सामग्री पर जाएँ

शब्दकल्पद्रुमः/चारं

विकिस्रोतः तः
पृष्ठ २/४४४

चारं, क्ली, (चर्य्यते भक्ष्यते कोपद्वेषादिवशा-

दिति । चर + कर्म्मणि घञ् ।) कृत्रिमविषम् ।
इति हेमचन्द्रः । ३ । ३९८ ॥

चारः, पुं, पियालवृक्षः । गतिः । बन्धः । अपसर्पः ।

इति मेदिनी । रे, ३३ ॥ कारागारम् । इति
हेमचन्द्रः । ३ । ३९८ ॥ (चर एव इति स्वार्थे
अण् ।) गूढपुरुषः । चरः । तद्बिवरणम् । यदुक्तं
कालिकापुराणे ८५ अध्याये ।
“कृषिदुर्गञ्च बाणिज्यं खल्यानां करसाधनम् ।
आदानं स्यैन्यकरयोर्ब्बन्धनं गजवाजिनोः ॥
शून्यवप्रमुखानाञ्च योजनं सततं जनैः ।
प्रजानां सारसेतूनां वन्धनं चेति चाष्टमम् ॥
एतदष्टासु वर्गेषु चारान् सम्यक् प्रयोजयेत् ।
कार्य्याकार्य्यविभागाय चाष्टवर्णाधिकारिणाम् ॥
अष्टौ चारान् नियुञ्जीयादष्टवर्गेषु पार्थिवः ।
दशस्वन्येषु युञ्जीत क्रमतः शृणु तानि मे ॥
स्वामी सचिवराष्ट्राणि मित्रं कोषो बलं तथा ।
दुर्मन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् ॥
दुर्गयुक्तं चाष्टवर्गे चारं नात्मनि योजयेत् ।
तस्मादिमानि शेषाणि पञ्च चारपदानि तु ॥
शुद्धान्तेष्वेव पुत्त्रेषु स्रक्पूपादौ महानसे ।
शत्रूदासीनयोश्चैव बलाबलविनिश्चये ॥
आदौ दशसु चैतेषु चारान् राजा प्रयोजयेत् ।
नयात् प्रकाशं जानीयात् तत्तु चारैर्निरूपयेत् ॥
निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत् ।
यथानियोगमेतेषां यो यो यत्रान्यथा चरेत् ॥
ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद्वा नियोजयेत् ।
चारांस्तु मन्त्रिणा सार्द्धं रहस्ये संस्थितो नृपः ॥
प्रदोषसमये पृच्छेत्तदानीमेव साधयेत् ।
स्वपुत्त्रे चाथ शुद्धान्ते ये तु चारा महानसे ॥
नियुक्तांस्तान् मध्यरात्रौ पृच्छेत् यश्चापि मन्त्रिणि ।
एतान् चारान्स्वयं पश्येत् नृपतिर्मन्त्रिणा विना ॥
अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत् फलम् ।
नैकवेशधरश्चारो नैको नोत्साहवर्ज्जितः ॥
संस्तुतो न हि सर्व्वत्र नातिदीर्घो न वामनः ।
सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् ॥
न वित्तविभवैर्हीनो न भार्य्यापुत्त्रवर्ज्जितः ।
कार्य्यश्चारो नृपतिना गुह्यतत्त्वविनिर्णये ॥
अनेकवेशग्रहणक्षमं भार्य्यासुतैर्युतम् ।
बहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् ॥
दृढभक्तं प्रकुर्व्वीत चारं शक्तमसाध्वसम् ।
अधितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा ॥
बणिक्पथे च दुर्गादौ तेषु शक्तान्नियोजयेत् ।
अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान् नियो-
जयेत् ॥
षण्डान् पण्डान् तथा वृद्धान् स्त्रियो या बुद्धि-
तत्पराः ।
शुद्धान्त्रद्वारि युञ्जीयात् स्त्रियो वृद्धा मनी-
षिणीः ॥”
यथा च युक्तिकल्पतरौ ।
“नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ।”
(कापटिकपुरुषादयः । यथा, मनुः । ७ । १८४ ।
“उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय च ॥”
“चारांश्च कापटिकादीन् ।” इति कुल्लूकभट्टः ॥
प्रचारः । यथा, रामायणे । २ । ६६ । २६ ।
“निवृत्तचारः सहसा गतो रविः
प्रवृत्तचारा रजनी ह्युपस्थिता ।”
“निवृत्तचारः निवृत्तकिरणप्रचारः प्रवृत्तचारा
प्रवृत्ततमःप्रचारा ।” इति तट्टीकायां रामा-
नुजः ॥ बाणिज्यादिव्यवहारः । यथा, महा-
भारते । ५ । ३८ । १२ ।
“भृतैर्बाणिज्यचारञ्च पुत्त्रैः सेवेत च द्बिजान् ॥”
सञ्चारः । प्रवृत्तिः । यथा, देवीभागवते । १ ।
११ । २२ ।
“न स्त्री दुष्यति चारेण न विप्रो वेदकर्म्मणा ।”
“चारेण रजःसञ्चारेण ।” इति टीकाकृन्नील-
कण्ठः ॥)

चारकः, पुं, (चारयति इति । चर + णिच् +

ण्वुल् ।) अश्वादेः पालकः । सञ्चारकः । (यथा,
रामायणे । ३ । ६६ । १८ ।
“इयं मृते भ्रातरि मे मयि वत्स्यति मैथिली ।
न चाहमाशां कुर्य्यां ते पाप ! प्रच्छन्नचारक ! ॥”)
बन्धः । इति मेदिनी ॥ के, ८७ । पियालवृक्षः ।
इति राजनिर्घण्टः ॥ (चर एव स्वार्थे अण्
चारः । ततः स्वार्थे कन् । गुप्तचरः । यथा
महाभारते । २ । ५ । ३८ ।
“त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥”
चरणशीले, त्रि । यथा, कथासरित्सागरे । १४ । ६५ ।
“गुप्तं विरचितां नाम भेजेऽन्तःपुरचारिकाम् ॥”)

चारटिका, स्त्री, (चर + णिच् + “शकादिभ्यो-

ऽटन् ।” ४ । ८१ । उणां । इति अटन् ततः
संज्ञायां कन् कापि अत इत्वञ्च ।) नलीनाम-
गन्धद्रव्यम् । इति राजनिर्घण्टः ॥

चारटी, स्त्री, (चर + णिच् + “शकादिभ्योऽटन् ।”

इति अटन् ततो गौरादित्वात् ङीष् ।) पद्म-
चारिणीवृक्षः । इत्यमरः । २ । ४ । १४६ ॥
भूम्यामली । इति राजनिर्घण्टः ॥

चारणः, पुं, (चारयति प्रचारयति नृत्यगीतादि-

विद्यां तज्जन्यकीर्त्तिं वा । चर + णिच् + ल्युः ।)
नटविशेषः । तत्पर्य्यायः । कुशीलवः । इत्यमरः ।
२ । १० । १२ ॥ (यथा, मनुः । १२ । ४४ ।
“चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥”
“चारणाः नटादयः ।” इति कुल्लूकभट्टः ॥”)
गन्धर्व्वविशेषः । यथा, --
“गन्धर्व्वाणां ततो लोकः परतः शतयोजनात् ।
देवानां गायनास्ते च चारणाः स्तुतिपाठकाः ॥”
इति पाद्मे पातालखण्डम् ॥
(देवयोनिविशेषः । यथा, भागवते । २ । १ । ३६ ।
“गन्धर्व्वविद्याधरचारणाप्सरः
स्वरःस्मृतीरसुरानीकवीर्य्यः ॥”
चारपुरुषः । यथा, भागवते । ४ । १६ । १२ ।
“अन्तर्वहिश्च भूतानां पश्यन् कर्म्माणि चारणैः ।
उदासीन इवाध्यक्षो वायुरात्मैव देहिनाम् ॥”)

चारभटः, पुं, (चारेषु चरेषु भटः । यद्वा, चारे

बुद्धिकौशलादिप्रचारे भटः ।) वीरः । इति
हेमचन्द्रः । ३ । २८ ॥ (यथाह भर्त्तृहरिः । १ । ९१ ।
“कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ।
चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ॥”

चारवायुः, पुं, (चारेण सूर्य्यस्योदग्गतिभेदेन प्रेरितो

यो वायुः ।) निदाघजवायुः । इति त्रिकाण्ड-
शेषः ॥

चारिणी, स्त्री, (चारयति स्वगुणमिति । चर +

णिच् + णिनिः ङीप् च ।) करुणीवृक्षः । इति
राजनिर्घण्टः ॥

चारित्रं, क्ली, (चरित्रमेव इति । स्वार्थे अण् ।)

चरित्रम् । इति हेमचन्द्रः । ३ । ५०० ॥ (यथा,
रामायणे । ३ । ५९ । ९ ।
“कुलाक्रोशकरं लोके धिक् ! ते चारित्रमीदृशम् ॥”
मरुद्गणानामन्यतमः । यथा, हरिवंशे । १९६ । ५४ ।
“जयोनञ्चाद्भुतिञ्चैव चारित्रं बहुपन्नगम् ॥”
चरतीति । “चरेर्वृत्ते ।” ४ । १७२ । उणां ।
इति णित्रम् । वृत्तान्तम् ॥)

चारित्रा, स्त्री, (चारित्रं अम्लस्वभावो विद्यते-

ऽस्या इति । अच् टाप् ।) तिन्तिडीवृक्षः । इति
शब्दरत्नावली ॥

चारी, स्त्री, (चारः पदनिक्षेपभेदः गतिभेदो वा

अस्त्यस्यामिति । “अर्शआदिभ्योऽच् ।” ५ । २ । १२७ ।
इत्यच् । ततो ङीष् ।) नृत्याङ्गविशेषः । यथा, --
“न हि चारीं विना नृत्ये नृत्यस्याङ्गं प्रवर्त्तते ।
शृङ्गारादिरसानान्प्तु भावोद्दीपनकारिका ॥
माधुर्य्योद्वर्त्तना नित्यं चारी चारुगतिर्म्मता ॥”
अन्ये तु ।
“एकपादप्रचारो यः सा चारी तु निगद्यते ।
पादयोश्चारणं यच्च सा चारीति निगद्यते ॥
करणानां समायोगः खण्डकः परिकीर्त्तितः ।
त्रिभिः खण्डैश्चतुर्भिर्व्वा मण्डलं समुदाहृतम् ॥
समनखा नूपुरविद्धा तिर्य्यङ्मुखी सबला च ।
कातरा च कुवीरा च विश्लिष्टा रथचक्रिका ॥
पार्ष्णिरेचितका तलदर्शिनी गजहस्तिका ।
परावित्ततला चोरुताडिताप्यर्द्धमण्डला ॥
स्तम्भक्रीडनिका हरिणत्रासिका चोरुरेचिका ।
तलोद्वृत्ता सञ्चरिता स्फुरिकापि तथैव च ॥
लङ्घितजङ्घा सङ्घट्टिता स्यादथ मदालसा ।
उत्कुञ्चितातितिर्य्यक्कुञ्चिता चापकुञ्चिता ॥
षड्विंशतिर्भौमचार्य्य इत्याख्याता मनीषिभिः ॥”
अन्ये तु ।
“समपादस्थिता वर्णा शकटास्याध्यर्द्धिकापि च ।
विव्याधा ताडिता बद्धा एडकाक्रीडिता तथा ॥
ऊरुवृत्ता छन्दिता जनितापस्पन्दिता तथा ।
स्पन्दितावत्समतन्वी समोत्सारितमड्डिता ॥
उच्छन्दिता च विज्ञेयाश्चार्य्यः षोडश भूमिगाः ।”
इति भूमिचारी ॥ * ॥
आकाशचारी यथा, --
“चारीश्चाकाशगा वक्ष्ये विक्षेपा त्वधरी तथा ।
अङ्घ्रिताडिता भ्रमरी पुरःक्षेपा च सूचिका ॥
पृष्ठ २/४४५
अपक्षेपा जङ्घावर्त्ता विद्धा च हरिणप्लुता ।
ऊकजङ्घान्दोलिता च जङ्घा जङ्घनिका तथा ॥
विद्युत्क्रान्ता भ्रमरिका दण्डपार्श्वेति षोडश ॥”
अन्ये तु ।
“विभ्रान्तातिक्रान्तापक्रान्ता पार्श्वक्रान्तिका ।
ऊर्द्घजानुर्दोलपादाद्वृत्ता नूपुरपादिका ॥
भुजङ्गभासिका क्षिप्ताविद्धा ताला च सूचिका ।
विद्युत्क्रान्ता भ्रमरिका दण्डपादा तथैव च ॥
आकाशचारिका एताः षोडशैव निरूपिताः ॥”
एतास्वेव भूमिचारीष्वप्यन्तरभेदोऽस्ति तिर्य्यक्-
चारी ऊर्द्ध्वचारी अधश्चारीति ता ऊहनीयाः ॥
“तैलाभ्यक्तेन गात्रेण लध्वाहारो जितश्रमः ।
स्तम्भे वा भित्तिदेशे वा प्रथमं ताः प्रयोजयेत् ॥
रूक्षाहारं तथाम्लञ्च भुक्त्वा तां न समाचरेत् ।
नृत्यपादस्य विन्यासश्चारी सैवाभिधीयते ॥
शृङ्गारादिरसानान्तु भवेद्दीपनकारणम् ।
माधुर्य्यो भूममा नित्यं हृद्यतालत्रयान्विता ॥
नियतोऽङ्गविशेषाणां चारी सञ्चारतो भवेत् ॥”
इति सङ्गीतदामोदरोक्तचारीलक्षणम् ॥

चारुः, पुं, (चरति देवेषु गुरुत्वेन । चर + “दॄ-

सनिजनिचरीति ।” उणां १ । ३ । इति ञुण् ।)
बृहस्पतिः । (चरति चित्ते इति ।) मनोज्ञे त्रि ।
इति मेदिनी । रे, ३३ ॥ (यथा, गीतगोविन्दे । मधिवचनजातम् ॥”
१० । ९ ।
“इति चटुलचाटुपटुचारुमुरवैरिणो राधिका-
श्रीकृष्णस्य रुक्मिणीगर्भसम्भूतपुत्त्राणामन्यतमः ।
यथा, हरिवंशे । ११७ । ३९ ।
“चारुञ्च बलिनां श्रेष्ठं सुताञ्चारुमतीं तथा ॥”)

चारुकः, पुं, (चारु + संज्ञायां कन् ।) शरबीजम् ।

अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । रक्त-
पिक्तकफापहत्वम् । शीतत्वम् । लघुत्वम् ।
अवृष्यत्वम् । कषायत्वम् । वातकोपनत्वञ्च । इति
भावप्रकाशः ॥

चारुकेशरा, स्त्री, (चारूणि केशराणि अस्याः ।)

नागरमुस्ता । तरुणीपुष्पम् । इति राजनिर्घण्टः ॥

चारुगर्भः, पुं, (चारुः मनोज्ञः गर्भः अभ्यन्तर्वर्त्त्यन्तः-

करणमिति यावत् यस्य । यद्वा चारुर्गर्भ उत्-
पत्तिस्थानं यस्य ।) श्रीकृष्णपुत्त्रः । यथा, हरि-
वंशे । १६० । ६ ।
“चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च ॥”

चारुगुप्तः, पुं, (चारु यथा स्यात् तथा गुप्तः । यद्वा

चारुणा ईश्वरेण कृष्णेन गुप्तः पालितः ।)
श्रीकृष्णपुत्त्रः । यथा, हरिवंशे । १६० । ६ ।
“सुषेणश्चारुगुप्तश्च चारुबिन्दश्च वीर्य्यवान् ॥”

चारुदेष्णः, पुं, रुक्मिण्यां श्रीकृष्णपुत्त्रः । यथा,

हरिवंशे । १६० । ५ ।
“द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ॥”

चारुधारा, स्त्री, (चारूणां मनोहरपदार्थानां

धारा इव, त्रैलोक्यसुन्दरत्वेनास्यास्तथात्वम् ।
चार्व्वी धारा नीतिर्व्यवहारो यस्याः वा ।)
शची । इति त्रिकाण्डशेषः ॥ (चारु धाम
यस्याः ।) चारुधामा इत्यपि पाठः ॥

चारुनालकं, क्ली, (चारु नालं यस्य कप् ।)

रक्तपद्मम् । इति पुराणम् ॥

चारुपर्णी, स्त्री, (चारु मनोज्ञं पर्णं पत्त्रं अस्याः ।)

प्रसारणी । इति राजनिर्घण्टः ॥ गन्धभादालिया
इति भाषा ॥ (प्रसारणीशब्देऽस्या गुणादिकं
ज्ञेयम् ॥)

चारुफला, स्त्री, (चारु मनोहरं फलं अस्याः ।)

द्राक्षा । इति राजनिर्घण्टः ॥

चारुबाहुः, पुं, (चारू बाहू यस्य ।) श्रीकृष्ण-

पुत्त्रः । यथा, हरिवंशे । १६० । ६ ।
“चारुबाहुः कनीयांश्च कन्या चारुमती तथा ॥”

चारुबिन्दः, पुं, (चारुं चारुतां बिन्दतीति ।

बिदि + अण् ।) श्रीकृष्णपुत्त्रः । यथा, हरि-
वंशे । १६० । ६ ।
“सुषेणश्चारुगुप्तश्च चारुबिन्दश्च वीर्य्यवान् ॥”

चारुमती, स्त्री, (चारु चारुता सौन्दर्य्यं अस्या

अस्तीति । मतुप् ततो ङीप् ।) रुक्मिण्यां
श्रीकृष्णस्य कन्या । यथा, हरिवंशे । १६० । ६ ।
“चारुबाहुः कनीयांश्च कन्या चारुमती तथा ॥”

चारुलोचनः, पुं, (चारुणी लोचनेऽस्य ।) हरिणः ।

इति त्रिकाण्डशेषः ॥ (चारुलोचनविशिष्टे त्रि ॥)

चारुवर्द्धना, स्त्री, (चारु चारुत्वं श्रियमित्यर्थः

वर्द्धयति स्वगुणैरिति यावत् । वृध + णिच् +
युच् । कर्त्तरि ल्युर्वा ततष्टाप् ।) नारी । इति
राजनिर्घण्टः ॥

चारुव्रता, स्त्री, (चारु व्रतमस्याः ।) मासोप-

वासिनी । इति त्रिकाण्डशेषः ॥

चारुशिला, स्त्री, (चारुश्चार्व्वी शिला इति नित्य-

कर्म्मधारयः ।) मणिः । इति त्रिकाण्डशेषः ॥

चार्च्चिक्यं, क्ली, (चर्च्चिकैव । स्वार्थे ष्यञ् ।)

चन्दनादिना देहविलेपनविशेषः । इत्यमरः ॥
तत्पर्य्यायः । चर्च्चा २ स्थासकः ३ । इत्यमरः ॥
चर्च्चिक्यम् ४ । इति भरतः ॥ अपि च ।
“स्थासकः स्थायकश्चर्च्चा चर्च्चिक्यञ्च चतुष्टयम् ।
वस्त्रादौ कुङ्कुमादीनां छटादिषु निगद्यते ॥”
इति शब्दरत्नावली ॥

चार्म्मः, पुं, (चर्म्मणा परिवेष्टितः इति । चर्म्म

+ अण् ।) चर्म्माच्छादितरथः । इति भरतः ॥
चर्म्माच्छन्नद्रव्ये त्रि ॥

चार्म्मणं, क्ली, (चर्म्मणां समूहः इति । भिक्षा-

दिभ्योऽण् ।” ४ । २ । ३८ । इत्यण् ।) चर्म्म-
समूहः । इत्यमरटीकायां भरतः ॥

चार्म्मिणं, क्ली, (चर्म्मिणां चर्म्मधारिणां समूहः ।

इति अण् ।) चर्म्मिसमूहः । इत्यमरटीकायां
स्वामी ॥

चार्व्वाकः, पुं, (चारुः आपातमनोरमः लोक-

चित्ताकर्षकः इति यावत् वाकः वाक्यमस्य ।
ततः पृषोदरादित्वात् साधुः ।) तार्किकविशेषः ।
तत्पर्य्यायः । बार्हस्पत्यः २ नास्तिकः ३ लौकाय-
तिकः ४ । इति हेमचन्द्रः ॥ स च आकाश-
भिन्नभूतचतुष्टयवादी । प्रत्यक्षमेकं प्रमाणमिति
चार्व्वाकाः । इति न्यायसंग्रहः ॥ (यथा च
सर्व्वदर्शनसंग्रहे । “अथ कथं परमेश्वरस्य निःश्रय-
सपदत्वमभिधीयते बृहस्पतिमतानुसारिणा
नास्तिकशिरोमणिना चार्व्वाकेण दूरोत्सारित-
त्वात् दुरुच्छेदं हि चार्व्वाकस्य चेष्टितम् ॥”)
दुर्य्योधनसखराक्षसविशेषः । (यथा, महा-
भारते । १२ । ३८ । २२ -- २३ ।
“निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः ।
राजानं ब्राह्मणच्छद्मा चार्व्वाको राक्षसोऽब्रवीत् ॥
तत्र दुर्य्योधनसखा भिक्षुरूपेण सम्बृतः ।
साक्षः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥”)

चार्व्वी, स्त्री, (चारु + गुणवचनत्वात् ङीष् ।)

कुवेरपत्नी । ज्योत्स्ना । बुद्धिः । शोभना । इति
मेदिनी । वे, ६ ॥ दीप्तिः । इति शब्दरत्ना-
वली ॥

चालः, पुं, (चालयति छादयतीति । चल + णिच्

+ अच् णो वा । यद्बा चालयति आच्छादयत्यने-
नेति । चल + णिच् + करणे घञ् ।) स्वनाम-
ख्यातगृहाच्छादनम् । तत्पर्य्यायः । पिटम् २ ।
इति त्रिकाण्डशेषः ॥ पटलम् ३ छदिः ४ । इत्य-
मरः । २ । २ । १४ ॥ कटलम् ५ । इति शब्द-
रत्नावली ॥ छादम् ६ । इति जटांधरः ॥ स्वर्ण-
चूडपक्षी । इति भूरिप्रयोगः ॥

चालकः, पुं, (चलति स्वेच्छयैव । चल + ण्वुल् ।)

अङ्कुशदुर्द्धरहस्ती । इति त्रिकाण्डशेषः ॥

चालनं, क्ली, (चालयत्यनेनेति । चल + णिच् +

करणे ल्युट् ।) चालनी । इत्यमरटीकायां
भरतः ॥ (यथा, कर्म्मप्रदीपे ।
“क्षुद्रच्छिद्रसमोपेतं चालनं तितौः स्मृतः ॥”
भावे ल्युट् । प्रेरणम् । यथा, भागवते । ३ ।
२६ । ३७ ।
“चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ॥”)

चालनी, स्त्री, (चालयत्यनेनेति । चल + णिच् +

करणे ल्युट् ङीप् च ।) स्वनामख्यातशस्यादि-
चालनपात्रम् । तत्पर्य्यायः । तितौः २ । इत्य-
मरः । २ । ९ । २६ ॥ चालनम् ३ वहुच्छिद्रा ४ ।
इति भरतः ॥ पाचीरः ५ । इति जटाधरः ॥

चाषः, पुं, (चाषयति भक्षयति कणादिकमिति । चष

+ स्वार्थे णिच् + अच् । यद्वा चष्यते भक्ष्यते-
ऽसौ मांसाशिभिरिति । चष् + कर्म्मणि घञ् ।)
स्वर्णचातकः । सोणाचडा इति ख्यातः । नील-
कण्ठ इति क्वचित् ख्यातः । इत्यमरटीकायां
भरतः ॥ तत्पर्य्यायः । किकीदिविः २ नीलाङ्गः ३
पुण्यदर्शनः ४ । इति राजनिर्घण्टः ॥

चासः, पुं, (चाष + पृषोदरात् सत्वम् ।) चाष-

पक्षी । इक्षुः । इति मेदिनी । से, ३ ॥

चि, ञ चित्याम् । चयने । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-द्विकं-अनिट् ।) ञ, चयति चयते
धनं लोकः । इति दुर्गादासः ॥

चि, ञ न चित्याम् । इति कविकल्पद्रुमः ॥ (स्वां-

उभं-द्विकं-अनिट् ।) चितिश्चयनं राशीकरण-
मिति यावत् । न ञ, चिनोति चिनुते । इति
दुर्गादासः ॥
पृष्ठ २/४४६

चि, क मि चित्याम् । इति कविकल्पद्रुमः ॥ (चुरां-

परं-द्विकं-सेट् ।) क मि, चययति चाय-
यति । स्वमते तु चपयति चापयतीत्यपि ।
इति दुर्गादासः ॥

चिकित्सकः, पुं, (चिकित्सति रोगमपनयतीति ।

कित् + “गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ । इति
स्वार्थे सन् + ण्वुल् ।) चिकित्साकर्त्ता । (यथा,
मनुः । ९ । २८४ ।
“चिकित्सकानां सर्व्वेषांमिथ्या प्रचरतां दमः ॥”)
तत्पर्य्यायः । रोगहारी २ अगदङ्कारः ३
भिषक् ४ वैद्यः ५ । इत्यमरः । २ । ६ । ५७ ॥
तस्य लक्षणं यथा, चाणक्ये ।
“आयुर्व्वेदकृताभ्यासः सर्व्वेषां प्रियदर्शनः ।
आर्य्यशीलगुणोपेत एष वैद्यो विधीयते ॥”

चिकित्सा, स्त्री, (चिकित्सनमिति । कित् व्याधि-

प्रतीकारे + “गुप्तिज्किद्भ्यः सन् ।” ३ । १ । ५ ।
इति स्वार्थे सन् ततः अप्रत्ययः ।) रोगप्रती-
कारः । तत्पर्य्यायः । रुक्प्रतिक्रिया २ । इत्य-
मरः । २ । ६ । ५० ॥ उपचारः ३ उपचर्य्या ४
निग्रहः ५ वेदनानिष्टा ६ क्रिया ७ उपक्रमः ८
शमः ९ । इति राजनिर्घण्टः ॥ चिकित्सितम् १०
प्रतीकारः ११ भिषग्जितम् १२ । इति रत्न-
माला ॥ रोगप्रतिकारः १३ । इति शब्दरत्ना-
वली ॥ सा त्रिधा यथा, वैद्यके ।
“आसुरी मानुषी दैवी चिकित्सा सा त्रिधा
मता ।
सूतप्रधाना दैवी स्यात् छेदभेदात्मिकासुरी ॥
मानुषी षड्रसा ज्ञेया जपहोमादिसंस्कृता ।
कलौ चाल्पबले लोके मानुषी तत्र पूजिता ॥”
तस्या लक्षणं यथा, --
“याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः ।
सा चिकित्सा विकाराणां कर्म्म तद्भिषजां मतम् ॥
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च ।
सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥”
चिकित्साविध्युपदेशो यथा, --
“जातमात्रश्चिकित्स्यः स्यान्नोपेक्ष्योऽल्पतया गदः ।
वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ ॥
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म्म भिषक् पश्चाज्ज्ञानपूर्ब्बं समाचरेत् ॥
औषधं केवलं कर्त्तुं यो जानाति न चौषधम् ।
वैद्यकर्म्म स चेत् कुर्य्याद्वधमर्हति राजतः ॥
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः ।
भेषजानां विधानेऽथ ततः कुर्य्यात् चिकित्सितम् ॥
शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम् ।
कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हाप-
येत् ॥
अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता ।
क्रियाहीनातिरिक्ता च साध्येष्वपि न सिध्यति ॥
क्रिया यास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् ।
पूर्ब्बस्यां शान्तवेगायां न क्रियासङ्करो मतः ॥”
चिकित्साफलं यथा, --
“क्वचिदर्थः क्वचिन्मैत्री क्वचिद्धर्ग्मः क्वचिद्यशः ।
कर्म्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति
निष्फला ॥” * ॥
चिकित्साङ्गानि यथा, भावप्रकाशे ।
“रोगी दूतो भिषग्दीर्घमायुर्द्रव्यञ्च सेवकः ।
सदौषधं चिकित्सायामित्यङ्गानि बुधा जगुः ॥”

चिकित्सितं, क्ली, (कित् + स्वार्थे सन् ततो भावे

क्तः ।) चिकित्सा । इति रत्नमाला ॥ (यथा,
सुश्रुते सूत्रस्थाने २ अः ।
“बीजं चिकित्सितस्यैतत् समासेन प्रकीर्त्तितम् ॥”
पर्य्याया अस्य यथा, वैद्यकरत्नमालायाम् ।
“चिकित्सितं प्रतीकारश्चिकित्सा च भिषग्-
जितम् ॥”
चिकित्स्यतेऽनेनेति । करणे क्तः । भेषजम् ।
अस्य पर्य्याया यथा, चरके चिकित्सास्थाने १ अः ।
“चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥
विद्याद्भेषजनामानि भेषजं द्बिविधञ्च तत् ।
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सितम् ॥
चिकित्सितार्थ एतावान् विकाराणां यदौ-
षधम् ।”
यथा, भागवते । १ । ५ । ३२ ।
“एतत् संसूचितं ब्रह्मंस्तापत्रयचिंकित्सितम् ।
यदीश्वरे भगवति कर्म्म ब्रह्मणि भावितम् ॥”)
कृतप्रतीकारे त्रि ॥

चिकिनः, त्रि, (नि नता नासिकास्त्यस्य । “इनच्-

पिटच्-चिकचि च ।” ५ । २ । ३३ । इति
इनच् प्रकृतेश्चिकादेशश्च ।) चिपिटनासिकः ।
इति केचित् ॥

चिकिलः, पुं, (चि + बाहुलकात् इलच् कुक्

च ।) पङ्कः । इति हेमचन्द्रः । ४ । १५६ ॥

चिकीर्षा, स्त्री, (कर्त्तुमिच्छा इति । “धातोः कर्म्मणः

समानकर्त्तृकादिच्छायां वा ।” ३ । १ । ७ ।
इति कृधातोः इच्छार्थकसन्प्रत्ययेन चिकीष् ।
ततः “अप्रत्ययात् ।” ३ । ३ । १०२ । इत्यः ।)
कर्त्तुमिच्छा । इति मुग्धबोधम् ॥ करिवार
वाञ्छा इति भाषा । (यथा, भागवते । २ । १० । २४ ।
“हस्तौ रुरुहतुस्तस्य नाशकर्म्मचिकीर्षया ॥”)

चिकीर्षुः, त्रि, (चिकीर्षतीति । कृ + सन् +

“सनाशंसभिक्ष उः ।” ३ । २ । १६८ । इति
उः ।) कर्त्तुमिच्छुः । करणेच्छाविशिष्टः । इति
व्याकरणम् ॥

चिकुरः, पुं, (चि इत्यव्यक्तशब्दं कुरतीति । कुर-

शब्दे + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति
कः ।) केशः । (यथा, राजतरङ्गिण्याम् । ८ । ३६७ ।
“चिकुरनिचये यत् कौटिल्यं विलोचनयोश्च
या ॥”)
सर्पः । (अयं हि ऐराषतकुलजातस्य सुमुखस्य
पिता । यथा, महाभारते । ५ । १०३ । २४ ।
“एतस्य हि पिता नागश्चिकुरो नाम मातले ! ।
न चिरात् वैनतेयेन पञ्चत्वमुपपादितः ॥”)
पर्व्वतः । पक्षिभेदः । वृक्षविशेषः । गृहवभ्रुः ।
तरलः । इति मेदिनी । रे, १५५ ॥

चिकुरः, त्रि, (चि + कुर + कः ।) चपलः । स

तु दोषमनिश्चित्य वधबन्धनादेः कर्त्ता । इत्यमरः ।
३ । १ । ४६ ॥

चिकुरपक्षः, पुं, (चिकुराणां केशानां पक्षः

समूहः ।) कचसमूहः । केशसमुदयः । इत्य-
मरः । २ । ६ । ९८ ॥

चिकुरपाशः, पुं, (चिकुराणां केशानां पाशः

समूहः ।) केशसमूहः । इत्यमरः । २ । ६ । ९८ ॥

चिकुरहस्तः, पुं, (चिकुराणां हस्तः समूहः ।)

केशसमूहः । इत्यमरः । २ । ६ । ९८ ॥

चिकूरः, पुं, (चिकुर + निपातनात् दीर्घः ।)

केशः । इति शब्दभेदप्रकाशः ॥

चिक्क, क अर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) कोपधः । तृतीयस्वरभध्यः ।
अर्त्तिः पीडनम् । क, चिक्कयति शत्रुं शूरः ।
इति दुर्गादासः ॥

चिक्कः, पुं, (चिक् इत्यव्यक्तशब्देन कायति शब्दा-

यते इति । चिक् + कै + कः ।) छुच्छुन्दरिः ।
इति त्रिकाण्डशेषः ॥ (नि नता नासिकास्त्य-
स्येति । “इनच्पिटचिति ।” ५ । २ । ३३ ।
इत्यस्य वार्त्तिं “कप्रत्ययचिकादेशौ च वक्तव्यौ ।”
इति कप्रत्ययो नेश्चिकादेशश्च । नतनासिके,
त्रि । इति सिद्धान्तकौमुदी ॥)

चिक्कणं, त्रि, (चित्यते ज्ञायते इति । चित् +

“चितेः कणः कश्च ।” उणां । ४ । १७६ ।
इति कर्म्मणि कणः कश्चान्तादेशः । बाहुलकाद-
गुणः ।) स्निग्धव्यञ्जनादि (स्निग्धत्वमसृणत्वादि-
गुणवद्वस्तु ।) इत्यमरः । २ । ९ । ४६ ॥ चिक्णा
इति भाषा ॥ (यथा, महाभारते । १२ ।
१८४ । ३४ ।
“कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु-
दारुणः ॥”)

चिक्कणः, पुं, (चिक्कणं स्निग्धगुणं विद्यतेऽस्य ।

अच् ।) पूगवृक्षः । तत्फले क्ली । इति राज-
निर्घण्टः ॥ (औषधपाकस्यावस्थाविशेषो यथा,
“पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः ॥”
इति वाभटे कल्पस्थाने षष्ठेऽध्याये ॥)

चिक्कणा, स्त्री, (चिक्कणं मसृणता विद्यतेऽस्याः ।

अर्शआदित्वादच् । ततष्टाप् ।) उत्तमा गौः ।
तत्पर्य्यायः । नैचिकी २ । इति शब्दचन्द्रिका ॥
पूगफलम् । इति राजनिर्घण्टः ॥

चिक्कणी, स्त्री, (चिक्कण + गौरादित्वात् ङीष् ।)

पूगफलम् । इति राजनिर्घण्टः ॥

चिक्कसः, पुं, (चिक्कयति पीडयति चूर्णकारिण-

मिति । चिक्क + असच् ।) यवचूर्णम् । इति
हेमचन्द्रः । ३ । ६६ ॥

चिक्का, स्त्री, (चिक्कयति पीडयति भोक्तारमिति ।

चिक्क + अच् ।) पूगफलम् । इति राजनिर्घण्टः ॥

चिङ्गटः, पुं, (चिङ्ग इत्यव्यक्तशब्देन अटतीति । अट

गतौ + अच् । शकन्ध्वादिवत् अलोपः ।) मत्स्य-
विशेषः । गर्लाचिङ्गडी इति मोचाचिङ्गडी
इति च भाषा ॥ तत्पर्य्यायः । महाशल्कः २ ।
पृष्ठ २/४४७
इति हारावली । १८७ ॥ अस्य गुणाः । गुरु-
त्वम् । ग्राहित्वम् । मधुरत्वम् । बलवर्द्धनत्वम् ।
मेदःपित्तास्रनाशित्वम् । वृष्यत्वम् । रोचनत्वम् ।
कफवातकारित्वञ्च । इति राजवल्लभः ॥ (ऊषा-
पानविधौ भक्षणनिषेधोऽस्य यथा, --
“प्रातः पानीयपाने महऋषिगणितं द्रव्यमेतच्च
नाद्यात् ।
मांसं क्षीरञ्च शाकं सकलविदलकं पिष्टकं
चिङ्गटञ्च ॥”
इति वैद्यक-ऋतुचर्य्यायाम् ॥)

चिङ्गटी, स्त्री, (चिङ्गट + जातौ ङीष् ।) मत्स्य-

विशेषः । घुषाचिङ्गडी इति भाषा ॥ अस्या
गुणाः । मधुरत्वम् । हृद्यत्वम् । वातनाशित्वम् ।
श्लेष्मकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥

चिङ्गडः, पुं, (चिङ्गट + पृषोदरादित्वात् टस्य डत्वे

साधुः ।) चिङ्गटमतस्यः । इति शब्दमाला ॥
(विवरणमस्य चिङ्गटशब्द व्याख्यातम् ॥)

चिचिण्डः, पुं, फलविशेषः । चिचिण्डा इति चिचिङ्गा

इति च भाषा ॥ तत्पर्य्यायः । श्वेतराजिः २
सुदीर्घः ३ गृहकूलकः ४ । अस्य गुणाः । वात-
पित्तनाशित्वम् । पथ्यत्वम् । बलरुचिकारित्वम् ।
शोषिणोऽतिहितत्वम् । पटोलतः किञ्चिद्गुण-
हीनत्वञ्च । इति भावप्रकाशः ॥ (यथा च हारीते
प्रथमे स्थाने दशमेऽध्याये ।
“चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः ।
शोषिणोऽतिहितः किञ्चिद्गुणैर्न्यूनः पटोलतः ॥”)

चिञ्चा, स्त्री, (चिं चयनं चिनोतीति । चि +

अन्येभ्योऽपीति डः ।) तिन्तिडीवृक्षः । इत्य-
मरः । २ । ४ । ४३ ॥ (यथा, --
“चिञ्चादलरसञ्चानु पथ्यं दध्योदनं हितम् ॥”
इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे गुल्माधिकारे ॥)

चिञ्ची, स्त्री, (चिञ्च + गौरादित्वात् ङीष् ।)

गुञ्जा । इति केचित् ॥

चिञ्चाम्लं, क्ली, (चिञ्चा तिन्तिडी तद्वत् अम्लं

यत्र ।) अम्लशाकः । इति राजनिर्घण्टः ॥

चिञ्चासारः, पुं, (चिञ्चायास्तिन्तिड्याः सार इव

सारोऽम्लं यत्र ।) अम्लशाकः । इति राज-
निर्घण्टः ॥

चिञ्चोटकः, पुं, (चिञ्चेव अटतीति । अट +

ण्वुल् । पृषोदरात् साधुः ।) तृणविशेषः ।
चेँच्को इति चेँच्डा इति च भाषा ॥ तत्-
पर्य्यायः । अङ्कलोड्यः २ । इति रत्नमाला ॥
चिञ्चाटकोऽपि पाठः ॥

चिट, प्रेषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) चेटति भृत्यं स्वामी । इति दुर्गादासः ॥

चिट, क प्रेषे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ॥)

चित, ई ज्ञाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ई, चित्तः । ज्ञानमिह जागरणम् ।
ज्ञानञ्च अविद्यानिद्रयाक्रान्ते जगत्येकः स चेत-
तीति हलायुधः । चिचेत रामस्तत् कृच्छ्रम् ।
इति दुर्गादासः ॥

चित, इ क स्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) इ क, चिन्तयति विष्णं सुधीः ।
इति दुर्गादासः ॥

चित, क ङ ज्ञाने । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) क ङ, चेतयते । राक्षसस्य
चेतयन्ति न । इति भट्टौ गणकृतानित्यत्वमिति
रमानाथः । वस्तुतस्तु चेतयते ततश्चेतं करोतीति
ञौ साध्यम् । इति दुर्गादासः ॥

चित्, स्त्री, (चित् संज्ञाने + सम्पदादित्वात् भावे

क्विप् ।) ज्ञानम् । इत्यमरः । १ । ५ । १ ॥
(यथा, भागवते । ३ । ७ । २ ।
“ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः ।
लीलया चापि युज्येरन् निर्गुणस्य गुणाः
क्रियाः ॥”)

चित्, व्य, असाकल्यम् । इत्यमरः ॥ यथा । किञ्चित्

कश्चित् इत्यादि ॥ (तत्तु प्रत्ययविशेषः । कालाद्य-
निर्णये चित्प्रत्ययस्य प्रयोगो दृश्यते । “किमः
क्त्यन्ताच्चिच्चनौ ।” इति मुग्धबोधव्याकरणप्रणेता
पूज्यपादवोपदेवाचार्य्यः ॥)

चितः, त्रि, (चि + कर्म्मणि क्तः ।) छन्नः । इति

मेदिनी । ते, १८ ॥ (कृतचयनः । सञ्चितः ।
“इह वै कर्म्मचितो लोकः क्षीयते एवममुत्र
पुण्यचितः क्षीयते ।” इति श्रुतेः ॥)

चिता, स्त्री, (चीयते श्मशानाग्निरस्यां यद्वा

चीयते उच्चीयतेऽसौ प्रेतस्य परलोकशर्म्मणे इति ।
चि + अधिकरणे वा कर्म्मणि क्तस्ततष्टाप् ।)
शवदाहाधारचुल्ली । तत्पर्य्यायः । चित्या २ ।
इत्यमरः । २ । ९ । ११७ ॥ काष्ठमठी ३ चैत्यम् ४
चिताचूडकम् ५ चित्यम् ६ । इति त्रिकाण्ड-
शेषः ॥ चितिः ७ । (यथा, महाभारते ।
३ । २१९ । १७ ।
“चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां तत् प्रवर्त्तते ॥”)
संहतिः । इति मेदिनी । ते, १८ ॥

चिताचूडकं, क्ली, (चितैव चूडकम् ।) चिता ।

इति त्रिकाण्डशेषः ॥

चितिः, स्त्री, (चीयतेऽस्यामग्निरिति । चि + अधि-

करणे क्तिः ।) चिता । (यथा, भागवते । ४ । २८ । ५० ।
“चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् ॥”)
समूहः । इति मेदिनी । ते, १८ ॥ दुर्गा । यथा,
“चितिश्चैतन्यभावाद्वा चेतना वा चितिः
स्मृता ।
महान् व्याप्य स्थिता सर्व्वं महा वा प्रकृति-
र्म्मता ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
भित्तिस्थेष्टिकादिसङ्ख्याज्ञानार्थाङ्कविशेषः । यथा,
चितौ करणसूत्रं सार्द्धवृत्तम् ।
“उच्छ्रयेण गुणितं चितेः किल
क्षेत्रसम्भवफलं धनं भवेत् ।
इष्टिकाघनहृते घने चिते-
रिष्टिकापरिमितिश्च लभ्यते ॥
इष्टकोच्छ्रयहृदुच्छ्रितिश्चितेः
स्युः स्तराश्च दृषदां चितेरपि ॥
उदाहरणम् ।
अष्टादशाङ्गुलं दैर्घ्यं विस्तारो द्बादशाङ्गुलः ।
उच्छ्रितिस्त्र्यङ्गुला यस्यामिष्टिकास्ताश्चितौ किल ॥
यद्विस्तृतिः पञ्चकराष्टहस्तं
दैर्घ्यञ्च यस्यां त्रिकरोच्छ्रितिश्च ।
तस्यां चितौ किं फलमिष्टिकानां
सङ्ख्या च का ब्रूहि कतिस्तराश्च ॥
इष्टिकायाः घनहस्तमानम्(३६४)चितेः क्षेत्र-
फलम् ४० । उच्छ्रयेण गुणितं चितेर्घनफलम् १२० ।
लब्धा इष्टिकासङ्ख्या २५६० । स्तरसङ्ख्या २४ ।
एवं पाषाणचयेऽपि । इति चितिव्यवहारः ॥”
इति लीलावती ॥ (इष्ट्यङ्गविशेषः । यथा, मार्क-
ण्डेये । २२ । ९ ।
“चितयस्तत्र कर्त्तव्या नान्तरिक्षगता यतः ॥”)

चितिका, स्त्री, (चितिः काञ्चीभेदः सा इव काय-

तीति । कै + कः ।) कटिशृङ्खला । इति हारा-
वली । २२४ ॥

चित्तं, क्ली, (चेतत्यनेनेति । चित् + करणे क्तः ।) अनु-

सन्धानात्मिकान्तःकरणवृत्तिः । इति वेदान्तः ॥
“यत्तत् सत्वगुणं स्वच्छं स्वान्तं भगवतः पदम् ।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ।
प्रवृत्तिलक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥”
इति श्रीभागवतम् ॥
अस्यार्थः । “अधिभूतस्वरूपेण तस्यैव महा-
नितिसंज्ञा अध्यात्मरूपेण चित्तं उपास्यरूपेण
वासुदेवः अधिष्ठाता तु तस्य क्षेत्रज्ञः ।” इति
श्रीधरस्वामी ॥ (अनेनैव चिच्छक्तेः प्रथमसम्बन्धः ।
अतएव भगवत्पतञ्जलिपादैरुपदिष्टं प्रथमसूत्रे
“योगश्चित्तवृत्तिनिरोधः ।” तथा च मुण्डकोप-
निषदि । ३ । १ । ९ ।
“एषोऽणुरात्मा चेतसा वेदितव्यो
यस्मिन् प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्व्वमोतं प्रजानां
यस्मिन् विशुद्धे विभवत्येष आत्मा ॥”)
मनः । इत्यमरः । १ । ४ । ३१ ॥

चित्तप्रसन्नता, स्त्री, (चित्तस्य प्रसन्नता प्रसादः ।)

हर्षः । इति हेमचन्द्रः । २ । २२९ ॥

चित्तविप्लवः, पुं, (चित्तस्य विप्लवो विपर्य्ययः ।)

उन्मादः । इति हेमचन्द्रः । २ । २३४ ॥

चित्तविभ्रमः, पुं, (चित्तस्य विभ्रमः भ्रान्तिः ।)

उन्मादः । इत्यमरः । १ । ७ । २६ ॥ (उन्माद-
शब्दे विवृतिरस्य ज्ञेया ॥)

चित्तसमुन्नतिः, (चित्तस्य समुन्नतिः समु-

न्नयनं उत्तेजन मति यावत् ।) मानः । इत्य-
मरः । १ । ७ । २२ ॥
पृष्ठ २/४४८

चित्ताभोगः, पुं, (चित्तस्य आभोगः परिपूर्णता

इत्यर्थः ।) एकस्मिन् विषये मनसः पुनः पुनः
प्रवृत्तिः । तत्पर्य्यायः । मनस्कारः २ । इत्य-
मरः । १ । ५ । २ ॥

चित्तोन्नतिः, स्त्री, (चित्तस्य उन्नतिः उन्नयनम् ।)

गर्व्वः । इति हेमचन्द्रः । २ । २३१ ॥

चित्यं, क्ली, (चीयते इति । चि + “चित्याग्नि-

चित्ये च ।” ३ । १ । १३२ । इति कर्म्मणि यः ।
निपातनात्तुगागमे साधुः । यद्वा, क्यप्प्रत्ययेन
पिति तुगागमः ।) चिता । इति त्रिकाण्डशेषः ॥
(तज्जाते त्रि । यथा, रामायणे । १ । ५८ । ११ ।
“चित्थमाल्याङ्गरागश्च आयसाभरणोऽभवत् ॥”)

चित्यः, पुं, (चीयतेऽसौ इति । चि + “चित्याग्नि-

चित्ये च ।” ३ । १ । १३२ । इति कर्म्मणि यः ।)
अग्निः । इति मुग्धबोधम् ॥

चित्या, स्त्री, (चीयतेऽग्निरस्यां प्रेतस्य । चि + यः

निपातनात् साधुः । क्यप् वा ।) चिता । इत्य-
मरः । २ । ९ । ११७ ॥

चित्र, त् क क्षणिकेक्षणे । लेख्येऽद्भुते । इति कवि-

कल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) क्षणिके-
क्षणं कदाचिद्दर्शनम् । चित्रयति चित्रापयति
राहुं लोकः कदाचित् पश्यतीत्यर्थः । चित्रयति
प्रतिमां लोकः । इति दुर्गादासः ॥

चित्रं, क्ली, (चित्रयतीति । चित्र + कर्म्मणि अप् ।

यद्वा, चीयते इति । “अमिचिमिशमिभ्यः क्त्रः ।”
उणां ४ । १६४ । इति क्त्रः ।) तिलकम् ।
आलेख्यम् । (यथा, पञ्चदश्याम् । ६ । ५ ।
“उत्तमाधमभावेन वर्त्तन्ते पटचित्रवत् ॥”)
अद्भुतम् । (यथा, रामायणे । १ । १० ।
“चित्रं संक्रीडमानास्ताः क्रीडनैर्विविधैस्तथा ॥”)
कर्व्वुरवर्णः । (यथा, माधे । १ । ८
“निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा ॥”)
तद्युक्ते त्रि । इति मेदिनी । रे, २५ ॥ (अल-
ङ्कारविशेषः । यथा, --
“तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।”
सन्निवेशविशेषेण यत्रन्यस्ता वर्णाः खड्गमुरज-
पद्माकारमुल्लासयन्ति तच्चित्रं काव्यम् ॥ * ॥
अष्टिसंज्ञकषोडशाक्षरावृत्तिच्छन्दोभेदः । तल्ल-
क्षणं यथा, छन्दोमञ्जर्य्याम् ।
“चित्रसंज्ञमीरितं समानिकापदद्बयन्तु ।”
उदाहरणं यथा, --
“विद्रुमारुणाधरोष्ठशोभि वेणुवाद्यहृष्ट-
वल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग ! ।
त्वां सदैव वासुदेव ! पुण्यलभ्यपाद ! देव !
वन्यपुष्पचित्रकेश ! त्वां स्मरामि गोपवेश ! ॥”)
आकाशः । कुष्ठविशेषः । इति हेमचन्द्रः । ६ । ३४ ॥
(आश्चर्य्यान्विते, त्रि । यथा, महाभारते । १ ।
१ । ३ ।
“चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥”)

चित्रः, पुं, (चित्रयति पापपुण्ये विचार्य्य चित्रं

करोति लिखतीत्यर्थः । चित्र + णिच् + अच् ।
यद्वा चीयन्ते उपचीयन्ते प्रेतलोका येन । चि
+ “अमिचिमिशमिभ्यः क्त्रः ।” उणां । ४ । १६४ ।
इति क्त्रः ।) यमविशेषः । यथा, तिथ्यादितत्त्वे ।
“वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥”
कर्व्वुरवर्णः । इत्यमरटीकायां भरतः ॥ (सर्प-
विशेषः । यथा, महाभारते । २ । ९ । ८ ।
“कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥”
धृतराष्ट्र-पुत्त्रभेदः । यथा, तत्रैव । १ । ११७ । ४ ।
“चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥”)
एरण्डवृक्षः । अशोकवृक्षः । चित्रकवृक्षः । इति
राजनिघण्टः ॥

चित्रकं, क्ली, (चित्र + स्वार्थे कन् । यद्वा चित्र-

मिव कायति । कै + कः ।) तिलकम् । इति
मेदिनी । के, ८८ ॥ (वृक्षविशेषः । यथा,
गारुडे १८७ अध्याये ।
“त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ॥”)

चित्रकः, पुं, (चित्रेण चित्र इव वा कायति । कै +

कः ।) व्याघ्रः । इति हेमचन्द्रः । ४ । ३५१ ॥
व्याघ्रभेदः । चितावाध् इति भाषा । तत्-
पर्य्यायः । चित्रकायः २ उपव्याध्रः ३ मृगा-
न्तकः ४ शूरः ५ क्षुद्रशार्दूलः ६ चित्रव्याध्रः ७ ॥
वृक्षविशेषः । चिता इति भाषा ॥ तत्पर्य्यायः ।
अग्निः २ शार्दूलः ३ चित्रः ४ पाचीकटुः ५
शिखी ६ कृशानुः ७ दहनः ८ व्यालः ९
ज्योतिष्कः १० पालकः ११ अनलः १२ दारुणः १३
वह्निः १४ पावकः १५ शम्बरः १६ पाची १७
द्वीपी १८ चित्राङ्गः १९ शूरः २० । अस्य
गुणाः । अग्निसमत्वम् । पाके कटुत्वम् । शोफ-
कफार्त्तिवातोदरार्शोग्रहणीकृमिकण्डुनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ पाकेऽग्नितुल्यत्वम् । कुष्ठ-
नाशित्वम् । इति राजवल्लभः ॥ (यथा, शब्दार्थ-
चिन्तामणिधृतवचनम् ।
“चित्रकः कटुकः पाके वह्निकृत् पाचनो लघुः ।
रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् ॥
वातश्लेष्महरो ग्राही वातार्शःश्लेष्मपित्तहृत् ।
विचित्रं चैत्रकं शाकं काशमर्द्दविमर्द्दितम् ॥
तप्ततैले सवाह्लीके पाचितं तक्रसम्भृतम् ॥”
ओषधिविशेषः । यथा, सुश्रुते सूत्रस्थाने
३६ अध्याये ।
“पूतिकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥”)
एरण्डवृक्षः । इत्यमरः । २ । ४ । ५१ ॥ (चित्र
+ क्वुन् ।) चित्रकारः । इति हेमचन्द्रः ॥
(मुचुकुन्दः । यथा, भावप्रकाशस्य पूर्ब्बखण्डे
प्रथमे भागे ।
मुचुकुन्दः क्षत्रवृक्षश्चित्रकः प्रतिविष्णुकः ॥”
अस्य गुणः । शिरःपीडापित्तास्रविषनाशित्वञ्च ॥)

चित्रकण्ठः, पुं, (चित्रः चित्रितः कण्ठोऽस्य ।)

कपोतः । इति जटाधरः ॥ (कपोतशब्देऽस्य
विवृतिर्व्याख्याता ॥)

चित्रकम्बलः, पुं, (चित्रश्चासौ कम्बलश्चेति ।)

कम्बलविशेषः । दुलिचा गालिचा इत्यादि
भाषा ॥ यथा, उणादिकोषे ।
“कुथः स्त्रीपुंसयोश्चित्रकम्बले पुंसि वर्हिषि ॥”

चित्रकरः, पुं, (चित्रं करोतीति । कृ + टः ।)

वर्णसङ्करजातिविशेषः । पटुया इति भाषा ॥
स तु शूद्रागर्भे विश्वकर्म्मौरसजातः । इति ब्रह्म-
वैवर्त्तपुराणम् ॥ तत्पर्य्यायः । रङ्गाजीवः २ ।
इत्यमरः । २ । १० । ७ ॥ रङ्गजीवकः ३ । इति
शब्दरत्नावली ॥ वर्णी ४ वर्णाटः ५ चित्र-
कारः ६ । इति जटाधरः ॥ (यथा, आर्य्या-
सप्तशत्याम् । ३४५ ।
“चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥”)

चित्रकर्म्मा, [न्] पुं, (चित्रं कर्म्मास्य ।) तिनिश-

वृक्षः । इति शब्दचन्द्रिका ॥ बहुब्रीहौ आश्चर्य्य-
कर्म्मा चित्रकारश्च ॥

चित्रकायः, पुं, (चित्रो नानावर्णयुक्तः कायो

देहो यस्य ।) व्याघ्रः । इति हेमचन्द्रः । ४ । ३५१ ॥
चित्रव्याघ्रः । इति राजनिर्घण्टः ॥

चित्रकारः, पुं, (चित्रं करोतीति । कृ + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) चित्रकरः ।
(यथा, महाभारते । १ । १२८ । ४० ।
“संमार्ज्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ॥”)
अस्य उत्पत्तिविवृतिर्यथा, पराशरपद्ध्वतौ ।
“स्थपतेरपि गान्धिक्यां चित्रकारो व्यजायत ॥”

चित्रकूटः, पुं, (चित्राणि कूटानि शृङ्गाणि यस्य ।)

पर्व्वतविशेषः । इति शब्दरत्नावली ॥ पुरा
रामो वनं गत्वा प्रथमे यत्र वासमकरोत् ।
(पर्व्वतोऽयं प्रयागक्षेत्रस्थभरद्बाजाश्रमात् सार्द्ध-
योजनद्वयेऽतीते पार्श्वगताया मन्दाकिन्या-
ख्याया सरितो दक्षिणतो राजते । यदुक्तं रामा-
यणे । २ । ९२ । १० -- १२ ।
“भरतार्द्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटगिरिस्तत्र रम्यनिर्द्दरकाननः ॥
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
पुष्पितद्रुमसंच्छन्ना रम्यपुष्पितकानना ॥
अनन्तरं तत्सरितश्चित्रकूटञ्च पर्व्वतम् ।
तयोः पर्णकुटीं तात ! तत्र तौ वसतो ध्रुवम् ॥”)
अघुना वुन्देलखण्डाख्यदेशे काम्ता इति
ख्यातः ॥ (अयं हि पीठस्थानेषु अन्यतमः ।
अत्र च भगवती सीतारूपेण महादेवश्चन्द्र-
चूडरूपेण घिराजते । यथा, देवीभागवते ।
७ । ३० । ७० ।
“चित्रकूटेतथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥”
तथा, महालिङ्गेश्वरतन्त्रे ।
“चित्रकूटे चन्द्रचूडो योगेन्द्रो विन्ध्यपर्व्वते ॥”)

चित्रकृत्, पुं, (चित्रं नानावर्णं करोतीति । कृ +

क्विप् ।) तिनिशवृक्षः । इत्यमरः । २ । ४ । २७ ॥
(चित्रमालेख्यं करोतीति ।) चित्रकरः । इति
हलायुधः ॥

चित्रकोलः, पुं, (चित्रो विचित्रः कोल क्रोडदेशो

यस्य ।) अञ्जनिका । इति त्रिकाण्डशेषः ॥

चित्रगन्धं, क्ली, (चित्रो विचित्रो गन्धो यस्य ।)

हरितालम् । इति राजनिर्घण्टः ॥

चित्रगुप्तः, पुं, (गुप रक्षणे + भावे क्तः । चित्राणां

जीवकृतपापपुण्यादिविचित्राणां गुप्तं गोपनं
पृष्ठ २/४४९
रक्षणं यस्मात् । यद्वा, चित्रंविचित्रं गुप्तं धर्म्मस्य
रक्षणं यस्य ।) चतुर्द्दशयमान्तर्गतयमः । तस्य
लेखकः । इति मेदिनी । ते, १९८ ॥ तस्योत्-
पत्तिर्यथा, --
“ब्रह्मपादांशतः शूद्रमसीशौ द्बौ बभूवतुः ।
एको मसीशः सर्व्वाख्यः सर्व्वाणीहृदयद्विजात् ॥
कुलप्रदीपः स्वीयानां जातीनां पूततास्पृहः ।
वगलेति महाविद्यां गृहीत्वा साधयन् मुदा ॥
सर्व्वाणीहृदयाख्यस्य पण्डितस्य प्रसादतः ।
वरं याचितवान् भक्त्या त्रिलोकाधिपतिं, गुरो ! ॥
कृपया कुरु मां नाथ ! त्वमेव वगला मम ।
गुरुणापि वरो दत्तो राज्यं भुक्त्वा पुनर्भवान् ॥
त्रिलोकाधिपतिर्भूत्वा मुदा तत्र सुखिष्यति ।
गुर्व्वाज्ञया मसीशः स राज्यभोगी द्विजार्च्चनात् ॥
विहाय देहं भूयश्च त्रिधारूपो बभूव ह ।
चित्रगुप्तश्चित्रसेनश्चित्राङ्गद इति त्रयः ॥
स्वर्गे मर्त्ये च पाताले राजते चिरमुत्तमः ।
चित्रमुप्तो महाविद्यां प्राप्य कुल्लाख्यविप्रतः ॥
पुत्त्रान् याचितवान्नैव गुरोर्देवत्वमावहन् ।
यमान्तिस्थो बभूवापि स्वर्मर्त्याधोविवेचकः ॥
चिरं शुभाशुभं कर्म्म विविच्य शमनान्तिके ।
यद्वदेत् सकलानान्तु तदेवाभोजयेद्यमः ॥”
इत्याचारनिर्णयतन्त्रम् ॥
अस्योत्पत्त्यन्तरं कायस्थशब्दे द्रष्टव्यम् ॥

चित्रजल्पः, पुं, (चित्रो मनोहरो जल्पः ।) वाक्य-

विशेषः । तल्लक्षणादिर्यथा, --
“प्रेष्ठस्य सुहृदा लोके गूढरोषाभिजृम्भितः ।
भूरिभावमयो जल्पो यस्तीव्रोत्कण्ठितान्तिमः ॥
चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् ।
विजल्पो जल्पसंजल्पाववजल्पोऽभिजल्पितम् ॥
आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्त्तितः ।
एष भ्रमरगीताख्यो दशमे प्रकटीकृतः ॥
असङ्ख्यभाववैचित्री चमत्कृतिसुदुस्तरः ।
अपि चेच्चित्रजल्पोऽयं मनाक् तदपि कथ्यते ॥
तत्र प्रजल्पः ।
असूयेर्ष्यामदयुजा योऽवधीरणमुद्रया ।
प्रेयस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्त्यते ॥
यथा, --
मधुप ! कितवबन्धो ! मा स्पृशाङ्घ्रिं सपन्त्याः
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १ ॥
अथ परिजल्पितम् ।
प्रभोर्निर्दयताशाठ्यचापलाद्युपपादनात् ।
स्वविचक्षणताव्यक्तिर्भङ्ग्यास्यात् परिजल्पितम् ॥
यथा, --
सकृदधरसुधां स्वां मोहिनीं पाययित्वा
सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।
परिचरति कथं तत्पादपद्मं नु पद्मा
अपि वत हृतचेता ह्युत्तमश्लोकजल्पैः ॥ २ ॥
अथ विजल्पः ।
व्यक्तयासूयया गूढमानमुद्रान्तरालया ।
अघद्बिषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥
यथा, --
किमिह बहु षडङ्घ्रे ! गायसि त्वं यदूना-
मधिपतिमगृहाणामग्रतो नः पुराणम् ।
विजयसखसखीनां गीयतां तत्प्रसङ्गः
क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ ३ ॥
अथोज्जल्पः ।
हरेः कुहकताख्यानं गर्व्वगर्भितयेर्ष्यया ।
सासूयश्च तदाक्षेपो धीरैरुज्जल्प ईर्य्यते ॥
यथा, --
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः
कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।
चरणरज उपास्ते यस्य भूतिर्व्वयं का
अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ ४ ॥
अथ संजल्पः ।
सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया ।
तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो बुधैः ॥
यथा, --
विसृज शिरसि पादं वेद्म्यहं चाटुकारै-
रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।
स्वकृत इह विसृष्टापत्यपत्यन्यलोका
व्यसृजदकृतचेताः किन्नु सन्धेयमस्मिन् ॥ ५ ॥
अथ अवजल्पः ।
हरौ काठिन्यकामित्वधौर्त्त्यादासक्त्ययोग्यता ।
यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ॥
यथा, --
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्म्मा
स्त्रियमकृतविरूपां स्त्रीजितः कामयानाम् ।
बलिमपि बलिमत्त्वाऽवेष्टयद्ध्वाङ्क्षवद्य-
स्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ ६ ॥
अथाभिजल्पितम् ।
भङ्ग्या त्यागौचितं तस्य खगानामपि खेदनात् ।
यत्र सानुशयं प्रोक्तं तद्भवेदभिजल्पितम् ॥
यथा, --
यदनुचरितलीलाकर्णपीयूषविप्रुट्-
सकृददनविधूतद्बन्द्वधर्म्मा विनष्टाः ।
सपदि गृहकुटुम्बं दीनमुत्सृज्य धीरा
बहव इव विहङ्गा भिक्षुचर्य्यां चरन्ति ॥ ७ ॥
अथ आजल्पः ।
ज्यैह्म्यं तस्यार्त्तिदत्वञ्च निर्व्वेदाद्यत्र कीर्त्तितम् ।
भङ्ग्यान्यसुखदत्वञ्च स आजल्प उदीरितः ॥
यथा, --
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः
कुलिकरुतमिवाज्ञाः कृष्णबध्वो हरिण्यः ।
ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र-
स्मररुजमुपमन्त्रिन् ! भण्यतामन्यवार्त्ता ॥ ८ ॥
अथ प्रतिजल्पः ।
दुस्त्यजद्वन्द्बभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम् ।
दूतसंमाननेनोक्तं यत्र स प्रतिजल्पकः ॥
यथा, --
“प्रियसख ! पुनरागाः प्रेयसा प्रेषितः किं
वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ! ।
नयसि कथमिहास्मान् दुस्त्यजद्बन्द्बपार्श्वं
सततमुरसि सौम्य ! श्रीबधूः साकमास्ते ॥ ९ ॥
अथ सुजल्पः ।
यत्रार्जवात् सगाम्भीर्य्यं सदैन्यं सहचापलम् ।
सोत्कण्ठञ्च हरिः पृष्टः स सुजल्पो निगद्यते ॥
यथा, --
अपि घत ! मधुपुर्य्यामार्य्यपुत्त्रोऽधुनास्ते
स्मरति स पितृगेहान् ! सौम्यबन्धूश्च गोपान् ।
क्वचिदपि स कथां नः किङ्करीणां गृणीते
भुजमगुरुसुगन्धं मूर्द्ध्न्यधास्यत् कदा नु ॥” १० ॥
इत्युज्ज्वलनीलमणौ स्थायिभावः ॥

चित्रतण्डुलं, क्ली, (चित्रो विचित्रस्तण्डुलो यस्य ।)

विडङ्गम् । इति रतमाला ॥

चित्रतण्डुला, स्त्री, (चित्रो नानावर्णस्तण्डुलो

यस्याः ।) विडङ्गम् । इत्यमरः । २ । ४ । १०६ ॥
(यथास्याः पर्य्यायाः ।
“पुंसि क्लीवे विडङ्गः स्यात् कृमिघ्नो जन्तुनाशनः ।
तण्डुलश्च तथा वेल्लममोघा चित्रतण्डुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

चित्रत्वक्, [च्] पुं, (चित्रा विचित्रा त्वक्

यस्य ।) भूर्जवृक्षः । इति राजनिर्घण्टः ॥

चित्रदण्डकः, पुं, (चित्रो विचित्रो दण्डो यस्य ।

इति कप् ।) ओलवृक्षः । इति रत्नमाला ॥

चित्रदेवी, स्त्री, (चित्रं दीव्यतीति । दिव् + अच् ।

गौरादित्वात् ङीष् ।) महेन्द्रवारुणी । इति
राजनिर्घण्टः ॥

चित्रनेत्रा, स्त्री, (चित्रे मनोज्ञे नेत्रे यस्याः ।)

सारिकापक्षी । इति हारावली । ८९ ॥

चित्रपक्षः, पुं, (चित्रौ विचित्रौ पक्षौ यस्य ।)

तित्तिरिपक्षी । इति जटाधरः ॥

चित्रपत्रिका, स्त्री, (चित्राणि विचित्राणि पत्राणि

पर्णाणि यस्याः । कापि अत इत्वम् ।) कपित्थ-
पर्णीवृक्षः । इति रत्नमाला ॥ द्रोणपुष्पी ।
इति राजनिर्घण्टः ॥

चित्रपत्री, स्त्रीं, (चित्राणि पत्राणि यस्याः ।

गौरादित्वात् ङीष् ।) जलपिप्पली । इति
राजनिर्घण्टः ॥

चित्रपदा, स्त्री, (चित्रं पदं यस्याः ।) गोधा-

पदीलता । इति शब्दमाला ॥ छन्दोभेदः ।
इति छन्दोमञ्जरी ॥ अस्य लक्षणादि छन्दःशब्दे
द्रष्टव्यम् ॥ (चित्रं पदं वस्तुविन्यासो यस्य यत्र वा
इति विग्रहे विचित्रपदयुक्ते त्रि । यथा, महा-
भारते । ३ । ३१ । १ ।
“वल्गु चित्रपदं श्लक्ष्णं याज्ञसेंनि ! त्वया वचः ।
उक्तं तत् श्रुतमस्माभिर्नास्तिक्यन्तु प्रभाससे ॥”)

चित्रपर्णिका, स्त्री, (चित्राणि पर्णाणि पत्राणि

यस्याः । कापि अत इत्वम् ।) चित्रपर्णीभेदः ।
तत्पर्य्यायः । दीर्घा २ शृगालविन्ना ३ त्रिपर्णी ४
सिंहपुच्छिका ५ दीर्घपत्रा ६ अतिगुहा ७
घृष्ठिला ८ । इति रत्नमाला ॥

चित्रपर्णी, स्त्री, (चित्राणिं पर्णाणि यस्याः ।

गौरादित्वात् ङीष ।) पृश्निपर्णी । इत्यमरः ।
पृष्ठ २/४५०
२ । ४ । ९२ ॥ कर्णस्फोटालता । जलपिप्पली ।
द्रोणपुष्पी । इति राजनिर्घण्टः ॥ मञ्जिष्ठा ।
इति रत्नमाला ॥ (यथास्याः पर्य्यायाः ।
“मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यपि ।
ताम्रवल्ली चित्रपर्णी काण्डीरी रक्तयष्टिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

चित्रपादा, स्त्री, (चित्रौ पादौ यस्याः ।) सारिका-

पक्षी । इति हारावली । ८९ ॥

चित्रपिच्छकः, पुं, (चित्राणि पिच्छानि पुच्छ-

कानि यस्य । ततः कप् ।) मयूरः । इति
राजनिर्घण्टः ॥

चित्रपुङ्खः, पुं, (चित्रः पुङ्खो यस्य ।) शरः । इति

त्रिकाण्डशेषः ॥

चित्रपुष्पी, स्त्री, (चित्राणि पुष्पाणि यस्याः ।

स्त्रियां ङीप् ।) अम्बष्ठा । इति राजनिर्घण्टः ॥
(विवरणमम्बष्ठाशब्देऽस्या ज्ञेयम् ॥)

चित्रपृष्ठः, पुं, (चित्रं नानावर्णं पृष्ठं यस्य ।)

कलविङ्कपक्षी । इति हारावली । ८९ ॥

चित्रफलः, पुं, (चित्रं फलं फलकं तद्वदाकृति-

र्विद्यतेऽस्य । अच् ।) मत्स्यविशेषः । चितल
इति भाषा ॥ अस्य गुणाः । गुरुत्वम् । स्वादु-
त्वम् । स्निग्धत्वम् । वृष्यत्वम् । बलप्रदत्वञ्च । इति
राजवल्लभः ॥

चित्रफलकः, पुं, (चित्रफल + स्वार्थे कन् ।) चित्र-

फलमत्स्यः । इति भूरिप्रयोगः ॥

चित्रफला, स्त्री, (चित्राणि फलानि यस्याः ।)

चिर्भिटा । मृगेर्व्वारुः । लिङ्गिनी । महेन्द्र-
वारुणी । वार्त्ताकी । कण्टकारी । इति राज-
निर्घण्टः ॥ मत्स्यविशेषः । फलै इति भाषा ॥
तत्पर्य्यायः । राजग्रीवः २ फलकी ३ महो-
न्मदः ४ । इति शब्दरत्नावली ॥

चित्रभानुः, पुं, (चित्रा नानावर्णा भानवो रश्मयो

यस्य ।) अग्निः । (यथा, महाभारते । २ । ३१ । ४२ ।
“चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो ! ॥”)
सूर्य्यः । इति मेदिनी । ने, १८३ ॥ चित्रकवृक्षः ।
अर्कवृक्षः । वह्निसंज्ञक इति अर्काह्व इति
चामरदर्शनात् ॥ भैरवः । इति शब्दरत्नावली ॥
(वर्षविशेषः । यथा, बृहत्संहितायाम् । ८ । ३५ ।
“श्रेष्ठं चतुर्थस्य युगस्य पूर्ब्बं
यच्चित्रभानुं कथयन्ति वर्षम् ॥”)

चित्रभेषजा, स्त्री, (चित्रं भेषजं यस्याः ।) काको-

दुम्बरिका । इति राजनिर्घण्टः ॥

चित्रमेखलः, पुं, (चित्रा विचित्रा मेखला यस्य ।)

मयूरः । इति त्रिकाण्डशेषः ॥

चित्रयोधी, [न्] पुं, अर्ज्जुनवृक्षः । इति राज-

निर्घण्टः ॥ (चित्रं यथा स्यात् तथा युध्यतीति ।
युध + णिनिः ।) पार्थः ॥ (चित्रयुद्धशीले,
त्रि । यथा, महाभारते । १ । १ । १८६ ।
“यदा द्रोणो विविधानस्त्रमार्गा-
न्निदर्शयन् समरे चित्रयोधी ॥”)

चित्ररथः, पुं, (चित्रो रथो यस्य ।) सूर्य्यः ।

गन्धर्व्वविशेषः । इति मेदिनी । थे, २८ ॥ शेषस्य
पर्य्यायः । गन्धर्व्वराजः २ अङ्गारपर्णः ३ कुवेर-
सखः ४ दग्धरथः ५ । (यथा, महाभारते । १ ।
१७१ । ३७ -- ३९ ।
गन्धर्व्व उवाच ।
“जितोऽहं पूर्ब्बकं नाम मुञ्चाम्यङ्गारपर्णताम् ।
न च श्लाधे बलेनाङ्ग ! न नाम्ना जनसंसदि ॥
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् ।
गान्धर्व्व्या माययेच्छामि संयोजयितुमर्ज्जुनम् ॥
अस्त्राग्निना विचित्रोऽयं दग्धोमे रथ उत्तमः ।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥”)
स तु मुनिनाम्न्यां दक्षकन्यायां कश्यपौरसा-
ज्जातः । इति महाभारते । १ । ६५ । ४३ ॥

चित्रलः, पुं, (चित्रमाश्चर्य्यं लातीति । ला + कः ।)

कर्व्वुरवर्णः । तद्वति त्रि । इति शब्दरत्नावली ॥

चित्रलता, स्त्री, (चित्रा नानावर्णा लता ।)

मञ्जिष्ठा । इति राजनिर्घण्टः ॥

चित्रला, स्त्री (चित्रल + “अजाद्यतष्टाप् ।” ४ ।

१ । ४ । इति टाप् ।) गोरक्षीवृक्षः । इति
राजनिर्घण्टः ॥

चित्रलेखा, स्त्री, (चित्रो लेखो लेखनशक्तिर्यस्याः ।

चित्रं लेखयतीति वा । लिख + “कर्म्मण्यण् ।”
३ । २ । १ । इत्यण् । चित्रलेखनदक्षतयास्या-
स्तथात्वम् ।) अप्सरोविशेषः । सा ऊषायाः
सखी कुम्भाण्डस्य कन्या । यथा, हरिवंशे ।
१७४ । ७४ -- ७५ ।
“उवाच रुदतीञ्चैव कुम्भाण्डतनया सखीम् ।
कुशला ते विशालाक्षि ! सर्व्वथा सन्धिविग्रहे ॥
अप्सराश्चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि ! ॥”
यथा, श्रीभागवते । १० । ६२ । १४ ।
“बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।
सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥”
(अस्याश्चित्रलेखनपटुत्वकथा यथा हरिवंशे ।
१७४ । ८० -- ८८ ।
“चित्रलेखाऽब्रवीद्वाक्यमूषां हर्षयती शनैः ॥”
“देवदानवयक्षाणां गन्धर्व्वोरगरक्षसाम् ।
ये विशिष्टाः प्रभावेण रूपेणाभिजनेन च ॥
यथा प्रधानतः सर्व्वानालिखिष्याम्यहं सखि ! ।
मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥
सप्तरात्रेण ते भीरु ! दर्शयिष्याम्यहं प्रियम् ।
ततो विज्ञाय पट्टस्थं भर्त्तारं प्रतिलप्स्यसे ॥
सा चित्रलेखया प्रोक्ता ऊषा हितचिकीर्षया ।
क्रियतामेवमित्याह चित्रलेखां सखीं प्रति ॥
ततः कुशलहस्तत्वात् यथा लेख्यं समन्ततः ।
इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् ॥
चित्रपट्टगतान् मुख्यानानयामास शोभना ॥”)
छन्दोविशेषः । इति छन्दोमञ्जरी ॥ अस्य विव-
रणं छन्दःशब्दे द्रष्टव्यम् ॥

चित्रलोचना, स्त्री, (चित्रे लोचने यस्याः ।)

सारिकापक्षी । इति जटाधरः भूरिप्रयोगश्च ॥

चित्रवदालः, पुं, (चित्रवत् आ समन्तादलति

पर्य्याप्नोतीति । आ + अल + अच् ।) पाठीन-
मत्स्यः । इति जटाधरः ॥

चित्रवल्लिकः, पुं, (चित्रा विचित्रा वल्लिर्लता । सा

इव कायतीति । कै + कः ।) वदालमत्स्यः ।
इति हेमचन्द्रः । ४ । ४११ ॥

चित्रवल्ली, स्त्री, (चित्रा विचित्रा वल्ली लता

यस्याः ।) मृगेर्व्वारुः । महेन्द्रवारुणी । इति
राजनिर्घण्टः ॥

चित्रवीर्य्यः, पुं, (चित्रमाश्चर्य्यजनकं वीर्य्यमस्य ।)

रक्तैरण्डः । इति राजनिर्घण्टः ॥

चित्रशिखण्डिजः, पुं, (चित्रशिखण्डिनोऽङ्गिरसो

मुनेर्ज्जायते इति । जन + डः ।) बृहस्पतिः ।
इत्यमरः । १ । ३ । २४ ॥

चित्रशिखण्डिप्रसूतः, पुं, (चित्रशिखण्डिनोऽङ्गि-

रसः प्रसूतः सन्ततिः ।) बृहस्पतिः । इति
हलायुधः ॥

चित्रशिखण्डी, [न्] पुं, (चित्रः शिखण्डः शिखा

अस्त्यस्य । “अत इनिठनौ ।” ५ । २ । ११५ ।
इति इनिः ।) सप्तर्षयः । इत्यमरः । १ । ३ । २७ ॥
यथाह भरतः ।
“मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।
वशिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः ॥”
(यथाच, महाभारते । १२ । ३३५ । २६ -- २८ ।
“ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः ।
तैरेकमतिभिर्भूत्वा यत् प्रोक्तं शास्त्रमुत्तमम् ॥
वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ।
आस्यैः सप्तभिरुद्गीर्णं लोकधर्म्ममनुत्तमम् ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वशिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः ॥”)

चित्रसर्पः, पुं, (चित्रः नानावर्णरञ्जितः सर्पः ।)

मालुधानसर्पः । इति शब्दरत्नावली ॥

चित्रसेनः, पुं, ब्रह्मपादजमसीशाख्यकायस्थस्य चित्र-

गुप्तादित्रितयान्तर्गतमूर्त्तविशेषः । स तु मर्त्य-
लोकविवेचकः । यथा, --
“चित्रसेने महाविद्यां वगलेति गुरोर्नयन् ।
जप्त्वा सन्तोष्य पुत्त्रादीन् याचित्वा प्राप्य मर्त्यतः ॥
राज्यं चकार सूद्युक्तश्चित्राङ्गद अधो गतः ॥”
इत्याचारनिर्णयतन्त्रम् ॥
(चित्रा सेना यस्य । गन्धर्व्वविशेषः । यथा,
महाभारते । २ । १० । २५ ।
“चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि च ।
एते चान्ये च गन्धर्व्वा धनेश्वरमुपासते ॥”
धृतराष्ट्रपुत्त्रविशेषः । यथा, महाभारते । १ ।
९५ । ५७ । “तेषां धृतराष्ट्रस्य पुत्त्राणां चत्वारः
प्रधाना बभूवुः । दुर्य्योधनो दुःशासनो विकर्ण-
श्चित्रसेनश्चेति ॥” पूरुवंशीयस्य परिक्षितः पुत्त्रा-
णामन्यतमः । यथा, महाभारते । १ । ९४ । ५२ ।
“परिक्षितोऽभवन् पुत्त्राःसर्व्वे धर्म्मार्थकोविदाः ।
कक्षसेनोग्रसेनौ च चित्रसेनश्च बीर्य्यवान् ॥”
शम्बरासुरस्य पुत्त्रविशेषः । यथा, हरिवंशे ।
१६१ । ४३ ।
“चित्रसेनोऽतिसेनश्च विश्वक्सेनजितस्तथा ॥”
नरिष्यन्तपुत्त्रः । यथा, भागवते । ९ । २ । १९ ।
“चित्रसेनो नरिष्यन्तात्दक्षस्तस्यसुतोऽभवत् ॥”)
पृष्ठ २/४५१

चित्रा, स्त्री, (चित्रयति चित्रकर्म्म करोति सर्व्व-

गुणैः शोभते इति वा । चित्र + अच् + टाप् ।)
श्रीकृष्णसखीविशेषः । यथा, उज्ज्वलनीलमणौ ।
“परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।
सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्व्वगुणाग्रिमाः ॥”
अस्याः कुञ्जः श्रीकुण्डस्य पूर्ब्बस्यां आनन्द-
सुखदो नाम । वयः अष्टमासाधिकत्रयोदश-
वत्सरम् । वर्णो गौरः । अस्या वस्त्रं जाती-
पुष्पतुल्यम् । कर्म्म चित्रम् । इति गोस्वामि-
ग्रन्थः ॥ * ॥ मूषिकपर्णी । गोडुम्बा । सुभद्रा ।
दन्तिका । (पर्य्याया यथा, वैद्यकरत्नमालायाम् ।
“चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः ।
दाक्षायणी विशल्या च तथोडुम्बरपर्ण्यपि ॥”)
माया । सर्पभेदः । नदीविशेषः । इति मेदिनी ॥
अपसरोविशेषः । इति हेमचन्द्रः ॥ अश्वि-
न्यादिसप्तविंशतिनक्षत्रान्तर्गतचतुर्द्दशनक्षत्रम् ।
तत्तु मुक्तावदुज्ज्वलं एकतारकामयम् ।
अस्य अधिष्ठात्री देवता विश्वकर्म्मा । यथा, --
“एकमौक्तिकसमुज्ज्वलप्रभे
त्वष्टरीन्दुवदने खमध्यगे ।”
इति कालिदासः ॥
तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे ।
“प्रतापसन्तापितशत्रुपक्षो
दक्षो नये चापि विचित्रवासाः ।
प्रसूतिकाले यदि यस्य चित्रा
बुद्धिर्विचित्रा खलु तस्य शास्त्रे ॥”
मृगेर्व्वारुः । (यथा, चरके सूत्रस्थाने । १३ अः ।
“तिलः पियालाभिषुकौ विभीतका-
श्चित्राभयैरण्डमधूकसर्षपाः ।
कुसुम्भविल्वारुकमूलकातसी
निकोठकाक्षोडकरञ्जशिग्नुजाः ॥
स्नेहाशयाः स्थावरसंज्ञितास्तथा
स्युर्ज्जङ्गमा मत्स्यमृगाः सपक्षिणः ॥”)
गण्डदूर्व्वा । सुतश्रेणी । मञ्जिष्ठा । इति राज-
निर्घण्टः ॥ (यथा, सुश्रुते चिकित्सितस्थाने
२ अध्याये ।
“चित्रासमन्वितञ्चैव रुजादाहविनाशनम् ॥”)
छन्दोविशेषः । इति छन्दोमञ्जरी ॥ अस्य विव-
रणं छन्दःशब्दे द्रष्टव्यम् ॥ (गायत्त्रीस्वरूपा
महाशक्तिः । यथा, देवीभागवते । १२ । ६ । ५२ ।
“चक्रवाकस्तनी चेष्ठा चित्रा चारुविलासिनी ॥”)

चित्राक्षी, स्त्री, (चित्रे अक्षिणी नेत्रे यस्याः ।

समासे षच् स्त्रियां ङीष् ।) सारिकापक्षी ।
इति त्रिकाण्डशेषः ॥

चित्राक्षुपः, पुं, (चित्रा मूषिकपर्णीव क्षुपः ह्रस्व-

शांखवृक्षः ।) द्रोणपुष्पी । इति राजनिर्घण्टः ॥

चित्राङ्गं, क्ली, (चित्रं अङ्गं यस्मात् ।) हिङ्गुलम् ।

हरितालम् । इति राजनिर्घण्टः ॥

चित्राङ्गः, पुं, (चित्रमङ्गं यस्य ।) चित्रकः । रक्त-

चित्रकः । सर्पः । इति राजनिर्घण्टः ॥ (यथास्य
गुणाः ।
“चित्राङ्गो वातशमनो बृंहणो बलकृन्मतः ।
श्लेष्मलः कथितो वापि दुर्ज्जरो मेदवर्द्धकः ॥”
इति हारीते प्रथमे स्थाने एकादशेऽध्याये ॥
धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते ।
१ । ११७ । ६ ।
“अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुन्तलः ॥”)

चित्राङ्गदः, पुं, चन्द्रवंशीयराजविशेषः । स तु

शान्तनुराजपुत्त्रः । विचित्रवीर्य्यभ्राता । (अयन्तु
शान्तनुराजस्य स्वर्गगमनानन्तरं राज्यं लब्ध्वा
ऐश्वर्य्यवीर्य्यमदेन शूरान् सर्व्वान् तृणवदमन्यत ।
अथ कदाचित् गन्धर्व्वराजचित्ररथः युद्धार्थमेन-
मभ्ययात् । ततः कुरुक्षेत्रमध्ये प्रवृत्ते महति
युद्धे समधिकमायाबलेनानेन गन्धर्व्वराजेन
निहतोऽयं कौरवप्रवीरः । इत्येषा कथा महा-
भारते । १ । १०१ । अध्याये द्रष्टव्या ॥) गन्धर्व्व-
विशेषः । इति महाभारतम् ॥ (यथा, देवी-
भागवते । १ । २० । २२ ।
“चित्राङ्गदस्तु गन्धर्व्वो दृष्ट्वा तं मार्गगं नृपम् ।
उत्तत्तारान्तिकं भूमेर्विमानवरमास्थितः ॥”)
ब्रह्मपादजमसीशाख्यकायस्थस्य चित्रगुप्तादि-
त्रितयान्तर्गतमूर्त्तविशेषः । स अधोलोकविवे-
चकः । तस्याधोगमनकारणं यथा, --
“अधोगतस्य हेतुत्वं वगले ! शृणु कालिके ! ।
वगलेति मनुं प्राप्य विप्रः स्यामिति वाञ्छया ॥
तपश्चकार पञ्चाब्दं नान्यत् किञ्चिद्गृहीतवान् ।
फलमूलादिकं किञ्चित् सायमत्ति यथा मिलेत् ॥
विहाय विप्रस्य गुरोरपि पूजाञ्च पार्व्वति ! ।
जपेन्नित्यं हि वगलामन्यविप्रञ्च नेक्षयन् ॥
ज्ञात्वेति ब्राह्मणाः सर्व्वे ऊचुश्चित्राङ्गदं क्रुधा ।
वचो हि मधुरं किञ्चित् प्रियाद्भक्ताच्च सुन्दरि ! ॥
रे चित्राङ्गद ! अज्ञस्त्वं वत्स ! विप्रत्वमिच्छसि ।
कदाप्युपानन् मस्तस्थो नैवेति न हि बुध्यसे ॥
वत्स ! शीघ्रमधो गच्छ चिरं कुरु तपो मुदा ॥”
चित्राङ्गदः शापं श्रुत्वा ब्राह्मणान् तुष्टाव ततो
ब्राह्मणा लज्जिताः सन्तस्तमूचुः ।
“हे चित्राङ्गद ! हे तात वत्स ! त्वं नोत्सवः किल ।
दुश्चिन्तां कुरु मा तात भद्रं ते कथयाम भोः ॥
जनस्तपोबलेनैव सर्व्वं प्राप्नोत्यसंशयम् ।
नार्हतीशं विना तात ! ब्राह्मणो भवितुं किल ॥
इतीश्वराज्ञा वेदेऽस्ति प्रतिजानीहि तत्त्वतः ।
वरं प्राप्नोति देवत्वं ब्राह्मणत्वं कदापि न ॥
यथामरत्वमीशेन विना क्वापि न शासने ।
नोत्सवस्त्वमधो गच्छ सुखेन वगलां जप ॥
कलेर्द्दशसहस्राणि नागलोकेश्वरो भव ।
ततस्त्रिलोकनाथस्त्वमिन्द्रतुल्यो भविष्यसि ॥
राज्यं भुक्त्वान्ततो नैव पुनरावर्त्तनं तव ।
सदा वयं तव शिवं चिन्तयामो न भीं कुरु ॥
तात गच्छ सुखं भुङ्क्ष्व नागलोकेऽपि विस्तरात् ।
तत आनन्दमनसा गतश्चित्राङ्गदस्तलम् ॥”
इत्याचारनिर्णयतन्त्रम् ॥
(स्त्रियां टाप् । मणिपुरेश्वरस्य चित्रवाह-
नस्य कन्या । यथा, महाभारते । १ । २१६ । १५ ।
“तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥”)

चित्राङ्गदसूः, स्त्री, (चित्राङ्गदं सूते प्रसूते इति ।

सू ङ प्रसवे + क्विप् ।) सत्यवती । सा व्यास-
माता । इति त्रिकाण्डशेषः ॥

चित्राङ्गी, स्त्री, (चित्रमङ्गं यस्याः । स्त्रियां ङीप् ।)

मञ्जिष्ठा । कर्णजलौकाः । इति राजनिर्घण्टः ॥

चित्राटीरः, पुं, (चित्रां नक्षत्रविशेषं अटतीति ।

अट गतौ + बाहुलकात् ईरच् ।) चन्द्रः । (चित्रं
तिलकं अटति गच्छति प्राप्नोति बलिच्छागास्र-
बिन्दुभिरित्यर्थः । अट + ईरच् ।) घण्टाकर्ण-
बलिच्छागास्रबिन्दुभिरङ्कितभालः । इति
मेदिनी । रे, २६३ ॥

चित्रापूपः, पुं, (चित्रो विचित्र आपूपः पिष्टकः ।)

पिष्टकभेदः । चिताइ पिटा इति भाषा ॥ तत्-
पर्य्यायः । चरुव्रणः २ । इति त्रिकाण्डशेषः ॥

चित्रायसं, क्ली, (चित्रमायसं लोहम् ।) तीक्ष्ण-

लोहम् । इति राजनिर्घण्टः ।

चित्रिकः, पुं, (चित्रा नक्षत्रविशेषः सा पौर्ण-

मास्यामस्त्यस्य । चित्रा + ठन् ।) चैत्रमासः ।
इति शब्दरत्नावली ॥

चित्रिणी, स्त्री, (चित्रं विचित्रतास्त्यस्याः । चित्र

+ इनिः + ङीप् ।) पद्मिन्यादिचतुर्व्विधस्त्री-
मध्ये स्त्रीविशेषः । सा मीनगन्धा । तस्या लक्षणं
यथा । रतिमञ्जर्य्याम् । ४ ।
“भवति रतिरसज्ञा नातिदीर्घा न खर्व्वा
तिलकुसुमसुनासा स्निग्धोदेहोत्पलाक्षी ।
कठिनघनकुचाढ्या सुन्दरी सा सुशीला
सकलगुणविचित्रा चित्रिणी चित्रवक्त्रा ॥”
(इयं हि मृगजातीयपुरुषं लब्ध्वा सन्तुष्टा
भवति । यदुक्तं तत्रव । ८ ।
“शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् ।
वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥”
अस्यां रतिकरणप्रकारमाह तत्रैव । २९ ।
“शीत्कारं चुम्बनं पीडा गले हस्ते च चुम्बनम् ।
क्षणे क्षणे स्तने हस्तं चित्रिणीरतिमादिशेत् ॥”)

चित्रेशः, पुं, (चित्रा नक्षत्रविशेषस्तस्या ईशः

पतिः ।) चन्द्रः । इति शब्दचन्द्रिका ॥

चित्रोक्तिः, स्त्री, (चित्रा आश्चर्य्यकरी उक्तिर्वाणी ।)

आकाशवाणी । इति त्रिकाण्डशेषः ॥ आश्चर्य्य-
कथनञ्च ॥

चित्रौदनं, क्ली, (चित्रमोदनम् ।) विचित्रान्नम् ।

इति ग्रहयज्ञतत्त्वम् ॥

चिद्रूपः, त्रि, हृदयालुः । इति भूरिप्रयोगः ।

(चित् ज्ञानमेव रूपं यस्य ।) ज्ञानमयः । यथा ।
चिद्रूपे परमात्मनीति योगशास्त्रम् ॥

चिन्ता, स्त्री, (चिन्तनमिति । चिति चिन्तायाम् +

“चिन्तिपूजिकथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ ।
इति अङ् ।) चिन्तना । चिन्तनम् । तत्पर्य्यायः ।
स्मृतिः २ आध्यानम् ३ । इत्यमरः । १ । ७ । २९ ॥
आध्या ४ ध्यानम् ५ चिन्तितिः ६ । इति शब्द-
रत्नावली ॥ चिन्तिया ७ । इति रभसः ॥ (यथाह
कश्चित् ।
पृष्ठ २/४५२
“चिता चिन्ता द्वयोर्मध्ये चिन्ता नाम गरीयंसी ।
चिता दहति निर्जीवं चिन्ता हि जीवितन्तथा ॥”)
दर्शनसम्भोगयोः प्रकारभावना । इति रस-
मञ्जरी ॥ (सा च व्यभिचारिभावविशेषः । यथा,
साहित्यदर्पणे । ३ । १७० ।
“ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ॥”)

चिन्तामणिः, पुं, (चिन्तायां सर्व्वकामप्रदो मणि-

रिव । शाकपार्थिवादिवत् समासः । यद्वा,
चिन्तया ध्यानधारणादिना मण्यते आहूयते
इति । मण + इण् ।) ब्रह्मा । इति शब्दरत्ना-
वली ॥ (चिन्ता एव मणिरिव यस्य । चिन्ता-
शीलत्वादेवास्य तथात्वम् ।) बुद्धविशेषः । इति
त्रिकाण्डशेषः ॥ मणिविशेषः । यथा, भट्टिः ।
“सामर्थ्यसम्पादितवाञ्छितार्थ-
श्चिन्तामणिः स्यान्न कथं हनूमान् ॥”
स्पर्शमणिः । तथा च ।
“यथा चिन्तामणिं स्पृष्ट्वा लौहं काञ्चनतां भजेत् ॥”
इति पाद्मोत्तरखण्डम् ॥
(अश्वविशेषः । यथा, नकुलकृताश्वचिकित्-
सिते । ४ । १९ ।
“कण्ठे यस्य महावर्त्त एकोऽश्वस्य प्रजायते ।
चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥”)

चिन्तावेश्म, [न्] क्ली, (चिन्ताया मन्त्रणादेर्वेश्म

गृहम् ।) मन्त्रणागृहम् । तत्पर्य्यायः । दार्व्व-
टम् २ । इति हारावली । १६८ ॥

चिन्तिडी, स्त्री, (तिन्तिडी । पृषोदरादित्वात्

तस्य चत्वम् ।) तिन्तिडी । इति द्विरूपकोषः ॥
इति कश्चित् ॥

चिन्तितं, त्रि, (चिति + कर्म्मणि क्तः ।) कृत-

चिन्तनम् । यथा, --
“यच्चिन्तितं तदिह दूरतरं प्रयाति
यच्चेतसा न गणितं तदिहाभ्युपैति ।”
इत्युद्भटः ॥
कर्त्तरि क्ते चिन्तायुक्तः । भावे क्ते चिन्ता ॥

चिन्तितिः, स्त्री, (चिन्त + भावे क्तिच् इट् च ।)

चिन्ता । इति शब्दरत्नावली ॥

चिन्तिया, स्त्री, चिन्ता । इति त्रिकाण्डशेषः ॥

चिन्नः, पुं, शस्यविशेषः । इति शब्दचन्द्रिका ॥

चिना इति भाषा ॥ (चीनशब्दे विशेषोऽस्य
ज्ञातव्यः ॥)

चिपिटः, पुं, (चयतीति । चि + बाहुलकात्

पिटच् स च कित् ।) भक्ष्यद्रव्यविशेषः । चिडा ।
इति भाषा ॥ तत्पर्य्यायः । पृथुकः २ । इति
हेमचन्द्रः । ३ । ६५ ॥ चिपिटकः ३ । इत्यमरः ॥
चिपुटः ४ । इति भरतः ॥ धान्यचमसः ५ ।
इति त्रिकाण्डशेषः ॥ चिपीटकः ६ । इति
शब्दरत्नावली ॥ अस्य गुणाः । गुरुत्वम् ।
स्निग्धत्वम् । वृंहणत्वम् । कफवर्द्धकत्वञ्च ॥ क्षीर-
युक्तस्य तस्य गुणाः । बलकारित्वम् । वायुनाशि-
त्वम् । मलभेदकत्वञ्च । इति राजवल्लभः ॥
वृं हणत्वम् । वृष्यत्वञ्च । तस्य लक्षणं यथा,
भावप्रकाशे पूर्ब्बखण्डे द्बितीये भागे ।
“शालयः सतुषा आर्द्रा भृष्टा अस्फुटितास्ततः ।
कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका अपि ॥”
“शालेया यावनालाद्याश्चिपिटाः पुष्टिवर्द्धनाः ॥”
इति राजनिर्घण्टः ॥
तस्य भक्षणविधिनिषेधौ यथा, --
“द्विःस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।
नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥
अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥
(नि नता नासिका विद्यतेऽस्य । “इनच्पिटच्-
चिकचि च ।” ५ । २ । ३३ । इति पिटच्
प्रकृतेश्चिरादेशश्च । नतनासिके त्रि । यथा,
विश्वकर्म्मप्रकाशे । १३ । २ ।
“दिग्वक्त्रं चिपिटञ्चैव व्यङ्गजं सुरजन्तथा ॥”
इत्यस्य फमाह तत्रैव । ५ म श्लोके ।
“तुङ्गर्हीनञ्च चिपिटं व्यङ्गञ्चानर्थदर्शनम् ॥”
चिपिटाकारमुखादौ च । यथा, काशीखण्डे ।
३७ । १४ ।
“वक्त्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभञ्जकः ॥”
“चिपिटः चिपिटकाकारः ।” इति तट्टीका ॥)

चिपिटकः, पुं, (चिपिट + स्वार्थे कन् ।) चिपिटः ।

इत्यमरः । २ । ९ । ४७ ॥ (स्त्रियां टाप् । नत-
नासिका ॥)

चिपिटा, स्त्री, गुण्डासिनीतृणम् । इति राज-

निर्घण्टः ॥ (चिपिटा चिपिटाकारा इति ।
चिपिट + टाप् । चिपिटमूर्त्तिः । यथा, काशी-
खण्डे । ३७ । १६ । “चिपिटाभिर्भवेद्दासी ॥”)

चिपुटः, पुं, (चिपिट + पृषोदरादित्वात् साधुः ।)

चिपिटकः । इति भरतधृतरुद्रकोषः ॥

चिप्पः, पुं, (चिक्वति पीडयति अङ्गुलिमिति । चिक्व

+ अच् । निपातनात् क्कस्थाने प्पागमे साधुः ।)
नखरोगविशेषः । आङ्गुलहाडा इति भाषा ॥
तल्लक्षणं यथा, --
“नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् ।
करोतिदाहपाकौ च तं व्याधिं चिप्पमादिशेत् ॥”
अथ कुनखस्य लक्षणमाह ।
“अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ।
भवेत्तं कुनखं विद्यात् कुशीरं वा विधानतः ॥”
अथ तयोश्चिकित्सा ।
“चिप्पं रुधिरमोक्षेण शोधनेनाप्युपाचरेत् ।
गतोष्माणमथैनन्तु सेचयेदुष्णवारिणा ।
शस्त्रेणापि यथायोग्यमुच्छिद्य स्रावथेत्ततः ॥
व्रणोक्तेन विधानेन रोपयेत्तं विचक्षणः ।
स्वरसेन हरिद्रायाः पात्रे कृत्वायसेऽभयाम् ॥
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्पं पुनः पुनः ।
काश्मर्य्याः सप्तभिः पत्रैः कोमलैः परिवेष्टितः ॥
अङ्गुलीवेष्टकः पुंसां ध्रुवमाशु प्रशाम्यति ।
श्लेष्मविद्रधिकल्पेन कुनखं समुपाचरेत् ॥
नखकोटिप्रविष्टेन टङ्कणेन प्रशाम्यति ।
कुनखश्चेत्तदा शैलः सलिले प्लवतेऽपि च ॥”
इति भावप्रकाशे मध्यखण्डे ४ र्थ भागः ॥
(लक्षणान्तरमस्य यथा, --
“कुर्य्यात् पित्तानिलं पाकं नखमांसे सरुग् ज्वरम्
चिप्पमक्षतरोगञ्च विद्यादुपनखञ्च तम् ॥”
इति वाभटेनोत्तरस्थाने ३१ अध्याये उक्तम् ॥
चिकित्सास्य यथा, --
“चिप्पं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्म्मणा ॥”
इत्युत्तरस्थाने द्वात्रिंशेऽध्याये वाभटेन चोक्तम् ॥)

चिमिः, पुं, (चिनोति सञ्चिनोति मनुष्यजातिवद्-

वाक्यानीति । चि + बाहुलकात् मिक् ।) शुक-
पक्षी । इति शब्दमाला ॥

चिमिकः, पुं, (चिमि + स्वार्थे कन् ।) शुकपक्षी ।

इति शब्दरत्नावली ॥

चिरं, व्य, (चि + बाहुलकात् रक् ।) दीर्घ-

कालः । तत्पर्य्यायः । चिराय २ चिररात्राय ३
चिरस्य ४ । इत्यमरः ॥ चिरेण ५ चिरात् ६
चिरे ७ । इति भरतः ॥ चिरतः ८ । इति
शब्दरत्नावली ॥ (यथा, मनुः । ४ । ६० ।
“नैकः प्रपद्येताध्वानं न चिरं पर्व्वते वसेत् ॥)

चिरकारी, [न्] त्रि, (चिरं व्याप्य करोतीति ।

कृ + णिनिः ।) चिरक्रियः । (यथा, महाभारते ।
१२ । २६४ । ३ ।
“चिरकारी हि मेधावी नापराध्यति कर्म्मसु ॥”)
गौतमस्य पुत्त्रभेदः । अस्य निरुक्त्यादिकं यदुक्तं
महाभारते । १२ । २६५ । ४-५ ।
“चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः ।
चिरेण सर्व्वकार्य्याणि विमृष्यार्थान् प्रपद्यते ॥
चिरं सञ्चिन्तयत्यर्थांश्चिरं जाग्रत् चिरं स्वपन् ।
चिरं कार्य्याभिपत्तिश्च चिरकारी तथोच्यते ॥”)

चिरकालः, पुं, (चिरः काल इति कर्म्मधारयः ।)

दीर्घकालः । तत्पर्य्यायः । दीर्घरात्रम् २ ।
इति त्रिकाण्डशेषः ॥

चिरक्रियः, त्रि, (चिरं व्याप्य क्रिया यस्य ।)

चिरकालेन क्रियाकारकः । तत्पर्य्यायः । दीर्घ-
सूत्रः । इत्यमरः । २ । १ । १७ ॥

चिरजीवकः, पुं, (चिरं जीवतीति । जीव + ण्वुल् ।)

जीवकवृक्षः । इति जटाधरः ॥

चिरजीवी, [न्] पुं, (चिरं जीवतीति । जीव +

णिनिः ।) विष्णुः । काकः । इति मेदिनी ॥
जीवकवृक्षः । शाल्मलिवृक्षः । इति राज-
निर्घण्टः ॥ मार्कण्डेयः । अश्वत्थामा । वलिः ।
व्यासः । हनूमान् । विभीषणः । कृपः । परशु-
रामः । इति तिथ्यादितत्त्वम् ॥ बहुकालजीविनि
त्रि । इति जटाधरः ॥ (यथा, रामायणे । २ ।
१ । ३६ ।
“अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥”)

चिरञ्जीवी, [न्] पुं, (चिरं जीवतीति । जीव

+ णिनिः ।) विष्णुः । काकः । इति हेम-
चन्द्रः । ४ । ३८८ ॥ जीवकवृक्षः । शाल्मलि-
वृक्षः । इति राजनिर्घण्टः ॥ चिरजीविनि त्रि ॥

चिरण्टी, स्त्री, (चिरात् चिरेण वा अटति

पितृगृहादिति । अट + अच् । “वयसि प्रथमे ।”
४ । १ । २० । इति ङीप् । ततः पृषोदरात्
साधुः ।) स्ववासिनी । ऊढा अनूढा वा पितृ-
पृष्ठ २/४५३
गेहस्थिता कन्या । द्वितीयवयाः स्त्री । सा च
युवती । इति भरतधृतरुद्रः हेमचन्द्रश्च ॥

चिरतिक्तः, पुं, (चिरं चिरात् वा चिरावधीत्यर्थः

तिक्तः ।) वृक्षविशेषः । चिरता इति भाषा ॥
तत्पर्य्यायः । चिरातिक्तः २ तिक्तकः ३ अनार्य्य-
तिक्तकः ४ किराततिक्तः ५ भूनिम्बः ६ किरा-
तकः ७ सुतिक्तकः ८ । इति शब्दरत्नावली ॥
(भूनिम्बशब्दे विवरणमस्य ज्ञातव्यम् ॥)

चिरत्नः, त्रि, (चिर + “चिरपरुत्परारिभ्यस्त्नो

वक्तव्यः ।” ४ । ३ । २३ । सूत्रस्य वार्त्तिकोक्त्या
त्नप्रत्ययः ।) पुरातनः । चिरकालोत्पन्नः । इति
जटाधरः ॥

चिरन्तनः, त्रि, (चिरं भव इति । “सायंचिर-

मिति ।” ४ । ३ । २३ । इति ष्ट्युल् तुट् च । निपा-
तनात् साधुः ।) पुरातनः । इत्यमरः । ३ । १ । ७७ ॥
(यथा, पञ्चतन्त्रे । १ । ८० । “अयमस्माकं चिर-
न्तनो मन्त्रिपुत्त्रो दमनकोऽव्याहतप्रवेशः ॥”
पुं, मुनिविशेषः । यथा, सिद्धान्तकौमुद्याम् । ४ ।
३ । १०५ । इत्यस्य वार्त्तिके । “ब्राह्मणेषु पुरा-
णेन चिरन्तनेन मुनिना ॥”)

चिरपाकी, [न्] पुं, (चिरेण पाकोऽस्त्यस्य ।

पाक + इनिः ।) कपित्थः । इति राजनिर्घण्टः ॥

चिरपुष्पः, पुं, (चिराणि पुष्पाणि यस्य ।) वकुल-

वृक्षः । इति राजनिर्घण्टः ॥

चिरम्, व्य, (चि + रमुक् ।) चिरार्थम् । दीर्घ-

कालार्थम् । तत्पर्य्यायः । चिराय २ चिर-
रात्राय ३ चिरस्य ४ चिरात् ५ चिरेण ६ ।
इति हेमचन्द्रः । ३ । १६८ ॥ (यथा, रघौ । ३ । ६२ ।
“तथापि शस्त्रव्यवहारनिष्ठुरे
विपक्षभावे चिरमस्य तस्थुषः ॥”)

चिरमेही, [न्] पुं, स्त्री, (चिरेण मेहतीति । मिह

+ णिनिः ।) गर्द्दभः । इति हेमचन्द्रः । ४ । ३२२ ॥

चिरम्भणः, पुं, (चिरं भणति क्रोशतीति । चिरं

+ भण + अच् ।) चिल्लः । इति त्रिकाण्डशेषः ॥

चिररात्रं, क्ली, (चिरा रात्रिरिति योगविभागात्

अच् समासे ।) दीर्घकालः । इति हलायुधः ॥
(यथा, महाभारते । १ । १६८ । ३ ।
“चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने ॥”)

चिररात्राय, व्य, (चिररात्रं अयते इति । अय +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) दीर्घकालः ।
इत्यमरः । ३ । ४ । १४ ॥ (यथा, मनुः । ३ । २६६ ।
“हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ॥”)

चिरविल्वः, पुं, (चिरं विलति आच्छादयति पत्र-

कण्टकादिभिरिति । विल आच्छादने + वः ।)
करञ्जवृक्षः । इत्यमरः । २ । ४ । ४७ ॥ (यथा, --
“चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः ।
कपोतगृध्रकङ्कानां पुरीषाणि च दारुणम् ॥”
इति सुश्रुते सूत्रस्थाने षट्त्रिंशेऽध्याये ॥)

चिरसूता, स्त्री, (चिरं सूता या सा ।) चिर-

प्रसूता गवी । केलेन् गाइ इति भाषा । तत्-
पर्य्यायः । वस्कयनी २ । इत्यमरः । २ । ९ । ७१ ॥

चिरस्थायी, [न्] त्रि, (चिरं तिष्ठतीति । स्था +

णिनिः ।) बहुकालस्थाता ॥

चिरस्य, व्य, (चिरमस्यते इति । अस् + यत् ।

शकन्ध्वादित्वात् साधुः ।) दीर्घकालः । इत्य-
मरः । ३ । ४ । १ ॥ (यथा, हरिवंशे । १२६ । २३ ।
“चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना ॥”)

चिराटिका, स्त्री, (चिरं अटतीति । अट + ण्वुल्

कापि अत इत्वञ्च ।) श्वेतपुनर्नवा । इति रत्न-
माला ॥ पाताडी इति भाषा ॥ यथा, वैद्यके ।
“गोमूत्रशुद्धस्य पुरातनस्य
यद्वायसस्तानि चिराटिकायाः ॥”

चिरात्, व्य, (चिरं अततीति । अत् + क्विप्)

दीर्घकालः । इति हेमचन्द्रः । ६ । १६८ ॥
(यथा, पञ्चतन्त्रे । ४ । ७८ । “भो भगिनीसुत !
किमतिचिराद्दृष्टोऽसि ॥”)

चिरात्, पुं, (चिरं चिरेण वा अत्ति । अद् + क्विप् ।)

गरुडः । इति त्रिकाण्डशेषः ॥

चिरातिक्तः, पुं, (चिरं आतिक्तः ।) चिरतिक्तः ।

इति शब्दरत्नावली ॥

चिराय, व्य, (चिरं अयते । अय + अण् ।) दीर्घ-

कालः । इति हेमचन्द्रः । ६ । १६८ ॥ (यथा,
महाभारते । १३ । ९४ । १० ।
“पुरा धर्म्मो वर्त्तते नेह यावत्
तावद्गच्छामः सुरलोकं चिराय ॥”)

चिरायुः, [स्] पुं, (चिरमायुर्यस्य ।) देवता ।

इति त्रिकाण्डशेषः ॥ चिरजीविनि त्रि । यथा,
“भवति यदि मनुष्यो गुर्व्वधीनश्चिरायुः ॥”
इत्यागमः ॥
(यथा च पञ्चतन्त्रे । ५ । ३४ ।
“यदि विस्तारविस्तीर्णं तद्भवेन्न चिरायुषम् ॥”)

चिरि, र न हिंसे । इति कविकल्पद्रुमः ॥ (स्वां-

परं-सकं-सेट् ।) रेफोपधः । र वैदिकः । न,
चिरिणोति । इति दुर्गादासः ॥

चिरिः, पुं, (चिनोति मनुष्यवद्वाक्यादिकम् ।

चि + रिक् ।) शुकपक्षी । इति त्रिकाण्डशेषः ॥

चिरिण्टी, स्त्री, (चिरण्टी + पृषोदरात् साधुः ।)

ऊढा अनूढा वा पितृगृहस्थिता कन्या । तत्-
पर्य्यायः । स्ववासिनी । इत्यमरः । २ । ६ । ९ ॥
चिरण्टी ३ सुवासिनी ४ । इति भरतः ॥
द्वितीयवयाः स्त्री । युवती । इति मेदिनी ॥

चिरिविल्वः, पुं, (चिरविल्वः । पृषोदरादित्वात्

साधुः ।) चिरविल्वः । करञ्जवृक्षः । इत्य-
मरटीकायां भरतः ॥

चिरु, क्ली, (चिञ्न चयने + क्विप् । चि चयनं

ग्रहणमित्यर्थः रातीति । रा + मृगय्वादयश्चेति
कुः । बाहुसन्धिबलमाश्रित्यैव ग्रहणक्रियासम्भ-
वात् तथात्वम् ।) बाहुसन्धिः । इति शब्द-
चन्द्रिका ॥

चिरे, व्य, चिरम् । इत्यमरटीकायां राय-

मुकुटः ॥

चिरेण, व्य, चिरम् । इति हेमचन्द्रः ॥ (यथा,

रघुः । ५ । ६४ ।
“भावावबोधकलुषा दयितेव रात्रौ
निद्रा चिरेण नयनाभिमुखी बभूव ॥”)

चिर्भटी, स्त्री, (चिरेण भटतीति । भट + अच् ।

गौरादित्वात् ङीष् । पृषोदरादित्वात् साधुः ।)
कर्कटी । इति हेमचन्द्रः । ४ । २५५ ॥ (यथा,
पञ्चतन्त्रे । १ । १६७ । “अहो अविवेकोऽस्मद्भूपतेर्यः
पुरीषोत्सर्गमाचरंश्चिर्भटीभक्षणं करोति ॥”)

चिर्भिटा, स्त्री, कर्कटीभेदः । चिभिडा इति

वेलसेद इति च देशान्तरीयभाषा ॥ तत्-
पर्य्यायः । सुचित्रा २ चित्रफला ३ क्षेत्र
चिर्भिटा ४ पाण्डुफला ५ पथ्या ६ रोचन-
फला ७ चिर्भिटिका ८ कर्कचिर्भिटा ९ । इति
राजनिर्घण्टः ॥ चिर्भिटम् १० धेनुदुग्धम् ११
गोरक्षकर्कटी १२ । अस्या गुणाः । मधुरत्वम् ।
रूक्षत्वम् । गुरुत्वम् । पित्तकफापहत्वम् । अनु-
ष्णत्वम् । ग्राहित्वम् । विष्टम्भित्वञ्च ॥ पक्वाया
अस्या गुणाः । उष्णत्वम् । पित्तलत्वञ्च । इति
भावप्रकाशः ॥ गौल्यत्वम् । दीपनत्वञ्च ॥
बालाया अस्या गुणाः । तिक्तत्वम् । किञ्चिदम्ल-
त्वञ्च । शुष्कायास्तस्या गुणाः । श्लेष्मवातारुचि-
जाड्यनाशित्वम् । रोचनत्वम् । दीपनत्वञ्च । इति
राजनिर्घण्टः ॥ (क्वचित् पुंलिङ्गेपि दृश्यते ॥)

चिल, श वासे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) वासः परिधानम् । श, चिलति
वस्त्रं लोकः परिदधातीत्यर्थः । चेलिता । इति
दुर्गादासः ॥

चिलमीलिका, स्त्री, (चिरं मीलतीति । मील

सङ्कोचे + ण्वुल् । ततष्टापि अत इत्वम् । रस्य
लत्वे साधुः ।) कण्ठीभेदः । खद्योतः । विद्युत् ।
इति मेदिनी । के, २२८ ॥

चिलिचिमः, पुं, (चिरिं हिंसां चिनोतीति । चिरि

+ चि + मक् । रस्य लत्वम् ।) मत्स्यविशेषः ।
बालियागडक इति ख्यातः । इञ्चाक इत्येके ।
इति भरतः ॥ तत्पर्य्यायः । नलमीनः २ । इत्य-
मरः । १ । १० । १८ ॥ तलमीनः ३ चिली-
चिमिः ४ चिलीचिमः ५ चिलिचीमः ६ चेलि-
चीमः ७ चिलीमः ८ चिलिमीनकः ९ चिलि-
चीमिः ११ कवलः ११ विलोटकः १२ । इति
भरतधृतकोषान्तरम् ॥ चेङ्गो इति ख्यातो
मत्स्यः । तस्य गुणाः । लघुत्वम् । रूक्षत्वम् ।
अनभिष्यन्दित्वम् । वायुकारित्वम् । कफनाशि-
त्वञ्च । इति राजवल्लभः ॥

चिल्ल, शैथिल्ये । हावकृतौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-अकं-सेट् ।) ह्रस्वी लद्वयान्तः ।
चिल्लति चेचिल्ल्यते । इति दुर्गादास ॥

चिल्लः, पुं, (चिल्लति हावभावेन उड्डीयते इति ।

चिल्ल + अच् ।) पक्षिविशेषः । चिल् इति
भाषा ॥ तत्पर्य्यायः । आतायी २ । इत्यमरः ।
२ । ५ । २१ ॥ शकुनिः ३ आतापी ४ । इति
हेमचन्द्रः ॥ खभ्रान्तिः ५ कण्ठनीडकः चिर
म्भणः ७ । इति त्रिकाण्डशेषः ॥ (यथा, विष्णु-
धर्म्मोत्तरे ।
पृष्ठ २/४५४
“गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च ।
चिल्लश्च चर्म्मचिल्लश्च भासः पाण्डर एव च ॥”
क्लिन्ने चक्षुषी अस्य । “क्लिन्नस्य चिल्पिल्
लश्चास्य चक्षुषी ।” ५ । २ । ३३ । इत्यस्य वार्त्तिं
इति चिलादेशो लप्रत्ययश्च ।) क्लिन्नचक्षुः ।
क्लिन्ननेत्रयुक्ते त्रि । इति मेदिनी । ले, १६ ॥

चिल्लका, स्त्री, (चिल्ल इव कायतीति । कै + कः ।)

झिल्लिका । इति शब्दरत्नावली ॥

चिल्लभक्ष्या, स्त्री, (चिल्लस्य भक्ष्या भक्षणीया ।)

हट्टविलासिनी । इति शब्दचन्द्रिका ॥

चिल्लाभः, पुं, (प्रसह्य हारकत्वात् चिल्ल इव आभा-

तीति । आ + भा + कः ।) प्रसह्यचौरः । इति
त्रिकाण्डशेषः ॥ हातछेँचड इति गाँटिकाटा
इति च भाषा ॥

चिल्ली, स्त्री, (चिल्लति हावं करोति चिल्ल्यतेऽनेन

वा । चिल्ल + इन् । ततो वा ङीष् ।) लोध्रः ।
पत्रशाकभेदः । तत्पर्य्यायः । चिल्लिका २ डुली ३
अग्रलोहिता ४ मृदुपत्री ५ क्षारदला ६ क्षार-
पत्रा ७ वास्तुकी ८ महद्बला ९ गौडवास्तुकः १० ।
(यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“सतीनो वास्तुकश्चुच्चू चिल्ली मूलकपोतिकाः ।
मण्डकपर्णी जीवन्ती शाकवर्गे प्रशस्यते ॥”)
अस्य गुणाः । वास्तुकतुल्यत्वम् । क्षारत्वम् ।
श्लेष्मपित्तप्रमेहमूत्रकृच्छ्रनाशित्वम् । पथ्यत्वम् ।
रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥
(“तद्वच्चिल्ली तु विज्ञेया वातपित्तविकारिणाम् ॥”
इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥)
झिल्लिका । इति शब्दरत्नावली ॥

चिविः, पुं, (चीव्यते आदराय गृह्यते इति । चीव

ग्रहणे + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११७ ।
इति इन् । पृषोदरादित्वात् ह्रस्वः ।) चिवुकम् ।
इति जटाधरः ॥

चिविटः, पुं, (चिपिटः निपातनात् पस्य वः ।)

चिपिटः । इत्यमरटीका ॥

चिविल्लिका, स्त्री, क्षुद्रक्षुपविशेषः । तत्पर्य्यायः ।

रक्तदला २ क्षुद्रघोली ३ मधुमालपत्त्रिका ४ ।
अस्या गुणाः । कटुत्वम् । कषायत्वम् । जीर्ण-
ज्वरे अतिहितत्वम् । रसायनत्वञ्च । इति
राजनिर्घण्टः ॥

चिवुः, पुं, (चीव्यते आदराद्यर्थं गृह्यतेऽसौ । चीव

+ “मृगय्वादयश्च ।” उणां । १ । ३८ । इति
कुप्रत्ययेन साधुः ।) चिवुकम् । इति भरतः ॥

चिवुकं, क्ली, (चिवु + स्वार्थे कन् । अभिधानात्

क्लीवत्वम् ।) अधराधोभागः । इत्यमरः । २ ।
६ । ९० ॥ थुँति इति दाडि इति च भाषा ॥
(यथा, हठयोगप्रदीपिकायाम् । १ । ४६ ।
“उत्तम्भ्य चिवुकं वक्षस्युत्थाप्य पवनं शनैः ॥”)

चिवुकः, पुं, (चिवुरिव कायतीति । कै + कः ।)

मुचुकुन्दवृक्षः । इति राजनिर्घण्टः ॥

चिह्न, लक्षणे । (अदन्तचुरां-परं-सकं-सेट् ।)

सौत्रश्चुरादिरिति वृद्धाः । इत्यमरटीकायां
भरतः ॥

चिह्नं, क्ली, (चिह्न्यतेऽनेनेति । चिह्न लक्षणे + करणे

घञ् ।) चिह्न्यते येन तत् । चिना इति दाग् इति
च भाषा ॥ तत्पर्य्यायः । कलङ्कः २ अङ्कः ३
लाञ्छनम् ४ लक्ष्म ५ लक्षणम् ६ लिङ्गम् ७ । इत्य-
मरः । १ । ३ । १७ ॥ लक्ष्मणः ८ । इति भरतः ॥
अभिज्ञानम् ९ । इति जटाधरः ॥ (यथा,
भागवते । ४ । १५ । ९ ।
“वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ।
पादयोररविन्दञ्च तं वै मेने हरेः कलाम् ॥”)
पताका । इति मेदिनी । ने, ४ ॥

चिह्नकारी, [न्] त्रि, (चिह्नं करोतीति । कृ +

णिनिः ।) घोरदर्शनः । विघाती । इति विश्वः ॥

चिह्नधारिणी, स्त्री, (चिह्नं धरति धारयतीति वा ।

धृ + णिनिः स्त्रियां ङीप् ।) श्यामालता । इति
शब्दचन्द्रिका ॥

चिह्नितः, त्रि, चिह्न + कर्म्मणि क्तः । चिह्नयुक्तः ।

अङ्कितः । लक्षितः । (यथा, मनुः । १० । ५५ ।
“दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ॥”)

चीक, कि मर्शने । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे

भ्वां-परं-सकं-सेट् ।) कि, चीकयति चीकति ।
मर्शनं स्पर्शः । तथा च । चन्द्रावतीतरङ्गा-
र्द्राश्चीकयन्ति च यद्वपुरिति हलायुधः । वायवः
स्तृशन्तीत्यर्थः । भट्टमल्लस्तु मर्षण इति मूर्द्धन्य-
षमध्यं पठित्वा क्षमार्थमाह । इति दुर्गादासः ॥

चीडा, स्त्री, गन्धद्रव्यविशेषः । चीडागन्ध इति

ख्याता । तत्पर्य्यायः । दारुगन्धा २ गन्ध-
बधूः ३ गन्धमादनी ४ तरुणी ५ तारा ६ भूत-
मारी ७ मङ्गल्या ८ कपटिनी ९ ग्रहभीति-
जित् १० । अस्या गुणाः । कटुत्वम् । कास-
कफनाशित्वम् । दीपनत्वम् । अत्यन्तसेवनात्
पित्तदोषभ्रमापहत्वञ्च । इति राजनिर्घण्टः ॥

चीनं, क्ली, (चिनोति कीर्त्त्यादिकमिति । चि +

बाहुलकात् नक् दीर्घश्च ।) पताका । इति
त्रिकाण्डशेषः ॥ सीसकम् । इति रत्नमाला ॥

चीनः, पुं, (चीयते सञ्चीयते वृषलत्वादिदोषो

यत्र । चि + बाहुलकात् नक् दीर्घश्च ।) देश-
विशेषः । चीना इति भाषा ॥ यथा, --
“काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे ।
भोटान्तदेशो देवेशि ! मानसेशाच्च दक्षिणे ।
मानसेशाद्दक्षपूर्ब्बे चीनदेशः प्रकीर्त्तितः ॥”
इति शक्तिसङ्गमतन्त्रम् ॥
(तद्देशवासिषु तन्नृपेषु च बहुवचनान्तः । यथा,
महाभारते । २ । २६ । ९ ।
“स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ॥”)
अंशुकविशेषः । (यथा, शकुन्तलायां १ माङ्के ।
“चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥”)
ब्रीहिभेदः । तन्तुः । मृगविशेषः । इति
मेदिनी । ने, ४ ॥

चीनकः, पुं, (चीन एव । चीन + स्वार्थे कन् ।)

धान्यविशेषः । चीना इति भाषा ॥ तत्पर्य्यायः ।
काककङ्गुः २ । इति हेमचन्द्रः ॥ (यथा, विष्णु-
पुराणे । १ । ६ । २१ ।
“प्रियङ्गवो ह्यदाराश्च कोरदूषाः सचीनकाः ॥”)
अस्य गुणाः । शोषणत्वम् । वायुवर्द्धकत्वम् ।
पित्तश्लेष्मनाशित्वम् । रूक्षत्वञ्च । इति राज-
वल्लभः ॥ कङ्गनी । चीनकर्पूरः । इति राज-
निर्घण्टः ॥ (चीनदेशवासिषु बहुवचनान्तः ।
यथा, महाभारते । ८ । ८ । १९ ।
“सुह्मानङ्गांश्च वादांश्च निषधान् पुण्ड्रचीनकान् ॥”)

चीनकर्पूरः, पुं, (चीननामकः कर्पूरः ।) कर्पूर-

विशेषः । चीनकर्पूर इति देशान्तरीयभाषा ॥
तत्पर्य्यायः । चीनकः २ कृत्रिमः ३ धवलः ४
पटुः ५ मेघसारः ६ तुषारः ७ द्वीपकर्पूरजः ८ ।
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
ईषच्छीतत्वम् । कफकण्ठदोषक्रिमिनाशित्वम् ।
मेध्यत्वम् । पावनत्वञ्च । इति राजनिर्घण्टः ॥

चीनजं, क्ली, (चीने चीनदेशे जायते इति । जन

+ डः ।) लोहम् । तत्तु तीक्ष्णलौहम् । इति
राजनिर्घण्टः ॥

चीनपिष्टं, क्ली, (चीनस्य सीसकस्य पिष्टं कृत-

पेषणं वस्तु चूर्णमित्यर्थः ।) सिन्दूरम् । इति
हेमचन्द्रः ॥ सीसकम् । इति राजनिर्घण्टः ॥
(यथा, कथासरित्सागरे । २३ । ८५ ।
“चीनपिष्टमयो लोकश्चारणैकमयी च भूः ॥”)

चीनवङ्गं, क्ली, (चीनभवं वङ्गम् ।) सीसकम् ।

इति राजनिर्घण्टः ॥

चीनाकः, पुं, (चीनं चीनाकारमकतीति । अक

+ अण् ।) कर्पूरविशेषः । तद्गुणाः । यथा,
भावप्रकाशे ।
“चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः ।
कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः ॥”

चीनाकर्कटी, स्त्री, (चीनमिव स्वादुः कर्कटी । ततः

पृषोदरात् साधुः ।) कर्कटीप्रभेदः । सा तु
चित्रकूटदेशे प्रसिद्धा । तत्पर्य्यायः । राज-
कर्कटी २ सुदीर्घा ३ राजफला ४ बाला ५
कुलकर्कटी ६ । अस्या गुणाः । रुच्यत्वम् ।
शिशिरत्वम् । पित्तदाहशोषनाशित्वम् । मधु-
रत्वम् । तृप्तिदत्वम् । हृद्यत्वञ्च । इति राज-
निर्घण्टः ॥

चीभ, ऋ ङ कत्थे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) कत्थः प्रशंसा । ऋ, अचि-
चीभत् । ङ, चीभते गुणिनं गुणी ओष्ठ्यब-
कारादिरयमित्येके । इति दुर्गादासः ॥

चीय, ऋ ञ संवृत्यादानयोः । (भ्वां-उभं-सकं-

सेट् ।) चतुर्थस्वरी । ऋ, अचिचीयत् । ञ,
चीयति चीयते । इति दुर्गादासः ॥

चीरं, क्ली, (चिनोति आवृणोति वृक्षं कटिदेशा-

दिकं वा । चि + “शुसिचिमीनां दीर्घश्च ।”
उणां । २ । २५ । इति क्रन् दीर्घश्च ।) वृक्ष-
त्वक् । (यथा, रामायणे । ५ । ३१ । २२ ।
“प्रागेव तु महाबुद्धिः सौमित्रिर्भ्रातृवत्सलः ।
पूर्ब्बजस्यानुयात्रार्थं द्रुमचीरैरलङ्कृतः ॥”)
जीर्णवस्त्रखण्डम् । इति सुभूतिः । इति लिङ्गादि-
संग्रहटीकायां भरतः ॥ (यथा, भागवते । २ । २ । ५ ।
पृष्ठ २/४५५
“चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ॥”)
गोस्तनः । वस्त्रभेदः । (यथा, मनुः । ११ । १०१ ।
“चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥”)
रेखाभेदः । लेखनभेदः । इति मेदिनी ॥ चूडा ।
(यथा, महाभारते । ३ । ११ । ४९ ।
“मुञ्जवज्जर्ज्जरीभूता बहवस्तत्र पादपाः ।
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥”)
सीसकम् । इति हेमचन्द्रः ॥

चीरकः, पुं, (चीर + संज्ञायां कन् ।) विक्रिया-

लेखः । विकारलेखनम् । इति विश्वः ॥ (स्वार्थे-
कनि चीरशब्दार्थोऽप्यत्र ॥)

चीरपत्रिका, स्त्री, (चीरमिव पत्रमस्य । ततः

कन् टापि अत इत्वञ्च ।) चञ्चुशाकः । इति
राजनिर्घण्टः ॥

चीरपर्णः, पुं, (चीरमिव पर्णमस्य ।) शालवृक्षः ।

इति राजनिर्घण्टः ॥ (विवृतिरस्य शालशब्दे
विज्ञेया ॥)

चीरिः, स्त्री, (चि + बाहुलकात् क्रिः दीर्घश्च ।)

नेत्रांशुकम् । इति शब्दरत्नावली ॥

चीरिका, स्त्री, (चीरीति कृत्वा कायति शब्दायते

इति । कै + कः ।) झिल्ली । इति हेमचन्द्रः ॥

चीरितच्छदा, स्त्री, (चीरितः चीरमिव जात-

श्छदः पत्त्रं यस्याः ।) पालङ्क्यशाकम् । इति
भावप्रकाशः ॥

चीरी, स्त्री, (चीरि + “कृदिकारादिति ।”

वा ङीष् ।) कच्छाटिका । झिल्ली । इति हेम-
चन्द्रः ॥

चीरुकं, क्ली, (ची इति कृत्वा रौति । रु + क्विप् ।

चीरुर्झिल्लीपतङ्गः स इव इति इवार्थे कन् ।)
फलविशेषः । चेँउर इति भाषा ॥ अस्य गुणाः ।
रुचिदाहकफपित्तकारित्वम् । अम्लत्वञ्च । इति
राजवल्लभः ॥

चीर्णं, त्रि, (चर + नक् । पृषोदरात् साधुः ।) शीलि-

तम् । इति त्रिकाण्डशेषः ॥

चीर्णपर्णः, पुं, (चीर्णं विदीर्णं पर्णमस्य ।) निम्ब-

वृक्षः । खर्ज्जूरवृक्षः । इति मेदिनी ॥

चीलिका, स्त्री, (चीरिका + रस्य लत्वे साधुः ।)

चीरिका । झिल्ली । इति शब्दरत्नावली ॥

चील्लका, स्त्री, (चीलिका + पृषोदरात् साधुः ।

चीदिति शब्देन लक्ष्यते इति । लक्ष + घञ् । ततः
पृषोदरादित्वात् साधुः इति वा ।) झिल्ली ।
इति शब्दरत्नावली ॥

चीव, ऋ ञ ग्रहणे । संवृतौ । इति कविकल्प-

द्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ऋ, अचिचीवत् ।
ञ, चीवति चीवते वल्कलं भिक्षुः । गृह्णाति
परिदधाति वेत्यर्थः । इति दुर्गादासः ॥

चीव, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) क, चीवयति । इति दुर्गा-
दासः ॥

चीवरं, क्ली, (चीयते तन्तुसन्तानैरिति । चि +

“चित्वरच्छत्वरधीवरेति ।” उणां । ३ । १ ।
इति ष्वरच् । निपातनात् धातोर्दीर्घत्वे साधुः ।)
भिक्षुवस्त्रम् । इत्युणादिकोषः ॥ (यथा, महा-
भारते । १ । ९१ । १२ ।
“अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः ।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥”)

चीवरी, [न्] पुं, (चीवरं अस्त्यस्येति । इनिः ।)

बुद्धभिक्षुकः । इति त्रिकाण्डशेषः ॥

चुक्क, क अर्त्तौ । इत्ति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) कोपधः पञ्चमस्वरमध्यः ।
अर्त्तिः पीडनम् । क, चुक्कयति शत्रं शूरः ।
इति दुर्गादासः ॥

चुक्कारः, पुं, (चुक्क + भावे अप् । चुक्कं पीडनं

आराति सम्यक् ददातीति । सिंहनादश्रवणेन
भीरूणां भयजनकत्वात्तथात्वम् । आ + रा +
कः ।) सिंहनादः । इति त्रिकाण्डशेषः ॥

चुक्रं, क्ली, (चकते तृप्यत्यनेन इति । चक + “चकि-

रम्योरुच्चोपधायाः ।” उणां । २ । १४ । इति
रक् उपधाया उच्च ।) अम्बद्रव्यविशेषः । महादा
इति ख्यातम् । तत्पर्य्यायः । तिन्तिडीकम् २
वृक्षाम्लम् ३ । इत्यमरः । २ । ९ । ३५ ॥ चुक्र-
कम् ४ । इति शब्दरत्नावली ॥ महाम्लम् ५ ।
इति जटाधरः ॥ (अम्लवृक्षकम् ६ । इति भाव-
प्रकाशः । १ । १ ॥) पत्रशाकविशेषः । चुक इति
भाषा ॥ तत्पर्य्यायः । चुक्रवास्तूकम् २ लिकु-
चम् ३ अम्लवास्तुकम् ४ दलाम्लम् ५ अम्ल-
शाकाख्यम् ६ अम्लादि ७ हिलमोचिका ८ ।
अस्य गुणाः । अम्लपत्रत्वम् । लघुत्वम् । उष्ण-
त्वम् । वातगुल्मनाशित्वम् । रुच्यग्नीषत्पित्त-
कारित्वम् । पथ्यत्वम् । तत्पर्य्यायगुणाः ।
“चुक्रिया स्यात्तु पत्राम्ला रोचनी शतवेधिनी ।
चुक्रा त्वम्लतरा स्वाद्बी वातध्नी कफपित्तकृत् ॥
रुच्या लघुतरा पाके वृन्ताके नातिरोचनी ॥”
इति भावप्रकाशः ॥ * ॥
(“चुक्रमत्यम्लमुष्णञ्च दीपनं पाचनं परम् ।
शूलगुल्मविबन्धामवातश्लेष्महरं परम् ॥
वमितृष्णास्यवैरस्यहृत्पीडावह्निमान्द्यहृत् ॥”
इति शब्दार्थचिन्तामणिधृतवैद्यकम् ॥)
काञ्जिकप्रभेदः । तत्पर्य्यायः । सहस्रवेधम् २
रसाम्लम् ३ चुक्रवेधकम् ४ शाकाम्लभेदनम् ५
चन्द्रम् ६ अम्लसारम् ७ चुक्रिका ८ । अस्य
गुणाः । तिक्तत्वम् । अम्लत्वम् । स्वादुत्वम् ।
कफपित्तनासिकारोगदुर्गन्धशिरोरोगनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ सन्धानविशेषः । यथा,
“यन्मस्त्वादिशुचौ भाण्डे सगुडक्ष्रौद्रकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥
द्विगुणं गुडमध्वारनालमस्तु क्रमादिह ॥”
इति परिभाषा ॥
(अस्य लक्षणं यथा, --
“विनष्टे संहितो यस्तु तच्चुक्रमभिधीयते ॥”
इति शार्ङ्गधरे मध्यखण्डे दशमेऽध्याये ॥)

चुक्रः, पुं, (चकते तृप्यतेऽनेनेति । चक + रक् उप-

धाया उच्च ।) अम्लः । अम्लवेतसः । इति विश्वः ॥

चुक्रकं, क्ली, (चुक्र + संज्ञायां कन् ।) शाक-

विशेषः । चुकापालङ्ग इति भाषा ॥ अस्य
गुणाः । दुर्ज्जरत्वम् । भेदकत्वम् । वायुनाशि-
त्वम् । पित्तकारित्वम् । गुरुत्वञ्च । इति राज-
वल्लभः ॥ (चुक्रार्थे स्वार्थे कन् ॥)

चुक्रफलं, क्ली, (चुक्रमेव फलं यस्य । चुक्रं फलति

वा । फल + अच् ।) वृक्षाम्लम् । इति राज-
निघण्टः ॥ (वृक्षाम्लशब्देऽस्य विशेषो ज्ञातव्यः ॥)

चुक्रा, स्त्री, (चुक्रः अम्लत्वं विद्यतेऽस्य इत्यच्

टाप् च ।) चाङ्गेरी । इति मेदिनी । रे, ३५ ॥
आमरुल् इति भाषा ॥ (अस्या गुणा यथा, --
“चुक्रा त्वम्लतरा स्वाद्बी वातघ्नी कफपित्तकृत् ।
रुच्या लघुतरा पाके वृन्ताके नातिरोचनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तिन्तिडी । इति शब्दरत्नावली ॥ (यथास्याः
पर्य्यायाः भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“अम्लिका चुक्रिकाम्ली च चुक्रा दन्तशठापि च ।
अम्ला च विचिका चिञ्चा तिन्तिडीका च
तिन्तिडी ॥”)

चुक्राम्लं, क्ली, (चुक्रमिव अम्लम् । चुक्रवदम्लोऽत्र

इति वा ।) वृक्षाम्लम् । इति राजनिर्घण्टः ॥
(वृक्षाम्लशब्दे विवृतिरस्य ज्ञेया ॥)

चुक्राम्ला, स्त्री, (चुक्रमिव अम्लः अम्लत्वं विद्यते-

ऽस्याः । अच् टाप् च ।) अम्ललोणिका ।
चिञ्चा । काञ्जिकभेदः । इति राजनिर्घण्टः ॥

चुक्रिका, स्त्री, (चुक्रो विद्यतेऽस्मिन् इति । ठन्

टाप् च ।) अम्ललोणिका । इत्यमरः । २ । ४ ।
१४० ॥ (अस्याः पर्य्याया यथा, भावप्रकाशे ।
“चाङ्गेरी चुक्रिका दन्तशठाम्बष्टाम्ललोणिका ।
अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः ॥”)
कुचाङ्गेरी । इति रत्नमाला ॥ चुकापालङ्ग
इति भाषा ॥ (यथास्याः पर्य्यायाः ।
“चुक्रिका स्यात्तु पत्राम्लारोचिनी शतवेधिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
तिन्तिडी । तत्पर्य्याया यथा, तत्रैव ।
“अम्लिका चुक्रिकाम्ली च चुक्रा दन्तशठापि च ॥
अम्ला च विचिका चिञ्चा तिन्तिडीका च
तिन्तिडी ॥”)

चुचुकं, क्ली, (चुचु इत्यव्यक्तशब्देन कायति पान-

काले इति । कै + कः ।) कुचाग्रम् । तत्-
पर्य्यायः । चूचुकम् २ चुचूकम् ३ । इति शब्द-
रत्नावली ॥ कुचाननम् ४ । पुंलिङ्गोऽपि । इति
रत्नकोषः ॥ स्तनवृन्तम् ५ । इत्यमरटीकायां
भरतः ॥ (देशविशेषे तद्देशवासिषु च पुं । यथा,
महाभारते । १२ । २०७ । ४२ ।
“दक्षिणापथजन्मानः सर्व्वे नरवरान्ध्रकाः ।
गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह ॥”)

चुचूः, पुं, सुनिषण्णशाकम् । इति त्रिकाण्डशेषः ॥

चुचूकं, क्ली, (चुचुक + पृषोदरादित्वात् दीर्घः ।)

चुचुकम् । इति शब्दरत्नावली ॥

चुच्य, ई अभिषवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सकञ्च-सेट् ।) तालव्यवर्गाद्योपधः । पञ्च-
पृष्ठ २/४५६
मस्वरी । ई, चुक्तः । यद्वयान्तोऽयमित्येके ।
अभिषवः स्नानं मन्थनं पीडनं सन्धानञ्च ।
इति दुर्गादासः ॥

चुञ्चुः, पुं, छुच्छुन्दरिः । इति हारावली । ८३ ॥

(सङ्करजातिविशेषः । यथा, मनुः । १० । ४८ ।
“मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥”
“चुञ्चुर्मद्गुश्चवैदेहकवन्दिस्त्रियोर्ब्राह्मणेन जातौ
वौधायनेनोक्तौ बोद्धव्यौ ।” इति तट्टीकायां
कुल्लूकभट्टः ॥ व्याकरणोक्तप्रत्ययविशेषः । स
तु प्रसिद्धार्थे भवति । यथा, विद्यया वित्तो
विद्याचुञ्चुः । इति सिद्धान्तकौमुदी ॥ स्त्री,
उद्भिज्जविशेषः । चेवुना इति लोके । नाडीच-
वत् । अस्या पर्य्याया गुणाश्च यथा, --
“चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्त्रा सतिक्तका ।
चुञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा ।
धातुपुष्टिकरी बल्या मेध्यपिच्छिलका स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“सुवर्च्चलाया चुञ्चोर्वा लोणिकाया रसैरपि ॥”
इति वाभटे चिकित्सास्थाने नवमेऽध्याये ॥)

चुञ्चुरी, स्त्री, (चुञ्चुरिव रातीति । रा + कः ।

स्त्रियां ङीप् ।) तिन्तिडीद्यूतम् । इति त्रिकाण्ड-
शेषः ॥ काँइवीचिर खेला इति भाषा ॥

चुञ्चुली, स्त्री, (चुञ्चुरी । रस्य लत्वम् ।) तिन्ति-

डीकास्थिभिर्द्यूतक्रीडा । इति हारावली । ६२ ॥

चुट, तुच्छने । इति कविकल्पद्रुमः । (भ्वां-परं-

अकं-सेट् ।) पञ्चमस्वरी । तुच्छनमल्पीभावः ।
चोटति नदी ग्रीष्मे । इति दुर्गादासः ॥

चुट, इ तुच्छने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) पञ्चमस्वरी । तुच्छनमल्पीभावः ।
इ, चुण्ट्यते नद्या ग्रीष्मे । इति दुर्गादास्रः ॥

चुट, इ क छेदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) पञ्चमस्वरी । इ क, चुण्ट-
यति धान्यं लोकः । इति दुर्गादासः ॥

चुट, क शि छेदे । इति कविकल्पद्रुमः । (चुरां-

तुदांच-परं-सकं-सेट् ।) क, चोटयति । शि,
चुटति अचुटीत् । इति दुर्गादासः ॥

चुट्ट, क तुच्छने । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) टद्बयान्तः । पञ्चमस्वरी ।
एकटकार इति रामः । तुच्छनमल्पीभावः ।
क, चुट्टयति नदी ग्रीष्मे । इति दुर्गादासः ॥

चुड, इ तौच्छ्ये । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) इ, चुण्ड्यते । तौच्छ्यमल्पी-
भावः । इति दुर्गादासः ॥

चुड, इ क छिदि । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, चुण्डयति । इति दुर्गा-
दासः ॥

चुड, इ क रोषे । (चुरां-परं-अकं-सेट् ।) इ क,

चुण्डयति । इति दुर्गादासः ॥

चुड, इ ङ रोषे । (भ्वां-आत्मं-अकं-सेट् ।) इ,

चुण्ड्यते । ङ, चुण्डते । इति दुर्गादासः ॥

चुड्ड, कृतौ । हावे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अकंच-सेट् ।) टवर्गतृतीयोपधः ।
क्विपि संयोगान्तलोपे चुड् । कातन्त्रादौ हाव-
करण इत्येकोऽर्थो दृश्यते । अमी हावाः क्रियाः
शृङ्गारभावजाः । इत्यमरः । भाव एवाल्प-
संलक्ष्यविकारो हाव इष्यते । इति साहित्य-
दर्पणम् । चुड्डति कान्ताथवा कान्तः । इति
दुर्गादासः ॥

चुण, शि छिदि । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) शि, चुणति अचुणीत् चुचोण ।
इति दुर्गादासः ॥

चुण्टा, स्त्री, (चुण्ट्यतेऽसाविति । चुण्टछेदे + घञ् ।

मृत्तिकाखननेन जायमानत्वात्तथात्वम् ।) कूपः ।
इति त्रिकाण्डशेषः ॥

चुण्टी, स्त्री, कूपः । इति त्रिकाण्डशेषः ॥ उपकूपम् ।

कूप समीपे स्वल्पजलाधारः । इति हेमचन्द्रः ॥

चुत, इर् क्षरे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । अकं-इति केचित् ।) इर्, अचुतत्
अचोतीत् । क्षर इह आसेचनम् । चोततिघृतं
वह्नौ यज्वा आसिञ्चतीत्यर्थः । इति दुर्गादासः ॥

चुतः, पुं, (चोतति क्षरति मलशोणितादिर्यस्मात् ।

चुत + घञर्थे कः ।) गुदद्बारम् । इति शब्द-
रत्नावली ॥

चुतिः, स्त्री, (चोतति क्षरति मलशोणितादि-

र्यस्याः । चुत + “सर्व्वधातुभ्य इन् ।” उणां
४ । ११७ । इति इन् ।) गुदद्वारम् । इति शब्द-
रत्नावली ॥

चुद, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) नुदि प्रेरणे । क, चोदयति बाणं
चापः । इति दुर्गादासः ॥

चुद्ड, कृतौ । हावे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अकं च-सेट् ।) तवर्गतृतीयोपधः ।
क्विपि संयोगान्तलोपे चुद् । कातन्त्रादौ हाव-
करण इत्येकोऽर्थो दृश्यते । अमी हावाः क्रियाः
शृङ्गारभावजाः । इत्यमरः । भाव एवाल्प-
संलक्ष्यविकारो हाव इष्यते । इति साहित्य-
दर्पणम् । चुड्डति कान्ताथवा कान्तः । इति
दुर्गादासः ॥

चुन्दी, स्त्री, (चोदयति प्रेरयति घटयतीत्यर्थः

नायकादीनिति । चुद + कः । निपातनात् नुमा-
गमः । ततः स्त्रियां ङीप् ।) कुट्टनी । इति
हेमचन्द्रः । ३ । १९७ ॥

चुप, शनैर्गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) चोपतिखञ्जः । चोपति दुष्टं राजा ।
इति रमानाथः । इति दुर्गादासः ॥

चुव, इ कि चुम्बने । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-सकं-सेट् ।) चुम्बनं मुखसंयोगः ।
इ, चुम्ब्यते । कि, चुम्बयति चुम्बति कान्ताधरं
कामी । प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ इति
व्यतीहारे आत्मनेपदम् । इति दुर्गादासः ॥

चुंब्रं, क्ली, (चुम्ब्यतेऽनेनात्र वा । चुबि चुम्बने

+ “ऋज्रेन्द्राग्रेति ।” उणां । २ । २८ । इति
रप्रत्ययो नकारलोपश्च ।) वदनम् । इत्यु-
णादिकोषः ॥

चुम्बकः, पुं, (चुम्बति आकर्षति लौहमिति ।

चुम्ब + ण्वुल् ।) कान्तलोहभेदः । तत्पर्य्यायः ।
कान्तपाषाणः २ अयस्कान्तः ३ लोहकर्षकः ४ ।
अस्य गुणाः । लेखनत्वम् । शीतत्वम् । मेदो-
विषगरापहत्वञ्च । इति भावप्रकाशः ॥ (विशेषो-
ऽस्य कान्तलोहशब्दे ज्ञेयः ॥) धटस्योर्द्धाब-
लम्बनम् । इति मेदिनी । के, ८९ ॥

चुम्बकः, त्रि, (चुम्बतीति । चुम्ब + ण्वुल् । चुम्बन-

परः । धूर्त्तः । बहुग्रन्थैकदेशज्ञः । इति मेदिनी ।
के, ८९ ॥

चुम्बनं, क्ली, (चुब इ कि चुम्बने + भावे ल्युट् ।)

मुखसंयोगः । चुमा इति भाषा ॥ तस्य
स्थानानि यथा, कामशास्त्रे ।
“मुखे स्तने ललाटे च कण्ठे च नेत्रयोरपि ।
गण्डे च कर्णयोश्चैव कक्षोरुभगमूर्द्धसु ।
चुम्बनस्थानमित्युक्तं विज्ञेयं कामुकैरिह ॥”

चुर, कि स्तेये । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे-

भ्वां-परं-सकं-सेट् ।) कि, चोरयति चोरति
धनं चौरः । इति दुर्गादासः ॥

चुरा, स्त्री, (चुर + बाहुलकात् कः । स्त्रियां टाप् ।)

चौर्य्यम् । इति शब्दरत्नावली ॥

चुरी, स्त्री, (चुर + कः । स्त्रियां ङीप् ।) उप-

कूपम् । कूपसमीपस्थाल्पजलाधारः । इति
हेमचन्द्रः । ४ । १५९ ॥

चुलुकं, क्ली, (चोलयतीति । चुल + बाहुलकात्

उकञ् ।) माषमज्जनजलम् । यथा । माष-
मज्जनजलमाचामं तच्चुलुकमिति महोपनिषत् ॥

चुलुकः, पुं, (चोलयति उन्नतो भवतीति । चुल

उन्नतौ + बाहुलकात् उकञ् ।) घनपङ्कः । इति
त्रिकाण्डशेषः ॥ प्रसृतिः । भाण्डप्रभेदः । इति
हेमचन्द्रः ॥

चुलुकी, [न्] पुं, (चुलुक ऊर्द्धोन्नतिर्विद्यतेऽस्य ।

चुलुक + इनिः ।) शिशुमाराकृतिमत्स्यः । इति
शब्दरत्नावली ॥ (यथा, वाभटे सूत्रस्थाने । ६ । ५८ ।
“चुलुकी नक्रमकरशिशुमारतिमिङ्गिलाः ।
राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा ॥”)

चुलुम्प, लोपे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) अन्तःस्थतृतीयमध्यः । पञ्चमस्वर-
द्वयी । ओष्ठ्यवर्गशेषोपधः । चुलुम्पति । यगादौ
चुलुम्प्यते इत्यादि । न तु नकारजावनुस्वार-
पञ्चमाविति स्वरसान्नप्रकृतित्वे यगादौ तल्लोप
इति वाच्यम् । तर्हि नोपघस्यैव पठितुमुचित-
त्वात् । एवं सति अङ्कादीनां न प्रकृतित्वेऽपि
ङमध्यपाठः कथमिति चेन्न । ते तु कस्यचिन्मते
ङमध्या एवेति ज्ञापनाय ङमध्याः पठिताः । न
च तर्हि इदित् पाठेऽपीष्टसिद्धिरिति वाच्यम् ।
क्विपि संयोगान्तलोपे इदित्पाठे चुलुन् चुलुम्प
लोपे चुलुम् इति भेदात् । एवं सर्व्वत्र । इति
दुर्गादासः ॥

चुलुम्पः, पुं, (चुलुम्प्यते इति चुलुम्पनमिति वा ।

चुलुम्प + भावे घञ् ।) बाललालनम् । इति
जटाधरः ॥
पृष्ठ २/४५७

चुलुम्पा, स्त्री, (चुलुम्पति चञ्चला भवतीति ।

चुलुम्प + अच् । स्त्रियां टाप् ।) छागी । इति
त्रिकाण्डशेषः ॥

चुलुम्पी, [न्] पुं, (चुलुम्पो लौल्यं चञ्चलता

इत्यर्थः । सोऽस्यास्तीति । इनिः ।) शिशु-
माराकृतिमत्स्यः । उत्पलमत्स्यः । इति
कश्चित् । इति शब्दरत्नावली ॥

चुल्ल, हावकृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) पञ्चमस्वरी लद्बयान्तः । एको-
ऽर्थः । चुल्लन्ति चारुनयनाश्च सह प्रियेणेति
हलायुधः । इति दुर्गादासः ॥

चुल्लः, पुं, क्लिन्नचक्षुः । (क्लिन्ने चक्षुषी अस्य ।

“चुल् च ।” ५ । २ । ३३ । इत्यस्य वार्त्तिकोक्त्यां
क्लिन्नस्य चुलादेशो लप्रत्ययश्च ।) तद्युक्ते-
त्रि । इति हेमचन्द्रः । ३ । १२५ ॥

चुल्लकी, स्त्री, (चुल्लति हावभावेन क्रीडतीति ।

चुल्ल + ण्वुल् । गौरादित्वात् ङीष् ।) शिशु-
मारः । कुण्डीभेदः । कुलविशेषः । इति मेदिनी
शब्दरत्नावली च ॥

चुल्लिः, स्त्री, (चुल्ल्यते प्रज्वाल्यते अग्निरत्र ।

चुल्ल + “सर्व्वधातुभ्य इन् ।” उणां । ४ । ११७ ।
इति इन् । यद्वा, चुद्यते प्रेर्य्यते अग्निर्यत्र ।
चुद् + बाहुलकात् लिक् ।) पाकार्थमग्नि-
स्थानम् । चुला इति आखा इति च भाषा ॥
तत्पर्य्यायः । अश्मन्तम् २ उद्धानम् ३ अधि-
श्रयणी ४ अन्तिका ५ । इत्यमरः । २ । ९ । २९ ॥
अस्मन्तम् ६ उष्मानम् ७ उद्धारम् ८ चुल्ली ९
आन्दिका १० । इति तट्टीका ॥ उद्धानिः ११ ।
इति शब्दरत्नावली ॥

चुल्ली, स्त्री, (चुल्लि + “कृदिकारादक्तिनः ।” ४ ।

१ । ४५ । इत्यस्य वार्त्तिकोक्त्या वा ङीष् ।)
चिता । उद्धानम् । इति मेदिनी । ले, १७ ॥
(यथा, मनुः । ३ । ६८ ।
“पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च वध्यते यास्तु वाहयन् ॥”)

चुस्तं, क्ली पुं, वुस्तम् । तत्तु मांसपिण्डकविशेषः ॥

स्थालीभृष्टमांसम् । पनसादिफलस्यासारभागः ।
इति लिङ्गादिसंग्रहटीकायां भरतः ॥ भोता
इति ख्यातः ॥

चूचुकं, क्ली पुं, (चूष्यते पीयते इति । चूष पाने +

बाहुलकात् उकः षस्य चत्वञ्च ।) चुचुकम् ।
इत्यमरटीकायां भरतः ॥ (यथा, रामायणे ।
६ । २३ । १३ ।
“स्तनौ च विरलौ पीनौ समौ मे मग्नचूचुकौ ॥”)

चूडकः, पुं, (चुण्डति अल्पीभवतीति । चुड +

ण्वुल् ततो निपातनात् दीर्घत्वे साधुः ।) कूपः ।
इति त्रिकाण्डशेषः ॥

चूडा, स्त्री, (चोलयति मस्तकाद्युपरि उन्नता

भवतीति । चुल क् उन्नतौ + भिदादित्वादङ्ततो
दीर्घस्ततोलस्य डत्वे साधुः ।) मयूरशिखा ।
शिरोमध्यस्थशिखामात्रम् । तत्पर्य्यायः ।
शिखा २ । इत्यमरः । २ । ५ । ३२ ॥
केशपाशी ३ । जूटिका ४ जुटिका ५ । यथा,
शब्दरत्नावल्याम् ।
“शिखा चूडा केशपाशी जूटिका जुटिकेत्यपि ।
शिरोमध्यबद्धचूडे भवेदेतत्तु पञ्चकम् ॥”
वडभी । बाहुभूषणम् । इति मेदिनी । डे, १३ ॥
अग्रम् । इति हेमचन्द्रः ॥ (यथा, हितोपदेशे ।
“अस्ताचलचूडालम्बिनि भगवति चन्द्रमसि ॥”)
कूपः । इति त्रिकाण्डशेषः ॥ दशसंस्कारान्त-
र्गतसंस्कारविशेषः । यथा । चूडा कार्य्या यथा-
कुलमिति मलमासतत्त्वम् ॥ (यथाच, --
“अयुग्माब्दे तथा मासि चूडा भौमशनीतरे ।
अर्केन्दुकालशुद्धौ च जन्ममासेन्दुभादृते ॥
रिक्तादर्शाष्टमीषष्ठीप्रतिपद्वर्ज्जिते सिते ॥”
इति संस्कारतत्त्वधृतज्योतिषवचनम् ॥
अस्य विशेषविवरणं चूडाकरणशब्दे द्रष्टव्यम् ॥)

चूडाकरणं, क्ली, (चूडायाः करणं कर्म्म ।)

दशसंस्कारान्तर्गतसंस्कारविशेषः । तस्य क्रमो
यथा । कुलाचारवशात् प्रथमे तृतीये वा वर्षे
चूडाकरणं कर्त्तव्यम् । तत्र प्रथमं प्रातः-
कृतस्नानः कृतवृद्धिश्राद्धः पिता सत्यनामान-
मग्निं संस्थाप्य विरूपाक्षजपान्तां कुशण्डिकां
समाप्याग्नेदंक्षिणत एकविंशतिदर्भपिञ्जलीः सप्त-
सप्तभिरेकीकृत्य कुशान्तरेण वेष्टयित्वा उष्णो-
दकसहितं कांस्यपात्रं ताम्रनिर्म्मितक्षुरं तदभावे
दर्पणं वा लौहक्षुरपाणिञ्च नापितं स्थापयेत्
अग्नेरुत्तरतो वृषगोमयं तिलतण्डुलमाषसिद्धञ्च
कृशरं अग्नेः पूर्ब्बतो मिश्रितब्रीहियवतिलमाष-
पूरितपात्रत्रयं स्थापयेत् । माता शुचिना वस्त्रेण
कुमारमाच्छाद्य क्रोडे निधाय अग्नेः पश्चिमतो
भर्त्तुर्व्वामपार्श्वे उत्तराग्रेषु कुशेषु प्राङ्मुखी
उपविशति । ततः पिता प्रकृतकर्म्मारम्भे
प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ
हुत्वा व्यस्तसमस्तमहाव्याहृतिहोमं कुर्य्यात् ।
प्रजापतिरृषिर्गायत्त्री छन्दोऽग्निर्देवता महा-
व्याहृतिहोमे विनियोगः । ॐ भूः स्वाहा ।
प्रजापतिरृषिरुष्णिक् छन्दो वायुर्देवता महा-
व्याहृतिहोमे विनियोगः । ॐ भुवः स्वाहा ।
प्रजापतिरृषिरनुष्टुप् छन्दः सूर्य्यो देवता महा-
व्याहृतिहोमे विनियोगः । ॐ स्वः स्वाहा ।
प्रजापतिरृषिर्बृहती छन्दः प्रजापतिर्देवता
व्यस्तसमस्तमहाव्याहृतिहोमे विनियोगः । ॐ
भूर्भुवः स्वः स्वाहा । ततः पिता उत्थाय प्राङ्-
मुखः कुमारस्य मातुः पश्चादवस्थितः क्षुरपाणिं
नापितं पश्यन् तमेव सवितृरूपं ध्यायन् जपति ।
प्रजापतिरृषिः सविता देवता चूडाकरणे
विनियोगः । ओम् आयमगात् सविता क्षुरेण ।
तत उष्णोदकसहितं कांस्यपात्रं पश्यन् वायुं
मनसा ध्यायन् जपति । प्रजापतिरृषिर्वायु-
र्देवता चूडाकरणे विनियोगः । ॐ उष्मेण
वाय उदकेनैधि । ततः कांस्यपात्रस्थितोष्णो-
दकेन दक्षिणहस्तगृहीतेन दक्षिणकपुष्णिकाम-
नेन मन्त्रेण क्लेदयति । कपुष्णिकाशब्देन दक्षिणो-
त्तरतः शिखास्थानादधः शिरसः कर्णाभि-
मुखोच्चदेश उच्यते । ततः प्रजापतिरृषिरापो
देवता चूडाकरणे विनियोगः । ओम् आप
उदन्तु जीवसे । ततस्ताम्रक्षुरं तदभावे दर्पणं
वा पश्यन् जपति । प्रजापतिरृषिर्विष्णुर्देवता
चूडाकरणे विनियोगः । ॐ विष्णोर्दंष्ट्रोऽसि ।
ततः कुशबद्धसप्तदर्भपिञ्जलीर्गृहीत्वा क्लिन्न-
दक्षिणकपुष्णिकादेशे अनेन मन्त्रेण ऊर्द्ध्वमूला
निदध्यात् । प्रजापतिरृषिरोषधिर्देवता चूडा-
करणे विनियोगः । ओम् ओषधे त्रायस्वैनम् ।
ततो वामहस्तगृहीतकुशपिञ्जलीसहित-
कपुष्णिकादेशे स्वदक्षिणहस्तगृहीतताम्रक्षुरं
दर्पणं वा अनेन मन्त्रेण निदध्यात् । प्रजापति-
रृषिः स्वधितिर्देवता चूडाकरणे विनियोगः ।
ॐ स्वधिते मैनं हिंसीः । ततः केशच्छेदो
यथा न भवति तथा ताम्रक्षुरं दर्पणं वा तत्रैव
कपुष्णिकादेशे अनेन मन्त्रेण प्रेरयेत् । प्रजा-
पतिरृषिः पूषा देवता चूडाकरणे विनियागः ।
ॐ येन पूषा बृहस्पतेर्वायोरिन्द्रस्य चावपत्तेन
ते वपामि ब्रह्मणा जीवातवे जीवनाय दीर्घायु-
ष्ट्वाय बलाय वर्च्चसे । तूष्णीं वारद्बयम् । ततो
लौहक्षुरेण दक्षिणकपुष्णिकदेशस्य केशं छित्त्वा
दर्भपिञ्जलीसहितकेशस्य बालमित्रविधृत-
पात्रस्थवृसगोमयोपरि निधानं कुर्य्यात् । ततः
कपुच्छलदेशस्य कांस्यपात्रस्थितोष्णादकेन
दक्षिणहस्तगृहीतेन पूर्ब्बवदेव आप उन्दन्तु
जीवसे इत्यनेन मन्त्रेण क्लेदनं ॐ विष्णोर्दंष्ट्रो-
ऽसि इत्यनेन ताम्रक्षुरस्य दर्पणस्य वा प्रेरणं
ओम् ओषधे त्रायस्यैनं इत्यनेन कपुच्छलदेशे
ऊर्द्ध्वमूलदर्भपिञ्जलीनिधानं ॐ स्वधिते मैनं
हिंसीरित्यनेन ताम्रक्षुरस्य दर्पणस्य वा कपु-
च्छलदेशे निधानं ॐ येन पूषा बृहस्पतेरित्य-
नेन पूर्ब्बाभिमुखं ताभ्रक्षुरप्रेरणं लौहक्षुरेण
कपुच्छलदेशस्य केशं छित्त्वा दर्भपिञ्जलीसहित-
केशस्य बालमित्रविधृतपात्रस्थवृषगोमयोपरि
निधानं कुर्य्यात् । कपुच्छलशब्देन पश्चिमतः
शिखास्थानादधःशिरसो नापितक्रोडाभि-
मुखोच्चदेशोऽभिधीयते । तथैव वामकपुष्णिका-
प्लावनादिच्छेदनपूर्ब्बकं वृषगोमयोपरिदेशे
निधानान्तं पूर्ब्बवत् सर्व्वं कुर्य्यात् । ततः कुमा-
रस्य शिरः पाणिभ्यामुपगृह्य जपति । प्रजा-
पतिरृषिरुष्णिक् छन्दो जमदग्निकश्यपागस्त्या-
दयो देवताश्चूडाकरणे विनियोगः । ॐ
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं अगस्त्यस्य
त्र्यायुषं यद्देवानां त्र्यायुषं तत्तेऽस्तु त्र्यायुषम् ।
ततोऽग्नेरुत्तरदेशं नीत्वा पुष्पाद्यलङ्कृतो नापितः
कुमारं मुण्डयति । सर्व्वमेव केशं वृषगोमयो-
परि निधायारण्ये वंशविटपे स्थापयेत् ततः
पूर्ब्बवत् व्यस्तसमस्तमहाव्याहृतिहोमं कृत्वा
तूष्णीं प्रादेशप्रमाणघृताक्तसमित्प्रक्षेपान्तप्रकृतं
कर्म्म समाप्य उदीच्यं शाट्यायनहोमादिवाम-
देव्यगानान्तं कर्म्म निर्व्वृत्य कर्म्मकारयितृब्राह्म-
पृष्ठ २/४५८
णाय दक्षिणां दद्यात् । कृशरधान्ययवतिल-
माषशरावान् नापिताय दद्यात् । इति चूडा-
करणं समाप्तम् ॥” इति भवदेवभट्टः ॥

चूडामणिः, पुं, (चूडा शिरोभूषणं मुकुटकिरीटा-

दिकम् । तत्र स्थितो मणिः । शाकपार्थिवादिवत्
समासः ।) शिरोरत्नम् । (यथा, महाभारते ।
१ । ११९ । ३८ ।
“ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥”
चूडायामग्रभागे मणिरिव यस्य ।) काकचिञ्चा-
फलम् । इति मेदिनी । णे, ९४ ॥ योगविशेषः ।
(स तु ग्रहणकाले एव भवति ।) यथा गारुडे ।
“सूर्य्यग्रहः सूर्य्यवारे सोमे सोमग्रहस्तथा ।
चूडामणिरयं योगस्तत्रानन्तं फलं स्मृतम् ।
अन्यस्माद्ग्रहणात् कोटिगुणमत्र फलं लभेत् ॥”
इति तिथ्यादितत्त्वम् ॥
शुभाशुभगणनाविशेषः । तस्य विवरणं गरुड-
पुराणे २०५ अध्याये द्रष्टव्यम् ॥ * ॥ वङ्ग-
देशीयपण्डितानामुपाधिश्च ॥

चूडाम्लं, क्ली, (चूडायां अग्रभागे अम्लो यस्य ।)

वृक्षाम्लम् । इति राजनिर्घण्टः ॥

चूडालं, क्ली, (चूडा अस्त्यस्य । “प्राणिस्थादातो

लजन्यतरस्याम् ।” ५ । २ । ९६ । इति लच् ।)
मस्तकम् । इति शब्दरत्नावली ॥ चूडायुक्ते
त्रि । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
१० । ७ । ३७ ।
“चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः ॥”)

चूडाला, स्त्री, (चूडा शिखा अस्त्यस्याः । “प्राणि-

स्थादातो लजन्यतरस्याम् ।” ५ । २ । ९६ । इति
लच् । ततोऽजादित्वात् टाप् ।) उच्चटातृणम् ।
इत्यमरः । २ । ४ । १६० ॥ श्वेतगुञ्जा । नागर-
मुस्ता । इति राजनिर्घण्टः ॥

चूडावान्, [त्] (चूडा अस्त्यस्य । चूडा + मतुप् ।

मस्य वत्वम् ।) चूडाविशिष्टः । इति चूडाला-
शब्दार्थे मेदिनी । ले, ९० ॥

चूण, क सङ्कोचे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) तालव्यवर्गाद्यादिः । षष्ठ-
स्वरी । क, चूणयति चक्षुः सङ्कुचितं स्यादि-
त्यर्थः । इति दुर्गादासः ॥

चूतः, पुं, (चूष्यते पीयते इति । चूष + कर्म्मणि

क्तः । पृषोदरादित्वात् षलोपः । रसालत्वा-
देवास्य तथात्वम् ।) आम्रवृक्षः । इत्यमरः ।
२ । ४ । ३३ ॥ (यथा, रामायणे । ३ । ७९ । १७ ।
“परिचुम्बति संविश्य भ्रमरश्चूतमञ्जरीम् ।
नवसङ्गमसंहृष्टः कामी प्रणयिनीमिव ॥”
चोतति क्षरति शोणितादिकमस्मादिति । चुत-
क्षरणे + बाहुलकात् घञर्थे कः दीर्घश्च ।) गुद-
द्वारम् । इति शब्दरत्नावली ॥ च्यूत इत्यपि पाठः ॥

चूतकः, पुं, (चूत एव । चूत + स्वार्थे कन् ।)

आम्रः । कूपकः । इति मेदिनी । के, ९० ॥

चूर, ई ङ य दाहे । इति कविकल्पद्रुमः ॥ (दिवां-

आत्मं सकं-सेट् । (दीर्घी । ङ य, चूर्य्यते वह्नि-
रिन्धनम् । ई, चूर्णः । इति दुर्गादासः ॥

चूर्ण, क पेषे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) षष्ठस्वरी । पेषश्चूर्णीकरणम् ।
क, चूर्णयति शिला । इति दुर्गादासः ॥

चूर्णं, क्ली, (चूर्ण्यते पिष्यते यत् । चूर्ण + कर्म्मणि

घञ् ।) सम्पेषणेन जातरजः । तस्य लक्षणं
यथा, --
“अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् ।
तत् स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता ॥
चूर्णे गुडः समो देयः शर्करा द्विगुणा मता ।
चूर्णेषु भर्ज्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् ॥
लिहेच्चूर्णं द्रवैः सर्व्वैर्घृताद्यैर्द्विगुणोन्मितैः ।
पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः ॥
चूर्णावलेहगुटिका कल्कानामनुपानकम् ।
पित्तवातकफातङ्के त्रिष्वेकपलमाहरेत् ॥”
इति भावप्रकाशः ॥ * ॥
चूर्णौषधस्य पूर्णवीर्य्यं पक्षत्रयपर्य्यन्तं तिष्ठति ।
इति वैद्यकपरिभाषा ॥
(“कर्षश्चूर्णस्य कल्कस्य गुडिकानाञ्च सर्व्वशः ।
द्रवशुक्त्या स लेढव्यः पातव्यश्च चतुर्द्रवः ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
आवीर इति ख्यातम् । (यथा, मेघदूते । ७० ।
“अर्च्चिस्तुङ्गानभिमुखगतान् प्राप्य रत्नप्रदीपान्
ह्नीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ॥”)
पटरसाक्षोद इत्यन्ये । इति भरतः ॥ गन्ध-
गुँ डा इति ख्यातम् । इति सारसुन्दरी ॥ तत्-
पर्य्यायः । वासयोगः २ । इत्यमरः । २ । ६ । १३४ ॥
वासयुक्तिः ३ । इति मेदिनी । ने, १२ ॥ गन्ध-
युक्तिः ४ । इति भूरिप्रयोगः ॥ पटयुक्तिः ५ ।
इति शब्दरत्नावली ॥ (कुङ्कुमादिरजः । यथा,
रघुः । ४ । ५४ ।
“अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥”)

चूर्णः, पुं, (चूर्ण्यते सम्पिष्यते इति । चूर्ण +

कर्म्मणि घञ् ।) सम्पेषणेन जातरजः । चूर
इति गुँडा इति फाकि इति च भाषा ॥ तत्-
पर्य्यायः । क्षोदः २ । इत्यमरः । २ । ८ । ९९ ॥
चूर्णम् ३ रजः ४ । इति भावप्रकाशः ॥ (यथा,
महाभारते । ६ । ११८ । ३ ।
“कन्याश्चन्दनचूर्णैश्च लाजैर्म्माल्यैश्च सर्व्वशः ।
अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥”)
धूलिः । क्षारविशेषः । इति मेदिनी । ने, १२ ॥
चूण इति भाषा ॥ (यथा, --
“पर्णानि शीर्णवर्णानि सीदन्त्याकर्णलोचने ! ।
चूर्णमानीयतां तूर्णं पूर्णचन्द्रनिभानने ! ॥”)
शेषस्य गुणः । वातश्लेष्ममेदोनाशित्वम् ॥ शङ्ख-
चूर्णस्य गुणाः । कटुत्वम् । क्षारत्वम् । उष्ण-
त्वम् । कृमिनाशित्वञ्च । इति राजवल्लभः ॥

चूर्णकं, क्ली, (चूर्ण इव कायतीति । चूर्ण + कै +

कः ।) गद्यविशेषः । यथा, --
“अपादः पदसन्तानो गद्यं तत्तु त्रिधा मतम् ।
चूर्णकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥
अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।
तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥
भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।
वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥
चूर्णकं यथा । स हि त्रयाणामेव जगतां गतिः
परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गु-
राङ्गीमवनिमवलोक्य करुणार्द्रहृदयस्तस्याभार-
मवतारयितुं रामकृष्णस्वरूपेणांशतो यदुवंशे
अवततार ।” इति छन्दोमञ्जरी ॥ (क्वचित् वृत्तकं
इत्यपि दृश्यते ॥)

चूर्णकः, पुं, (चूर्णैः कायते प्रकाशते इति । कै +

कः ।) सक्तुः । इति त्रिकाण्डशेषः ॥ (षष्टिकः ।
यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “षष्टिक-
काङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासन-
पुष्पकमहाषष्ठिकचूर्णककुरवककेदारकप्रभृतयः
षष्टिकाः ॥”) स्वार्थे के चूर्णशब्दार्थोऽप्यत्र ॥

चूर्णकारः, पुं, (चूर्णं क्षारविशेषं करोतीति ।

चूर्ण + कृ + “कर्म्मण्यण् ।” ३ । २ । १ इत्यण् ।)
वर्णशङ्करजातिविशेषः । चूणरी इति भाषा ॥
स नटकन्यायां पुण्ड्रकाज्जातः । इति पराशर-
पद्धतिः ॥

चूर्णकुन्तलः, पुं, (चूर्णं वासयोगस्तद्युक्तः कुन्तलः ।

शाकपार्थिवादिवत् समासः ।) अलकः । इत्य-
मरः । २ । ६ । ९६ ॥

चूर्णखण्डं, क्ली, (चूर्णाय यत् खण्डम् ।) कर्करम् ।

इति हारावली । २०८ ॥ काँकर इति घुटिं
इति च भाषा ॥

चूर्णपारदः, पुं, (चूर्णः पारदस्य । एकदेशि-

समासः । पारदजन्यतया एवास्य तथात्वम् ।)
हिङ्गुलम् । इति राजनिर्घण्टः ॥

चूर्णशाकाङ्कः, पुं, (चूर्ण इव शुभ्रः शाकस्तमङ्कते

सादृश्येन गच्छतीति । अङ्क गतौ + अच् ।)
गौरसुवर्णशाकम् । इति राजनिर्घण्टः ॥

चूर्णिः, स्त्री, (चूर्णयति खण्डयति अशेषपण्डि-

तानां तर्कमिति । चूर्ण + “सर्व्वधातुभ्य इन् ।”
उणां । ४ । ११७ । इति इन् । यद्धा, “घृणि-
पृश्निपार्ष्णीति ।” उणां । ४ । ५२ । इति इः ।)
पातञ्जलव्याकरणम् । महाभाष्यम् । कपर्द्दकः ।
इति लिङ्गादिसंग्रहटीकायां भरतः ॥ शत-
संख्यककपर्द्दकाः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

चूर्णिका, स्त्री, (चूर्णः क्षोदोऽस्यास्तीति । चूर्ण +

“अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
सक्तुः । इति भूरिप्रयोगः ॥

चूर्णिकृत्, पुं, (चूर्णिं महाभाष्यं करोतीति । कृ +

क्विप् ।) भाष्यकारः । इति त्रिकाण्डशेषः ॥

चूर्णी, स्त्री, (चूर्णिः + “कृदिकारादक्तिनः ।” ४ ।

१ । ४५ । इत्यस्य वार्त्तिकोक्त्या वा ङीष् ।)
कपर्द्दकः । इति मेदिनी । णे, १२ । नदी-
विशेषः । सा राणाघाट्टाख्यग्रामसमीपे तिष्ठति ॥

चूलः, पुं, (चोलयति पुनः पुनः छेदेऽपि उत्तिष्ठ-

तीति । चुल उन्नतौ + “इगुपधज्ञेति ।” ३ ।
१ । १३५ । इति कः । निपातनात् दीर्घः ।
यद्बा, चूर्य्यते इति । चूर् + कः । रस्य लत्वम् ।)
पृष्ठ २/४५९
केशः । यथा, । “मुक्तकेशाश्च चूलिनः ।” इति
लिङ्गपुराणम् ॥

चूलकः, पुं, (चूल एव । चूल + स्वार्थे कन् ।)

केशः । यथा, मत्स्यसूक्ते ३८ पटले ।
“गृहीतचूलको विप्रो म्लेच्छेन रजकादिना ।
प्राजापत्यद्बयं कुर्य्यात् शूद्रः कुर्य्यात्तु भागतः ॥
सशिखं निर्व्वपेत् केशं धृते चान्त्यावसायिना ।
अन्त्यजैस्तु शिखावर्ज्जं शूद्रैरग्राङ्गुलिद्वयम् ॥”

चूला, स्त्री, (चूडा + डस्य लत्वम् ।) चन्द्रशाला ।

गृहोपरिगृहम् । इति शब्दरत्नावली ॥ चूडाच ॥

चूलिकं, क्ली, (चोलयति गोधूमचूर्णं पिष्टकाका-

रेण उन्नयति उत्पादयतीत्यर्थः । चुल + णिच् +
ण्वुल् । पृषोदरात् दीर्घत्वे अत इत्वे च साधुः ।)
घृतभृष्टगोधूमचूर्णम् । इति शब्दचन्द्रिका ॥ लूची
इति भाषा ॥

चूलिका, स्त्री, (चोलयति सन्निहितचर्म्ममांस-

राशिं उन्नयतीति । चुल + ण्वुल् + कापि अत
इत्वञ्च । पृषोदरात् दीर्घत्वे साधुः ।) हस्तिकर्ण-
मूलम् । इत्यमरः । २ । ८ । ३८ ॥ नाटकाङ्गविशेषः ।
इति मेदिबी । के, ९० ॥

चूष, पाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) दीर्घी चूषत्याम्रं लोकः । इति दुर्गा-
दासः ॥

चूषा, स्त्री, (चूष्यते पीयते पृष्ठमांसेनादृश्यतां

नीयते इति । चूष + घञर्थे कः ।) कक्ष्या । इत्य-
मरः । २ । ८ । ४२ ॥ काछदडी इति भाषा ॥

चृत्, कि सन्दीपने । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-सकं-सेट् ।) कि, चर्त्तयति । इति
दुर्गादासः ॥

चृत्, श हिंसे । ग्रन्थे । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) श, चृतति चर्त्तिता ।
ग्रन्थो ग्रन्थनम् । इति दुर्गादासः ॥

चेटः, पुं, (चेटतीति । चिट् परप्रैषे + अच् ।)

दासः । इति हेमचन्द्रः ॥ (यथा, कथासरित्-
सागरे । ६ । १२७ ।
“एतत्तस्य मुखाच्छ्रुत्वा राजचेटस्य दुर्म्मनाः ॥”
सतुशृङ्गारसहायः । यथा, साहित्यदर्पणे । ३ । ४६ ।
“शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः ॥”)

चेटकः, पुं, (चेटति दासत्वं करोतीति । चिट +

ण्वुल् ।) दासः । इत्यमरः । २ । १० । १७ ॥
(यथा, कथासरित्सागरे । ६ । १२४ ।
“आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥”)
उपपतिनायकभेदः । तस्य लक्षणं सन्धान-
चतुरः । इति रसमञ्जरी ॥

चेटिका, स्त्री, (चेटी + स्वार्थे कन् टापि अत

इत्वं पूर्ब्बह्नस्वः । यद्वा चिट् ण्वुल् टापि अत
इत्वम् ।) दासी । इति द्बिरूपकोषः ॥ (यथा,
कथासरित्सागरे । ४ । ५१ ।
“अङ्गीकुर्व्वन् स तन्मूढश्चेटिकाभिः प्रवेशितः ॥”)

चेटी, स्त्री, (चेट + ङीप् ।) दासी । इति हेम-

चन्द्रः ॥ (यथा, रामायणे । २ । ९१ । ६४ ।
“प्रेष्याश्चेट्यश्च बध्वश्च बलस्थाश्चापि सर्व्वशः ॥”)

चेडः, पुं, (चेटति परप्रेष्यत्वं करोतीति । चिट +

अच् । टस्य डत्वञ्च ।) दासः । इत्यमर-
टीकायां रमानाथः ॥

चेडकः, पुं, (चेटति इति । चिट + ण्वुल् । टस्य

डत्वम् ।) दासः । इत्यमरटीका ॥

चेडिका, स्त्री, (चेडक + टाप् । कापि अत इत्वम् ।)

दासी । इति द्विरूपकोषः ॥

चेडी, स्त्री, (चेड + ङीप् ।) दासी । इत्यमर-

टीका ॥

चेत्, व्य, (चित् + विच् ।) यदि । इत्यमरः ।

३ । ४ । १२ ॥ (यथा, पञ्चदश्याम् । ६ । ४२ ।
“अत्यत्ववारकं सत्वमिति चेदन्यवारणम् ।
कूटस्थस्यात्मतां वक्तुरिष्टमेव हि तद्भवेत् ॥”
पक्षान्तरम् । असन्देहेऽपि सन्देहवचनम् । यथा,
“सत्यञ्चेद्गुरुवाक्यमेव पितरो देवाश्च चेद्-
योगिनी
प्रीता चेत् परदेवता च यदि चेद्वेदाः प्रमाणं
हि चेत् ।
शाक्तीयं यदि दर्शनं भवति चेदाज्ञाप्य मोघास्मि
चेत्
स्वातन्त्र्या अपि कौलिकाश्च यदि चेत् स्यान्मे
जयः सर्व्वदा ॥”
इति शब्दार्थचिन्तामणिधृतश्लोकः ॥)

चेतः, [स्] क्ली, (चेतत्यनेन इति । चित् +

करणेऽसुन् ।) चित्तम् । इत्यमरः । १ । ४ । ३१ ॥
(यथा, पञ्चदश्याम् । १ । ५४ ।
“ताभ्यां निर्व्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् ।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥”)

चेतकी, स्त्री, (चेतयते उन्मीलयति ज्ञानेन्द्रिय-

बलादीनि । चित + ण्वुल् । गौरादित्वात् ङीष् ।)
हरीतकी । इत्यमरः । २ । ४ । ५९ ॥ हिमाचलभवा
त्रिशिरा हरीतकी । सा च सर्व्वरोगनाशिनी
गन्धयुक्तद्रव्यकरणे प्रशस्ता । इति वैद्यकम् ॥
(“चेतकी द्विविधा प्रोक्ता आकाराद्बर्णतस्तथा ।
षडङ्गुला हिता प्रोक्ता शुक्ला चैकाङ्गुला स्मृता ॥
श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा ।
चेतकी वृक्षशाखायां यावत्तिष्ठति तां पुनः ॥
भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः ।
चेतकीं यावद्बिधृत्त्य हस्ते तिष्ठति मानवः ॥
तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः ॥”
इति कल्पस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥
एतस्या उत्त्तिगुणजात्यादिकं यथा, भावप्रकाशे
पूर्ब्बखण्डे प्रथमे भागे ।
“पपात बिन्दुर्मेदिन्यां शक्रस्य पिबतोऽमृतम् ।
ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी ॥
हरीतक्यभया पथ्या कायस्था पूतनाऽमृता ।
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥
वयस्था विजया चापि जीवन्ती रोहिणीति च ।
विजया रोहिणी चैव पूतना चामृताऽभया ॥
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ।
अलावुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ॥
पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ।
पञ्चरेखाऽभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ॥
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ।
विजया सर्व्वरोगेषु रोहिणी व्रणरोहिणी ॥
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ।
अक्षिरोगेऽभया शस्ता जीवन्ती सर्व्वरोगहृत् ॥
चूर्णार्थे चेतकी शस्ता यथायोगं प्रयोजयेत् ।
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ॥
षडङ्गुलायता शुक्ला कृष्णात्वेकाङ्गुला स्मृता ।
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ॥
काचित् स्पर्शेन दृष्ट्यान्या चतुर्द्धा भेदयेच्छिवा ।
चेतकी पादपच्छायामुपसर्पन्ति ये नराः ॥
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ।
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ॥
तावद्भिद्येत रोगैस्तु प्रभावान्नात्र संशयः ।
न धार्य्यं सुकुमाराणां कृशानां भेषजद्विषाम् ॥
चेतकी परमा शस्ता हिता सुखविरेचनी ॥”)
जातीपुष्पम् । इति राजनिर्घण्टः ॥

चेतनः, पुं, (चेतति जानाति सर्व्वं इति । चित् +

कर्त्तरि ल्युः ।) आत्मा । इति हेमचन्द्रः ॥
(यथा, पञ्चदश्याम् । ६ । ४५ ।
“चेतना चेतनभिदा कूटस्थात्मकृता न हि ।
किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥”)
मनुष्यः । इति राजनिर्घण्टः ॥ प्राणी । इत्य-
मरः । १ । ४ । ३० ॥
(“रथादौ नियता चेष्टा चेतनेनाधितिष्ठिते ।
न दृष्टा चेतनस्तेन प्राणादीनां प्रवर्त्तकः ॥”
इति शब्दार्थचिन्तामणिधृतवचनम् ॥)
चेतनं चैतन्यं विद्यतेऽस्य इति । “अर्शआदि-
भ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।) प्राणयुक्ते त्रि ।
इति मेदिनी । ने, ६४ ॥ (यथा, मेघदूते । ५ ।
कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥”)

चेतनकी, स्त्री, (चेतनं करोति बुद्धीन्द्रियादिस्फुरणं

वर्द्धयतीत्यर्थः । कृ + डः । ततो ङीष् ।) हरी-
तकी । इति राजनिर्घण्टः ॥

चेतना, स्त्री, (चेतयतेऽनया इति । चित् संज्ञाने

“न्यासश्रन्थेति ।” युच् टाप् च ।) बुद्धिः । इत्य-
मरः । १ । ५ । १ ॥ (यथा, भागवते । ४ । २१ । ३४ ।
“प्रधानकालाशयधर्म्मसंग्रहे
शरीर एष प्रतिपद्य चेतनाम् ॥”
“एष विभुः परमान्दोऽपि शरीरे विषवकारां
बुद्धिं प्राप्य क्रियाफलत्वेन प्रतीयते ।” इति
टीकाकृच्चूर्णिः ॥) सा गर्भस्थबालकस्य सप्तभि-
मासैर्भवति । इति सुखबोधः ॥ (ज्ञानात्मिका
मनोवृत्तिः । यथा, भगवद्गीतायाम् । १३ । ६ ।
“इच्छाद्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ॥”
तस्यामभिव्यक्तेन्द्रियवृत्तिः तप्त इव लौहपिण्डे-
ऽग्निरात्मचैतन्याभासरसविद्धा चेतना इति
शाङ्करभाष्यम् । ज्ञानात्मिका मनोवृत्तिरिति
श्रीधरस्वामी ॥ स्वरूपज्ञानव्यञ्जिकायां प्रमाणा-
साधारणकारणिकायां चित्तवृत्तौ ज्ञाना-
ख्यायां भगवतो विभूताविति शब्दार्थचिन्ता-
मणिः ॥)
पृष्ठ २/४६०

चेतनीया, स्त्री, (चित् + णिच् + अनीयर् टाप् च ।

यद्वा चेतनायै हिता इति च्छः ।) ऋद्धिनामौ-
षधिः । इति राजनिर्घण्टः ॥

चेदिः, पुं, देशभेदः । तत्पर्य्यायः । त्रैपुरः २

डाहलः ३ चैद्यः ४ । (अयं देशस्तु आग्नेय्यां
दिशि शुक्तिमतीनदीतीरेस्थितः । यथा, बृहत्-
संहितायाम् । १४ । ८ ।
“शौलिकविदर्भवत्सान्ध्रचेदिकाश्चोर्द्ध्वकण्ठाश्च ॥”)
तद्देशस्थे पुं भूम्नि । इति हेमचन्द्रः ॥

चेदिपतिः, पुं, (चेदिदेशस्य पतिः पालकः राजा ।)

उपरिचरवसुः । यथा, --
“इन्द्रप्रीत्यै चेदिपतिश्चकारेन्द्रमहञ्च सः ।
पुत्त्राश्चास्य महावीर्य्याः पञ्चासन्नमितौजसः ॥”
इति महाभारतम् ॥
(शिशुपालः । यथा, महाभारते । २ । ४० । १५ ।
“इति तस्य वचः श्रुत्वा ततश्चेदिपति र्नृपः ।
भीष्मंरूक्षाक्षरा वाचः श्रावयामास भारत ! ॥”)

चेदिराजः, पुं, (चेदीनां राजा इति । “राजाहः-

सखिभ्यष्टच् ।” इति टच् ।) शिशुपालः ।
इति पुराणम् ॥ (यथा, महाभारते । २ ।
४० । १२ ।
“विप्लुता चास्य दुर्बुद्धेर्बुद्धिर्बुद्धिमताम्बर ! ।
चेदिराजस्य कौन्तेय ! सर्व्वेषाञ्च महीक्षिताम् ॥”)
उपरिचरवसुः । स तु चन्द्रवंशीयकृतिराज-
पुत्त्रो विष्णुभक्त इन्द्रसखा इन्द्रादेशाच्चेदिराज्यं
गृहीतवान् इन्द्रदत्ताकाशगविमानेनोपरिचरो
वभूव । एकदा ऋषयो देवाश्च विवदमानास्त-
मपृच्छन् किमोषध्या पशुना वा यज्ञाः कर्त्तव्या-
स्तेनोक्तं पशुना तत ऋषयस्तं शेपुर्भवता यथा-
शास्त्रमनुक्त्रा देवानां पक्षपातः कृतस्तस्मादधो
गच्छ इत्यभिशप्तः स तत्क्षणात् भूविवरे गतः ।
श्रीविष्णुना तस्य भक्षणार्थं नान्दीश्राद्धादौ गृह-
भित्तौ घृतधारादानं विहितम् । इति महा-
भारतम् ॥

चेदिराट्, [ज्] पुं, (चेदिषु राजते इति । राज +

क्विप् । यद्वा चेदिषु राट् ।) शिशुपालः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । २ । ३८ । ३१ ।
“स वै पश्येद्यथा धर्म्मं न तथा चेदिराडयम् ॥”
उपरिचरवसुः । दमघोषश्च । इति पुराणम् ॥)

चेवी, स्त्री, रागिणीविशेषः । इति हलायुधः ॥

चेल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सकंच-सेट्-ऋदित् ।) ऋ, अचि-
चेलत् । इति दुर्गादासः ॥

चेलं, क्ली, (चेल्यते विस्तार्य्यते तन्तुभिरिति । चेल

चाले + कर्म्मणि घञ् । यद्वा चिल्यते परिधीयते
यत् इति । चिल + कर्म्मणि घञ ।) वस्त्रम् ।
(यथा, मनुः । ११ । १६६ ।
“चेलचर्म्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् ॥”)
अधमे त्रि । इत्यमरः । ३ । ३ । २०१ ॥

चेलानः, पुं, (चेल + आनच् ।) फललताविशेषः ।

चेलना इति भाषा ॥ तत्पर्य्यायः । अल्पप्रमा-
णकः २ । इति रत्नमाला ॥ अस्य फलस्य
गुणाः । गुरुत्वम् । विष्टम्भित्वम् । मधुरत्वम् ।
कफवायुकारित्वञ्च । इति राजवल्लभः ॥

चेलालः, पुं, (चेलमिव त्वचं आलाति । आ +

ला + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) फललता-
विशेषः । तत्पर्य्यायः । चित्रफलः २ सुखाशः ३
राजतेमिषः ४ लतापनसः ५ नाटाम्रः ६ सेदुः ७ ।
इति त्रिकाण्डशेषः ॥

चेलिका, स्त्री, (चिल्यते परिधीयतेऽसौ इति ।

चिल + इन् । स्वार्थे कन् ततष्टाप् ।) पट्टवस्त्र-
विशेषः । चेलिरकापड इति भाषा ॥ यथा, --
“सेयं कृष्णस्य वनिता पीतशाटीपरिच्छदा ।
रक्तचेलिकया च्छन्ना शातकुम्भघनस्तनी ॥”
इति पाद्मे पातालखण्डम् ॥

चेलुकः, पुं, (चेलति बुद्धितत्त्वं गच्छति इति । चेल

+ उकः ।) बुद्धभिक्षुशिष्यः । तत्पर्य्यायः ।
श्रामणेरः २ प्रव्रजितः ३ महापासकः ४
गोमी ५ । इति त्रिकाण्डशेषः ॥

चेल्ल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् ।) लद्वयान्तः । ऋ, अचि-
चेल्लत् । अस्य ऋदनुबन्धः कुटतेः कुटादिपाठ-
वन्निष्फलः वेदेषूच्चारणभेदार्थो वा । अयं कैश्चिन्न
मन्यते । इति दुर्गादासः ॥

चेष्ट, ङ ईहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) ईहो व्यापारः । ङ, चेष्टते पठितुं
शिष्यः । इति दुर्गादासः ॥

चेष्टकः, पुं, (चेष्टते इति । चेष्ट + ण्वुल् ।) रति-

बन्धविशेषः । यथा, स्मरदीपिकायाम् ।
“पादमेकं हृदि न्यस्य इतरेणैव चेष्टयेत् ।
कान्तः क्रोडे स्थितां नारीं बन्धोऽयं चेष्टको
मतः ॥”
चेष्टाकर्त्तरि त्रि ॥

चेष्टा, स्त्री, (चेष्ट + भावे अङ् टाप् च ।) कायिक-

व्यापारः । इति मुग्धबोधटीकायां दुर्गादासः ॥
(यथा, मनुः । ७ । ६७ ।
“आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ।”
“प्रवृत्तिरत्र चेष्टा ज्ञानेच्छा प्रयत्नादीनां देहे
ऽभावस्वोक्तप्रायत्वात् चेष्टायाश्च यत्नवानात्मा-
प्यनुमीयते ॥” इति सिद्धान्तमुक्तावली । ५५ ॥)

चेष्टानाशः, पुं, (चेष्टायाः सृष्ट्यादेर्व्यापारस्य नाशो

निवृत्तिरत्र ।) प्रलयः । इति राजनिर्घण्टः ॥

चेष्टितं, क्ली, (चेष्ट + भावे क्तः ।) गतिः । चेष्टा ।

इति मेदिनी ॥ (यथा, देवीभागवते । १ । १५ । १८ ।
“जलूकेव सदा नारी रुधिरं पिबतीति व ।
मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥”)

चैतन्यं, क्ली, (चेतन एवेति । स्वार्थे भावे वा ष्यञ् ।)

प्रकृतिः । इति राजनिर्घण्टः ॥ चेतना ॥ (यथा,
“चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते ।
ज्ञानक्रिये जगत्कर्त्त्यौ दृश्येते चेतनाश्रये ॥
नेष्यते वैशेषिकैः साङ्खैश्चेति शेषः ।” इति शब्दार्थ-
चिन्तामणिः ॥ तथाच, याज्ञवल्क्ये । ३ । ८१ ।
“मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥”)

चैतन्यः, पुं, (चेतन एव । स्वार्थे ष्यञ् ।) भगवद-

तारविशेषः । तस्य प्रमाणं यथा, --
“श्रुत्वा तु कलिधर्म्मांस्तान् ब्रह्मा लोकपितामहः ।
सर्व्वलोकहितार्थाय प्रोवाच मधुसूदनम् ॥
भविष्यति कलौ केनोपायेन धर्म्मपालनम् ।
भक्तिमार्गस्थितिः कस्मात्तद्बदस्व जगद्गुरो ! ॥
श्रीभवानुवाच ।
अवतीर्णो भविष्यामि कलौ निजगणैः सह ।
शचीगर्भे नवद्वीपे स्वर्धुनीपरिवारिते ॥
अप्रकाश्यमिदं गुह्यं न प्रकाश्यं वहिर्मुखे ।
भक्तावतारं भक्ताख्यं भक्तं भक्तिप्रदं स्वयम् ॥
मन्मायामोहिताः केचिन्न ज्ञास्यन्ति वहिर्म्मुखाः ।
ज्ञास्यन्ति मद्भक्तियुताः साधवो न्यासिनोऽमलाः ॥
कृष्णावतारकाले याः स्त्रियो ये पुरुषाः प्रियाः ।
कलौ तेऽवतरिष्यन्ति श्रीदामसुवलादयः ॥
चतुःषष्टिर्महान्तस्ते गोपा द्वादश बालकाः ।
धर्म्मसंस्थापनार्थाय विहरिष्यामि तैरहम् ॥
काले नष्टं भक्तिपथं स्थापयिष्याम्यहं पुनः ।
कृष्णश्चैतन्यगौराङ्गो गौरचन्द्रो गौरहरिः ॥
शचीसुतः प्रभुर्गौरो नामानि भक्तिदानि मे ।
गच्छन्तु भुवि ते पुत्त्रा जायन्तां भक्तरूपिणः ॥
धर्म्मसंस्थापनं काले कुर्व्वन्तु ते ममाज्ञाया ।
कृष्णावतारकाले ये मद्भक्तास्तान् शृणु क्रमात् ॥
श्रीदामनामगोपालो मम रामस्य च प्रियः ।
अभिराम इति ख्यातः पृथिव्यां स भविष्यति ॥
सुदामनामगोपालः श्रीमान् सुन्दरठक्कुरः ।
वसुदामप्रियसखः श्रीधनञ्जयपण्डितः ॥
सुबलो मे प्रियसखो गौरीदासाख्यपण्डितः ।
कमलाकरपिप्पलाइः पूर्ब्बख्यातो महाबलः ॥
महाबाहुर्गोपबालः श्रीमान् साहसपण्डितः ॥
पुरुषोत्तमो वैश्यकुले स्तोककृष्णः प्रियो मम ।
अर्ज्जुनः पूर्ब्बदेहे यः कलौ श्रीपरमेश्वरः ॥
पूर्ब्बप्रियो लवङ्गो मे कृष्णाख्यः स कलौ युगे ।
श्रीधरः श्रीधरसमः पूर्ब्बे श्रीमधुमङ्गलः ॥
सुबलो बलरामसखः कलौ श्रीलहलायुधः ।
द्वादशैते भविष्यन्ति कलौ मद्धर्म्मरक्षणे ॥
चतुःषष्टिर्महान्तो ये स्त्रियः केचिच्च पूरुषाः ।
पुरा गोपाङ्गनाः ख्याताः कलौ ताः पुरुषा भुवि ॥
यतिर्यस्मात् कलौ चाहं तदर्थे पुरुषाः स्त्रियः ।
नीलाम्बरश्चक्रवर्त्ती गर्गः ख्यातो मुनिः पुरा ॥
अतिप्रिया राधिका मे श्रीगदाधरपण्डितः ।
राधिकायाः प्रियांशः स श्रीगदाधरठक्कुरः ॥
मधुमती प्रियसखी श्रीनरहरिसंज्ञकः ।
वृन्दा देवी प्राणसखी श्रीमुकुन्दः कलौ युगे ॥
चन्द्रावली प्राणतुल्या कविराजः सदाशिवः ।
ललिता या सखी मुख्या जगदानन्दपण्डितः ॥
विशाखा या प्रियसखी श्रीदामोदरनामकः ।
वनमाली कविराजः श्रीविशाखा सखी मम ॥
श्रीरघुनाथभट्टश्च रङ्गदेवी मम प्रिया ।
श्रीगदाधरभट्टस्तु सुदेवी सा मम प्रिया ॥
प्रबोधानन्दविख्यातस्तुङ्गविद्या तथा प्रिया ।
श्रीलराघवगोस्वामी चम्पकाख्या लता प्रिया ॥
पृष्ठ २/४६१
गोस्वामी श्रीलभूगर्भ इन्दुलेस्वा तथा प्रिया ।
काशिमिश्रः शशिरेखा रूपः श्रीरूपमञ्जरी ॥
श्रीसनातनगोस्वामी प्रिया श्रीरतिमञ्जरी ।
श्रीरघुनाथदासः श्रीस्वरूपमञ्जरी मम ॥
द्वितीयो रघुनाथश्च श्रीरागमञ्जरी प्रिया ।
श्रीलगोपालभट्टः श्री-अनङ्गमञ्जरी सखी ॥
लोकनाथः प्रेमभक्तो लवङ्गमञ्जरी सखी ।
श्रीगदाधरभट्टस्तु प्रिया श्रीगुणमञ्जरी ॥
भट्टः श्रीजीवगोस्वामी योगमाया सहाथिनी ।
दूती कलावती प्रेष्या श्रीगोविन्दः प्रियो मम ॥
दूती लीलावती श्रीमान् माधवः प्रीतिवर्द्धनः ।
वासुघोषाभिधो दूती ममानन्दप्रदायिनी ॥
श्रीशिवानन्दभार्य्या सा मत्प्रियेन्दुमती सखी ।
श्रीपरमानन्दपुरि प्रियो मे उद्धवः सखा ॥
श्रीलराघवदासस्तु धनिष्ठा मे प्रिया सखी ।
शुक्लाम्बरो ब्रह्मचारी याज्ञिको ब्राह्मणः स्मृतः ॥
पण्डितो जगदीशश्च यज्ञपत्नी मम प्रिया ।
आचार्य्यः श्रीलभगवान् श्रीचैतन्यप्रियांशभाक् ॥
पण्डितो गरुडः श्रीमान् गरुडो मम वाहनः ।
श्रीलगोपीनाथसिंहोऽक्रूरो भक्तो मम प्रियः ॥
घोषः शङ्कर आख्यातो गुणसागररायकः ।
माधवः शान्तनुमुनिर्विश्वकर्म्मा तु भास्करः ॥
वनमाली सुदामा च सार्व्वभौमो बृहस्पतिः ।
प्रिया इन्दुमुखी या मे मकरध्वजविश्रुतः ॥
सिंहानन्दो लोकनाथः कविचन्द्रस्ततः परम् ।
श्रीनाथो रामनाथश्च चत्वारः सनकादयः ॥
काशिमिश्रस्तु कुब्जा स्याद्रामानन्दोऽर्ज्जुनः सखा ।
प्रतापरुद्रः ख्यातोऽसाविन्द्रद्युम्नो महीपतिः ॥
ठक्कुरश्च कालिदासः पुलिन्दीवनचारिणी ।
शिखीचराधिका दासी मा इति ख्यातिसंयुता ॥
आचार्य्यगोपीनाथश्च रत्नावती मम प्रिया ।
शार्ग्गदासः पद्मिनी स्यात् सूर्य्यो विश्वेश्वरः स्मृतः ॥
भानुमती सत्यराजो रामानन्दः कलावती ।
जयश्च विजयश्चैव गोविन्दो गरुडस्तथा ॥
आचार्य्यरत्नश्चन्द्रः स्याद्ब्यासो वृन्दावनः स्मृतः ।
शुकदेवा व्यासपुत्त्रो भट्टो वल्लभ ईरितः ॥
शिवानन्दोऽब्जज इव देवानन्दश्च भार्गवः ।
पण्डितः श्रीजगन्नाथो दुर्व्वासा मुनिरुच्यते ॥
आचार्य्यः श्री-अनन्तश्च हरिदासस्तथैव च ।
एता गोप्यो व्रजे ख्याता हृदयानन्द एव च ॥
प्रियाश्चतुःषष्टिरेते धर्म्मसंस्थापने कलौ ।
एतेषां पुण्यनामानि ये स्मरन्ति दिने दिने ॥
ते प्राप्नुवन्ति मद्भक्तिं पुनन्ति भुवनत्रयम् ।
मद्भक्तदासा ये मर्त्या नास्ति तेषां समः क्वचित् ॥
श्रुत्वा भगवतो वाक्यं ब्रह्मा हर्षमवाप्तवान् ।
स्तौति तं देवदेवेशं नेदुर्दन्दुभयस्तदा ॥
जगुर्गन्धर्व्वप्रवरास्तुम्बुरुप्रमुखास्तदा ॥”
इत्यनन्तसंहितायां श्रीचैतन्यजन्मखण्डे सप्त-
पञ्चाशत्तमोऽध्यायः ॥ * ॥ अपि च ।
“यः सत्ये सितवर्णमादधदसौ श्रीशुक्लनामाभवत्
त्रेतायां मखभुक् मखाख्य उचितोऽभूद्रक्तवर्णं
दधत् ।
यः श्यामं दधदाशु वर्णकममुं श्यामो युगे द्बापरे
सोऽयं गौरविधुर्व्विभाति कलयन्नामावतारं कलौ ॥
नित्यानन्दो भक्तरूपो व्रजे यः श्रीहलायुधः ।
भक्तावतार आचार्य्योऽद्वैतो थः श्रीसदाशिवः ॥”
इति गौरगणोद्देशः ॥
(अयमेव भगवांश्चैतन्यदेवो नवीनवैष्णवसम्प्र-
दायविशेषस्य प्रवर्त्तकस्तत्सम्पदायैश्चोपास्येष्ट-
देवत्वेनासौ परिगृहीतश्च । असौ एव वृन्दावन-
रमण-श्रीकृष्णस्य पूर्णावतार इति केचित्, परैस्तु
प्रामाणिकग्रन्थवचनादर्शनात् तन्न मन्यते अत-
एवास्मिन् विषये पण्डितानां प्रायशो मतभेदो
दृश्यते ।
स तु प्रभुः (१४०७) सप्ताधिकचतुर्द्दश-
शतशके कुम्भस्थे सवितरि पौर्णमास्यां तिथौ
शुक्रवारे प्रदोषसमये नवद्वीपाख्यनगर्य्यां प्रादु-
र्बभूव । तस्मिन्नेव महामहिम्नस्तस्य भगवतो
जन्मसमये चन्द्रदेवं प्रति सैंहिकेयोपरागो
जातः । एतदुपलक्षीकृत्य गङ्गास्नानार्थं बहवो
लोका नानादिग्देशादागत्य तत्र मिलिताः ।
तदा ग्रस्तेऽपि राहुणा चन्द्रमसि भक्तजनकुमुद-
बान्धवो गौरचन्द्रः समवेतलोकानां हरिसंकी-
र्त्तनप्रभृतिभिर्मङ्गलाचरणैः सहशचीपूर्ब्बपर्व्वता-
दुदियाय । भवन्ति हि शुभसूचकानि महता-
माविभूतानि । अतस्तदापि प्रसन्ना दिक्
शैत्यसौगन्ध्यमान्द्यादिगुणगणाढ्यो मलयसमी-
रणः प्रसन्नानि च साधु जनमनांसि समभवन् ।
अस्य पिता जगन्नाथमिश्रस्तु पुरा श्रीहट्टनिवासी
आसीत् । कदाचित् गङ्गास्नानार्थमेव नवद्वीप-
मागत्य विप्रचक्रवर्त्तिकुलतिलकस्य नीलाम्बर-
शर्म्मणः शचीनाम्नीं कन्यां परिणीतवान् ।
ततो गच्छति काले अयं चैतन्यदेवः शचीगर्भे
त्रयोदशमासं यावदुषित्वा जगन्नाथमिश्रस्य
दशमपुत्त्रत्वेन समभवत् । अस्य पूर्ब्बजो विश्वरूपो
नाम जगन्नाथमिश्रस्यापरः पुत्त्र आसीत् । स
तु यौवन एव ज्ञानवैराग्यविशारदो दारपरि-
ग्रहमनङ्गीकुर्व्वन् पारिव्राज्यधर्म्मं समाश्रयत् ।
अथ चैतन्यदेवस्य जातकर्म्मादिसं स्कारे यथा-
कालं क्रमशो निवृत्ते अस्य मातामहो नीला-
म्बरचक्रवर्त्ती सुलक्षणादिकमवलोक्य विश्वम्भर
इति नाम्नैनमाजुहाव । शचीदेवी तु पुनः पुनः
पुत्त्रधनेन वञ्चिता प्रियतममेनं कनीयांसं संसार-
स्थितिदीर्घजीवनकामनया निमाइ इत्याख्यया
पौरवासिनस्तु असामान्यरूपलावण्यतया परम-
समादरेण गौर इत्याख्यया च आहूतवन्तः ।
परं धर्म्मरसिकानां भक्तानां समाजे, शाक्य-
सिंहस्य बुद्धदेव इव अस्य महाप्रभुरिति
चैतन्यदेव इति च आख्या प्रसिद्धा ।
अथ प्राप्ते काले चैतन्यदेवोऽयं शास्त्रसागर-
पारगमशेषबुधवर्गवन्दितचरणारविन्दं महा-
महोपाध्यायं गङ्गादासशर्म्माणमुपाध्यायत्वे-
नाङ्गीकृत्य स्वल्पेनैव कालेन सर्व्वशास्त्रार्थ-
तत्त्वज्ञः समभवत् । अस्य बुद्धिप्राखर्य्यमवगम्य
तदा सर्व्व एवैनं देवांशसम्भूतममन्यन्त । अथ
कदाचिदयं गङ्गास्नानार्थं गत्वा तत्र वल्लभा-
चार्य्यस्य लोकातीतरूपलावण्यां लक्ष्मीं नाम
कन्यामवलोक्य मोहित आसीत् । वल्लभा-
चार्य्यस्तु एतदवगम्य स्वयमेव तां कन्यामस्मै
सम्प्रददे । विवाहानन्तरमेवासौ छात्रान-
ध्यापयितुं प्रवृत्तः । एतस्मिन्नेव समये बहवा
दिगविजयिनः पण्डिता नवद्वीपमागत्य अस्य
तर्कजालैः समाच्छन्ना भग्नदर्पाश्च सन्तः प्रति-
निवृत्ताः । असावपि दिग्विजिगीषया पूर्ब्बादि-
स्थलीं गत्वा तत्रस्थान् पण्डितान् विमोहयन्
सुविमलं यशः प्राप्तवान् । एतस्मिन्नेव काले
अस्य पूर्ब्बपत्नी कालधर्म्मं प्राप्ता । चैतन्यदेवस्तु
तस्या विरहेण व्याकुलितोऽपि मातुरनुरोधेनैव
पुनः सनातनपण्डितस्य विष्णुप्रियानाम्नीं कन्यां
द्वितीयपत्नीत्वेन स्वीचकार । परं सर्व्वगुणविभू-
षितायाः साक्षात् लक्ष्म्या इव लक्ष्म्या मरणा-
देवासौ संसारविरक्तः श्रीवासादिभिर्भक्तवर्गै-
र्मिलितो हरिभक्तिरसनिमग्न एव कालं यापया-
मास । अथ कदाचित् पितृलोकोद्धारवासनया
गयातीर्थं गत्वा भक्तचूडामणेः श्रीमदीश्वरपुरि-
नाम्नो गोस्वामिनः सकाशात् हरिनामामृत-
दीक्षां लब्ध्वात्मानं कृतकृतार्थं मत्वा च स्वदेशं
प्रत्यावृत्तवान् । एतस्मिन्नवसरे पाषण्डदुराचारौ
दस्युप्रवरौ जगाइ माधाइ चेति प्रसिद्धौ ब्रह्म-
बन्धू अन्यांश्च कुष्ठादिव्याधिपीडितान् महा-
पातकिनः करुणया हरिनामदीक्षादानेन
संसारसागरात् समुद्धृत्य यवनजातीयकाजि-
प्रभृतीन् वैष्णवद्वेषिणः स्वमहिम्ना दमयामास ।
ततः प्रभृत्येवासौ भक्तिरसप्रधानं वैष्णवधर्म्मं
प्रचारयितुमिच्छन् नित्यानन्दाद्बैताचार्य्या-
दिभिर्भक्तवर्गैः सह नानाजनपदं परिभ्रमन्
बहूनेव जनान् प्रेमोन्मत्तानकरोत् । अथ (१४३१)
एकत्रिंशदधिकचतुर्द्दशशतशके उत्तरायण-
संक्रान्त्यां संसारमायां परित्यज्य काटोयाख्य-
ग्रामे केशवभारतिसकाशात् सन्न्यासधर्म्मं समा-
श्रयत् । अथ नीलाचलमागत्य श्रीजगन्नाथदेवं
दृष्ट्वा राज्ञः प्रतापादित्यस्य सभापण्डितं वेदान्त-
शास्त्रपारदर्शिनंसार्व्वभौमं विचारेण पराजित्य
वैष्णवदीक्षां प्रदत्तवान् । अथ कदाचित् गोदा-
वरीतीरे भक्तवरं रामानन्दमवलोक्य सेव्य-
निर्णयैर्धर्म्मालापैरात्मानं कृतकृत्यवदमन्यत ।
ततोऽसौ त्रिपदी-शिवकाञ्ची-विष्णुकाञ्ची-त्रिमल्ल-
प्रभृतीन् बहून् दाक्षिणात्यजनपदान् हरिप्रेम-
रसेन प्लावयित्वा द्वारकातीर्थदर्शनार्थं प्रस्थितः ।
तत्रैवासौ ‘कृष्णकर्णामृतं’ नाम सुप्रसिद्धवैष्णव-
ग्रन्थं लब्धवान् । अतः परं पुनरेव नीलाचल-
मागत्य काशीश्वरनाम्नः कस्यचिद्भक्तप्रधानस्य
भवने अवस्थितवान् । अत्रेवासौ श्रीश्रीजगन्नाथ-
देवस्य रथयात्रामहोत्सवे हरिसंकीर्त्तना-
दिकं विधाय प्रेमोन्मादप्रलापादिभिर्भक्तिलक्षणं
दर्शयामास । अथ गच्छति काले वृन्दावनं
पृष्ठ २/४६२
जिगमिषुर्वन्येनैव पथा व्रजन् स्वभावसारल्येन
व्याघ्रादीनपि हिंस्रजन्तून् भक्तिप्रेम्णा मादयित्वा
वृन्दावनमुपतस्थे । तत्र स्वभक्तवृन्दावृत एवासौ
गोपीवल्लभश्रीकृष्णस्य विहारस्थानादिकमवलोक्य
मथुरामुद्दिश्य प्रस्थितः । ततोऽस्मात् स्थानात्
प्रयागगमनकाले बहून् पाषण्डानपि यव-
नान् हरिभक्तान् विधाय वाराणसीमुपस्थितः ।
तत्र कियत्कालमुषित्वा स्वधर्म्मं प्रचार्य्य च
पुनर्नीलाचलमाजगाम । अत्रस्थ एवासौ
स्वप्रचारितवैष्णवधर्म्मस्य माहात्म्यं विज्ञापयितुं
भक्तवृन्दाग्रगण्यान् रूपसनातनादीन् नाना-
तीर्थस्थानेषु प्रेषयामास । अथ स्वभक्तै-
र्मिलितो नानाविधमहोत्सवेन हरिसंकीर्त्तना-
दिकं विधाय भक्तिरसस्य उत्कटकोटिमभि-
गम्य विरहोन्मादादिप्रगाढभक्तिलक्षणैरन्वित
आसीत् । तत एवासौ स्वभक्तगणान् कलियुगे
हरिसंकीर्त्तनस्य माहात्म्यादिकं श्रावयित्वा
अष्टचत्वारिंशद्वर्षवयसि कालस्य दुरतिक्रमणीय-
त्वात् (१४५५) पञ्चपञ्चाशदधिकचतुर्द्दशशतशके
मानवकायं परित्यज्य अन्तर्हितवान् ॥)

चैत्यं, क्ली पुं, (चित्यस्य इदम् । “तस्येदम् ।” ४ ।

३ । १२० । इत्यण् ।) आयतनम् । इत्यमरः ।
२ । २ । ७ ॥ यज्ञस्थानं केचित्तु मुखरहितं
देवकुलसदृशंयज्ञायतनं सचित्यमचित्यमपी-
त्याहुः । देवायतनमात्रम् । मृदां देवकुलम् ।
इति भरतः ॥ (यथा, महाभारते । २ । ३ । १२ ।
“यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ॥”)
चिता । इति त्रिकाण्डशेषः ॥

चैत्यः, पुं, (चैत्ये देवायतनादिस्थाने तिष्ठतीति ।

चैत्य + अण् ।) बुद्धः । विम्बः । उद्देशवृक्षः ।
इति मेदिनी भरतश्च ॥ शेषस्य पर्य्यायः । देव-
तरुः २ देवावासः ३ करिभः ४ कुञ्जरः ५ । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । ६ । ३ । ४० ।
“वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ॥”
क्षेत्रज्ञः पुरुषः । यथा, भागवते । ३ । २६ । ६० ।
“अहङ्कारस्तयोरुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥”)

चैत्यद्रुः, पुं, (चैत्य एव द्रुर्वृक्षः ।) अश्वत्थवृक्षः ।

इति त्रिकाण्डशेषः ॥ (अश्वत्थशब्देऽस्य गुणादयो
ज्ञातव्याः ॥)

चैत्यमुखः, पुं, (चैत्यं चितिसम्पन्नं विस्तृतमित्यर्थः

मुखं यस्य ।) कमण्डलुः । इति त्रिकाण्डशेषः ॥

चैत्यवृक्षः, पुं, (चैत्यस्तदाख्यया प्रसिद्धो वृक्षः ।)

अश्वत्थवृक्षः । इति रत्नमाला ॥ (यथा, मनुः ।
९ । २६४ ।
“चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥”)

चैत्रं, क्ली, (चीयन्ते जीवाः स्थानात् स्थानान्तर-

मनेनेति । चि + बाहुलकात् करणे त्रन् । ततः
स्वार्थे अण् ।) मृतम् । देवकुलम् । इति
मेदिनी । रे, ३७ ॥ देउल इति भाषा ॥ (यज्ञ-
स्थानम् । यथा, महाभारते । १ । १०९ । १३ ।
“भीष्मेण धर्म्मतो राजन् ! सर्व्वतः परिरक्षिते ।
बभूव रमणीयश्च चैत्रयूपशताङ्कितः ॥”)

चैत्रः, पुं, (चित्रे विचित्रे कार्य्यादौ साधुः । चित्र

+ अण् ।) बुद्धभिक्षुकः । इति त्रिकाण्डशेषः ॥
वर्षपर्व्वतविशेषः । इति मेदिनी । रे, ३७ ॥
(यथा, हारावल्याम् ।
“हिमवान् हेमकूटश्च निषधो मेरुरेव च ।
चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्व्वताः ॥”
चित्रायां भवः । चित्रा + अण् ।) चित्रा-
गर्भजो बुधपुत्त्रः । स सप्तद्वीपाधिपतिः सुरथ-
राजपितामहः । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
(चित्रानक्षत्रयुक्ता पौर्णमासी यत्रसः । चित्रा +
“विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ।”
४ । २ । २३ । इति पक्षे अण् ।) मासभेदः ।
स तु सौरचान्द्रभेदेन द्विविधः । तत्र मीन-
राशिस्थरविकः सौरः मीनस्थरविप्रारब्धशुक्ल-
प्रतिपदादिदर्शान्तश्चान्द्रः । इति मलमास-
तत्त्वम् ॥ तत्पर्य्यायः । चैत्रिकः २ मधुः ३ ।
इत्यमरः । १ । ४ । १५ ॥ चैत्री ४ कालादिकः ५ ।
इति राजनिर्घण्टः ॥ चैत्रकः ६ चित्रिकः ७ ।
इति शब्दरत्नावली ॥ * ॥ तत्र जातफलम् ।
“सत्कर्म्मशाली विनयी सुवेशो
भोगी सुखी स्यान्मधुरान्नभोजी ।
सत्सङ्गयुक्तो द्बिजदेवभक्तो
भवेन्मनुष्यो मधुमासजन्मा ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
(चैत्रकृत्यानि तु वारुण्यशोकाष्टमी-श्रीराम-
नवमी-मदनत्रयोदशी-मदनचर्द्दशीप्रभृतीनि ।
एतेषां प्रकरणादिकं तत्तच्छब्दे द्रष्टव्यम् ॥)
तत्र शिवव्रतं कर्त्तव्यम् । यथा, --
“चैत्रे मास्यथ माधे वा योऽर्च्चयेत् शङ्करं व्रती ।
करोति नर्त्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥
मासं वाप्यर्द्धमासं वा दश सप्त दिनानि वा ।
दिनमानं युगं सोऽपि शिवलोके महीयते ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
अधुनास्य सन्न्यास इति गाजन् इति च भाषा ॥

चैत्रकः, पुं, (चैत्र + एव । स्वार्थे कन् ।) चैत्र-

मासः । इति शब्दरत्नावली ॥

चैत्ररथं, क्ली, (चित्ररथेन गन्धर्व्वेण निर्वृत्तम् ।

“तेन निर्वृत्तम् ।” ४ । २ । ६८ । इत्यण् ।)
कुवेरस्योपवनम् । तत्तु चित्ररथगन्धर्व्वनिर्म्मि-
तम् । इत्यमरः । १ । २ । ७३ ॥ (यथा, रघुः । ५ । ६० ।
“एको ययौ चैत्ररथप्रदेशान्
सौराज्यरम्यानपरो विदर्भान् ॥”
इदन्तु पीठस्थानानामन्यतमं । यथा, देवी-
भागवते । ७ । ३० । ५८ ।
“मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥”
पुं, कुरुपुत्त्रविशेषः । यथा, महाभारते । १ ।
९४ । ४९ ।
“अविक्षितमभिष्वन्तं तथा चैत्ररथं मुनिम् ।
जनमेजयञ्च विख्यातं पुत्त्रांश्चास्यानुशुश्रुम ॥”)

चैत्रावली, स्त्री, (चैत्रं चैत्रमासं आ सम्यक्रूपेण

वरयत्यभिलषतीति । आ + वर + णिच् + अच् ।
स्त्रियां ङीप् । रस्य लत्वम् ।) चैत्री पूर्णिमा ।
तत्पर्य्यायः । मधूत्सवः २ सुवसन्तः ३ काममहः ४
वासन्ती ५ कर्द्दनी ६ । इति त्रिकाण्डशेषः ॥

चैत्रिकः, पुं, (चित्रानक्षत्रयुक्ता पौर्णमासी विद्यते-

ऽस्मिन् । “विभाषा फल्गुनीति ।” ४ । २ । २३ ।
इति पक्षे ठक् ।) चैत्रमासः । इत्यमरः । १ । ४ । १५ ॥

चैत्री, [न्] पुं, (चैत्री चित्रायुक्ता पौर्णमासी

विद्यतेऽस्मिन् । ब्रीह्यादित्वादिनिः ।) चैत्रमासः ।
इति राजनिर्घण्टः ॥ (चित्रा + इञ् ।) चैत्रि-
रिति च पाठः ॥

चैद्यः, पुं, (चेदीनां जनपदानां राजा । चेदि +

ष्यञ् ।) शिशुपालः । स तु दमघोषसुतः ।
इति जटाधरः ॥ (यथा, माधे । २ । ३८ ।
“त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ॥”
चेदिराजवसुः । इति पुराणम् ॥) तद्देशीये पुं
भूम्नि । इति त्रिकाण्डशेषः ॥

चोक्षः, त्रि, (ख्यायते उच्यते गीयते इत्यर्थः ।

चक्ष + कर्म्मणि घञ् । ततः पृषोदरात् साधुः ।)
गीतः । शुचिः । (यथा, मनुः । ३ । २०७ ।
“अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥”)
दक्षः । (यथा, महाभारते । १२ । ७० । ८ ।
“अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ॥”)
तीक्ष्णः । मनोज्ञः । इति मेदिनी । षे, १२ ॥

चोचं, क्ली, (प्रशस्तं चोचं त्वक् विद्यतेऽस्य ।

“अर्शआदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।)
गुडत्वक् । इत्यमरः । २ । ४ । १३४ ॥ (यथा,
स्पृक्काचौरकचोचपत्रतगरस्थौणेयजातीरसाः ।”
इति वाभटे सूत्रस्थाने । १५ । ४५ ।
तेजपात इति ख्यातम् । इति केचित् ॥ (अस्य
पर्य्यायाः यथा, --
“त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चोचन्तथोत्कटम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
उपभुक्तफलावशिष्टम् । चोँचा इति ख्यातम् ॥
तालफलम् । इति भरतः । कदलीफलम् ।
इति सारसुन्दरी ॥ नारिकेलम् । इति स्वामी ॥
वल्कलम् । चर्म्म । इति धरणी ॥

चोचकं, क्ली, (चोच + स्वार्थे कन् । यद्वा, चोचेन

त्वचा कायतीति । कै + कः ।) वल्कलम् । इति
शब्दरत्नावली ॥

चोटी, स्त्री, शाटी । इति हेमचन्द्रः । ३ । ३३९ ॥

चोडः, पुं, (चुडति संवृणोति शरीरमिति । चुड

संवरणे + अच् ।) प्रावरणम् ॥ देशविशेषः ।
इति मेदिनी । डे, १३ ॥

चोदना, स्त्री, (चोद्यते प्रवर्त्त्यतेऽनयेति । चुद

क् नुदि + युच् टाप् च ।) विधिः । (यथा,
गीतायाम् । १८ । १८ ।
“ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म्मचोदना ॥”)
प्रेरणा । यथा । चोदना लक्षणोऽर्थो धर्म्म इति
जैमिनिसूत्रम् ॥ एकोद्दिष्टादिवृद्ध्यादौ ह्रास-
वृद्ध्यादि चोदना । इति स्मृतिः ॥

चोदनागुडः, पुं, (चोदनया प्रेरणया गुड्यते उत्-

क्षिप्यते इति । गुड + “इगुपधज्ञेति ।” ३ । १
पृष्ठ २/४६३
१३५ । इति कः । क्रीडनकाले कन्दुकानां ऊर्द्ध्व-
क्षेपणप्रसिद्धतयास्य तथात्वम् ।) कन्दुकः । इति
त्रिकाण्डशेषः ॥

चोद्यं, क्ली, (चोदयति प्रेरयति चित्तं रसविशेषे

अनेनेति । चुद् + णिच् + ण्यत् ।) अद्भुतम् ।
प्रश्नः । इति मेदिनी । ये, २३ ॥ (यथा, महा-
भारते । ५ । ४३ । ३४ ।
“सत्यं ध्यानं समाधानं चोद्यं षैराग्यमेव च ।
अस्तेयं ब्रह्मचर्य्यञ्च तथासंग्रहमेव च ॥”)

चोद्यः, त्रि, (चोदयितुं प्रेरयितुं योग्यः । “अर्हे

कृत्यतृचश्च ।” ३ । ३ । १६९ । इति यत् ।)
चोदनार्हः । प्रेरणयोग्यः । इति मेदिनी । ये,
२३ ॥ (यथा, महाभारते । ५ । ३८ । ७ ।
“नीवारमूलेङ्गुदशाकवृत्तिः
सुसंयता चाग्निकार्य्येषु चोद्यः ।
वने वसन्नतिथिष्वप्रमत्तो
धुरन्धरः पुण्यकृदेष तापसः ॥”)

चोपनं, क्ली, (चुप मन्दगमने + भावे ल्युट् ।) शनै-

र्गमनम् ॥

चोरः, पुंस्त्री, (चोरयतीति । चुर + णिच् + पचा-

द्यच् ।) स्तेयकर्त्ता । तत्पर्य्यायः । चौरः २ दस्युः ३
तस्करः ४ प्रतिरोधी ५ मलिम्लुचः ६ स्तेनः ७
ऐकागारिकः ८ स्तैन्यः ९ प्रच्छन्नजनः १०
मोषकः ११ पाटच्चरः १२ परास्कन्दी १३
कुम्मिलः १४ खनकः १५ शङ्कितवर्णः १६
खानिकः १७ । इति शब्दरत्नावली ॥ प्रचुर-
पुरुषः १८ । इति त्रिकाण्डशेषः ॥ तृपुः १९
तक्का २० रिभ्वा २१ रिपुः २२ रिक्का २३
विहायाः २४ तायुः २५ वनर्गुः २६ हुरश्चित् २७
मूषीवान् २८ मलिम्लुचः २९ अद्यशंशः ३०
वृकः ३१ । इति वेदनिघण्टौ ३ अध्यायः ॥
(यथा, देवीभागवते १ । १९ । ६ ।
“चोरेषु चौरबुद्धिस्ते साधुबुद्धिस्तु तापसे ।
स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ! ॥”)
कृष्णशटी । इति क्रमचन्द्रिकाधृतहड्डचन्द्रः ॥
गन्धद्रव्यविशेषः । यथा । चोरकुङ्गुमरोचनाः ।
इत्यष्टगन्धकथने आगमः ॥

चोरकः, पुं, (चोरो गन्धद्रव्यविशेषस्तद्वत् काय-

तीति । कै + कः ।) पृक्का । इति रत्न-
माला ॥ पिडिङ्ग इति भाषा । (चोर + स्वार्थे
कन् ।) सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः ।
शङ्कितः २ खड्गः ३ दुष्पत्रः ४ क्षेमकः ५ रिपुः ६
चपलः ७ कितवः ८ धूर्त्तः ९ पटुः १० नीचः ११
निशाचरः १२ गणहासः १३ कोपनकः १४
चोरः १५ फलचोरकः १६ दुष्कुलः १७ ग्रन्थिलः १८
सुग्रन्थिः १९ पर्णचोरकः २० ग्रन्थिपर्णः २१
ग्रन्थिदलः २२ ग्रन्थिपत्रः २३ । (यथा, सुश्रुते
कल्पस्थाने ६ अध्याये ।
“चोरको वरुणः कुष्ठं सर्व्वगन्धा ससप्तला ॥”)
अस्य गुणाः । तीव्रगन्धत्वम् । उष्णत्वम् । तिक्त-
त्वम् । वातकफनासामुखरुजाजीर्णक्रिमिदोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

चोरपुष्पिका, स्त्री, (चोरपुष्पी + स्वार्थे संज्ञायां

वा कन् टाप् पूर्ब्बह्रस्वश्च ।) चोरपुष्पी । इति
शब्दरत्नावली ॥ (“शङ्खिनी चोरपुष्पिका ।”
इति वैद्यकम् ॥)

चोरपुष्पी, स्त्री, (चोरो गन्धद्रव्यविशेषस्तद्बत् सुगन्धि

पुष्पमस्याः । “पाककर्णपर्णेति ।” ४ । १ । ६४ ।
इति ङीष् ।) वृक्षविशेषः । वोणा इति चोर-
हुली इति च ख्याता इति भरतः ॥ तत्पर्य्यायः ।
शङ्खिनी २ केशिनी ३ । इत्यमरः । २ । ४ । १२६ ॥
चोरपुष्पिका ४ । इति शब्दरत्नावली ॥
(चोरा ५ । इति शब्दचन्द्रिका ॥)

चोरस्नायुः, स्त्री, (चोरस्य स्नायुरिव ।) काक-

नासालता । तस्करस्नायुरिति राजनिर्घण्ट-
दशनात् ॥

चोरा, स्त्री, (चोरो गन्धद्रव्यविशेषः तस्येव गन्धो-

ऽस्त्यस्य । अच् ततष्टाप् ।) चोरपुष्पी । इति
शब्दचन्द्रिका ॥

चोरिका, स्त्री, (चोरस्य भावः । मनोज्ञादि-

त्वात् ठन् ।) चौरिका । चौर्य्यम् । इत्यमर-
टीकायां रायमुकुटः ॥

चोलः, पुं, (चोलयति समुच्छ्रयति स्त्रीणां वक्षः-

प्रदेशे इति । चुल उन्नतौ + अच् ।) कञ्चुलिका ।
काँचुलि इति भाषा ॥ (यथा, आनन्दलह-
र्य्याम् । ६६ ।
“निजां बीणां वाणी निचुलयति चोलेन निभृतम् ॥”)
तत्पर्य्यायः । कुर्पासकः २ । इत्यमरः । २ । ६ । ११८ ॥
कञ्चूकः ३ । इति जटाधरः ॥ कुञ्चुली ४ कुञ्चु-
लिका ५ । इति शब्दरत्नावली ॥ स्त्रीणां निचोल
इति रमानाथः ॥ पुंसोऽप्येतौ चोला इति ख्यातौ
इति सुभूतिः ॥ नदादित्वात् चोली च । कुर्परः
कफोणिर्जानु च तद्द्बयमस्यते क्षिप्यते अत्र
कुर्पासः घञमनीषादित्वाद्रलोपः ततः स्वार्थे
कः । इति भरतः ॥ * ॥ देशविशेषः । इति
शब्दरत्नावली । अधुना ताञ्जोर इति ख्यातः ॥
श्मश्रुधारिवेदयागानधिकारिम्लेच्छविशेषः । स तु
पूर्ब्बं क्षत्त्रिय आसीत् सगरराजेनास्य धर्म्मनाशं
वेशान्यत्वञ्च चकार । इति हरिवंशः ॥

चोलकं, क्ली, (चोलयति आच्छादयतीति । चुल +

णिच् + अच् + स्वार्थे कन् । यद्वा चोल इव
कायति इति । कै + कः ।) वल्कलम् । इति
शब्दरत्नावली ॥

चोलकः, पुं, (चोल इव कायति इति । कै + कः ।)

बाणवारः । कवचम् । इति हारावली । १९७ ॥
(देशभेदः । यथा कथासरित्सागरे । १९ । ९५ ।
“उल्लङ्घ्यमाना कावेरी तेन संमर्द्दकारिणा ।
चोलकेश्वरकीर्त्तिश्च कालुष्यं ययतुः समम् ॥”)

चोलकी, [न्] पुं, (चोलकमिवास्त्यस्य इति

इनिः ।) करीरः । नारङ्गः । किष्कुपर्व्व । इति
मेदिनी । ने, १८४ ॥

चोलण्डुकः, पुं, (चोलस्य अण्डुक इव शकन्ध्वादि-

त्वात् साधुः ।) शिरोवेष्टः । इति त्रिकाण्ड-
शेषः ॥

चोषः, पुं, (चीयते इति । चि + डः । ततः उष-

दाहे + अप् । चश्चासौ उषश्चेति ।) पार्श्व-
ज्वाला ॥ यथा, --
“हृच्छूलपीडनयुतं पवनेन पित्ता-
त्तृड्दाहचोषबहुलं सकफप्रसेकम् ।
श्लष्मात्मकं बहुरुजं बहुभिश्च विद्यात्
वैगुण्यमोहजडताभिरथापरञ्च ॥
चोषः पार्श्वस्थिताग्निनेव सन्तापः ।” इति भाव-
प्रकाशः ॥ (यथाच, सुश्रुते । १ । ४२ ।
“यो गले चोषमुत्पादयति मुखवैशद्यं जनयति
भक्तरुचिं चापादयति हर्षञ्च स तिक्तः ॥”)

चोस्कः, पुं, (चन्दयति आह्लादयति । चदि + डः ।

ततः स्कन्दति आक्रमते शत्रून् स्कुनाति आप्ल-
वते वा । स्कन्दि स्कु वा + डः । ततः पृषोदरा-
दोत्वे साधुः ।) सिन्धुवारदेशीयाश्वः । इति
त्रिकाण्डशेषः ॥

चौक्षं, त्रि, (चोक्ष एव इति । स्वार्थे अण् ।) मनो-

ज्ञम् । इति महाभारतम् ॥

चौरः, पुं स्त्री, (चोर एव प्रज्ञादिभ्योऽण् । यद्वा

चुरा शीलमस्य । “इति छत्त्रादिभ्योणः ।” ४ । ४ ।
६२ । इति णः ।) चोरः । इत्यमरः । २ । १० । २४ ॥
(यथा, देवीभागवते । १ । १६ । ५९ ।
“चौरं वा तापसं वापि समानं मन्यते कथम् ॥”
असुरविशेषः । यथा, हरिवंशे । १७६ । १९ ।
“किरातीं चीरवसनां चौरसेनानमस्कृताम् ॥”
कविभेदः ।
“कविरमरः कविरमरुः कविश्चौरो मयूरकः ॥”
इत्युद्भटः ॥)
चीरपुष्पी । इति मेदिनी । रे, ३७ ॥ (चोर-
पुष्पीशब्दे विवरणमस्य ज्ञेयम् ॥) सुगन्धिद्रव्य-
विशेषः । इति हेमचन्द्रः ॥

चौरिका, स्त्री, (चोरस्य कार्य्यं भावो वा । “द्वन्द्व-

मनोज्ञादिभ्यश्च ।” ५ । १ । १३३ । इति वुञ् ।
टापि अत इत्वम् ।) चौर्य्यम् । इत्यमरः । २ ।
१० । २५ ॥ (यथा, मनुः । १ । ८२ ।
“चौरिकानृतमायाभिर्धर्म्मश्चापैति पादशः ॥”)

चौरी, स्त्री, (चौर + ङीष् ।) चौर्य्यम् । इति

शब्दरत्नावली ॥ (गायत्त्रीरूपा महाशक्तिः ।
यथा, देवीभागवते । १२ । ६ । ४९ ।
“चन्द्रिका चन्द्रधात्री च चौरी चौरा च
चण्डिका ॥”)

चौर्य्यं, क्ली, (चोरस्य कर्म्म भावो वा । “गुण-

वचनाद् ब्राह्मणादिभ्यः कर्म्मणि च ।” ५ । १ ।
१२४ । इति ष्यञ् ।) चौरधर्म्मः । चोरी इति
चुरी इति च भाषा ॥ तत्पर्य्यायः । स्तैन्यम् २
स्तेयम् ३ चौरिका ४ । इत्यमरः । २ । १० । २५ ॥
चौरी ५ । इति शब्दरत्नावली ॥ चोरिका ६ ।
इत्यमरटीका ॥ (यथा, मनुः । ९ । २७६ ।
“सन्धिं छित्वा तु ये चौर्य्यं रात्रौ कुर्व्वन्ति तस्कराः ।
तेषां छित्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥”)

चौलकर्म्म, [न्] क्ली, (चूडाया इदम् । “तस्ये-

दम् ।” ४ । ३ । १२० । इत्यण् डस्य लत्वञ्च ।
पृष्ठ २/४६४
ततश्चौलमेव कर्म्म इति कर्म्मधारयः ।) चूडा-
कर्म्म । इति स्मृतिः ॥

चौलुक्यः, पुं, (चुलकस्य गोत्रापत्यमिति । “गर्गा-

दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।)
राजर्षिभेदः । इति हेमचन्द्रः । ३ । ७१२ ॥

च्यु, क हासे । सहने । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सकच्च-सेट् ।) अन्तःस्थाद्यो-
पधः । क, च्यावयति । इति दुर्गादासः ॥

च्यु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-अनिट् ।) अन्तःस्थाद्योपधः । ङ, च्यवते ।
इति दुर्गादासः ॥

च्युत्, इर क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् । क्वचित् अकञ्च ।) अन्तःस्थादि-
युक्तः । इर्, अच्युतत् अच्योतीत् । क्षर इह
आसेचनम् । च्योतति घृतं वह्नौ यज्वा । आसिञ्च
तीत्यर्थः । इति दुर्गादासः ॥ (यथाच, भट्टिः ।
६ । २८ ।
“सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम् ।
इदं शोणितमभ्यग्रं सम्प्रहारेऽच्युतत्तयोः ॥”
“अच्युतत् गलितमकर्म्मकोऽत्र ।” इति तट्टीकायां
जयमङ्गलभरतौ ॥”)

च्युतं, त्रि, (च्यूयते स्म इति । च्यु + कर्म्मणि क्तः ।

यद्वा च्युत् + घञर्थे कः ।) क्षरितम् । यथा, --
“पिवन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥”
इति श्रीभागवतम् ॥
(स्खलितम् । यथा, रघुः । ११ । २५ ।
“सम्भ्रमोऽभवदपोढकर्म्मणां
ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥”)

च्युतिः, स्त्री, (च्यवते शोणितादिकमस्या इति ।

च्यु + अपादाने क्तिन् ।) भगम् । इति हेमचन्द्रः ।
३ । ६०९ ॥ गुदद्वारम् । इति शब्दरत्नावली ॥
(च्यु + भावे क्तिन् ।) क्षरणम् । यथा, --
“कुर्य्यां हरस्यापि पिनाकपाणे-
र्धैर्य्यच्युतिं के मम धन्विनोऽन्ये ॥”
इति कुमारसम्भवे । ३ । १० ॥

च्युपः, पुं, (च्यवन्ते भाषन्तेऽनेन इति । च्यु + “च्युवः

किच्च ।” उणां । ३ । २४ । इति पः स च कित्
च्युधातुरत्र भाषणार्थे वर्त्तते इत्युज् ज्वलदत्तः ।)
मुखम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

च्युस, क हानौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) क्वचित् पुस्तके हासे । अन्तः-
स्थादियुक्तः । क, च्योसयति । इति दुर्गादासः ॥

च्योतं, क्ली, (च्युत + पृषोदरादित्वादोत्वे साधुः ।)

श्चोतम् । घृतादिक्षरणम् । इत्यमरटीका ॥

च्यौत्नः, त्रि, (च्यवते इति । “जनिदाच्यु स्रिति ।”

उणां । ४ । १०४ । इति त्नण् ।) गमनकर्त्ता ।
अण्डजः । क्षीणपुण्यः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ बलम् । इत्युज्ज्वलदत्तः ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/चारं&oldid=43953" इत्यस्माद् प्रतिप्राप्तम्