शब्दकल्पद्रुमः/च

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/४०९

, चकारः । स तु व्यञ्जनषष्ठवर्णः । (द्वितीयवर्ग-

स्याद्यवर्णश्च ।) अस्योच्चारणस्थानं तालु । इति
व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “इचु-
यशानां तालु ।” इति । तथा च शिक्षायाम् ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
वङ्गाक्षरैरस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“चवर्णं शृणु सुश्रोणि ! चतुर्व्वर्गप्रदायकम् ।
कुण्डलीसहितं देवि ! स्वयं परमकुण्डली ॥
सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा ॥
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! ॥”
अपि च ।
“वार्त्ताकुवर्त्तुलाकार ऊर्द्ध्वाधः क्रमतो गतः ।
रेस्वात्रयेषु चन्द्राग्निसूर्य्यास्तिष्ठन्ति नित्यशः ।
शक्तिर्मात्रा तु विज्ञेया ध्यानमस्य प्रचक्ष्यते ॥”
तस्य ध्यानं यथा, वर्णोद्धारतन्त्रे
“तुषारकुन्दपुष्पाभां नानालङ्कारभूषिताम् ।
सदा षोडशवर्षीयां वराभयकरां पराम् ॥
शुक्लवस्त्रावृतकटिं शुक्लवस्त्रोत्तरीयिणीम् ।
वरदां शोभनां रम्यामष्टबाहुसमन्विताम् ॥
एवं ध्यात्वा चकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
तस्य नामानि यथा, नानातन्त्रेषु ।
“चः पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः ।
चर्म्ममुण्डधरो भूत्वा महिषाचारसम्बिनी ॥
एकरूपो रुचिः कूर्म्मश्चासुण्डा दीर्घबालुकः ।
वामवाहुर्म्मूलमाया चतुर्मूर्त्तिस्वरूपिणी ॥
दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः ।
चन्दनं चन्द्रमा दैवश्चेतनो वृश्चिको बुधः ॥
देवी केटमुखेच्छात्मा कौमारी पूर्ब्बफाल्गुनी ।
अनङ्गमेखला वायुर्म्मेदिनी च मूलावती ॥”
(मातृकान्यासे वामबाहुमूले एवास्य न्यस्यता ॥)

, व्य (चणति चिनोतीति वा । चण शब्दे चिञ्न

चित्यां वा + “अन्येष्वपि दृश्यते ।” ३ । २ ।
१०१ । इति ड ।) अन्वाचयः । यत्र एकस्य
प्राधान्येनापरस्य गौण्येनाख्यानं सोऽन्वाचयः ।
यथा । भो वटो ! भिक्षामट गाञ्चानय । भिक्षा-
मटनमत्र प्रधानं तत् कुर्व्वाणो यदि गां पश्यसि
तदा तामप्यानयेति नो चेत् भिक्षामेवाटेति ।
समाहारस्तिरोहितावयवभेदः इतरेतर उद्रिक्ता-
वयवभेदः । अतएव चार्थे द्बन्द्ब इति सूत्रं विधाय
चार्थोऽत्र समाहार इतरेतरश्चेति व्याख्याय
समाहारे अनभिव्यक्तावयवत्वात् एकवचनम् ।
इतरेतरयोगे संहन्यमानप्रधानत्वात् द्बिबहु-
वचनम् । यथा । “पाणिपादं अश्वबलीवर्द्दं ब्रह्म-
क्षत्त्रियविट्शूद्राः । प्लक्षन्यग्रोधाविति परैरुक्तम् ।
समुच्चितिः समुच्चयः प्राधान्येन क्वचित् क्रिया-
विषयेऽनेकस्य चीयमानता । यथा । धवांश्च
{??} छिन्धि । इति भरतः ॥ समाहारः ।
अन्योन्यार्थः । समुच्चयः । (यथा, मनुः । १२ । ८९ ।
“इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते ॥”)
पक्षान्तरम् । (यथा, हितोपदेशे ।
“मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः ।
तावच्च शोभते मूर्खो यावत् किञ्चिन् न भाषते ॥”
तथा च शकुन्तलायां १ मे अङ्के ।
“शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः
फलमिहास्य ।
अथवा भवितव्यानां द्बाराणि भवन्ति सर्व्वत्र ॥”)
पादपूरणम् । (यथा, रामायणे । १ । २० । १९ ।
“तेन सञ्चोदितौ तौ तु राक्षसौ च महाबलौ ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥”)
अवधारणम् । इति मेदिनी । चे । १२ ॥ हेतुः ।
इति त्रिकाण्डशेषः ॥

चः, पुं, (चणति शब्दायते इति । चण शब्दे +

“अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति
डः ।) चण्डेशः । (चिनोति स्वाङ्गानि सङ्कोचय-
तीति । चि + डः ।) कच्छपः । (चीयते उप-
चीयते क्रमशः कलाभिः प्रतिपदादिमारभ्ये-
त्यर्थः ।) चन्द्रः । (चिनोति सञ्चिनोति पर-
धनानि इति ।) चौरः । इति मेदिनी ॥ चे ।
१ ॥ निर्ब्बीजे दुर्जने च त्रि । इति शब्दरत्ना-
वली ॥

चक, इ भ्रान्तौ । सौत्रो धातुरयम् । इति कवि-

कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) इ, चङ्कुरः
रथे । इति दुर्गादासः ॥

चक, ञ ङ म प्रतिघाते । तृप्तौ । इति कविकल्प-

द्रुमः ॥) भ्वां-उभं-आत्मञ्च-सकं-अकञ्च-सेट् ।)
ञ, चकति चकते खलः साधुम् । ङ, चकते
जनस्तृप्यतीत्यर्थः । म, चकयति । इति दुर्गा-
दासः ॥

चकास, ऋ क्ष लु दीप्तौ । इति कविकल्पद्रुमः ॥

(अदां-परं-अकं-सेट् ।) ऋ, अचीचकासत् अच-
चकासत् । अनेकस्वरात् सन्वद्भावविकल्पः । क्ष,
चकासति । लु, चकास्ति । इति दुर्गादासः ॥

चकितं, त्रि, (चक भ्रान्तौ + क्तः ।) भीतम् । इति

त्रिकाण्डशेषः ॥ (यथा, कलाविलासे । २ । ८ ।
“दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽव-
गुण्ठनं कृत्वा ।
चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥
क्ली, भावे क्तः । भयम् । नायिकालङ्कारविशेषः ।
तल्लक्षणं यदुक्तं साहित्यदर्पणे । ३ । १२१ ।
“कुतीऽपि दयितस्याग्रे चकितं भयसम्भ्रमः ॥”)
“प्रियाग्रे चकितं भीतेरस्थानेऽपि भयंमहत् ।”
इत्युज्ज्वलनीलमणिः ॥
(स्त्री, छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् ।
“भात् समतनगैरष्टच्छेदे स्यादिह चकिता ॥”)

चकोरः, पुं स्त्री, (चकते चन्द्रकिरणेन तृप्यतीति ।

चक तृप्तौ + “कठिचकिभ्यामोरन् ।” उणां ।
१ । ६४ । इति ओरन् ।) पक्षिविशेषः । (यथा,
भागवते । ३ । २१ । ४३ ।
“सारसैश्चक्रवाकैश्च चकोरैर्बल्गुकूजितम् ॥”)
तत्पर्य्यायः । चन्द्रिकापायी २ कौमुदीजीवनः ३
अस्य मांसगुणाः । यथा, राजनिर्घण्टे ।
“चटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम् ।
तद्वच्चकोरजं मांसं वृष्यञ्च बलपुष्टिदम् ॥”
(“वातश्लेष्माधिको ज्ञेयः शीतलः शुक्रवर्द्धनः ।
अश्मरीं हन्ति विशदो बलकृन्मांसलक्षणः ॥
चकोरः शुकशारी च समदोषा गुणागुणैः ॥”
इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥
अस्य डिम्बगुणा यथा, चरके सूत्रस्थाने २७ अः ।
“धार्त्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ।
चटकानाञ्च यानि स्युरण्डानि च हितानि च ॥
रेतःक्षीणेषु कासेषु हृद्रोगेषु क्षतेषु च ।
मधुराण्यविपाकीनि सद्यो बलकराणि च ॥”)

चकोरकः, पुं स्त्री, (चकोर एव । चकोर +

स्वार्थे कन् ।) चकोरपक्षी । इत्यमरः । २ । ५ । ३५ ॥

चक्क, क अर्त्तौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) कोपधः । आद्यस्वरमध्यः । अर्त्तिः
पीडनम् । क, चक्कयति शत्रुं शूरः । इति दुर्गा-
दासः ॥

चक्रं, क्ली, (क्रियतेऽनेनेति । कृ + घञर्थे कः ।

कृञादीनामिति द्वित्वञ्च ।) व्रजः । समूहः ।
सैन्यम् । रथाङ्गम् । चाका इति भाषा ॥ (यथा,
याज्ञवल्क्ये । १ । ३५१ ।
“यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकार्य्येण विना दैवं न सिध्यति ॥”)
राष्ट्रम् । दम्भविशेषः । कुम्भकारोपकरणम्
कुमारेर चाक इति भाषा ॥ (यथा, याज्ञ
घल्क्ये । ३ । १४६ ।
“मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥”)
अस्त्रविशेषः । (यथा, रघुः । ७ । ४६ ।
“आधोरणानां गजसन्निपाते
शिरांसि चक्रैर्निशितैः क्षुराग्रैः ॥”)
जलावर्त्तः । इति मेदिनी ॥ भगवतः सुदर्शः
चक्रम् । (यथा, महाभारते । १ । १९ । ६ ।
“ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् ।
चक्रायुधेन चक्रेण पिवतोऽमृतमोजसा ॥”)
तस्य भगवन्मन्दिरे स्थापनविधिर्यथा, श्रीभाग
वते । ३ । १ । २३ ।
“अन्यानि चेह द्विजदेवदेवैः
कृतानि नानायतनानि विष्णोः ।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि
यद्दर्शनात् कृष्णमनुस्मरन्ति ॥”
“द्विजदेवैः ऋषिभिर्देवैश्च कृतानि अङ्गमङ्गं प्रति
वर्त्तन्ते इति प्रत्यङ्गान्यायुधानि तेषु मुख्यं चक्रं
तेनाङ्कितानि मूर्द्धन्यहेमकुम्भेषु चिह्नितानि
मन्दिराणि येषु तानि नानाविधानि विष्णो-
रायतनानि क्षेत्राणि तीर्थानि च आसिषेवे ।
येषां चक्राङ्कितमन्दिरवतां दर्शनात् श्रीकृष्ण-
स्मरणं भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥ *
अथ चक्रलक्षणम् ।
“द्वादशारन्तु षट्कोण बलयत्रयसंयुतम् ।
चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः ॥”
इति श्रीहरिभक्तिविलासे ४ विलासः ॥
पृष्ठ २/४१०
ग्रामजालम् । इति त्रिकाण्डशेषः ॥ तगरपुष्पम् ।
इति राजनिर्घण्टः ॥ व्यूहविशेषः । (एतस्य
लक्षणं यथा, --
“अष्टारं वर्त्तुलाकारं व्यूहचक्रं त्रिनाडिकम् ।
दण्डचतुष्टयं वाह्ये कर्त्तव्यञ्च चतुर्द्दिशम् ॥
पूर्ब्बदण्डाग्रतोऽन्यस्य दिनभाद्यं भमण्डलम् ।
प्रवेशे निर्गमे चैव त्रीणि त्रीणि प्रदक्षिणे ॥
शशिसंज्ञाष्टकं मध्ये तद्वाह्ये भानुसंज्ञकम् ।
तृतीयं राहुसंज्ञञ्च केतुर्द्दण्डचतुष्टये ॥
चन्द्रर्क्षे विजयो लाभः सूर्य्यर्क्षे मध्यमं फलम् ।
राहुधिष्ण्याष्टके विघ्नं मृत्युः केतुचतुष्टये ॥
एवमुक्तं चतुःस्थाने यद्दिने यस्य नामभम् ।
तद्दिने तत् फलं तस्य सर्व्वकार्य्येषु सर्व्वदा ॥”
एतच्चक्रन्तु भगवता द्रोणाचार्य्येण अभिमन्यु-
वधायैवाभिकल्पितम् । तत्र व्यूहमध्ये निर्म्माण-
प्रणाल्या कः कुत्र आसीदिति प्रदर्शयितुमाह ।
“चक्रव्यूहो महाराज ! आचार्य्येणाभिकल्पितः ।
तत्र शक्रोपमाः सर्व्वे राजानो विनिवेशिताः ॥
अवस्थानेषु वित्यस्ताः कुमाराः सूर्य्यवर्च्चसः ।
संघातो राजपुत्त्राणां सर्व्वे षामभवत्तदा ॥
कृतामिसमयाः सर्व्वे सुवर्णविकृतध्वजाः ।
रक्ताम्बरधराः सर्व्वे सर्व्वे रक्तविभूषणाः ॥
सर्व्वे रक्तपताकाश्च सर्व्वे वै हेममालिनः ।
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः ॥
सहिताः पर्य्यधावन्त कार्ष्णिं प्रति युयुत्सवः ।
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥
पौत्त्रं तव पुरस्कृत्य लक्षणं प्रियदर्शनम् ।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥
अन्योन्यं स्पर्द्धमानाश्चाप्यन्योन्यस्य हिते रताः ॥
दुर्य्योधनस्तु राजेन्द्र ! सैन्यमध्ये व्यवस्थितः ।
कर्णदुःशासनकृपैर्वृतो राजा महारथैः ॥
देवराजोपमः श्रीमान् श्वेतच्छत्राभिसंवृतः ।
चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः ।
सिन्धुराजस्तथाऽतिष्ठत् श्रीमान् मेरुरिवाचलः ॥
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ।
सुतास्तंव महाराज ! त्रिंशत्त्रिदशसन्निभाः ॥
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ।
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
तावकानां परेषाञ्च मृत्युं कृत्वा निवर्त्तनम् ॥”
इति महाभारते । ७ । ३३ । १३ -- २४ ॥)
तैलयन्त्रम् । इत्यमरटीकायां स्वामी ॥ (यथा,
आर्य्यासप्तशत्याम् । ५९२ ।
“स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ॥”
कालज्ञापकयन्त्रविशेषः । यथा, गोलाध्याये ।
“चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम् ।
धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्रखार्द्धञ्च ॥
तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम् ।
भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्तः ॥
तत्खार्द्धान्तश्च नता उन्नतनवसंगुणीकृतं द्युदलम् ।
द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥”
धातुमयं दारुमयं वा समं चक्रं कृत्वा तन्नेम्यां
शृङ्खलादिराधारः शिथिलः कार्य्यः । चक्रमध्ये
सूक्ष्मं सुषिरमाधारात् सुषिरोपगामिनी लम्ब-
वदूर्द्ध्वरेखा कार्य्या । तन्मध्यतोऽन्या तिर्य्यक्रेखा
चात्र कार्य्या । तच्चक्रं परिधौ भगणांशैरङ्क-
यित्वाधारात् त्रिभ इति नवतिभागान्तरे तिर्य्य-
ग्रेखा तत्परिधिसम्पाते धात्री क्षितिः कल्प्या ।
भार्द्धेऽन्तर ऊर्द्धरेखानेमिसम्पाते खार्द्धं कल्प्यम् ।
सुपिरे सूक्ष्मा शलाका प्रदातव्या । सा चाक्ष-
संज्ञा । तच्चक्रमर्काभिमुखनेमिकञ्च यथा भवति
तथाधारे धार्य्यम् । तथा धृतेऽक्षस्य छाया
परिधौ यत्र लगति तत्कुजचिह्नयोरन्तरे ये
अंशास्ते रवेरुन्नतांशाः । ये छायाखार्द्धयो-
रन्तरे ते नतांशा ज्ञेयाः । एवमत्र नतोन्नतांश-
ज्ञानमेव भवति । अतोऽन्यैर्घटिका अप्या-
नीताः । तद्यथा, तस्मिन्दिने गणितेन मध्यन्दि-
नोन्नतांशान् दिनार्द्धमानञ्च ज्ञात्वानुपातःकृतः ।
यदि मध्यन्दिनोन्नतांशैर्दिनार्द्धनाड्यो लभ्यन्ते
तदैभिः किमित्येवं स्थूला घठिकाः स्युः ॥ अथ
वेधेन ग्रहज्ञानमाह ।
“पैत्रर्क्षपुष्यान्तिमवारुणाना-
मृक्षद्वयं नेमिगतं यथा स्यात् ।
दूरेऽन्तरेऽल्पेषु भखेचरौ वा
तथात्र यन्त्रं सुधिया प्रधार्य्यम् ॥
नेमिस्थदृष्ट्याक्षगतं प्रपश्येत्
खेटञ्च धिष्ण्यस्य च योगताराम् ।
नेम्यङ्कयोरक्षयुजोस्तु मध्ये
येऽंशाःस्थिता भध्रुवको युतस्तैः ॥
प्रत्यक्स्थिते भेऽथ पुरःस्थिते तै
र्हीनो ध्रुवः स्यात् खचरस्य भुक्तम् ॥”
तत्र यन्त्रस्याधो नेम्यां दृष्टिं कृत्वीर्द्धनेम्यामुक्त-
र्क्षाणां मध्ये भद्वितयं युगषन्नेमिगतं यथा स्यात्
तथा यन्त्रं स्थिरं कृत्वा नेम्यां धिष्ण्ययोरेकतरं
स्थानमङ्कयेत् । ततोऽग्रे पृष्ठतो वा दृष्टिं चाल-
यित्वा ग्रहं विध्येत् । ग्रहः प्रायोऽक्षगतो
दृश्यते । अक्षमूलस्य ग्रहस्य चान्तरं शरो
ग्रहावधिः अक्षमूलं नेम्यां यत्र लग्नं दृश्यते
तत् स्थानमप्यङ्क्यम् । अथ भग्रहाङ्कयोर्मध्ये
येऽंशास्तैर्भध्रुवो युतः स्फुटग्रहो भवति यदा
ग्रहात् पश्चिमस्थं नक्षत्रम् । यदा पूर्ब्बस्थं
नक्षत्रं तदा भध्रुवो हीनः स्फुटग्रहो भवति ।
अथवाल्पशरं नक्षत्रं रोहिण्याद्यं ततो दूरे-
ऽन्तरे यदा ग्रहस्तदा तावेव विद्ध्वा प्रोक्तवद्-
ग्रहज्ञानम् । इति चक्रयन्त्रम् ॥ शरीरस्थ-
षट्चक्राणियथा । मूलाधारः १ स्वाधिष्ठानम् २
मणिपूरम् ३ अनाहतम् ४ विशुद्धम् ५ आज्ञा-
ख्यम् ६ । तद्यथा, --
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥
तदूर्द्धे कामबीजन्तु कलशान्तीन्दुनादकम् ।
तदूर्द्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥
तद्वाह्ये हेमवर्णाभं वसवर्णचतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥
तदूर्द्धेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।
बादिलान्तषडर्णेन युक्ताधिष्ठानसंज्ञकम् ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥
तदूर्द्धे नाभिदेशे तु मणिपूरं महाप्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥
मणिवद्भिन्नतत्पद्मं मणिपूरं तथोच्यते ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥
शिवेनाधिष्ठितं पद्मं विश्वालोकैककारणम् ।
तदूर्द्धेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् ।
तन्मध्ये बाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् ॥
शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ।
तेनाहताख्यं पद्मं तन्मुनिभिः परिकीर्त्तितम् ॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ॥
स्वरैः षोडशकैर्युक्तं धूम्रवर्णैर्महाप्रभम् ।
विशुद्धिं तनुते यस्मात् जीवस्य हंसलोकनात् ॥
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।
आज्ञाचक्रं तदूर्द्धे तु आत्मनाधिष्ठितं परम् ॥
आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ।
कैलासाख्यं तदूर्द्ध्वे तु बोधनीन्तु तदूर्द्ध्वतः ॥
एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ! ॥” * ॥
मन्त्रोद्धारार्थषट्चक्राणि यथा । कुलाकुल-
चक्रम् १ राशिचक्रम् २ नक्षत्रचक्रम् ३ अक-
थहचक्रम् ४ अकडमचक्रम् ५ ऋणिधनि-
चक्रम् ६ । तद्यथा, --
“कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह ।
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ॥
पञ्चह्रस्वाः पञ्चदीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ।
कादयः पञ्चशः ष क्ष ल स हान्ताः प्रकीर्त्तिताः ॥
तथा च ।
अ आ ए क च ट त प य षाः मारुताः ।
इ ई ऐ ख छ ठ थ फ र क्षाः आग्नेयाः ।
उ ऊ ओ ग ज ड द ब लाः पार्थिवाः ।
ऋ ॠ औ घ झ ढ ध भ व सा वारुणाः ।
ऌ ॡ अं ङ ञ ण न म श हाः नाभसाः ॥
साधकस्याक्षरं पूर्ब्बं मन्त्रस्यापि तदक्षरम् ।
यद्येकभूतदैवत्यं जानीयात् सकुलं हि तत् ॥
भौमस्य वारुणं मित्रमाग्नेयस्यापि मारुतम् ।
मारुतं पार्थिवानाञ्च शत्रुराग्नेयमम्भसाम् ॥
नाभसं सर्व्वमित्रं स्याद्बिरुद्धं नैव शीलयेत् ॥”
अथ राशिचक्रम् ।
“रेखाद्बयं पूर्ब्बपरागतं स्यात्
तन्मध्यतो याम्यकुवेरभेदात् ।
एकैकमीशाननिशाचरे तु
हुताशवाय्वोर्विलिखेत्ततोऽर्णान् ॥
वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान्
पञ्चेषुबाणशरपञ्चचतुष्टयार्णान् ।
मेषादितः प्रविलिखेत् सकलांस्तु वर्णान्
कन्यागतान् प्रविलिखेदथ शादिवर्णान् ॥
पृष्ठ २/४११
तेन अ आ इ ई मेषः । उ ऊ ऋ वृषः ।
ॠ ऌ ॡ मिथुनम् । ए ऐ कर्कटः । ओ औ
सिंहः । अं अः श ष स ह ल क्षाः कन्या ।
कवर्गस्तुला । चवर्गो वृश्चिकः । टवर्गो धनुः ।
तवर्गो मकरः । पवर्गः कुम्भः । यवर्गो मीनः ।
स्वराशीनामनुकूलं मन्त्रं भजेत् ।
राशीनां शुद्धता ज्ञेया त्यजेत् शत्रुं मृतिं व्ययम् ।
स्वराशेर्म्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥
यदा तु स्वराशेरज्ञानं तदा साधकानामाद्यक्षर-
सम्बन्धिनं राशिं गृहीत्वा गणयेत् ॥ * ॥
अथ नक्षत्रचक्रम् ।
“अ आ अश्विनी देवगणः । इ भरणी मानुषः ।
ई उ ऊ कृत्तिका राक्षसः । ऋ ॠ ऌ ॡ
रोहिणी मानुषः । ए मृगशिरो देवः । ऐ
आर्द्रा मानुषः । ओ औ पुनर्व्वसुर्देवः । क
पुष्यो देवः । ख ग अश्लेषा राक्षसः । घ ङ
मघा राक्षसः । च पूर्ब्बफल्गुनी मानुषः ।
छ ज उत्तरफल्गुनी मानुषः । झ ञ हस्ता
देवः । ट ठ चित्रा राक्षसः । ड स्वाती देवः ।
ढ ण विशाखा राक्षसः । त थ द अनुराधा
देवः । ध ज्येष्ठा राक्षसः । न प फ मूला-
राक्षसः । व पूर्ब्बाषाढा मानुषः । भ उत्तरा-
षाढा मानुषः । म श्रवणा देवः । य र धनिष्ठा
राक्षसः । ल शतभिषा राक्षसः । व श पूर्ब्ब-
भाद्रपदा मानुषः । ष स ह उत्तरभाद्रपदा
मानुषः । अं अः ल क्ष रेवती देवः ॥ तथा च ।
“अश्विन्यादिक्रमेणैव विलिखेत्तारकाः पुनः ।
वक्ष्यमाणविधानेन तन्मध्ये वर्णकान् लिखेत् ॥
उत्तराद्दक्षिणाग्रान्तु रेखां कुर्य्याच्चतुष्टयीम् ।
दश रेखाः पश्चिमाग्राः कर्त्तव्या वीरवन्दिते ! ॥
अकारादिक्षकारान्तान् द्विचन्द्रवह्निवेदकान् ।
भूमीन्द्रनेत्रचन्द्रांश्च अश्लेषान्तं खगौ प्रिये ! ॥
द्विभूनेत्रनेत्रयुग्मांश्चेन्दुनेत्राग्निचन्द्रकान् ।
मघादिज्येष्ठपर्य्यन्तं द्वितीयं नवतारकम् ॥
वह्निभूमीन्दुचन्द्रांश्च युग्मेन्दुनेत्रवह्निकान् ।
वेदेन भेदिता वर्णा रेवत्यंशगताः क्रमात् ॥
पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी ।
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥
ज्येष्ठाशतभिषामूलाधनिष्ठाश्लेषकृत्तिकाः ।
चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥
अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः ।
अनुराधामृगशिरःश्रवणा देवतारकाः ॥
स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु ।
रक्षोमानुषयोर्नाशो वैरं दानवदेवयोः ॥
जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥”
जन्मत्रिपञ्चसप्तानि वर्ज्जनीयानि नक्षत्राणि ।
स्वनक्षत्रादेव नक्षत्रं गणनीयम् । स्वनक्षत्राज्ञाने
स्वनामाद्यक्षरसम्बन्धिनक्षत्राद्गणनीयम् ॥ * ॥
अथाकथहचक्रम् ।
“चतुरसं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम् ।
पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु ॥
इन्द्वग्निरुद्रनवनेत्रयुगार्कदिक्षु
ऋत्वष्टषोडशचतुर्द्दशभौतिकेषु ।
पातालपञ्चदशवह्निहिमांशुकोष्ठे
वर्णान् लिखेत् लिपिभवान् क्रमशस्तु धीमान् ॥
नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ॥
पुनः कोष्ठगकोष्ठेषु सव्यतो नाम्न आदितः ।
सिद्बः साध्यः सुसिद्धोऽरिः क्रमाज्ज्ञेया मनी-
षिभिः ॥
सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः ।
सुसिद्धो ग्रहमात्रेण रिपुर्मूलं निकृन्तति ॥” * ॥
अथाकडमचक्रम् ।
“रेखाद्वयं पूर्ब्बपरेण कुर्य्यात्
तन्मध्यतो याम्यकुवेरभेदात् ।
महेशरक्षोऽधिपतिक्रमेण
तिर्य्यक् तथा वायुहुताशनेन ॥
आकारादिहकारान्तान् क्लीवहीनान् लिखे-
त्ततः ।
तथा ऋ ॠ वर्णद्वयं ऌ ऌ तद्धि क्लीवं प्रचक्षते ॥
एकैकक्रमतो लेख्यान् मेषादिषु वृषान्तकान् ।
गणयेत् क्रमशो भद्रे नामादिवर्णकादिमान् ॥
मेषादितश्च मीनान्तं गणयेत् क्रमशः सुधीः ।
जप्तुः स्वनामतो मन्त्री यावन्मन्त्रादिमाक्षरम् ॥
सिद्धसाध्यसुसिद्धारीन् पुनः सिद्धादयः पुनः ।
नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके ॥
सुसिद्धस्त्रिसप्तके रुद्रे वेदाष्टद्वादशे रिपुः ।
एतत्ते कथितं देवि ! अकडमादिकमुत्तमम् ॥
ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च ।
राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ॥”
अथ ऋणिधनिचक्रम् ।
“कोष्ठान्येकादशान्येव वेदेन पूरितानि च ।
अकारादिहकारान्तं लिखेत् कोष्ठेषु तत्त्ववित् ॥
प्रथमं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु ।
द्वयं द्वयं लिखेत्तत्र विचारे खलु साधकः ॥
शेषेष्वेकैकशो वर्णान् क्रमशस्तु लिखेत् सुधीः ॥
द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषु
शेषान् स्वरान् षट्सु षडेकमेकम् ।
कादीन् हशेषान् विलिखेत्ततोऽर्णा-
नेकैकमेकादशसु त्रिकेषु ॥
षट्कालकालवियदग्निसमुद्रवेद-
खाकाशशून्यदहनाः खलु साध्यवर्णाः ॥
युग्मद्विपञ्चवियदम्बरयुक्शशाङ्क-
व्योमाब्धिवेदशशिनः खलु साधकार्णाः ॥
नामाज्झलादकठवाद्गजभुक्तशेषं
ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ॥
मन्त्रो यद्यधिकाङ्कः स्यात् तदा मन्त्रं जपेत् सुधीः ।
समेऽपि च जपेन्मन्त्रं न जपेत्तु ऋणाधिके ॥
शून्ये मृत्युं विजानीयात्तस्माच्छून्यं विवर्जयेत् ॥”
इति तन्त्रसारः ॥ * ॥
अथोत्तरायणचक्रं यथा, --
“चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमं यत्
करोति
यस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूलेऽपि
दद्यात् ।
तत पश्चादारशूले विविधभयकरं शूलपार्श्वेर्थलाभः
सख्यं स्यात् शूलमध्य भवति च नियतं वित्त-
वामक्रमेण ॥”
केतुचक्रं यथा, --
“कण्ठे हृदि त्रिभयुगे क्रतुमानलाभौ
षट्पृष्ठभं क्षयकरं धनदं करे त्रिः ।
वामे चतुर्षु च रुजं पदयोस्तथाष्टौ
क्लेशो भयञ्च नितरामिह केतुचक्रम् ॥” * ॥
अहिचक्रं यथा, --
“अथाहिचक्रं वक्ष्यामि विभ्रान्तद्रव्यशल्ययोः ।
ऊर्द्ध्वं रेखाष्टकं लेख्यं तिर्य्यक् च पञ्चरेखिकाः ॥
स्थानद्वारमुखं चक्रमष्टाविंशतिकोष्ठकम् ।
तत्र पौष्णाश्वियाम्यर्क्षकृत्तिकामघभाग्यभम् ॥
उत्तराफल्गुनी लेख्या पूर्ब्बपङ्क्त्यां भसप्तकम् ।
अहिब्रध्नोऽजपादर्क्षं शतभं ब्राह्मसर्पभम् ॥
पुष्यं हस्तं समालेख्यं द्वितीयां पङ्क्तिमास्थितम् ।
अभिजिद्विष्णुवस्वृक्षं सौम्यं रौद्रं पुनर्व्वसुम् ॥
चित्रभञ्च तृतीयायां पङ्क्तौ धिष्ण्यस्य सप्तकम् ।
विश्वर्क्षं तोयभं मूलां ज्येष्ठामैत्रविशाखभम् ॥
स्वातीं पङ्क्तौ चतुर्थ्यान्तु कर्त्तव्यं पन्नगाकृति ।
द्वारशाखे मघा याम्ये द्वारस्था कृत्तिका ततः ॥
अश्वीशपूर्ब्बाषाढादित्रिकपञ्चचतुष्टयम् ।
रेवती पूर्ब्बभाद्रेन्दोर्भानि शेषाणि भास्वतः ॥
उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके ।
दिनेन्दुभुक्तयुक्तोऽसौ भवेत्तत्कालचन्द्रमाः ॥
चन्द्रवत्साधयेत् सूर्य्यमृक्षस्थञ्चेष्टकालिकम् ।
चन्द्र ऋक्षे यदार्केन्दू तदास्ति निश्चितं निधिः ॥
भानु ऋक्षे स्थितौ तौ चेत्तदा शल्यं न संशयः ।
स्वस्वभे द्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्य्यये ॥
स्थितं न लभ्यते द्रव्यं चन्द्रे क्रू रग्रहान्विते ।
पुष्टे चन्द्रे भवेन्मुद्रा क्षीणे चन्द्रेऽल्पको निधिः ॥
हेमतारञ्च ताम्रारं रत्नं कांस्यं तथा त्रपु ।
नागं चन्द्रे विजानीयाद्भास्करादिग्रहे क्षिते ॥
मिश्रैर्मिश्रं भवेत्द्रव्यं शून्यं दृष्टिविवर्जिते ॥
हेमतारञ्च ताम्रारं पाषाणं मृण्मयायसम् ।
सूर्य्यादिगृहगे चन्द्रे द्रव्यभाण्डं प्रजायते ॥
भुक्तराश्यंशमानेन भूमानं परिकल्पयेत् ।
नीचे द्बिघ्नं परे नीचे जलसंस्थो भवेन्निधिः ॥
स्वोच्चस्थे तूर्द्ध्वगं द्रव्यं नवांशकक्रमेण च ।
परमोच्चे भवेत्तुङ्गे भित्तिस्थमृक्षसंक्रमे ।
अधिष्ठितं भवेद्द्रव्यं यत्र चन्द्रो ग्रहान्वितः ॥” * ॥
कुलाकुलचक्रं यथा, --
“द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।
विषमाश्चाकुलाः सर्व्वाः शेषाश्च तिथयः कुलाः ॥
रविश्चन्द्रो गुरुः सौरिश्चत्वारोऽत्राकुला मताः ।
भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः ॥
वरुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।
कुलानि समधिष्ण्यानि शेषभान्यकुलानि च ॥
तिथौ वारे च नक्षत्रे अकुले यायिनो जयः ।
पृष्ठ २/४१२
कुलाख्ये स्थायिनो नूनं सन्धिश्चैव कुलाकुले ॥”
अथ कुम्भचक्रम ।
“कुम्भाकारं लिखेच्चक्रं तिर्य्यग्रेखाप्रभेदितम् ।
क्रमादूर्द्ध्वमधो लेख्यमेकैकान्तरभं क्रमात् ॥
भानुभानि लिखेत्तत्र रिक्तः पूर्ण इति क्रमात् ।
एवं राशिक्रमो लेख्यो रिक्तः पूर्ण इति द्विधा ॥
रिक्ते रिक्ता भवेद्यात्रा पूर्णे पूर्णा शुभावहा ॥”
अथ कोटचक्रम् ।
“अथातः सम्प्रवक्ष्यामि कोटचक्रमिहाष्टधा ।
स्तोकोऽरिः कुरुते यत्र भूरिसैन्यपराजयम् ॥
प्रथमो मृण्मयः कोटो द्वितीयो जलकोटकः ।
तृतीयो ग्रामकोटश्च चतुर्थस्तत्र गह्वरः ॥
पञ्चमो गिरिकोटश्च षष्ठः कोटश्च डामरः ।
सप्तमो वक्रभूमिष्ठो विषमाख्यस्तथाष्टमः ॥
मृमिये साधयेत् खण्डिं जलस्थे बन्धमोक्षणम् ॥
ग्रामदुर्गेऽग्निदाहञ्च प्रवेशं गह्वरे तथा ।
पर्व्वते स्थानभेदञ्च भूतलं डामरे रणे ॥
वक्रस्थे कवियोगञ्च विषमे स्थायियायिनौ ।
अतिदुर्गं कालकर्णं चक्रावर्त्तश्च टिङ्गनम् ॥
तुलावर्त्तश्च पद्माख्यो यक्षभेदश्च शार्व्वरम् ।
एतन्नामाष्टकं ज्ञेयं वर्गाष्टकक्रमेण च ॥
यस्य वर्गस्य ये भक्ष्या वर्ज्यास्तन्नामनागराः ।
योजयेत् तेन वर्गेण तद्बर्गास्तस्य भङ्गदाः ॥
अ गरुडः क मार्जारश्च सिंहष्ट शुनीसुतः ।
त सर्पश्च प आखुश्च य गजः श अजासुतः ॥
दुर्गवर्गस्य ये भक्ष्या वर्गनामस्थिता नराः ।
तद्वर्गे ते रणे त्याज्या न कर्त्तव्या गडाधिपाः ॥
अवर्गात् पञ्चमे स्थाने खण्डिभङ्गश्च जायते ।
अवर्गाद्यष्टकं ज्ञेयं पूर्ब्बाद्यष्टदिशां क्रमात् ॥
कोटचक्रं लिखेच्चादौ चतुरस्रं त्रिनाडिकम् ।
कृत्तिकादीनि धिष्ण्यानि साभिजिन्ति न्यसेद्बुधः ॥
वहिःकोटे तथा मध्ये कोटे मध्ये वहिर्वहिः ।
प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्वरवेदिभिः ॥
वहिर्द्वादशभान्यत्र प्राकारे तारकाष्टकम् ।
दुर्गमध्ये तथा चाष्टौ मध्ये स्तम्भचतुष्टयम् ॥
कृत्तिकापुष्यसर्पैश्च मघास्वातिविशाखभे ।
अनुराधाभिजिद्विष्णुर्घनिष्ठाश्वियमा वहिः ॥
ब्रह्मा पुनर्व्वसूभाग्यं चित्रा ज्येष्ठा तथोत्तराः ।
शतभं रेवती चैव प्राकारे तारकाष्टकम् ॥
मृगरौद्रोत्तरा हस्तं मूलमाषाढपूर्ब्बकम् ।
पूर्ब्बोत्तरा तथा भद्रा मध्ये ऋक्षाष्टकं विदुः ॥
पूर्ब्बे रौद्रं यमे हस्तं पूर्ब्बाषाढा च वारुणे ।
उत्तरे चोत्तरं भाद्रमेतत् स्तम्भचतुष्टयम् ॥
कृत्तिकाद्यं मघाद्यञ्च मैत्राद्यं वासवादिकम् ।
त्रीणि त्रीणि प्रवेशे च भानि द्वादश निर्गमे ॥
कृत्तिकादिरयं न्यासः सुबोधोऽयं प्रदर्शितः ।
दुर्गभाद्गणनञ्चात्र ग्रहैर्व्वाच्यं ततः फलम् ॥
चतुरस्रं तथावृत्तं त्रिकोणं वृत्तदीर्घकम् ।
अर्द्धचन्द्रं वर्त्तुलञ्च गोस्तनं धनुराकृति ॥
चतुरस्रे यथा न्यासो भूमिभागक्रमेण च ।
प्रवेशे निर्गमे स्तम्भे तथा वृत्तादिसप्तके ॥
दुर्गे भित्तिविभागेन दातव्यं धिष्ण्यमण्डलम् ।
वाह्यभे मध्यभे चैव यत्रस्थाः क्रूरखेचराः ॥
तत्र स्थाने कृते यत्ने हस्तिदुर्गं ससैनिकम् ।
ऊर्द्ध्वदृष्टी च भौमार्कौ केकरौ बुधभार्गवौ ॥
समदृष्टी च जीवेन्दु शनिराहू ह्यधोदृशौ ।
नाडीत्रये वहिर्मध्ये गर्भे नामादि लिख्यते ॥
कालपद्रौद्रशक्रेभ्यः पराक्रमविवक्षया ।
यातुर्भे कालनाडीस्थे मृत्युर्मध्यपदे स्थिते ॥
चौर्य्यक्षयोपतापाश्च रौद्रनाड्यां पुरग्रहः ।
क्रूरा गर्भे पुरं हन्ति प्राकारे खण्डिकारकाः ॥
वहिःस्था वेष्टके सैन्ये भङ्गदा नात्र संशयः ।
क्रूरा गर्भे शुभा वाह्ये गृह्यते निञ्चितं पुरम् ॥
सौम्या मध्ये वहिः क्रूरा असाध्यं दुर्गमुच्यते ।
क्रूरचतुष्ठयं मध्ये प्राकारे सौम्यखेचराः ॥
भेदाद्भङ्गो भवेद्दुर्गे विना युद्धेन गृह्यते ।
प्राकारे संस्थिताः क्रूरा मध्ये सौम्यग्रहा यदि ॥
दुर्गभङ्गे समुत्पन्ने भङ्गमायान्ति वेष्टकाः ।
मध्यनाडीस्थिताः सौम्याः क्रूरा वहिरवस्थिताः ॥
सैन्यावर्त्तो वहिः शत्रोर्विना युद्धेन जायते ।
प्राकारे पुरमध्ये च यदा क्रूरा व्यवस्थिताः ॥
सौम्या वाह्ये तदा दुर्गमयत्नेनापि सिध्यति ।
सौम्या मध्ये च कोटे च वाह्ये पापग्रहा यदि ॥
देवैर्ब्रह्मादिभिः कोटो गृह्यते न कदाचन ।
प्राकारवाह्यगाः क्रूराः सौम्या मध्यगता यदि ॥
युद्धं प्राकारखण्डिश्च पुरभेदो न जायते ।
स्तम्भान्तरगता यस्य ग्रहाः सौम्याः शुभान्विताः ॥
भवेयुस्तस्य कोटस्य न नाशो विद्यते क्वचित् ।
स्तम्भान्तरगता यस्य रविराहुशनैश्चराः ॥
भूमिपुत्त्रश्च तस्याशु नाशः कोटस्य निश्चितम् ।
सौम्या वाह्ये तथा कोटेमध्ये क्रूरग्रहाः स्थिताः ॥
स्वयं दुर्गं प्रयच्छन्ति वेष्टकाय गडाधिपाः ।
वाह्याभ्यन्तरगाः क्रूराः प्राकारे शोभनग्रहाः ॥
रिपुद्वयं क्षयं याति विना युद्धेन निश्चितम् ।
प्रकारस्था ग्रहाः क्रूरा वहिर्मध्येशुभाः स्थिताः ॥
समयुद्धं भवेत्तत्र खण्डिपातो दिने दिने ।
सौम्याः क्रूरास्तथा चाष्टौ प्राकारमध्यवाह्यगाः ॥
एकस्था यत्र कुर्व्वन्ति संग्रामस्तत्र दारुणम् ।
गजाश्वरथभूपालाः सामन्ता मण्डलेश्वराः ॥
कुर्व्वन्ति च भटा युद्धमुभयोरपि सैन्ययोः ।
विचार्य्य कुरुते युद्धं कोटचक्रं स्वरोदयी ॥
प्रवेशधिष्ण्यगे चन्द्रे जीवपक्षर्क्षसंस्थिते ।
निशीथे कविरणं दुर्गे कर्त्तव्यं वेष्टकैर्नृपैः ॥
कर्त्तव्यं कवियुद्धञ्च रात्रौ सुप्ते वहिर्जने ।
प्रवेशनिर्गमावुक्तौ सेनयोरुभयोरपि ॥
कवौ कोटे जयो युद्धे विपरीते पराजयः ।
विहाय प्रकृतं चारं वक्रं गच्छति चेद्गुरुः ॥
तदा प्राग्दिशिभङ्गः स्यात् रुद्धयोः पूर्ब्बसैन्ययोः ।
भौमे च वक्रिते भङ्गो भवेत् दक्षिणतोऽत्र च ॥
भवेत् पश्चिमतो भङ्गो भार्गवे वक्रगामिनि ।
बुधे वक्रगतौ चैव भङ्गश्चोत्तरतो भवेत् ॥
यदि तत्र स्थितौ स्यातां न जात्वर्कशनैश्चरौ ॥
क्रूरो वक्री प्रवेशर्क्षे पुरमध्ये स्थितो यदा ।
तदा कोटविनाशाय कोटस्थो वाह्यभूपतेः ॥
प्रवेशवाह्यगे क्रूरे वक्रे स्वसैन्यविग्रहः ।
दुर्भिक्षं मृत्युभङ्गौ च वहिः सैन्यस्य जायते ॥
निर्गमर्क्षे वहिःस्थे च क्रूरो वक्रं करोति चेत् ।
प्राकारस्य भवेद्भङ्गः प्राकारस्थे पुरस्य च ॥
पुरभे निर्गमे वक्राः कथञ्चित् क्रूरखेचराः ।
दुर्गं त्यक्त्वा तदा काले दुर्गस्थः प्रपलायते ॥
यथा क्रूरैस्तथा सौम्यैः फलं ग्राह्यं विपर्य्ययात् ।
मिश्रैर्मिश्रं विजानीयात् कोटचक्रे न संशयः ॥
दुर्गसैन्यं तथैवोच्चं प्राकारे मध्यभागगम् ।
नीचस्थं वेष्टकं सैन्यं ज्ञातव्यं स्वरवेदिभिः ॥
कोटे कोटाधिपे नीचौ विघ्नदौ भौमभास्करौ ।
समस्थौ च पुरे सर्व्वे उच्चस्थौ निष्फलौ च तौ ॥
प्राकारं वेष्टकं हन्ति उच्चस्थौ राहुसूर्य्यजौ ।
प्राकारस्थौ वहिःसैन्यं नीचस्थौ तौ च निष्फलौ ॥
सितेऽर्कपुत्त्रे तु रवौ गुरावज्ञसितेऽपि च ।
वक्रिता नैव शक्ताः स्युर्विधातुं कोटभेदनम् ॥
समदृष्ट्या गुरुश्चन्द्रः पश्यतः सर्व्वतः सदा ।
तिर्य्यक्स्थितौ बुधशुक्रौ फलदौ नात्र संशयः ॥
ऊर्द्ध्वदृष्टिग्रहे कुर्य्यात् टिङ्गनीयन्त्रवाहनम् ।
समे च साधयेत् खण्डिं रन्ध्रपातमधोमुखे ॥
कोटभं मुखपुच्छस्थं राहोर्यदि गलादिके ।
कोटश्च भज्यते क्षिप्रं पूर्ब्बोक्तविधिना चिरात् ॥
दुर्गमध्यगते सूर्य्ये जलशोषः प्रजायते ।
चन्द्रे भङ्गः कुजे दाहो बुधे बुद्धिबला नराः ॥
वाक्पतौ दुर्गमध्यस्थे सुभिक्षं प्रचुरं जलम् ।
चलचित्ता नराः शुक्रे मृत्युरोगौ शनैश्चरे ॥
राहौ मध्यगते दुर्गे भङ्गो भेदो महद्भयम् ।
केतौ मध्यगते तत्र विषादः स्याद्गडाधिपे ॥
सौरिश्च वाक्पतिश्चैव भवेतां दिशि संस्थितौ ।
यस्यां तया स कोटस्तु भज्यते नात्र संशयः ॥
इत्येवोक्तं फलं मध्ये एवं वाह्यगते ग्रहे ।
उपग्रहसमायोगादत्यन्तं प्राणसंशयः ॥
अकारादिस्वराः पञ्च पूर्ब्बाशादिचतुष्टये ।
मध्यान्ताः सव्यमालेख्या अन्तस्थाः खण्डि-
कारकाः ॥
दुर्गनाम्नः स्वरो यस्य बालो वास्तमितोऽपि वा ।
तद्दिने प्रारभेत् युद्धं दुर्गं सिध्यति नान्यथा ॥”
इति कोटचक्रम् ॥
इति समयामृतम् ॥ * ॥ चक्रान्तराणि तत्तच्छब्दे
द्रष्टव्यानि ॥ (चित्रकाव्यविशेषः । शब्दालङ्कार-
भेदः । अस्य च तथाविधलिपिसन्निवेशवशेन
चमत्कारिविधायिनामपि वर्णानां तथाविध-
श्रोत्राकाशसमवायविशेषवशेन चमत्कारि-
विधायिभिर्वर्णैरभेदेन उपचारत्वात् शब्दा-
लङ्कारत्वम् । उदाहरणं यथा, काव्यालङ्कारे ।
५ । ६ -- १३ ।
“मारारिशक्ररामेभमुखैरासाररंहसा ।
सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥
माता नतानां संघट्टः श्रियां बाधितसम्भ्रमा ।
मान्याथ सीमारामाणां शं मेदिश्यादुमादिजा ॥
मायाविनं महाहावा रसायातं लसद्भुजा ।
जातलीला यथा सारवाचं महिषमावधीः ॥
पृष्ठ २/४१३
मामभीदा शरण्यामुत्सदैवारुक्प्रदा च धीः ।
धीरा पवित्रा सन्त्रासात्त्रासीष्ठा मातरारम ॥
माननापरुषं लोकदेवों सद्रस सन्नम ।
मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥
मा मुषो राजस स्वासूंल्लोककूटेशदेवताम् ।
तां शिवावाशितां सिद्ध्याध्यासितां हि स्तुतां
स्तुहि ॥
माहिषाख्ये रणेऽन्या नु सा नु नानेयमत्र हि ।
हिमातङ्कादिवामुं च कं कम्पिनमुपप्लुतम् ॥
मातङ्गानङ्गविधिनामुना पादं तमुद्यतम् ।
तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा ॥”
अथ चक्रे वर्णविन्यासक्रमः ।

चक्रः, पुं, (करोति अस्फुटशब्दम् । कृ + बाहुलकात्

कः ततो निपातनात् द्वित्वे साधुः ।) चक्रवाक-
पक्षी । इत्यमरः । २ । ५ । २२ ॥

चक्रकः, त्रि, (चक्र इव कायति प्रकाशते इति । कै +

कः ।) तर्कविशेषः । तस्य लक्षणं यथा । स्वापेक्ष-
णीयापेक्षितसापेक्षितत्वनिबन्धनप्रसङ्गत्वम् ।
अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या ।
तत्राद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञान-
जन्यज्ञानजन्यं स्यात् तदा एतद्घटज्ञानजन्य-
ज्ञानभिन्नं स्यात् । द्वितीया यथा । घटोऽयं
यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्य-
जन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं
यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत
इति । इति तर्कशास्त्रम् ॥ (वेदान्तदर्शनमते तु
“स्वग्रहसापेक्षग्रहकत्वं आत्माश्रयः । स्वग्रहसापेक्ष-
ग्रहसापेक्षग्रहकत्वं अन्योन्याश्रयः । स्वग्रहसापेक्ष-
ग्रहसापेक्षग्रहसापेक्षग्रहकत्वम् चक्रकम् ॥”)

चक्रकारकं, क्ली, (चक्रं चक्रवदाकारं करोत्यात्मनः

वक्रनखाकृत्या इति शेषः । यद्वा चक्रं चक्रा-
कृतिरेखादिकं करोतीति । कृ + ण्बुल् ।) व्याघ्र-
नखनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२९ ॥

चक्रकुल्या, स्त्री, (चक्रस्य चक्राख्यौषधीलतावृक्ष-

भेदस्य कुल्या इव ।) चित्रपर्णी । इति शब्द-
चन्द्रिका ॥ चाकुलिया इति भाषा ॥ (चित्र-
पर्णिकाशब्दे ज्ञेयमस्या विवरणम् ॥)

चक्रगजः, पुं, (चक्रेण चक्राख्यया गज्यते शब्द्यते ।

यद्वा चक्रे चक्राकृतिदद्रुव्याधौ गज इव । गज
इव दद्रुरोगमर्द्दक इत्यर्थः ।) चक्रमर्द्दवृक्षः ।
इति राजनिर्घण्टः ॥

चक्रगण्डुः, पुं, (चक्रमिव वर्त्तुलाकारो गण्डुः ।)

वर्त्तुलाकारोपाधानम् । इति चतुरशब्दार्थे
हेमचन्द्रः ॥ गोलबालिश इति गालबालिश
इति च भाषा ॥

चक्रगुच्छः, पुं, (चक्रवद्गुच्छः पुष्पगुच्छोऽस्मिन् अस्य

वा ।) अशोकवृक्षः । इति शब्दचन्द्रिका ॥

चक्रजीवकः, पुं, (चक्रेण कुम्भाद्युत्पादनयन्त्र-

विशेषेण जीवतीति । जीव + ण्वुल् ।) कुम्भ-
कारः । इति हेमचन्द्रः ॥

चक्रदंष्ट्रः, पुं, (चक्रं चक्राकृतिर्दंष्ट्रायां यस्य चक्रमिव

दंष्ट्रा यस्येति वा ।) शूकरः । इति राजनिर्घण्टः ॥

चक्रदन्ती, स्त्री, (चक्रमिव दन्तरूपमिव च इत्येके ।)

दन्तीवृक्षः । इति राजनिर्घण्टः ॥

चक्रदन्तीबीजं, क्ली, (चक्रदन्त्या बीजम् ।) जय-

पालः । इति राजनिर्घण्टः ॥

चक्रधरः, पुं, (धरतीति । धृ + अच् । चक्रं

सुदर्शनाख्यं द्बादशारादिलक्षणलक्षितमस्त्रम् ।
तस्य धरः । चक्रं धरति धारयतीति वा ।)
विष्णुः । (यथा, रघुः । १६ । ५५ ।
“विगाहितुं श्रीमहिमानुरूपं
प्रचक्रमे चक्रधरप्रभावः ॥”
चक्रं फणा तस्य धरः ।) सर्पः । (यथा, महा-
भारते । ३ । ८५ । ७० ।
“अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे ।
तथा नागाः सुपर्णाश्च सिद्धाश्चक्रधरास्तथा ॥”)
ग्रामजालिनि त्रि । इति मेदिनी ॥ (यथा,
महाभारते । ३ । ८५ । ७६ ।
“यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥”)

चक्रनखः, पुं, (चक्रमिव नखः नखाकृत्यंशविशेषो-

ऽस्त्यस्य इति । “अर्श आदिभ्योच्” इत्यच् ।)
व्याघ्रनखनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

चक्रनामा, [न्] पुं, (चक्रं सरघानिर्म्मितमधु-

चक्रं तन्नामैव नामास्य ।) माक्षिकधातुः । इति
हेमचन्द्रः ॥

चक्रनायकः, पुं, (चक्रं कर्षणजन्यचक्राकाररेखा-

दिकं नयतीति । नी + ण्वुल् ।) व्याघ्रनखः । इति
राजनिर्घण्टः ॥ (चक्रस्य नायके त्रि ॥)

चक्रपद्माटः, पुं, (चक्रं चक्रवत् यत् पद्मं दद्रुरोगः

तत्र अटति तं मृद्नातीत्यर्थः ।) चक्रमर्द्दक-
वृक्षः । इति शब्दरत्नावली ॥

चक्रपरिव्याधः, पुं, (चक्रं दद्रुरोगं परिविध्यतीति ।

परि + अध + अण् ।) आरग्बधवृक्षः । इति
वैद्यकम् ॥

चक्रपर्णी, स्त्री, (चक्राकारं पर्णमस्या इति ।

जातौ संज्ञायां वा ङीष् ।) चक्रकुल्यालता ।
इति शब्दचन्द्रिका ॥

चक्रपाणिः, पुं, (चक्रं सुदर्शनास्त्रं षाणौ यस्य ।

व्यधिकरणबहुब्रीहिसमासः ।) विष्णुः । इत्य-
मरः । १ । १ । २० ॥ (यथा, विष्णोरष्टोत्तर-
शतनामकीर्त्तने ।
“वैकुण्ठश्चाच्युतो रामश्चक्रपाणिरधोऽक्षजः ॥”)

चक्रपादः, पुं, (चक्रं पाद इवास्य ।) रथः ।

(चक्रवत् पादा यस्य ।) हस्ती । इत्यजयपालः ॥

चक्रपुष्करिणी, स्त्री, (चक्रेण विष्णुचक्रेण खनिता

पुष्करिणी ।) मणिकर्णिका । इति काशीखण्डम् ॥

चक्रफलं, क्ली, (चक्राकारं फलं फलकमस्य ।)

अस्त्रविशेषः । तत्पर्य्यायः । अट्टनम् २ । इति
त्रिकाण्डशेषः ॥

चक्रबान्धवः, पुं, (चक्रस्य पद्मस्य बान्धवः बन्धुः ।)

सूर्य्यः । इति हेमचन्द्रः ॥

चक्रभृत्, [द्] पुं, (चक्रं बिभर्त्तीति । भृ +

क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥ (यथा, राज-
तरङ्गिण्याम् । १ । ३८ ।
“चक्रभृद्विजयेशादिकेशवे गानभूषिते ॥”)

चक्रभेदिनी, स्त्री, (चक्रं चक्रवाकमिथुनं भिनत्ति

पृथक् करोतीति । भिद् + णिनिः । ततो ङीप् ।
निशायां हि चक्रवाकयोर्वियोजनं भवतीति
लोकप्रसिद्धम् ।) रात्रिः । इति त्रिकाण्डशेषः ॥

चक्रमण्डली, [न्] पुं, (चक्राकारेण यन्मण्डलं

तदस्त्यस्य इति इनिः ।) अजगरसर्पः । इति
हेमचन्द्रः ॥

चक्रमर्द्दः, पुं, (चक्रं चक्राकारदद्रुरोगं मृद्नातीति ।

मृद् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
क्षुपविशेषः । चाकुन्दिया इति भाषा ॥ तत्-
पर्य्यायः । एडगजः २ अडगजः ३ गजाख्यः ४
मेषाह्वयः ५ एडहस्ती ६ व्यावर्त्तकः ७ चक्र-
गजः ८ चक्री ९ पुन्नाटः १० पुन्नाडः ११ विम-
र्द्दकः १२ दद्रुघ्नः १३ तर्व्वटः १४ चक्राह्वः १५
शुकनाशनः १६ दृढबीजः १७ प्रपुन्नाडः १८
खर्ज्जुघ्नः १९ । इति राजनिर्घण्टः ॥ चक्र-
मर्द्दकः २० पद्माटः २१ उरणाख्यः २२ । इत्य-
मरः । २ । ४ । १४७ ॥ प्रपुन्नडः २३ प्रपुनाडः २४
उरणाक्षः २५ । इति तट्टीका ॥ अस्य गुणाः ।
कटुत्वम् । तीव्रत्वम् । मेदोवातकफकण्डूकुष्ठदद्रु-
पामादिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
लघुत्वम् । स्वादुत्वम् । रूक्षत्वम् । पित्तश्वास-
कृमिनाशित्वम् । हृद्यत्वम् । हिमत्वञ्च । तत्
फलगुणाः । उष्णताकुष्ठकण्डुदद्रुविषानिलगुल्म-
कासकृमिश्वासनाशित्वम् । कटुत्वञ्च । इति भाव-
प्रकाशः ॥ (अस्य गुणाः पर्य्यायाश्च यथा, भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“चक्रमर्द्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः ।
पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि ॥
चक्रमर्द्दो लघुः स्वादू रूक्षः पित्तानिलापहः ।
हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत् ॥
हन्त्युष्णन्तत्फलं कुष्ठकण्डूदद्रुविषानिलान् ।
गुल्मकासक्रिमिश्वासनाशनं कटुकं स्मृतम् ॥”)

चक्रमर्द्दकः, पुं, (चक्रं दद्रुरोगविशेषं मृद्नातीति ।

मृद् + ण्वुल् ।) चक्रमर्द्दः । इत्यमरः । २ । ४
१४७ ॥ (स्त्रियान्तु कापि अत इत्वञ्च ।
पृष्ठ २/४१४
राजमातृविशेषः । यथा, राजतरङ्गिण्यां । ४ । २१३ ।
“ललितादित्यभूभर्त्तुर्वल्लभा चक्रमर्द्दिका ॥”)

चक्रयानं, क्ली, (चक्रेण अन्वितं यानम् ।)

रथादि । चक्रयुक्तवाहनम् । इत्यमरटीकायां
रायमुकुटादयः ॥

चक्ररदः, पुं, (चक्रवद्वृत्तो रदः दन्तोऽस्येति ।)

शूकरः । इति त्रिकाण्डशेषः ॥

चक्रलक्षणा, स्त्री, (चक्रे चक्राकारे दद्रौ मण्डला-

कारे कुष्ठादौ वा लक्षणं आरोग्याय चिह्नं
आरोग्यसूचनमित्यर्थः यस्याः ।) गुडूची । इति
रत्नमाला ॥ (चक्रं लक्षणं यस्य इति व्युत्पत्त्या ।
रथे विष्णौ च पुं ॥)

चक्रलताम्रः, पुं, (चक् + रक् । चक्रः तृप्तिजनकः

लताम्रः यत्र यस्य वा ।) बद्धरसालवृक्षः । इति
राजनिर्घण्टः ॥

चक्रला, स्त्री, (चक्रं चक्राकारं लाति आदत्ते

चक्राकारेण वर्द्धत इति यावत् । ला + कः तत-
ष्टाप् ।) उच्चटा । इत्यमरः । २ । ४ । १६० ॥

चक्रवर्त्तिनी, स्त्री, (चक्राकारेण वर्त्तते इति ।

वृत् + णिनिः ।) जनीनामगन्धद्रव्यम् । इत्य-
मरः । २ । ४ । १५३ ॥ अलक्तकः । जटामांसी ।
इति राजनिर्घण्टः ॥ (चक्रं पृथ्वीचक्रं वर्त्तते
अस्यां यद्वा चक्रं सेनाचक्रं अशेषव्यूहरच-
नयाधिष्ठितं सेनावृन्दं वर्त्तयितुं शीलमस्या
इति । सर्व्वभूमेरधीश्वरी ॥ चक्रेषु समूहेषु
वर्त्तते या । यूथेश्वरी । यथा, कथासरित्-
सागरे । २० । ११४ ।
“एवं बाल्येऽपि जाताहं डाकिनीचक्रवर्त्तिनी ॥”)

चक्रवर्त्ती, [न्] पुं, (चक्रं पद्माकारशुभचिह्नं

करे वर्त्तते यस्य । वृत् + णिनिः । यद्वा चक्रं
पृथ्वीचक्रं तेन वर्त्तते इति । वृत + णिनिः ।)
समुद्रपरिवृतायाः सर्व्वभूमेरीश्वरः । तत्पर्य्यायः ।
सार्व्वभौमः २ । इत्यमरः । २ । ८ । २ ॥ (यथा,
शकुन्तलायां १ म अङ्के ।
“जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्त्रमेवं गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥”)
वास्तूकम् । इति राजनिर्घण्टः ॥ (श्रेष्ठः । यथा,
गीतगोविन्दे । १ । २ ।
“वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्त्ती ॥”
“चारणचक्रवर्त्ती नर्त्तकश्रेष्ठः ।” इति तट्टी-
कायां चैतन्यदासः । यद्वा पद्मावती महालक्ष्मीः
राधा तस्याश्चरणचारर्णे परिचर्य्यायां यच्चक्रं
मण्डलं तत्र वर्त्तते इति व्युत्पत्त्या वैष्णवसम्प्र-
दाचिविशेषः ॥)

चक्रवाकः, पुं स्त्री, (चक्र इत्याख्यया उच्यतेऽसौ ।

वच + कर्म्मणि घञ् । ततो “न्यङ्कादीनाञ्च ।”
७ । ३ । ५३ । इति कुत्वम् ।) पक्षिविशेषः ।
चकाचकि इति भाषा ॥ (यथा, महाभारते ।
१ । ६६ । ५९ ।
“धृतराष्ट्री तु हंसांश्च कलहसांश्च सर्व्वशः ।
चकवाकांश्च भद्रं ते जनयामास सैव तु ॥”)
तत्पर्य्यायः । कोकः २ चक्रः ३ रथाङ्गाह्वय-
नामकः ४ । इत्यमरः । २ । ५ । २२ ॥ भूरि-
प्रेमा ५ द्वन्द्वचारी ६ सहायः ७ कान्तः ८
कामी ९ रात्रिविश्लेषगामी १० रामावक्षोजो-
पमः ११ कामुकः १२ । अस्य मांसगुणाः ।
लघुत्वम् । स्निग्धत्वम् । बलप्रदत्वञ्च । इति
राजनिर्घण्टः ॥ (यथा, चरके सूत्रस्थाने २७ अ ।
“चक्रवाकास्तथान्ये च खगाः सन्त्यम्बुचारिणः ।”)

चक्रवाटः, पुं, (चक्रेण चक्राकारेण वाटः वेष्टनं

यस्य ।) क्रियारोहः । पर्य्यन्तः । शिखातरुः ।
इति मेदिनी । टे । ६२ ॥

चक्रवाडं, क्ली, (चक्रवद् वाडते वेष्टयतीति । वाड

+ अच् ।) चक्रबालम् । इत्यमरटीकायां भरतः ॥
पर्व्वतविशेवे पुं । इति मेदिनी । डे । ३८ ॥

चक्रवातः, पुं, (चक्रवद्वातः । तृणपांश्वादीन्घा-

दाय चक्राकारेण भ्राम्यति यो वायुरिति यावत् ।)
भ्रमिवातः । घूर्णवातास इति भाषा ॥ तत्-
पर्य्यायः । वात्या २ । यथा, भागवते । १० ।
७ । २० ।
“दैत्यो नाम्ना तृणावर्त्तः कंसभृत्यः प्रचोदितः ।
चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥”

चक्रवालं, क्ली, (चक्रमिव वाडते वेष्टयतीति ।

वाड + अच् । डस्य लत्वम् ।) मण्डलाकारेण
परिणतं समूहमात्रम् । मण्डलाकारो दिक्-
समूहः इति माधवी । इति भरतः ॥ तत्-
पर्य्यायः । मण्डलम् २ । इत्यमरः । १ । ३ । ६ ॥
(यथा, भागवते । ५ । १८ । १४ ।
“हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोऽभयम् ॥”)

चक्रवालः, पुं, (चक्रेण चक्राकारेण वलते लोका-

लोकौ परिवेष्ट्य विराजते इत्यर्थः । वल + बाहु-
लकात् णः । अस्य पर्व्वतस्य लोकालोकपरि-
वेष्टनकारितयाविराजमानत्वात्तथात्वम् ।) लोका-
लोकपर्व्वतः । इत्यमरः । २ । ३ । २ ॥ (मनुष्यादीनां
मण्डलाकारेणस्थितिः । यथा, हरिवंशे । ७६ । ३५ ।
“एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः ।
शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ॥”)

चक्रवृद्धिः, स्त्री, (चक्रमिव चक्रभ्रमणमिव वृद्धिः

उत्तरोत्तरं वृद्धेरपि वृद्धिरित्यर्थः ।) यत्र वृद्धि-
रूपं धनं दातुमशक्तोऽधमर्णः सवृद्धिकमिदं
दास्यामीतिस्वीकरोति तत्र यावृद्धिः सा । सुदेर
मुद इति भाषा । यथाह नारदः ।
“वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥”
(तथाच मनुः । ८ । १५३ ।
“चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ।”
“कायिका कायसंयुक्ता मासग्राह्या च कालिका ।
वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता ॥”
इति तट्टीकायां कुल्लूकभट्टधृतबृहस्पतिवचनम् ॥)

चक्रव्यूहः, पुं, (चक्रवत् मण्डलाकारेण रचितो-

व्यूहः रचनयाधिष्ठापितः सेनासमूह इति
यावत् ।) युद्धार्थमण्डलाकारेण सैन्यरचना ।
(एतस्य रचनालक्षणादिश्चक्रशब्दे द्रष्टव्यः ॥
व्यूहोऽयमभिमन्युवधेप्सुना भगवता द्रोणाचाय्ये-
णाभिकल्पितः । यथा, महाभारते । ७ । ३३ ।
१२ -- २३ ।
“चक्रव्यूहो महाराज ! आचार्य्येणाभिकल्पितः ।
तत्र शक्रोपमाः सर्व्वे राजानो विनिवेशिताः ॥
अवस्थानेषु विन्यस्ताः कुमाराः सूर्य्यवर्च्चसः ।
सङ्घातो राजपुत्त्राणां सर्व्वेषामभवत्तदा ॥
कृताभिसमयाः सर्व्वे सुवर्णविकृतध्वजाः ।
रक्ताम्बरधराः सर्व्वे सर्व्वे रक्तविभूषणाः ॥
सर्व्वे रक्तपताकाश्च सर्व्वे वै हेममालिनः ।
चन्दनागुरुदिग्धाङ्गाः सग्विणः सूक्ष्मवाससः ॥
सहिताः पर्य्यधावन्त कार्ष्णिं प्रति युयुत्सवः ।
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥
पौत्त्रं तव पुरस्कृत्य लक्षणं प्रियदर्शनम् ।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥
अन्योन्यं स्पर्द्धमानाश्चाप्यन्योन्यस्य हिते रताः ।
दुर्य्योधनस्तु राजेन्द्र ! सैन्यमध्ये व्यवस्थितः ॥
कर्णदुःशासनकृपैर्वृतो राजा महारथैः ।
देवराजोपमः श्रीमान् श्वेतच्छत्त्राभिसंवृतः ॥
चामरव्यजनाक्षेपैरुदयन्निव भास्करः ।
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः ॥
सिन्धुराजस्तथाऽतिष्ठत् श्रीमान् मेरुरिवाचलः ।
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ॥
सुतास्तव महाराज ! त्रिंशत्त्रिदशसन्निभाः ।
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ।
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥”)

चक्रशल्या, स्त्री, (चक्रवत् चक्राकारेण वा शल्य

मत्र ।) काकतुण्डी । श्वेतगुञ्जा । इति राज-
निर्घण्टः ॥

चक्रश्रेणी, स्त्री, (चक्रमिव चक्राणां वा श्रेणी

यत्र ।) अजशृङ्गीवृक्षः । इति रत्नमाला ॥

चक्रसंज्ञं, क्ली, (चक्रेण वैद्यकयोगचक्रे ण संज्ञायते

इति । सं + ज्ञा + कः । चक्रस्य संज्ञा संज्ञा
यस्य इति वा ।) वङ्गम् । इति हेमचन्द्रः ॥

चक्रसंवरः, पुं, (चक्रं अविद्याकामकर्म्मादिजन्य-

विषयवासनासमूहं इन्द्रियाणां समूहं वा
संवृणोति संशमयतीति । सं + वृ + अच् ।)
बुद्धभेदः । तत्पर्य्यायः । हेरम्बः २ हेरुकः ३
देवः ४ वज्रकपाली ५ निशुम्भी ६ शशिशेखरः
७ वज्रटीकः ८ । इति त्रिकाण्डशेषः ॥

चक्रा, स्त्री, (चक् तृप्तौ + रक् । ततष्ठाप् ।) नागर-

सुस्ता । कर्क्कटशृङ्गी । इति राजनिर्घण्टः ॥

चक्राङ्की, स्त्री, (चक्रेण चक्राकारेण अङ्कते गच्छती-

त्यर्थः । अकि गतौ + अच् ततो ङीष् ।) हंसी ।
इति शब्दरत्नावली ॥ चक्राकी च पाठः ॥

चक्राङ्गः, पुं, स्त्री, (चक्रेण चक्राकारेण अङ्गति

गच्छतीति । अङ्ग + अच्) हंसः । इत्यमरः ।
२ । ५ । २३ ॥ (यथा, महाभारते । ८ । ४१ । २१ ।
“इदमूचुःस्म चक्राङ्गावचः काकं विहङ्गमाः ॥”-
चक्रमङ्गमस्येति व्युत्पत्त्या रथोऽपि ॥ (चक्र)
वाकः । यथा, मनुः । ५ । १२ ।
“कलविङ्कं प्लवं हंसं चक्राङ्गं ग्राम्यकुक्कुटम् ॥”)
पृष्ठ २/४१५

चक्राङ्गा, स्त्री, (चक्रमिवाङ्गमस्त्यस्याः इति ।

“अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच्
ततष्टाप् ।) सुदर्शना लता । इति रत्नमाला ॥

चक्राङ्गी, स्त्री, (चक्राङ्ग + जातौ ङीष् ।) कटु-

रोहिणी । इति मेदिनी । गे । ३५ ॥ (अस्याः
पर्य्यायाः यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा ।
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥
मत्स्यपित्ता काण्डरुहारोहिणी कटुरोहिणी ॥”)
हंसी । इति शब्दरत्नावली ॥ हिलमोचिका ।
इति त्रिकाण्डशेषः ॥ मञ्जिष्ठा । वृषपर्णी । इति
राजनिर्घण्टः ॥ कर्क्कटशृङ्गी । इति रत्नमाला ॥

चक्राटः, पुं, (चक्रं धूर्त्तताजालं शाठ्यसमूहं

आलम्ब्य अटतीति । अट् + अच् ।) विषवैद्यः ।
धूर्त्तः । दीनारः । इति मेदिनी । टे । ४२ ॥

चक्राणः, त्रि, (चक्रे कर्म्मादिकं इति । कृ + कान

प्रत्ययः । ततो धातौ अभ्यस्ते णत्वम् ।)
कृतवान् । कर्म्मवाच्ये कृतः । भाववाच्ये क्ली
कृतम् । इति मुग्धबोधव्याकरणं तट्टीका च ॥

चक्राधिवासी, [न्] पुं, (चक् तृप्तौ + रक् । चक्रं

तृप्तिजनकं अधिवासयतीति । अधि + वस् +
णिच् + णिनिः ।) नागरङ्गवृक्षः । इति
त्रिकाण्डशेषः ॥

चक्रावर्त्तः पुं, (चक्राकारः आवर्त्तः ।) घूर्णनम् ।

इति हेमचन्द्रः ॥

चक्राह्वः, पुं, (चक्र इत्याह्वा संज्ञा यस्य ।)

चक्रमर्द्दः । इति राजनिर्घण्टः ॥ (चक्रवाक-
पक्षिविशेषः । यथा, भागवते । ३ । १० । २४ ।
“हंससारसचक्राह्वकाकोलूकादयः खगाः ॥”
यथाच, हारीते प्रथमस्थाने ११ अध्याये ।
“चक्राह्वोऽतिकषायशुक्रजननो वृष्योऽतिरुच्यो-
मृदुः ॥”)

चक्रिः, पुं, (करोतीति । कृ + “आदृगमहनजनः

किकिनौ लिट् च ।” ३ । २ । १७१ । इति किन् ।
स च लिड्वत् ।) कर्त्ता । इति मुग्धबोधम् ॥
(यथा, ऋग्वेदे । १ । ९ । २ ।
“चक्रिं विश्वानि चक्रये ।”
“चक्रये पुरुषार्थकरणशीलाय ॥” इति दया-
नन्दकृतभाष्यम् ॥)

चक्रिका, स्त्री, (चक्रं चक्रवद्गोलाकारो विद्यते

अत्रास्या वा । चक्र + ठन् टाप् च ।) जानु ।
इति राजनिर्घण्टः ॥ (यथा, राजतरङ्गिण्याम् ।
४ । ३७६ ।
“अथोभयधनादायि भृत्यचक्रिकया समम् ॥”)

चक्री, [न्] पुं, (चक्रं सुदर्शनास्त्रं मनस्तत्त्वा-

त्मकमिति यावत् अस्यास्तीति । चक्र + इनिः ।)
विष्णुः । (यथा, महाभारते । १३ । १४९ । ११० ।
“अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः ॥”
चक्रं ग्रामचक्रं ग्रामसमूह इत्यर्थः अधिकारि-
तयास्त्यस्य इति इनिः ।) ग्रामजालिकः ।
(चक्रं चक्राकारचिह्नविशेषोऽस्त्यस्य ।) चक्र-
वाकः । (चक्रं घटादिनिर्म्माणकरणयन्त्रविशेषः ।
सोऽस्त्यस्य इति ।) कुलालः । (चक्रं फणा अस्त्यस्य
इति ।) सर्पः । सूचकः । इति विश्वमेदिन्यौ ॥
अजः । तैलिकभेदः । इति शब्दरत्नावली ॥
चक्रवर्त्ती । इति हेमचन्द्रः ॥ चक्रमर्द्दः ।
तिनिशः । व्यालनखः । काकः । खरः । इति
राजनिर्घण्टः ॥ (कुलालतैलिकराजचक्रवर्त्त्या-
द्यर्थे प्रमाणं यथा आर्य्यासप्तशत्याम् । ५९२ ।
“स्नेहमयान् पीडयतः किं चक्रेणापि तैल-
कारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं
चक्री ॥”)
चक्रविशिष्टे त्रि ॥ (चक्रयुक्तरथादियानारूढः ।
यथाह मनुः । २ । १३८ ।
“चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ॥”
“चक्रिणः चक्रयुक्तरथादियानारूढस्य ॥”
इति तट्टीकायां कुल्लूकभट्टः ॥”)

चक्रीवान्, [त्] पुं, स्त्री, (“आसन्दीवदष्ठीव-

च्चक्रीवदिति ।” ८ । ३ । १२ । चक्रशब्दस्य चक्री-
भावः ततो निपातनात् साधुरिति ।) गर्द्दभः ।
इत्यमरः ॥ राजविशेषः । इति सिद्धान्तकौमुदी ॥

चक्रुः, पुं, (करोतीति । कृ + “कुर्भ्रश्च ।” उणां

१ । २२ । इति कुः ।) कर्त्ता । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

चक्रेश्वरी, स्त्री, (चक्राणां जिनविशेषाणां ईश्वरी

अधिष्ठात्री ।) जिनानां विद्यादेवीविशेषः ।
इति हेमचन्द्रः ॥

चक्ष, ल ङ वदे । इति कविकल्पद्रुमः ॥ (अदां-

आत्मं-सकं-सेट् ।) वदः कथनम् । (दर्शने च
इति केचित् ।) ल ङ, आचष्टे धर्म्मं धीरः ।
तृतीयस्वरानुबन्ध इति प्राञ्चः । इकार उच्चा-
रणार्थ इति केचित् । छन्दसि नुणागमार्थ इति
केचित् । वेदेषूच्चारणार्थ इति केचित् । अत्र
बहवस्तु तृतीयस्वरो भ्रमकारितः किन्तु चतुर्थ-
स्वरानुबन्धोऽयं निष्ठाया इम्निषेधार्थः तेन
वर्ज्जनार्थे ख्याञकसाञादेशयोरप्राप्तौ आचष्टं
वर्ज्जनमित्याहुः । इति दुर्गादासः ॥

चक्षणं, क्ली, (चक्ष्यते कथ्यते मद्यपानाय मद्य-

पानेन सह वा । चक्ष + ल्युट् । यद्वा, चष्यते
भक्ष्यते मद्यमनेनेति । चष + ल्युट् निपातनात्
कान्तागमश्च ।) मद्यपानरोचकभक्ष्यद्रव्यम् । इति
हेमचन्द्रः । ३ । ५ । ७१ ॥ (चक्ष + भावे ल्युट् ।)
कथनम् । (दर्शनम् । यथा, ऋग्वेदे । १ । १३ । ५ ।
“स्तृणीत वर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
यत्रामृतस्य चक्षणम् ॥”)

चक्षाः, [स्] पुं, बृहस्पतिः । इति त्रिकाण्डशेषः ।

उपाध्यायः । इत्युणादिकोषः ॥ (क्ली, दर्श-
नम् । यथा, ऋग्वेदे । १ । ७ । ३ ।
“इन्द्रो दीर्घाय चक्षस आ सूर्य्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत् ॥”)

चक्षुः, [स्] क्ली, (चष्टे पश्यत्यनेनेति । चक्ष +

“चक्षेः शिच्च ।” उणां । २ । १२० । इति
उसिः स च शित् । शित्वात् ख्याञादेशाभावः ।)
दर्शनेन्द्रियम् । तस्य ग्राह्यं उद्भूतरूपम् १ तद्बद्-
द्रव्यम् २ पृथक्त्वम् ३ संख्या ४ विभागः ५
संयोगः ६ परत्वम् ७ अपरत्वम् ८ स्नेहः ९
द्रवत्वम् १० संख्यापरिमाणम् ११ योग्यवृत्ति-
क्रिया १२ योग्यवृत्तिजातिः १३ योग्यवृत्तिसम-
वायः १४ । अस्येन्द्रियसहकारिणः आलोकः
उद्भूतरूपं महत्त्वम् । इति भाषापरिच्छेदः ॥
अस्याधिष्ठात्री देवता सूर्य्यः । इति श्रीभाग-
वतम् । तत्पर्य्यायः । लोचनम् २ नयनम् ३
नेत्रम् ४ ईक्षणम् ५ अक्षि ६ दृक ७ दृष्टिः ८ ।
इत्यमरः । २ । ६ । ९३ ॥ अम्बकम् ९ दर्शनम्
१० । इति हेमचन्द्रः ॥ तपनम् ११ । इति
राजनिर्घण्टः ॥ विलोचनम् १२ दृशा १३
वीक्षणम् १४ प्रेक्षणम् १५ दैवदीपः १६ देव-
दीपः १७ दृशिः १८ दृशी १९ । इति शब्द-
रत्नावली ॥ * ॥ यथा, कर्म्मलोचने ।
“पाणिभ्यां न स्पृशेच्चक्षुश्चक्षुषी नैकपाणिना ।
चक्षुः परहिताकाङ्क्षी न स्पृशेदेकपाणिना ॥”
मेषशृङ्गीवृक्षः । इति रत्नमाला ॥

चक्षुर्व्वहनं, क्ली, (चक्षुस्तज्योतिर्वहत्यनेनेति ।

वह + ल्युट् । त्तक्षुर्ज्योतिवृद्धिकारित्वादेव तथा-
त्वम् ।) मेषशृङ्गीवृक्षः । इति रत्नमाला ॥

चक्षुःश्रवाः, [स्] पुं, (चक्षुर्नयनमेव श्रवः श्रवणं

यस्य ।) सर्पः । इत्यमरः । १ । ८ । ७ ॥
(यथा, नैषधे । १ । २८ ।
“इति स्म चक्षुःश्रवसां प्रिया नले
स्तुवन्ति निन्दन्ति हृदा तदात्मनः ॥”
अस्य पर्य्याया यथा, वैद्यकरत्नमालायाम् ।
“व्याडश्चाशीविषः सर्पो द्विजिह्वोऽहिः सरीसृपः ।
चक्षुःश्रवा दन्दशूको गूढपात् पन्नगोरगाः ॥”)

चक्षुष्यं, क्ली, (चक्षुषे लोचनाय हितम् । चक्षुस्

+ “शरीरावयवात् यत् ।” ५ । १ । ६ । इति
यत् ।) प्रपौण्डरीकम् । अस्य पर्य्याया यथा,
वैद्यकरत्नमालायाम् ।
“प्रपौण्डरीकं चक्षुष्यं शीतं श्रीपुष्पपुण्डरी ॥”
सौवीराञ्जनम् । खर्परीतुत्थम् । इति राज-
निर्घण्टः ॥

चक्षुष्यः, पुं, (चक्षुषे हितः । “शरीरावयवात्

यत् ।” ५ । १ । ६ । इति यत् ।) केतकवृक्षः ।
पुण्डरीकवृक्षः । इति मेदिनी । ये । ८२ ॥
शोभाञ्जनवृक्षः । इति राजनिर्घण्टः ॥ रसा-
ञ्जनम् । इति हेमचन्द्रः ॥

चक्षुष्यः, त्रि, (चक्षुषे हितः । चक्षुष् + यत् ।)

प्रियदर्शनः । इति जटाधरः ॥ (यथा, राज-
तरङ्गिण्याम् । ३ । ४९५ ।
“धिया भाग्यानुगामिन्या चेष्टमानो न याचितम् ।
अभूत् सर्व्वस्य चक्षुष्यः स तु दुर्ल्लभवर्द्धनः ॥”
चक्षुजः । इति विश्वः । यथा, माघे । ८ । ५७ ।
“चक्षुष्यः खलु महताम्परैरलङ्घ्यः ॥”
“चक्षुषि भवश्चक्षुष्यः प्रियोऽक्षिजश्च ।” इति तट्टी-
कायां मल्लिनाथः ॥) चक्षुर्हितः । इति मेदिनी ।
ये । ८२ ॥ (यथा, सुश्रुते सूत्रस्थाने २० अध्याये ।
पृष्ठ २/४१६
“दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्द्धनः ॥”)

चक्षुष्या, स्त्री, (चक्षुष्य + टाप् ।) कुलत्थिका ।

सुभगा । इति मेदिनी । ये । ८२ ॥ अजशृङ्गी ।
अरण्यकुलत्थिका । इति राजनिर्घण्टः ॥

चघ, न घातने । इति कविकल्पद्रुमः ॥ (स्वां-परं-

सकं-सेट् ।) न, चघ्नोति । इति दुर्गादासः ॥

चङ्कुरं, क्ली, (चकति तृप्नोत्यनेन । चक + उरच् ।

इदित्वान्नुम् ।) यानमात्रम् । तत्पर्य्यायः ।
धोरणम् २ । इति त्रिकाण्डशेषः ॥

चङ्कुरः, पुं, (चक्यते तृप्यतेऽनेन । चकि + उरच् ।)

इदित्वान्नुम् ।) रथः । वृक्षः । इति मेदिनी ।
रे । १५३ ॥

चङ्क्रमणं, क्ली, (पुनःपुनरतिशयेन वा क्राम्यतीति ।

चङ्क्रम + भावे ल्युट् ।) पुनःपुनर्भ्रमणम् । (यथा,
भागवते । ३ । २१ । ५० ।
“नूनं चङ्क्रमणं देव ! सतां संरक्षणाय ते ।
वधाय चासतां यत्त्वं हरेः शक्तिर्हि पालिनी ॥”)
अतिशयभ्रमणम् । इति व्याकरणम् ॥ (यथा,
सुश्रुते सूत्रस्थाने १९ अध्याये ।
“स्थानासनं चङ्क्रमणं यानयानातिभाषणम् ॥”)
अनतिदेहपीडाकारकचङ्क्रमणस्य गुणाः । आयु-
र्बलमेधाग्नीन्द्रियशुद्धिकारित्वम् । सदोपानद्रहित-
पादचङ्क्रमणदोषाः । अनारोग्यत्वम् । अनायुष्य-
त्वम् । इन्द्रियदृष्टिनाशित्वञ्च । इति राजवल्लभः ॥

चङ्गः, त्रि, शोभनः । दक्षः । इति मेदिनी । गे । ७ ॥

(पुं, राजमन्त्रिविशेषः । यथा, राजतरङ्गिण्याम् ।
“अन्तरङ्गाश्च चङ्गाद्या येऽभूवंस्तत्र मन्त्रिणः ।
तैः स्त्रीवदासितन्तूष्णीं त्रस्तैः शस्त्रान्वितैरपि ॥”)

चचेण्डा, स्त्री, (चि + बाहुलकात् डः । चं उप-

चीयमानं अण्डवत् फलं अस्याः ततो निपा-
तनात् साधुः ।) फललताविशेषः । चिचिडा
इति भाषा । तत्पर्य्यायः । वेश्मकूलः २ श्वेत-
राजी ३ बृहत्फलः । अस्या गुणः । पटोल-
गुणात् किञ्चिन्न्यूनत्वम् । विशेषात् शोषिणो
हितत्वञ्च । इति मदनविनोदः ॥

चच्चत्पुटः, पुं, (चच्चत् गुरुलघूनां लयविशेषाणां

पुटं द्बन्द्बं यत्र ।) तालप्रभेदः । यथा, --
“ताले चच्चत्पुटे ज्ञेयं गुरुद्बन्द्बं लघु प्लुतम् ॥”
इति सङ्गीतदामोदरः ॥
चञ्चत्पुटोऽपि कुत्रचित् पाठः ॥

चञ्चरी, स्त्री, पुं, (चञ्चूर्य्यते पुनः पुनरतिशयेन

वा चरति भ्राम्यतीति । चर + यङ् लुक् ततो
टक् टित्वात् ङीप् च ।) भ्रमरी + यथा, --
“करी वरी भरीति चेद्दिशं सरी सरीति काम् ।
स्थिरी चरी करीति चेन्न चञ्चुरीति चञ्चरी ॥”
इत्यद्भटः ॥

चञ्चरीकः, पुं, (चरति पुनःपुनरिति “फर्फ-

रीकादयश्च ।” उणां । ४ । २० । इति यङ्
लुगन्तेन साधुः ।) भ्रमरः । इति त्रिकाण्डशेषः ॥

चञ्चलं, त्रि, (चञ्चं गतिं लातीति । ला + कः ।)

अस्थिरम् । (यथा, हरिवंशे । ६४ । ७ ।
“एव वत्सान् पालयन्तौ शोभमानौ महावनम् ।
चञ्चूर्य्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥”)
तत्पर्य्यायः । चलनम् २ कम्पनम् ३ कम्प्रम् ४
चलम् ५ लोलम् ६ चलाचलम् ७ तरलम् ८
पारिप्लवम् ९ परिप्लवम् १० । इत्यमरः । ३ ।
१ । ७५ ॥ चपलम् ११ चटुलम् १२ । इति तट्टीका ॥
वायौ पुं । इति मेदिनी । ले । ९० ॥

चञ्चला, स्त्री, (चञ्चं लाति । ला + कः टाप् च ।

यद्वा चञ्चलं चाञ्चल्यं अस्त्यस्याः इति अच् ।)
लक्ष्मीः । विद्युत् । इति मेदिनी । ले । ९० ॥
पिप्पली । इति शब्दचन्द्रिका ॥ (वर्णवृत्त-
विशेषः । यथा, शब्दार्थचिन्तामणिः ।
“तूर्य्यतालपक्षिराजमेरुहारनायकेन ।
चामरध्वजेन चापि मण्डिता सुवर्णकेन ॥
वर्णितातिसुन्दरेण पन्नगेन्द्रपिङ्गलेन ।
चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥”)

चञ्चा, स्त्री, (चञ्च + अच् + टाप् ।) नलनिर्म्मिता ।

चाच इति भाषा । (चञ्चेव मनुष्यः । इति
इवार्थे कन् ततः “लुम्मनुष्ये ।” ५ । ३ । ९८ ।
इति कनो लुप् ।) तृणनिर्म्मितपूरुषः । इति
मेदिनी । चे । ५ ॥

चञ्चुः, पुं, (चन्च + बाहुलकात् उः ।) गोना-

डीचः । स तु नाडीचशाकः । एरण्डवृक्षः ।
इति मेदिनी । चे । ५ ॥ मृगः । इति शब्द-
रत्नावली ॥ रक्तैरण्डः । क्षुद्रचञ्चुवृक्षः । इति
राजनिर्घण्टः ॥

चञ्चुः, स्त्री, (चञ्चति प्राप्नोति गृह्णाति भक्ष्यमनया ।)

पक्षिणामोष्ठः । पाखिर ठोँट् इति भाषा । जानीमहे
(यथा, चातकाष्टके । ६ ।
“भ्रातश्चातक ! पातकं किमपि ते सम्यङ् न
यत्तेऽस्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयो-
बिन्दवः ॥”)
तत्पर्य्यायः । त्रोटिः २ । इत्यमरः । २ । ५ । ३६ ॥
चञ्चूः ३ त्रोटी ४ चञ्चुका ५ । इति शब्दरत्ना-
वली ॥ सृपाटिका ६ । इति हेमचन्द्रः ॥ पत्र-
शाकविशेषः । तत्पर्य्यायः । विजला २ चञ्चूः ३
कलभी ४ चीरपत्रिका ५ चञ्चुरः ६ चञ्चुपत्रः ७
सुशाकः ८ क्षेत्रसम्भवः ९ । अस्या गुणाः । मधु-
रत्वम् । तीक्ष्णत्वम् । कषायत्वम् । मलशोधन-
त्वम् । गुल्मोदरविबन्धार्शोग्रहणीनाशित्वञ्च ॥
“चिञ्चश्चञ्चुश्चिञ्चुकी च दीर्घपत्रा सतिक्तिका ।
चञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा ।
धातुपुष्टकरी बल्या मेध्या पिच्छिलिका स्मृता ॥”
इति भावप्रकाशः ॥
तस्या बीजस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
गुल्मशूलोदररोगविषत्वग्दोषकण्डूखर्जूकुष्ठनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ (व्यवहारोऽस्य यथा,
“आमे परिणते यस्तु विबन्धमतिसार्य्यते ।
सशूलपिच्छमल्पाल्पं बहुशः संप्रवाहिकम् ॥
तं भूलकानां यूषेण वदराणामथापि वा ।
उपोदकायाः क्षीरिण्या यवान्या वास्तुकस्य वा ॥
सुवर्च्चलायाश्चञ्चोर्व्वा शाकेनावल्गुजस्य वा ॥”
इति चरके चिकित्सास्थाने दशमेऽध्याये ॥)

चञ्चुका, स्त्री, (चञ्चु + स्वार्थे कन् टाप् च ।)

चञ्चुः । पक्षिणामोष्ठः । इति शब्दरत्नावली ॥

चञ्चुपत्रः, पुं, (चञ्चाकारं पत्रमस्य) चञ्चुशाकः ।

इति राजनिर्घण्टः ॥

चञ्चुभृत्, पुं, स्त्री, (चञ्चुं बिभर्त्तीति । भृ +

क्विप् ।) पक्षी । इति त्रिकाण्डशेषः ॥

चञ्चुमान्, [त्] पुं, स्त्री, (चञ्चुरस्त्यस्येति । नित्य-

योगे मतुप् ।) पक्षी । इति हारावली ॥

चञ्चुरः, पुं, (चञ्चति चञ्चुवदाकृतिं गच्छतीति ।

चञ्च गतौ + बाहुलकात् उरच् ।) चञ्चुशाकः ।
इति राजनिर्घण्टः ॥ (दक्षः । यथा, काशी-
खण्डे । १० । ४६ ।
“विज्ञाताखिलशास्त्रार्थो लौकिकाचारचञ्चुरः ।
कदाचिच्चिन्तयामास हृदिध्यात्वा महेश्वरम् ॥”)

चञ्चुसूचिः, पुं, (चञ्चुः सूचिरिव यस्य ।) कार-

ण्डवपक्षी । तत्पर्य्यायः । सुगृहः २ पीततुण्डः ३ ।
इति त्रिकाण्डशेषः । मरुलः ४ चञ्चुसूचिकः ५ ।
इति हेमचन्द्रः । ४ । ४०७ ॥

चञ्चुसूचिकः, पुं स्त्री, (चञ्चुसूचि + स्वार्थेकन् यद्बा

चञ्चुः सूचिरिव यस्य इति कप् ।) चञ्चुसूचि-
पक्षी । इति हेमचन्द्रः । ४ । ४०७ ॥

चञ्चूः, स्त्री, (चञ्चु + “ऊङुतः ।” ४ । १ । ६६ ।

इत्यस्य “अप्राणिजातेश्चारज्ज्वादीनामुप-
संख्यानम् ।” इति वार्त्तिकोक्त्या ऊङ् ।) चञ्चुः ।
इति हेमचन्द्रः ॥

चट, भेदे । इति कविकल्पद्रुमः । (भ्वां-परं-सकं-

सेट् ।) चटति । इति दुर्गादासः ॥

चट, क वधे । भेदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, चाटयति । इति दुर्गा-
दासः ॥

चटकः, पुं, (चटति भिनत्ति धान्यादिकं चञ्चुपुटेनेति ।

चट भेदे + “नन्दिग्रहीति ।” ३ । १ । १३४ ।
इति पचादित्वादच् ततः स्वार्थे कन् ।) पक्षि-
विशेषः । चटा इति भाषा ॥ (यथा, देवी-
भागवते । १ । ४ । ८ ।
“वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा ।
व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत् ॥”)
तत्पर्य्यायः । कलविङ्कः २ । इत्यमरः । २ । ५ । १८ ॥
चित्रपृष्ठः ३ गृहनीडः ४ वृषायणः ५ । इति
हारावली ॥ काभुकः ६ नीलकण्ठकः ७ काल-
कण्ठकः ८ कामचारी ९ । इति जटाधरः ॥
कलाविकलः १० । इति शब्दरत्नावली ॥ तन्मांस-
गुणाः । शीतत्वम् । लघुत्वम् । शुक्रबलप्रदत्वञ्च ।
तद्वच्चारण्यचटकं तत् क्रर्व्य लघु पथ्यदम् ॥
इति राजनिर्घण्टः ॥
(“चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः
परम् ।
गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम् ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
“चटका मधुराः स्निग्धा बलशुक्रविवर्द्धनाः ।
सन्निपातप्रशमनाः शमभा मारुतस्य च ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)
पृष्ठ २/४१७

चटकका, स्त्री, (चटका + स्वार्थे कन् । “उदी-

चामातः स्थाने यकपूर्ब्बायाः ।” ७ । ३ । ४६ ।
इति पक्षे इदादेशाभावः ।) चटका । इति
मुग्धबोधव्याकरणम् ॥

चटका, स्त्री, (चटक + टाप् ।) चटकपत्नी ।

(चटकस्य चटकाया वा स्त्र्यपत्यम् । चटका +
ऐरक् । स्त्रियामपत्ये लुक् वक्तव्यः । तत्र टाब-
न्तात् तद्धिते लुप्ते “लुक् तद्धितलुकि ।” १ । २ । ४९ ।
इति टापो लुकि पुनः अजाद्यतष्टाप् । स च
जातिलक्षणङीषो बाधकः ।) चटकस्त्र्यपत्यम् ।
चटी इति भाषा ॥ इत्यमरः । २ । ५ । १८ ॥
पिप्पलीमूलम् । इत्यमरटीकायां नारायणचक्र-
वर्त्ती ॥ श्यामापक्षी । इति राजनिर्घण्टः ॥

चटकाशिरः [स्] क्ली, (चटकायाः शिर इव ।)

पिप्पलीमूलम् । इति हेमचन्द्रः ॥

चटकिका, स्त्री, (चटका + स्वार्थे कन् । “उदी-

चामातः स्थाने यकपूर्ब्बायाः ।” ७ । ३ । ४६ ।
इति इदादेशः ।) चटका । इति मुग्धबोध-
व्याकरणम् ।

चटिका, स्त्री, (चटति भिनत्ति रोगादिकं नाश-

यतीत्यर्थः । चट् + बाहुलकात् इकन् ।) पिप्पली-
मूलम् । (चटति भिनत्ति ध्यान्यादिकं स्वचञ्चु-
पुटेनेति ।) चटका । इति हलायुधः ॥

चटिकाशिरः, [स्] क्ली, (चटिकायाः चटकपत्न्याः

मस्तकमिव आकृतिरस्य ।) पिप्पलीमूलम् ।
इत्यमरः । २ । ९ । ११० ॥

चटिकाशिरः, पुं, (“सर्व्वे सान्ता अदन्ताः स्युः ।”

इत्युक्तेः पृषोदरादित्वात् सलोपः ।) पिप्पली-
मूलम् । इत्यमरटीकायां भरतः ॥ (अस्य पर्य्यायाः
यथा, वैद्यकरत्नमालायाम् ।
“ग्रन्थिकं पिप्पलीमूलं षड्ग्रन्थिश्चटिकाशिरः ॥”)

चटुः, पुं, (चटति शोकसन्तापादिकं भिनत्तीति ।

चट भेदे + “मृगय्वादयश्च ।” उणां । १ । ३७ ।
इति कुः ।) प्रियवाक्यम् । (यथा, माघे ।
४ । ६ ।
“छायां निजस्त्रीचटुलालसानां
मदेन किञ्चित् चटुलालसानाम् ॥”)
उदरम् । व्रतिनामासनभेदः । इति मेदिनी ।
टे । १४ ॥ प्रियभाषणे क्लीवलिङ्गोऽपि । इति
र्सक्षिप्तसारे उणादिवृत्तिः ॥

चटुलः, त्रि, (चटतीति । चट् + बाहुलकादुलच् ।

यद्वा, चटु + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ ।
इति मत्वर्थे लच् ।) चञ्चलः । इति हेमचन्द्रः ।
६ । ९१ ॥ (यथा, रघुः । ९ । ५८ ।
“त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥”)
सुन्दरः । इत्युणादिकोषः ॥

चटुला, स्त्री, (चटुल + “अजाद्यतष्टाप् ।” ४ ।

१ । ४ । इति टाप् ।) विद्युत् । इति जटाधरः ॥
(गायत्त्रीरूपा भगवती । यथा, देवीभागवते ।
१२ । ६ । ४७ ।
“चटुला चण्डिकाचित्रा चित्रमाल्यविभूषिता ॥”)

चटुल्लोलः, त्रि, (चटुलश्चञ्चलः लोलश्च । अति-

चञ्चलत्वात्तथात्वम् । निपातनादलोपे साधुः ।)
चाटुलोलः । सुचञ्चलः । इति हारावली । २१९ ॥

चड, इ क रोषे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) इ क, चण्डयति । इति दुर्गादासः ॥

चड, इ ङ रोषे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) इ, कर्म्मणि चण्ड्यते । ङ, चण्डते ।
इति दुर्गादासः ॥

चण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) चणति । इति दुर्गादासः ॥

चण, म दाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) म, चणयति । इति दुर्गादासः ॥

चण, मि गतौ । हिंसे । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् ।) मि, चणयति चाण-
यति । इति दुर्गादासः ॥

चणकः, पुं, (चणति वेदोच्चारणादिध्वनिना शब्दा-

यते इति । चण शब्दे + क्वुन् ।) मुनिविशेषः ।
इति शब्दरत्नावली ॥ (चण्यते दीयते इति ।
चण दाने + क्वुन् ।) शस्यविशेषः । चणा युट
छोला इति च भाषा ॥ तत्पर्य्यायः । हरि-
मन्थकः २ । इत्यमरः । २ । ९ । १८ ॥ हरि-
मन्थजः ३ । इति तट्टीका ॥ चणः ४ हरिमन्थः ५
सुगन्धः ६ कृष्णचञ्चुकः ७ बालभोज्यः ८ वाजि-
भक्ष्यः ९ कञ्चुकी १० । अस्य गुणाः । मधुरत्वम् ।
रूक्षत्वम् । मेहवान्त्यस्रपित्तनाशित्वम् । दीप-
नत्वम् । वर्णबलरुच्याध्मानकारित्वञ्च ॥ * ॥ आमस्य
तस्य गुणाः । शीतलत्वम् । रुच्यत्वम् । सन्त-
र्पणत्वम् । दाहतृष्णाश्मरीशोषनाशित्वम् । गौल्य-
त्वम् । कषायत्वम् । इषत्कफवीर्य्यकारित्वञ्च ॥ * ॥
भृष्टस्य तस्य गुणाः । रुच्यत्वम् । वातनाशित्वम् ।
रक्तदोषकारित्वम् । उष्णवीर्य्यत्वम् । लघुत्वम् ।
स्वेदशैत्यहरत्वञ्च ॥ * ॥ तस्य यूषस्य गुणाः ।
मधुरत्वम् । कषायत्वम् । कफवातविकार-
श्वासोर्द्ध्वकासक्लमपीनसनाशित्वम् । बलदीपन-
त्वञ्च ॥ * ॥ प्रातस्तज्जलपानगुणाः । चन्द्रमरी-
चिवत् शीतलत्वम् । पित्तरोगनाशित्वम् । पुष्टि-
प्रदत्वम् । पाके नैजगुणत्वम् । सन्तर्पणत्वम् ।
मञ्जुलत्वम् । मधुरत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
तस्य आर्द्रभृष्टस्य गुणः । बलकारित्वम् । रोचन-
त्वञ्च ॥ * ॥ स्विन्नस्य तस्य गुणः । पित्तकफ-
नाशित्वम् ॥ * ॥ तत्सूपः क्षोभकरः ॥ * ॥
तस्य शाकस्य गुणाः । रुच्यत्वम् । दुर्ज्जरत्वम् ।
कफवातकारित्वम् । अम्लत्वम् । विष्टम्भजनक-
त्वम् । पित्तदन्तशोथनाशित्वञ्च । इति भाव-
प्रकाशः ॥

चणकात्मजः, पुं, (चणकस्य मुनिविशेषस्य आत्मजः ।)

वात्स्यायनमुनिः । इति हेमचन्द्रः । ३ । ५१७ ॥

चणकाम्लकं, क्ली, (चणकजातमम्लम् । ततः स्वार्थे

कन् ।) चणकलवणम् । तस्य गुणाः । अत्यम्लत्वम् ।
दीपनत्वम् । दन्तहर्षणत्वम् । लवणानुरसत्वम् ।
रुच्यत्वम् । शूलाजीर्णविबन्धनाशित्वञ्च । इति
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥

चणकाम्लवाः, [र्] क्ली, (चणकाम्लस्य चणक-

लवणस्य वार् जलम् ।) क्षेत्रस्थफलवच्चणक-
पत्रशिशिरवारि । इति रत्नावली ॥

चणद्रुमः, पुं, (चणश्चणक इव द्रुमो वृक्षः ।) क्षुद्र-

गोक्षुर इति राजनिर्घण्टः ॥ चणीद्रुमोऽपि पाठः ॥

चणपत्री, स्त्री, (चणश्चणकस्तस्य पत्रमिव पत्रं

यस्याः । स्त्रियां ङीप् ।) रुदन्तीवृक्षः । इति
राजनिर्घण्टः ॥

चणिका, स्त्री, (चणति दुग्धवद्रसं ददातीति ।

चण दाने + क्वुण् । टाप् अत इत्वञ्च ।) तृण-
विशेषः । तत्पर्य्यायः । गोदुग्धा २ सुनीला ३
क्षेत्रजा ४ हिमा ५ । अस्या गुणाः । बीजै-
र्वृष्यत्वम् । बल्यत्वम् । अतिमधुरत्वञ्च । तृणैः
पशुहितत्वम् । इति राजनिर्घण्टः ॥

चण्डं, क्ली, (चण्डते इति । चडि + पचाद्यच् ।)

तीक्ष्णम् । इति शब्दरत्नावली ॥

चण्डः, पुं, (चणति चणयति वा अम्लरसं ददाती-

त्यर्थः । चण + “ञमन्तात् डः ।” उणां । १ । ११४ ।
इति डः ।) तिन्तिडीवृक्षः । चण्डते कुप्यतीति ।
चडि + अच् ।) यमकिङ्करः । दैत्यविशेषः । इति
मेदिनी । डे । ११ ॥ (अयं हि शुम्भासुरसेनानीः ।
कदाचिदयं हिमाचलस्थां भगवतीं दृष्ट्वा शुम्भांय
कथितवान् । ततः शुम्भार्थं भगवत्यानयनाय गती-
ऽसौ तल्ललाटफलकनिर्गतया चामुण्डया निहतः ।
एतद्विवरणं मार्कण्डेयपुराणे द्रष्टव्यम् । कार्त्ति-
केयः यथा, महाभारते । ३ । २३१ । ४ ।
“शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥”)

चण्डः, त्रि, (चण्डते रुष्टो भवतीति । चडि + पचा-

द्यच् ।) अत्यन्तकोपनः । इत्यमरः । ३ । १ । ३२ ॥
(यथा, महाभारते । ३ । २३३ । ११ ।
“चण्डाश्च शौण्डाश्च महाशनाश्च
चौराश्च दुष्टाश्चपलाश्च वर्ज्ज्याः ॥”)
तीक्ष्णताविशिष्टः । इति शब्दरत्नावली ॥
(यथा, महाभारते । १ । ३२ । २३ ।
“दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥”)

चण्डता, स्त्री, (चण्डस्य भावः । चण्ड + तल् ।)

उग्रता । इति हेमचन्द्रः । २ । २३२ ॥

चण्डनायिका, स्त्री, (चण्डी कोपना नायिका ।)

दुर्गा । इति शब्दरत्नावली ॥ अष्टनांयिकान्त-
र्गतनायिकाविशेषः । (यथा, दुर्गाध्याने ।
“उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चामुण्डा चण्डिका तथा ॥
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेत् सततं दुर्गां धर्म्मकामार्थमोक्षदाम् ॥”)
तस्या ध्यानं यथा, देवीपुराणोक्तदुर्गोत्सवपद्धतौ ।
“चण्डनायिकां नीलवर्णां षोडशभुजाम् ।
कपालं खेटकं घण्टां दर्पणञ्च धनुर्ध्वजम् ।
पाशञ्च शोभनां शक्तिं वामहस्तेन बिभ्रतीम् ॥
मुद्गरं शूलवज्रञ्च खडगञ्चैव तथाङ्कुशम् ।
शरं चकं शलाकाञ्च दक्षिणेन च बिभ्रतीम् ॥”

चण्डरुद्रिका, स्त्री, (चण्डः प्रचण्डः रुद्रः अधिष्ठातृ-

तयास्त्यस्याः । चण्डरुद्र + “अत इनिठनौ ।”
पृष्ठ २/४१८
५ । २ । ११५ । इति ठन् । स्त्रियां टाप् । यद्वा
प्रचण्डरुद्री रुद्रशक्तिविशेषः । ततः स्वार्थे कन् ।
टापि पूर्ब्बह्रस्वः ।) विद्याविशेषः । इति रत्ना-
वली ॥

चण्डवती, स्त्री, (चण + “ञमन्ताड्डः ।” उणां ।

१ । ११४ । इति डः । चडि + अच् वा । चण्ड-
श्चण्डता विद्यतेऽस्याम् । यद्वा, चण्डः रुद्रांशो
भैरवविशेषो रक्षकतया विद्यतेऽस्याः । मतुप्
ततो भस्य वत्वम् ।) दुर्गा । इति शब्दरत्नावली ॥
अष्टनायिकान्तर्गतनायिकाविशेषः । अस्या ध्यानं
यथा । चण्डवतीं धूम्रवर्णां षोडशभुजामित्यादि
शेषं चण्डनायिकाध्यानवत् । इति देवीपुरा-
णोक्तदुर्गोत्सवपद्धतिः ॥

चण्डा, स्त्री, (चम् चण् वा + डः । चडि + अच्

वा । ततष्टाप् ।) अष्टनायिकान्तर्गतनायिका-
विशेषः । (यथा, देवीपुराणे ।
“चण्डा चण्डवती चण्डनायिकाप्यतिचण्डिका ॥”)
अस्या ध्यानं यथा । चण्डां शुक्लवर्णां षोडश-
भुजामित्यादि शेषं चण्डनायिकाध्यानवत् ।
इति देवीपुराणोक्तदुर्गोत्सवपद्धतिः ॥ जिनानां
शासनदेवताविशेषः । इति हेमचन्द्रः ॥ चोर-
नामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२८ ॥ (यथा,
चरके सूत्रस्थाने तृतीयेऽध्याये ।
“कुष्ठं हरिद्रे सुरसं पटोलं
निम्बाश्वगन्धे सुरदारुशिग्रु ।
ससर्षपं तुम्बुरुधान्यवन्यम्
चण्डाञ्च चूर्णानि समानि कुर्य्यात् ॥”)
शङ्खपुष्पी । इति मेदिनी । डे । १२ ॥ (यथा,
सुश्रुते सूत्रस्थाने ३८ अध्याये ॥ “एलातगर-
कुष्ठमांसीध्यामकत्वक्पत्रनागपुष्प प्रियङ्गुहरे-
णुकाव्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोच-
चोरकबालकगुग्गुलुसर्ज्जरसतुरुष्ककुन्दुरुका-
गुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशर-
ञ्चेति ॥” लिङ्गिनीलता । कपिकच्छुः । आखु-
कर्णी । श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥ नदी-
विशेषः । इति शब्दरत्नावली ॥

चण्डांशुः, पुं, (चण्डाः प्रखरास्तीव्रा वा अंशवो

रश्मयोऽस्य ।) सूर्य्यः । यथा, महानाटके ।
“चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमु-
ज्जृम्भते ।”
(तथाच राजतरङ्गिण्याम् । ४ । ४०१ ।
“भ्रातरौ तौ समासाद्य राज्यं नैव व्यराजत ।
हेमन्तशिशिरौ प्राप्य चण्डांशोरिवमण्डलम् ॥”)

चण्डातः, पुं, (चण्डं चण्डतां तीव्रत्वं अतति निरन्तरं

प्राप्नोतीति । अत + अण् ।) करवीरः । इत्य-
मरः । २ । ४ । ७६ ॥ (पर्य्यायोऽस्य यथा, --
“द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणाश्चास्य करवीरशब्दे ज्ञातव्याः ॥)

चण्डातकं, क्ली, (चण्डां स्त्रियं अतति सततं

गच्छति प्राप्नोतीत्यर्थः । अत + ण्वुल् ।) अर्द्धो-
रुकम् । वरस्त्रीणामर्द्धोरुपर्य्यन्तं वासः । इत्य-
मरः । २ । ६ । ११९ ॥ पुंस्काण्डे वोपालित
धृतात् पुंलिङ्गोऽपि ॥

चण्डालः, पुं, (चण्डते कुप्यतीति । चडि कोपे +

“पतिचण्डिभ्यामालञ् ।” उणां । १ । ११६ । इत्या-
लञ् । यद्वा, चण्डं विकटं अलं अलङ्कारो यस्य
इत्युज्ज्वलदत्तः ।) वर्णसङ्करजातिविशेषः । चाँडाल
इति भाषा । स तु ब्राह्मणीगर्भे शूद्रौरसाज्जातः ।
इति पराशरपद्धतिः ॥ तत्पर्य्यायः । प्लवः २
मातङ्गः ३ दिवाकीर्त्तिः ४ जनङ्गमः ५ निषादः ६
श्वपचः ७ अन्तेवासी ८ चाण्डालः ९ पुक्कसः १० ।
इत्यमरः । २ । १० । १९ ॥ जलङ्गमः ११
निशादः १२ श्वपक् १३ पुक्कशः १४ पुक्कषः १५ ।
इति तट्टीका ॥ निष्कः १६ । इति त्रिकाण्ड-
शेषः ॥ तस्याकृतिर्यथा, रामायणे ।
“अथ रात्र्यां व्यतीतायां तस्यां राजा बभूव ह ।
चण्डालदर्शनो राम ! सद्य एव दुराकृतिः ॥
नीलपीताम्बरधरो रक्ताम्बरकृतोत्तरः ।
संरब्धताम्रधोराक्षः करालो हरिपिङ्गलः ॥
ऋक्षचर्म्मनिवासी च लौहाभरणभूषितः ॥”
श्मशानचण्डालस्य निवासकर्म्मादि यथा, --
“चण्डालश्वपचानान्तु वहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्द्दभम् ॥
वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥
न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥
दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥”
(एतैर्हतस्य पशोर्मांसशुद्धिमाह मनुः । ५ । १३१ ।
“श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरबवीत् ।
क्रव्याद्भिश्च हतस्यान्यैश्चाण्डालाद्यैश्च दस्युभिः ॥”)
क्रूरकर्म्मा । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(स्त्रियां ङीष् । तन्त्रोक्तशक्तिविशेषः ॥)

चण्डालकन्दः, पुं, (चण्डालप्रियः कन्दः ।) कन्द-

विशेषः । तस्य गुणाः । मधुरत्वम् । कफपित्तास्र-
दोषविषभूतादिदोषनाशित्वम् । रसायनत्वञ्च ।
तस्य भेदाः । एकपत्रः द्विपत्रः त्रिपत्रः चतुष्पत्रः
पञ्चपत्रः । इति राजनिर्घण्टः ॥

चण्डालवल्लकी, स्त्री, (चण्डालवादनीया वल्लकी

वीणा ।) चण्डालबीणा । इत्यमरः । २ । १० । ३२ ॥
अस्याः पर्य्यायः । कण्डोलबीणाशब्दे द्रष्टव्यः ॥

चण्डालिका, स्त्री, (चण्डालः वादकत्वेनास्त्यस्याः ।

चण्डाल + ठन् टाप् च ।) चण्डालवल्लकी ।
उमा । (चण्डं प्रचण्डभावं अलतीति । अल +
ण्वुल् कापि अत इत्वञ्च ।) औषधीभेदः । इति
मेदिनीकरहेमचन्द्रौ ॥

चण्डिः, स्त्री, (चडि कोपे + इन् ।) चण्डी ।

इत्यमरटीकायां भरतः ॥

चण्डिका, स्त्री, (चण्डी + स्वार्थे कन् टापि पूर्ब्ब-

ह्रस्वः । चण्डि + कन् वा ।) दुर्गा । इत्यमरः ।
१ । १ । ३९ ॥ (यथा, मार्कण्डेये । ९२ । २९ ।
“इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ॥”
इयमेव अमरकण्टके पीठशक्तिरूपेण विराजते ।
यथा, देवीभागवते । ७ । ३० । ७३ ।
“छगलण्डे प्रचण्डा तु चण्डिकाऽमरकण्टके ॥”
गायत्रीरूपा देवी । यथा, देवीभागते । १२ ।
६ । ४७ ।
“चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ॥”)

चण्डिलः, पुं, (चण्डते कोपयुक्तो भवतीति । चडि

कोपे + इलच् । चण्ड + अस्त्यर्थे इलच् वा ।)
रुद्रः । नापितः ॥ वास्तूकम् । इति हेमचन्द्रः ॥

चण्डिला, स्त्री, (चण्डिल + स्त्रियां टाप् ।) नदी-

भेदः । इत्युणादिकोषः ॥

चण्डी, स्त्री, (चण्डि + “बह्वादिभ्यश्चं ।” ४ । १ । ४५ ।

इति वा ङीष् ।) दुर्गा । (यथा, तिथितत्त्वे
दुर्गोत्सवबोधनप्रकरणे ।
“चण्डीमामन्त्रयेद् विद्वान् नात्र षष्ठी पुरस्क्रिया ॥”)
हिंस्रा । कोपना । इति मेदिनी । ते । १२ ।
(यथा, रघुवंशे । १२ । ५ ।
“सा किलाश्वासिता चण्डी भर्त्त्रा तत् संश्रुतौ वरौ ॥”)
अस्या रूपान्तराणि । चण्डिः चण्डा चण्डिका
इत्यमरटीकायां भरतः ॥ * ॥ मार्कण्डेयपुरा-
णोक्तदेवीमाहात्म्यम् । तस्य पाठक्रमो यथा, --
“अर्गलं कीलकञ्चादौ पठित्वा कवचं पठेत् ।
जपेत् सप्तशतीं पश्चात् क्रम एष शिवोदितः ॥
अर्गलं दुरितं हन्ति कीलकं फलदं तथा ।
कवचं रक्षयेन्नित्यं चण्डिका त्रितयं तथा ॥”
इति तन्त्रम् ॥
अपि च ।
“नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
आदौ च प्रणवं जप्त्वा स्तोत्रं वा संहितां पठेत् ।
अन्ते च प्रणवं दद्यादित्युवाचादिपूरुषः ॥
सर्व्वत्र पाठे विज्ञेयो ह्यन्यथा विफलं भवेत् ।
शुद्धेनानन्यचित्तेन पठितव्यं प्रयत्नतः ॥
न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ।
आधारे स्थापयित्वा तु पुस्तकं वाचयेत् सुधीः ॥
हस्तसंस्थापनादेव यस्मादल्पफलं लभेत् ।
स्वयञ्च लिखितं यत्तु कृतिना लिखितं न यत् ॥
अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् ।
ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः ॥
स्तोत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत् ।
सङ्कल्पिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः ॥
अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन ।
कृते विरामे मध्ये तु अध्यायादिं पठन्नरः ॥
ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् ।
श्रुत्वान्यवर्णजाद्राजन् ! वाचकान्नरकं व्रजेत् ॥
देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः ।
ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ! ॥
पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ।
पृष्ठ २/४१९
विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदन्तथा ॥
कलस्वरसमायुक्तं रसभावसमन्वितम् ।
बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप ! ॥
ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप ! ।
य एवं वाचयेद्ब्रह्मन् ! स विप्रो व्यास उच्यते ॥
सप्तस्वरसमायुक्तं काले काले विशाम्पते ।
प्रदर्शयन् रसान् सर्व्वान् वाचयेद्वाचको नृप ! ॥”
तस्य फलं यथा, --
“चण्डीपाठफलं देवि ! शृणुष्व गदतो मम ।
एकावृत्त्यादिपाठानां यथावत् कथयामि ते ॥
सङ्कल्प्य पूर्ब्बं सम्पूज्य न्यस्याङ्गेषु मनून् सकृत् ।
पाठाद्बलिप्रदानाद्धि सिद्धिमाप्नोति मानवः ॥
उपसर्गस्य शान्त्यर्थं त्रिरावृत्तं पठेन्नरः ।
ग्रहोपशान्त्यै कर्त्तव्यं पञ्चावृत्तं वरानने ! ॥
महाभये समुत्पन्ने सप्तावृत्तं समुन्नयेत् ।
नवावृत्त्या भवेच्छान्तिर्वाजपेयफलं लभेत् ॥
राजवश्याय भूत्यै च रुद्रावृत्तमुदीरयेत् ।
अर्कावृत्त्या काम्यसिद्धिर्वैरहानिश्च जायते ॥
मन्वावृत्त्या रिपुर्व्वश्यस्तथा स्त्रीवश्यतामियात् ।
सौख्यं पञ्चदशावृत्त्या श्रियमाप्नोति मानवः ॥
कलावृत्त्या पुत्त्रपौत्त्रधनधान्यागमं विदुः ।
राज्ञां भीतिविमोक्षाय वैरस्योच्चाटनाय च ॥
कुर्य्यात् सप्तदशावृत्तं तथाष्टादशकं प्रिये ! ।
महाव्रणविमोक्षाय त्रिंशावृत्तिं पठेत् सुधीः ॥
पञ्चविंशावर्त्तनात्तु भवेद्बन्धविमोक्षणम् ।
सङ्कटे समनुप्राप्ते दुश्चिकित्सामये तथा ॥
जातिध्वंसे कुलोच्छेदे आयुषो नाश आगते ।
वैरिवृद्धौ व्याधिवृद्धौ धननाशे तथा क्षये ।
तथैव त्रिविधोत्पाते तथा चैवातिपातके ।
कुर्य्याद्यत्नात् शतावृत्तिं ततः सम्पद्यते शुभम् ॥
श्रियोवृद्धिः शतावृत्ताद्राज्यवृद्धिस्तथापरे ।
मनसा चिन्तितं देवि ! सिद्धेदष्टोत्तराच्छतात् ॥
शताश्वमेधयज्ञानां फलमाप्नोति सुव्रते ! ।
सहस्रावर्त्तनाल्लक्ष्मीरावृणोति स्वयं स्थिरा ॥
भुक्त्वा मनोरथान् कामान् नरो मोक्षमवाप्नुयात् ।
यथाश्वमेधः क्रतुराट् देवानाञ्च यथा हरिः ॥
स्तवानामपि सर्ष्वेषां तथा सप्तशतीस्तवः ॥
अथवा बहुनोक्तेन किमेतेन वरानने ! ।
चण्ड्याः शतावृत्तपाठात् सर्व्वाः सिध्यन्ति
सिद्धयः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अथ प्रथमचरितस्य ब्रह्मर्षिर्महाकाली देवता
गायत्त्री छन्दो नन्दा शक्ती रक्तदन्तिका बीज-
भग्निस्तत्वम् । तत्र महाकाल्या ध्यानं यथा, --
“दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ॥
स्फुरद्दशनदंष्ट्राभा भीमरूपा भयङ्करी ।
स्वड्गशूलगदाबाणतोमरञ्च भुषुण्डिभृत् ॥
परिघं कार्म्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ ।
मधुकैटभयोर्युद्धे ध्येया सा तामसी शिवा ॥”
मध्यमचरितस्य विष्णुरृ षिर्महालक्ष्मीर्देवता
अनुष्ठुप् छन्दः शाकम्भरी शक्तिर्दुर्गाबीजं
सूर्य्यस्तत्वम् । तत्र महालक्ष्म्या ध्यानं यथा, --
“श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ।
रक्तमध्या रक्तदेहा स्थूलजङ्घोरुतालुका ॥
चित्रानुलेपना कान्ता सर्व्वसौभाग्यशालिनी ।
अष्टादशभुजा पूज्या सा सहस्रभुजा रणे ॥
आयुधान्यत्र रक्षन्ति दक्षिणाधःकरक्रमात् ।
अक्षमालाञ्च मुषलं बाणासिकुलिशं गदाम् ॥
चक्रं त्रिशूलं परशुं शङ्खघण्टे च पाशकम् ।
शक्तिदण्डं चर्म्म चापं पानपात्रं कमण्डलुम् ॥
अलङ्कृतभुजा एतैरायुधैः परमेश्वरी ।
स्मर्त्तव्या स्तुतिकालादौ महिषासुरमर्द्दिनी ॥
इत्येषा राजसी मूर्त्तिः सर्व्वदेवमयी मता ।
यां ध्यात्वा मानवो नित्यं लभेतेप्सितमात्सनः ॥”
उत्तरचरितस्य रुद्र ऋषिः सरस्वती देवता
उष्णिक् छन्दो भीमा शक्तिर्भ्रामरी बीजं वायु-
स्तत्वम् । तत्र सरस्वत्या ध्यानं यथा, --
“गौरीदेहसमुत्पन्ना या सत्वैकगुणाश्रया ।
साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिसूदनी ॥
दधौ चाष्टभुजा बाणं मुषलं शूलचक्रकम् ।
शङ्खघण्टाहलञ्चैव कार्म्मुकञ्च तथा परम् ॥
ध्येया सास्तुतिकालादौ वघे शुम्भनिशुम्भयोः ॥”
इति कात्यायनीतन्त्रम् ॥
(छन्दोविशेषः । तल्लक्षणं यथा, छन्दोमञ्जर्य्याम् ।
“नयुगलसयुगलगैरिति चण्डी ॥”)

चण्डीकुसुमः, पुं, (चण्डीप्रीतिजनकं कसुमं यस्य ।)

रक्तकरवीरवृक्षः । इति राजनिर्घण्टः ॥ (विवृति-
रस्य करवीरशब्दे बोद्धव्याः ॥)

चण्डुः, पुं, (चडि + बाहुलकात् उः ।) उन्दुरुः ।

इति शब्दचन्द्रिका ॥

चत, ए ञ याचे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

द्विकं-सेट् ।) ए, अचतीत् । ञ, चतति चतते ।
इति दुर्गादासः ॥

चतुः, [र्] व्य, चतुर्व्वारम् । इति व्याकरणम् ॥

चतुःपत्री, स्त्री, (चत्वारि चत्वारि पत्राण्यस्याः ।)

क्षुद्रपाषाणभेदी । इति राजनिर्घण्टः ॥

चतुःपर्णी, स्त्री, (चत्वारि चत्वारि पर्णानि यस्याः ।)

क्षुद्राम्लिका । इति राजनिर्घण्टः ॥

चतुःपला, स्त्री, (चत्वारि पलानि यस्यां यस्या

वा ।) नागबला । इति राजनिर्घण्टः ॥

चतुःपुण्ड्रः, पुं, (चत्वारि पुण्ड्राणीव यत्र ।) भिण्डा-

वृक्षः । इति राजनिर्घण्टः ॥

चतुःशालं, क्ली स्त्री, (चतसृणां शालानां समा-

हारः ।) परस्पराभिमुखगृहचतुष्टयम् । चक्-
मिलनवाडी इति भाषा ॥ इत्यमरः । २ । २ । ६ ॥
(यथा, महाभारते । १ । १४५ । ८ ।
“तत्र गत्वा चतुःशालं गृहं परमसंवृतम् ॥”)

चतुःशालकं, क्ली, (चतुःशाल + स्वार्थे कन् ।)

चतुःशालम् । इति शब्दरत्नावली ॥

चतुःषष्टिः, स्त्री, (चतुरधिका षष्टिः ।) चतुरधिक-

षष्टिसंख्या । चौषट्टि इति भाषा ॥ कलानाम्नी
उपविद्या । (यटुक्तं रूपगोस्वामिकृतभगवन्-
माहात्म्ये ।
“चतुःषष्टिकलानान्तु विद्यानां पारदृश्वनः ।
ऋते कृष्णाद्भगवतः कः क्षमो देहवान्नरः ॥”)
ऋग्वेदः । इति मेदिनी । टे । ६३ ॥

चतुरः, त्रि, (चत्यते याच्यते इति । चत + “मन्दि-

वाशिमथिचतिचङ्क्यङ्किभ्य उरच् ।” उणां । १ ।
३८ । इत्युरच् ।) कार्य्यक्षमः । निरालस्यः ।
तत्पर्य्यायः । दक्षः २ पेसलः ३ पटुः ४ सूत्था-
नम् ५ उष्णः ६ । इत्यमरः । २ । १० । १९ ।
पेशलः ७ पेषलः ८ इति तट्टीका ॥ निपुणः ।
इति राजनिर्घण्टः ॥ (यथा, देवीभागवते । १
१७ । ४४ ।
“चतुरोनैव मुह्येत मूर्खः सर्व्वत्र मुह्यति ॥”)
तस्य लक्षणं यथा । वाक्चेष्टाव्यङ्ग्यसमागमः ।
तत्र वचनव्यङ्ग्यसमागमो यथा, रसमञ्जर्य्याम् ।
“तमोजटाले हरिदन्तराले
काले निशायास्तव निर्गतायाः ।
तटे नदीनां निकटे वनानां
घटेत शातोदरिकः सहायः ॥”
चेष्टाव्यङ्ग्यसमागमो यथा, --
“कान्ते कनकजम्बीरं करे कमपि कुर्व्वति !
अगारलिखिते भानौ बिन्दुमिन्दुमुखी ददौ ॥”
(उपभोगक्षमः । यथा, रघुः । ९ । ४७ ।
“त्यजत मानमलं वत विग्रहैः
न पुनरैति गतं चतुरं वयः ॥”
“चतुरं उपभोगक्षमम् ।” इति तट्टीकायांमल्लि-
नाथः ॥) नेत्रगोचरः । इति हेमचन्द्रः ॥

चतुरः, पुं, (चत + उरच् ।) चक्रगण्डुः । हस्ति-

शाला । इति हेमचन्द्रः ॥

चतुरक्रमः, पुं, (चतुरः चातुर्य्यान्वितः क्रमः प्रणाली

यत्र ।) सप्तधारूपकान्तर्गतरूपकभेदः । यथा --
“द्रुतद्वन्द्वं प्लुतद्बन्द्वं तथा प्रान्ते गुरुभवेत् ।
द्वाविंशत्यक्षरैर्युक्तः शृङ्गारे चतुरक्रमः ॥”
इति सङ्गीतदामोदरः ॥

चतुरङ्गं, क्ली, (चत्वारि अङ्गानि यस्य ।) हस्त्यश्व-

रथपदातिरूपं सैन्यम् । यथा, रामायणे ।
“चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि ।”
अक्षक्रीडाविशेषः । चौरंखेला इति भाषा ॥
यथा, --
युधिष्ठिर उवाच ।
“अष्टकोष्ठ्याञ्च या क्रीडा तां मे ब्रूहि तपोधन ! ।
प्रकर्षेणैव मे नाथ चतूराजी यतो भवेत् ॥
व्यास उवाच ।
अष्टो कोष्ठान् समालिख्य प्रदक्षिणक्रमेण तु ।
अरुणं पूर्ब्बतः कृत्वा दक्षिणे हरितं बलम् ॥
पार्थ ! पश्चिमतः पीतमुत्तरे श्यामलं बलम् ।
राज्ञो वामे गजं कुर्य्यात् तस्मादश्वं ततस्तरिम् ॥
कुर्य्यात् कौन्तेय ! पुरतो युद्धे पत्तिचतुष्टयम् ।
कोणे नौका द्वितीयेऽश्वस्तृतीये तु गजो वसेत् ॥
तुरीये च वसेद्राजा वटिकाः पुरतः स्थिताः ॥
पञ्चकेन वटी राजा चतुष्केणैव कुञ्जरः ॥
त्रिकेण तु चलत्यश्वः पार्थ ! नौकाद्वयेन तु ॥
कोष्ठमेकं विलङ्घ्याथ सर्व्वतो याति भूपतिः ।
पृष्ठ २/४२०
अग्र एव वटी याति बलं हन्त्यग्रकोणगम् ।
यथेष्टं कुञ्जरो याति चतुर्द्दक्षु महीपते ! ॥
तिर्य्यक् तुरङ्गमो याति लङ्घयित्वा त्रिकोष्ठकम् ।
कोणकोष्ठद्वयं लङ्घ्य व्रजेन्नौका युधिष्ठिर ! ॥
सिंहासनं चतूराजी नृपाकृष्टन्तु षट्पदम् ।
काककाष्ठं बृहन्नौका नौकाकृष्टप्रकारकम् ॥
घाताघाते वटी नौका बलं हन्ति युधिष्ठिर ! ।
राजा गजो हयश्चापि त्यक्त्वा घातं निहन्ति च ॥
अत्यन्तं स्वबलं रक्षेत् स्वराजा बलमुत्तमम् ।
अल्पस्यारक्षया पार्थं ! हन्तव्यं बलमुत्तम् ॥
नौकायाश्चत्वारि पदानि अश्वस्याष्टौ पदानि
इत्याधिक्यमश्वस्य ॥
मतङ्गजस्य गर्व्वेण राजा क्रीडति निर्भरम् ।
तस्मात् सर्व्वबलं दत्त्वारक्ष कौन्तेय ! कुञ्जरम् ॥
सिंहासनं चतूराजी यदवस्थानतो भवेत् ।
सर्व्वसैन्यैर्गजैर्वापि रक्षितव्यो महीपतिः ॥
अन्यद्राजपदं राजा यदाक्रान्तो युधिष्ठिर ! ।
तदा सिंहासनं तस्य भण्यते नृपसत्तम् ! ॥
राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनं यदा ।
द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत् ॥
द्विगुणं पण्यं दातव्यत्वेन प्रापयेत् ॥
मित्रसिंहासनं पार्थ यदारोहति भूपतिः ।
तदा सिंहासनं नाम सर्व्वं नयति तद्बलम् ॥
यदा सिंहासनं कर्त्तुं राजा षष्ठपदाश्रितः ।
तदा घातेऽपि हन्तव्यो बलेनापि सुरक्षितः ॥
विद्यमाने नृपे यत्र स्वकीये च नृपत्रयम् ।
प्राप्नोति च तदा तस्य चतूराजी यदा भवेत् ॥
नृपेणैव नृपं हत्वा चतूराजी यदा भवेत् ।
द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत् ॥
स्वपदस्थं यदा राजा राजानं हन्ति पार्थिव ।
चतुरङ्गे तदा भूप ! वाहयेच्च चतुर्गुणम् ॥
यदा सिंहासने काले चतूराजी समुत्थिता ।
चतूराजी भवत्येव न तु सिंहासनं नृप ! ॥
अत्रेदं बीजं उभयथा जयेऽपि परसिंहासनाधि-
कारात् परराजवधे शौर्य्याधिक्यनिष्कण्टकत्व-
दर्शनात् । क्रीडायामपि तथा कल्प्यते ॥ * ॥
राजद्वयं यदा हस्ते आत्मनो राज्ञि संस्थिते ।
परेण संहृतश्चैको बलेनाप्यपहार्य्यते ॥
राजद्वयं यदा हस्ते न स्यादन्यकरे परः ।
तदा राजा हि राजानं घातेऽपि तं हनिष्यति ॥
नृपाकृष्टे यदा राजा गमिष्यति युधिष्ठिर ! ।
घाताघातेऽपि हन्तव्यो राजा तत्र न रक्षकः ॥
कोणं राजपदं त्यक्त्वा वटिकान्तं यदा व्रजेत् ।
वटी नयेत् पदं नाम तदा कोष्टबलं च षट् ॥
यदि तस्य भवेत् पार्थ ! चतूराजी च षट्पदम् ।
तदापि च चतूराजी भवत्येव न संशयः ॥
पदातेः षट्पदे विद्धे राज्ञा वा हस्तिना तथा ।
षट्पदं न भवेत्तस्य अवश्यं शृणु पार्थिव ॥
मप्तमे कोष्ठके या स्याद्बटिका दशकेन वै ।
तदान्योन्यञ्च हन्तव्यं सुखाय दुर्ब्बलं बलम् ॥
त्रिवटीकस्य कौन्तेय ! पुरुषस्य कदाचन ।
षटपदं न भवत्येव इति गोतमभाषितम् ॥
नौकैका वटिका यस्य विद्यते खेलने यदि ।
गाढावटीति विख्याता पदं तस्य न दुष्यति ॥
गाढाघात्यापदं राजपदं कोणपदञ्च तत् ।
हस्ते रङ्गे बलं नास्ति काककाष्ठं तदा भवेत् ॥
वदन्ति राक्षसाः सर्व्वे तस्य न स्तो जयाजयौ ।
प्रार्थिते पञ्चमे राज्ञि मृतवट्याञ्च षट्पदे ॥
अशौचं स्यात्तदा राजन् ! चलित्वा चालितं
पदम् ।
द्बिरावृत्त्या गतौ तस्माद्धन्यात् परबलं जयी ॥
सिंहासनं भवत्येव काककाष्ठं न भण्यते ॥
उपविष्टञ्च यत् स्थानं तस्योपरिचतुष्टये ।
नौकाचतुष्टयं यत्र क्रियते यस्य नौकया ॥
नौकाचतुष्टयं तत्र बृहन्नौकेति भण्यते ।
न कुर्य्यादेकदा राजन् ! गजस्याभिमुखं गजम् ॥
यदि कुर्व्वीत धर्म्मज्ञ ! पापग्रस्तो भविष्यति ।
स्थानाभावे यदा पार्थ ! हस्तिनं हस्तिसम्मुखम् ॥
करिष्यति तदा राजन्निति गोतमभाषितम् ।
प्राप्ते गजद्वये राजन् ! हन्तव्यो वामतो गजः ॥”
इति तिथ्यादितत्त्वे चतुरङ्गक्रीडनम् ॥

चतुरङ्गा, स्त्री, (चत्वारि अङ्गानि यस्याः ।)

घोटिकावृक्षः । इति राजनिर्घण्टः ॥

चतुरङ्गिणी, स्त्री, (चत्वारि अङ्गानि हस्त्यश्वरथ-

पदातयः सन्त्यस्यामिति । चतुरङ्ग + इनिः ।)
चतुरङ्गसेना । इति रामायणम् ॥ (यथा, महा-
भारते । १ । ७३ । २० ।
“प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥”)

चतुरङ्गुलः, पुं, (चतस्रः अङ्गुलयः परिमाणमस्य ।

समासे अच् ।) आरग्बधवृक्षः । इत्यमरः ।
२ । ४ । २३ ॥ (यथा, सुश्रुते सूत्रस्थाने
४४ अध्याये ।
“विरेचनानि सर्व्वाणि विशेषाच्चतुरङ्गुलात् ॥”)
चतुरङ्गुलिपरिमिते त्रि ॥ (यथा, शतपथ-
ब्राह्मणे । १० । २ । २ । १ ।
“स चतुरङ्गुलमेवोभयतोऽन्तत उपगूहति ॥”)

चतुरम्लं, क्ली, (चतुर्णां अम्लानां समाहारः ।)

चतुर्व्विधाम्लद्रव्यम् । यथा, भावप्रकाशे ।
“अम्लवेतसवृक्षाम्लबृहज्जम्बीरनिम्बुकैः ।
चतुरम्लं हि पञ्चाम्लं बीजपूरयुतैर्भवेत् ॥”

चतुरश्रः, त्रि, (चतस्रोऽश्रयोऽस्य । “सुप्रातसुश्व-

सुदिवेति ।” ५ । ४ । १२० । इति अच्प्रत्ययेन
निपातितः ।) चतुष्कोणः । यथा, --
“चतुरश्रं त्रिकोणं वा वर्त्तुलं चार्द्धचन्द्रकम् ।
कर्त्तव्यमानुपूर्ब्बेण ब्राह्मणादिषु मण्डलम् ॥”
इत्याह्रिकतत्त्वे बौधायनः ॥
लग्नाच्चतुर्थाष्टमलग्नम् । इति दीपिका ॥

चतुराननः, पुं, (चत्वारि आननानि मुखानि

यस्य ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ तस्य
चतुराननत्वे कारणं यथा, --
“तस्यां स चाम्भोरुहकर्णिकाया-
मवस्थितो लोकमपश्यमानः ।
परिक्रमन् व्योम्नि निवृत्तनेत्र-
अत्वारि लेभेऽनुदिशं मुखानि ॥”
इति श्रीभागवते । ३ । ८ । १६ ॥ (यथा, --
“इतरतापशतानि यथेच्छया
वितर तानि सहे चतुरानन ! ।
अरसिके तु रहस्यनिवेदनं
शिरसि मा लिख मा लिख मा लिख ॥”
इत्युद्भटः ॥)

चतुरूषणं, क्ली, (चतुर्णां ऊषणानां समाहारः ।)

पिप्पलीमूलसहितं त्रिकटु । यथा, भावप्रकाशे ।
“त्र्युषणं सकणामूलं कथितं चतुरूषणम् ।
व्योषस्यैव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ॥”

चतुर्गतिः, पुं, (चतुर्भिर्गतिरस्य ।) कच्छपः ।

इति हेमचन्द्रः । ४ । ४१९ ॥ (चतुर्णां आश्र-
माणां वर्णानां ब्राह्मणादीनां यथोक्तकारिणां
गतिराश्रयः । विष्णुः । यथा, महाभारते । १३ ।
१४९ । ९५ ।
“चतुर्मूर्त्तिश्चतुर्ब्बाहुश्चतुर्व्यूहश्चतुर्गतिः ॥”)

चतुर्थः, त्रि, चतुर्णां पूरणः । (“तस्य पूरणेडट् ।”

५ । २ । ४८ । इति डट् । ततः “षट्कतिपय-
चतुरां थुक् ।” ५ । २ । ५१ । इति थुक् ।)
चतुर्थसंख्यापूरणः । इति मुग्धबोधम् ॥ चौटा
इत्यादि भाषा ॥

चतुर्थांशः, पुं, (चतुर्थः अंशः ।) चतुर्भागैकभागः ।

तत्पर्य्यायः । तुरीयः २ पादः ३ । इति राज-
निर्घण्टः ॥ (चतुर्थः अंशो यस्य । चतुर्थांश-
स्वामिनि त्रि । यथा, मनुः । ८ । २१० ।
“तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥”)

चतुर्थिका, स्त्री, पलपरिमाणम् । इति वैद्यक-

परिभाषा ॥

चतुर्थी, स्त्री, (चतुर्णां पूरणी । “तस्य पूरणे

डट् ।” ५ । २ । ४८ । इति डट् । ततः “षट्
कतिपयचतुरां थुक् ।” ५ । २ । ४१ । इति
थुक् । ततष्टित्त्वात् ङीप् ।) तिथिविशेषः । सा
तु चन्द्रस्य चतुर्थकलाक्रियारूपा । इति स्मृतिः ॥
(चतुर्थी तु पञ्चमीयुता ग्राह्या । “युग्माग्नि-
कृतभूतानि ।” इति युग्मवचनात् तथा, --
“एकादश्यष्टमी षष्ठी अमावास्या चतुर्थिका ।
उपोष्याः परसंयुक्ताः पराः पूर्ब्बेण संयुताः ॥”
इत्यग्निपुराणवचनाच्च ॥
भविष्ये, --
“अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण अक्षयादपि चाक्षया ॥’
यत्तु, --
‘चतुर्थीसंयुता कार्य्या तृतीया च चतुर्थिका ।
तृतीयया युता नैव पञ्चम्या कारयेत् क्वचित् ॥’
इति ब्रह्मवैवर्त्तवचनं पञ्चमीयुतानिषेधकं तद्-
विनायकव्रतपरमिति गुरुचरणाः तृतीयायुता
निषेधकत्वे क्वचिदित्यनुपपत्तेः सर्व्वत्रैव पञ्चमी-
युताया ग्रहणात् । सारस्वत्यादिप्रदोषमाह ।
‘त्रयोदश्याश्चतुर्थ्याश्च सप्तम्या द्बादशीतिथेः ।
प्रदोषेऽध्ययनं धीमान् न कुर्व्वीत यथाक्रमम् ।
सारस्वतो गाणपतः सौरश्च वैष्णवस्तथा ॥’
प्रदोषशब्दोऽत्र प्रथमप्रहर इति हेमाद्रिः ।
पृष्ठ २/४२१
रात्रिपर इति निर्णयामृतकृद् भोजदेवः ॥
‘शुक्लपक्षे चतुर्थ्यान्तु सिंहे चन्द्रस्य दर्शनम् ।
मिथ्याभिशापं कुरुते न पश्येत्तत्र तं ततः ॥’
चतुर्थ्यां दर्शननिषेधात् तत्रोदितस्य चन्द्रस्य
पञ्चम्यां दर्शने तु न दोषः । अतः, --
‘पञ्चाननगते भानौ पक्षयोरुभयोरपि ।
चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ॥’
दैवात् प्रमादाद्वा दर्शने तु ।
“सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥”
अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात्
स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । माघमासस्य
शुक्लचतुर्थ्यां गौरी पूजनीया । यथा, भविष्यो-
त्तरे माघशुक्लपक्षमधिकृत्य, --
“चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता ।
सौभाग्यमतलं कुर्य्यात्पञ्चम्यां श्रीरपि श्रियम् ॥”
इति तिथ्यादितत्त्वम् ॥)
तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे ।
“स्वपुत्त्रमित्रप्रमदाप्रमोदी
घृताभिलाषी कृपया समेतः ।
विवादशीलो विजयी विवादे
भवेच्चतुर्थीप्रभवः कठोरः ॥”

चतुर्द्दन्तः, पु, (चत्वारो दन्ता यस्य ।) ऐरावत-

हस्ती । इति हेमचन्द्रः । २ । ९१ ॥ (स्वनाम-
ख्यातः पञ्चतन्त्रोक्तगजविशेषः । यथा, पञ्च-
तन्त्रे । ३ । ८० । “कस्मिंश्चिद्वनोद्देशे चतुर्द्दन्तो
नाम महागजो यूथाधिपः प्रतिवसति स्म ॥”)

चतुर्द्दश, [न्] त्रि, चतुरधिका दश । चौद्द इति

भाषा । इति ज्योतिषम् ॥ (यथा, नैषधे । १ । ४ ।
“अधीतिबोधाचरणप्रचारणै-
र्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्द्दशत्वं कृतवान् कुतः स्वयं
न वेद्मि विद्यासु चतुर्द्दशस्वयम् ॥”
चतुर्द्दशानां पूरणः । “तस्य पूरणे डट् ।” ५ । २ ।
४८ । इति डट् ।) पूरणार्थे अकारान्तोऽयं
शब्दः ॥ (यथा, हेः रामायणे । २ । ११२ । २५ ।
“चतुर्द्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम ! ।
नद्रक्ष्यामि यदि त्वान्तु प्रवेक्ष्यामि हुताशनम् ॥”)
तद्वाचकानि । विद्या १ यमः २ मनुः ३ इन्द्रः ४
भुवनम् ५ ध्रुवतारकम् ६ । इति कविकल्पलता ॥

चतुर्द्दशी, स्त्री, (चतुर्द्दश + टित्त्वात् ङीप् ।)

तिथिविशेषः । सा तु चन्द्रस्य चतुर्द्दशकला-
क्रियारूपा । तत्पर्य्यायः । भूता २ । इति
तिथ्यादितत्त्वम् ॥ (“सा च शुक्ला पूर्णिमायुता
ग्राह्या युग्मात् कृष्णा पूर्ब्बयुता ।
“कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी ।
पूर्ब्बविद्धैव कर्त्तव्या परविद्धा न कुत्रचित् ।
उपवासादिकार्य्येषु एष धर्म्मः सनातनः ॥”
इति निगमवचनात् अपराह्णव्यापित्वे तु शुक्ल-
चतुर्द्दश्यपि पूर्ब्बविद्धा ग्राह्या
‘चतुर्द्दशी तु कर्त्तव्या त्रयोदश्या युता विभो ! ।
मम भक्तैर्महाबाहो ! भवेद्या चापराह्णिकी ।
दर्शविद्धा न कर्त्तव्या राकाविद्धा तथा मुने ॥’
इति स्कन्दपुराणात् मम भक्तैरिति ईश्वरोक्तेः
शिवव्रतविषयम् । त्रयोदश्यां दिवातनमुहूर्त्त-
चतुर्द्दश्यलाभे तु पद्मपुराणम् ।
‘एकादश्यष्टमी षष्ठी उभे पक्षे चतुर्द्दशी ।
अमावास्या तृतीया च उपोष्याः स्युः परा-
न्विताः ॥’
एतद्विषय एव ।
‘शिवा घोरा तथा प्रेतासावित्री च चतुर्द्दशी ।
कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम् ॥’
इति वचनम् ।” इति च तिथ्यादितत्त्वम् ॥)
तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे ।
“विरुद्धशीलः पुरुषः सरोष-
श्चौरः कठोरः परवञ्चकश्च ।
परान्नभोक्ता परदारचित्त-
श्चतुर्द्दशी चेत् जननस्य काले ॥”
मासविशेषे तत्र कर्म्माणि यथा । ज्यैष्ठकृष्ण-
चतुर्द्दश्यां स्त्रीकर्त्तृकसावित्र्यादिदेवतापूजा
स्वामिपूजा च ॥ भाद्रशुक्लचतुर्द्दश्यां अनन्त-
पूजा चतुर्द्दशपिष्टकभक्षणं डोरकबन्धनञ्च ॥
कार्त्तिककृष्णचतुर्द्दश्यां चतुर्द्दशशाकभक्षणं चतु-
र्द्दशदीपदानं यमतर्पणञ्च ॥ अग्रहायणशुक्ल-
चतुर्द्दश्यां गौरीपूजा पाषाणाकारपिष्टकभक्ष-
णञ्च ॥ माघकृष्णपक्षे रटन्त्याख्यचतुर्द्दश्यां काली-
पूजारुणोदये स्नानञ्च ॥ फाल्गुनकृष्णपक्षे शिव-
रात्र्याख्यचतुर्द्दश्यामुपवासः शिवपूजा च ॥ चैत्र-
शुक्लपक्षे मदनचतुर्द्दश्यां मदनवृक्षपल्लवेन काम-
देवपूजा । इति स्मृतिः ॥

चतुर्द्दोलं, क्ली, पुं, (चतुर्भिर्वाहकैर्दोल्यते उत्क्षिप्य

नीयते उह्यते इति यावत् । दोलि + कर्म्मणि
घञ् । यद्वा, चतुर्भिदण्डैरुपलक्षितं दोलं
दोलायमानयानविशेषः ।) स्वनामख्यातयान-
विशेषः । यथा, --
“राज्ञो यद्द्विपदं यानं विशेषाख्यमलं विदुः ।
चतुर्भिरुह्यते यत्तु चतुर्द्दोलं तदुच्यते ॥
भोजस्तु ।
चतुर्भिर्वाहकैर्द्दण्डैः षड्भिः कुम्भैः सुसंस्थितैः ।
स्तम्भैरष्टाभिरुदितं चतुर्द्दोलमनुत्तमम् ॥
तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।
चतुर्व्विधानां भूपानां चतुर्द्दोलाः प्रकाशिताः ॥
त्रिहस्तसम्मितायामो द्विहस्तपरिणाहवान् ।
हस्तद्वयोन्नतः प्रोक्तश्चतुर्द्दोलो जयाख्यया ॥
चतुर्हस्तायतो यस्तु सार्द्धद्धन्द्वस्तदन्यथा ।
चतुर्द्दोलः समाख्यातः कल्याणस्तावदुन्नतः ॥
पञ्चहस्तायतो यस्तु त्रिहस्तपरिणाहवान् ।
तावदेवोन्नतो वीरश्चतुर्द्दोल उदाहृतः ॥
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।
चतुर्द्दोलो ह्ययं सिंहस्तदर्द्धेनोन्नतः शुभः ॥
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः ।
आद्यः समरवर्षासु परः केलिघनात्यये ॥
सर्व्वेषामेव काष्ठानां दण्डः स्याद्वज्रवारणः ।
चन्दनेनैव घटना सर्व्वेषामुपयुज्यते ॥
लोलजं सर्व्ववस्त्रेषु कनकं सर्व्वधातुषु ।
कुम्भश्च पद्मकोषश्च गिरिश्चेति यथाक्रमम् ॥
त्रैदेशानां महीन्द्राणां चतुर्द्दोलेषु विन्यसेत् ॥
दर्पणञ्चार्द्धचन्द्रश्च हंसः केकी शुको गजः ।
अश्वः सिंहश्च तस्याग्रे आदित्यादिदशोत्तरान् ॥
मणिनियमस्तु दण्डवत् ॥
रक्तः शुक्लश्च पीतश्च कृष्णश्चित्रस्तथारुणः ।
नीलः कपिल इत्युक्तः पताकानान्तु संग्रहः ॥
चतुर्द्दोलः सपताकः शुभयानमिति स्मृतः ॥
मुक्तास्तवकैर्द्दशभिर्युक्तः स्याद्राजकेशानाम् ।
चामरदण्डैर्द्दशभिर्दिग्जयिनां चतुर्द्दोलः ॥
चासपक्षस्य पुच्छश्चेत् सर्व्वोपरि परिन्यसेत् ।
यात्रासिद्धिरयं नाम्ना चतुर्द्दोलो महीभुजाम् ॥
स्तम्भच्छादरहितो निश्छदिरुक्तश्चतर्द्दोलः मानं
पूर्ब्बवत् ॥
स पुनर्द्विविधः प्रोक्तः सध्वजश्चाथनिर्ध्वजः ।
ध्वजान् षडत्र न्यस्यन्ति षडर्गविजयैषिणः ॥
तेषां मानन्तु चत्वारः स्वामिहस्तैकसम्मिताः ।
कोणेषु पश्चादग्रे च हस्तद्वयमितौ ध्वजौ ॥
सुवर्णं रजतं युग्मं त्रिविधानां महीभुजाम् ।
मणिचामरकुम्भानां खड्गादीनां विनिश्चयः ॥
चतुर्द्दोलध्वजे राज्ञां विज्ञेयो नवदण्डवत् ।
निर्ध्वजे च चतुर्द्दोले मानमन्यतमं शृणु ॥
आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः ।
विजयो नाम विज्ञातश्चतुर्द्दोलो महीभुजाम् ॥
विजयो मङ्गलो भव्यो वितस्त्येकैकवृद्धितः ।
त्रिविधानां महीन्द्राणां यानत्रयमुदाहृतम् ॥
अष्टाभिरुह्यते यस्तु अष्टदोलमुशन्ति च ।
सोपानद्वितयञ्चात्र विज्ञेयं शिल्पिनिर्म्मितम् ॥
भोजस्तु ।
अष्टाभिर्व्वाहकैर्द्दण्डैः षड्भिस्तु दशभिर्घटैः ।
स्तम्भैस्तु दशभिर्ज्ञेयमष्टदोलं महीभुजाम् ॥
तद्भेदा जयकल्याणवीरसिंहा यथाक्रमम् ।
चतुर्व्विधानां भूपानामष्टदोलाः प्रकाशिताः ॥
षड्भिर्हस्तैर्म्मितायामः परिणाहश्चतुर्भुजः ।
चतुर्हस्तोन्नतो राज्ञामष्टदोलं जयं विदुः ॥
आयामपरिणाहाभ्यां पञ्चहस्तमितो हि यः ।
कल्याणाख्योऽष्टदोलोऽयं चतुर्हस्तमितोन्नतिः ॥
सप्तहस्तायतः कार्य्ये प्रवरे पञ्चहस्तकः ।
पञ्चहस्तोन्नतो वीरश्चाष्टदोलो महीभुजाम् ॥
आयामपरिणाहाभ्यामष्टहस्तमितो हि यः ।
सिंहनामाष्टदोलोऽयं विज्ञेयः षड्भुजोन्नतः ॥
सर्व्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निश्छदिः ।
काष्ठवस्त्रघटादीनां मणीनां चामरस्य च ॥
चतुर्द्दोलवदुन्नेयो नियमोऽन्योऽपि सूरिभिः ।
पूर्ब्बवन्निश्छदेर्मानं ध्वजमानमिहोच्यते ॥
दशध्वजास्तेषु चाष्टौ स्वामिहस्तद्वयोन्नताः ।
पश्चादग्रे ध्वजौ राज्ञश्चतुर्हस्तमितौ मतौ ॥
मणिचामरपक्षाणां निर्णयो निष्पताकवत् ।
निर्ध्वजश्चाष्टदोलो यः शिविकेति स गद्यते ॥
मणिकुम्भमुखादीनां नियमो नवदण्डवत् ।
इत्यष्टदोलकथनम् ॥ * ॥
पृष्ठ २/४२२
एवं द्बादशषोडशविंशतिदोलादिकाः कार्य्याः ।
मानं सार्द्धद्विगुणं सार्द्धत्रिगुणितं युक्तमेतेषाम् ॥
विंशतिदोलात् परतो भोजमते सम्भवेद्यानम् ।
यानं बह्वनुयोज्यं बहुगुणमेतज्जगाद वै व्यासः ॥
भविष्योत्तरेऽपि ।
यदुक्तं द्वैपदं यानं तेन मानेन यो नृपः ।
स्वयानं कुरुते दिव्यं स चिरं सुखमश्नुते ॥
स्वयोगयुक्तयानस्थो भोगमाप्नोति मानवः ।
परयौगिकयानस्थः क्लेशमाप्नोति पुष्कलम् ॥
यो दम्भादथवाज्ञानाद्यानं प्रकुरुतेऽन्यथा ।
तस्यैतानि विनश्यन्ति आयुर्व्विद्या यशो धनम् ॥
प्रधानं यानमाश्रित्य नियमोऽयं समाश्रितः ।
नाप्रधाने निर्णयोऽस्ति तल्लिङ्गन्तु मनोज्ञता ॥”
इति युक्तिकल्पतरुः ॥

चतुर्धा, व्य, (चतुःप्रकारमिति । “धाच्प्रकारे ।”

इति मुग्धबोधसूत्रेण धाच् ।) चतुःप्रकारम् ।
चारिप्रकार इति भाषा ॥ इति व्याकरणम् ॥
(यथा, भागवते । ३ । २६ । १४ ।
“मनोबुद्धिरङ्कारश्चित्तमित्यन्तरात्मकम् ।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥”)

चतुर्ब्बीजं, क्ली, (चतुर्णां बीजानां समाहारः ।)

मेथिका चन्द्रशूरं कालाजाजी यवानिका एत-
च्चतुष्टयं मिलितम् । तच्चूर्णनित्यभक्षणगुणः ।
पवनामयाजीर्णशूलाध्मानपार्श्वशूलकटिव्यथा-
नाशित्वम् । इति भावप्रकाशः ॥

चतुर्भद्रं, क्ली, (चत्वारि भद्राणि यत्र वृन्दे । यद्वा,

चतुर्णां धर्म्मार्थकाममोक्षसंज्ञकानां भद्राणां
श्रेयसां समाहारः ।) सबलधर्म्मार्थकाममोक्षम् ।
इत्यमरः । २ । ७ । ५८ ॥ अन्यूनाधिकशक्ति-
धर्म्मार्थकाममोक्षम् । इति तट्टीकासारसुन्दरी ॥
(तत्तन्मङ्गलमयगुणयुक्ते त्रि । यथा, महा-
भारते । ७ । ६२ । १७ ।
“स चेन्ममार सृञ्जय ! चतुर्भद्रतरस्त्वया ।
पुत्त्रात् पुण्यतरस्तुभ्यं मा पुत्त्रमनुतप्यथाः ॥”)

चतुर्भुजः, पुं, (चत्वारो भुजा यस्य ।) विष्णुः ।

इत्यमरः । १ । १ । २० ॥ (यथा, देवीभाग-
वते । १ । ७ । ५ ।
“विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्द्दनम् ।
चतुर्भुजं महावीर्य्यं दुःखहा स भविष्यति ॥”
वटिकौषधविशेषः । यथा, --
“मृतसूतस्य भागौ द्वौ भागैकं हेमभस्मकम् ।
उगकस्तूरिका चैव हरितालञ्च तत्समम् ॥
सर्व्वं खल्लतले पिष्ट्वा कन्यास्वरसमर्द्दितम् ।
एरण्डपत्रैरावेष्ट्य धान्यगर्भे दिनत्रयम् ॥
मंस्थाप्य तत उद्धृत्य सर्व्वरोगेषु योजयेत् ।
एतहमायनवरं त्रिफलामधुमद्दितम् ॥
तद्यथाग्निबलं खादेद्बलीपलितनाशनम् ।
अपस्मारे जरे कासे शोषे मन्दानले क्षये ॥
हस्तकम्पे शिराःकम्पे गात्रकम्पे विशेषतः ।
वातपित्तसमुत्थांश्च कफजं नाशयेदुध्रुवम् ॥
सर्व्वौघधिप्रयोगैर्ये व्याधयो न निव्रर्त्तिताः ।
कर्म्मभिः पश्वभिश्चैव योजयेद्रसराजतः ॥
चतुर्भजो रसो नाम महेशेन प्रकाशितः ।
क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ॥”
इति चतुर्भुजो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे उन्मादाधिकारे ॥
स्त्रियां गायत्रीरूपा महाशक्तिः । यथा, देवी-
भागवते । १२ । ६ । ४७ ।
“चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥”
चतुर्भुजविशेष्टे, त्रि । यथा, देवीभागते । १ ।
१५ । ५६ ।
“तदा शान्ता भगवती प्रादुरास चतुर्भुजा ।
शङ्खचक्रगदापद्मवरायुधधरा शिवा ॥”)

चतुर्म्मुखः, पुं, (चत्वारि मुखानि अस्य । यद्वा

चत्वारो वेदाश्चत्वारि मुखानीवास्य ।) ब्रह्मा ।
इति शब्दरत्नावली ॥ (यथा, रधुः । १० । २२ ।
“चतुर्व्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्व्वं चतुर्म्मुखात् ॥”
“सर्व्वं चतुर्म्मुखात् चतुर्म्मुखरूपिणस्त्वत्तः जात-
मिति शेषः ।” इति तट्टीकायां मल्लिनाथः ॥
शिवः । यथा, महाभारते । १३ । १७ । ७६ ।
“चतुर्म्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥”)
औषधविशेषः । यथा, --
“रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च ।
सर्व्वं खल्लतले क्षिप्त्वा कन्यारसविमर्द्दितम् ॥
एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ।
संस्थाप्य तत उद्धुत्य सर्व्वरोगेषु योजयेत् ॥
एतद्रसायनवरं त्रिफलामधुसंयुतम् ।
तद्यथाग्निबलं खादेत् बलीपलितनाशनम् ॥
क्षयमेकादशविधं कासं पञ्चविधन्तथा ।
कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥
शूलं श्वासञ्च हिक्काञ्च मन्दाग्निं चाम्लपित्तकम् ।
व्रणान् सर्व्वानाढ्यवातं विसर्पं विद्रधिन्तथा ॥
अपस्मारग्रहोन्मादान् सर्व्वार्शांसि त्वगामयान् ।
क्रमेण सेवितं हन्ति वृक्षमिन्द्राशनिर्यथा ॥
पौष्टिकं बल्यमायुष्यं पुत्त्रप्रसवकारणम् ।
चतुर्म्मुखेण देवेन कृष्णात्रेयेण सूचितम् ॥”
इति प्रयोगामृते चतुर्म्मुखरसः ॥
(औषधान्तरं यथा, --
“मृतं सूतं मृतं स्वर्णं द्वाभ्यां तुल्या मनः शिला ।
विमर्द्दितञ्च तैलेन चातसीसम्भवेन च ॥
तद्गोल वस्त्रतो बद्ध्वा म्रक्षयेल्लेपयेत्ततः ।
अतसीफलकल्केन दोलायन्त्रे त्र्यहं पचेत् ॥
उद्धृत्य धारयेद्वक्त्रे जिह्वास्यदन्तरोगनुत् ॥”
इति चतुर्म्मुखो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे मुखरोगाधिकारे ॥)

चतुर्युगं, क्ली, चतुर्णां युगानां समाहारः । इति

व्याकरणममरटीका च ॥ (चत्वारि युगानि
यत्र इति विग्रहे चतुर्युगविशेष्टे, त्रि । यथा,
रघौ । १० । २२ ।
“चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ॥”
“चत्वारि युगानि कृतत्रेतादीनि यासु ताः
चतुर्युगाः कालावस्थाः कालपरिमाणम् ॥” इति
तट्टीकायां मल्लिनाथः ॥)

चतुर्व्वक्त्रः, पुं, (चत्वारि वक्त्राणि अस्य वस्तुतस्तु

चत्वारो वेदा एव वक्त्राणि मुखानीवास्य ।)
ब्रह्मा । इति हलायुधः ॥

चतुर्व्वर्गः, पुं, (चतुर्णां धर्म्मार्थकाममोक्षाणां वर्गः

समूहः ।) धर्म्मार्थकाममोक्षम् । इत्यमरः ।
२ । ७ । ५८ ॥ (यथा, रघौ । १० । २२ ।
“चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ॥”)

चतुर्व्विद्यः, पुं, (चतस्रो विद्या अस्मिन्निति ।

यद्वा । ७ । ३ । ३१ । इत्यस्य सूत्रस्य वार्त्ति-
कोक्तं यथा, “चतुर्वेदस्योभयपदवृद्धिश्च । चतुरो
वेदानधीते चतुर्वेदः स एव चातुर्वैद्यः । चतु-
र्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातु-
र्व्वैद्यः ।”) चतुर्व्वेदवेत्ता । अस्य रूपान्तराणि ।
चतुर्व्वेदः । चातुर्व्वैद्यः । चातुर्व्वैदः । इति
व्याकरणम् ॥

चतुलः, त्रि, (चत + उलच् ।) स्थापयिता । इति

संक्षिप्तसारे उणादिवृत्तिः ॥

चतुष्कं, क्ली, (चत्वारोऽवयवा यस्य वा कन् ।

चतुष्कं चतुरवयवम् । यथा, मनुः । ७ । ५० ।
“पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥”
गृहविशेषः । यथा, कुमारे । ५६८ ।
“चतुष्कपुष्पप्रकरावकीर्णयोः
परोऽपि को नाम तवानुमन्यते ॥”)
यष्टिभेदः । इति शब्दरत्नावली ॥
(पुंसि तु राजविशेषः । यथा, राजतरङ्गिण्याम् ।
८ । २८४९ ।
“अथ पांक्तीहरिर्य्योऽभूच्चतुष्कः कोष्टकानुजः ॥”)

चतुष्की, स्त्री, (चतुष्क + स्त्रियां ङीप् ।) मशहरी ।

मशारि इति भाषा ॥ पुष्करिणीभेदः । इति
मेदिनी । फे । ८७ ॥

चतुष्टयं, क्ली, केन्द्रम् । इति नीलकण्ठीयजातकम् ॥

(चतःसंख्या । यथा, कुमारे । ७ । १३ ।
“तस्मात् प्रदेशाच्च वितानवन्तं
युक्तं मणिस्तम्भचतुष्टयेन ॥”
चत्वारोऽवयवा यस्य । “संख्याया अवयवे
तयप् ।” ५ । २ । ४२ । इति तयप् । ततो
रेफस्य विसर्गे सत्वे च कृते “ह्रस्वात्तादौ
तद्धिते ।” ८ । ३ । १०१ । इति षत्वम् ।) चतु-
रवयवे त्रि । इति मुग्धबोधम् ॥ (यथा,
मनुः । ८ । १३० ।
“वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् ।
तदैषु सर्व्वमप्येतत् प्रयुञ्जीत चतुष्टयम् ॥”
यथाच, कुमारे । २ । १७ ।
“प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥”)

चतुष्पथं, क्ली, (चतुर्णां पथां समाहारः । “तद्धि-

तार्थेति ।” २ । १ । ५१ । इति समासः ।
“ऋक्पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति
अः । “इद्दुपधस्येति ।” ८ । ३ । ४१ । इति
षत्वम् । यद्वा, चत्वारः पन्थानो यत्र इति ।)
एकत्र मिलितपथचतुष्टयम् । चौमाता पथ इति
भाषा ॥ तत्पर्य्यायः । शृङ्गाटकम् २ । इत्य-
पृष्ठ २/४२३
मरः । २ । १ । १७ ॥ (यथा, मनुः । ४ । ३९ ।
“मृदङ्गान् दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्व्वीत प्रज्ञातांश्च वनस्पतीन् ॥”)

चतुष्पथः, पुं, (चत्वारः पन्थानो ब्रह्मचर्य्यादय

आश्रमा यस्य । “ऋक्पूरिति ।” ५ । ४ । ७४ ।
इति अः ।) ब्राह्मणः । इति मेदिनी ।
थे २७ ॥

चतुष्पदः, पुं, (चत्वारि पदानि यस्य ।) पशुः ।

(यथा, बृहत्संहितायाम् । २१ । १७ ।
“तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥”)
करणविशेषः । इति मेदिनी । दे । ४८ ॥ तत्र
जातस्य फलं यथा, कोष्ठीप्रदीपे ।
“चतुष्पदभवो मर्त्यः सदाचारविवर्जितः ।
स्वल्पवित्तः क्षीणदेहश्चतुष्पादधनान्वितः ॥”
“मेषवृषसिंहराशयः मकरपूर्ब्बार्द्धंधनुःपरार्द्धञ्च ।”
इति दीपिका ॥
(चतुष्पदविशिष्टे । त्रि । यथा, महाभारते ।
१ । ९० । ११ ।
“चतुष्पदं द्विपदञ्चापि सर्व्वमेवं भूता गर्भभूता
भवन्ति ॥”
व्याधिनिवारणोपायाः । यथा, --
“वैद्यो व्याध्युपसृष्टस्तु भेषजं परिचारकः ।
एते पादाश्चिकित्सायाः कर्म्मसाधनहेतवः ॥
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ।
व्याधिमल्पेन कालेन महान्तमपि साधयेत् ॥
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ।
उद्गातृहोतृब्रह्माणो यथाध्वर्य्युं विनाध्वरे ॥
वैद्यस्तु गुणवानेकस्तारयेदातुरान् सदा ।
प्लवं प्रतितरैर्हीनं कर्णधार इवाम्भसि ॥
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती ।
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ।
सत्यधर्म्मपरो यश्च स भिषक् पाद उच्यते ॥
आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि ।
आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते ॥
प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ।
युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् ॥
दोषघ्नमम्लानिकरमविकारि विपर्य्यये ।
समीक्ष्य दत्तं काले च भेषजं पाद उच्यते ॥
स्निग्धोऽजुगुप्सुर्ब्बलवान् युक्तो व्याधितरक्षणे ।
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥”
इति सुश्रुते सूत्रस्थाने ३४ अध्याये ॥)

चतुष्पदी, स्त्री, (चत्वारः पादा यस्याः । “संख्यासु-

पूर्ब्बस्य ।” ५ । ४ । १४० । इति अन्तलोपे ।
“पादोऽन्यतरस्याम् ।” ४ । १ । ८ । इति ङीपि ।
“पादः पत् ।” ६ । ४ । १३० । इति पदादेशः ।)
पद्यम् । इति मेदिनी । दे । ४८ ॥ चौपदी इति
भाषा ॥ (यथा, छन्दोमञ्जर्य्याम् । १ स्तवके ।
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥”)

चतुष्पाटी, स्त्री, (चतस्रः दिशः पाटयति भिन-

त्तीति । पाटि + अण् + स्त्रियां ङीप् ।) नदी ।
इति शब्दमाला ॥

चतुष्पाठी, स्त्री, चतुर्णां वेदानां पाठो यस्यां सा ।

छात्राध्ययनस्थानम् । चौपाठी इति भाषा ॥
इति लोके प्रसिद्बिः ॥

चतुष्पाणिः, पुं, (चत्वारः पाणयो हस्ता यस्य ।)

विष्णुः । इति हारावली । ९ ॥ (चतुर्हस्त-
विशिष्टे, त्रि ॥)

चतुस्समं, क्ली, (चतुर्णां चन्दनागुरुकस्तूरी-

कुङ्कुमानां समः समभागो यत्र । यद्वा, चतुर्भि-
श्चन्दनादिभिः समं एकत्र सहावस्थानं यत्र ।)
मिलितचन्दनागुरुकस्तूरीकुङ्कुमरूपम् । इति
हेमचन्द्रः । ३ । ३०३ ॥ औषधविशेषः । यथा,
सुखबोधे ।
“लवङ्गं सैन्धवं पथ्या यमानी च चतुस्समम् ।
आमशूलविबन्धघ्नं पाचनं भेदि शोषनुत् ॥”
अन्यच्च ।
“जातीफलं त्रिदशपुष्पसमन्वितञ्च
जीरञ्च टङ्गणयुतं चरकेण चोक्तम् ।
चूर्णानि माक्षिकसितासहितानि लीढ्वा
आमातिसारमखिलं गुरु हन्ति शूलम् ॥”

चतुस्त्रिंशत्, स्त्री, चतुरधिका त्रिंशत् । चौत्रिश्

इति भाषा ॥ इति ज्योतिषम् ॥ (यथा, ऋग्वेदे ।
१ । १६२ । १८ ।
“चतुस्त्रिंशद्बाजिनो देवबन्धो
र्वंक्त्रीरश्वस्य स्वधितिः समेति ॥”)

चतुस्त्रिंशज्जातज्ञः, पुं, (चतुस्त्रिंशज्जातं जानातीति ।

ज्ञा + “आतोऽनुपसर्ग कः ।” ३ । २ । ३ । इति कः ।)
बुद्धभेदः । इति हेमचन्द्रः । २ । १४७ ॥

चतूराजी, स्त्री, (चतुर्भिरङ्गैः राजते दीप्यते

इति । राज् + “कर्म्मण्यण् ।” ३ । २ । १ ।
इति अण् । स्त्रियां ङीप् ।) चतुरङ्गक्रीडा-
विशेषः । इति तिथ्यादितत्त्वम् ॥

चत्वरं, क्ली, (चत्यते स्वीक्रियते इति । चत + “कॄ

गॄ शॄ वृ चतिभ्यः ष्वरच् ।” उणां । २ । १२१ ।
इति ष्वरच् ।) स्थण्डिलम् । होमार्थपरिष्कृता
भूमिः । अङ्गनम् । इत्यमरः । २ । ७ । ८ ॥
उठान चाताल इति च भाषा ॥ (चतसृणां
रथ्यानां सङ्गमः । इति शब्दार्थचिन्तामणिः ॥
यथा, महाभारते । ३ । १५ । २० ।
“अनुरथ्यासु सर्व्वासु चत्वरेषु च कौरव ! ।
बलं बभूव राजेन्त्र ! प्रभूतगजवाजिमत् ॥”
नानाजनपदेभ्यः समागतानां वासस्थानम् । मठ
इति भाषा ॥ यथा, कथासरित्सागरे । ६ । ४१ ।
“कृत्वा तांश्चणकान् पिष्टान् गृहौत्वा जलकुम्भि-
काम् ।
अतिष्ठं चत्वरे गत्वा छायायां नगराद्वहिः ॥”)

चत्वारः, त्रि, (चतुर्शब्दस्य प्रथमाविभक्तेर्बहु-

वचनेन सिद्धेस्तथात्वम् ।) चतुःसंख्या । चारि
इति भाषा ॥ इति व्याकरणम् ॥ तद्वाचकानि ।
वेदः १ ब्रह्मास्यम् २ वर्णः ३ समुद्रः ४ हरिबाहुः ५
स्वर्दन्तिदन्तः ६ सेनाङ्गम् ७ उपायः ८ यामः ९
युगम् १० आश्रमम् ११ वृत्तपादः १२ । इति
कविकल्पलता ॥ चतुःसंख्याविशिष्टे त्रि । इत्यमरः ॥

चत्वारिंशत्, स्त्री, (चत्वारो दशतः परिमाण-

मस्याः । “पङ्क्तिविंशतीति ।” ५ । १ । ५९ ।
इति निपातनात् साधुः ।) संख्याविशेषः ।
इति ज्योतिषम् ॥ चल्लिश इति भाषा ॥ (यथा,
भागवते । ४ । १ । ६० ।
“तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च ॥”)

चत्वालः, पुं, (चत्यते प्रार्थ्यते स्वीक्रियते होमायेति ।

चत + “स्थाचतिमृजेरिति ।” वालञ् न वृद्धिः ।)
होमकुण्डम् । दर्भः । इति भेदिनी । ले । ८९ ॥
गर्भः । इति विश्वहेमचन्द्रौ ॥

चद, ए ञ याचे । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-द्विकं-सेट् ।) ए, अचदीत् । ञ, चदति
चदते । इति दुर्गादासः ॥

चद, इ ह्लादे । दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) इ, कर्म्मणि चन्द्यते । ह्लादो
हर्षः । इति दुर्गादासः ॥

चदिरः, पुं, (चन्दति दीप्यते स्वशरीरादिना इति ।

चदि + बाहुलकात् किरच् निपातनात् नस्य
लोपः ।) हस्ती । चन्द्रः । कर्परम् । भुजगः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

चन, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) चनति । इति दुर्गादासः ॥

चन, म हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) म, चनयति । इति दुर्गादासः ॥

चन, व्य असाकल्यम् । अकार्त् स्न्यम् । यथा ।

किञ्चन । इत्यमरभरतौ ॥ (“किमः क्त्यन्तात्
चित्चनौ ।” इति सूत्रेण ।) प्रत्ययोऽयं विभ-
क्त्यन्तकिम्शब्दादुत्तरे भवति । इति मुग्धबोधम् ॥

चन्च, उ इतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, चञ्चित्वा
चक्त्वा । इतिर्गतिः । इति दुर्गादासः ॥

चन्दः, पुं, (चन्दयति आह्लादयति यद्वा चन्दात

दीप्यते इति । चन्दि वा चन्द + पचाद्यच् ।)
चन्द्रः । इति भरतधृतशब्दार्णवः ॥

चन्दकः, पुं, (चन्दयति आह्लादयति लोकानिति ।

चदि ह्लादे + णिच् + “ण्वुलतृचौ । ३ । १ । १३३ ।
इति ण्वुल् ।) मत्स्यविशेषः । चाँदा इति
भाषा ॥ तस्य गुणः । रुचिबलकारित्वम् । अन-
भिष्यन्दित्वञ्च । इति राजवल्लभः ॥ चन्द्रकोऽपि
पाठः ॥ (चन्द्रकशब्देऽस्य विवृतिर्व्याख्येया ॥)

चन्दनः, पुं, क्ली, (त्तन्दयति आह्लादयतीति । चदि

आह्लादे + णिच् + ल्युः ।) स्वनामख्यातवृक्षः ।
(यथा, गोः रामायणे । ५ । ७४ । ३ ।
“चन्दनांस्तिलकांश्चूतानशोकान्सिन्धुवारकान् ॥”
तथा च पञ्चतन्त्रे । १ । ४२ ।
“विना मलयमन्यत्र चन्दनं न प्ररोहति ॥”)
तत्पर्य्यायः । गन्धसारः २ मलयजः ३ भद्रश्रीः ४ ।
इत्यमरः । २ । ६ । १३१ ॥ श्रीखण्डम् ५ महा-
र्हम् ६ श्वेतचन्दनम् ७ गोशीर्षम् ८ तिल-
पणम् ९ मङ्गल्यम् १० मलयोद्भवम् ११ गन्ध-
राजम् १२ सुगन्धम् १३ सर्पावासम् १४ शीत-
लम् १५ गन्धाढ्यम् १६ भोगिवल्लभम् १७ पाव-
पृष्ठ २/४२४
नम् १८ शीतगन्धः १९ । इति राजनिर्घण्टः ॥
तैलपर्णिकः २० चन्द्रद्युतिः २१ । इति भाव-
प्रकाशः ॥ भद्रश्रियम् २२ हितम् २३ हिमम्
२४ । इति रत्नमाला ॥ पटीरः २५ वर्णकः २६
भद्राश्रयः २७ सेव्यः २८ रौहिणः २९ । इति
शब्दरत्नावली ॥ याम्यः ३० पीतसारः ३१ ।
इति जटाधरः ॥ अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । शीतलत्वम् । स्वादे कियतकषाय-
त्वम् । पित्तभ्रान्तिवमिज्वरक्रिमितृषासन्ताप-
शान्तिकारित्वम् । वृष्यत्वम् । वक्त्ररोगनाशित्वम् ।
शरीरकान्तिवृद्धिकारित्वम् । लेपने कामवृद्धि-
कारित्वम् । अतिसौरभ्यदत्वञ्च । इति राज-
निर्घण्टः ॥ रूक्षत्वम् । तिक्तत्वम् । आह्लादन-
त्वम् । लघुत्वम् । श्रमशीर्षरोगविषश्लेष्मास्रदाह-
नाशित्वञ्च ॥ * ॥ श्रेष्ठचन्दनलक्षणं यथा, --
“स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् ।
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते ॥”
इति भावप्रकाशः ॥
वानरविशेषः । इति हेमचन्द्रः । ३ । ३०५ ॥

चन्दनं, क्ली, (चन्द्यते आह्लाद्यते अस्मादनेन वा

इति । चदि ह्लादे + णिच् + ल्युट् ।) भद्रकाली ।
इति मेदिनी । ने । ६१ ॥

चन्दनगोपी, स्त्री, (चन्दनमपि गोपायति स्वगन्धा-

दिना रक्षतीति । गुप + अण् । ततो ङीप् ।
यद्वा, चन्दनवद् गुप्यति दीप्यते इति । अच् ।)
शारिवाविशेषः । इति राजनिर्घण्टः ॥

चन्दनधेनुः, स्त्री, (चन्दनेन अङ्किता धेनुः । मध्य-

पदलोपिकर्म्मधारयः ।) पतिपुत्त्रवन्मृतनार्य्यु
द्देश्यकोत्सृष्टचन्दनाङ्कितसवत्सगौः । तत्प्रमाण-
प्रयोगौ लिख्येते ।
“नत्वा शिवं चन्दनचर्च्चिताया
धेनोः प्रदाने सविधिप्रयोगम् ।
रत्नाकरादेर्लिखितं विलोक्य
तनोति वाचस्पतिरग्र्यबुद्धिः ॥”
अथ चन्दनधेनुदानविधिः । तत्र रत्नाकरे देवलः ।
जीवद्भर्त्री तु या नारी पुत्त्रिणी म्रियते यदि ।
सवत्सामङ्कितां धेनुमाचार्य्याय प्रदापयेत् ॥
पतिपुत्त्रवती नारी म्रियते याग्रतस्तयोः ।
वृयं न चोत्सृजेत् पुत्त्रः पिता यावच्च जीवति ॥
तथा कर्म्मोपदेशिन्यां ब्राह्मणसर्व्वस्वे च हला-
युधधृतानि वचनानि । यथा स्मृतिः ।
पतिपुत्त्रवती नारी म्रियते भर्त्तुरग्रतः ।
चन्दनेनाङ्कितां धेनुं तस्याः स्वर्गाय कल्पयेत् ॥
तथा जातूकर्णः ।
धेनुं चन्दनमालिप्य यो दद्यान्मातृहेतवे ।
यदि पापशतैर्युक्ता तथापि स्वर्गमाप्नुयात् ॥
तथा वशिष्ठः ।
न युक्तश्च वृषोत्सर्गो यावत् पितरि जीवति ।
चन्दनेनाङ्कितां धेनुमाचार्य्याय प्रदापयेत् ॥ * ॥
चतुर्हस्तो भवेद्यूपो यज्ञवृक्षसमुद्भवः ।
वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो धेनुमौलिकः ॥
विल्वस्य वकुलस्यैव कलौ यूपः प्रशस्यते ।
अभावे वारुणेनापि यूपं कुर्य्याद्विधानतः ॥
वृषोत्सर्गे तु वृषमौलिकः ।
तरुणी रूपसम्पन्ना सुशीला च पयस्विनी ।
न्यायार्ज्जिता गृहे जाता देया सा श्रोत्रियाय
गौः ॥
नदीतीरे वने गोष्ठे देवतायतनेषु च ।
व्रीहिक्षेत्रे कुशक्षेत्रे राजद्वारे चतुष्पथे ॥
एषु वचनेषु वृषोत्सर्गनिषेधचन्दनधेनूतसर्ग-
विध्योर्युगपदुपसंहारदर्शनात् वृषोत्सर्गस्थाने
प्रधानतया चन्दनधेनूत्सर्गः प्रतीयते । अतो-
ऽस्य वृषोत्सर्गकार्य्यकारित्वात् तत्फलहेतुत्वं
लभ्यते । एकोद्दिष्टं न कुर्व्वीत न्यासिनाञ्चैव
सर्व्वदा । अहन्येकादशे प्राप्ते पार्व्वणन्तु विधी-
यते ॥ इति श्राद्धविवेकधृतोशनोवचने त्रिदण्ड-
सन्न्यासिनां एकोद्दिष्टनिषेधपार्व्वणविध्योर्युग-
पदुपसंहारात् एकोद्दिष्टस्थाने पार्व्वणमिव ।
यद्वा पतिपुत्त्रवतीरूपप्रेतविशेषाधिकृतवृषं न
चोत्सृजेदिति निषेधचन्दनधेनूत्सर्गविधिभ्यां
प्रेतमात्राधिकृतसामान्यवृषोत्सर्गविध्यवगतफल-
भावनाकरणीभूतवृषकर्म्मकत्यागमनूद्य तत्कर्म्मी-
भूतवृषमपंहाय तत्स्थाने धेनुमात्रगुणविधि-
र्लाघवादवगम्यते । पशुयागे सामान्यविध्यव-
गतापः प्रणयनीयाधिकरणीभूतचमसस्थाने गो-
दोहेनापः प्रणयेदिति विशेषविधिना गोदोह-
गुणविधिवत् । नालाभेऽपि प्रवेशिनीम् । उपोष्य
द्वादशीं तत्र त्रयोदश्यान्तु पारणमित्यत्र एका-
दशीरूपनिमित्तस्थाने द्वादशीमात्रगुणविधि-
वच्च । अन्यथा धेनूत्सर्गस्य पृथक्कर्म्मत्वे फल-
भावना तत्करणनियोज्यानां पृथक्कल्पने
गौरवं स्यात् । उक्तविधिनिषेधयोरुपसंहारवैय-
र्थञ्च स्यात् । ततश्च करणैक्यात् फलैक्यमिति ।
चन्दनधेनूत्सर्गेऽपि प्रेतत्वविमुक्तिपूर्ब्बकस्वर्ग-
प्राप्तिः फलम् । एवं कपिलमन्त्रस्थपापव्यपग-
मस्वर्गप्रार्थनाया अपि तथैव तात्पर्य्यम् । तथा
जातूकर्णवचनस्थपापस्वर्गपदयोरपि तथैव तात्-
पर्य्यं बोध्यम् । भूतार्थानां विधिशेषिणामेव जैमि-
न्युक्तप्रामाण्येन प्रकृते सिद्धे विधिशेषित्वे लाघ-
वात् । पापिष्ठमपि शुद्धेन शुद्धं पापकृतापि वेति
कात्यायनवचनस्थपापपदस्य प्रेतत्वे एव तात्-
पर्य्यदर्शनाच्च । अत्र यद्यपि पतिपुत्त्रवतीत्यत्र
पतिपुत्त्रवत्त्वस्य विशेष्यीभूतकर्त्त्रन्वयिमरणान्वयि-
त्वेन न विशेषणत्वं किन्तूपलक्षणत्वमेव ततश्च
काकवन्तो देवदत्तस्य गृहा इतिवत् कादाचित्क
तद्वत्तामादायापि पतिपुत्त्रवतीतिप्रयोग उप-
पद्यते । तथापि अग्रतस्तयोर्भर्त्तुरग्रत इत्याभ्यां
मरणकालिकी पतिपुत्त्रसत्तावगम्यते । गवां
गोष्ठे इतिवत् । अथवा परार्द्धान्वयेन धेनूत्-
सर्मकालिकीति । नचापुप्पिता मृता काचित्
तस्या धेनुर्विगर्हिता । इति कपिलवचने
अपुष्पितायाः पुत्त्रकर्त्तृकधेनूत्सर्गनिषेधस्या-
प्रसक्ततया सपत्नीपुत्त्रकर्त्तृकधेनूत्सर्गनिषेध-
प्राप्तौ तद्दृष्ट्या पतिपुत्त्रवतीत्यस्य सपत्नीपुत्त्र-
वतीपरत्वं अवश्यं वाच्यम् । तदेकवाक्यतया
पुत्त्रिणीत्यादावपि तथात्वमिति वाच्यम् ।
अपुष्पितेति कपिलार्द्धस्य प्रसक्तिपूर्ब्बकतार्थं
पतिपुत्त्रवत् निवृत्तरजस्काया धेनूत्सर्गनिषे-
धार्थत्वात् गत्यां सत्यां लक्षणाया बीजाभावात् ।
प्रतियोगिवत्ध्वंसप्रागभावयोरपि अत्यन्ताभाव-
विरोधित्वमते तु अजातपुष्पस्त्रीपरत्वं वा भवतु
तथात्वेऽपि तस्या धेनुर्व्विगर्हितेति अप्रसक्ता-
र्थापि अपुष्पिताधेनुदाननिन्दा पतिपुत्त्रवत्या-
श्चन्दनधेनुदानस्तुतिपरा । यथा हरेरुत्थाने
पौष्णशेषेण किन्तेन प्रतिपद्यथ यो निशीत्य-
प्रसक्तापि निन्दा एकादश्यादिपौर्णमास्यन्त-
पञ्चके रेवत्यन्तपादयोगविधिस्तुतिपरा । यथा
वा वेदगाने यो गिरा गिरेति ब्रूयात् स आत्मान-
मपि गिरेत् इत्यप्रसक्तनिन्दा ऐरं कृत्वा अव-
गिरेदिति बिधेः स्तुतिपरा । अतएव उक्तं
शावरभाष्ये । न हि निन्दा निन्द्यं निन्दितुं
प्रवर्त्तते अपि तर्हीतरत् स्तोतुमिति । स्तुतौ हि
अप्रसिद्धगुणदोषारोपणदोषाय । न चात्र काम्य-
स्यैव कार्त्तिक्यादिवृषोत्सर्गस्य स्थाने धेनुदानं
विधीयते इति वाच्यम् । तन्मात्रपरत्वे माना-
भावात् । प्रत्युत म्रियत इति वर्त्तमानार्थक-
विभक्त्या वर्त्तमानसामीप्येनाचिरप्रमीतोप-
स्थितेश्च । ये तु बह्वीनामेकपत्नीनामेका चेत्
पुत्त्रिणी भवेत् । सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्र-
वतीर्म्मनुरिति मनुना पुत्त्रवतीत्वाभिधानादेव
पतिपुत्त्रवतीत्यत्र सपत्नीपुत्त्रवती प्रतीयते इति
ब्रुवते तेऽतीवभ्रान्ताः । पुत्त्रवतीति पदस्याखण्ड-
तया मतुपा पतिपदस्यान्वये तटस्थत्वापत्तेः ॥ * ॥
ननु वृषतुल्यवयो वर्णो वृषः स्याद्दक्षिणा द्विजाः ।
वृषोत्सर्गे तथा पुंसां स्त्रीणां स्त्रीगौर्विशिष्यते ॥
इति भविष्यसंवादाद्धेनुदानमिदं पतिपुत्त्रवत्या
वृषोत्सर्गे दक्षिणादानस्य विशेषरूपम् । न तु
प्रधानकर्म्मान्तरं गौरवात् । न च दक्षिणाया
अङ्गत्वेन फलासङ्गतिः । यस्य पर्णमयी जुहू-
र्भवति न स पापश्लोकं शृणोतीतिवत्तदुपपत्ते-
रिति चेत् न । वृषोत्सर्गदक्षिणातश्चन्दना-
ङ्कितधेनुदानस्य प्रकरणान्तराम्नायेन प्रकरणा-
न्तरन्यायतः प्रधानत्वसिद्धेः । वृषोत्सर्गस्थानीय-
त्वेनानुवर्त्तमानशिष्टाचारात् । धेनुदानयुगनद्ध-
वृषोत्सर्गनिषेधानामसङ्गतेः । कपिलपञ्चरात्रे
चन्दनधेनुदानस्यापीति कर्त्तव्यतायां वृषरूप-
दक्षिणादानविधानाच्च ॥ * ॥
यथा कपिल उवाच ।
अतः परं प्रवक्ष्यामि धेनुदानमनुत्तमम् ।
पतिपुत्त्रवती नारी म्रियते भर्त्तुरग्रतः ॥
चन्दनेनाङ्कितां धेनुपाचार्य्याय निवेदयेत् ॥
तथा ।
जीवद्भर्त्ती तु या नारी पुत्त्रिणी म्रियते यदि ।
सवत्सामङ्कितां धेनुमाचार्य्याय निवेदयेत् ॥
साध्वी पतिव्रता नारी म्रियते याऽग्रतस्तयोः ।
वृषं नैवोत्सृजेत् पुत्त्रो यावत् पितरि जीवति ॥
पृष्ठ २/४२५
मृतपुत्त्रा च या नारी संगृहीता तु या भवेत् ।
तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते ॥
अपुष्पिता मृता काचित्तस्या धेनुर्विगर्हिता ।
दद्याद्धेनुं सुतो ज्येष्ठः कनिष्ठो वृषमुत्सृजेत् ॥
द्वयोः सोदरयोरेको भवेत् ज्येष्ठः प्रधानतः ।
त्रयाणां द्वौ सुतौ ज्येष्ठौ चतुर्णाञ्च त्रयः स्मृताः ॥
पञ्चानां सोदराणाञ्च त्रयो ज्येष्ठाः प्रकीर्त्तिताः ।
ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं विधानतः ॥
हेमशृङ्गीं खुरै रूप्यैः सुशीलां वस्त्रसंयुताम् ।
कांस्योदरीं ताम्रपृष्ठां घण्टाचामरभूषिताम् ॥
प्रबालमालिकां दद्यात् कर्णयोरुभयोरपि ।
चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत् ॥
गवां लोकमवाप्नोति दिवि देवैश्च मोदते ।
चन्दनेनाङ्कितां धेनुं दत्त्वा गच्छेत् सुरालयम् ॥
तावत्तिष्ठति स्वर्लोके यावदाहूतसंप्लवम् ।
न चोत्सर्गो वृषस्यात्र वत्सतर्य्यन्वितस्य च ॥
वृषोत्सर्गविधानेन कर्त्तव्यं सर्व्वकर्म्म च ।
मा नस्तोकेति मन्त्रेण दक्षे वृषाज्यसीति च ॥
धेनोश्च सक्थिदेशे तु त्रिशूलाङ्कं समालिखेत् ।
वामभागे विशेषोऽयं दक्षे चक्रं समालिखेत् ॥
तत्रान्यद्वर्ज्जयेद्विद्वानाचार्य्यस्तु विधानवित् ।
ततो वै संलिखेच्चक्रं पञ्चाङ्गुलप्रमाणकम् ॥
शूलं षडङ्गुलं कार्य्यं दक्षे वामेयथाविधि ।
पूर्ब्बाशाभिमुखीं धेनुं यजमानोत्तरामुखः ॥
मस्तकादिक्रमेणैव प्रतिमन्त्रैः प्रपूजयेत् ॥” * ॥
शिरसि ॐ ब्रह्मणे नमः । ललाटे ॐ
वृषभध्वजाय नमः । कर्णयोः ओम् अश्विनी-
कुमाराभ्यां नमः । चक्षुषोः ॐ शशिभास्क-
राभ्यां नमः । जिह्वायां ॐ सरस्वत्यै
नमः । दन्तेषु ॐ वसुभ्यो नमः । ओष्ठयोः
ॐ सन्ध्यायै नमः । ग्रीवायां ॐ नील-
कण्ठाय नमः । हृदि ॐ स्कन्दाय नमः ।
रोमकूपेषु ओम् ऋषिभ्यो नमः । दक्षिणपार्श्वे
ॐ कुवेराय नमः । वामपार्श्वे ॐ वरु-
णाय नमः । रोमाग्रेषु ॐ रश्मिभ्यो नमः ।
ऊरुषु ॐ धर्म्माय नमः । जङ्घासु ओम्
अधर्म्माय नमः । श्रोणितटे ॐ पितृभ्यो
नमः । खुरमध्ये ॐ गन्धर्व्वेभ्यो नमः ।
खुराग्रे ओम् अप्सरोभ्यो नमः । लाङ्गूले ॐ
द्वादशादित्येभ्यो नमः । गोमये ॐ महालक्ष्म्यै
नमः । गोमूत्रे ॐ गङ्गायै नमः । पयोधरेषु
ॐ चतुःसागराय नमः ।
एवमङ्गानि संपूज्य पठेन्मन्त्रं समाहितः ।
ओम् इन्द्रस्य च त्वमिन्द्राणी विष्णोर्लक्ष्मीश्च या
स्मृता ।
रुद्रस्य गौरी या देवी सा देवी वरदास्तु मे ॥
ॐ या लक्ष्मीर्लोकपालानां या च देवेष्ववस्थिता ।
धेनुरूपेण सा देवी तस्याः पापं व्यपोहतु ॥
ॐ देहस्था या च रुद्राणी शङ्करस्य सदा प्रिय ॥
धेनुरूपेण सा देवी तस्याः शान्तिं प्रयच्छतु ॥
ॐ सर्व्वदेवमयी दोग्ध्री सर्व्वलोकमयी तथा ।
धेनुरूपेण सा देवी तस्याः स्वर्गं प्रयच्छतु ॥
ग्रहीत्वार्ध्यञ्च पाद्यञ्च उत्सृजेत्तामलङ्कृताम् ।
दीयते ब्राह्मणायैषा आचार्य्याय महात्मने ॥
एवंविशिष्टां तां धेनुं दत्त्वा तर्पणमारभेत् ।
पुच्छं गृहीत्वा पित्रादीन् वृषोत्सर्गंविधानतः ॥
ऐशान्याञ्चालयेत् किञ्चिदाचार्य्याय च दक्षिणाम् ।
वृषभञ्च ततो दद्यादाचार्य्याय गुणान्वितम् ॥
पूजयेद्ब्राह्मणांश्चैव वस्त्रमाल्यादिभिस्ततः ।
कांस्यपात्रं वस्त्रयुग्मं सुवर्णञ्च विशेषतः ॥
आचार्य्याय प्रदातव्यं ब्रह्मणे कनकं तथा ।
आगतान् पूजयेद्भक्त्या यथाशक्ति विधानतः ॥
दीनार्त्तकृपणादींश्च अन्नाद्यैः परितोषयेत् ॥”
इति कापिले धेनुदानप्रमाणम् ॥ * ॥
पुस्तकान्तरे पाठाधिक्यं यथा, --
“एकादशाहे प्रेतायाः षण्मासे चाब्दिके तथा ।
त्रिपक्षे मासिके वापि दद्याद्गां चन्दनाङ्किताम् ॥
तथा वराहपुराणम् ।
अयने विषुवेऽष्टम्यां युगाद्यापूर्णिमासु च ।
दर्शे मन्वन्तरे चैव धेनुं दद्यात् सुपूजिताम् ॥
ननु आद्यश्राद्धे त्रिपक्षे वेत्यादिना आद्यश्राद्ध-
कर्त्तव्यनित्यवृषोत्सर्गकालस्य परपरकालो
गौणः । न वा सर्व्वे कालाः स्युः । तत्र नाद्यः
त्रिपक्षादौ शिष्टाचारविरोधात् । नापि द्वितीयः
त्रिपक्षादौ नित्यत्वबोधकाभावात् । वस्तुतः
आद्यश्राद्धे वृषोत्सर्गस्य नित्यत्वं त्रिपक्षादौ
काम्यत्वम् । आद्यश्राद्वपदं अशौचान्तद्वितीय-
दिनपरम् । अशौचान्ताद्द्वितीयेऽह्नीत्याद्येक-
वाक्यत्वात् । अत्र च आद्यश्राद्धस्य विघ्नपतित-
त्वन एकादश्यादौ क्रियमाणत्वे वृषोत्सर्गमपि
न कुर्य्यात् । आद्यश्राद्धदिने वृषोत्सर्गाकरणे
त्रिपक्षाद्यन्यतमकालेऽपि वृषोत्सर्गस्यावश्य-
प्रेतत्वपरीहारकत्वेन तस्य पुनः संवत्सरसाध्य-
सकृत्कृतस्य नित्यत्वं कल्प्यम् । एवं धेनुदान-
स्यापि । अतएव पूर्णसंवत्सरे मलमासपातेऽपि
प्रागकृतश्चेत् कार्य्य एव इति नवीना जगुः ।
एककर्त्तृकानेकवृषोत्सर्गोऽपि शिष्टाचार एक-
दिनेऽपि । तथा हि स्वर्गलोकगमनफलश्रुतेः
काम्यत्वेन यो भूय आरभते तस्मिन् फले विशेष
इति न्यायादविरोधः ॥ ननु नैमित्तिकत्वात्
कथमावृत्तिः सकृत्कृते कृतः शास्त्रार्थ इति
न्यायात् । न चैकत्र क्रियाद्वयमिति वचनाच्च ।
अत्रायं विशेषः । काम्यनैमित्तिकं फलविशेषार्थं
भूयः कार्य्यं नैमित्तिकमात्रं सकृदेव । किञ्च ।
संक्रान्त्यादिनिमित्तकश्राद्धमपि पुनः पुनः स्यात् ।
मैवं तत्र पितृतृप्तिरूपप्रधानफलस्य सत्त्वेन
चरितार्थ इति ॥ * ॥ अत्रोक्तानि सर्व्वाण्यतानि
वचनानि तिर्य्यगधिकरणन्यायमूलानि । तथा
हि तिर्य्यगधिकरणे तिर्य्यक्पङ्गुत्र्यार्षेयदेवताना-
मनधिकार इति यागमात्रे उक्तम् । तत्र
हेतवः तिरश्चां घिशिष्टान्तःकरणविरहात्
पङ्गोः प्रचरणविरहात् त्र्यार्षेयाणां अन्धवधिर-
मूकानामवेक्षणश्रवणोच्चारणविरहात् साङ्ग-
यागासामर्थ्ये तेषां यथा यागानधिकारस्तद्वदत्र
स्वपितुः पितृकृत्येषु अधिकारो न विद्यते । इति
छन्दोगपरिशिष्टे अग्निष्वात्ताद्यन्तर्गणमुक्त्वा
जीवत्पितृकश्चैतानन्यांश्चेतर इति कात्यायन-
सूत्रे च जीवत्पितृकस्य पितृतर्पणनिषेधात्
वृषोत्सर्गे तदङ्गभूततत्पुच्छगलितोदकतर्पण-
विरहात् साङ्गकरणासामर्थ्ये वृषोत्सर्गानधि-
कारः । अतएव द्वैतनिर्णयेऽपि । अनूचितस्त्रियां
करणीभूतर्ग्बाधेन यागवद्वृषोत्सर्गस्य बाध
उक्तो वाचस्पतिमिश्रेण । धेनुदानाङ्गतर्पणे तु
प्रधानाधिकारश्रुतेः जीवत्पितृकाधिकृतविशेष-
विधानाच्चाधिकार एवाभ्युदयिकश्राद्धवत् जन्म-
मास्युपनयनाङ्गसशिखवपनवच्च । अयन्तु सामान्य-
शास्त्रोपजीवित्वेन निषेधः पर्य्युदास एव । स तु
यदि पतिपुत्त्रवद्भिन्नाया वृषोत्सर्गं कुर्य्यादित्येव
मात्रस्तदा पुत्त्र इत्यादिवचनभागवैयर्थ्यं स्यात् ।
यदि च जीवत्पितृकभिन्नो वृषोत्सर्गं कुर्य्यात्
इत्येव मात्रस्तदा पूर्ब्बभागवैयर्थ्यं स्यात् । यदि
वा पतिपुत्त्रवत्या जीवत्पितृकपुत्त्रभिन्नोवृषोत्-
सर्गं कुर्य्यादिति विशिष्टरूपस्तथापि पतिपुत्त्र-
घत्यास्तदुभयरहितायाश्च जीवत्पितृकपौत्त्रा-
दिना वृषोत्सर्गः स्यात् । स चायुक्त एव
प्रागुक्तवचनन्यायविरोधात् । तस्मात् समुदाय-
वचनसार्थक्याय पतिपुत्त्रवद्भिन्नाया वृषोत्सर्गं
कुर्य्यात् । तथा जीवत्पितृकभिन्नो वृषोत्सर्गं
कुर्य्यात् इति वचनन्यायसंवादाद्वाक्यद्वयमेव
सिध्यति । प्रमाणवद्गौरवस्य सर्व्वाङ्गीकृतत्वात् ।
दर्शपौर्णमासयोः षट्प्राधानापूर्ब्बवत् । अथ-
वोक्तदेवलादिवचने ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं
विधानत इत्यन्तकापिलसकलवचनपर्य्यालोचनया
कनिष्ठपुत्त्रवतीभिन्नपतिपुत्त्रवतीतरजनस्यकापिल-
प्रतिप्रसूतकनिष्ठपुत्त्रभिन्नजीवत्पितृकात् अन्यो
जनो वृषोत्सर्गं कुर्य्यात् । इति सामान्यत
एव वृषोत्सर्गविधिः । तथा पतिपुत्त्रवत्या ज्येष्ठ-
पुत्त्र एव चन्दनाङ्कितधेनुमुत्सृजेदिति विधिश्च
सिध्यति । ततश्च पतिपुत्त्रवत्याः कनिष्ठपुत्त्रसत्त्व
एव तेन तदन्यमृतपितृकेण वा वृर्षोत्सर्गः
कार्य्यः । कनिष्ठपुत्त्राभावे तु न केनापि । एवं
पत्यादिना चन्दनधेनुदानमिति । प्रतिप्रसूत-
कनिष्ठान्यजीवत्पितृकेण न कस्यापि वृषोत्सर्गः
कार्य्य इत्यपि चपर्य्यवसितम् ॥ वस्तुतस्तु पतिपुत्त्र-
वत्या वृषोत्सर्गनिषेधे तत्पुत्त्रस्य जीवत्पितृक-
त्वनानधिकार एव हेतुः न तु स्त्रियाः पति-
सत्त्वंपुत्त्रसत्त्वं वा । मृतपुत्त्रेत्यादिप्रागुक्तकापिल-
वचने पतिसत्त्वे कनिष्ठपुत्त्रसत्त्वे च वृषोत्सर्गा-
वगतेः । तत्पुत्त्रस्य पितुः सत्त्व एवानधिकारोक्त्या
तन्मरणे वृषोत्सर्गावगमाच्च । न वा तदुभय-
सत्त्वं मिलितं उक्तन्यायावगततत्पुत्त्रस्य जीवत्-
पितृकत्वहेतोरेव तादृशनिषेधप्राप्तेः पतिपुत्त्र-
सत्त्वयोर्निर्बीजहेतुत्वकल्पनानौचित्यात् तयो-
र्व्वाचनिकहेतुत्वे तु अदृष्टकल्पनाया अन्याय्य-
त्वात् सिद्धजीवत्पितृकनिषेधप्रपञ्चतया पति-
पुत्त्रवत्या निषेधोपपत्तौ अधिकनिषेधकल्पने
पृष्ठ २/४२६
गौरवाच्च । यस्तु जीवत्पितृकवृषोत्सर्गनिषेधे
पतिपुत्त्रवत्याः पृथगुपसंहारः सोऽपि तस्याः
पुत्त्रानधिकारमात्रप्रयुक्तसिद्धवृषोत्सर्गाभावभा-
गित्वानुवादः । पूर्ब्बवाक्यावगतधेनुदानस्य वृषोत्-
सर्गस्थानीयत्वज्ञापनार्थ एवेति प्रागपि निरू-
पितम् । ततश्चोक्तवचने तिर्य्यगधिकरणन्याय-
प्राप्तं जीवत्पितृकस्य वृषोत्सर्गकर्त्त त्वाभाव-
मनूद्य सपतिकाया वृषोत्सर्गस्थाने चन्दनाङ्कित-
धेनूत्सर्ग एव विधीयते । एतेन वृषोत्सर्गकर्त्तरि
कपिलप्रतिप्रसूतसपतिकावृषोत्सर्गकृतिमत्-
कनिष्ठपुत्त्रान्यजीवत्पितृकेतरत्वविशेषणं सपति-
काया वृषोत्सर्गस्थाने ज्येष्ठपुत्त्रस्यैव चन्दना-
ङ्कितधेनूत्सर्गमात्रश्च लभ्यते । अतो जीवत्-
पितृकेण काम्ववृषोत्सर्गः पतिते प्रव्रजिते वा
पितरि जीवति पितामहादिवृषोत्सर्गश्च न
कार्य्यः । एवं सपतिकाया अपि पुत्त्रस्य कर्म्म
योग्यत्वे असत्त्वे वा पत्या कन्यादिना वा वृषोत्-
सर्गः कार्य्य एवेति स्थितम् । इदन्तु रत्ना-
करहलायुधाचार्य्यचूडामणिविद्याभूषणशुभङ्कर-
महादेवभदृआचार्य्यप्रभृतीनामपि सम्मतं तेषां
पृथक् पृथक् पद्धतिरपि प्रचरति । क्वचिद्देशे
स्मार्त्तभदृआचार्य्यस्यापि समूलपद्धतिर्दृश्यते ।
अतएवात्र विशेषादर्शिनामनाचारोऽनाचार-
एव । अत्र भविष्योक्तप्रकारस्तु वैकल्पिक एव ।
स्मृतिशास्त्रे विकल्पो हि आकाङ्क्षापूरणे
सतीति जैमिन्युक्तेः । तत्रत्यपूजाहोमाद्यङ्गेषु
विशेषमन्त्रतन्त्रोक्तेः । कापिलकल्पेन वृषोत्सर्ग-
धर्म्मातिदेशेन विशेषोक्तनिरासाच्च ॥ * ॥ सम्प्रति
विचारितकापिलकल्पप्रयोगोऽभिधीयते यथा ।
गोशालादौ वितानयुक्ते प्रागुदक्प्लवनं देशं
गोमयेनोपलिप्य कृतनित्यक्रिय आचान्तः कुश-
हस्तो द्विवासाः प्राङ्मुखः ॐ तद्विष्णोः परमं
पदं इति विष्णुं स्मृत्वा नत्वा च उदङ्मुखः ॐ
तत् सदित्युच्चार्य्य कुशतिलजलपूर्णताम्रपात्र-
मादाय विशेषानुपदेशात् मुख्यचान्द्रमासो-
ल्लेखेन अद्यामुके मासि अमुके पक्षे अमुकतिथौ
अमुकगोत्रायाः प्रेतायाः अमुकायाः अशौ-
चान्ताद्द्वितीयेऽह्नि अमुकगोत्रायाः प्रेतायाः
अमुकायाः प्रेतलोकविमुक्तत्वस्वर्गलोकगमन-
कामः चन्दनाङ्कितसवत्सधेनुदानकर्म्माहंकरि-
ष्यामीति संकल्पयेत् । ततस्तज्जलमैशान्यां
क्षिपेत् । ततः स्वस्वरीत्या सङ्कल्पसूक्तं पठेत् ।
ततः प्रथमं ब्रह्मवरणम् । तत्र उत्तरामुखं
ब्रह्माणमुपवेश्य तत्समीपे आसनमानीय प्राङ्-
मुखो यजमानः प्राञ्जलिः ॐ साधुभवानास्तां
इति वदेत् । ॐ साध्वहमासे इति प्रतिवचनं
दत्त्वा ब्रह्मा तदासने उपविशति । ततः कर्त्ता
ओम् अर्च्चयिष्यामो भवन्तं इति वदेत् । ओम्
अर्च्चयेति प्रतिवचनम् । ततो गन्धपुष्पताम्बूल-
वस्त्रालङ्कारैर्ब्रह्माणं संपूज्य तद्दक्षिणं जानु स्पृष्ट्वा
ओम् अद्यामुकेमासि अमुकेपक्षेऽमुकतिथौ
अमुकगोत्रायाः प्रेतायाः अमुकाया अशौ-
चान्ताद्द्वितीयेऽह्नि अमुकगोत्रममुकप्रवरं श्री-
अमुकदेवशर्म्माणं त्वामस्मिन् चन्दनाङ्कितधेनु-
दानाङ्गहोमकर्म्मणि ब्रह्मकर्म्मकरणाय गन्धा-
दिभिरभ्यर्च्च्याहं वृणे इति ब्रह्माणं वृणुयात् ।
ॐ वृतोऽस्मीति प्रतिवचनम् । ॐ यथाविहितं
ब्रह्म कर्म्म कुरु । ॐ यथाज्ञानं करवाणीति
प्रतिवचनम् । स्वयं गानाशक्तौ ब्रह्मकर्म्म कर-
णायेत्यत्र ब्रह्मादिकर्म्मकरणायेति वदेत् । स्वयं
होमासामर्थ्ये होतारं वृणुयात् । तत्र होतृकर्म्म-
करणायेति विशेषः । एवं तन्त्रधारकाचार्य्य-
मपि । आचार्य्यान्तराभावे ब्रह्मैवाचार्य्यत्वेनापि
वरणीयः । तत्र ब्रह्माचार्य्यकर्म्मकरणायेति
विशेषः । एवं प्रागुक्तवत् सदस्यवरणमपि ।
हस्ताङ्गुल्यादिमानन्तु याजमानिकमेव सर्व्वत्र
ग्राह्यम् । ततः पुण्याहस्वस्त्यृद्धिवाचनं कृत्वा
चन्दनाङ्कितधेनुदाननिमित्तकहोमीयहविरक्षय-
त्वकामो भारतनामोच्चारणं कुर्य्यात् । ततो
यजमानो होता वा गायत्त्र्या गोमूत्रं आ गन्ध-
द्वारेत्यादिना गोमयं ओम् आप्यायस्वेत्यादिना
दुग्धं ॐ दधिक्राव्न इत्यादिना दधि ॐ तेजो-
ऽसीत्यादिना घृतं ॐ देवस्य त्वा सवितुः
प्रसवेश्विनोर्ब्बाहुभ्यां पूष्णी हस्ताभ्यामाददे इति
कुशोदकञ्च शोधयित्वा गायत्त्र्या सर्व्वमेकीकृत्य
तेन वेदीमभ्युक्ष्य तत्र घटान् संस्थाप्य गणेशं
ग्रहान् विष्णुञ्च संपूजयेत् । ततो हस्तप्रमाणं
स्थण्डिलं शर्कराङ्गारास्थिकेशतुषादिरहितं
पूर्ब्बोत्तरप्लवं समं वा गोमयेनोपलिप्य तत्र
स्वगृह्योक्तविधिनाग्निं संस्थाप्य स्वस्वगृह्योक्त-
वृषोत्सर्गपद्धतिक्रमेण कर्म्म कृत्वा प्राङ्मुखों
धेनुमग्निसमीपं नीत्वा ॐ मा नस्तोके तनये
मा न आयुषि मा नो गोषु मा नोऽश्वेषु रीरिषः ।
वीरान्मा नो रुद्रभामिनोऽवधीर्हविष्वन्तः सद-
मित्त्वा हवामहे । इति मन्त्रेण धेनोर्वामसक्-
थिनि षडङ्गुलं त्रिशूलं चन्दनेन कुशेन लिखेत् ।
वीरान्मा न इति सामगानाम् । यजुषान्तु मा नो
वीरानिति मन्त्रभागे पाठः । ततः ॐ वृषो-
ह्यसि भानुना द्युमन्तं त्वा हवामहे पवमानः
स्वर्दृ शम् । इति मन्त्रेण दक्षसक्थिनि पञ्चाङ्गुलं
आरहीन चक्रञ्च तथैवाचार्य्यो लिखेत् । अस्मि-
न्नवसरे अग्नेरुत्तरे सवत्सधेनुमौलिकं यूप-
मारोपयेत् । ततः स्वस्वगृह्योक्तविधिना वृष-
वद्धेनुं स्नापयेत् । ततः सितवाससा जलमपनीय
गन्धचन्दनपुष्पाञ्जनसिन्दूरगोरोचनाद्रव्यैः स्वर्ण-
शृङ्गाभ्यां रूप्यसफैश्च वस्त्रेण कांस्यक्रोडेन
ताम्रपृष्ठेन घण्टाचामराभ्याञ्च यथायोग्यं तथा
कर्णयोः प्रबालमालिकाभ्याञ्च धेनुं भूषयित्वा
पाद्यादिभिरभ्यर्च्च्य स्वस्वगृह्योक्तश्राव्यमन्त्रान्
श्रावयित्वा च प्राङ्मुखीं धेनुं शुक्लवाससा यूपे
बध्नीयात् । ततो यजमान उत्तरामुखः धेनो-
र्मस्तकादिक्रमेण तत्तन्मन्त्रैः पूजयेद्यथा । शिरसि
ॐ ब्रह्मणे नमः । एवं ललाटे वृषभध्वजाय
नमः । कर्णयोः अश्विनीकुमाराभ्याम् । चक्षुषोः
शशिभास्कराभ्याम् । जिह्वायां सरस्वत्यै । दन्तेषु
वसुभ्यः । ओष्ठयोः सन्ध्यायै । ग्रीवायां नील-
कण्ठाय । हृदि स्कन्दाय । रोमकूपेषु ऋषिभ्यः ।
दक्षपार्श्वे कुवेराय । वामपार्श्वे वरुणाय । रोमाग्रे
रश्मिभ्यः । ऊरुषु धर्म्माय । जङ्घासु अधर्म्माय ।
श्रोणीतटे पितृभ्यः । खुरमध्ये गन्धर्व्वेभ्यः ।
खुराग्रेषु अप्सरोभ्यः । लाङ्गूले द्बादशादित्येभ्यः ।
गोमये महालक्ष्म्यै । गोमूत्रे गङ्गायै । पयोधरेषु
चतुःसागराय । एवं संपूज्य पठेत् ।
ओम् इन्द्रस्य च त्वमिन्द्राणी विष्णोर्लक्षीश्च या
स्मृता ।
रुद्रस्य देवी या गौरी सा देवी वरदास्तु मे ॥
ॐ या लक्ष्मीर्लोकपालानां या च देवेष्व-
वस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥
ॐ देहस्था या च रुद्राणी शङ्करस्य सदा
प्रिया ।
धेनुरूपेण सा देवी तस्याः शान्तिं प्रयच्छतु ॥
ॐ सर्व्वदेवमयी दोग्ध्री सर्व्वलोकमयी तथा ।
धेनुरूपेण सा देवी तस्याः स्वर्गं प्रयच्छतु ॥
ततः ओम् आचार्य्याय नमः इत्यनेनोदङ्मुखं
सम्प्रदानब्राह्मणं पाद्यादिभिः संपूज्य एवं ॐ
रुद्राय नमः इति तद्देवतां संपूज्य ॐ चन्दना-
ङ्कितसवत्सधेनवे नमः इत्यनेन पाद्यार्ध्याचम-
नीयगन्धपुष्पैर्धेनुं संपूज्य संप्रोक्ष्य च ब्राह्मण-
हस्ते जलं दत्त्वा कुशतिलजलान्यादाय ॐ तत्
सदद्यामुके मासि अमुके पक्षे अमुकतिथाव-
मुकगोत्रायाः प्रेताया अमुकाया अशौचान्ता-
द्द्वितीयेऽह्नि अमुकगोत्रायाःप्रेताया अमुकायाः
प्रेतलोकविमुक्तत्वस्वर्गलोकगमनकामोऽहं एतां
सालङ्कारां चन्दनाङ्कितसवत्सधेनुं रुद्रदेवताकां
अमुकगोत्राय श्रीअमुकदेवशर्म्मणे आचार्य्य-
ब्राह्मणाय तुभ्यं ददानीति ब्राह्मणहस्ते जलं
दद्यात् । ततः सम्प्रदानब्राह्मणः पुच्छं धृत्वा
ओमित्युक्त्रा प्रतिगृह्य स्वस्तीत्युक्त्रा च सावित्रीं
पठेत् । ततो धेनुरियं रुद्रदेवताकेति वदेत् ।
यथाशाखं कामस्तुतिञ्च पठेत् । यथा साम-
वेदे । ॐ क इदं कस्मा अदात् कामः कामाया-
दात् कामो दाता कामः प्रतिग्रहीता कामः
ससुद्रमाविशत् कामेन त्वा प्रतिगृह्णामि कामै-
तत्ते ॥ यजुर्व्वेदे तु । ॐ द्यौस्त्वा परिददातु
पृथिवी त्वा प्रतिगृह्णातु कोऽदात् कस्मा अदात्
कामः कामायादात् कामो दाता कामः प्रति-
ग्रहीता कामैतत्ते तव कामशतात् भुनजामहे ॥
ऋग्वेदे तु । सामगमन्त्रान्ते । ॐ वृष्टिरसि
द्यौस्त्वा परिददातु पृथिवी त्वा प्रतिगृह्णातु ।
इदमधिकम् । ततो यजमानः ॐ अद्योत्यादि
कृतैतत्सालङ्कारचन्दनाङ्कितसवत्सधेनुदानर्क-
र्म्मणः साङ्गतार्थं दक्षिणामिमं वृषं तन्मूल्यं वा
विष्णुदैवतं अमुकगोत्राय श्रीअमुकदेवशर्म्मणे
आचार्य्याय ब्राह्मणाय तुभ्यमहं ददानीत्या-
चार्य्याय दद्यात् । आचार्य्यस्तु ओमिति गृहीत्वा
पृष्ठ २/४२७
स्वस्तीति वदेत् । ततो वृषोत्सर्गवन्मन्त्रोहेन
स्वस्वगृह्योक्तश्राव्यादिशेषं कर्म्म समापयेत् ।
ततः सदस्यदक्षिणां दत्त्वा आहूतान् वस्त्र-
माल्यादिभिः पूजयेत् । सामगश्चेदिदानीं ब्रह्म-
होत्राचार्य्यसदस्येभ्यो ब्राह्मणेभ्यो दक्षिणां
वृषोत्सर्गवद्दद्यात् । अन्यवेदी तु स्वस्वगृह्योक्त-
रीत्या यथास्थानं दक्षिणां वृषोत्सर्गवद्दद्यात् ।
शूद्रस्तु यजुर्व्वेदिवत् संर्व्वं कुर्य्यात् । किन्तु मन्त्र-
पाठं ब्राह्मणेन कारयेत् । दीनानाथादींश्च
वस्त्रान्नाद्यैस्तोषयेदिति ॥” * ॥ इति श्रीचन्द्रशेखर-
वाचस्पतिभट्टाचार्य्यविरचितः चन्दनाङ्कितधेनु-
दानसविधिप्रयोगः समाप्तः ॥

चन्दनपुष्पं, क्ली, (चन्दनमिव सुगन्धि पुष्पं यस्य ।)

लवङ्गम् । इति राजनिर्घण्टः ॥

चन्दनशारिवा, स्त्री, (चन्दनगोपी शारिवा ।

शाकपार्थिवादिवत् समासः ।) शारिवाविशेषः ।
इति राजनिर्घण्टः ॥

चन्दनसारः, पुं, (चन्दनस्येव सारो यस्य ।) वज्र-

क्षारम् । इति राजनिर्घण्टः ॥

चन्दना, स्त्री, (चन्दयति आह्लादयति स्वगन्धा-

दिनेति । चदि ह्लादे + णिच् + युच् । स्त्रियां
टाप् ।) शारिवाविशेषः । इति राजनिर्घण्टः ॥
नदीविशेषः । सा तु मधुखाल्याख्यनगरसमीपे
प्रसिद्धा ॥

चन्दनाचलः, पुं, (चन्दनस्य चन्दनोत्पादको वा

अचलः । चन्दनाकरः पर्व्वत इत्यर्थः ।) मलय-
पर्व्वतः । इति जटाधरः ॥

चन्दनाद्रिः, पुं, (चन्दनस्य चन्दनोत्पादको वा

अद्रिः पर्व्वतः ।) मलयपर्व्वतः । इति त्रिकाण्ड-
शेषः ॥

चन्दनी, स्त्री, (चन्दयति आह्लादयति जलादिदाने-

नेत्यर्थः । चन्दन + ङीष्) नदीविशेषः । इति
मेदिनी । ने । ६० ॥ (यथा, गोः रामायणे ।
४ । ४० । २० ।
“रुचिरां कुटिलाञ्चैव चन्दनीं चापगां तथा ॥”)

चन्दनीया, स्त्री, (चन्द्यते दीप्यतेऽनया । चदि +

करणे अनीयर ।) गोरोचना । इति राज-
निर्घण्टः ॥

चन्दिरः, पुं, (चन्दन्ति हृष्यन्ति लोका येन ।

चदि ह्लादे + “इषिमदीदि ।” उणां । १ । ५१ ।
इति किरच् ।) चन्द्रः । हस्ती । इति मेदिनी ।
रे । १५२ ॥

चन्द्रं, क्ली, (चन्दति दीप्यते इति । चदि +

“स्फायितञ्चीति ।” उणां । २ । १३ । इति रक् ॥)
स्वर्णम् । चुक्रम् । इति राजनिर्घण्टः ॥ (वृत्त-
विशेषः । यथा, वृत्तग्रन्थे ।
“द्विजवरगणयुगमुपधाय परिकलय कर-
मथनगणयुगलमिह गन्धयुगमपि वितर ।
फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत
सकलकविकुलहृदयमोदकरमवतनुत ॥”)

चन्द्रः, पुं, (चन्दयति आह्लादयति चन्दति दीप्यते

इति वा । चन्द + “स्फायितञ्चीति ।” उणां ।
२ । १३ । इति रक् ।) देवताविशेषः । चाँद
इति भाषा । तत्पर्य्यायः । हिमांशुः २ चन्द्रमाः ३
इन्दुः ४ कुमुदबान्धवः ५ विधुः ६ सुधांशुः ७
शुभ्रांशुः ८ ओषधीशः ९ निशापतिः १० अब्जः ११
जैवातृकः १२ सोमः १३ ग्लौः १४ मृगाङ्कः १५
कलानिधिः १६ द्विजराजः १७ शशधरः १८
नक्षत्रेशः १९ क्षपाकरः २० । इत्यमरः ।
१ । ३ । १३ -- १४ ॥ दोषाकरः २१ निशीथिनी-
नाथः २२ शर्व्वरीशः २३ एणाङ्कः २४ शीत-
रश्मिः २५ । इति ग्रन्थान्तरम् ॥ समुद्रनवनीतः
२६ सारसः २७ श्वेतवाहनः २८ नक्षत्रनेमिः
२९ उडुपः ३० सुधासूतिः ३१ तिथिप्रणीः ३२
अमतिः ३३ चन्दिरः ३४ चित्राटीरः ३५ पक्ष-
धरः ३६ अजः ३७ नभश्चमसः ३८ राजा ३९
रोहिणीशः ४० अत्रिनेत्रजः ४१ पक्षजः ४२
सिन्धुजन्मा ४३ दशाश्वः ४४ हरचूडामणिः ४५
माः ४६ तारापीडः ४७ निशामणिः ४८ । इति
जटाधरः ॥ मृगलाञ्छनः ४९ दर्शविपत् ५०
छायामृगधरः ५१ ग्रहनेमिः ५२ दाक्षायणी-
पतिः ५३ लक्ष्मीसहजः ५४ सुधाकरः ५५
सुधाधारः ५६ शीतभानुः ५७ तमोहरः ५८
तुषारकिरणः ५९ हरिः ६० हिमद्युतिः ६१
द्विजपतिः ६२ विश्वप्सा ६३ अमृतदीधितिः ६४
हरिणाङ्कः ६५ रोहिणीपतिः ६६ सिन्धुनन्दनः
६७ तमोनुत् ६८ एणतिलकः ६९ कुमुदेशः ७०
क्षीरोदनन्दनः ७१ कान्तः ७२ कलावान् ७३
यामिनीपतिः ७४ सिप्रः ७५ मृगपिप्लुः ७६
सुधानिधिः ७७ तुङ्गी ७८ पक्षजन्मा ७९
चन्दः ८० अब्धिनवनीतकः ८१ पीयूषमहाः ८२
शीतमरीचिः ८३ शीतलः ८४ । इति शब्दरत्ना-
वली ॥ त्रिनेत्रचूडामणिः ८५ अत्रिनेत्रभूः ८६
सुधाङ्गः ८७ परिज्ञाः ८८ वलक्षगुः ८९ तुङ्गी-
पतिः ९० यज्वनाम्पतिः ९१ पर्व्वधिः ९२ क्लेदुः
९३ जयन्तः ९४ तपसः ९५ खचमसः ९६ विकसः
९७ । इति त्रिकाण्डशेषः ॥ दशवाजी ९८ श्वेत-
वाजी ९९ अमृतसूः १०० कौमुदीपतिः १०१
कुमुदिनीपतिः १०२ भपतिः १०३ दक्षजापतिः
१०४ ओषधीपतिः १०५ कलाभृत् १०६ शश-
भृत् १०७ एणभृत् १०८ छायाभृत् १०९ अत्रि-
दृग्जः ११० निशारत्नम् १११ निशाकरः ११२
अमृतः ११३ श्वेतद्युतिः ११४ । इति हेमचन्द्रः ।
२ । १९ ॥ * ॥ तस्योत्पत्तिर्यथा, --
“ब्रह्मणो मानसः पुत्त्रस्त्वत्रिर्नाम महातपाः ।
स्रष्टुकामः प्रजा वत्स ! तपस्तेपे सुदुश्चरम् ॥
त्रीणि वर्षसहस्राणि दिव्यानीतीह नः श्रुतम् ।
ऊर्द्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् ॥
नेत्राभ्यां तस्य सुस्राव दशधा द्योतयद्दिशः ।
तं गर्भं ब्रह्मणादिष्टा दश देव्यो दधुर्दिशः ॥
संगत्यैव महाराज ! नैव ताः समशक्नुवन् ।
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ॥
ततस्ताभिः सहैवासौ निपपात वसुन्धराम् ।
पतितं सोममालोक्य ब्रह्मा लोकपितामहः ॥
रथमारोपयामास लोकानां हितकाम्यया ।
स तेन रथमुख्येन सागरान्तां वसुन्धराम् ॥
त्रिःसप्तकृत्वो द्रुहिणोऽकारयत्तं प्रदक्षिणम् ।
तस्य तत्प्लावितं तेजः पृथिवीमन्वपद्यत ॥
तेनौषध्यः समुद्भूता याभिः सन्धार्य्यते जगत् ।
स लब्धतेजा भगवान् ब्रह्मणा वर्द्धितः स्वयम् ॥”
तस्य क्षीणत्वपूर्णत्वयोः कालो यथा, --
“कृष्णाष्टमीदिनादूर्द्ध्वं यावच्छुक्लाष्टमीदिनम् ।
तावत् कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः ॥”
इत्यग्निपुराणे ज्योतिःशास्त्रम् ॥
तस्य क्षयवृद्धिकारणं यथा, पाद्मे स्वर्गखण्डे ।
“अश्विन्याद्यास्तु दक्षस्य उपयेमे सुता विधुः ।
रोहिण्यामेव सततं बद्धप्रेमा रराम ह ॥
दृष्ट्वा तदितरास्ताश्च तप्ताः पितरमब्रुवन् ।
अस्माकं कामदस्तात ! जामाता तव रोहिणीम् ।
रमयत्येव सततं तेन तप्ता वयं पितः ! ॥
तत् श्रुत्वा चाप्रियं दक्षः सोममाह भजस्व भोः ।
प्रेम्ना समेन सर्व्वास्त्वं दुहितॄर्म्मम मानद ! ॥
जगृहे तद्वचो नैव सोमः सप्रेम रोहिणीम् ।
तथैव रमयामास श्रुत्वा दक्षश्चुकोप ह ॥
शशाप ते न भविता ह्यपत्यं मद्वचोऽतिगः ।
यक्ष्मणा च परिग्रस्तो भव त्वं क्षीणरेतकः ॥
अथक्षयमिते तस्मिन् सर्व्वास्ताः सहिताः स्त्रियः ।
पितरं शरणं प्राप्ताः क्षीयते नः पतिः पितः ! ।
न वयं तेन वर्त्तामो विना सुखनिराकृताः ॥
उवाच दक्षस्ताः सर्व्वाः शापो मे नान्यथा भवेत् ।
मासमध्ये पक्षमेकं वर्द्धतां स क्रमेण वै ॥
क्षयं क्रमेण प्राप्नोतु पक्षमेकं व्यवस्थया ।
एवं शापं वरञ्चैव ददावस्मै व्यवस्थया ॥
तथैव राजते व्योम्नि क्षयवृद्धी दधद्विधुः ॥”
स च गौरवर्णः वायुकोणस्त्रीवैश्यजातिसत्त्वगुण-
कर्कटराशिमृगशिरोनक्षत्ररौप्यलवणरसमुक्ता-
गैरिकादिधातुसर्पाणामधिपतिः । आर्द्रभूमि-
चारी तपस्वी अपराह्णकाले प्रबलः श्लेष्मप्रकृतिः
स्थूलो युवा शुभग्रहः शुभ्राभश्च । इति ताजक-
जातकादयः ॥ अर्द्धादूनः शशी पापः । इति
समयामृतम् ॥ * ॥ कर्पूरम् । स्वर्णम् । (यथा,
ऋग्वेदे । १ । १४१ । १२ ।
“उतनः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ॥”)
जलम् । काम्पिल्लः । इति मेदिनी । रे ३१ ॥ द्बीप-
विशेषः । इति शब्दमाला ॥ विसर्गः । इति
तन्त्रम् ॥ कमनीयः । मेचकः । स तु वर्हचन्द्रकः ।
इति हेमचन्द्रः ॥ रक्तरजतम् । तत्तु शोणमुक्ता-
फलम् । (योगोक्तेडानाडी । यथा, हठयोग-
प्रदीपिकायाम् । २ । ७ ।
“बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ॥”
“चन्द्रेण चन्द्रनाड्येडया ।” इति तट्टीका ॥ भ्रूमध्य-
भागस्थसोममण्डलम् । यथा, तत्रैव । ३ । ४९ ।
“चन्द्रात् स्रवति यः सारः स स्यादमरवारुणी ॥”
“चन्द्रात्भ्रुवोरन्तर्वामभागस्थात् सोमात् ।”
तट्टीका ॥)
आह्लादजनकद्रव्ये त्रि । इति भरतधृतव्याडिः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/च&oldid=43951" इत्यस्माद् प्रतिप्राप्तम्