शब्दकल्पद्रुमः/छ

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/४६४

, छकारः । स तु व्यञ्जनसप्तमवर्णः । चवर्गद्वितीय-

वर्णश्च । (वङ्गाक्षरैः) तस्य लेखनप्रकारो यथा,
“ऊर्द्ध्वादधोगता रेखा कुञ्चिता कुण्डली ततः ।
पुनश्चाधोगता तासु सन्ति ब्रह्मेशविष्णवः ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्योच्चारणस्थानं तालु । इति व्याकरणम् ॥
(“इचुयशानान्तालु ।” इति सूत्रकारेणोक्तम् ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठाजावुपू ॥”
इति शिक्षाग्रन्थः ॥)
अस्योत्पत्तिर्यथा । प्रपञ्चसारे ।
“विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यन्तथा ।”
अत्रोत्तरत्रापि वर्गस्य द्वितीयादिवर्णोच्चारणे
स्वरस्पर्शनादिति स्तोकगम्भीरसंस्पर्शादिति च
यथास्थानमन्वेतीति तट्टीकाकारो विश्वरूपः ॥
अस्या ध्यानं यथा, वर्णोद्धारतन्त्रे ।
“ध्यानमस्याः प्रवक्ष्यामि द्बिभुजान्तु त्रिलोचनाम् ।
पीताम्बरधरां नित्यां वरदां भक्तवत्सलाम् ।
एवं ध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“छकारं परमाश्चर्य्यं स्वयं परमकुण्डली ।
सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ॥
पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा ।
त्रिबिन्दुसहितं वर्णं सदा ईश्वरसंयुतम् ॥
पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् ॥”
तस्य नामानि यथा, तन्त्रशास्त्रे ।
“छश्छन्दनं सुषुम्णा च पशुः पशुपतिर्म्मृतिः ।
निर्म्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥
एकनेत्रश्च वृषली द्विशिरा वामकूर्परः ।
गोकर्णा लाङ्गली वामकाममत्ता सदाशिवः ॥
माता निशाचरः पायुर्विक्षतः स्थितिशब्दकः ॥”

छं, त्रि, (छायते परिस्क्रियते यत् इति । छो +

कर्म्मणि घञर्थे कः ।) निर्म्मलम् । इति मेदिनी ।
छे, १ ॥ तरलम् । इत्येकाक्षरकोषः ॥

छः, पुं, (छो + भावे डः घञर्थे को वा ।) छेदनम् ।

इत्येकाक्षरकोषः ॥

छगः, पुं स्त्री, (छं यज्ञादौ छेदनं गच्छति प्राप्नो-

तीति । गम + डः ।) छागः । इति हेमचन्द्रः ।
४ । १२७५ ॥

छगणं, क्ली पुं, (छद + डः । छः तस्मै अग्ने-

श्छादनायेत्यर्थः गण्यते इति । गण + कर्म्मणि
अप् ।) करीषः । इति हेमचन्द्रः । ४ । १२ । ७३ ॥

छगलं, क्ली, (छ्यति छिनत्ति छायते वा । छो +

छेदने + “छो गुग् ह्नस्वश्च ।” उणां । १ । ११३ ।
इति कलच् प्रत्ययः धातोर्गुगागमो ह्नस्वश्च ।)
नीलवस्त्रम् । इति मेदिनी । ले, १ ॥

छगलः, पुं स्त्री, (छायते छिद्यते देवोपहाराय

इति । छो + कलच् गुगागमो ह्रस्वश्च ।) छागः ।
इति मेदिनी । ले, ९१ ॥ (यथा, सुश्रुते । १ । ४६ ।
“नाति शीतो गुरुः स्त्रिग्धो मन्दपित्तकफः स्मृतः ।
छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥”)

छगलकः, पुं स्त्री, (छगल + स्वार्थे कन् ।) छागः

इत्यमरः । २ । ९ । ७६

छगला, स्त्री, (छगलस्तदाकारोऽस्त्यस्य छगलवत्

त्वक् विद्यत्येऽस्येति वा । “अर्शआदिभ्योऽच् ।”
५ । २ । १२७ । इति अच् टाप् च ।) वृद्ध-
दारकवृक्षः । इति शब्दरत्नावली मेदिनी च ॥
(व्यवहारोऽस्या यथा, “चुच्चूपूथिकातरुणी-
जीवन्तीविम्बीतिकानन्दीभल्लातकच्छगलान्त्री-
वृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणक-
र्व्वुदारकोविदारप्रभृतीनि ।” इति सुश्रुते सूत्र-
स्थाने ४६ अध्याये ॥)

छगलाङ्घ्री, स्त्री, (छगलवदङ्घ्रिर्मूलमस्याः । ततो

ङीष् ।) छगलान्त्री । इत्यमरटीकायां रमा-
नाथः ॥

छगलाण्डी, स्त्री, (छगलवदण्डं अन्त्रं यस्याः ।)

छगलान्त्री । इत्यमरटीकायां रायमुकुटः ॥
(पुंसि तु पीठस्थानभेदे । यथा, देवीभागवते ।
७ । ३० । ७३ ।
“छगलण्डे प्रचण्डा तु चण्डिकाऽमरकङ्कटे ॥”)

छगलान्त्रिका, स्त्री, (छगलान्त्री + स्वार्थे कन् । टापि

पूर्ब्बह्नस्वः ।) छगलान्त्री । इति शब्दरत्नावली ॥

छगलान्त्री, स्त्री, (छगलवदन्त्रं यस्याः ।) वृद्धदारक-

वृक्षः । इत्यमरः । २ । ४ । १३७ ॥ वृकः । इति
राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने । ३८
अध्याये । “श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनी-
तिल्वककम्पिल्लकरम्यकक्रमुकपुत्त्रश्रेणीगवाक्षी-
राजवृक्षकरञ्जद्वयगुडचीसप्तलाच्छगलान्त्री-
सुधाः सुवर्णक्षीरी चेति ॥”)

छगली, स्त्री, (छगल + जातित्वात् ङीष् ।) छाग-

माता । वृद्धदारकवृज्ञः । इति विश्वः ॥

छटा, स्त्री, (छो + अटन् किच्च ।) दीप्तिः । (यथा,

राजतरङ्गिण्याम् । ४ । १२८ ।
“प्रतापांशुच्छटाकूटैः पटवासमधर्म्मभिः ।
जम्बुद्वीपद्विजेन्द्रस्य येनातन्यत मण्डनम् ॥”)
समूहः । यथा, माघे । १ । ४७ ॥
“सटाच्छटाभिन्नघनेन बिभ्रता
नृसिंहसैंहीमतनुं तनुन्त्वया ।”
(सटाछटाभिःकेशरसमूहैः ।” इति मल्लिनाथः ॥)

छटाफलः, पुं, (छटा इव परस्परसंसृष्टानि फलानि

यस्य ।) गुवाकवृक्षः । इति त्रिकाण्डशेषः ॥
(पूगशब्दे विवृतिरस्य ज्ञेया ॥)

छटाभा, स्त्री, (छटाभिर्दीप्तिभिर्भाति इति । भा +

क्विप् । यद्वा । भा + कः । टाप् च ।) विद्युत् ।
इति हारावली । ५८ ॥

छ(त्र)त्त्रं, क्ली, (छादयत्यनेनातपादिकमिति । छद

+ णिच् + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणां । ४ ।
१५८ । इति ष्ट्रन् णिलोपः ह्नस्वत्वञ्च ।) रौद्रवृष्टि-
निवारणार्थावरणविशेषः । छाति इति भाषा ॥
तत्पर्य्यायः । आतपत्रम् २ । इत्यमरः । २ । ८ । ३२ ॥
छायामित्रम् ३ पटोटजम् ४ । इति शब्दरत्ना-
वली ॥ आतपवारणम् ५ । राजच्छत्रं यथा, --
“आतपत्रञ्च राज्ञस्तु नृपलक्ष्म सितन्तु तत् ।
पृष्ठ २/४६५
पुण्डरीकमथो भद्रासनं राजासनं तु यत् ॥”
इति जटाधरः ॥
अपि च शब्दरत्नावल्याम् ।
“छत्त्रे कनकदण्डे तु रागशृङ्गमुदाहृतम् ।
नृपलक्ष्म भवेत्तत्तु यच्छत्त्रं पृथिवीभुजाम् ॥”
तस्य गुणाः । वृष्ट्यातपधूलिवायुहिमनाशित्वम् ।
वर्णदृष्टिकारित्वम् । गुप्त्यावरणमङ्गलकारि-
त्वञ्च । इति राजंवल्लभः ॥ * ॥ तस्योत्पत्ति-
र्यथा । एकदा ज्यैष्ठमासे जमदग्निमुनिर्घनुषि
बाणान् सन्धाय सन्धाय प्रचिक्षेप तत्पत्नी
रेणुका तान् बाणानानीयानीय तस्मै प्रादात् ।
सा मध्याह्नकाले रौद्रेण पीडिता वृक्षच्छाया-
सवलम्ब्य किञ्चित् कालं स्थित्वा तानानिनाय ।
ऋषिस्तदा क्रुद्धस्तामाह किं चिरेणागता । सा
आह सूर्य्यतेजसा मे शिरः पादौ च सन्तप्तौ
तेन वृक्षच्छायामाश्रित्य स्थिता तस्मात् चिरायै-
तत् कृतम् । तच्छ्रुत्वा मुनिराह अद्य सूर्य्यमस्त्रा-
ग्नितेजसा निपातयिष्यामीत्युक्त्वा धनुषि बाणान्
सन्धाय सूर्य्याभिमुखोऽतिष्ठत् । सूर्य्यस्तं दृष्ट्वा
मीतो द्विजरूपेण आगत्य आह सूर्य्यादन्नादि
भवति तेनान्नेन भवद्भिः कर्म्माणि क्रियन्ते कथ-
मेनं हनिष्यसि एवं माकार्षीस्तथापि मुनिः
शमं न जगाम । अथ सूर्य्यः शिरस्त्राणं छत्त्रं
निर्म्माय तस्मै दत्त्वा अद्यप्रभृति एतत् लोके
प्रचरिष्यति व्रतादिषु च अस्य दानं महाफलं
स्यादित्युक्त्वा गतः ॥ * ॥ तस्य दानफलं यथा, --
“छत्त्रं हि भरतश्रेष्ठ ! यः प्रदद्यात् द्बिजातये ।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिः ।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ ! ॥”
इति महाभारते दानधर्म्मः ॥
अथ छत्त्रयुक्तिः ।
“विशेषश्चाथ सामान्यं छत्त्रस्य द्बिविधा भिदा ।
राज्ञश्छत्त्रं विशेषाख्यं सामान्यञ्चान्यदुच्यते ॥
तत्र विशेषच्छत्त्रोद्देशः ।
सदण्डञ्चाथ निर्द्दण्डं तज्ज्ञेयं द्बिविधं पुनः ।
सदण्डं तत्र विज्ञेयं सारणाकुञ्चनात्मकम् ॥
दण्डः कन्दः शलाकाश्च रज्जुर्व्वस्त्रञ्च कीलकः ।
षड्भिरेतैः सुसन्दिष्टैश्छत्त्रमित्यभिधीयते ॥
दिगष्टषट्चतुर्हस्तदीर्घो दण्डो युगक्रमात् ।
षड्बाणवेदनयनवितस्त्या कन्द उच्यते ॥
शतान्यशीतिः षष्टिश्च चत्वारिंशद्युगक्रमात् ।
शलाकाः षट्पञ्चवेदत्रिहस्तैः सम्मिताः क्रमात् ॥
नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः ।
गुणैस्तु नवभिः पाशो रश्मिस्तैर्नवभिर्भवेत् ॥
नवाष्टसप्तषट्संख्यैरश्मिभी रज्जवः क्रमात् ।
वस्त्रं शलाकाद्विगुणमायामेन प्रतिष्ठितम् ॥
भानुदिग्ग्रहवसुभिरङ्गुलीभिस्तु कीलकः ।
षण्णां षण्मानमुदितं तद्राज्ञामेव भूतये ॥
पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः ॥
एतेन राज्ञो दण्डो दशहस्तः युवराजस्य तत्
अन्येषामपि तदेव ।
विशुद्ध्वकाष्ठस्य तु दण्डकन्दौ
तथा शलाका अपि शुद्धवंशजाः ।
रज्जुश्च रक्ता वसनञ्च रक्तं
छत्त्रप्रसादं नृपतेर्व्वदन्ति ॥
प्रसादमिति प्रसादार्हम् ।
नीलो दण्डश्च वस्त्रञ्च शिरःकुम्भस्तु कानकः ।
सौवर्णं युवराजस्य प्रतापं नाम विश्रुतम् ॥
चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससी ।
छत्त्रं मनोहरं राज्ञां स्वर्णकुम्भोपशोभितम् ॥
शुक्लानि रज्जुवासांसि स्वर्णकुम्भस्तथोपरि ।
इदं कनकदण्डाख्यं छत्त्रं सर्व्वार्थसाधकम् ॥
दण्डकन्दशलाकाश्च शुद्धस्वर्णेन निर्म्मिताः ।
कीलकं स्वर्णघटितमशुक्ले रज्जुवाससी ॥
कुम्भादिरथ हंसादिश्चामरादिर्यथाक्रमम् ।
कुम्भादावथ हंसादौ नवरत्नानि रक्षयेत् ॥
द्वात्रिंशन्मौक्तिकी माला द्वात्रिंशत्तत्र दापयेत् ।
सर्व्वोपरि ब्रह्मजातिं विशुद्धं हीरकं न्यसेत् ॥
दण्डान्ते कुरुबिन्दांश्च पद्मरागांश्च विन्यसेत् ।
स्वामिहस्तैकमानेन चामरः सित इष्यते ॥
इत्ययं नवदण्डाख्यश्छत्त्रराजो महीभुजाम् ।
अभिषेके विवाहे च ग्रहाणां प्रीतिवर्द्धनः ॥
पताका नवदण्डाग्रे राज्ञोऽष्टाङ्गुलिसंमिताः ।
अयं दिग्विजयी नाम छत्त्रराजो महीभुजाम् ॥”
इति भोजराजकृतयुक्तिकल्पतरुः ॥

छत्त्रः, पुं, (छद + णिच् + ष्ट्रन् ह्रस्वश्च ।) मूलेन

पत्रेन च वचाकारवृक्षः । छातारियाविष ।
छातनाविष । खरविष इति च भाषा । तत्-
पर्य्यायः । अतिच्छत्त्रः २ कटुः ३ । इति रत्न-
माला ॥ भूततृणम् । इति राजनिर्घण्टः ॥

छत्त्रकः, पुं, (छत्त्रमिव कायति इति । कै + कः ।)

मत्स्यरङ्गपक्षी । इति शब्दचन्द्रिका ॥ अति-
च्छत्त्रः । राङ्गा कुलेखाडा इति भाषा ॥ इति
रत्नमाला ॥ ईश्वरगृहविशेषः । इति शब्द-
रत्नावली ॥

छत्त्रगुच्छः, पुं, (छत्त्रमिव गुच्छो यस्य ।) गुण्ड-

तृणम् । इति राजनिर्घण्टः ॥

छत्त्रचक्रं, क्ली, (छत्त्राकृति चक्रम् ।) चक्रविशेषः ।

यथा, समयामृते छत्त्रचक्रम् ।
“अश्विनीमघमूलाद्यं चक्रं छत्त्रत्रयात्मकम् ।
प्रतीचीमध्यरेखाया ईशानान्तं हयाधिपः ॥
आग्नेयान्तं नराधीशो नैरृ तान्तं गजाधिपः ।
एषां छत्त्रविभागेन ज्ञातव्यञ्च शुभाशुभम् ॥
अन्यस्य राज्ञो नामर्क्षं यत्र छत्त्रे ततः फलम् ।
चामरं कलसं बीणा छत्त्रं दण्डः पतद्ग्रहः ॥
आसनं कीलकं रज्जुर्नव भेदाः प्रकीर्त्तिताः ।
यत्र छत्त्रे स्थितः सौरिर्भङ्गं तस्य विनिर्द्दिशेत् ॥
चामरे चण्डता वायोरनावृष्टिः प्रजायते ।
दुर्भिक्षञ्च भवेत् घोरं प्रजापीडा न संशयः ॥
कलसस्थे भवेद्युद्धं भङ्गो घातादिकं ध्रुवम् ।
वीणास्थेनार्कपुत्त्रेण पट्टराज्ञी विनश्यति ॥
चलचित्तो भवेद्राजा भयभीता च मेदिनी ।
यदा ऋक्षत्रये सौरिश्छत्त्रे दण्डे पतद्ग्रहे ॥
तदा तस्य भवेद्भङ्गश्छत्त्रस्यास्य न संशयः ।
आसनस्य भवेन्नाश आसनस्थे शनैश्चरे ॥
युवराजक्षयः कीले बन्धनं रज्जुसंस्थिते ।
सौम्ययुक्तोऽतिचारस्थः शनिरुक्तफलो न हि ॥
वक्रगः क्रूरयुक्तश्च सर्व्वं क्रूरं करोति सः ।
शनिराहुकुजादित्या यदा जीवेन्दुसंयुताः ॥
उत्तराधीशराङ्गो वै निश्चितं छत्त्रभङ्गदाः ।
क्रूरं चतुष्टयञ्चैव बुधचन्द्रेण संयुतम् ॥
पूर्ब्बच्छत्त्रविनाशाय तथा पापचतुष्टयम् ।
शुक्रेन्दुसंयुतं छत्त्रे दक्षिणे शस्यभङ्गदम् ॥
एवमन्येषु राज्येषु नामर्क्षात् फलमादिशेत् ।
यथा दुष्टफलः सौरिस्तथा सौम्यफलो गुरुः ॥
भौमज्ञौ गुरुराहू च रविचन्द्रौ बले समौ ।
यथा हानिकराः क्रूरास्तथा सौम्याः शुभङ्कराः ॥
एतेऽत्राष्टौ ग्रहाश्छत्त्रे परचक्रेण भङ्गदाः ।
नृपनामर्क्षगो राहुः केतुर्व्वा यत्र संस्थितः ॥
छत्त्रभङ्गो भवेत्तस्य विषदानेन भूपतेः ।
मृगयासाहसं यात्रां दुष्टहस्त्यश्ववाहनम् ॥
विग्रहञ्च त्यजेद्राजा छत्त्रस्थे क्रूरखेचरे ।
ज्ञात्वैवं शान्तिकं कुर्य्यात् ग्रहाणां जायते
शुभम् ॥”

छत्त्रधारः, त्रि, (छत्त्रं धरतीति । धृ + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) छत्त्रधरः ।
छातिधरा इति भाषा ॥ तत्पर्य्यायः । छाया-
करः २ । इति हेमचन्द्रः । ३ । ४२८ ॥ (यथा,
पञ्चतन्त्रे । ३ । ६७ । “स्वपक्षे च यथा, जननी
देवी कञ्चुकी मालिकः शय्यापालकः स्पशा-
ध्यक्षः सांवत्सरिकः भिषक् जलवाहकः ताम्बूल-
वाहकः आचार्य्यः अङ्गरक्षकः स्थानचिन्तकः
छत्त्रधारः विलासिनी च ॥”)

छत्त्रपत्त्रं, क्ली, (छत्त्रमिव पत्त्रमस्य ।) स्थलपद्मम् ।

इति त्रिकाण्डशेषः ॥

छत्त्रपत्त्रः, पुं, (छत्त्रमिव विस्तृतं पत्त्रमस्य ।)

भूर्जवृक्षः । इति रत्नमाला ॥ (भूर्जशब्दे विवृति-
रस्य ज्ञातव्या ॥) मानकचुः । इति केचित् ॥
सप्तपर्णवृक्षः । इति च केचित् ॥

छत्त्रभङ्गः, पुं, (छत्त्रस्येव रक्षितुः स्वामिन इत्यथः

भङ्गो यत्र ।) वैधव्यम् । स्वातन्त्र्यम् । नृपनाशः ।
इति मेदिनी । गे, ५६ ॥

छत्त्रा, स्त्री, (छत्त्रमिव आकृतिर्विद्यतेऽस्याः ।

अर्शआदित्वादच ततष्टाप् । यद्वा, छदति
आच्छादयति स्वोत्पत्तिस्थानमिति । छद् +
“सर्व्वधातुभ्यः ष्ट्रन् ।” उणां । ४ । १५८ । इति
ष्ट्रन् । ततः षिल्लक्षणस्य ङीषोऽनित्यत्वात् टाप् ।)
मिषिः । मौरी इति भाषा ॥ कुस्तुम्बुरु ।
धन्या इति भाषा ॥ (यथा, --
“मुस्तपर्पटकोदीच्यछत्त्राख्योशीरचन्दनैः ।
शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये ॥
छत्रा धान्याकम् ॥” इति भावप्रकाशः ॥)
शिलीन्ध्रम् । इति मेदिनी । रे, ३८ ॥ कोँ डकछाता
इति भाषा ॥ मञ्जिष्ठा । इति राजनिर्घण्टः ॥
(निवृत्तसन्तापान्तर्गतरसायनौषधिविशेषः । तस्य
पृष्ठ २/४६६
लक्षणं यथा, सुश्रुते चिकित्सितस्थाने ३० अः ।
“कृष्णसर्पस्वरूपेण वाराहीकन्दसम्भवा ।
एकपत्रा महावीर्य्या भिन्नाञ्जनसमप्रभा ॥
छत्त्रातिच्छत्त्रके विद्याद्रक्षोघ्ने कन्दसम्भवे ॥”)

छत्त्राकं, क्ली, (छत्त्रा इव कायतीति । कै + कः ।)

किम्पाकुः । छत्त्रिका । इति प्रायश्चित्तविवेकः ॥
(यथा, मनुः । ५ । १९ ।
“छत्त्राकं विड्वराहञ्च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्बिजः ॥”)

छत्त्राकः, पुं, (छत्त्रमिव अकति आच्छादकत्वं

गच्छतीति । छत्त्र + अक् + अच् ।) जाल-
वर्व्वूरकवृक्षः । इति राजनिर्घण्टः ॥

छत्त्राकी, स्त्री, (छत्त्राक + गौरादित्वात् ङीष् ।)

रास्ना । इत्यमरः । २ । ४ । ११५ ॥

छत्त्रातिच्छत्त्रः, पुं, (छत्त्रमतिक्रम्य छदति आच्छा-

दयतीति । अति + छद् + ष्ट्रन् ।) छत्त्राकार-
जलोद्भवसुगन्धाख्यतृणविशेषः । तत्पर्य्यायः ।
छत्त्रातिच्छत्त्रा २ पालघ्न्यः ३ अतिच्छत्त्रा ४
सुगन्धा ५ छत्त्रकः ६ कटुकः ७ कटुः ८ । इति
शब्दरत्नावली ॥

छत्त्राधान्यं, क्ली, (छत्त्रा धान्यमिव ।) धन्याकम् ।

इति राजनिर्घण्टः ॥

छत्त्रिका, स्त्री, (छत्त्रा एव । छत्त्रा + स्वार्थे कन् ।

अत इत्वञ्च ।) शिलीन्ध्रम् । कोँडकछाता इति
भाषा ॥ तत्पर्य्यायः । गोमयच्छत्त्रिका २ दिली-
रम् ३ शिलीन्ध्रकम् ४ उर्व्वङ्गम् ५ वसारोहम् ६
गोलासम् ७ । इति हारावली ॥ छत्त्राकम् ८ ।
इति स्मृतिः ॥ उच्छिलीन्ध्रम् ९ । इति श्रीभाग-
तम् ॥ करीषेक्षुपलालपृथ्वीबेणुजच्छत्त्रिकायाः
सामान्यगुणाः । शीतत्वम् । कषायत्वम् । स्वादु-
त्वम् । पिच्छिलत्वम् । गुरुत्वम् । छर्द्द्यतीसार-
ज्वरश्लेष्मरोगकारित्वञ्च ॥ पलालजच्छत्त्रिका-
गुणाः । पाके स्वादुरसत्वम् । रूक्षत्वम् । दोष-
कारित्वञ्च ॥ शुचिस्थानकाष्ठवंशगोष्ठजश्वेत-
च्छत्त्रिकाया गुणः । अतिदोषकारित्वम् । अन्य-
च्छत्त्रिकास्तेभ्यो विगर्हिताः । इति राजवल्लभः ॥

छत्त्री, [न्] पुं, (छत्त्रं कौशलादिभिराच्छादकत्वं

विद्यतेऽस्य । छत्त्र + इनिः ।) नापितः । इति
शब्दरत्नावली ॥ छत्त्रविशिष्टे, त्रि । यथा, --
“गच्छेद्वर्षातपे छत्त्री दण्डी रात्र्यटवीषु च ।”
इति स्मृतिः ॥
(यथा च हरिवंशे । २५३ । ५ ।
“मौञ्जी यज्ञोपवीती च छत्त्री दण्डाजिनी तथा ।
वामनो धूमरक्ताक्षो भगवान् बालरूपधृक् ॥”)

छत्वरः, पुं, (छदते अपवारयति वर्षोष्णादिक-

मिति । छद अपवारणे + “छित्वरच्छत्वरेति ।”
उणां । ३ । १ । इति ष्वरच् प्रत्ययेन साधुः ।)
गृहम् । कुञ्जः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

छद, त् क संवृतौ । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) छदयति । इति दुर्गा-
दासः ॥ (यथा, कविरहस्ये । १६ ।
“छदयति सुरलोकं यो गुणैर्यञ्च युद्धे
सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च ॥”)

छद, कि ञ संवृतौ । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-उभं-सकं-सेट् ।) कि ञ, छादयति
छादयते छदति छदते दिशंमेघः । आच्छा-
दयति इत्यर्थः । इति दुर्गादासः ॥

छद, म कि ञ ऊर्ज्जने । ऊर्ज्जनं बलं जीवनञ्च ।

इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-उभं-
सकं-सेट् ।) छदयति पुत्त्रं पिता । जीवयति
बलवन्तं करोति वा इत्यर्थः । इति दुर्गादासः ॥

छदः, पुं, (छदति आच्छादयतीति । छद +

अच् ।) पत्त्रम् । (यथा, रामायणे । २ । ५५ । ६ ।
“ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥”)
पक्षः । ग्रन्थिपर्णवृक्षः । तमालवृक्षः । इति
मेदिनी । दे, ५ ॥

छदनं, क्ली, (छदति आच्छादयतीति । छद +

ल्युः ।) पत्रम् । पक्षः । (यथा, महाभारते ।
३ । १५८ । ६९ ।
“विमलस्फाठिकाभानि पाण्डरच्छदनैर्द्बिजैः ।
कलहंसैरुपेतानि सारसाभिरुतानि च ॥”
छद + भावे ल्युट् ।) पिधानम् । इति मेदिनी ।
ने, ६५ ॥ तमालपत्रम् । इति राजनिर्घण्टः ॥
तेजपात इति भाषा ॥

छदपत्त्रः, पुं, (छदानि आच्छादकानि पत्त्रानि

यस्य ।) भूर्जपत्रवृक्षः । इति काचित् रत्नमाला ॥

छदिः, [स्] क्ली, (छादयतीति छाद्यतेऽनेन

वा । छंद् + णिच् + “अर्च्चिशुचिहुसृपिछादि-
छर्दिभ्य इसिः ।” उणां । २ । १०९ । इति
इसिः । “इस्मन्त्रन्क्विषु च ।” ६ । ४ । ९७ ।
इति ह्रस्वः ।) पटलम् । इत्यमरः । २ । २ ।
१४ ॥ (यथा, भागवते । ७ । १४ । १३ ।
“कृमिविड् भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।
क्व तदीयरतिर्भार्य्या क्वायमात्मा नभश्छदिः ॥”)

छद्म, [न्] क्ली, (छद्यते आव्रियते स्वरूपमने-

नेति । छद + “सर्व्वधातुभ्यो मनिन् ।” उणां ।
४ । १४४ । इति मनिन् ।) व्याजः । (यथा,
रधुः । १२ । २
“तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥”)
कपटः । शाट्यम् । अपदेशः । स्वरूपाच्छा-
दनम् । इति मेदिनी । ने, ६४ ॥

छद्मतापसः, पुं, (छद्मना कपटेन तापसः । अप्र-

कृततपस्वितया एवास्य तथात्वम् ।) छल-
तपस्वी । तत्पर्य्यायः । सर्व्वाभिसन्धी २ वैडाल-
व्रतिकः ३ वेशधारी ४ । इति शब्दरत्नावली ॥

छद्मिका, स्त्री, (छद्म अस्त्यस्याः । ब्रीह्यादित्वा-

दिनिः संज्ञायां कन् टाप् च ।) गुडूची । इति
राजनिर्घण्टः ॥

छन्दः, पुं, (छन्द्यते इति । छन्द + भावे घञ् ।)

अभिप्रायः । (यथा, रामायणे । २ । ९ । ७ ।
“मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि ! ।
श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम् ॥”)
वशः । इत्यमरः । ३ । ३ । ८८ ॥ अभिलाषः । इति
भरतः ॥ विषम् । इति शब्दचन्द्रिका ॥ रहसि
त्रि । इत्यमरटीकासारसुन्दरी ॥

छन्दः, [स्] क्ली, (चन्दयति आह्लादयति

चन्द्यतेऽनेन वा । चदि आह्लादे + “चन्देरा-
देश्च छः ।” उणां । ४ । २१८ । इति असुन्
चस्य छश्च ।) वेदः । (यथा, रघुः । १ । ११ ।
“आसीन्महीक्षितामाद्यः प्रणवच्छन्दसामिव ॥”)
स्वैराचारः । अभिलाषः । (यथा, महाभारते ।
१२ । २०१ । १२ ।
“कामात्मकाश्छन्दसि कर्म्मयोगा
एभिर्व्विमुक्तः परमश्नुवीत ॥”)
पद्यम् । इति मेदिनी । से, २२ ॥ अस्य लक्षणं
यथाह गङ्गादासः ।
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।
वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ।
समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥
आदिस्तृतीयवद्यस्य पादस्तुर्य्यो द्वितीयवत् ।
भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥”
एषामर्थः । अक्षरसंख्यातं अक्षरगणनया परि-
प्राप्तं वृत्तमुच्यते । मात्राकृता मात्रागणनया
निर्णीता जातिर्जातिसंज्ञिका भवति । समं
समचतुष्पादम् । अर्द्धसमं यस्य प्रथमः पादः
तृतीयेन पादेन तुल्यः चतुर्थः पादो द्वितीयेन
पादेन तुल्यः । विषमं पृथक्लक्षणचतुष्पादम् ॥
(तत्र समवृत्तन्तु उक्थादिसंज्ञाभेदेन षड्-
विंशतिप्रकारकम् । यदुक्तं छन्दोमञ्जर्य्याम् ।
“आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्द्धितैः ।
पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ॥
उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू-
र्ब्बिका ।
गायत्त्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥
त्रिष्टुप् च जगती चैव तथातिजगती मता ।
शर्करी सातिपूर्ब्बा स्थादष्ट्यत्यष्टी तथा स्मृते ॥
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः संस्कृतिश्चैव तथातिकृतिरुत्कृतिः ॥”
छन्दोलक्षणोपयोगिगणास्तु दश । यदुक्तं तत्रैव-
“म्यरस्तजैभ्नगैर्लान्तैरेभिदशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥
मस्त्रिगुरुस्त्रिलघुश्च नकारो
भादिगुरुः पुनरादिलघुर्यः ।
जो गुरुमध्यगतो रलमध्यः
सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥
गुरुरेको गकारस्तु लकारो लघुरेककः ।
क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ॥”
म ऽऽऽ, न ॥।, भ ऽ॥, य ।ऽऽ, ज ।ऽ।,
र ऽ।ऽ, स ॥ऽ, त ऽऽ।, ग ऽ, ल ।)
छन्दस्तु नानाविधम् । तस्य ग्रन्थाः छन्दो-
विचितिपिङ्गलच्छन्दोमञ्जरीवृत्तरत्नाकरश्रुत-
वोधादयः सन्ति तेषु छन्दोमञ्जर्य्याद्युक्तलक्षणो
दाहरणादीनि लिख्यन्ते ॥
पृष्ठ २/४६७
छन्दसां वृत्तिनामानि ।
एकाक्षरा वृत्तिः । उक्था ।
श्रीः
द्ब्यक्षरा वृत्तिः । अत्युक्था ।
स्त्री
त्र्यक्षरा वृत्तिः । मध्या ।
नारी
मृगी
चतुरक्षरा वृत्तिः । प्रतिष्ठा ।
कन्या
सती
पञ्चाक्षरा वृत्तिः । सुप्रतिष्ठा ।
पङ्क्तिः
प्रिया
षडक्षरा वृत्तिः । गायत्त्री ।
तनुमध्या
शशिवदना
सोमराजी
विद्युल्लेखा
वसुमती
सप्ताक्षरा वृत्तिः । उष्णिक् ।
मधुमती
कुमारललिता
मदलेखा
हंसमाला
अष्टाक्षरा वृत्तिः । अनुष्टुप् ।
चित्रपदा
माणवकम्
माणवकक्रीडमिति । केचित् ।
विद्युन्माला
समानिका
प्रमाणिका
नगस्वरूपिणी इति कुत्रापि ।
गजगतिः
हंसरुतम्
नाराचिका
नवाक्षरा वृत्तिः । बृहती ।
भुजगशिशुभृता
भृतेत्यत्र सृतेति युतेति च केचित् ।
छन्दसां लक्षणगणाः ।
ग्श्री ऽ
गौ स्त्री ऽ,ऽ
मो नारी ऽऽऽ
रो मृगी ऽ।ऽ
ग्मौ चेत् कन्या ऽ,ऽऽऽ
नगि सती ॥।,ऽ
भ्गौ गिति पङ्क्तिः ऽ॥,ऽ,ऽ
सलगैः प्रिया ॥ऽ,।,ऽ
त्यौ चेत् तनुमध्या ऽऽ।,।ऽऽ
शशिवदना न्यौ ॥।,।ऽऽ
द्विया सोमराजी ।ऽऽ,।ऽऽ
विद्यल्लेखा मो मः ऽऽऽ,ऽऽऽ
त्सौ चेद् वसुमती ऽऽ।,॥ऽ
ननगि मधुमती ॥।,॥।,ऽ
कुमारललिता ज्स्गाः ।ऽ।,॥ऽ,ऽ
मस्गौ स्यात् मदलेखा ऽऽऽ,॥ऽ,ऽ
सरगैर्हंसमाला ॥ऽ,ऽ।ऽ,ऽ
चित्रपदा यदि भौ गौ ऽ॥,ऽ॥,ऽ,ऽ
भात्तलगा माणवकम् ऽ॥,ऽऽ।,।,ऽ
मो मो गो गो विद्युन्माला ऽऽऽ,ऽऽऽ,ऽ,ऽ
ग्लौ रजौ समानिका तु ऽ,।,ऽ।ऽ,।ऽ।
प्रमाणिका जरौ लगौ ।ऽ।,ऽ।ऽ,।,ऽ
नभलगा गजगतिः ॥।,ऽ॥,।,ऽ
म्नौ गौ हंसरुतमेतत् ऽऽऽ,॥।,ऽ,ऽ
नाराचिका तरौ लगौ ऽऽ।,ऽ।ऽ,।,ऽ
भुजगशिशुभृता नौ मः ॥।,॥।,ऽऽऽ
छन्दसामुदाहरणानि ।
श्रीस्ते । सास्ताम् ॥
गोपस्त्रीभिः । कृष्णो रेमे ॥
गोपानां नारीभिः । श्लिष्टोऽव्यात् कृष्णो वः ॥
सा मृगीलोचना । राधिका श्रीपतेः ॥
भास्वत्कन्या सैका धन्या । यस्याः कूले कृष्णोऽस्वेलत् ॥
मुररिपो ! तव पदम् । नमति सा ननु सती ॥
कृष्णसनाथा तर्णकपङ्क्तिः । यामुनकच्छे चारु चचार ॥
व्रजसुभ्रुवो विलसत्कलाः । अभवन् प्रिया मुरवैरिणः ॥
मूर्त्तिर्मुरशत्रोरत्यद्भुतरूपा ।
आस्तां मम चित्ते नित्यं तनुमध्या ॥
शशिवदनानां व्रजतरुणीनाम् ।
अधरसुधोर्म्मिं मधुरिपुरैच्छत् ॥
हरे ! सोमराजीसमा ते यशःश्रीः ।
जगन्मण्डलस्य च्छिनत्त्यन्धकारम् ॥
रविदुहितृतटे नवकुसुमततिः ।
व्यधित मधुमती मधुमथनमुदम् ॥
मुरारितनुवल्ली कुमारललिता सा ।
व्रजैणनयनानां ततान मुदमुच्चैः ॥
रङ्गे बाहुविलग्नाद्दन्तीन्द्रान्मदलेखा ।
लग्नाभून्मुरशत्रौ कस्तूरीरसचर्च्चा ॥
यामुनसैकतदेशे गोपवधूजलकेलौ ।
कंसरिपोर्गतिलीला चित्रपदा जगदव्यात् ॥
चञ्चलचूडञ्चपलैर्वत्सकुलैः केलिपरम् ।
ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम् ॥
वासो वल्लीविद्युन्माला वर्हश्रेणी शाक्रश्चापः ।
यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णाम्भोदः ॥
यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म ।
धीः समानिका परेण नोचितात्र मत्सरेण ॥
पुनातु भक्तिरच्युता सदाच्युताङ्घ्रिपद्मयोः ।
श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ॥
रविसुतापरिसरे विहरतो दृशि हरेः ।
व्रजबधूगजगतिमुदमलं व्यतनुत ॥
ह्रदतटनिकटक्षौणी भुजगशिशुभृता यासीत् ।
मुररिपुदलिते नागे व्रजजनसुखदा साभूत् ॥
पृष्ठ २/४६८
छन्दसां वृत्तिनामानि ।
मणिमध्यम्
भुजङ्गसङ्गता
हलमुखी
भद्रिका
दशाक्षरा वृत्तिः । पङ्क्तिः ।
रुक्मवती
रूपवती क्वचित् । चम्पकमाला
इति क्वापि ।
मत्ता
त्वरितगतिः
मनोरमा
शुद्धविराट्
पणवम्
मयूरसारिणी
उपस्थिता
दीपकमाला
हंसी
एकादशाक्षरा वृत्तिः । त्रिष्टुप् ।
इन्द्रवज्रा
उपेन्द्रवज्रा
उपेन्द्रवज्राया इन्द्रवज्रायाश्च
चरणघटिता उपजातयः । ताश्च
चतुर्व्वर्णप्रस्तारभेदादाद्यन्त्यौ त्यक्त्रा
चतुर्द्दशप्रकारा भवन्ति ।
सुमुखी
शालिनी
अस्याश्चतुर्थे ततः सप्तमे च यतिः ।
वातोर्म्मी
भ्रमरविलसिता
भ्रमरविलसितमिति केचित् ।
अनुकूला
रथोद्धता
स्वागता
छन्दसां लक्षणगणाः ।
स्यान्मणिमध्यं चेत् भमसाः ऽ॥,ऽऽऽ,॥ऽ
सजरैर्भुजङ्गसङ्गता ॥ऽ,।ऽ।,ऽ।ऽ
रान्नसाविह हलमुखी ऽ।ऽ,॥।,॥ऽ
भद्रिका भवति रो नरौ ऽ।ऽ,॥।,ऽ।ऽ
रुक्मवती सा यत्र भमस्गाः ऽ॥,ऽऽऽ,॥ऽ,ऽ
ज्ञेया मत्ता मभसगसृष्ट ऽऽऽ,ऽ॥,॥ऽ,ऽ
त्वरितगतिश्च नजनगैः ॥।,।ऽ।,॥।,ऽ
नरजगैर्भवेन्मनोरमा ॥।,ऽ।ऽ,।ऽ।,ऽ
म्सौ ज्गौ शुद्धविराडिदं मतम् ऽऽऽ,॥ऽ,।ऽ।,ऽ
म्नौ य्गौ चेति पणवनामेदम् ऽऽऽ,॥।,।ऽऽ,ऽ
र्जौ रगौ मयूरसारिणी स्यात् ऽ।ऽ,।ऽ।,ऽ।ऽ,ऽ
तो जौ गुरुणेयमुपस्थिता ऽऽ।,।ऽ।,।ऽ।,ऽ
दीपकमाला भ्मौ मता जगौ ऽ॥,ऽऽऽ,।ऽ।,ऽ
ज्ञेया हंसी मभनगयुता ऽऽऽ,ऽ॥,॥।,ऽ
स्यादिन्द्रवज्रा यदि तौ जगौ गः ऽऽ।,ऽऽ।,।ऽ।,ऽ,ऽ
उपेन्द्रवज्रा जतजास्ततो गौ ।ऽ।,ऽऽ।,।ऽ।,ऽ,ऽ
अनन्तरोरितलक्ष्मभाजौ
पादौ यदीयावुपजातयस्ताः ।
इत्थं किलान्यास्वपि मिश्रितासु
वदन्ति जातिष्विदमेव नाम ॥
नजजलगैर्गदिता सुमुखी ॥।,।ऽ।,।ऽ।,।,ऽ
मात्तौ गौ चेत् शालिनी वेदलोकैः
ऽऽऽ,ऽऽ।,ऽऽ।,ऽ,ऽ
वातोर्म्मीयं गदिता म्भौ तगौ गः
ऽऽऽ,ऽ॥,ऽऽ।,ऽ,ऽ
मो गो नौ गो भ्रमरविलसिता ऽऽऽ,ऽ,॥।,॥।,ऽ
स्यादनुकूला भतनगगाश्चेत् ऽ॥,ऽऽ।,॥।,ऽ,ऽ
रात् परैर्नरलगै रथोद्धता ऽ।ऽ,॥।,ऽ।ऽ,।,ऽ
स्वागता रनभगैर्गुरुणा च ऽ।ऽ,॥।,ऽ॥,ऽ,ऽ
छन्दसामुदाहरणानि ।
कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा ।
चित्रपदाभो नन्दसुतश्चारु ननर्त्त स्मेरमुखः ॥
तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता ।
कथमेतु वत्सचारकश्चपलः सदैव तां हरिः ॥
कायमनोवाक्यैः परिशुद्धैर्यस्य सदा कंशद्बिषि भक्तिः ।
राज्यपदे हर्म्म्यालिरुदारा रुक्मवती विघ्नः खलु तस्य ॥
पीत्वा मत्ता मधु मधुपाली कालिन्दीये तटवनकुञ्जे ।
उद्दीव्यन्तीर्व्रजजनरामाः कामासक्ता मधुजिति चक्रे ॥
त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता ।
मुररिपुणा रतिगुरुणा परिरमिता प्रमदमिता ॥
तरणिजातटे विहारिणी व्रजविलासिनी विलासतः ।
मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा ॥
गोष्ठे गिरिं सव्यकरेण धृत्वा रुष्टेन्द्रवज्राहतियुक्तवृष्टौ ।
यो गोकुलं गोपकुलञ्च सुस्थं चक्रे स नोरक्षतु चक्रपाणिः ॥
उपेन्द्रवज्रादिमणिच्छटाभिर्विभूषणानां छुरितं वपुस्ते ।
स्मरामि गोपीभिरुपास्यमानं सुरद्रुमूले मणिमण्डपस्थम् ॥
तरणिसुतातटकुञ्जगृहे वदनविधुस्मितदीधितिभिः ।
तिमिरमुदस्य मुखं सुमुखी हरिमवलोक्य चुचुम्ब चिरम् ॥
अंहो हन्ति ज्ञानवृद्धिं विधत्ते धर्म्मं घत्ते काममर्थञ्च सूते ।

मुक्तिंदत्ते सर्व्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥

ध्याता मूर्त्तिः क्षणमप्यच्युतस्य
श्रेणी नाम्नां गदिता हेलयापि ।
संसारेऽस्मिन् दुरितं हन्ति पुंसां
वातोर्म्मीपोतमिवाम्भोधिमध्ये ॥
मुग्धे ! मानं परिहर न चिरात्तारुण्यन्ते सफलयतु हरिः ।
फुल्लावल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम् ॥
वल्लववेशा मुररिपुमूर्त्तिर्गोपमृगाक्षीकृतरतिपूर्त्तिः ।
वाञ्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकूला जगति न कस्य ॥
राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैरथोद्धता ।
यामुनं तटनिकुञ्जमञ्जसा सा जगामसलिलाहृतिच्छलात् ॥
यस्य चेतसि सदा मुरवैरी वल्लवीजनविलासविलोलः ।
तस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः ॥
पृष्ठ २/४६९
छन्दसां वृत्तिनामानि ।
दोधकम्
मोटनकम्
श्येनी
श्येनिका इति क्वचित् ।
श्रीः
वृत्ता
भद्रिका
मौक्तिकमाला
उपस्थितम्
उपचित्रम्
कुपुरुषजनिता
अनवसिता
विध्वङ्कमाला
सान्द्रपदम्
शिखण्डितम्
द्वादशाक्षरा वृत्तिः । जगती ।
चन्द्रवर्त्म
वंशस्थविलम्
वंशस्तनितमिति क्वापि ।
इन्द्रवंशा
वंशस्थविलेन्द्रवंशचरणोभयघटिता-
श्चतुर्व्वर्णप्रस्तारीयाद्यन्तव्यतिरिक्त-
चतुर्द्दशप्रकारा उपजातयो भवन्ति ।
जलोद्धतगतिः
भुजङ्गप्रयातम्
तोटकम्
स्रग्विणी
वैश्वदेवी
छन्दसां लक्षणगणाः ।
दोधकमिच्छति भत्रितयाद्गौ ऽ॥,ऽ॥,ऽ॥,ऽ,ऽ
स्यान्मोटनकं तजजाश्च लगौ ऽऽ।,।ऽ।,।ऽ।,।,ऽ
श्येन्युदीरिता रजौ रलौ गुरुः ऽ।ऽ,।ऽ।,ऽ।ऽ,।,ऽ
बाणरसैः स्यात् भतनगगैः श्रीः ऽ॥,ऽऽ।,॥।,ऽ,ऽ
ननसगगुरुरचिता वृत्ता ॥।,॥।,॥ऽ,ऽ,ऽ
ननरलगुरुभिश्च भद्रिका ॥।,॥।,ऽ।ऽ,।,ऽ
मौक्तिकमाला यदि भतनात् गौ ऽ॥,ऽऽ।,॥।,ऽ,ऽ
उपस्थितमिदं ज्सौताद् गकारौ ।ऽ।,॥ऽ,ऽऽ।,ऽ,ऽ
उपचित्रमिदं सससाल्लगौ ॥ऽ,॥ऽ,॥ऽ,।,ऽ
कुपुरुषजनिता ननौ र्गौ गः ॥।,॥।,ऽ।ऽ,ऽ,ऽ
अनवसिता न्यौ भ्गौ गुरुरन्ते ॥।,।ऽऽ,ऽ॥,ऽ,ऽ
विध्वङ्कमाला भवेत्तौ तगौ गः ऽऽ।,ऽऽ।,ऽऽ।,ऽ,ऽ
सान्द्रपदं स्याद्भतनगलैश्च ऽ॥,ऽऽ।,॥।,ऽ,।
शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत्
।ऽ।,॥ऽ,ऽऽ।,ऽ,ऽ
चन्द्रवर्त्म निगदन्ति रनभसैः ऽ।ऽ,॥।,ऽ॥,॥ऽ
वदन्ति वंशस्थविलं जतौ जरौ ।ऽ।,ऽऽ।,।ऽ।,ऽ।ऽ
स्यादिन्द्रवंशा ततजैरसंयुता ऽऽ।,ऽऽ।,।ऽ।,ऽ।ऽ
जसौ जसयुतौ जलोद्धतगतिः ।ऽ।,॥ऽ,।ऽ।,॥ऽ
भुजङ्गप्रयातं चतुर्भिर्यकारैः ।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ
वद तोटकमब्धिसकारयुतम् ॥ऽ,॥ऽ,॥ऽ,॥ऽ
कीर्त्तितैषा चतूरेफिका सग्विणी
ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ
ऽऽऽ,ऽऽऽ,।ऽऽ,।ऽऽ
छन्दसामुदाहरणानि ।
देव ! सदोधकदम्बतलस्थ ! श्रीधर ! तारकनामपदं मे ।
कण्ठतलेऽसुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम् ॥
रङ्गे खलु मल्लकलाकुशलश्चाणूरमहाभटमोटनकम् ।
यः केलिलवेन चकार स मे संसाररिपुं प्रतिमोटयतु ॥
यस्य कीर्त्तिरिन्दुकुन्दचन्दनश्येन्यशेषलोकपावनी सदा ।
जाह्नवीवविश्वबन्द्यविभ्रमा तं भजामि भावगम्यमच्युतम् ॥
चन्द्रवर्त्म पिहितं घनतिमिरै राजवर्त्म रहितं जनगमनैः ।
इष्टवर्त्म तदलङ्कुरु सरसे ! कुञ्जवर्त्मनि हरिस्तव कुतुकी ॥
विलासवंशस्थविलं मुखानिलैः
प्रपूर्य्य यः पञ्चमरागमुद्गिरन् ।
व्रजाङ्गनानामपि गानशालिनां
जहार मानं स हरिः पुनातु नः ॥
दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः
पीताम्बरोऽसौ जगतीतमोहरः ।
यस्मिन् ममज्जुः शलभा इव स्वयं
ते कंसचाणूरमुखा मखद्बिषः ॥
यदीयहलतो विलोक्य विपदं
कलिन्दतनया जलोद्धतगतिः ।
विलासविपिनं विवेश सहसा
करोतु कुशलं हली स जगताम् ॥
सदारात्मजज्ञातिभृत्यो विहाय
स्वमेतं ह्रदं जीवनं लिप्समानः ।
मया क्लेशितः कालियेत्थं कुरु त्वं
भुजङ्ग ! प्रयातं द्रुतं सागराय ॥
यमुनातटमच्युतकेलिकला-
लसदङ्घ्रिसरोरुहसङ्गरुचिम् ।
मुदितोऽट कलेरपनेतुमघं
यदि चेच्छसि जन्म निजं सफलम् ॥
इन्द्रनीलोपलेनेव या निर्म्मिता
शातकुम्भद्रवालङ्कृता शोभते ।
नव्यमेघच्छविः पीतवासा हरे-
र्मूर्त्तिरास्तां ममैवोरसि स्रग्विणी ॥
अर्च्चामन्येषां त्वं विहायामराणा-
मद्वैतेनैकं कृष्णमभ्यर्च्च भक्त्या ।
तत्राशेषात्मन्यर्च्चिते भाविनी ते
भ्रातः ! सम्पन्नाराघना वैश्वदेवी ॥
पृष्ठ २/४७०
छन्दसां वृत्तिनामानि ।
प्रमिताक्षरा
द्रुतविलम्बितम्
मन्दाकिनी
कुसुमविचित्रा
तामरसम्
मालती
यमुनेति क्वापि ।
मणिमाला
अस्याः षड्वर्णैर्य्यतिः ।
जलधरमाला
अस्याश्चतुर्भिरष्टाभिश्च यतिः ।
पुटः
प्रमुदितवदना
प्रभेति मल्लिनाथः । गौरीति
कौमुदीकारः ।
प्रियंवदा
ललिता
उज्ज्वला
नवमालिका
ललना
ललितम्
द्रुतपदम्
विद्याधारः
पञ्चचामरम्
सारङ्गम्
मौक्तिकदाम
छन्दसां लक्षणगणाः ।
प्रमिताक्षरा सजससैः कथिता ॥ऽ,।ऽ।,॥ऽ,॥ऽ
द्रुतविलम्बितमाह नभौ भरौ ॥।,ऽ॥,ऽ॥,ऽ।ऽ
ननररघटिता तु मन्दाकिनी ॥।,॥।,ऽ।ऽ,ऽ।ऽ
नयसहितौ न्यौ कुसुमविचित्रा ॥।,।ऽऽ,॥।,।ऽऽ
इह वद तामरसं नजजा यः ॥।,।ऽ।,।ऽ।,।ऽऽ
भवति नजावथ मालती जरौ ॥।,।ऽ।,।ऽ।,ऽ।ऽ
त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः
ऽऽ।,।ऽऽ,ऽऽ।,।ऽऽ
मो भ, स्मौ चेज्जलधरमालाब्ध्यन्त्यैः
ऽऽऽ,ऽ॥,॥ऽ,ऽऽऽ
वसुयुगविरतिर्नौ म्यौ पुटोऽयम् ॥।,॥।,ऽऽऽ,।ऽऽ
प्रमुदितवदना भवेन्नौ च रौ ॥।,॥।,ऽ।ऽ,ऽ।ऽ
भुवि भवेन्नभजरैः प्रियंवदा ॥।,ऽ॥,।ऽ।,ऽ।ऽ
धीरैरभाणि ललिता तभौ जरौ ऽऽ।,ऽ॥,।ऽ।,ऽ।ऽ
ननभरसहिता गदितोज्ज्वला ॥।,॥।,ऽ॥,ऽ।ऽ
इह नवमालिका नजभयैः स्यात् ॥।,।ऽ।,ऽ॥,।ऽऽ
पञ्चमुनि भ्मौ सात् सयुता ललना
ऽ॥,ऽऽऽ,॥ऽ,॥ऽ
ललितमभिहितं नौ म्रौ नामतः ॥।,॥।,ऽऽऽ,ऽ।ऽ
द्रुतपदं भवति नभनयाश्चेत् ॥।,ऽ॥,॥।,।ऽऽ
सर्व्वे मा यस्मिन् सोऽयं विद्याधारः स्यात्
ऽऽऽ,ऽऽऽ,ऽऽऽ,ऽऽऽ
लघुर्गुरुर्वदन्ति पञ्चचामरम् ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ
सारङ्गसंज्ञं समस्तैस्तकारैस्तु ऽऽ।,ऽऽ।,ऽऽ।,ऽऽ।
समस्तजमीरय मौक्तिकदाम ।ऽ।,।ऽ।,।ऽ।,।ऽ।,
छन्दसामुदाहरणानि ।
अमृतस्य शीकरमिवोद्गिरती
रदमौक्तिकांशुलहरीच्छुरिता ।
प्रमिताक्षरा मुररिपोर्भणिति-
र्व्रजसुभ्रुवामभिजहार मनः ॥
तरणिजापुलिने नववल्लवी-
परिषदा सह केलिकुतूहलात् ।
द्रुतविलम्बितचारुविहारिणं
हरिमहं हृदयेन सदा वहे ॥
बलिदमनविधौ बभौ सङ्गता
पदजलरुहि यस्य मन्दाकिनी ।
सुरनिहितसिताम्बुजस्रङ्निभा
हरतु जगदघं स पीताम्बरः ॥
विपिनविहारे कुसुमविचित्रा
कुतुकितगोपीमहितचरित्रा ।
मुररिपुमूर्त्तिर्मुखरितवंशा
चिरमवताद्वस्तरलवतंसा ॥
स्फुटसुषमामकरन्दमनोज्ञं
व्रजललनानयनालिनिपीतम् ।
तव मुखतामरसं मुरशत्रो !
हृदयतडागविकाशि ममास्तु ॥
इह कलयाच्युतकेलिकानने
मधुरससौरभसारलोलुपः ।
कुसुमकृतस्मितचारुविभ्रमा
मलिरपि चुम्बति मालतीं मुहुः ॥
प्रह्वामरमौलौ रत्नोपलकॢप्ते
जातप्रतिविम्बा शोणा मणिमाला ।
गोविन्दपदाब्जे राजी नखराणा-
मास्तां मम चित्ते ध्वान्तं शमयन्ती ॥
या भक्तानां कलिदुरितोत्तप्तानां
तापोच्छेदे जलधरमाला नव्या ।
भव्याकारा दिनकरपुत्त्रीकूले
केलीलोला हरितनुरव्यात् सा वः ॥
पृष्ठ २/४७१
छन्दसां वृत्तिनामानि ।
मोटकम्
तरलनयनम्
त्रयोदशाक्षरावृत्तिः । अतिजगती ।
प्रहर्षिणी
त्रिभिर्दशभिश्च यतिः ।
रुचिरा
चतुर्भिर्नवभिश्च यतिः ।
मत्तमयूरः
चतुर्भिर्नवभिश्च यतिः ।
चण्डी
मञ्जुभाषिणी
सुनन्दिनीति शम्भौ
चन्द्रिका
उत्पलिनीति क्वापि । विद्युदिति
क्षमेति च क्वापि । सप्तभिः षड्-
भिश्च यतिः ।
कलहंसः
सिंहनादः क्वापि ।
प्रबोधिता
मृगेन्द्रमुखम्
चञ्चरीकावली
चन्द्ररेखा
कन्दुकम्
मृगेन्द्रमुखम्
उपस्थितम्
मञ्जुहासिनी
नन्दिनी
छन्दसां लक्षणगणाः ।
मोटकनाम समस्तभमीरय ऽ॥,ऽ॥,ऽ॥,ऽ॥
वरिलघु तरलनयनमिह ॥॥॥॥॥॥
त्र्यशाभिर्मनजरगाः प्रहर्षिणीयम्
ऽऽऽ,॥।,।ऽ।,ऽ।ऽ,ऽ
जभौ सजौ गिति रुचिरा चतुर्ग्रहैः
।ऽ।,ऽ॥,॥ऽ,।ऽ।,ऽ
वेदरन्ध्रैर्म्तौ यसगा मत्तमयूरः
ऽऽऽ,ऽऽ।,।ऽऽ,॥ऽ,ऽ
नयुगलसयुगलगैरिति चण्डी ॥।,॥।,॥ऽ,॥ऽ,ऽ
सजसा जगौ च यदि मञ्जुभाषिणी
॥ऽ,।ऽ।,॥ऽ,।ऽ।,ऽ
ननततगुरुभिश्चन्द्रिकाऽश्वर्तुभिः ॥।,॥।,ऽऽ।,ऽऽ।,ऽ
सजसाः सगौ च कथितः कलहंसः
॥ऽ,।ऽ।,॥ऽ,॥ऽ,ऽ
सजसा जगौ च भवति प्रबोधिता ॥ऽ,।ऽ।,॥ऽ,।ऽ।,ऽ
भबति मृगेन्द्रमुखं नजौ जरौ गः ॥।,।ऽ।,।ऽ।,ऽ।ऽ,ऽ
यमौ रौ विख्याता चञ्चरीकावली गः
।ऽऽ,ऽऽऽ,ऽ।ऽ,ऽ।ऽ,ऽ
नसरयुगगैश्चन्द्ररेखर्त्तुलोकैः ॥।,॥ऽ,ऽ।ऽ,ऽ।ऽ,ऽ
इदं कन्दुकं यत्र येभ्यश्चतुर्भ्यो गः ।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,ऽ
भवति मृगेन्द्रमुखं नजौ जरौ गः ॥।,।ऽ।,।ऽ।,ऽ।ऽ,ऽ
उपस्थितमिदं ज्सौ त्सौ यदि गुरुः स्यात्
।ऽ।,॥ऽ,ऽऽ।,॥ऽ,ऽ
जतौ सजौ गो भवति मञ्जुहासिनी
।ऽ।,ऽऽ।,॥ऽ।ऽ।,ऽ
इह नन्दिनी सजससैर्गुरुयुक्तैः ॥ऽ,।ऽ।,॥ऽ,॥ऽ,ऽ
छन्दसामुदाहरणानि ।
गोपीनामधरसुधारसस्य पानै-
रुत्तुङ्गस्तनकलसोपगूहनैश्च ।
आश्चर्य्यैरपि रतिविभ्रमैर्मुरारेः
संसारे मतिरभवत् प्रहर्षिणीह ॥
पुनातु वो हरिरतिरासविभ्रमी
परिभ्रमन् व्रजरुचिराङ्गनान्तरे ।
समीरणोल्लसितलतान्तरालगो
यथा मरुत्तरलतमालभूरुहः ॥
लीलानृत्यन्मत्तमयूरध्वनिकान्तं
नृत्यन्नीपामोदिपयोदानिलरम्यम् ।
कामक्रीडाकृष्टमना गोपबधूभिः
कंसध्वंसी निर्ज्जनवृन्दावनमाप ॥
जयति दितिजरिपुताण्डवलीला-
कुपितकवलकरकालियमौलौ ।
चरणकमलयुगचापलचण्डी
पदनखरुचिजितभोगमणिश्रीः ॥
अमृतोर्म्मिशीतलकरेण लालयं-
स्तनुकान्तिचोरितविलोचनो हरे ! ।
नियतं कलानिधिरसीति वल्लवी
मुदमच्युते व्यधित मञ्जुभाषिणी ॥
शरदमृतरुचश्चन्द्रिकाक्षालिते
दिनकरतनयातीरदेशे हरिः ।
विहरति रभसाद्वल्लवीभिः समं
त्रिदिवयुवतिभिः कोऽपि देवो यथा ॥
यमुनाविहारकुतुके कलहंसो
व्रजकामिनीकमलिनीकृतकेलिः ।
जनचित्तहारिकलकण्ठनिनादः
प्रमदं तनोतु तव नन्दतनूजः ॥
शयिता मृषा चटुलमाननिद्रया
रतिकेलिकुञ्जनिलये विलासिनी ।
मुरवैरिणा वदनचुम्बनादिना
स्मितमाततान सपदि प्रबोधिता ॥
गुरुभुजवीर्य्यभरं हरिं मदान्धा
युधि समुपेत्य न दानवा जिजीवुः ।
क्षुधितमृगेन्द्रमुखं मृगा उपेत्य
क्व नु खलु बिभ्रति जीवनस्य योगम् ॥
पृष्ठ २/४७२
छन्दसां वृत्तिनामानि ।
कुटजगतिः
प्रभावती ।
चतुर्द्दशाक्षरा वृत्तिः । शर्करीं ।
असम्बाधा
पञ्चभिर्नवभिश्च यतिः ।
वसन्ततिलकम्
अष्टाभिः षड्भिश्च यतिः । सिंहो-
द्धता क्वापि । सिंहोन्नता इति
मुनिकाश्यपः । उद्धर्षिणी इति
मुनिसैतवः ॥
अपराजिता
सप्तभिर्यतिः ।
प्रहरणकलिका
सप्तभिर्व्वर्णैर्यतिः ।
वासन्ती
लोला
अस्याः सप्तभिर्यतिः ।
नान्दीमुखी
अस्याः सप्तभिर्यतिः ।
इन्दुवदना
नदी
समभिर्यतिः ।
लक्ष्मीः
सुपवित्रम्
मध्यक्षामा
कुटिलम्
प्रमदा
छन्दसां लक्षणगणाः ।
कुटजगतिर्नजौ सप्तर्त्तु म्तौ गुरुः
॥।,।ऽ।,ऽऽऽ,ऽऽ।,ऽ
यस्यां प्रिये ! प्रथमकमक्षरद्वयं
तुर्य्यं तथा गुरु नवमं दशान्तिमम् ।
सान्त्यं भवेद्यतिरपि चेद्युगग्रहैः
सा लक्ष्यताममृतरुते ! प्रभावती ॥
मो गो गो नौ मः शरनवभिरसम्बाधा
ऽऽऽ,ऽ,ऽ,॥।,॥।,ऽऽऽ
ज्ञेयं वसन्ततिलकं तभजा जगौ गः
ऽऽ।,ऽ॥,।ऽ।,।ऽ।,ऽ,ऽ
ननरसलघुगैः स्वरैरपराजिता ॥।,॥।,ऽ।ऽ,॥ऽ,।,ऽ
ननभनलगिति प्रहरणकलिका ॥।,॥।,ऽ॥,॥।,।,ऽ
मात्तो नो मो गौ यदि गदिता वासन्तीयम्
ऽऽऽ,ऽऽ।,॥।,ऽऽऽ,ऽ,ऽ
द्बिःसप्तच्छिदि लोला म्सौ म्भौ गौ चरणे चेत्
ऽऽऽ,॥ऽ,ऽऽऽ,ऽ॥,ऽ,ऽ
स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ
॥।,॥।,ऽऽ।,ऽऽ।,ऽ,ऽ,
इन्दुवदना भजसनैः सगुरुयुग्मैः ऽ॥,।ऽ।,॥ऽ,॥।,ऽ,ऽ
ननतजगुरुगैः सप्तयतिर्नदी स्यात्
॥।,॥।,ऽऽ।,।ऽ।,ऽ,ऽ
लक्ष्मीरन्तविरामा म्सौ तभौ गुरुयुग्मम्
ऽऽऽ,॥ऽ,ऽऽ।,ऽ॥,ऽ,ऽ
त्रिननगगिति वसुयति सुपवित्रम्
॥।,॥।,॥।,॥।,ऽ,ऽ
मध्यक्षामा युगदशविरमा म्भौ न्यौ गौ
ऽऽऽ,ऽ॥,॥।,।ऽऽ,ऽ,ऽ
युगदिग्भिः कुटिलमिति सभौ न्यौ गौ चेत्
॥ऽ,ऽ॥,॥।,।ऽऽ,ऽ,ऽ
नजभजला गुरुश्च भवति प्रमदा
॥।,।ऽ।,ऽ॥,।ऽ।,।,ऽ
छन्दसामुदाहरणानि ।
वीर्य्याग्नौ येन ज्वलति रणरसात् क्षिप्ते
दैत्येन्द्रे जाता धरणिरियमसम्बाधा ।
धर्म्मस्थित्यर्थं प्रकटिततनुसम्बन्धः
साधूनां वाधां प्रशमयतु स कंसारिः ॥
फुल्लं वसन्ततिलकं तिलकं वनाल्या
लीलापरं पिककुलं कलमत्र रौति ।
वात्येष पुष्पसुरभिर्मलयाद्रिवातो
यातो हरिः स मथुरां विधिना हताः स्मः ॥
यदनवधिभुजप्रतापकृतास्पदा
यदुनिचयचमूः परैरपराजिता ।
व्यजयत समरे समस्तरिपुव्रजं
स जयति जगतां गतिर्गरुडध्वजः ॥
व्यथयति कुसुमप्रहरण ! कलिका
प्रमदवनभवा तव धनुषि तता ।
विरहविपदि मे शरणमिह ततो
मधुमथनगुणस्मरणमविरतम् ॥
भ्राम्यद्भृङ्गीनिर्भरमधुरालापोद्गीतैः
श्रीखण्डाद्रेरद्भुतपवनैर्मन्दान्दोला ।
लीलालोला पल्लवविलसद्धस्तोल्लासैः
कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥
मुग्धे यौवनलक्ष्मीर्विद्युद्विभ्रमलोला
त्रैलोक्याद्भतरूपो गोविन्दोऽतिदुरापः ।
तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथे
श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥
सरसखगकुलालापनान्दीमुखीयं
लहरिभुजलता चारुफेनस्मितश्रीः ।
मुरहरकलयासत्तिमासाद्य किन्ते
प्रमुदितहृदया भानुजा नृत्यतीह ॥
पृष्ठ २/४७३
छन्दसां वृत्तिनामानि ।
मञ्जरी
पञ्चमे नवमे च यतिः ।
कुमारी
अष्टमे नवमे च यतिः ।
सुकेसरम्
चन्द्रौरसः
चक्रपदम्
वासन्ती
पञ्चदशाक्षरा वृत्तिः । अतिशर्करी ।
शशिकला
स्रक्
अस्याः षड्भिर्नवभिश्च यतिः ।
मणिगुणनिकरः
अष्टभिः सप्तभिश्च यतिः ।
मालिनी
अष्टभिः सप्तभिश्च यतिः ।
लीलाखेलः
विपिनतिलकम्
तूणकम्
चन्द्रलेखा
सप्तमे अष्टमे च यतिः ।
चित्रा
छन्दसां लक्षणगणाः ।
सजसा यलौ गिति शरग्रहैर्मञ्जरी
॥ऽ,।ऽ।,॥ऽ,।ऽऽ,।,ऽ
नजभजगैर्गुरुश्च वसुषट् कुमारी
॥।,।ऽ।,ऽ॥,।ऽ।,ऽ,ऽ
नरनरैर्लगौ च रचितं सुकेसरम्
॥।,ऽ।ऽ,॥।,ऽ।ऽ,।,ऽ
म्भौ न्यौ ल्गौ चेदिह भवति च चन्द्रौरसः
ऽऽऽ,ऽ॥,॥।,।ऽऽ,।,ऽ
चक्रपदमिह भनननलगुरुभिः
ऽ॥,॥।,॥।,॥।,।,ऽ
वासन्तीयं स्यादिह खलु मतौ म्यौ गौ चेत्
ऽऽऽ,ऽऽ।,॥।,।ऽऽ,ऽ,ऽ
गुरुनिधनमनुलघुरिह शशिकला
॥॥॥॥॥॥॥,ऽ
स्रगियमपि च रसनव-रचितयतिः
॥॥॥,॥।,॥॥।,ऽ
वसुमुनियतिरिति मणिगुणनिकरः
॥॥॥।,।,॥॥॥,ऽ
ननमयययुतेयं मालिनी भोगिलोकैः
॥।,॥।,ऽऽऽ,।ऽऽ,।ऽऽ
एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः
ऽऽऽ,ऽऽऽ,ऽ,ऽ,ऽऽऽ,ऽऽऽ,ऽ
विपिनतिलकं नसनरेफयुग्मैर्भवेत्
॥।,॥ऽ,॥।,ऽ।ऽ,ऽ।ऽ
तूणकं समानिकापदद्वयं विनान्तिमम्
ऽ,।,ऽ।ऽ,।ऽ।,ऽ,।,ऽ।ऽ,।ऽ
म्रौ मो यौ चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा
ऽऽऽ,ऽ।ऽ,ऽऽऽ,।ऽऽ,।ऽऽ,
चित्रा नामच्छन्दश्चित्रञ्चेत् त्रयो मा यकारौ
ऽऽऽ,ऽऽऽ,ऽऽऽ,।ऽऽ,।ऽऽ
छन्दसामुदाहरणानि ।
मलयजतिलकसमुदितशशिकला
व्रजयुवतिलसदलिकगगनगता ।
सरसिजनयनहृदयसलिलनिधिं
व्यतनुत विततरभसपरितरलम् ॥
अयि सहचरि ! रुचिरतरगुणमयी
म्रदिमवसतिरनपगतपरिमला ।
स्रगिव निवस विलसदनुपमरसा
सुमुखि ! मुदितदनुजदलनहृदये ॥
नरकरिपुरवतु निखिलसुरगति-
रमितमहिमभरसहजनिवसतिः ।
अनवधिमणिगुणनिकरपरिचितः
सरिदधिपतिरिव धृततनुविभवः ॥
मृगमदकृतचर्च्चा पीतकौषेयवासा
रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा ।
अनृजुनिहितमंशे वंशमुत्क्वाणयन्ती
धृतमधुरिपुलीला मालिनी पातु राधा ॥
पायाद्वो गोविन्दः कालिन्दीकूलक्षौणीचक्रे
रासोल्लासक्रीडद्गोपीभिः सार्द्धं लीलाखेलः ।
मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो
यद्वद्देवानामीशः स्वर्व्वेश्याभिः खेलन्तीभिः ॥
विपिनतिलकं विकसितं वसन्तागमे
मधुकृतमदैर्मधुकरै रणद्भिर्वृतम् ।
मलयमरुता रचितलास्यमालोकयन्
व्रजयुवतिभिर्विहरति स्म मुग्धो हरिः ॥
सा सुवर्णकेतकं विकाशि भृङ्गपूरितं
पञ्चबाणबाणजालपूर्णहेमतूणकम् ।
राधिका वितर्क्य माधवाद्य मासि माधवे
मोहमेति निर्भरं त्वया विना कलानिधे ! ॥
विच्छेदे ते मुरारे ! पाण्डुप्रकाशा कृशाङ्गी
म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा ।
राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा
किञ्चार्त्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥
गोपाली लीलालोला यद्वत् कलिन्दात्मजान्ते
खेलन्मुक्ताहारा वन्यस्रग्लसन्मूर्द्धचित्रा ।
कंसारातेर्मूर्त्तिस्तद्बन्मे हृदि क्रीडतीयं
कोऽन्यः स्वर्गो मोक्षो वास्माद्बिद्यते तन्न जाने ॥
पृष्ठ २/४७४
छन्दसां वृत्तिनामानि ।
प्रभद्रकम्
एला
पञ्चभिर्दशभिश्च यतिः ।
कामक्रीडा
सुखेलकम्
चन्द्रकान्ता
सप्तभिरष्टाभिश्च यतिः ।
उपमालिनी
अष्टाभिः सप्तभिश्च यतिः ।
ऋषभः
मानसहंसः
नलिनी
निशिपालकम्
षोडशाक्षरा वृत्तिः । अष्टिः ।
चित्रम्
ऋषभगजविलसितम्
गजतुरगविलसितमिति शम्भौ ।
सप्तभिर्नवभिश्च यतिः ।
चकिता
अस्या अष्टमे यतिः ।
पञ्चचामरम्
मदनललिता
चतुर्थे षष्ठे च यतिः ।
वाणिनी
प्रवरललितम्
छन्दसां लक्षणगणाः ।
भवति नजौ भजौ रसहितौ प्रभद्रकम्
॥।,।ऽ।,ऽ॥,।ऽ।,ऽ।ऽ
सजना नयौ शरदशयतिरियमेला
॥ऽ,।ऽ।,॥।,॥।,।ऽऽ
माः पञ्च स्युयस्यां सा कामक्रीडासंज्ञा ज्ञेया
ऽऽऽ,ऽऽऽ,ऽऽऽ,ऽऽऽ,ऽऽऽ
नजभजरैर्विराजितमिदं सुखेलकम्
॥।,।ऽ।,ऽ॥,।ऽ।,ऽ।ऽ
चन्द्रकान्ताभिधा रौ म्सौ यो विरमः स्वराष्टौ
ऽ।ऽ,ऽ।ऽ,ऽऽऽ,॥ऽ,।ऽऽ
ननतभरकृताष्टस्वरैरुपमालिनी
॥।,॥।,ऽऽ।,ऽ॥,ऽ।ऽ
ऋषभाख्यमेतदुदितं सजसा सयौ चेत्
॥ऽ,।ऽ।,॥ऽ,॥ऽ,।ऽऽ
कथयन्ति मानसहंसनाम सजौ ज्भराः
॥ऽ,।ऽ।,।ऽ।,ऽ॥,ऽ।ऽ
सगणैः शिववक्त्रमितैर्गदिता नलिनी
॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,
शंस निशिपालकमिदं भजसनाश्च रः
ऽ॥,।ऽ।,॥ऽ,॥।,ऽ।ऽ
चित्रसंज्ञमीरितं समानिका पदद्बयन्तु
ऽ,।,ऽ।ऽ,।ऽ।,ऽ,।,ऽ।ऽ,।ऽ।
भ्रत्रिनगैः स्वराङ्कमृषभगजविलसितम्
ऽ॥,ऽ।ऽ,॥।,॥।,॥।,ऽ
भात् समतनगैरष्टच्छेदे स्यादिह चकिता
ऽ॥,॥ऽ,ऽऽऽ,ऽऽ।,॥।,ऽ
प्रमाणिका पदद्बयं वदन्ति पञ्चचामरम्
।ऽ।,ऽ।ऽ,।,ऽ,।ऽ।,ऽ।ऽ,।,ऽ
म्भौ नो म्नौ गो मदनललिता वेदैः षडृतुभिः
ऽऽऽ,ऽ॥,॥।,ऽऽऽ,॥।,ऽ
नजभजरैर्यदा भवति वाणिनी गयुक्तैः
॥।,।ऽ।,ऽ॥,।ऽ।,ऽ।ऽ,ऽ
यमौ नः स्रौ गश्च प्रवरललितं नाम वृत्तम्
।ऽऽ,ऽऽऽ,॥।,॥ऽ,ऽ।ऽ,ऽ
छन्दसामुदाहरणानि ।
विद्रुमारुणाधरोष्ठशोभिवेणुवाद्यहृष्ट-
वल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग ! ।
त्वां सदैव वासुदेव ! पुण्यलभ्यपादसेव !
वन्यपुष्पचित्रकेश ! संस्मरामि गोववेश ! ॥
यो हरिरुच्चखान खरतरनखरशरै-
र्दुर्ज्जयदैत्यसिंहसुविकटहृदयतटम् ।
किन्त्विह चित्रमेष यदखिलमपहृतवान्
कंसनिदेशदृप्यदृषभगजविलसितम् ॥
दुर्ज्जयदनुजश्रेणीदुश्चेष्टाशतचकिता
यद्भुजपरिघत्राता याता साध्वसविगमम् ।
दीव्यति दिवि यन्माला स्वेच्छं नन्दनविपिने
गच्छत शरणं कृष्णं तं भीता भवरिपुतः ॥
सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते
लसद्बितानभूषिते सलीलविभ्रमालसम् ।
सुराङ्गनाभवल्लवीकरप्रपञ्चचामर-
स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥
विभ्रष्टस्रग्गलितचिकुरा धौताधरपुटा
ग्लायत्पत्रावलिकुचतटोच्छ्वासोर्म्मितरला ।
राधात्यर्थं मदनललितान्दोलालसवपुः
कंसारातेरतिरसमहो चक्रेऽतिचटुलम् ॥
स्फुरतु ममाननेऽद्य ननु वाणि ! नीतिरम्यं
तव चरणप्रसादपरिपाकतः कवित्वम् ।
भवजलराशिपारकरणक्षमं मुकुन्दं
सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ॥
भुजोत्क्षेपः शून्ये चलबलयझङ्कारयुक्तो
मुधा पादन्यासः प्रकटिततुलाकोटिनादः ।
स्मितं वक्त्रेऽकस्माद्दृशि पटुकटाक्षोर्म्मिलीला
हरौ जीयादीदृक् प्रवरललितं वल्लवीनाम् ॥
पृष्ठ २/४७५
छन्दसां वृत्तिनामानि ।
अचलधृतिः
गरुडरुतम्
धीरललिता
अश्वगतिः
मणिकल्पलता
रूपम्
वरयुवतिः
सप्तदशाक्षरा वृत्तिः । अत्यष्टिः ।
शिखरिणी
षष्ठे एकादशे च यतिः ।
पृथ्वी
अष्टमे नवमे च यतिः ।
वंशपत्रपतितम्
वंशदलमिति शम्भौ वंशपत्रपतिता
इति केचित् । अस्य दशमे सप्तमे
च यतिः ।
मन्दाक्रान्ता
अस्याञ्चतुर्थे षष्ठे सप्तमे च यतिः ।
इयं दौत्यवर्णनोपयोगिनी शस्ता ।
हरिणी
षष्ठे चतुर्थे सप्तमे च यतिः ।
नर्द्दटकम्
कोकिलकम्
अस्य सप्तमे षष्ठे चतुर्थे च यतिः ।
छन्दसां लक्षणगणाः ।
द्विगुणितवसुलघुभिरचलधृतिरिह
॥॥॥॥,॥॥॥॥
गरुडरुतं नजौ भजतगा यदा स्युस्तदा
॥।,।ऽ।,ऽ॥,।ऽ।,ऽऽ।,ऽ
संकथिता भरौ नरनगाश्च धीरललिता
ऽ॥,ऽ।ऽ,॥।,ऽ।ऽ,॥।,ऽ
पञ्चभकारयुताऽश्वगतिर्यदि चान्त्यगुरुः
ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ
नजरभभेन गेन च स्यान्मणिकल्पलता
॥।,।ऽ।,ऽ।ऽ,ऽ॥,ऽ॥,ऽ
यस्मिन् सर्व्वे गा राजन्ते ब्रह्माद्यं तद्रूपं नाम
ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ,ऽ
भो रयना नगौ च यस्यां वरयुवतिरियम्
ऽ॥,ऽ।ऽ,।ऽऽ,॥।,॥।,ऽ
रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी
।ऽऽ,ऽऽऽ,॥।,॥ऽ,ऽ॥,।,ऽ
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः
।ऽ।,॥ऽ,।ऽ।,॥ऽ,।ऽऽ,।,ऽ
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः
ऽ॥,ऽ।ऽ,॥।,ऽ॥,॥।,।,ऽ
मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम्
ऽऽऽ,ऽ॥,॥।,ऽऽ।,ऽऽ।,ऽ,ऽ
नसमरसला गः षड्वेदैर्हयैर्हरिणी मता
॥।,॥ऽ,ऽऽऽ,ऽ।ऽ,॥ऽ,।,ऽ
यदि भवतो नजौ भजजला गुरु नर्द्दटकम्
॥।,।ऽ।,ऽ॥,।ऽ।,।ऽ।,।,ऽ
हयऋतुसागरैर्यतियुतं यदि कोकिलकम्
॥।,।ऽ।,ऽ॥,।ऽ।,।ऽ।,।,ऽ
छन्दसामुदाहरणानि ।
तरणिदुहितृतटरुचिरतरवसति-
रमरमुनिमुखजनविहितधृतिरिह ।
मधुरिपुरभिनवजलधररुचितनु-
रचलधृतिरुदयति सुकृतिहृदि खलु ॥
अमरमयूरमानसमुदे पयोदध्वनि-
र्गरुडरुतं सुरारिभुजगेन्द्रसन्त्रासने ।
धरणिभरावतारविधिडिण्डिमाडम्बरः
स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥
करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो-
र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ।
इति त्रस्यद्गोपानुचितनिभृतालापजनितं
स्मितं बिभ्रद्देवो जगदवतु गोवर्द्धनधरः ॥
दुरन्तदनुजेश्वरप्रकरदुःस्थपृथ्वीभरं
जहार निजलीलया यदुकुलेऽवतीर्य्याशु यः ।
स एष जगतीगतिर्दुरितभारमस्मादृशां
हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः ॥
नूतनवंशपत्रपतितं रजनिजललवं
पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ।
एष च तं चकोरनिकरः प्रपिबति मुदितो
वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥
प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनाद्यै-
र्मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला ।
एवं शिक्षावचनसुधया राधिकायाः सखीनां
प्रीतः पायात् स्मितसुवदनो देवकीनन्दनो नः ॥
व्यधित स विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणाद्-
व्रजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम् ।
यदयमनिशं दूर्व्वाश्यामे मुरारिकलेवरे
व्यकिरदधिकं बद्धाकाङ्क्षे विलोलविलोचनम् ॥
व्रजवनिता वसन्तलतिका विलसन्मधुपं
मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ।
विभुमभिनौति कोऽपि सुकृती मुदितेन हृदा
रुचिरपदावलीघटितनर्द्दटकेन कविः ॥
लसदरुणेक्षणं मधुरभाषणमोदकरं
मधुसमयागमे सरसकेलिभिरुल्लसितम् ।
अलिललितद्युतिं रविसुतावनकोकिलकं
ननु कलयामि तं सखि ! सदा हृदि नन्द्सुतम् ॥
पृष्ठ २/४७६
छन्दसां वृत्तिनामानि ।
हारिणी
अस्याश्चतुर्थे षष्ठे सप्तमे च यतिः ।
भाराक्रान्ता
चतुर्थे षष्ठे सप्तमे च यतिः ।
हरिः
कान्ता
चित्रलेखा
दशमे सप्तमे च यतिः ।
अतिशायिनी
पञ्चचामरम्
अष्टादशाक्षरा वृत्तिः । धृतिः ।
कुसुमितलतावेल्लिता
पञ्चमे षष्ठे सप्तमे च यतिः ।
नन्दनम्
एकादशे सप्तमे च यतिः । इद-
मेव वेदरेफैश्छिन्ना महामालिका
त्र्यधिकदशभिस्तारका दशवसु-
भिर्लसा इति कुत्रापि ।
नाराचम्
चित्रलेखा
चन्दलेखा इति क्वचित् ।
शार्दूलललितम्
द्वादशे चरणान्ते च यतिः ।
हरिणप्लुतम्
हरिणप्लुतेति कुत्रापि ।
अश्वगतिः
सुधा
चित्रलेस्वा
छन्दसां लक्षणगणाः ।
वेदर्त्वश्वैर्मभनमयला गश्चेत्तदा हारिणी
ऽऽऽ,ऽ॥,॥।,ऽऽऽ,।ऽऽ,।,ऽ
भाराक्रान्ता मभनरसला गुरुः श्रुतिषढयैः
ऽऽऽ,ऽ॥,॥।,ऽ।ऽ,॥ऽ,।,ऽ
रसयुगहययुङ् नौ म्रौ सो लगौ हि यदा हरिः
॥।,॥।,ऽऽऽ,ऽ।ऽ,॥ऽ,।,ऽ
भवेत् कान्ता युगरसहयैर्यभौ नरसा लगौ
।ऽऽ,ऽ॥,॥।,ऽ।ऽ,॥ऽ,।,ऽ
ससजा भजगा ग दिक्स्वरैर्भवति चित्रलेखा
॥ऽ,॥ऽ,।ऽ।,ऽ॥,।ऽ।,ऽ,ऽ
ससजैरतिशायिनी मता भजपरैर्गुरुभ्याम्
॥ऽ,॥ऽ,।ऽ।,ऽ॥,।ऽ।,ऽ,ऽ
अवेहि पञ्चचामरं जरौ जरौ जगौ लघुश्च
।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ,।
स्याद्भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ
ऽऽऽ,ऽऽ।,॥।,।ऽऽ,।ऽऽ,।ऽऽ
नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम्
॥।,।ऽ।,ऽ॥,।ऽ।,ऽ।ऽ,ऽ।ऽ
इह ननरचतुष्कसृष्टन्तु नाराचमाचक्षते
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
मन्दाक्रान्ता नपरलघुयुता कीर्त्तिता चित्रलेखा
ऽऽऽ,ऽ॥,॥।,।,ऽऽ।,ऽऽ।,ऽ,ऽ
मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम्
ऽऽऽ,॥ऽ,।ऽ।,॥ऽ,ऽऽ।,॥ऽ
मात् सो जौ भरसंयुतौ करिबाणखैर्हरिणप्लुतम्
ऽऽऽ,॥ऽ,।ऽ।,।ऽ।,ऽ॥,ऽ।ऽ
पञ्चभकारयुताश्वगतिर्यदि चान्त्यसरचिता
ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,॥ऽ
सुधा तर्कैस्तर्कैर्भवति ऋतुभिर्यो मो नसतसाः
।ऽऽ,ऽऽऽ,॥।,॥ऽ,ऽऽ।,॥ऽ
वर्णाश्वैर्मननततमकैः कीर्त्तिता चित्रलेखेयम्
ऽऽऽ,॥।,॥।,ऽऽ।,ऽऽ।,ऽऽऽ,
छन्दसामुदाहरणानि ।
यस्या नित्ये श्रुतिकुवलये श्रीशालिनी लोचने
रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् ।
गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छटा
सा कंसारेरजनि न कथं राधा मनोहारिणी ॥
भाराक्रान्ता मम तनुरियं गिरीन्द्रविधारणात्
कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ।
इत्यावृण्वन् जयति जलदस्वनाकुलवल्लवी-
संश्लेषोत्थं स्मरविलसितं विलोक्य गुरुं हरिः ॥
क्रीडत्कालिन्दीललितलहरीवारिभिर्दाक्षिणात्यै-
र्वातैः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् ।
भृङ्गालीगीतैः किसलयकरोल्लासितोल्लास्यलक्ष्मीं
तन्बाना चेतो रभसतरलं चक्रपाणेश्चकार ॥
तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं
मधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम् ।
मुरहरचित्रचेष्टितकलाकलापसंस्मारकं
क्षितितलनन्दनं व्रज सखे ! सुखाय वृन्दावनम् ॥
दिनकरतनयातटीकानने चारुसञ्चारिणी
श्रवणनिकटकृष्टमेणेक्षणा कृष्ण ! राधा त्वयि ।
ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं
तदिह मदनविभ्रमोद्भ्रान्तचित्तावधतस्व द्रुतम् ॥
शङ्केऽमुष्मिन् जगति मृगदृशां साररूपं यदासी-
दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ।
नैतादृक् चेत् कथमुदधिसुतामन्तरेणाच्युतस्य
प्रीतं तस्यां नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥
कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं
यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम् ॥
सन्तोषं परमन्तु देवनिवहे त्रैलोक्यशरणं
श्रेयो वः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥
पृष्ठ २/४७७
छन्दसां वृत्तिनामानि ।
भ्रमरपदकम्
शार्दूलम्
केसरम्
चलम्
लालसा
लता
सिंहविस्फूर्ज्जितम्
हरनर्त्तनम्
विबुधप्रिया इति च कुत्रापि ।
क्रीडचक्रम्
हीरकम्
ऊनविंशत्यक्षरा वृत्तिः । अतिधृतिः ।
मेघविस्फूर्ज्जिता
षष्ठे षष्ठे सप्तमे च यतिः ।
छाया
षष्ठे द्वादशे अन्ते च यतिः ।
शार्दूलविंक्रीडितम्
द्वादशे ऊनविंशतौ च यतिः ।
सुरसा
सप्तमे चतुर्द्दशे अन्ते च यतिः ।
फुल्लदाम
पञ्चमे द्वादशे अन्ते च यतिः ।
पुष्पदाम इति केचित् ।
पञ्चचामरः
विम्बम्
छन्दसां लक्षणगणाः ।
भाद्रनना नसौ भ्रमरपदकमिदमभिहितम्
ऽ॥,ऽ।ऽ,॥।,॥।,॥।,॥ऽ
शार्दूलं वद मासषट्कयति मः सो जसौ रो
मश्चेत्
ऽऽऽ,॥ऽ,।ऽ।,॥ऽ,ऽ।ऽ,ऽऽऽ
अर्थाश्वाश्वैर्मभनयरयुगैर्वृत्तं मतं केसरम्
ऽऽऽ,ऽ॥,॥।,।ऽऽ,ऽ।ऽ,ऽ।ऽ
म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः
ऽऽऽ,ऽ॥,॥।,।ऽ।,ऽ॥,ऽ।ऽ
सैका वसुविरतिस्तनौ रैश्चतुर्भिर्युता लालसा
ऽऽ।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
भवति नयुगलं रभौ रौ दशभिर्गजेन्द्रैर्लता
॥।,॥।,ऽ।ऽ,ऽ॥,ऽ।ऽ,ऽ।ऽ
तद्भूतर्त्वश्वैर्मौ भ्मौ विरतिश्चेत् सिंहवि-
स्फूर्ज्जितं यौ
ऽऽऽ,ऽऽऽ,ऽ॥,ऽऽऽ,।ऽऽ,।ऽऽ
र्सौ जजौ भरसंयुतौ करिबाणखैर्हरनर्त्तनम्
ऽ।ऽ,॥ऽ,।ऽ।,।ऽ।,ऽ॥,ऽ।ऽ
इदं क्रीडचक्रं सदीर्घं समस्तैर्यकारैः समेतम्
।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,
हीरकमुदितं भसनजनैरिह रगणोऽन्ततः
ऽ॥,॥ऽ,॥।,।ऽ।,॥।,ऽ।ऽ
रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुतौ मेघविस्फूर्ज्जिता
स्यात् ।
।ऽऽ,ऽऽऽ,॥।,॥ऽ,ऽ।ऽ,ऽ।ऽ,ऽ
भवेत् सैवच्छाया तयुगगयुता स्यात् द्वादशान्ते
यदा
।ऽऽ,ऽऽऽ,॥।,॥ऽ,ऽऽ।,ऽऽ।,ऽ
सूर्य्याश्वैर्यदि मः सजौ सततगाः शार्दूल-
विक्रीडितम्
ऽऽऽ,॥ऽ,।ऽ।,॥ऽ,ऽऽ।,ऽऽ।,ऽ
म्रौ भ्नौ यो नो गुरुश्चेत् स्वरमुनिकरणैराह
सुरसाम्
ऽऽऽ,ऽ।ऽ,ऽ॥,॥।,।ऽऽ,॥।,ऽ
मो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसि-
द्धम्
ऽऽऽ,ऽ,ऽ,॥।,॥।,ऽऽ।,ऽऽ।,ऽ,ऽ
नयुगलगलघू रजौर्लगा यदा स पञ्चचामर्ः
॥।,॥।,ऽ,।,ऽ।ऽ,।ऽ।,ऽ।ऽ,।,ऽ
वृत्तं विम्बाख्यं शरमुनितुरगैर्म्तौ न्सौ ततौ
चेद्गुरुः
ऽऽऽ,ऽऽ।,॥।,॥ऽ,ऽऽ।,ऽऽ।,ऽ
छन्दसामुदाहरणानि ।
कदम्बामोदाढ्या विपिनपवनाः केकिबः कान्तकेका
विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः ।
निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्ज्जिता चेत्
प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मात् किमन्यत् ॥
अभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः
स्फुरन्नानारत्नस्तवकिततनुश्चित्रांशुकालम्बितः ।
न यस्याङ्घ्रेश्छायामुपगतवतां संसारतीव्रातप-
स्तनोति प्रोत्तापं स जगदवतात् कंसारिकल्पद्रुमः ॥
गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! त्वं घोषयाहर्न्निशं
पाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् ।
एवञ्चेत् कुरुताखिलं मम हितं शीर्षादयस्तद् ध्रुवं
न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥
कामक्रीडासतृष्णो मधुसमयसमारम्भरभसात्
कालिन्दीकूलकुञ्जे विहरणकुतुकाकृष्टहृदयः ।
गोविन्दो वल्लवीनामधररससुधां प्राप्य सुरसां
शङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ ॥
शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं
हृष्यच्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम् ।
मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं
मौलौ दैत्यारेर्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥
पृष्ठ २/४७८
छन्दसां वृत्तिनामानि ।
मकरन्दिका
मणिमञ्जरी
समुद्रतता
विंशत्यक्षरा वृत्तिः । कृतिः ।
सुवदना
सप्तमे चतुर्द्दशे विंशतौ च यतिः ।
गीतिका
वृत्तम्
शोभा
षष्ठे त्रयोदशे अन्ते च यतिः ।
सुवंशा
मत्तेभविक्रीडितम्
त्रयोदशे यतिः ।
एकविंशत्यक्षरा वृत्तिः । प्रकृतिः ।
स्रग्धरा
सप्तमे चतुर्द्दशे एकविंशतौ च यतिः ।
सरसी
सिंहकमिति सलिलनिधिरिति च
क्वापि ।
द्वाविंशत्यक्षरा वृत्तिः । आकृतिः ।
हंसी
अष्टमे द्बाविंशतौ च यतिः ।
मदिरा
छन्दसां लक्षणगणाः ।
रसैः षड्भिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका
।ऽऽ,ऽऽऽ,॥।,॥ऽ,।ऽ।,।ऽ।,ऽ
इनाश्वैः स्यात् यभनयजजगाः कीर्त्तिता मणि-
मञ्जरी
।ऽऽ,ऽ॥,॥।,।ऽऽ,।ऽ।,।ऽ।,ऽ
गजाब्धितुरगैर्जसौ जसतभा गश्चेत् समुद्रतता
।ऽ।,॥ऽ,।ऽ।,॥ऽ,ऽऽ।,ऽ॥,ऽ
ज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना
ऽऽऽ,ऽ।ऽ,ऽ॥,॥।,।ऽऽ,ऽ॥,।,ऽ
सजजा भरौ सलगा यदा कथिता तदा खलु
गीतिका
॥ऽ,।ऽ।,।ऽ।,ऽ॥,ऽ।ऽ,॥ऽ,।,ऽ
वृचमीदृशन्तु नामतो रजौ रजौ रजौ गुरुर्लघुश्च
ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ,।
रसाश्वाश्वः शोभा नयुगगजठरा मेघविस्फू-
र्ज्जिता चेत्
।ऽऽ,ऽऽऽ,॥।,॥।,ऽ,ऽ।ऽ,ऽ।ऽ,ऽ
ख्याता पूर्ब्बैः सुवंशा यदि मरभना तद्बयं गो गुरुश्च
ऽऽऽ,ऽ।ऽ,ऽ॥,॥।,ऽऽ।,ऽऽ।,ऽ,ऽ

सभरा नगौ यलगास्त्रयोदशयतिर्मत्तेभविक्री-

डितम्
॥ऽ,ऽ॥,ऽ।ऽ,॥।,ऽऽऽ,।ऽऽ,।,ऽ
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा
कीर्त्तितेयम्
ऽऽऽ,ऽ।ऽ,ऽ॥,॥।,।ऽऽ,।ऽऽ,।ऽऽ
नजभजजा जरौ यदि तदा गदिता सरसी
कवीश्वरैः
॥।,।ऽ।,ऽ॥,।ऽ।,।ऽ।,।ऽ।,ऽ।ऽ
मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति
भवति हंसी
ऽऽऽ,ऽऽऽ,ऽ,ऽ,॥।,॥।,॥।,॥।,ऽ,ऽ
सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा
ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ
छन्दसामुदाहरणानि ।
प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयना
त्वां ध्यायन्ती निकुञ्जे परमतररुचं हर्षोत्थपुलका ।
आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका
कामार्त्तिं त्यक्तुकामा ननु नरकरिपो ! राधा मम सखी ॥
करतालचञ्चलकङ्कणस्वनमिश्रणेन मनोरमा
रमणीयवेणुनिनादरङ्गिमसङ्गमेन सुखावहा ।
बहुलानुरागनिवासरातसमुद्भवा भवरागिणं
विदधौ हरिं खलु वल्लवीजनचारु चामरगीतिका ॥
चित्रवृत्तलीलया निसर्गरम्यदेहरूपविभ्रमेण
राजमानसद्वयोविलाससम्पदा कलाकुतूहलेन ।
यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्य
विष्णुरुल्ललास चित्तपद्मकोषषट्पदः स मे सदास्तु ॥
सपीयूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां
तयोरूर्द्ध्वं राजत्तरलकिशलयाश्लिष्टसुस्निग्धशाखा ।
लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रविम्बाञ्चिताग्रा
महाशोभा मौलौ मिलदलिपटलैः कृष्ण ! सा कापि
वल्ली ॥
व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा
वर्हैरुच्चन्द्रकान्तैर्व्वलयितचिकुरा चारुकर्णावतंसा ।
अंसव्यासक्तवंशध्वनिसुखितजगद्वल्लवीभिर्लसन्ती
मूर्त्तिर्गोपस्य विष्णोरवतु जगति वः स्रग्धरा हारिहारा ॥
चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्म्मिषु
स्फुटवदनाम्बुजासु विलसद्भुजबालमृणालवल्लिषु ।
कुचयुगचक्रवाकमिथुनानुगता सुकलाकुतूहली
व्यरचयदच्युतो व्रजमृगीनयनासरसीषु विभ्रमम् ॥
सार्द्धं कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि पिबन्ती
कामक्रीडाकूतस्फीतप्रमदरसरभसमलघु रसन्ती ।
कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागे
कंसाराते ! पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ॥
माघवमासि विकस्वरकेशरपुष्पलसन्मदिरामुदितै-
र्भृङ्गकुलैरुपगीतवने वनमालिनमालि ! कलानिलयम्
कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं
त्वं भज माधविका मृदुनर्त्तकयामुनवातकृतोपगमा ॥
पृष्ठ २/४७९
छन्दसां वृत्तिनामानि ।
भद्रकम्
लालित्यम्
महास्रग्धरा
त्रयोविंशत्यक्षरा वृत्तिः । विकृतिः ।
अद्रितनया
अश्वललितमित्यन्घत्र ।
मत्ताक्रीडम्
अष्टमे त्रयोदशे त्रयोविंशतौ च
यतिः । मत्ताक्रीडा इति क्वचित् ॥
सुन्दरिका
चतुर्व्विंशत्यक्षरा वृत्तिः । संस्कृतिः ।
तन्वी
पञ्चमे द्वादशे चतुर्व्विंशतौ च यतिः ।
किरीटम्
दुर्म्मिलम्
पञ्चविंशत्यक्षरा वृत्तिः । अतिकृतिः ।
क्रौञ्चपदा
पञ्चमे दशमे अष्टादशे पञ्च-
विंशतौ च यतिः ।
षड्विंशत्यक्षरा वृत्तिः । उत्कृतिः ।
भुजङ्गविजृम्भतम्
अष्टमे ऊनविंशतौ षड्विंशतौ च
यतिः ।
अपवाहम्
छन्दसां लक्षणगणाः ।
भ्रौनरना रनावथगुरुर्दिगर्कविरमं हि भद्रकमिदम्
ऽ॥,ऽ।ऽ,॥।,ऽ।ऽ,॥।,ऽ।ऽ,॥।,ऽ
लालित्यं भुजगेन्द्रेण भाषितमेतच्चेन् मसरस्त-
जनगुभिः
ऽऽऽ,॥ऽ,ऽ।ऽ,॥ऽ,ऽऽ।,।ऽ।,॥।,ऽ
सजता नसौ ररौ गः फणितुरगहयैः स्यान्महा
स्रग्धराख्या
॥ऽ,।ऽ।,ऽऽ।,॥।,॥ऽ,ऽ।ऽ,ऽ।ऽ,ऽ
नजभजभा जभौ लघुगुरू बुधैस्तु गदितेय-
मद्रितनया
॥।,।ऽ।,ऽ॥,।ऽ।,ऽ॥,।ऽ।,ऽ॥,।,ऽ
मत्ताक्रीडं वस्विष्वाशायति मयुगगयुगमनुलघु-
गुरुभिः
ऽऽऽ,ऽऽऽ,ऽ,ऽ,॥॥॥॥॥॥॥,ऽ
इह सुन्दरिका पिङ्गलमुनिनोक्ता सद्वयतो
भसता ज्लभगाः
॥ऽ,॥ऽ,ऽ॥,॥ऽ,ऽऽ।,।ऽ।,।,ऽ॥,ऽ
भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि
भवति तन्वी
ऽ॥,ऽऽ।,॥।,॥ऽ,ऽ॥,ऽ॥,॥।,।ऽऽ
नाम किरीटमिदं भगणा यदि पिङ्गलनाग-
मुनीन्द्रमतं किल
ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥,ऽ॥
सगणैरिह वृत्तवरं वसुभिः किल दुर्म्मिलमुक्तमिदं
कविभिः
॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ
क्रौञ्चपदा स्यात् भो मसभाश्चेदिषुशरवसुमुनि-
यति मनुलघुगैः
ऽ॥,ऽऽऽ,॥ऽ,ऽ॥,॥॥॥॥॥॥।,ऽ
वस्वीशाश्वैश्छेदोपेतं ममतननयुग रसलगै-
र्भुजङ्गविजृम्भितम्
ऽऽऽ,ऽऽऽ,ऽऽ।,॥।,॥।,॥।,ऽ।ऽ,॥ऽ,।,ऽ
मो नाः षट् सगगिति यदि नवरसरसशर-
यतियुतमपवाहाख्यम्
ऽऽऽ,॥।,॥।,॥।,॥।,॥।,॥।,॥ऽ,ऽ,ऽ
छन्दसामुदाहरणानि ।
खरतरशौर्य्यपावकशिखापतङ्गनिभमग्नदृप्तदनुजो
जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ।
भुवनहितावतारचतुरश्चराचरघरोऽवतीर्ण इह हि
क्षितिवलयेऽस्ति कंसशमनस्तवेति तमवोचदद्रितनया ॥
मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसात्
गाने याने किञ्चित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् ।
रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयरचितभुजरसं
सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम् ॥
माधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः
कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यधिगततनुदाहा ।
पद्मपलाशैर्व्विरचितशयना देहजसंज्वरभरपरिदूनै
र्निःश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी ॥
क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलकलरुचिरा
फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरवरभसकरी ।
फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः
पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिम-
किरणजा ॥
हेलोदञ्चन्न्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालक-
श्चारुप्रेङ्खच्चूडावर्हः शुतितरलनवकिसलयस्तरङ्गित-
हारधृत् ।
त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुति-
रच्युतः
पायाद्वश्छिन्दन् कालिन्दीह्रदकृतनिजवसतिबृहद्भजङ्ग-
विजृम्भितम् ॥
पृष्ठ २/४८०
छन्दसां वृत्तिनामानि ।
अथ दण्डकाः ।
सप्तविंशत्यक्षरा वृत्तिः ।
चण्डवृष्टिप्रपातः
प्रचितकः
कुसुमस्तवकम्
मत्तमातङ्गलीलाकरः
अष्टविंशत्यक्षरा वृत्तिः ।
अशोकपुष्पमञ्जरी
अनङ्गशेखरः
छन्दसां लक्षणगणाः ।
यदिह नयुगलं ततः सप्तरेफास्तदा चण्ड-
वृष्टिप्रपातो भवेद्दण्डकः
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,
प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको
नद्वयादुत्तरैः सप्तभिर्यैः
॥।,॥।,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ
सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति
बुधाः कुसुमस्तवकम्
॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ,॥ऽ
यत्र रेफः परं स्वेच्छया गुम्फितः स स्मृतो दण्डको
मत्तमातङ्गलीलाकरः
ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
यत्र दृश्यते गुरोः परो लघुः क्रमात् स उच्यते
बुधैरशोकपुष्पमञ्जरीति
ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।
लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डको
भवत्यनङ्गशेखरः
।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ।ऽ
छन्दसामुदाहरणानि ।
प्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं
सपदि समवलोक्य सव्येन हस्तेन गोवर्द्धनं नाम शैलं
दधल्लीलया ।
कमलनयन ! रक्ष रक्षेति गर्ज्जत्त्रसन्मुग्धगोपाङ्गनालिङ्ग-
नानन्दितो
गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु
प्रमोदाय वः ॥
मुरहर ! यदुकुलाम्भोधिचन्द्र ! प्रभो ! देवकीगर्भरत्न !
त्रिलोकैकनाथ !
प्रचितकपटसुरारिव्रजोद्दामदन्ताबलस्तोमविद्रावणे
केशरीन्द्र ! ।
चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतो
निविष्टान्धकार !
प्रणतजनपरितापोग्रदावानलोच्छेदमेघ ! प्रसीद प्रसीद
प्रसीद ॥
विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशः
कुचकुट्टलगो
भ्रमरप्रकरेण यथावृतमूर्त्तिरशोकलताविलसत्कुसुमस्तवकः ॥
स नवीनतमालदलप्रतिमच्छविबिभ्रदतीवविलोचनहारिवपु-
श्चपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहृदम्बुज-
मध्यगतः ॥
हेमगौरं वसानोऽंशुकं शक्रनीलासिते वर्ष्मणि स्पष्टदिव्या-
नुलेपाङ्कितो
हारतारांशुवक्षोनभश्चित्रमालाञ्चितो भव्यभूषोज्वलाङ्गः
समं सीरिणा ।
अञ्जनाभास्वरेणेन्दुकुन्दाभ देहेन लीलापरिहास-
हासोर्म्मिकौतूहलैः
कंसरङ्गाद्रिपः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्ग-
लीलाकरः ॥
मूर्द्ध्नि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारु-
चन्द्रिका कचेषु
कर्णयोरशोकपुष्पमञ्जरीवतंसको गलेच कान्तकेशरो-
पकॢप्तदाम ।
फुल्लनागकेशरादिपुष्परेणुरूषणं तनौ विचित्रमित्युपात्त-
वेश एष
केशवः पुनातु वः सुपुष्पभूषितः स मूर्त्तिमानिवागतो
मधुर्विहर्त्तुमत्र ॥
उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके ! विजृम्भ-
माणगौरदीधिती
रतिस्वहस्तनिर्म्मितः कलाकुतूहलेन चारुचम्पकैरनङ्ग-
शेखरः किमु ।
इति प्रमोदकारिणीं प्रियाप्रमोदलक्षणां गिरं समुद्गिर-
न्मुरारिरद्भुतां
प्रदोषकालसङ्गमोल्लसन्मना मनोजकेलिकौतुकी करोतु वः
कृतार्थताम् ॥
पृष्ठ २/४८१
छन्दसां वृत्तिनामानि ।
त्रिंशदक्षरा वृत्तिः ।
अर्णः
सिंहविक्रीडः
त्रयस्त्रिंशदक्षरा वृत्तिः
अर्णवः
अशोकमञ्जरी
षट्त्रिंशदक्षरा वृत्तिः ।
व्यालः
ऊनचत्वारिंशदक्षरा वृत्तिः ।
जीमूतः
द्वाचत्वारिंशदक्षरा वृत्तिः ।
लीलाकरः
पञ्चचत्वारिंशदक्षरा वृत्तिः
उद्दामः
सिंहविक्रान्तः
अष्टचत्वारिंशदक्षरा वृत्तिः ।
शङ्खः
इत्यादयः ।
इति समवृत्तानि समाप्तानि ॥ * ॥
अथार्द्धसमवृत्तानि ।
उपचित्रम् ११ । ११ वृत्तिः ।
प्रथमपाद तृतायपादे च
द्वितीयपादे चतुर्थपादे च
वेगवती १० । ११ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्वितीयपादे चतुर्थपादे च
छन्दसां लक्षणगणाः ।
प्रतिचरणविवृद्धरेफाः स्युरर्णोऽर्णवव्यालजीमूत-
लीलाकरोद्दामशङ्खादयः
प्रतिचरणं चण्डवृष्टिप्रपातस्य इत्यर्थः ।
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
यकारैः कवीच्छानुरोधान्निबद्धैः प्रसिद्धो विशुद्धो-
ऽपरो दण्डकः सिंहविक्रीडनामा
।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
स्वेच्छया रजौ क्रमेण संनिवेशयत्युदारधीः कविः
स दण्डकः स्मृतो जयत्यशोकमञ्जरी
ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,
ऽ।ऽ
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,
ऽ।ऽ,ऽ।ऽ
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,
ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
नयुगलगुरुयुगेवं यकाराः कबीच्छानुरोधा-
त्तदा यत्र वक्ष्यन्त एषोऽपरो दण्डकः पण्डितै-
रीरितः सिंहविक्रान्तनामा
॥।,॥।,।,ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ,
।ऽऽ,।ऽऽ,।ऽऽ,।ऽऽ
॥।,॥।,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,
ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ,ऽ।ऽ
विषमे यदि सौ सलगा दले भौ युजि भाद्-
गुरुकावुपचित्रम् ।
द्विरावृत्त्या श्लोकः पूरयितव्यः
॥ऽ,॥ऽ,॥ऽ,।,ऽ
ऽ॥,ऽ॥,ऽ॥,ऽ,ऽ
विषमे प्रथमाक्षरहीनं दोधकमेव हि वेगवती
स्यात्
॥ऽ,॥ऽ,॥ऽ,ऽ
ऽ॥,ऽ॥,ऽ॥,ऽ,ऽ
छन्दसामुदाहरणानि ।
जय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासा-
च्युतानन्त नारायण
त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर
श्रीपते माधव ।
गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधा-
धोक्षज श्रीनिधे
वलिदमन नृसिंह शौरे । भवाम्भोधिघोरार्णसि त्वं निमज्जन्त-
मभ्युद्धरोपेत्य माम् ॥
अर्णोवदर्णवादीनामप्युदाहरणानि बोद्धव्यानि ॥
मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुकचन्दनलिप्तम् ।
गगनश्चपलामिलितं यथा शारदनीरघरैरुपचित्रम् ॥
स्मर वेगवती व्रजरामा केशववंशरवैरतिमुग्धा ।
रभसान्न गुरून् गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥
पृष्ठ २/४८२
छन्दसां वृत्तिनामानि ।
भद्रविराड् १० । ११ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्बितीयपादे चतुर्थपादे च
केतुमती १० । ११ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्बितीयपादे चतुर्थपादे च
विपरीतपूर्ब्बा ११ । ११ वृत्तिः ।
प्रथमपाद तृतीयपादे च
द्बितीयपादे चतुर्थपादे च
आख्यानकी ११ । १२ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्बितीयपादे चतुर्थपादे च
हरिणप्लुता ११ । १२ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्वितीयपादे चतुर्थपादे च
अपरवक्त्रम् ११ । १२ वृत्तिः ।
प्रथमे तृतीये च पादे
द्बितीये चतुर्थे च पादे
द्रुतमध्या ११ । १२ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्बितीयपादे चतुर्थपादे च
मालभारिणी ११ । १२ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्वितीयपादे चतुर्थपादे च
कौमुदी १२ । १२ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्वितीयपादे चतुर्थपादे च
पुष्पिताग्रा १२ । १३ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्वितीयपादे चतुर्थपादे च
जवमती १२ । १३ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्वितीयपादे चतुर्थपादे च
मञ्जुसौरभम् १२ । १३ वृत्तिः ।
प्रथमपादे तृतीयपादे च
द्बितीयपादे चतुर्थपादे च
छन्दसां लक्षणगणाः ।
ओजे तपरौ जरौ गुरुश्चेत् म्सौ ज्गौ ग् भद्र-
विराड् भवेदनोजे
ऽऽ।,।ऽ।,ऽ।ऽ,ऽ
ऽऽऽ,॥ऽ,।ऽ।,ऽ,ऽ
असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्
गः
॥ऽ,।ऽ।,॥ऽ,ऽ
ऽ॥,ऽ।ऽ,॥।,ऽ,ऽ
जतौ जगौ गो विषमे समे चेत् तौ ज्गौ ग एषा
विपरीतपूर्ब्बा
।ऽ।,ऽऽ।,।ऽ।,ऽ,ऽ
ऽऽ।,ऽऽ।,।ऽ।,ऽ,ऽ
आख्यानकी तौ जगुरू ग ओजे जतावनोजे
जगुरू गुरुश्चेत्
ऽऽ।,ऽऽ।,।ऽ।,ऽ,ऽ
।ऽ।,ऽऽ।,।ऽ।,ऽ,ऽ
अयुजि प्रथमेन विवर्ज्जितं द्रुतविलम्बितकं
हरिणप्लुता
॥,ऽ॥,ऽ॥,ऽ।ऽ
॥।,ऽ॥,ऽ॥,ऽ।ऽ
अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ
जरौ
॥।,॥।,ऽ।ऽ,।,ऽ
॥।,।ऽ।,।ऽ।,ऽ।ऽ
भत्रयमोजगतं गुरुणी चेद् युजि च नजौ
ज्ययुतौ द्रुतमध्या
ऽ॥,ऽ॥,ऽ॥,ऽ,ऽ
॥।,।ऽ।,।ऽ।,।ऽऽ
विषभे ससजा यदा गुरू चेत् सभरा येन तु
मालभारिणीयम्
॥ऽ,॥ऽ,।ऽ।,ऽ,ऽ
॥ऽ,ऽ॥,ऽ।ऽ,।ऽऽ
अयुजि ननभभा समकेऽपि तु नयुगरयुगलं तदा
कौमुदी
॥।,॥।,ऽ॥,ऽ॥
॥।,॥।,ऽ।ऽ,ऽ।ऽ
अयुजि नयुगरेफतो यकारो युजि च नजौ
जरगाश्च पुष्पिताग्रा
॥।,॥।,ऽ।ऽ,।ऽऽ
॥।,।ऽ।,।ऽ।,ऽ।ऽ,ऽ
स्यादयुग्मके रजौ रयौ समे चेत् जरौ जरौ
गुरुर्ज्जवात् परा मतीयम्
ऽ।ऽ,।ऽ।,ऽ।ऽ,।ऽऽ
।ऽ।,ऽ।ऽ,।ऽ।,ऽ।ऽ,ऽ
यदि विषमे भवतो नजौ जरौ सजयाः समे तु
जगौ मञ्जसौरभम्
॥।,।ऽ।,।ऽ।,ऽ।ऽ
॥ऽ,।ऽ।,।ऽऽ,।ऽ।,ऽ
छन्दसामुदाहरणानि ।
स्फुटफेनचया हरिणप्लुता वलिमनोज्ञतटा तरणेः सुता ।
कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्म्मनः ॥
स्फुटसुमधुरवेणुगीतिभिस्तमपरवक्त्रमवेत्य माधवम् ।
मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमाः ॥
करकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः ।
स्मितरुचिरविलासपुष्पिताग्रा व्रजयुवतिव्रतती हरेर्मुदेऽभूत् ॥
पृष्ठ २/४८३
छन्दसां वृत्तिनामानि ।
सुन्दरी १० । ११ वृत्तिः ।
प्रथमे तृतीये पादे च
द्बितीये चतुर्थे पादे च
इत्यर्द्धसमवृत्तानि समाप्तानि ॥ * ॥
अथ विषमवृत्तानि ।
उद्गता
प्रथमे पादे १०
द्वितीये १०
तृतीये १०
चतुर्थे १३
अन्यविधोद्गता
प्रथमे पादे १०
द्वितीये १०
तृतीये ११
चतुर्थे १३
सौरभम्
प्रथमे पादे १०
द्वितीये १०
तृतीये १०
चतुर्थे १३
ललितम्
प्रथमे पादे १०
द्वितीये १०
तृतीये १२
चतुर्थे १३
वक्त्वम्
प्रथमे पादे ८
द्वितीये ८
तृतीये ८
चतुर्थे ८
पथ्यावक्त्रम्
प्रथमे पादे ८
द्वितीये ८
तृतीये ८
चतुर्थे ८
छन्दसां लक्षणगणाः ।
अयुजोर्यदि सौ जगौ युजोः सभराः ल्गौ यदि
सुन्दरी तदा
॥ऽ,॥ऽ,।ऽ।,ऽ
॥ऽ,ऽ॥,ऽ।ऽ,।,ऽ
प्रथमे सजौ यदि सलौ च नसजगुरुकाण्य-
नन्तरम् ।
यद्यथ भनभगाः स्युरथो सजसा जगौ च भव-
तीयमुद्गता ॥
॥ऽ,।ऽ।,॥ऽ,।
॥।,॥ऽ,।ऽ।,ऽ
ऽ॥,॥।,ऽ॥,ऽ
॥ऽ,।ऽ।,॥ऽ,।ऽ।,ऽ
प्रथमे सजौ यदि सलौ च नसजगुरुकाण्य-
नन्तरम् ।
यद्यथ भनजलगाः स्युरथो सजसा जगौ च
भवतीयमुद्गता ॥
॥ऽ,।ऽ।,॥ऽ,।
॥।,॥ऽ,।ऽ।,ऽ
ऽ॥,॥।,।ऽ।,।,ऽ
॥ऽ,।ऽ।,॥ऽ,।ऽ।,ऽ
त्रयमुद्गता सदृशमेव पदमिह तृतीयमन्यथा ।
जायते रनभगैर्ग्रथितं कथयन्ति सौरभक-
मेतदीदृशम् ॥
॥ऽ,।ऽ।,॥ऽ,।
॥।,॥ऽ,।ऽ।,ऽ
ऽ।ऽ,॥।,ऽ॥,ऽ
॥ऽ,।ऽ।,॥ऽ,।ऽ।,ऽ
नयुगं सकारयुगलञ्च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य सकलं
यथोद्गता ।
॥ऽ,।ऽ।,॥ऽ,।
॥।,॥ऽ,।ऽ।,ऽ
॥।,॥।,॥ऽ,॥ऽ
॥ऽ,।ऽ।,॥ऽ,।ऽ।,ऽ
वक्त्रं युग्भ्यां मगौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ।
ऽऽऽऽ।ऽऽऽ
ऽऽऽऽ।ऽऽऽ
ऽ।ऽऽ।ऽऽऽ
ऽऽऽऽ।ऽऽऽ
युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्त्तितम् ।
ऽ।ऽ॥ऽऽ।
ऽऽ॥।ऽ।ऽ
ऽऽऽ॥ऽऽऽ
ऽऽऽ॥ऽ।ऽ
छन्दसामुदाहरणानि ।
यदवोचदवेक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा ।
अपि कंसहरस्य दुर्व्वचं वचनन्तद्बिदधीत विस्मयम् ॥
विललास गोपरमणीषु तरणितनयाप्रभोद्गता ।
कृष्णनयनचकोरयुगे दधती सुधांशुकिरणोर्म्मिविभ्रमम् ॥
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥
इति भारवावुद्गताभेदः । १२ । १ ॥
परिभूतफुल्लशतपत्रवनविसृतगन्धविभ्रमा ।
कस्य हृन्न हरतीह हरे मुखपद्मसौरभकला तवाद्भुता ॥
व्रजसुन्दरी समुदयेन मुदितमनसा स्म पीयते ।
हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्र-
विच्युतम् ॥
वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् ।
वल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ॥
रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे ।
आसीद्गोपमृगाक्षीणां पथ्या वक्त्रमधुस्रुतिः ॥
पृष्ठ २/४८४
छन्दसां वृत्तिनामानि ।
अनुष्टुप
प्रथमे चरणे ८
द्बितीये ८
तृतीये ८
चतुर्थे ८
इति वृषमवृत्तानि समाप्तानि ॥ * ॥
अथ मात्रावृत्तानि ।
आर्य्या अर्थात् गाथा
प्रथमे पादे १२
द्वितीये १८
तृतीये १२
चतुर्थे १५
प्रकारान्तरो यथा
प्रथमे पादे १२
द्वितीये १८
तृतीये १२
चतुर्थे १५
नवधा आर्य्या क्रमेण यथा ।
पथ्या
प्रथमे पादे १२
द्वितीये १८
तृतीये १२
चतुर्थे १५
विपुला
प्रथमे पादे १८
द्बितीये १२
तृतीये १४
चतुर्थे १३
चपला
प्रथमे पादे १२
द्वितीये १८
तृतीये १२
चतुर्थे १५
मुखचपला
प्रथमे पादे १२
द्वितीये १८
तृतीये १२
चतुर्थे
छन्दसां लक्षणगणाः ।
पञ्चमं लघु सर्व्वत्र सप्तमं द्बिचतुर्थयोः ।
गुरु षष्ठञ्च पादानां शेषेष्वनियमो मतः ॥
प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्त्रलक्षणम् ।
लोकेऽनुष्टुबिति ख्यातं तस्याष्ठाक्षरता मता ॥
ऽ।ऽ॥ऽऽ।
ऽ।ऽ॥ऽ।ऽ
॥ऽऽ।ऽऽऽ
ऽऽ॥।ऽ।ऽ
लक्ष्मैतत् सप्तगणा गोपेता भवति नेह विषमे जः ।
षष्ठो जश्च नलघु वा प्रथमार्द्धे नियतमार्य्यायाः ॥
षष्ठे द्बितीयलात् परके न्ले मुखलाच्च सयतिपद-
नियमः ।
चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः ॥
ऽऽ।ऽ।ऽऽ
ऽ॥॥ऽ।ऽ।ऽ॥ऽ
॥॥।ऽ।ऽ॥
।ऽ।ऽऽ।ऽऽऽ
ऽऽ।ऽ।ऽऽ
ऽऽ॥ऽ॥॥॥ऽऽ
ऽ॥ऽ॥ऽऽ
ऽऽ॥॥।ऽऽऽ
प्रथमगणत्रयविरतिर्दलयोरुभयीः प्रकीर्त्तिता पथ्या ।
॥॥ऽ॥ऽऽ
ऽ॥ऽऽ।ऽ।ऽऽऽ
॥॥ऽ॥॥ऽ
ऽऽ॥ऽ।ऽऽऽ
संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।
यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥
ऽऽ॥ऽऽऽ॥ऽऽ
ऽ॥॥ऽऽऽ
ऽ॥।ऽ।ऽऽऽ
ऽऽऽ।ऽ॥ऽ
दलयोर्द्वितीयतुर्य्यौ गणौ जकारौ तु यत्र
चपला सा ।
॥ऽ।ऽ।ऽऽ
।ऽ।ऽऽ।ऽ।ऽऽऽ
ऽऽ।ऽ।ऽऽ
।ऽ।ऽऽ।ऽऽऽ
आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ।
शेषः पूर्ब्बजलक्ष्मा मुखचपला सोदिता मुनिना ॥
ऽ॥॥ऽ।ऽऽ
।ऽ।ऽऽ।ऽ।ऽऽऽ
ऽ॥॥ऽऽऽ
ऽ॥ऽऽ॥॥।ऽ
छन्दसामुदाहरणानि ।
पञ्चमं लघु सर्व्वत्र सप्तमं द्बिचतुर्थयोः ।
गुरु षष्ठश्च पादानां शेषेष्वनियमो मतः ॥
कृष्णः शिशुः सुतो मे वल्लवकुलटाभिराहृतो न गृहे ।
क्षणमपि वसत्यसाविति जगाद गोष्ठ्यां यशोदार्य्या ॥
वृन्दावने सलीलं वल्गुद्रुमकाण्डनिहिततनुवष्टिः ।
स्मेरमुखार्पितवेणुः कृष्णो यदि मनसि कः स्वर्गः ॥
जय जय नाथ ! मुरारे ! केशव ! कंसान्तकाच्युतानन्त ! ।
कुरु करुणामिति विनतिः पथ्या भवरोगदुःस्थानाम् ॥
अत्र द्वितीयपादान्तलघोर्गुरुत्वम् ।
पूर्ब्बपरार्द्धयोर्द्बादशमात्रायां यतिः ॥
पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पापि ।
वीर्य्यविपुला मुखे चेत् स्याद्गोविन्दाख्यमन्त्रकला ॥
अत्र द्वितीयचरणान्तलघोर्गुरुत्वम् ।
पूर्ब्बपरार्द्धयोर्द्बादशमात्रां संलङ्घ्य यतिः ॥
चपला न चेत् कदाचिन्नृणां भवेद्भक्तिभावना कृष्णे ।
धर्म्मार्थकाममोक्षास्तदा करस्था न सन्देहः ॥
नन्दसुत ! वञ्चकस्त्वं दृढं न ते प्रेम गच्छ तत्रैव ।
यत्र भवति ते रागः कापि जगादेति मुखचपला ॥
अत्र द्वितीयपदान्तलघोर्गुरुत्वम् ॥
पृष्ठ २/४८५
छन्दसां वृत्तिनामानि ।
जघनचपला
प्रथमे चरणे १२
द्वितीये १८
तृतीये १२
चतुर्थे १५
गीतिः
प्रथमे चरणे १२
द्वितीये १८
तृतीये १२
चतुर्थे १८
उपगीतिः
प्रथमे चरणे १२
द्वितीये १५
तृतीये १२
चतुर्थे १५
उद्गीतिः
प्रथमे चरणे १२
द्वितीये १५
तृतीये १२
चतुर्थे १८
आर्य्यागीतिः
प्रथमे चरणे १२
द्वितीये २०
तृतीये १२
चतुर्थे २०
पूर्ब्बार्द्धे विंशत्याश्चतुर्विंशत्या वा
मात्राणां परार्द्धे षोडशमात्राणां
परे लघुवर्णचतुष्टये सति प्रथमं
द्वितीयं वा लघ्वक्षरं प्राप्य
आर्य्यायाः सामान्येन यतिनियमः ॥
वैतालीयम् । अपरवक्त्रमित्येके ।
प्रथमे चरणे १४
द्वितीये १६
तृतीये १४
चतुर्थे १६
औपच्छन्दसकम्
प्रथमे चरणे १६
द्वितीये १८
तृतीये १६
चतुर्थे १८
एतद्वैतालीयभेदः ॥
छन्दसां लक्षणगणाः ।
प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे च चप-
लायाः ।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥
ऽऽऽऽ॥ऽ
ऽ॥॥ऽ।ऽ॥।ऽऽ
ऽऽ।ऽ।ऽऽ
।ऽ।ऽ॥॥।ऽऽ
आर्य्याप्रथमार्द्धसमं यस्या अपरार्द्धमाह तां
गीतिम् ।
ऽ॥ऽऽऽऽ
ऽ॥ऽ॥।ऽ।ऽ॥ऽ
ऽऽऽऽऽऽ
।ऽ।ऽऽ।ऽ।ऽऽऽ
आर्य्यापरार्द्धतुल्ये दलद्बये प्राहुरुपगीतिम् ।
॥ऽ।ऽ।ऽऽ
ऽऽऽऽ।ऽऽऽ
ऽऽ॥॥ऽऽ
ऽ॥ऽऽ।ऽऽऽ
आर्य्याशकलद्बितये विपरीते पुनरिहोद्गीतिः ।
ऽऽ।ऽ।ऽ॥
ऽऽऽऽ।ऽऽऽ
ऽऽऽऽऽऽ
ऽ॥ऽऽ।ऽ।ऽ॥ऽ
आर्य्याप्राग्दलमन्तेऽघिकगुरु तादृगपरार्द्ध-
मार्य्यागीतिः ।
ऽऽऽ॥॥ऽ
।ऽ।ऽऽ।ऽ।ऽ॥ऽऽ
ऽऽऽऽऽऽ
ऽऽऽऽ।ऽ॥।ऽऽऽ
षड्विषमेऽष्टौ समे कलास्ताश्च समेस्युर्नो निर-
न्तरा ।
न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ
गुरुः ॥
॥ऽ॥ऽ।ऽ।ऽ
॥ऽऽ॥ऽ।ऽ।ऽ
॥ऽ॥ऽ।ऽ।ऽ
ऽऽऽऽऽ।ऽ।ऽ
तत्रैवान्तेऽधिके गुरौ स्यादौपच्छन्दसकं कवीन्द्र-
हृद्यम् ।
ऽऽऽऽ।ऽ।ऽऽ
ऽऽऽ॥ऽ।ऽ।ऽऽ
ऽऽऽऽ।ऽ।ऽऽ
ऽऽऽ॥ऽ।ऽ।ऽऽ
छन्दसामुदाहरणानि ।
कृष्णः शृङ्गारपटुर्यौवनमदचञ्चलः सुललिताङ्गः ।
आसीद्व्रजाङ्गनानां मनोहरो जघनचपलानाम् ॥
केशववंशीगीतिर्लोकमनोहरिणहारिणी जयति ।
गोपीमानग्रन्थेर्व्विमोचनी दिव्यगायनाश्चर्य्या ॥
अत्र द्बितीयचरणान्तलघोर्गुरुत्वम् ॥
नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् ।
अस्मारयदुपगीतिः स्वर्गकुरङ्गीदृशां गीतिम् ॥
नारायणस्य सन्ततमुद्गीतिः संस्मृतिर्भक्त्या ।
अर्च्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ॥
हर्षाश्रुस्तिमितदृशः प्रमोदरोमाञ्चकञ्चुकाञ्चितदेहाः ।
आर्य्यागीतिं भक्त्या गायन्ति श्रीपतेश्चरितसम्बद्धाम् ॥
लघुगुरुविपर्य्ययरूपप्रस्तारभेदेन बहुविधा आर्य्या भवन्ति ॥
घुसृणेन मदेन चर्च्चितं तव यन्निन्दति राधिके कुचम् ।
मुदमातनुतेऽत्र पक्त्रिमं तद्बैतालीयं फलं हरेः ॥
लघुगुरुव्यत्थयेनापि बहुधा भवति ॥
आतन्वानं सुरारिकान्तास्वौपच्छन्दसकं हृदा विनोदम् ।
कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम् ॥
पृष्ठ २/४८६
छन्दसां वृत्तिनामानि ।
पज्झटिका
प्रथमे चरणे १६
द्वितीये १६
तृतीये १६
चतुर्थे १६
दोहडिका
प्रथमे चरणे १३
द्वितीये १३
तृतीये ११
चतुर्थे ११
अस्या अन्त्या मात्रा लघ्वी अप-
भ्रंशभाषया प्रचारः ॥
इति मात्रावृत्तानि समाप्तानि ॥ * ॥
छन्दसां लक्षणगणाः ।
प्रतिपदयमकितषोडशमात्रा नवमगुरुत्वविभू-
षितगात्रा ।
पज्झटिकापुनरत्र विवेकः क्वापि न मध्य-
गुरुर्गण एकः ॥
॥॥ऽऽऽऽऽऽ
॥॥ऽ॥ऽ॥ऽऽ
ऽ॥॥॥ऽ॥ऽऽ
ऽ॥॥॥ऽ॥ऽऽ
मात्रा त्रयोदशकं यदि पूर्ब्बं लघुकविरामि ।
पश्चादेकादशकन्तु दोहडिका द्विगुणेन ॥
ऽऽऽ॥॥॥।
ऽ।ऽऽ।ऽऽ।
ऽऽ॥॥ऽ।
॥ऽ॥॥ऽ।
छन्दसामुदाहरणानि ।
तरलवतंसाश्लिष्टस्कन्धश्चलतरपज्झटिकाकटिबन्धः ।
मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त्त मुकुन्दः ॥
इयं प्रतिपदयमकितषोडशमात्रा लघुगुरुव्यत्ययेनापि बहुधा ।
अस्या नवमी मात्रा च कदाचित् लघ्वी भवति ॥
माई दोहडिपठण शुणि हासिओ काणु गोआल ।
वृन्दावणघणकुञ्ज चलिओ कमलरसाल ॥
अस्यार्थः । हे मातः ! दोहडिकापाठं श्रुत्वा कृष्णो
गोपालो हसित्वा कमपि रसालं चलितः कुत्र वृन्दावनघन-
कुञ्जे वृन्दावनस्य निविडनिकुञ्जे । राई इति क्वचित् पाठः
तन्मतेन राधिकाया दोहडिकापाठं श्रुत्वा ॥
गुरुलघुव्यत्ययेन बहुधा भवति ॥
अत्र समवृत्तानि (२४७) सप्तचत्वारिंशदधिकं द्विशतं, अर्द्धसमवृत्तानि (१५) पञ्चदश, विषमवृत्तानि (७) सप्त, मात्रावृत्तानि च (१५) पञ्चदश,
समुदायेन (२८४) चतुरशीत्यधिकद्विशतसंख्यकानि छन्दांसि लिखितानीति ॥ * ॥
पृष्ठ २/४८६

छन्दकपातनः, पुं, (छन्दकेन छद्मना पातयति

लोकानिति । पत् + णिच् + ल्युः ।) छद्म-
तापसः । इति जटाधरः ॥

छन्दोगः, पुं, (छन्दो वेदविशेषं सामेत्यर्थः गाय-

तीति । गै + “गोपोष्टक् ।” ३ । २ । ८ । इति टक् ।)
सामगः । सामवेदी । इति जटाधरः ॥ (यथा,
मनुः । ३ । १४५ ।
“यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम् ॥”)

छन्दोगपरिशिष्टं, क्ली, (छन्दोगेन सामगेन कात्या-

यनेन मुनिनेत्यर्थः । प्रणीतं यत् परिशिष्टम् ।
यद्वा, छन्दोगेभ्यः कृतं परिशिष्टम् ।) कात्यायन-
मुनिकृतं सामवेदिकर्म्मबोधकगोभिलसूत्राणां
परिशेषशास्त्रम् । इति स्मृतिः ॥

छन्दोविचितिः, स्त्री, (छन्दसां विचितिर्यत्र ।)

श्रुतिच्छन्दसां प्रत्यायकं शास्त्रम् । इत्यमर-
टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् ।
१०४ । ६४ ।
“विपुलामपि बुद्ध्वा छन्दोविचितिं भवति क्रार्य्य-
मेतावत् ।
श्रुतिसुखदवृत्तसंग्रहमिममाह वराहमिहिरो-
ऽतः ॥”)

छन्नं, क्ली, (छद् + क्तः ।) रहः । निर्जनस्थानम् ।

इति मेदिनी । ने, ५ ॥

छन्नः, त्रि, (छद् + क्तः ।) छादितः । इति

मेदिनी । ने, ५ ॥ (व्याप्तः । यथा, महाभारते ।
३ । २० । २४ ।
“न हया न रथो वीर ! न यन्ता मम दारुकः ।
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥”)
रहः । इत्यमरः । २ । ८ । २२ ॥

छप, इ क सर्पे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, छम्पयति । सर्पो गतिः ।
इति दुर्गादासः ॥

छम, उ भक्षे । इति कविकल्पद्रुमः । (भ्वां-परं

सकं-सेट् । उदित्वात् क्त्रावेट् ।) छमति । उ,
छमित्वा छान्त्वा । इति दुर्गादासः ॥

छमण्डः, पुं, (छमति भक्षयति जन्मग्रहणान्तरं पितरं

नाशयतीत्यर्थः । छम + बाहुलकादण्डन् ।) मृत-
पितृकः । इत्युणादिकोषः ॥ छेमडा इति भाषा ॥
बन्धुहीनः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

छर्द्द, क वमने । इति कविकल्पद्रुमः । (चुरां-परं-

सकं-सेट् ।) वमनं वान्तिः । क, छर्दयति अन्नं
लोकः । इति दुर्गादासः ॥ (तथाच, महा-
भारते । ५ । ९६ । ४२ ।
“स्वपन्ति च प्लवन्ति च छर्द्दयन्ति च मानवाः ॥”)

छर्द्दं, क्ली, (छर्द्द + भावे घञ् ।) वमनम् । इति

हेमचन्द्रः । ३ । १३३ ॥

छर्द्दनं, क्ली, (छर्द्द + भावे ल्युट् ।) वमनम् । इति

हेमचन्द्रः ॥ (यथा, शुश्रुते । ४ । १० ।
“तत्राशु मदनालायुविम्बीकोशातकीफलैः ।
छर्द्दनं दध्युदश्विभ्यामथवा तण्डुलाम्बुना ॥”)

छर्दनः, पुं, (छर्द्दयति नरपश्वादिकं ग्रसित्वा पुन-

रुद्गिरतीति । छर्द्द + ल्युः ।) अलम्बुषराक्षसः ।
(छर्द्दयति कटुगन्धेन उद्गिरत्यनेनेति । छर्द +
ल्युट् ।) निम्बवृक्षः । इति हेमचन्द्रः ॥ मदन-
वृक्षः । इति भावप्रकाशः ॥

छर्द्दापनिका, स्त्री, (छर्द्दं वमनं आपयति प्राप-

यतीत्यर्थः । आप् + णिच् + ल्युः । ततः स्वार्थे
कः । टापि अत इत्वञ्च ।) कर्क्कटी । इति
राजनिर्घण्टः ॥

छर्द्दिः, स्त्री, (छर्द्दयत्यनेनेति । छर्द्द वमने +

इन् ।) वमिरोगः । वाँति इति भाषा ॥ तत्-
पर्य्यायः । प्रच्छर्द्दिका २ छर्द्दम् ३ वमथुः ४
वमनम् ५ वमिः ६ । इति हेमचन्द्रः । ३ । ३३ ॥
छर्द्दिका ७ छर्द्दीका ८ वान्तिः ९ उद्गारः १० ।
इति राजनिर्घण्टः ॥ उत्कासिका ११ छर्द्द-
नम् १२ । इति शब्दरत्नावली ॥ तस्या निदा-
नादि यथा, --
“दुष्टैर्दोषैः पृथक्सर्व्वैर्वीभत्सालोकनादिभिः ।
छर्द्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति ।
अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः ।
श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः ।
नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः ॥
वीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ।
छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः ॥
निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः ॥”
तस्याः पूर्ब्बरूपं यथा, --
“हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः ।
भृशं द्वेषोऽन्नपाने च वमीनां पूर्ब्बलक्षणम् ॥”
वातजायास्तस्या रूपं यथा, --
“हृत्पार्श्वपीडामुखशोषशीर्ष-
नाभ्यर्त्तिकासस्वरभेदतोदैः ।
उद्गारशब्दप्रबलं सफेनं
विच्छिन्नकृष्णं तनुकं कषायम् ॥
कृच्छ्रेण चाल्पं महता च वेगे-
नार्त्तोऽनिलाच्छर्द्दयतीह दुःखम् ॥”
तस्याः पित्तजाया रूपं यथा, --
“मूर्च्छा पिपासा मुखशोषमूर्द्ध-
ताल्वक्षिसन्तापतमोभ्रमार्त्तः ।
पृष्ठ २/४८७
पीतं भृशोष्णं हरितं सतिक्तं
धूम्रञ्च पित्तेन वमेत् सदाहम् ॥”
तस्याः श्लेष्मजाया रूपं यथा, --
“तन्द्रास्यमाधुर्य्यकफप्रसेक-
सन्तोषनिद्रारुचिगौरवार्त्तः ।
स्निग्धं घनं स्वादु कफाद्बिशुद्धं
सलोमहर्षोऽल्परुजं वमेच्च ॥”
तस्यास्त्रिदोषजाया रूपं यथा, --
“शूलाविपाकारुचिदाहतृष्णा-
श्वासप्रमोहप्रबलाप्रसक्तम् ।
छर्द्दिस्त्रिदोषाल्लवणाम्लनील-
सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥”
असाध्याया लक्षणं यथा, --
“विट्स्वेदमूत्राम्बुवहानि वायुः
स्रोतांसि संरुध्य यदोर्द्ध्वमेति ।
उत्सन्नदोषस्य समाचितं तं
दोषं समूद्धूय नरस्य कोष्ठात् ॥
विण्मूत्रयोस्तत्समगन्धवर्णं
तृट्श्वासकासार्त्तियुतं प्रसक्तम् ॥
प्रच्छर्द्दयेद्दुष्टमिहातिवेगा-
त्तयार्द्दितश्चाशु विनाशमेति ॥”
आगन्तुजाया लक्षणं यथा, --
“वीभत्सजा दौर्हृदजामजा तु
असात्म्यजा या क्रिमिजा च या हि ।
सा पञ्चमी ताञ्च विभावयेच्च
दोषोच्छ्रयेणैव यथोक्तमादौ ॥”
क्रिमिजाया लक्षणं यथा, --
“शूलहृल्लासबहुला क्रिमिजा च विशेषतः ।
क्रिमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ॥
क्षीणस्य या च्छर्द्दिरतिप्रसक्ता
सोपद्रवा शोणितपूययुक्ता ।
सचन्द्रिकां तां प्रवदेदसाध्यां
साध्याञ्चिकित्सेन्निरुपद्रवाञ्च ॥”
तस्या उपद्रवा यथा, --
“कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्य-
मेव च ।
हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्द्देरुपद्रवाः ॥”
इति माधवकरः ॥
तस्यौषधं यथा, गारुडे १८७ अध्याये ।
“अश्वगन्धाभया चैव उदकेन समं पिबेत् ।
हरीतकीकुष्ठचूर्णं कृत्वा आस्यञ्च पूरयेत् ॥
शीतं पीत्वाथ पानीयं सर्व्वच्छर्द्दिनिवारणम् ।
गुडूचीपद्मकारिष्टधन्याकं रक्तचन्दनम् ॥
पित्तश्लेष्मज्वरच्छर्द्दिदाहतृष्णाघ्नमग्निकृत् ॥”
अपिच ।
“विल्वमूलञ्च समधु गुडू चीक्वथितं जलम् ।
पीतं हरेच्च त्रिविधां छर्द्दिं वै नात्र संशयः ॥
पीता दूर्व्वा च्छर्द्दिं नश्येत् पिष्टा तण्डुलवारिणा ॥”
इति च गारुडे १९४ अध्यायः ॥ * ॥
अथ छर्द्देश्चिकित्सा ।
“आमाशयोत्क्लेशभवा हि सर्व्वा-
श्छर्द्द्यो मता लङ्घनमेव तस्मात् ।
विधीयते मारुतजां विना तु
संशोधनं वा कफपित्तहारि ॥”
अत्र च्छर्द्दीशब्दः ।
“हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भवाम् ।
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥
क्षीरोदकं नाशितस्य क्षीरस्योदकम् ।
गुडू चीत्रिफलानिम्बपटोलैः क्वथितं जलम् ।
पिबेत् मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा ॥
हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् ।
अधोमार्गीकृते दोषे छर्द्दिः शीघ्रं निवर्त्तते ॥
विडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् ।
विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥
प्लवं कैवर्त्तीमुस्तं गुडतजी इति लोके ।
पिष्ट्वा धात्रीफलं लाजान् शर्कराञ्च पलोन्मितान् ।
दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य च ॥
वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोषजाम् ।
गुडू च्या रचितं हन्ति हिमं मधुसमन्वितम् ॥
दुर्निवारामपि छर्द्दिं त्रिदोषजनितां बलात् ॥
एलालवङ्गगजकेशरकोलमज्जा-
लाजाप्रियङ्गुघनचन्दनपिप्पलीनाम् ।
चूर्णानि माक्षिकसितासहितादि लीढ्वा
छर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥
इति एलादिचूर्णम् ॥
अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वापितं जले ।
तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥
यथा त्रिकटुधान्याकजीरकाणां रजो लिहन् ।
मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥
विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः ।
छर्द्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा ॥
आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः ।
निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥
निर्यहः क्वाथः ।
जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् ।
शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति-
मुग्राम् ॥
वीभत्सजां हृद्यतमैरिष्टैर्द्दौर्हृदजां फलैः ।
लङ्घनैरामजां छर्द्दिं जयेत् सात्म्यै रसात्मजाम् ॥
कृमिहृद्रोगवद्धन्याद्वमिं कृमिसमुद्भवाम् ।
तत्र तत्र यथा दोषं क्रियां कुर्य्याच्चिकित्सकः ॥
इति छर्द्द्यधिकारः ।” इति भावप्रकाशः ॥

छर्द्दिः, [स्] स्त्री, (छर्द्दयति छर्द्द्यते इति वा ।

छर्द्द वमने + “अर्चिशुचिहुसृपिच्छादिछर्द्दिभ्य
इसिः ।” उणां । २ । १०८ । इति इसिः ।)
वमिः । इत्युणादिकोषः ॥ (यथा, चरके
चिकित्सास्थाने २३ अध्याये ।
“तदग्निवेशस्य वचो निशम्य
प्रीतो भिषक्श्रेष्ठ इदं जगाद ।
छर्द्दींषि यानीह पुरोदितानि
विस्तारतस्तानि निबोध सम्यक् ॥”)

छर्द्दिका, स्त्री, (छर्द्दि + स्वार्थे कन् । स्त्रियां टाप् । यद्बा,

छर्द्दियतीति । छर्द्दि + ण्वुल् । टापि अत इत्वञ्च ।)
छर्द्दिः । विष्णुक्रान्ता । इति राजनिर्घण्टः ॥

छर्द्दिकारिपुः, पुं, (छर्द्दिकाया रिपुः नाशक इत्यर्थः ।)

क्षुद्रैला । इति शब्दचन्द्रिका ॥

छर्द्दिघ्नः, पुं, (छर्द्दिं हन्तीति । हन् + टक् ।) निम्बवृक्षः ।

इति रत्नमाला ॥ (निम्बशब्देऽस्य विवरणंज्ञेयम् ॥)

छलं, क्ली, (छो + वृषादित्वात् कलच् । यद्वा, छल +

अच् ।) स्खलितम् । शाठ्यम् । इति मेदिनी ।
ले, १७ ॥ (यथा, मनुः । ८ । ४९ ।
“धर्म्मेण व्यवहारेण च्छलेनाचरितेन च ।
प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥”
व्याजः । यथा, मार्कण्डेये । २५ । १० ।
“सा वै मदालसा पुत्त्रं बालमुत्तानशायिनम् ।
उल्लापनच्छलेनाह रुदमानमविस्वरम् ॥”
तात्पर्य्यान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरेण
कथनम् । यथा, अक्षपादसूत्रे । ५० ।
“वचनविधातोऽर्थविकल्पोपपत्त्या च्छलम् ॥”
“अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धः
कल्पः अर्थान्तरकल्पनेति यावत् तदुपपत्त्या
युक्तिविशेषेण यो वचनस्य बाद्युक्तस्य विघातो
दूषणं तच्छलमित्यर्थः । वक्तृतात्पर्य्याविषयार्थ-
कल्पनेन दूषणाभिधानमिति फलितम् । तात्-
पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा । यथा,
नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नव-
संख्यापरत्वकल्पनयाऽसिद्ध्यभिधानम् । प्रमेयं
धर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्य-
भिधानम् । वह्निमान् धूमादित्यत्र धूमावयवे
व्यभिचाराभिधानम् । तत्त्रिविधम् । वाक्छलं
सामान्यच्छलमुपचारच्छलञ्च ॥” “छलं नाम
परिशठमर्थाभासमपार्थकं वाग्वस्तुमात्रमेव ।
तद्द्विविधं वाक्छलं सामान्यच्छलञ्च । तत्र वाक्-
छलं नाम यथा कश्चिद्ब्रूयात् नवतन्त्रोऽयं
भिषगितिभिषग् ब्रूयात् नाहं नवतन्त्र एकतन्त्रो-
ऽहमिति । परो ब्रूयात् नाहं ब्रवीमि नव
तन्त्राणि तवेति अथतु नवाभ्यस्तं ते तन्त्रमिति
भिषग् ब्रूयात् न मया नवाभ्यस्तं तन्त्रं अनेक-
शताभ्यस्तं मया तन्त्रमिति । एतद्वाक्छलम् ।
सामान्यच्छलं नाम यथा, व्याधिप्रशमनायौषध-
मित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति भवा-
नाह सत्रोगः सदौषधं यदिच सत्प्रशमनाय
भवति सत्कासः सत्क्षयः सत्सामान्यात् कासस्ते
क्षयप्रशमनाय भविष्यतीति एतत्सामान्य-
छलम् ॥” इति चरके विमानस्थाने अष्टमे
अध्याये ॥)

छल्लिः, स्त्री, (छदं छाद्यतां लातीति । ला +

बाहुलकात् किः ।) त्वक् । इति शब्दरत्नावली ॥
छाल इति भाषा ॥

छल्ली, स्त्री, (छदं छाद्यतां लातीति । ला + किः ।

ततः कृदिकारादिति वा ङीष् ।) वीरुत् ।
सन्तानः । वल्कलम् । कुसुमविशेषः । इति
मेदिनी । ले, १८ ॥

छविः, स्त्री, (छ्यति सूक्ष्मं करोति यद्बा

छ्यति छिनत्ति दूरीकरोति मालिन्यादिकुवेश-
मिति । छो + “कृवृघृष्विच्छविस्थविकिकीदिवि ।”
पृष्ठ २/४८८
उणां । ४ । ५६ । इति क्विन् प्रत्ययेन निपातनात्
साधुः ।) शोभा । दीप्तिः । इत्यमरः । १ । ३ । १७ ॥
(यथा, मेघदूते । ३५ ।
“भर्त्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः ॥”)

छष, ञ वधे । इति कविकल्पद्रुमः । (भ्वां-उभं-

सकं-सेट् ।) ञ, छषति छषते । अयं कैश्चिन्न
मन्यते । इति दुर्गादासः ।

छा, स्त्री, (छद् + डः टाप् च ।) आच्छादनम् ।

इति मेदिनी । छे, १ ॥

छाः, पुं, (छाद्यते मातृपक्षाभ्यामसौ । छद् + “सर्व्व-

धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् ततः
पृषोदरात् साधुः ।) शावकः । इत्येकाक्षरकोषः ॥

छागः, पुं, स्त्री, (छायते छिद्यते देवबलये इति ।

छो + “छापूखडिभ्यः कित् ।” उणां । १ । १२४ ।
इति गन् ।) पशुविशेषः । तत्पर्य्यायः ।
वस्तः २ छगलकः ३ अजः ४ स्तुभः ५ । इत्य-
मरः । २ । ९ । ७६ ॥ छगः ६ छगलः ७
छागलः ८ तभः ९ स्तभः १० शुभः ११ । इति
तट्टीका ॥ लघुकामः १२ क्रयसदः १३ वर्करः
१४ पर्णभोजनः १५ लम्बकर्णः १६ भेनादः १७
वुक्कः १८ अल्पायुः १९ शिवाप्रियः २० । इति
शब्दरत्नावली ॥ अवुकः २१ मेध्यः २२ पशुः
२३ पयस्वलः २४ । तन्मांसगुणाः । लघ्रुत्वम् ।
स्निग्धत्वम् । नातिशीतत्वम् । रुचिबलपुष्टि-
दातृत्वम् । निर्द्दोषत्वम् । वातपित्तनाशित्वम् ।
मधुरत्वञ्च । इति राजनिर्घण्टः ॥ शुक्रधातु-
साम्यकारित्वम् । बृंहणत्वम् । स्निग्धत्वम् ।
मृदुत्वम् । अनभिष्यन्दित्वम् । नात्युष्णत्वञ्च ।
इति राजवल्लभः ॥ * ॥ छागपोतमांसगुणाः । लघु-
त्वम् । शीतत्वम् । प्रमेहनाशित्वञ्च ॥ तृण-
चारिछागस्य मांसगुणः । ईषल्लघुत्वम् । बल-
दातृत्वञ्च ॥ तन्मूत्रगुणाः । कटुत्वम् । उष्णत्वम् ।
रूक्षत्वम् । नाडीविषार्त्तिप्लीहोदरकफश्वास-
गुल्मशोफनाशित्वम् । लघुत्वञ्च । इति राज-
निर्घण्टः ॥
“छागलो वर्करश्छागो वस्तोऽजश्छेलकः शुभः ।
छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषणुत् ॥
नातिशीतमदाहि स्यात् स्वादु पीनसनाशनम् ।
परं बलकरं रुच्यं बृंहणं बलवर्द्धनम् ॥
अजाया अप्रसूताया मांसं पीनसनाशनम् ।
शुष्ककासेऽरुचौ शोषे हितमग्नेश्च दीपनम् ॥
अजासुतस्य बालस्य मांसं लघुतरं स्मृतम् ।
हृद्यं ज्वरहरं श्रेष्ठं सुखादु वलदं भृशम् ॥
मांसं निष्कासिताण्डस्य छागस्य कफकृद्गुरु ।
सोतःशुद्धिकरं वल्यं मांसदं वातपित्तनुत् ॥
वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च ।
ऊर्द्ध्वजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम् ॥”
इति भावप्रकाशः ॥
(एतन्मांसं पितॄणां तृप्तिकरत्वात् श्राद्धाय देयम् ।
यथाह याज्ञवल्क्यः । १ । २५८ ।
“मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥”
छागमांसेन पितॄणां षण्मासान् यावत्तूप्तिः ।
यथाह मनुः । ३ । २६९ ।
“षण्मासान् छागमांसेन पार्षतेन च सप्त वै ॥”
भोजराजेन युक्तिकल्पतरौ एतत्परीक्षोक्ता ।
यथा, --
“नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् ।
तेषां शुभाय निर्द्दिष्टं पशुवस्तत्रयं बलौ ।
ये कृष्णाः शुचयश्छागाः पशबोऽन्ये तथैव च ।
देवजातिभिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥
ये पीता हरिता वापि नरजातेरुदीरिताः ।
ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥
यो मोहादथवाज्ञानाद्बलिमन्यं प्रयच्छति ।
वध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत् ॥”
एतस्य पशोर्लक्षणादिकं विशेषतो बृहत्संहि-
तायाम् ६५ अध्याये उक्तम् । यथा, --
“छागशुभाशुभलक्षण-
मभिधास्ये नवदशाष्टदन्तास्ते ।
धन्याः स्थाप्या वेश्मनि
सन्त्याज्याः सप्तदन्ता ये ॥
दक्षिणपार्श्वे मण्डल-
मसितं शुक्लस्य शुभफलं भवति ।
ऋष्यनिभकृष्णलोहित-
वर्णानां श्वेतमपि शुभदम् ॥
स्तनवदवलम्बते यः
कण्ठेऽजानां मणिः स विज्ञेयः ।
एकमणिः शुभफलकृ-
द्धन्यतमा द्वित्रिमणयो ये ॥
मुण्डाः सर्व्वे शुभदाः
सर्व्वसिताः सर्व्वकृष्णदेहाश्च ।
अर्द्धासिताः सितार्द्धा
धन्याः कपिलार्द्धकृष्णाश्च ॥
विचरति यूथास्याग्रे
प्रथमं चाग्भोऽवगाहते योऽजः ।
स शुभः सितमूर्द्धा वा
मूर्द्धनि वा टिक्किका यस्य ॥
सपृषतकण्ठशिरा वा
तिलपिष्टनिभश्च ताम्रदृक् शस्तः ।
कृष्णचरणः सितो वा
कृष्णो वा श्वेतचरणो यः ॥
यः कृष्णाण्डः श्वेतो
मध्ये कृष्णेन भवति पट्टेन ।
यो वा चरति सशब्दं
मन्दञ्च स शोभनश्छागः ॥
ऋष्यशिरोरुहपादो
यो वा प्राक् पाण्डुरो ऽपरे नीलः ।
स भवति शुभकृच्छागः
श्लोकश्चाप्यत्र गर्गोक्तः ॥”
कुट्टकः कुटिलश्चैव जटिलो वामनस्तथा ।
ते चत्वारः श्रियः पुत्त्रा नालक्ष्मीके वसन्ति ते ॥
अथाप्रशस्ताः खरतुल्यनादाः
प्रदीप्तपुच्छाः कुनखा विवर्णाः ।
निकृत्तकर्णा द्विपमस्तकाश्च
भवन्ति ये चासिततालुजिह्वाः ॥
वर्णैः प्रशस्तैर्मणिभिश्च युक्ता
मुण्डाश्च ये ताम्रविलोचनाश्च ।
ते पूजिता वेश्मसु मानवानां
सौख्यानि कुर्व्वन्ति यशः श्रियञ्च ॥”)

छागणः, पुं, (छगण एव । स्वार्थे अण् ।) करी-

षाग्निः । इति त्रिकाण्डशेषः ॥ घुँटेर आगुण
इति भाषा ॥

छागभोजी, [न्] पुं, स्त्री, (छागं भुङ्क्ते भक्षय-

तीति । भुज् + णिनिः ।) वृकः । इति राज-
निर्घण्टः ॥ छागभक्षके, त्रि ॥

छागरथः, पुं, (छागः रथो वाहनमस्य ।) अग्निः ।

इति हेमचन्द्रः । ४ । १६३ ॥

छागलः, पुं, स्त्री, (छगल एव इति प्रज्ञाद्यण् ।)

छागः । इति राजनिर्घण्टः ॥ (यथा, पञ्च-
तन्त्रे । ३ । ११७ ।
“बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्त्ता ब्राह्मणं छागलादिव ॥”
छगलस्य गोत्रापत्यं पुमान् इति । छगल +
“विकर्णशुङ्गच्छगलाद्वत्सभरद्बाजात्रिषु ।”
४ । २ । ११७ । इति अण् । आत्रेय ऋषिभेदः ।
इति सिद्धान्तकौमुदी ॥)

छागलकः, पुं, (छागल इव कायतीति । कै + कः ।)

मत्स्यविशेषः । यथा, --
“श्वेतं सुपाकं समदीर्घवृत्तं
निःशल्कलं छागलकं वदन्ति ।
गले द्विकण्टः किल तस्य पृष्ठे
कण्टः सुपथ्यो रुचिदो बलप्रदः ॥”
इति राजनिर्घण्टः ॥
(स्वार्थे कन् ।) छागलश्च ॥

छागलाद्यं, क्ली, (छागल आद्यः प्रधानो यत्र ।)

छागलादिघृतम् । तच्च वातरोगस्यौषधम् । यथा,
“आजं चर्म्मविनिर्म्मुक्तं त्यक्तशृङ्गनखादिकम् ।
पञ्चमूलीद्बयञ्चैव जलद्रोणे विपाचयेत् ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।
जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव शतावरी ॥
छागलाद्यमिदं नाम्ना सर्व्ववातविकारणुत् ।
अर्दिते कर्णशूले च वाधिर्य्ये मूकमिन्मिने ॥
जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः ।
अपतानेऽपतन्त्रे च सर्पिरेतत् प्रशस्यते ॥
पृथगर्द्धतुलां पञ्चमूलद्बन्द्बाजमांसयोः ।
निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते ॥”
इति स्वल्पच्छागलाद्यं घृतम् ॥ * ॥
घृतारर्म्भ मन्त्रः ।
“ॐ कालि वज्रेश्वरि अमुकस्य फलसिद्धं देहि
रुद्रवचनेन खाहा ।
स्नापयित्वा छागमादौ मधु दत्त्वा ललाटके ।
उदङ्मुखः प्राङ्मुखो वा भिषगेनमुपालभेत् ॥
छागमारणमन्त्रः ।
ॐ हाँ ॐ गोँ गणपतये स्वाहा ।
छागमांसतुलां गृह्य दशमूल्याः पलं शतम् ।
अश्वगन्धापलशतं वाट्यालकशतं तथा ॥
घृताढकं पचेत्तोयैश्चतुर्भागावशेषितैः ।
पृष्ठ २/४८९
क्षीरं स्नेहसमं दद्यात् शतावर्य्या रसं तथा ॥
ताम्रपात्रे दृढे चैव शनैर्मृ द्वग्निना पचेत् ।
अस्यौषधस्य कल्कस्य प्रत्येकं शुक्तिसम्मितम् ॥
जीवन्ती मधुकं द्राक्षाकाकोल्यौ नीलमुत्पलम् ।
मुस्तं सचन्दनं रास्ना पर्णिनीद्वयशारिवे ॥
मेदे द्वे च तथा कुष्ठं जीवकर्षभकौ शटी ।
दार्व्वी प्रियङ्गु त्रिफला नतं तालीशपद्मकौ ॥
एलापत्रं वरीनागजातीकुसुमधान्यकम् ।
मञ्जिष्ठा दाडिमं दारु रेणुकं शैलवालुकम् ॥
विडङ्गं जीरकञ्चैव पेषयित्वा विनिक्षिपेत् ।
वस्त्रपूते च शीते च शर्कराप्रस्थसंयुतम् ॥
निधापयेत् स्निग्धभाण्डे आर्द्रे वा भाजने शुभे ।
अस्यौषधस्य सिद्धस्य शृणु वीर्य्यमतःपरम् ॥
देवदेवं नमस्कृत्य संपूज्य गणनायकम् ।
पिबेत् पाणितलं तस्य व्याधिं वीक्ष्यानु-
पानतः ॥
सर्व्वबातविकारेषु अपस्मारे विशेषतः ।
उन्मादे पक्षघाते च आध्माने कोष्ठनिग्रहे ॥
कर्णरोगे शिरोरोगे वाधिर्य्ये चापतन्त्रके ।
भूतोन्मादे च गृध्रस्यां सोद्गारे चाक्षिपातजे ॥
पार्श्वशूले च हृच्छूले वाह्यायामार्द्दिते तथा ।
वातकण्टकहृद्रोगमूत्रकृच्छ्रे सपङ्गुले ॥
क्रोष्टुशीर्षे तथा खञ्जे कुब्जे चाध्मनि मिन्मिने ।
अपतानेऽन्तरायामे रक्तपित्ते तथोर्द्ध्वगे ॥
आनाहेऽर्शोविकारेषु चातुर्थकज्वरेऽपि च ।
हनुग्रहे तथा शोषे क्षीणे चैवावबाहुके ॥
दण्डापतानके भग्ने दाहे चाक्षेपके तथा ।
जीर्णज्वरे विषे कुष्ठे शेफःस्तम्भे मदात्यये ॥
आद्यवातेऽग्निमान्द्ये च वातरक्तगदेषु च ।
एकाङ्गरोगिणे चैव तथा सर्व्वाङ्गरोगिणे ॥
हस्तकम्पे शिरःकम्पे जिह्वाकम्पे जडे भ्रमे ।
क्षीणेन्द्रिये नष्टशुक्रे शुक्रनिःसरणे तथा ॥
स्त्रीणां वातास्रपाते च पटले चाक्षिस्पन्दने ।
एकाङ्गस्पन्दने चैव सर्व्वाङ्गस्पन्दने तथा ॥
नगादिपतिते वाते स्त्रीणामप्राप्तिहेतुके ।
आभिचारिकदोषे च धनसन्तापसम्भवे ॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
शिरोमध्यगता ये च जङ्घापार्श्वादिसंस्थिताः ॥
मातृग्रहाभिभूतश्च शिशुर्यश्च विशुष्यति ।
प्रक्षीणबलमांसश्च न वर्त्मगमनक्षमः ॥
घृतेनानेन सिध्यन्ति वज्रमुक्तिरिवासुरान् ।
निहन्ति सकलान् रोगान् घृतं परमदुर्लभम् ॥
रसायनं वह्निबलप्रदञ्च
वपुःप्रकर्षं विदधाति रूपम् ।
दन्तावलेन्द्रेण समानतेजा
दीर्घायुषं पुत्त्रशतं करोति ॥
स्त्रीणां शतं गच्छति वातिरेकं
न याति तृप्तिं सरसः समाङ्गः ।
अपुत्त्रिणीपुत्त्रशतं करोति
शतायुषं कामसमं बलिष्ठम् ॥
महद्घृतं नाम तु छागलाद्यं
विनिर्म्मितं वातनिसूदनञ्च ।
शिवं शुभं रोगभयापहञ्च
चकार हारीतमुनिर्व्विशिष्टः ॥
शृगालवर्हिणः पाके पुमांसं तत्र दापयेत् ।
मयूरी जम्बुकी छागी वीर्य्यहीनाः स्वभावतः ॥
भाषितं काशिराजेन छागमेव नपुंसकम् ॥”
घृतम् १६ शेर । क्वाथार्थं छागमांसपलम् १०० ।
पाकार्थंजलं शं ६४ । शेषः शं १६ । विल्वादि-
दशमूलं प्रपलम् १० । जलं शं ६४ । शेषः
शं १६ । अश्वगन्धा १०० पलम् । जलं शं ६४ ।
शेषः शं १६ । वाट्यालकं १०० पलम् ।
जलं शं ६४ । शेषः शं १६ । दुग्धं शं १६ ।
शतमूलीरसः शं १६ । कल्कार्थं जीवन्त्या-
दीनां जीरकपर्य्यन्तानां कल्कद्रव्याणां प्रं तो ४ ।
वस्त्रपूते शीते शर्कां शं २ । इति बृहच्छागलाद्यं
घृतम् । इति भैषज्यरत्नावली ॥
(“छागमांसं तुलार्द्धं स्यात् दशमूलं तथापरम् ।
तोयद्रोणे पचेद्धीमान् यावत् स्यादंशशेषितम् ॥
तैलप्रस्थद्वयञ्चैव क्षीरञ्चैव शतावरी ।
जीवनीयं समधुकं बला रास्ना च शैलजम् ॥
मांसीस्याद्धेमतालीशनालुकाघनवालुकम् ।
पृथक् पृथक् समादाय सर्व्वमेकत्र साधयेत् ॥
मञ्जिष्ठालोध्रलाक्षा च प्रत्येकं कुडवान्वितम् ।
आढकञ्च जलञ्चैव विधिना च विपाचयेत् ॥
छागलाद्यमिदं तैलं हारीतेन महात्मना ।
पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते ।
सर्व्वज्वरगदं हन्ति सन्धिमज्जास्थिजन्तथा ॥”
इति छागलाद्यं तैलम् ॥
इति वैद्यकस्नेहमालिकायां वातरोगाधिकारे ॥)

छागलान्त्रिका, स्त्री, (छागलान्त्री + संज्ञायां कन् ।

टापि पूर्ब्बह्रस्वः ।) वृद्धदारकवृक्षः । इति राज-
निर्घण्टः ॥

छागलान्त्री, स्त्री, (छागलं अन्तयतीति बाहु-

लकात् रक् ततो ङीष् ।) वृकः । इति राज-
निर्घण्टः ॥

छागवाहनः, पुं, (छागेन आत्मानं वाहयतीति ।

वह + णिच् + ल्युः । यद्वा, छागो वाहनमस्य ।)
अग्निः । इति त्रिकाण्डशेषः ॥

छागिका, स्त्री, (छागी + स्वार्थे कन् । ततः टापि

पूर्ब्बह्रस्वः ।) छागी । इति हेमचन्द्रः । ४ । ३४१ ॥

छागी, स्त्री, (छायते छिद्यते देवोपहारायेति ।

छो + “छापूखडिभ्यः कित् ।” उणां । १ । १२४ ।
इति गण् छागः ततः स्त्रियां जातौ ङीष् ।)
छागमाता । वक्री इति पाँटी इति च भाषा ।
तत्पर्य्यायः । अजा २ पयस्विनी ३ भीरुः ४
मेध्या ५ गलेस्तनी ६ । इति राजनिर्घण्टः ॥
छागिका ७ मञ्जा ८ सर्व्वभक्ष्या ९ गलस्तनी १० ।
इति हेमचन्द्रः ॥ चुलुम्पा ११ । इति त्रिकाण्ड-
शेषः ॥ सञ्जा १२ मुखविलुण्ठिका १३ । इति
शब्दरत्नावली ॥ तद्दुग्धगुणाः । मधुरत्वम् ।
शीतलत्वम् । ग्राहित्वम् । दीपनत्वम् । रक्त-
पित्तविकारक्षयकासनाशित्वञ्च । यथा, राज-
निर्घण्टे ।
“अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् ।
नात्यम्बुपानात् व्यायामात् सर्व्वव्याधिहरं पयः ॥”
कषायत्वम् । लघुत्वम् । अतीसारज्वरनाशि-
त्वञ्च । यथा, भावप्रकाशे ।
“छागं कषायं मधुरं शीतं ग्राहि पयो लघु ।
रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् ॥
अजानामल्पकायत्वात् कटुतिक्तादिभक्षणात् ।
स्तोकाम्बुपानाद्व्यायामात् सर्व्वरोगापहं पयः ॥”
तद्दधिगुणाः । उत्तमत्वम् । ग्राहित्वम् । लघु-
त्वम् । दोषत्रयापहत्वम् । श्वासकासार्शःक्षय-
कार्श्येषु शस्तत्वम् । दीपनत्वञ्च । इति भाव-
प्रकाशः ॥ कफवातनेत्रदोषदुर्नामश्वासकास-
नाशित्वम् । उष्णत्वम् । रुच्यत्वम् । पाचनत्वञ्च ॥
तन्नवनीतगुणाः । लघुत्वम् । मधुरत्वम् । कषा-
यत्वम् । त्रिदोषनाशित्वम् । चक्षुष्यत्वम् । दीप-
नत्वम् । बल्यत्वम् । सदा हितत्वञ्च ॥ तन्नवोत्थ-
नवनीतगुणाः । क्षयकासनेत्रामयकफनाशित्वम् ।
बल्यत्वम् । परमदीपनत्वञ्च ॥ तद्घृतगुणाः ।
चक्षुष्यत्वम् । दीपनत्वम् । बलवर्द्धनत्वम् । कास-
श्वासकफनाशित्वम् । राजयक्ष्मणि शस्तत्वञ्च ।
इति राजनिर्घण्टः ॥

छातः, त्रि, (छो + क्तः । “शाच्छोरन्यतरस्याम् ।”

७ । ४ । ४१ । इति विभाषायामित्वाभावः ।)
छिन्नः । दुर्ब्बलः । इत्यमरः । ३ । १ । १०३ ॥

छात्रं, क्ली, वरटीच्छत्रसम्भवं मधु । तस्य गुणाः ।

श्वित्रक्रिमिरोगरक्तपित्तनाशित्वम् । गुरुत्वञ्च ।
इति राजवल्लभः ॥
(“वरटाः कपिलाः पीताः प्रायो हिमवतो वने ।
कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥”
छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु ।
स्वादुपाकं क्रिमिश्वित्ररक्तपित्तप्रमेहजित् ।
भ्रमतृण्मोहविषहृत् तर्पणञ्च गुणाधिकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

छा(त्त्र)त्रः, पुं, (छत्रं गुरोर्दोषाणामावरणं तच्छील-

मस्येति । “छत्रादिभ्यो णः ।” ४ । ४ । ६२ ।
इति णः ।) शिष्यः । इत्यमरः । २ । ७ । ११ ॥
(यथा, राजतरङ्गिण्याम् । ६ । ८७ ।
“भूभुजा दानशौण्डेन पैत्रिके स्थण्डिले कृतः ।
छात्त्राणामार्य्यदेश्यानां तेन विद्यार्थिनां मठः ॥”)

छात्रकं, क्ली, (छात्र + स्वार्थे कन् ।) छात्रं मधु ।

यथा, राजनिर्घण्टे ।
“छत्राकारन्तु पटलं सरघाः पीतपिङ्गलाः ।
ये कुर्व्वन्ति तदुत्पन्नं मधु च्छात्रकमीरितम् ।
श्वित्रमेहकृमिघ्नञ्च विद्याच्छात्रं गुणोत्तरम् ॥”
अपिच भावप्रकाशे ।
“वरटाः कपिलाः पीताः प्रायो हिमवतो वने ।
कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥
छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु ।
स्वादुपाकं कृमिश्वित्ररक्तपित्तप्रमेहजित् ॥
भ्रमतृड्मोहविषहृत्तर्पणञ्च गुणाधिकम् ॥”

छात्रगण्डः, पुं, (छात्रा गण्ड इव ।) पदाद्यवित् ।

विभक्त्यन्तस्य श्लोकचरणस्य वा आदिमात्रवेत्ता ।
(अल्पज्ञच्छात्त्रः ।) इति हारावली ।२१६ ॥
पृष्ठ २/४९०

छात्रदर्शनं, क्ली, (छात्रं वरटीच्छत्रसम्भूतं मधु

तदिव दृश्यते इति । दृश + कर्म्मणि ल्युट् ।)
हैयङ्गवीनम् । इति शब्दचन्द्रिका ॥ (छात्राणां
दर्शनम् ।) शिष्यावलोकनञ्च ॥

छादं, क्ली, (छाद्यते गृहमनेनेति । छद + णिच् +

करणे घञ् । छादयतीति । छद् + णिच् + अच्
वा ।) पटलम् । इति जटाधरः ॥ छात इति
चाल इति च भाषा ॥

छादनं, क्ली, (छद कि संवृतौ + णिच् + करणे

ल्युट् ।) छदनम् । अन्तर्द्धानम् । (कर्त्तरि ल्युः ।)
पत्रम् । इत्यमरटीकायां भरतः ॥ (भावे ल्युट् ।)
आच्छादनम् । (यथा, हरिवंशे । ६५ । २५ ।
“नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्द्धसु ।
छादनाथं प्रकीर्णैश्च कण्टकैस्तृणसङ्कटैः ॥”)

छादनः, पुं, (छादयति आवृणोति पत्त्रादिभिरिति ।

छादि + ल्युः ।) नीलाम्लानवृक्षः । इति राज-
निर्घण्टः ॥

छादितः, त्रि, (छाद्यते स्मेति । छद + “वा दान्त-

शान्तेति ।” ७ । २ । २७ । इडागमात् साधुः ।)
छन्नः । इति जटाधरः ॥ आच्छादितः । यथा,
“घनतरघनवृन्दैश्छादितौ पुष्पवन्तौ ॥”
इत्युद्भटः ॥

छान्दसः, पुं, (छन्दो वेदं अधीते वेत्ति वा ।

छन्दस् + “तदधीते तद्वेद ।” ४ । २ । ५९ ।
इत्यण् ।) वेदाध्येता । इत्यमरः । २ । ७ । ६ ॥
(छन्द एवेति । स्वार्थे अण् । वेदः ।
“मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥”
इति भागवते । १ । ४ । १३ ॥
त्रि, छन्दसो व्याख्यानस्तत्र भवः । “छन्दसो
यदणौ ।” ४ । ३ । ७१ । इत्यण् । वेदभवः ॥
छन्दसोऽयम् । “तस्येदम् ।” इत्यण् । वेदसम्बन्धी ।
स्त्रियान्तु ङीप् । यथा, हरिवंशे । २१५ । ७ ।
“छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतः ॥”)

छान्दोग्यं, क्ली, (छन्दोगानां धर्म्मः आम्नायो वा ।

छन्दोग + “छन्दोगौक्थिकयाज्ञिकवह्वृच नटाञ्
ञ्यः ।” ४ । ३ । १२९ । इति ञ्यः ।) साम-
वेदोपनिषत् । इति वैदिकसम्प्रदायः ॥ (यथा,
मौक्तिकोपनिषदि १ अध्याये ।
“ऐतरेयञ्च छान्दोग्यं बृहदारण्यकन्तथा ॥”)

छाया, स्त्री, (छ्यति छिनत्ति सूर्य्यादेः प्रकाशं नाश-

यतीत्यर्थः । छो + “माच्छाससिसूभ्यो यः ।”
उणां । ४ । १०९ । इति यस्ततष्टाप् च ।)
रौद्रशून्यम् । तत्पर्य्यायः । भावानुगा २
श्यामा ३ अतेजः ४ भीरुः ५ अनातपः ६
आभीतिः ७ आतपाभावः ८ भावालीना ९ ।
अस्या गुणाः । मधुरत्वम् । शीतलत्वम् ।
दाहश्रमहरत्वञ्च । इति राजनिर्घण्टः ॥ घर्म्म-
नाशित्वम् । मेघच्छायागुणः । श्रमभ्रममूर्च्छा-
मन्तापनाशित्वम् । इति राजवल्लभः ॥ * ॥
छायाविशेषे दोषो यथा, --
“दीपखट्वातनुच्छाया छिन्नकेशनखादिकम् ।
अजमार्ज्जाररेणुश्च हन्ति पुण्यं पुराकृतम् ॥”
इति कर्म्मलोचनम् ॥ * ॥
(लक्षणभेदेनास्या अरिष्टकारित्वं यथा, --
“ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि ।
अङ्गेषु विकृता यस्य छायाप्रेतस्तथैव सः ॥
छिन्ना भिन्नाकुला च्छाया हीना वाप्यधिकापि
वा ।
नष्टा तन्वी द्विधा च्छाया विशिराविस्तृता च या ॥
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विग-
र्हिताः ।
सर्व्वा मुमूर्षतां ज्ञेया नचेल्लक्ष्यनिमित्तजाः ॥
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा ।
छाया विवर्त्तते यस्य स्वप्नेऽपि प्रेत एव सः ॥”
“खादीनां पञ्चपञ्चानां छाया विविधलक्षणाः ।
नाभसी निर्म्मला नीला सस्नेहा सप्रभेव च ॥
रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा ।
विशुद्धरक्तात्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥
शुद्धवैदुर्य्यविमला सुस्निग्धा चाम्भसी मता ।
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च
पार्थिवी ॥
वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः ।
वायवी तु विनाशाय क्लेशाय महतेऽपि वा ॥
स्यात्तैजसी प्रभा सर्व्वा सा तु सप्तविधा स्मृता ।
रक्ता पीता सिता श्यावा हरिता पाण्डुरासिता ॥
तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च
याः ।
ताः शुभा रूक्षमलिनाः संक्षिप्ताश्चाशुभोदयाः ॥
वर्णमाक्रामति च्छाया भास्तु वर्णप्रकाशिनी ।
आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा प्रकाशते ॥
नाच्छायो नाप्रभः कश्चिद्विशेषाच्चिह्नयन्ति तु ।
नृणां शुभाशुभोत्पत्तिं काले च्छायाः प्रभा-
श्रिताः ॥”
इतीन्द्रियस्थाने सप्तमेऽध्याये चरकेणोक्तम् ॥)
प्रतिविम्बम् । (यथा, याज्ञवल्क्ये । ३ । २७९ ।
“मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत् ॥”)
सूर्य्यपत्नी । सा संज्ञाप्रतिकृतिः । (यथा मत्स्य-
पुराणे । ११ । ५ ।
“नारीमुत्पादयामास स्वशरीरादनिन्दिताम् ।
त्वाष्ट्रीस्वरूपेण नाम्ना छायेति भामिनी तदा ॥”)
पालनम् । उत्कोचः । कान्तिः । (यथा, मेघ-
दूते । ३१ ।
“वेणीभूतप्रतनुसलिला तामभीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः ॥”)
सच्छोभा । पङ्क्तिः । इति मेदिनी । ये, २३ ॥
कात्यायनी । इति शब्दरत्नावली ॥ तमः ।
इति हेमचन्द्रः ॥ सादृश्यम् । यथा, --
“अङ्गादङ्गेत्यृचं जप्त्वा आघ्राय शिशुमूर्द्धनि ।
वस्त्रादिभिरलङ्कृत्य पुत्त्रच्छायावहं सुतम् ॥
पुत्त्रच्छाया पुत्त्रसादृश्यम् ।” इति दत्तकचन्द्रिका ॥
(ऊनविंशत्यक्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥
अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

छायाकरः, त्रि, (करोतीति । कृ + अच् । छायायाः

करः । छायां करोतीति वा ।) छत्रधारः । इति
हेमचन्द्रः ॥ छातावरदार इति भाषा ॥

छायातनयः, पुं, (छायायाः सूर्य्यपत्न्यास्तनयः

पुत्त्रः ।) शनिः । इति हलायुधः ॥

छायातरुः, पुं, (छायाप्रदः छायाप्रधानो वा तरुः ।

शाकपार्थिववत् मध्यपदलोपिसमासः ।) स्थिर-
च्छायवृक्षः । इति त्रिकाण्डशेषः ॥ (अस्य लक्षणं
यदाह कश्चित् ।
“पूर्ब्बाह्णे च पराह्णे च तलं यस्य न मुञ्चति ।
अत्यन्तशीतलच्छाया स च्छायातरुरुच्यते ॥”
यथा, मेघदूते । १ ।
“कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येन भर्त्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु ॥”)

छायात्मजः, पुं, (छायायाः सूर्य्यपत्न्या आत्मज-

स्तनयः ।) शनिग्रहः । इति त्रिकाण्ड-
शेषः ॥

छायापथः, पुं, (छाया मेघच्छाया तदभ्यन्तरः

पन्थाः । छायायुक्तः पन्था इत्येके ।) देवपथः ।
आकाशः । इति त्रिकाण्डशेषः ॥

छायापुरुषः, पुं, (छायायां दृष्टः पुरुषः पुरुषा-

कृतिविशेषः ।) आकाशेदृष्टः स्वीयच्छायारूप
पुरुषः । यथा, --
श्रीदेव्युवाच ।
“भगवन् ! देवदेवेश ! सर्व्वागमविशारद ! ।
नराणां पापिनां लोके पापनिर्म्मोचनं कथम् ॥
कालज्ञानं कथं वा स्यात् सूक्ष्मोपायेन तद्वद ।
श्रुतानि साधनानीश ! मयानेकानि भूरिशः ॥
तथापि तानि मनुजैरशक्यान्यल्पबुद्धिभिः ।
प्रायेण मनुजा लोके कलौ स्वल्पायुषो ध्रुवम् ॥
अनेकवर्षसाध्येऽस्मिन् योगाभ्यासे ह्यशक्तयः ॥
शिव उवाच ।
साधु देवि ! त्वया पृष्टं लोकानां हितकाम्यया ।
तादृशं साधनं वक्ष्ये सर्व्वसाधारणं लघु ॥
गोपनीयं प्रयत्नेन न वाच्यं वै कथञ्चन ।
सिद्धाय भक्तियुक्ताय सेवकाय सुचेतसे ॥
पापिने क्रूरचेष्टाय भक्तिहीनाय भामिनि ! ।
न वदेद्यदि वा मोहात् वदेत् सिद्धिं न विन्दति ॥
तस्मात् परीक्ष्य वक्तव्यं शिष्याय ज्ञानिने शिवे ! ।
स्वच्छायापुरुषं पश्येद्गगने शुद्धमानसः ॥
तस्यावलोकनात् सद्यः पापराशिर्व्विनश्यति ।
महापातकसङ्घैश्च तत्समैश्चोपपातकैः ॥
विमुच्यते क्षणार्द्धेन तूलराशिर्यथानलात् ।
कालज्ञानञ्च षण्मासे तस्मिन् दृष्टे भवेद्ध्रुवम् ॥
देव्युवाच ।
अतश्छायां कथं पश्येद्गगने भूतलस्थिताम् ।
षण्मासकालज्ञानञ्च तस्मिन् दृष्टे कथं भवेत् ॥
शिव उवाच ।
निरभ्रं गगनं देवि ! यदा भवति निर्म्मलम् ।
तदा छायामुखो भूत्वा निश्चलं प्रयतो घिया ॥
पृष्ठ २/४९१
स्वच्छायाकण्ठमालोक्य स्वगुरूक्तक्रमेण वै ।
सम्मुखं गगनं पश्येन्निर्निमेषस्तथैकधीः ॥
शुद्धस्फटिकसङ्काशः पुरुषस्तत्र दृश्यते ।
न दृश्यते यदा तत्र पुनस्तद्वत् परीक्षयेत् ॥
बहुधा दर्शनेनैव साक्षात्कारो भवेद् ध्रुवम् ।
कस्यचिद् भाग्यतः पश्येद् यदि विम्बोऽक्षिगोचरः ।
भवत्येव न सन्देहो गुरुविश्वासतः शिवे ! ।
गुरुं सम्यक् पूजयित्वा पश्येच्छायां समाहितः ॥
तथा षण्मासपर्य्यन्तं मृत्युस्तस्य न विद्यते ।
शिरोहीनं यदा पश्येत् षण्मासाभ्यन्तरे मृतिः ॥
यदा पादौ न दृश्येते भार्य्याहानिर्न संशयः ।
न दृश्येते यदा पाणी भ्रातुर्हानिर्न संशयः ॥
एतज्ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समाश्रयेत् ।
योगाभ्यासेन सततं प्राणायामेण संस्मृतिः ॥
यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् ।
यो न भुक्तो हविष्याशी यतवाग् यतमानसः ॥
मृत्युञ्जयेन्न सन्देहो ह्यन्यथा मृत्युमृच्छति ।
यदा तु मलिनं पश्येत् ज्वरपीडा भवेत्तदा ॥
तस्य शान्तिं प्रकुर्व्वीत शिवसेवां समाहितः ।
रक्तवर्णं यदा पश्येदैश्वर्य्यं भवति ध्रुवम् ॥
मध्यच्छिद्रं यदा पश्येत् शत्रुघातो भवेत्तदा ।
एवं सन्दर्शनाद् देवि ! ज्ञानवान् भवति ध्रुवम् ॥
नारदाय पुरा प्रोक्तं मया पुरुषदर्शनम् ।
तत्प्रसादान्महायोगी भूत्वा लोकांश्चरत्यसौ ॥
स्वच्छायादर्शनं देवि ! कलौ पुरुषलक्षणम् ।
दीर्घायुः समवाप्नोति ज्ञानञ्चापि सुनिर्म्मलम् ॥”
इति योगप्रदीपिकायां उमामाहेश्वरसंवादे
छायापुरुषलक्षणं नाम पञ्चमः पटलः ॥ * ॥
“ओमस्य श्रीच्छायापुरुषग्रहणमन्त्रस्य ब्रह्मर्षि-
र्बृहद्गायत्त्री छन्दः छायादेवी देवताः हां
बीजं स्वाहा शक्तिः पुरुष इति कीलकं सर्व्व-
सिद्धिसन्दर्शनसिद्ध्यर्थे जपे विनियोगः । हामि-
त्यादि षडङ्गन्यासः ॥ मायया मायया लोँ लोँ
हीँ माया शिवविचार्य्या ऋषयः ॐ हीँ अं
गां सरस्वति ॐ नमो भगवते भूतशरीर-
मात्मानमाकाशे दर्शय दर्शय त्राँ त्राँ त्राँ हीँ
भैरवाय नमः स्वाहा । इति मन्त्रः ॥
पादाभावे च पुत्त्रं वा बाह्वभावे च बान्धवम् ।
आत्मानं शिरसोऽभावे सर्व्वाभावे कुलक्षयम् ॥
विशीर्णे विधृते धूते कुम्भे धूमे च विज्वरम् ।
दुर्भिक्षं जायते घोरं कज्जले च पराङ्मुखे ॥
संपूर्णे च मुखे सूक्ष्मे क्षेमलाभं सुसिद्धये ।
हीने रक्ते जये शीते उष्णे मृत्युर्न संशयः ॥
पतिभीतिं शस्त्रघातमिति वेदविदो विदुः ।
मृत्युञ्जयं जपन्नेव शान्तिस्तस्य विधीयते ॥
षण्मासे मरणं तस्य शीर्षाद्यपचये विदुः ॥
अथ मृत्युञ्जययन्त्रम् ।
“प्रथमं प्रणवमालिख्य तन्मध्ये साध्यनामकम् ।
बहिरष्टदलं पद्मं यान्तान्तं वसुपत्रके ॥
विलेखेत् सहकारञ्च केशरेषु सुशोभितम् ।
तद्वहिश्चन्द्रवृत्तं स्यात् षोडशस्वरकं लिखेत् ॥
द्वारं भूपुरमालिख्य चतुर्द्वारञ्च वारुणम् ।
पाथेयञ्च चतुष्कोणं चक्रं मृत्युञ्जयं भवेत् ॥
ज्वरादिसर्व्वरोगादिदाहशान्तिकरं परम् ।
मृत्युञ्जयं महाचक्रं सर्व्वरक्षाकरं नृणाम् ॥”
अथ ध्यानम् ।
“चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः-
स्थितं
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशु-
प्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं
भावयेत् ॥ * ॥
नत्वा तातगुरुं शिवं मणपतिं मन्त्रं जपेत्
सर्व्वदा ।
खे लक्षेत् सततं विलोकनषशं शुक्ले रवौ
प्रत्यहम् ॥
खे विलोकनमन्त्रस्तु ।
ॐ ह्रीँ भूचरी खेचरी आत्मानमाकाशे
दर्शय सर्व्ववृत्तान्तं कथय कथय हुं फट् स्वाहा ।
यः पश्येत् सर्व्वगं शान्तमात्मानं सत्यमद्वयम् ।
न तेन किञ्चिद्ध्यातव्यं ज्ञातव्यं वावशिष्यते ॥”
इति योगप्रदीपिकायां छायापुरुषोपदेशो
नाम षष्ठः पटलः ॥

छायाव्यवहारः, पुं, ज्योतिःशास्त्रोक्ताङ्कविशेषः ।

अथ छायाव्यवहारे करणसूत्रं वृत्तम् ।
“छाययोः कर्णयोरन्तरे ये तयो-
र्व्वर्गविश्ले षभक्ता रसाद्रीषवः ।
सैकलब्धेः पदघ्नन्तु कर्णान्तरं
भान्तरेणोनयुक्तं दले स्तः प्रभे ॥
उदाहरणम् ।
नन्दचन्द्रैर्मितं छाययोरन्तरं
कर्णयोरन्तरं विश्वतुल्यं ययोः ।
ते प्रभे वक्ति यो युक्तिमान् वेत्त्यसौ
व्यक्तमव्यक्तयुक्तं हि मन्येऽखिलम् ॥
न्यासः
छां(७२) छाया(४५२)
छायान्तरम् । १९ । कर्णान्तरम् । १३ । अनयो-
र्व्वर्गान्तरेण । १९२ । भक्ता रसाद्रीषवः । ५७६ ।
लब्धम् । ३ । सैकस्यास्य । ४ । मूलम् । २ ।
अनेन कर्णान्तरम् । १३ । गुणितम् । २६ ।
द्विस्थम् । २६ । भान्तरेण । १९ । ऊनयुते ।
७ । ४५ । तदर्द्धे लब्धे छाये (७२ ४५२) तत्कृत्यो-
र्योगपदमित्यादिना जातौ कर्णौ (२५२ ५१२)
छायान्तरे करणसूत्रं वृत्तार्द्धम् ।
शङ्कुः प्रदीपतलशङ्कुतलान्तरघ्न-
श्छाया भवेद्विनरदीपशिखौच्च्यभक्तः ।
उदाहरणम् ।
शङ्कुप्रदीपान्तरभूस्त्रिहस्ता
दीपोच्छ्रितिः सार्द्धकरत्रया चेत् ।
शङ्कोस्तदार्काङ्गुलसम्मितस्य
तस्य प्रभा स्यात् कियती वदाशु ॥
भूः ३ छाया(१२)शङ्कुः(१२)प्रदीपशङ्कुतलान्तरम् ३
अनयोर्घातः (३२) विनरदीपशिखौच्च्येन । ३ । भक्तो
लब्धानि छायाङ्गुलानि । १२ ।
अथ दीपोच्छ्रित्यानयनाय करणसूत्रं वृत्तार्द्धम् ।
छायाहृते तु नरदीपतलान्तरघ्ने
शङ्कौ भवेन्नरयुते खलु दीपकौच्च्यम् ।
उदाहरणम् ।
प्रदीपशङ्क्वन्तरभूस्त्रिहस्ता
छायाङ्गुलैः षोडशभिः समा चेत् ।
दीपोच्छ्रितिः स्यात् कियती वदाशु
प्रदीपशङ्क्वन्तरमुच्यतां मे ॥
न्यासः
शङ्कुः । १२ । छायाङ्गुलानि । १६ । शङ्कु
प्रदीपान्तरहस्ताः । ३ । लब्धं दीपकौच्च्यं
हस्ताः (११४)
प्रदीपशङ्कन्तरभूमानानयनाय करणसूत्रं
वृत्तार्द्धम् ।
विशङ्कुदीपोच्छ्रयसंगुणा भा
शङ्कूद्धृता दीपनरान्तरं स्यात् ॥
उदाहरणम् । पूर्ब्बोक्त एव दीपोच्छ्रायः (११४)
शङ्क्वङ्गुलानि । १२ । छाया । १६ । लब्धाः
शङ्कुप्रदीपान्तरहस्ताः । ३ ।
छायाप्रदीपान्तरदीपौच्च्यानयनाय करणसूत्रं
सार्द्धवृत्तम् ।
छायाग्रयोरन्तरसंगुणाभा
छायाप्रमाणान्तरहृद्भवेद्भूः ।
पृष्ठ २/४९२
भूशङ्कुघातः प्रभया विभक्तः
प्रजायते दीपशिखौच्च्यमेवम् ॥
त्रैराशिकेनैव यदेतदुक्तं
व्याप्तं खभेदैर्हरिणेव विश्वम् ॥
उदाहरणम् ।
शङ्कोर्भार्कमिताङ्गुलस्य सुमते ! दृष्टा किलाष्टाङ्गुला
छायाग्राभिमुखे करद्वयमिते न्यस्तस्य देशे पुनः ।
तस्यैवार्कमिताङ्गुला यदि तदा छायाप्रदीपान्तरं
दीपौच्च्यञ्च कियद्वद व्यवहृतिं छायाभिधां वेत्सि
चेत् ॥
भूः (१३३) छां (१३) भूः २ छां (१२)
अत्र छायाग्रयोरन्तरमङ्गुलात्मकम् । ५२ ।
छाये च । ८ । १२ । अनयोराद्या । ८ । इय-
मनेन । ५२ । गुणिता । ४१७ । छायाप्रमाणा-
न्तरेण । ४ । भक्ता लब्धं भूमानम् । १०४ ।
इदं प्रथमछायाग्रदीपतलयोरन्तरमित्यर्थः ।
एवं द्वितीयच्छायाग्रमानम् । १५६ । भूशङ्कुघातः
प्रभया विभक्त इति जातमुभयतोऽपि दीपौच्च्यं
सममेव हस्ताः ६(१२) ।
एवमित्यत्र छायाव्यवहारे त्रैराशिककल्पनया-
नयनं वर्त्तते तद्यथा । प्रथमच्छायातो द्वितीय-
च्छाया । १२ । यावताधिका तावता छाया-
वयवेन यदि छायाग्रान्तरतुल्याभूर्लभ्यते तदा
छायया किमिति एवं कृथक् पृथक् छ या-
प्रदीपतलान्तरप्रमाणं लभ्यते । ततो द्वितीयं
त्रैराशिकं यदि छायातुले भुजे शङ्कुः कोटि-
स्तदा भूतुल्ये भुजे किमिति लब्धं दीपकौच्च्य-
मुभयतोऽपि तुल्यमेव । एवं पञ्चराशिकादिक-
मखिलं त्रैराशिककल्पनयैव सिद्ध्वं यथा भग-
वता श्रीनारायणेन जननमरणक्लेशापहारिणा
निखिलजगज्जननैकबीजेन सकलभुवनभावनेन
गिरिसरित्सुरनरासुरादिभिः स्वभेदैरिदं जग-
द्ब्याप्तं तथेदमखिलं गणितजातं त्रैराशिकेन
व्याप्तं यद्येवं तद्वहुभिः किमित्याशङ्क्याह ।
यत्किञ्चिद्गुणभागहारविधिना बीजेऽत्र वा
गण्यते
तत् त्रैराशिकमेव निर्म्मलधियामेवावगम्यं
विदाम् ।
एतद्यद्बहुधास्मदादिजडधीधीवृद्धिबुद्ध्या बुधै-
स्तद्भेदान् सुगमान् विधाय रचितं प्राज्ञैः
प्रकीर्णादिकम् ॥”
इति श्रीभास्कराचार्य्यविरचितायां लीलावत्यां
छपाधिकारः समाप्ततामगात् ॥

छायाभृत्, पुं, (छायां छायारूपमृगलाञ्छनं यद्वा

छायां शीतलकान्तिं बिभर्त्तीति । भृ + क्विप् ।)
चन्द्रः । इति हेमचन्द्रः । २ । १९ ॥

छायामित्रं, क्ली, (छायया छायाकरणेन मित्र-

मिव छायाया मित्रमिति वा ।) छत्रम् । इति
शब्दरत्नावली ॥

छायामृगधरः, पुं, (छाया छायारूप एव मृगस्तं

धरतीति । धृ + अच् । छायामृगस्य धरो वा ।)
चन्द्रः । इति त्रिकाण्डशेषः ॥

छायासुतः, पुं, (छायायाः सूर्य्यपत्न्याः सुतः पुत्त्रः ।)

शनिः । इति हेमचन्द्रः । २ । ३४ ॥

छिः, पुं, (छ्यति छिनत्ति कीर्त्त्यादिकं नाशयती-

त्यर्थः । छो + बाहुलकात् किः ।) गर्हा ।
इत्येकाक्षरकोषः ॥

छिक्कनी, स्त्री, (छिक् इत्यव्यक्तक्षुतशब्दं कनत्य-

नया । कन् + करणे अप् ततो ङीष् ।) वृक्ष-
विशेषः । छिक्नी इति नाकछिक्नी इति
हाँचोटी इति च भाषा ॥ तत्पर्य्यायः । क्षव-
कृत् २ तिक्ता ३ छिक्किका ४ घ्राणदुःखदा ५ ।
अस्या गुणाः । कटुत्वम् । रुच्यत्वम् । तीक्ष्ण-
त्वम् । उष्णत्वम् । वह्निपित्तकारित्वम् । वात-
रक्तकुष्ठकृमिवातकफनाशित्वञ्च । इति भाव-
प्रकाशः ॥

छिक्का, स्त्री, (छिगित्यव्यक्तशब्देन कायतीति ।

कै + कः । ततष्टाप् ।) क्षुतम् । इति शब्दरत्ना-
वली ॥ छिँक् इति हिन्दी भाषा ॥ (यथा,
गारुडे ज्योतिश्चक्रे ६० अध्याये ।
“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्ब्बे महाफलम् ।
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥
नैरृते शोकसन्तापौ मिष्टान्नञ्चैव पश्चिमे ।
अन्नं प्राप्नोति वायव्ये उत्तरे कलहो भवेत् ।
ईशाने मरणं प्रोक्तं प्रोक्तं छिक्काफलाफलम् ॥”)

छिक्किका, स्त्री, (छिक्का क्षुतं साध्यत्वेनास्त्यस्याः ।

बाहुलकात् ठन् ।) छिक्कनी । इति भाव-
प्रकाशः ॥

छित्, [द्] त्रि, (छिनत्तीति । छिद् + क्विप् ।) छेदनकर्त्ता ॥

छितं, त्रि, (छायते स्मेति । छो + क्तः । “शाच्छो-

रन्यतरस्याम् ।” ७ । ४ । ४१ । इतीः ।) छिन्नम् ।
इत्यमरः । । ३ । १ । १०३ ॥

छित्तिः, पुं, (छिद् + क्तिन् ।) करजवृक्षः । इति

शब्दचन्द्रिका ॥ छेदश्च ॥

छित्वरः, त्रि, (छिनत्तीति । छिद् + “छित्वर-

च्छत्वरेति ।” उणां । ३ । १ । इति स्वरच् प्रत्य-
येन निपातनात् साधुः ।) छेदनद्रव्यम् । धूर्त्तः ।
वैरी । इत्युणादिकोषः ॥

छिद, इर ध ञ औ छेदे । इति कविकल्पद्रुमः ॥

(रुधां-उभं-सकं-अनिट् ।) छेदो द्विधाकरणम् ।
इर्, अच्छिदत् अच्छैत्सीत् । ध ञ, छिनत्ति
छिन्ते दात्रेण तृणं लोकः । औ, छेत्ता । इति
दुर्गादासः ।

छिदकं, क्ली, (छिनत्तीति । छिद् + क्वुन् ।) वज्रम् ।

इत्युणादिकोषः ॥

छिदा, स्त्री, (छिद् + “षिद्भिदाद्यङ् ।” ३ ।

४ । १०४ । इत्यङ् ततष्टाप् ।) छेदनम् । इति
मुग्धबोधम् ॥

छिदिः, स्त्री, (छिद्यतेऽनया इति । छिद् + “कॄगॄपॄ-

कुटिभिदिछिदिभ्यश्च ।” उणां । ४ । १४२ ।
इति इः स च कित् ।) कुठारः । इत्युणादिवृत्तिः ॥

छिदिरः, पुं, (छिनत्त्यनेनेति । छिद् + “इषिमदि-

मुदिखिदिच्छिदीति ।” उणां । १ । ५१ । इति
किरच् ।) करवालः । परश्वधः । पावकः ।
रज्जुः । इति मेदिनी । रे, १५५ ॥

छिदुरः, पुं, (छिनत्तीति । छिद् + “विदिभिदि-

च्छिदेः कुरच् ।” ३ । २ । १६२ । इति कुरच् ।)
छेदनद्रव्यम् । धूर्त्तः । वैरी । इति मेदिनी । रे,
१५६ ॥ (स्वयं छिन्ने, त्रि । यथा, रघुः । १६ । ६२ ।
“संलक्ष्यते न छिदुरोऽपि हारः ॥”)

छिद्र, त् क भेदे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) भेद इह रन्ध्रकरणम् ।
छिद्रयति छिद्रापयति भाण्डं बालकः । इति
दुर्गादासः ॥

छिद्रं, क्ली, (छिद्यते भिद्यते यत् । छिदिरौ

छेदने + “स्फायितञ्चिवञ्चीति ।” उणां । २ । १३ ।
इति रक् ।) भेदः । छेँदा इति भाषा । तत्-
पर्य्यायः । कुहरम् २ शुषिरम् ३ विवरम् ४
विलम् ५ निर्व्यथनम् ६ रोकम् ७ रन्ध्रम् ८
श्वभ्रम् ९ वपा १० शुषिः ११ । इत्यमरः ।
१ । ८ । २ ॥ स्वभ्रम् १२ शुषी १३ । इति
तट्टीका ॥ (यथा, महाभारते । ३ । ८२ । ५३ ।
“ततो गच्छेत धर्म्मज्ञ ! हिमवत्सुतमर्व्वुदम् ।
पृथिव्यां यत्र वै छिद्रं पूर्ब्बमासीत् युधिष्ठिर ! ॥”)
दूषणम् । इति मेदिनी । रे, ३८ ॥ (यथा,
महाभारते । २ । १२ । २९ ।
“बहुविघ्नश्च नृपते ! क्रतुरेष स्मृतो महान् ।
छिद्राण्यस्य तु वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥”
अवकाशः । नवमसंख्या । इति ज्योतिषम् ॥
लग्नादष्टमस्थानम् । “छिद्राख्यमष्टमं स्थान-
मिति ।” इति ज्योतिस्तत्त्वम् ॥)

छिद्रवैदेही, स्त्री, (छिद्रमधाना वैदेही पिप्पली ।)

गजपिप्पली । इति राजनिर्घण्टः ॥

छिद्रान्तः, [र्], पुं, (छिद्रमन्तर्मध्ये यस्य ।)

नलः । इति राजनिर्घण्टः ॥

छिद्राफलं, क्ली, (छिद्रं दूषणमाफलतीति । आ +

फल + अच् ।) मायाफलम् । इति राजनिर्घण्टः ॥

छिद्रितः, त्रि, (छिद्र + क्तः ।) कृतच्छिद्रः ।

तत्पर्य्यायः । वेधितः २ विद्धः ३ । इत्यमरः ।
३ । १ । ९९ ॥

छिन्नं, त्रि, (छिद्यते स्म इति । छिद् + क्तः ।)

कृतच्छेदनम् । छेँडा इति काटा इति च
भाषा । तत्पर्य्यायः । छातम् २ लूनम् ३ कृत्तम् ४
दातम् ५ दितम् ६ छितम् ७ वृक्णम् ८ । इत्य
मरः । ३ । १ । १०३ ॥ कृष्टम् ९ छादितम् १० । इति
जटाधरः ॥ छेदितम् ११ खण्डितम् १२ । इति
हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ९० । ११ ।
पृष्ठ २/४९३
“छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ॥” * ॥
मन्त्रविशेषे, पुं । तल्लक्षणादिकं यथा, विश्वसारे ।
“मनोर्यस्यादिमध्यान्तेष्वानिलं बीजमुच्यते ।
संयुक्तं वा वियुक्तं वा पराक्रान्तस्त्रिधा पुनः ॥
चतुर्धा पञ्चधा वापि स मन्त्रश्छिन्नसंज्ञकः ॥”)

छिन्नग्रन्थिनिका, स्त्री, (छिन्ना ग्रन्थिनी । संज्ञायां

कन् ततष्टाप् पूर्ब्बह्रस्वश्च ।) त्रिपर्णिका । इति
राजनिर्घण्टः ॥

छिन्नपत्री, स्त्री, (छिन्नं पत्रं यस्याः । स्त्रियां

ङीष् ।) अम्बष्ठा । इति राजनिर्घण्टः ॥ (विव-
रणमस्या अम्बष्ठाशब्दे ज्ञेयम् ॥)

छिन्नमस्ता, स्त्री, (छिन्नं मस्तं शिरो यस्याः ।)

दशमहाविद्यान्तर्गतषष्ठमहाविद्या । सा च
प्रचण्डचण्डिका । यथा, --
“प्रचण्डचण्डिकां वक्ष्ये सर्व्वकामफलप्रदाम् ।
यस्याः प्रसादमात्रेण सदाशिवो भवेन्नरः ॥
अपुत्त्रो लभते पुत्त्रं अधनो धनवान् भवेत् ।
कवित्वञ्च सुपाण्डित्यं लभते नात्र संशयः ॥”
अथप्रचण्डचण्डिकामन्त्राः । विश्वसारे जामले च ।
“लक्ष्मीं लज्जां ततो मायां मात्रां द्बादशिका-
मपि ।
वज्रवैरोचनीये द्वे माये फट्स्वाहया युतः ॥
लक्ष्मीबीजं यदाद्यं स्यात् तदा श्रीः सर्व्वतोमुखी ।
लज्जाबीजेन चाद्येन वश्यतां यान्ति योषितः ॥
मायाबीजेन चाद्येन महापातकनाशनम् ।
मात्रां द्बादशिकां बीजमाद्यं स्यान्मुक्तिदायकम् ॥
भैरवोऽस्य ऋषिर्द्देवि ! सम्राट् छन्द उदीरितम् ।
छिन्नमस्ता स्मृता देवी बीजं कूर्च्चद्वयं पुनः ॥
स्वाहा शक्तिरभीष्टार्थे विनियोग उदाहृतः ॥”
“अत्र लज्जापदं कामबीजपरम् । तथा च ।
अत्र लज्जापदे देवि ! कामबीजं वितन्यते ।
महाकालमतं ज्ञेयं मन्त्रोद्धारं शुभावहम् ॥”
पूर्ब्बमायापदे इति पाठे मायायाः पूर्ब्बं लज्जा-
बीजं तस्मिन्नित्यर्थः । तथा च । पूर्ब्बमायापदेन
लज्जाबीजमुच्यते । अन्यथा तापिन्यादिविरोधः ।
तथा च ।
“कामाद्यां वाग्भवाद्यां वा मायाद्यां वा जपेत्
सुधीः ।
लक्ष्म्याद्यां वा जपेद्विद्यां चतुर्व्वर्गफलप्रदाम् ॥
अन्येषाञ्च मुनीनां मते सर्व्वत्र मायापदं कूर्च्च-
परम् । तत्रैव ।
वान्तं वह्निसमायुक्तं रतिबिन्दुसमन्वितम् ।
लक्ष्मीबीजमिदं प्रोक्तं सर्व्वकामार्थसिद्धये ॥
वामाक्षिवह्निसंयुक्तं बिन्दुनादविभूषितम् ।
शिवबीजं महेशानि ! लज्जाबीजमुदाहृतम् ॥
ईशानमुद्धृत्य पुरारिबीजं
सबिन्दुकं नादविभूषितञ्च ।
सवामकर्णं परितः प्रकल्प्य
मायां वदन्तीह मनीषिणस्ताम् ॥
द्वादशस्वरवर्णं स्यात् नादबिन्दुविभूषितम् ।
वाग्भवं बीजमित्युक्तं सर्व्ववाक्यविशुद्धये ॥
इति मन्त्रे चतुर्ब्बीजव्याख्यानात् अयन्तु
समीचीनः । भैरवमते तु माया भुवनेश्वर्य्येव ॥
लक्ष्मीः प्रथमबीजेऽस्ति लज्जाबीजे मनोभवः ।
तृतीयेऽस्मिन् सदा देवी महापातकनाशिनी ॥
चतुर्थे तु गुणातीता मुक्तिविद्याप्रदायिका ।
बकारे बरुणः साक्षात् जकारे तु सुराधिपः ॥
रेफे हुताशनो देवो वकारे वसुधाधिपः ।
ऐकारे त्रिपुरा देवी रेफे त्रिपुरसुन्दरी ॥
त्रैलोक्यविजया देवी सदैवौकारसंस्थिता ।
चकारे चन्द्रमा देवो नकारे हि विनायकः ॥
ईकारे कमला साक्षात् यकारे च सरस्वती ।
मायायुग्मे सदा देवी प्रकृत्या सह सङ्गता ॥
वैखरीं चैव फट्कारे स्वाकारे कुसुमायुधः ।
हाकारे च रतिस्तिष्ठेदेवं मन्त्रसमुच्चयः ॥”
इति व्याख्यानाच्च ॥ * ॥
अस्याः पूजाप्रयोगः ।
प्रातःकृत्यादिकं कृत्वा मन्त्राचमनं कुर्य्यात् ।
यथा, --
“लक्ष्मीमायाकूर्च्चबीजैस्त्रिभिः पीत्वाम्बु साधकः ।
वाग्भवेनौष्ठौ संमृज्य मायाभ्यान्तु द्विरुन्मृजेत् ॥
कूर्च्चेन क्षालयेत् पाणी एभिर्म्मन्त्रैश्च विन्यसेत् ।
श्रीमायाकूर्च्चवाक्कामत्रिपुटाभगवर्णकैः ॥
कामकलाङ्कुशाभ्याञ्च वक्त्रनासाक्षिकर्णकान् ।
नाभिहृन्मस्तकं चांसौ स्पृष्ट्वा शम्भुर्भवेत् क्षणात् ॥
आचम्यैवं छिन्नमस्तां वत्सरात्तां प्रपश्यति ॥
ततः प्राणायामान्तं विधाय षोढान्यासं कुर्य्यात् ।
मन्त्रषोढां ततः कुर्य्यात् त्रैलोक्यवशकारिणीम् ।
श्रीबालात्रिपुटायोनिप्रासादप्रणवैस्तथा ॥
कालीबध्वङ्कुशैः कामकलाकूर्च्चास्त्रकैः क्रमात् ।
षोडशीमनुवर्णैश्च पृथगष्टादशाक्षरी ॥
एभिर्बीजैर्म्मातृकार्णान् स्वेषु स्थानेषु विन्यसेत् ।
एषा ब्रह्मस्वरूपा हि बीजषोढा प्रकीर्त्तिता ॥
अस्याः संन्यसनात् सर्व्वे वज्रदेहा भवन्ति हि ।
सर्व्वैश्वर्य्ययुतास्तेहि जीवन्मुक्ता दशाब्दतः ॥” * ॥
तत ऋष्यादिन्यासः ।
अस्य मन्त्रस्य भैरव ऋषिः सम्राट् छन्दः
छिन्नमस्ता देवता हुकारद्वयं बीजं स्वाहा
शक्तिरभीष्टार्थसिद्धये विनियोगः । यथा, शिरसि
भैरवऋषये नमः । मुखे सम्राट्छन्दसे नमः ।
हृदि छिन्नमस्तायै देवतायै नमः । गुह्ये हूँ
हूँ बीजाय नमः । पादयोः स्वाहाशक्तये
नमः ॥ ततः कराङ्गन्यासौ । ओम् आं
खड्गाय हृदयाय स्वाहा । इति कनीयसि ।
ओम् ईं सुखड्गाय शिरसे स्वाहा । इति
पवित्राङ्गुलयोः । ओम् ऊं सुवज्राय शिखायै
स्वाहा । इति मध्यमयोः । ओम् ऐं पाशाय
कवचाय स्वाहा । इति तर्ज्जन्योः । ओम् ॐ
अङ्कुशाय नेत्रत्रयाय स्वाहा । इत्यङ्गुष्ठयोः ।
ओम् अः सुरक्षारक्षासुरक्षायास्त्राय फट् । इति
करतलपृष्ठयोः । एवं हृदयादिषु । तदुक्तं भैरव-
तन्त्रे ।
“उच्चरेत् पूर्ब्बमाकारं बिन्दुलाञ्छितमस्तकम् ।
खड्गाय हृदयायेति स्वाहायुक्तं कनीयसि ॥
ईंकारञ्च ततो देवि ! चन्द्रकोटिसमप्रभम् ।
सुखड्गाय ततो वाच्यं शिरसे तदनन्तरम् ॥
स्वाहायुक्तं ततो वाच्यं पवित्राङ्गुलिसंयुतम् ।
ऊकारञ्च ततो वाच्यं बिन्दुलाञ्छितमस्तकम् ॥
सुवज्राय ततो वाच्यं शिखायै तदनन्तरम् ।
स्वाहान्तं मध्यमायाञ्च विन्यसेत्तदनन्तरम् ॥
मात्रां द्वादशिकां देवीं विन्यसेच्च ततः परम् ।
पाशायेति समुच्चार्य्य प्रवदेत् कवचाय च ॥
स्वाहान्तं विन्यसेन्मन्त्रं तर्ज्जन्यां तदनन्तरम् ।
औङ्कारञ्च ततो देवि ! चाङ्कुशं तदनन्तरम् ॥
नेत्रत्रयाय स्वाहान्तमङ्गुष्ठे करयोर्द्बयोः ।
अकारञ्च विसर्गान्तं सुरक्षारक्षसंयुतम् ॥
असुरक्षायसंयुक्तं अस्त्रायेति ततः परम् ।
फडक्षरसमायुक्तं विन्यसेत् करयोर्द्वयोः ॥
हृदि मूर्द्ध्नि शिखायाञ्च कवचे नेत्रमण्डले ।
यावदस्त्रं चतुर्द्दिक्षु विदिक्षु च यथाक्रमम् ॥”
त्रिशक्तितन्त्रे भैरववाक्यम् ।
“उच्चरेत् प्रणवं पूर्ब्बमाकारं बिन्दुसंयुतम् ।”
इत्यादिवाक्यात् कराङ्गेषु प्रणवसम्बलितो
न्यासः । ततो मूलेन मस्तकादिपादपर्य्यन
पादादिमस्तकपर्य्यन्तं वारत्रयं न्यसेत् ॥ * ॥
ततो ध्यानम् ।
“स्वनाभौ नीरजं ध्यायेदर्द्धं विकसितं सितम् ।
तत्पद्मकोषमध्ये तु मण्डलं चण्डरोचिषः ॥
जवाकुसुमसङ्काशं रक्तबन्धूकसन्निभम् ।
रजःसत्त्वतमोरेखायोनिमण्डलमण्डितम् ॥
मध्ये तु तां महादेवीं सूर्य्यकोटिसमप्रभाम् ।
छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥
प्रसारितमुखीं देवीं लेलिहानाग्रजिह्विकाम् ।
पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥
विकीर्णकेशपाशाञ्च नानापुष्पसमन्विताम् ।
दक्षिणे च करे कत्रीं मुण्डमालाविभूषिताम् ॥
दिगम्बरीं महाघोरां प्रत्यालीढपदे स्थिताम् ।
अस्थिमालाधरां देवीं नागयज्ञोपवीतिनीम् ॥
रतिकामोपरिष्ठाञ्च सदा ध्यायन्ति मन्त्रिणः ।
सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥
विपरीतरतासक्तौ ध्यायेद्रतिमनोभवौ ।
डाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्व्वतीम् ।
वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बरीम् ।
कपालकर्त्तृकाहस्तां वामदक्षिणयोगतः ।
नागयक्षोपवीताढ्यां ज्वलत्तेजोमयीमिव ॥
प्रत्यालीढपदां दिव्यां नानालङ्कारभूषिताम् ।
सदा द्वादशवर्षोयामस्थिमालाविभूषिताम् ॥
डाकिनीं वामपार्श्वे तु कल्पसूर्य्यानलोपमाम् ।
विद्युज्जटां त्रिनयनां दन्तपंक्तिवलाकिनीम् ॥
दंष्ट्राकरालवदनां पीनोन्नतपयोधराम् ।
महादेवीं महाघोरां मुक्तकेशीं दिगम्बरीम् ॥
लेलिहानमहाजिह्नां मुण्डमालाविभूषिताम् ।
कपालकर्त्तृकाहस्तां वामदक्षिणयोगतः ॥
देवीगलोच्छलद्रक्तधारापानं प्रकुर्व्वतीम् ।
करस्थितकपालेन भीषणेनातिभीषणाम् ॥
पृष्ठ २/४९४
आभ्यां निषेव्यमानां तां ध्यायेद्दवीं विचक्षणः ॥”
ध्यानस्यावश्यकत्वमाह । तन्त्रे ।
“प्रचण्डचण्डिकामेवमध्यात्वा यस्तु पूजयेत् ।
सद्यस्तस्य शिरश्छित्वा देवी पिबति शोणितम् ॥”
पिबन्तीमिति तेन मुखेनेति शेषः ।
तथा च ।
“स्वमस्तकं सखर्परं रक्तधाराभिपूरितम् ।
ललज्जिह्वं महाभीमं धृतं वामभुजे तथा ॥”
इति भैरवतन्त्रे ।
तत्रैव ।
“सितं कुर्य्याद्दलं पूर्ब्बमाग्नेयं रक्तवर्णकम् ।
याम्यं कृष्णमतः पीतं शुक्लं रक्तं सितासितम् ॥
ततः पीतां प्रकुर्व्वीत कर्णिकां तस्य मध्यगाम् ।
तन्मध्ये तु प्रकुर्व्वीत मण्डलं चण्डरोचिषः ॥
रजःसत्त्वतमोरेखा रक्ता शुक्लासिता क्रमात् ।
मायायुग्मं ततो न्यस्य षडक्षरसमन्वितम् ॥
वाह्यं तस्य च चक्रस्य कुर्य्यात् प्राकारवेष्टितम् ।
पूर्ब्बं रक्तं ततः कृष्णं सितं पीतं यथाक्रमम् ॥
चतुर्द्वारसमायुक्तं क्षेत्रपालैरधिष्ठितम् ॥”
इत्यस्याः पूजायन्त्रम् ॥ * ॥
यथा वा ।
“त्रिकोणं विन्यसेदादौ तम्मध्ये मण्डलत्रयम् ।
तन्मध्ये विन्यसेद्योनिं द्वारत्रयसमन्विताम् ॥
वहिरष्टदलं पद्मं भूविम्बत्रितयं पुनः ।
कूर्च्चबीजं लिखेम्मध्ये त्रिकोणे फट् समन्वितम् ॥”
यद्बा एतद्ध्व्यानोक्तं यन्त्रम् ।
तथाच ।
“अपरञ्च प्रवक्ष्यामि शृणु देवि ! यथाक्रमम् ।
स्वनाभौ नीरजं ध्यायेद्भानुमण्डलसन्निभम् ॥
योनिचक्रसमायुक्तं गुणत्रितयसंज्ञितम् ।
तत्र मध्ये महादेवीं छिन्नमस्तां स्मरेद्यतिः ॥
प्रदीपकलिकाकारामद्वितीयव्यवस्थिताम् ।
योनिमुद्रासमायुक्तां हृदयस्थितलोचनाम् ॥
ध्येयमेतद्यतीनाञ्च गृहस्थानां निशामय ॥”
यथा, --
“अन्तरे स्वशरीरस्य नाभिनीरजसङ्गताम् ।
निर्लेपां निर्गुणां सूक्ष्मां बालचन्द्रसमप्रभाम् ॥
समाधिमात्रगम्यान्तु गुणत्रितयवेष्टिताम् ।
कलातीतां गुणातीतां मुक्तिमात्रप्रदायिनीम् ॥”
एवं ध्यात्वा मानसैः संपूज्य तारिणीवच्छङ्ख-
स्थापनं कुर्य्यात् । ततः पीठपूजा । आधारश-
क्तये । प्रकृतये । कूर्म्माय । अनन्ताय । पृथिव्यै ।
क्षीरसमुद्राय । रत्नद्बीपाय । कल्पवृक्षाय । तदधः
स्वणसिंहासनाय । आनन्दकन्दाय । सम्बि-
न्नालाय । सर्व्वतत्त्वात्मकपद्माय । सं सत्त्वाय ।
रं रजसे । तं तमसे । आं आत्मने । अं अन्त-
रात्मने । पं परमात्मने । ह्रीं ज्ञानात्मने नमः ।
पद्ममध्ये रतिकामाभ्याम् ॥ भैरवमते तु ।
“आधारशक्तिं कूर्म्मन्तु नागराजमतःपरम् ।
पद्मनालञ्च पद्मञ्च पूजयेन्मन्त्रविन्नरः ॥
मण्डलं चतुरस्रञ्च रजः सत्त्वं तमस्तथा ।
रतिकामौ च संपूज्य शक्तिपूजां समाचरेदिति ॥
रतिकामोपरि वज्रवैरोचनीये देहि देहि
एहि एहि गृह्ण गृह्ण मम सिद्धिं देहि देहि
मम शत्रून् मारय मारय करालिके हूँ फट्
स्वाहेति पीठमन्त्रः ॥ सर्व्वत्र प्रणवादिनमो-
ऽन्तन पूजयेत् । पुनर्ध्यात्वावाहयेत् । सर्व्व-
सिद्धिवर्णनीये सर्व्वसिद्धिडाकिनीये वज्रवैरोच-
नीये इहावह इहावह पुनस्तन्मन्त्रमुच्चार्य्य इह
तिष्ठ इह तिष्ठ इह सन्निधेहि इह सन्निरुध्यस्व
इत्यनेनावाह्य आं ह्रीँ क्रोँ हं सः इत्यनेन प्राण-
प्रतिष्ठां कृत्वा । ओम् आं खड्गाय हृदयाय
स्वाहा इत्यादिना षडङ्गं विन्यस्य यथाशक्ति
पूजां कृत्वा बलिं दद्यात् । यथा । वज्ववैरो-
चनीये देहि देहि एहि एहि गृह्ण गृह्ण इमं
बलिं मम सिद्धिं देहि देहि मम शत्रून् मारय
मारय करालिके हूं फट् स्वाहा इति मन्त्रेण ।
ततो देव्या दक्षिणे ॐ वर्णिन्यै नमः । वामे
ॐ डाकिन्यै नमः । ततो देव्यङ्गे षडङ्गं
संपूज्य दक्षिणे ॐ शङ्खनिधये नमः । वामे
ॐ पद्मनिधये नमः । पूर्ब्बादिदिक्षु लक्ष्मीं
लज्जां मायां वाणीञ्च पूजयेत् । विदिक्षु ब्रह्म-
विष्णुरुद्रेश्वरान् मध्ये सदाशिवं सर्व्वत्र प्रणवादि
नमोऽन्तेन पूजयेत् । ततः पञ्च पुष्पाञ्जलिं
दत्त्वा आवरणान् पूजयेत् । अग्नीशासुरवायुषु
मध्ये दिक्षु च ओम् आं खड्गाय हृदयाय
स्वाहा इत्यादिना षडङ्गानि संपूज्य अष्टपत्रेषु
पूर्ब्बादिक्रमेण ओम् ह्रीं काल्यै नमः एवं वर्णिन्यै
डाकिन्यै भैरव्यै महाभैरव्यै इन्द्राक्ष्यै पिङ्गाक्ष्यै
संहारिण्यै सर्व्वत्र प्रणवादिनमोऽन्तेन पूजयेत् ।
यथा, --
“एकां नामाभिधां कालीं वर्णिनीं डाकिनीं तथा ।
भैरवीञ्च महापूर्ब्बां भैरवीं तदनन्तरम् ॥
इन्द्राक्षीञ्च सपिङ्गाक्षीं ततः संहारकारिणीम् ।
पूर्ब्बादिके दले पूज्याः शक्तयश्च यथाक्रमम् ॥
प्रणवादिनमोऽन्तेन लज्जाबीजं समुच्चरन् ।”
पद्ममध्ये हूं हूं फट् नमः स्वाहा नमः ।
देव्या दक्षिणे सम्राट्छन्दसे नमः । देव्या
उत्तरे सर्व्ववर्णेभ्यो नमः । पुनर्द्दक्षिणे ओं बीज-
शक्तिभ्यां नमः । पत्राग्नेषु पूर्ब्बादिक्रमेण ब्राह्म्यै
माहेश्वर्य्यै कौमार्य्यै वैष्णव्यै वाराह्यै इन्द्राण्यै
चामुण्डायै महालक्ष्म्यै सर्व्वत्र प्रणवादिनमो-
ऽन्तेन पूजयेत् । ततश्चतुर्द्दिक्षु द्बारेषु ओम्
करालाय नमः । विकरालाय नमः । एवं अति-
करालाय महाकरालाय । यथा, भैरवीये ।
“पूर्ब्बद्वारे करालञ्च विकरालञ्च दक्षिणे ।
पश्चिमेऽतिकरालञ्च महाकरालमुत्तरे ॥”
ततो धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।
विसर्ज्जने त्वयं विशेषः । संहारमुद्रां प्रदर्श्य
अञ्जलावारोप्य वामनासापुटेन ।
योनिमुद्रासमारूढां प्रदीपकलिकोज्ज्वलाम् ।
कृष्णपक्षे विधुमिव क्रमेण क्षीणतां गताम् ॥
इमं मन्त्रं समुच्चार्य्य चण्डरश्मौ निवेशयेत् ।
उत्तरे शिखरे इत्यादि । अस्य पुरश्चरणं लक्ष-
जपः । सिद्धविद्यात्वात् ॥ * ॥ बलिदाने तु
भैरवीये ।
“रात्रौ बलिः प्रदातव्यो मत्स्यमांससुरादिभिः ।
अथवा मधुपानाद्यैर्म्मधुरैर्व्विभवक्रमैः ॥
मन्त्रस्तु ।
उच्चरेत् प्रणवं पूर्ब्बं सर्व्वसिद्धिप्रदेऽन्वितम् ।
वर्णिनीये ततो वाच्यं सर्व्वसिद्धिप्रदे ततः ॥
डाकिनीये ततो वाच्यं देवीनाम ततः परम् ।
एह्येहीति ततो वाच्यं इमं बलिमनन्तरम् ॥
गृह्ण गृह्ण ततः प्रोक्त्वा मम सिद्धिमनन्तरम् ।
देहि देहीति माये च ततः फट्स्वाहया युतः ॥
बलिमन्त्रः समाख्यातः पूजितोऽयं सुरेश्वरीति ॥
मन्त्रान्तरम् ।
भुवनेशी कामबीजं कूर्च्चबीजञ्च वाग्भवम् ।
भुवनेशी कूर्च्चबीजं वाग्भवं तदनन्तरम् ॥
वज्रवैरोचनीये च हूं फट् स्वाहा ततः परम् ॥
अस्य पूजाप्रयोगन्यासपूजादिकं षोडशीवत्
कार्य्यम् ॥ * ॥
हृल्लेखा मादनं लक्ष्मीर्व्वाग्भवं कूर्च्चमेव च ।
अस्त्रान्ता छिन्नमस्ताया महाविद्या प्रकीर्त्तिता ॥
अस्यापि सदृशी विद्या जगत्स्वपि न विद्यते ।
षड्वर्णोऽयं मनुः साक्षान्मोक्षदो नात्र संशयः ॥
अस्या ध्यानमहं वक्ष्ये शृणुष्व कमलानने ! ।
प्रत्यालीढपदां रुदैव दधतीं छिन्नं शिरः
कर्त्तृकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं
मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जवासन्नि-
भाम् ॥
दक्षे चातिसिता विमुक्तचिकुरा कत्रीं तथा
स्वर्परं
हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा
वर्णिनी ।
देव्याश्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा
नागाबद्धशिरोमणिर्म्मनुविदा ध्येया सदा
सासुरैः ॥
वामे कृष्णतनुस्तथैव दधती खड्गं तथा खर्परं
प्रत्यालीढपदा कबन्धविगलद्रक्तं पिबन्ती मुदा ।
सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी
शक्तिः सापि परात्परा भगवती नाम्ना परा
डाकिनो ॥
इति ध्यानम् ।
अस्याः पूजादिकं सर्व्वं षोडशीवत् कार्य्यम् ॥ * ॥
मन्त्रान्तरम् ।
तारं लज्जाद्वयं वज्रवैरोचनीये हूं फट् स्वाहा ।
अस्यापि ध्यानपूजादिकं सर्व्वं षोडशीवत् ॥ * ॥
वियत्सूत्रयुतं बिन्दुनादयुक्तं ततः प्रिये ! ।
एकाक्षरी महाविद्या त्रैलोक्यवशकारिणी ॥
सूत्रं दीर्घ ऊकारः ॥
ठठान्तैषा महाविद्या त्रैलोक्यमोहकारिणी ।
ताराद्यन्ता भवत्येषा चतुर्व्वर्गफलप्रदा ॥ * ॥
पृष्ठ २/४९५
मन्त्रान्तरं यथा, --
वज्रवैरोचनीये च कूर्च्चयुग्मं सफट्ठटः ।
ताराद्यैषा महाविद्या सर्व्वतेजोऽपहारिणी ॥
त्रैलोक्याकर्षिणी विद्या चतुर्व्वर्गफलप्रदा ।
ध्यानपूजादिकं सर्व्वं षोडशीवत् समाचरेत् ॥ * ॥
इदानीं षोडशीविद्याप्रशंसामाह ।
तथा सर्व्वप्रयत्नेन सर्व्वापास्या च षोडशी ।
लक्ष्मीबीजादिका सैव सर्व्वैश्वर्य्यप्रदायिनी ॥
लज्जाद्या स्वर्गभूनागयोषिदाकर्षिणी परा ।
कूर्च्चाद्या सर्व्वजन्तूनां महापातकनाशिनी ॥
वाग्भवाद्या यदा देबी वागीशत्वप्रदायिनी ।
एषा तु षोडशीविद्या वेद्या सप्तदशाक्षरी ॥
श्रीबीजपुटिता सा तु लक्ष्मीवृद्धिकरी सदा ।
लज्जया पुटिता विद्या त्रैलोक्याकर्षिणी परा ॥
कूर्च्चेन पुटिता सर्व्वपापिनां पापहारिणी ।
वाग्बीजपुटिता चैषा वागीशत्वप्रदायिनी ॥
चतुर्व्विधेति विद्यैषा प्रिये ! सप्तदशाक्षरी ।
ताराद्या षोडशी चान्या भवेत् सप्तदशाक्षरी ।
एषा विद्या महाविद्या भुक्तिमुक्तिकरी सदा ।
कमला भुवनेशानी कूर्च्चबीजं सरस्वती ॥
बज्रवैरोचनीये च पूर्ब्बबीजानि चोच्चरेत् ।
फट् स्वाहा च महाविद्या वसुचन्द्राक्षरी परा ।
ताराद्येकोनविंशार्णा ब्रह्मविद्यास्वरूपिणी ।
एते विद्योत्तमे देवि ! भुक्तिमुक्तिप्रदे शुमे ॥ * ॥
लक्ष्म्यादिपुटिता पूर्ब्बा रन्ध्रचन्द्राक्षरी भवेत् ।
चतुर्द्धा च महाविद्या चतुर्व्वर्गफलप्रदा ॥
प्रणवाद्या यदा चैषा भोगमोक्षकरी सदा । * ।
विद्यान्तरं प्रवक्ष्यामि सावधानावधारय ।
हृल्लेखाकूर्च्चवाग्बीजवज्रवैरोचनीये हूं ॥
अस्त्रं स्वाहा महाविद्या चतुर्द्दशाक्षरी मता ।
सर्व्वैश्वर्य्यप्रदा चैषा सर्व्वसंमोहकारिणी ॥ * ॥
भुवनेशी त्रितत्त्वञ्च वाग्बीजं प्रणवं ततः ।
वज्रवैरोचनीये च फट् स्वाहा च तथापरा ॥
चतुर्द्दशाक्षरी चैषा चतुर्व्वर्गफलप्रदा ।
एषा विद्या महाविद्या जन्ममृत्युविनाशिनी ॥ * ॥
तन्त्रान्तरे ।
रमाकामस्तथालज्जा वाग्भवं वज्र वै पदम् ।
रोचनीये लज्जाद्बन्द्बमन्त्रं स्वाहासमन्वितम् ॥
इयं सा षोडशी प्रोक्ता सर्व्वकामफलप्रदा ।
कथिताः सकला विद्याः सारात्सारतराः शुभाः ॥
आसां ऋषिर्भैरवोऽहं नाम्ना तु क्रोधभूपतिः ।
सम्राट् छन्दो देवता च छिन्नमस्ता प्रकीर्त्तिता ।
षड्दीर्घभाक्खरेणैव प्रणवाद्येन सुन्दरि ! ।
खड्गाद्येन ठठान्तानि षडङ्गानि प्रकल्पयेत् ॥
नारिदोषादिकञ्चासां ताः सुसिद्धाः सुरासुरैः ।
सकलेषु च वर्णेषु सकलेष्वाश्रमेषु च ॥
अन्तिमेषु च वर्णेषु भुक्तिमुक्तिप्रदायिका ।
प्रणवाद्याश्च या विद्या शूद्रादौ न समीरिताः ॥
अस्याञ्चैव विशेषोऽयं योषिच्चेत् समुपासयेत् ।
डाकिनी सा भवत्येव डाकिनीभिः प्रजायते ॥
पतिहीना पुत्त्रहीना यथा स्यात् सिद्धयोगिनी ।
इति ते कथितं तत्त्वं रहस्यमखिलं प्रिये ! ॥
अतिस्नेहतरङ्गेन भक्त्या दासोऽस्मि ते प्रिये ! ।
एतासांध्यानपूजादिकं षोडशीवत् कार्य्यम् ॥ * ॥
नाभौ शुद्धारविन्दं तदुपरि कमलं मण्डलं चण्ड-
रश्मेः
संसारस्यैकसारां त्रिभुवनजननीं धर्म्म-
कामोदयाढ्याम् ।
तस्मिन् मध्ये त्रिकोणे त्रितयतनुधरां छिन्नमस्तां
प्रशस्तां
तां वन्दे ज्ञानरूपां निखिलभयहरां योगिनीं
योगमुद्राम् ॥”
इति छिन्नमस्ताप्रकरणम् । इति तन्त्रसारः ॥

छिन्नरुहः, पुं, (छिन्नोऽपि रोहतीति । रुह +

“इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।)
तिलकवृक्षः । इति राजनिर्घण्टः ॥

छिन्नरुहा, स्त्री, (छिन्ने सत्यपि रोहतीति । रुह

+ कः । अजादित्वात् टाप् ।) गुडूची । इत्य-
मरः । २ । ४ । ८२ ॥ (यथास्याः पर्य्यायाः ।
“वत्सादनी च्छिन्नरुहा मधुपर्ण्यमृतामरा ।
कुण्डल्यमृतवल्ली च गुडूची चक्रलक्षणा ॥”
इति वैद्यकरत्नमालायाम् ॥)
स्वर्णकेतकी । शल्लकी । इति राजनिर्घण्टः ॥

छिन्नवेशिका, स्त्री, (छिन्नो विच्छिन्नो वेशो यस्याः ।

संज्ञायां कन् । ततष्टापि अत इत्वम् ।) पाठा ।
इति शब्दचन्द्रिका । आकनादी इति भाषा ॥

छिन्ना, स्त्री, (छिद्यतेऽसौ । छिद + क्त । “अजा-

द्यतष्टाप् ।” ४ । १ । ४ । इतिटाप् ।) गुडूची । (यथा,
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“गुडूची मधुपर्णी स्यादमृतामृतवल्लरी ।
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ॥”
छिद्यते कुलात् वहिष्क्रियते इति ।) पुंश्चली ।
इति विश्वः ॥

छिन्नोद्भवा, स्त्री, (छिन्ना विभिन्ना सत्यपि उद्भवति

पुनर्जायते इति । उत् + भू + अच् । यद्बा,
छिन्ने छेदनेऽपि उद्भव उत्पत्तिर्यस्याः ।)
गुडूची । इति राजनिर्घण्टः ॥ (गुडूचीशब्देऽस्या
विवृतिर्ज्ञेया ॥)

छिलिहिण्डः, पुं, (चिलिना वसनखण्डरूपतया

हिण्डते अनाद्रियते इति । हिण्ड अनादरे +
अच् । पृषोदरादित्वात् चस्य छः ।) पाताल-
गरुडवृक्षः । इति भावप्रकाशः ॥

छुछुन्दरी, स्त्री, (छुछुमित्यव्यक्तशब्दो दीर्य्यति

निर्गच्छत्यस्याः । दॄ + “सर्व्वधातुभ्य इन् ।” उणां
४ । ११७ । इति इन् । ततः कृदिकारादिति
ङीष् ।) जन्तुविशेषः । छुँचा इति भाषा । तत्-
पर्य्यायः । गन्धमूषा २ । इति हेमचन्द्रः । ४ ।
३६७ ॥ चिक्कः ३ वेश्मनकुलः ४ पुंवृषः ५ गन्ध-
मूषिकः ६ । इति त्रिकाण्डशेषः ॥ गन्धमूषिका ७ ।
इति हलायुधः । राजपुत्त्री ८ प्रतिमूषिका ९
सुगन्धिमूषिका १० गन्धशुण्डिनी ११ शुण्डि-
मूषिका १२ । इति राजनिर्घण्टः ॥ गन्धाखुः १३
गन्धनकुलः १४ चुञ्चुः १५ । इति हारावली ।
(छुछुन्दरिः १६ । इतिमार्कण्डेयपुराणम् । १५ । ३१ ॥
“अभ्यङ्गान्नाशयेत् क्षिप्रं गण्डमालां सुदारुणाम् ।
छुछन्दर्य्या विपक्वन्तु क्षणात्तैलवरं ध्रुवम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे गण्डमालाधिकारे ॥)

छुट, क शि छेदे । इति कविकल्पद्रुमः ॥ (चुरां

तुदां च-सकं-सेट् ।) क, छोटयति । शि,
छुटति । अच्छुटीत् । इति दुर्गादासः ॥

छुद्रं, क्लो, (छद + रक् । पृषोदरादित्वात् उत्वम् ।)

प्रतीकरणम् । रश्मिः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥

छुप, श औ स्पर्शे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-अनिट् ।) श, छुपति । औ, छोप्ता ।
इति दुर्गादासः ॥

छुपः, पुं, (छुप + घञर्थे कः ।) क्षुपः । स्पर्शनम् ।

इति मेदिनी । पे, ६ ॥ चपलः । युद्धम् ।
इति विश्वः ॥

छुर, छेदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । छोरति । अच्छोरीत् ॥)

छुर, शि लोपे । इति कविकल्पद्रुमः । (तुदां-परं-

सकं-सेट् ।) शि, छुरति, अच्छुरीत् चुच्छोर ।
लोपश्छेदः । इति दुर्गादासः ॥

छुरा, स्त्री, (छुरति रञ्जयति नाशयति दुर्गन्धा-

दिकमिति वा । छुर + कः टाप् च ।) सुधा ।
चूर्णम् । इति हारावली । १३५ ॥

छुरिका, स्त्री, (छुरति छिनत्तीति । छुर + क्वुन् ।

यद्वा, छुरी + स्वार्थे कन् । पूर्ब्बह्रस्वश्च ।)
अस्त्रविशेषः । छुरी इति ख्याता । तत्पर्य्यायः ।
शस्त्री २ असिपुत्त्री ३ असिधेनुका ४ । इत्य
मरः । २ । ८ । ९२ ॥ छुरी ५ । इति भरतः ॥
खुरी ६ छूरी ७ कृपाणिका ८ धेनुपुत्त्री ९ ।
इति हेमचन्द्रः ॥ छूरिका १० । इति शब्द-
रत्नावली ॥ (यथा, कथासरित्सागरे । २५ । १४९ ।
“तावत् स्त्रियमपश्यत्तां छित्त्वा च्छुरिकया मुहुः ।
खादन्ती तस्य मांसानि पुंसः शूलाग्रवर्त्तिनः ॥”)

छुरितं, त्रि, (छुर + क्तः ।) खचितम् । इति

जटाधरः ॥ (रञ्जितम् । यथा, माधे । १ । २२ ।
“परस्परेण च्छुरितामलच्छवी
तदैकवर्णाविव तौ बभूवतुः ॥”)
छिन्नञ्च ॥

छुरी, स्त्री, (छुरति छिनत्तीति । छुर छेदे +

“इगुपधज्ञेति ।” ३ । १ । १३५ । इति क ।
ततो ङीष् ।) छुरिका । इति भरतः ॥

छूरिकापत्री, स्त्री, (छुरिका इव पत्राणि यस्याः ।

स्त्रियां ङीष् ।) श्वेता । इति राजनिर्घण्टः ॥

छूरी, स्त्री, (छुरी + पृषोदरादित्वात् दीर्घः ।)

छुरिका । इति हेमचन्द्रः । ३ । ४४८ ॥

छृद, कि सन्दीपे । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-सकं-सेट् ।) सन्दीपो दीप्ती-
करणम् । कि, छर्द्दयति छर्दति दीपं लोकः ।
इति दुर्गादासः ॥

छृद, उ ञ ध इर् देवने । त्विषि । वमने । इति

कविकल्पद्रुमः ॥ (रुधां-उभं-सकं-सेट् । उदित्वात
क्त्वावेट् ।) उ, छिद्दित्वा छृत्त्वा । ञ ध, छृणत्ति
पृष्ठ २/४९६
छृन्ते । इर्, अछृदत् अच्छर्द्दीत् । देवनं
जिगीषेच्छाव्यवहारस्तुतिद्युतिक्रीडागतयः । इति
केचित् । स्वमते तु क्रीडनमेव अन्यथा त्विषो
ग्रहणमनर्थकं स्यात् । त्विषि दीप्तौ । इति दुर्गा-
दासः ॥

छेकः, त्रि, (छ्यति वनवासादिसुखं छिनत्ति नाश-

यतीति । छो य लूनौ + बाहुलकात् डेकन् ।)
गृहासक्तपक्षिमृगौ । तत्पर्य्यायः । गृह्यकः २ ।
इत्यमरः । २ । ६ । ४३ ॥ नागरः । इति मेदिनी ।
के, २४ ॥ (शब्दालङ्कारविशेषे, पुं । स तु अनु-
प्रासभेदः । तल्लक्षणं यथा, साहित्यदर्पणे । १० । ४ ।
“छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा ॥”
तदुदाहरणं यथा, तत्रैव, --
“आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ॥”
अत्र गन्धानन्धीति संयुक्तयोः कावेरीवारीत्य-
संयुक्तयोः पावनः पवन इति बहूनां व्यञ्जनानां
सकृदावृत्तिः । छेको विदग्धस्तत्प्रयोज्यत्वादेष
छेकानुप्रासः ॥”)

छेकोक्तिः, स्त्री, (छेकानां विदग्धानां उक्तिः ।)

वक्रोक्तिः । इति जटाधरः ॥ (विशेषस्तु वक्रोक्ति-
शब्दे ज्ञेयः ॥)

छेद, त् क छेदे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां-परं-सकं-सेट् ।) अचिच्छेदत् । इति
दुर्गादासः ॥

छेदः, पुं, (छिद + भावे घञ् ।) छेदनम् । इति

हेमचन्द्रः । ३ । ३६ ॥ (यथा, कुमारे । २ । ४१ ।
“तेनामरबधूहस्तैः सदयालूनपल्लवाः ।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनदुमाः ॥”
नाशः । अपगतिः । यथा, शाकुन्तले २ य अङ्के ।
“मेदच्छेदकृशोदरं लघु भवत्युत्त्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं
भयक्रोधयोः ॥” * ॥
छिद्यते इति । छिद् + कर्म्मणि घञ् ।) खण्डम् ।
इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । १ । ४ ।
“वलाहकच्छेदविभक्तरागा-
मकालसन्ध्यामिव धातुमत्ताम् ॥”)

छेदनं, क्ली, (छिद् + भावे ल्युट् ।) अस्त्रेण द्विधा

करणम् । तत्पर्य्यायः । वर्द्वनम् २ । इत्यमरः ।
३ । २ । ७ ॥ कर्त्तनम् ३ कल्पनम् ४ छेदः ५ ।
इति हेमचन्द्रः ॥ (यथा, मनुः । ११ । १४२ ।
“फलदानान्तु वृक्षाणांछेदने जप्यमृक्शतम् ॥”
नाशः । अपनोदनम् । यथा, महाभारते ।
३ । १८५ । २४ ।
“श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् द्रुतम् ।
सनत्कुमारं धर्म्मज्ञं संशयच्छेदनाय वै ॥” * ॥)
भेदः । इति मेदिनी । ने, ६५ ॥
(छिनत्तीति । छिद् + ल्युः । छेदके, त्रि । यथा,
महाभारते । २ । ५४ । ९ ।
“प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रवाधते ।
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥”
तथाच तत्रैव । १ । ३३ । ३ ।
“ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्म्मितम् ॥”)

छेदनीयः, पुं, (छेदितुं योग्यः । छेद + “अर्हे-

कृत्यतृचश्च ।” ३ । ३ । १६९ । इति अनीयर् ।)
कतकवृक्षः । इति राजनिर्घण्टः ॥ (कतकशब्दे
गुणादयोऽस्य व्याख्याताः ॥) छेद्ये, त्रि ॥ (यथा,
सुश्रुते । १ । २७ ।
“अनुत्तुण्डित शल्यानि छेदनीयमुखानि च ॥”)

छेदिः, त्रि, (छिनत्तीति । छिद् + “हृपिषि-

रुहीति ।” उणां ४ । ११८ । इति इन् ।)
छेदनकर्त्ता । इत्युणादिकोषः ॥

छेदितं, त्रि, (छेद त् क छेदे + क्त ।) छिन्नम् ।

इति हेमचन्द्रः ॥ (यथा, काशीखण्डे । २९ । ६२ ।
“छेदिताखिलपापौघा छद्मघ्नी छलहारिणी ॥”)

छेमण्डः, पुं, (छमु अदने + बाहुलकात् अण्डन्

अत एत्वञ्च ।) पितृहीनः । इत्युणादिवृत्तिः ।
१ । १२८ । छेमडा इति भाषा ॥

छेलुः, पुं, सोमराजी । इति शब्दचन्द्रिका ॥

छो, य लूनौ । इति कविकल्पद्रुमः ॥ (दिवां-परं-

सकं-अनिट् ।) लूनिश्छेदः । य, छ्यति धान्यं
लोकः । इति दुर्गादासः ॥

छोटिका, स्त्री, (छटति यज्ञविघ्नकारिणां मायां

छिनत्तीति । छुट + ण्वुल् । टापि अत इतञ्च ।)
तर्ज्जन्यङ्गुष्ठाङ्गुलिध्वनिः । यथा, “छोटिकाभि-
र्दशदिग्बन्धनं कृत्वा भूतशुद्धिं कुर्य्यात् ।” इति
तन्त्रसांरः ॥

छोटी [न्] पुं, (छुटति नीचजातितया स्वल्पी-

भवतीति । छुट + णिनिः ।) कैवर्त्तः । इति
त्रिकाण्डशेषः ॥

छोरणं, क्ली, (छुर + भावे ल्युट् ।) परित्यागः ।

इति त्रिकाण्डशेषः ॥ छोडन इति हिन्दी
भाषा ॥

छोलङ्गः, पुं, (छुरतीति । छुर + बाहुलकात्

अङ्गच् । ततो रस्य लत्वम् ।) मातुलुङ्गः ।
इति शब्दरत्नावली ॥ टावालेवु इति भाषा ॥

छ्यु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-सेट् ।) ङ, छ्यवते । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/छ&oldid=213149" इत्यस्माद् प्रतिप्राप्तम्