सामग्री पर जाएँ

शब्दकल्पद्रुमः/गाङ्गः

विकिस्रोतः तः
पृष्ठ २/३२१

गाङ्गः, पुं, (गङ्गाया अपत्यं पुमानिति । “शिवा-

दिभ्योऽण् ।” ४ । १ । ११२ । इत्यण् ।) भीष्मः ।
(यथा, हरिवंशे । ३२ । १११ ।
“गाङ्गं देवव्रतं नाम पुत्त्रं सोऽजनयत् प्रभुः ।
स तु भीष्म इति ख्यातः कौरवाणां पितामहः ॥”
अस्य जभवृत्तान्तादिकं भीष्मशब्दे द्रष्टव्यम् ॥)
कार्त्तिकेयः । इति मेदिनी । गे । ५ ॥

गाङ्गटः, पुं, (गाङ्गे गङ्गातीरादौ अटति भ्रम-

तीति । अट् + अच् । शकन्ध्वादित्वात् साधुः ।)
मत्स्यभेदः । इति शब्दरत्नावली ॥ चिङ्गिडि
माछ इति भाषा ॥ (चिङ्गिटशब्दे विवरण-
मस्य ज्ञेयम् ॥)

गाङ्गटकः, पुं, (गाङ्गे गङ्गातीरादौ अटतीति ।

अट् + ण्वुल् ।) गाङ्गटमत्स्यः । इति शब्दरत्ना-
वली ॥

गाङ्गटेयः, पुं, (गाङ्गे अटतीति । अट गतौ +

बाहुलकात् एयः ।) गाङ्गटमत्स्यः । इति
शब्दरत्नावली ॥

गाङ्गायनिः, पुं, (गङ्गाया अपत्यं पुमान् । “तिका-

दिभ्यः फिञ् ।” । ४ । १ । १५४ । इति फिञ् ।)
भीष्मः । इति त्रिकाण्डशेषः ॥ कार्त्तिकेयश्च ॥

गाङ्गेयं, क्ली, (गङ्गाया अपत्यम् । “शुभ्रा-

दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् । गङ्गा-
जातत्वादस्य तथात्वम् ।) स्वर्णम् । (यदुक्तं
महाभारते वनपर्व्वणि ।
“यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् ।
तदुल्वं पर्व्वते न्यस्तं हिरण्यं समपद्यत ॥”)
धुस्तूरः । कशेरु । इत्यमरः । २ । ९ । ९४ ॥
मुस्तम् । इति हेमचन्द्रः ॥ (अस्य पर्य्यायाः
यथा, वैद्यकरत्नमालायाम् ।
“मेघाख्यं मुस्तकं मुस्ता गाङ्गेयं भद्रन्मुस्तकम् ॥”
गङ्गाजातजलादौ त्रि । यथा, महाभारते ।
३ । ३ । ३४ ।
“योगमास्थाय धर्म्मात्मा वायुंभक्ष्यो जितेन्द्रियः ।
गाङ्गेयं वार्य्युपस्पृश्य प्राणायामेन तस्थिवान् ॥”)

गाङ्गेयः, पुं, (गङ्गाया अपत्यं पुमान् । “शुभ्रा-

दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।)
भीष्मः । (यथा, देवीभागवते । २ । ४ । ३७ ।
“वसुदेवं विदित्वैनं सुखं भुङ्क्ष सुतोद्भवम् ।
गाङ्गेयोऽयं महाभाग ! भविष्यति बलाधिकः ॥”
अस्य जन्मविवरणं तत्रैव २ अध्याये तथा
भीष्मशब्दे विस्तरशो द्रष्टव्यम् ॥) कार्त्तिकेयः ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १३८ । १३ ।
“आग्नेयः कृत्तिकापुत्त्रो रौद्रो गाङ्गेय इत्यपि ।
श्रूयते भगवान् देवः सर्व्वदेवमयो गुहः ॥”)
इल्लीशमत्स्यः । इति त्रिकाण्डशेषः ॥ भद्र-
मुस्ता । इति राजनिर्घण्टः ॥

गाङ्गेरुकी, स्त्री, (गाङ्गं जलविशेषमीरयतीति ।

ईर गतौ क्षेपणे च + “मृगय्वादयश्च ।” उणां ।
१ । ३८ । इति कुः । ततः स्वार्थे कन् गौरादि-
त्वात् ङीष् ।) गोरक्षतण्डुला । इत्यमरः । २ ।
४ । ११७ ॥ (यथा, सुश्रुते सूत्रस्थाने ४६
अध्याये । “क्षीरवृक्षफलजाम्बवराजादनतोदन-
तिन्दुकवकुलधन्वनाश्मन्तकाश्वकर्णफल्गुपरूषक-
गाङ्गेरुकीपुष्करवर्त्तिविल्वबिल्वीप्रभृतीनि ॥”
यथास्याः पर्य्यायाः ।
“गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ।
खरवल्लरिका विश्व-वेदा गोरक्षतण्डुली ॥”
इति वैद्यकरत्नमालायाम् ॥
यथास्या गुणाः ।
“गाङ्गेरुकी करीरञ्च विम्बीतोदनधन्वनम् ।
मधुरं सकषायञ्च शीतं पित्तकफापहम् ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥)

गाङ्गेष्ठी, स्त्री, (गाङ्गे गङ्गादिनदीतटे तिष्ठतीति ।

स्था + कः अलुक् । गौरादित्वात् ङीष् ।) कठ-
शर्क्करालता । इति हारावली । २१० ॥ नटा
इति भाषा ॥

गाञ्जिकायः, पुं, वर्त्तिकपक्षी । इति राजनिर्घण्टः ॥

गाढं, क्ली, (गाहते स्म इति । गाह विलोडने +

क्तः ।) अतिशयः । दृढम् । (यथा, आर्य्या-
सप्तशत्याम् । ६१० ।
“आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥”)
तद्युक्ते त्रि । इत्यमरः । १ । १ । ७० ॥ (यथा,
रघुः । ९ । ७२ ।
“श्रमफेनमुचा तपस्विगाढां
तमसां प्राप नदीं तुरङ्गमेण ॥”)

गाढमुष्टिः, पुं, (गाढा दृढा मुष्टिर्यत्र । दृढमुष्ट्या

धारणादस्य तथात्वम् ।) खड्गः । कृपणे त्रि ।
इति मेदिनी । टे । ६१ ॥ (दातृत्वाभावादेवास्य
तथात्वम् ॥)

गाढावटी, स्त्री, (गाढा दृढा वटी वटिका यत्र ।

निपातनात् पुंवद्भावाभावः ।) चतुरङ्गक्रीडा-
मध्ये क्रीडाविशेषः । यथा, तिथ्यादितत्त्वे ।
“नौकैका वटिका यस्य विद्यते खेलने यदि ।
गाढावटीति विख्याता पदं तस्य न दुष्यति ॥”

गाणपत्यः, त्रि, (गणपतिर्गणेश उपास्यदेवो

यस्य । गणपति + ण्यः । केषाञ्चिन्मते अश्वपत्या-
दिभ्यश्चेति ण्यापवादोऽण् । तत्र गाणपत इति
साधुः ।) गणेशोपासकः । इत्यागमः ॥ (गण-
पतेर्भावः कर्म्म वा “गुणवचनब्राह्मणादिभ्यः
कर्म्मणि च ।” ५ । १ । १२४ । इति ष्यञ् ।)
गणपतिसम्बन्धी । गणपतिभावे क्ली ॥ (यथा,
महाभारते । ३ । ८५ । ६७ ।
“प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥”)

गाणिक्यं, क्ली, (गणिकानां वेश्यानां समूहः ।

“गणिकाया यञिति वक्तव्यम् ।” ४ । २ । ४० ।
इत्यस्य वार्त्तिं इति यञ् ।) गणिकासमूहः ।
बहुवेश्याः । इत्यमरः । २ । ६ । २२ ॥

गाण्डिवः, पुं, क्ली, (गाण्डिर्ग्रन्थिरस्यास्तीति । गाण्डि

+ “गाण्ड्यजगात् संज्ञायाम् ।” ५ । २ । ११० ।
इति वः ।) अर्ज्जुनधनुः । (यथा, महाभारते ।
३ । २३५ । ३० ।
“धनुर्ग्राहश्चार्ज्जुनः सव्यसाची
धनुश्च तद्गाण्डिवं भीमवेगम् ॥”)
घनुर्मात्रम् । इति मेदिनी ॥ वे । ३६ ॥

गाण्डीवः, पुं, क्ली, (गाण्डिर्ग्रन्थिः । “कृदिकारान्ता-

दिति ।” ङीषि कृते गाण्डी । सा विद्यते
अस्य । “गाण्ड्यजगात् संज्ञायाम् ।” ५ । २ ।
११० । इति वः ।) अर्ज्जुनधनुः । इत्यमरः । २ ।
८ । ८४ ॥ (यथा, महाभारते । ४ । ४१ । १ ।
“यन्मां पूर्ब्बमिहापृच्छः शत्रुसेनानिवर्हणम् ।
गाण्डीवमेतत् पार्थस्य लोकेषु विदितं धनुः ॥”
एतद्धनुर्हि ब्रह्मादयोऽपि आदौ धृतवन्तः ।
यदुक्तं तत्रैव । ४ । ४१ । ५--८ ।
“एतद्बर्षसहस्रन्तु ब्रह्मा पूर्ब्बमधारयत् ।
ततोऽनन्तरमेवाथ प्रजापतिरधारयत् ॥
त्रीणि पञ्चशतञ्चैव शक्रोऽशीतिञ्च पञ्च वै ।
सोमः पञ्चशतं राजा तथैव वरुणः शतम् ॥
पार्थः पञ्च च षष्ठिञ्च वर्षाणि श्वतवाहनः ।
महावीर्य्यं महद्दीव्यमेतद्धनुरनुत्तमम् ॥
एतच्च मानुषं प्राप्तं वरुणाच्चारुदर्शनम् ।
पूजितं सुरमर्त्येषु बिभर्त्ति परमं वपुः ॥”
स्वाण्डवदाहनार्थं हि वह्निना वरुणशकासादा-
नीयधनुरेतदर्ज्जुनाय प्रदत्तम् । तत्कथा यथा,
महाभारते । १ । २२६ । १--९ ।
“एवमुक्तः स भगवान् धूमकेतुर्हु ताशनः ।
चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥
आदित्यमुदके देवं निवसन्तं जलेश्वरम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ॥
तमब्रवीद्धूमकेतुः प्रतिगृह्य जलेश्वरम् ।
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।
तत् प्रयच्छोभयं शीघ्रं रथञ्च कपिलक्षणम् ॥
कार्य्यञ्च सुमहत् पार्थो गाण्डीषेन करिष्यति ।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम् ॥
ददानीत्येव वरुणः पावकं प्रत्यभाषत ।
तदद्भुतं महावीर्य्यं यशःकीर्त्तिविवर्द्धनम् ॥
सर्व्वशस्त्रैरनाधृष्यं सर्ष्वशस्त्रप्रमाथि च ।
सर्व्वायुधमहामात्रं परसैन्यप्रधर्षणम् ॥
एकं शतसहस्रेण सम्मितं राष्ट्रवर्द्धनम् ।
चित्रमुच्चावचैर्व्वर्णैः शोमितं श्लक्ष्णमव्रणम् ॥
देवदानवगन्धर्व्वैः पूजितं शाश्वतीः समाः ।
प्रादाच्चैव धनूरत्नमक्षय्ये च महेषुधी ॥”
“तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्म्मितं पुरा ।
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्ज्जुनः ॥”)
कार्म्मुकम् । इति मेदिनी । वे । ३६ ॥

गाण्डीवी, [न्] पुं, (गाण्डीवोऽख्यस्य । गाण्डीव

+ “अत इनिठनौ ।” ५ । २ । ११५ । इति
इनिः ।) अर्ज्जुनः । इति त्रिकाण्डशेषः ॥ अर्ज्जुन-
वृक्षः । इति राजनिर्घण्टः ॥

गाता, [ऋ] त्रि, (गायतीति । गै गाने + तृच् ।)

गायकः । इति सङ्गीतदामोदरः ॥ (यथा, हरि-
वंशे । ५४ । ११ ।
“गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् ॥”
पृष्ठ २/३२२

गातुः, पुं, (गायतीति । गै गाने + “कमिमनि-

जनिगाभायाहिभ्यश्च ।” उणां । १ । ७३ । इति
तुः ।) कोकिलः । भ्रमरः । गन्धर्व्वः । इति
मेदिनी । ते । १५ ॥ (गाते गच्छतीति । गा
ङ गतौ + कमिमनीतिसूत्रे गानिर्द्देशात् तुः ।
पथिकः । इति उज्ज्वलदत्तः ॥ गै गाने + भावे
तु । गानम् । यथा, ऋग्वेदे । ४ । ५१ । १ ।
“गातुं कृण्वन्नुषसो जनाय ।” “गातुं गानम् ।”
इति भाष्यम् ॥ गाते गच्छत्यत्र इति । गा ङ
गतौ + अधिकरणे तु । गमनीयः पन्थाः । यथा,
ऋग्वेदे । ९ । ८५ । ४ । “उरुं नो गातुं कृणु
सोममीढ्वः ।” “गातुं गन्तव्यमार्गम् ।” इति
भाष्यम् ॥ पृथिवी । यथा, तत्रैव । ३ । ३१ । १५ ।
“इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्य्यमुषसं
गातुमग्निम् ।” “गातुं पृथिवीम् ।” इति
भाष्यम् ॥ गा र लि स्तुतौ + भावे तुः । स्तवः ।
यथा, तत्रैव । ४ । ४ । ६ । “स ते जानाति
सुभतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।”
“गातुं स्तवम् ।” इति भाष्यम् ॥ उपायः ।
यथा, तत्रैव । ५ । ६५ । ४ । “मित्रो अंहोश्चि-
दादुरुक्षयाय गातुं वनते ।” “गातुमुपायम् ।”
इति भाष्यम् ॥)

गातुः, त्रि, (गाते कोपं गच्छतीति । गा ङ गतौ

+ “कमिमनीति ।” उणां । १ । ७३ । इति
गानिर्द्देशात् तुः ।) रोषणः । इति मेदिनी ।
ते । १५ ॥ (गायतीति । गै गाने + तुः ।)
गायनः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

गात्र, त् क ङ शैथिल्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-आत्मं-अकं-सेट् ।) दन्त्यवर्गमध्यः ।
ङ, गात्रयते गात्रापयते । इति दुर्गादासः ॥

गात्रं, क्ली, (गच्छत्यनेन । गम् + “गमेरा च ।”

उणां । ४ । १६८ । इति त्रन् आकारादेशश्च ।)
हस्तिपूर्ब्बजङ्घादिदेशः । हस्त्यग्रपदादिसम्मुख-
भागः । (यथा, माघे । १८ । ४६ ।
“आपस्काराल्लूनगात्रस्य भूमिं
निःसाधारङ्गच्छतोऽवाङ्मुखस्य ॥”
“लूनगात्रस्य छिन्नजङ्घस्य ॥” इति तट्टीकायां
मल्लिनाथः ॥ * ॥ गच्छति मरणात् परं स्वकारण-
भूतपञ्चत्वं प्राप्नोति यद्वा गम्यते स्थानात् स्थाना-
न्तरं प्राप्यते सञ्चाल्यते वाऽनेन इति ।) अङ्गम् ।
इति मेदिनी । रे । २३ । हस्तपादाद्यवयवसमु-
दयः । गा इति भाषा ॥ (यथा, महाभारते । १ ।
१५४ । ३० ।
“अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥”)
तत्पर्य्यायः । कलेवरम् २ वपुः ३ संहनम् ४
शरीरम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहा ९
भूर्त्तिः १० तनुः ११ तनूः १२ । इत्यमरः । २ ।
६ । ७० ॥ इन्द्रियायतनम् १३ अङ्गम् १४
क्षेत्रम् १५ भूषणः १६ मत्करणम् १७ वेरम् १८
सश्वरः १९ घणः २० बन्धः २१ पुरम् २२
पिण्डः २३ पुद्गलम् २४ । इति हेमचन्द्रः ॥
भूतात्मा २५ स्वर्गलोकेशः २६ स्कन्धः २७
पञ्जरः २८ कुलम् २९ बलम् ३० । इति
जटाधरः ॥
(गात्रवादनादि निषेधो यथा, --
“गात्रवक्वनखैर्वाद्यं हस्तकेशावधूननम् ।
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम् ॥
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥”
इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥)

गात्रभङ्गाः, स्त्री, (गात्रस्य भङ्गोऽवसादो यस्याः ।)

शूकशिम्बी । इति शब्दचन्द्रिका ॥

गात्रमार्ज्जनी, स्त्री, (गात्रं मृज्यतेऽनयेति । मृज्

+ ल्युट् + स्त्रियां ङीप् ।) शरीरमार्ज्जनार्थं
वस्त्रम् । इति लोकप्रसिद्धिः ॥ गामोचा इति
भाषा ॥

गात्रसङ्कोची, [न्] पुं, (गात्रं सङ्कोचयतीति ।

सम् + कुच् + णिच् + णिनिः । यद्वा, गात्रस्य
सङ्कोची ।) जाहकजन्तुः । इति राजनिर्घण्टः ॥

गात्रसंप्लवः, पुं, (गात्रेण संप्लवते भासते सन्तरति

जले इत्यर्थः । सम् + प्लु + अच् ।) प्लवपक्षी ।
इति हेमचन्द्रः । ४ । ४०६ ॥

गात्रसम्मितः, पुं, (गात्रं सम्मितं उत्पन्नावयवमात्रं

यत्र ।) गात्रावयवोत्पत्तिः । यथा, --
“पाद उत्पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते ।
पादोनं व्रतमाचष्टे हत्वा गर्भमचेतनम् ॥
अङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतःसमन्विते ।
द्विगुणं गोव्रतं कुर्य्यात् प्रायश्चित्तं विशुद्धये ॥
मध्यमवचनं भवदेवेन व्याख्यातम् । यदा
लगुडाद्यभिघातेन गौर्जीवति गर्भमात्रपातो
भवति तदोत्पन्नगर्भमात्रपाते यथोक्तप्रायश्चित्त-
पादाचरणम् । गात्रावयवोत्पत्तौ प्रायश्चित्त-
पादद्वयम् । सकलगात्रसम्पत्तौ प्रायश्चित्तपाद-
त्रयम् । अर्थाच्चैतन्ययुक्तगर्भघाते कृत्स्नमेव प्राय-
श्चित्तमूहनीयम् ।” इति प्रायश्चित्ततत्त्वम् ॥

गात्रानुलेपनी, स्त्री, (गात्रमनुलिप्यतेऽनया इति ।

अनु + लिप् + ल्युट् + स्त्रियां ङीप् ।) गात्रानु-
लेपनयोग्यं घृष्टं पिष्टं वा सुगन्धिद्रव्यम् । तत्-
पर्य्यायः । वर्त्तिः २ वर्णकम् ३ विलेपनम् ४ ।
इत्यमरः । २ । ७ । १३३ ॥

गाथकः, त्रि, (गायतीति । गै गाने + “गस्थकन् ।”

३ । १ । १४६ । इति थकन् ।) गायकः । इति
त्रिकाण्डशेषः ॥

गाथा, स्त्री, (गीयते इति । गै गाने + “उषि-

कुषिगर्त्तिभ्यस्थन् ।” उणां । २ । ४ । इति थन्
स्त्रियां टाप् ।) श्लोकः । (यथा, महाभारते ।
३ । ८५ । ३० ।
“गाथा च गीतिका चापि तस्य सम्पद्यते नृप ! ॥”)
संस्कृतान्यभाषा । सा तु प्राकृतभाषा । गेयम् ।
तच्च गीतम् । (यथा, मनुः । ९ । ४२ ।
“अत्र गाथा वायुगीताः कीर्त्तयन्ति पुराविदः ।
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥”)
वृत्तम् । तत्तु अक्षरसंख्यातं पद्यम् । इति
मेदिनी । थे । ६ ॥

गाध, ऋ ङ प्रतिष्ठायाम् । ग्रन्थे । लिप्सायाम्

इति कविकल्पद्रुमः । (भ्वां-आत्मं-प्रतिष्ठायां
सकं-अन्यत्र अकं-सेट् ।) ऋ, अजगाधत् ।
ङ, गाधितासे नभो भूय इति भट्टिः । गाधते
मालिकः स्रजः । इति दुर्गादासः ॥

गाधः, पुं, (गाध प्रतिष्ठायां लिप्सायाञ्च + भावे

घञ् ।) स्थानम् । (यथा, महाभारते । १
२१ । १३ ।
“अनासादितगाधञ्च पातालतलमव्ययम् ॥”)
लिप्सा । इति हेमचन्द्रः ॥ (कूलम् । परपारम् ।
यथा, महाभारते । ७ । ११३ । २ ।
“द्वीपो य आसीत् पाण्डूनामगाधे गाधमिच्छताम् ॥”
सुखोत्तरणीये, त्रि । यथा, रघुः । ४ । २४ ।
“सरितः कुर्व्वती गाधाः पथश्चाश्यानकर्द्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥”
स्त्रियां टाप् । गायत्त्रीरूपिणी महादेवी ।
यथा, देवीभागवते । १२ । ६ । ४० ।
“गौतमी गामिनी गाधा गन्धर्व्वाप्सरसेविता ॥”
“गाधा प्रतिष्ठारूपिणी ।” इति तट्टीका ॥)

गाधिः, पुं, (गाधते उच्चपदं लिप्सतीति । गाध ङ

लिप्सायाम् + “सर्व्वधातुभ्य इन् ।” उणां । ४ ।
११७ । इति इन् ।) चन्द्रवंशीयकुशिकराज-
पुत्त्रः । स तु विश्वामित्रमुनिपिता कान्यकुब्ज-
देशस्य राजा च । (यथा, महाभारते । ३ ।
११५ । १९ ।
“कान्यकुब्जे महानासीत् पार्थिवः सुमहाबलः ।
गाधीति विश्रुतो लोके वनवासं जगाम ह ॥”
अस्य उत्पत्तिकथा यथा, हरिवंशे । २७ ।
१३--१६ ।
“कुशिकस्तु तपस्तेपे पुत्त्रमिन्द्रसमं विभुः ।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ॥
पूर्णे वर्षसहस्रे वै तन्तु शक्रो ह्यपश्मत ।
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ॥
समर्थं पुत्त्रजनने स्वमेवांशमवासयत् ।
पुत्त्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥
स गाधिरभवद्रांजा मधवान् कौशिकः स्वयम् ।
पौरकुत्स्यभवद्भार्य्या गाधिस्तस्यामजायत ॥”
अस्य कन्या सत्यवती भृगुवंशीय-ऋचीकपत्नी ।
सा च जमदग्निं प्रसूतवती । यथा, हरिवंशे ।
२७ । १८ ।
“गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ।
तां गाधिः काव्यपुत्त्राय ऋचीकाय ददौ प्रभुः ॥”
ऋग्वेदमते तु अयमेव गाथीत्याख्यया प्रसिद्धः
इति तु तत्रैव ३ मण्डले द्रष्टव्यः ॥ एतदनुसारे-
णैव रामायणे ‘गाधिन्’ इति नान्तप्रयोगो
भगवता वाल्मीकिना विहितः । यथा, तत्रैव
१ । १८ । ४० ।
“शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥”)

गाधिजः, पुं, (गाधेः राज्ञः कौशिकात् जायते इति ।

जन् + डः ।) विश्वामित्रमुनिः । इति त्रिकाण्ड-
शेषः ॥ (यथा, मनुः । ७ । ४२ ।
“पृथुस्तु विनयाद्राज्यं प्राप्तवान् मनुरेव च ।
पृष्ठ २/३२३
कुवेरश्च धनैश्वर्य्यं ब्राह्मण्यञ्चैव गाधिजः ॥”
एतद्जन्मकथा विश्वामित्रशब्दे द्रष्टव्या ॥)

गाधिपुरं, क्ली, (गाधेः कौशिकस्य राज्ञः पुरम् ।)

कान्यकुब्जदेशः । इति हेमचन्द्रः । ३ । ४० ॥
(यथा राजतरङ्गिण्याम् । ४ । १३४ ।
“कन्यानां यत्र कुब्जत्वं व्यधात् गाधिपुरे मरुत् ।
तत्रैव शंसनीयः स पुमांश्चक्रे भयस्पृशाम् ॥”)

गाधिभूः, पुं, (गाधेर्भूरुत्पत्तिर्यस्य गाधिर्भरुत्-

पत्तिस्थानं यस्येति वा । यद्वा गाधेर्भवति उत्
पद्यते स्म । भू + भूतवर्त्तमानयोरिति क्विप् ।)
विश्वामित्रमुनिः । इति शब्दरत्नावली ॥

गाधेयः, पुं, (गाधेरपत्यं पुमान् । गाधि + “इत-

श्चानिञः ।” ४ । १ । १२२ । इति ढक् ।) विश्वा-
मित्रमुनिः । इति हेमचन्द्रः । ३ । ५१४ ॥ (यथा,
हरिवंशे । २७ । १७ ।
“विश्वामित्रस्तु गाधेयो राजा विश्वरथश्च ह ॥”)

गानं, क्ली, (गीयते इति । गै + भावे ल्युट् ।)

गीतम् । इत्यमरः । १ । ७ । २५ ॥ (यदुक्तम्, --
“जपकोटिगुणं ध्यानं ध्यानकोटिगुणो लयः ।
लयकोटिगुणं गानं गानात् परतरं न हि ॥”)
तत्पर्य्यायः । गेयम् २ गीतिः ३ गान्धर्व्वम् ४ ।
इति हेमचन्द्रः । २ । १९४ ॥ (गानं हि वैदिक-
लौकिकभेदात् द्विविधम् । तत्र वैदिकगानन्तु
मुक्तिप्रदं अन्यत् लोकरञ्जनकरम् । वैदिक-
लौकिकयोर्मार्गदेशीति नामान्तरमपि श्रूयते ।
गानन्तु सामवेदादेव उत्पन्नं यदुक्तं सङ्गीतं-
दर्पणटीकायाम् ।
“ऋग्भिः पाठ्यममूद्गीतं सामभ्यः समपद्यत ।
यजुर्भ्योऽभिनया जाता रसाश्चाथर्व्वणः स्मृताः ॥”
द्विविघसङ्गीतयोर्लक्षणमाह सङ्गीतदर्पणे । ३-६ ।
“मार्गदेशीविभागेन सङ्गीतं द्विविधं मतम् ।
द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ।
महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥
तत्तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् ।
देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥
गीतवादित्रनृत्यानां रक्तिः साधारणो गुणः ।
अतो रक्तिविहीनं यत् न तत् सङ्गीतमुच्यते ॥”
गानन्तु नादात्मकमेव नादस्तु यदा स्वयं राजते
तदा स्वर इति प्रसिद्धः स्यात् । स्वरस्तु षड्ज-
ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादभेदात्
सप्तविधः । एतेषां विज्ञापनार्थं एतदाश्रयीभूत-
द्वाविंशतिश्रुतीनां नामानि स्वरस्थितिश्च कथ्यन्ते ।
यथा, सङ्गीतदर्पणे । ५३--५६ ।
“तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः ।
दयावती रञ्जनी च रतिका चर्षभे स्थिता ॥
रौद्री क्रोधा च गान्धारे वज्रिकाथ प्रसारिणी ।
प्रीतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥
क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे ।
मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥”
अन्यत् विशेषविवरणन्तु तत्तच्छब्दे द्रष्टव्यम् ॥ * ॥
गाने तु रागा रागिण्यश्च प्रयोक्तव्याः अतस्तेषां
नामानि कथ्यन्ते । यथा, सङ्गीतदर्पणे स्वरा-
ध्याये । १२--१९ ।
पार्व्वत्युवाच ।
“के रागाः काश्च रागिण्यः का वेला ऋतवश्च के ।
किं रूपं कथमुद्धारो वद देव ! प्रसादतः ॥”
ईश्वर उवाच ।
“श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा ।
मेघरागो बृहन्नाटः षडेते पुरुषाह्वयाः ॥”
इति षट् रागाः ॥
अथ रागिण्यः ।
“मालश्री त्रिवणी गौरी केदारी मधुमाधवी ।
ततः पाहाडिका ज्ञेया श्रीरागस्य वराङ्गनाः ॥
देशी देवगिरी चैव वराटी तोडिका तथा ।
ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥
भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा ।
वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः ॥
विभाषा चाथ भूपाली कर्णाटी वडहंसिका ।
मालवी पटमञ्जर्य्या सहैताः पञ्चमाङ्गनाः ॥
मल्लारी सौरटी चैव सावेरी कौशिकी तथा ।
गान्धारी हरशृङ्गारा मेघरागस्य योषितः ॥
कामोदी चैव कल्याणी आभिरी नाटिका तथा ।
सारङ्गी नट्टहम्बीरा नट्टनारायणाङ्गनाः ॥”
इति षट्त्रिंशत् रागिण्यः ॥
रागरागिणीनां विशेषविवरणन्तु तत्तच्छब्दे
गानस्य अन्यद्विवरणं गीतशब्दे च दर्शनीयम् ॥)
ध्वनिः । इति धरणी ॥

गानिनी, स्त्री, (गानं रोगादिनाशकतया प्रशस्त-

गीतिर्विद्यतेऽस्याः । गान + इनिः ।) वचा ।
इति शब्दचन्द्रिका ॥ (गानं सङ्गीतविद्या
गतिः स्तुतिश्चास्त्यस्या इति व्युत्पत्या यथाक्रमं
गानज्ञा गतिमती स्तवयुक्ता च स्त्री । इति
व्युत्पत्तिलब्धोऽर्थः ॥)

गान्तुः, त्रि, (गच्छतीति । गम गतौ + “क्रमि-

गमिक्षमीति ।” उणां । ५ । ४३ । इति तुन्
वृद्धिश्च ।) गन्ता । इत्युणादिकोषः ॥ गाथकः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

गान्त्री, स्त्री, (गन्त्री एव । स्वार्थे अण् । ततो

ङीष् ।) गन्त्री । वृषवाह्यशकटः । गरुर गाडि
इति भाषा । इत्यमरटीकायां रायमुकुटः ॥
(क्वचित् क्लीवलिङ्गत्वमपि दृश्यते ॥)

गान्दिनी, स्त्री, (गां पशुं जीवजातमित्यर्थः दायति

शोधयतीति । दै प शोधने + णिनिः + ङीप् ।
पृषोदरात् साधुः ।) गङ्गा । इति त्रिकाण्ड-
शेषः शब्दरत्नावली च ॥ (गां धेनुं ददाति
प्रतिदिनमित्यर्थः । दा दाने + णिनि + ङीप् ।
पृषोदरात् साधुः ।) अक्रूरमाता । इति श्रीभाग-
वतम् ॥ (अस्या नामनिरुक्तिर्यथा, हरिवंशे ।
३४ । ७--११ ।
“श्वफल्कः काशिराजस्य सुतां भार्य्यामविन्दत ।
गान्दिनीं नाम सा गास्तु ददौ विप्रेषु नित्यशः ॥
सा मातुरुदरस्था वै बहून् वर्षगणान् किल ।
निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥
जायस्व शीघ्रं भद्रन्ते किमर्थऽञ्चेह तिष्ठसि ।
प्रोवाचैनन्तु गर्भस्था सा कन्या गान्दिने दिने ॥
यदि दद्यां ततो जाये पितरं प्रत्युवाच ह ।
तथेत्युक्त्वा च तां चास्याः पिता काममपूरयत् ॥
दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः ।
अक्रूरः सुषुवे तस्यां श्वफल्काद्भूरिदक्षिणः ॥” * ॥
गान्धिनीति पाठोऽपि क्वचित् दृश्यते ॥)

गान्दिनीसुतः, पुं, (गान्दिन्या गङ्गायाः सुतः ।)

भीष्मः । इति त्रिकाण्डशेषः ॥ (कार्त्तिकेयः ।
इति व्युत्पत्तिलब्धोऽर्थः ॥ गान्दिन्यास्तदाख्यया
प्रसिद्धाया श्वफल्कभार्य्यायाः सुतः ।) अक्रूरः ।
इति श्रीभागवतम् ॥ (यथा, माघे । १७ । १२ ।
“विलङ्घितस्थितिमभिवीक्ष्य रूक्षया
रिपोर्गिरा गुरुमपि गान्दिनीसुतम् ॥”)

गान्धर्व्वं, क्ली, (गन्धर्व्वस्य इदं गन्धर्व्वेण गीतं वा ।

गन्धर्व्व + अण् । यद्बा, गन्धर्व्वो अधिष्ठात्री देवता
अस्येति अण् ।) गानम् । इति हेमचन्द्रः ॥
(यथाह दन्तिलः ।
“पदस्थस्वरसङ्घातस्तालेन सङ्गतस्तथा ।
प्रयुक्तश्चावधानेन गान्धर्व्वमभिधीयते ॥”
यथा च महाभारते । १३ । १९ । ४६ ।
“अवादयंश्च गन्धर्व्वा वाद्यानि विधिवानि च ।
अथ प्रवृत्ते गान्धर्व्वे दिव्ये ऋषिरुपाविशत् ॥”
गन्धर्व्वो अधिष्ठात्री देवता अस्येति अण् ।
गन्धर्व्वदेवताकमन्त्रम् । यथा, रघुः । ५ । ५७ ।
“गान्धर्व्वमादत्स्व यतः प्रयोक्तु-
र्न चारिहिंसा विजयश्च हस्ते ॥”)

गान्धर्व्वः, पुं, (गन्धर्व्व एव । “प्रज्ञादिभ्यश्च ।” ५ ।

४ । ३८ । इत्यण् ।) गन्धर्व्वः । इति हेमचन्द्रः ।
२ । १९४ ॥ (भारतवर्षीयोपद्वीपविशेषः । यथा,
विष्णुपुराणे ।
“भारतस्यास्य वर्षस्य नवभेदान्निशामय ।
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्व्वस्त्वथ वारुणः ।
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ॥”)
अष्टप्रकारविवाहान्तर्गतविवाहविशेषः । यत्र
कन्यावरयोरन्योन्यानुरागात् त्वं मे भार्य्या त्वं
मे पतिरिति निश्चयः सः । (तल्लक्षणं यथा,
मनौ । ३ । ३२ ।
“इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्व्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥”
स च क्षत्त्रियाणामेव धर्म्म्यः । यथा, तत्रैव । ३ । २६ ।
“गान्धर्व्वोराक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ ॥”)
तत्सम्बन्धिनि त्रि ॥ (यथा, काशीखण्डे ।
“गान्धर्व्वस्त्वेष लोकोऽमी गन्धर्व्वाश्च शुभव्रताः ॥”
गन्धर्व्वदेशोद्भवे च । यथा, महाभारते १ । २२६ । १० ।
“उपेतं राजतैरश्वैर्गान्धर्व्वैर्हेममालिभिः ।
पाण्डराभ्रप्रतीकाशैर्म्मनोवायुसमैर्जवे ॥”)

गान्धारं, क्ली, (गन्ध एव गान्धं सुगन्धं ऋच्छ-

तीति । ऋ गतौ + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् । यद्वा, गान्धाराणान्तद्देशवासिनां
प्रियम् । अण् ।) गन्धरसः । इति त्रिकाण्डशेषः ॥
पृष्ठ २/३२४

गान्धारः, पुं, (गन्ध एव गान्धो गन्धकस्तं ऋच्छति

उत्पत्तिकारणत्वेन गच्छतीति । ऋ गतौ +
अण् ।) सिन्दूरम् । जम्बुद्बीपस्थोत्तरदेशः ।
कान्धार इति भाषा । इति मेदिनी । रे । १४९ ॥
(देशोऽयं बृहत्संहितायां कूर्म्मविभागे उत्त-
रस्यामुक्तः । यथा, तत्रैव । १४ । २८ ।
“उत्तरतः कैलासः ।” इत्युपक्रम्य, --
“गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च ॥”
इत्युक्तवाः । दुर्य्योधनमातुलः शकुनिस्तु एत-
द्देशस्य राजासीत् । यथा, महाभारते । ३ ।
२३७ । २१ ।
“गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥” * ॥
गन्ध एव गान्धः । स्वार्थे अण् । तं ऋच्छ-
तीति । “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
सप्तस्वरान्तर्गततृतीयस्वरः । स तु छागस्वर-
तुल्यः । (यदुक्तं सङ्गीतशास्त्रे ।
“षड्जं रौति मयूरस्तु गावो नर्द्दन्ति चर्षभम् ।
गान्धारन्तु अजो रौति कौञ्चः क्वणति मध्यमम् ॥”)
तस्योत्पत्त्यादिः ।
“वायुः समुद्गतो नाभेः कण्ठशीर्षसमाहतः ।
नानागन्धर्वहः पुण्यो गान्धारस्तेन हेतुना ॥”
इति भरतः ॥
अपि च ।
“नाभेः समुद्गतो वायुर्गन्धं श्रोत्रे च चालयन् ।
स शब्दस्तेन निर्याति गान्धारस्तेन कथ्यते ॥
चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मताः ।
ऋषभे धैवते तिस्री द्वे गान्धारनिषादके ॥”
(अयन्तु देवकुलसम्भूतो वैश्यजातिः स्वर्णवदु-
ज्ज्वलपीतवर्णः । अस्य जन्म कुशद्वीपे, ऋषिः
शशाङ्कः, सरस्वती देवता, त्रिष्टुप् छन्दः ।
करुणरसे एवास्य उपयोगित्वम् ॥ इति सङ्गीत-
दर्पणे । ८३--९१ ॥ * ॥ स्वरग्रामविशेषः ।
तल्लक्षणम् । यथा, तत्रैव ७९--८० ।
“रि-मयोः श्रुतिमेकैकां गान्धारश्चेत् समाश्रयेत् ।
प-श्रुतिं धो निषादस्तु घ-श्रुतिं स-श्रुतिं श्रितः ॥
गान्धारग्राममाचष्ट तदा तं नारदो मुनिः ।
प्रवर्त्तते स्वर्गलोके ग्रामोऽसौ न महीतले ॥” * ॥)
रागविशेषः । तस्य रूपं यथा, सङ्गीतदामोदरे ।
“जटां दधानः कृतभूतिभूषणः
काषायवासास्तनुदेहयष्टिः ।
सयोगपट्टः कृतनेत्रमुद्रो
गान्धाररागः कथितस्तपस्वी ॥”
स तु भैरवरागपुत्त्रः । प्रभाते तस्य गानसमयः ॥

गान्धारराजः, पुं, (गान्धारस्य देशविशेषस्य-

राजा । “राजाहसखिभ्यष्टच् ।” ५ । ४ । ९१ ।
इति टच् ।) शकुनिः । (यथा, महाभारते ।
३ । २३७ । २१ ।
“गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥”
अस्य पित्रादयोपि । यथा, तत्रैव । १ । ११० । १४ ।
“ततो गान्धारराजस्य पुत्त्रः शकुनिरभ्ययात् ॥”)

गान्धारी, स्त्री, (गान्धारस्य गान्धारराजस्य

अपत्यं स्त्री । इञ् ततो ङीप् ।) धृतराष्ट्रराज-
पत्नी । सा तु दुर्य्योधनमाता । इति महाभार-
तम् ॥ (इयं हि हरमाराध्य शतपुत्त्रवरं लब्ध-
वती । यथा, महाभारते । १ । ११० । ९ ।
“अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ।
आराध्य वरदं देवं भगनेत्रहरं हरम् ॥
गान्धारी किल पुत्त्राणां शतं लेभे वरं शुभा ॥”
पार्व्वतीसहचरीभेदः । यथा, तत्रैव । ३ । २३० । ४८ ।
“गौरी विद्याथ गान्धारीकेशिनी मित्रसाह्वया ॥”
गायत्रीस्वरूपा महादेवी । यथा, देवीभाग-
वते । १२ । ६ । ४० ।
“गायत्री गोमती गीता गान्धारी गानलोलुपा ॥”
गङ्गा । यथा, काशीखण्डे । २९ । ५१ ।
“गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा ॥”
“गां धारयतीति गान्धारी ।” इति तट्टीका ॥
नाडीविशेषः । यथा, सङ्गीतदर्पणे । २६ ।
“सुषुम्नेडा पिङ्गला च कुहूरथ पयस्विनी ।
गान्धारी हस्तिजिह्वा च वारणाथ यशस्विनी ॥”)
जिनानां शासनदेवताविशेषः । इति हेम-
चन्द्रः ॥ यवासः । इति राजनिर्घण्टः ॥ दुरा-
लभा । इति भावप्रकाशः ॥ मादकद्रव्यविशेषः ।
गाँजा इति भाषा ॥ इति विष्णुसिद्धान्तसारा-
बलीवैद्यकग्रन्थः ॥

गान्धारेयः, पुं, (गान्धार्य्या अपत्यं पुमान् । “स्त्रीभ्यो

ढक् ।” ४ । १ । १२० । इति ढक् ।) दुर्य्योधनराजः ।
इति त्रिकाण्डशेषः ॥ (दुःशासनादयोऽपि ॥)

गान्धिकः, पुं, (गन्धयते परप्रार्थनां गच्छतीति ।

गन्ध क ङ गतौ + णिनिः । ततः स्वार्थे कन् ।
यद्वा, गन्धो गर्व्वोऽस्यास्तीति । गन्ध + “अत
इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
लेखकः । सुगन्धिव्यवहारी । गन्धबणिक् इति
ख्यातः । इति मेदिनी । के । ८३ ॥ स तु अम्ब-
ष्ठात् राजपुत्त्र्यां जातः । इति पराशरपद्धतिः ॥
(अयं हि नायकस्य शृङ्गारसहायेषु अन्यतमः ।
यथा, साहित्यदर्पणे । ३ । ४६ ।
“शृङ्गारस्य सहाया विटवेटविदूषकाद्याः स्युः ।
भक्ता नर्म्मसु निपुणाः कुपितबधूमानभञ्जनाः
शुद्धाः ॥
आदिशब्दात् मालाकाररजकताम्बूलिकगान्धि-
कादयः ॥”) कीटविशेषः । इति शब्दरत्ना-
वली ॥ गाँधिपोका इति भाषा ॥ (गान्धं गन्ध-
प्रधानं द्रव्यमस्यास्ति । ठन् । गन्धप्रधानद्रव्यविशिष्टे
त्रि । यथा, पञ्चतन्त्रे । १ । १३ ।
“पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चना- दिभिः ।
यत्रैकेन च यत् क्रीतं तच्छतेन प्रदीयते ॥”)

गामुकः, त्रि, (गच्छतीति । गम गतौ + “लषपत-

पदेति ।” ३ । ३ । १५४ । इति उकञ् ।)
गन्ता । इति व्याकरणम् ॥

गार्म्भीर्य्यं, क्ली, (गम्भीरस्य भावो गम्भीरे भवं

वा । “गम्भीराञ्ञ्यः ।” ४ । ३ । ५८ । इति
ञ्यः ।) गम्भीरता । यथा, --
“मेघनिर्घोषगार्म्भीर्य्यं प्रतिनादविधायिता ।”
इति जिनयाल्गुणे हेमचन्द्रः ।
(इदं हि नायकस्य सात्त्विकगुणविशेषः । यथा,
साहित्यदर्पणे । ३ । ५८ ।
“शोभा विलासो माधुर्य्यङ्गाम्भीर्य्यं धैर्य्यतेजसी ।
ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥”
तस्य लक्षणम् । यथा, तत्रैव । ३ । ६२ ।
“भीशोकक्रोधहर्षाद्यैर्गाम्भीर्य्यं निर्व्विकारता ॥”
उदाहरणम् । यथा, --
“आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥”)

गायकः, त्रि, (गायतीति । गै गाने + ण्वुल् ।)

गानकर्त्ता । इति शब्दरत्नावली ॥ (यथा,
माघे । ११ । १० ।
“कलमविकलतालं गायकैर्बोधहेतोः ॥”)
तत्पर्य्यायः । गायनः २ गाथकः ३ । इति
त्रिकाण्डशेषः ॥ गाता ४ । तस्य दोषा यथा, --
“लज्जितं भीतमुत्तेषु अव्यक्तमनुनासिकम् ।
काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥
विस्वरं विरमञ्चैव विश्लिष्टं विषमाहतम् ।
व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्द्दश ॥”
इति सङ्गीतदामोदरः ॥

गायत्त्री, [न्] पुं, (गायन्तं त्रायते इति । गायत्

+ त्रै + णिनिः । आलोपात् साधुः ।) खद्रिर-
वृक्षः । इति भरतः ॥ (खदिरशब्दे गुणादिकं
ज्ञेयम् ॥ गायत्त्रं स्तोत्रमस्यास्तीति गायत्त्र +
“अत इनिठनौ ।” ५ । २ । ११५ । इति
इनिः । उद्गातरि सामगायके त्रि । यथा,
ऋग्वेदे । १ । १० । १ ।
“गायन्ति त्वा गायत्त्रिणोर्च्चन्त्यर्कमर्किणः ॥”)

गायत्त्री, स्त्री, (गायन्तं त्रायते इति । त्रै ङ पालने

+ “आतोऽनुपसर्गे कः ।” ३ । २ । ३ इति कः ।
ततो गौरादित्वात् ङीष् ।) स्वदिरवृक्षः । इत्य-
मरः । २ । ४ । ४९ ॥ (यथा, वैद्यके बृहन्मञ्जि-
ष्ठादिक्वाथे ।
“मूर्व्वादारुकनिङ्गभृङ्गमगधा त्रायन्ति पाठावरी
गायत्त्री त्रिफलाकिरातकमहानिम्बासनारग्ब-
धम् ॥”)
षडक्षरच्छन्दोविशेषः । तस्यावृत्तिस्त्रिविधा
यथा । तनुमध्या १ शशिवदना २ सोमराजी ३ ।
आद्यायाः आद्यन्तयोर्गुरुद्वये मध्ये लघुद्वयम् ॥
द्वितीयायाः आदिमध्ययोर्लघुद्वये अन्ते गुरु-
द्वयम् ॥ तृतीयायाः आदिमध्ययोर्लघुगुरू मुरु-
लघू अन्ते गुरुद्वयम् ॥ क्रमेणोदाहरणानि यथा ।
आस्तां मम चित्ते नित्यं तनुमध्या ॥ १ ॥ शशि-
वदनानां व्रजतरुणीनाम् ॥ २ ॥ हरे सोमराजी
समा ते यशःश्रीः ॥ ३ ॥ इति छन्दोमञ्जरी ॥ * ॥
दुर्गा । यथा, --
“गायनाद्गमनाद्वापि गायत्त्री त्रिदशार्च्चिता ।
साधनात् सिद्धिरित्युक्ता साधका वाथ ईश्वरी ॥”
इति देवीपुराणे देवीनिरुक्तनाम ४५ आध्यायः ॥
(सा च गायत्त्रीरूपेण ब्रह्मण्येव वर्त्तते । यथा,
देवीभागते । ७ । ३० । ८१ ।
“गायत्त्री वेदवदने पार्व्वती शिवसन्निधौ ॥” * ॥
पृष्ठ २/३२५
गङ्गा । यथा, काशीखण्डे । २९ । ५३ ।
“गुणनीयचरित्रा च गायत्त्री गिरिशप्रिया ॥”)
त्रिपदा देवी । इति मेदिनी । रे । १५० ॥ सा
तु त्रिपादष्टाक्षरच्छन्दोयुक्तमन्त्रात्मिका वेद-
माता द्विजैरुपास्या । (यथाह मनुः । २ ।
७७--७८ ।
“त्रिभ्य एव तु बेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥
एतदक्षरमेकाञ्च जपन् व्याहृतिपूर्ब्बिकाम् ।
सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥”
इयमेव सव्याहृतिका ब्रह्मपदप्राप्तेर्द्वाररूपं तस्मात्
प्रत्यहं ब्राह्मणैर्व्याहृतिपूर्ब्बिकेयं अध्ययनीया ।
यदुक्तं तत्रैव । २ । ८१--८३ ।
“ओङ्कारपूर्ब्बिकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥
योऽधीतेऽहन्यहन्येतान्त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्त्तिमान् ॥
एकाक्षरं परं ब्रह्म प्राणायामाः परन्तपः ।
सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशि-
ष्यते ॥”)
तस्या नामव्युत्पत्तिर्यथा, स्मृतौ ।
“गायन्तं त्रायते यस्मात् गायत्त्री त्वं ततः स्मृता ॥”
सापि ब्रह्मणः पत्नी । यथा, --
“अध्वर्य्युणा समाहूता एहि देवि ! त्वरान्विता ।
उद्धृताश्चाग्नयः सर्व्वे दीक्षाकालमुपागताः ॥
सावित्र्युवाच ।
लक्ष्मीर्नाद्यापि चायाति सती नैवेह दृश्यते ।
बृहदाग्रायणे हूता शक्राणी गच्छती त्विह ।
नाहमेकाकिनी यास्ये यावन्नायान्ति ताः स्त्रियः ॥
ब्रूहि गत्वा विरिञ्चिन्तं तिष्ठत्विहृ मुहूर्त्तकम् ॥
वदमानां तथाध्वर्य्युस्त्यक्त्वा देवमुपागमत् ।
सावित्री व्याकुला देवी प्रसक्ता गृहकर्म्मणि ॥
सख्यो नाभ्यागता यावत् तावन्नागमनं मम ।
एवमुक्तोऽस्मि वै देव ! कालश्चाप्यतिवर्त्तते ॥
यश्च योम्यं भवेदत्र तत् कुरुष्व पितामह ! ।
एवमुक्ते तदा वाक्यं किञ्चित्कोपसमन्वितः ॥
पत्नीञ्चान्यां मदर्थन्तु शीघ्रं त्वञ्च समानय ।
प्रवर्त्तते यथा यज्ञः कालहीनो न जायते ॥
तथा शीघ्रं विधेहि त्वं नारीं काञ्चिदुपानय ।
एवमुक्तस्तथा शक्रो गत्वा सर्व्वं धरातलम् ॥
स्त्रियो दृष्टास्तु यास्तेन सर्व्वास्तास्तु परिग्रहाः ।
आभीरकन्या सुरूपा सुभाषा चारुलोचना ॥
ददर्श तां सुचार्व्वङ्गीं कमलायतलोचनाम् ।
कासि कस्य कुतश्च त्वमागता सुभ्रु ! कथ्यताम् ॥
एकाकिनी किमर्थञ्च वीथिमध्येऽवतिष्ठसे ।
रूपान्विता च सा कन्या शक्रं प्रोवाच वेपती ॥
गोपकन्या अहं वीर ! विक्रेतुमिह गोरसम् ।
समागता घृतादीनां प्रगृह्णीष्व यथेप्सितम् ॥
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम् ।
आनीय तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः ॥
कमलाक्षीं स्फुरद्वाणीं पुण्डरीकनिभेक्षणाम् ।
गान्धर्व्वेण तदा ब्रह्मा ग्रहीतुं मन आदघे ॥
प्रभुत्वमात्मनो दाने गोपकन्नाप्यमन्यत ।
यदेवं मां सुरूपत्वादिच्छत्यादातुमाग्रहात् ॥
नास्ति सीमन्तिनी काचिन्मत्तो धन्यतरा यतः ।
अनेनाहं समानीता यस्य दृग्गोचरं गता ॥
एवं चिन्तापरा दीना यावत् सा गोपकन्यका ।
भवत्येषा महाभागा गायत्त्री नामतः प्रभो ! ॥
तावदेव महाविष्णुः प्रोक्तवानिदमुत्तमम् ।
अनुग्रहेण देवेश ! अस्याः पाणिग्रहं कुरु ॥
गन्धर्व्वेण विवाहेन उपयेमे षितामहः ॥” * ॥
अस्या ध्यानं यथा, --
“श्वेता त्वं श्वेतरूपासि शशाङ्केन समा मता ।
बिभ्रती विपुलावूरू कदलीगर्भकोमलौ ॥
एणशृङ्गं करे गृह्य पङ्कजञ्च सुनिर्म्मलम् ।
वसाना-सने क्षौमे रक्ते चाद्भुतदर्शने ॥
शशिरश्मिप्रकाशेन हारेणोरसि राजसे ।
दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥
चन्द्रमोगणयुक्तेन मुकुटेन विराजसे ।
मुकुटेन त्रिग्रन्थेन केशबन्धेन शोभिना ॥
भुजगाभीगसदृशौ भुजौ भ्राजयतो दिशः ।
स्तनौ ते कठिनौ देवि ! वर्त्तुलौ समचूचुकौ ॥
जघनेनातिशुभ्रेण त्रिवलीभिश्च संयुता ।
विस्तीर्णस्पष्टजघना सुश्रोणी च वरानना ॥
चारुरूपोरुयुगला अम्बुजाभरणा तथा ।
त्रैलोक्यचारिणी सा त्वं जगतामेव पावनी ॥”
अस्या वैदिकतान्त्रिकध्यानद्वयं गुह्यत्वादत्र न
लिखितम् ॥ * ॥ तस्या जपफलं तत्र ब्राह्मणान्
प्रति गायत्त्रीवाक्यम् ।
“विशेषात् पुष्करे स्नात्वा मां जप्त्वा वेदमातरम् ।
प्रतिग्रहकृतान् दोषान्न प्राप्स्यथ द्विजोत्तमाः ! ॥
मदीयैः किलजप्यैस्तु तारणाय त्रिभिः कृतैः ।
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ।
त्रियुगन्तु सहस्रेण नात्र कार्य्या विचारणा ॥
अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विदम् ।
माताहं सर्व्ववेदानां पदैः सर्व्वैरलङ्कृता ॥
जप्त्वा मां परमां सिद्धिं यास्यन्ति द्बिजसत्तमाः ! ।
प्राधान्यं मम जाप्येन सर्व्वेषां वो भविस्यति ॥” * ॥
तस्या माहात्म्यादि यथा, --
“उपलभ्य च सावित्रीं नोपतिष्ठेत यो द्विजः ।
काले त्रिकालं सप्ताहात् स पतेन्नात्र संशयः ॥
गायत्त्रीमन्त्रतोयाढ्यं दत्तं येनाञ्जलित्रयम् ।
काले सावित्रिकेण स्यात्तेन दत्तं जगत्त्रयम् ॥
अष्टादशसु विद्यासु मीमांसाऽतिगरीयसी ।
ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥
ततोऽपि धर्म्मशास्त्राणि तेभ्यो गुर्व्वी श्रुतिर्नृप ! ।
ततो ह्युपनिषत् श्रेष्ठा गायत्त्री च ततोऽधिका ॥
वाच्यवाचकसम्बन्धो गायत्त्र्याः सवितुर्द्बयोः ।
वाच्योऽसौ सविता साक्षात् गायत्त्री वाचिका
परा ॥
तां देवीमुपतिष्ठन्ते ब्राह्मणा ये जितेन्द्रियाः ।
सूर्य्यलोकं ते प्रयान्ति क्रमान्मुक्तिञ्च पार्थिव ! ॥”
इति पद्मपुराणम् ॥ * ॥
अथ गायत्त्रीकल्पः ।
“जपन् हि पावनीं देवीं गायत्त्रीं वेदमातरम् ।
तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः ॥
न सीदेत् प्रतिगृह्णन् स त्वपि पृथ्वीं ससागराम् ।
द्बे सन्ध्ये ह्युपतिष्ठेत गायत्त्रीं प्रयतः शुचिः ॥
यस्तस्य दुष्कृतं नास्ति पूर्ब्बतः परतोऽपि वा ।
यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः ॥
गायत्त्रीध्यानपूतस्य कलां नार्हति षोडशीम् ।
एवं किल्विषयुक्तस्तु विनिर्द्दहति पातकम् ॥
उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः ।
छन्दस्तस्यास्तु गायत्त्रं गायत्त्रीत्युच्यते ततः ॥
गायन्तं त्रायते यस्मात् गायत्त्री तु ततः स्मृता ।
मरीचे ! कारणात्तस्मात् गायत्त्री कीर्त्तिता मया ॥
तव बुद्धिमतां श्रेष्ठ ! नित्यं सर्व्वेषु कर्म्मसु ।
सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ॥
जपन्ति ये सदा तेषां न भयं विद्यते क्वचित् ।
दशकृत्वः प्रजप्ता सा रात्र्यह्नोर्यत् कृतं लघु ॥
तत् पापं प्रणुदत्याशु नात्र कार्य्या विचारणा ।
शतं जप्ता तु सा देवी पापौघशमनी स्मृता ॥
सहस्रं जप्ता सा देवी महापातकनाशिनी ।
लक्षजाप्येन साप्येवं सप्त जन्मानि पातकम् ॥
कोटिजाप्येन विप्रर्षे ! यदिच्छति तदाप्नुयात् ।
यक्षविद्याधरत्वे वा गान्धर्व्वे दैवतेऽपि बा ॥
यत्र यत्र भवेद्वाञ्छा तत्तदाप्नोत्यसंशयम् ।
दशसाहस्रजाप्येन निष्कामः पुरुषो यदि ॥
विधिना नियतं ध्यायेत् प्राप्नोति परमं पदम् ।
यथाकथञ्चिज्जपिता गायत्त्री पापहारिणी ॥
सर्व्वकामप्रदा प्रोक्ता पृथक्कर्म्मसु निष्ठिता ॥” * ॥
मरीचिरुवाच ।
“विधिना केन कर्त्तव्या गायत्त्री पापनाशिनी ।
पवित्रा परमा ह्येषा सर्व्वकल्याणसाधिनी ॥
वह्निरुवाच ।
सव्याहृतिं सप्रणवां जप्त्वा मासांश्च षोढश ।
अपि भ्रूणहनः पापात् मुच्यन्तेऽहरहःकृतात् ॥
सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः ।
अहोरात्रकृतात् पापात् मुच्यते नात्र संशयः ॥
अन्तर्जले त्रिरावर्त्त्य गायत्त्रीं प्रयतस्तथा ।
मुच्यते पातकैः सर्व्वैर्यदि ब ब्रह्महा भवेत् ॥
नास्ति सत्यात् परो धर्म्मो नास्ति कृष्णात् समा
गतिः ।
गायत्त्र्याश्च समं नास्ति दिवि चेह च पावनम् ॥
हुता च वरदा देवी सर्व्वकामफलप्रदा ।
गायत्त्र्याश्च तिलैर्होमः सर्व्वपातकनाशनः ॥
शान्तिकामो यवैः कुर्य्यादायुष्कामो घृतेन तु ।
कर्म्मान्तसिद्धिकामस्तु कुर्य्यात् सिद्धार्थकैर्नरः ॥
ब्रह्मवर्च्चसकामस्तु पयसा च समाचरेत् ।
पुत्त्रकामः सदा दध्ना धान्यकामस्तु शालिभिः ॥
क्षीरवृक्षसमिद्भिस्तु ग्रहपीडोपशांन्तये ।
धनकामस्तथा विल्वैः श्रीकामः कमलैस्तथा ॥
आरोम्यकामः क्षीराक्तैः कुर्य्यात् दूर्व्वाङ्कुरैस्तथा ।
पृष्ठ २/३२६
देशोपसर्गे संप्राप्ते तदेव च विधीयते ॥
गुग्गुलैर्गुटिकाभिस्तु कृत्वा होममतन्द्रितः ।
सौभाग्यं महदाप्नोति नात्र कार्य्या विचारणा ॥
पायसेन तथा हुत्वा विद्यां समधिगच्छति ॥” * ॥
“येन येन तु कामेन लक्षहोमं समाचरेत् ॥
तं तं काममवाप्नोति नात्र कार्य्या विचारणा ।
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥
अन्तर्जले च तां जप्त्वा स्नातो नित्यमतन्द्रितः ।
प्राणायामांस्ततः कृत्वा विधानेनैव षोडश ॥
पूर्ब्बाह्णे जुहुयादग्नौ सुसमिद्धे यथाविधि ।
भैक्षया च कणाशी वा फलमूलाशनोऽपि वा ॥
क्षीरशक्तुघृताहारो भवेत्तत्र विचक्षणः ।
आहाराणां यथोक्तानामेकाहारं समाश्रयेत् ॥
समाप्तिर्लक्षहोमस्य यावद्भवति नित्यशः ।
लक्षहोमावसाने तु ब्राह्मणेभ्वस्तु दक्षिणा ॥
देया भवति शक्त्या तु गावो वरन्नाणि काञ्चनम् ।
सर्व्वोत्पातसमुत्पत्तौ सर्व्वं भवति शोभनम् ॥
पञ्चभिर्दशभिर्व्वाथ लक्षहोमं समाचरेत् ।
असङ्कीर्णे तथा दोषे नृपतिस्तत्प्रशान्तये ॥
नास्ति लोके स उत्पातो यो ह्यतो नोपणाम्यति ।
मङ्गलञ्च परं नास्ति यदस्मादतिरिच्यते ॥
ग्रहशान्तिं पुरा कृत्वा मन्त्रैः स्वैः स्वैः शृणुष्व तान् ।
इन्द्रायाग्नये सोमाय नमः प्रजापतेस्तथा ॥
व्याहृतिभ्यस्ततः पश्चात् पूर्णाहुतिमथाददेत् ।
गणानान्त्वेति वा कृष्ण इमं देवेति चेन्दवे ॥
अग्निर्मूर्द्धेत्युद्बुध्यस्व बृहस्पतेति प्रयोजयेत् ।
अन्नात् परिश्रुतेनैव सन्नो देवीस्ततः पुनः ॥
कया न इति राहोर्व्वै केतुं कृण्वेति केतवे ।
त्र्यम्बकेन तु रौद्रन्तु होमयेज्जातवेदसि ॥
सर्व्वं गायत्त्रीहोमन्तु लक्षहोमे प्रकल्पयेत् ।
दिक्पालेभ्यश्च होतव्यं भूतेभ्यश्च ततः क्रमात् ॥
मरुत्वमग्निं दूतं वै यस्मिन् वृक्षे नमामि तम् ।
वरुणं वो रिशा दश वयमुत्त्वा पथस्य ते ॥
सोमं राजानमवसे ब्रह्मरुद्राय वै तथा ।
क्षेत्रस्य पतिना चैव भूतानां पतये तथा ॥
रक्षोघ्नेनैव मन्त्रेण होतव्यं विधिपूर्ब्बकम् ।
घृताक्ताभिः समिद्भिश्च तिलहोमं ततः परम् ॥
दशैकं प्रति वा कुर्य्यादष्टाविंशतिमेव च ।
एकैकं प्रति पूर्णा स्यात्तदत्र ऋषिसत्तमाः ॥
ब्रह्मवृक्षोद्भवाश्चेध्मास्तथा दूर्व्वाङ्कुरोद्भवाः ।
होतव्या लक्षहोमे तु गायत्त्र्याः कामिकं परम् ॥
श्रीसूक्तं पावमानञ्च पौरुषं शाम्भवं तथा ।
रौद्रमैन्द्रञ्च रामञ्च ज्येष्ठसाम बृहद्रथम् ॥
महाजपन्तु होमान्ते कुर्य्यात् वै सर्व्वसिद्धिदम् ।
सम्यक् पूर्णां ततो दद्यात् सप्तते अभिमन्त्रितम् ॥
नमो ब्रह्मणेति चामन्त्र्य स्रग्विणञ्च नवं घटम् ।
रन्नैर्बीजैः शुभैर्व्वस्त्रैर्हेम्ना चैव तु संयुतम् ॥
तज्जलेनाभिषिञ्चेत देवस्य त्वेति वै तदा ।
धन्वनागादिभिर्मन्त्रैरभिषिञ्चेत्ततः क्रमात् ॥
एवं यः कुरुते राजा लक्षहोमं यतव्रतः ।
न तस्य शत्रवः सङ्ख्ये अग्रे तिष्ठन्ति कर्हिचित् ॥
न चैव मरको देशे व्याधिर्व्वा जायते तथा ।
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ॥
राक्षसाद्या विनश्यन्ति सर्व्वास्तत्र तथेतयः ।
रसवन्ति च तोयानि शस्यञ्च निरुपद्रवम् ॥
जायते यस्य या चेष्टा धर्म्मिष्ठा सा न किं भवेत् ॥ * ॥
कोटिहोमन्तु यो राजा कारयेद्विधिपूर्ब्बकम् ॥
न तस्य मानसो दाह इह लोके परत्र च ।
कोटिहोमे तु वरयेत् ब्राह्मणान् विंशतिं नृप ! ॥
शतं वाथ सहस्रं वा य इच्छेद्गतिमात्मनः ।
कोटिहोमं स्वयं यस्तु कुरुते श्रद्धया द्विजः ॥
क्षत्त्रियो वाथ वैश्यो वा तस्य पुण्यफलं महत् ।
यद्यदिच्छति कामानां तत्तदाप्नोत्यसंशयम् ॥
सशरीरोऽपि चेद्गन्तुं दिवमिच्छेत्तदाप्नुयात् ।
सावित्री परमा देवी सावित्री पावनं परम् ॥
सर्व्वकामप्रदा चैव सावित्री कथिता तव ।
अभिचारेषु तां देवीं विपरीतां विचिन्तयेत् ॥
कार्य्या व्याहृतयश्चात्र विपरीताक्षरास्तथा ।
विपरीताक्षरं कार्य्यं शिरश्च ऋषिसत्तम् ! ॥
आदौ शिरः प्रयोक्तव्यं प्रणवोऽन्तेन वै ऋषे ! ।
मतिस्थेनैव फट्कारं मध्ये नाम प्रकीर्त्तितम् ॥
गायत्त्रीं चिन्तयेत्तत्र दीप्तानलसमप्रभाम् ।
घातयन्तीं त्रिशूलेन केशेष्वाक्षिप्य वैरिणम् ॥
निद्दहन्तीं त्रिशूलेन भृकुटीभूषिताननाम् ।
उच्चाटने तु तां देवीं वायुभूतां विचिन्तयेत् ॥
धावमानं तथा साध्यं तस्माद्देशात्तु दूरतः ।
अभिचारेषु होतव्या राजिका विषमिश्रिताः ॥
स्वरक्तमिश्रं होतव्यं कटुतैलमथापि वा ।
तत्रापिं च विषं देयं होमकाले प्रयत्नतः ॥
क्रोधेन महताविष्टः परान्नाभिचरेद्बधः ।
न जह्यात् यदि क्रोधेन ध्रुवं नश्येत् स एव तु ॥
अनागसि न कर्त्तव्यमभिचारमतो बुधैः ।
स्वल्पागसि न कर्त्तव्यो ह्यभिचारो महामुने ! ॥
महापराघं बलिनं देवब्राह्मणकण्टकम् ।
अभिचारेण यो हन्यान्न स दोषेण लिप्यते ॥
धर्म्मप्रदाने तु तथा स्वल्पागसि तथैव च ।
अभिचारं न कुर्व्वीत बहुपापं विचक्षणः ॥
बहूनां कण्टकं यस्तु पापात्मानं सुदुर्म्मतिम् ।
हत्यात् प्राप्तापराधन्तु तस्य पुण्यफलं महत् ॥
ये भक्ताः पुण्डरीकाक्षे वेदयज्ञे द्विजे जने ।
न तानभिचरेत् जातु तत्र तद्विफलं भवेत् ॥
न हि केशवभक्तानामभिचारेण कर्हिचित् ।
विनाशमभिपद्येत तस्मात्तन्न समाचरेत् ॥
सेयं थात्री विधात्री च सावित्र्यघविनाशिनी ।
प्राणायामेन जप्येन तथा चान्तर्ज्जलेन च ॥
सव्याहृतीकप्रणवा जप्तव्या शिरसा सह ।
प्रणवेन तथा न्यस्ता वाच्या व्याहृतयः पृथक् ॥
दैवतं सविताप्यस्या गायत्त्रं छन्द एव च ।
विश्वामित्र ऋषिश्चैव प्रोच्यते ऋषिसत्तम ! ॥
कर्म्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्द्रियाणि च ।
पञ्चेन्द्रियार्थाः सुमहत् भूतानां पञ्चपञ्चकम् ॥
मनो बुद्धिस्तथैवात्मा अव्यक्तमृषिसत्तम ! ।
चतुर्व्विंशत्यथैतानि गायत्त्र्यास्त्वक्षराणि तु ॥
प्रागेवं पुरुषं विद्धि सङ्गतं पञ्चविंशकम् ।
सप्तलोकाश्च ये चेह महाव्याहृतयस्तथा ॥
शिरश्च तत्तथा वाच्यः पुरुषः परमेश्वरः ।
एवंविधा च गायत्त्री जप्तव्या राजसत्तम ! ॥
होतव्या च यथाशक्त्या सर्व्वकामसमृद्धिदा ।
सावित्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥
नायन्त्रितश्चतुर्व्वेदी सर्व्वाशी सर्व्वविक्रयी ।
गायत्त्रीं जपते यस्तु त्रिकालं ब्राह्मणः सदा ॥
अर्थी प्रतिग्रही वापि स गच्छेत् परमां गतिम् ।
गायत्त्रीं जपते यस्तु कल्यमुत्थाय यो द्बिजः ॥
स लिम्पति न पापेन पद्मपत्रमिवाम्भसा ।
कामकामी लभेत् कामान् गतिकामश्च सद्गतिम् ॥
अकामः समवाप्नोति तद्विष्णोः परमं पदम् ॥”
इत्याद्ये वह्निपुराणे गायत्त्रीकल्पनामाध्यायः ॥

गायनः, त्रि, (गायति सङ्गीतविद्यया उपजीव-

तीति । गै + “ण्युट् च ।” ३ । १ । १४७ । इति
ण्युट् ।) गायकः । (यथा, काशीखण्डे ।
“देवानां गायना ह्येते चारणाः स्तुतिपाठकाः ॥”)
गानोपजीवी । इति त्रिकाण्डशेषः ॥ (एतेषा-
मन्नं विशुद्धब्राह्मणादिभिरग्राह्यं पतितत्वात् ।
यथाह मनुः । ४ । २१० ।
“स्तेनगायनयोश्चान्नं तक्ष्णोर्वार्द्धुषिकस्य च ॥”)
जल्पाकः । इति धरणी ॥ (स्तुतिपाठकः ।
यथा, महाभारते । १ । ७८ । ३२ ।
“सत्यं किलैतत् सा प्राह दैत्यानामसि गायनः ॥”)

गारित्रं, क्ली, (गीर्य्यते भक्ष्यते इति । गॄ निगरणे

+ “भूवादिगॄभ्यो णित्रन् ।” उणां ४ । १७० । इति
कर्म्मणि णित्रन् ।) ओदनम् । इत्युणादिकोषः ॥

गारुडं, क्ली, (गरुडस्य इदमिति । गरुड + अण्

वृद्धिश्च । यद्वा, गरुडं श्रोतारमालम्ब्य भगवता
यदुपदिष्टम् । यद्बा, गरुडेन प्रोक्तमिति । तन्नि-
रुक्तिरुक्ता शिवपुराणे यथा, --
“गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञकम् ।”)
गरुडपुराणम् । इति पुराणम् ॥ यथा, --
गरुड उवाच ।
“मम माता च विनता नागैर्दासीकृता हरे ! ।
यथाहं दैवतान् जित्वा चामृतं ह्यानयामि तत् ॥
दास्याद्धि मोक्षयिष्यामि यथाह्रं वाहनं तव ।
महाबलो महावीर्य्यः सर्व्वज्ञो नागदारणः ।
पुराणसंहिताकर्त्ता यथाहं स्यां तथा कुरु ॥
विष्णुरुवाच ।
यथा त्वयोक्तं गरुड ! तथा सर्व्वम्भविष्यति ।
देवादीन् सकलान् जित्वा चामृतं ह्यानयिष्यसि ॥
नागदास्यान्मातरं स्वां विनतां मोक्षयिष्यसि ।
महाबलो वाहनन्त्वं भविष्यसि विषार्द्दनः ॥
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ।
यदुक्तं मत्स्वरूपञ्च तव चाविर्भविष्यति ॥
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ।
यथाहं देवदेवानां श्रीः ख्याता विनतासुत ! ॥
तथा ख्यातिं पुराणेषु गारुडं गरुडैष्यति ।
यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना ॥
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ।
इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ॥
पृष्ठ २/३२७
कश्यपो गरुडं स्तुत्वा वृक्षं दग्धमजीवयत् ।
स्वयञ्चाप्यमलो भूत्वा विद्ययान्यानजीवयत् ॥
पक्षी ओम् तं स्वाहा जापी विद्येयं गारुडी
परा ।
गरुडोऽहं गारुडं हि शृणु रुद्र ! महात्मकम् ॥”
इत्याद्ये महापुराणे गारुडे प्रश्नाध्यायो नाम
द्बितीयः ॥ * ॥ (अस्मिन् पुराणे एकोनविंशत्-
सहस्रसंख्यकश्लोका वर्त्तन्ते । यथा, देवीभाग-
वते । १ । ३ । ११ ।
“एकोनविंशत् साहस्रं गारुडं हरिभाषितम् ॥”
अस्य विणेषविवरणन्तु पुराणशब्दे द्रष्टव्यम् ॥ * ॥)
गारुडी विद्या गरुडपुराणे २०२ अध्यायादौ
द्रष्टव्या ॥ स्वर्णम् । इति हेमचन्द्रः ॥ विषमन्त्रः ।
इति जटाधरः ॥ (गरुडः गरुडवर्णस्तस्येदम् ।
नरुड + अण् । गरुडवर्ण इव वर्णोऽस्येति भावः ।)
मरकतमणिः । इति राजनिर्घण्टः ॥ (यथा-
रघौ । १३ । ५३ ।
“त्वया पुरस्तादुपयाचितो यः
सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां
सपद्मरागः फलितो विभाति ॥”
गरुडाकारेण सेनारचनयाधिष्ठितत्वात् महा-
व्यूहभेदः । यथा, महाभारते । ६ । ५३ । २ ।
“गारुडञ्च महाव्यूहं चक्रे शान्तनवस्तदा ॥”
एतस्य रचनायां गरुडाकृतित्वविवृतिर्यथा,
तत्रैवाध्याये । ३--८ ।
“गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ।
चक्षुषी च भरद्वाजः कृतवर्म्मा च सात्त्वतः ॥
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ ।
त्रिगर्त्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतैः ॥
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ! ।
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः ।
पृष्ठे दुर्य्योधनो राजा सोदर्य्यैः सानुगैर्वृतः ॥
विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह ।
पुच्छमासन् महाराज ! शूरसेनाश्च मारिष ! ॥
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ।
कारूषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा ॥
बृहद्बलेन सहिता वामपार्श्वे समास्थिताः ॥”
कदा वास्य व्यूहस्य प्रयोजनं तदाह मनुः ।
७ । १८६--१८७ ।
“शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥”
“सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः ।
एष एव पृथुतरमध्यो गरुडव्यूहः ॥” इति तट्टीका-
कृत् कुल्लूकभट्टः ॥)

गारुडिकः, पुं, (गरुडः अधिष्टाताऽस्य इति

गारुडः विषनिवारणमन्त्रविशेषः । तेन चिकित्-
सति स एव आजीवो यस्येति वा । इति ठक् ।)
विषवैद्यः । इति शब्दरत्नावली ॥

गारुडी, स्त्री, (गरुडनाम्नाख्यायते इति । अण्

ङीप् च ।) पातालगरुडीलता । इति राज-
निर्घण्टः ॥ (गरुडः अधिष्ठात्री देवता अस्या इति
अण् ङीप् च । गरुडविद्या । सा च गरुडपुराणे
२०२ अध्यायादौ द्रष्टव्या ॥)

गारुत्मतं, क्ली, (गरुत्मान् गरुडस्तस्य वर्णोऽस्त्यस्य

गरुत्मान् अधिष्टातृदेवताऽस्य वा इति अण् ।)
मरकतमणिः । इत्यमरः । २ । ९ । ९२ ॥
(यथा, माघे । ३ । ५ ।
“तस्योल्लसत्काञ्चनकुण्डलाग्र-
प्रत्युप्तगारुत्मतरत्नभासा ।”
पन्ना इति लोके । तस्य नामानि ।
“गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

गारुत्मतपत्त्रिका, स्त्री, (गारुत्मतं मरकतमणि-

स्तद्वर्णसदृशं पत्त्रमस्याः इति कप् कापि अत
इत्वञ्च ।) पाचीलता । इति राजनिर्घण्टः ॥

गार्गकः, पुं, (गर्गस्य अपत्यं पुमान् इति । “गर्गा-

दिभ्यो यञ् ।” ४ । १ । १०५ । इति गार्ग्यः
ततः कन् । “आपत्यस्य च तद्धितेऽनाति ।” ६ ।
४ । १५१ । इति यकारलोपः ।) गर्गस्यापत्यम् ।
इत्यमरटीकायां रायमुकुटः ॥

गार्गी, स्त्री, (गर्गस्यापत्यं स्त्री । “गर्गादिभ्यो

यञ् ।” ४ । १ । १०५ । इति यञ् । “यञश्च ।”
४ । १ । १६ । इति ङीप् “ततो हलस्तद्धितस्य ।”
६ । ४ । १५० । इति यलोपः ।) गर्गस्य स्त्र्यप-
त्यम् । इति मुग्धबोधम् ॥ (यथा, बृहदारण्यके
पञ्चमप्रपाठके ६ ब्राह्मणे ।
“अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्केति
होवाच यदिदं सर्व्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु
खल्वाप ओताश्च प्रोताश्चेति ॥” दुर्गा । यथा,
हरिवंशे । १७६ । १४ ।
“ह्रीं श्रीं गार्गीञ्च गान्धारीं योगिनीं योगदां
सदा ॥”)

गार्गीपुत्त्रकायणिः, पुं, (गार्ग्याः पुत्त्रस्तस्मादागतो

वंशः इति । “पुत्त्रान्तादन्यतरस्याम् ।” ४ । १ ।
१५९ । इति वा फिञ् वा कुक् च ।) गार्गी-
पुत्त्रवंशः । अस्य रूपान्तरम् । गार्गीपुत्त्रायणिः ।
गार्गीपुत्त्रिः । इति पाणिनिव्याकरणम् ॥

गार्ग्यः, पुं, (गर्गस्यापत्यं पुमान् । “गर्गादिभ्यो यञ् ।”

४ । १ । १०५ । इति यञ् ।) गर्गस्य पुमपत्यम् ।
इति मुग्धबोधव्याकरणम् ॥ (यथा, बृहदा-
रण्यके । ४ । १ । “दृप्तबालाकिर्हानूचानो
गार्ग्य आस सहोवाचाजातशत्रुं काश्यं ब्रह्म ते
ब्रुवाणीति ॥”)

गार्द्धपक्षः, पुं, (गृद्धस्य गृध्रस्य वायमिति अण् गार्द्धो

गार्द्ध्रो वा पक्षः पत्त्रं यत्र यस्य वा ।) गार्द्ध्र-
पत्त्रवाणः । इति हेमचन्द्रः । ३ । ४४२ ॥ गार्द्ध्र-
पक्षोऽपि ॥

गार्द्ध्यं, क्ली, (गर्द्ध एव इति । चतुर्वर्णादित्वात्

स्वार्थे ष्यञ् ।) लिप्सा । यथा, माघे । ३ । ७३ ।
“पीत्वा जलानां निधिनातिगार्द्ध्यात् ॥”

गार्द्ध्रपत्त्रः, पुं, (गार्द्ध्रं गृध्रसम्बन्धिनं पत्त्रं पक्षः यस्य

यत्र वा ।) गृध्रपक्षयुक्तवाणः । (यथा, महा-
भारते । ४ । ४८ । २५ ।
“न हि गाण्डीवनिर्म्मुक्ता गार्द्ध्र पत्त्राः सुतेजनाः ।
अन्तरेष्वेव तिष्ठन्ते गिरीणामपि दारणाः ॥”)

गार्भिणं, क्ली, (गर्भिणीनां समूहः इति । “भिक्षा-

दिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।)
गर्भिणीसमूहः । इत्यमरः । २ । ६ । २२ ॥

गार्हपत्यः, पुं, (गृहपतिर्यजमानस्तेनं संयुक्तः इति ।

“गृहपतिना संयुक्ते ञ्यः ।” ४ । ४ । ९० । इति
ञ्यः ।) गृहपतिर्गृहस्वामी तेन नित्यसम्बद्धः ।
इत्यमरभरतौ ॥ यज्ञीयाग्निविशेषः । (यथा,
ऋग्वेदे । १० । ८५ । २७ ।
“इह प्रियं प्रजया ते समृध्यता-
मस्मिन् गृहे गार्हपत्याय जागृहि ॥”
भक्तिवर्द्धनाय पितापि गार्हपत्याग्नित्वेन पुत्त्रा-
दिना वेदितव्यः इत्युपदिदेश भगवान् मनुः ।
यथा । २ । २३१ ।
“पिता वै गाहपत्योऽग्निर्माताग्निर्दक्षिणः
स्मृतः ॥”)

गालनं, क्ली, (गाल्यते इति । गल् + णिच् + भावे

ल्युट् ।) क्षारणम् । छाँकन गडान इत्यादि
भाषा ॥ यथा । “तथा पचेत् यथा दाहकाठि-
न्यातिशैथिल्यमण्डगालनरहितोऽन्तरुष्मपक्वश्चरु-
र्भवति ।” इति भवदेवभट्टः ॥

गालवः, पुं, (गाल्यते नाश्यतेऽज्ञानमनेन इति ।

गल् + णिच् + घञ् । गालः वेदान्तादिज्ञानप्रति-
पादकशास्त्रं तं वाति गच्छति जानाति वा ।
वा + कः ।) मुनिविशेषः । (यथा, भागवते ।
८ । १३ । १५ ।
“गालवो दीप्तिमान् रामो द्रोणपुत्त्रः कृपस्तथा ॥”)
लोध्रवृक्षः । इति मेदिनी । वे । ३७ ॥ श्वेतलोध्रः ।
इत्यमरटीकायां स्वाभी ॥ केन्दुकवृक्षः । इति
शब्दचन्द्रिका ॥

गालिः, पुं, (गाल्यते विक्रियते श्रवणमात्रेण

मनो यस्मात् येन वा । गल् + इञ् ।) शापः ।
इति त्रिकाण्डशेषः ॥ (यदुक्तं चिन्तामणौ ।
“ददति ददतु गालीर्गालिमन्तो भवन्तो
वयमपि तदभावाद्गालिदानेऽसमर्थाः ॥”)

गालितः, त्रि, (गल् + णिच् + कर्म्मणि क्तः ।) द्रवी-

कृतः । गलान इति भाषा ॥ यथा, --
“गालितस्य सुवर्णस्य षोडशांशेन सीसकम् ॥”
इति रत्नावली ॥
कृतगालनः । यथा । “तथा पचेत् यथा अगा-
लितमण्डश्चरुर्भवति ।” इति कालेशिः ॥

गालिनी, स्त्री, (गालयति द्रवीकरोत्यविद्यामिति ।)

गल् + णिच् + णिनि + ङीष् ।) मुद्राविशेषः ।
थथा, --
“कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।
तर्ज्जनी मध्यमानामा संहता भुग्नवर्ज्जिता ॥
सुद्रैषा गालिनी प्रोक्ता शद्भम्योपरिचालिता ॥”
इति तन्त्रसारः ॥
पृष्ठ २/३२८

गालोडनं, क्ली, (गाः इन्द्रियाणि आलाड्यन्ते प्रमा-

द्यन्तेऽनेन् । गो + आ + लोडि + करणे ल्युट् ।
निपातनात् साधुः ।) उन्मादः । रोगः । मूर्ख-
त्वम् । इति वक्ष्यमाणशब्ददर्शनात् ॥

गालोडितः, त्रि, (गालोडः उन्मादरोगः सञ्जातो-

ऽस्य । इतच् ।) उन्मत्तः । रुग्नः । मूर्खः । यथा,
“उन्मादशीले रोगार्त्ते मूर्खे गालोडितः स्मृतः ॥”
इति दुर्गसिंहकृतकलापवृत्तिटीकायां त्रिलो
चनदासः ॥ गोलोहितोऽपि पाठः ॥

गालोड्यं, क्ली, (गोभिः पशुविशेषैरालोड्यते भक्ष-

णाय इति । गो + आ + लोडि + कर्म्मणि यत्-
प्रत्ययेन निपातनात् साधुः ।) पद्मबीजम् ।
इति राजनिर्घण्टः ॥

गावौ, पुं, (गोशब्दस्य द्विवचनेन निष्पत्तिरिति

वोध्यम् ।) ग्रामः । यथा--
“एकैकेन तथा द्बाभ्यां वचनैस्त्रिभिरेव च ।
साकाङ्क्षत्वप्रयुक्तन्तु नाम पञ्चविधं स्मृतम् ॥
एकवचनसाकाङ्क्षत्वमुक्तं एकविंशत्यादिशब्दे ।
उभपदं द्विपदं पुष्पवन्तपदं स्वर्व्वैद्ये अश्विनादि-
पदं भूस्वर्गयो रोदस्यादिपदं ग्रामे गोपदञ्च
द्विवचनमात्रेणाकाङ्क्षम् । इति । तदा गावौ ग्राम
इत्यादाविव साधुत्वार्थकमेव तत्र द्विवचनमिति
वदन्ति ।” इति च शब्दशक्तिप्रकाशिका ॥

गाह, ऊ ङ विलोडने । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-सेट् ।) ङ, गाहन्तां महिषा
निपानसलिलमिति शाकुन्तले । ऊ, अगाहिष्ट
अगाढ । इति दुर्गादासः ॥

गिरा, स्त्री, (ग + भावे क्विप् स्त्रियां टाप् ।) वच-

नम् । इति त्रिकाण्डशेषः ॥ (“तां गिरां करुणां
श्रुत्वा ।” इति दशरथविलापनाटकम् ॥)

गिरिः, पुं (गिरति धारयति पृथ्वीं ग्रियते स्तूयते

गुरुत्वाद्वा । “कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ।”
उणां । ४ । १४२ । इति इः किच्च ।) पर्व्वतः ।
इत्यमरः । २ । ३ । १ ॥ (पर्व्वतानां अष्टावेव
पूजनीयाः कुलाचलत्वात् । यदुक्तम्, --
“मेरुमन्दरकैलासमलया गन्धमादनः ।
महेन्द्रः श्रीपर्व्वतश्च हेमकूटस्तथैव च ।
अष्टावेते तु सम्पूज्या गिरयः पूर्ब्बदिक् क्रमात् ॥”
इति शब्दार्थचिन्तामणिः ॥)
गेण्डुकः । इति हेमचन्द्रः । ३ । ३५२ ॥ चक्षू-
रोगविशेषः । इति मेदिनी । रे । २३ ॥ पार-
दस्य दोषविशेषः । यथा, रत्नावल्याम् ।
“नागो वङ्गो मलो वह्निश्चाञ्चल्यञ्च विषं गिरिः ।
असह्याग्निर्महादोषा निसर्गात् पारदे स्थिताः ॥”
सन्न्यासिनां पद्धतिविशेषश्च ॥ (तत्र प्रथमत-
स्तान्त्रिकगिरिसन्न्यासिलक्षणं यथा, --
“सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः ।
सर्व्वत्र समभावेग भावयेद्यो नरोत्तमः ।
इष्टदेवीधिया नारीं स गिरिः परिकीर्त्तितः ॥”
इति तन्त्रशास्त्रम् ॥
शङ्कराचार्य्यकृतदशनामब्रह्मचारिपरिव्राज-
कानामन्यतमः । तेषां दशनामानि यथा, --
“तीर्थाश्रमवनारण्यगिरिपर्व्वतसागराः ।
पुरिः सरस्वती चैव भारती च तथा दश ॥”
तत्र गिरेर्लक्षणम् । यथा, प्राणतोषिण्यां अव-
धूतप्रकरणे ।
“वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः ।
गम्भीराचलबुद्धिश्च गिरिनामा स उच्यते ॥”
यदुवंशीयश्वफल्कस्य द्वादशपुत्त्राणामन्यतमः ।
यथा, भागवते । ९ । २४ । १५--१६ ।
“अक्रूरप्रमुखा आसन् पुत्त्रा द्वादशविशुताः ।
आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः ॥”)

गिरिः, स्त्री, (गॄ + भावे इः किच्च ।) निगरणम् ।

इत्यमरः । ३ । २ । ११ ॥ गेला इति भाषा ॥
बालमूषिका । इत्यमरटीकायां रमानाथः ॥
पूज्ये त्रि । इति मेदिनी । रे । २४ ॥

गिरिकण्टकः, पुं, (गिरेः पर्व्वतस्य कण्टक इव तन्ना-

शकत्वात्तथात्वम् ।) वज्रः । इति त्रिकाण्डशेषः ॥

गिरिकदम्बः, पुं, (गिरिसमुत्पन्नः कदम्बः ।) नीपः ।

धाराकदम्बः । इति राजनिर्घण्टः ॥

गिरिकदली, स्त्री, (गिरिसञ्जाता कदली ।)

पर्व्वतीयकदली । तत्पर्य्यायः । गिरिरम्भा २
पर्व्वतमोचा ३ अरण्यकदली ४ बहुबीजा ५
वनरम्भा ६ गिरिजा ७ गजवल्लभा ८ । अस्या
गुणाः । मधुरत्वम् । हिमत्वम् । बलवीर्य्यवृद्धि-
कारित्वम् । त्वच्यत्वम् । तृष्णापित्तदाहशोष-
प्रशमनत्वम् । दुर्ज्जरत्वम् । गुरुत्वञ्च । इति
राजनिर्घण्टः ॥

गिरिकर्णिका, स्त्री, (गिरौ गिरिमधिकृत्य कर्णि-

केव प्रतिभातीत्यर्थः । यद्वा, गिरिः सुमेरुपर्व्वतः
कर्ण इव यस्याः इति कप् टाप् च कापि अत
इत्वम् ।) पृथिवी । इति त्रिकाण्डशेषः ॥ श्वेत-
किणिहीवृक्षः । अपराजिता । इति राज-
निर्घण्टः ॥ (अस्या व्यवहारो यथा, --
“गुडपुष्पसारशिखरितण्डुलगिरिकर्णिका
हरिद्राभिः ।
अञ्जनगुडिका शमयति विसूचिकां त्रिकटु-
सनाथा ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽग्निमान्द्याधिकारे ॥)

गिरिकर्णी, स्त्री, (गिरेर्बालमूषिकायाः कर्ण इव

पत्त्रमस्याः ।) अपराजिता । इत्यमरः । २ । ४ ।
१०४ ॥ (अस्याः पर्य्याया यथा, --
“गवाक्ष्यश्वखुरी श्वेता श्वेतभण्डापराजिता ।
द्विविधा सा सिता नीला गिरिकर्णी गवादनी ॥”
इति वैद्यकरत्नमालायाम् ॥
पार्व्वतीयापराजितार्थे पर्य्याया यथा तत्रैव, --
“गिरिकर्णी महाश्वेता स्थूलपुष्पा सिता क्वचित् ॥”)
यवासः । इति शब्दचन्द्रिका ॥

गिरिका, स्त्री, (गिरिरेव स्वार्थे कन् टाप् च ।)

बालमूषिका । इत्यमरः । २ । ५ । १२ ॥ (स्वनाम-
ख्याता उपरिचरवसुराजपत्नी । सा हि गिरेः
कोलाहलाख्यपर्व्वतात् शक्तिमत्यां नद्यां जात-
त्त्वात् गिरिकेति नाम्ना विश्रुता । यथा, महा-
भारते । १ । ६३ । ३३--३९ ।
“राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ।
पुरोपवाहिनीं तस्य नदीं शक्तिमतीं गिरिः ॥
अरौत्सीत् चेतनायुक्तः कामात् कोलाहलः
किल ।
गिरिं कोलाहलं तन्तु पदा वसुरताडयत् ॥
निश्चक्राम ततस्तेन प्रहारविवरेण सा ।
तस्यां नद्यामजनयन्मिथुनं पर्व्वतः स्वयम् ॥
तस्माद्विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत् ।
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ॥
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः ।
चकार पत्नीं कन्यान्तु तथा तां गिरिकां नृपः ॥
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत् ।
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥”)

गिरिकाणः, पुं, (गिरिणा अक्षिरोगविशेषेण काणः

एकचक्षुर्हीणः ।) गिरिरोगेणैकचक्षुर्हीणः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

गिरिगुडः, पुं, (गिरेः गिरौ वा जातः गुडः गुण्डित-

वर्त्तुल इव ।) गेण्डुकः । इति हेमचन्द्रः । ३ । ३५३ ॥

गिरिजं, क्ली, (गिरौ जायते इति । जन् + डः ।)

अभ्रकम् । शिलाजतु । शैलजम् । लोहम् ।
इति मेदिनी । जे २३ ॥ गैरिकम् । इति राज-
निर्घण्टः ॥

गिरिजः, पुं, (गिरौ जायते इति । जन् + डः ।)

मधूकवृक्षविशेषः । तत्पर्य्यायः । गौरशाकः २
मधूलः ३ स्वल्पपत्रकः ४ । इति रत्नमाला ॥

गिरिजा, स्त्री, (गिरेर्हिमालयपर्व्वतात् हिमगिरे-

रधिष्ठातृदेवादिति तात्पर्य्यार्थः जायते । जन् +
डः स्त्रियां टाप् च । हिमालयस्य अधिष्टातृत्वे
प्रमाणं यथा, कुमारे । १ । १ ।
“अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।”
“देवता आत्मा यस्य सः । एतेनास्य वक्ष्यमाण-
मेनकापरिणयपार्व्वतीजननादिचेतनव्यवहार-
योग्यत्वसिद्धिः ।” इति टीकाकृन्मल्लिनाथः ।)
पार्व्वती । (यथा अनर्ध्यराघवे । ४ र्थ अङ्के ३३ ।
“स्त्रीषु प्रवीरजननी जननी तवैव
देवी स्वयं भगवती गिरिजाऽपि यस्यै ॥”
गायत्त्रीरुपा देवी । यथा, देवीभागवते ।
१२ । ६ । ४३ ।
“गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ॥”
गङ्गा । इति प्युत्पत्तिलब्धोऽर्थः ॥ गिरौ पर्व्वते
जायते इति । जन् + डः ।) मातुलुङ्गी । इति
मेदिनी । जे । २४ ॥ (अस्याः पर्य्याया यथा, --
“मातुलुङ्गी सुगन्धान्या गिरिजा पूतिपुष्पिका ।
अत्यम्ला देवदूती च सा क्वचिन्मधुकुक्कुटी ॥”
इति वैद्यकरत्नमालायाम् ॥)
श्वेतवुह्ना । इति रत्नमाला ॥ क्षुद्रपाषाणभेदा ।
त्रायमाणा लता । कारीवृक्षः । मल्लिका । गिरि-
कदली । इति राजनिर्घण्टः ॥

गिरिजामलं, क्ली, (गिरौ पर्व्वते अभ्रे अभ्ररवादि-

त्यर्थः जायते इति । जन् + डः । गिरिजम् । तद-
मति गच्छति । अम् + कलच् । यद्वा, गिरिजेषु
पृष्ठ २/३२९
अमलं ।) अभ्रकम् । इत्यमरटीकायां रायसुकुटः ॥
(अभ्ररवजातत्वे प्रमाणं यथा, भावप्रकाशे ।
“पुरा वधाय विप्रस्य वज्रिणा वज्रमुद्धृतम् ।
विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् ।
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् ॥”
अभ्रकशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

गिरिज्वरः, पुं, (गिरेः पर्व्वतस्य ज्वर इव तद्भेदक-

त्वात् । गिरिं ज्वरयतीति वा । ज्वर + णिच् +
अच् ।) वज्रः । इति शब्दरत्नावली ॥

गिरितः, त्रि, (गिल् + कर्म्मणि क्तः लस्य रत्वञ्च ।)

गिलितः । भक्षितः । इत्यमरटीकायां राय-
मुकुटः ॥

गिरिधातुः, पुं, (गिरौ जात धातुः । शाकपार्थिव-

वन्मध्यपदलोपिसमासः ।) गैरिकम् । इति
राजनिर्घण्टः ॥

गिरिनिम्बः, पुं, (गिरिसम्भूतोनिम्ब इव ।) महा-

रिष्टवृक्षः । इति राजनिर्घण्टः ॥

गिरिपीलुः, पुं, (गिरिसम्भूतः पिलुर्वृक्षविशेषः ।)

परूषकवृक्षः । इति राजनिर्घण्टः ॥

गिरिपुष्पकं, क्ली, (गिरिजातं पुष्पकम् ।) शैले-

यम् । इति राजनिर्घण्टः ॥

गिरिप्रिया, स्त्री, (गिरिः पर्व्वतः प्रियो यस्याः

अव्याहतविचरणायेति भावः ।) चमरीगवी ।
इति राजनिर्घण्टः ॥

गिरिभित्, [द्] पुं, (गिरिं भिनत्ति भित्वा उत्-

पद्यते इति । भिद् + क्विप् ।) पाषाणभेदक-
वृक्षः । इति भावप्रकाशः ॥

गिरिभूः, स्त्री, (गिरौ भवति उत्पद्यते इति । भू +

क्विप् ।) क्षुद्रपाषाणभेदाः । इति राजनिर्घण्टः ॥
गिरेर्भूः । पर्व्वतभूमिः । (यथा, आर्य्यासप्त-
शत्याम् । ६१५ ।
“सकलकटकैकमण्डिनि !
कठिनीभूताशये शिखरदन्ति ।
गिरिभुव इव तव मन्ये
मनः शिला समभवच्चण्डि ! ॥” * ॥
गिरेर्हिमालयात् हिमालयाधिष्ठातृदेवादित्यर्थः
भवतीति । भू + क्विप् ।) पार्व्वती ॥

गिरिमल्लिका, स्त्री, (गिरौ जाता मल्लिकेव मध्य-

पदलोपिसमासः ।) कुटजवृक्षः । इत्यमरः ।
२ । ४ । ६६ ॥ (यथास्याः पर्य्यायाः ।
“वृक्षकः शक्रपर्य्यायो वत्सको गिरिमल्लिका ।
कुटजस्तत्फलञ्चेन्द्रयवश्चापि कलिङ्गकः ॥”
इति वैद्यकरत्नमालायाम् ॥)

गिरिमाणः, पुं, (गिरिरिव मानं परिमाणमस्य

उच्छ्रयत्वेनेति शेषः ।) हस्ती । इति शब्द-
रत्नावली ॥

गिरिमृत्, [द्] स्त्री, (गिरेः पर्व्वतस्य मृत् मृत्तिका ।)

गैरिकम् । इति त्रिकाण्डशेषः । (व्यवहारोऽस्याः
यथा, --
“गिरिमृच्चन्दननागरखटिकांशयोजितो वहिर्लेपः ।
कुरुते वचया मिश्रो लोचनमगदं न सन्देहः ॥”
इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥)

गिरिमृद्भवं, क्ली, (गिरेर्मृदो मृत्तिकाया भवतीति ।

भू + अच् ।) गैरिकम् । इति राजनिर्घण्टः ॥

गिरिमेदः, पुं, (गिरेर्मेद इव ।) विट्खदिरः ।

इति रत्नमाला ॥ इरिमेद इति वा पाठः ॥

गिरियकः, पुं, (गिरिं पर्व्वतमाश्रित्य आत्मनिर्म्माणतां

याति प्राप्नोतीति । या + कः ततः संज्ञायां
कन् ।) गेण्डुकः । इति हेमचन्द्रः । ३ । ३५३ ॥

गिरियाकः, पुं, (गिरिं गिरिमधिकृत्यात्मसत्तां

यातीति । या + क्विप् । ततः संज्ञायां कन् ।)
गेण्डुकः । इति शब्दरत्नावली ॥

गिरिवासी, [न्] पुं, (गिरौ गिरिमाश्रित्य वस-

तीति । वस् + णिनिः । गिरिं वासयति सुरभी-
करोतीत्येके । वस् + करोतेरर्थे णिच् णिनिः ।)
हस्तिकन्दः । इति राजनिर्घण्टः ॥

गिरिशः, पुं, (गिरिराश्रयत्वेन वसतित्वेनास्त्यस्य

इति । “लोमादिपामादिपिच्छादिभ्यः शने-
लचः ।” ५ । २ । १०० । इति शः । यद्वा, गिरौ
कैलासाख्यपर्व्वते आध्यात्मिकार्थे तु नित्यशुद्ध-
मनसीत्यर्थः शेते विराजते इति । यद्वा, गिरिं
त्रिगुणवृत्तात्मकं मनः श्यति तनूकरोति विशुद्धं
करोति शरणागतभक्तसाधकानाम् । शी ङल
शयने शी य्च्छेदे वा गिरौ छन्दसि डः । लोके
तु छान्दसानां क्वचिद्भाषायामपि प्रयोग इति
आशुशुक्षणिवदित्याह स्वामी ।) शिवः । इत्य-
मरः । १ । १ । ३३ ॥ (यथा, रघुः । २ । ४१ ।
“इति प्रगल्भं पुरुषाधिराजो
मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावात्
आत्मन्यवज्ञां शिथिलीचकार ॥”)

गिरिशालिनी, स्त्री, (गिरिं पर्व्वतस्थभुवं शाल-

यते शोभयते इति । शल् + णिच् + णिनिः नान्त-
त्वात् ङीप् च । गिरिं बालमूषिकाकर्णं शलते
श्लाघते निजपत्त्रावयवेनेत्येके । शल् श्लाघायां +
णिनिः ङीप् च ।) अपराजिता । यथा, --
“पारिभद्रं पाटला च वकुलं गिरिशालिनी ।”
इति वामनपुराणम् ॥

गिरिशृङ्गः, पुं, (गिरेः शृङ्गमिवाकृत्यास्त्यस्येति

अच् । शुण्डादण्डोत्तलनसमये शृङ्गसादृश्या-
दस्य तथात्वम् ।) गणेशः । इति शब्दरत्ना-
वली ॥ (गिरेः शृङ्गमिति विग्रहे क्ली । पर्व्वत-
शेखरम् । यथा, महाभारते । ६ । ५६ । १५ ।
“गजैर्निपतितैर्नीलैर्गिरिशृङ्गैरिवावृतः ॥”)

गिरिसारः, पुं, (गिरेः सार इव ।) लौहम् ।

(यथा, गोः रामायणे । ६ । ७८ । १९ ।
“तत्तैलधौतं विमलं गिरिसारमयं महत् ।
शस्त्रं परमसंक्रुद्धो बालिपुत्त्रे न्यपातयत् ॥”)
वङ्गम् । मलयपर्व्वतः । मेदिनी । रे । २६१ ॥

गिरिसुता, स्त्री, (गिरेर्हिमालयपर्व्वताधिष्ठातुः

सुता पुत्त्री ।) पार्व्वती । यथा, --
“अवतु वो गिरिसुता शशिभृतः प्रियतमा
वसतु मे हृदि सदा भगवतः पदयुगम् ॥”
इति छन्दोमञ्जरी ॥
(तथाच पञ्चतन्त्रे । १ । १७५ ।
“अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्त्तः
फणी
तञ्च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि
नागाशनम् ॥”
गङ्गा । यथा, काशीखण्डे । २९ । ५२ ।
“गुहाम्बिका गिरिसुता गोविन्दाङ्घ्रिसमुद्भवा ॥”)

गिरीशः, पुं, (गिरेः कैलासस्य ईशः ।) शिवः ।

(यथा, वक्रोक्तिपञ्चाशिकायाम् । ३३ ।
“चिन्तामेऽत्र न वेश्मनि प्रियतमे किं चिन्तय
स्यान्नव-
ग्रावणीत्यद्रिसुतां जयन्नवतु वः सूक्त्या गिरीशो-
ऽनिशम् ॥”
गिरीणां पर्व्वतानामीशः श्रेष्ठः ।) हिमालय-
पर्व्वतः । (गिरां वाचां शास्त्राणां वा ईशः ।)
बृहस्पतिः । इति मेदिनी । शे । १९ ॥

गिलः, पुं, (गिल् + “इगुपधेति ।” ३ । १ । १३५ ।

इति कः ।) जम्बीरः । इति शब्दचन्द्रिका ॥

गिलग्राहः, पुं, (गिलं गृह्णाति गिलं यथा स्यात्

तथा गिलेन गिलनेन वा गृह्णाति धारयति
इति तात्पर्य्यार्थः । ग्रह् + अण् ।) नक्रः । इति
राजनिर्घण्टः ॥

गिलनं, क्ली, (गिल् + भावे ल्युट् ।) गिरणम् ।

भक्षणम् । इत्यमरटीका ॥ (यथा, हारीते प्रथमे
स्थाने प्रथमेऽध्याये ।
“चर्व्वणं गिलनञ्चापि कासितं श्वासितन्तथा ।
नीचोच्चञ्चैव गम्भीरं वर्ज्जयेत् पाठकं सुधीः ॥”)

गिलिः, स्त्री, (गिल् + भावे इन् ।) गिलनम् ।

इत्यमरटीका ॥

गिलितं, त्रि, (गिल् + कर्म्मणि क्तः । गिलिर्जाता-

ऽस्येति तारकादित्वादितजित्येके ।) भक्षितम् ।
इत्यमरः । ३ । २ । ११० ॥

गिष्णः, पुं, (गायति सामवेदं गायतीति वा ।

गै गाने + “इष्णो गादाभ्यां किद्वा ।” इति
उणादिकोषटीकाधृतसूत्रेण इष्णः । किदभाव-
पक्षे तु “गादाभ्यां इष्णुच् ।” उणां । ३ । १६ ।
इति इष्णुच् प्रत्ययनिष्पन्नत्वात् गेष्णुंरित्येवपदं
स्यात् ।) सामवेदवेत्ता । गायकः । इत्युणादिकोषः ॥

गीः, [र्] स्त्री, (गॄ + सम्पदादित्वात् क्विप् ।)

वाक्यम् । सरस्वती । इत्यमरः । १ ६ । १ ॥

गीतं, क्ली, (गीयते इति । गै गाने + भावे क्तः ।)

गानम् । इत्यमरः । १ । ६ । २५ ॥ तस्य लक्षणं
यथा,
“धातुमातुसमायुक्तं गीतमित्युच्यते बुधैः ।
तत्र नादात्मको धातुर्मातुरक्षरसञ्चयः ॥” * ॥
तद्द्विविधं यथा, --
“गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः ।
यन्त्रं स्याद्वेणुवीणादि गात्रन्तु मुखजं मतम् ॥”
अपि च ।
“निबद्धमनिबद्धञ्च गीतं द्विविधमुच्यते ।
पृष्ठ २/३३०
अनिबद्धं भवेद्गीतं वर्णादिनियमं विना ॥
यद्बा गमकधातुज्ञैरनिबद्धं विना कृतम् ।
निबद्धञ्च भवेद्गीतं तालमानरसाञ्चितम् ॥
छन्दो गमकधातुज्ञैर्वर्णादिनियमैः कृतम् ॥
ऋग्भिः पाठ्यमभूद्गीतं सामभ्यः समपद्यत ।
यजुर्भ्योऽभिनया जाता रसाश्चाथर्व्वणः स्मृताः ॥”
अथ संगीतलक्षणम् ।
“तालवाद्यानुगं गीतं नटीभिर्यत्र गीयते ।
नृत्यस्यानुगतं रङ्गे तत् सङ्गीतकमुच्यते ॥” * ॥
अथ गीतप्रशंसा ।
“सङ्गीतकेन रम्येण सुखं यस्य न चेतसि ।
मनुष्यवृषभो लोके विधिनैव स वञ्चितः ॥
संसारदुःखदग्धानामुत्तमानामनुग्रहात् ।
प्रभुणा शङ्करेणात्र गीतवाद्यं प्रकाशितम् ॥
गीतं वाद्यं तथा नृत्यं तौर्य्यत्रिकमिदं मतम् ।
तूर्य्यशब्दो मृदङ्गे स्यात् मुरजेऽपि च दृश्यते ॥
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥
गीतेन हरिणा रङ्गं प्राप्नुवन्त्यपि पक्षिणः ।
वनादायान्ति फणिनः शिशवो न रुदन्ति च ॥
कृतिचमत्कृतये किमतः परं
फणिवरोऽश्वतरो वत पञ्चमः ।
अपि मृतां यदवाप मदालसां
मधुरगीतवशीकृतशङ्करः ॥
परमानन्दविवर्द्धनमभिमतफलं वशीकरणम् ।
सकलजनचित्तहरणं विमुक्तिबीजं परं गीतम् ॥
गीतं पीनपयोधरा समदना नारी विचित्रा कथा
रम्यं हर्म्म्यतलं सुधांशुकिरणप्रोद्दीपिता यामिनी ।
चित्तज्ञाः सुहृदः सुताः सुमनसो भक्ताः पुनः
सेवकाः
शुद्धं गीतफलं कवित्वमतुलं संसारसारा मताः ॥”
“शुद्धशालगसङ्कीर्णभेदाद्गीतं त्रिधा मतम् ।”
शुद्धसूत्रं विंशतिर्यथा, --
“एला सोऽद्यभवा सपाढकरणं तत्पञ्चतालेश्वरः
कैरातस्मरचक्रपालविजया गद्यं त्रिभङ्गिस्तथा ।
ढेङ्कीवर्णसरः पुटौ द्विपदिका मुक्तावली माहका
लम्बो दण्डकवर्त्तनीति कथिताः शुद्धास्तु ते
विंशतिः ॥”
एलादीनामेतेषां विंशतिसंख्यकानां प्रबन्धगीता ।
नामङ्गानि षट् भवन्ति । तथा च ।
“पदं तानो विरूदश्च तालः पाढः स्वरस्तथा ।
एलादीनां षडङ्गानि कथितानि विरिञ्चिना ॥
पौनरुक्त्यं न देशीये गीते दोषोऽभिजायते ।
शीघ्रोच्चारेण वर्णानां तथा चैव प्रसारणे ॥
लिङ्गान्यत्वे विसन्धौ च संयुक्ताक्षरमोक्षणे ।
परिवर्त्तेऽक्षराणाञ्च ह्रस्वदीर्घव्यतिक्रमे ॥” * ॥
अथ शालगसूत्रम् ।
“ध्रुवको मण्डकश्चैव प्रतिमण्डो निसारुकः ।
वासकः प्रतिलाभश्च तथान्या चैकतालिका ॥
यतिश्च झुमरिश्चेति शालगं सूत्रमीरितम् ॥” * ॥
अथ सङ्कीर्णसूत्रम् ।
चैत्रोमङ्गत्मकस्तथा न गणिका चर्च्चातिनाटोन्नवी
दोहा स्याद्बहुलस्तथा गुरुबलो गीता च
गोविस्तथा ।
हेम्नोकोऽप्यथ कारिका त्रिपदिकेत्येतानि काम-
द्बिषा
संक्षेपेण चतुर्द्दशः प्रकटितान्यत्राधमानि क्रमात् ॥
इति सङ्गीतदामोदरः ॥
(सङ्गीतस्यान्यद्विवरणं गानशब्दे द्रष्टव्यम् ॥ * ॥
गीयते स्म इति । गै शब्दे + कर्म्मणि क्तः ।)
शब्दिते त्रि । इति मेदिनी । ते । १६ ॥

गीतमोदी, [न्] पुं, (गीतेन सङ्गीतेन मोदते

इति । मुद् + “नन्दिग्रहीति ।” ३ । १ । १३४ ।
इति णिनिः ।) किन्नरः । इति शब्दरत्नावली ॥
(सङ्गीतानुरागिणि त्रि ॥)

गीता, स्त्री, (गीयते स्म आत्मविद्योपदेशात्मिका

ब्रह्मतत्त्वोपदेशमयी कथा यत्र । गै + क्त ।)
ग्रन्थविशेषः । भगवद्गीतेति ख्याता । सा तु
अर्ज्जुनस्य मोहनिवृत्त्यर्थं महाभारतीयभीष्म-
पर्व्वान्तर्गता कर्म्मोपासनाज्ञानकाण्डत्रयात्मिका-
ष्टादशाध्यायी श्रीकृष्णोक्ता । यथा, --
“भारते सर्व्ववेदार्थो भारतार्थश्च कृत्स्नशः ।
गीतायामस्ति तेनेयं सर्व्वशास्त्रमयी मता ॥
इयमष्टादशाध्यायी क्रमात् षट्कत्रयेण हि ।
कर्म्मोपास्तिज्ञानकाण्डत्रितयात्मा निगद्यते ॥”
इति नीलकण्ठः ॥
“गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्मात् विनिःसृता ॥”
इति स्वामी ॥
(अस्याः प्रयोजनादिकं श्रीमद्भिर्मधुसूदनसरस्वती-
पादैर्विस्तरशो गीतागूढार्थदीपिकायां दर्शितम् ।
तद्यथा, --
“सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ।
परं निःश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥
सच्चिदानन्दरूपं तत् पूर्णं विष्णोः परं पदम् ।
यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः ॥
कर्म्मोपास्तिस्तथाज्ञानमिति काण्डत्रयं क्रमात् ।
तद्रूपाष्टादशाध्यायीगीताकाण्डत्रयात्मिका ॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ।
कर्म्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययोः ॥
यतः समुच्चयो नास्ति तयोरतिविरोधतः ।
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्त्तिता ॥
उभयानुगता सा हि सर्व्वविघ्नापनोदिनी ।
कर्म्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥
तत्र तु प्रथमे काण्डे कर्म्म तत्त्यागवर्त्मना ।
त्वंपदार्थो विशुद्धात्मा सोपपत्तिर्निरूप्यते ॥
द्बितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ।
भगवान् परमानन्दस्तत्पदार्थोऽवधार्य्यते ॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ।
एवमप्यत्र काण्डानां सम्बन्धोऽस्ति परस्परम् ॥
प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते ।
मुक्तिसाधनपर्व्वेदं शास्त्रार्थत्वेन कथ्यते ॥
निष्कामकर्म्मनिष्ठालं त्यागात् काम्यनिषिद्धयोः ।
तत्रापि परमो धर्म्मो जपस्तुत्यादिकं हरेः ॥
क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ।
नित्यानित्यविवेकस्तु जायते सुदृढस्तदा ॥
इहामुत्रार्थवैराग्यं वशीकाराभिधं क्रमात् ।
ततः शमादिसम्पत्त्या सन्न्यासो निष्ठितो भवेत् ॥
एवं सर्व्वपरित्यागान्मुमुक्षा जायते दृढा ।
ततो गुरूपसदनमुपदेशग्रहस्ततः ॥
ततः सन्देहहानाय वेदान्तश्रवणादिकम् ।
सर्व्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते ॥
ततस्तत्परिपाकेन निदिध्यासननिष्ठता ।
योगशास्त्रन्तु सम्पूर्णमुपक्षीणं भवेदिह ॥
क्षीणदोषे ततश्चित्ते वाक्यातत्त्वमतिर्भवेत् ।
साक्षात्कारो निर्व्विकल्पः शब्दादेवोपजायते ॥
अविद्याविनिवृत्तिस्तु तत्त्वमभ्यसतो भवेत् ।
तत आवरणे क्षीणे क्षीयेते भ्रमसंशयौ ॥
अनारब्धानि कर्म्माणि नश्यन्त्येव समन्ततः ।
न चागामीनि जायन्ते तत्त्वज्ञानप्रभावतः ॥
प्रारब्धकर्म्मविक्षेपाद्बासना तु न नश्यति ।
सा सर्व्वतो बलवता संयमेनोपशाम्यति ॥
संयमो धारणा ध्यानं समाधिस्त्विति यत्त्रिकम् ।
यमादिपञ्चकं पूर्ब्बं तदर्थमुपयुज्यते ॥
ईश्वरप्रनिधानात्तु समाधिः सिध्यति द्रुतम् ।
ततो भवेन्मनोनाशो वासनाक्षय एव च ॥
तत्त्वज्ञानं मनोनाशोवासनाक्षय इत्यपि ।
युगपत्त्रितयाभ्यासाज्जीवन्मुक्तिर्दृढा भवेत् ॥
विद्वत्सन्न्यासकथनमेतदर्थं श्रुतौ श्रुतम् ।
प्रागसिद्धो य एवांशो यत्तः स्यात्तस्य साधने ॥
निरुद्धे चेतसि पुरा सविकल्पसमाधिना ।
निर्व्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ।
अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥
एवम्भूतो ब्राह्मणः स्याद्बरिष्ठो ब्रह्मवादि नाम्
गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते ॥
अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तथा ।
एतस्य कृतकृत्यत्वात् शास्त्रमस्मान्निवर्त्तते ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥
इत्यादिश्रुतिमानेन कायेन मनसा गिरा ।
सर्व्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ॥
पूर्ब्बभूमौ कृता भक्तिरुत्तरां भूमिमानयेत् ।
अन्यथा विघ्नबाहुल्यात् फलसिद्धिः सुदुर्लभा ॥
पूर्ब्बाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
अनेकजन्मसंसिद्ध इत्यादि च वचो हरेः ॥
यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन ।
प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥
न तं प्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते ।
प्राक्सिद्धसाधनाभ्यासाद्दुर्ज्ञेया भगवत्कृपा ॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ।
विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥
जीवन्मुक्तिदशायान्तु न भक्तेः फलकल्पना ।
अद्वेष्टृत्वादिवत्तेषां स्वभावो भजनं हरेः ॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्व्वन्त्य हैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥
पृष्ठ २/३३१
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्व्विशिष्यते ।
इत्यादिवचनात् प्रेमभक्तोऽयं मुख्य उच्यते ॥
एतत् सर्व्वं भगवता गीताशास्त्रे प्रकाशितम् ।
अतो व्याख्यातुमेतन्मे मन उत्सहते भृशम् ॥
निष्कामकर्म्मानुष्ठानं मूलं मोक्षस्य कीर्त्तितम् ।
शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः ॥
यतः स्वधर्म्मविभ्रंशः प्रतिसिद्धस्य सेवनम् ।
फलाभिसन्धिपूर्ब्बा वा साहङ्कारा क्रिया भवेत् ॥
आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः ।
पुमर्थलाभायोग्यः सन् लभते दुःखसन्ततिम् ॥
दुःखं स्वभावतो द्वेष्यं सर्व्वेषां प्राणिनामिह ।
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥
अनादिभवसन्ताननि(गू)रूढं दुःखकारणम् ।
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥
एवमाकाङ्क्षयाविष्टं पुरुषार्थोन्मुखं नरम् ।
बुबोधयिषुराहेदं भगवान् शास्त्रमुत्तमम् ॥”)
एतदन्याः श्रीभागवतोक्तगोपीगीताध्यात्मरामा-
यणोक्तरामगीताश्वमेधिकपर्व्वोक्ते ब्राह्मणगीता-
नुगीते देवीभागवतोक्तभगवतीगीता शिवगीता
इत्याद्याः सन्ति ॥

गीतासारः, पुं, (गीतासु सारः गीतानां वेदान्तादि-

शास्त्राणां वा सारो यत्र इति वा । मुक्त्यर्थं संक्षे-
पेण समस्तयोगज्ञानादिप्रतिपादकशास्त्राणां
सारार्थो गीतो यत्र इति तात्पर्य्यार्थः ।) अर्ज्जुनं
प्रति श्रीकृष्णोक्तमुक्त्यर्थाष्टाङ्गादियोगः । यथा, --
श्रीभगवानुवाच ।
“गीतासारं प्रवक्ष्यामि अर्ज्जुनायोदितं पुरा ।
अष्टाङ्गयोगं सुक्त्यर्थं सर्व्ववेदान्तसारगम् ॥
आत्मलाभः परो नान्य आत्मा देहादिवर्ज्जितः ।
रूपादिमान् हि देहोऽतः करणत्वादि लोचनम् ॥
करणत्वान्मनोऽधीनो न प्राणोऽचेतनो यतः ।
विज्ञानरहितः प्राणः सुषुप्ते हि प्रतीयते ॥
नाहमात्मा च दुःखादिसंसाराभिसमन्वयात् ।
विधूम इव दीप्तार्च्चिरादित्य इव दीप्तिमान् ॥
वैद्युतोऽग्निरिवाकाशे हृत्स्थो ज्ञेयात्मनात्मनि ।
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना ॥
सर्व्वज्ञः सव्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ।
स्वानान्तु मनसा रश्मीन् यदा सम्यङ्नियच्छति ॥
तदा प्रकाशते ह्यात्मा घटे दीपो ज्वलन्निव ।
ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्म्मणः ॥
यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च ॥
मनो बुद्धिमहङ्कारमव्यक्तं पुरुषं तथा ।
प्रसंख्याय परावाप्तौ विमुक्तो बन्धनैर्भवेत् ॥
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य च ।
मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ! ॥
अहङ्कारं तथा बुद्धौ बुद्धिञ्च प्रकृतावपि ।
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥
अहं ब्रह्मपरं ज्योतिः प्रसंख्याय विमुच्यते ।
द्बिद्बादशेभ्यः ख्यातो यः पुरुषः पञ्चविंशकः ॥
विवेकात् केवलीभूतः षड्विंशमनुपश्यति ।
नवद्बारमिदं गेहं त्रिस्थूणं पञ्चसाक्षिकम् ॥
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स वरः कविः ॥
ज्ञानयज्ञस्य सर्व्वाणि कलां नार्हन्ति षोडशीम् ॥”
अश्वमेधसहस्राणि वाजपेयशतानि च ।
इति गारुडे २३३ अध्यायः ॥ * ॥
श्रीभगवानुवाच ।
“यमाश्च नियमाः पार्थ ! आसनं प्राणसंयमः ।
प्रत्याहारस्तथा ध्यानं धारणार्ज्जुन ! सप्तमी ॥
समाधिरयमष्टाङ्गो योग उक्तो विमुक्तये ।
कर्म्मणा मनसा वाचा सर्व्वभूतेषु सर्व्वदा ॥
अक्लेशजननं प्रोक्तं भूतानां यदहिंसनम् ।
अहिंसा परमो धर्म्मो ह्यहिंसा परमं सुखम् ॥
विधिना या भवेद्धिंसा त्वहिंसा सा प्रकीर्त्तिता ।
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ॥
सर्व्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ।
एवं सर्व्वं हि हिंसायां धर्म्मार्थमपिधीयते ॥
यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणम् ।
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् ॥
प्रियञ्च नानृतं ब्रूयात एष धर्म्मः सनातनः ।
यत्र द्रव्यापहरणं चौर्य्याद्वाथ बलेन वा ॥
स्तेयं तस्यानाचरणमस्तेयं धर्म्मसाधनम् ।
कर्म्मणा मनसा वाचा सर्व्वावस्थासु सर्व्वदा ॥
सर्व्वत्र मैथुनत्यागं ब्रह्मचर्य्यं प्रचक्षते ।
द्रव्याणामप्यनादानमापत्स्वपि यथेच्छया ॥
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्ज्जयेत् ।
द्विधा शौचं मृज्जलाभ्यां बाह्यं भावादथान्तरम् ॥
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ।
मनसश्चेन्द्रियाणाञ्च ऐकाग्रं परमं तपः ॥
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ।
वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ॥
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ।
स्तुतिस्मरणपूजादिवाङ्मनःकायकर्म्मभिः ॥
सुनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।
आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा ॥
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।
प्राणापाननिरोधस्तु प्राणायाम उपस्थितः ॥
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।
नियमः प्रोच्यते सद्भिः प्रत्याहारस्तु पाण्डव ! ॥
मूर्त्तामूर्त्तब्रह्मरूपचिन्तनं ध्यानमुच्यते ।
योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत् ॥
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायुतम् ।
नाले चाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतम् ॥
सकर्णिके केशराले सूर्य्यसोमाग्निमण्डलम् ।
अग्निमण्डलमध्यस्थो वासुदेवश्चतुर्भुजः ॥
शङ्खचक्रगदापद्मयुक्तः कौस्तुभसंयुतः ।
वनमाली कौस्तुभेन युतोऽहं ब्रह्ममुक्त ओम् ॥
धारणेत्युच्यते चेयं धार्य्यते यन्मनोमये ।
प्राङ्नाभ्यां हृदये चानु तृतीया च तथोरसि ॥
कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्द्धसु ।
किञ्चित्तस्मात् परस्मिंश्च धारणादेशकीर्त्तिताः ॥
अहं ब्रह्मेत्यवस्थानं समाधिरभिधीयते ।
एकाकारः समाधिः स्याद्देशलक्षणवर्ज्जितः ॥”
इति गारुडे २३४ अध्यायः ॥ * ॥
श्रीभगवानुवाच ।
“ब्रह्मगीतां प्रवक्ष्यामि यां ज्ञात्वा मुच्यते भवान् ।
अहं ब्रह्मास्मीति वाक्याज्ज्ञानान्मोक्षो भवे-
न्नृणाम् ॥
वाक्यज्ञानं भवेज्ज्ञानादहंब्रह्मपदार्थयोः ।
पदद्वयार्थौ द्विविधौ वाच्यौ लक्ष्यौ स्मृतौ बुधैः ॥
वाच्यौ दशबलौ ज्ञेयौ लक्ष्यौ शुद्धौ प्रकीर्त्तितौ ।
प्राणपिण्डात्मकार्य्येण चेतनं शरणन्तु यत् ॥
तथा वै देवपर्य्यन्तमहं शब्देन नोच्यते ।
प्रत्यग्रूपमद्बितीयमहं शब्देन भण्यते ।
अद्वयानन्दचैतन्यं परोक्षसहितं परम् ।
प्राणपिण्डात्मकापार्थसद्वितीयविभागकम् ॥
त्यागेन प्रत्यक्चैतन्यभागो लक्ष्येत चाहमा ।
तथा ब्रह्मपदेनैव प्राणपिण्डात्मकारणा ॥
विद्यापरोक्षभागे च परित्यागे च लक्ष्यते ।
अद्वयानन्दचैतन्यभाग एवं विचिन्तयेत् ॥
अहंपदेन चैतन्यप्रत्यग्ब्रह्मपदेन तु ।
अद्वयानन्दचैतन्यं लक्षयित्वा स्थितस्य च ॥
ब्रह्माहमस्म्यहं ब्रह्म अहंब्रह्मपदार्थयोः ।
अहं ब्रह्मास्मि वाक्याच्च आत्मभूतिफलात्मकम् ॥
एकत्वज्ञानञ्च भवेद्वेदान्ताद्गुरुतो ध्रुवम् ।
ज्ञानादज्ञानताकार्य्यनिवृत्तेर्भुक्त एकतः ॥”
इति गारुडे २३५ अध्यायः ॥ * ॥
श्रीभगवानुवाच ।
“सम्मायिब्रह्मतः खं स्यात् खान्मरुत्वांस्ततोऽनलः
अग्नेरापस्ततः पृथ्वी प्रपञ्चीकृतभूतकम् ॥
ततः सप्तदशं लिङ्गं पञ्च कर्म्मेन्द्रियाणि च ।
वाक्पाणिपादं पायुश्च उपस्थमथ धीन्द्रियम् ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात् पञ्च वायवः ।
प्राणोऽपानः समानश्च व्यानस्तूदान एव च ॥
मनो धीरन्तःकरणं स्यान्मनः संशयात्मकम् ।
बुद्धिनिश्चयरूपा तु एतत्सूक्ष्मशरीरकम् ॥
हिरण्यगर्भमात्मीयं भूततत्कार्य्यलिङ्गकम् ।
पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः ॥
पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत ।
लोकप्रसिद्धं स्थूलाक्षं शरीरचरणादिमत् ॥
पञ्चीकृतानि भूतानि तत्कार्य्यञ्चाहमेव च ।
सर्व्वं शरीरजातञ्च प्राणिनां स्थूलमीरितम् ॥
तीरादुपरतात्मानः शरीरं प्रोच्यते बुधैः ।
देहद्वयाभिमानी च त्वमथो जीव एकतः ॥
सच्छब्दवाच्यं ब्रह्मैव प्रविष्टं देहयोर्द्वयोः ।
जलार्क्कवद्घटखवज्जीवः प्राणादिधारणात् ॥
जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः ।
जाग्रत्स्वप्नसुषुप्ताख्यैर्व्यतिरिक्तश्च निर्गुणः
निर्गतावयवोत्सर्गो नित्यशुद्धस्वभावकः ।
परमात्मैव सज्जाग्रत्खप्नादौ सन्निधानतः
अन्तःकरणरागैश्च अन्तःकरणसंस्थितः ।
जाग्रत्स्वप्नसुषुप्तीश्च पश्यतोऽविकृतः सदा ॥
फलं क्रियाकारकयोर्ज्जाग्रदादीन् वदाम्यहम् ।
इन्द्रियैरनुविज्ञानं जाग्रत्स्थानमुदीरितम् ॥
जाग्रत्संस्कारसम्भूतः प्रत्ययो विषयान्वितः ।
स्वप्नं प्रसुप्तिशरणोपसंहारोऽधिपः स्थितः ॥
पृष्ठ २/३३२
ब्रह्मकारणरूपेण वटस्य कणिकात्मना ।
क्रमते क्रमतो जीवो जाग्रदादीन् स पश्यति ॥
समाध्यारम्भकाले तु पूर्ब्बमेवावधारयेत् ।
मुमुक्षुः पश्चात् संजाते अन्तःकरणनिश्चले ॥
विलापयेत् क्षेत्रजातं क्षेत्रज्ञं परिशेषयेत् ।
पञ्चीकृतेभ्यो भूतेभ्यः अण्डादिव्यतिरिक्तकम् ॥
यथा मृदो घटो भिन्नो नास्ति तत्कार्य्यतस्तथा ।
पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः ॥
समष्टिव्यतिरेकेण शिष्टं सूक्ष्मशरीरकम् ।
अपञ्चीकृतभूतेभ्यो न लिङ्गं व्यतिरिक्तकम् ॥
पृथ्वीवारि विना नास्ति वारि नास्ति च तेजसा ।
तेजश्च वायुना नास्ति वायुः खेन विना न हि ॥
सटब्रह्मणा च खं नास्ति शुद्धब्रह्म विना च सत् ।
शुद्धभावात्तथा जाग्रत्स्वप्नादीनामसम्भवे ॥
जीवत्ववर्ज्जितः प्रत्यगात्मा वै तनुरूपकः ।
नित्यशुद्धबुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम् ॥
तत्त्वंपदार्थौ शिष्टौ तत्राकारो ब्रह्मकारकः ।
उकारश्च अकारश्च मकारोऽहं दृगद्वयः ॥
ब्रह्माहमस्म्यहं ब्रह्म ज्ञानमज्ञानमर्द्दनम् ।
अयमात्मा ब्रह्मज्योतिर्विज्ञानानन्दरूपकम् ॥
सत्यज्ञानमनन्तः स तत्त्वमसि श्रुतीरितम् ।
अहं ब्रह्मास्मि ब्रह्माहं सर्व्वप्राणिषु सर्व्वगम् ॥
योऽसावादित्यपुरुषः सोऽसावहमनादिमत् ।
गीतासारोऽर्ज्जुनायोक्तो येन ब्रह्मणि वै लयः ॥”
इत्यादिमहापुराणे गारुडे गीतासारे २३६
अध्यायः ॥

गीतिः, स्त्री, (गै गाने + क्तिन् ।) गानम् । (यथा,

कुमारे । ३ । ४० ।
“श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्
हरः प्रसंख्यानपरो बभूव ॥”)
आर्य्याच्छन्दोविशेषः । इति मेदिनी । ते १६ ॥
(अस्या लक्षणं यथा छन्दोमञ्जर्य्यां मात्रा-
वृत्ते । ७ ।
“आर्य्याप्रथमार्द्ध समं यस्याः परार्द्धमीरिता गीतिः ॥”)

गीरथः, पुं, (गीर्वाणी वाङ्मयं शास्त्रमित्यर्थः रथ

इव यस्य ।) बृहस्पतिः । इति त्रिकाण्डशेषः ॥

गीर्णः, त्रि, (गीर्य्यते स्म इति । गॄ गि स्तुतौ +

क्त ।) स्तुतः । इत्यमरटीकायां भरतः ॥

गीर्णिः, स्त्री, (गॄ + क्तिन् । ऋल्वादिभ्यः क्तिन्निष्ठा-

वत् तेन नत्वम् ततो रेफात् णत्वञ्च ।) गिलनम् ।
इत्यमरः । ३ । ३११ ॥ स्तुतिश्च । गीर्णशब्द-
दर्शनात् ॥

गीर्देवी, स्त्री, (गीर्वाणी तस्या देवी । वागधिष्ठा-

तृतयास्यास्तथात्वम् ।) सरस्वती । इति शब्द-
रत्नावली ॥

गीर्लता, स्त्री, (गीरिव तमोनाशिनी विस्तृता च

लता ।) महाज्योतिष्मती । इति राजनिर्घण्टः ॥

गी(र्ब्बा)र्व्वाणः, पुं, (गीर्वागेव बाणोऽस्त्रं यस्य

अव्यर्थवाक्यतयास्य तथात्वम् । अन्तःस्थवकां
मध्यपाठे तु गिरं वनुते याचते काङ्क्षतीत्य
स्तुतिप्रियत्वादिति । वन याच्ञायाम् + “कर्म
ण्यण् ।” ३ । २ । १ । इत्यण् । “पूर्ब्बपदा
संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् ।)
देवता । इत्यमरः । १ । १ । ९ ॥ (यथा, भाग-
वते । ८ । १५ । ३२ ।
“एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुर्गी(र्ब्बा)र्व्वाणाः काम-
रूपिणः ॥”)

गी(र्ब्बा)र्व्वाणकुसुमं, क्ली, (गी(र्ब्बा)र्व्वाणप्रियं कुसुमं

पुष्पं यस्य ।) लवङ्गम् । इति राजनिर्घण्टः ॥

गीष्पतिः, पुं, (गिरां पतिः । अहरादीनामिति

रेफाभावपक्षे “इदुदुपधस्येति ।” ८ । ३ । ४१ । इति
षः । मुग्धबोधमते “खपि वा ।” इति सूत्रस्य
पाक्षिको विधिः ।) बृहस्पतिः । इत्यमरः ।
१ । १ । २४ ॥ पण्डितः । इति शब्दरत्नावली ॥
अस्य रूपान्तरे गीर्पतिः गीःपतिः । इति मुग्ध-
बोधम् ॥

गु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-अनिट् ।) ङ, गवते । इति दुर्गादासः ॥

गु, शि ओ विष्ठोत्सर्गे । इति कविकल्पद्रुमः ॥

(तुदां-(कुटां)-परं-अकं-अनिट् ।) शि, गुवति
अगुवीत् । ओ, गुणः । इति दुर्गादासः ॥

गुग्गुलः, पुं, (गोजति शब्दायतेऽनेनेति । गुज् +

क्विप् । गुक् रोगस्तस्मात् गुडति रक्षतीति ।
गुड + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति
कः । डलयोरैक्यात् डस्य लत्वम् ।) गुग्गुलुः ।
इत्यमरटीकायां भरतः ॥

गुग्गुलुः, पुं, (गुज्यतेऽनेनेति । गुज शब्दे + क्विप् ।

गुक् रोगस्तस्मात् गुडतीति । गुड रक्षणे +
बाहुलकात् कुः । डलयोरैक्यात् डस्य लत्वम् ।)
रक्तशोभाञ्जनवृक्षः । इति शब्दचन्द्रिका ॥
स्वनामख्यातवृक्षः । स तु गोमूत्रोद्भवः । यथा, --
“गोरोचनाया मङ्गल्याः संजाताः सर्व्वकामिकाः ।
गुग्गुलुस्तु ततो जातो गोमूत्राच्छुभदर्शनः ॥”
इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामाध्यायः ॥
अस्य निर्यासः सुगन्धिद्रव्यम् । तत्पर्य्यायः ।
कुम्भम् २ उलूखलकम् ३ कौशिकः ४ पुरः ५ ॥
इत्यमरः । २ । ४ । ३४ ॥ कुम्भोलुः ६ खलकम् ७
कुम्भोलूखलकम् ८ गुग्गुलः ९ । इति भरतः ॥
जटायुः १० कालनिर्यासः ११ देवधूपः १२
सर्व्वसहः १३ महिषाक्षः १४ पलङ्कषा १५ ।
इति रत्नमाला ॥ यवनद्बिष्टः १६ भवाभीष्टः १७
निशाटकः १८ जटालः १९ पुटः २० भूतहरः
२१ शिवः २२ शाम्भवः २३ दुर्गः २४ यातुघ्नः
२५ महिषाक्षकः २६ देवेष्टः २७ मरुदिष्टः २८
रक्षोहा २९ रूक्षगन्धकः ३० दिव्यम् ३१ ।
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
कफमारुतकासकृमिवातोदरक्लेदशोफार्शोनाशि-
त्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ दीप-
नत्वम् । तीक्ष्णत्वम् । कषायत्वम् । मेदःकुष्ठ-
नाशित्वम् । पित्तदाहित्वम् । लघुत्वञ्च । इति
राजवल्लभः ॥ विशदत्वम् । सारकत्वम् । रूक्ष-
त्वम् । पाके कटुत्वम् । भग्नसन्धानकारित्वम् ।
वृष्यत्वम् । सूक्ष्मत्वम् । स्वर्य्यत्वम् । पिच्छिलत्वम् ।
बलकारित्वम् । व्रणमेहाश्मवातामवातपिडका-
ग्रन्थिगण्डमालानाशित्वञ्च ॥ * ॥
“माधुर्य्याच्छमयेद्वातं कषायत्वाच्च पित्तहा ।
तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्व्वदोषहा ॥”
स तु पञ्चधा यथा, --
“महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ।
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्चजातयः ॥”
तेषां रूपाणि यथा, --
“भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः ।
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ॥
कुमुदः कुमुदाभः स्यात् पद्मो माणिक्यसन्निभः ।
हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम् ॥”
एषां प्राणिविशेषे प्रयोगो यथा, --
“महिषाक्षमहानीलौ गजेन्द्राणां हितावुभौ ।
हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ॥
विशेषेण मनुष्याणां कनकः परिकीर्त्तितः ।
कदाचिन्महिषाक्षस्तु मतः कैश्चिन्नृणामपि ॥”
नूतनगुग्गुलो रूपं यथा, --
“स्निग्धकाञ्चनसङ्काशः पक्वजम्बूफलोपमः ।
नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ॥”
पुरातनस्य रूपं यथा ।
“शुष्को दुर्गन्धिकश्चैव त्यक्तप्रकृतवर्णकः ।
पुराणः स तु विज्ञेयो गुग्गुलुर्व्वीर्य्यवर्जितः ॥”
इति भावप्रकाशः ॥ * ॥
अस्य स्थानविशेषे जन्मादिकथनम् । यथा, --
“जायन्ते पुरपादपा मरुभुवि ग्रीष्मेऽर्कसन्तापिताः
शीतार्त्ताः शिशिरेऽपि गुग्गुलुरसं मुञ्चन्ति ते
पञ्चधा ।
हेमाभं महिषाक्षतुल्यमपरं सत्पद्मरागोपमं
भृङ्गाभं कुमुदद्युतिञ्च विधिना ग्राह्या परीक्षा
ततः ॥
वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति
क्लिद्यन्ति कोष्णसलिले पयसः समानाः ।
ग्राह्याः शुभाः परिहरेच्चिरकालजाता-
नङ्गारवर्णसमपूयविगन्धवर्णान् ॥”
इति प्रयोगामृतम् ॥
पक्वस्यास्य पूर्णवीर्य्यत्वं मासत्रयपर्य्यन्तं तिष्ठति ।
इति परिभाषा ॥

गुच्छः, पुं, (गुध्यति परिवेष्टते इति । गुध् +

“शस्यादिम्यश्छण् ।” इति छण् इति भोज-
राजः । यद्वा, गुङ शब्दे + क्विप् । गुतं शब्दं
छ्यति नाशयतीति । गुत् + छो + “आतोनुपसर्गे
कः ।” ३ । २ । ३ । इति कः ।) स्तवकः ।
पुष्पादिर थलुया इति भाषा । (यथा, गीत-
गोविन्दे । ११ । ११ ।
“अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीम् ॥”)
स्तम्बः । तृणादिर गोछा इति भाषा ॥ (उद्भिद्-
विशेषः । स तु मल्लिकादिः । यथा, मनुः । १ । ४८ ।
“गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।”
“मूलत एव यत्र लतासमूहो भवति न च प्रका-
ण्डानि ते गुच्छा मल्लिकादयः ।” इति तट्टीकाय-
कुल्लूकभट्टः ॥) द्वात्रिंशद्यष्टिकहारः । वत्रिश-
पृष्ठ २/३३३
नर हार इति भाषा ॥ कलापः । इति मेदिनी ।
छे । ३ ॥ मयूरेर पाखा इति भाषा । मुक्ता-
हारः । इति रन्तिदेवः ॥

गुच्छकं, क्ली, (गुच्छ + संज्ञायां कन् ।) ग्रन्थि-

पर्णम् । इति भावप्रकाशः ॥

गुच्छकः, पुं, (गुच्छ + स्वार्थे कन् ।) स्तवकः । इत्य-

मरः । २ । ४ । ३४ ॥ तत्पर्य्यायः । गुलञ्चः २
स्तम्बः ३ कुसुमोच्चयः ४ गुच्छः ५ । इति राज-
निर्घण्टः ॥ गुत्सः ६ गुत्सकः ७ । इत्यमर-
टीकायां भरतः ॥ रीठाकरञ्जः । इति राज-
निर्घण्टः ॥ स्वार्थे कप्रत्ययात् गुच्छशब्दार्थोऽप्यत्र ॥

गुच्छकणिशः, पुं, (गुच्छवत् कणिशानि मञ्जर्य्यो

यस्य ।) रागीधान्यम् । इति राजनिर्घण्टः ॥

गुच्छकरञ्जः, पुं, (गुच्छः स्तवकः करञ्जफले यस्य ।)

करञ्जविशेषः । तत्पर्य्यायः । स्निग्धदलः २
गुच्छपुष्पकः ३ नन्दी ४ गुच्छी ५ सानन्दः ६
दन्तधावनः ७ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । विषवातार्त्तिकण्डूविच-
र्च्चिकाकुष्ठस्पर्शत्वग्दोशनाशित्वञ्च ॥” इति राज-
निर्घण्टः ॥

गुच्छदन्तिका, स्त्री, (गुच्छाः स्तवकीभूता दन्ता

इव फलानि यस्याः । कप् टाप् अत इत्घञ्च ।)
कदली । इति राजनिर्घण्टः ॥

गुच्छपत्रः, पुं, (गुच्छीभूतानि पत्राणि यस्य ।)

तालवृक्षः । इति राजनिर्घण्टः ॥

गुच्छपुष्पः, पुं, (गुच्छीभूतानि पुष्पाणि यस्य ।)

सप्तच्छदवृक्षः । इति राजनिर्घण्टः ॥ (अशोक-
वृक्षः । अस्य पर्य्याया यथा, --
“हेमपुष्पस्त्वशोकश्च गुच्छपुष्पोऽङ्गनाप्रियः ॥”
इति वैद्यकरत्नमालायाम् ॥)

गुच्छपुष्पकः, पुं, (गुच्छपुष्प + संज्ञायां कन् ।)

रीठाकरञ्जः । गुच्छक । रञ्जः । इति राज-
निर्घण्टः ॥

गुच्छपुष्पी, स्त्री, (गुच्छपुष्प + जातौ ङीष् ।) धातकी ।

शिमृडीवृक्षः । इति राजनिर्घण्टः ॥

गुच्छफलः, पुं, (गुच्छीभूतानि फलानि यस्य ।)

रीठाकरञ्जः । राजादनी । कतकः । इति
राजनिर्घण्टः ॥ (राजादनशब्देऽस्य गुणादयो
ज्ञातव्याः ॥

गुच्छफला, स्त्री, (गुच्छीभूतानि फलानि यस्याः ।

स्त्रियां टाप् ।) अग्निदमनी । काकमाची ।
निष्पावी । द्राक्ष । कदली । इति राज-
निर्घण्टः ॥

गुच्छबध्रा, स्त्री, (गुच्छेन बध्यते इति । बन्ध +

बाहुलकात् रक् । ततष्टाप् ।) गुण्डालावृक्षः ।
इति राजनिर्घण्टः ॥

गुच्छमूलिका, स्त्री, (गुच्छाकृति मूलमस्याः ।

कप् स्त्रियां टाप् अत इत्वञ्च ।) गुण्डासिनी-
तृणम् । इति राजनिर्घण्टः ॥

गुच्छार्द्धः, पुं, (गुच्छस्य द्वात्रिंशद्यष्टिकहारस्य

अर्द्धः । ग्रामार्द्धवत् समासः ।) चतुर्व्विंशति-
यष्टिको हारः । इत्यमरः । २ । ६ । १०५ ॥
(पुंलिङ्गनिर्द्देशादेवास्य तथात्वम् । क्लीवलिङ्गे तु
“पुंस्यर्द्धोऽर्द्धं समेऽशके ।” इत्यमरोक्तेः षोडश-
यष्टिकहारो बोद्धव्य इति तु सुधीभिर्विभाव्यम् ॥)

गुच्छालः, पुं, (गुच्छेन अलति पर्य्याप्नोतीति ।

अल पर्य्याप्तौ + अच् ।) भूतृणम् । इति राज-
निर्घण्टः ॥

गुच्छाह्वकन्दः, पुं, (गुच्छाह्वो गुच्छसंज्ञकः कन्दः ।)

गुलञ्चकन्दः । इति राजनिर्घण्टः ॥

गुच्छी, स्त्री, (गुच्छ + जातौ ङीष् ।) गुच्छकरञ्जः ।

इति राजनिर्घण्टः ॥

गुज, कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) पञ्चमस्वरी । गोजति । कूजन-
मव्यक्तशब्दः । इति दुर्गादासः ॥

गुज, इ कूजने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) पञ्चमस्वरी । इ, कर्म्मणि गुञ्ज्यते ।
कूजनमव्यक्तशब्दः । गुञ्जति भ्रमरः कुञ्जे । इति
दुर्गादासः ॥

गुज, शि ध्वनौ । इति कविकल्पद्रुमः ॥ (तुदां-

(कुटां)-परं-अकं-सेट् ।) शि, गुजति अगु-
जीत् जुगोज । इति दुर्गादासः ॥

गुज्जरी, स्त्री, (गुर्ज्जरदेशवासिनां प्रिया ।

गुर्ज्जर + अण् + स्त्रियां ङीप् । पृषोदरात्
रलोपे वृद्ध्यभावे च साधुः ।) रागिणीविशेषः ।
अस्य ध्यानं यथा, सङ्गीतदर्पणे ।
“श्यामा सुकेशी मलयद्रुमाणां
मृदूल्लसत्पल्लवतल्पयाता ।
श्रुतेः स्वराणां दधती विभागं
तन्त्रीमुखाद्दक्षिणगुज्जरीयम् ॥”
अस्याः कालनियमो यथा, --
“नाटो गौडो वडारी च गुज्जरी देशिरेव च ।
पूर्ब्बाह्णे गानमेतेषां निषिद्धमिति तद्बिदः ॥”
इति सङ्गीतदामोदरः ॥
मतभेदेन पूर्ब्बाह्णेऽपि गीयते ॥ (इयंपुनर्भैरव-
रागस्य वराङ्गना । हनूमन्मते तु मेघरागस्य ।
अस्याः स्वरूपं यथा, सङ्गीतदर्पणे ।
“ग्रहांशन्यास-ऋषभा सम्पूर्णा गुर्ज्जरी मता ।
पौरवी मूर्च्छना यस्यां वङ्गाल्या सह मिश्रिता ॥”
“पौरवीमूर्च्छना यस्याम् ।” इत्यत्र “सप्तमी
मूर्च्छनैतस्याम् ।” इति क्वचित् पाठः । सोमे-
श्वरमते इयं पञ्चमहीना षाडवा । इयञ्च
केनापि कारणेन रागविकारे जाते तत्पाप-
प्रायश्चित्तार्थं प्रायेण गीयते तथाचोक्तम्, --
“लोभान्मोहाच्च ये केचिद् गायन्ति च विरागतः ।
सुरसा गुर्ज्जरी तस्य दोषं हन्तीति कथ्यते ॥”)

गुञ्जः, पुं, गुञ्जन्ति भ्रमरादयो यत्र गुञ्ज + अधि-

करणे घञ् ।) गुच्छः । पुष्पस्तवकः । इति शब्द-
रत्नावली ॥

गुञ्जकृत्, पुं, (गुञ्जं गुञ्जनं करोतीति । कृ + क्विप्

तुक् च ।) भ्रमरः । इति शब्दचन्द्रिका ॥

गुञ्जनं, क्ली, (गुजि कूजने + भावे ल्युट् ।) गुन्-

गुन्ध्वनिः । भ्रमरादिशब्दः ।
(किमिदं गुञ्जनं सख्यः षट्पदानां मनोहरम् ।)

गुञ्जा, स्त्री, (गुञ्जतीति । गुजि + अच् । अस्याः

पक्वफलगुच्छे शब्दबाहुल्यात्तथात्वम् ।) लता-
विशेषः ॥ कुँच इति भाषा ॥ तत्पर्य्यायः ।
काकचिञ्ची २ कृष्णला ३ । इत्यमरः । २ । ४ । ९८ ॥
साङ्गुष्ठा ४ रक्तिका ५ काकणन्तिका ६ काका-
दनी ७ काकतिक्ता ८ काकजङ्घा ९ शिख-
ण्डिनी १० । इति रत्नमाला ॥ चूडामणिः ११
सौम्या १२ शिखण्डी १३ अरुणा १४ ताम्रिका १५
शीतपाकी १६ उच्चटा १७ कृष्णचूडिका १८
रक्ता १९ काम्बोजी २० भिल्लभूषणा २१ वन्या २२
श्यामलचूडा २३ काकचिञ्चिका २४ । अस्या
वीजगुणाः । तीक्ष्णत्वम् । उष्णत्वम् । इति राज-
निर्घण्टः ॥ कुष्ठव्रणनाशित्वम् । इति राज-
वल्लभः ॥ अस्याः शिफागुणः । वान्तिकारि-
त्वम् । शूलविषनाशित्वञ्च । वश्यकर्म्मणि श्वेता
प्रशस्ता । इति राजनिर्घण्टः ॥ * ॥ (इयन्तु
श्वेतरक्तभेदेन द्विविधम् । यदुक्तं भावप्रकाशे ।
“श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जाद्वयं बुधैः ।
गुञ्जाद्वयन्तु केश्यं स्यात् वातपित्तज्वरापहम् ॥
मुखशोषश्रमश्वासतृष्णामदविनाशनम् ।
नेत्रामयहरं वृष्यं बल्यं कण्डूव्रणं हरेत् ॥
कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलापि च ॥”
श्वेतगुञ्जा तु अभिचारकर्म्मणि प्रशस्ता । यथा,
नवदुर्गामन्त्राभिचारे ।
“जपित्वा सितगुञ्जानां कुडवं कुलिकोदये ॥”
इत्यादि ॥
गुञ्जाफलन्तु विषप्रायत्वात् कदापि स्वस्थैर्न भोक्त-
व्यम् । अस्या विषमयत्वमुक्तं यथा, पञ्चतन्त्रे ।
४ । ५८ ।
“अन्तर्विषमया ह्येता वहिश्चैव मनोरमाः ।
गुञ्जाफलसमाकाराः स्वभावादेव योषितः ॥”)
चतुर्यवपरिमाणम् । रति इति भाषा । (यथा, --
“यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥”
इति शार्ङ्गधरेपूर्ब्बखण्डे प्रथमेऽध्याये ॥)
चतुर्धान्यपरिमाणम् । इति शुभङ्करः ॥ गोधूम-
द्वयमानम् । इति राजनिर्घण्टः ॥ (गुञ्जति
शब्दायते इति । कर्त्तरि अच् ।) पटहः ।
(गुञ्जनमिति । गुजि + भावे अप् ।) कल-
ध्वनिः । इति मेदिनी ॥ (गुञ्ज्यते भ्रमरादिभि-
र्मद्यपायिभिर्वा यत्र + अधिकरणे अप् घञ् वा ।)
मदिरागृहम् । इति शब्दरत्नावली ॥ चर्च्चा ।
इति त्रिकाण्डशेषः ॥

गुञ्जिका, स्त्री, (गुञ्जा एव । स्वार्थे कन् । अत

इत्वम् ।) गुञ्जा । त्रियवपरिमाणम् । इति शब्द-
चन्द्रिका ॥ (गुञ्जाशब्देविवरणमस्या ज्ञातव्यम् ॥)

गुञ्जितं, क्ली, (गुञ्ज + भावे क्तः ।) गुञ्जनम् । यथा,

“न गुञ्जितं तन्न जहार यन्मनः ॥”
इति भट्टिः । २ । १९ ॥

गुटिका, स्त्री, (गुटिरेव । गटि + स्वार्थे कन् ।)

वटिका । गुलि इति धाड इति च भाषा ॥
यथा, “प्युटिकापातादिना व्यञ्जनम् ।” इति
दायभागः ॥
पृष्ठ २/३३४

गुठ, इ क वेष्टे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) ह्रस्वी । इ क, गुण्ठयति अजु
गुठत् । इति दुर्गादासः ॥

गुड, इ क वेष्टे । रक्षे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) पञ्चमस्वरी । इ क,
गुण्डयति । अनेकार्थत्वाच्चूर्णीकरणेऽपि । गुण्ड-
यति हिङ्गुलं लोकः । इति दुर्गादासः ॥

गुड, शि रक्षे । व्याघाते । इति कविकल्पद्रुमः ॥

(तुदां-(कुटां)-परं-सकं-सेट् ।) शि, गुडति
अगुडीत् । इति दुर्गादासः ॥

गुडः, पुं, (गवते अव्यक्तशब्दं करोतीति । गु ङ

शब्दे + “क्वादिभ्यः कित् ।” उणां । १ । ११४ ।
इति डः स च कित् ।) गोलः । हस्तिसन्नाहः ।
इति मेदिनी । डे । १० ॥ ग्रासः । इति हेम-
चन्द्रः ॥ कार्पासी । इति राजनिर्घण्टः ॥ इक्षु-
पाकः । इत्यमरः । ३ । ३ । ४१ । तस्य पर्य्यायः ।
इक्षुसारः २ मधुरः ३ रसपाकजः ४ खण्डजः ५
द्रवजः ६ सिद्धः ७ मोदकः ८ अमृतसारजः ९
शिशुप्रियः १० सितादिः ११ अरुणः १२ रसजः १३ ।
इति राजनिर्घण्टः ॥ इक्षुरसक्वाथः १४ गण्डोलः १५
मधुवीजकः १६ । इति वैद्यकम् ॥ गण्डोलम् १७
गुलः १८ स्वादुखण्डः १९ । इति शब्दरत्नावली ॥
स्वादुः २० । इति त्रिकाण्डशेषः ॥ अस्य गुणाः ।
वृष्यत्वम् । स्निग्धत्वम् । गुरुत्वम् । वातनाशित्वम् ।
मूत्रशोधनत्वम् । नातिपित्तहरत्वम् । मेदःकफ-
कृमिवलप्रदत्वञ्च । इति राजवल्लभः ॥ मधुरत्वम् ।
क्षारत्वम् । उष्णत्वम् । कफनाशित्वम् । पित्त-
रक्ते अहितत्वम् । जीर्णश्चैव रसायनः ॥ पुरा-
तनस्य तस्य गुणाः । पित्तपवनार्त्तित्रिदोषपाण्डु-
प्रमेहश्रमनाशित्वम् । द्रव्यान्तरसंयोगेन विशे-
षतो ज्वरनाशित्वम् । रुचिकारित्वम् । हृद्य-
त्वम् । सन्तापशान्तिप्रदत्वम् । विण्मूत्रामय-
शोधनत्वम् । अग्निजननत्वम् । स्निग्धत्वम् । स्वादु-
तरत्वम् । लघुत्वम् । पथ्यत्वञ्च । इति राज-
निर्घण्टः ॥ अधिकगुणत्वम् । रक्तप्रसन्नबल-
कारित्वम् । मधुरत्वञ्च । इति राजवल्लभः ॥
यावनालरसपाकभवगुडगुणाः । क्षारत्वम् । कटु-
त्वम् । मधुरत्वम् । कफवातनाशित्वम् । पित्त-
प्रदत्वम् । सततनिषेवणेन कण्डूतिकुष्ठजनन-
त्वम् । जनन इत्यत्र शमन इति क्वचित् पाठः ।
अस्रविदाहदायित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
“इक्षो रसो यः संपक्वो जायते लोष्टवद्दृढः ।
स गुडो गौडदेशे तु मत्स्यण्ड्येव गुडो मतः ॥
श्लेष्माणमाशु विनिहन्ति सदार्द्रकेण
पित्तं निहन्ति च तदेव हरीतकीभिः ।
शुण्ठ्या समं हरति वातमशेषमित्थं
दोषत्रयक्षयकराय नमो गुडाय ॥
इति भावप्रकाशः ॥
(“बल्यो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः ।
नातिपित्तहरो मेध्यः कफक्रिमिकरो गुडः ॥
पित्तघ्नो मधुरः शुद्धो वातहा मूत्रशोधनः ।
स पुराणोऽधिकगुणो गुल्मार्शोऽरोचकापहः ॥
क्षये कासे क्षतक्षीणे पाण्डुरोगेऽसृजि क्षये ।
हितो योगेन संयुक्तो गुडः पथ्यतमो मतः ॥
गुदामये कामलशोषमेहे
गुल्मामये पाण्डुहलीमके च ।
वाते सपित्तासृजि राजरोगे
रुचिप्रदो रोगहरो गुडः स्यात् ॥
कासे शोफे गुडो नेष्टः अन्यत्रापि हितो मतः ।
योगयुक्तोऽपि सर्व्वत्र हितो गुणगणो नयः ॥
क्षामक्षीणे पवनकुपिते श्वासमूर्च्छातुराणां
अध्वश्रान्तश्रममदविषे मूत्रकृच्छ्राश्मरीणाम् ।
जीर्णः क्षामज्वरविषमगे रक्तपित्तप्रकोपे
तृष्णादाहक्षयरुधिरगे सर्व्वरोगान्निहन्ति ॥”
इति गुडगुणाः ॥
इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ * ॥

गुडकः, पुं, (गुडेन पक्वः । गुड + बाहुलकात् कः ।

यद्वा, गुडेन कायतीति । कै + कः ।) गुडद्वारा
पक्वौषधविशेषः । अस्य पूर्णतेजः षण्मास-
पर्य्यन्तं तिष्ठति । इति परिभाषा ॥ (गुड एव ।
स्वार्थे कन् । गोलाकृतिः । यथा, महाभारते ।
३ । १५ । ८ ।
“सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा ॥”
“अश्मगुडका वर्त्तुलीकृताः पाषाणाः ।” इति
तट्टीकायां नीलकण्ठः ॥)

गुडकरी, स्त्री, (गुडं गुडवत्सुमिष्टं श्रुतिसुखकर-

मित्यर्थः करोतीति । गुड + कृ + “कृञो हेतु-
ताच्छील्यानुलोम्येषु ।” ३ । २ । २० । इति टः
स्त्रियां ङीप् ।) रागिणीविशेषः । इति हलायुधः ॥

गुडची, स्त्री, (चि + क्विप् निपातनाद्दीर्घत्वे साधुः ।

गुडवत् ची चयनं क्षरितोरसो यस्या इत्यर्थः ।
अमृतोद्भवत्वादेवास्यास्तथात्वम् ।) गुडूची ।
इत्यमरटीकायां भरतः ॥ (अस्या उत्पत्तिकथा
अन्यद्विवरणञ्च गुडूचीशब्दे द्रष्टव्यम् ॥)

गुडतृणं, क्ली, (गुडप्रधानं गुडकारणं वा तृणम् ।)

इक्षुः । इति राजनिर्घण्टः ॥

गुडत्रिणं, क्ली, (गडप्रधानं तृणम् । निपातनात्

साधु ।) गुडतृणम् । इक्षुः । इति शब्दरत्नावली ॥

गुडत्वक्, [च्] क्ली, (गुडैव मधुरा त्वगस्य ।)

स्वनामख्यातगन्धद्रव्यम् । तत्पर्य्यायः । सूत्क-
टम् २ भृङ्गम् ३ त्वक्पत्रम् ४ वराङ्गकम् ५
त्वचम् ६ चोलम् ७ त्बचापत्रम् ८ हृद्यम् ९
सुरभिवल्कलम् १० । इति शब्दरत्नावली ॥
उत्कटम् ११ चोचम् १२ । इत्यमरः ।
२ । ४ । १३४ ॥ त्वक् १३ पत्रम् १४ इति
तट्टीका ॥ अस्य गुणाः । कफशुक्रामवातनाशि-
त्वम् । मधुरत्वम् । कटुत्वञ्च । इति राजवल्लभः ॥
लघुत्वम् । उष्णत्वम् । स्वादुत्वम् । तिक्तत्वम् ।
रूक्षत्वम् । पित्तवृद्धिकारित्वम् । अरुचिकण्डु-
हृद्वस्तिवातार्शःकृमिपीनसरोगनाशित्वञ्च । इति
भावप्रकाशः ॥

गुडत्वचं, क्ली, (गुडवत् मधुरं त्वचम् ।) गुड-

त्वक् । राजभोग्यम् । इति शब्दचन्द्रिका ॥
जयित्री इति भाषा ॥

गुडदारु, क्ली, गुडप्रधानं गुडकारणं वा दारु-

तृणवृक्षः ।) इक्षुः । इति त्रिकाण्डशेषः ॥

गुडधेनुः, स्त्री, (गुडनिर्म्मिता गुडभारादिभिः कृता

धेनुः ।) गुडादिनिर्म्मिता धेनुः । यथा, --
“गुडधेनुविधानस्य यद्रूपमिह यत् फलम् ।
तदिदानीं प्रवक्ष्यामि सर्व्वपापविनाशनम् ॥
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि ।
गोमयेनानुलिप्तायां दर्भमास्तीर्य्य सर्व्वतः ॥
लवणेनाजिनं तद्वत् वत्सस्य परिकल्पयेत् ।
उदङ्मखीं कल्पयेद्धेनुमुदीच्याञ्च सवत्सकाम् ॥
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयैः ।
बहुभारेण वा कार्य्या भाराभ्यां मध्यमा स्मृता ॥
अर्द्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु ।
चतुर्थांशेन वत्सः स्यात् गृहवित्तानुसारतः ॥
धेनुवत्सौ तदां तौ तु सितसूक्ष्माम्बरावृतौ ।
शुक्तिकर्णाविक्षुपादौ शुद्धमुक्ताफलेक्षणौ ॥
सितसूत्रशिरालौ तु सितकम्बलकम्बलौ ।
ताम्रगुडकपृष्ठौ तु सितचामररोमकौ ।
विद्रुमभ्रूयुगकृतौ नवनीतस्तनान्वितौ ॥
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ।
इत्येवं रचयित्वा तु धूपदीपैः समर्च्चयेत् ॥
सर्व्वासां धेनूनामेवं विधानं ज्ञेयम् । इति पाद्मे
सृष्टिखण्डम् ॥

गुडपुष्पः, पुं, (गुड इव मधुरं पुष्पमस्य ।) मधूक-

वृक्षः । इत्यमरः । २ । ४ । २७ ॥

गुडफलः, पुं, (गुड इव मधुरं फलमस्य ।) पीलु-

वृक्षः । इत्यमरः । २ । ४ । २८ ॥

गुडबीजः, पुं, (गुडवत् मधुरं यद्वा, गुडं वर्त्तुला-

कृति वीजं यस्य ।) मसूरः । इति राज-
निर्घण्टः ॥

गुडभा, स्त्री, (गुडवत् भाति शोभते इति । भा +

कः । स्त्रियां टाप् ।) यावनालशर्करा । इति
राजनिर्घण्टः ॥

गुडमूलः, पुं, (गुडवत् सुमिष्टं मूलं यस्य ।)

अंल्पमारिषशाकम् । इति शब्दचन्द्रिका ॥

गुडलं, क्ली, (गुडं उत्पत्तिकारणत्वेन लातीति ।

ला + कः ।) गौडी मदिरा । इति शब्द-
चन्द्रिका ॥

गुडशर्करा, स्त्री, (गुडजाता शर्करा ।) शर्करा ।

तत्पर्य्यायः । पिप्यटा २ । इति त्रिकाण्डशेषः ॥
(यथा, सुश्रुते उत्तरतन्त्रे ४२ अध्याये ।
“विदारीत्रिफला भीरु शृङ्गाटी गुडशर्करा ॥”)

गुडशिग्रुः, पुं, (गुड इव रक्तवर्णः शिग्रुर्वृक्षविशेषः ।)

रक्तशोभाञ्जनः । इति शब्दचन्द्रिका ॥

गुडा, स्त्री, (गुड + स्त्रियां टाप् ।) स्नुहीवृक्षः ।

गुडिका । इति मेदिनी ॥ उशीरी । इति राज-
निर्घण्टः ॥

गुडाका, स्त्री, (गुडयति सङ्कोचयति जडीकरोति

देहेन्द्रियादीनि योऽवस्थाविशेषः स गुडः तं
आकायति प्रकाशयतीति । गुडां आलस्यं जाड्या-
वस्थां कायति वा । गुड + आ + कै + कः स्त्रियां
टाप् ।) निद्रा । इति गुडाकेशशब्दव्युत्पत्तौ श्रीधर-
पृष्ठ २/३३५
स्वामी ॥ (आलस्यम् । इति मधुसूदनसर-
स्वतिः ॥)

गुडाकेशः, पुं, (गुडाका निद्रा माया इत्यर्थस्तस्या

ईशः ।) शिवः । (गुडा निद्रा आलस्यं इन्द्रि-
याणि वा तस्या ईशः शास्ता जितनिद्रो जिते-
न्द्रियो वा ।) अर्ज्जुनः । इति जटाधरः ॥ (यथा,
गीतायाम् । १ । २४ ।
“एवमुक्तो हृषीकेशो गुडाकेशेन भारत ! ॥”)

गुडाशयः, पुं, (आशेतेऽस्मिन्निति । आशयो वास-

स्थानम् । ततो गुडस्येव मधुररसस्य आशयः ।)
आखोटवृक्षः । इति राजनिर्घण्टः ॥

गुडिका, स्त्री, (गुडा वर्त्तुलाकृतिः । स्वार्थे कन्

टापि अत इत्वम् ।) गुटिका । वृहद्वटिका ।
यथा, वैद्यकपरिभाषा ॥
“वटिका गुटिका चेति संज्ञावान्तरभेदतः ।”
(“चूर्णावलेहगुडिका कल्कानामनुपानकम् ।
वातपित्तकफोद्रेके त्रिद्व्येकपलमाहरेत् ॥
इति शार्ङ्गधरे मध्यखण्डे षष्ठेऽध्याये ॥)

गुडुची, स्त्री, (गुडची + निपातनादुत्वागमः ।)

गुडूची । इति द्विरूपकोषः ॥

गुडूची, स्त्री, लताविशेषः । गुलञ्च इति भाषा ॥

तत्पर्य्यायः । वत्सादनी २ छिन्नरुहा ३
तन्त्रिका ४ अमृता ५ जीवन्तिका ६ सोम-
वल्ली ७ विशल्या ८ मधुपर्णी ९ । इत्यमरः ॥
गुडची १० । इति भरतः ॥ कुण्डली ११ चक्र-
लक्षणा १२ । इति रत्नमाला ॥ अमृतवल्ली १३
ज्वरारिः १४ श्यामा १५ वरा १६ सुरकृता १७
मधुपर्णिका १८ छिन्नोद्भवा १९ अमृतलता २०
रसायनी २१ छिन्ना २२ सोमलतिका २३
भिषक्प्रिया २४ कुण्डलिनी २५ वयःस्था २६
नागकुमारिका २७ छद्मिका २८ चन्द्रहासा २९ ।
इति राजनिर्घण्टः ॥ अमृतवल्लरी ३० सुधा ३१
जीवन्ती ३२ सोमा ३३ चक्रलक्षणिका ३४
वयस्या ३५ मण्डली ३६ देवनिर्म्मिता ३७ ।
अस्या गुणाः । कटुत्वम् । स्वादुपाकित्वम् ।
रसायनत्वम् । संग्राहित्वम् । कषायत्वम् । उष्ण-
त्वम् । लघुत्वम् । बल्यत्वम् । अग्निदीपनत्वम् ।
दोषत्रयामतृड्दाहमेहकासपाण्डुकामलाकुष्ठ-
वातास्रज्वरकृमिवमिनाशित्वञ्च । इति भाव-
प्रकाशः ॥ गुरुत्वम् । वीर्य्यदातृत्वम् । भ्रम-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ रक्तपित्त-
नाशित्वम् । इति राजवल्लभः ॥ अस्याः पत्रस्य
गुणाः । आग्नेयत्वम् । सर्व्वज्वरहरत्वम् । लघु-
त्वम् । कषायत्वम् । कटुत्वम् । स्वादुपाकित्वम् ।
रसायनत्वम् । बलकारित्वम् । उष्णत्वम् ।
संग्राहित्वम् । त्रिदोषतृष्णादाहप्रमेहवाता-
सृक्कामलाकुष्ठपाण्डुतानाशित्वञ्च । इति भाव-
प्रकाशः ॥ घृतयुक्ताया वातनाशित्वम् । गुड-
युक्तायाः पित्तनाशित्वम् । मधुयुक्तायाः कफ-
नाशित्वम् । एरण्डतैलयुक्ताया उग्रवातास्र-
नाशित्वम् । शुण्ठीयुक्ताया आमवातनाशि-
त्वम् । इति राजवल्लभः ॥ * ॥
अस्या उत्पत्तिर्यथा, --
“अथ लङ्केश्वरो नाम्ना रावणो राक्षसाधिपः ।
रामपत्नीं बलात् सीतां जहार मदनातुरः ॥
ततस्तं बलवान् रामो रिपुं जायापहारिणम् ।
बलं वानरसैन्येन जघान रणमूर्द्धनि ॥
हते तस्मिन् सुरारातौ रावणे बलगर्व्विते ।
देवराजः सहस्राक्षः परितुष्टोऽपिं राघवे ॥
तत्र ये वानराः केचिद्राक्षसैर्निहता रणे ।
तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ॥
ततो येषु च देशेषु कपिगात्रात् परिच्युताः ।
पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ॥”
इति भावप्रकाशः ॥
(गुडूचीघृतम् । यथा, --
“गुडूचीक्वाथकल्काभ्यां सपयस्कं घृतं शृतम् ।
हन्ति वातं तथारक्तकुष्ठं जयति दुस्तरम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे वातरक्ताधिकारे ॥)

गुडेरः, पुं, (गुडति रक्षतीति गुड रक्षायाम् +

“पतिकठिकुठिगडि गुडिदंशिभ्य एरक् ।” उणां ।
१ । ५८ । इति एरक् । रक्षकः । इति व्युत्पत्ति-
लब्धोऽर्थः ।) ग्रासः । इत्युणादिकोषः ॥ गुडकः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

गुडेरकः, पुं, (गुडेर + स्वार्थे कन् ।) ग्रासः ।

इति हेमचन्द्रः । ३ । ८९ ॥

गुडोद्भवा, स्त्री, (गुडादुद्भवो यस्याः । यद्वा, उद्भव-

त्यस्मादिति उद्भवः । गुड उद्भवो उत्पत्त्याश्रयो
यस्याः ।) शर्करा । इति राजनिर्घण्टः ॥

गुण, त् क मन्त्रणे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां-परं-सकं-सेट् ।) ह्रस्वी । मूर्द्धन्योपधः ।
गुणयति । इति दुर्गादासः ॥

गुणः, पुं, (गुण्यते मन्त्र्यते मन्त्रणादिभिर्निश्चीयते

राजभिरितिशेषः । गुण मन्त्रणे + घञ् ।) षट्-
प्रकारराजनीतिविशेषः । तद्यथा । सन्धिः १
विग्रहः २ यानम् ३ आसनम् ४ द्वैधम् ५
आश्रयः ६ ॥ (यथा, मनुः । ७ । १६० ।
“सन्धिञ्च विग्रहञ्चैव यानमासनमेव च ।
द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥”
एते षड्गुणास्तु नीतिविदा राज्ञा कदा केनो-
पायेन च प्रयोक्तव्यास्तद्विवरणादिकन्तु तत्रैव ।
७ । १६१ । श्लोकमारभ्य द्रष्टव्यम् ॥) धनुरा-
कर्षणरज्जुः । छिला इति भाषा । (यथा,
रघुवंशे । ९ । ५४ ।
“अथ नभस्य इव त्रिदशायुधं
कनकपिङ्गतडि द्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे
नरवरो रवरोषितकेशरी ॥”)
तत्पर्य्यायः । मौर्व्वी २ ज्या ३ शिञ्जिनी ४
शिञ्ज्या ५ ज्यावा ६ पतञ्चिका ७ । इति शब्द-
रत्नावली ॥ जीवा ८ । इति जटाधरः ॥ रज्जुः ।
(यथाह कश्चित् ।
“गुणवन्तोऽपि सीदन्ति न गुणग्राहको यदि ।
सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जति ॥”
सूत्रम् । यथा, आर्य्यासप्तशत्याम् । ३६९ ।
“काञ्चीगुण इव पतितः स्थितैकरत्नः फणी
स्फुरति ॥”)
सत्वरजस्तमांसि । (यथा, भागवते । १ । २ । २३ ।
“सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥”)
शुक्लकृष्णरक्तपीतादिः । द्रव्याश्रितः । स तु
शौर्य्यादिःरसगन्धादिश्च । इत्यमरः । ३ । ३ । ४६ ॥
तस्य लक्षणं यथा, --
“सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥”
इति मुग्धबोधम् ॥
(अस्यार्थमाह दुर्गादासः ।
“यः सत्त्वे द्रव्ये निविशते तदेवाश्रयतीत्यर्थः ।
अपैति तस्मात् सत्त्वादपगच्छतीत्यर्थः ॥ यथा
श्यामता पूर्ब्बमाम्रादिफलमुपगच्छति पश्चात्
पक्वदशायां ततोऽपैति । पृथक् जातिषु दृश्यते
भिन्नेषु पदार्थेषु दृश्यते । यथा आम्रादिफले या
श्यामता दृष्टा सा कदलीफलादिषु च दृश्यते
स गुणः स्यादित्यर्थः । ननु तर्हि उत्क्षेपणाव-
क्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्म्मा-
णीति उक्तकर्म्मस्वपि गुणत्वापत्तिः यदा द्रव्यं
सक्रियं भवति तदा कर्म्म सत्त्वे निविशते यदा
द्रव्यं निष्क्रियं भवति तदा कर्म्म सत्त्वादपैति
पृथग्जातिषु च दृश्यते यथा मनुष्येषु गमनादि-
क्रिया दृश्यते तथा पश्वादिषु च दृश्यते अतः
कर्म्मणो गुणत्वमपाकर्त्तुमाह आधेयश्चाक्रियाज-
श्चेति । आधेय उत्पाद्यः यथा पक्वमृण्मय-
पात्रेषु रक्ततागुणः सहि वह्निसंयोगादिना
निष्पाद्यते । अक्रियाज इति । क्रियाया जायते ।
इति क्रियाजः । न क्रियाजोऽक्रियाजः नित्य
इत्यर्थः । आकाशादिषु महत्त्वादिर्गुणः । ततश्च
गुणस्य उत्पाद्यत्वमनुत्पाद्यत्वञ्च इति प्रकार-
द्वयदर्शनतया कर्म्मणो गुणत्वं न स्यादिति ज्ञापि-
तम् कर्म्मत्वं सर्व्वमेव उत्पाद्यमिति । एवञ्चेत्तर्हि
द्रव्यमपि गुणोऽस्तु तत्रापि ह्येते धर्म्मा वर्त्तन्ते ।
यथा तदपि द्रव्यमारम्भके अवयवद्रव्ये निविशते
ततोऽपैति च यथा शरीरमवयवि तद्धि मस्तका-
दिष्ववयवेषु समवेतं भवतीति तद्विनाशात् ततो-
ऽपैति । पृथग्जातिषु पश्वादिषु च दृश्यते एवं
द्रव्यस्य उत्पाद्यत्वमनुत्पाद्यत्वञ्चास्ति अवयवि
द्रव्यस्य उत्पाद्यत्वात् आकाशादेस्तु अनुत्-
पाद्यत्वादिति । अत आह असत्त्वप्रकृतिरिति ।
सत्त्वं द्रव्यं प्रकृतिःस्वभावः । सत्त्वं प्रकृतिर्यस्य स
सत्त्वप्रकृतिः । न सत्त्वप्रकृतिरसत्त्वप्रकृतिः ॥”)
विशेषाधानहेतुः सिद्धो वस्तुधर्म्मः । शुक्लादयो
हि गवादिकं स्वजातीयेभ्यः कृष्णगवादिभ्यो
व्यावर्त्तयन्तीति साहित्यदर्पणम् ॥
अपि च ।
द्रव्यत्वव्यापकतावच्छेदकसत्त्वान्यजातिमत्त्वं तदर्थः
तद्यथा । रूपम् १ रसः २ गन्धः ३ स्पर्शः ४
पृष्ठ २/३३६
संख्या ५ परिमाणम् ६ पृथक्त्वम् ७ संयोगः ८
विभागः ९ परत्वम् १० अपरत्वम् ११ बुद्धिः १२
सुखम् १३ दुःखम् १४ इच्छा १५ द्वेषः १६
यत्नः १७ गुरुत्वम् १८ द्रवत्वम् १९ स्नेहः २०
संस्कारः २१ धर्म्मः २२ अधर्म्मः २३ शब्दः २४ ।
इति भाषापरिच्छेदः ॥ (सात्त्विकनायकगुणा
यथा, साहित्यदर्पणे । ३ । ५८ ।
“शोभाविलासोमाधुर्य्यङ्गाम्भीर्य्यं ध्यैर्य्यतेजसी ।
ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषागुणाः ॥
एतेषां विशेषविवरणन्तु तत्तच्छब्दे द्रष्टव्यम् ॥)
अप्रधानम् । सूदः । इन्द्रियम् । त्यागः । वटी ।
इति मेदिनी ॥ णे । १० ॥ भीमसेनः । तन्तुः ।
दोषान्यविशेषणम् । इति हेमचन्द्रः ॥ विद्यादि ।
इति विश्वः ॥ (व्यञ्जनम् । यथा, मनुः । ३ । २२६ ।
“गुणांश्च सूपशाकाद्यान् पयोदधिघृतं मधु ।
विन्यसेत् प्रयतःसम्यक् भूमावेव समाहितः ॥”
“गुणान् व्यञ्जनानि अन्नापेक्षयाऽप्राधान्यात्
गुणयुक्तान् वा ।” इति तट्टीकायां कुल्लूकभट्टः ॥
आवृत्तिः । यथा, महाभारते ।
“आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणाः ।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥”)
व्याकरणोक्तसंज्ञाविशेषः । यथा । इङोऽरले-
ङ्णुः । अस्यार्थः । इ उ ॠ ऌ एषां स्थाने
ए ओ अर् अल् एते गुणसंज्ञा भवन्ति । इति
मुग्धबोधम् । काव्यगुणस्य लक्षणं यथा, --
ये रसस्याङ्गिनो धर्म्माः शौर्य्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥
इति काव्यप्रकाशः ॥
तस्य भेदाः ।
श्लेषः प्रसादः समता माधुर्य्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥
इति दण्डी ॥
माधुर्य्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश ॥
तस्य दशसंख्याभावे हेतुर्यथा, --
केचिदन्तर्भवन्त्येषु दोषत्यागात् परे श्रिताः ।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥
इति भरतमुनिः । स्मृत्युक्तगुणविशेषा उपवास-
शब्दे द्रष्टव्याः ॥

गुणकः, पुं, (गुणयति आवर्त्तयतीति । गुण + ण्वुल् ।)

पूरकाङ्कविशेषः । यथा, गुण्यान्त्यमङ्कं गुणकेन
हन्यात् । इति लीलावती ॥

गुणकारः, पुं, (गुणं व्यञ्जनादिकं पाकजनितगुणं

वा करोतीति । कृ + अण् । विराटनगरे छद्म-
वेशेन सूपकारित्वग्रहणात् पाकशास्त्रकत्तृ-
त्वाच्च भीमस्य तथात्वम् ।) भीमसेनः । इति
त्रिकाण्डशेषः ॥ (विराटनगरेऽस्य सूपकारित्व-
स्वीकारकथा यथा, महाभारते । ४ । २ । १--४ ।
भीम उवाच ।
“पौरोगवो ब्रुवाणोऽहं वल्लवो नाम नामतः ।
उपस्थास्यामि राजानं विराटमिति मे मतिः ॥
सूपानस्य कारिष्यामि कुशलोऽस्मि महानसे ।
कृतप्रर्व्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ॥
तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ।
आहरिष्यामि दारूणां निचयान्महतोऽपि च ॥
तत्प्रेक्ष्य विपुलं कर्म्म राजा प्रीतो भविष्यति ।
अमानुषाणि कुर्व्वाणं तानि कर्म्माणि भारत ! ॥
राज्ञस्तस्य परिप्रेष्या मंस्यन्ते मां यथा नृपम् ।
भक्ष्यान्नरसपानानां भविष्यामि तथेश्वरः ॥”)
पाचके गुणकारके च त्रि ।

गुणज्ञः, त्रि, (गुणं जानातीति । गुण + ज्ञा + कः ।)

गुणवेत्ता । यथा, --
गुणिनि गुणज्ञो रमते नागुण-
शीलस्य गुणिनि परितोषः ।
अलिरेति वनात् कमलं
न हि भेकस्त्वेकवासोऽपि ॥
इत्युद्भटः ॥

गुणनिका, स्त्री, (गुणयति पुनःपुनराम्रे डयतीति ।

गुणत् क आम्रेडने + “ण्यासश्रन्थो युच् ।”
३ । ३ । १०७ । इति युच् । संज्ञायां कन् कापि अत
इत्वञ्च ।) नृत्यम् । शून्याङ्कम् । पाठनिश्चयः ।
इति मेदिनी ॥ के १८५ । (शास्त्रादीनां पुनः
पुनरनुशीलनम् । यथा, माधे । २ । ७५ ।
“हेतुःपरिचयस्थैर्य्ये वक्तुर्गुणनिकैव सा ॥”
माला । इत्यानन्दलहरीटीका ॥ (यथा, आनन्द-
लहर्य्यां । ३ ।
“दरिद्राणां चिन्तामणिगुणनिका जन्मजलघौ
निमग्नानां द्रंष्ट्रा मुररिपुवराहस्य भवती ॥”)

गुणनी, स्त्री, (गण्यते पुनःपुनरनुशील्यतेऽनया ।

गुण + ल्युट् + ङीप् ।) पाठनिश्चयः । तत्-
पर्य्यायः । भविनी २ शीलनम् ३ । इति त्रिकाण्ड-
शेषः ॥

गुणनीयः, पुं, (गुण्यते पुनःपुनरनुशील्यतेऽनेन

इति । गुण आम्रेडने + करणे अनीयर् ।)
शास्त्राद्यभ्यासः । इति हारावली । १५० ।
(कर्म्मणि अनीयर् । गुणितव्ये त्रि ॥)

गुणभ्रंशः, पुं, (गुणस्य भ्रं शोविनाशः ।) गुणनाशः ।

तत्पर्य्यायः पर्य्यन्तिका २ । इति हारावली ॥
२१० ॥

गुणलयनिका, स्त्री, (गुणा गुणनिर्म्मिताः पटाः

लीयन्तेऽस्याम् । गुण + ली + अधिकरणे +
ल्युट् । स्त्रियां ङीप् कन् टापि पूर्ब्बह्रस्वश्च ।)
वस्त्रनिर्म्मितगृहम् । तत्पर्य्यायः केणिका २ पट-
कुटी ३ । इति हेमचन्द्रः । ३ । ३४६ ॥

गुणलयनी, स्त्री, (गुणा गुणमयपटाः लीयन्ते यत्र ।

ली + ल्युट् + ङीप् ।) गुणलयनिका । इति
हलायुधः ॥

गुणवान्, [त्] पुं, त्रि, (गुणोविद्यतेऽस्य । गुण +

मतुप् मस्य वत्वम् ।) सम्बन्धी । इति त्रिकाण्ड-
शेषः ॥ गुणविशिष्टः । यथा, “दाता दयालु-
र्गुणवान्नरः स्यात् गरे परेषामुपकारकर्त्ता ।
इति कोष्ठीप्रदीपः ॥ (पुं, यदुवंशीय सुनाभस्य
दौहित्रः । यथा, हरिवंशे । १५५ ।
“गुणवत्यपि पुत्रञ्च गुणवन्तमजीजनत् ॥”
स्त्रियां ङीप् । तस्य सुनाभस्य दुहिता । यथा,
तत्रैव । १५३ ।
“वज्रनाभस्य तनयः सुनाभो नाम विश्रुतः ।
दुहितृद्वयञ्च नृपते ! तस्य रूपगुणान्वितम् ।
एकचन्द्रवती नाम्ना गुणवत्यथ चापरा ॥”
गायत्त्रीरूपा महादेवी । यथा, देवीभागवते ।
१२ । ६ । १२ ।
“गुहावासा गुणवती गुरुपापप्रणाशिनी ॥”
गङ्गा । यथा, काशीखण्डे । २९ । ५३ ।
“गूढरूपा गुणवती गुर्व्वी गौरववर्द्धिनी ॥”
अप्सरोविशेषः । यथा, तत्रैव ९ अध्याये ।
“अलम्बुषा गुणवती स्थूलकेशी कलावती ॥”

गुणवृक्षकः, पुं, (गुणानां तरणीस्थरज्जूनां वृक्ष

इव । ततः स्वार्थे कन् ।) नौकागुणबन्धनस्तम्भः ।
मास्तुल इति भाषा । तत्पर्य्यायः । कूपकः २ ।
इत्यमरः । १ । १० । १२ ।

गुणसागरः, पुं, (गुणानां सागर इव आधार-

स्थानम् ।) ब्रह्मा । इति शब्दरत्नावली ॥ बुद्धि-
विशेषः । इति त्रिकाण्डशेषः ॥ सकलगुणा-
धारश्च ॥

गुणा, स्त्री, (गुणाः सूक्ष्मतन्तवः सन्त्यस्याः । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।
स्त्रियां टाप् ।) दूर्व्वा । मांसरोहिणी । इति
राजनिर्घण्टः ॥

गुणाकरः, पुं, (गुणानामाकर इव । गुणबाहुल्या-

त्तथात्वम् ।) बुद्धः । इति शब्दरत्नावली ॥
(महादेवः । यथा, महाभारते । १३ । १७ । ४७ ।
“गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥”)
गुणयुक्ते त्रि । यथा, --
“तपस्यभिरतस्याथ तस्य पुत्त्रो गुणाकरः ।
सत्यवान् नांम देवर्षे ! मनसा सम्बृतो मया ॥”
इति वनपर्व्वणि सावित्रीव्रतकथा ॥

गुणितः, त्रि, (गुण्यते स्म । गुण आम्रेडने + क्त ।)

पूरितः । तत्पर्य्यायः । आहतः २ । इत्यमरः ।
३ । १ । ८८ ॥ यथा । पञ्चधा गुणिता द्वादश-
संख्या षष्टिर्भवतीत्यादि इति भरतः ॥ (गुणो-
ऽस्य जातः । तारकादिभ्य इतच् ।) पिण्डितः ।
इति शब्दरत्नावली ॥

गुणी, [न्] पुं, (गुणो ज्या विद्यतेऽस्य । गुण +

इनिः ।) धनुः । इति त्रिकाण्डशेषः ॥ (गुणास्ते
तु दाक्षिण्यादयो विद्यन्तेऽस्येति ।) गुणविशिष्टे
त्रि । यथा । गुणिगणगणनारम्भे न पतति
कठिनी ससम्भ्रमाद्यस्य । तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी नाम ॥ इति हितोपदेशः ॥

गुणीभूतः, त्रि, (अगुणो गुणोभूतः । गुण + भू +

क्तः । अभूत तद्भावे च्वि ।) अप्रघानीभूतः ।
यथा । कृतपूर्व्वीकटमित्यत्र समासनिविष्टत्वाद्-
गुणीभूताद्विशेषबोधिका द्वितीया नोक्ता । इति
सुसेनकविराजः ॥ (तथाच महाभारते । २ ।
१५ । ११ ।
“सर्व्वैरपि गुणैर्युक्तो निर्व्वीर्य्यः किं करिष्यति ।
गुणीभूता गुणाः सर्व्वे तिष्ठन्ति हि पराक्रमे ॥”)
पृष्ठ २/३३७

गुणीभूतव्यङ्ग्यः, पुं, (गुणीभूतमप्रधानीभूतं व्यङ्ग्यं

व्यञ्जना शक्तिर्यत्र ।) काव्यविशेषः । यथा, --
“अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् ॥ *
तस्याष्टौ भेदाः यथा ।
“अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ।
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदा मताः ॥ * ॥
अगूढं यथा ।
स्फुटतया वाच्यायमानमिति अपराङ्गम् । यथा
अपरस्य रसादेर्वाच्यस्य वा वाक्यार्थीभूतस्य
अङ्गं रसादि अनुरणनरूपं वा ॥ * ॥
वाच्यसिद्ध्यङ्गं यथा ।
आपाततः प्रतीतस्य वाच्यार्थस्य प्रतिसन्धीय-
मानानुपपत्तिनिरासकं व्यङ्ग्यम् ॥ * ॥
अस्फुटं यथा ।
विदग्धैरपि क्लेशगम्यं सन्दिग्धप्राधान्यं यथा
प्राधान्यमत्र रसादिव्यञ्जकत्वेन तथा च प्रती-
तस्य रसादेर्व्यञ्जकं किं वाच्यं किंवा व्यङ्ग्यमितौ-
त्तरकालिकसन्देहविषयत्वं तत्त्वम् ॥ * ॥
तुल्यप्राधान्यं यथा ।
अत्रापि रसादिव्यञ्जकत्वेनैव प्राधान्यं व्यङ्ग्यस्य
निश्चितत्वेन तेन तेन वाच्येन तुल्यार्थो बोध्यः ॥ *
काक्राक्षिप्तं यथा ।
आक्षिप्तमत्र प्रागेव पदार्थविधया उपस्थानम् ॥ *
असुन्दरं यथा ।
“रसादिव्यञ्जने वाच्यमुखनिरीक्षकं व्यङ्ग्यम् ।”
इति काव्यप्रकाशः ॥
(इत्यत्र साहित्यदर्पणकारेण काव्यभेदमाश्रित्य
यदुक्तं तद्यथा । ४ । १ ।
“काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यञ्चेति द्बिधा मतम् ।
वाच्यातिशयिनि व्यङ्गे ध्वनिस्तत् काव्यमुत्तमम् ॥”
तत्रैव च । ४ । १६ ।
“अपरन्तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये ।
“अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च
सम्भवति ॥” ततस्तत्र स्यादितराङ्गं काक्वाक्षिप्त-
ञ्चेत्याद्यष्टौ भेदानुक्त्वा इतरस्य रसादेरङ्गं रसादि-
व्यङ्ग्यं यथेत्यभिधाय क्रमश इतराङ्गादेरुदाहर-
णानि प्रदर्शितानि । यथा, --
“अयं स रसनोत्कर्षी पीनस्तनविमर्द्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥
अत्र शृङ्गारः करुणस्याङ्गम् ।
“मानोन्नतां प्रणयिनीमनुनेतुकाम-
स्त्वत्सैन्यसागररवोद्गतकर्णतापः ।
हा ! हा ! कथं नु भवतो रिपुराजधानी-
प्रासादसन्ततिषु तिष्ठति कामिलोकः ॥
अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राज-
विषयरतावङ्गभावः ।
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृता लङ्काभर्त्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥”
अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव
रामत्वमवगम्यते । वचनेन तु सादृश्यहेतुक-
तादात्म्यारोपणमाविष्कुर्व्वता तद्गोपनमपा-
कृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोप-
पादकतयाऽङ्गतां नीतम् । काक्वाक्षिप्तं यथा, --
मथ्नामि कौरवशतं समरे न कोपात्
दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ॥
अत्र ‘मथ्नाम्येवेत्यादि’ व्यङ्ग्यं वाच्यस्य निषेधस्य
सह भावेनैव स्थितम् ।
दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्व्वतः ।
प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः ॥
अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्ग्यः । प्रता-
पस्य दवानलत्वारोपसिद्ध्यङ्गम् । ‘हरस्तु किञ्चित्
परिवृत्त्येत्यादौ’ विलोचनव्यापारचुम्बनाभि-
लाषयोः प्राधान्ये सन्देहः ।
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्म्मनायते ॥
अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति
व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।
सन्धौ सर्व्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अल्लापदीननृपतौ न सन्धिर्न च विग्रहः ॥
अत्र अल्लापदीनाख्ये नृपतौ दानसामादिमन्तरेण
नान्यः प्रशमोपायः व्यङ्ग्यं व्युत्पन्नानामपिझटित्य-
स्फुटम् ।
अनेन लोकगुरुणा सतां धर्म्मोपदेशिना ।
अहं व्रतवती स्वैरमुक्तेन किमतः परम् ॥
अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्य्यक् योषिति
बलात्कारोपभोगः स्फुटतया वाच्यायमान इत्य-
गूढम् ।
वाणीरकुडुङ्गुड्डीणसौणिकोलाहलं
सुणन्तीए ।
घरकम्मबाब्बाडाए बहूए सीअन्ति अङ्गाइं ॥”
अत्र दत्तसङ्केतः कश्चिल्लतागृहं प्रविष्टः इति
व्यङ्ग्यात् ‘सीदन्त्यङ्गानि’ इति वाच्यस्य चमत्-
कारः सहृदयसंवेद्य इत्यसुन्दरं किञ्च यो
दीपकतुल्ययोगितादिषु उपमाद्यलङ्कारो व्यङ्ग्यः
स गुणीभूतव्यङ्ग्य एव । काव्यस्य दीपकादि-
मुखेनैव चमत्कारविधायित्वात् । तदुक्तं ध्वनि-
कृता ।
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः ॥
यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य
विपर्य्यासः । यथा, --
दृष्ट्या केशवगोपरागहृतया किञ्चिन्न दृष्टं मया
तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम
नालम्बसे ?
एकस्त्वं विषमेषु खिन्नमनसां सर्व्वाबलानां गति-
र्गोप्यैवं गदितःसलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥”
अत्र गोपरागादिशब्दानां गोपे राग इत्यादि-
व्यङ्ग्यार्थानां ‘सलेशमिति’ पदेन स्फुटतयाव-
भासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव ।
किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसा-
भ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्य-
व्यवहारः । तदुक्तं तेनैव ।
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्य्यालोचनया पुनरिति ॥
यत्र च ।
यत्रोन्मादानां प्रमदाजनाना-
मभ्रंलिहः शोणमणीमयूखैः ।
सन्ध्याम्रमं प्राप्नुवता मकाण्डे-
ऽप्यनङ्गनेपथ्यविधिं व्यधत्त ॥
इत्यादौ रसादीनां नगरीवृत्तादि वस्तुमात्रे-
ऽङ्गत्वम् । तत्र तेषामतात्पर्य्यविषयत्वेऽपि तैरे
गुणीभूतैः काव्यव्यहारः । तदुक्तमस्मत्सगोत्र-
कविपण्डितमुख्यश्रीचण्डिदासपादैः । काव्यार्थ-
स्याखण्डबुद्धिवेद्यस्य तन्मयीभावेनास्वाददशायां
गुणप्रधानभावावभासस्तावन्नानुभूयते काला-
न्तरे तु प्रकरणादिपर्य्यालोच्नया भवन्नप्यस्रौ न
काव्यव्यपदेशं व्याहन्तुमीशस्तस्यास्वादमात्रा
यत्तत्वादिति ॥”)

गुणेश्वरः, पुं (गुणैर्हेतुभिरीश्वरःश्रेष्ठः पूज्य इत्यथः ।

विविधगुणशालिद्रव्यजातोत्पादकतयास्य तथा-
त्वम् ।) चित्रकूटपर्व्वतः । इति शब्दरत्नावली ॥
गुणपतौ त्रि ॥ (गुणानां नानाविधपुरुषोपयोगि-
गुणानां ईश्वरः प्रभुः स्वामी वा शान्तदान्तादि
गुणशाली पुरुष इत्यर्थः । गुणानां सत्त्वरजस्तमसां
त्रयाणां मायागुणानामिति यावत् ईश्वरः
नियन्ता । परमेश्वरः ॥)

गुणोत्कर्षः, पुं, (गुणानां उत्कषः उत्कर्षणं

प्राधान्यमित्यर्थः ।) गुणप्राधान्यम् । (यथा, गोः
रामायणे । १ । २५ । १९ ।
“स्वभावजैर्गुणैर्दिव्यैः कामजैर्बहुलैर्वृतः ।
भूयस्तव गुणोत्कर्षमेते विद्ये करिष्यतः ॥”)
अतिशयः । तत्पर्य्यायः । परभागः २ । इति
हेमचन्द्रः । ६ । ११ ॥

गुणोत्कीर्त्तनं, क्ली, (गुणानां उत्कीर्त्तनं कथ-

नम् ।) यद्वा गुणैर्गणसूचकवाक्यैरुत्कीर्त्तनम् ।
गुणकथनम् । विरहकालीनकान्ताविषयक-
प्रशंसाप्रतिपादनम् । इति रसमञ्जरी ॥ कान्ता-
पदमत्रोपलक्षणम् ॥

गुण्ठितः, त्रि, (गुठि वेष्टने + कर्म्मणिक्तः ।) गुण्डितः ।

इत्यमरटीकायां रमानाथः ॥ आवृतः ।
रूषितः । धूल्यादिभिर्घूसरित इत्यर्थः ।
यथा, गोः रामायणे । ६ । ८२ । ८ ।
“तन्न युद्धेन मे कार्य्यं न प्राणैर्नापि सीतया ।
लक्षणं निहतं दृष्ट्वा भ्रातरं पांशुगुण्ठितम् ॥”)

गुण्डः, पुं, (गुडि वेष्टने + अच् ।) तृणभेदः । यस्य

कन्दः कशेरु । तत्पर्य्यायः । काण्डगुण्डः २
दीर्घकाण्डः ३ त्रिकोणकः ४ छत्रगुच्छः ५ असि-
पत्रः ६ नीलपत्रः ७ त्रिधारकः ८ । अस्य गुणाः ।
मधुरत्वम् । शीतत्वम् । कफपित्तातिसारदाह-
रक्तनाशित्वम् । अस्य मध्ये स्थलतरोऽधिकगणः ।
इति राजनिर्घण्टः ॥