जालयति चन्द्रं मेघः । इति दुर्गादासः ॥

जल, ज धान्ये । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् । अकं इति केचित् ।) ज, जालः
जलः । धीयते अनेनेति धानं तस्य भावः धान्यं
जीवनोपयोगिक्रिया । जलति लोकान् जलम् ।
जीवयतीत्यर्थः । धीयते आच्छाद्यते अनेनेति
धानं तस्य भावः धान्यं आच्छादनक्रिया ।
जलति जालेन मत्स्यान् जालिक इति वा ।
गोविन्दभट्टस्तु धनस्य भावः धान्यं समृद्धिः ।
जलति धनी समृद्धः स्यादित्यर्थ इत्याह । इति
दुर्गादासः ॥

जलं, क्ली, गोकलनम् । ह्रीवेरम् । इति मेदिनी ।

ले, १८ ॥ (यथा, भावप्रकाशे अरोचकाधि-
कारे ।
“जलं सकृष्णागुरुभृङ्गकेसरम् ।” इति ॥ * ॥
जलति जीवयति लोकात् जलति आच्छादयति
भूम्यादीनिति वा । जल + पचाद्यच् ।) पानी-
यम् । पञ्चभूतान्तर्गतभूतविशेषः । अस्य धर्म्माः ।
रूपं द्रवत्वं प्रत्यक्षयोगित्वञ्च । इदं गुरुरस-
विशिष्टञ्च । अस्य गुणाश्चतुर्द्दश । यथा, --
स्पर्शः १ संख्या २ परिमितिः ३ पृथक्त्वम् ४
संयोगः ५ विभागः ६ परत्वम् ७ अपरत्वम् ८
वेगः ९ द्रवत्वम् १० गुरुत्वम् ११ रूपम् १२
रसः १३ स्नेहः १४ । अस्य वर्णः शुक्लः रसो
मधुरः स्पर्शः शीतलः । स्नेहः द्रवत्वं स्वाभा-
विकगुणः । परमाणुजलं नित्यम् । सावयव-
जलं अनित्यम् । अनित्यजलं त्रिविधं यथा ।
देहं अयोनिजम् १ इन्द्रियं रसनम् २ विषयः
सिन्धुहिमादिः ३ । इति भाषापरिच्छेदः ॥ * ॥
तस्यात्पत्तिर्यथा --
“रूपमात्राद्विकुर्व्वाणात्तेजसो दैवचोदितात् ।
रसमात्रमभूत्तस्मादम्भो जिह्वारसग्रहः ॥” * ॥
तस्य लक्षणं यथा, --
“क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनादनम् ।
तापापनोदो भूयस्त्वभम्भसो वृत्तयस्त्विमाः ॥”
इति श्रीभागवतम् ॥ * ॥
“अपां शैत्यं तथा क्लेदो द्रवत्वं स्नेहसौम्यता ।
जिह्वाविस्यन्दनञ्चापि भौमानां श्रपणं तथा ॥
चतुर्थमापो विज्ञेयं जिह्वाध्यात्मं प्रचक्ष्यते ।
अधिभूतं रसस्तत्र सोमस्तत्राधिदैवतम् ॥”
इत्याश्वमेधिकपर्व्व ॥ * ॥
तत्पर्य्यायः । आपः २ स्त्रीलिङ्गवहुवचनान्तो-
ऽयम् । वाः ३ वारि ४ सलिलम् ५ कमलम् ६
पयः ७ कीलालम् ८ अमृतम् ९ जीवनम् १०
भुवनम् ११ वनम् १२ कवन्धम् १३ उदकम् १४
पाथः १५ पुष्करम् १६ सर्व्वतोमुखम् १७ अम्भः
१८ अर्णः १९ तोयम् २० पानीयम् २१ नीरम् २२
क्षीरम् २३ अम्बु २४ सम्बरम् २५ मेघपुध्पम् २६
घनरसः २७ । इत्यमरः । १ । १० । ३ ॥ आपः २८
सान्तक्लीवोऽयम् । सरिलम् २९ सलम् ३० जडम्
३१ कम् ३२ अन्धम् ३३ कपन्धम् ३४ उदम् ३५
दकम् ३६ नारम् ३७ शम्बरम् ३८ अब्भ्रपुष्पम्
३९ धनरसम् ४० घृतम् ३१ । इति भरतः ॥
पीप्पलम् ४२ कुशम् ४३ विषम् ४४ काण्डम् ४५
सवरम् ४६ सरम् ४७ कृपीटम् ४८ चन्द्रोरसम् ४९
सदनम् ५० कर्व्वुरम् ५१ व्योम ५२ सम्बः ५३
सरः ५४ इरा ५५ वाजम् ५६ तामरम् ५७ ।
इति जटाधरः ॥ कम्बलम् ५८ स्यन्दनम् ५९ सम्ब-
लम् ६० जलपीथम् ६१ क्षरम् ६२ ऋतम् ६३
ऊर्ज्जम् ६४ कोमलम् ६५ सोमम् ६६ । इति
शब्दरत्नावली ॥ * ॥ तस्य गुणाः । ईषत् कषाय-
त्वम् । मधुरत्वम् । क्लेदित्वम् । शीतलत्वम् ।
तृष्णानाशित्वम् । अव्यक्तरसत्वम् । शरीरेन्द्रिय-
तर्पणत्वञ्च ॥ * ॥ सुगन्धस्य तस्य गुणाः । अस्पष्ट-
रसत्वम् । सुशीतत्वम् । तर्षनाशित्वञ्च ॥ * ॥
स्वच्छस्य तस्य गुणाः । लघुत्वम् । हृद्यत्वम् ।
गुणवत्त्वञ्च ॥ * ॥ पर्णशैवालकर्दमयुक्तजल-
गुणाः । पिच्छिलत्वम् । कृमिलत्वम् । क्लिन्न-
त्वम् । विवर्णत्वम् । विरसत्वम् । सान्द्रत्वम् ।
दुर्गन्धित्वम् । अहितकारित्वञ्च ॥ * ॥ दिवा
सूर्य्यकिरणरात्रिचन्द्ररश्मिजुष्टजलगुणाः । अरू-
क्षत्वम् । अनभिष्यन्दित्वम । गगनाम्बुतुल्य-
त्वञ्च ॥ * ॥ साधारणजलगुणाः । वृष्यत्वम् ।
दीपनत्वम् । मधुरत्वम् । लघुत्वञ्च ॥ * ॥ वर्षा-
कालीनजलगुणाः । गुरुत्वम् । अभिष्यन्दित्वम् ।
मधुरत्वम् । सारकत्वञ्च ॥ * ॥ शरत्कालीन-
जलगुणाः । अनभिष्यन्दित्वम् । लघुत्वञ्च ॥ * ॥
हैमन्तिकजलगुणाः । स्निग्धत्वम् । वल्यत्वम् ।
वृष्यत्वम् । हितकारित्वभ् । गुरुत्वञ्च ॥ * ॥
शैशिरजलगुणः । कफवातनाशित्वम् । हैम-
न्तिकात् किञ्चिल्लघुत्वञ्च ॥ * ॥ वासन्तिक-
जलगुणाः । कषायत्वत् । मधुरत्यम् । वल्य-
त्वम् । रूक्षत्वञ्च ॥ * ॥ ग्रैष्मिकजलगुणः ।
अनभिष्यन्दित्वम् ॥ * ॥ शीतलजलगुणाः ।
मदमूर्च्छाच्छर्द्दिपित्तज्वरश्रमक्लमतृषादाहमदा-
त्ययविषनाशित्वम् ॥ * ॥ पवनाहतधारापात-
जलगुणाः । विष्टम्भित्वम् । दुर्जरत्वञ्च ॥ * ॥
यत् अन्तर्वाष्पशीतलं तत् शृतशीतं तस्य गुणः ।
त्रिदोषनाशित्वम् ॥ * ॥ जलस्य सिद्धकरण-
प्रकारः । हेमन्ते शिशिरे पादहीनं वसन्त
पादस्थितं ग्रीष्मशरत्कालयोरर्द्धावशेषितं वर्षा-
स्वष्टावशेषितम् । दिवासिद्धं जलं रात्रौ गुरु
रात्रिसिद्धं दिवागुरु ॥ * ॥ पुष्पसुवासितशुक्ल-
वस्त्रपूतनूतनमृत्पात्रस्थजलगुणः । मङ्गलरुचि-
कारित्वम् ॥ * ॥ अजीर्णे जलमौषधं जीर्णे
वलप्रदं आहारकाले आयुर्जनकं भुक्तान्नोपरि
रात्रौ न षेयम् ॥ * ॥ रात्रिशेषे जलपानगुणाः ।
कासश्वासातीसारज्वरवमथुकटीकोठकुष्ठमूत्रा-
घात-उदरार्शःश्वयथुगलशिरःकर्णनासाचक्षु-
रोगवातपित्तकफक्षयजरोगनाशित्वम् ॥ * ॥
मेघशून्यरात्रिशेषे नाशिकारन्ध्रेण जलपान-
गुणाः । बुद्धिकारित्वम् । चक्षुर्हितत्वम् । वली-
पलितसर्व्वरोगनाशित्वञ्च ॥ * ॥
“जलञ्चतुर्व्विधं प्राहुरन्तरीक्षोद्भवं बुधाः ।
धारञ्च कारकचैव तौषारं हैममित्यपि ॥”
इति राजनिर्घण्टः ॥ * ॥
तृषिताय रोगिणेऽपि जलं देयं यथा, --
“पानीयं प्राणिनां प्राणास्तदायत्तं हि जीवनम् ।
तस्मात् सर्व्वास्ववस्थासु न क्वचिद्बारि वार्य्यते ॥
अन्नेनापि विना जन्तुः प्राणान् धारयते चिरम् ।
तोयाभावे पिपासार्त्तः क्षणात् प्राणैर्विमुच्यते ॥
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।
तस्माज्जलमवश्यं हि दातव्यं भेषजैः ममम् ॥”
इति राजवल्लभः ॥ * ॥
“पादेन घटमुत्थाप्य भाजने पूरयेज्जलम् ।
तज्जलं मदिरातुल्यं भाण्डस्थं सुरया समम् ॥”
इति कर्म्मलोचनम् ॥ * ॥
तस्य दानमाहात्म्यं यथा, --
“अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।
प्राणदानाद्धि परमं न दानमिह विद्यते ॥
पृष्ठ २/५२०
अन्नं नापि प्रभवति पानीयात् कुरुसत्तम ! ।
नीरजातेन हि विना न किञ्चित् संप्रवर्त्तते ॥
अन्नौषध्यो महाराज ! वीरुधश्च जलोद्भवाः ।
यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते ! ॥
तस्मात् पानीयदानाद्वै न परं विद्यते क्वचित् ।
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ॥
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते ।
शर्त्रूश्चाप्यधि कौन्तेय ! सदा तिष्ठति तोयदः ॥
सर्व्वकामानवाप्नोति कीर्त्तिञ्चैवेह शाश्वतीम् ।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते ॥
तोयदो मनुजव्याघ्र ! स्वर्गं गत्वा महाद्युते ! ।
अक्षयान् समवाप्नोति लोकानित्यब्रवीन्मनुः ॥”
इति महाभारते दानधर्म्मः ॥ * ॥
“एकहस्ते धृतं तोयमभक्ष्यं सर्व्वसम्मतम् ॥”
इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥ * ॥
“उद्धृतं वामहस्तेन यत्तोयं पिबति द्बिजः ।
सुरापानेन तुल्यं स्यान्मनुराह प्रजापतिः ॥”
इति मनुः ॥
तस्य वेदोक्तपर्य्यायाः । अर्णः १ क्षोदः २ क्षद्मः ३
नभः ४ अम्भः ५ कवन्धम् ६ सलिलम् ७ वाः ८
वनम् ९ घृतम् १० मधु ११ पुरीषम् १२ पिप्पलम्
१३ क्षीरम् १४ विषम् १५ रेतः १६ कशः १७
जन्म १८ वृवूकम् १९ वूसम् २० तुग्र्या २१ वर्व्वुरम्
२२ सुक्षेम २३ धरुणम् २४ सुरा २५ अर-
विन्दानि २६ ध्वस्मन्वतु २७ जामि २८ आयु-
धानि २९ क्षपः ३० अहिः ३१ अक्षरम् ३२
मोतः ३३ तृप्तिः ३४ रहसः ३५ उदकम् ३६
पयः ३७ रसः ३८ भेषजम् ३९ सहः ४० शवः
४१ यहः ४२ ओजः ४३ सुखम् ४४ क्षत्त्रम् ४५
आवयाः ४६ शुभम् ४७ यादुः ४८ भूतम् ४९
भुवनम् ५० भविष्यत् ५१ आपः ५२ महत् ५३
व्योमः ५४ यशः ५५ महः ५६ सर्णीकम् ५७
स्वतीकम् ५८ सतीनम् ५९ गहनम् ६० गभी-
रम् ६१ गम्भनम् ६२ ईम् ६३ अन्नम् ६४ हविः
६५ सद्म ६६ सदनम् ६७ ऋतम् ६८ योनिः ६९
ऋतस्ययोनिः ७० सत्यम् ७१ नीरम् ७२ रयिः
७३ सत् ७४ पूर्णम् ७५ सर्व्वम् ७६ अक्षितम्
७७ वर्हिः ७८ नाम ७९ सर्पिः ८० अपः ८१
पवित्रम् ८२ अमृतम् ८३ इन्दुः ८४ हेम ८५
स्वः ८६ स्वर्गाः ८७ शम्बरम् ८८ अम्बम् ८९
वपुः ९० अम्बु ९१ तोयम् ९२ तूयम् ९३ कृपीटम्
९४ शुक्रम् ९५ तेजः ९६ स्वधा ९७ वारि ९८
जलम् ९९ जलाषम् १०० । इदमित्येकशत-
मुदकनामानि । इति वेदनिर्घण्टौ १ अध्यायः ॥ * ॥
अस्य गुणाः ।
पानीयं भ्रमनाशनं क्लमहरं मूर्च्छापिपासापहं
तन्द्राच्छर्द्दिविनाशनं बलकरं निद्राहरं तर्पणम् ।
हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम् ॥”
अथ तस्य भेदाः ।
“पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्बिधा ।
दिव्यं चतुर्व्विधं प्रोक्तं धाराजं करकाभवम् ॥
तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम् ॥”
तत्र धारस्य लक्षणं गुणाश्च ।
“धाराभिः पतितं तोयं गृहीतं स्फीतवाससा ।
शिलायां वा सुधायां वा धौतायां पतितञ्च यत् ॥
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्म्मिते ।
भाजने मृण्मये चापि स्थापितं धारमुच्यते ॥
धारनीरं त्रिदोषघ्नमनिर्द्देश्यरसं लधु ।
सौम्यं रसायनं वल्यं तर्पणं ह्लादिजीवनम् ॥
पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् ।
तृष्णां हरति तत्पथ्यं विशेषात् प्रावृषि स्मृतम् ॥”
अथ धाराजलस्य भेदौ ।
“धाराजलञ्च द्बिविधं गाङ्गसामुद्रभेदतः ॥”
तत्रगाङ्गसामुद्रयोर्लक्षणं गणाश्च ।
“आकाशगङ्गासम्बन्धि जलमादाय दिग्गजाः ।
मेघैरन्तरिता वृष्टीः कुर्व्वन्तीति वचः सताम् ॥
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः ।
सर्व्वथा तज्जलं देवं तथैव चरके वचः ।
स्थापितं हैमजे पात्रे राजते मृण्मयेऽपि वा ।
शाल्यन्नं येन संसिक्तं भवेदक्लेदिवर्णवत् ॥
तद्गाङ्गं सर्व्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा ।
तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् ।
विम्नञ्च दोषलं तीक्ष्णं सव्वकर्म्मसु गर्हितम् ।
सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥
यतोऽगस्त्यस्य दिव्यर्षेरुदयात् सकलं जलम् ।
निर्म्मलं निव्विषं स्वादु शुक्रलं स्याददोषलम् ॥”
अतएवाह ।
“फुत्कारविषवातेन नागानां व्योमचारिणाम् ।
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥”
अथानार्त्तवजलगुणाः ।
“अनार्त्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत् ।
तत्त्रिदोषाय सर्व्वेषां देहिनां परिकीर्त्तितम् ॥”
अनार्त्तवं पौषादिमासचतुष्टयविषयम् ॥
अथ करकजलस्य लक्षणं गुणाश्च ।
“दिव्यवाय्वग्निसंयोगात् संहताः खात् पतन्ति याः ।
पाषाणखण्डवच्चापस्ताः कारक्योऽमृतोपमाः ॥
करकाजं जलं रूक्षं विशदं गुरु च स्थिरम् ।
दारुणं शीतलं सान्द्रं पित्तहृत्कफवातकृत् ॥”
अथ तौषारजललक्षणं गुणाश्च ।
“अपि नद्याः समुद्रान्ते वह्निरापश्च तद्भवाः ।
धूमावयवनिर्म्मुक्तास्तुषाराख्यास्तु ताः स्मृताः ॥”
अपि नद्याः समुद्रान्ते वह्निः । नदीमारभ्य
समुद्रपर्य्यन्तं वह्निरास्ते । तद्भवाः वह्निभवाः ।
धूमावयवनिर्म्मुक्ताः धूमांशरहिताः आपस्तुषा-
राख्याः । तुष इति लोके तुस इति च ।
“अपथ्याः प्राणिनां प्रायो भूरुहाणान्तु ता हिताः ।
तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम् ॥
कफोरुस्तम्भकण्ठाग्निमेदोगण्डादिरोगनुत् ॥”
अथ हैमजलस्य लक्षणं गुणाश्च ।
“हिमवच्छिखरादिभ्यो द्रवीभूयाभिवर्षति ।
यत्तदेव हिमं हैमं जलमाहुर्म्मनीषिणः ॥
हिमाम्बु शीतं पित्तघ्नं गुरु वातविवर्द्धनम् ॥”
हैमं जलं कुहंसजलम् । अन्ये तु ।
“और्व्वानलधूमेरित-
मम्बु समुद्रस्य यद्घनीमूतम् ।
पवनानीतमुदीच्यां
तद्धिममिंति कथ्यते मुनिभिः ॥
हिमं कुहंस इति लोके ।
हिमन्तु शीतलं रूक्षं दारुण सूक्ष्ममित्यपि ।
न तद्दूषयते वातं नच पित्तं न वा कफम् ॥” * ॥
अथ भौमं जलं तद्भेदाश्च ।
“भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः ।
जाङ्गलं परमानूपं ततः साधारणं क्रमात् ॥”
तेषां लक्षणानि गुणाश्च ।
“अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ।
ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम् ॥
बहुवार्ब्बहुवृक्षश्च वातश्लेष्मामयान्वितः ।
देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् ॥
मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः ।
तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥
जाङ्गलं भलिलं रूक्षं लवणं लघु तत्तनु ।
वह्निकृत् कफकृत् पथ्यं विकारान् कुरुते बहून् ॥
आनूपं वार्य्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु ।
साधारणन्तु मधुरं दीपनं शीतलं लघु ॥
तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत् ॥”
अथ भौगानामेव नादेयादीनां लक्षणानि
गुणाश्च । तत्र नादेयस्य लक्षणं गुणाश्च ।
“नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ।
नादयमुदकं रूक्षं वातलं लघु दीपनम् ॥
अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ।
नद्यः शीघ्रवहा लघ्य्वः सर्व्वा याश्चामलोदका ॥
गुर्व्व्यः शैवालसंछन्ना मन्दगाः कलुषाश्च याः ।
नदीसरस्तडागस्थे कूपप्रस्रवणादिजे ॥
उदके देशभेदेन गुणान् दोषांश्च लक्षयेत् ॥”
अथौद्भिदस्य लक्षणं गुणाश्च ।
“विदार्य्य भूमिं निम्नां यन्महत्या धारया स्रवेत् ।
तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः ॥
औद्भिदं वारे पित्तघ्नमविदाह्यतिशीतलम्
प्रीणनं मधुरं बल्यमीषद्बातकरं लघु ॥”
अथ नैर्झरस्य लक्षणं गुणाश्च ।
“शैलसानुस्रवद्बारिप्रवाहो निर्झरो झरः ।
स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम् ॥
नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु ।
मधुरं कटुकं पाके वातलं स्यादपित्तलम् ॥”
अथ सारसस्य लक्षणं गुणाश्च ।
“नद्याः शैलादिरुद्धाया यत्र संस्रुत्य तिष्ठति ।
तत् सरो जलजच्छन्नं तदम्भः सारसं स्मृतम् ॥
सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु ।
रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम् ॥”
अथ तडागस्य लक्षणं गुणाश्च ।
“प्रशस्तभूमिभागस्थो बहुसंवत्सरोषितः ।
जलाशयस्तडागः स्यात्ताडायं तज्जलं स्मृतम् ॥
ताडागमुदकं स्वादु कषायं कटुपाकि च ।
वातलं बद्धविण्मूत्रमसृक्पित्तकफापहम् ॥”
अथ वाप्यस्य लक्षणं गुणाश्च ।
पृष्ठ २/५२१
“पाषाणैरिष्टकाभिर्व्वा बद्धकूपा बृहत्तरा ।
ससोपाना भवेद्वापी तज्जलं वाप्यमुच्यते ॥
वाप्यं वारि यदि क्षारं पित्तकृत् कफवातहृत् ।
तदेव मिष्टं कफकृत् वातपित्तहरं भवेत् ॥”
अथ कौपस्य लक्षणं गुणाश्च ।
“भूमौ खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः ।
बद्धोऽबद्धः स कूपः स्यात्तदम्भः कौप्यमुच्यते ॥
कौपं पयो यदि स्वादु त्रिदोषघ्नं हिमं लघु ।
तत् क्षारं कफवातघ्नं दीपनं कफकृत् परम् ॥”
अथ चौड्यस्य लक्षणं गुणाश्च ।
“शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम् ।
लतावितानसंछन्नं चौड्यमित्यभिधीयते ॥
अश्मादिभिरबद्धं यत्तत् चौड्यमिति चापरे ।
तत्रत्यमुदकं चौड्यं मुनिभिः समुदाहृतम् ॥
चौड्यं वह्निकरं नीरं रूक्षं कफहरं लघु ।
मधुरं पित्तनुद्रुच्यं पाचनं विशदं स्मृतम् ॥”
अथ पाल्वलस्य लक्षणं गुणाश्च ।
“अल्पं सरः पल्वलं स्यात् यत्र चन्द्रर्क्षगे रवौ ।
न तिष्ठति जलं किञ्चित् तत्रत्यं वारि पाल्वलम् ॥
पाल्वलं वार्य्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ॥”
अथ विकिरस्य जलस्य लक्षणं गुणाश्च ।
“नद्यादिनिकटे भूमिर्य्या भवेद्बालुकामयी ।
उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः ॥
विकिरं शीतलं स्वच्छं निर्द्दोषं लघु तत् स्मृतम् ।
तुवरं स्वादु पित्तघ्नं क्षारं तत् पित्तलं मनाक् ॥”
अथ कैदारस्य लक्षणं गुणाश्च ।
“केदारं क्षेत्रमुद्धिष्टं कैदारं तज्जलं स्मृतम् ।
कैदारं वार्य्यभिष्यन्दि मधुरं गुरु दोषकृत् ॥”
अथ वृष्टिजलस्य लक्षणं गुणाश्च ।
“वार्षिकं तदहर्वृष्टं भूमिष्ठमहितं जलम् ।
त्रिरात्रमुषितं तत्तु प्रसन्नममृतोपमम् ॥”
अथ हेमन्तादिकालविशेषे विहितो जल-
विशेषः ।
“हेमन्ते सारसं तोयं ताडागं वा हितं स्मृतम् ।
हेमन्ते विहितं तोयं शिशिरेऽपि प्रशस्यत ॥
वसन्तग्रीष्मयोः कौपं वाप्यं वा नैर्झरं जलम् ।
न देयं वारि नादेयं वसन्तग्रीष्मयोर्बुधैः ॥
विषवद्बनवृक्षाणां पत्राद्यैर्दूषितं यतः ।
औद्भिदं वान्तरीक्षं वा कौपं वा प्रावृषि स्मृतम् ॥
शस्तं शरदि नादेयं नीरमंशूदकं परम् ।
दिवा रविकरैर्ज्जुष्टं निशि शीतकरांशुभिः ॥
ज्ञेयमंशूदकं नाम स्निग्धं दोषत्रयापहम् ।
अनभिष्यन्दि निर्द्दोषमान्तरीक्षजलोपमम् ॥
बल्यं रसायनं मेध्यं शीतं लघु सुधासमम् ॥”
रविकरैर्ज्जुष्टमित्युक्ते दिवापदं समस्तदिवस-
प्राप्त्यर्थं शीतकरांशुभिर्जुष्टमित्युक्ते निशीतिपदं
समस्तरात्रिप्राप्त्यर्थम् । अन्यच्च ।
“शरदि स्वच्छमुदयादगस्त्यस्याखिलं हितम् ॥”
वृद्धसुश्रुतस्तु ।
“पौषे वारि सरोजातं माघे तत्तु तडागजम् ।
फाल्गुने कूपसम्भूतं चैत्रे चौड्यं हितं मतम् ॥
वैशाखे नैर्झरं नीरं ज्यैष्ठे शस्तं तथौद्भिदम् ।
आषाढे शस्यते कौपं श्रावणे दिव्यमेव च ॥
भाद्रे कौपं पयः शस्तमाश्विने चौड्यमेव च ।
कार्त्तिके मार्गशीर्षे च जलमात्रं प्रशस्यते ॥”
अथ जलस्य ग्रहणकालः ।
“भौमानामम्भसां प्रायो ग्रहणं प्रातरिष्यते ।
शीतत्वं निर्म्मलत्वञ्च यतस्तेषां महान् गुणः ॥”
अथ जलस्य पाने विधिः ।
“अत्यम्बुपानान्न विपच्यतेऽन्न-
मनम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्द्धनाय
मुहुर्म्मुहुर्व्वारि पिबेदभूरि ॥”
अथ शीतलजलपानस्य बिषयाः ।
“मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये ।
भ्रमे श्रमे विदग्धेऽन्ने तमके वमथौ तथा ।
ऊर्द्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥”
अथ तन्निषेधः ।
“पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ।
आध्माने स्तिमिते कोष्ठे सद्यः शुद्धौ नवज्वरे ॥
अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ ।
हिक्कायां स्नेहपाने च शीताम्बु परिवर्ज्जयेत् ॥”
अथाल्पजलपानस्य विषयाः ।
“अरोचके प्रतिश्याये मन्देऽग्नौ श्वयथौ क्षये ।
मुखप्रसेके जठरे कुष्ठे नेत्रामये ज्वरे ।
व्रणे च मधुमेहे च पिबेत् पानीयमल्पकम् ॥”
अथ जलपानस्यावश्यकता ।
“जीवानां जीवनं जीवो जगत् सर्व्वन्तु तन्मयम् ।
अतोऽत्यन्ततया सुज्ञो न क्वचित् वारि वार्य्यते ॥”
हारीतश्च ।
“तृष्णा गरीयसी घोरा सद्यःप्राणविनाशिनी ।
तस्माद्देयं तृषार्त्ताय पानीयं प्राणधारणम् ॥
तृषितो मोहमायाति मोहात् प्राणान् विमु-
ञ्चति ।
अतः सर्व्वास्ववस्थासु न क्वचित् वारि वारयेत् ॥”
अथ प्रशस्तं जलम् ।
“अगन्धमव्यक्तरसं सुशीतं तर्षनाशनम् ।
अच्छं लघु च हृद्यञ्च तोयं गुणवदुच्यते ॥”
अथ निन्दितं जलम् ।
“पिच्छिलं कृमिलं क्लिन्नं पर्णशैवालकर्द्दमैः ।
विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम् ॥
कलुषं छन्नमम्भोजपर्णनीलीतृणादिभिः ।
दुर्द्देशजमसंस्पृष्टं सौरचान्द्रमसांशुभिः ॥
अनार्त्तवं वार्षिकमपि प्रथमं तच्च भूमिगम् ।
व्यापन्नं परिहर्त्तव्यं सर्व्वदोषप्रकोपणम् ॥
तत् कुर्य्यात् स्नानपानाभ्यां तृष्णाध्मानोदर-
ज्वरान् ।
कासाग्निमान्द्याभिष्यन्दिकण्डूगण्डादिकांस्तथा ॥”
अथ दुष्टजलस्य निर्द्दोषीकरणोपायः ।
“निन्दितं चापि पानीयं क्वथितं सूर्य्यतापितम् ।
सुवर्णं रजतं लोहं पाषाणं सिकतां मृदम् ॥
भृशं संताप्य निर्व्वाप्य सप्तधा साधितं तथा ।
कर्पूरजातिपुन्नागपाटलादिसुवासितम् ॥
शुचिसान्द्रपटस्रावैः क्षुद्रजन्तुविवर्ज्जितम् ।
स्वच्छं कनकमुक्ताद्यैः शुद्धं स्याद्दोषवर्ज्जितम् ॥
पर्णमूलविसग्रन्थिमुक्ताकनकशैबलैः ।
गोमेदेन च वस्त्रेण कुर्य्यादम्बुप्रसादनम् ॥”
अथ पीतस्य जलस्य पाकावधिः ।
“आमं जलं जीर्य्यति याममात्रं
तदर्द्धमात्रं शृतशीतलञ्च ।
तदर्द्धमात्रं तु शृतं कदुष्णं
पयःप्रपाकेऽवधिरेष उक्तः ॥”
इति भावप्रकाशे वारिवर्गः ॥
अथ जले भगवत्पूजाविधिः ।
“उत्तापेऽर्कांशुतो जाते शीतलेन सुगन्धिना ।
जलेन पूरिते पात्रे श्रीकृष्णमुपवेशयेत् ॥
नित्यार्च्चाविधिनाभ्यर्च्च्य सायं सन्ध्यामुपास्य च ।
देवं सिंहासने नीत्वा गन्धादिभिरथार्च्चयेत् ॥
नीराज्य देवं सर्व्वेभ्यो दत्त्वा तीर्थं भजेत् स्वयम् ।
द्वादश्यान्तु विशेषेण रात्रौ तोयस्थमर्च्चयेत् ॥”
तन्माहात्म्यं यथा, गारुडे ।
“स्वर्णपात्रेऽथवा रौप्ये ताम्रेवा मृण्मयेऽपि वा ।
तोयस्थं योऽर्च्चयेद्भक्त्या शालग्रामसमुद्भवम् ॥
चक्राङ्कितं वा भूपाल ! निवृत्ते मधुमाधवे ।
प्रतिमां स महाभागस्तस्य पुण्यमनन्तकम् ॥
यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ ।
तावत्तस्य कुले कश्चिन्न भवेद्भूप ! नारकी ॥
तस्माज्ज्यैष्ठे सदा भूप ! तोयस्थं पूजयेद्धरिम् ।
वीततापो नरस्तिष्ठेद्यावदाहूतसंप्लवम् ॥
कृतैः सुशीतलैस्तोयैस्तुलसीदलवासितैः ।
शुचिशुक्रगते काले येऽर्च्चयिष्यन्ति केशवम् ॥
जलस्थं विविधैः पुष्पैर्म्मुच्यते यमयातनात् ॥
जलस्रष्टा यतो विष्णुर्ज्जलशायी जलप्रियः ।
तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥
नीरमध्यस्थितं कृत्वा शालग्रामसमुद्भवम् ।
योऽभ्यर्च्चयेन्महाभक्त्या स भवेत् कुलपावनः ॥
कर्किराशिगते सूर्य्ये मिथुनस्थे विशेषतः ।
येनार्च्चितो हरिर्भक्त्या जलमध्ये महीपते ! ॥
द्वादश्यान्तु विशेषेण जलस्थं जलशायिनम् ।
योऽभ्यर्च्चयेत् कृत तेन यज्ञकोटिशतं भुवि ॥
पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् ।
द्बादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेन्नरः ॥”
किञ्च ।
“घनागमे प्रकुर्व्वन्ति जलस्थं वै जनार्द्दनम् ।
ये नरा नृपतिश्रेष्ठ ! तेषां वै नरकं ध्रुवम् ॥”
“तथैवात्युष्णसमये कालिन्द्यादौ विशेषतः ।
सम्पादयेद्भगवतो जलक्रीडामहोत्सवम् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

जलः, त्रि, (जलति आच्छादयति विनाशयति वा

ज्ञानं बुद्धिप्रतिमां वेति । जल + अच् ।) जडः ।
इति मेदिनी । ले, १८ ॥ (यथा, काशीखण्डे । २९ । ६६ ।
“जाड्यविध्वंसनकरी जगद्योनिर्ज्जलाविला ॥”
“जलानां जडानामज्ञानानामित्यर्थः । आविलेव
कलुषितेव आवृतेवेति वा ।” इति तट्टीका ॥)

जलकण्टकः, पुं, (जले जातः कण्टकः । कण्टका-

न्वितत्वादेवास्य तथात्वम् ।) शृङ्गाटः । पानी-
पृष्ठ २/५२२
फल इति भाषा ॥ (जले कण्टकः शत्रु-
रिव ।) कुम्भीरः । इति हारावली । ७६ ॥

जलकपिः, पुं, (जले कपिरिव ।) शिशुमारः ।

इति हारावली । ७७ ॥

जलकरङ्कः, पुं, (जलपूर्णः करङ्कः । मध्यपदलोपि-

समासः ।) नारिकेलफलम् । (जले करङ्कः
अशस्यनारिकेलफलास्थि इव ।) पद्मम् । शङ्खः ।
जललता । मेघः । इति मेदिनी । के, २२८ ॥

जलकल्कः, पुं, (जलस्य कल्क इव ।) जम्बालः ।

इति हारावली । २०५ ॥

जलकाकः, पुं, (जले जलस्य वा काक इव ।)

पक्षिविशेषः । पानीकौडि इति भाषा ॥ तत्-
पर्य्यायः । दात्यूहः २ कालकण्टकः ३ । अस्य
मांसगुणाः । स्निग्धं गुरु हिमं वृष्यं मांसं
जलपक्षिणान्तु वातहरम् । इति राजनिर्घण्टः ॥

जलकाङ्क्षः, पुं, स्त्री, (जलं काङ्क्षति अभिलषतीति ।

जल + काङ्क्ष + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) हस्ती । इति त्रिकाण्डशेषः ॥

जलकाङ्क्षी, [न्] पुं स्त्री, (जलं काङ्क्षति अभि-

लषतीति । काङ्क्ष + णिनिः ।) हस्ती । इति
हारावली । १४ ॥ जलाभिलाषिणि, त्रि ॥

जलकान्तारः, पुं, (जलमेव कान्तारं दुर्गमपथो

यस्य यस्मै इति वा । जलाधिष्ठातृत्वादेवास्य
तथात्वम् ।) वरुणः । इति हेमचन्द्रः । २ । १०२ ॥

जलकामुकः, पुं, (जलस्य कामुकः अभिलाषुकः ।)

कुटुम्बिनीवृक्षः । इति राजनिर्घण्टः ॥ (स्त्री,
अर्कपुष्पी । यथा, भावप्रकाशस्य पूर्ब्बखण्डे
प्रथमे भागे ।
“अर्कपुष्पी क्रूरकर्म्मा पयस्या जलकामुका ॥”)

जलकिराटः, पुं, (जले किरः शूकर इव अटति

गच्छतीति । अट + अच् ।) ग्राहः । इति
हारावली । ७७ ॥

जलकुक्कुटी, स्त्री, (जले कुक्कुट इव । ततः स्त्रियां

जातित्वात् ङीष् ।) गङ्गाचिल्ली । इति हारा-
वली । ८६ ॥

जलकुक्कुभः, पुं, (जले कुक्कुभः पक्षिविशेष इव ।)

जलचरपक्षिविशेषः । कोडापाखी इति भाषा ॥
तत्पर्य्यायः । कोयष्टिः २ शिखरी ३ । इति
हेमचन्द्रः ॥

जलकुन्तलः, पुं, (जलस्य कुन्तलः केश इव ।)

शैवालम् । इति भूरिप्रयोगः ॥ (शैवालशब्देऽस्य
विधृतिर्विधेया ॥)

जलकूपी, स्त्री, (जलस्य कूपीव ।) कूपगर्त्तः ।

पुष्करिणी । इति मेदिनी । पे, २४ ॥

जलकूर्म्मः, पुं, (जले कूर्म्म इव । प्लवनसमये कूर्म्म-

स्येव दृश्यत्वादस्य तथात्वम् ।) शिशुमारः ।
इति त्रिकाण्डशेषः ॥

जलकेशः, पुं, (जलस्य केश इव ।) शैवालम् ।

इति हारावली । १०६ ॥

जलक्रीडा, स्त्री, (जलेन जले वा क्रीडा ।)

नद्यादौ वयस्यादिभिः सह जलनिःक्षेपादि-
रूपक्रीडा । तत्पर्य्यायः । करपात्रम् २
व्यात्युक्षी ३ करपत्रिका ४ । इति हारा-
वली । ११६ ॥ (यथा, महाभारते । १ ।
१२८ । ३६ ।
“सहिता भ्रातरः सर्व्वे जलक्रीडामवाप्नुमः ॥”)

जलगुल्मः, पुं, (जलस्य गुल्म इव ।) जलावर्त्तः ।

कच्छपः । जलचत्वरम् । इति मेदिनी । मे,
६० ॥

जलङ्गः, पुं, (जलं गच्छतीति । जल + गम् + डः ।

ततो मुम् ।) महाकालः । लताविशेषः । इति
राजनिर्घण्टः ॥

जलङ्गमः, पुं, (जलं ग्रामान्तजलभूमिं गच्छ-

तीति । जल + गम + “गमश्च ।” ३ । २ । ४७ ।
इति खच् मुम् च । ग्रामान्तवासित्वादेवास्य
तथात्वम् ।) जनङ्गमः । चाण्डालः । इत्यमर-
टीकायां भरतः ॥

जलचारी, [न्] पुं, (जले चरतीति । चर +

णिनिः ।) मत्स्यः । इति शब्दचन्द्रिका ॥ जल-
चरे, त्रि ॥ (यथा, रामायणे । ३ । १५ । ६ ।
“ददृशुः सहिता रम्यं तडागं योजनायतम् ।
शरारिहंसकुररैराकीर्णं जलचारिभिः ॥”)

जलजं, क्ली, (जले जायते इति । जन + डः ।)

पद्मम् । (यथा, कुमारे । २ । ३० ।
“वाचस्पतिरुवाचेदं प्राञ्जलिर्ज्जलजासनम् ॥”)
शङ्खः । इति मेदिनी । जे, २४ ॥ (यथा,
रघुः । ७ । ६३ ।
“ततः प्रियोपात्तरसेऽधरौष्ठे
निवेश्य दध्मौ जलजं कुमारः ॥”)
लोणारम् । इति राजनिर्घण्टः ॥

जलजः, पुं, (जले जायते इति । जल + जन् + डः ।)

मत्स्यः । इति शब्दचन्द्रिका ॥ (यथा, रामा-
यणे । २ । ६१ । २२ ।
“स तादृशः सिंहबलो वृषभाक्षो नरर्षभः ।
स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥”)
जले निवासात् कुम्भीरशिशुमारादयः । एषां
मांसगुणाः । गुरुत्वम् । उष्णत्वम् । मधुरत्वम् ।
स्निग्धत्वम् । वातनाशित्वम् । शुक्रवर्द्धनत्वञ्च ।
इति राजवल्लभः ॥ हिज्जलवृक्षः । शैवलः ।
वानीरवृक्षः । शङ्खः । इति राजनिर्घण्टः ॥
कुपीलुः । इति भावप्रकाशः ॥ कर्कटमीन-
कुम्भराशयः मकरशेषार्द्धञ्च । इति दीपिका ॥
जलजाते, त्रि ॥ (यथा, हरिवंशे । ६७ । ३२ ।
“जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुणैः ।
जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ॥”)

जलजन्तुः, पुं, (जलजातो जन्तुः ।) जलजप्राणी ।

तत्पर्य्यायः । यादः २ । इत्यमरः । १ । १० । २० ॥

जलजन्तुका, स्त्री, (जलजो जन्तुः । ततः संज्ञायां

कन् । स्त्रियां टाप् ।) जलौका । इति भरतः ॥

जलजन्म, [न्] क्ली, (जले जन्म यस्य ।) पद्मम् ।

इति हेमचन्द्रः । ४ । २२८ ॥ (शावरकन्दके, पुं ।
तद्यथा, --
“जन्तूका जलजन्मा च तथा शावरकन्दकम् ॥”
इत्युत्तरस्थानेऽष्टादशेऽध्याये वाभटेनोक्तम् ॥)

जलजम्बूका, स्त्री, (जलप्रधाना जम्बूका क्षुद्र-

जम्बूः ।) क्षुद्रजम्बूः । इति भावप्रकाशः ॥
भूँइजाम इति वनजाम इति च भाषा ॥

जलजिह्वः, पुं, (जडा स्वादग्रहणासमर्था जिह्वा

यस्य । डस्य लः ।) नक्रः । इति हारावली । ७६ ॥

जलडिम्बः, पुं, (जले डिम्ब इव ।) शम्बूकः ।

इति हारावली । ११२ ॥ (शम्बूकशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

जलतापिकः, पुं, (जलतापिन् + संज्ञायां कन् ।)

इल्लीशमत्स्यः । काकचीमत्स्यः । इति शब्द-
रत्नावली ॥

जलतापी, [न्] पुं, (जलेऽपि तपति प्रकाशयती-

वेति । तप + णिनिः ।) इल्लीशमत्स्यः । इति
शब्दरत्नावली ॥

जलतालः, पुं, (जलं अगाघसलिलं तलति आश्रय-

त्वेन गच्छतीति । तल + अण् ।) इल्लीश-
मत्स्यः । इति त्रिकाण्डशेषः ॥

जलतिक्तिका, स्त्री, (स्वल्पा तिक्ता तिक्तिका ।

स्वल्पार्थे कन् । जलप्रधाना तिक्तिका ।)
शल्लकीवृक्षः । इति राजनिर्घण्टः ॥

जलत्रा, स्त्री, (जलात् त्रायते इति । त्रै + कः ।)

छत्त्रम् । इति हारावली । ४० ॥

जलदः, पुं, (जलं ददातीति । दा + कः ।) मेघः ।

(यथा, मेघदूते । १३ ।
“मार्गं तावत् शृणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे तदनु जलद ! श्रोष्यसि श्रोत्रपेयम् ॥”)
मुस्तकम् । इति मेदिनी । दे, २९ ॥ (यथा, --
“अमृता-नागर-सहचर-भद्रोत्कट-पञ्चमूल-
जलदजलम् ।
शृतशीतं मधुयुक्तं निवारयति सूतिकातङ्कम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे सूतिकाधिकारे ॥
शाकद्वीपान्तर्गतवर्षविशेषः । यथा, महा-
भारते । ६ । ११ । २२ -- २३ ।
“वर्षाणि तेषु कौरव्य ! सप्तोक्तानि मनीषिभिः ।
महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।
जलधारो महारज ! सुकुमार इति स्मृतः ॥”)

जलदागमः, पुं, (जलदानां मेघानां आगम

आगमनं यत्र ।) वर्षाकालः । इति राज-
निर्घण्टः (यथाह वररुचिः ।
“भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे ।
दर्द्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥”)

जलदाशनः, पुं, (अश्यते भक्ष्यते इति । अश +

कर्म्मणि ल्युट् । जलदानां मेघानामशनः ।
मेघाः शालपत्रं भक्षयन्तीति प्रसिद्धेः ।) शाल-
वृक्षः । इति शब्दचन्द्रिका ॥

जलधरः, पुं, (धरतीति धरः । धृ + अच् ।

जलस्य धरः ।) मेघः । (यथा, महाभारते ।
१ । १३५ । १८ ।
“नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥”)
मुस्तकम् । इत्यमरः । १ । ३ । ७, २ । ४ । १५९ ॥
समुद्रः । इति हेमचन्द्रः ॥ तिनिशवृक्षः । इति
राजनिर्घण्टः ॥ जलधारिणि, त्रि ॥
पृष्ठ २/५२३

जलधिः, पुं, (जलानि धीयन्तेऽस्मिन्निति । जल +

धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ ।
इति किः ।) समुद्रः । (यथा, आर्य्यासप्त-
शत्याम् । ४८० ।
“या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्व-
मितरस्याम् ।
जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाच-
रसि ॥”)
दशशङ्कुसङ्ख्या । सा तु शतलक्षकोटयः । इति
लीलावती ॥

जलधिगा, स्त्री, (जलधिं समुद्रं गच्छतीति । गम-

+ डः । स्त्रियां टाप् ।) नदी । इति हेम-
चन्द्रः । ४ । १४६ ॥

जलधिजा, स्त्री, (जलधौ जायते इति । जन् +

“सप्तम्यां जनेर्डः ।” इति डः ।) लक्ष्मीः ।
इति त्रिकाण्डशेषः ॥

जलधेनुः, स्त्री, (जलकल्पिता धेनुः ।) दानार्थ-

कृत्रिमधेनुः । यथा, --
होतोवाच ।
“जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्ब्बकम् ।
गोचर्म्ममात्रं भूभागं गोमयेनोपलेपयेत् ॥
तत्र मध्ये च राजेन्द्र ! पूर्णकुम्भन्तु विन्यसेत् ।
जलपूर्णसुगन्धाढ्यं कर्पूरागुरुचन्दनैः ॥
वासितां गन्धतोयेन तां धेनुं परिकल्पयेत् ।
षत्सं तथापरं कल्प्यं घृतेन परिपूरितम् ॥
वर्द्धनीकं महाराज ! पत्रपुष्पैः समन्वितम् ।
दूर्व्वाङ्कुरैरुपस्तीर्य्य स्रग्दामैश्च विभूषितम् ॥
पञ्चरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप ! ।
मांसीमुशीरं कुष्ठञ्च तथा शैलेयबालुकम् ॥
आमलासर्षपाश्चैताः सर्व्वधान्यानि पार्थिव ! ।
चतुर्दिक्ष्वपि पत्राणि चत्वार्य्येव प्रकल्पयेत् ॥
एवं घृतमयं पात्रं द्बितीयं दधिपूरितम् ।
तृतीयं मधुनश्चैव चतुर्थं शर्क्करावृतम् ॥
सुवर्णं मुखचक्षूंषि शृङ्गं कृष्णागुरूणि च ।
प्रशस्तपत्रश्रवणां मुक्ताफलमयेक्षणाम् ॥
ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम् ।
पुच्छं सूत्रमयं कृत्वा कृष्णाभरणघण्टिकाम् ॥
कम्बले पुष्यमालाञ्च गुडास्यां शुक्तिदन्तिकाम् ।
जिह्वां शर्करया कृत्वा नवनीतेन च स्तनम् ॥
इक्षुपादान्तु राजेन्द्र ! गन्धपुष्पोपशोभिताम् ।
कृष्णाजिनोपरि स्थाप्य वस्त्रैराच्छादितान्तु ताम् ॥
गन्धपुष्पैः समभ्यर्च्च्य विप्राय विनिवेदयेत् ।
एवं घेनुं तदा दत्त्वा ब्राह्मणे वेदपारगे ॥
साधुविप्राय राजेन्द्र ! श्रोत्रियायाहिताग्नये ।
तपोवृद्धे वयोवृद्धे दातव्या च कुटुम्बिने ॥
यो ददाति नरो राजन् ! यः पश्यति शृणोति च ।
प्रतिगृह्णाति यो विप्रः सर्व्वे मुच्यन्ति पातकात् ॥
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ।
विमुक्तः सर्व्वपापैस्तु विष्णुलोकं स गच्छति ॥
योऽश्वमेधेन यजते समाप्तवरदक्षिणः ।
जलधेनुञ्च यो दद्यात् सममेतन्नराधिपः ॥
जलाहारस्त्वेकदिनं तिष्ठेच्च जलधेनुदः ।
अथवा हविस्त्वेकदिने यः पयोव्रतमास्थितः ॥
ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं न संशयः ।
यत्र क्षीरवहा नद्यो मधुपायसकर्द्दमाः ॥
यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः ।
दाता च दापकश्चैव प्रतिग्राही च यो द्विजः ॥
ते सर्व्वे पापनिर्म्मुक्ता विष्णुलोकञ्च प्राप्नुयुः ॥”
इति वाराहे जलधेनुमाहात्म्यनामाध्यायः ॥

जलनकुलः, पुं, (जले नकुल इव ।) जलजन्तु-

विशेषः । धाडिया इति उद्विडाल इति च
भाषा । तत्पर्य्यायः । उद्रः २ जलमार्जारः ३
जलाखुः ४ जलप्लवः ५ । इति त्रिकाण्डशेषः ।
जलविडालः ६ नीराखुः ७ । इति हारावली ।
। ७६ ॥ पानीयनकुलः ८ वसी ९ । इति हेम-
चन्द्रः ॥

जलनिधिः, पुं, (जलानि निधीयन्तेऽस्मिन्निति ।

धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ ।
इति किः । जलानां निधिरिति वा ।) समुद्रः ।
इत्यमरः । १ । १० । २० ॥ (यथा, आर्य्याशप्त-
शत्याम् । ६१४ ।
“सरित इव यस्य गेहे शुष्यन्ति
विशालगोत्रजा नार्य्यः ।
क्षारास्वेव स तृप्यति जलनिधिलहरीषु
जलद इव ॥”
चतुः संख्या समुद्रवाचित्वात् । यथा, सत्कृत्य-
मुक्तावल्याम् ।
“वारे शीतकरं तिथौ जलनिधिं
भेऽग्निञ्च योगे द्बयम् ॥” इति ॥)

जलनिर्गमः, पुं, (गम + “ग्रहवृदृनिश्चिगमश्च ।”

३ । ३ । ५८ । इति भावे अप् । जलानां
निर्गमो वहिर्गमनं यस्मात् ।) प्राकारगृह-
भित्त्यादिषु जलनिःसरणमार्गः । इति भरतः ॥
देबकुलप्राकारादिषु जलनिःसरणद्वारम् । इति
सर्व्वानन्दः ॥ तत्पर्य्यायः । भ्रमः २ । इत्यमरः ।
१ । १० । ७ ॥ वक्रम् ३ पुटभेदः ४ । इति स्वामी ॥

जलनीली, स्त्री, (जलं नीलयतीति । नील + तत्

करोतीति णिच् + ततः “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् । ततो ङीष् ।) शैवालम् । इत्यमरः ।
१ । १० । ३८ ॥ (शैवालशब्देऽस्या विवृति-
र्द्रष्टव्या ॥)

जलन्धरः, पुं, (जलं ब्रह्मनेत्रच्युताश्रुजलं धरतीति ।

जल + धृ + बाहुलकात खच् मुम् च ।) असुर-
विशेषः । तस्योत्पत्तिकारणं यथा, --
इन्द्रः शिवं द्रष्टुं शिवलोकं गत्वा एकं भयानकं
पुरुषं दृष्ट्वा तं पुनःपुनः पप्रच्छ ईश्वरः क्वगतः ।
स उत्तरं न ददौ इन्द्रः क्रुद्धस्तं वज्रेण जघान ।
ततो रुद्रस्तेजसा प्रजज्वाल । तत इन्द्रो भीतस्तं
प्रणम्य तुष्टाव रुद्रस्तुष्ट इन्द्रदाहार्थोत्पन्नं भाल-
नेत्रस्थवह्निं गृहीत्वा गङ्गासागरसङ्गमे प्राक्षि-
पत् ततः स बालरूपोभूत्वा रुरोद तस्य रोदन-
शब्देन सप्तलोका वधिरीकृतास्तच्छ्रुत्वा ब्रह्मा
विस्मितस्तत्रागत्य तं बालं समुद्रक्रोडे दृष्ट्वा तं
पप्रच्छ कस्यायं पुत्त्रः समुद्रस्तं प्रणम्योवाच मम
पुत्त्रः अस्य जातकर्म्मादि कुरु इत्युक्त्रा ब्रह्मा
क्रोडे ददौ स बालस्तस्व श्मश्रु दधार श्मश्रु
धुन्वतो ब्रह्मणो नेत्राभ्यां जलमगमत् ब्रह्मा
समुद्रमुवाच यस्मादनेन मम नेत्राभ्यां निर्गतं
जलं धृतं तस्मादयं जलन्धरनामा अधुनैव सर्व्व-
शास्त्रवेत्ता रुद्रं विना सर्व्वभूतावध्यश्च भवि-
ष्यति इत्युक्त्रा शुक्रमाहूय तमासुरराज्ये न्यवे-
शयत् स कालनेमिसुतां वृन्दामुपयेमे । इति
पाद्मोत्तरखण्डम् ॥

जलपतिः, पुं, (जलस्य पतिः ।) वरुणः । इति

हेमचन्द्रः । २ । १०२ ॥ (अस्य जलपतित्वकथा
यथा, काशीखण्डे । १२ । ८९ -- ९५ ।
“ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च ।
जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम् ॥
तत्र तप्त्वा तपो घोरं लिङ्गं संस्थाप्य शाम्भवम् ।
पञ्चवर्षसहस्राणि स्थितः पाषाणनिश्चलः ॥
आविरासीन्महादेवस्तुष्टस्तत्तंपसा ततः ।
उवाच कार्द्दमे ! ब्रूहि कं ददामि वरोत्तमम् ॥
कार्द्दमिरुवाच ।
यदि नाथ ! प्रसन्नोऽसि भक्तानामनुकम्पक ! ।
सर्व्वासामाधिपत्यं मे देह्यपां यादसामपि ॥
इति श्रुत्वा महेशानः सर्व्वचिन्तितदः प्रभुः ।
अभ्यषिञ्चत तं तत्र वारुणे परमे पदे ॥
रत्नानामब्धिजातानामब्धीनां सरितामपि ।
सरसां पल्वलानाञ्च वाप्यम्बुस्रोतसां पुनः ॥
जलाशयानां सर्व्वेषां प्रतीच्याश्चापि वै दिशः ।
अधीश्वरः पाशपाणिर्भव सर्व्वामरप्रियः ॥”)
समुद्रः । अप्पतिरित्यमरदर्शनात् ॥

जलपारावतः, पुं, (जले पारावत इव ।) पक्षि-

विशेषः । तत्पर्य्यायः । कोपी २ जलकपोतः ३ ।
इति राजनिर्घण्टः ॥

जलपित्तं, क्ली, (जलानां पित्तमिव ।) अग्निः ।

इति शब्दरत्नावली ॥

जलपिप्पली, स्त्री, (जलजाता पिप्पली ।) पिप्पली-

विशेषः । पनिसगा इति लोके । जलपिपरी
इति हिन्दी भाषा । तत्पर्य्यायः । महाराष्ट्री
२ शारदी ३ तोयवल्लरी ४ मत्स्यादनी ५
मत्स्यगन्धा ६ लाङ्गली ७ शकुलादनी ८ अग्नि-
ज्वाला ९ चित्रपत्री १० प्राणदा ११ तृणशीता
१२ बहुशिखा १३ । अस्य गुणाः । कटुत्वम् ।
तीक्ष्णत्वम् । कषायत्वम् । मलशोधनत्वम् ।
व्रणकीटादिदोषरसदोषनाशित्वञ्च । इति राज-
निर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“जलपिप्पल्यभिहिता शारदी शकुलादनी ।
मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता ॥
जलपिप्पलिका हृद्या चक्षुष्या शुक्रला लघुः ।
संग्राहिणी हिमा रूक्षा रक्तदाहव्रणापहा ॥
कटुपाका रसा रुच्या कषाया वह्निवर्द्धिनी ॥”
इति भावप्रकाशः ॥
(“गम्भीरो जलपिप्पल्यस्तुम्बुरुः शृङ्गवेरिका ।
तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥)
पृष्ठ २/५२४

जलपृष्ठजा, स्त्री, (जलस्य पृष्ठे उपरि प्रदेशे जायते

इति । जन + डः ।) शैवालम् । इति शब्द-
चन्द्रिका ॥

जलप्रायं, क्ली, (जलस्य प्रायो बाहुल्यं यत्र ।)

जलबहुलस्थानम् । अनूपदेशः । इत्यमरः ।
२ । १ । १० ॥

जलप्रियः, पुं, (जलं प्रियं यस्य ।) चातकपक्षी ।

इति शब्दरत्नावली ॥ मत्स्यः । इति शब्द-
चन्द्रिका ॥

जलप्लवः, पुं, (जले प्लवते इति । प्लु + अच् ।)

जलनकुलः । इति हारावली । ७६ ॥

जलफलं, क्ली, (जलजातं फलम् ।) शृङ्गाटकम् ।

इति भावप्रकाशः ॥

जलबन्धः, पुं, (जलं बध्नाति जीवनवृत्त्यै निर्ब्बन्धेन

परिकल्पयतीति । बन्ध + अच् ।) मत्स्यः ।
इति शब्दचन्द्रिका ॥

जलबन्धकः, पुं, (जलं बध्नातीति । बन्ध + ण्वुल् ।)

जलमध्यगं स्रोतोभेदकरं दारुशिलादि । तत्-
पर्य्यायः । विदारकः २ कूपकः ३ । इति शब्द-
रत्नावली ॥

जलबालकः, पुं, (जलेन बलयति जीवयति स्वाश्रित-

वृक्षादीनिति । बल जीवने + णिच् + ण्वुल् ।)
बिन्ध्यपर्व्वतः । इति हेमचन्द्रः । ४ । ९५ ॥

जलबालिका, स्त्री, (जलस्य बालिकेव ।) विद्युत् ।

इति हेमचन्द्रः । ४ । १७१ ॥

जलबुद्बुदं, क्ली, (जलस्य बुद्वुदम् ।) जलविम्बम् ।

यथा, शुद्धितत्त्वधृतवचनम् ।
“मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
यः करोति स वै मूढो जलबुद्वुदसन्निभे ॥”

जलब्रह्मी, स्त्री, (जले ब्रह्मीव ।) हिलमोची ।

इति हाराबली । १८० ॥

जलभूः, पुं, (भवत्यस्मादिति । भू + अपादाने

क्विप् । ततो जलस्य भूः ।) मेघः । (जलं भूरुत्-
पत्तिस्थानमस्य ।) कञ्चटम् । इति शब्द-
चन्द्रिका ॥

जलमक्षिका, स्त्री, (जलजाता मक्षिका ।) वारि-

कृमिः । इति त्रिकाण्डशेषः ॥

जलमद्गुः, पुं, (जले मद्गुरिव ।) मत्स्यरङ्ग-

पक्षी । इति हारावली । ८८ ॥

जलमधुकः, पुं, (जलजातो मधुकः ।) मधुक-

वृक्षप्रभेदः । जलमहुया इति भाषा । तत्-
पर्य्यायः । मङ्गल्यः २ दीर्घपत्रकः ३ मधुपुष्पः ४
क्षौद्रप्रियः ५ पतङ्गः ६ कीरेष्टः ७ गैरिकाख्यः
८ । अस्य गुणाः । मधुरत्वम् । व्रणवान्तिनाशि-
त्वम् । शुक्रबलकारित्वम् । शीतत्वम् । रसा-
यनत्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्याय-
गुणाः । अथ महुया वनमहुया ।
“मधुको गुडपुष्पः स्यात् मधुवृक्षो मधुस्रवः ।
वानप्रस्थो मधुष्ठीलो जलजोऽत्र मधूलकः ॥
मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् ।
बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ॥ * ॥
फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् ।
अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षतक्षयान् ॥”
इति भावप्रकाशः ॥

जलमसिः, पुं, (जलेन जलाकारेण मस्यति परि-

णमतीति । मस परिणामे + इन् । घनीभूत-
मेघस्य जलाकारेण परिणमनात् तथात्वम् ।)
मेघः । इति हारावली । १८ ॥

जलमार्गः, पुं, (जलस्य मार्गः निर्गमपथः ।)

प्रणाली । इति हेमचन्द्रः । ४ । ५५ ॥ नर्दमा
इति भाषा ॥

जलमार्जारः, पुं, (जलस्य मार्जारः जले मार्जार

इव इति वा ।) जलनकुलः । इति त्रिकाण्ड-
शेषः ॥

जलमुक्, [च्] पुं, (जलं मुञ्चतीति । मुच् +

क्विप् ।) मेघः । इत्यमरः । १ । ३ । ७ ॥ (यथा,
मेघदूते । ७१ ।
“शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै-
र्धूमोद्गारानुकृतिनिपुणा जर्ज्जरा निष्पतन्ति ॥”
जलमोचके, त्रि । यथा, बृहत्संहितायाम् ।
१९ । २ ।
“तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽचलसन्निकाशाः ॥”)

जलमूर्त्तिः, पुं, (जलं मूर्त्तिर्यस्य ।) शिवः । इति

तस्याष्टमूर्त्तिपूजायां तिथ्यादितत्त्वम् ॥

जलमूर्त्तिका, स्त्री, (जलस्य मूर्त्तिः घनीभूता-

कृतिः । ततः स्वार्थे संज्ञायां वा कन् टाप् च ।)
करका । इति शब्दचन्द्रिका ॥

जलमोदं, क्ली, (जलेन जलसंयोगेन मोदयति

आनन्दयति सद्गन्धप्रदानेनेत्यर्थः । मुद् + णिच्
+ अण् ।) उशीरम् । इति राजनिर्घण्टः ॥

जलयन्त्रगृहम्, क्ली, (जलयन्त्रमिव कृतं गृहम् ।)

जलमध्यकृतगृहम् । जल्टुङ्गि इति फोया-
रार घर इति च भाषा । तत्पर्य्यायः । समुद्र-
गृहम् २ । इति त्रिकाण्डशेषः ॥ जलयन्त्रनिके-
तनम् ३ । इति हारावली ॥ जलयन्त्रमन्दि-
रम् ४ । यथा, --
“क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।”
इति कालिदासः ॥

जलरङ्कः, पुं, (जले सरसि रङ्क इव ।) वक-

पक्षी । इति हारावली । १८३ ॥

जलरङ्कुः, पुं, (जले रङ्कुरिव ।) दात्यहपक्षी ।

इति हलायुधः ॥

जलरञ्जः, पुं, (जले रजति अनुरक्तो भवतीति ।

रञ्ज अनुरागे + अच् ।) वकपक्षी । इति
हेमचन्द्रः । ४ । ३ । ८ ॥ (वकशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

जलरण्डः, पुं, (जलस्य रण्ड इव भयजनकत्वात् ।)

जलावर्त्तः । पयोरेणुः । भुजङ्गमः । इति हेम-
चन्द्रः शब्दरत्नावली च ॥

जलरसः, पुं, (जलजातो रसः । जलप्रधानो रसो

वा ।) लवणम् । इति हारावली । ७५ ॥

जलरुट्, [ह्] पुं, (जले रोहतीति । रुह् +

क्विप् ।) पद्मम् । इति हेमचन्द्रः । ४ । २२८ ॥

जलरुहं, क्ली, (जले रोहतीति । रुह + “इगुपध-

ज्ञेति ।” ३ । १ । १३५ । इति कः ।) पद्मम् ।
इति हेमचन्द्रः । ४ । २२८ ॥ (यथा, महा-
भारते । १ । १२८ । ४१ ।
“जलञ्च शुशुभे छन्नं फुल्लैर्जलरुहैस्तथा ॥”)

जलरूपः, पुं, (जलस्य रूपमिवरुपं यस्य । शुभ्रवर्णत्वा-

दस्य तथात्वम् ।) मकरः । इति त्रिकाण्डशेषः ॥

जललता, स्त्री, (जले लतेव तदाकारत्वात् ।)

तरङ्गः । इति हारावली । २०५ ॥

जलवरण्टः, पुं, (जलं रसस्तत्प्रधानो वरण्टो

वसन्तः ।) जलवसन्ताख्यव्रणः । पानीवसन्त
इति भाषा । तत्पर्य्यायः । मोगः २ । इति
हारावली । १४२ ॥

जलवल्कलः, पुं, (जलस्य वल्कल इव ।) कुम्भिका ।

इति हारावली ॥ ११२ । पाना इति भाषा ॥)

जलवल्ली, स्त्री, (जलजाता जलप्रधाना वा वल्ली ।)

शृङ्गाटकः । इति राजनिर्घण्टः ॥

जलवायसः, पुं, (जले वायसः काक इव कृष्ण-

वर्णत्वात् ।) मद्गुपक्षी । इति हेमचन्द्रः ।
४ । ३८९ ॥ पानीकौडि इति भाषा ॥

जलवासं, क्ली, (जलेन वासो गन्धो यस्य ।)

उशीरम् । इति राजनिर्घण्टः ॥

जलवासः, पुं, (जलं वासयतीति । वस + णिच् +

अण् ।) विष्णुकन्दः । इति राजनिर्घण्टः ॥
(जले वासः निवासः । सलिलनिवासः । यथा,
महाभारते । १२ । २६० । ५ ।
“स चिन्तायमास मुनिर्जलवासे कदाचन ॥”
जले वासो यस्य इति विग्रहे जलवासिनि,
त्रि । यथा तत्रैव । १२ । २६० । ४ ।
“स कदाचित् महातेजा जलवासो महीपते ! ।
चचार लोकान् विप्रर्षिः प्रेक्षमाणो
मनोजवः ॥”)

जलवाहः, पुं, (जलं वहतीति । वह + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) मेघः । इति
हेमचन्द्रः । २ । ७८ ॥ (यथा, भारविः । १२ । २१
“साद्रिजलधिजलवाहपं
सदिगश्नुवानिव विश्वमोजसा ॥”
जलवाहके, त्रि । यथा, महाभारते । २ । ७ । २० ।
“जलवाहास्तथा मेघा वायवस्तनयित्नवः ॥”)

जलविडालः, पुं, (जले विडाल इव ।) जलनकुलः ।

इति हारावली । ७६ ॥

जलबिन्दुजा, स्त्री, (जलबिन्दुभ्यो जायते इति ।

जन + डः ।) यावनालीशर्करा । इति राज-
निर्घण्टः ॥

जलविल्वः, पुं, (जलप्रधानो विल्व इव ।) कर्कटः ।

पञ्चाङ्गः । जलचत्वरम् । इति मेदिनी । वे, ५८ ॥
चातरजल इति भाषा ॥

जलविषुवं, क्ली, (जलप्रधानं विषुवम् ।) तुला-

संक्रान्तिः । तत्पर्य्यायः । आश्विनचिह्नितम् २ ।
इति शब्दरत्नावली ॥ चक्रविशेषः । यथा, --
“मानं शिरे षण्मुखपञ्चवैरं
वक्षश्चतुर्भे बहुवित्तलाभः ।
पृष्ठ २/५२५
भोगः करे षट्पदयोस्तु षट्के
भीतिर्नृणां स्याद्बिषुवस्य चक्रे ॥
यस्मिन्नृक्षे वसेद्भानुस्तस्मात् संगणयेद्बुधः ॥”
इति समयामृतम् ॥

जलवृश्चिकः, पुं, (जले वृश्चिक इव ।) चिङ्गट-

मत्स्यः । इति त्रिकाण्डशेषः ॥

जलवेतसः, पुं, (जलजातो वेतसः ।) वानीर-

वृक्षः । इति राजनिर्घण्टः ॥ (यथास्य पर्य्याया
गुणाश्च ।
“निकुञ्चकः परिव्याधो नादेयो जलवेतसः ।
जलजो वेतसः शीतः कुष्ठहृद्बातकोपनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

जलव्यधः, पुं, (जलं विध्यतीति । व्यध + अच् ।)

कङ्कत्रोटमत्स्यः । इति त्रिकाण्डशेषः ॥

जलव्यालः, पुं, (जलस्थितो व्यालो हिंस्रजन्तुः ।)

अलगर्दसर्पः । इत्यमरः । १ । ८ । ५ ॥ क्रूर-
कर्म्मा जलजन्तुः । इति राजनिर्घण्टः ॥

जलशयः, पुं, (जले शेते । शी + अच् । पुंसीति

घो वा ।) विष्णुः । इति हेमचन्द्रः । २ । १२८ ॥

जलशयनः, पुं, (जले क्षीरोदसलिले शेते इति ।

शी + ल्युः ।) विष्णुः । इति हलायुधः ॥

जलशायी, [न्] पुं, (जले शेते इति । शी +

णिनिः ।) विष्णुः । यथा, पुराणम् ।
“जलमध्ये वराहञ्च पावके जलशायिनम् ॥”

जलशुक्तिः, स्त्री, (जलचरी शुक्तिः ।) शम्बूकः ।

इत्यमरः । १ । १० । २३ ॥ शामूक इति जल-
सीपी इति च भाषा ॥ तत्पर्य्यायः । वारि-
शुक्तिः २ कृमिशुक्तिः ३ क्षुद्रशुक्तिका ४ शम्बूका ५
नरशुक्तिः ६ पुष्टिका ७ तोयशुक्तिका ८ ।
तस्या गुणाः । कटुत्वम् । स्निग्धत्वम् । दीपन-
त्वम् । गुल्मशूलविषदोषनाशित्वम् । रुच्यत्वम् ।
पाचनत्वम् । बलदातृत्वञ्च । इति राजनिर्घण्टः ॥

जलशूकं, क्ली, (जले शूकं सूक्ष्माग्रमिव ।) शैवालम् ।

इति हेमचन्द्रः । ४ । २३३ ॥ (पुंलिङ्गेऽपि दृश्यते ।
यथा, --
“जलशूकः स्वयं गुप्ता रजन्यौ बृहतीद्बयम् ॥”
इत्युत्तरस्थानेऽष्टादशेऽध्याये वाभटेनोक्तम् ॥)

जलशूकरः, पुं, (जले जलस्य वा शूकर इव ।)

कुम्भीरः । इति हेमचन्द्रः । ४ । ४१५ ॥

जलसर्पिणी, स्त्री, (जले सर्पति गच्छतीति । सृप

+ णिनि + ङीप् ।) जलौका । इति हेमचन्द्रः ।
४ । २७० ॥

जलसूचिः, पुं, (जले सूचिरिव । अभिधानात्

पुंस्त्वम् ।) कङ्कत्रोटमत्स्यः । शृङ्गाटः । शिशु-
मारः । जलौकायां स्त्री । इति मेदिनी । चे,
२० ॥ काकः । इति हेमचन्द्रः ॥

जलस्तम्भनं, क्ली, (जलस्य स्तम्भनम् ।) मन्त्रादि-

द्बारा जलगतिनिवारणम् । तन्मन्त्रो यथा, --
“ओम् नमो भगवते जलं स्तम्भय स्तम्भय संस-
मंसके कके कचर ।
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥”
इति गारुडे १७९ अध्यायः ॥
पुस्तकान्तरे १८६ अध्यायः ॥ (जलस्तम्भनविद्या
दुर्य्योधनेन विदितासीत् । अतएवायं द्वैपायन-
ह्रदजलं संस्तभ्य तत्र सुष्वाप । एतत्कथा
महाभारते शल्यपर्व्वणि २९ अध्याये द्रष्टव्या ॥)

जलस्था, स्त्री, (जले जलबहुलप्रदेशे तिष्ठतीति ।

स्था + कः । स्त्रियां टाप् ।) गण्डदूर्व्वा । इति
राजनिर्घण्टः ॥ (जलावस्थिते, त्रि । यथा, भाग-
वते । ३ । २७ । १२ ।
“यथा जलस्थ आभासो जलस्थेनावदृश्यते ।
स्वाभासेन तथा सूर्य्यो जलस्थेन दिवि स्थितः ॥”)

जलहं, क्ली, (जलेन हन्यते इति । हन + बाहु-

लकात् डः ।) स्वल्पजलयन्त्रगृहम् । इति
त्रिकाण्डशेषः ॥

जलहासः, पुं, (जलानां हास इव शुक्लत्वात् ।)

समुद्रफेनः । इति त्रिकाण्डशेषः ॥

जलाका, स्त्री, (जले आकायति प्रकाशते इति ।

आ + कै + कः ।) जलौकसः । इति शब्द-
रत्नावली ॥

जलाक्षी, स्त्री, (जलमक्ष्णोति व्याप्नोति करण-

तयेति । अक्ष + अण् ।) जलपिप्पली । इति
शब्दरत्नावली ॥

जलाखुः, पुं, (जले आखुरिव ।) जलनकुलः ।

इति त्रिकाण्डशेषः ॥

जलाञ्चलं, क्ली, (जलमञ्चति व्याप्नोतीति । अञ्च

+ बाहुलकात् अलच् । यद्वा, जले अञ्चलः
वस्त्रप्रान्त इव । अभिधानात् क्लीवत्वम् ।)
शैवालम् । स्वतो वारिनिर्गमः । इति मेदिनी ।
ले, १५४ ॥

जलाटनः, पुं, (जले अटति भ्रमतीति । अट +

ल्युः ।) कङ्कपक्षी । इति मेदिनी । ने, १८४ ॥
(विशेषोऽस्य कङ्कशब्दे ज्ञातव्यः ॥)

जलाटनी, स्त्री, (जले अटति भ्रमतीति । अट +

ल्युः । स्त्रियां ङीष् ।) जलौका । इति मेदिनी ।
ने, १८४ ॥

जलाण्टकः, पुं, (जले अण्ठते इतस्ततो भ्रम-

तीति । अण्ठ गतौ + ण्वुल् । पृषोदरादित्वात्
ठस्य टः ।) नक्रराजः । इति हारावली । ७७ ॥

जलाण्डकं, क्ली, (जले अण्डमिव कायतीति ।

कै + कः ।) पोताधानम् । इति शब्दरत्ना-
वली ॥

जलात्मिका, स्त्री, (जलमेव आत्मा यस्याः । कप्

ततः टापि अत इत्वम् ।) जलौका । इति
शब्दरत्नावली ॥

जलाधारः, पुं, (जलस्य आधारः ।) जलाशयः ।

इत्यमरः । १ । १० । २५ ॥ (यथा, याज्ञ-
वल्क्ये । ३ । १४४ ।
“आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।
तथात्मैकोऽप्यनेकस्तु जलाधारेष्विवांशुमान् ॥”)

जलाधिदैवतः, पुं, (जलस्याधिदैवतं अधिष्ठात्री

देवता ।) वरुणः । इति हलायुधः ॥ (जलं
अधिदैवतं यस्य ।) पूर्ब्बाषाढानक्षत्रे, क्ली ।
इति ज्योतिषम् ॥

जलाम्बिका, स्त्री, (जलस्य अम्बिका माता इव ।

क्रोडदेशे जलधारणादस्यास्तथात्वम् ।) कूपः ।
इति हारावली । ४१ ॥ जलात्मिका इति
क्वचित् पाठः ॥

जलायुका, स्त्री, (जलमायुरस्याः । कप् । पृषो-

दरादित्वात् सलोपः ।) जलौका । इति शब्द-
रत्नावली ॥ (यथा, सुश्रुते । १ । १३ ।
“अथ जलायुकाः वक्ष्यन्ते । जलमासामायु-
रिति जलायुकाः ॥” अस्या अन्यद्बिवरणं
जलौकःशब्दे द्रष्टव्यम् ॥ यस्मिन्नियं व्यवहृता
तद्यथा, --
“नस्याञ्जनाभ्यञ्जनपानधूमं
तथावपीडं कवलग्रहञ्च ।
संशोधनञ्चोभयतः प्रयुञ्ज्या-
द्रक्तं हरेच्चापि जलायुकाभिः ॥”
इति सुश्रुते कल्पस्थानेऽष्टमेऽध्याये ॥)

जलार्द्रः, पुं, (जलेन आर्द्रः सिक्तः ।) आर्द्र-

वस्त्रम् । इति हारावली । १९६ ॥ (जलसिक्ते,
त्रि । यथा, मेघदूते । ४५ ।
“तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः ॥”)

जलार्द्रा, स्त्री, (जलेन आर्द्रा सिक्ता ।) क्लिन्न-

वस्त्रम् । इति हेमचन्द्रः । ३ । ३४३ ॥ (आर्द्र-
तालवृन्तम् । यथा, वैजयन्ती ।
“धुवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनञ्च तत् ।
जलेनार्द्वं जलार्द्रा स्यात् -- ॥”)

जलार्णवः, पुं, (जलप्रचुरोऽर्णवः समुद्रो यत्र

काले ।) वर्षाकालः । इति त्रिकाण्डशेषः ॥
(जलप्रचुरोऽर्णवः ।) जलसमुद्रश्च ॥

जलालुः, पुं, (जलजात आलुः । शाकपार्थिववत्

समासः ।) पानीयालुः । इति राजनिर्घण्टः ॥

जलालुकं, क्ली, (जलालुरिव कायति प्रकाशते

इति । कै + कः ।) पद्मकन्दः । इति राज-
निर्घण्टः ॥

जलालुका, स्त्री, (जले अलति गच्छतीति । अल

गती + बाहुलकात् उकः ।) जलौका । इति
शब्दरत्नावली ॥

जलालोका, स्त्री, (जले आलोक्यते दृश्यते इति ।

आ + लोक दर्शने + कर्म्मणि घञ् ।) जलौका ।
इत्यमरटीकायां भरतः ॥

जलावर्त्तः, पुं, (जलस्य आवर्त्तः सम्भमः ।) जल-

गुल्मः । अम्भसां भ्रमः । इति जटाधरः ॥

जलाशयं, क्ली, (जले जलबहुलप्रदेशे आशेते

इति । आ + शी + अच् ।) उशीरम् । इत्य-
मरः । २ । ४ । १६४ ॥ लामज्जकम् । इति
राजनिर्घण्टः ॥ (जलशायिनि, त्रि । यथा,
महाभारते । ३ । १४३ । ५४ ।
“ततः सत्त्वान्युपाक्रामन् सुबहूनि महान्ति च ।
रुरुवानरसिंहांश्च महिषांश्च जलाशयान् ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/जनिता&oldid=43960" इत्यस्माद् प्रतिप्राप्तम्