शब्दकल्पद्रुमः/गौः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/३७०

गौः, [गो] पुं, क्ली, (गम्यते ज्ञायते स्पर्शसुख-

मनेन । गम् + “गमेर्डोः ।” उणां । २ । ६३ ।
इति करणे डोः । त्वचि जातत्वादेवास्य तथा-
त्वम् ।) लोम । (गच्छति निम्नदेशमिति ।
कर्त्तरि डोः । निम्नप्रवणादेवास्य तथात्वम् ।)
जलम् । इत्यमरटीकायां भानुदीक्षितः ॥

गौञ्जिकः, पुं, (गुञ्जा परिमाणविशेषस्तद्ग्रहीतुं

शीलमस्य । यद्वा, गुञ्जा गुञ्जाफलं तस्य परि-
माणार्थं ग्रहणं विद्यते अस्य । गुञ्जा + ठक् ।)
स्वर्णकारः । इति त्रिकाण्डशेषः ॥

गौडः, पुं, स्वनामख्यातदेशः । (यथा, प्रबोध-

चन्द्रोदये । २ । ७ ।
“गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा
पुरी ।
भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः
पिता ॥”)
तद्देशस्थे पुं भूम्नि । इति जटाधरः ॥ तद्देश-
सीमा यथा, शक्तिसङ्गमतन्त्रे सप्तमपटले ।
“वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ! ।
गौडदेशः समाख्यातः सर्व्वविद्याविशारदः ॥”
(देशोऽयं बृहत्संहितायां कूर्म्मविभागे पूर्ब्बस्या-
मुक्तः । यथा, तत्रैव । १४ । ५, ७ ।
“अथ पूर्ब्बस्याम् ।” इत्युक्त्वा
“उदयगिरि भद्रगौडक-
पौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः ॥”
इत्युक्तवान् ॥)
पञ्च गौडा यथा, स्कन्दपुराणे ।
“सारस्वताः कान्यकुब्जा गौडमैथिलिकौत्कलाः ।
पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥”
(गुडस्य विकारः । गुड + अण् । गुडजाते
आसवे क्ली च । अस्य गुणा यथा, --
“सृष्टमूत्रशकृद्वातो गौडस्तर्पण-दीपनः ॥”
इति सूत्रस्थाने पञ्चमेऽध्याये वाभटेनोक्तम् ॥
“श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः ।
लिप्तेऽविष्टोऽनिल-कफ-प्लीहपाण्डूदरापहः ॥”
इति च चरके कल्पस्थाने द्वादशेऽध्याये ॥)

गौडवास्तूकः, पुं, (गौडे गौडदेशे जातः गौडदेश-

वासिप्रियो वा वास्तूकः शाकविशेषः ।) चिल्ली-
शाकम् । इति राजनिर्घण्टः ॥ (चिल्लीशब्दे-
ऽस्य विषया ज्ञेयाः ॥)

गौडिकं, क्ली, (गौडं गुडविकारस्तत् कारणत्वेना-

स्त्यस्य । “अत इनिठनौ ।” ५ । २ । ११५ ।
इति ठन् ।) मद्यविशेषः । यथा, “पैष्टिकगौडिक-
माध्वीकानां पानं सुरापाने कष्टतमम् ॥” इति
प्रायश्चित्तविवेके देवलः ॥ गुडनिष्पन्नद्रव्ये त्रि ॥
(पुं, गुडे साधुः । “गुडादिभ्यष्ठञ् ।” ४ । ४ । १०३ ।
इति ठञ् । इक्षुः । इति सिद्धान्तकौमुदी ॥)

गौडी, स्त्री, (गुडस्य विकारः गुडविकारेण

सम्पाद्विता इत्यर्थः । गुड + अण् । स्त्रियां
ङीप् ।) गुडादिकृता सुरा । गुडेर मद इति
भाषा ॥ (यथा, मनुः । ११ । ९४ ।
“गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा
सुरा ॥”)
तत्पर्य्यायः । वाल्कली २ । इति त्रिकाण्डशेषः ॥
अस्या गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । मधु-
रत्वम् । वातनाशित्वम् । पित्तबलकान्तितृप्ति-
कारित्वम् । दीपनत्वम् । पथ्यत्वञ्च । इति राज-
निर्घण्टः ॥ (यथा च हारीते प्रथमे स्थाने
११ अध्याये ।
“गौडी कषाया मधुराम्लशीता
सन्दीपनी शूलरुजापहन्त्री ।
हृद्या त्रिदोषं शमयत्यजीर्णं
पाण्डामयार्शःश्वसनं निहन्ति ॥”)
रागिणीविशेषः । सा तु मेघरागस्य पत्नी । इति
सङ्गीतदामोदरः ॥ (गौडानां गौडदेशवासिनां
प्रिया ।) काव्यरीतिविशेषः । यथा, --
“ओजःप्रसादमाधुर्य्यं गुणत्रितयभेदतः ।
गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः ॥”
इति काव्यचन्द्रिका ॥
(यथा च साहित्यदर्पणे । ९ । ४ ।
“ओजंःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः ।
समासबहुला गौडी-- ॥”
उदाहरणं यथा, तत्रैव धृतो वेणीसंहारश्लोकः ।
“चञ्चद्भुजभ्रमितचण्डगदाभिघात-
सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।
पुरुषोत्तमस्त्वाह ।
बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च
गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रास्तोभवाक्या च ॥”)

गौणः, पुं, (गुणादागता गौणी । तस्या आगतः

प्रतिबोधितः । गौणी + अण् ।) गौणीवृत्ति-
बोधितः । यथा, “शक्यस्य सादृश्यात्मकः सम्बन्धो
गुणः तदधीना या लक्षणा सा गौणी तद्योगात्
गौणः ।” इति दायभागटीकायां श्रीकृष्णतर्क्का-
लङ्कारः ॥ (अमुख्ये त्रि । यथा, महाभारते ।
१२ । ३४१ । ९ ।
“बहूनि मम नामानि कीर्त्तितानि महर्षिभिः ।
गौणानि तत्र नामानि कर्म्मजानि च कानि-
चित् ॥”)

गौणकालः, पुं, (गौणोऽमुख्यः कालः ।) सुख्य-

कालकर्त्तव्यकर्म्मकरणयोग्यकालान्तरः । यथा, --
“यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत् ।
गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्म्मणि ॥
यद्वेति पक्षान्तरं प्राक्तनकार्य्ये मध्यकालवत्
आगामिक्रियाया मुख्यकालस्यापि गौणकाल-
त्वम् । तेन सायं सन्ध्याया रात्रिः प्रातः सन्ध्या-
कालश्च गौणकाल इत्यर्थः ।” इति मलमास-
तत्त्वम् ॥

गौणचान्द्रः, पुं, (गौणोऽप्रधानश्चान्द्रश्चन्द्रसम्बन्धि-

मासः ।) कृष्णप्रतिपदादिपौर्णमास्यन्तमासः ।
यथा, जन्माष्टमीप्रकरणे तिथ्यादितत्त्वे ।
“गौणचान्द्रण भाद्रता मुख्यचान्द्रेण श्रावणता ॥”
अपि च शब्दरत्नावल्याम् ।
“चान्द्रोऽपि द्विविधः प्रोक्तो मुख्यगौणविभेदतः ।
गौणः कृष्णप्रतिपदादिपौर्णमास्यन्त ईरितः ॥”

गौणी, स्त्री, (गुणं सादृश्यमधिकृत्य प्रवृत्ता ।

गुण + अण + स्त्रियां ङीप् ।) अशीतिप्रकार-
लक्षणान्तगेतलक्षणाविशेषः । यथा, --
“सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ।
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ॥”
(“ताः पूर्ब्बोक्ता अष्टादशभेदा लक्षणाः । सादृ-
श्येतरसम्बन्धाः कार्य्यकारणभावादयः । अत्र
शुद्धानां ‘श्वेतो धावति’ इत्यादीन्युदाहरणानि
ज्ञेयानि । रूढावुपादानलक्षणा सारोपा गौणी
यथा ‘एतानि तैलानि हेमन्ते सुखानि’ अत्र
तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव
सार्षपादिस्नेहेषु वर्त्तते । प्रयोजने यथा, राज-
कुमारेषु तत्सदृशेषु गच्छत्सु ‘एते राजकुमारा
गच्छन्ति ।’ रूढावुपादानलक्षणा साध्यवसाना
गौणी यथा, ‘तैलानि हेमन्ते सुखानि ।’ प्रयो-
जने यथा, ‘राजकुमारा गच्छन्ति ।’ रूढौ
लक्षणलक्षणा सारोपा गौणी यथा, ‘राजा
गौडेन्द्रः कण्टकं शोधयति ।’ प्रयोजने यथा,
‘गौर्वाहीकः ।’ रूढौ लक्षणा साध्यवसाना
गौणी यथा, ‘राजा कण्टकं शोधयति ।’ प्रयो-
जने यथा, ‘गौर्जल्पति ।’
अत्र केचिदाहुः गोसहचारिणो गुणा जाड्य-
मान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाही-
कार्थाभिधाने निमित्तीभवन्ति । यदुक्तं, गो-
शब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुम-
सामर्थ्यात् गोशब्दार्थमात्रबोधनाच्च । अभि-
धाया विरतत्वात् विरतायाश्च पुनरुत्थाना-
भावात् । अन्ये पुनर्गोशब्देन वाहीकार्थो
नाभिधीयते किन्तु स्वार्थसहचारिगुणसाजात्येन
वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न
मन्यन्ते । तथाह्यत्र मोशब्दाद्वाहीकार्थः प्रती-
यते न बा । आद्येऽपि गोशब्दादेव बा लक्षि-
ताद्वा गुणात् । अविनाभावद्वारा तत्र न
प्रथमः । वाहीकार्थेऽस्यासङ्केतितत्वात् । न
द्वितीयः । अविनाभावलभ्यस्यार्थस्य शाब्दे-
ऽन्वये प्रवेशासम्भवात् । शाब्दी ह्याकाङ्क्षा शब्दे-
नैव प्रपूर्य्यते । न द्वितीयः । यदि हि गोशब्दा-
द्वाहीकार्थो न प्रतीयते तदास्य वाहीकस्य
सामानाधिकरण्यमसमञ्जसं स्यात् । तस्मादत्र
गोशब्दा मुख्यया वृत्त्या वाहीकशब्देन सहान्वय-
मलभमानीऽज्ञत्वादिसाधर्म्म्यसम्बन्धाद्बाहीकार्थं
लक्षयति । वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयो-
जनम् । इयञ्च गुणयोगात् गौणी इत्युच्यते ।
पूर्ब्बा तु उपचारामिश्रणात् शुद्धा । उपचारो
हि नामात्यन्तं विसकलितयोः सादृश्यातिशय-
महिम्ना भेदप्रतीतिस्थगणमात्रम् । यथा
अग्निमानवकयोः शुक्लपटयोस्तु नात्यन्तं भेद-
प्रतीतिः । तस्मादेवमादिषु शुद्धैव लक्षणा ॥”
पृष्ठ २/३७१
इति साहित्यदर्पणे । २ । १३ ॥) अन्यत् सर्व्वं
लक्षणाशब्दे द्रष्टव्यम् ॥

गौतमः, पुं, (गोतमस्य ऋषेर्गोत्रापत्यमिति ।

“ऋष्यन्धकेति ।” ४ । १ । ११४ । इत्यण् ।)
मुनिविशेषः । स तु शतानन्दः । इति हेमचन्द्रः ॥
शाक्यवंशावतीर्णबुद्धमुनिविशेषः । तत्पर्य्यायः ।
शाक्यमुनिः २ शाक्यसिंहः ३ सर्व्वार्थसिद्धः ४
शौद्धोदनिः ५ अर्कबन्धुः ६ मायादेवीसुतः ७ ।
इत्यमरः । १ । १ । १५ ॥ खजित् ८ श्वेतकेतुः ९
धर्म्मकेतुः १० महामुनिः ११ पञ्चज्ञानः १२
सर्व्वदर्शी १३ महाबोधिः १४ महाबलः १५ बहु-
क्षमः १६ त्रिमूर्त्तिः १७ सिद्धार्थः १८ शकः १९ ।
इति शब्दरत्नावली ॥ (अस्य हि गौतमीपुत्त्रत्वे
प्रमाणं यथा, ललितविस्तरे १५ अध्याये ।
“ते सान्तर्वहिर्मृगयन्ते । सान्तर्वहिर्मृगयमाणा
न पश्यन्ति स्म । महाप्रजावत्यपि गौतमी परि-
देवमाना महीतले परिवर्त्तते स्म राजानं
शुद्धोदनमेवाह । क्षिप्रं मां महाराज ! पुत्त्रेण
सङ्गिनीं कुरुष्वेति ॥” वैवस्वतमन्वन्तरे सप्त-
र्षीणामन्यतमः । यदुक्तं हरिवंशे ७ । ३४--३५ ।
“अत्रिर्वशिष्ठो भगवान् कश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजो विश्वामित्रस्तथैव च ॥
तथैव पुत्त्रो भगवान् ऋचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥”
अयमेव तु विंशतिमे द्वापरयुगे वेदव्यासो-
बभूव । यथा, देवीभागवते । १ । ३ । ३१
“अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् ॥”
कुरुकुलजधृतराष्ट्रपाण्डुसुतानामाचार्य्यः कृपः ।
गोतमवंशोत्पन्नत्वादेवास्य तथात्वम् । यथा,
हरिवंशे ३२ । ७५--७६ ।
“अवस्कन्नं शरस्तम्बे मिथुनं समपद्यत ।
कृपया तच्च जग्राह शान्तनुर्मृगयाङ्गतः ॥
कृपः स्मृतः स वै तस्मात् गौतमी च कृपी
तथा ।
एते शारद्बताः प्रोक्ता एते ते गौतमाः स्मृताः ॥”
मुनिभेदः । स तु एकतद्वितादिमुनीनां पिता ।
यथा, महाभारते । ९ । ३६ । ७--९ ।
“आसन् पूर्ब्बयुगे राजन् ! मुनयो भ्रातरस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ।
सर्व्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ॥
ब्रह्मलोकजितः सर्व्वे तपसा ब्रह्मवादिनः ।
तेषान्तु तपसा प्रीतो नियमेन दमेन च ॥
अभवद्गौतमो नित्यं पिता धर्म्मरतः सदा ॥”
स्थावरविषभेदः । इति हेमचन्द्रः । ४ । २६५ ॥)

गौतमसम्भ्रवा, स्त्री, (गौतमः सम्भवो यस्याः ।

यद्वा, गौतमात् सम्भवतीति । सभ् + भू +
अच् ।) गोदावरी नदी । इति राजनिर्घण्टः ॥

गौतमी, स्त्री, (गोतमस्य इयम् । तस्येदमित्यण्

ततः स्त्रियां ङीप् ।) दुर्गा । इति मेदिनी ॥
मे । ४३ ॥ (यथा, हरिवंशे । १७६ । ७ ।
“गौतमीं कंसघाताञ्च यशोदानन्दवर्द्धिनीम् ॥”)
राक्षसीविशेषः । इति शब्दरत्नावली ॥ गोदा-
वरी नदी । (यथा, गोः रामायणे । ६ । २ । २७ ।
“यो नदीं गौतमीं रम्यां गिरिं पर्य्येति चार्व्वुदम् ॥”
तथा च हारीते प्रथमस्थाने सप्तमेऽध्याये ।
“पश्चिमाद्रिसमुद्भूता गौतमी पुण्यभावना ।
अस्याः शीतं जलं वापि कफवातविकारहृत् ॥
पित्तप्रशमनं बल्यं मूत्रदोषविकारकृत् ।
पुण्या पयस्विनी वैषा प्रणीता च वरानना ॥
द्रोणा गोवर्द्धनी चान्या गौतम्यानुगता इमाः ।
आसां जलं घनं नातिवातश्लेष्मविकारकृत् ॥”)
गोरोचना । इति राजनिर्घण्टः ॥ (गोत-
मस्यापत्यं स्त्री । गोतमवंशीयशरद्वतः कन्या-
त्वादस्यास्तथात्वम् । कृपी । सा तु द्रोणस्य
भार्य्या अश्वत्थाम्नो माता च । यथा, महा-
भारते । १ । १३१ । २३ ।
“अलभत् गौतमी पुत्त्रमश्वत्थामानमेव च ॥”
गायत्त्रीरूपा महादेवी । यथा, देवीभाग-
वते । १२ । ६ । ४० ।
“गौतमी गामिनी गाधा गन्धर्व्वाप्सर सेविता ॥”)

गौधारः, पुं, (गोधाया अपत्यम् । “आरगुदी-

चाम् ।” ४ । १ । १३० । इति आरक् ।)
गोधिकात्मजः । इत्यमरः । २ । ५ । ६ ॥ गोधा
इति ख्यातः ॥

गौधेयः, पुं, (गोधाया अपत्यम् । “शुभ्रादिभ्यश्च ।”

४ । १ । १२३ । इति ढक् ।) गोधिकात्मजः ।
इत्यमरः । २ । ५ । ६ ॥

गौधेरः, पुं, (गोधाया अपत्यम् । “गोधाया

ढ्रक् ।” ४ । १ । १२९ । इति ढ्रक् ।) गोधि-
कात्मजः । इत्यमरः । २ । ५ । ६ ॥

गौरं, क्ली, (गुरते चित्तं यत्र । गुर श ङ उद्य-

ममे + हलश्चेति घञ् । ततः स्वार्थे अण् । यद्वा,
गवते इति । गुङ शब्दे + “ऋज्रेन्द्रेति ।” उणां ।
२ । २८ । इति रन्प्रत्ययेन निपातनात् साधुः ।)
पद्मकेशरः । इति मेदिनी । रे २८ ॥ (पद्म-
केशरशब्देऽस्य विवृतिर्व्याख्येया ॥) कुङ्कुमम् ।
स्वर्णम् । इति राजनिर्घण्टः ॥

गौरः, पुं, (गवते अव्यक्तं शब्दयतीति । गुङ शब्दे

+ “ऋज्रैन्द्रेति ।” उणां । २ । २८ । रन्प्रत्ययेन
निपातनात् सिद्धम् ।) श्वेतसर्षपः ।
(“गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते ।
सर्षपस्तु रसे पाके कटुस्निग्धः सतिक्तकः ॥
तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्द्धनः ।
रक्षोहरो जयेत् कण्डूं कुष्ठ-कोष्ठकृमिग्रहान् ॥
यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
चन्द्रः । इति मेदिनी । रे । २८ ॥ धववृक्षः । इति
राजनिर्घण्टः ॥ पीतवर्णः । गोरो इति भषा ।
तद्वर्णकरणौषधं यथा, --
“कुष्माण्डनालक्षारस्तु सगोमूत्रश्च तत्त्वचः ।
जलपिष्टा हरिद्रा च सिद्वा मन्दानलेन हि ॥
माहिषेण पुरीषेण वेष्टिता वृषभध्वज ! ।
अस्या उद्वर्त्तनं कुर्य्यादङ्गगौरत्वमीश्वर ! ॥”
इति गारुडे १९४ अध्यायः ॥
श्वेतवर्णः । अरुणवर्णः । तद्वति त्रि । इत्यमरः ॥
(यथा, रामायणे । ४ । ३९ । १४ ।
“तरुणादित्यगौरैश्च शरगौरैश्च वानरैः ॥”
यथा च रघुः । २ । ३५ ।
“कैलासगौरं वृषमारुरुक्षोः
पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किङ्करमष्टमूर्त्तेः
कुम्भोदरं नाम निकुम्भमित्रम् ॥”)
श्रीचैतन्यदेवः । इत्यनन्तसंहिता ॥ (मृग-
विशेषः । यथा, भागवते । ३ । १० । २२ ।
“खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।
एते चैकशफाः क्षत्तः ! शृणु पञ्चनखान् पशून् ॥”)

गौरः, त्रि, विशुद्धः । इति मेदिनी । रे । २७ ॥

गौरचन्द्रः, पुं, (गौरेण तप्तहेमवर्णेन चन्दयति

आह्लादयतीति । चदि आह्लादे + णिच् + रन् ।)
श्रीचैतन्यदेवः । यथा, --
“कृष्णश्चैतन्यगौराङ्गौ गौरचन्द्रः शचीसुतः ।
प्रभुर्गौरो गौरहरिर्नामानि भक्तिदानि मे ॥”
इत्यनन्तसंहिता ॥

गौरजीरकः, पुं, (गौरः शुक्लवर्णो जीरकः ।)

शुक्लजीरकः । शादा जीरा इति भाषा ॥ तत्-
पर्य्यायः । अजाजी २ श्वेतजीरकः ३ कणाह्वा ४
कणजीरः ५ कणा ६ सितदीप्यः ७ दीर्घकणा ८
सिताजाजी ९ गौराजाजी १० । अस्य गुणाः ।
हिमत्वम् । रुचिकारित्वम् । कटुत्वम् । मधु-
रत्वम् । दीपनत्वम् । कृमिविषाध्माननाशित्वम् ।
चक्षुर्हितत्वञ्च । इति राजनिर्घण्टः ॥

गौरत्वक्, पुं (गौरी शुक्लवर्णा त्वग् यस्य ।)

इङ्गुदीवृक्षः । इति राजनिर्घण्टः ॥

गौरवं, क्ली, (गौरवं साधनत्वेनास्त्यस्य । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।) अभ्यु-
त्थानम् । इति हेमचन्द्रः । ३ । १६४ ॥ (गुरोर्भावः ।
गुरु + “इगन्ताच्च लघुपूर्ब्बात् ।” ५ । १ । १३१ ।
इत्यण् ।) गुरुत्वम् । इति मुग्धबोधम् ॥ (यथा,
महाभारते । १ । १६३ । १८ ।
“शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता ॥”
उत्कर्षः । यथा, रघुः । १४ । १८ ।
“शुश्राव तेभ्यः प्रभवादिवृत्तं
स्वविक्रमे गौरवमादधानम् ॥”
आदरः । यथा, कुमारे । ३ । १ ।
“प्रयोजनापेक्षितया प्रभूणां
प्रायश्चलं गौरवमाश्रितेषु ॥”)

गौरवितः, त्रि, (गौरवं सञ्जातमस्येति तार-

कादित्वादितच् ।) अर्य्यः । तत्पर्य्यायः । आर्य्य-
मिश्रः २ । इति त्रिकाण्डशेषः ॥

गौरशाकः, पुं, (गौरः गौरवर्णः शाकोऽस्येति ।)

मधूकवृक्षविशेषः । इति जटाधरः ॥

गौरसर्षपः पुं, (गौरश्चासौ सर्षपश्चेति कर्म्म-

धारयः ।) श्वेतसर्षपः । (यथा, --
“रक्षोघ्नः सर्षपः श्वेतः सिद्धार्थो गौरसर्षपः ॥”
इति वैद्यकरत्नमालायाम् ॥)
तत्पर्य्यायः । अनद्यः २ सिद्धार्थः ३ भूतनाशनः ४
पृष्ठ २/३७२
कटुस्नेहः ५ ग्रहघ्नः ६ कण्डूघ्नः ७ राजिका-
फलः ८ तीक्ष्णकः ९ दुराधर्षः १० रक्षोघ्नः ११
कुष्ठनाशनः १२ सिद्धप्रयोजनः १३ सिद्ध-
साधनः १४ सितसर्षपः १५ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । वातरक्तग्रह-
त्वग्दोषविषभूतव्रणनाशित्वम् । रुच्यत्वञ्च ।
इति राजनिर्घण्टः ॥ हृद्यत्वम् । तीक्ष्ण त्वम् ।
कफरक्षःकण्डूकुष्ठकोठकृमिनाशित्वम् । रक्त-
पित्ताग्निवर्द्धनत्वञ्च । इति भावप्रकाशः ॥ (परि-
माणविशेषः । यथा, मनुः । ८ । १३३ ।
“त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसषपस्तिस्रस्ते त्रयो गौरसषपाः ॥”)

गौरसुवर्णं, क्ली, (गौरः शुभ्रः अतएव सु शोभनो

वर्णो यस्य ।) पत्रशाकविशेषः । तत्तु चित्र-
कूटदेशे प्रसिद्धम् । तत्पर्य्यायः । स्वर्णम् २
सुगन्धिकम् ३ भूमिजम् ४ वारिजम् ५ ह्रस्वम् ६
गन्धशाकम् ७ कटुशृङ्गालम् ८ चूर्णशाकाङ्कः ९ ।
अस्य गुणाः । शिशिरत्वम् । कफपित्तज्वर-
दाहरुचिभ्रान्तिरक्तश्रमनाशित्वम् । पथ्यत्वञ्च ।
इति राजनिघण्टः ॥

गौरा, स्त्री, (गौरादिगणे वर्णवाचिन एव गौर-

शब्दस्य ग्रहणात् अत्र विशुद्धार्थपरत्वे टाप् ।)
गौरी । इति द्विरूपकोषः ॥

गौराङ्गः, पुं, (गौरं तप्तकाञ्चनवर्णं अङ्गं कलेवरं

यस्य ।) श्रीचैतन्यदेवः । यथा, --
“गौराङ्गं गौरदीप्ताङ्गं पठेत् स्तोत्रं कृताञ्जलिः ।
नन्दगोपसुतञ्चैव नमस्यामि गदाग्रजम् ॥”
इति ब्रह्मजामले चैतन्यकल्पे चैतन्यस्तवः ॥
अपि च कृष्णजामले ।
“गौराङ्गो नादगम्भीरः स्वनामामृतलालसः ॥”

गौरार्द्रकः, पुं, (गौरवर्ण आर्द्रक इव ।) स्थावर-

विषभेदः । इति हेमचन्द्रः । ४ । २६४ ॥

गौरास्यः, पुं, (गौरं शुक्लवर्णं आस्यं मुखं यस्य ।)

कृष्णवानरः । इति राजनिर्घण्टः ॥

गौरिका, स्त्री, (गौर्य्येव । गौरी + स्वार्थे कन् ।

ह्रस्वश्च ।) अष्टवर्षीया कन्या । इति शब्दरत्ना-
वली ॥

गौरिलः, पुं, (गौरवर्णोऽस्यास्तीति । गौर +

बाहुलकादिलच् ।) श्वे तसर्षपः । लौहचूर्णम् ।
इति मेदिनी । ८७ ॥

गौरी, स्त्री, (गौर + “षिद्गौरादिभ्यश्च ।” ४ । १ ।

४१ । इति ङीष् ।) पार्व्वती । (यथा, रघुः ।
२ । २६ ।
“गौरीगुरोगह्वरमाविवेश ॥”
पार्व्वती किल गौरीमूर्त्त्या पीठस्थाने कान्यकुब्ज
विराजते । यथा, देवीभागवते । ७ । ३० । ५८ ।
“गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥”)
असञ्जातरजःकन्या । (सा तु अष्टवर्षवयस्क-
कन्यका । यदुक्तं स्मृतौ ।
“अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ॥”
तथा च महाभारते । १ । २२२ । ४७ ।
स्त्रीणसिहसं गौरीणां सुवेशानां मुवर्च्चसाम् ॥”)
हरिद्रा । दारुहरिद्रा । गोरोचना । प्रियङ्गु-
वृक्षः । वसुधा । नदीविशेषः । (यथा, महा-
भारते । ६ । ९ । २५ ।
“वस्तुं सुवर्णां गौरीञ्च किम्पुनां सहिरण्व-
तीम् ॥”
गङ्गा । यथा, काशीखण्डे । २९ । ४९ ।
“गङ्गा गन्धवती गौरी गन्धर्व्वनगरप्रिया ॥”)
वरुणभार्य्या । इति मेदिनी । रे । २८--२९ ॥
सूर्य्यवंशीयप्रसेनजिद्राजभार्य्या । यथा, --
“लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम् ।
अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाऽभवत् ॥”
इति हरिवंशः ॥
बुद्धशक्तिविशेषः । इति हेमचन्द्रः ॥ मञ्जिष्ठा ।
श्वेतदूर्व्वा । मल्लिका । तुलसी । सुवर्णकदली ।
आकाशमांसी । इति राजनिर्घण्टः ॥ रागिणी-
विशेषः । सा तु मालवरागपत्नी । तस्या रूपं
यथा, सङ्गीतदामोदरे ।
“आराममध्यगता कुमारिका शारदेन्दुमुख-
लक्ष्मीः ।
राडी दाडिमबीजं दधती कीरानने गौरी ॥”
(केषाञ्चित् मते तु इयं कौशिकरागस्य पत्नी ।
यदुक्तं सङ्गीतदर्पणे रागाध्याये । ३३ ।
“तोडी स्वाम्बावती गौरी गुणक्री ककुभा तथा ।
रागिण्यो रागराजस्य कौशिकस्य वराङ्गनाः ॥”
केषाञ्चित् मते इयं श्रीरागस्य पत्नी । यदुक्तं
तत्रैव रागाध्याये । १४ ।
“मालश्री त्रिवणी गौरी केदारी मधुमाधवी ।
ततः पाहाडिका ज्ञेया श्रीरागस्य वराङ्गनाः ॥”
अस्या रागवेला तृतीयप्रहरात् परं अर्द्धरात्रा-
बधिः ॥)

गौरीजं, क्ली, (गौर्य्या जायते इति । जन् + डः ।)

अभ्रकम् । इति राजनिर्घण्टः ॥

गौरीपुत्त्रः, पुं, (गौर्य्याः पुत्त्रः ।) कार्त्तिकेयः ।

इति हलायुधः ॥

गौरीपुष्पः, पुं, (गौरीप्रियं पुप्यमस्य ।) प्रियङ्गु-

बृक्षः । इति राजनिर्घण्टः ॥

गौरीललितं, क्ली, (गौरीव हरिद्रेव ललितम् ।

पीतबर्णत्वादस्य तथात्वम् ।) हरितालम् । इति
राजनिर्घण्टः ॥

गौरुतल्पिकः, पुं, (गुरुतल्पं गुरुशय्यां गुरुपत्नी-

मित्यर्थः गच्छतीति । “गच्छतौ परदारा-
दिभ्यः ।” ४ । ४ । १ । इत्यस्य बार्त्तिं इति
ठक् ।) गुरुपत्नीगामी । इति प्राबश्वित्तप्रक-
रणे धर्म्मशास्त्रम् ॥

गौलिकः, पुं, (गुडे साधुः । गुड + ठक् । डस्य

लत्वम् ।) मुष्ककवृक्षः । इति राजनिर्घण्टः ॥

गौल्यं, क्ली, (गुडस्य भावः । गुड + ष्यञ् । डस्य

लत्वम् ।) मधुरम् । इति राजनिर्घण्टः ॥

गौशतिकः, त्रि, (गोशतमस्यास्तीति । गोशत +

“एकगोपूर्ब्बात् ठञ् नित्यम् ।” ५ । २ । ११८ ।
इति ठञ् ।) गोशतस्वामी । इति व्याकरणम् ॥
याहार एक शतगरु आछे इति भाषा ॥

गौष्ठीनं, क्ली, (पूर्ब्बं भूतं गोष्ठम् । गोष्ठ +

“गोष्ठात् खञ् भूतपूर्ब्बे ।” ५ । २ । १८ । इति
खञ् ।) भूतपूर्ब्बकगोस्थानम् । इत्यमरः । ३ ।
१ । १३ ॥ पूर्ब्बेर गोठ इति भाषा ॥ (यथा,
भट्टिः । ४ । २१ ।
“तामुवाच स गोष्ठीने वने स्त्रीपुंसभीषणे ॥”)

ग्रथ, इ ङ जैह्म्ये । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सकं च-सेट् ।) रेफयुक्तः । जैह्म्य-
मिह कुटिलीभावः कुटिलीकरणञ्च । इ, कर्म्मणि
ग्रन्थ्यते । ङ, ग्रन्थते काष्ठं कुठिलं स्यादित्यथः ।
ग्रन्थते लतां वायुः कुटिलां करोतीत्यर्थः । इति
दुर्गादासः ॥

ग्रथितं, त्रि, (ग्रथ्यते स्म इति । ग्रन्थ ग दर्भे + क्तः ।

ततो न लोपः ।) कृतग्रन्थनम् । गाँथा इति
भाषा । तत्पर्य्यायः । ग्रन्थितम् २ दृब्धम् ३ ।
इत्यमरः । ३ । १ । ८६ ॥ गुम्फितम् ४ । (यथा,
रघुः । ८ । ३४ ।
“कुसुमैर्ग्रथितामपार्थिवैः
स्रजमातोद्य शिरोनिवेशिताम् ॥”)
आक्रान्तम् । हिंसितम् । इति मेदिनी । ते ।
१०६ ॥

ग्रन्थ, कि ग दर्भे । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-क्र्यां च-परं-सकं-सेट् ।) रेफयुक्तः ।
दर्भो ग्रन्थनम् । कि, ग्रन्थयति ग्रन्थति । ग,
ग्रथ्नाति मालां मालिकः । ग्रन्थिमुद्ग्रथयितुं हृद-
येशः । इति माघे चिन्त्यम् । इति दुर्गादासः ॥

ग्रन्थः, पुं, (ग्रन्थ ग दर्भे + भावे घञ् ।) गुम्फः ।

ग्रन्थना । धनम् । (ग्रथ्यते विरच्यते इति । ग्रन्थ
+ कर्म्मणि घञ् ।) शास्त्रम् । (यथा, महा-
भारते । १ । १ । ८० ।
“ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ॥”)
द्वात्रिंशद्वर्णनिर्म्मितिः । अनुष्टुप्छन्दःश्लोकः ।
इति हेमचन्द्रः ॥

ग्रन्थकर्त्ता, [ऋ] त्रि, ग्रन्थं करोतीति । कृ + तृच्-

प्रत्ययः । ग्रन्थकारः । पुस्तककारकः । शास्त्रकृत् ॥

ग्रन्थकुटी, स्त्री, (ग्रन्थस्य कुटी गृहादिस्थानम् ।)

लेख्यस्थानम् । इति त्रिकाण्डशेषः ॥

ग्रन्थनं, क्ली, (ग्रन्थ + भावे ल्युट् ।) गुम्फनम् ।

ग्रन्थना । तत्पर्य्यायः । सन्दर्भः २ रचना ३
गुम्फः ४ श्रन्थनम् ५ । इति हेमचन्द्रः । ३ । ३१७ ॥

ग्रन्थना, स्त्री, (ग्रन्थ + भावे युच् । स्त्रियां टाप् ।)

ग्रन्थनम् । इति मुग्धबोधम् ॥

ग्रन्थिः, पुं, (ग्रन्थ ग सन्दर्भे + “स्वनिकष्यञ्ज्यसि-

वसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ।” उणां । ४ ।
१३९ । इति भावकरणादौ यथायथं इः ।)
वंशादिसन्धिः । गाँटि इति भाषा । तत्पर्य्यायः ।
पर्व्व २ परुः ३ । इत्यमरः । २ । ४ । १६२ ॥
काण्डसन्धिः ४ । (यथा, आर्य्यासप्तशत्याम् । १६८ ।
“इक्षोरिव सुन्दरि ! मानस्य ग्रन्थिरपि काम्यः ॥”)
भद्रमुस्ता । हितावली । पिण्डालुः । इति राज-
निर्घण्टः ॥ (अन्योन्याध्यासः । मायापाशः ।
यथा, भागवते । १ । २ । २१ ।
पृष्ठ २/३७३
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ॥”)
कौटिल्यम् । ग्रन्थिपर्णवृक्षः । (यथा, चरके
सूत्रस्थाने तृतीयेऽध्याये ।
“मनःशिला त्वक्कुटजात् सकुष्ठः
सलोमशः सैडगजः करञ्जः ।
ग्रन्थिश्च भौर्ज्जः करवीरमूलं
चूर्णानि साध्यानि तुषोदकेन ॥”)
बन्धनम् । रुग्भेदः । इति मेदिनी । थे । ६ ॥
तस्य निदानसंप्राप्ती यथाह माधवकरः ।
“वातादयो मांसमसृक्प्रद्रुष्टाः
सन्दूष्य मेदाश्च तथा शिराश्च ।
वृत्तोन्नतं विग्रथितन्तु शोथं
कुर्व्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ॥”
तस्य वातिकरूपं यथा, --
“आयम्यते वृश्च्यति तुद्यते च
प्रभ्रंश्यते मथ्यति भिद्यते च ।
कृष्णो मृदुर्व्वस्तिरिवाततश्च
भिन्नः स्रवेच्चानिलजेऽस्रमच्छम् ॥”
पैत्तिकरूपं यथा, --
“दंदह्यते धूप्यति चुष्यते च
पापच्यते प्रज्वलतीव चापि ।
रक्तः सपीतोऽप्यथवापि पित्तात्
भिन्नः स्रवेदुष्णमतीव चास्रम् ॥”
श्लैष्मिकरूपं यथा, --
“शीतो विवर्णोऽल्परुजोऽतिकण्डूः
पाषाणवत्संहननोपपन्नः ।
चिराभिवृद्धिश्च कफप्रकोपा-
द्भिन्नः स्रवेच्छुक्लघनञ्च पूयम् ॥”
(अथास्य ससम्प्राप्तिकलक्षणं यथा, --
“कफप्रधानाः कुर्व्वन्ति मेदोमांसास्रगामलाः ।
वृत्तोन्नतं यं श्वयथुं सग्रन्थिर्ग्रथनात् स्मृतः ॥
दोषास्रमांसमेदोऽस्थि शिराव्रणभवा नव ।
ते तत्र वातादायामतोदभेदान्वितोऽसितः ॥
स्थानात् स्थानान्तरगतिरकस्माद्धानिष्टद्धिमान् ।
मृदुर्वस्तिरिवानद्धो विभिन्नोऽच्छस्रवत्यसृक् ॥
पित्तात् सदाहः पीताभो रक्तो वा पच्यते द्रुतम् ।
भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः ॥
शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेद्घनम् ।
दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु ॥
शिरामांसञ्च संश्रित्य सस्वापः पित्तलक्षणः ।
मांसलैर्दूषितं मांसाहारैश्च ग्रन्थिमावहेत् ॥
स्निग्धं महान्तं कठिनं शिरानद्धं कफाकृतिम् ।
प्रवृद्धं मेदुरैर्मेदोनीतं मांसेऽथवा त्वचि ॥
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् ।
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम् ॥
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत् ।
अस्थिभङ्गाभिघाताभ्यामुन्नतावनतन्तु यत् ॥
सोऽस्थियन्थिः पदान्ते च सहसाम्भोऽवगाहनात् ।
व्यायामाद्वा प्रतान्तस्य शिराजालं सशोणितम् ॥
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च ।
निष्फुरं नीरुजं ग्रन्थिं कुरुते स शिराह्वयः ॥
अरूढे रूढमात्रे वा व्रणे सर्व्वरसाशिनः ।
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा ॥
वातास्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ।
कुर्य्यात् सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः ॥
साध्या दोषास्रमेदोजा न तु स्थूलखराश्चलाः ।
मर्म्मकण्ठोदरस्थाश्च-- ॥”
इति वाभटेनोत्तरस्थाने २९ अध्याये उक्तम् ॥)
तस्य चिकितसा यथा, --
“स्वर्ज्जिकामूलकक्षारः शङ्खचूर्णसमन्वितः ।
एतेन विहितो लेपो हन्ति ग्रन्थिं तथार्व्वुदम् ॥
ग्रन्थिर्न यो नश्यति भेषजेन
निष्कास्य तं शस्त्रचिकितसकेन ।
जात्यादिपक्वेन घृतेन वैद्यो
व्रण्येन त्तान्येन च सञ्चिकित्सेत् ॥”
ग्रन्थीनुद्धृत्य पश्चात्तु व्रणोक्तं क्रममाचरेत् ।
शिराग्रन्थिं विहायान्ये शेषे शस्त्रं प्रयुञ्जते ॥
अन्ये आचार्य्याः ।” इति भावप्रकाशः ॥
(“ग्रन्थिष्वामेषु कर्त्तव्या यथास्वं शोफवत् क्रिया ।
बृहतीचित्रकव्याघ्रीकणासिद्धेन सर्पिषा ॥
स्नेहयेच्छुद्धिकामञ्च तीक्ष्णैः शुद्धस्य लेपनम् ।
संस्वेद्य बहुशो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥
एष वाते विशेषेण क्रमः पित्तास्रजे पुनः ।
जलौकसो हिमं सर्व्वं कफजे वातिको विधिः ॥
तथाप्यपक्वं छित्त्वैनं स्थिते रक्तेऽग्निना दहेत् ।
साध्यशेषं सशेषो हि पुनराप्यायते ध्रुवम् ॥
मांसव्रणोद्भवौ ग्रन्थी पाटयेदेवमेव च ।
कार्य्यं मेदोभवेऽप्येतत्तप्तैः फालादिभिश्च तम् ॥
प्रमृद्यात्तिलदिग्धेन च्छन्नं द्विगुणवाससा ।
शस्त्रेण पाटयित्वा वा दहेन्मेदसि सूद्धृते ॥
शिराग्रन्थौ नवे पेयं तैलं साहचरन्तथा ।
उपनाहोऽनिलहरैर्वस्तिकर्म्मशिराव्यघः ॥
अङ्गैकदेशेष्वनिलादिभिः स्यात्
स्वरूपधारी स्फुरणः शिराभिः ।
ग्रन्थिर्महान्मांसभवस्त्वनर्त्ति-
र्मेदोभवः स्निग्धतमश्चलश्च ॥
तं शोधितं स्वेदितमश्मकाष्ठैः
साङ्गुष्ठदण्डैर्विनयेदपक्वम् ।
विपाट्य चोद्धृत्य भिषक् सकोषं
शस्त्रेण दग्ध्वा व्रणवच्चिकित्सेत् ॥
अदग्ध ईषत् परिशोधितश्च
प्रयाति भूयोऽपि शनैर्विवृद्धिम् ।
तस्मादशेषः कुशलैः समन्ता-
च्छेद्यो भवेद्वीक्ष्य शरीरदेशान् ॥
शोषे कृते पाकवशेन शीर्य्येत्
ततः क्षतोत्थः प्रसरेद्विसर्पः ।
उपद्रबं तं प्रतिवारयेज्ज्ञः
स्वैर्भेषजैः पूर्ब्बतरैर्यथोक्तैः ॥
ततः क्रमेणास्य यथाविधानं
व्रणं व्रणज्ञस्त्वरया चिकित्सेत् ॥”
इति चरके चिकित्सास्थाने १७ अध्यायः ॥
अपरा चिकित्सा च यथा, --
“ग्रन्थिष्वथामेषु भिषग्विदध्या-
च्छोफक्रियायां विहितं विधिज्ञः ।
रक्षेद्बलञ्चापि नरस्य नित्यं
तद्रक्षितं व्याधिबलं निहन्ति ॥
तैलं पिबेत् सर्पिरथो द्वयं वा
दत्त्वा वसां वा त्रिवृतं विदध्यात् ।
अपेहि वातादशमूलसिद्धं
वैद्यश्चतुःस्नेहमथो द्वयं वा ॥
हिंस्राथ रोहिण्यमृताथ भार्गी
श्योनाकविल्वागुरुकृष्णगन्धाः ।
गोजी च पिष्टा सह तालपत्र्या
ग्रन्थौ विधेयोऽनिलजे प्रलेपः ॥
स्वेदोपनाहान् विविधांश्च कुर्य्या-
त्तथा प्रसिद्धानपरांश्च लेपान् ।
विदार्य्य वा पक्वमपोह्य पूयं
प्रक्षाल्य विल्वार्कनरेन्द्रतोयैः ॥
तिलैः सपञ्चाङ्गुलपत्रमिश्रैः
संशोधयेत् सैन्धवसंप्रयुक्तैः ।
शुद्धं व्रणं वाप्युपरोपयेयु-
स्तैलेन रास्ना सवलान्वितेन ॥
विडङ्गयष्टीमधुकामृताभिः
सिद्धेन वाक्षीरसमन्वितेन ।
जलौकसः पित्तकृते हितास्तु
क्षीरोदकाभ्यां परिषेचनञ्च ॥
काकोलिवर्गस्य च शीतलानि
पिबेत् कषायाणि सशर्कराणि ।
द्राक्षारसेनेक्षुरसेन वापि
चूर्णं पिबेच्चापि हरीतकीनाम् ॥
मधूकजम्ब्वर्ज्जुनवेतसानां
त्वग्भिःप्रदाहानवचारयेत ।
सशर्करैर्वा तृणशून्यकन्दै-
र्दिह्यादभीक्ष्णं मुचुकुन्दजैर्व्वा ॥
विदार्य्य वा पक्वमपोह्य पूयं
धावेत् कषायेण वनस्पतीनाम् ।
तिलैः सयष्टीमधुकैर्विशोध्य
सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ॥
हृतेषु दोषेषु यथानुपूर्ब्ब्या
ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु ।
स्विन्नस्य विम्लापनमेव कुर्य्या-
दङ्गुष्ठलोहोपलवेणुदण्डैः ॥
विकङ्कतारग्बधकाकणन्ती
काकादनी तापसवृक्षमूलैः ।
आलेपयेत् पिण्डफलार्कभार्गी
करञ्जकालामदनैश्च विद्वान् ॥
अमर्म्मजातं शममप्रयात-
मपक्वमेवापहरेद्बिदार्य्य ।
दहेत् स्थिते वासृजि सिद्धकर्म्मा
सद्यः क्षतोक्तञ्च विधिं विदध्यात् ॥
या मांसकन्द्यः कठिना बृहत्य-
स्ताष्वेष योज्यश्च विधिर्विधिज्ञैः ।
शस्त्रेण व्यापाद्य सुपकमाशु
प्रक्षालयेत् पथ्यतमैः कषायैः ॥
संशोधनैस्तञ्च विशोधयेयुः
क्षारोत्तरैः क्षौद्रघृतप्रगाढैः ।
पृष्ठ २/३७४
शुद्धे च तैलं त्ववचारणीयं
विडङ्गपाठारजनीविपक्वम् ॥
मेदः समुत्थे तिलकल्कदिग्धं
दत्त्वोपरिष्ठाद्द्विगुणं पटान्तम् ।
हुताशतप्तन मुहुः प्रमृज्या-
ल्लोहेन धीमान् दहनं हिताय ॥
प्रलिप्य दार्व्वीमथ लाक्षया वा
प्रतप्तया स्वेदनमस्य कार्य्यम् ।
निपात्य वा शस्त्रमपोह्य मेदो-
दहेत् सुपक्वन्त्वथवा विदार्य्यम् ॥
प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः
सुवर्च्चिकाद्यैर्हरितालमिश्रैः ।
ससैन्धवैः क्षौद्रघृतप्रगाढैः
क्षारोत्तरैरेनमभिप्रशोध्य ॥”
इति सुश्रुते चिकित्सितस्थानेऽष्टादशेऽध्याये ॥)

ग्रन्थिकं, क्ली, (ग्रन्थिभिः कायति प्रकाशते इति ।

कै + कः ।) पिप्पलीमूलम् । (अस्य पर्य्याया यथा,
“ग्रन्थिकं पिप्पलीमूलमुषणं चटकाशिरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमं भागे ॥)
ग्रन्थिपर्णम् । गुग्गुलुः । इति मेदिनी । रे । ६ ॥

ग्रन्थिकः, पुं, (ग्रन्थिभिः पर्व्वभिः कायतीति ।

ग्रन्थि + कै + कः ।) करीरः । (ग्रन्थिना कौटि-
ल्येन कायतीति । कै + कः । यद्वा ग्रन्थः
पञ्जिकास्यास्तीति ठन् ।) दैवज्ञः । (यथा, महा
भारते । १४ । ७० । ७ ।
“तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्द्दनम् ॥”)
सहदेवाख्यपाण्डवः । इति मेदिनी । के । ८१ ॥
(नकुलश्च । इयमाख्या तु यदानेन छद्मरूपिणा
विराटगृहे वासः कृतस्तदैव जाता । यथा,
महाभारते । ४ । ३ । २ ।
नकुल उवाच ।
“अश्वबन्धो भविष्यामि विराटनृपतेरहम् ।
सर्व्वथा ज्ञानसम्पन्नः कुशलः परिरक्षणे ।
ग्रन्थिको नाम नाम्नाहं कर्म्मैतत् सुप्रियं मम ॥”)

ग्रन्थितं, त्रि, (ग्रन्थ्यते स्म इति । ग्रथि + क्तः ।)

ग्रथितम् । इत्यमरः । ३ । १ । ८६ ॥

ग्रन्थिदला, स्त्री, (ग्रन्थिर्दलेषु पत्रेषु यस्याः ।)

मालाकन्दः । इति राजनिर्घण्टः ॥

ग्रन्थिदूर्व्वा, स्त्री, (ग्रन्थिबहुला दूर्व्वा । शाक-

पार्थिवादिवत् समासः ।) मालादूर्व्वा । इति
राजनिर्घण्टः ॥

ग्रन्थिपर्णं, क्ली, (ग्रन्थिषु पर्णानि यस्य । ग्रन्थि-

प्रचुराणि पर्णानि यस्येति वा ।) वृक्षविशेषः ।
गाँठियाला इति भाषा ॥ तत्पर्य्यायः । शुकम् २
वर्हिपुष्पम् ३ स्थौणेयम् ४ कुक्कुरम् ५ । इत्य-
मरः । २ । ४ । १३२ ॥ वर्हिःपुष्पम् ६ वर्ही ७
पुष्पम् ८ वर्हम् ९ शुकवर्हम् १० । इति तट्टीका ॥
स्थौणेयकम् ११ कुशपुष्पम् १२ गुत्थकम् १३ ।
इति रत्नमाला ॥ विशीर्णाख्यम् १४ स्वाराम-
गुच्छकम् १५ वर्हिः १६ शुकपुच्छम् १७ शुक-
च्छदम् १८ । इति ग्रन्थान्तरम् ॥ ग्रन्थिकम् १९
काकपुष्पम् २० नीलपुष्पम् २१ सुगन्धम् २२
तैलपर्णकम् २३ । अस्य गुणाः । तिक्तत्वम् ।
तीक्ष्णत्वम् । कटुत्वम् । उष्णत्वम् । दीपनत्वम् ।
लघुत्वम् । कफवातविषश्वासकण्डूदौर्गन्ध्यनाशि-
त्वञ्च । इति भावप्रकाशः ॥ अस्य लेपनगुणः ।
रूक्षतालक्ष्मीराक्षसज्वरनाशित्वम् । इति राज-
वल्लभः ॥

ग्रन्थिपर्णः, पुं, (ग्रन्थिः पर्व्व तत्प्रचुराणि पर्णा-

न्यस्य ।) चोरकनामगन्धद्रव्यम् । इति राज-
निर्घण्टः ॥ (चोरकशब्देऽस्य गुणादयो ज्ञेयाः ॥)

ग्रन्थिपर्णा, स्त्री, (ग्रन्थिपर्ण + टाप् ।) जतुकालता ।

इति राजनिर्घण्टः ॥

ग्रन्थिपर्णी, स्त्री, (ग्रन्थिपर्ण + गौरादित्वात् ङीष् ।)

गण्डदूर्व्वा । इति राजनिर्घण्टः ॥

ग्रन्थिफलः, पुं, (ग्रन्थियुक्तं फलमस्य ।) शाकुरुण्ड-

वृक्षः । कपित्थवृक्षः । मदनवृक्षः । इति राज-
निर्घण्टः ॥

ग्रन्थिमत्फलः, पुं, (ग्रन्थिरस्यास्तीति मतुप् । ग्रन्थि-

मत् पर्व्वविशिष्टं फलं यस्य ।) लकुचः । इति
राजनिर्घण्टः ॥

ग्रन्थिमान्, [त्] पुं, (ग्रन्थिरस्त्यस्यास्मिन् वा ।

ग्रन्थि + मतुप् ।) अस्थिसंहारकवृक्षः । हाड-
भाङ्गा इति हाडजोडा इति च भाषा । तत्-
पर्य्यायः । अस्थिसंहारी २ वज्राङ्गी ३ अस्थि-
शृङ्खला ४ । अस्य गुणाः । वातश्लेष्मकृमिदुर्नाम-
नाशित्वम् । अस्थियोक्तृत्वम् । उष्णत्वम् । सारक-
त्वम् । अम्लरोगपित्तकारित्वम् । रूक्षत्वम् ।
स्वादुत्वम् । लघुत्वम् । वृष्यत्वम् । पाचनत्वञ्च ।
इति भावप्रकाशः ॥ रत्नमालोक्तपर्य्याया राज-
वल्लभोक्तगुणाश्चास्थिसंहारशब्दे द्रष्टव्याः ॥
(ग्रन्थियुक्ते, त्रि । यथा, कुमारे । ३ । ४६ ।
“कण्ठप्रभासङ्गविशेषनीलां
कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥”)

ग्रन्थिमूलं, क्ली, (ग्रन्थिर्मूले यस्य ।) गृञ्जनम् ।

इति राजनिर्घण्टः ॥

ग्रन्थिमूला, स्त्री, (ग्रन्थिबहुलं मूलं यस्याः । शाक-

पार्थिवादित्वात् समासः ।) मालादूर्व्वा । इति
राजनिर्घण्टः ॥

ग्रन्थिलं, क्ली, (ग्रन्थिर्विद्यतेऽस्य । ग्रन्थि + “सिध्मा-

दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) पिप्पली-
मूलम् । इति राजनिर्घण्टः ॥ आर्द्रकम् । इति
शब्दचन्द्रिका ॥

ग्रन्थिलः, पुं, (ग्रन्थिरस्यास्तीति । “सिध्मादिभ्यश्च ।”

५ । २ । ९७ । इति लच् ।) विकङ्कतवृक्षः ।
वँइचि इति भाषा ॥ (पर्य्यायोऽस्य यथा, --
“विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः ।
स एव यज्ञवृक्षश्च कण्टकी व्याघपादपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
करीरवृक्षः । इत्यमरः । २ । ४ । ३७, ७७ ॥ तण्डु-
लीयशाकम् । हितावली । पिण्डालुः । चोरक
नामगन्धद्रव्यम् । विकण्टकवृक्षः । इति राज-
निर्घण्टः ॥ ग्रन्थियुक्ते त्रि । इति मेदिनी । ले । ८५ ॥
(यथा, आर्य्यासप्तशत्याम् । ५०० ।
“रोषेणैव मया सखि ! वक्रोऽपि ग्रन्थिलोऽपि
कठिनोऽपि ।
ऋजुतामनीयतायं सद्यः स्वेदेन वंश इव ॥”)

ग्रन्थिला, स्त्री, (ग्रन्थिल + टाप् ।) भद्रमुस्ता ।

(भद्रमुस्ता शब्देऽस्या गुणादिकं ज्ञातव्यम् ॥)
मालादूर्व्वा । गण्डदूर्व्वा । इति राजनिर्घण्टः ॥

ग्रन्थिवर्ही, [न्] पुं, (ग्रन्थिभिर्वर्हति वर्द्धते इति ।

वृह वृद्धौ + णिनिः ।) ग्रन्थिपर्णवृक्षः । इति
शब्दचन्द्रिका ॥

ग्रन्थिहरः, पुं, (ग्रन्थिं कौटिल्यं हरति परकृत-

कुटिलतां कार्य्यजटिलतां वा विभेदयतीत्यर्थः ।
ग्रन्थि + हृ + अच् ।) अमात्यः । मन्त्री । इति
त्रिकाण्डशेषः ॥

ग्रन्थीकं, क्ली, (ग्रन्थिभिः कायतीति । ग्रन्थि +

कै + कः । निपातनात् दीर्घत्वम् ।) ग्रन्थिकम् ।
पिप्पलीमूलम् । इति द्विरूपकोषः ॥

ग्रस, उ ङ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) रेफयुक्तः । उ, ग्रसित्वा
ग्रस्त्वा । ङ, ग्रसते । हिमांशुमाशु ग्रसते ।
इति माघः । इति दुर्गादासः ॥

ग्रस, कि ग्रासे । इति कविकल्पद्रुमः ॥ (चुरां--

पक्षे भ्वां-परं-सकं सेट् ।) रेफयुक्तः । कि,
ग्रासयति फलं लोकः । ग्रसति तव मुखेन्दुं पूर्ण-
चन्द्रं विहाय । इमं ग्रहणे पठन्ति केचित् ।
इति दुर्गादासः ॥

ग्रस्तं, त्रि, (ग्रस्यते स्म इति । ग्रस + क्तः । “यस्य

विभाषा ।” ७ । २ । १५ । इति इडभावः ।)
लुप्तवर्णपदम् । असम्पूर्णवाक्यम् । भुक्तम् ।
(यथा, रामायणे । २ । ४२ । १२ ।
“राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुम्रतो यथा ॥”)
खादितम् । इत्यमरः । १ । ६ । २० ॥ (आक्रा-
न्तम् । यथा, याज्ञवल्क्ये । ३ । २४४ ।
“दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा ॥”)

ग्रह, ग ञ ग्रहणे । इति कविकल्पद्रुमः ॥ (क्य्रां-

उभं-सकं-सेट् ।) ग ञ, गृह्णाति गृह्णीते । इति
दुर्गादासः ॥

ग्रह, ऊ कि आदाने । इति कविकल्पद्रुमः ॥

(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) ऊ, अग्रहीत्
अघ्राक्षीत् । कि, ग्राहयति ग्रहति । एष ह्वादि-
रेव मन्यते तत्राप्यात्मनेपदी एव । इति दुर्गा-
दासः ॥

ग्रहः, पुं, (गृह्णाति गतिविशेषानिति । यद्वा,

गृह्णाति फलदातृत्वेन जीवानिति । ग्रह् +
“विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे
अच् ।) सूर्य्यादिनव । यथा । रविसोममङ्गल-
बुधबृहस्पतिशुक्रशनिराहुकेतवः । (यदुक्तम्, --
“सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति नव ग्रहाः ॥”
“लोकानद्रीन् स्वरान् धातून् मुनीन् द्बीपान्
ग्रहानपि ।
समिधः सप्त सङ्ख्याताः सप्तजिह्वा हविर्भुजः ॥”
पृष्ठ २/३७५
इत्यनेन ग्रहाणां यत् सप्तत्वमुक्तं तत् वराह-
मतानुसारेणेत्यवधेयम् । एतेन राहुकेत्वोर्ग्रहत्वं
सर्व्वे नाद्रियन्ते इति सूचितम् ॥) तेषामष्टधा
गतिर्यथा । वक्रा १ अतिवक्रा २ कुटिला ३
मन्दा ४ मन्दतरा ५ समा ६ शीघ्रा ७ शीघ्र-
तरा ८ । इति ज्योतिषम् ॥ तेषां ध्यानानि यथा ।
तत्र सूर्य्यस्य ध्यानम् ।
“क्षत्त्रियं काश्यपं रक्तं कालिङ्गं द्वादशाङ्गुलम् ।
पद्महस्तद्वयं पूर्ब्बाननं सप्ताश्ववाहनम् ॥
शिवाधिदैवतं सूर्य्यं वह्निप्रत्यधिदैवतम् ॥” * ॥
सोमस्य ध्यानम् ।
“सामुद्रं वैश्यमात्रेयं हस्तमात्रं सिताम्बरम् ।
श्वेतं द्विबाहुं वरदं दक्षिणं सगदेतरम् ॥
दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् ।
जलप्रत्यधिदैवञ्च सूर्य्यास्यमाह्वयेत्तथा ॥” * ॥
मङ्गलस्य ध्यानम् ।
“आवन्त्यं क्षत्त्रियं रक्तं मेषस्थं चतुरङ्गुलम् ।
आरक्तमाल्यवसनं भारद्बाजं चतुर्भुजम् ॥
दक्षिणोर्द्ध्वक्रमाच्छक्तिवराभयगदाकरम् ।
आदित्याभिमुखं देवं तद्वदेव समाह्वयेत् ॥
स्कन्दाधिदैवतं भौमं क्षितिप्रत्यधिदैवतम् ॥” * ॥
बुधस्य ध्यानम् ।
“मागधं द्व्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम् ।
वामोर्द्ध्वक्रमतश्चर्म्मगदावरदखड्गिनम् ॥
सूर्य्यास्यं सिंहगं सौम्यं पीतवस्त्रं तथाह्वयेत् ।
नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतमे ॥” * ॥
बृहस्पतेः ध्यानम् ।
“द्बिजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम् ।
ध्यात्वा पीताम्बरं जीवं सरोजस्थं चतुर्भुजम् ॥
दक्षोर्द्ध्वादक्षवरदकरकादण्डमाह्वयेत् ।
ब्रह्माधिदैवं सूर्य्यास्यमिन्द्रप्रत्यधिदैवतम् ॥” * ॥
शुक्रस्य ध्यानम् ।
“शुक्रं भोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् ।
पद्मस्थमाह्वयेत् सूर्य्यमुखं श्वेतं चतुर्भुजम् ॥
सदाक्षवरकरकादण्डहस्तं सिताम्बरम् ।
शक्राधिदैवतं ध्यायेत् शचीप्रत्यधिदैवतम् ॥” * ॥
शनेर्ध्यानम् ।
“सौराष्ट्रं काश्यपं शूद्रं सूर्य्यास्यं चतुरङ्गुलम् ।
कृष्णं कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम् ॥
तद्वद्बाणवरं शूलंधनुर्हस्तं समाह्वयेत् ।
यमाधिदैवतं प्राजापतिप्रत्यधिदैवतम् ॥” * ॥
राहोर्ध्यानम् ।
“राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् ।
कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ।
चतुर्ब्बाहुं खड्गवरशूलचर्म्मकरन्तथा ।
कालाधिदैव सूर्य्यास्यं सर्पप्रत्यधिदैवतम् ॥” * ॥
केतूनां ध्यानम् ।
“कौशद्वीपं केतुगणं जैमिनीयं षडङ्गुलम् ।
धूम्रं गृध्रगतं शूद्रमाह्वयेद्विकृताननम् ॥
सूर्य्यास्यं धूम्रवसनं वरदं गदिनं तथा ।
चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधिदैवतम् ॥”
इति ग्रहयागतत्त्वम् ॥
तेषां कामरूपे स्थानानि ध्यानमन्त्रादिश्च यथा,
“पूर्ब्बं सुमदनायास्तु ब्रह्मक्षेत्रस्य पश्चिमे ।
महाक्षेत्रं यत्र देव आदित्यः सततं स्थितः ॥
भैरवस्य हितार्थाय यदा सर्व्वे सुराः स्थिताः ।
कामरूपे महापीठे ब्रह्मेन्द्रवरुणादयः ॥
तदा तत्त्वाह्वये शैले श्रीसूर्य्योऽपि व्यवस्थितः ।
त्रिस्रोता नाम तस्यास्ति नदी पूर्ब्बदिशि स्थिता ॥
कापोतं करणं पश्चाद्यस्य कुण्डद्वयं स्थितम् ।
कापोतकुण्डे विधिवत् स्नात्वा करणकुण्डके ॥
तत्त्वाचलं समारुह्य संपूज्य च दिवाकरम् ।
सकृदेव नरो याति भास्करस्य गृहं प्रति ॥
सूर्य्यरश्मिसमुद्भूत ! कापोत ! करणामृत ! ।
पुण्यतोय ! महाघोरं पापं कापोत ! मे हर ! ॥
इत्यनेन तु मन्त्रेण स्नात्वा कापोतपुष्करे ।
करणं समुपस्पृश्य तत्त्वशैले रविं यजेत् ॥
त्रिविधं ब्रह्मबीजन्तु सहस्रपदमन्ततः ।
रश्मयेति चतुर्थ्यन्तं देवतायाः शुचेस्ततः ॥
अङ्गबीजमिदं प्रोक्तमादित्यस्यातिकामदम् ॥”
ध्यानं यथा, --
“पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजो भास्करः सदा ॥
वर्त्त्लं मण्डलं चास्य अष्टपत्रसमन्वितम् ।
अङ्गुष्ठाद्यङ्गुलीनान्तु हृदादीनां तथा च षट् ॥
अङ्गमन्त्रेण संयुक्त उपान्त्यो वह्निसंयुतः ।
सर्व्वन्यासे समुद्दिष्टो मन्त्रः सर्व्वफलप्रदः ॥
हृच्छिरस्तु शिखावर्ष्मनेत्रास्योदरपृष्ठतः ।
वाह्वोः पाण्योर्ज्जङ्घयोस्तु पादयोश्चापि विन्यसेत् ॥
जघने तु समस्तानि क्रमान्मन्त्राक्षराणि तु ।
क्रमश्चोत्तरतन्त्रोक्तः पूजनेऽस्य प्रकीर्त्तितः ॥
विसर्ज्जनं तथैशान्यां विद्याद्या दलशक्तयः ।
निर्म्माल्यधृगुग्रचण्डो माठराद्यास्तु पार्ष्णयः ॥
बीजमुत्तरतन्त्रस्य पूर्ब्बतः प्रतिपादितम् ।
अनेन विधिना तत्र पूजयित्वा सुरोत्तमम् ॥
स कामानखिलान् प्राप्य इह लोके स उत्तमः ।
सुखी शेषे ततो गच्छेद्भास्करस्यालयं प्रति ॥ १ ॥”
इति कालिकापुराणे ८० अध्यायः ॥
“पूर्ब्बं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः ।
त्रिकोणस्ताम्रसंकाशस्तदूर्द्ध्वे चन्द्रमण्डलम् ॥
द्बितीयवर्गस्याद्यन्तु विन्द्बिन्दुभ्यामलङ्कृतम् ।
चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् ॥
अद्यापि प्रतिदर्शे तु पर्व्वतं तं निशापतिः ।
प्रदक्षिणीकरोत्येव दशभिश्चाश्वभिर्युतः ॥
तस्यैव पूर्ब्बभागे तु सोमकुण्डाह्वयं सरः ।
तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते ॥
स्वर्गादवभृतश्चन्द्रः कामाख्यासेवने यदा ।
तदा तद्रश्मिसङ्घातनिःसृतास्तोयराशयः ॥
तैस्तोयैर्व्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः ।
मध्ये पुण्यतमस्थाने स्वयं ब्रह्मशिलोपरि ॥
चन्द्ररश्मिसमुद्भूतचन्द्रकुण्ड महोदधे ।
सुधास्रवण साह्वाद त्वं चन्द्र कलुषं हर ॥
इत्यनेन तु मन्त्रेण यः स्नात्वा चन्द्रपाथसि ।
चन्द्रकूटं समारुह्य पूजयेद्यस्तु तं नरः ॥
अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते ।
परत्र चन्द्रभवनं भित्त्वा याति परं पदम् ॥”
ध्यानं यथा, --
“श्वेतः श्वेताम्बरधरो दशाश्वो हेमभूषितः ।
गदापाणिर्द्विबाहुश्च स्मर्त्तव्यो वरदः शशी ॥ २ ॥
पूर्ब्बस्यां कर्पटाख्यात्तु शैलाच्चित्र इति स्मृतः ।
यः पूर्ब्बभागप्रान्तोऽभूद्दिश्याग्नेय्यां व्यवस्थितः ॥
पीठस्य ब्राह्मग्रावस्तु अर्ब्बाक् पर्व्वत उच्यते ।
तस्मिन् वसन्ति सततं ग्रहा राजन् ! यथेच्छया ॥
तत्र तान् पूजयेद्यस्तु स नाप्नोत्यापदं क्वचित् ।
रूपं मन्त्रञ्च सूर्य्यस्य चन्द्रस्य प्रतिपादितम् ।
सप्तानामितरेषान्तु मन्त्रं रूषं शृणुष्व मे ॥
रक्ताम्बरधरः शूली शक्तिमांश्च गदाधरः ।
चतुर्भुजो मेषरथो वरदो मङ्गलो मतः ॥ ३ ॥
पीताम्बवधरः शूली पीतमाल्यानुलेपनः ।
खड्गचर्म्मगदापाणिः सिं हस्थो वरदो बुधः ॥ ४ ॥
स्वर्णगौरः पीतवासाः स्वर्णपङ्कजसंस्थितः ।
मालां कमण्डलुं दण्डं वामेन वरदायकम् ॥
चतुर्भुजं सुसम्बद्धं चिन्तयेंद्देवतीर्थकम् ।
सव्वैर्दवगणैर्नित्यं नम्यमानं मनोहरम् ॥ ५ ॥
शुक्लवस्त्रं शुक्लवर्णं शङ्खनागोपरिस्थितम् ।
चतुर्भुजं चाक्षमालां पुस्तकञ्च वराभये ॥
क्रमाद्दक्षिणवामाभ्यां धत्ते दैत्यगुरुः सदा ॥ ६ ॥
इन्द्रनीलनिभः शूली वरदो गृध्रवाहनः ।
पाशबाणासनधरो ध्यातव्योऽर्कसुतः सदा ॥ ७ ॥
कामदेवस्य बीजन्तु मन्त्रं भौमस्य कीर्त्तितम् । मं ।
दुर्गाया नेत्रबीजस्य यत्तु मध्याक्षरं शुभम् ।
तन्मन्त्रं शशिपुत्त्रस्य सर्व्वकामफलप्रदम् ॥ बु ॥
भकारपञ्चमो यस्तु चतुर्थस्वरसंयुतः ।
गणेशबीजं तदिदं गुरोर्म्मन्त्रं प्रकीर्त्तितम् ॥ बृ ॥
बिन्द्बिन्दुसंयुतञ्चापि पूर्ब्बवर्णद्बयं पुनः ।
सप्तमस्वरसंयुक्तो भकारस्वादिरन्तरम् ॥
प्रान्तवर्गाद्यक्षरन्तु बिन्द्विन्दुभ्यां समन्वितम् ।
भवेंच्छुक्रस्य बीजन्तु सर्व्वकामसमृद्धिदम् ॥ शु ॥
प्रान्तवर्गाद्यक्षरन्तु चन्द्रबिन्दुसमन्वितम् ।
आद्यमन्त्यस्वरोपेतं तदेवेन्द्वादिसंयुतम् ।
शनैश्चरस्य मन्त्रोऽयं सर्व्वदोषविनाशनः ॥ श ॥
बिन्दुचन्द्रसमायुक्तं नामाद्यक्षर एव वा ।
तेषां सर्व्वग्रहाणां वै मन्त्रसङ्घः प्रकीर्त्तितः ॥
शान्तिके पौष्टिके कृत्ये एभिर्मन्त्रैर्ग्रहानिमान् ।
पूजयेत् सर्ब्बदा धीरो भूतिकामो महामतिः ॥
वरदाभयहस्तश्च खड्गचर्म्मधरस्तथा ।
सिंहासनगतः कृष्णो राहुधींरैः प्रचक्ष्यते ॥ ८ ॥
धूम्रवर्णो विशालाक्षः पुच्छरूपी चतुर्भुजः ।
खड्गचर्म्मगदाबाणपाणिः केतुः शवासनः ॥ ९ ॥
उपान्तादिद्वादशेन स्वरेण सहितः पुनः ।
उपान्तपञ्चमेनेन्दुबिन्दुभ्यां सहितावुभौ ॥
मन्त्रोऽयमनुलोमेन राहोः केतोर्विलोमतः ।
आद्याक्षरं बिन्दुमद्वा मन्त्रमुक्तं तथैतयोः ॥ रा । के
एवं चित्रे शैलवरे पूजयित्वा नवग्रहान् ।
अभीष्टान् लभते कामान्नरः शान्तिं तथोत्तमाम् ॥”
इति कालिकापुराणे ८१ अध्यायः ॥ * ॥
पृष्ठ २/३७६
(अथ ग्रहयुत्यधिकारो यथा, --
“ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ ।
समागमः शशाङ्केन सूर्य्येणास्तमनं सह ॥
शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा ।
द्बयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्य्ययात् ॥
प्राग्यायिन्यधिकेऽतीतो वक्रिण्येष्यः समागमः ॥
ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः ।
भुक्यन्तरेण विभजेदनुलोमविलोमयोः ॥
द्बयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत् ॥
लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति ।
विपर्य्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ ॥
समलिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ ।
विवरं तद्वदुद्धृत्य दिनादि फलमिष्यते ॥
कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः ।
नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयोः ॥
विषुवच्छाययाभ्यस्ताद्विक्षेपाद् द्वादशोद्धृतात् ।
फलं स्वनतनाडीघ्नं स्वदिनार्द्धविभाजितम् ॥
लब्धं प्राच्यामृणं सौम्याद्विक्षेपात् पश्चिमे धनम् ।
दक्षिणे पाक्कपाले स्वं पश्चिमे तु तथा क्षयः ॥
सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः ।
विकलाः स्वमृणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः ॥
नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने ।
शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्म्मादाविदं स्मृतम् ॥
तात्कालिकौ पुनः कार्य्यौ विक्षेपौ च तयोस्ततः ।
दिक् तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् ॥
कुजार्किज्ञामरेज्यानां त्रिंशदर्द्धार्द्धवर्द्धिताः ।
विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता ॥
त्रिचतुःकर्णयुक्त्याप्तास्ते द्विघ्नास्त्रिज्यया हताः ।
स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः ॥
छायाभूमौ विपर्य्यस्ते स्वच्छायाग्रे तु दर्शयेत् ।
ग्रहः स्वदर्पणान्तस्थः शङ्ङ्क्वग्रे सम्प्रदृश्यते ॥
पञ्च हस्तोच्छ्रितौ शङ्कू यथादिग्भ्रमसंस्थितौ ।
ग्रहान्तरेण विक्षिप्तावधो हस्तनिखातगौ ॥
छायाकर्णौ ततो दद्याच्छायाग्राच्छङ्कुमूर्द्धगौ ।
छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् ॥
स्वशङ्कमूर्द्धगौ व्याम्नि ग्रहौ दृक्तुल्यतामितौ ।
उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्त्यते ॥
युद्धशंमुविमर्द्दाख्यमंशुयोगे परस्परम् ।
अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः ॥
समागमोऽंशादधिके भवतश्चेद्बलान्वितौ ।
अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तिमान् ॥
रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः ।
उदकस्थो दीप्तिमान् स्थूलो जयी याम्येपि यो
बली ॥
आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः ।
स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ ॥
उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी ।
शशाङ्केनैवमेतेषां कुर्य्यात् संयोगसाधनम् ॥
भावाभावायलोकानां कल्पनेयं प्रदर्शिता ।
स्वमार्गगाः प्रवान्त्येते दूरमन्योन्यमाश्रिताः ॥”
इति सूर्य्यसिद्धान्ते ग्रहयुत्यधिकारः ॥
अथ ग्रहाणां राश्यधिपत्वकथनं ग्रहभावप्रकाशे
यथा, --
“मेषवृश्चिकयोर्भौमः शुक्रो वृषतुलाभृतोः ।
बुधः कन्यामिथुनयोः प्रोक्तः कर्कस्य चन्द्रमाः ॥
स्यान्मीनधन्विनोर्जीवः शनिर्मकरकुम्भयोः ।
सिंहस्याधिपतिः सूर्य्यः कथितो गणकोत्तमैः ॥”
अथ ग्रहाणामुच्चनीचत्वकथनं तत्रैव यथा, --
“रवेर्मेषतुले प्रोक्ते चन्द्रस्य वृषवृश्चिकौ ।
भौमस्य मृगकर्कौ च कन्यामीनौ बुधस्य तु ॥
जीवस्य कर्कमकरौ मीनकन्ये सितस्य च ।
तुलामेषौ च मन्दस्य उच्चनीचाबुदाहृतौ ॥”
अथ ग्रहाणामन्योन्यं मित्रशात्रवमाह तत्रैव ।
“रवीन्दुभौमगुरवो ज्ञशुक्रशनिराहवः ।
स्वस्मिन् मित्राणि चत्वारि परस्मिन् शत्रवः
स्मृताः ॥
राहुरव्योः परं वैरं गुरुभार्गरयोरपि ।
हिमांशुबुधयोर्वैरं विवस्वन्मन्दयोरपि ॥”
अथ ग्रहाणां प्रभातादिकालज्ञानमाह तत्रैव,
“प्रभातमिन्दुजगुरू मध्याह्नं रविभूमिजौ ।
अपराह्णं भार्गवेन्दू सन्ध्या मन्दभुजङ्गमौ ॥”
अथ ग्रहाणां दृष्टिकथनं तत्रैव यथा, --
“तिर्य्यग्दृशौ बुधसितौ भौमार्कौ व्योमदर्शिनौ ।
जीवेन्दू समदृष्टी च शनिराहू अधोदृशौ ॥”
अथ ग्रहाणां विचरणस्थानानि तत्रैव यथा, --
“भार्गवेन्दू जलचरौ ज्ञजीवौ ग्रामचारिणौ ।
राहुक्षितिजमन्दार्कान् ब्रुवतेऽरण्यचारिणः ॥”
अथ ग्रहाणां पित्तादिधातुज्ञानमाह तत्रैव,
“पित्तं प्रभाकरक्ष्माजौ श्लेष्मा भार्गवशीतगू ।
ज्ञगुरू समधातू च पवनौ राहुमन्दगौ ॥”
अथ ग्रहाणां रसज्ञानमाह तत्रैव ।
“कुजार्कौ कटुकौ जीवो मधुरस्तुवरो बुधः ।
क्षाराम्लौ चन्द्रभृगुजौ तीक्ष्णौ सर्पार्कनन्दनौ ॥”
अथ ग्रहाणां धातुमूलादिचिन्ताज्ञानमाह ।
“मन्देन्दूरगभौमाः स्युर्धातुः सवितृभार्गवौ ।
मूलं जीवश्च सौम्यश्च जीवं प्राहुर्महाधियः ॥”
अथ ग्रहाणां पदज्ञानमाह तत्रैव ।
“द्बिपदौ भार्गवगुरू भूपुत्त्रार्कौ चतुष्पदौ ।
पक्षिणौ बुधशौरी च चन्द्रराहू सरीसृपौ ॥”
अथ ग्रहाणां जातिविशेषमाह ।
“विप्रौ शुकगुरू क्षत्त्रौ कुजार्कौ शूद्र इन्दुजः ।
इन्दर्वैश्यः स्मृतौ म्लेच्छौ सैहिकेयशनैश्चरौ ॥”
अथ ग्रहाणां देहादीनां स्वरूपमाह ।
“स्थूल इन्दुः सितः षण्डः चतुरस्रौ कुजो भृगुः ।
वर्त्तुलौ सोमधिषणौ दीर्घौ शनिभुजङ्गमौ ॥”
अथ ग्रहाणां वणस्वरूपमाह तत्रैव ।
“रक्तवर्णः कुजः प्रोक्तो धिषणः कनकद्युतिः ।
शुकपिच्छसमः सौम्यो गौरकान्तिरथोष्णगुः ॥
मन्दारस्यार्कपुष्पस्य समद्युतिरनुष्णगुः ।
कविरत्यन्तधवलः फणी कृष्णः शनिस्तथा ॥”
ग्रहाणां धातुचिन्तामाह तत्रैव ।
“शुक्रे चन्द्रे भवद्राप्यं बुधे स्वर्णमुदाहृतम् ।
गुरौ रत्नयुतं हेम सूर्य्ये मौक्तिकमुच्यते ॥
भोमे त्रपुः शनौ लौहं राहावश्मानि कीर्चयेत् ।
घातोर्विनिश्चये ज्ञाते विशेषः स्यादुदाहृतः ॥
शुक्रे चन्द्रे जलाधारो देवतावसतिर्गुरौ ।
रवौ चतुष्पदाश्मानमिष्टकानिचयो बुधे ॥
भृगौ स्थानं कुजे प्रोक्तं शनिराहू च वाह्यभूः ।
अमीभिर्हि बुकस्थाने नष्टभूमिं विलोकयेत् ॥”
अथ ग्रहाणां लिङ्गज्ञानमाह तत्रैव ।
“जीवमङ्गलमार्त्तण्डानुशन्ति पुरुषान् बुधाः ।
सोमसोमजमन्दा हि भृगुपुत्त्रास्तु योषितः ॥”
अथ ग्रहाणां वयोज्ञानमाह तत्रैव ।
“युवा कुजः शिशुः सौम्यः शशिशुक्रौ च मध्यमौ ।
मन्दमार्त्तण्डदेवेज्यफणिनः स्थविरा ग्रहाः ॥”
अथ ग्रहाणां प्रकृतिस्वरूपमाह तत्रैव ।
“भौममन्दार्कमोगीन्द्राः प्रकृत्या दुःखदायकाः ।
ज्ञगुरुश्वेतकिरणशुक्राः सुखकराः सदा ॥”
अथ ग्रहाणां राशिभोगकालनिरूपणं यदुक्तं
ज्योतिषे ।
“रविर्मासं निशानाथः सपाददिवसद्वयम् ।
पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादशवासरान् ॥
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।
शनिः सार्द्धद्वयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥”
ग्रहाणां स्तुत्यादिकन्तु नवग्रहशब्दे द्रष्टव्यम् ॥)
तेषां दशा तत्फलादि च दशाशब्दे गरुड-
पुराणे ६० अध्याये च द्रष्टव्यम् ॥ * ॥
अथ नवग्रहयागविधानादि यथा, --
याज्ञवल्क्य उवाच ।
“श्रीकामः शान्तिकामो वा वृद्ध्यायुरभिचारवान् ।
ग्रहयज्ञं समं कुर्य्यात् ग्रहाश्चैते बुधैः स्मृताः ॥
सूर्य्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुः कुर्य्यात् ग्रहांस्तथा ॥
ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
रजतादयसः सीसात् कांस्यात् वर्णान् निबोधत ॥
रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोऽसितः ।
कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः ॥
स्थापयेद्ग्रहवर्णानि होमार्थं प्रलिखेत् पटे ।
सवर्णानि प्रदेयानि वासांसि कुसुमानि च ॥
गन्धाश्च वलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्त्तव्यास्तत्र मन्त्रैश्च चरवः प्रतिदैवतम् ॥
आकृष्णेन इमं देवा अग्निर्मूर्द्ध्वा दिवः ककुत् ।
उद्वुध्यस्वेति जुहुयादृग्भिरेव यथाक्रमम् ॥
बृहस्पतेऽतियदर्य्यति सर्व्वेऽन्नात् परिस्रुतः ।
शन्नो देवीस्ततः काण्डात् केतुं कृन्वन्निति क्रमात् ॥
अर्कः पलाशः स्वदिरश्चापामार्गोऽथ पिप्पलः ।
औडम्बरः शमी दूर्व्वा कुशश्च समिधः क्रमात् ॥
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ।
गुडौदनं पायसञ्च हविष्यं क्षीरयष्टिकम् ॥
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ।
दद्याद्ग्रहक्रमादेतान् ग्रहेभ्यो भोजनं ततः ॥
घेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥
ग्रहाः पूज्याः सदा यस्माद्राज्यादि प्राप्यतेफलम् ॥”
इति गारुडे १०१ अध्यायः ॥
अथ वेदभेदे ग्रहादोनां मन्त्रभेदाः क्रमशः प्रदर्श्यन्ते ।
ऋग्वेदिनाम् यजुर्व्वेदिनाम् सामवेदिनाम् अथर्व्ववेदिनाम्
सूर्य्यस्य आकृष्णेण रजसा । १ । ३५ । २ आ कृष्णेण रजसा । वाः ३३ । ४३ उदु त्यं जातवेदसम् १ । १ । १ । ३ । ११
(टिप्पणी-बण्महांअसि १ । ३ । २ । ४ । ४)
विषासहिं सहमानम् १७ । १ । १
सोमस्य आप्यायस्व समेतु ते १ । ९१ । १६ इमं देवा असपत्नम् । वाः ९ । ४० सन्ते पयांसि । वाः १२ । ११३
(टिप्पणी-सोमं राजानम् १ । १ । २ । ५ । १)
शक्रधूमं नक्षत्राणि ६ । १२८ । १
मङ्गलस्य अग्निर्मूर्द्धा दिवः ८ । ४४ । १६ अग्निर्मूर्द्धा दिवः । वाः १५ । २० अग्निर्मूर्द्धा दिवः १ । १ । १ । ३ । ७ त्वया मन्यो सरथम् ४ । ३२ । १
बुधस्य अग्ने विवस्वत् १ । ४४ । १ उद्बुध्यस्वाग्ने । वाः १५ । ५४ अग्ने विवस्वत् १ । १ । १ । ४ । ६ यद्राजानो विभजन्तः ३ । २९ । १
बृहस्पतेः बृहस्पते परि दीया १० । १०३ । ४ बृहस्पते अतियदर्य्यः । वाः २६ । ३ बृहस्पते परि दीया २ । ९ । ३ । २ । १
(टिप्पणी-बृहद्वयो हि । १ । १ । २ । ४ । ८)
बृहस्पतिर्नः परिपातु ७ । ५१ । १
शुक्रस्य शुक्रं ते अन्यत् ६ । ५८ । १ अन्नात् परिस्रुतः । वाः १९ । ७५ शुक्रं ते अन्यत् १ । १ । २ । ३ । ३ हिरण्यवर्णाः शुचयः १ । ३३ । १
शनैश्चरस्य शन्नोदेवीरभीष्टये १० । ९ । ४ शन्नो देवीरभीष्टये । वाः ३६ । १२ शन्नो देवीरभीष्टये १ । १ । १ । ३ । १३ सहस्रबाहुः पुरुषः १९ । ६ । १
राहोः कया नश्चित्रः ४ । ३१ । १ काण्डात् काण्डात् । वाः १३ । २० कया नश्चित्रः १ । २ । २ । ३ । ५ दिव्यं चित्रमृतुघाः
केतोः केतुं कृण्वन्नकेतवे १ । ६ । ३ केतुं कृण्वन्नकेतवे । वाः २९ । ३७ केतुं कृण्वन्नकेतवे २ । ६ । ३ । १२ । ३ यस्ते पृथुः स्तनयित्नुः ७ । ११ । १
सूर्य्यादिदेवेश्वरस्य आ वो राजानम् ४ । ३ । १ त्र्यम्बकं यजामहे । वाः ३ । ६० आ वो राजानम् १ । १ । २ । २ । ७ मानो विदन् विव्याधिनः १ । १९ । १
सोमाधिदेवोमायाः गौरीर्म्मिमाय १ । १६४ । ४१ श्रीश्चते लक्ष्मीश्च । वाः ३१ । २२ आपो हि ष्ठा २ । ९ । २ । १० । १ आपो हि ष्ठा १ । ५ । १
कुजाधिदेवस्कन्दस्य कुमारं माता ५ । २ । १ यदक्रन्दः प्रथमम् । वाः २९ । २२ स्योना पृथिवि । वाः ३५ । २१ अग्निरिव मन्यो त्विषितः ४ । ३१ । २
बुधाधिदेवहरेः इदं विष्णुर्विचक्रमे १ । २२ । १७ विष्णोरराटमसि । वाः ५ । २१ इदं विष्णुर्विचक्रमे १ । ३ । १ । ३ । ९ प्र तद्विष्णुः स्तवते ७ । २६ । २
जीवाधिदेवब्रह्मणः त्वमित् सप्रथाः ८ । ६० । ५ आ ब्रह्मन् ब्राह्मणः । वाः २२ । २२ त्वमित् सप्रथाः १ । १ । १ । ४ । ८ ब्रह्म जज्ञानम् ४ । १ । १
शुक्राधिदेवेन्द्रस्य इन्द्रं वो विश्वतः १ । ७ । १० सजोषा इन्द्रः । वाः ७ । ३७ इन्द्रमित् देवतातये १ । ३ । २ । १ । ७ इन्द्रेमं प्रतरम् ६ । ५ । २
शन्यधिदेवयमस्य यमाय सोमं सुनुत १० । १४ । १३ यमाय त्वाङ्गिरस्वते । वाः ३८ । ९ आयं गौः पृश्निः २ । ६ । १ । ११ । १ यः प्रथमं प्रवतमाससाद ६ । २८ । ३
राह्वधिदेवकालस्य ब्रह्म जज्ञानम् । वाः । १३ । ३ कार्षिरसि समुद्रस्य । वाः ६ । २८ ब्रह्म जज्ञानम् । १ । ४ । १ । ३ । ९ रोहितः कालः १३ । २ । ३९
केत्वधिदेवचित्रगुप्तस्य उषो वाजं हि १ । ४८ । ११ चित्रावसो स्वस्ति । वाः ३ । १८ चित्र इच्छिशोः १ । १ । २ । २ । २ । आज्ञातं यदनाज्ञातम्
सूर्य्यप्रत्यधि देवाग्नेः अग्निं दूतं वृणीमहे १ । १२ । १ अग्निं दूतं पुरोदधे । वाः २२ । १७ अग्निं दूतं वृणीमहे १ । १ । १ । १ । ३ समास्त्वाग्ने ऋतवः २ । ६ । १
सोमप्रत्यधिदेवजलस्य अप्सु मे सोमः १ । २३ । २० आपो हि ष्ठा । वाः ११ । ५० उदुत्तमं वरुण पाशम् । वाः १२ । १२ शन्नो देवीरभीष्टये । वाः ३६ । १२
कुजप्रत्यधिदेवक्षितेः स्योना पृथिवि १ । २२ । १५ स्योना पृथिवि । वाः ३५ । २१ पृथिव्यन्तरीक्षम् । तैः आः ७ । ७ । ३ भूमे मातर्निधेहि १२ । १ । ६३
बुधप्रत्यधिदेवविष्णोः सहस्रशीर्षा पुरुषः १० । ९० । १ इदं विष्णुर्विचक्रमे । वाः ५ । १५ सहस्रशीर्षा पुरुषः । वाः ३१ । १ इदं विष्णुंर्विचक्रमे ७ । २६ । ४
जीवप्रत्यधिदेवेन्द्रस्य इन्द्रायेदो मरुत्वते ९ । ६४ । २२ इन्द्र आसां नेता । वाः १७ । ४० इन्द्रायेन्दो १ । ५ । २ । ४ । ६ इन्द्र जुषस्व प्र वहा २ । ५ । १
शुक्रप्रत्यधिदेवशच्याः उत्तापर्णे सुभगे १० । १४५ । २ अदित्यै रास्नासि । वाः १ । ३० एकाष्टका तपसे । अः ३ । १० । १२ प्रेतं पादौ १ । २७ । ४
शनिप्रत्यधिदेवप्रजापतेः प्रजापते न त्वद् १० । १२१ । १० प्रजापते न त्वद् । वाः १० । २० प्रजापते न त्वद् । वाः १० । २० नक्तं जातास्योषधे १ । २३ । १
राहुप्रत्यधि देवसर्पाणाम् आयं गौः पृश्निः १० । १८९ । १ नमोऽस्तु सर्पेभ्यः । वाः १३ । ६ तवेन्द्रिद्रावमम् १ । ३ । २ । ३ । ८ शेरभक शेरभ २ । २४ । १
केतुप्रत्यधिदेवब्रह्मणः ब्रह्म जज्ञानम् । वाः १३ । ३ ब्रह्म जज्ञानम् । वाः १३ । ३ एष ब्रह्मा य ऋत्विजः १ । ५ । २ । १ । २ ये दिशामन्तर्देशेभ्यः ४ । ४० । ८
पृष्ठ २/३७८
पाटान्तराणि प्रदर्श्यन्ते, --
(गृह्यते अनुगृह्यते अभ्युपपद्यते इति । ग्रह +
“ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति
अप् ।) अनुग्रहः । निर्ब्बन्धः । (यथा, आर्य्या-
सप्तशत्याम् । ४४५ ।
“महति स्नेहे निहितः कुसुमं बहु दत्तमर्च्चितो
बहुशः ।
वक्रस्तदपि शनैश्चर इव सखि ! दुष्टग्रहो
दयितः ॥”
“दुष्टो ग्रह आग्रहो यस्य पक्षे दुष्टश्चासौ ग्रह-
श्चेति विग्रहः ।” इति तट्टीका ॥) ग्रहणम् ।
(यथा, भागवते । ३ । १५ । ३५ ।
“सद्योहरेरनुचरावुरु विभ्यतुस्तत्-
पादग्रहावपततामतिकातरेण ॥”)
रणोद्यमः । पूतनादयः । ते तु बालग्रहाः ।
(एतेषां नामानि विवरणञ्च बालग्रहशब्दे द्रष्ट-
व्याणि ॥ * ॥) सैंहिकेयः । (यथा, रघुः । १२ । २८ ।
“सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठम्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥”)
उपरागः । स तु चन्द्रसूर्य्ययोर्ग्रहणम् । इति
मेदिनी । हे । ३ ॥ (यदुक्तं तिथितत्त्वे ।
“भत्रिपादान्तरे राहोः केतोर्व्वा संस्थितो रविः ।
चतुष्पादान्तरे चन्द्रस्तदा सम्भाव्यते ग्रहः ॥”
ग्रहाणां नवसंख्यात्वेन ग्रहशब्देनापि नवमसंख्या
उच्यते । यथा, देवीभागवते । १ । ३ । ३ ।
“चतुर्द्दशसहस्रञ्च मात्स्यमाद्यं प्रकीर्त्तितम् ।
तथा ग्रहसहस्रन्तु मार्कण्डेयं महाद्भुतम् ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ३७ ।
“चन्द्रः सूर्य्यः शनिः केतुर्ग्रहो ग्रहपतिर्व्वरः ॥”)

ग्रहकल्लोलः, पुं, (ग्रहस्य चन्द्रसूर्य्यादेः कल्लोलः

विमर्द्दक इव ।) राहुः । इति त्रिकाण्डशेषः ॥

ग्रहणं, क्ली, (गृह्यते इति । ग्रह् + भावे ल्युट् ।)

स्वीकारः । (यथा, हे रामायणे । १ । ६६ । १९ ।
“नशेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥”
आदरः । करः । उपलब्धिः । (यथा, रधुः ।
३ । २८ ।
“स वृत्तचूलश्चलकाकपक्षकैः
अमात्यपुत्त्रैः सवयोभिरन्वितः ।
लिपेर्यथावद्ग्रहणेन वाङ्मयं
नदीमुखेनेव समुद्रमाविशत् ॥”)
बन्दी । उपरागः । इति मेदिनी । णे ४५ ॥
(गृह्यन्ते विषयाः येन । ग्रह + करणे ल्युट् ।)
इन्द्रियम् । इति राजनिर्घण्टः ॥ शब्दः । इति
जटाधरः ॥ अथ सूर्य्यचन्द्रग्रहणकारणं यथा, --
“भत्रिपादान्तरे राहोः केतोर्व्वा संस्थितो रविः ।
चतुष्पादान्तरे चन्द्रस्तदा सम्भाव्यते ग्रहः ॥
यम्मिन्नृक्षे रविस्तस्माच्चतुर्द्दशगतः शशी ।
पूर्णिमापतिपत्मन्धौ राहुणा ग्रस्यते शशी ॥
कृष्णपक्षे तृतीयायां मामर्क्षं यदि जायते ।
ततस्त्रयोदशे सूर्य्यो राहुणा ग्रस्यते रविः ॥” * ॥
ग्रहणकालीनरविचन्द्रयोर्मेघेनाच्छादनाच्छादन-
कारणं यथा, --
“रविभौमनवांशे तु निरभ्रं ग्रासमादिशेत् ।
बुधसौरिनवांशे तु मलिनं क्षुद्रवर्षणम् ॥
गुरोरंशकमासाद्य दृश्यते सवलाहकः ।
शशिशुक्रनवांशे तु प्रावृट्काले महज्जलम् ।
अन्यत्राव्यक्तभूतौ तौदृश्येते छादिताम्बरौ ॥” * ॥
राहोर्वर्णविशेषे शुभाशुभं यथा, (बृहत् संहि-
तायाम् । ५ । ५३-५८ ।)
“श्वेते क्षेमसुभिक्षं ब्राह्मणपीडाञ्च
निर्द्दिशेद्राहौ ।
अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥
हारिते रोगोल्वणता शस्यानामीतितश्च विध्वंसः ।
कपिले शीघ्रगसत्वस्नेहविध्वंसोऽथ दुर्भिक्षम् ॥
अरुणकिरणानुरूपे दुर्भिक्षं वृष्टयो विहगपीडा ।
धूम्राभे क्षेमसुभिक्षमादिशेन्मन्दवृष्टिञ्च ॥
कापोतारुणकपिले श्यामाभे क्षुद्भयं विनिर्द्दिशेत् ।
कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥
विमलकमलपीताभो वैश्यध्वंसी भवेत् सुभि-
क्षाय ।
सार्च्चिष्मत्यग्निभयं गैरिकरूपे च युद्धानि ॥
दूर्व्वाकाण्डश्यामे हारिद्रे वापि निर्द्दिशेन्मरकम् ।
अशनिभयसम्प्रदायी पाटलकुसुमोपमो राहुः ॥”
तद्दर्शननिषेधो यथा, --
“सप्ताष्टजन्मशेषेषु चतुर्थे दशमे तथा ।
नवमे च तथा चन्द्रे न कुर्य्याद्राहुदर्शनम् ॥
जन्मभे जन्मराशौ च षष्ठाष्टमगते तयोः ।
चतुर्थे द्वादशे चन्द्रे न कुर्य्याद्राहुदर्शनम् ॥
ग्रासदर्शनमात्रेण चार्थहानिर्म्महद्भयम् ।
जायते नात्र सन्देहस्तस्मात्तत्परिवर्जयेत् ॥
विपत्करप्रत्यरिसंज्ञितेषु
वैनाशिकर्क्षेषु कृतं हि कर्म्म ।
सर्व्वं नृणां निष्फलमेव यस्मात्
कृतेऽपि तत्रास्ति शुभं न किञ्चित् ॥”
तत्र कर्त्तव्यं कर्म्म यथा, --
“एकरात्रमुपोष्यैव राहुं दृष्ट्वा क्षयं नरः ।
पुण्यमाप्नोति कृत्वा च स्नानं श्राद्धं विधानतः ॥
आदित्यकिरणैः पूतं पुनः पूतञ्च वह्निना ।
जलं व्याध्यातुरः स्नायात् ग्रहणेऽप्युष्णवारिणा ॥
सर्व्वं भूमिसमं दानं सर्व्वे व्याससमा द्विजाः ।
सर्व्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः ॥
सर्व्वस्वेनापि कर्त्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्व्वाणस्तु तत् श्राद्धं पङ्के गौरिव सीदति ॥
आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि ॥
चन्द्रसूर्य्यग्रहे स्नानं श्राद्धदानजपादिकम् ।
कार्य्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ॥
सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्व्वणोः ।
मन्त्रदीक्षां प्रकुर्व्वाणो मासर्क्षादीन् न शोधयेत् ॥
चन्द्रग्रहश्चन्द्रवारे सूर्य्ये सूर्य्यग्रहस्तथा ।
चूडामणिरयं योगस्तत्रानन्तफलं स्मृतम् ॥
अन्यस्माद्ग्रहणात् कोटिगुणमत्र फलं लभेत् ।
अथवान्यप्रकारेण पुरश्चरणमिष्यते ॥
ग्रहणेऽर्कस्य चेन्दोर्व्वा शुचिः पूर्ब्बमुपोषितः ॥
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।
यद्वा पुण्योदके स्नात्वा शुचिः पूर्ब्बमुपोषितः ॥
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ।
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ॥
तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणतर्पणम् ।
ततो मन्त्रप्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् ॥
एवञ्च मन्त्रसिद्धिः स्याद्देवता च प्रसीदति ।
सूतके मृतके चैव न दोषो राहुदर्शने ।
स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्जितम् ॥” * ॥
नक्षत्रविशेषे ग्रहणे नराणां दोषस्तत्शान्तिश्च
यथा, --
“यस्मिंस्त्रिजन्मनक्षत्रे ग्रस्येते शशिभास्करौ ।
तज्जातानां भवेत् पीडा ये नराः शान्ति-
वर्ज्जिताः ॥
ग्रहणग्रहपरिपीडितनाडीनक्षत्रदोषशम-
नाय ।
सह शतपुष्पैः स्नायात् फलिनीफलचन्दनो-
शीरैः ॥”
नाडीनक्षत्राणि च । आद्यदशषोडशाष्टादश-
त्रयोविंशपञ्चविंशतयः ॥
“ताम्रपात्रं तिलैः पूर्णं पूर्णं वा गव्यसर्पिषा ।
भास्करग्रहणे दद्यान्नाडीदोषोपपीडितः ॥
घृतकुम्भोपरि निहितं शङ्खं नवनीतपूरितं
दद्यात् ।
नाड्यादिदोषशान्त्यै द्विजाय दोषाकरग्रहणे ॥”
तत्र भोजनादिनिषेधो यथा, --
“चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव ! ।
ग्रहणन्तु भवेत्तत्र तत्पूर्ब्बां भोजनक्रियाम् ॥
नाचरेत् सग्रहे चैव तथैवास्तमुपागते ।
यावत् स्यान्नोदयस्तस्य नाश्नीयात्तावदेव तु ॥
मुक्तिं दृष्ट्वा तु भुञ्जीत स्नानं कृत्वा परेऽहनि ॥
सूर्य्यग्रहे तु नाश्नीयात् पूर्ब्बं यामचतुष्टयम् ।
चन्द्रग्रहे तु यामांस्त्रीन् बालवृद्धातुरैर्व्विना ॥
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥”
तत्राशौचं यथा, --
“सर्व्वेषामेव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्म्माणि कुर्व्वीत शृतमन्नं विवर्ज्जयेत् ॥
ग्रहणे शावमाशौचं विमुक्तौ सौतिकं स्मृतम् ।
तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अथ ज्योतिर्म्मते ग्रहणस्वरूपं यथा । राहुः
पृथिवीच्छायां समाश्रित्य चन्द्रं चन्द्रमाश्रित्य
रविं यदाच्छादयति तत् ग्रासाख्यम् । किन्तु
रविचन्द्रयोर्न गतिरोधकस्वरूपो ग्रासः ॥ * ॥
अथ ग्रहणसम्भावना । अमावस्यावसान-
समये यदि रविस्फुटराश्यादिः राहुकेत्वोः
स्फुटराश्यादिभिस्तुल्यः किंवा दशभागान्तरितो
भवति तदा सूर्य्यग्रहणम् । पूर्णिमावसानकाले
यदि चन्द्रस्फुटराश्यादिः राहुकेत्वोः स्फुटराश्या-
दिभिस्तुल्यः किंवा त्रयोदशभागान्तरितो भवति
तदा चन्द्रग्रहणं स्यात् ॥ * ॥ तस्य गणना-
प्रकारो यथा । अमावस्या शेषक्षणे पूर्णिमा-
वसाने च सूर्य्यसिद्धान्तोक्तगणितागतौ यथा-
पृष्ठ २/३७९
सम्भवराश्यादिस्थौ रविचन्द्रौ कर्त्तव्यौ । मध्य-
राहुराश्यादिभिर्युक्तः स्फुटराश्यादिस्थो रविश्च
कार्य्यः । अस्मिन् राहुयुक्तरवौ षड्राश्यधिके सति
षड्राशीन् त्यक्त्वा त्रिंशता पूरितः सन् यदि
नवतिभागाधिको भवति तदाशीतृउच शतां-
शेभ्यो हीनः कार्य्यः । अवशिष्टाङ्को द्बिःस्थाप्य
एकस्मात् द्ब्याभ्यां हृताङ्केनापरो युक्तः सन्
शरो भवति । राहुरव्योर्योगे कृते मेषादिराशि-
षट्के सति स शरः सौम्यसंज्ञकः तुलादिषट्के
सति याम्यसंज्ञकः स्यात् ॥ * ॥ चन्द्रराहुमान-
ज्ञानम् । पञ्चत्रिंशद्विकलाधिकनवत्युत्तरसप्तशत-
कलामितमध्यचन्द्रभुक्तिः ७९० । ३५ । सा च
स्फुटकर्म्मणा किञ्चित् कलादिभिर्न्यूनाधिका वा
भवति । तस्याः स्फुटेन्दुभुक्त्याः सकाशात् द्वा-
चत्वारिंशदधिकशतेन १४२ हरणाल्लब्धं चन्द्रस्य
मानं स्यात् । पञ्चगुणितचन्द्रमानात् द्वाभ्यां
हरणाल्लब्धं राहुमानं भवति ॥ * ॥
अथ चन्द्रग्रहणम् ।
राहुचन्द्रयोर्म्मानं मिलितं शरण हीनकरणात्
यदवशिष्टं तत् ग्रासो भवेत् शरे शून्ये सति
राहुचन्द्रयोर्म्मिलितं मानद्वयं ग्रासो भवेत् ।
शरेऽधिके ग्रासो न स्यात् ॥ * ॥
चन्द्रग्रहणारम्भादिकालज्ञानं यथा । षड्-
गुणितग्रासाङ्कात् चतुर्म्मिश्रितग्रासाङ्केन लब्धं
दण्डादिकं स्थितिदण्डादेरर्द्धं भवति । तत् पौर्ण-
मासीयदण्डादिषु हीनं सत् स्पर्शकालः । युक्तं
सत् मुक्तिकालः द्बिगुणितं तत् स्थितिदण्डादि-
कालः स्यात् ॥ * ॥
चन्द्रमण्डलस्य स्पर्शादिदिग्ज्ञानम् ।
पूर्ब्बोक्तशरे याम्ये सति आकाशे चन्द्रमण्डलस्य
अग्निकोणे स्पर्शो नैरृ तकोणे मुक्तिश्च स्यात् ।
शरे सौम्ये सति ईशानकोणे स्पर्शः वायुकोणे
मोक्षः । इति चन्द्रग्रहणम् ॥ * ॥
सूर्य्यग्रहणे अक्षो यथा । स्वदेशविषुवच्छाया
द्विः स्थाप्या । एकस्याः षड्ढृतेनान्या युक्ता
सती भागादिर्याम्याक्षः स्यात् ॥ * ॥ सूर्य्य-
ग्रहणोपयोगिनतमाह । दिनार्द्धामावस्ययो-
र्दण्डादीनां यदन्तरं तत् अंशादिकं नतनामकं
स्यात् ॥ * ॥ सूर्य्यग्रहणोपयोगि लम्बनं यथा ।
द्विगुणनतसमसङ्ख्यकखण्डो ग्राह्यः खण्डान्तर-
गुणितशेषात् षष्टिलब्धयुक्तः सन् स्फुटलम्बनं
अंशादिकं भवति ॥ * ॥ सूर्य्यग्रहणे फलं यथा ।
दिनपूर्ब्बपरार्द्धक्रमेण षड्गुणितनतयुक्तलम्बन-
सहितस्फुटरवौ षड्राश्यधिके षड्राशीन् त्यक्त्वा
त्रिंशता गुणितो यदि नवत्या अधिको भवति
तदा अशीत्युत्तरशतात् हीनः कार्य्यः । त्रिगु-
णितदशलब्धैः खण्डो ग्राह्यः खण्डान्तरगुणित-
शेषात् दशलब्धयुक्तः सन् फलं भवति ॥ * ॥
सूर्य्यग्रहणे नतिर्यथा । अक्षफलयोर्योगो नतिः
स्यात् षड्राशिन्यूने अक्षफलान्तरनतिः सा फले
अधिके सति सौम्या अक्षे अधिके सति याम्या
भवति ॥ * ॥ सूर्य्यग्रहणे शरो यथा । मध्य-
राहुसहितः स्फुटरविर्द्विगुणितलम्बनखण्डात्
नवहृतांशादिभिर्द्दिनपूर्ब्बार्द्धे रहितः दिनपरार्द्धे
सहितः कार्य्यः एतादृशसंस्कृतरवौ षड्राश्यधिके
षड्राशीन् त्यक्त्रा इत्यादि चन्द्रग्रहणोक्तवत्
शरः कार्य्यः । एष स्फटशरः उभयोः
शरनत्योर्दिक्तुल्यतायां नत्या सह युक्तो दिग्वि-
भेदे रहितः कार्य्यः अन्तरे कार्य्ये सति यदधिकं
तस्य दिशा शरस्य दिक् वक्तव्या ॥ * ॥ सूर्य्य-
मानं यथा । दशानुपलाष्टविपलाधिकोनषष्टि-
कलामितरविमध्यभुक्तिः । ५९ । ८ । १० सा च
स्फुटकर्म्मणि किञ्चित् कलादिभिर्न्यूनाधिका वा
भवति । तस्यास्त्रिगुणितस्फुटरविभुक्तेर्द्वात्रिंशता
लब्धं रविमानं स्यात् ॥ * ॥
अथ सूर्य्यग्रहणम् ।
पूर्ब्बोक्तचन्द्रमानं रविमानं मिलितं शरेण
हीनं सत् ग्रासो भवेत् ॥ * ॥ सूर्य्यग्रहणस्या-
रम्भादिकालज्ञानम् । चतुर्गुणितग्रासाङ्कात्
द्वियुतग्रासाङ्केन लब्धं दण्डादिकं स्थितिनाडि-
कार्द्धं भवति । तदमावस्याया दण्डादिषु हीनं
स्पर्शकालः युक्तं मुक्तिकालः स्यात् ॥ * ॥
स्पर्शादिदिग्ज्ञानम् । शरे याम्ये सति अर्क-
मण्डलस्य नैरृतकोणे स्पर्शोऽग्निकोणे मोक्षः
स्यात् । सौम्ये शरे सति वायुकोणे स्पर्श
ईशानकोणे मुक्तिर्भवेत् द्विगुणितं तत् स्थिति-
दण्डादि स्यात् ॥ * ॥ दिवारात्र्योः परार्द्धे यदि
ग्रहणं भवति तदा अमावस्यापौर्णमास्यो-
र्दण्डादिः स्फुटलम्बनयुक्तः कार्य्यः ॥ गणिताप्त-
कालात् हीनातिरिक्ते काले यदि ग्रहणं स्यात्
तत् औत्पातिकं भवेत् ॥ * ॥ ग्रहणे मण्डलस्य
सामान्यवर्णो यथा । विम्बस्य वैवर्ण्यं अंशुहानि-
स्तमोवृतिः खण्डनमल्पता वा शुक्लारुणश्यामल-
पीतचित्रैः पटाद्यैः रोध इव वेष्टनं वा भवति ॥ * ॥
अपर्व्वजं ग्रहणं ईतिव्यसनार्त्तिकारि स्यात्
तदा दिशश्च विरूपाः स्युः ॥ * ॥ ग्रासाङ्गुलि-
मानज्ञानम् । दशगुणितग्रासाङ्कात् मानद्वया-
र्द्धेन लब्धं चन्द्रसूर्य्ययोर्ग्रासस्य गताङ्गुलाद्यं
भवति । सूर्य्यस्य त्र्यङ्गुलमपि ग्रासोऽदृश्यो
भवति । चन्द्रस्य सार्द्धाङ्गुलः सुदर्शः यदि षोड-
शाङ्गुलाधिको भवति तदा सर्व्वग्रासः ॥ * ॥
ग्रहणे मण्डलवर्णो यथा । अल्पे ग्रहणे धूभ्राभं
समग्रे कपिलं अर्द्धे कृष्णाभम् । इति सूर्य्य-
ग्रहणम् ॥ इति सिद्धान्तमञ्जरीसम्मतम् ॥
(अधुना सूर्य्यसिद्धान्तमतमुच्यते तत्र चन्द्र-
ग्रहणाधिकारो यथा, --
“सार्द्धानि षट्सहस्राणि योजनानि विवस्वतः ।
विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुःशतम् ॥
स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ ।
रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः ॥
शशाङ्ककक्षागुणितो भाजितो वार्ककक्षया ।
विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानुलिप्तिका ॥
स्फुटेन्दभुक्तिभूंव्यासगुणिता मध्ययोद्धृता ।
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ॥
मध्येन्दव्यासगुणितं मध्यार्कव्यासभाजितम् ।
विशोध्य लब्धं सूच्या तु तमो लिप्तास्तु पूर्ब्बवत् ॥
भानोर्भार्द्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा ।
शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके ॥
तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालकौ ।
सूर्य्येन्दुपौर्णमास्यन्ते भार्द्धे भागादिकौ समौ ॥
गतस्य पर्वनाडीनां स्वफलेनोनसंयुतौ ।
समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा ॥
छादको भास्करस्येन्दुरधःस्थो घनवद्भवेत् ।
भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ॥
तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः ।
योगार्द्वात् प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यते ॥
यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा ।
योगार्द्धादधिके न स्याद्विक्षेपे ग्राससम्भवः ॥
ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् ।
विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे ॥
षष्ट्या संगुण्य सूर्य्येन्डोर्भुक्त्यन्तरविभाजिते ।
स्यातां स्थितिविमर्दार्द्धे नाडिकादिफले तयोः ॥
स्थित्यर्द्ध नाडिकाभ्यस्ता गतयः षष्टि भाजिताः ।
लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः ॥
तद्विक्षेपैः स्थितिदलं विमर्दार्द्धं तथासकृत् ।
संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम् ॥
स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ।
स्थित्यर्द्धनाडिकाहीने ग्रासो मोक्षस्तु संयुते ॥
तद्वदेव विमर्दार्द्धनाडिकाहीनसंयुते ।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहणे ॥
इष्टनाडीविहीनेन स्थित्यर्द्धेनार्कचन्द्रयोः ।
भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः ॥
भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्द्धसड्गुणाः ।
स्फुटस्थित्यर्द्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृताः ॥
क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् ।
मानयोगार्द्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत् ॥
मध्यग्रहणतश्चोर्द्धमिष्टनाडीर्विशोधयेत् ।
स्थित्यर्द्धान्मौक्षिकाच्छेषं प्राग्वच्छेषं तु मौक्षिके ॥
ग्राह्यग्राहकयोगार्द्धाच्छोध्याः स्वच्छन्नलिप्तिकाः ।
तद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिम्पदम् ॥
कोटिलिप्ता रवेः स्पष्टस्थित्यर्द्धेनाहता हृताः ।
मध्येन लिप्तास्तन्नाड्यः स्थितिवद् ग्रांसनाडिकाः ॥
नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ।
वलनांशाः सौम्ययाम्याः पूर्ब्बापरकपालयोः ॥
राशित्रययुताद्ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युताः ।
भेदेऽन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता ॥
सोन्नतं दिनमध्यर्द्धं दिनार्द्धाप्तं फलेन तु ।
छिन्द्याद्विक्षेपमानानि तान्येषामङ्गुलानि तु ॥
इति सूर्य्यसिद्धान्ते चन्द्रग्रहणाधिकारः ॥
अथ सूर्य्यग्रहणाधिकारः ।
“मध्यलग्नसमे भानौ हरिजस्य न सम्भवः ।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि ॥
देशकालविशेषेण यथावनतिसम्भवः ।
लम्बनस्यापि पूर्ब्बान्यदिग्वशाच्च तथोच्यते ॥
लग्नं पर्व्वान्तनाडीनां कुर्य्यात् स्वैरुदयासुभिः ।
तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा ॥
पृष्ठ २/३८०
तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् ।
तत्क्रान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा ॥
शेषं नतांशास्तन्मौर्व्वी मध्यज्या साभिधीयते ।
मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ॥
मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् ।
तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कः स दृग्गतिः ॥
नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती ।
एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया ॥
मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता ।
रवींन्द्वोर्लम्बनं ज्ञेयं प्राक् पश्चाद्घटिकादिकम् ॥
मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् ।
धनमूनेऽसकृत् कर्म्म यावत् सर्व्वं स्थिरीभवेत् ॥
दृक्क्षेपः शीततिग्मांशोर्मध्यभुक्त्यन्तराहतः ।
तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिभवेत् ॥
दृक्क्षेपात् सप्ततिहृताद्भवेद्वावनतिः फलम् ।
अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् ॥
मध्यज्या दिग्वशात् सा च विज्ञेया दक्षिणोत्तरा ।
सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषितान्यथा ॥
तथा स्थितिविमर्द्दार्द्धग्रासाद्यं तु यथोदितम् ।
प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥
स्थित्यर्द्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः ।
ग्नासमोक्षोद्भबं साध्यं तन्मध्यहरिजान्तरम् ॥
प्राक्कपालेऽधिकन्मध्याद्भवेत् प्राग् ग्रहणं यदि ।
मौक्षिकं लम्बनं हीनं पश्चार्द्धे तु विपर्य्ययः ॥
तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा ।
हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्य्ययः ॥
एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता ।
स्वे स्वे स्थितिदले योज्या विमर्दार्द्धेऽपि चोक्तवत् ॥”
इति सूर्य्यसिद्धान्ते सूर्य्यग्रहणाधिकारः ॥)

ग्रहणिः, स्त्री, (गृह्णाति आक्रमते उदरभङ्गादि-

रूपेण नाडीविशेषावच्छिन्नं शरीरमिति । ग्रह
ञ उपादाने + “ग्रहेरनिः ।” उणां । ५ । ६७ ।
इति अनिः णत्वं च ।) ग्रहणीरोगः । इत्यमर-
टीकायां रायमुकुटः ॥

ग्रहणी, स्त्री, (ग्रहणि + “कृदिकारान्तादक्तिनः ।”

इति ङीष् ।) अग्न्यधिष्ठाननाडी । स्वनाम-
ख्यातरोगः । तस्य निदानसम्पाप्ती यथा, --
“अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः ।
भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत् ॥
एकैकशः सर्व्वशश्च दोषैरत्यर्थमूर्च्छितैः ।
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥
पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् ।
ग्रहलीरोगमाहुस्तमायुर्व्वेदविदो जनाः ॥” * ॥
तस्य पूर्ब्बरूपं यथा, --
“पूर्ब्बरूपन्तु तस्येदं तृष्णालस्यं बलक्षयः ।
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ॥”
तस्य वातिकस्य निदानरूपे ।
“कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनैः ।
पसितानशनात्यध्ववेगनिग्रहमैथुनैः ॥
मारुतः कुपितो वह्निं संछाद्य कुरुते गदान्- ।
तम्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ॥
कण्ठास्यशोषः क्षुत् तृष्णा तिमिरं कर्णयोः स्वनः ।
पार्श्वोरुवङ्क्षणग्नीवारुगभीक्ष्णं विसूचिका ॥
हृत्पीडाकार्श्यदौर्ब्बल्यं वैरस्यं परिकर्त्तिका ।
गृद्धिः सर्व्वरसानाञ्च मनसः सदनं तथा ॥
जीर्णे जीर्य्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च ।
स वातगुल्महृद्रोगप्लीहाशङ्की च मानवः ॥
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् ।
पुनः पुनः सृजेद्वर्च्चः श्वासकासार्द्दितोऽनिलात् ॥”
पैत्तिकस्य तस्य निदानरूपे ।
“कट्वजीर्णविदाह्याम्लक्षाराद्यैः पित्तमुल्वणम् ।
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ॥
सोऽजीर्णं नीलपीताभं पीताभः सार्य्यते द्रवम् ।
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्द्दितः ॥”
श्लैष्मिकस्य तस्य निदानरूपे ।
“गुर्व्वतिस्निग्धशीतादिभोजनादतिभोजनात् ।
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ॥
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः ।
आस्योपदेहमाधुर्य्यकासष्ठीवनपीनसाः ॥
हृदयं मन्यते स्त्यानसुदरं स्तिमितं गुरु ।
दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ॥
भिन्नामश्लेष्मसं सृष्टगुरुवर्च्चःप्रवर्त्तनम् ।
अकृशस्यापि दौर्ब्बल्यमालस्यञ्च कफात्मके ॥
पृथग्वांतादिनिर्द्दिष्टं हेतुलिङ्गसमागमे ।
त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् ॥”
तस्यासाध्यस्य लक्षणं यथा, --
“लिङ्गैरसाध्यग्रहणीविकारो
यैस्तैरतीसारगदो न सिध्येत् ।
वृद्धस्य नूनं ग्रहणीविकारो
हत्वा तनुं नो विनिवर्त्तते च ॥”
इति माधवकरः ॥
तस्य चिकित्सा यथा, गारुडे १७४ अध्याये ।
“चिकित्साथ ग्रहण्यास्तु ग्रहणी चाग्निनाशिनी ।
चित्रकक्वाथकल्काभ्यां ग्रहणीघ्नं शृतं हविः ॥” * ॥
हरिरुवाच ।
“मरीचं शृंङ्गवेरञ्च कुटजत्वचमेव च ।
पानाच्च ग्रहणी नश्येत् शशाङ्ककृतशेखर ! ॥”
इति तत्रैव १८७ अध्यायः ॥
“अङ्कोठमूलकर्षार्द्धं पिष्टं तण्डुलवारिणा ।
सर्व्वातीसारग्रहणीं पीतं हरति भूतप ! ॥
मरीचशुण्ठीकुटजत्वक्चूर्णन्तु गुडान्वितम् ।
क्रमात्तत् द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥”
इति तत्रैव १८९ अध्यायः ॥ * ॥
अथ सामान्यग्रहणीरोगस्य चिकित्सा ।
“ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् ।
लङ्घनैर्द्दीपनीयैश्च सदातीसारभेषजैः ॥
दोषं सामं निरामञ्च विद्यादत्रातिसारवत् ।
अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
पेयादिपटुलघ्वन्नं पञ्चकोलादिभिर्युतम् ।
दीपनानि च तक्रञ्च ग्रहण्यां योजयेद्भिषक् ॥
कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता ।
यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि ॥”
सं वर्त्तयति घनीकरोति ॥ * ॥
अथ तक्रम् । तत्र गोदघिगुणाः ।
“गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम् ।
पवित्रं दीपनं स्निग्धं पुष्टिकृत् पवनापहम् ॥
उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् ॥”
अथ महिषीदधिगुणाः ।
“माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् ।
स्वादुपाकमभिष्यन्दि वृष्यं गुर्व्वस्र दूषणम् ॥”
अथ छागीदधिगुणाः ।
“आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम् ।
शस्यते श्वासकासार्शः-क्षयकार्श्येषु दीपनम् ॥”
उत्तमं ग्राहिणां मध्ये श्रेष्ठं इत्यर्थः ॥
अथ तक्रस्य भेदाः ।
“तक्रन्तु घोलमथितोदश्वित्तक्रप्रभेदतः ।
सुश्रुताद्यैर्मुनिश्रेष्ठैश्चतुर्द्धा परिकीर्त्तितम् ॥
ससरं निर्ज्जलं घोलं मथितन्त्वसरोदकम् ।
तक्रं पादजलं प्रोक्तमुदश्विच्चार्द्धवारिकम् ॥
वातपित्तहरं घोलं मथितं कफपित्तनुत् ।
उदश्वित् कफदं बल्यं श्रमघ्नं परमं मतम् ॥”
अथ तक्रस्य गुणाः ।
“तक्रं ग्राहि कषायाम्लं मधुरं दीपनं लघु ।
वीर्य्योष्णं बलदं वृष्यं प्रीणनं वातनाशनम् ॥
यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत् ।
ग्रहण्यादिमतं तक्रं पथ्यं संग्राहि लाघवात् ॥
वातघ्नमम्लसान्द्रत्वात् सद्यस्कं त्वविदाहि च ।
किञ्च स्वादु विपाकित्वान्न च पित्तप्रकोपणम् ॥
कषायोष्णविकारित्वाद्रौक्ष्याच्चैव कफे हितम् ॥”
अथोद्धृतस्तोकोद्धृतानुद्धृतघृतस्य तक्रस्य गुणाः
“समुद्धृतघृत तक्रं पथ्यं लघु विशेषतः ।
स्तोकोद्धृतघृतं तस्माद्गुरु वृष्यं कफापहम् ॥
अनुद्धतघृतं सान्द्रं गुरु पुष्टिकफप्रदम् ॥”
अथ दोषविशेषे तक्रविशेषाः ।
“वातेऽम्लसैन्धवोपेतं पित्ते स्वादु सशर्करम् ।
पिबेत्तक्रं कफे चापि क्षारत्रिकटुसंयुतम् ॥
हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम् ।
ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातहरं परम् ॥
रोचनं पुष्टिदं बल्यं वस्तिशूलविनाशनम् ॥”
अथामपक्वतक्रगुणाः ।
“तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च ।
पीनसश्वासकासादौ पक्वमेव विशिष्यते ॥” * ॥
अथ तक्रस्य निषेधः ।
“नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्ब्बले ।
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥” * ॥
अथ तक्रस्य गुणोत्कर्षः ।
“न तक्रसेवी व्यथते कदाचि-
न्न तक्रदग्धाः प्रभवन्ति रोगाः ।
यथा सुराणाममृतं सुखाय
तथा नराणां भुवि तक्रमाहुः ॥” * ॥
“मुद्गयूषं रसं तक्रं धान्यजीरकसंयुतम् ।
सैन्धवेनान्वितं दद्यात् षड्यूषमिति कीर्त्तितम् ॥”
रसं लघु ग्राहि मांसभवरसम् । इति षड्यूषम् ॥
“कर्षं गन्धमर्द्धपारदमुमे कुर्य्याच्छुभां कज्जलीं
त्र्यक्षं त्रूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक् ।
भृष्टं हिङ्गु च जीरकद्वययुतं सर्व्वार्द्धभङ्गान्बितं
पृष्ठ २/३८१
खादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रस्य विल्वेन च ॥”
इति लघुलाईचूर्णम् ॥ * ॥
“त्रिकटु त्रिफला चैव विडङ्गं जीरकद्वयम् ।
भल्लातकं यमानी च हिङ्गु लवणपञ्चकम् ॥
गृहधूमवचाकुष्ठं रसगन्धकमभ्रकम् ।
क्षारत्रयाजमोदा त्त चित्रकं गजपिप्पली ॥
मुस्ता मोचरसं पाठा लवङ्गं जातिपत्रकम् ।
समभागकृतञ्चैषां चूर्णं श्लक्ष्णं विनिर्म्मितम् ॥
शक्राशनस्य चूर्णन्तु चूर्णतुल्यं प्रदापयेत् ॥
मन्दाग्निकासदुर्न्नामप्लीहपाण्डरुचिज्वरान् ।
विष्टम्भं संग्रहं शूलं हन्यान्नानातिसारजित् ॥
आमवातापहं बल्यं सूतिकादोषनांशनम् ।
वर्ज्जनीयं माषमम्लं स्नानं पिशितभोजनम् ॥
पथ्यं काञ्जिकमत्रापि दधि तक्रमथापि वा ।
बृहल्लाईचूर्णमिदं लाईभाषितमुत्तमम् ॥”
इति बृहल्लाईचूर्णम् ॥ * ॥
“जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ।
कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ॥
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ।
शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः ॥
यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गां च तावतीम् ।
सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा ॥
कर्षमात्रमिदं खादेन्मधुनाप्लावितं जनः ।
नाशयेत् ग्रहणीं कासं क्षयं श्वासमरोचकम् ॥”
इति जातीफलादिचूर्णम् ॥ * ॥
“चित्रकं पिप्पलीमूलं क्षारौलवणपञ्चकम् ।
ओषं हिङ्ग्वजमोदाञ्च चव्यं चैकत्र चूर्णयेत् ॥
वटिका मातुलुङ्गस्य रसैर्व्वा दाडिमस्य वा ।
कृता विपाचयत्यामं प्रदीपयति चानलम् ॥”
क्षारौ स्वर्ज्जिका यवक्षारश्च । लवणपञ्चकमिति
सैन्धवं रुचकं चैव विडं सामुद्रिकं गडमिति ।
व्योषं शुण्ठीपिप्पलीमरिचानि । अजमोदात्र
यवानिका । मातुलुङ्गं बीजपूरकम् । इति
चित्रकादिवटिका ॥ * ॥
“श्रीफलशलाटुः कल्को नागरचूर्णेन मिश्रितः सगुडः ।
ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति ॥”
श्रीफलशलाटुः विल्वस्यामं फलम् । गुडस्यात्र
भागद्वयम् । इति विल्वकल्कः ॥ * ॥
“चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम् ।
वार्त्ताकोः कुडवञ्चार्कमूलाद्विल्वे तथानलात् ॥
दग्ध्वा द्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् ।
भुक्ता भुक्तं पचत्याशु नाशयेद्ग्रहणीगदम् ॥
कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम् ॥”
इति वार्त्ताकुगुटिका ॥ * ॥
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् ।
मधुना च समालौढं ग्रहणीं सर्व्वजां जयेत् ॥”
कोटजं इन्द्रयवः । इति मुस्तकादिचूर्णम् ॥ * ॥
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः ।
गुडेनाधिकसर्ज्जेन भक्षितेनाशु नश्यति ॥”
सर्ज्जः राल इति लोके । इति सर्ज्जरसचूर्णम् ॥ * ॥
“विल्वाब्दशक्रयवबालकमोचसिद्ध-
माजं पयः पिबति यो दिवसत्रयेण ।
सोऽतिप्रवृद्धचिरजग्रहणीविकारं
सामं सशोणितमसाध्यमपि क्षिणोति ॥”
मोचो मीचरसः । क्षिणोति हन्ति ।
“प्रस्थत्रये त्वामलकीरसस्य
शुद्धस्य दत्त्वार्द्धतुलां गुडस्य ।
चूर्णीकृतैर्ग्रन्थिकजीरचव्य-
व्योषेभकृष्णाहवुषाजमोदैः ॥
विडङ्गसिन्धूत्रिफलायवानी-
पाठाग्निधान्यैश्च पलप्रमाणैः ।
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-
वष्टौ च तैलस्य पचेद्यथावत् ॥
तं भक्षयेदक्षफलप्रमाणं
यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् ।
अनेन सर्व्वे ग्रहणीविकाराः
सश्वासकासस्वरभेदशोथाः ॥
शाम्यन्ति चायं चिरमन्तरग्ने-
र्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ।
स्त्रीणान्तु बन्ध्यामयनाशनः स्यात्
कल्याणको नाम गुडः प्रसिद्धः ॥
त्नैले मनाक् त्रिवृद्भृष्टा त्रिसुगन्धि पलं पलम् ।
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्ब्बके ॥”
इति कल्याणगुडः ॥ * ॥
“पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।
त्रिफला चाजमोदा च नलिनी जीरकस्तथा ।
सैन्धवं रौमकञ्चापि सामुद्रं रुचकं विडम् ॥
आरग्बधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्चिका ।
शुण्ठीशक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ॥
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि ।
त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा ॥
तिलतैलपलान्यष्टावामलक्या रसस्य तु ।
प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत् ॥
औडम्बरं चामलकं वादरं वा यथाफलम् ।
तावन्मात्रमिदं खादेद्भक्षयेद् वा यथानलम् ॥
निखिलान् ग्रहणीरोगान् प्रमेहांश्चैव विंशतिम् ।
उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्निसंक्षयम् ॥
ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिं
स्वरम् ।
पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च विग्रहम् ॥
धातुक्षीणो वयःक्षीणः स्त्रीषु क्षीणः क्षयी च यः ।
तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः ॥”
इति महाकल्याणकगुडः ॥ * ॥
“कुष्माण्डानां सुपक्वानां स्विन्नानां निष्कुल-
त्वचाम् ।
सर्पिः प्रस्थे पलशतं ताम्रपात्रे शनैः पचेत् ॥
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।
धान्यकानि विडङ्गानि नागरं मरिचानि च ॥
त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम् ।
एकैकस्य पलं चैकं त्रिवृतोऽष्टौ पलानि च ॥
तैलस्य च पलान्यष्टौ गुडात् पञ्चाशदेव तु ।
आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ॥
तावत् पाकं प्रकुर्व्वीत मृदुना वह्निना भिषक् ।
यावत् दर्व्वीप्रलेपः स्यात्तदैनमवतारयेत् ॥
औडुम्बरं चामलकं वादरं वा यथाफलम् ।
तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ॥
अनेनैव विधानेन प्रयुक्तश्च दिने दिने ।
निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् ॥
ज्वरमानाहहृद्रोगगुल्मोदरविसूचिकाः ।
कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् ॥
वातशोणितवीसर्पदद्रुपक्ष्महलीमकान् ।
वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समा-
चरेत् ॥
व्याधिक्षीणा वक्षःक्षीणाः स्त्रीषु क्षीणाश्च ये
नराः ।
तेभ्यो हितो गुडोऽयं स्यात् बन्ध्यानामपि पुत्त्रदः ॥
वृष्यो बल्यो बृंहणश्च वयसः स्थापनः परः ॥”
इति कुष्माण्डकल्याणकगुडः ॥ * ॥
अतीसाराधिकारलिखितं विल्वतैलं चात्र
हितम् । इति ग्रहणीरोगाधिकारः । इति
भावप्रकाशः ॥ (सनिदानलक्षणादिकं चिकित्-
सितञ्चास्य यथा, --
“सामं सान्नमर्जीर्णेऽन्ने जीर्णे पक्वन्तु नैव वा ।
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः ॥
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत् ।
स चतुर्धा पृथग् दोषैः सन्निपाताच्च जायते ॥
प्राग्रूपं तस्य सदनं चिरात् पचनमम्लकः ।
प्रसेको वक्त्रवैरस्य मरुचिस्तृट्क्लमो भ्रमः ॥
आनद्धोदरता च्छर्द्दिः कर्णक्ष्वेडोऽन्त्रकूजनम् ।
सामान्यं लक्षणं कार्श्यं धूमकस्तमको ज्वरः ॥
मूर्च्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः ।
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः ॥
पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विसूचिका ।
रसेषु गृद्धिः सर्व्वेषु क्षुत्तृष्णा परिकर्त्तिका ॥
जीण जीर्य्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ।
वातहृद्रोगगुल्मार्शः प्लीहपाण्डुत्वशङ्कितः ॥
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् ।
पुनः पुनः सृजेद्वर्च्चः पायुरुक् श्वासकासवान् ॥
पित्तेन नीलं पीताभं पीताभः सृजति द्रवम् ।
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्द्दितः ॥
श्लेष्मणा पच्यते दुःखमन्नं छर्द्धिररोचकः ।
आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः ॥
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ।
उद्गारा दुष्टमधुरः सदनं स्त्रीष्वहषणम् ॥
भिन्नामश्लष्मसंसृष्टगुरुवर्च्चःप्रवर्त्तनम् ।
अकृशस्यापि दौर्ब्बल्यं सर्व्वजे सर्व्वसङ्करः ॥
विभागेऽङ्गस्य ये चोक्ता विषमाद्यास्त्रयोऽग्नयः ।
तेऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम् ॥
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः ।
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥”
इति वाभटे निदानस्थानेऽष्टमेऽध्याये ॥
चिकित्सास्या यथा, --
“ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत् ।
अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
अन्नकाले यवाग्वादिपञ्चकोलादिभिर्युतम् ।
वितरेत् पटुलघ्नन्नं पुनर्योगांश्च दीपनान् ॥
पृष्ठ २/३८२
दद्यात् सातिविषां पेयामामे साम्लां सनागराम् ।
पानेऽतिसारविहितं वारितक्रं सुरादि च ॥
ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात् ।
पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम् ॥
कषायोष्णविकाशित्वाद्रूक्षत्वांच्च कफे हितम् ।
वातेस्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत् ॥”
“क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम् ।
दीपनं बहुपित्तस्य तिक्तैर्मधुरकैर्युतम् ॥
स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते ।
स्नेहमेव परं विद्याद्दुर्ब्बलानलदीपनम् ॥
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्व्वपि ।
योऽल्पाग्नित्वात् कफे क्षीणे वर्च्चः पक्वमपि श्लथम् ॥
मुञ्चेद्यद्वौषधयुतं स पिवेदल्पशो घृतम् ।
तेन स्वमार्गमानीतः स्वकर्म्मणि नियोजितः ॥
समानो दीपयत्यग्निमग्नेः सन्धुक्षको हि सः ।
पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति ॥
स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् ।
रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत् ॥
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः ।
उदावर्त्तात् प्रयोक्तव्या निरूहस्नेहवस्तयः ॥
दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धोऽन्नविधिञ्चरेत् ।
व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम् ॥
अध्वोपवासक्षामत्वे यवाग्वा पाययेद्घृतम् ।
अन्नावपीडितं बल्यं दीपनं बृंहणञ्च तत् ॥
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान् ।
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम् ॥
लघूष्णकटुशीधित्वाद्दीपयन्त्याशु तेऽनलम् ।
मांसोपचितमांसत्वात् परञ्च बलवर्द्धनम् ॥
स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः ।
सम्यक्प्रयुक्तैर्देहस्य बलमग्नेश्च वर्द्धते ॥
दीप्तो यथैव स्थाणुश्च वाह्योऽग्निः सारदारुभिः ।
सस्नेहैर्जायते तद्वदाहारैः कोष्ठकोऽनलः ॥
न भोजनेन कायाग्निर्दीप्यते नातिभोजनात् ।
यथा निरिन्धनो वह्निरल्पो वातीन्धनान्वितः ॥
यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम् ।
प्रवृद्धं वर्द्धयत्यग्निं तदासौ सानिलोऽनलः ॥”
इति वाभटे चिकित्सास्थाने दशमेऽध्याये ॥
अपरं सकारणलक्षणचिकित्सितं यथा, --
“दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ।
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः ॥
भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ।
तस्मात् कार्य्यः परीहारस्त्वतीसारे विरक्तिवत् ॥
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ।
षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता ॥
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता ।
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीश्रितः ॥
तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ।
तस्योत्पत्तौ विदाहान्ने सदनालस्यतृट्क्लमाः ॥
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडान्त्रकूजनम् ।
अथ जाते भवेज्जन्तुः शूलपादकरः कृशः ॥
पर्व्वरुग्लौल्यतृट्छर्द्दिज्वरारोचकदाहवान् ।
उद्गिरेच्छुक्ततिक्ताम्ललोहधूममगन्धिकम् ॥
प्रसेकमुखवैरस्य तमकारुचिपीडितः ।
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः ॥
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः ।
दोषवर्णनखैस्तद्बद्बिण्मूत्रनयनाननैः ॥
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्की च मानवः ।
यथा दोषोच्छ्रयन्तस्य विशुद्धस्य यथाक्रमम् ॥
पेयादिं वितरेत् सम्यग् दीपनीयोपसम्भृतम् ।
ततः पाचनसंग्राहि दीपनीयगणत्रयम् ॥
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः ।
तक्रेण वाथ तक्रं वा केवलं हितमुच्यते ॥
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् ।
चूर्णं हिङ्ग्वादिकञ्चात्र घृतं वा प्लीहनाशनम् ॥
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन वा ।
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् ॥
सर्व्वथा दीपनं सर्व्वं ग्रहणीरोगिणां हितम् ॥
ज्वरादीनविरोधाच्च साधयेत्स्वैश्चिकित्सितैः ॥”
इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमेऽध्याये ॥)

ग्रहणीरुक्, [ज्] स्त्री, (ग्रहण्येव रुक् ।) ग्रहणी-

रोगः । तत्पर्य्यायः । प्रवाहिका २ । इत्य-
मरः । २ । ६ । ५५ ॥ ग्रहिणी ३ । इति तट्टीका ॥

ग्रहणीहरं, क्ली, (ग्रहणीं हरतीति । हृ + अच् ।)

लवङ्गम् । इति शब्दचन्द्रिका ॥ (ग्रहणी-
हारके त्रि ॥)

ग्रहद्रुमः, पुं, (ग्रहाख्यो द्रुमः वृक्षविशेषः ।) शाक-

वृक्षः । इति राजनिर्घण्टः ॥

ग्रहनायकः, पुं, (नयतीति । नी + ण्वुल् । ततो

ग्रहाणां नायकः ।) शनिः । इति शब्दरत्ना-
वली ॥ सूर्य्यश्च ॥

ग्रहनाशः, पुं, (गृह्णाति रुणद्धि मलमिति शेषः ।

कोष्ठरोधकवायुविशेषः रोगविशेषो वा तं नाश-
यति । नश् + णिच् + अण् ।) वृक्षविशेषः ।
इति शब्दरत्नावली ॥ छातियान इति भाषा ॥

ग्रहनाशनः, पुं, (ग्रहं रोगविशेषं नाशयतीति ।

नश् + णिच् + ल्युः ।) ग्रहनाशवृक्षः । इति
शब्दरत्नावली रत्नमाला च ॥

ग्रहनेमिः, पुं, (ग्रहाणां ग्रहकक्षाणां ग्रहेषु वा नेमि-

रिव । ग्रहकक्षाधःस्थिततयाऽस्य नेमिसादृश्य-
मिति बोध्यम् ।) चन्द्रः । इति शब्दरत्नावली ॥

ग्रहपतिः, पुं, (ग्रहाणां पतिः ।) सूर्य्यः । (यथा,

महाभारते । १२ । १६८ । २५ ।
“तस्य विस्तीर्य्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥”)
अर्कवृक्षः । इत्यमरः । १ । ३ । ३० ॥ (शिवः ।
यथा, महाभारते । १३ । १७ । ३७ ।
“चन्द्रः सूर्य्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥”
गृहस्वामी । यथा, महाभारते । १३ । ८५ । ११७ ।
“मम सत्रमिदं दिव्यं अहं ग्रहपतिस्त्विह ।
त्रीणि पूर्ब्बाण्यपत्यानि मम तानि न संशयः ॥”)

ग्रहपुषः, पुं, (ग्रहान् अन्यान् सर्व्वान् पुष्णाति

स्वतेजसेत्यर्थः ।) सूर्य्यः । इति हेमचन्द्रः ॥

ग्रहभीतिजित्, [द्] पुं, (ग्रहभीतिं जयतीति ।

जि + क्विप् ।) चीडानामगन्धद्रव्यम् । इति
राजनिर्घण्टः ॥

ग्रहयागः, पुं, (ग्रहाणां ग्रहानुद्दिश्य वा यो यागः ।)

ग्रहाणां यज्ञः । तस्य शान्तिकत्वे मलमासादा-
वपि कर्त्तव्यत्वं पौष्टिकत्वे तु शुद्धकाले । तस्य
प्रयोगो यथा । यजमानः कृतस्नानादिः गोमयो-
पलिप्ते देशे कुशासने उपविष्ट उदङ्मुखो
ब्राह्मणान् स्वस्तिवाच्य संकल्प्य मन्त्रमुच्चार्य्य
श्वेतसर्षपेण विघ्नकरानुत्सार्य्य सगणा-
धिपषोडशमातृकापूजावसोर्द्धारावृद्धिश्राद्धानि
कृत्वा स्वयं करणासामर्थ्ये ब्राह्मणान् वृणुयात् ।
ततो मण्डपोत्तरपूर्ब्बभागे वितस्तिद्वयविस्तृतायां
वितस्त्युच्छ्रितायां उदक्प्लवायां वेद्यां रक्त-
चन्दनादिना मध्ये वर्त्तुलं सूर्य्यं आग्नेय्यां श्वेत-
मर्द्धचन्द्राकारं सोमं दक्षिणस्यां त्रिकोणं रक्तं
मड्गलं ऐशान्यां पीतं धनुराकारं बुधं उत्तरस्यां
पीतं पद्माकारं गुरुं प्राच्यां श्वेतं चतुष्कोणं
शुक्रं प्रतीच्यां श्यामं सर्पाकारं शनिं नैरृत्यां
श्यामं मकराकारं राहुं वांयव्यां धूम्रवर्णान्
खड्गाकारान् केतून् विलिख्य स्वगृह्योक्तविधिना-
ऽग्निस्थापनादिब्रह्मस्थापनपर्य्यन्तं कर्म्म कृत्वा
ग्रहशब्दे लिखिततत्तद्ध्यानेन मण्डले ग्रहाना-
वाह्य तेषां स्वस्ववर्णवस्त्रगन्धपुष्पादिना पूजयेत् ।
गन्धे विशेषः सूर्य्याय रक्तचन्दनं सोमाय श्वेत-
चन्दनं मङ्गलाय कुङ्कुमं बुधाय सरलं गुरवे
समभागेन मिश्रितानि रक्तचन्दनश्वेतचन्दन-
कुङ्कुमसरलानि शुक्राय श्वेतचन्दनं शनैश्चराय
कस्तूरीं राहवे पद्मकाष्ठं केतुभ्यश्च पद्मकाष्ठं
दद्यात् । धूपे विशेषः । रवये गुग्गुलुं सोमाय
सरलं मङ्गलाय देवदारु बुधाय घृतमिश्रित-
देवदारु बृहस्पतये दशाङ्गं शुक्रायागुरुं शनै-
श्चराय कालागुरुं राहवे गुडत्वचं केतुभ्यो
मधुमिश्रितगुडत्वचं दद्यात् । ततोऽधिदेवता-
प्रत्यधिदेवताः पूजयेत् । ततो बलिं दद्यात् ।
सूर्य्याय गुडौदनं सोमाय घृतपायसं मङ्गलाय
पक्वयवचूर्णात्मकं यावकं बुधाय क्षीरान्नं गुरवे
दध्योदनं शुक्राय घृतौदनं शनैश्चराय यवतिल-
तण्डुलात्मकं कृषरं राहवे छागमांसं केतुभ्यः
अजाक्षीरसाधिताजकर्णरक्तमिश्रितयवतिल-
तण्डुलरूपं चित्रौदनम् । ततश्चरुं श्रपयेत् ।
ततः कुशण्डिकां समाप्य रव्यादीनां चरुहोमं
कुर्य्यात् । ततो यथाशक्ति एकैकस्याष्टाविंशति-
मष्टोत्तरशतमष्टोत्तरसहस्रं वा मधुसर्पिर्मिश्रि-
ताभिः सूर्य्यादीनां तत्तत्समिद्भिर्होमं कुर्य्यात् ।
समिधस्तु ।
“अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।
उडुम्बरः शमी दूर्व्वा कुशाश्च समिधः क्रमात् ॥”
तत उदीच्यं कर्म्म समाप्य दक्षिणां दद्यात् ।
दक्षिणास्तु ।
“धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।
कृष्णागौरायसश्छाग एतावै दक्षिणाः स्मृताः ॥”
(अस्य यागस्य प्रयोजनं यथा, महानिर्व्वाणतन्त्रे ।
“शान्तौ पुष्टौ महेशानि ! तथा क्रूरेऽपि कर्म्मणि ।
ग्रहयागं प्रकुर्व्वाणो वाञ्छितार्थमवाप्नुयात् ॥”
पृष्ठ २/३८३
दीपिकायाञ्च । यथा, --
“शुभग्रहार्कवारेषु मृदुक्षिप्रध्रुवेषु च ।
शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम् ॥
मृदगणः चित्रानुराधामृगशिरोरवत्यः । क्षिप्र-
गणो लघुगणः पुष्याश्विहस्ताः । ध्रुवगणः
रोहिण्युत्तरात्रयम् ॥)
“गोचरे वा विलग्ने वा ये ग्रहारिष्टसूचकाः ।
पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः ॥”
इति ग्रहयागतत्त्वम् ॥
(मात्स्योक्तम् । यथा, --
“श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृद्ध्यायुः पुष्टिकामो वा तथैवाभिचरन् पुनः ॥
येन ब्रह्मन् ! विधानेन तन्मे निगदतः शृणु ।
सर्व्वशास्त्राण्यनुक्रम्य सङ्क्षिप्य ग्रन्थविस्तरम् ॥
ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिनोदिताम् ।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥
ग्रहान् ग्रहादिदेवांश्च स्थाप्य होमं समारभेत् ।
ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।
प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ।
तृतीयः कोटिहोमस्तु सर्व्वकामफलप्रदः ॥
अयुतेनाहुतीनाञ्च नवग्रहमखः स्मृतः ।
तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् ॥”
ग्रहवेदिनियमः । यथा, --
“गर्त्तस्योत्तरपूर्ब्बेण वितस्तिद्वयविस्तृताम् ।
वप्रद्वयावृतां वदिं वितस्त्युच्छ्रयसम्मिताम् ॥
संस्थापनाय दंवानां चतुरस्रामुदङ्मुखाम् ।
अग्निप्रणयनं कृत्वा तस्यामावाहयत् सुरान् ॥
देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ।
सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः ॥
राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः ॥”
मण्डले स्थानम् । यथा, --
“मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ।
उत्तरण गुरुं विद्याद् बुधं पूब्बात्तरण न तु ॥
पूर्ब्बेण भागवं विद्यात् सोमं दक्षिणपूर्ब्बके ।
पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे ॥
पश्चिमोत्तरतः केतुं स्थापयेच्छक्लतण्डुलैः ॥”
अधिदेवताः । यथा, --
“भास्करस्येश्वरं विद्यात् उमाञ्च शशिनस्तथा ।
स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ॥
ब्रह्माणञ्च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् ।
शनैश्चरस्य तु यमं राहीः कालन्तथव च ।
केतोर्वै चित्रगुप्तञ्च सर्व्वेषामधिदवताः ॥”
प्रत्यधिदेवताः । यथा, --
“अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री च देवताः ।
प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः ॥”
पञ्च लोकपालाः । यथा, --
“विनायकं तथा दुर्गां वायुमाकाशमेव च ।
आवाहयद्व्याहृतिभिस्तथैवाश्विकुमारका ॥”
ग्रहवर्णः । यथा, --
“संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् ।
सोमशुक्रौ तथा श्वेतौ बुधजीवौ च पिङ्गलौ ।
मन्दराहू तथा कृष्णो धूम्रं केतुगणं विदुः ॥”
“ग्रहवर्णानि देयानि वासांसि कुसुमानि च ।
धूपामोदोऽत्र सुरभिरुपरिष्टादवितानकम् ॥
शोभनं स्थापयेत् प्राज्ञः फलपुष्पसमन्वितम् ॥”
अन्यद्विववरणन्तु ग्रहयागतत्त्वे दर्शनीयम् ॥)

ग्रहराजः, पुं, (ग्रहाणां राजा इति । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
सूर्य्यः । चन्द्रः । इति मेदिबी । जे । ३२ ॥ बृह-
स्पतिः । इति शब्दरत्नावली ॥

ग्रहाधारः, पुं, (ग्रहाणां आधारः आश्रयः । मेधीव-

देतन्नक्षत्रमाश्रित्य स्वस्वगत्यनुसारेण ग्रहाणां
परिभ्रमणात्तथात्वम् ।) ध्रुवनक्षत्रम् । इति
शब्दरत्नावली ॥

ग्रहामयः, पुं, (ग्रहः उपदेवविशेषस्तज्जन्य आमयः

रोगभेदः ।) आवेशः । स तु भूतादिना जात-
रोगः । इति राजनिर्घण्टः ॥

ग्रहाशी, [न्] पुं, (ग्रहं ग्रहजन्यदोषं अश्नाति

दूरीकरोतीति । अश् + णिनिः । स्कन्दग्रह-
दोषमश्नातीत्येके ।) ग्रहनाशवृक्षः । इति शब्द-
रत्नावली ॥

ग्रहाह्वयः, पुं, (ग्रहाणामुपदेवानामाह्वयः आह्वा

संज्ञा यस्य । ग्रहान् आह्वयति आकारयति
तज्जनितदोषनाशायेति भावः । आ + ह्वे + शः ।
इत्येके ।) भूताङ्कुशवृक्षः । इति राजनिर्घण्टः ॥

ग्रहीता, [ऋ] त्रि, (गृह्णातीति । ग्रह + तृच् ।)

ग्रहणकर्त्ता । तत्पर्य्यायः । गृहयालुः २ । इत्य-
मरः । ३ । १ । २७ ॥ (यथा, श्वेताश्वतरोप-
निषदि ।
“अपाणिपादो यवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः ।”
तथा च मनुः । ८ । १६६ ।
“ग्रहीता यदि नष्टः स्यात् कुटुग्वार्थे कृतो व्ययः ॥”)

ग्रामः, पुं, (ग्रस् + “ग्रसेरात् ।” उणां । १ । १४२ ।

इति मन् धातोराकारान्तादेशश्च ।) विप्रादि-
वर्णप्राया प्राकारपरिखादिरहिता बहुजन-
वसतिः । इति भरतः ॥ तत्पर्य्यायः । संवसथः २ ।
इत्यमरः । २ । ३ । १९ ॥ हट्टादिशून्यवसतिः ।
इति श्रीधरस्वामी ॥ यथा, मार्कण्डेयपुराणे ।
“तथा शूद्रजनप्राया सुसमृद्धकृषीबला ।
क्षेत्रोपयोगभूमध्ये वसतिर्ग्रामसंज्ञिका ॥”
(तथा च मनुः । १० । ५४ ।
“अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥”)
शब्दादिपूर्ब्बकश्चेत् समूहार्थः । इति विश्वः ॥
यथा शब्दग्रामः भूतग्रामः गुणग्रामः ।
इत्यादि ॥ (यथा, मनुः । २ । २१५ ।
“बलवानिन्द्रियग्रामो विद्बांसमपि कर्षति ॥”
शिवः । यथा, महाभारते । १३ । १७ । ११३ ।
“गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरिः ॥”)
स्वरभेदः । यथा, --
“षड्जमध्यमगान्धारास्त्रयो ग्रामा मता इह ।
षडजग्रामो भवेदत्र मध्यमग्राम एव च ।
सुरलोके च गान्धारो ग्रामः प्रचरति स्वयम् ॥”
इदानीं षड्जग्रामस्य मूर्च्छनाः क्रियन्ते ।
मूर्च्छना प्रस्तार इत्यर्थः । ष ऋ ग म प ध
निश्च । इति षड्जस्य । म-पौ ध-नी ष ऋ च
गः । इति मध्यमस्य । ऋ-गौ म-पौ ध नी षोऽन्ते ।
इति गान्धारस्य मूर्च्छनाः । ष ऋ ग म प ध
निश्च । नि-षौ ऋ-ग-म-पाश्च धः । ध नि ष ऋ
ग म पोऽन्ते । प-धौ नि-षौ ऋ-गौ त्त मः ।
म-पौ ध-नी च ष ऋ ग । ग म प ध नि षश्च
ऋः । ऋ-गौ म-पौ ध-नी गोऽन्ते । मूर्च्छनाः
सप्त षड्जाः ॥
“आदि द्वित्रिचतुःपञ्चषट्सप्तस्वपि समे मता ।
मध्यमो मो यदा तेषु मध्यमग्राममूर्च्छना ॥
आदौ गकारो यत्रास्ति गान्धारग्राममूर्च्छना ॥”
तत्र षड्जग्रामप्रस्तारस्यायं क्रमः ।
“षड्जान्निषधान्तं नेर्धान्तं धात् पान्तमिष्यत ।
पान्मान्तं मध्यमाद्गान्तं गादृषभान्तमिष्यते ॥
ऋषभात् षान्तमित्याहुः षड्जग्रामस्य मूर्च्छनाः ।
मध्यमग्रामजास्त्वेवं मूर्च्छनाः परिकीर्त्तिताः ॥
मकारादिक्रमेणैव गकारान्तास्तु ता मताः ।
तारो मन्द्रश्च आवश्च इति ग्रामनिरूपणाः ॥
षड्जग्राममूर्च्छनायाः सप्त कोष्ठानि ।
ब्रह्मविष्णुशिवैरुक्तास्त्रयो ग्रामा मनोहराः ॥”
इति सङ्गीतदामोदरः ॥

ग्रामकूटः, पुं, (ग्रामे ग्रासस्थो ग्रामस्य वा कूट इव

तमःप्राधान्यात्तथात्वम् ।) शूद्रः । इति त्रिकाण्ड-
शेषः ॥

ग्रामजनिष्पावी, स्त्री, (ग्रामे ग्रामसन्निकषै वा

जायते इति । जन + डः । ग्रामजा निष्पावीति
कर्म्मधारयः ।) नखनिष्पावी । इति राज-
निर्घण्टः ॥

ग्रामणीः, पुं, (ग्रामाः जीवसमूहाः नीयते चतन्य-

दानेन परिचाल्यतेऽनेन । यद्वा ग्रामान् जीव-
समूहान् नयति प्रापयति चेतयतीत्यर्थः । नी +
क्विप् ततो णत्वम् ।) विष्णुः । यथा, महा-
भारते । १३ । १४९ । ३७ ।
“अग्रणीर्ग्रामणीः श्रीमा¯न् न्यायो नेता समीरणः ॥”
यक्षः । यथा, विष्णुपुराणे २ । १० । २ ।
“स रथाथिष्ठितो देवैरादित्यैरृ षिभिस्तथा ।
गन्धर्व्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥”
“देवैरादित्यैः आदित्या एव देवास्तैः । ग्रामणो-
र्यक्षः ।” इति तट्टीका ॥ नापितः । इत्यमरः ।
३ । ३ । ४९ ॥

ग्रामणीः, त्रि, (गामं संवसथं तत्रत्यान् जनान्

नयति दोषगुणविचारादिभिः परिचालयति
प्रेरयति वा क्विप् ।) प्रधानः । अधिपतिः । इति
मेदिनी । ने । ४५ ॥ (यथा, ऋग्वेदे । १० ।
१०७ । ५ ।
“दक्षिणावान् प्रथमो हूत एति
दक्षिणावान् ग्रामणीरग्रमेति ॥”
तथा च महागणपतिस्तोत्रे । ८ ।
“दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत् ।
कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥”
पृष्ठ २/३८४
ग्रामेण गाम्येण भोग्यद्रव्येण आयुर्नयति क्षपय-
तीति । ग्रामान् भोग्यवस्तूनि नयति आत्मानं
प्रापयतीति वा ।) भोगिकः । इति हेमचन्द्रः ॥

ग्रामणीः, स्त्री, (ग्रामेण जनसमूहेनेत्यर्थः नीयते

गृह्यते यद्वा ग्रामेण ग्राम्यधर्म्मेण केवलं मैथुना-
दिना नयति कालं यापयतीति । नी + क्विप् ।)
वेश्या । ग्रामेया । नीलिका । इति हेमचन्द्रः ॥

ग्रामतक्षः, पुं, (ग्रामस्थः ग्रामपरतन्त्रो वा तक्षा ।

“ग्रामकै टाभ्यां च तक्ष्णः ।” ५ । ४ । ९५ ।
इति टच् ।) ग्रामाधीनः काष्ठतट् । ग्रामा-
यत्तस्तक्षा । इत्यमरः । २ । १० । ९ ॥ गेँये
छुतार इति भाषा ॥

ग्रामता, स्त्री, (ग्रामाणां समूहः । “ग्रामजनबन्धु-

भ्यस्तल् ।” ४ । २ । ४३ । इति तल् ।) ग्राम-
समूहः । इत्यमरः । ३ । २ । ४३ ॥ (ग्रामस्य
भावः । “तस्य भावस्त्वतलौ ।” ५ । १ । ११९ । इति
तल् ।) ग्रामत्वञ्च ॥

ग्रामभृतः, पुं, (ग्रामे ग्रामस्य वा भृतः भरणीयः

ग्रामावस्थितजनैरिति शेषः ।) ग्रामप्रेव्यः । स तु
ब्राह्मणश्चेत् पञ्चमोऽब्राह्मणः । इत्याह्निकतत्त्वम् ॥
(यथाह शातातपः ।
“अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्त्ववेदिना ।
आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी ॥
तृतीयो बहुयाज्यः स्यात् चतुर्थी ग्रामयाजकः ।
पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च ॥
अनादित्यान्तु यः पूर्ब्बां सादित्याञ्चैव पश्चिमाम् ।
नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः ॥”)

ग्राममद्गुरिका, स्त्री, (ग्रामस्य मत्स्यग्र मेषु वा

मद्गुरिकेव । क्षुद्रमद्गुर इवेत्यर्थः ।) शृङ्गी-
मत्स्यः । ग्रामयुद्धम् । इति मेदिनी । के । २३४ ॥

ग्राममुखः, पुं, (ग्नामस्य मुखमिव यो स्थितः । यद्वा,

ग्रामो ग्रामवासिजनो मुखत्वेन प्रधानकारणत्वेन
यस्य । ग्रामस्थजनसाध्यत्वादेवास्य तथात्वम् ।)
हट्टः । इति शब्दरत्नावली ॥

ग्राममृगः, पुं, (ग्रामस्य मृग इव । यद्वा, ग्रामे-

स्थितो मृगः पशुः ।) कुक्कुरः । इति शब्दरत्ना-
वली ॥

ग्रामयाजकः, पुं, (ग्रामस्य याजको यागकर्त्ता ।)

ग्रामस्थनानावर्णानां पुरोहितः । स तु चतुर्थो-
ऽब्राह्मणः । यथाह, शातातपः ।
“अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्त्ववेदिना ।
आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी ॥
तृतीयो बहुयाज्यः स्यात् चतुर्थो ग्रामयाजकः ।
पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च ॥
अनादित्यान्तु यः पूर्ब्बां सादित्याञ्चैव पश्चिमाम् ।
नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः ॥”
(एतस्मै प्रदत्तं दानादिकं निष्फलं भवति ।
यथोक्तं महाभारते । ३ । १९९ । ७ ।
“व्यर्थन्तु पतिते दानं ब्राह्मणे तस्करे तथा ।
गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके ॥”)

ग्रामस्थः, त्रि, ग्रामवासी । ग्रामे तिष्ठति य इत्यर्थे

डप्रत्ययः ॥

ग्रामहासकः, पुं, (ग्रामान् ग्रामवासिनः श्वशुरा-

लयस्थसमूहान् वा हासयतीति । हस् + णिच्
+ ण्वुल् ।) भगिनीपतिः । इति शब्दरत्नावली ॥

ग्रामाधानं, क्ली, (आधीयते उपजीविका यत्र तत् ।

आ + धा + ल्युट् । ततो ग्रामस्य मृगयुसमूहस्य-
आधानं पोषणकम् ।) मृगया । इति हलायुधः ॥

ग्रामान्तं, क्ली, (ग्रामस्य अन्तं समीपम् ।) ग्रार-

समीपम् । तत्पर्य्यायः । उपशल्यम् २ । इत्य-
मरः । २ । ३ । २० ॥ ग्रामान्तिकम् ३ । इति
वोपालितः ॥

ग्रामिणी, स्ती, (ग्राम उत्पत्तिस्थानत्वेन अस्ति

अस्याः । अत इनिः स्त्रियां ङीप् ।) नीली-
वृक्षः । इति जटाधरः ॥

ग्रामी, [न्] त्रि, (ग्रामः अधिकारित्वेनास्त्यस्य ।

अत इनिः ।) ग्रामविशिष्टः । गाँइ इति भाषा ॥
यथा, ब्राह्मणकुलाचार्य्यकारिकायाम् ।
“रामो गडगडग्रामी निपः केशरकोणितः ।
केशरकोणीति ख्यातो ग्रामी ग्रामवताम्बरः ॥”
(ग्रामो ग्राम्यधर्म्मो मैथुनं अस्त्यस्येति । ग्राम्य-
धर्म्मविशिष्टः । यथा, भागवते । ४ । २९ । १४ ।
“आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः ।
उपस्थो दुर्मदः प्रोक्तो निरृतिर्गद उच्यते ॥”)

ग्रामीणः, पुं, (ग्रामे भवः । ग्राम + “ग्रामाद्य-

खञौ ।” ४ । २ । ९४ । इति खञ् ।) ग्राम्य-
शूकरः । इति राजनिर्घण्टः ॥ कुक्कुरः । काकः ।
ग्रामोत्पन्ने त्रि । इति मेदिनी । णे । ४६ ॥
(यथा, भाषापरिच्छेदे । ७९ ।
“ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।
सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥”)

ग्रामीणा, स्त्री, (ग्रामीण + स्त्रियां टाप् ।)

नीलीवृक्षः । इति मेदिनी ॥ (अस्याः पर्य्याया यथा,
“नीली तु नीलिनी तूली कालदोला च नीलिका ।
रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥
क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणाश्चास्या नीलिनीशब्दे ज्ञातव्याः ॥) पालङ्क्य-
शाकम् । इति राजनिर्घण्टः ॥

ग्रामेयकः, त्रि, (ग्रामे भवः । ग्राम + “कत्त्र्यादिभ्यो-

ढकञ् ।” ४ । २ । ९५ । इति ढकञ् ।) ग्राम्यः ।
इति हेमचन्द्रः । ३ । १६५ ॥

ग्रामेया, स्त्री, (ग्रामे भवा । ग्राम + ढक् ।) ग्राम्य-

नारी । इति ग्रामणीशब्दार्थे हेमचन्द्रः ॥

ग्रामेशः, त्रि, (ग्रामस्य ईशः ।) ग्रामेश्वरः ।

ग्रामाधिपतिः । यथा, शान्तिशतके । ११ ।
“यं कञ्चित् पुरुषाधमं कतिपयग्रामेशमल्पार्थदं ।
सेवाये मृगयामहे नरमहो मूढा वराका वयम् ॥”

ग्राम्यः, त्रि, (ग्रामे भवः । ग्राम + “ग्रामात्

यखञौ ।” ४ । २ । ९४ । इति यः ।) ग्रामोत्-
पन्नः । तत्पर्य्यायः । ग्रामेयकः २ ग्रामीणः ३ ।
इति हेमचन्द्रः । ३ । १६५ ॥ (यथा, मनुः ।
११ । १९९ ।
“श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥”
तथा, माघे । १२ । ३८ ।
“ग्राम्यानपश्यत् कपिशं पिपासतः ॥”
मूढः । प्राकृतः । यथा, तत्रैव । १४ । ६४ ।
“ग्राम्यभावमपहातुमिच्छबा
योगमार्गपतितेन चेतसा ॥”)
भण्डादिवचनम् । “हालिकशाकटिकप्रधानत्वात्
ग्रामे भवं ग्राम्यम् ।” इति भरतः ॥ तत्पर्य्यायः ।
अश्लीलम् २ । इत्यमरः । १ । ६ । १९ ॥ (काव्यस्य
दोषविशेषः । स च शंब्दगतः अर्थगतश्च । तत्र
शब्दगतो यथा, साहित्यदर्पणे । ७ । ३ ।
“दुःश्रवत्रिविधाश्लीलानुचितार्थाप्रयुक्तताः ।
ग्राम्योऽप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ॥”
अस्य उदाहरणं यथा तत्रैव । “कटिस्ते हरते
मनः । अत्र कटिशब्दो ग्राम्यः ॥” अर्थगतो
यथा, तत्रव । ७ । ५ ।
“अपुष्टदुष्क्रमग्राम्य व्याहताश्लीलकष्टताः ॥”
उदाहरणं यथा तत्रैव । “स्वपिहि त्वं समीपे मे
स्वपिम्येवाधुना प्रिय ! ॥ अत्रार्थो ग्राम्यः ॥”)

ग्राम्यकन्दः, पुं, (ग्राम्यो ग्रामभवः कन्दः ।)

ग्राम्यौल्लः । वनओल इति भाषा । तत्पर्य्यायः ।
स्थलकन्दः २ । इति रत्नमाला ॥ स तु दोषलः ।
इति राजवल्लभः ॥

ग्राम्यकर्कटी, स्त्री, (ग्राम्या ग्रामजाता कर्कटी ।)

कुष्माण्डः । इति त्रिकाण्डशेषः ॥

ग्राम्यकुङ्कुमं, क्ली, (ग्राम्य ग्रामसम्भूतं कुङ्कुमम् ।)

कुसुम्भम् । इति त्रिकाण्डशेषः ॥

ग्राम्यधर्म्मः, पुं, (ग्राम्यस्य इतरादेर्धर्म्मः ।) भैथु-

नम् । इत्यमरः । २ । ७ । ५७ ॥ (यथा, महा-
भारते । ३ । ४८ । ४ ।
“प्रमत्तो ग्राम्यधर्म्मेषु मन्दात्मा पापनिश्चयः ।
मम पुत्त्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥”)

ग्राम्यपशुः, पुं, (ग्राम्यो ग्रामजातः पशुः ।) ग्राम-

जातजन्तुः । (यथा, भागवते । ६ । १५ । १६ ।
“तस्माद् युवां ग्राम्यपशोर्मम मूढधियः प्रभू ।
अन्ध तमसि मग्नस्य ज्ञानदीप उदीर्य्यताम् ॥”)
स तु सप्तविधो यथा । गौः १ अजः २ मेषः ३
मनुष्यः ४ अश्वः ५ अश्वतरः ६ गर्द्दभः ७ ।
इति तिथ्यादितत्त्वम् ॥ (यथाह पैठीनसिः ।
“ग्राम्यारण्याश्चतुर्द्दश । गौरविरजोऽश्वोऽश्व-
तरो गर्द्दभो मनुष्यश्चेति ग्राम्याः पशवः । महिष-
वान । ऋक्षसरीसृपरुरुपुष्यमृगाश्चेति सप्ता-
रण्याः ॥” सुश्रुतमते उष्ट्रादयोऽपिग्राम्याः ।
यदुक्तं तत्रव सूत्रस्थाने ४६ अध्याये ।
“अश्वाश्वतरगोखरोष्ट्रवस्तोरभ्रमेदःपुच्छकप्रभृ-
तयो ग्राम्याः ॥”)

ग्राम्यमद्गुरिका, स्त्री, (ग्राम्या ग्रामाद्भवा मद्गुरिका)

शृङ्गीमत्स्यः । इति हारावली ॥

ग्राम्यमृगः, पुं, (ग्राम्यो ग्रामभवो मृगो हरिणैव ।

मृगःपशुर्वा इत्येके ।) कुक्कुरः । इति जटाधरः ॥

ग्राम्यराशिः, पुं, (ग्राम्यो राशिः ।) मिथुनम् ।

कन्या । तुला । वृश्चिकः । धनुः । कुम्भः । रात्रा
मेषः वृषश्च । इति ज्योतिषम् ॥
पृष्ठ २/३८५

ग्राम्यवल्लभा, स्त्री, (ग्राम्याणां ग्रामस्थजनानां

वल्लभा प्रिया । पल्लीग्रामस्थजनप्रियत्वादेवास्या-
स्तथात्वम् ।) पालङ्क्यशाकम् । इति राज-
निर्घण्टः ॥ (ग्राम्यं अश्लीलं वल्लभं प्रियं यस्याः
इति विग्रहे वेश्या । इति व्युत्पत्तिलब्धोऽर्थः ॥)

ग्राम्यशूकरः, पुं, स्त्री, (ग्राम्यः शूकरः ।) ग्रामोत्-

पन्नवराहः । तत्पर्य्यायः । विड्वराहः २
ग्रामीणः ३ ग्रामक्रोडः ४ ग्रामकोलः ५ विष्कलः
६ दारकः ७ । तस्य मांसस्य गुणाः । वनवराह-
मांसाद्गुरुत्वम् । मेदोबलवीर्य्यवृद्धिकारित्वञ्च ।
इति राजनिर्घण्टः ॥

ग्राम्या, स्त्री, (ग्रामे भवा । ग्राम + “ग्रामात्

यखञौ ।” ४ । २ । ९४ । इति यः । स्त्रियां
टाप् ।) नीली । निष्पावी । इति राज-
निर्घण्टः ॥ (तुलसी । इति चिन्तामणिः ॥)

ग्राम्याश्वः, पुं, (ग्राम्यः ग्रामजातोऽश्वः ।) गर्द्दभः ।

इति त्रिकाण्डशेषः ॥

ग्रावा, [न्] पुं, (ग्रसते इति ग्रः । ग्रस् + अन्ये-

भ्योऽपीति डः । आवनति शब्दायते इति ।
आ + वन शब्दे + विच् । ततो ग्रश्चासौ आवा
चेति ।) प्रस्तरः । (यथा, भागवते । ४ । ५ । १८ ।
“सर्व्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।
तैरर्द्द्यमानाः सुभृशं ग्रावभिर्नैकधाऽद्रवन् ॥”)
पर्व्वतः । इत्यमरः । २ । ३ । १ ॥ (यथा, --
“पृथ्वी तावत् त्रिकोणा विपिननदनदीग्रावरुद्धं
तदद्धम् ॥”
इत्युद्भटः ॥)
मेघः । इति विश्वः ॥ दृढे त्रि । इति शब्दरत्ना-
वली ॥

ग्रासः, पुं, (ग्रस्यते अद्यते इति । ग्रस् + कर्म्मणि

घञ् ।) मुखपूरणान्नादि । यथा, --
“कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम् ।
एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम् ॥”
इति प्रायश्चित्तप्रकरणे पराशरः ॥
(तथा च मनुः । ११ । २१३ ।
“एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ब्बवत् ॥”)
तत्पर्य्यायः । कबलः २ । इत्यमरः । २ । ९ । ५४ ॥
गुडेरकः ३ पिण्डः ४ गण्डोलः ५ कवकः ६
गुरुः ७ । इति हेमचन्द्रः । ३ । ८९ ॥ (दशौषध-
कालान्तर्गतकालविशेषः । “तत्र निर्भक्तं प्राग्-
भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं
मुहुर्मुहुः ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः ॥”
इत्युत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)

ग्राहः, पुं, (गृह्यते इति । ग्रह ञ उपादाने +

भावे घञ् ।) ग्रहणम् । (गृह्णातीति । ग्रह +
“विभाषा ग्रहः ।” ३ । १ । १४३ । इति व्यव-
स्थापितविभाषया णः ।) जलजन्तुविशेषः । हाङ्गर
इति भाषा ॥ जलहस्ती इति केचित् ॥ तत्-
पर्य्यायः । अवहारः २ । इत्यमरभरतौ ॥ (यथा,
महाभारते । १ । २१ । ५ ।
“भीषणैर्विकृतैरन्यैर्घोरै र्ज्जलचरैस्तथा ।
उग्रैर्नित्यमनाधृष्यं कूर्म्मग्राहसमाकुलम् ॥”)
शिशुकः । इति राजनिर्घण्टः ॥ (आग्रहः ।
यथा, गीतायाम् । १७ । १९ ।
“मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ॥”
“मूढग्राहेणाविवेककृतेन दुराग्रहेण ।” इति
श्रीधरस्वामी ॥)

ग्राहकः, पुं, (गृह्णातीति । ग्रह + ण्वुल् ।) सिता-

वरशाकम् । इति राजनिर्घण्टः ॥ हिंस्रपक्षी ।
व्यालग्राही । ग्रहीतरि त्रि । इति शब्दरत्ना-
वली ॥ (ग्रह + णिच् + ण्वुल् । ज्ञापकः । यथा,
महाभारते । ३ । २१० । १३ ।
“यथास्वं ग्राहकाण्येषां शब्दादीनामिमानि तु ॥”)

ग्राहिणी, स्त्री, (गृह्णाति अशेषगुणानिति । ग्रह

उपादाने + “नन्दिग्रहीति ।” ३ । १ । १३४ ।
इति णिनिः ङीप् ।) क्षुद्रदुरालभा । इति
राजनिर्घण्टः ॥ ताम्रमूलावृक्षः । इति रत्न-
माला ॥ क्षिरै इति भाषा ॥

ग्राहिफलः, पुं, (ग्राहि धारकं मलबन्धकमित्यर्थः

फलं यस्य ।) कपित्थवृक्षः । इति राजनिर्घण्टः ॥

ग्राही, [न्] पुं, (गृह्णातीति । ग्रह + णिनिः ।)

कपित्थः । इति शब्दचन्द्रिका ॥

ग्राही, [न्] त्रि, (गृह्णातीति । ग्रह + णिनिः ।)

मलबन्धकः । धारकः । इति वैद्यकम् ॥ (यथा,
भावप्रकाशे ।
“काञ्चनारो हिमा ग्राही तुवरः श्लेष्मपित्तनुत् ॥”)
ग्रहणकर्त्ता । इति व्याकरणम् ॥ (यथा, कथा-
सरित्सागरे । २५ । ४९ ।
“तत्र तस्यैव कैवर्त्तपतेः सत्यव्रतस्य सः ।
शफरग्राहिभिर्भृत्यैः प्राप्य दैवादगृह्यत ॥
प्रतिकूलः । यथा, भट्टिः । ५ । ९३ ।
“मास्म भूर्ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव ॥”
“हे भीरु ! मास्म भूर्ग्राहिणी प्रतिकूला मा भूः ।”
इति जयमङ्गलः ॥)

ग्रीवा, स्त्री, (गीर्य्यतेऽनया । गॄ निगरणे + “शेवा-

यह्वजिह्वाग्रीवाप्वामीवाः ।” उणां । १ । १५४ ।
इति वन्प्रत्ययेन निपातनात् साधुः ।) गल-
घाटादिसमुदिता । इति भरतः ॥ (यथा,
शकुन्तलायां १ मे अङ्के ।
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः ॥”)
सा तु गर्भे मासमात्रेण भवति । इति सुख-
बोधः ॥ तत्पर्य्यायः । शिरोधिः २ कन्धरा ३ ।
इत्यमरः । २ । ६ । ८८ ॥ कन्धिः ४ शिरो-
धरा ५ । इति राजनिर्घण्टः ॥ कन्घराशिरा ।
इति मेदिनी । वे । ६ ॥

ग्रीवी, [न्] पुं स्त्री, (ग्रीवा विद्यते यस्य । ग्रीवा

+ इनिः । दीर्घग्रीवावत्त्वया एव अस्य तथा-
त्वम् ।) उष्ट्रः । इति जटाधरः ॥ प्रशस्तग्रीवा-
युक्ते त्रि ॥

ग्रीष्मः, पुं, (ग्रसते रसान् इति । ग्रसु अदने +

“ग्रीष्मः ।” उणां । १ । १४९ । इति मक्
ग्रीभावश्च घातोः षुगागमश्च निपात्यते ।) ऋतु-
विशेषः । (यथा, मनुः । ६ । २३ ।
“ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ॥”)
स तु ज्यैष्ठाषाढौ । तत्पर्य्यायः । उष्णकः २
निदाघः ३ उष्णोपगमः ४ उष्णः ५ उष्मागमः ६
तपः ७ । इत्यमरः । १ । ४ । १९ ॥ घर्म्मः ८
तापनः ९ उष्णागमः १० उष्णकालः ११ ।
“ग्रैष्मिकन्त्वनभिस्यन्दि जलमित्येष निश्चयः ॥”
इति राजनिर्घण्टः ॥
(“दीर्घवासरकं तीक्ष्णं ज्वालामालाकुलं जगत् ।
दिशि ग्रीष्मे मृगतृष्णाः स्विन्नाः स्युर्मृगवाजिनः ॥
नैरृतो मारुतो रूक्षः शीर्णपर्णा महीरुहाः ।
दग्धं तृणाकुलारण्यं दावाग्निश्च दिशो दश ॥
एवं लक्षणके ग्रीष्मे पित्तरक्तमुदीर्य्यते ।
तस्मात् क्रिया प्रतीकारं कुर्य्यात् संशमनं भिषक् ॥
जलक्रीडा दिवानिद्रा सेवनं सुखसाधनम् ।
श्यामारामारतं शस्तं कुञ्जकिञ्जल्कशीतलम् ॥
नीलनालदलोपेतः श्रमघ्नो व्यजनानिलः ।
केतक्या मोदकुसुमचन्दनोशीरशीतलैः ॥
लेपनं शीतलं सम्यक् धारागाराश्रयः पुनः ।
एवं क्रिया समापन्ने ग्रीष्मे च सुखसङ्गमः ॥”
इति ग्रीष्मोपचारः ॥
इति हारीते प्रथमे स्थाने पञ्चभेऽध्याये ॥
“तीक्ष्णांशुरतितीक्ष्णां शुर्गीष्मे संक्षिपतीव यत् ।
प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्द्धते ॥
अतोऽस्मिन् पटुकट्वम्लव्यायामार्ककरांस्त्यजेत् ।
भजेन्मधुरमेवान्नं लधुस्निग्धं हिमं द्रवम् ॥
सुशीततोयसिक्ताङ्गो लिह्यात् शक्तून् सशर्करान् ॥
मद्यं न पेयं पेयं वा स्वल्पं सुबहु वारि वा ॥
अन्यथा शोफशौथिल्यदाहमोहान् करोति तत् ।
कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः ॥
पिबेद्रसं नातिघनं रसालां रागखाण्डवौ ।
पानकं पञ्चसारं वा नवमृद्भाजनस्थितम् ॥
मोचचोचदलैर्युक्तं साम्लं मृण्मयशुक्तिभिः ।
पटलावासितञ्चाम्भः सकर्पूरं सुशीतलम् ॥
शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्
ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम् ॥
अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु ।
वनेषु माधवीश्लिष्टद्राक्षास्तवकशालिषु ॥
सुगन्धिहिमपानीयसिच्यमानपटालिके ।
कायमाने चिते चूतप्रवालफललम्बिभिः ॥
कदलीदलकह्लार-मृणालकमलोत्पलैः ।
कल्पिते कोमलैस्तल्पे हसत्कुसुमपल्लवे ॥
मध्यदिनेऽर्कतापार्त्तः स्वप्याद्धारागृहेऽथवा ।
पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि ॥
निशाकरकराकीर्णे सौधपृष्ठे निशासु च ।
आसनास्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः ॥
निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः ।
जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः ॥
उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः ।
कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः ॥
मनोहरकलालापाः शिशवः शारिकाः शुकाः ।
मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः ॥
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥”
इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥
पृष्ठ २/३८६
“ग्रीष्मे पुनर्भृशौष्ण्योपहतत्वात् शरीरमसुखोप-
पन्नं भवति । उष्णवातावध्मातमतिशिथिल-
मत्यन्तप्रविलीनदोषं भेषजं पुनः संशोधनार्थ-
मुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते ।
तस्मात्तयोः संयोगे संशोधनमतियोगायोप-
पद्यते शरीरं पिपासोपद्रवाय ।” इति चरके
विमानस्थानेऽष्टमेऽध्याये ॥
“मयूखैर्जगतः सारं ग्रीष्मे पेपीयते रविः ।
स्वादुशीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः ।
घृतं पयः स शाल्यन्नं भजन् ग्रीष्मे न सीदति ॥
मद्यमल्पं न वा पेयमथवा सुबहूदकम् ।
लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज्जयेत् ॥
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतलम् ।
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्म्यमस्तके ॥
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः ।
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥
काननानि च शीतानि जलानि कुसुमानि च ।
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥”
इति च सूत्रस्थाने षष्ठेऽध्याये चरकेणोक्तम् ॥)
तत्र जातफलं यथा, कोष्ठीप्रदीपे ।
“ग्रीष्मोद्भवो भोगभवानुरक्तो
वक्ता सुशीलो जलकेलिशीलः ।
विद्याधनैश्वर्य्ययशोमनोज्ञो
धन्वी सुवेशः परदारचित्तः ॥”
उष्णः । इति मेदिनी । मे । १० ॥ गर्मि इति
तात् इति च भाषा ॥ तद्वति त्रि ॥

ग्रीष्मजा, स्त्री, (ग्रीष्मात् ग्रीष्मप्रभावात् ग्रीष्मे ग्रीष्म-

काले वा जायते या इति । जन् + डः । तत-
ष्टाप् च ।) लवणी । इति शब्दचन्द्रिका ॥ लोणा
इति भाषा ॥ (ग्रीष्मजातमात्रे, त्रि ॥)

ग्रीष्मपुष्पी, स्त्री, (ग्रीष्मे ग्रीष्मकाले पुष्पं यस्याः ।

जातौ संज्ञायां वा ङीप् ।) करुणीपुष्पवृक्षः ।
इति राजनिर्घण्टः ॥

ग्रीष्मभवा, स्त्री, (ग्रीष्मे ग्रीष्मसमये ग्रीष्मागमे

इत्यर्थः भवति उत्पद्यते या । भू + अच् ।
टाप् ।) नवमल्लिका । इति रत्नमाला ॥
(“कुमारिका ग्रीष्मभवा सुगन्धा ।”
इति वैद्यकरत्नमालायाम् ।)

ग्रीष्मसुन्दरकः, पुं, (ग्रीष्मे सुन्दर इव कायते

शोभते इति । कै + कः । ग्रीष्मसुन्दर + स्वार्थे
कन् वा ।) शाकविशेषः । गिमा इति भाषा ॥
तस्य गुणाः । तिक्तत्वम् । लघुत्वम् । कफपित्त-
दोषनाशित्वम् । रुचिकारित्वञ्च । इति राज-
वल्लभः ॥

ग्रीष्महासं, क्ली, (ग्रीष्मे ग्रीष्मसमये हासः प्रकाशः

उत्पत्तिजन्यशोभेत्यर्थः यस्य ।) इन्द्रतूलकम् ।
इति त्रिकाण्डशषः ॥ बुडीर सूता । इति भाषा ॥

ग्रीष्मी, स्त्री, (ग्रीष्मः ग्रीष्मसमयः उत्पत्तिकारण-

त्वेनास्त्यस्याः । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ ।
इत्यच् ततो ङीष् ।) नवमल्लिका । इति राज-
निर्घण्टः ॥

ग्रीष्मोद्भवा, स्त्री, (उद्भवतीति । उद् + भू + अच् ।

ग्रीष्मे उद्भवो यस्याः ग्रीष्मे उद्भवतीति वा ।)
नवमल्लिका । इति राजनिर्घण्टः ॥

ग्रुच, इर् उ चौर्य्ये । गतौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट्-उदित्वात् क्त्वा वेट् ।) रेफ-
युक्तः । पञ्चमस्वरी । इर्, अग्रुचत् अग्रो-
चीत् । उ, ग्रोचित्वा ग्रुक्त्रा । इति दुर्गा-
दासः ॥

ग्रैवं, क्ली, (ग्रीवायां भवम् । “ग्रीवाभ्योऽण् च ।”

४ । ३ । ५७ । इति अण् ।) ग्रीवाभूषणम् ।
इति शब्दरत्नावली ॥ (यथा, रघुः । ४ । ४८ ॥
“भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥”)

ग्रैवेयं, क्ली, (ग्रीवायां भवम् । “चात् ढञ् ।”

“ग्रीवाभ्योऽण् च ।” ४ । ३ । ५७ । इत्यस्य
सूत्रस्य वार्त्तिकोक्त्या चकारात् ढञ् ।) कण्ठ-
भूषणम् । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । ७ । ३५ । ३४ ।
“पुनर्द्विपान् द्विपारोहान् वैजयन्त्यङ्कुशध्वजान् ।
तूणवर्म्माण्यथो कक्षान् ग्रैवेयाण्यथ कम्बलान् ॥”)

ग्रैवेयकं, क्ली, (ग्रीवायां भवमिति । “कुल

कुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ।” ४ । २ । ९६ ।
इति ढकञ् ।) कण्ठभूषा । इत्यमरः । २ । ६ । १०४ ॥
(यथा, मार्कण्डेयपुराणे । ८२ । २५ ।
“नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥”)

ग्रैष्मी, स्त्री, (ग्रीष्मे भवेति । “सन्धिवेलाद्यृतु-

नक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ततो ङीप् ।
“पक्षे ऋत्वण् ङीप् ।” इति अणित्येके ।) नव-
मल्लिका । इति त्रिकाण्डशेषः ॥ ग्रीष्मसम्बन्धिनि
त्रि नान्तश्च ॥

ग्लस, उ ङ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट्-उदित्वात् क्त्वा वेट् ।) अन्तः स्थ-
तृतीययुक्तः । उ, ग्लसित्वा ग्लस्त्वा । ङ, ग्लसते ।
इति दुर्गादासः ॥

ग्लस्तः, त्रि, (ग्लस् + कर्म्मणि क्तः ।) भक्षितः ।

इत्यमरः । ३ । २ । ११२ ॥

ग्लह, ऊ कि आदाने । इति कविकल्पद्रुमः ॥

(चुरां-पक्षे भ्वां-परं-सकं-वेट् ।) अन्तःस्थतृत्नीय-
युक्तः । ऊ, अग्लहीत् अघ्लाक्षीत् । कि, ग्लाह-
यति ग्लहति । एषः कैश्चिन्न मन्यते इति
दुर्गादासः ॥ (यथा, महाभारते । २ । ६७ । १९ ।
“इमां चेत् पूर्ब्बं कितवोऽग्लहीष्य-
दीशोऽभविष्यदपराजितात्मा ॥”)

ग्लहः, पुं, (ग्लह + “अक्षेषु ग्लहः ।” ३ । ३ । ७० ।

अक्षशब्देन देवनं लक्ष्यते तत्र यत् पणरूपेण
ग्राह्यं तत्र ग्लह इति निपात्यते । इति वार्त्ति-
कोक्त्या च निपातनात् तथात्वम् ।) अक्ष-
क्रीडासु पणः । इत्यमरः । २ । १० । ४५ ॥
आड इति वाजि इति च भाषा ॥ (यथा, महा-
भारते । २ । ६७ । ६ ।
“पाञ्चालस्य द्रुपदस्यात्मजामिमां
सभामध्ये यो व्यदेवीद् ग्लहेषु ॥”)

ग्लाता, [ऋ] त्रि, (ग्लायति ग्लानियुक्तो भव-

तीति । ग्लै + तृच् ।) ग्लानियुक्तः । इति व्याकर-
णम् ।

ग्लानः, त्रि, (ग्लै + कर्त्तरि क्तः ।) रोगात् क्षीण-

देहः । तत्पर्य्यायः । ग्लास्नुः २ । इत्यमरः ।
२ । ६ । ५८ ॥ रोगी । इति राजनिर्घण्टः ॥

ग्लानिः, स्त्री, (ग्लायति अनेनास्मिन् वा । ग्लै +

“वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणां ।
४ । ५१ । इति निः ।) बलदीनता । इति हेम-
चन्द्रः । २ । २३३ ॥ (यथा, गीतायाम् । ४ । ७ ।
“यदा यदा हि धर्म्मस्य ग्लानिर्भवति भारत ! ॥”)
रोगः । इति राजनिर्घण्टः ॥ (यथा, भाग-
वते । ५ । २४ । १३ । “देहवैवर्ण्यदौर्गन्ध्यस्वेद-
क्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥”)

ग्लास्नुः, त्रि, (ग्लायतीति । ग्लै + “ग्लाजिस्थश्च

गस्नुः ।” ३ । २ । १३९ । इति स्नुः ।) ग्लानः ॥
इत्यमरः । २ । ६ । ५८ ॥ (यथा, भट्टिः । ७ । ४ ।
“वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत् ॥”)

ग्लुच, इर् उ चौर्य्ये गतौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् । उदित्वात् क्त्वावेट् ।)
अन्तःस्थतृतीययुक्तः । पञ्चमस्वरी । इर्, अग्लु-
चत् अग्लोचीत् । उ, ग्लोचित्वा ग्लुक्त्रा । इति
दुर्गादासः ॥

ग्लुञ्च, उ इर् गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) उदित्त्वात् क्त्रावेट् । अन्तः स्थ-
तृतीययुक्तादिः । पञ्चमस्वरी । उ, ग्लुञ्चित्वा
ग्लुक्त्रा । इर्, अग्लुचत् अग्लोञ्चीत् । इति
दुर्गादासः ॥

ग्लेप, ऋ ङ दैन्ये । गतौ । चाले । इति कविकल्प-

द्रुमः । (भ्वां-आत्मं-अकं-सकं-च-सेट् ।) अन्तःस्थ-
तृतीययुक्तः । ङ, ग्लेपते निर्धनः सदा । ऋ,
अजिग्लेपत् । इति दुर्गादासः ॥

ग्लेयः, त्रि, (ग्लानिमर्हतीति । ग्लै + यः ।) ग्लानि-

योग्यः । इति व्याकरणम् ॥

ग्लेव, ऋ ङ सेवे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ऋ,
अजिग्लेवत् । ङ, ग्लेवते । इति दुर्गादासः ॥

ग्लेष, ऋ ङ अन्वेषे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ऋ,
अजिग्लेषत् । ङ, ग्लेषते जिग्लेषे । अन्वेषोऽनु-
सन्धानम् । ग्लेषते यः सतां मार्गमिति हला-
युधः । इति दुर्गादासः ॥

ग्लै, क्लमे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

अनिट् ।) अन्तःस्थतृतीययुक्तः । क्लमो हर्ष-
क्षयः । ग्लायति लोकः शोकात् । अनुपसर्गस्य
ञौ ज्वल ह्वल ह्मल इत्यादिना वा ह्रस्वः ।
ग्लपयति ग्लापयति । सोपसर्गस्य तु प्रग्लाप-
यति । इति दुर्गादासः ॥ (यथा, मनुः । २ । ९८ ।
“श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्रा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥”)

ग्लौः, पुं, (ग्लायति ग्लानिं प्राप्नोति कृष्णपक्षे

इति भावः । ग्लै + “ग्लानुदिभ्यां डौः ।” उणां । २ । ६४ ।
इति डौः ।) चन्द्रः । (यथा,

अथर्व्ववेदसंहितायाम् । ६ । ८३ । ३ ।

“ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥”)
कर्परः । इत्यमरः । १ । ३ । १४ ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/गौः&oldid=43948" इत्यस्माद् प्रतिप्राप्तम्